राजतरङ्गिणी ।
॥प्रथमस्तरङ्गः ॥

ओं स्वस्ति ॥ श्रीगणेशाय नमः ॥
भूषाभोगिफ1णारत्नरोचिःसिचय2चारवे । KRT_1_0001ab
नमः प्रलीनमुक्ताय हर3कल्पमहीरुहे ॥ KRT_1_0001cd
भालं वह्निशिखाङ्कितं1 दधद2धिश्रोत्रं वहन्संभृतक्रीडत्कुण्डलिजृ3म्भितं जलधिज4च्छायाच्छकण्टच्छविः । KRT_1_0002ab
वक्षो बिभ्रदहीनकञ्चुक5चितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणोस्तु यशसे वामोथ वा दक्षिणः ॥ KRT_1_0002cd
वन्द्यः कोपि सुधास्यन्दास्कन्दी स सुकवेर्गुणः । KRT_1_0003ab
येनाया1ति यशःकायः स्थैर्यं स्व्सय परस्य च ॥ KRT_1_0003cd
कोन्यः कालमतिक्रान्तं नेतुं प्रत्यक्षतां क्षमः । KRT_1_0004ab
कविप्रजाप1तींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ KRT_1_0004cd
न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि । KRT_1_0005ab
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ KRT_1_0005cd
कथादैर्घ्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते । KRT_1_0006ab
तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ KRT_1_0006cd
श्लाघ्यः स एव गुणवान्नागद्वेषवहिष्कृता । KRT_1_0007ab
भूतार्थकथने यस्य स्थेयस्ये1व सरस्वती ॥ KRT_1_0007cd
पूर्वैर्बद्धं कथावस्तु मयि भूयो निबध्नामि । KRT_1_0008ab
प्रयोजनमाकर्ण्य वैमुख्यं नोचितं सताम् ॥ KRT_1_0008cd
दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् । KRT_1_0009ab
अर्वाक्कालभवैर्वार्ता यत्प्रबन्धेषु पूर्यते ॥ KRT_1_0009cd
दाक्ष्यं कियदिदं तस्मादस्मिन्भूतार्थवर्णने । KRT_1_0010ab
सर्वप्रकारं स्खलिते योजनाय ममोद्यमः ॥ युगलकम् ॥ KRT_1_0010cd
विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै संक्षिपतो वचः । KRT_1_0011ab
सुव्रतस्य प्रबन्धेन छिन्ना राजकथाश्रयाः ॥ KRT_1_0011cd
या प्रथामगमन्नैति सापि वाच्यप्रकाशने । KRT_1_0012ab
पाटवं दुष्टवैदुष्यतीव्रा सुव्रतभारती ॥ KRT_1_0012cd
केनाप्यनवधानेन कविकर्माणि सत्यपि । KRT_1_0013ab
अंशोपि नास्ति निर्दोषः क्षेमेन्द्रास्य नृपावलौ ॥ KRT_1_0013cd
दृग्गोचरं पूर्वसूरिग्रन्था राजकथाश्रयाः । KRT_1_0014ab
मम त्वेकादश गता मतं नीलमुनेरपि ॥ KRT_1_0014cd
दृष्टैश्च पूर्वभूभर्तृप्रतिष्ठावस्तुशासनैः । KRT_1_0015ab
प्रशस्तिपट्टैः शास्त्रैश्च शान्तोशेषभ्रमक्लमः ॥ KRT_1_0015cd
द्वापञ्चाशतमाम्नायभ्रंशाद्यान्नास्मरन्नृ1पान् । KRT_1_0016ab
तेभ्यो नीलमताद्दृष्टं गोनन्दादिचतुष्टयम् ॥ KRT_1_0016cd
बद्धा द्वादशभिर्ग्रन्थसहस्रैः पार्थिवावलिः1 KRT_1_0017ab
प्राङ्महाव्रतिना येन2 हेलाराज3द्विजन्मना ॥ KRT_1_0017cd

1.

--1) The akshara गिफ written at the end of the first line in A1 have been destroyed in binding; G and Edd. read as above; R भूषाहीनफणा॰, afterwards corrected as above.

--2) A2 gloss च स्र.

--3) हर being effaced at the end of the second line, has been supplemented by A4.

2.

--1) A4 gloss अग्निज्वाला कुङ्कुमं च.

--2) These three aksharas being faintly visible in the handwriting of A1 have been repeated by A4.

--3) A4 gloss सर्पः कुण्डलं च.

--4) A3 gloss विषं; A4 gloss विषं शङ्खश्च.

--5) A1 कञ्चुकि॰; smeared over.

3.

--1) Thus corrected by A1 or later hand from येन; G and R येना॰.

<4>.

--1) The aksharas जाप effaced in A.

7.

--1) A3 gloss दृढा.

16.

--1) A2 gloss कवयः.

17.

--1) Thus corrected by A2 from A1 ॰स्रैर्या नृपावलिः; पार्थिवावलिः also in G R.

--2) To this word, marrked by brackets in A, seems to refer a much effaced gloss or varia lectio written by A2 or A3 in the margin, looking like कङ्का(?).

--3) The akshara ला written at the beginning of a line has become unrcadable; हेलाराजद्वि repeated in margin by A4.

[page 1]




तन्मतं पूर्व1मिह दृष्ट्वाश्कादिपूर्वगान्2 KRT_1_0018ab
अष्टौ लवादीन्नृपतीन्स्वस्मिन्ग्रन्थे न्यदरशयत् ॥ युगलकम्॥ KRT_1_0018cd
येप्यशोकाददयः पञ्च श्रीच्छ1विल्लाकरो ब्रवीत् । KRT_1_0019ab
तान्द्वापञ्चाशतो मध्याच्छ्लोकस्तस्य तथा ह्ययम् ॥ KRT_1_0019cd
आश्लोकाद2भिमन्योर्ये प्रोक्ताः पञ्च महीभुजः । KRT_1_0020ab
ते द्वापञ्चाशतौ3 मध्यादेव लब्धाः पुरातनैः ॥ KRT_1_0020cd
इयं नृपाणामुल्लासे ह्रासे वा देशकालयोः । KRT_1_0021ab
भैषज्यभूतसंवादिकथा युक्तोपयुज्यते ॥ KRT_1_0021cd
संक्रान्तप्राक्तनानन्तव्यवहारः सु1चेतसः । KRT_1_0022ab
कस्येदृशो न संदर्भि यदि वा हृदयंगमः ॥ KRT_1_0022cd
क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते । KRT_1_0023ab
मूर्धाभिषेकः शान्तस्य रसस्यात्र विचार्यताम् ॥ KRT_1_0023cd
तदमन्दरसस्यन्दसुन्दरेयं निपीयताम् । KRT_1_0024ab
श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ KRT_1_0024cd
पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत् । KRT_1_0025ab
कुक्षौ हिमाद्रेरणोभिः पूर्णा मन्वन्तराणि षट् ॥ KRT_1_0025cd
अथ वैवस्वतीयेस्मिन्प्राप्ते मन्वन्तरे सुरान् । KRT_1_0026ab
द्रुहिणोपेन्द्ररुदादीनवतार्य प्रजासृजा ॥ KRT_1_0026cd
कश्यपेन तदन्तःस्थं घातयित्वा जलोद्भवम् । KRT_1_0027ab
निर्ममे तत्सरो भूमौ कश्मीरा इति मण्डलम् ॥ युगलकम् ॥ KRT_1_0027cd
उद्दद्वैतस्तनिःष्यन्त1दण्डकुण्डातपत्रिणा । KRT_1_0028ab
यत्सर्वनागाधीशेन नीलेन2 परिपाल्यते ॥ KRT_1_0028cd
गुहोन्मुखी नागमुखापीतभूतिपया रुचिम् । KRT_1_0029ab
गौरी यत्र वितस्तात्वं याताप्युज्झति नोचिताम्1 KRT_1_0029cd
शङ्खपद्ममुखैर्नागैर्नानारत्नावभासिभिः । KRT_1_0030ab
नगरं धनदस्येव निधिभिर्यन्निषेव्यते ॥ KRT_1_0030cd
यत्तार्क्ष्यभीत्या प्राप्तानां नागानां गुप्तये ध्रुवम् । KRT_1_0031ab
प्रसारितभुजं पृष्ठे शैलप्राकारलीलया ॥ KRT_1_0031cd
भुक्तिमुक्तिफलप्राप्तिः काष्ठ1रूपमुमापतिम् । KRT_1_0032ab
पापसूदनतीर्थान्तर्यत्र संस्पृशतां भवेत् ॥ KRT_1_0032cd
संध्यादेवी1 जलं यस्मिन्धत्ते2 निःसलिले गिरौ3 KRT_1_0033ab
दर्शनं पुण्यपापानामन्वयव्यतिरेकयोः ॥ KRT_1_0033cd
स्वयंभू1र्यत्र हुतभुग्भु2वो गर्भात्समुन्मिषन् । KRT_1_0034ab
जह्नतां प्रतिगृह्णाति ज्वालाभुजवनैर्हविः ॥ KRT_1_0034cd
देवी भेडगिरे1ः शृङ्गे गङ्गोद्भेदशुचौ स्वयम् । KRT_1_0035ab
सरोन्तर्दृश्यते यत्र हंसरूपा2 सरस्वती ॥ KRT_1_0035cd
नन्दिक्षेत्रे1 हरावासप्रासादे द्युचरार्पिताः । KRT_1_0036ab
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनबिन्दवः ॥ KRT_1_0036cd
आलोक्य शारदां1 देवीं यत्र संप्राप्यते क्षणात् । KRT_1_0037ab
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ KRT_1_0037cd

18.

--1) पूर्व of A1 has been struck out and पद्म written above by A2; पद्म also in G R,

--2) Thus A1: some of the letters having become faint, A4(?) has written in margin पूर्वजान्; A4 adds the gloss अशोकादीनां पूर्वजान्.

19.

--1) च्छ corrected by A1; original reading, smeared over, perhaps .

20.

--1) A3 marginal gloss अभिमन्योः सकाशात् अशोकात् आ अशोकमभिव्याप्य ये पञ्च राजानः उक्ताः.

--2) Thus A; G R. Edd. read ॰शतो.

22.

--1) सु of A1 corrected by a later hand into ; G R read सु.

28.

--1) ॰निष्यन्द॰.

--2) A2 gloss in margin M विरीविषयस्थितेन नीलनागेन विरीनाग इति प्रसिद्धेन; A4 interlinear gloss विरनागस्थितेन.

29.

--1) The following gloss has been written in margin by A2 in red ink and partly retraced by the same hand in black ink. Words shown in brackets, having now become illegible in A3 have been restored from copy in R: गुनोह्मुखी कु[मारसम्मुखी कन्दराभि]मुखी च नागमुखापीतभूरिपयाः [नागमुखेन गजवदनेन आपीतं भूरि]पयः दुग्धं यस्याः सा । नागानां मुखेन आपीतं भूरि पयो यस्याः यया वा गौरी पार्वती वित[स्तात्वं] यातापि उचितां रुचिम् इच्छां नोज्झति न त्यजति स्वरु[चिं से॰ ॰]दिकां नात्य[जदि]त्यर्थः गौरीत्वोचितां रुचिं गुहोन्मु[खीत्या]दिकां चित[स्तात्वे]पि न त्यजति त[त्रा]पि तत्करण ॰ ॰ ॰ ॰.

32.

--1) A2 adds between the lines the gloss कपटेश्वरे and in margin कैदिहिरग्रामे कोटहाडाख्यविषये.

33.

--1) A2 gloss भृङ्गानामविषये देवलग्रामसमीपस्थले.

--2) Thus A1; corrected by A1 into दत्ते which has been copied in G and R.

--3) A2 gloss (smeared over) नीलगिर् इति प्रसिद्धे.

34.

--1) A2 gloss क्रमरा[ज्ये] स्वैम् इति प्रसिद्धः; प्रसिद्धा.

--2) A2 gloss हंसवागीश्वरी.

36.

--1) A2 gloss नरनामग्रामे.

37.

--1) A2 marginal gloss श्रीशैले हरेल् इति प्रसिद्धे स्थाने दरदेशाभ्यर्णवर्तिनि.

[page 2]




चक्रभृद्विजयेशा1दिकेशवेशानभूषिते । KRT_1_0038ab
तिलांशोपि न यत्रास्ति पृथ्व्यास्तीर्थैर्वहिष्कृतः ॥ KRT_1_0038cd
विजीयते पुण्य1बलैर्बलैर्यत्तु न शस्त्रिणाम् । KRT_1_0039ab
परलोकात्ततो भीतिर्यस्मिन्निवसतां परम् ॥ KRT_1_0039cd
सोष्मस्नानगृहाः शीते स्वस्थ1तीरास्पदा रये । KRT_1_0040ab
यादोविरहिता यत्र निम्नगा निरुपद्रवाः ॥ KRT_1_0040cd
असन्तापार्हतां1 जानन्यत्र पित्रा2 विनिर्मिते । KRT_1_0041ab
गौरवादिव तिग्मांशुर्धत्ते ग्रीष्मेप्यतीव्रताम् ॥ KRT_1_0041cd
विद्यावेश्मानि तुङ्गानि कुङ्कुमं सहिमं पयः । KRT_1_0042ab
द्राक्षेति1 यत्र सामान्यमस्ति त्रिदिवदुर्लभम् ॥ KRT_1_0042cd
त्रिलोक्यां रत्नभूः1 श्लाघ्या तस्यां धनपतेर्हरित् । KRT_1_0043ab
तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥ KRT_1_0043cd
तत्र कौरवकौन्तेयसमकालभवान्कलौ । KRT_1_0044ab
आ गोनन्दा1त्स्मरन्ति स्म न द्वापञ्चाशतं नृपान् ॥ KRT_1_0044cd
तस्मिन्काले ध्रुवं तेषां कुकृतै1ः काश्यपीभुजाम्2 KRT_1_0045ab
कर्तारः कीर्तिकायस्य नाभूवन्कविवेधसः ॥ KRT_1_0045cd
भुजवन1तरुच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया । KRT_1_0046ab
स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ KRT_1_0046cd
येप्यासान्निभकुम्भशायितपदा1 येपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । KRT_1_0047ab
तांल्लोकोयमवैति लोकतिलकान्स्वप्ने2प्यजातानिव भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विवा ॥ KRT_1_0047cd
1ष्टषष्ट्यधिकामब्दशतद्वाविंशतिं नृपाः । KRT_1_0048ab
अपीपलंस्ते कश्मीरान्गोनन्दाद्या2ः कलौ युगे ॥ KRT_1_0048cd
भारतं1 द्वापरान्तेभूद्वार्तयेति विमोदिताः । KRT_1_0049ab
केचिदेतां2 मृषा तेषां कालसंख्यां प्रचक्रिरे ॥ युग्मम्॥ KRT_1_0049cd
लब्धाधिपत्यसंख्यानां वर्षान्संख्याय भूभुजाम् । KRT_1_0050ab
भुक्तात्कालात्कलेः शेषो नास्त्येवं तद्विवर्जितान् ॥ KRT_1_0050cd
शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले । KRT_1_0051ab
कलेर्गतेषु वर्षाणामभून्कुरुपाण्डवाः ॥ KRT_1_0051cd
लौकिकेब्दे चतुर्विंशे शककालस्य सांप्रतम्1 KRT_1_0052ab
सप्तत्यभ्यधिकं यातं सहस्रं परिवत्सराः ॥ KRT_1_0052cd
प्रायस्तृतीयगोनन्दादारभ्य शरदां तदा1 KRT_1_0053ab
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ KRT_1_0053cd
वर्षाणाम् द्वादशशती षष्टिः षड्भिश्च संयुता । KRT_1_0054ab
भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥ KRT_1_0054cd
ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु । KRT_1_0055ab
तच्चारे1 संहिताकारैरेवं दत्तात्र निर्णयः । KRT_1_0055cd

38.

--1) A2 gloss चक्रभृत् केशवः चक्रधर् इति प्रसिद्धः विजयेशः ईशानः विज्यभ्राडो इति प्रसिद्धः.

39.

--1) Thus corrected by A3 from A1 मुख्य॰; G and R read पुण्य॰, the letter with the v. l. मोक्ष॰.

40.

--1) Thus emended in G; A R सुस्थ॰.

41.

--1) A1 असन्तापहतां; corrected in margin by A2 as above.

--2) A2 gloss कश्यपेन.

42.

--1) A3 adds a gloss in margin which has partially become effaced; words in brackets supplemented from copy in R: [विद्या]दिकं द्रा[क्ष्यापर्य]न्तं इत्येत[द्र्व्यजातं त्रिदिवेपि] दुर्लभं [स]त् यत्र कश्मरीमण्डले सामान्यं साधारणमस्ति सर्वजनोपभोग्यं सुलभमिति यावत् विद्यादिकं अनुपमं अत्युत्कृष्टं यत्रैवास्ति त्रिदिवेपि दुर्लभत्वा[द]न्यत्र साधारणं नास्तीति व्याख्याकरणेन । यत्रासामान्यमिति पाठान्तरं यद्यपि सङ्गच्छत इव तथापि नैतत्समीचीनम् । छन्दोभङ्गापातात् अनुष्टुभि हि सर्वपादेषु पञ्चमा[क्षरस्य] लघुतयैव सर्वत्र दर्शनात् । यदुक्तं पञ्च[मं लघु सर्वत्र इत्यादि].

43.

--1) G has the reading भूः in margin.

44.

--1) A1 had आनन्दात्; गो supplemented by A3; A2 adds a gloss in margin which has become partially effaced (words in brackets from R): आ गोनन्दात् तृतीयगोनन्दात् आ तृतीय[गो]नन्दं व[र्ज]यित्वा आदिगोनन्दमा[र]भ्य [अन्ये क]वयो न स्मर[न्ति स्म अस्माभि॰ ॰ ॰ ॰ ॰].

45.

--1) Thus A1; corrected by a later band into कुकृत्यैः which reading is found also into G and R.

--2) A3 gloss राज्ञां.

46.

--1) A has भुजतरुवन. with figures indicating transposition, written by an old hand; G and R read as above.

47.

--1) A1 writes शरा above पदा; शरा smeared over by later hand.

--2) A3 in margin सर्वेप्य॰; R सर्वो by another hand.

48.

--1) A4 gloss अन्यमतं युग्मेनाह.

--2) A2 marginal gloss त्रिपञ्चाशदधिके वर्षशतषट्के कलियुगस्य गते इत्यर्थः.

52.

--1) A3 marginal gloss अद्य जयसिंहमये.

53.

--1) A3 तथा.

55

--1) A1 उच्चारे; corrected by A3 into तच्चारे and explained by marginal gloss तेषां चारे. (The mistake of A1 is due to the resemblance of Sharada and ).

[page 3]




1सन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । KRT_1_0056ab
षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्यस्य ॥ KRT_1_0056cd
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया । KRT_1_0057ab
दिशा कैलासहासिन्या प्रतापी पर्युपास्यत ॥ KRT_1_0057cd
विहाय देहं शेषाहेर्विषाश्लेषभयादिव । KRT_1_0058ab
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ KRT_1_0058cd
साहायकार्थामाहूतो जरासंधेन बन्धुना । KRT_1_0059ab
स संरुदोध कंसारेर्मथुरां पृथुभिर्बलैः ॥ KRT_1_0059cd
तेनोपकूलं कालिन्द्याः स्कन्दावारं निबन्ध्नता । KRT_1_0060ab
यादवीहसितै1ः सार्धं योधानां मालितं यशः ॥ KRT_1_0060cd
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः । KRT_1_0061ab
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ KRT_1_0061cd
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी । KRT_1_0062ab
मम्लौ विजयसंदेहे किं यजस्र1ग्जयश्रियः ॥ KRT_1_0062cd
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने । KRT_1_0063ab
भुवं काश्मीरिको1 राजा यादवस्तु जयश्रियम् ॥ KRT_1_0063cd
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते । KRT_1_0064ab
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ KRT_1_0064cd
भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः । KRT_1_0065ab
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ॥ KRT_1_0065cd
अथोपसिन्धु गान्धारैह् सज्जे कन्यास्वयंवरे । KRT_1_0066ab
निमन्त्र्य शुश्रावा1नीतान्वृष्णीन्दर्पोष्णदोर्द्रुमः ॥ KRT_1_0066cd
ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति । KRT_1_0067ab
यात्राभूद्ध्वजिनीवाजिरेणुग्रस्तनभस्तला ॥ KRT_1_0067cd
तदाहवे विवाहोत्का निघ्नति1 स्म पर्तिंवरा । KRT_1_0068ab
आसीत्तु द्युपुरन्ध्रीणां गान्धारेषु स्वयंवरः ॥ KRT_1_0068cd
तदा1क्रान्तासुहृच्चक्रः स चक्रा2युधसंगरे । KRT_1_0069ab
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ॥ KRT_1_0069cd
अन्तर्वत्नीं तस्य पत्नीं तदा यदुकुलोद्वहः । KRT_1_0070ab
राज्ये यशोवतीं1 नाम द्विजैः कृष्नोभ्यषेचयत् ॥ KRT_1_0070cd
तस्मिन्काले स्वसचिवा1न्सासूयान्विन्यवीवरत्2 KRT_1_0071ab
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ KRT_1_0071cd
कश्मीराः पार्वती1 तत्र राजा ज्ञेयो हरांश2जः । KRT_1_0072ab
नावज्ञेयः स दुष्टोपि विदुषा3 भूतिमिच्छता ॥ KRT_1_0072cd
पुंसां निर्गौरवा भोज्ये इव याः स्त्रीजने दृशः । KRT_1_0073ab
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ KRT_1_0073cd
अथ वैजनने मासि आ देवी1 दिव्यलक्षणम् । KRT_1_0074ab
निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥ KRT_1_0074cd
तस्य राज्याभिषेकादिविधिभिः सह संभृताः । KRT_1_0075ab
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ KRT_1_0075cd
स नरेन्द्रश्रिया सार्धं लब्धवान् बालभूपतिः । KRT_1_0076ab
नाम गोनन्द इत्येवं नप्ता पितामहं क्रमात् ॥ KRT_1_0076cd
आस्तां बालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये । KRT_1_0077ab
एका1 पयःप्रस्रविणी2 सर्वसंपत्प्रसूः परा3 KRT_1_0077cd

56.

--1) See XIII.3. A2 marginal gloss रत्नकोशाख्ये ज्योतिर्ग्रन्थे एषा आर्या । यत्सारमानीय रत्नमाला विहिता श्रीपतिना. In A alater hand, not met with elsewhere, adds in margin a gloss which has faded in parts (words in brackets supplied from R): आसन्मघास्विति एकैकस्मिन्धिष्ण्ये शतं शतं चरन्ति वर्षाणामिति वचनात् तत्समये मघास्ववस्थानात्सप्तर्षीणां कश्मीरेष्वतिप्रसिद्धलौकिकसंवत्सरपरिज्ञानार्थमेतदुक्तमन्यमन्येपीहानीतम् । षट्द्विकेति तस्य राज्यस्य युधिष्ठिरीयराज्यस्य यः शककालः पूर्वोक्तः शतेषु षट्सु सार्धेष्वित्यादिकः त्रिपञ्चाशदधिकषसट्श[रूपः स] षट्द्विकपञ्चद्वियुतः 2526 एता[व]ता वर्षवृन्देन युतः गोगैकगुन[तुल्यो भवति 3179 अयं शककालो वर्तमानशककालो भवति इत्यध्याहारः] गणितव्यवहारार्थं लौकिकः शककालः शालिवारुनीयः भवति इत्यर्थः 3179 एतावत्परिमिते कलेर्गताब्दवृन्दे याते शालिवाहनोभूदित्यर्थः तदुक्तं ब्रह्मसिद्धान्ते । कल्पपरार्धं मनवः षट् तस्याब्दाश्चतु[र्युगं त्रि]घनम् त्रीणि कृतादीनि पुनर्गोगैकगु[णाः शक]नृपान्तेब्दा इति 60.

60.

--1) A1 writes in place of the last three aksharas ..., A3 has filled up the lacuna with हसितैः, striking out .

62.

--1) Thus A1, A2 reads वरणस्रग्॰; G and R follow A1.

63.

--1)Thus corrected by A1 रको॰.

66.

--1) Thus corrected by A3 from A1 शुश्रुवा॰.

68.

--1) Doutful. Thus A1; A3 reads vighnyate, also copied in R; G has विघ्नति.

69.

--1) Thus A1; A3 तत्रा॰.

--2) Thus corrected by A3; A1 reads ॰चक्र सश्चक्रा॰.

70.

--1) Thus A1; A3 यशोमतीं.

71.

--1) Thus corrected by A3; A1 स्वसिवा॰.

--2) A2 gloss शमयामास.

72.

--1) Thus corrected by A2 from A1 ॰राड्पर्वती.

--2) A later hand (perhaps A3) in margin ज्ञेयश्शिवांशजः.

--3) A2 in margin स्वात्मनो.

74.

--1) A2 gloss यशोवती.

77.

--1) A3 gloss उपमाता.

--2) A3 reads प्रसविनी.

--3) A3 has marginal gloss भूमिः below which यशोवती is written, perhaps, by the same hand.

[page 4]




तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमन्त्रिणः । KRT_1_0078ab
पार्श्वगेभ्यो ददुर्वित्तमनिमित्तस्मितेष्वपि ॥ KRT_1_0078cd
अबुद्ध्वा1ननुतिष्ठन्तस्तस्याव्यक्तम्ं शिशोर्वचः । KRT_1_0079ab
कृतागसमिवात्मानममन्यन्ताधिकारिणः2 KRT_1_0079cd
पितुः सिंहासनं तेन क्रामता बालभूभुजा । KRT_1_0080ab
नोत्कण्टा पादपीठस्य लम्बमानाङ्घ्रिणा हृता ॥ KRT_1_0080cd
तं चामरमरुल्लोलकाकपक्षं नृपासने । KRT_1_0081ab
विधाय मन्त्रिणोशृण्वन्प्रजानां धर्मसंशयम् ॥ KRT_1_0081cd
इति काश्मीरिको राजा वर्तमानः स शैशवे । KRT_1_0082ab
साहायकाय समरे न निन्ये कुरुपाण्दवैः ॥ KRT_1_0082cd
आम्नायभङ्गात्रिर्नष्टनामकृत्यास्ततः परम् । KRT_1_0083ab
1ञ्चत्रिंशन्महीपाला मग्ना विस्मृतिसागरे ॥ KRT_1_0083cd
अथाभवल्लवो नाम भूपालो भूमिभूषणम् । KRT_1_0084ab
वेल्लद्यशोदुगूलायाः प्रीत्पात्रं जयश्रियः ॥ KRT_1_0084cd
यस्य सेनानिनादेन जगदौन्निद्य्रादायिना । KRT_1_0085ab
निन्यिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ KRT_1_0085cd
तेन षोडशाभिर्लक्षैर्विहीनामश्मवेश्मनाम् । KRT_1_0086ab
कोटिं1 निष्पाद्य नगरं लोलोरं2 निरमीयत ॥ KRT_1_0086cd
दत्त्वाग्रहारं लेदयी लेवारं द्विजपर्षदे । KRT_1_0087ab
स द्यामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ KRT_1_0087cd
कुशेशयाक्षस्त1त्पुत्रः प्रतापकुशलः कुशः । KRT_1_0088ab
कुरुहारा2ग्रहारस्य दाताभूत्तदनन्तरम् ॥ KRT_1_0088cd
ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः । KRT_1_0089ab
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ KRT_1_0089cd
स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः । KRT_1_0090ab
हरहाससितैः कृत्यैः क्रीतांल्लोकान्क्रमाद्ययौ ॥ KRT_1_0090cd
अनर्घमहिमा दीर्घमघवत्तावहिष्कृतः । KRT_1_0091ab
अथ साश्चर्यचर्योभूत्सुरेन्द्रस्तत्सुतो नृपः ॥ KRT_1_0091cd
शतमन्युः शान्तमन्योर्गोत्रभिद्गोत्ररक्षिणः । KRT_1_0092ab
लेभे यस्य1 सुरेन्द्रस्य सुरेन्द्रो नोपमानताम्2 KRT_1_0092cd
दरद्देशान्तिके कृत्वा सोरकाख्यं स पत्तनम् । KRT_1_0093ab
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ KRT_1_0093cd
तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा । KRT_1_0094ab
विहारः सुकृतोदारो निर्मितः सौरसा1भिधः ॥ KRT_1_0094cd
तस्मिन्निःसंततौ राज्ञि प्रशान्तेन्यकुलोद्भवः । KRT_1_0095ab
बभार गोधरो नाम सभूधरवरां धराम् ॥ KRT_1_0095cd
गोधराहस्तिशालाख्यम1ग्रहारमुदारधीः । KRT_1_0096ab
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ KRT_1_0096cd
तस्य सूनुः सुवर्णाख्यस्तनोभूत्स्वर्णदोर्थिनाम् । KRT_1_0097ab
सुवर्णमणिकुल्याया1ः कराले2 यः प्रवर्तकः ॥ KRT_1_0097cd
तत्सूनुर्जनको नाम प्रजानां जनकोपमः । KRT_1_0098ab
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ KRT_1_0098cd
शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः । KRT_1_0099ab
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ KRT_1_0099cd
राजाग्रहारयोः कर्ता1 शमाङ्गासाशनारयो2ः । KRT_1_0100ab
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ KRT_1_0100cd

79.

--1) A3 अबुद्धमनु.

--2) A3 gloss मन्त्रिणः.

83.

--1) A3 adds the following notes in the margin: द्वापञ्चाशन्नृपमध्यात् अस्माकं पञ्चत्रिंशन्नृपा विस्मृताः अन्येषां तु द्वापञ्चाशति नृपाः । यत्पूर्वमुक्तं आगोनन्दात्स्मरन्ति स्म न द्वापञ्चाशतं नृपानिति ॥ and द्वापञ्चाशतो मध्यात्सप्तादश नृपा अस्माभिर्वर्णिताः । पञ्चत्रिंशन्नृपास्तु हस्तविषयं नप्राप्ताः । तत्र आदिगोनन्दादयः बालगोनन्दान्ताः चत्वारः पूर्वं वर्णिताः । लवनृपादारभ्य शचीनरान्ता अष्टौ वर्णिताः । ततः अथावहदशोकाख्य इत्यादिaन अशोकादारभ्य अभिमन्युपर्यन्तं पञ्च नृपा वर्णयिष्यते(sic) । एवं सप्तादश नृपा अन्यान्तरान्वीक्ष्य वर्णिताः । अवशिष्टाः पञ्चत्रिंशद्विस्तृता एव ॥ एवं सर्वे द्वापञ्चाशति नृपाः ॥.

86.

--1) A3 marginal gloss चतुरशीतिसहस्रगृहं नगरमित्यर्थः.

--2) A gloss below this word has been smeared over with yellow paint; it appears to be लोव(Lolan ?).

88.

--1) Thus corrected by A3 from A1 ॰शयाख्य॰; ॰याक्ष॰ also in G and R.

--2) An old gloss, apparently गल्लर्(?), has been smeared over with yellow paint; A4 adds कुलर्.

92.

--1) Thus corrected by A1 तस्य.

--2) A3 in margin न सुरेन्द्रः समानताम्.

94.

--1) A2 reads सोर॰.

96.

--1) A2 has the glosses गोधर् and अस्तीहिल्.

97.

--1) A2 gloss in margin स्वभरमय् नाडो, smeared over and repeated between the lines by A4.

--2) A2 gloss आर्धवने.

100.

--1) This word has been left out by A1 and supplied by A3.

--2) A4 writes the glosses श्वाङ्गस् and श्नार् over older glosses, apparently by A2, which have been smeared over with those written above them by A4. R has the glosses श्वाङ्गम् and त्त्नार्(sic). A1 puts a small after शमाङ्गासा, including the division of words.

[page 5]




प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः । KRT_1_0101ab
अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ KRT_1_0101cd
यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् । KRT_1_0102ab
शु1ष्कलेत्रचितस्तात्रौ तस्तार स्तूपमण्डलैः2 KRT_1_0102cd
धर्माण्यविहारान्तर्वितस्तात्र1पुरेभवत् । KRT_1_0103ab
यत्कृतं चैत्यमुत्सेधावधिप्राप्त्यक्षमेक्षणम् ॥ KRT_1_0103cd
स षण्नव्त्या गेहानां लक्षैर्लक्ष्मीसमुज्ज्वलैः । KRT_1_0104ab
गरीयसीं पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ KRT_1_0104cd
जीर्णं श्रीविजयेशस्य निविवार्यव् सुधामयम्1 KRT_1_0105ab
निष्कल्मषेणाश्ममयः प्राकारो3 येन कारितः3 KRT_1_0105cd
सभायां विजयेश्यस्य समीपे च विनिर्ममे । KRT_1_0106ab
शान्तावसादः1 प्रासादावशोकेश्वरसंज्ञितौ ॥ KRT_1_0106cd
म्लेच्छैः संच्छादिते देशे स तदुच्छित्तये नृपः । KRT_1_0107ab
तपःसंतोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ KRT_1_0107cd
सोथ भूभृज्जलौकोभूद्भूलोकसुरनायक1ः । KRT_1_0108ab
यो यशःसुधया2 शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ KRT_1_0108cd
यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः । KRT_1_0109ab
आश्चर्याचार्यतां1 यान्ति नियतं2 द्युषदाम3पि ॥ KRT_1_0109cd
1कोटिवेधिनि2 सिद्धे हि स रसे हाटकार्पणैः । KRT_1_0110ab
आसीत्सुषिरतां3 हर्तुं4 हेमाण्डस्य5 ध्रुवं क्षमः ॥ KRT_1_0110cd
संस्तम्भ्याम्भः प्रविष्टेन तेन नागसरोन्तरम् । KRT_1_0111ab
तारुण्यं फणिकन्यानां निन्ये संभोगभव्यताम् ॥ KRT_1_0111cd
तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् । KRT_1_0112ab
अवधूतोभवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ KRT_1_0112cd
निजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने । KRT_1_0113ab
तस्य सत्यगिरो राज्ञः प्रतिज्ञा सर्वदाभवत् ॥ KRT_1_0113cd
ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान् । KRT_1_0114ab
स्वेनावहत्तं सततं नागः कोपि सुहृत्तया ॥ KRT_1_0114cd
स रुद्धवसुधान्म्लेच्छात्रिर्वास्याखर्वविक्रमः । KRT_1_0115ab
जिगाय जैत्रयात्राभिर्महीमर्णवमेखलात् ॥ KRT_1_0115cd
ते यत्रो1ज्झटितास्तेन म्लेच्छाश्छादितमण्डलाः । KRT_1_0116ab
स्थानमुज्झटडिम्बं तज्जनैरद्यापि गद्यते ॥ KRT_1_0116cd
जित्वोर्वीं कन्यकुब्जाद्यां तत्रत्यं स2 न्यवेशयत् । KRT_1_0117ab
चातुर्वर्ण्यं निजे देशे धर्म्यांश्च व्यवहारिणः ॥ KRT_1_0117cd
यथावद्वृद्धिमप्राप्ते1 व्यवहारधनादिभिः । KRT_1_0118ab
सामान्यदेशवद्राज्यं2 तावदस्मिन्हि मण्डले ॥ KRT_1_0118cd
धर्माध्यक्षो धनाध्यक्षः कोशाध्यक्षभूपतिः । KRT_1_0119ab
दूतः पुरोधा दैवज्ञः सप्त प्रकृतयोभवन् ॥ युगलकम्॥ KRT_1_0119cd
कर्मस्थानानि धर्म्याणि तेनाष्टादश कुर्वता । KRT_1_0120ab
ततःप्रभृति भूपेन कृता यौधिष्ठिरी स्थितिः ॥ KRT_1_0120cd
स विक्रमप्रभावाभ्यां समुपार्जितया श्रिया । KRT_1_0121ab
विदधे वारबाला1दीनग्रहारानुदग्रधीः ॥ KRT_1_0121cd
द्वारादिषु1 प्रदेशेषु प्रभावोग्राण्युदग्रया । KRT_1_0122ab
ईशानदेव्या तत्पत्न्या मातृचक्राणि चक्रिरे ॥ KRT_1_0122cd

102.

--1) A3 writes the gloss हुखलेत्रो between the lines and adds in margin: शुष्कलेत्रश्च वि[त]स्ता[त्र]श्च तौ शुष्कलेत्रवितस्तात्रौ । द्वितीया द्विवचनमेतत्. G adds to the gloss इखलेत्र another: उत्तरहिल्.

--2) A2 gloss बौधविहारैः.

103.

--1) A2 gloss विथवत्रो; another gloss in margin smeared over with yellow paint and illegible.

105.

--1) A3 gloss सौधम्.

--2) A3 reads प्रासादो.

--3) A1 had first written निर्मितः(?) and then erased it.

106.

--1) A4 gloss आलस्यं.

108.

--1) G gloss इन्द्रः.

--2) Thus corrected by A3 from A1 श्रद्धया.

109.

--1) A3 reads आश्चर्यचर्यतां.

--2) Thus corrected by A2 from A1 निश्चयं.

--3) Emended; A R G द्युस॰.

110.

--1) A3 adds a marginal not, the last line of which has become faded; this has been copied by a different hand below and is shown in brackets: सिद्धे रसे कोटिवेधिनि सति । हाटकार्पणैः स्वर्णदानैः कृत्वा स राजा ब्रह्माण्डस्य सुषिरतां शून्यतां हर्तुं दूरीकर्तुं ध्रुवं निश्चयेन क्षमः समर्थोभूत् । कोटिवेधिसिद्धरसप्राप्तिवशात्तादृशं सुवर्णं दातुं [शक्तोभूद्येन ब्रह्माण्डस्यापि पूरणं संभवेदिति भावः].

--2) A3 reads ॰वेदिनि.

--3) A3 reads सुरिक्ततां.

--4) Thus corrected by A3 from A1 कर्तुः; thus also in R and G.

--5) A3 reads in margin ब्रह्माण्डस्य.

116.

--1) Thge akshara has been effaced in A at the beginning of a line and supplied by A4 at the end of the preceeding onbe; G and R also यत्रो॰.

--2) A3 gloss निकर्षिताः.

117.

--1) A3 reads ॰कुब्जादौ.

--2) A1 had सं॰; corrected into which is found also G and R.

118.

--1) Thus corrected by later hand from A1 ॰प्राप्तं; G and R read as above.

--2) A3 reads ॰राज्ञां.

123.

--1) A3 reads वनबाला॰. R has the gloss बारबलो.

122.

--1) The faded gloss of A3 [ह]स्तिशालादिषु has been repented in margin by A4.

[page 6]




श्रुतनन्दिपुराणः स व्यासान्तेवासिनो नृपः । KRT_1_0123ab
सेवनं सोदरादीनां नन्दीशस्पर्धया व्यधात् ॥ KRT_1_0123cd
प्रतिष्ठां जेष्ठरुद्रस्य श्रीनगर्यां वितन्वता । KRT_1_0124ab
तेन नन्दीशसंस्पर्धा न मेने सोदरं विना ॥ KRT_1_0124cd
विस्मारितो नित्यकृत्यं कार्यव्यग्रतयैकदा । KRT_1_0125ab
विदूरसोदरजलाप्लावनालाभदुर्मनाः ॥ KRT_1_0125cd
अपश्यन्निर्जलात्स्थानादकस्मादुत्थितं पयः । KRT_1_0126ab
स सोदराविसंवादि1 वर्णास्वादादिभिर्गुणैः ॥ युगलकम्॥ KRT_1_0126cd
प्रादुर्भूते ततस्तस्मिंस्तीर्थे कृतनिमज्जनः । KRT_1_0127ab
स नन्दिरुद्रस्पर्धायां मानी पर्याप्तिमासदत् ॥ KRT_1_0127cd
तेन जातु1 परीक्षार्थं निक्षिप्तःञ् सोदरान्तरे । KRT_1_0128ab
सपिधानाननः स्वर्णभृङ्गारः सुषिरोदरः ॥ KRT_1_0128cd
दिनद्वयेन सार्धेन श्रीनगर्युद्भवाम्भसः । KRT_1_0129ab
उन्मग्नः स महीभर्तुस्तस्य चिच्छेद संशयम् ॥ KRT_1_0129cd
नूनं नदीश एवासौ भोक्तुं भोगानवातरत् । KRT_1_0130ab
दृष्टादृष्टक्रियासिद्धिर्न भवेत्तादृगन्यथा ॥ KRT_1_0130cd
राज्ञस्तस्य कदाचित्तु व्रजतो विजयेश्वरम् । KRT_1_0131ab
ययाचे काचिदबला भोजनं मार्गमध्यगा ॥ KRT_1_0131cd
यथेष्टम1शनं दातुं ततोनेन प्रतिश्रुते । KRT_1_0132ab
व्यवृणोद्विकृता भूत्वा सा नृमांसाश्रयां स्पृहाम् ॥ KRT_1_0132cd
स सत्त्वहिंसाविरतस्तस्यै मांसं1 स्वविग्रहात् । KRT_1_0133ab
अनुज्ञां प्रददौ भोक्तुं यदा सैवं तदाब्रवीत् ॥ KRT_1_0133cd
बोधिसत्त्वोसि भूपाल कोप्ऽइ सत्त्वोर्जितव्रतः । KRT_1_0134ab
कारुण्यं प्राणिषु दृढं यस्येदृक्ते महात्मनः ॥ KRT_1_0134cd
बौद्धभाषामजानानो माहेश्वरतया नृपः । KRT_1_0135ab
को बोधिसत्त्वो यं भद्रे मां वेत्सीति जगाद ताम् ॥ KRT_1_0135cd
पुनर्बभाषे सा भूपं श्रोतव्यं मत्प्रयोजनम् । KRT_1_0136ab
अहं ह्युत्थाaपिता बौद्धैः क्रोधाद्विप्रकृतैस्त्वया ॥ KRT_1_0136cd
लोकालोकाद्रिपार्श्वस्थास्तामस्यः कृत्तिका वयम् । KRT_1_0137ab
बोधिसत्त्वैकशरणः काङ्क्षन्त्यस्तमस1ः क्षयम् ॥ KRT_1_0137cd
लोके भगवतो लोकनाथादारभ्य केचन । KRT_1_0138ab
ये जन्तवो गतक्लेशा बोधिसत्त्वानवेहि तान् ॥ KRT_1_0138cd
सागसेपि न कुप्यन्ति क्षमया1 चोपकुर्वते । KRT_1_0139ab
बोधिं2 स्वस्यैव नेष्यन्ति3 ते विश्वधरणो4द्यताः ॥ KRT_1_0139cd
विहारतूर्यनिर्घोषैरुन्निद्रः प्रेरितः खलैः । KRT_1_0140ab
पुरा भवान्व्यधात्क्रोधाद्विहारोद्दलनं यदा1 KRT_1_0140cd
महाशाक्यः1 स नृपतिर्न शक्यो बाधितुं त्वया । KRT_1_0141ab
तस्मिन्दृष्टे तु कल्याणि भविता ते तमःक्षयः ॥ KRT_1_0141cd
अस्मद्गिरा प्रेरणीयो विहारकरणाय स1ः । KRT_1_0142ab
दत्त्वा स्वहेमसंभारं त्वया मलिनित2ः खलैः ॥ KRT_1_0142cd
तस्मिन्कृते न जायेत विहारच्छेदवैशसम् । KRT_1_0143ab
तस्य1 तत्प्रेरकाणां च प्रायश्चित्तं कृतं भवेत् ॥ KRT_1_0143cd
क्रुद्धैर्बौद्धैरनुध्याता त्वद्वधाय2 प्रधाविता । KRT_1_0144ab
अनुशिष्टा समाहूय बोधिसत्त्वैस्तदेत्यहम् ॥ कुलकम्॥ KRT_1_0144cd
तस्मात्सत्त्वातिरेकस्ते1 मिषादेवं परीक्षितः । KRT_1_0145ab
क्षीणपापाद्य संवृत्ता2 स्वस्ति ते साधयाम्य3हम् ॥ KRT_1_0145cd
कृतप्रतिश्रवे राज्ञि विहारकृतये पुनः1 KRT_1_0146ab
प्रहर्षोत्फुल्लनयना कृत्यादेवी तिरोदधे ॥ KRT_1_0146cd
अथ कृत्याश्रमे कृत्वा विहारं वसुधाधिपः । KRT_1_0147ab
तत्रैव क्षीणतमसं कृत्यादेवीमसंधयत्1 KRT_1_0147cd
विधाय सोश्म1प्रासादं नन्दिक्षेत्रे क्षमापतिः । KRT_1_0148ab
भूतेशाय क्षमां2 कोशैः पूजां रत्नमयीं ददौ ॥ KRT_1_0148cd

126.

--1) A3 gloss सदृश. G has the marginal gloss सोदरबल् गगरिबल्.

128.

--1) A4 reads तत्र. This various reading is not found in G and R.

--2) A3 gloss रिक्त.

132.

--1) Thus A1; also G and R. In A the various reading यथेच्छम् is indicated between the lines, perhaps by A1.

133.

--1) Thus corrected by A3 from A1 दातुं. G and R read मांसं.

137.

--1) A2 reads तपसः.

139.

--1) A3 कृपया.

--2) A3 हितं.

--3) A3 नेच्छन्ति.

--4) विश्वोद्धर॰.

140.

--1) A3 marginal gloss तदा बोधिसत्त्वैरहमित्यनुशिष्टा इत्यनेन वक्ष्यमाणेन संबन्धः.

141

--1) Thus corr. by later hand from A1 ॰शक्यः; A3 gloss राज्ञः.

142.

--1) A3 gloss राजा.

--2) A3 gloss मलिनः कृतः.

143.

--1) A3 gloss राज्ञः.

144.

--1) A3 बोधाय(?) in margin; struck out.

145.

--1) A3 gloss सत्त्वाधिक्यम्.

--2) A3 जाता. G rads ॰पापोद्यसंवृत्तः

148.

--1) A3 as above; A1 सोष्म॰.

--2) Thus A1; A3 समं.

[page 7]




चीरमोचनतीर्यान्तर्गणरात्रं तपस्यता । KRT_1_0149ab
ब्रह्मासननिविष्टेन ध्याननिःस्पन्दमूर्तिना ॥ KRT_1_0149cd
राज्ञा कनकवाहिन्यः सुचिरात्पुण्यकर्मणा । KRT_1_0150ab
नन्दीशस्पर्शनो1त्कण्ठा तेनानीयत कुण्ठताम्2 KRT_1_0150cd
ह्लादोदयान्नृत्तगीतक्षणे नर्तितुमुत्थितम् । KRT_1_0151ab
प्रददौ ज्येष्ठरुद्राय स्वा1वरोधवधूशतम् ॥ KRT_1_0151cd
भुक्त्वैश्वर्यं स पर्यन्ते प्रविष्टश्चीरमोचनम् । KRT_1_0152ab
पत्न्या समं ययौ राजा सायुज्यं गिरिजापतेः ॥ KRT_1_0152cd
अथाशोककुलोत्पन्नो यद्वान्याभिजनो1द्भवः । KRT_1_0153ab
भूमिं दामोदरो नाम जुगोप जगतीपतिः ॥ KRT_1_0153cd
ऋद्ध्या जाज्वलितस्योच्चैर्माहेश्वरशिखामणेः । KRT_1_0154ab
अद्यापि1 श्रूयते यस्य प्रभावो भुवनाद्भुतः ॥ KRT_1_0154cd
हरप्रसादपात्रेण1 सच्चरित्रानुरागिणा । KRT_1_0155ab
बबन्ध सुखिना सख्यं येन वैश्रवणः स्वयम् ॥ KRT_1_0155cd
कुबेर इव यो राज्ञामग्र्यः स्वाज्ञाविधायिनः । KRT_1_0156ab
आदिश्य गुह्यलान्दीर्घं गुद्दसेतुमबन्धयत् ॥ KRT_1_0156cd
सूदे दामोदरीये1 यत्तस्यासीत्स्वकृतं पुरम् । KRT_1_0157ab
सेतुना तेन तत्रैव्च्छत्कर्तुं सोम्भःप्रतारणम् ॥ KRT_1_0157cd
हितं लोकोत्तरं किंचिच्चिकीर्षोरुन्नतात्मनः । KRT_1_0158ab
रोहन्ति हा धिक्प्रत्यूहा मितपुण्यतया नृणाम् ॥ KRT_1_0158cd
स हि कारयितुं यक्षैर्यतते स्म स्वमण्डले । KRT_1_0159ab
दीर्घानश्ममयान्सेतूंस्तोयविप्लवशान्तये ॥ KRT_1_0159cd
तपोविभूतयोचिन्त्या1 द्विजानामुग्रतेजसाम् । KRT_1_0160ab
तादृशाम2पि ये कुर्युः प्रभावस्य विपर्ययम् ॥ KRT_1_0160cd
दायादादिबलैर्नष्टा1 दृष्टा भूयः समुत्थिता । KRT_1_0161ab
श्रीर्विप्रावज्ञया राज्ञामपुनःसंभवा पुनः ॥ KRT_1_0161cd
श्राधार्थमुत्थितः स्नातुं द्विजैः कैश्चिद्बुभुक्षितैः । KRT_1_0162ab
प्राक्स्नानाद्भोजनं राजा स कदाचिदयाच्यत ॥ KRT_1_0162cd
यियासुना वितस्तान्तर्यदा तेनावधीरितम् । KRT_1_0163ab
तदा प्रभावात्ते1 तस्य तां धुनी2मग्रतो व्यधु3ः ॥ KRT_1_0163cd
सेयं वितस्ता दृष्ट्वै1नां भोजयास्मान्स2 तैरिति । KRT_1_0164ab
उक्तोपि माया3विहितामज्ञासीत्सरिदाहतिम् ॥ KRT_1_0164cd
भोज्यं ददामि नास्नातो विप्राः सर्पत सांप्रतम् । KRT_1_0165ab
तेनेत्युक्तास्तमशपंस्ततः सर्पो भवेति ते1 KRT_1_0165cd
अशेषमेकेनैवाह्ना श्रुत्वा रामायणं तव । KRT_1_0166ab
शापस्य शान्तिर्भवितेत्यूचिरे ते1 प्रसादिताः ॥ KRT_1_0166cd
स दामोदरसूदान्तर्धावन्दूरमुदन्यया1 KRT_1_0167ab
शापोष्ण2श्वासधूमेन जनैरद्यापि लक्ष्यते ॥ KRT_1_0167cd
अथाभवन्स्वनामाङ्कपुरत्रयविधायिनः । KRT_1_0168ab
हुष्कजुष्ककनिष्का1ख्यास्त्रयस्तत्रैव पार्थिवाः ॥ KRT_1_0168cd
स विहारस्य निर्माता जुष्को जुष्कपुरस्य1 यः । KRT_1_0169ab
जयस्वामिपुरस्या1पि शुद्धधीः संविधायकः ॥ KRT_1_0169cd
ते तुरुष्कान्वयोद्भूता अपि पुण्याश्रया1 नृपाः । KRT_1_0170ab
शुष्कलेवा2दिदेशेषु मटचैत्यादि2 चक्रिरे ॥ KRT_1_0170cd
प्राज्ये राज्यक्षणे तेषां प्रायः कश्मीरमण्डलम् । KRT_1_0171ab
भोज्यमास्ते स्म बौद्धानां प्रव्रज्यो1र्जिततेजसाम् ॥ KRT_1_0171cd
तदा भगवतः शाक्यसिंहस्य परनिर्वृत्तेः । KRT_1_0172ab
अस्मिन्महीलोकधातौ सार्धं वर्षशतं ह्यगात् ॥ KRT_1_0172cd
बोधिसत्त्वश्च देशेस्मिन्नेको भूमी1श्वरोभवत्2 KRT_1_0173ab
स च नागार्जुनः श्रीमान्षडर्हद्वन3संश्रयी ॥ KRT_1_0173cd
अथ निष्कण्टको राजा कण्टकोत्सा1ग्रहारदः । KRT_1_0174ab
अभीर्बभूवाभिमन्युः शतमन्युरिवापरः ॥ KRT_1_0174cd

150.

--1) G has the v. l. स्पर्धनो॰ in margin.

--2) Thus A3; A1 कुण्डताम्

152.

--1) A3 सोपरोध॰.

153.

--1) A3 gloss कुलं.

154.

--1) Thus A3; A1 अस्यापि.

155.

--1) Thus A3; A1 ॰प्रासादमात्रेण.

156.

--1) A3 gloss गुडसुथो इति भाषया.

157.

--1) A3 gloss दान्दुर् ओडर्.

160.

--1) Thus corr. by A3 from A1 ॰तयश्चिन्त्या.

--2) A3 gloss दामोदरनृपसदृशानां.

161.

--1) A3 बलान्नष्टा.

163.

--1)

--2)

--3) A3 glosses ब्राह्मणः, नदीं, चक्रुः.

164.

--1) A3 स्पृष्टै॰.

--2) A3 gloss राजा.

--3) A3 gloss मायया.

165.

--1) A2 gloss ब्राह्मणाः.

166.

--1) Thus A1; A3 in margin. G and R follow A3.

167.

--1) A2 gloss जोकोरस्य.

--2) A2 gloss जिहासपुर.

170.

--1) A3 पुण्याशया.

--2) A2 gloss हुखलेत्रो.

--2) A3 ॰चैत्यानि.

171.

--1) A3 gloss व्रतं नाम.

173.

--1) Thus corr. by A3 from A2 भूम्येश्वरो.

--2) A2 वसन्.

--3) Thus corr. by A2 from A1 ॰र्हन्वन; A2 gloss हर्वन् ग्रामे.

174.

--1) A3 gloss कण्डोर्.

[page 8]




स्वनामाङ्कं1 शशाङ्काङ्क2शेखरं विरचय्य सः । KRT_1_0175ab
परार्ध्यविभवं श्रीमानभिमन्युपुरं व्यधात् ॥ KRT_1_0175cd
चन्द्राचार्यादिभिर्लब्ध्वा देशात्त1स्मात्तदागमम् । KRT_1_0176ab
प्रवर्तितं महाभाष्यं स्वं च व्याकरणं2 कृतम् ॥ KRT_1_0176cd
तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययुः । KRT_1_0177ab
नागार्जुनेन सुधिना बोधिसत्त्वेन पालिताः ॥ KRT_1_0177cd
ते वादिनः पराजित्य वादेन निखिलान्बुधान् । KRT_1_0178ab
क्रियां नीलपुराणोक्तामच्छिन्दन्नागमद्विषः ॥ KRT_1_0178cd
मण्डले विप्लुताचारे विच्छिन्नबलिकर्मभिः । KRT_1_0179ab
नागैर्जनक्षयश्चक्रे प्रभूतहिमवर्षिभिः ॥ KRT_1_0179cd
हिमान्यां बौद्धबाधाय पतन्त्यां प्रतिवत्सरम् । KRT_1_0180ab
शीते दार्वाभिसारादौ1 षण्मासान्पार्थिवोवसत् ॥ KRT_1_0180cd
तदा प्रभावः कोप्यासीद्बलिहोमविधायिन1ः । KRT_1_0181ab
नानश्यन्यद्वशाद्विप्रा बौद्धाश्च निधनं गताः ॥ KRT_1_0181cd
नीलमुद्दिश्य देशस्य रक्षितारमहीश्वरम् । KRT_1_0182ab
काश्यपश्चन्द्रदेवाख्यस्तपस्तेपे1 ततो द्विजः ॥ KRT_1_0182cd
तस्य प्रत्यक्षतां यातो नीलस्तुहिनविप्लवम् । KRT_1_0183ab
न्यवारयञ्जगादापि स्वपुराणविधिं पुनः ॥ KRT_1_0183cd
आद्येन चन्द्रदेवेन शमितो यक्षवुप्लवः । KRT_1_0184ab
द्वितीयेन तु देशेस्मिन्दुःसहो भिक्षु1विप्लुवः ॥ KRT_1_0184cd
राजा तृतीयो गोनन्दः प्राप्तो राज्ये1 तदन्तरे । KRT_1_0185ab
यात्रायागादि2 नागानां प्रावर्तयत पूर्ववत् ॥ KRT_1_0185cd
राज्ञा प्रवर्तिते तेन पुनर्नीलोदिते विधौ । KRT_1_0186ab
भिक्षवो हिमदोषाश्च सर्वतः प्रशमं ययुः ॥ KRT_1_0186cd
काले काले प्रजापुण्यैः संभवन्ति महीभुजः । KRT_1_0187ab
यैर्मण्डलस्य क्रियते दूरोत्सन्नस्य योजनम् ॥ KRT_1_0187cd
ये प्रजापीडनपरास्ते विनश्यन्ति सान्वया1ः । KRT_1_0188ab
नष्टं तु ये योजयेयुस्तेषां वंशानुगाः श्रियः ॥ KRT_1_0188cd
इत्येतत्प्रतिवृत्तान्तं देशे1स्मिन्वीक्ष्य लक्षणम् । KRT_1_0189ab
भाविनां भूमिपालानां प्राज्ञैर्ज्ञेयं शुभाशुभम् ॥ KRT_1_0189cd
नवीकृतवतो देशं तस्य1 वंश्यैरियं मही । KRT_1_0190ab
सिद्धैः प्रवरसेनाद्यैश्चिरं भुक्ता सुकर्मभिः ॥ KRT_1_0190cd
गोनन्दान्वयिनामाद्यः स रघूनां रघुर्यथा । KRT_1_0191ab
नृपतिः काश्यपीं वर्षान्पञ्चत्रिंशतिमन्वशात् ॥ KRT_1_0191cd
वर्षषष्टिं सषण्मासैह् षड्भिर्वैषैर्विवर्जिताम् । KRT_1_0192ab
विभीषणाभिधोरक्षत्क्षितिं गोनन्दनन्दनः ॥ KRT_1_0192cd
इन्द्रजिद्रावणावास्तां पितापुत्रौ नृपौ क्रमात् । KRT_1_0193ab
पञ्चत्रिंशत्सहार्धाश्च वर्षास्त्रिंशद्ययोर्ययुः ॥ KRT_1_0193cd
बिन्दुरेखाच्छविर्यस्य दृष्ट्वा भाव्यर्थशंसिनी । KRT_1_0194ab
स रावणस्य1 पूजार्थं2 लिङ्गं भाति वटेश्वरः ॥ KRT_1_0194cd
चतुःशालामठस्यान्तःकृतायादायि भूभुजा । KRT_1_0195ab
वटेश्वराय निखिलं तेन कश्मीरमण्डलम् ॥ KRT_1_0195cd
पञ्चत्रिंशतमब्दानां क्षमां बुभोज महाभुजः । KRT_1_0196ab
रावणक्षोणिभृत्सूनुः सार्धामन्यो विभीषणः ॥ KRT_1_0196cd
किंनरापरनामाथ किंनरैर्गीतविक्रमः । KRT_1_0197ab
विभीषणस्य पुत्रोभून्नरनाम नराधिपः ॥ KRT_1_0197cd
सदाचारोपि स नृपः प्रजाभाग्यविपर्ययैः । KRT_1_0198ab
व्यधाद्विषयदोषेण महानर्थपरंपराम् ॥ KRT_1_0198cd
विहारे निवसन्नेकः किंनरग्राम1वर्तिनि । KRT_1_0199ab
तस्य योगबलात्कोपि श्रमणो2पाहरत्प्रियाम् ॥ KRT_1_0199cd
विहाराणां सहस्राणि तत्कोपान्निर्ददाह सः । KRT_1_0200ab
अजिग्रहच्च तद्ग्रामान्द्विजैर्मध्यमठाश्रयैः ॥ KRT_1_0200cd
ऋद्धापणं राजपथैर्नौयानोज्ज्वलनिम्नगम् । KRT_1_0201ab
स्फीतपुष्पफलोद्यानं स्वर्गस्येवाभिधान्तरम् ॥ KRT_1_0201cd

175

--1) A1 seems to have read ॰ङ्क; corr. as above by A3.

--2) A2 reads शशाङ्कार्ध॰.

176.

--1) A1 originally as above; A1 or a later hand has altered this to ॰देशं तस्मात्, but A3 has restored the first reading. G and R have ॰देशं in text and ॰ देशात् in margin.

--2) A2 gloss चन्द्रव्याकरणं.

180.

--1) A2 gloss भेम्भेर् दानगले देशे.

183.

--1) A3 ॰धायिनाम्.

182.

--1) A1 ततस्तेपे; corr. by A2 as above.

184.

--1) A2 बौद्धवि॰.

185.

--1) A1 as above; a later hand corr. तृतीयगोनन्दः प्राप्तराज्यस्तद॰.

--2) A4 gloss तीर्थेषु.

188.

--1) A2 नश्येयुः सहान्वयाः.

189.

--1) Thus A3; A1 देवे.

<190>.

--1) A2 gloss गोनन्दस्य.

194.

--1) A2 gloss राज्ञः.

--2) A3 पूजार्ह.

199.

--1) A2 gloss कानीर् ग्रामः प्रसिद्धः.

--2) A3 gloss बौद्धः.

[page 9]




दिग्जयोपार्जितैर्वित्तैर्जितवित्ते1शपत्तनम् । KRT_1_0202ab
वितस्तापुलिने तेन नगरं निरमीयत ॥ युगलकम्॥ KRT_1_0202cd
तत्रैकस्मिन्किलोद्याने स्वच्छस्वादुजलाञ्चितम् । KRT_1_0203ab
श्रासीत्सुश्रवसो नाम्नो नागस्य वसतिः सरः ॥ KRT_1_0203cd
कदाचित्तस्य दूराध्वक्लान्ते मध्यंदिने1 युवा । KRT_1_0204ab
छायार्थी तत्सरःकच्छं विशाखाख्योविशद्विजः ॥ KRT_1_0204cd
सच्छायपादपतले समीरैः शमितक्लमः । KRT_1_0205ab
शनैर्जल1मुपस्पृश्य भोक्तुं सक्तून्प्रचक्रमे ॥ KRT_1_0205cd
तान्पाणौ गृह्णतैवाथ तेन तीरविहारिभिः । KRT_1_0206ab
पूर्वमाकर्णितो हंसैः शुश्रुवे नूपुरध्वनिः ॥ KRT_1_0206cd
निर्गते1 मञ्जरीकुञ्जादपश्यत्पुरतस्ततः । KRT_1_0207ab
कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥ KRT_1_0207cd
कर्णिका1पद्मरागाब्जनाललीलायितस्पृशा । KRT_1_0208ab
मनोज्ञधवलापङ्गे तनीयोञ्जनरेखया ॥ KRT_1_0208cd
हारिनेत्राञ्चलै1र्मन्दमारुतान्दोलनाकुलैः । KRT_1_0209ab
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ तिलकम्॥ KRT_1_0209cd
ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते । KRT_1_0210ab
विररामाशनारम्भान्मुहुर्व्रीडाजडीकृतः ॥ KRT_1_0210cd
भुञ्जाने कच्छगुच्छानां1 शिम्बीर2म्बुजलोचने । KRT_1_0211ab
ते पुनर्दृष्टवानग्रे किंचिद्व्यापारितेक्षणः ॥ KRT_1_0211cd
आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः । KRT_1_0212ab
ध्यायन्कृपार्द्रः संमान्य स1 ते सक्तूनभोजयत् ॥ KRT_1_0212cd
उपनिन्ये1 शुचितां प्राप्ते पुटकैश्चटसीकृतै1ः । KRT_1_0213ab
तयोः पानाय पानीयं सरसः स्वच्छशीतलम्2 KRT_1_0213cd
आचान्ते1 शुचितां प्राप्ते कृतासनपरिग्रहे । KRT_1_0214ab
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ KRT_1_0214cd
भवत्यौ पूर्वसुकृतैः कैश्चित्संप्राप्तदर्शनः । KRT_1_0215ab
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ KRT_1_0215cd
कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता । KRT_1_0216ab
कुत्र वा क्लान्तमेतादृग्विरसं येन भुज्यते ॥ KRT_1_0216cd
1का तमूचे विद्ध्यावामस्य सुश्रवसः सुते । KRT_1_0217ab
स्वादुभोक्तव्यम2प्राप्तं किमीदृग्रोपभुज्यते ॥ KRT_1_0217cd
पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता । KRT_1_0218ab
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ KRT_1_0218cd
पुनर्द्विजोभ्यधादेवं नैष्किंचन्यं किमस्ति वः । KRT_1_0219ab
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ KRT_1_0219cd
ज्यैष्ठे1त्र कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् । KRT_1_0220ab
आगतं चूडया2 तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ KRT_1_0220cd
द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती । KRT_1_0221ab
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ KRT_1_0221cd
क्रमात्प्रववृते सोथ नटचारणसंकुलः । KRT_1_0222ab
प्रेक्षि1लोकसमाकीर्णस्तत्र यात्रामहोत्सवः ॥ KRT_1_0222cd
द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा । KRT_1_0223ab
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ KRT_1_0223cd
पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ1 सः । KRT_1_0224ab
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ KRT_1_0224cd
ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् । KRT_1_0225ab
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशन1ः ॥ KRT_1_0225cd
अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् । KRT_1_0226ab
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ KRT_1_0226cd
परदुःखं समा1कर्ण्य स्वभावसुजनो जनः । KRT_1_0227ab
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ KRT_1_0227cd

202.

--1) A3 gloss कुबेर.

204.

--1) A3 gloss मध्याह्ने.

205.

--1) A3 सरोजल॰.

207.

--1) A3 gloss द्विवचनम्.

208.

--1) A2 gloss कर्णिकायां कर्णाभरणे.

209.

--1) A3 gloss अंशुक.

211.

--1)

--2) A3 glosses कच्छयधान्ये, हिम इति भाषया.

212.

--1) A3 gloss विप्रः.

213.

--1) Thus corr. from A1 ॰श्चटसीत्कृतैः by A3 which adds the note चटसीकृतैः झलाहरणभाण्डतया विरचितैः पुटकैः पचपुटैः सङ्गृह्य सम्यग्गृहीत्वा पानीयं चोपनिन्ये । चटसं कुम्भाद्यभावे कृत्त्रिममुदकोत्क्षेपणभाण्डम् । इति विवरणकाराः । चटसीकृतदलपुटैर्जलानयनवर्णनाऽन्यत्रापि कृता । यथा कौसल्यां प्रति सुमंत्रो रामवनगमनदशां श्रावयति । विहितशयनोनेकन्यासैरनेकहपल्लवैः कलितकलशीकार्यः कुभीदलैश्चटसीकृतैः । अथ विरचितः किञ्चिन्म्लानप्रभोह्नि सुतेन ते परिसरसरिज्जम्बूकुञ्जे निकेतपरिग्रह इति ॥.

--2) Thus corr. by A3 from A2 ॰शीस्कृतम्.

214.

--1) A3 gloss चमु अदने.

217.

--1) This verse is supplied in margin by a hand resembling A3; found in G R Edd.--2) A2 gloss किञ्चित्.

220.

--1) Emended; A R G ज्येष्ठे.

--2) Thus corr. by A1 from चूलया.

222.

--1) A2 gloss प्रेक्षिकः

224.

--1) A3 ॰वेदिताय.

225.

--1) A3 gloss नागः.

227.

--1) A3 वदा.

[page 10]




वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्व्यक्तं निन्दति योग्यतां मितमतिः1 कुर्वन्स्तुतीरा2त्मनः । KRT_1_0228ab
गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं श्रुत्वा दुःखमरुंतुदा वितनुते पीडां जन3ः प्राकृतः ॥ KRT_1_0228cd
अत एव विवेक्तॄणां यावदायुः स्वमानसे । KRT_1_0229ab
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ KRT_1_0229cd
कः स्वभावगभीराणां लक्षयेद्बहिरापदम् । KRT_1_0230ab
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ KRT_1_0230cd
नदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते । KRT_1_0231ab
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ KRT_1_0231cd
त्वयाप्यस्मद्धितार्थाय1 निसर्गसरलात्मना । KRT_1_0232ab
ईषत्प्रयासः कल्याणिन्क्रियतां यदि शक्यते ॥ KRT_1_0232cd
योयं तरुतले मुण्डश्चूडालो दृश्यते व्रती । KRT_1_0233ab
अमुना सस्यपालेन कान्दिशीकाः कृता वयम् ॥ KRT_1_0233cd
अभुक्ते मान्त्रिकैरन्ने नवे1 नागैर्न भुज्यते । KRT_1_0234ab
अयं नात्ति च तत्तेन समयेन हता वयम् ॥ KRT_1_0234cd
क्षेत्राणि रक्षत्येतस्मिन्दृष्ट्वापि फलसंपदम् । KRT_1_0235ab
भोक्तुं नैव समर्थाः स्मः प्रेता इव सरिज्जलम् ॥ KRT_1_0235cd
तथा कुरु यथा भ्रश्येत्समयादेष नैष्ष्टिकः । KRT_1_0236ab
योग्यां प्रतिक्रियां विद्मो वयमप्युपकर्तृषु ॥ KRT_1_0236cd
स तथेति ततो नागमुक्त्वा यत्नपरो द्विजः । KRT_1_0237ab
अचिन्तयद्दिवारात्रं1 सस्यपालस्य वञ्चनाम् ॥ KRT_1_0237cd
गूढं तस्य बहिःक्षेत्रकुटीगर्मकृतस्थितेः । KRT_1_0238ab
पच्यमानान्नभाण्डान्तर्नवान्नं न्या1क्षिपत्ततः ॥ KRT_1_0238cd
भुञ्जान एव तत्तस्मिन्क्षणादेव जहार सः । KRT_1_0239ab
अहीन्द्रः करकासारवर्षी स्फीतां फलश्रियम् ॥ KRT_1_0239cd
तं च व्युत्क्रान्तदारिद्र्यः सरसोभ्यर्णमागतम् । KRT_1_0240ab
कृतोपकारमन्येद्युर्निजोर्वीमनयद्द्विजम् ॥ KRT_1_0240cd
स तत्र पितुरादेशात्कन्याभ्यां विहितार्हणः । KRT_1_0241ab
अमर्त्यसुलभैर्भोगैरतोष्यत दिने दिने ॥ KRT_1_0241cd
कालेन सर्वानामन्त्र्य स्वां भुजं गन्तुमुद्यतः । KRT_1_0242ab
प्रतिश्रुतवरं नागं चन्द्रलेखामयाचय ॥ KRT_1_0242cd
संबन्धायोग्यमपि तं कृतज्ञत्ववशंवदः । KRT_1_0243ab
संविभेजे स भुजगः कन्यया च धनेन च ॥ KRT_1_0243cd
एवं नागवरावाप्तश्रियस्तस्य द्विजन्मनः । KRT_1_0244ab
महान्नरपुरे कालस्तैस्तैर्नित्योत्सवैर्ययौ ॥ KRT_1_0244cd
भुजगेन्द्रतनूजापि तं पतिं पतिदेवता । KRT_1_0245ab
अतोषयत्परार्ध्यश्रीः शीलाचारादिभिर्गुणैः ॥ KRT_1_0245cd
तस्यां कदाचित्सौधाग्रस्थितायां प्राङ्गनाद्बहिः । KRT_1_0246ab
आतपायोज्झितं धान्यं बुभुजे विहरन्हयः ॥ KRT_1_0246cd
तं वारयितुमाहूता भृत्या नासन्गृहे यदा । KRT_1_0247ab
शिञ्जानमञ्जुमञ्जीरा सा तदावातरत्स्वयम् ॥ KRT_1_0247cd
एकहस्तधृतावेगस्रस्तशीर्षाशुकान्तया । KRT_1_0248ab
तया पाणिसरोजेन धावित्वा सोथ ताडितः ॥ KRT_1_0248cd
भोज्यमुत्सृज्य यातस्य फणिस्त्रीस्पर्शतस्ततः । KRT_1_0249ab
सौवर्णी पाणिमुद्राङ्गे1 तुरगस्योदपद्यत ॥ KRT_1_0249cd
तस्मिन्काले नरो राजा चारैस्तां चारुलोचनाम् । KRT_1_0250ab
श्रुत्वा द्विजवधूं तस्थौ प्रागेवाङ्कुरितस्मरः ॥ KRT_1_0250cd
तस्य धावन्तमुन्मत्तमन्तःकरणवारणम् । KRT_1_0251ab
बलान्नियमितुं नासीदपवादभयाङ्कुशः ॥ KRT_1_0251cd
तस्मिन्नुद्वृत्तरागाग्निविप्लवे भूपतेः पुनः । KRT_1_0252ab
उवाह हयवृत्तान्तो दृप्तवातानुकारिताम् ॥ KRT_1_0252cd
चक्रे पर्यस्तमर्यादः सरलाङ्गुलिशोभिना । KRT_1_0253ab
स काञ्चनकराङ्केन शशाङ्केनेव वारिधिः ॥ KRT_1_0253cd
व्रीडानिगडनिर्मुक्तो दूतैराकूतशंसिभिः । KRT_1_0254ab
तामुपच्छन्दयन्सोथ सुन्दरीमुदवेजयत् । KRT_1_0254cd
सर्वोपायैरासाध्यां च विप्रस्तत्पतिरप्यसौ । KRT_1_0255ab
तेनायाच्यत लुब्धेन रागान्धानां कुतस्त्रपा ॥ KRT_1_0255cd

228.

--1) Thus corr. by A3 from A1 ॰मेतः.

--2) Thus corr. by A2 from A1 स्तुतेरा॰.

--3) A2 पुनः; A3 gloss नीचो जनः.

232.

--1) A2 ॰द्धिताशने.

234.

--1) A3 अभुक्तं मान्त्रिकैरन्नं नवं.

237.

--1) Thus A3; A1 ॰रात्रौ.

238.

--1) Thus A1; a later hand alters this into नवान्नान्यक्षिपत्, found in G and R.

249.

--1) Thus A3; A1 ॰मुद्राङ्के.

[page 11]




अथ निर्भर्त्सानां तस्माद1पि प्राप्तवतासकृत् । KRT_1_0256ab
हठेन हर्तुम् तां2 राज्ञा समादिश्यन्त सैनिकाः ॥ KRT_1_0256cd
तैर्गृहाग्रे कृतास्कन्दो निर्गत्यान्येन वर्त्मना । KRT_1_0257ab
त्राणार्थी नागभवनं सजानिः प्राविशद्द्विजः ॥ KRT_1_0257cd
ताभ्यामभ्येत्य वृत्तान्ते ततस्तस्मिन्निविदिते । KRT_1_0258ab
क्रोधान्धः सरसस्तस्मादुज्जगाम फणीश्वरः ॥ KRT_1_0258cd
उद्गर्जज्जिह्मजीमूतजनितध्वान्तसंततिः । KRT_1_0259ab
स घोराशनिवर्षेण ददाह सपुरं नृपम् ॥ KRT_1_0259cd
दग्धप्राण्यङ्गविगलद्वसासृक्स्नेहवाहिनी । KRT_1_0260ab
मयूरचन्द्रकाङ्केव वितस्ता समपद्यत ॥ KRT_1_0260cd
शरणाय प्रविष्टानां भयाच्चक्रधरान्तिकम् । KRT_1_0261ab
मुहूर्तान्निरदह्यन्त सहस्राणि शरीरिणाम् ॥ KRT_1_0261cd
मधुकटभयोर्मेदः प्रागूर्वोरिव चक्रिणम् । KRT_1_0262ab
दग्धानां प्राणिनां तत्तत्तदा1 सर्वाङ्गमस्पृशत् ॥ KRT_1_0262cd
स्वसा1 सुश्रवसो नागी रमण्याख्याद्रिगह्वरात् । KRT_1_0263ab
साहायकायाश्मराशीन्समादाय तदाययौ ॥ KRT_1_0263cd
सा योजनाधिके शेषे मार्गस्यारात्सहोदरम्1 KRT_1_0264ab
कृतकार्यं निशम्याश्मवर्षं ग्रामेषु तज्जहौ ॥ KRT_1_0264cd
योजनानि ततः पञ्च जाता ग्रामधरा खिला । KRT_1_0265ab
सा रमण्याटवी1त्यद्याप्यस्ति2 स्थूलशिलाबिला ॥ KRT_1_0265cd
घोरं1 जनक्षयं कृत्वा प्रातः सानुशयोप्यहिः । KRT_1_0266ab
लोकापवादनिर्विण्णः स्थानमुत्सृज्य तद्ययौ ॥ KRT_1_0266cd
दुग्धाब्धिधवलं तेन सरो दूरगिरौ कृतम् । KRT_1_0267ab
1मरेश्वरयात्रायां जनैरद्यापि दृश्यते ॥ KRT_1_0267cd
श्वशुरानुग्रहान्नागीभूतस्यापि द्विजन्मनः । KRT_1_0268ab
जामातृसर इत्यन्यत्तत्र च प्रथितं सरः ॥ KRT_1_0268cd
प्रजानां पालनव्याजान्निःशङ्क1क्षयकारिणः । KRT_1_0269ab
अकस्मादन्तकाः केचि3त्संभवन्ति तथाविधा3ः ॥ KRT_1_0269cd
अद्यापि रागः कियान्नाम2 दोषः स्वल्पदृशां मते । KRT_1_0270ab
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ KRT_1_0270cd
राज्ञां1 रागः कियान्नाम2 दोषः स्वल्पदृशां मते । KRT_1_0271ab
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ KRT_1_0271cd
सतीदैवतविप्राणामप्येकस्य प्रकोपतः । KRT_1_0272ab
श्रुतो हि प्रतिवृत्तान्तं त्रैलोक्यस्यापि विप्लवः ॥ KRT_1_0272cd
चत्वारिंशतमब्दान्स मासैश्चोनां त्रिभिः समाम् । KRT_1_0273ab
भुवं भुक्त्वा क्षितिवृषा1 दुर्नयेन क्षयं ययौ ॥ KRT_1_0273cd
अप्य1ल्पकालसंदृष्टप्राकाराट्टालमण्डलम् । KRT_1_0274ab
तत्किंनरपुरं लेभे गन्धर्वनगरोपमाम् ॥ KRT_1_0274cd
एकस्तु तनयस्तस्य वैचित्र्यात्कर्मणां गतेः । KRT_1_0275ab
स्वधात्र्या विजयक्षेत्रं नीतः प्राणैर्न तत्यजे ॥ KRT_1_0275cd
राजा सिद्धाभिधः सोथ तथा निःशेषितं जनम् । KRT_1_0276ab
नवीचकार जलदो दावदग्धमिवाचलम् ॥ KRT_1_0276cd
इति वृत्तं महाश्चर्यं तस्य पित्र्यं महामतेः । KRT_1_0277ab
संसारासारताज्ञाने प्राप पुण्योपदेशताम् ॥ KRT_1_0277cd
भोगयोगेन मालिन्यं नेतुं मध्यगतोपि सः । KRT_1_0278ab
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥ KRT_1_0278cd
दर्पज्वरोष्णभूपालमध्ये निर्ध्यायतोनिशम् । KRT_1_0279ab
सुधासूतिकलामौलिं तस्यैवोल्लाघतोद्ययौ ॥ KRT_1_0279cd
गणितं गुणिना तेन मणींस्तृणमिवोज्झता । KRT_1_0280ab
खण्डेन्दुमण्डनार्चायां मण्डनत्वमखण्डितम् ॥ KRT_1_0280cd
राज्ञस्तस्यैव राजश्रीः परलोकानुगाभवत् । KRT_1_0281ab
यस्ताaमयोजयद्धूर्तो धर्मेणाव्य1भिचारिणा ॥ KRT_1_0281cd
षष्टिमब्दान्प्रशास्योर्वीमासन्नानुचरान्वितः । KRT_1_0282ab
आरुरोह सदेहोसौ लोकाञ्शशिशिखामणेः ॥ KRT_1_0282cd

256.

--1) A3 gloss तस्याः भर्तुः.

--2) A3 gloss चन्द्रलेखां.

262.

--1) A3 तं तु तदा.

232.

--1) A3 gloss रमण्या नागी.

264.

--1) Thus A2; A1 ॰रान्महोदरम्.

265.

--1) A2 gloss रमण्याटवी रमेआडू इति प्रसिद्धः.

--2) A1 originally ॰प्यस्थि, altered by later hand as above. G and R ॰प्यस्ति.

267.

--1) A2 adds the note अमरेश्वरयाचायां प्रागुद्दिष्टोयं नागः सुश्रवा इत्याख्यः सुश्रम् नाग इति भाषया प्रसिद्धः तस्यैवोपरि [निक]टस्थले जामा[तृ]नाग इति भाषया प्रसिद्धः स विशाखनामा ब्राह्मण एव निजश्वशुरानुग्रहेण नागीभूतो नाग इत्यर्थः. The aksharas in brackets are effaced in A and have supplied here from R.

269.

--1) A G R निशङ्क॰.

--2)

--3) A3 glosses राजानः, नरनामसदृशाः.

271.

--1) A3 राज्ञो.

--2) Emended; A G R कियन्नाम.

273.

--1) A3 gloss इन्द्रः.

274.

--1) A3 gloss अत्यन्त॰.

281.

--1) Thus A1; A3 धर्मेण व्य॰.

[page 12]




भृत्या नरं समाश्रित्य प्रययुः शोचनीयताम् । KRT_1_0283ab
तत्सुतं तु समालम्ब्य प्रभुं भुवनवन्द्यताम्1 KRT_1_0283cd
यात्याश्रितः किल समाश्रयणीयलभ्यां निन्द्यां गतिं जगति सर्वजनार्चितां वा । KRT_1_0284ab
गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः पुष्पाश्रयी सुरशिरोभुवि रूढिमेति ॥ KRT_1_0284cd
सिद्धः सिद्धः सदेहोयमिति शब्दं सुरा दिवि । KRT_1_0285ab
प्राघोषय1ंस्ताडयन्तः पटहं सप्त वासरान् ॥ KRT_1_0285cd
उत्पलाक्ष इति ख्यातिं पेशलाक्षतया1 गतः । KRT_1_0286ab
तत्सूनुस्त्रिंशतं सार्धां वर्णाणामन्वशान्महीन् ॥ KRT_1_0286cd
तस्य सूनुर्हिरण्याक्षः स्वनामाङ्कं1 पुरं व्यधात् । KRT_1_0287ab
क्ष्मां सप्तत्रिंशतिं2 वर्षान्सप्त मासांश्च भुक्तवान् ॥ KRT_1_0287cd
हिरण्यकुल इत्यस्य हिरण्योत्सकृदात्मजः । KRT_1_0288ab
षष्टिं षष्टिं वसुकुलस्तत्सूनुरभवत्समाः ॥ KRT_1_0288cd
अथ म्लेच्छगणाकीर्णे मण्डले चण्डचेष्टितः । KRT_1_0289ab
तस्यात्मजोभून्मिहिरकुलः कालोपमो नृपः ॥ KRT_1_0289cd
दक्षिणां सान्तकामाशां स्पर्धया जेतुमुद्यता । KRT_1_0290ab
यन्मिषादुत्तरहरिद्वभारान्यमिवान्तिकम् ॥ KRT_1_0290cd
सांनिध्यं यस्य हतप्राणिसहस्रपरिवारितः । KRT_1_0291ab
अजानन्गृध्रकाकादीन्दृष्ट्वाग्रे धावन्तो जनाः ॥ KRT_1_0291cd
दिवारात्रं हतप्राणिसहस्रपरिवारितः । KRT_1_0292ab
योभूद्भूपालवेतालो विलासभवनेष्वपि ॥ KRT_1_0292cd
बालेषु करुणा स्त्रीषु घृणा वृद्धेषु गौरवम् । KRT_1_0293ab
न बभूव नृशंसस्य यस्य घोराकृतेर्घ्नतः ॥ KRT_1_0293cd
स जातु देवीं संवीतसिंहलांशु1ककञ्चुकाम् । KRT_1_0294ab
हैमपादाङ्कितकुचां दृष्ट्वा जज्वाल मन्युना ॥ KRT_1_0294cd
सिंहलेषु नरेन्द्राङ्घ्रिमुद्राङ्कः क्रियते पटः । KRT_1_0295ab
इति क्ञ्चुकिना पृष्टेनोक्तो यात्रामदात्ततः ॥ KRT_1_0295cd
तत्सेनाकुम्भदानाम्भोनिम्नगाकृतसंगमः । KRT_1_0296ab
यमुनालिङ्गनप्रीतिं प्रपेदे दक्षिणार्णवः ॥ KRT_1_0296cd
स सिंहलेन्द्रेण समं संरम्भादुदपाटयत् । KRT_1_0297ab
चिरेण चरणस्पृष्टप्रियालोकनजां रुषम्1 KRT_1_0297cd
दूरात्तत्सैन्यमालोक्य लङ्कासौधैर्निशाचराः । KRT_1_0298ab
भूयोपि राघवोद्योगमाशङ्क्य प्रचकम्पिरे ॥ KRT_1_0298cd
स तत्रान्यं नृपं दत्त्वा तीव्रशक्तिरु1पाहरत् । KRT_1_0299ab
पटं यमुषदेवाख्यं मार्ताण्डप्रतिमाङ्कितम् ॥ KRT_1_0299cd
व्यावृत्य चोलकर्णाटलाटादींश्च नरेश्वरान् । KRT_1_0300ab
सिन्धुरानिव गन्धेभो गन्धेनैव व्यदारयत् ॥ KRT_1_0300cd
तस्मिन्प्रयाते प्राप्तेभ्यः शशंसुस्तत्पराभवम् । KRT_1_0301ab
नगर्यो नरनाथेभ्यस्त्रुट्यदट्टालमेखलाः ॥ KRT_1_0301cd
काश्मीरं द्वारमा1साद्य श्वभ्रभ्रष्टस्य दन्तिनः । KRT_1_0302ab
श्रुत्वा स त्रासजं घोषं तोषरोमाञ्चितोभवत् ॥ KRT_1_0302cd
तदाकर्णनसंरम्भे सहर्षोथ विरुद्धधीः । KRT_1_0303ab
शतमन्यद्गजेन्द्राणां हठेन निरलोटयत् । KRT_1_0303cd
स्पर्शोङ्गानि यथा वाचं कीर्तनं पापिनां तथा । KRT_1_0304ab
संदूषयेदतो नोक्ता तस्यान्यापि नृशंसता । KRT_1_0304cd
को वेत्त्यद्भुत1चेष्टानां कृत्यं प्राकृतचेतसाम् । KRT_1_0305ab
धर्मं सुकृतसंप्राप्तिहेतोः सोपि यदाददे ॥ KRT_1_0305cd
श्रीनगर्यां हि दुर्बुद्धिर्विदधे मिहिरेश्वरम् । KRT_1_0306ab
होलडायां1 स मिहिरपुराख्यं पृथुपत्तनम् ॥ KRT_1_0306cd
अग्रहाराञ्जगृहिरे गान्धारा ब्राह्मणास्ततः । KRT_1_0307ab
समानशीलास्तस्यैव ध्रुवं तेपि द्विजाधमाः ॥ KRT_1_0307cd

283.

--1) Thus corr. by A2 from A1 ॰वन्ध्यताम्.

283.

--1) Thus A3; A1 प्रोद्घोषयन्ताड॰.

286.

--1) Thus corr. by later hand from A1 पेशलाक्षितया.

287.

--1) A2 gloss रण्येल् with note स्वनामाङ्कपुरप्रणीरित्यपि पाठः.

--2) A सप्तत्रिं॰.

291.

--1) A2 gloss हन्यमानानां लोकानां यदशनं । अदनं । तत्रोत्सुकाः.

294.

--1) A2 gloss तिङ्गालद्वीप,

297.

--1) Thus corr. by A1 from रुजम्.

299.

--1) Thus corr. by A3 from A1 ॰शक्तिरपा॰.

302.

--1) A2 gloss तदारभ्य हस्तिवञ्ज इति प्रसिद्धः प्रदेशवर्त्म येन आयातो मिहिरकुलः.

305.

--1) A3 वैत्युद्वृत्त॰.

306

--1) Emended; होलाळायां. Cf. vii 1228. viii.733. 1432(C.). 2909(C.). 3216(C.).

[page 13]




मे1घागमः फणिभुजं प्रथितान्धकारः प्रीणाति हंसममलो जलदात्ययश्च । KRT_1_0308ab
प्रीतेः समानरुचितैव भवेन्नितान्तं2 दातुः प्रतिग्रहकृतश्च3 परस्परस्य ॥ KRT_1_0308cd
स वर्षसप्ततिं भुक्त्वा भुवं भूलोकभैरवः । KRT_1_0309ab
भूरिरोगार्दितवपुः प्राविशज्जातवेदसम् ॥ KRT_1_0309cd
सोयं विकोटिहा मुक्तो यः स्वात्मन्यपि निर्घृणः । KRT_1_0310ab
देहत्यागेस्य गगनादुच्चारेति भारती ॥ KRT_1_0310cd
इत्यूचुर्ये मते तेषां स एव परिहारदः । KRT_1_0311ab
खण्डयन्वीतघृणतामग्रहारादिकर्मभिः ॥ KRT_1_0311cd
आक्रान्ते दारदैर्भौट्टैर्म्लेच्छैरशुचिकर्मभिः । KRT_1_0312ab
विनष्टधर्मे देशेस्मिन्पुण्याचारप्रवर्तनम् ॥ KRT_1_0312cd
आर्यदेश्यान्स संस्थाप्य व्यतनोद्दारुणं तपः । KRT_1_0313ab
संकल्प्य स्ववपुर्दाहं प्रायश्चित्तक्रियां व्यधात् ॥ KRT_1_0313cd
अत एवाग्रहाराणां सहस्रं प्रयपादयत् । KRT_1_0314ab
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ KRT_1_0314cd
क्षुरखड्गासिधेन्वादिपूर्णेयःफलके तदा । KRT_1_0315ab
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहौ ॥ KRT_1_0315cd
इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि । KRT_1_0316ab
प्राहुः पुरुषसिंहस्य क्रौर्यं तस्याविगर्हितम् ॥ कुलकम् ॥ KRT_1_0316cd
ये नागेन रुषा प्लुष्टे नगरे प्राभवन्खशाः । KRT_1_0317ab
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ KRT_1_0317cd
अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् । KRT_1_0318ab
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ KRT_1_0318cd
ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः । KRT_1_0319ab
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ KRT_1_0319cd
साध्वी स्पृशति चेदेनां निरोद्धुं न स1 शक्नुयात् । KRT_1_0320ab
ततोपरेद्युः स्वप्नोक्तं शिलायां तेन कारितम् ॥ KRT_1_0320cd
तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् । KRT_1_0321ab
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ KRT_1_0321cd
कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः । KRT_1_0322ab
सपतिभ्रातृपुत्राणामवधीत्कुलयोiषितम् ॥ KRT_1_0322cd
इयं नान्यमते ख्यातिः प्रथते तथ्यतः पुनः । KRT_1_0323ab
अभव्या सनिमितापि प्राणिहिंसा गरीयसी ॥ KRT_1_0323cd
एवं क्षुद्रोपि यद्राजा संभूय न हतो जनैः । KRT_1_0324ab
तत्कर्म काaरयद्भिस्तद्दैवतैरेव रक्षितः ॥ KRT_1_0324cd
प्रजापुण्योदयैस्तीव्रैश्चिरात्तस्मिन्क्षयं गते । KRT_1_0325ab
बकस्त1त्प्रभवः पौरैः सदाचारोभ्यषिच्यत ॥ KRT_1_0325cd
तत्रापि पूर्वसंस्कारादुक्त1त्रासं दधे जनः । KRT_1_0326ab
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ KRT_1_0326cd
अतिसंतापदाज्जातः स जनाह्लादकोभवत् । KRT_1_0327ab
जलौघो जलदश्यामात्तपात्ययदिनादिव ॥ KRT_1_0327cd
लोकान्तरादिवायातं मेने धर्मं तदा जनः । KRT_1_0328ab
अभयं च परावृत्तं प्रवासाद्गहनादिव ॥ KRT_1_0328cd
स बकेशं बकश्वभ्रे बकवत्यापगां तथा । KRT_1_0329ab
कृत्वा पुरं परार्ध्यश्रीर्लवणोत्साभिधं व्यधात् ॥ KRT_1_0329cd
तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा । KRT_1_0330ab
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ KRT_1_0330cd
अथ योगेश्वरी काचिद्भट्टाख्या रजनीमुखे । KRT_1_0331ab
कृत्वा कान्ताकृतिं काम्यामुपतस्थे विशां पतिम् ॥ KRT_1_0331cd
तया मनोहरैस्तैस्तैर्व1चनैर्ग्लपितस्मृतिः । KRT_1_0332ab
स योगोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमन्त्र्यत ॥ KRT_1_0332cd
पुत्रपौत्रतोपेतः प्रातस्तत्र ततो गतः । KRT_1_0333ab
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ KRT_1_0333cd
कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् । KRT_1_0334ab
जानुमुद्राद्वयं तस्या दृशद्यद्यापि दृश्यते ॥ KRT_1_0334cd

308.

--1) Edd. add before this verse the following verses, not found in A G R: भगिनीवर्गसम्भोगनिर्लज्जाम्लेच्छवंशजाः । स्नुषासङ्गतिसक्ताश्च दारदाः सन्ति पापिनः ॥ वस्तुभावैस्तथा भाट्टा भार्याविक्रयकारिणः । परोपभोगितास्तेषां निर्लज्जास्तर्हि योषितः ॥.

--2) A2 ॰न्निमित्तं.

--3) Thus A3; A1 ॰ग्रहहृतश्च.

320.

--1) Thus corr. by A3 from A1 न च.

325.

--1) Emended; A R G एकस्त॰.

326.

--1) G उक्तात्त्रासं.

332Thus corr. by A2 from A1 ॰हरैस्तैतैर्व॰.

[page 14]




देवः शतकपालेशो मातृचक्रं शिला च सा । KRT_1_0335ab
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ KRT_1_0335cd
देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः । KRT_1_0336ab
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ KRT_1_0336cd
द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः । KRT_1_0337ab
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ KRT_1_0337cd
नरः षष्टिं तस्य सूनुस्तावतोक्षश्च तत्सुतः । KRT_1_0338ab
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ KRT_1_0338cd
जुगोप गोपादियोथ क्ष्मां सद्वीपां तदात्मजः । KRT_1_0339ab
वर्णाश्रमप्रत्यवेक्षा1दर्शितादियुगोदयः ॥ KRT_1_0339cd
सखोलखागिकाहाडिग्राम1स्कन्दपुरा2भिधान् । KRT_1_0340ab
शमाङ्गास1मुखांश्चाग्रहारान्यः प्रत्यपादयत् ॥ KRT_1_0340cd
ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्रावा1र्यदेशजाः । KRT_1_0341ab
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ KRT_1_0341cd
भूक्षीरवाटिकायां1 यो निर्वास्य लशुनाशिनः । KRT_1_0342ab
खासटायां2 व्यधाद्वि3प्रान्निजाचारविवर्जितान् ॥ KRT_1_0342cd
अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु1 KRT_1_0343ab
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ KRT_1_0343cd
उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु । KRT_1_0344ab
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ KRT_1_0344cd
सषड्दिनां1 वर्षषष्टिं पालयित्वा स मेदिनीम् । KRT_1_0345ab
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ KRT_1_0345cd
गोकर्णस्तत्सुतः क्षोणीं गोकर्णेश्वरकृद्दधे । KRT_1_0346ab
अष्टपञ्चाशतं वर्षांस्त्रिंशत्याह्नां विवर्जितान् ॥ KRT_1_0346cd
सूनुर्नरेन्द्रादित्योस्य खिङ्खिलान्याभिधोभवत् । KRT_1_0347ab
भूतेश्वरप्रतिष्ठानामक्षयिण्याश्च1 कारकः2 KRT_1_0347cd
दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् । KRT_1_0348ab
उग्रेशं मातृचक्रं च प्रभावोदग्रविग्रहः ॥ KRT_1_0348cd
भूत्वा षट्त्रिंशतं वर्षाञ्शतं चाह्नां विभुर्भुवः । KRT_1_0349ab
स दीर्घैरनघांल्लोकानासदत्सुकृतैः कृती ॥ KRT_1_0349cd
युधिष्ठिराभिधानोभूदथ राजा तदात्मजः । KRT_1_0350ab
यः सूक्ष्माक्षतया1 लोकैः कथितोन्धयुधिष्ठिरः ॥ KRT_1_0350cd
तेन क्रमागतं राज्यं सावधानेन शासता । KRT_1_0351ab
अनुजग्मे मितं कालं पूर्वभूपालपद्धतिः ॥ KRT_1_0351cd
काले कियत्यपि ततो यात्यभाग्यशादसौ । KRT_1_0352ab
सिषेवे श्रीमदक्षीवो यत्किंचनविधायिताम् ॥ KRT_1_0352cd
नान्वग्रहीदनुग्राह्यान्न संजग्राह धीमतः । KRT_1_0353ab
न प्रवृत्तोपचाराणां प्रागिवासीत्प्रियंकरः ॥ KRT_1_0353cd
दुर्विद्यपर्षदा साकं निर्विशेषं सभाजितैः । KRT_1_0354ab
परिजह्रे1 स दुर्जातो जाततेजोवधैर्बुधैः ॥ KRT_1_0354cd
सर्वत्र समदृष्टत्वं गुणोयं खलु योगिनः । KRT_1_0355ab
अकीर्तिहेतुः स महान्दोषस्तु पृथिवीपतेः ॥ KRT_1_0355cd
नयद्भिर्गुनतां दोषान्दोषतां च गुणान्विटैः । KRT_1_0356ab
स लुप्तप्रतिभश्चक्रे शनकैः स्त्रीजितोपमः ॥ KRT_1_0356cd
वाङ्मर्मच्छेदिनी दीर्घं नर्म शश्वत्कथा विटैः । KRT_1_0357ab
अनीश्वरोचिता तस्य क्रीडापि भयदाभवत् ॥ KRT_1_0357cd
पुरो मिथ्या गुणग्राही परोक्षं दोषदर्शकः । KRT_1_0358ab
असुस्थिरादरो भूभृत्सोभूद्द्वेष्योनुजीविताम् । KRT_1_0358cd
मनागनवधानेन स्खलतस्तस्य भूपतेः । KRT_1_0359ab
इत्थं राज्यस्थितिरगादचिरेण विसूत्रताम् ॥ KRT_1_0359cd
उपेक्षितस्य निर्द्रोहैर1यतन्ताजितात्मनः । KRT_1_0360ab
अथ लब्धबलास्तस्य नाशाय द्रोहिमन्त्रिणः ॥ KRT_1_0360cd

339.

--1) Thus corr. by A3 from A1 प्रयवीक्षा॰.

340.

--1) A2 gloss आडेग्राम्.

--2) A2 gloss खन्दोर्.

--3) A2 शमाजासा, with gloss श्मिन् जासव्.

341.

--1) A2 gloss गोपकार् इति प्रसिद्धस्थले.

342.

--1) A2 gloss भूच्छ्येवाडू इति भाषया प्रसिद्धस्थले.

--2) A2 gloss सोदरबले.

--3) Emended; A R व्यधान्वि॰; G व्यथान्वि॰.

343.

--1) A2 gloss वच्यिग्रामादिषु.

345.

--1) A3 सषण्मासां.

347.

--1) Thus corr. from A1 ॰न्याश्च by A2 which adds the glosses अविच्छिन्नमन्नदानमक्षयिणी धर्मभक्तमिति च प्रसिद्धा, and अक्षयिण्या इति पार्वतीयदेशादौ कश्मीरोपकण्ठवर्तिनि अछ्यीण्या इति प्रसिद्धाः यासु(A3 यस्यां) सदक्षिणं भूरिब्राह्मणभोजनं वितीर्यते. Of a third gloss by A2 which has been smeared over with ink, only the following can be read: उद्यापनं यज्ञमित्यक्षयि ------ .

360

--1) A3 gloss मंत्रिभिः.

[page 15]




प्रभोः संकोचिताज्ञैस्तैश्चरद्भिर्निरवग्रहम् । KRT_1_0361ab
राज्यं जिहीर्षवो भूपाश्चक्रिरे भूम्यनन्तराः ॥ KRT_1_0361cd
तदनुप्राणिताः सर्वे ते ते1 नानादिगाश्रयाः । KRT_1_0362ab
आसन्नाज्यामिषं प्राप्तुं श्येना इव ससंभ्रमाः ॥ KRT_1_0362cd
अथोत्पन्नभयो राजा न शशाक निजस्थितिम् । KRT_1_0363ab
व्यवस्थापयितुं यन्त्र1च्युतां कारुः शिलामिव ॥ KRT_1_0363cd
चिरं क्षुण्णे क्षमाभर्तुस्तस्मिन्राज्ये विसंस्थुले । KRT_1_0364ab
उपायोस्य स्थितेर्हेतुर्नैकः कश्चन1 पप्रथे ॥ KRT_1_0364cd
वृष्टदोषान्स्थितिं प्राप्तो1 हन्यादस्मानसंशयम् । KRT_1_0365ab
विचिन्त्येति न सामास्य जगृहुर्निजमन्त्रिणः ॥ KRT_1_0365cd
अथ निरुरुधुस्ते संनद्धा बलैर्नृपमन्दिरं व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः । KRT_1_0366ab
मदकरिघटाकेतुच्छायानिरुद्धरविप्रभा भवनवलभीः संतन्वन्तो दिवापि तमोवृताः ॥ KRT_1_0366cd
तैर्गन्तुं स्वभुवो निवारितरणैर्दत्तेवकाशे1 त्तस्त्यक्तश्रीर्नगरान्तरात्स नृपतिस्तात्पर्यतो निर्ययौ । KRT_1_0367ab
आजानेयरजोङ्कराजललनाप्रस्थानसंदर्शनक्षुभ्यत्पौरजनास्रुलाजकणिकाकीर्णेन राजाध्वना ॥ KRT_1_0367cd
राज्याच्च्युतस्य बहुशः परिवाररामा1कोशादि तस्य रिपवो व्रजतोपजह्रु1ः । KRT_1_0368ab
उर्वीरुहो विगलितस्य3 नगेन्द्रशृगाद्वलीफलादि रभसादिव गण्डशैलाः । KRT_1_0368cd
रम्यैः शैलपथैर्व्रजञ्श्रमवशाच्छायां श्रितः शाखिनामासीनप्रचलायितेन1 सुमहद्दुःखं चिसस्मार सः । KRT_1_0369ab
दूरात्पामरपूत्कृतैः श्रुतिपथाप्राप्तैः प्रबुद्धस्त्वभूद्दृष्टो निर्झरवारिभिः सह मनः2श्वभ्रे निमज्जन्निव ॥ KRT_1_0369cd
नानावीरुत्तृणापरिमलैरुग्रगन्धा वनोर्वीरम्भःक्षोभप्रतिहतशिलाः पिच्छिलाश्चाद्रिकुल्याः । KRT_1_0370ab
क्रान्त्वा श्रान्तैर्विसकिसलयच्छायमुग्धाङ्गलेखैरभ्युत्सङ्गं1 निहिततनुभिर्मूर्च्छितं तस्य दारैः ॥ KRT_1_0370cd
पर्यन्ता1द्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं द्रागामन्त्रयितुं जहत्सु2 नृपतेर्दारेषु पुष्पाञ्चलीन् । KRT_1_0371ab
क्षोणीपृष्ठविकीर्णपक्षतिनमत्तुण्डं स्वनीडस्थितैः सावेगं गिरिकन्दरासु पततां वृन्दैरपि क्रन्दितम् ॥ KRT_1_0371cd
स्तनयुगतलनद्धस्रस्तमूर्धाशुकानां त्रिकवलनविलोलं वीक्ष्य दूरात्स्वदेशम् । KRT_1_0372ab
अवहत रुदतीनाम् मौलिविन्यस्तहस्तं पथि नृपवनितानाम1स्रुभिर्निर्झराम्भ2ः ॥ KRT_1_0372cd
प्रीतिस्थैर्यैरुचितवचनाक्षिप्तया शोकशान्त्या निर्व्याजाज्ञाग्रहणग्रुभिस्तैश्च तैश्चोपचारैः । KRT_1_0373ab
तस्य स्नेहादुपगतवतो राज्यविभ्रंशदुःखं मन्दीचक्रुः स्वभुवि सुजना भूपतेर्भूमिपालाः ॥ KRT_1_0373cd


इ(1)ति काश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां प्रथमस्तरङ्गः ॥ चतुर्दशा(2)धिकं वर्षसहस्रं नव वासराः । मासाश्च विगता ह्यस्मिन्नेकविंशति(3)राजसु ॥

362

--1) A1 had written after ते ते; struck out. A3 तदनुप्राणिता वैरिनृपा नाना॰.

363

--1) A2 gloss यन्द्रवट् इति सेनायां युद्धादौ प्रसिद्धम्.

364

--1) Thus corr. by A3 from A1 कस्य न.

365.

--1) Thus corr. by A3 from A1 प्राप्तान्ह॰.

367.

--1) A3 gloss धर्मद्वारे.

368.

--1) Thus corr. by A3; A1 ॰रामाड्को॰.

--2) Thus corr. by A2 from A1 .विजह्रुः.

--3) A3 विवलितस्य.

369.

--1) G has sec. manu the v.l. आसीनः प्रलयायितेन.

--2) Thus A1; A3 given the v.l. महत् for मनः between the lines and another v.l. पुनः in margin.

370.

--1) A3 अध्युत्सङ्गं.

371.

--1) Thus A3; A1 पर्यस्ता॰.

--2) A3 क्षिपत्सु.

372.

--1) A2 बलमबलानां, with gloss अबलानां बलं कर्तृ.

--2) A2 gloss कर्म.

Colophon.

--1) A3 adds before this the note रा 38 ॥ अं ॥ 372॥.

--2) A3 चतुर्विंआ॰.

--3) Thus A3; A1 ॰न्नष्टात्रिंशति रा॰

[page 16]




॥ द्वितीयः तरङ्गः ॥

विहितमजगोशृ1ङ्गाग्राभ्यां धनुर्घटितं तथा नरकरटिनोर्देहार्धाभ्यां गणं परिगृह्णत2ः । KRT_2_0001ab
विविधघटनावाल्लभ्यानां निधेरुचिता3 विभोर्जयति ललनापुंभागाभ्यां शरीरविनिर्मितिः ॥ KRT_2_0001cd
भूयोराज्यार्जनोद्योगस्तेनात्यज्यत भूभुजा । KRT_2_0002ab
जरसा शमि1वाण्या च कर्णमूलमवाप्तया ॥ KRT_2_0002cd
अनयद्विनयोदात्तः समं स्वविषयेण तान् । KRT_2_0003ab
विषयान्वशिनामग्र्यः स तान्पञ्चापि विस्मृतिम् ॥ KRT_2_0003cd
धावन्राज्येच्छया दुर्गागलिकायां1 स्वमन्त्रिभिः । KRT_2_0004ab
कालेन स्थापितो बद्ध्वेत्यभ्यधायि तु कैरपि ॥ KRT_2_0004cd
अथ प्रतापादित्याख्यस्तैरानीय दिगन्तरात् । KRT_2_0005ab
विक्रमादित्यभूभर्तुर्ज्ञातिरत्राभ्यषिच्यत ॥ KRT_2_0005cd
शकारिर्विक्रमादित्य इति स भ्रममा1श्रितैः । KRT_2_0006ab
अन्यैरत्रान्यथालेखि विसंवादि2 कदर्थितम् ॥ KRT_2_0006cd
इदं स्वभेदविधुरं हर्षादीनां धराभुजाम् । KRT_2_0007ab
कंचित्कालमभूद्भोज्यं ततः प्रभृति मण्डलम् ॥ KRT_2_0007cd
असपूर्वापि तेनोर्वी सपूर्वेव महीभुजा । KRT_2_0008ab
आलिता हृदयज्ञेन पत्या नववधूरिव ॥ KRT_2_0008cd
भुक्त्वा द्वात्रिंशतं वर्षान्भुवं तस्मिन्दिवं गते । KRT_2_0009ab
जलौकास्तत्सुतो भूमेर्भूषणं समपद्यत ॥ KRT_2_0009cd
पितुरेव समं कालं वृद्धिहेतोः स दिद्युते । KRT_2_0010ab
विषुवत्पूर्णशीतांशुरिव शीतेतरार्चिषः ॥ KRT_2_0010cd
अथ वाक्पुष्टया सार्धं देव्या दिव्यप्रभावया । KRT_2_0011ab
भुवं तत्प्रभवो भुञ्जंस्तुञ्जीनोरञ्जयत्प्रजाः ॥ KRT_2_0011cd
दंपतिभ्यामियं ताभ्यामभूप्यत वसुंधरा । KRT_2_0012ab
गङ्गामृगाङ्कखण्डाभ्यां जटाभूरिव धूर्जटेः ॥ KRT_2_0012cd
मण्डलं साध्वधत्तां तौ नानावर्णमनोरमम् । KRT_2_0013ab
शतह्रदापयोवाहौ माहेन्द्रमिव कार्मुकम् ॥ KRT_2_0013cd
चक्राते च माहाभागौ विभ्रमाभरणं भुवः । KRT_2_0014ab
तुङ्गेश्वरं हरावासं कतिका(1ख्यं) च पत्तनम् ॥ KRT_2_0014cd
क्वचिन्मडवराज्यान्तःस्थाने चण्डातपोज्ज्वले1 KRT_2_0015ab
तत्प्रभावेण फलितं वृक्षैस्तत्क्षणरोपितैः ॥ KRT_2_0015cd
नाट्यं सर्वजनप्रेक्ष्यं यश्चक्रे स महाकविः1 KRT_2_0016ab
द्वैपायनमुनेरंशस्तत्काले चन्दकोभवत् ॥ KRT_2_0016cd
तयोः प्रभावमाहात्म्यजिज्ञासार्थमिवोद्यता । KRT_2_0017ab
प्रजासु दुःसहा जातु व्यापद्दैवी1 व्यजृम्भत ॥ KRT_2_0017cd
पाकोन्मुखशरच्छालिछन्नकेदारमण्डले । KRT_2_0018ab
मासि भाद्रपदेकस्मात्पपात तुहिनं महत् ॥ KRT_2_0018cd
तस्मिन्विश्वक्षयोद्युक्तकालाट्टझसितोपमे । KRT_2_0019ab
न्यमज्जञ्शालयः साकं प्रजानां जीविताशया ॥ KRT_2_0019cd
अथासीत्क्षुत्परिक्षामजनप्रेतकुलाकुलः । KRT_2_0020ab
प्राकारो1 निरयस्येव घोरो दुर्भिक्षविप्लवः ॥ KRT_2_0020cd
पत्रीप्रीतिं सुतस्नेहं पितृदाक्षिण्यमातुरः । KRT_2_0021ab
कुक्षिभरिः क्षुदुत्तप्तो विसस्माराखिलो जनः ॥ KRT_2_0021cd

1.

--1) Thus corr. by A3 from A1 ॰गोशृङ्गा॰.

--2) Thus corr. by A3 from A1 प्रतिगृह्यतः.

--3) A4 gloss अभ्यस्ता.

2.

--1) A2 gloss जितेन्द्रियाणां.

4.

--1) A2 gloss दुगज्यन्.

6.

--1) A3 स इति भ्रमम॰; R G follow this reading and write ॰दित्यः.

--2) A2 विसंवादक॰.

14.

--1) A2 gloss कैय्.

15.

--1) A3 ॰तपोल्बणे.

16.

--1) Thus A3 also R G; A1 ॰कवेः.

17.

--1) A3 gloss देवैः कृतत्वाद्देवानां संबन्धिनी दैवी.

20.

--1) Thus A1; altered by A3 into प्रकारो.

[page 17]




क्षुत्तापाद्व्यस्मरल्लज्जामभिमानं कुलोन्नतिम् । KRT_2_0022ab
अशनाहंक्रियाघ्रातो लोको1 लक्ष्मीकटाक्षितः ॥ KRT_2_0022cd
क्षामं कण्ठगतप्राणं याचमानं सुतं पिता । KRT_2_0023ab
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ KRT_2_0023cd
स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् । KRT_2_0024ab
अभूद्भोज्यार्थिनां युद्धं प्रेतानामिव देहिaनम् ॥ KRT_2_0024cd
रूक्षाभिभाषी क्षुत्क्षामो घोरो दिक्ष्वक्षिणी क्षिपन् । KRT_2_0025ab
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ KRT_2_0025cd
तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे । KRT_2_0026ab
ददृशे लोकनाथस्य तस्यैव करुनार्द्रता ॥ KRT_2_0026cd
निवारितप्रतीहारः स रत्नौषधिशोभिना । KRT_2_0027ab
दर्शनेनैव दीनानामलक्ष्मीक्लममच्छिनत् ॥ KRT_2_0027cd
सपत्नीको निजैः कोशैह् संचयैर्मन्त्रिणामपि । KRT_2_0028ab
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ KRT_2_0028cd
अटवीषु श्मशानेषु रथ्यास्ववसथेषु च । KRT_2_0029ab
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैक्ष्यत1 KRT_2_0029cd
ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् । KRT_2_0030ab
क्षपायामेकदा देवीमेवमूचे स1 दुःखितः ॥ KRT_2_0030cd
देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा । KRT_2_0031ab
जाता निरपराधानां जनानां व्यापदीदृशी ॥ KRT_2_0031cd
धिङ्मामधन्यं यस्याग्रे लोकोयं शोकपीडितः । KRT_2_0032ab
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ KRT_2_0032cd
प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः । KRT_2_0033ab
अरक्षतो भयेमुष्मिन्किं कार्यं जीवितेन मे ॥ KRT_2_0033cd
यथा कथंचिल्लोकोयं दिनान्येतानि यत्नतः । KRT_2_0034ab
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ KRT_2_0034cd
अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता । KRT_2_0035ab
निष्किंचनाद्य संजाता पृथिवी गतगौरवा ॥ KRT_2_0035cd
तदिमाः सर्वतो मग्ना दारुणे व्यसनार्णवे । KRT_2_0036ab
उपायः कतमस्तावत्समुद्धर्तुं क्षमः प्रजाः ॥ KRT_2_0036cd
निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः । KRT_2_0037ab
कालरात्रिकुलैर्विश्वक्परीत इव वर्तते ॥ KRT_2_0037cd
हिमसंघातदुर्लङ्ह्य1क्षितिभृद्रुद्धनिर्गमाः । KRT_2_0038ab
बद्धद्वारकुलाय2स्थखगवद्विवशा जनाः ॥ KRT_2_0038cd
शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः । KRT_2_0039ab
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ KRT_2_0039cd
आशाः काञ्चनपुष्पकुट्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलम् । KRT_2_0040ab
पन्थानः सुचिरोप1चाररुचिरैर्व्याप्ता न कैः संस्तुतैस्तेषाम2त्र वसन्ति निह्नुतगुणाः कालेन ये3 मोहिताः ॥ KRT_2_0040cd
तदेष गलितोपायो जुहोमि ज्वलने तनुम् । KRT_2_0041ab
नतु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ KRT_2_0041cd
धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते । KRT_2_0042ab
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ KRT_2_0042cd
इत्युत्वा करुणाविष्टो मुखमाच्छाद्य वाससा । KRT_2_0043ab
निपत्य तल्पे निःशब्दं1 रुरोद पृथिवीपतिः ॥ KRT_2_0043cd
निवातस्तिमितैर्दीपैरुद्ग्रीवैः कौतुकादिव । KRT_2_0044ab
वीक्षमाणाथ तं देवी जगाद जगतीभुजम् ॥ KRT_2_0044cd
राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः । KRT_2_0045ab
येनेतर इव स्वैरमधीरोचितमीहसे ॥ KRT_2_0045cd
यद्यसाध्यानि दुःखानि छेत्तुं न प्रभविष्णुता । KRT_2_0046ab
तन्महीपालः महतां महत्त्वस्य किमङ्कनम् ॥ KRT_2_0046cd
कः शक्रः कतमः स्रष्टा वराकः कतमो यमः । KRT_2_0047ab
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ KRT_2_0047cd
पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । KRT_2_0048ab
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ KRT_2_0048cd

22.

--1) A1 लोकोऽलक्ष्मी॰.

21.

--1) Thus corr. by A3 from A1 उपेक्ष्यते.

30.

--1) Thus corr. by A3 from A2 सु॰.

38.

--1) A3 हिमसंपातदुर्लक्षक्षि॰.

--2) A2 gloss नीडं.

40.

--1) A3 संस्तुतैरेषा॰, with gloss एषां श्रूरमतिमदादीनाम् निह्नुतगुनाः ये शूराद्या अत्र अस्मिन्नेव देशे वसन्ति देशान्तरं न गच्छन्ति ते कालेन मोहिताः.

--3) A3 ते.

43. Thus corr. by A3 from A1 ॰शङ्कं.

[page 18]




उत्तिष्ठ व्रतिनामग्र्य क्व विपर्येति मद्वचः । KRT_2_0049ab
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ KRT_2_0049cd
इति संरम्भतः प्रोक्ते तया1नुध्याय देवताः । KRT_2_0050ab
प्रतिगेहं गतप्राणः कपोतनिवहोततत् ॥ KRT_2_0050cd
प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् । KRT_2_0051ab
खृट्\_2\_0051चद् प्रजाश्च प्रयहं प्राप्तैः कपोतैर्जीवितं दधुः ॥:
वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा । KRT_2_0052ab
जनताजीवितावाप्त्यै न कपोतास्तु तेभवन्1 KRT_2_0052cd
तादृशां नहि निर्व्याजप्रानिकारुण्यशालिनाम् । KRT_2_0053ab
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ KRT_2_0053cd
अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् । KRT_2_0054ab
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ KRT_2_0054cd
सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् । KRT_2_0055ab
सती कतीमुषं1 चक्रे रामुषं2 चापकल्मषा ॥ KRT_2_0055cd
वैषैः षट्त्रिंशता शान्ते पत्यौ विरहजो ज्वरः । KRT_2_0056ab
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ KRT_2_0056cd
सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् । KRT_2_0057ab
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ KRT_2_0057cd
चारुचारित्रया तत्र तथा सत्त्रेवतारिते । KRT_2_0058ab
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ KRT_2_0058cd
आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् । KRT_2_0059ab
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ KRT_2_0059cd
वेधाः परां धुरमुपैति परीक्षकाणामिक्षोः फलप्रजननेन कृतश्रमो यः । KRT_2_0060ab
विस्मारितोद्धुरसुधारसयोग्यतां त1त्तस्मादुदेत्य2 किमिवाभ्यधिकं विदध्यात् ॥ KRT_2_0060cd
दीर्घदुर्दिननष्टार्कं राष्ट्रमात्मापचारतः । KRT_2_0061ab
ज्ञात्वा राज्ञ्यग्रिसाद्देहं सा चकारेति केचन ॥ KRT_2_0061cd
ततोन्यकुलजो राजा विजयोष्टावभूत्समाः । KRT_2_0062ab
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ KRT_2_0062cd
सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः । KRT_2_0063ab
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ KRT_2_0063cd
अलोल1कीर्तिकल्लोलदुगूलवलनोज्ज्वलाम् । KRT_2_0064ab
बभार यद्भुजस्तम्भो जयश्री2सालभञ्जिकाम्3 KRT_2_0064cd
तस्याभूदद्भुतोदन्त1भवभक्तिविभूषितः । KRT_2_0065ab
राज्ञः संधिमतिर्नाम मन्त्री मतिमतां वरः ॥ KRT_2_0065cd
नास्त्युपायः स संसारे कोपि योगोहितुं क्षमः । KRT_2_0066ab
भूपालमत्तकरिणामेषं चपलकर्णताम् ॥ KRT_2_0066cd
अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्विटैः । KRT_2_0067ab
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ युग्मम्॥ KRT_2_0067cd
निवारितप्रवेशोथ सकोप1स्तमहेतुकम् । KRT_2_0068ab
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ KRT_2_0068cd
तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः । KRT_2_0069ab
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ KRT_2_0069cd
गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः । KRT_2_0070ab
उक्तानुवादिनस्तावद्व्यक्तं प्रतिरवा इव ॥ KRT_2_0070cd
स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे । KRT_2_0071ab
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ KRT_2_0071cd
अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रति1मन्दिरम् । KRT_2_0072ab
राज्यं संधिमतेर्भावीत्यश्रुतापि सरस्वती ॥ KRT_2_0072cd
नाचोदिता वाक्चरतीत्याप्तेभ्यः श्रुतवान्नृपः । KRT_2_0073ab
ततः संभूत1संत्रासः कारावेश्मनि तं न्यधा2त् ॥ KRT_2_0073cd

50.

--1) A3 देव्या.

52.

--1) A3 पतन्.

55.

--1) A2 gloss कैमोह.

--2) A3 gloss रोमाह्.

60.

--1) Thus A1; A3 योग्यतात्तत्; G योग्यताचात्, explained by योग्यतयात्तो गृहीतः and subsequently corrected into योग्यता तु.

--3) Thus A1 gloss उत्पादयित्वा.

64.

--1) G आलोल॰.

--2) Thus corr. by A3 from A1 ॰स्त्री॰.

--3) A2 gloss पुत्तलिकाम्.

65.

--1) A3 ॰दात्तो.

68.

--1) A3 कोपात्तम्.

72,

--1) Thus corr. by A2 from A1 नवम॰; A2 had explained in margin the original reading by a note which has been struck out: राज्यं सन्धिमतो (sic) भावीत्यश्रुतापि सरस्वती एव नवमन्दिरं पप्रथे सन्धिमतेर्वराकस्य विषमपूर्ववृत्त्यपरिपोषकरूपत्वान्नवमन्दिररूपं तन्नात्र श्रुतवाक् श्रवणमभूदित्यर्थः येन च तदुपरि राजातीव क्रूरश्रेष्ठोभूदिति भावः.

73.

--1) Thus corr. by A2 from A1 सद्भूत॰.

--2) Thus corr. by A3 from A1 व्यधात्.

[page 19]




तत्र तस्योग्रनिगडैः पीडिताड्घ्रेर्विशुष्यतः । KRT_2_0074ab
पूर्णोभूद्दशमो वर्षो भूपतेश्चायुषोविधिः ॥ KRT_2_0074cd
निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे । KRT_2_0075ab
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ KRT_2_0075cd
ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् । KRT_2_0076ab
न विना दद्वधं मेने भावितव्यप्रतिक्रियाम् ॥ KRT_2_0076cd
भाव्यर्थस्याबु1धाः कुर्युरुपायं स्थगनाय यम् । KRT_2_0077ab
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ KRT_2_0077cd
दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् । KRT_2_0078ab
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थिते1 संतापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ KRT_2_0078cd
अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः । KRT_2_0079ab
निशि संधिमतिः शूले समारोप्य विपादितः ॥ KRT_2_0079cd
प्रोतशूले श्रुते तस्मिञ्चोकशङ्कुर्महीपतेः । KRT_2_0080ab
निरगाद्रोगभग्नस्य पूर्वं पश्चात्तु जीवितम् ॥ KRT_2_0080cd
सप्तत्रिंशतिवर्षेषु यातेष्वस्मिन्निरन्वये । KRT_2_0081ab
प्रशान्तभूमिपालाभूत्कतिचिद्दिवसानि भूः ॥ KRT_2_0081cd
अथ संधिमतिं बुद्ध्वा तथा व्यापादितं गुरोः । KRT_2_0082ab
ईशानाख्यस्य हृदयं विवशं वशिनोप्यभूत् ॥ KRT_2_0082cd
शिरीष इव संसारे सुखोच्छेद्ये मनीषिणाम् । KRT_2_0083ab
हन्तानृशंस्यं तद्वृन्तमिवैकमवशिष्यते ॥ KRT_2_0083cd
स श्मशानभुवं प्रापादनाथस्येव शुष्यतः । KRT_2_0084ab
कर्तुं विनयिनस्तस्य स्वोचितामन्तसत्क्रियाम् ॥ KRT_2_0084cd
तं चास्थिशेषमद्राक्षीत्कृष्यमाणं बलाद्वृकैः । KRT_2_0085ab
शूलमूलावबद्धास्थिखण्डावष्टंभनिश्चलम् ॥ KRT_2_0085cd
समीरणसमाकीर्णमु1ण्डरन्ध्राग्रनिर्गतैः । KRT_2_0086ab
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥ KRT_2_0086cd
हा वत्स द्रष्टुमीदृक्ते जीवाभ्यद्येति वादिना । KRT_2_0087ab
तस्याकृष्यत शूलान्तःप्रोतं तेनाथ कीकसम् ॥ KRT_2_0087cd
वेष्टिताङ्घ्रिः शिरःशीर्णैस्तत्कचैर्धूलिधूसरैः । KRT_2_0088ab
अनैषीत्तं स कङ्कलं वारयन्भषतो वृकान् ॥ KRT_2_0088cd
उचिताम् सत्क्रियां कर्तुं ततस्तस्य समुद्यतः । KRT_2_0089ab
भाले विधातृलिखितं श्लोकमेतमवाचयत् ॥ KRT_2_0089cd
यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम् । KRT_2_0090ab
शूलस्य पृष्ठे मरणं पुना1 राज्यं भविष्यति ॥ KRT_2_0090cd
पादत्रयस्य दृष्टार्थ1ः श्लोकस्यासीत्स योगिवत् । KRT_2_0091ab
द्रष्टव्ये तुर्यपा2दार्थप्र3त्यये कौतुकान्वितः ॥ KRT_2_0091cd
अचिन्तयच्च संभ्रान्तः कथमे1तद्भविष्यति । KRT_2_0092ab
उवाच च विधेः शक्तिमचिन्त्यां कलयंश्चिरम् ॥ KRT_2_0092cd
तत्तत्कर्मव्यतिकरकृतः पारतन्त्र्यानुरोधात्सज्जाः सर्वे व्यवसितहठोन्मूलनाय प्रयत्नात् । KRT_2_0093ab
चित्रं तत्राप्युदयति विधेः शक्तिरत्यद्भुतेयं यन्माहात्म्याद्विविधघटनासिद्धयो निर्निरोधाः ॥ KRT_2_0093cd
मणिपूरपुरे पार्थं निहितं समजीवयत् । KRT_2_0094ab
फणिकन्याप्रभावेण सर्वाश्चर्यनिधिर्विधिः ॥ KRT_2_0094cd
द्रोणपुत्रास्त्रनिर्दग्धं मातुर्गर्भे परीक्षितम् । KRT_2_0095ab
जीवयन्कृष्णमाहात्म्याद्धाता धुर्योधिकारिणाम् ॥ KRT_2_0095cd
कचं भस्मीकृतं दैत्यैर्नागांस्तार्क्ष्येण भक्षितान् । KRT_2_0096ab
पुनर्जीवयितुं को वा दैवादन्यः प्रगल्भते ॥ KRT_2_0096cd
इत्युक्त्वा भाविनोर्थस्य द्रष्टुं सिद्धिं समुद्यतः । KRT_2_0097ab
तत्रैव बद्धवसतिः कङ्कालं स ररक्ष तम् ॥ KRT_2_0097cd
अथार्धरात्रे निर्निद्रस्तथैवाद्भुतचिन्तया । KRT_2_0098ab
धूपाधिवासमीशानो व्रातवान्दिव्यमेकदा ॥ KRT_2_0098cd
उच्चण्डलाडनाद1ण्डोद्घृष्टघण्टौघटांकृतैः । KRT_2_0099ab
चण्डैर्डमरुनिर्घोषैर्घ2र्घरं श्रुतवान्ध्वनिम् ॥ KRT_2_0099cd

77.

--1) Thus corr. by later hand from A1 ॰र्थस्य बुधाः.

78.

--1) Another hand alters this to ॰स्थितेः.

86.

--1) A2 ॰समापूर्णमु॰ with gloss शिरः over मुण्ड.

90.

--1) Thus A1; A3 पुनराज्यं.

91.

--1) Thus corr. by later hand from A1 ॰दृष्टार्थे.

--2) A2 gloss चतुर्थ.

--3) Thus corr. by later hand from A1 ॰पाशार्थे.

92.

--1) Thus corr. by A2 from A1 कार्थमे॰.

99.

--1) A3 gloss लाडना अन्तर्गता शलाका आण्टु इति भाषया.

--2) A3 ॰डमरुघोष्यैश्च.

[page 20]




उड्घाटिततमोरि1ः स ततः पितृवनावनौ । KRT_2_0100ab
ददर्श योगिनीस्तेजःपरिवेषान्तरस्थिताः ॥ KRT_2_0100cd
तासां संभ्रममालक्ष्य कङ्कालं चापवाहितम् । KRT_2_0101ab
ईशानस्तां श्मशानोर्वीं धृतासिश्चकितो ययौ ॥ KRT_2_0101cd
अथापश्यत्तरुच्छन्नः शायितं मण्डलान्तरे । KRT_2_0102ab
संधीयमानसर्वाङ्गं कङ्कालं योगिनीगणैः ॥ KRT_2_0102cd
उल्लसद्वरसंभोगवाञ्छा मद्यपदेवता1ः । KRT_2_0103ab
वीरालाभात्समन्विष्य कङ्कालं तमपाहरन्2 KRT_2_0103cd
एकमेकं स्वमङ्गं च विनिधाय क्षणादथ । KRT_2_0104ab
कुतो1प्र्यानीय पुंलक्ष्म2 पूर्णाङ्गं तं प्रचक्रिरे ॥ KRT_2_0104cd
अथ पुर्यष्टकं भ्राम्यद1नाक्रान्तान्यविग्रहम् । KRT_2_0105ab
योगेनाकृष्य योगेश्यस्त2त्र सस्ंधिमतेर्न्यधुः ॥ KRT_2_0105cd
ततः सुप्तोत्थित1 इव प्रत्तदिव्यविलेपनः । KRT_2_0106ab
समभुज्यत ताभिः स यथेच्छं चक्रनायकः ॥ KRT_2_0106cd
ईशानस्त1स्तस्य देवीनां वितीर्णाङ्गाहृतिं पुनः । KRT_2_0107ab
क्षपायां क्षीयमाणायां चकितः पर्यशङ्कत ॥ KRT_2_0107cd
नदंस्तद्रक्षया धीरः स च तत्स्थानमाययौ । KRT_2_0108ab
तच्च योगेश्वरीचक्रं क्षिप्रमन्तरधीयत ॥ KRT_2_0108cd
अथाश्रूयत वाक्तासां माभूदीशान भीस्तव । KRT_2_0109ab
नास्त्यङ्गहानिरस्माकं वृते चास्मिन्न वञ्चना ॥ KRT_2_0109cd
अस्मद्वराद्दिव्यवपुःसंधितः संधिमानसौ । KRT_2_0110ab
आर्यत्वादार्यराजश्च ख्यातो भुवि1 भविष्यति ॥ KRT_2_0110cd
ततो दिव्याम्बरः स्रग्वी दिव्यभूषणभूषितः । KRT_2_0111ab
ववन्दे संधिमान्प्रह्वः प्राप्तपूर्वस्मृतिर्गुरुम् ॥ KRT_2_0111cd
ईशानोपि तमालिङ्ग्य स्वप्रेष्वपि सुद्रुलभम् । KRT_2_0112ab
भूमिकामाललम्बे कामिति को वक्तुमर्हति ॥ KRT_2_0112cd
असारं च विचित्रं च संसारं ध्यायतोर्मिथः । KRT_2_0113ab
विवेकविशदा तत्र प्रावर्तत तयोः कथा ॥ KRT_2_0113cd
अथ वार्तां विदित्वेमां कुतोपि नगरौकसः । KRT_2_0114ab
सबालवृद्धाः सामात्यास्तमेवोद्देशमाययुः ॥ KRT_2_0114cd
पूवाकृतिविसंवादाद्भ्रमो नायं स इत्यथ । KRT_2_0115ab
तेनाच्छिद्यत संवादिनिखिलान्पृच्छता वचः ॥ KRT_2_0115cd
अर्थानां शासितुं राष्ट्रं पौराणामपराजकम् । KRT_2_0116ab
सोन्वमन्यत कृच्छ्रेण निःस्पृहः शासनाद्गुरोः ॥ KRT_2_0116cd
प्रापय्योपवनोपान्तं तं दिव्याकृतिशोभिनम् । KRT_2_0117ab
सतूर्यं स्नापयामासुरभिषेकाम्बुभिर्द्विजाः ॥ KRT_2_0117cd
नवराजोचिताचारे न स शिक्षामपैक्षत । KRT_2_0118ab
दृष्टकर्मा समस्तास्तु निस्तुषाः प्रक्रिया व्यधात् ॥ KRT_2_0118cd
स राजोचितनेपथ्यः पौराशीर्घोषशोभिनीम् । KRT_2_0119ab
सौधोन्मिषल्लाजवर्षां ससैन्य1ः प्राविशत्पुरीम् ॥ KRT_2_0119cd
तस्मिन्विरजसि प्राज्यमाक्रामति नृपासनम् । KRT_2_0120ab
आचक्राम प्रजा व्यापन्न दैवी न च मानुषी ॥ KRT_2_0120cd
अहरन्हृदयं तस्य शृङ्गारहितविभ्रमा1ः । KRT_2_0121ab
नितम्बिन्यो वनभुवः शमिनो2 न तु योषितः ॥ KRT_2_0121cd
वनप्रसूनसंपर्कपुण्यगन्धैस्तपस्विनाम् । KRT_2_0122ab
कर्पूरधूपसुरभिः करैः स्पृष्टः स पिप्रिये ॥ KRT_2_0122cd
भूतेशवर्धमानेशविजयेशानपश्यतः । KRT_2_0123ab
नियमो राजकार्येषु तस्याभूत्प्रतिवासरम् ॥ KRT_2_0123cd
हरायतनसोपानक्षालनाम्भःकणाञ्चितैः । KRT_2_0124ab
संस्पृष्टः पवनैः सोभूदानन्दास्पन्दविग्रहः ॥ KRT_2_0124cd
पूवपूजापनयने निराड1म्बरसुन्दरः । KRT_2_0125ab
तेनैव द्रष्टुमज्ञायि स्नपितो विजयेश्वरः ॥ KRT_2_0125cd
लिङ्गपीठलुटत्स्नानकुम्भाम्भःक्षोभभूर्ध्वनिः । KRT_2_0126ab
शयानस्याप्यभूत्तस्य वल्लभो वल्लकीद्विषः ॥ KRT_2_0126cd

100.

--1) A2 gloss तमोरिः त्राव् इति भाषया.

102.

--1) Thus corr. by A3 from A1 मध्यमदे॰; A2 in margin मद्यमदेन ताः इत्यनन्यादर्शे.

--2) Thus corr. by A2 from A1 तमुपाहरन्.

204.

--1) Thus corr. by later hand from A1 ततो.

--2) Thus corr. by A3 from A1 पुंलिङ्ग॰.

205.

--1) Thus corr. by A1 from भ्राम्यन्मना॰.

--2) A3 योगिन्यः.

206.

--1) supplied by A3.

207.

--1) Thus corr. by A3 from A1 ईशानतस्य.

210.

--1) A3 राजा.

211.

--1) Thus corr. by A3 from A1 ससैन्यां.

212.

--1) A3 gloss शृङ्गेषु अरहितः न त्यक्तः वीनां पक्षिणां भ्रमः भ्रमणं याभिः ताः.

--2) A3 gloss शान्तस्य.

225.

--1) Thus corr. by A3 from A2 निजड॰.

[page 21]




तापसैर्भस्मरुद्राक्षजटाजूटाङ्कितैर्बभौ । KRT_2_0127ab
तस्य माहेश्वरी पर्षदिव भूमिपतेः सभाः ॥ KRT_2_0127cd
शिवलिङ्गसहस्रस्य प्रतिष्ठाकर्मणि प्रभोः । KRT_2_0128ab
प्रतिज्ञा प्रत्यहं तस्य नाभूद्विघटिता क्वचित् ॥ KRT_2_0128cd
प्रमादात्तदनिष्पत्तौ शिलामुत्कीर्य कल्पिता । KRT_2_0129ab
सहस्रलिङ्गी तद्भृत्यैः सर्वतोद्यापि दृश्यते ॥ KRT_2_0129cd
तासु तासु स वापीषु लिङ्गव्याजादरोपयत् । KRT_2_0130ab
स्वपुण्यपुण्डरीकानां जन्मनेक्षपरंपराम् ॥ KRT_2_0130cd
स्थाने स्थाने जलान्तश्च बहुसंख्यैर्निवेशितैः । KRT_2_0131ab
अनयन्नर्मदाभङ्गिं शिवलिङ्गैस्तरङ्गिणीः ॥ KRT_2_0131cd
प्रतिलिङ्गं महाग्रामाः प्रत्यपाद्यन्त तेन ये । KRT_2_0132ab
पर्षदामद्य तद्भोगः कालेनान्तर्धिमागतः ॥ KRT_2_0132cd
अकरोत्स महाहर्म्यैर्महालिङ्गैर्महावृषैः । KRT_2_0133ab
महात्रिशूलैर्महतीं महामाहेश्वरो महीम् ॥ KRT_2_0133cd
कृत्वा संधीश्वरं1 देहसंधानपितृकानने । KRT_2_0134ab
ईशानस्य गुरोर्नाम्ना व्यधादीशेश्वरं2 हरम् ॥ KRT_2_0134cd
थेदां च भीमादेवीं च देशांश्चान्यान्पदेपदे । KRT_2_0135ab
स मठप्रतिमालिङ्गैर्हर्म्यैर्निन्ये महार्घताम् ॥ KRT_2_0135cd
स्वयंभूमिश्च तीर्थैश्च पूतं भक्तिविभूषित1ः । KRT_2_0136ab
स एव भोक्तुमज्ञासीत्प्राज्ञ2ः कश्मीर3मण्डलम् ॥ KRT_2_0136cd
स्नातस्य निर्झराम्भोभिः पुष्पलिङ्गार्चनोत्सवैः । KRT_2_0137ab
राज्ञस्तस्य वनोर्वीषु मासः पुष्पाकरो ययौ ॥ KRT_2_0137cd
स चातिरम्यः काश्मीरो ग्रीष्मस्त्रिदिवदुर्लभः । KRT_2_0138ab
हिमलिङार्चनैः प्रायाद्वनान्तेषु कृतार्थताम् ॥ KRT_2_0138cd
फुल्लाब्जषण्डरुद्धाशाः प्राप्य पुष्करिणीतटीः । KRT_2_0139ab
लक्ष्मीसखः स खण्डेन्दुचूडध्या1नपरोभवत् ॥ KRT_2_0139cd
नीलोत्पलवतीर्वापीरगस्त्योदयनिर्विषाः । KRT_2_0140ab
अवगाह्य हरार्चाभिः शरदं निर्विवेश सः ॥ KRT_2_0140cd
सार्धं तपोधनैस्तैस्तैर्भजतो जागरोत्सवान् । KRT_2_0141ab
तस्याभूवन्भुवो भर्तुरमोघा माघरात्रयः ॥ KRT_2_0141cd
अत्यद्भुतं राज्यलाभमित्थं सफलयन्कृती । KRT_2_0142ab
पञ्चाशतं त्रिवर्षोनामत्यक्रामत्स वत्सरान् ॥ KRT_2_0142cd
शमव्यसनिनस्तस्य राज्यकार्याण्यपश्यतः । KRT_2_0143ab
तस्मिन्काले प्रकृतयो विरागं प्रतिपेदिरे ॥ KRT_2_0143cd
अन्वैष्यत नृपस्ताभिः कश्चिद्राज्याय शुश्रुवे । KRT_2_0144ab
राजपुत्रो जिगीषुश्च श्रीमान्यौधिष्ठिरे कुले ॥ KRT_2_0144cd
जुगोप गोपादित्याख्य1ं कश्मीरेन्द्रजिगीषया । KRT_2_0145ab
युधिष्ठिरप्रपौत्रं हि गान्धाराधिपतिस्तदा ॥ KRT_2_0145cd
वसन्नप्राप्त1साम्राज्यः स तत्र तनयं क्रमात् । KRT_2_0146ab
अवाप लक्षणैर्दिव्यैरमोघं मेघवाहनम् ॥ KRT_2_0146cd
स तत्र1 पितुरादेशाद्वैष्णवान्वयजन्मनः । KRT_2_0147ab
राष्ट्रं प्राग्ज्योतिषेन्द्रस्य ययौ कन्यास्वयंवरे ॥ KRT_2_0147cd
तत्र तं वारुणं छत्रं छायया राजसंनिधौ । KRT_2_0148ab
भेजे वरस्रजा राजकन्यका चामृतप्रभा ॥ KRT_2_0148cd
तेन तस्य निमित्तेन वृद्धिमागामिनीम् जनाः । KRT_2_0149ab
अजानन्नम्बुवाहस्य पाश्चात्येनेव वायुना ॥ KRT_2_0149cd
राज्ञा हि नरकेणैतद्वरुणादुष्णवारणम् । KRT_2_0150ab
आनीतमकरोच्छायां न विना चक्रवर्तिनम् ॥ KRT_2_0150cd
तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् । KRT_2_0151ab
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ KRT_2_0151cd
अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् । KRT_2_0152ab
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तुमुत्सुकः ॥ KRT_2_0152cd
अचिन्तयच्च सत्यं मे संप्रीतो भूतभावनः । KRT_2_0153ab
सिद्धिविघ्नानभून्दीर्घानपाकर्तुं समुद्यतः ॥ KRT_2_0153cd
कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्य1याश्रयन्2 KRT_2_0154ab
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रवा ॥ KRT_2_0154cd
स्वकाले1 त्यजता लक्ष्मीं विरक्तां2 बन्धकीमिव । KRT_2_0155ab
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ KRT_2_0155cd

130.

--1) Thus corr. by A3 from A1 ॰पुण्डरीकाक्षज॰.

134.

--1) The aksharas श्वरं supplied by A3 in space left by A1.

--2) A2 gloss ईशाभ्राडू इति प्रसिद्धस्थले.

136.

--1) A3 ॰विशेषतः.

--2) Thus A3; A1 प्राज्यः.

--3) Thus corr. by later hand from A1 काश्मीर॰.

139.

--1) Thus corr. by later hand from A1 चूडाध्या॰.

145.

--1) Thus corr. by A1 from ॰त्याख्यः.

146.

--1) Thus A3; A1 वसन्नपास्तसा॰.

147.

--1) A3 युवा.

154.

--1) A2 glosses आलस्यम् and ---- न कर्म कौसीद्यं.

--2) Thus corr. by A3 from A1 ॰श्रयम्.

155.

--1) Thus A1; A3 स्वकुले.

--2) Thus corr. by A3 from A1 सरक्ताम्.

[page 22]




शैलूषस्येव मे राज्यरङ्गेस्मिन्वल्गतश्चिरम् । KRT_2_0156ab
निर्व्यूढम1पि वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ KRT_2_0156cd
दिष्ट्या सदैव वैमुख्यनुच्चैरुद्घोषयञ्श्रियः । KRT_2_0157ab
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ KRT_2_0157cd
इति संचिन्तयन्नंतः सर्वत्यागोन्मुखो नृपः । KRT_2_0158ab
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥ KRT_2_0158cd
अन्येद्युः प्रकृतीः सर्वाः संनिपत्य सभान्तरे । KRT_2_0159ab
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ KRT_2_0159cd
उज्झितं स्वेच्छया तच्च1 प्रयत्नेनापि नाशकत् । KRT_2_0160ab
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चुकम् ॥ KRT_2_0160cd
अर्चालिङ्गमुपादाaय सोथ प्रायादुदङ्मुखः । KRT_2_0161ab
धौतवासा निरुष्णीषः पद्भ्यामेव प्रजेश्वरः ॥ KRT_2_0161cd
तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः । KRT_2_0162ab
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ KRT_2_0162cd
स विलङ्घितगव्यूतिरुपविश्य तरोरधः । KRT_2_0163ab
जनमेकैकमुद्बाष्पं न्यवर्तयत सान्त्वयन् ॥ KRT_2_0163cd
पथि शिखरिनां मूले विलम्ब्य जहज्जनान्मितपरिकरो गच्छन्नूर्ध्वं क्रमात्समदृश्यत । KRT_2_0164ab
गहनवसुधाः संपूर्योच्चैर्व्रजन्स निजात्पदान्नद इव विनिर्यातः स्तोकैः कृतानुगमो1 जलैः ॥ KRT_2_0164cd
निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धन्प1दं शोकावेशसबाष्पगद्गदपदं संमान्य चोत्सार्य च । KRT_2_0165ab
भूजत्व2क्परिरोधमर्मरम2रुन्निद्राणसिद्धाध्वगश्रेणीमौलि4मणिप्रभोज्ज्वलगुहागेह5ं जगाहे वनम् ॥ KRT_2_0165cd
अथ वनसरसीतटद्रुमाधः पुटकघटोदरसंभृताम्बुपूराम् । KRT_2_0166ab
वसतिमकृत वासरावसाने शुचितरुपल्लवकल्पितोच्चतल्पाम् ॥ KRT_2_0166cd
शृङ्गासक्तसितातपाः शवलितच्छायाभुवः शाद्वलैरुत्फुल्लाम1लमल्लिकातलमिलत्सुप्तव्रजस्त्रीजनाः । KRT_2_0167ab
सध्वाना वनपालवेणु2रणितोन्मिश्रैः प्रपाताम्बुभिः श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रय3ः ॥ KRT_2_0167cd
वनकरि1रसितैः पदे पदे स प्रतिभटताम् पतहध्वनेर्दधानैः । KRT_2_0168ab
अमनुत रटितैश्च कर्करेटोः परिगलितां गमनोन्मुखस्त्रियामाम् ॥ KRT_2_0168cd
अन्येद्युर्विधिवदुपास्य पूर्वसंध्यामासन्ने नलिनसरस्यपास्तनिद्रः । KRT_2_0169ab
क्ष्मापालः परिचितसोदराम्बुतीर्थं नन्दीशाध्युषितमवाप भूतभर्तुः ॥ KRT_2_0169cd
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र यावत्तस्थौ तावत्1स्वयमभिमतावाप्तये जायते स्म । KRT_2_0170ab
भस्मस्मेरः सुघटितजटाजूतबन्धोक्षसूत्री रुद्राक्षाङ्को जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ KRT_2_0170cd
भ्राम्यञ्1श्रीकन्ठदत्तव्रतजनितमहासन्क्रियो भैक्षहेतोर्भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु । KRT_2_0171ab
वृक्षैर्भिक्षाकपाले शुचिफलकुसुमश्रेणिभिः पूर्यमाणे मान्यो वैराग्ययोगे2प्यनुपनतप3रप्रार्थनालाघवोभूत् ॥ KRT_2_0171cd
6॥ 171 ॥ आदितः ॥ग्रं 543 ॥


इति श्रीकाश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥ शतद्वये वत्सराणामष्टभिः परिवर्जिते । अस्मिन्द्वितीये व्याख्याताः षट्प्रख्यातगुणा नृपाः ॥

156.

--1) Thus A1; the v. l. of A2 निर्व्यूढावपि has been struck out again; G R निर्व्यूढमपि.

160.

--1) Thus corr. by later hand from A1 तं च.

164.

--1) Thus corr. by A3 from A1 स्तोकानुगमो.

165.

--1) Thus A3; A1 निरुद्ध्यत्पदं.

--2) Thus corr. by later hand from A1 भूर्जत्वत्प॰.

--3) Thus corr. by A3 from A1 मर्जर॰.

--4) The akshara लि supplied by A3 in space left by A1.

--5) The gloss भोमजोवो written by A4 at the foot og the page, probably refers to this word.

167.

--1) Thus corr. by A2 from A1 शाद्वलैरुल्लासल॰; the latter reading repeated in margin by A3.

--2) Thus G sec manu and P; A R C ॰पालरेणु॰.

--3) A3 gloss पर्वताः.

168.

--1) A3 वनहरि॰.

--2) Thus corr. by later hand from A1. ॰ध्वनैर्द॰.

170.

--1) A1 यावत्तावत्; supplemented as above by A2.

171.

--1) A3 भ्राम्यच्छ्री॰.

--2) Thus corr. by A3 from A1 ॰योग्यो.

--3) A1 writes ॰प्यनुपतन॰, with figures indicating transposition.

[page 23]




॥ तृतीयस्तरङ्गः ॥

भुञ्जेभाजिनमस्य1 कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलमतः स्वीकार्यमक्ष्णोः कृते । KRT_3_0001ab
संधाने वपुरर्धयोः प्रतिवदन्नेवं निषेधेप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ KRT_3_0001cd
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् । KRT_3_0002ab
गान्धारविषयं गत्वा सचिवाधिष्ठिताः प्रजाः ॥ KRT_3_0002cd
रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् । KRT_3_0003ab
तस्याज्ञायि जनैर्धौतक्षौमक्षालनसंनिभम् ॥ KRT_3_0003cd
स पुनर्बोधिसत्त्वानामपि सत्त्वानुकम्पिनाम् । KRT_3_0004ab
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ KRT_3_0004cd
तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः । KRT_3_0005ab
सर्वतोमार1मर्यादापटहानुदघोषयन् ॥ KRT_3_0005cd
कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते । KRT_3_0006ab
निष्पापां प्रापिता वृत्तिं स्वकोशात्सौनिकादयः ॥ KRT_3_0006cd
तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः । KRT_3_0007ab
क्रतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ KRT_3_0007cd
स मेघवननामानमग्रहारं विनिर्ममे । KRT_3_0008ab
मयुष्टग्रामकृत्पुण्यज्येष्टं1 मेघमठं तदा3 KRT_3_0008cd
भोगाय देश्य1भिक्षूणां वल्लभास्यामृतप्रभा । KRT_3_0009ab
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ KRT_3_0009cd
देशैक1देशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः । KRT_3_0010ab
स्तुन्पा3 तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ KRT_3_0010cd
चक्रे नडवने राज्ञो यूक1देव्यभिधा वधूः । KRT_3_0011ab
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ KRT_3_0011cd
अर्धे यद्भिक्षवः शिक्षाचारास्तवार्पितास्तया । KRT_3_0012ab
अर्धे गार्हस्थ्यगर्ह्याश्च सस्त्रीपुत्रपशुस्त्रियः ॥ KRT_3_0012cd
अथेन्द्रदेवीभवनमिन्द्रद्र्व्यभिधा व्यधात् । KRT_3_0013ab
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ KRT_3_0013cd
अन्याभिः स्वादनासम्माप्रमुखाभिर्निजाख्यया । KRT_3_0014ab
देवीभिस्तस्य महिता विहारा बहवः कृताः ॥ KRT_3_0014cd
अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः । KRT_3_0015ab
न्यक्कृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ KRT_3_0015cd
स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् । KRT_3_0016ab
चौरश्रौरोयमित्यारादशृणोत्क्रन्दितध्वनिम् ॥ KRT_3_0016cd
कः कोत्र बध्यतां चौर इत्युक्ते तेन सक्रुधा । KRT_3_0017ab
शशामाक्नदितध्वानो नच चौरो व्यभाव्यत ॥ KRT_3_0017cd
पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्त्रतः । KRT_3_0018ab
अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः ॥ KRT_3_0018cd
ताः संश्रुतेप्सितास्तेन रुद्धाश्वेन कृपालुना । KRT_3_0019ab
अभ्यभावन्त सीमन्तपुञ्जिताaञ्जलयो वचः ॥ KRT_3_0019cd
देव दिव्यप्रभावेण भुवने भवता धत्ते । KRT_3_0020ab
अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ KRT_3_0020cd
तदानीं दिव्यप्रभावेण भुवने भवता धृते । KRT_3_0021ab
अकाण्डकरकापातशङ्किभिः कार्यकैर्मृषा ॥ KRT_3_0021cd
पक्वशालिवनस्हीतिर1क्षाक्षुभितमानसैः । KRT_3_0022ab
नागास्त्वत्कोपसंरम्भभूमितां2 गमिताः प्रभो ॥ KRT_3_0022cd

1.

--1) A2 gloss इभस्य.

5.

--1) A3 gloss अमारः अहिंसा.

8.

--1) A3 ॰ज्येष्ठो.

--2) A3 तथा.

9.

--1) Thus A3; A1 चैष्य॰.

10.

--1) Thus A1; corr. by later hand into देश्यैक॰.

--2) A2 स्तुम्पा.

11.

--1) A3 यूख॰.

14.

--1) A3 gloss नृपस्त्रीभिः.

22.

--1) A2 ॰स्फाति॰.

--2) A3 भूमिं ते.

[page 24]




तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् । KRT_3_0023ab
श्रुत्वा देवेन बध्यन्तामित्यवादि यदा क्रुधा ॥ KRT_3_0023cd
तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिताः । KRT_3_0024ab
प्रसादः क्रियतां तेषामस्मत्करुणयाधुना ॥ चक्कलकम् ॥ KRT_3_0024cd
तदाकर्ण्यावदद्राजा प्रसादविशदाननः । KRT_3_0025ab
सर्वे ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ KRT_3_0025cd
तथा तस्याज्ञया राज्ञो नागा विधुतबन्धनाः । KRT_3_0026ab
प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ KRT_3_0026cd
अथ ग्राहयुतुं भूपानाज्ञां हिंसानिवृत्तये । KRT_3_0027ab
स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ KRT_3_0027cd
अभूदभीतजनतावेक्षणश्लाघ्यविक्रमः । KRT_3_0028ab
स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ KRT_3_0028cd
प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् । KRT_3_0029ab
अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ KRT_3_0029cd
तत्र तालीवनच्छायासुखविश्रान्तासैनिकः1 KRT_3_0030ab
युक्तिं द्वीपान्तराक्रान्तौ क्षणमन्तर्व्यचिन्तयत् ॥ KRT_3_0030cd
अथ वेलावनोपान्तात्तेनार्ताक्रन्दितध्वनिः । KRT_3_0031ab
मेघवाहनराज्येपि हतोहमिति शुरुवे ॥ KRT_3_0031cd
तप्तायःशङ्कुनेवान्तर्ब्रणितः स द्रुतं ततः । KRT_3_0032ab
संचारिनातपत्रेण सत्रा तां वसुधामगात् ॥ KRT_3_0032cd
अपश्यदथ केनापि चण्डिकायतनाग्रतः । KRT_3_0033ab
नरं शबर1सेनान्या हन्यमानम् अधोमुखम् ॥ KRT_3_0033cd
अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा । KRT_3_0034ab
तर्जितः स भयादेवं शबरस्तं व्यजिज्ञपत् ॥ KRT_3_0034cd
शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः । KRT_3_0035ab
कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ KRT_3_0035cd
उपहारनिरोधेन सद्य एव1 विपद्यते । KRT_3_0036ab
बन्धुवर्गमशेषं च विद्ध्येतज्जीवजीवितम् ॥ KRT_3_0036cd
अरण्यगहनाल्लब्धमनाथं देव रक्षसि । KRT_3_0037ab
बहुलोकाश्रयं बालं कथमेतमुपेक्षसे ॥ KRT_3_0037cd
अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः । KRT_3_0038ab
वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ KRT_3_0038cd
किरात कातरो मा भूः स्वयम् संरक्ष्यते मया । KRT_3_0039ab
बहुबन्धुस्तव सुतो बध्योप्ययमबान्धवः ॥ KRT_3_0039cd
उपहारीकरोम्येष चण्डिकायै स्वविग्रहम् । KRT_3_0040ab
मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ KRT_3_0040cd
तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः । KRT_3_0041ab
उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात् ॥ KRT_3_0041cd
अतिकारुण्यमिषतस्तवायं पृथिवीपते । KRT_3_0042ab
कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ KRT_3_0042cd
त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम् । KRT_3_0043ab
पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ KRT_3_0043cd
न मानं न यशो नार्थान्न दारान्न च बान्धवान् । KRT_3_0044ab
न धर्मं न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ KRT_3_0044cd
तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृत्पां कृथाः । KRT_3_0045ab
शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ KRT_3_0045cd
उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । KRT_3_0046ab
अर्चयन्निव चामुण्डामथोवाच स पार्थिवः ॥ KRT_3_0046cd
सदाचारसुधास्वादे के भवन्तो वनौकसः । KRT_3_0047ab
जाह्नवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ KRT_3_0047cd
ध्रुवापायेन कायेन क्रीणतः कीर्तिमव्ययाम् । KRT_3_0048ab
ममाभी1ष्टं प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ KRT_3_0048cd
मा वोचः किंचिदपरं प्रहर्तुं चेद्घृणा तव । KRT_3_0049ab
न किं निजः कृपाणो मे शक्तह् प्रक्रान्तसिद्धये ॥ KRT_3_0049cd
इत्युक्त्वा स स्वयं देहमुपहर्तुम् समुद्यतः । KRT_3_0050ab
खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ KRT_3_0050cd
ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः । KRT_3_0051ab
करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ॥ KRT_3_0051cd

30.

--1) Thus corr. by later hand from A1 ॰कैः.

33.

--1) A R G here and elsewhere शवर॰.

36.

--1) A3 एष.

48.

--1) Thus corr. by later hand drom A1 ॰भीष्टां.

[page 25]




अथापश्यत्तथाभूतः किंचिद्दिव्याकृतिं पुरः । KRT_3_0052ab
न चण्डिकां न तं वध्यं न किरातं न दारकम् ॥ KRT_3_0052cd
स तं दिव्यस्तदावादीन्मां त्वम् सत्त्ववशीकृतम् । KRT_3_0053ab
विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ KRT_3_0053cd
यदेतत्त्वामुपास्तेद्य छत्त्रं तन्मत्पुरात्पुरा । KRT_3_0054ab
महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ KRT_3_0054cd
रसातलैकतिलकं माहात्म्यवदिदम् विना । KRT_3_0055ab
उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ KRT_3_0055cd
तदिदं प्राप्तुकामेन त्वदौदार्यं परीक्षितुम् । KRT_3_0056ab
कारुण्यमय माथेयं निरमायि मयेदृशी ॥ KRT_3_0056cd
त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकु1लात्मजः । KRT_3_0057ab
प्रायश्चित्तमभारेण चरसीव तदेनसः1 KRT_3_0057cd
भयस्पृहाजन1कयोर्धरणीधारणोचिते । KRT_3_0058ab
शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ KRT_3_0058cd
तमःप्रकाशावहयोस्तेजःक्रान्तदिगन्तरे । KRT_3_0059ab
उषर्बुधे धूमज्वालापल्लवयोरिव ॥ KRT_3_0059cd
क्लमाप्यायक्रियाभाजो रुद्धतेजस्विमण्डले । KRT_3_0060ab
प्रावृट्पयोदच्छन्नेह्नि संतापासारयोरिव ॥ KRT_3_0060cd
द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले । KRT_3_0061ab
तस्य त्रिकोटिहन्तुश्च तत्राहिंसस्य च प्रभोः ॥ चक्कलकम्॥ KRT_3_0061cd
नम्रः सम्राडथैवम् स वदतो यादसाम् प्रभोः । KRT_3_0062ab
चकार पूजां स्तोत्रेण छत्त्रेण च कृताञ्जलिः ॥ KRT_3_0062cd
तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् । KRT_3_0063ab
जगाद गुणिनामग्न्यो वरुणं धरणीधरः ॥ KRT_3_0063cd
कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । KRT_3_0064ab
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ KRT_3_0064cd
अवालम्बिष्यत छत्त्रं कथं नः पुण्यपण्यताम् । KRT_3_0065ab
तत्प्रार्थयिष्यत1 न चेदार्तोपकृतये भवान् ॥ KRT_3_0065cd
वदान्य1ः संविभाग्येभ्य2ः पूर्णं कुर्यादनुग्रहम् । KRT_3_0066ab
छाययाप्याययन्दद्या3त्फलान्यपि महीरुहः ॥ KRT_3_0066cd
तदेवं1 विहितोदात्तसंविभागाभिचोदितः । KRT_3_0067ab
जनोयं भ्गवन्किंचिद्वरम् प्रार्थयते परम् ॥ KRT_3_0067cd
वशीकृतेयम् पृथिवी कृत्स्ना भवदनुग्रहात् । KRT_3_0068ab
जेतुम् द्वीपान्कथ्यतां तु युक्तिह् पाथोधिलङ्घने ॥ KRT_3_0068cd
इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः । KRT_3_0069ab
तितीर्षौ भवति स्तम्भं नीयतेम्भो भयाम्बुधेः ॥ KRT_3_0069cd
ततो महान्प्रससदोयमित्युक्ते पृथिवीभुजा । KRT_3_0070ab
तिरोबभूव भगवान्वरुणः सोष्णवारणः ॥ KRT_3_0070cd
अन्येद्युर्विस्मयस्मेरैर्बलैः सीमन्तयञ्जलम् । KRT_3_0071ab
प्रभावस्तम्भितक्षोभं1 प्रोत्ततार स वारिधिम् ॥ KRT_3_0071cd
गुणरत्नाaकरः शैलं स रत्नाकरशेखरम् । KRT_3_0072ab
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ KRT_3_0072cd
तत्र तालीतरुवनच्छायाध्यासितसैनिकम् । KRT_3_0073ab
प्रीत्या लङ्काधिराजस्तमुपतस्थे बिभीषणः ॥ KRT_3_0073cd
समागमः स शुशुभे नरराक्षसराजयोः । KRT_3_0074ab
वन्दिनादा1श्रुतान्योन्य2प्रथमालापसंभ्रमः ॥ KRT_3_0074cd
अथ रक्षःपतिर्लङ्कां नीत्वालंकरणं क्षितेः । KRT_3_0075ab
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ KRT_3_0075cd
यदासीत्पिशिताशा इत्यन्वर्थं नाम रक्षसाम् । KRT_3_0076ab
तदा तदाज्जाग्रहणे प्रापि तद्रूढिशब्दताम् ॥ KRT_3_0076cd
रक्षःशिरःप्रतिच्छन्दैः1 स्थिरप्रणतिसूचकैः । KRT_3_0077ab
सनाथशिक्झरान्प्रादात्तस्मै रक्षःपतिर्ध्वान् ॥ KRT_3_0077cd
पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये । KRT_3_0078ab
राज्जां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः । KRT_3_0078cd
इत्थमाराक्षसकुलं प्राणिहिंसाम् निष्ध सः । KRT_3_0079ab
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ KRT_3_0079cd

57.

--1) The aksharas न्व्यसून्वसुकु and मारेण चरसीव तदेनसः supplied by A3 in spaces left by A1.

58.

--1) भयस्पृहाजन supplied by A3, as above.

65.

--1) supplied by A3.

66.

--1) Emended; A R G वदन्यः.

--2) A1 gloss अर्थिभ्यः.

--3) Thus corr. by A3 from A1 दध्यात्.

67.

--1) Thus corr. by A3 from A1 तदयं.

71.

--1) Thus A1; A3 जलं.

74.

--1) दा supplied by A3.

--2) न्योन्व supplied by A3 in space left by A1.

77.

--1) A1 glosss प्रतिमाभिः.

[page 26]




1तः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः । KRT_3_0080ab
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्घ्यः ॥ KRT_3_0080cd
क्षुद्रैरुध्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च । KRT_3_0081ab
न श्येनप्रमुखैर्व्योम्नि तद्राज्ये जन्तवो हताः1 KRT_3_0081cd
अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः । KRT_3_0082ab
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ KRT_3_0082cd
दुर्गया प्रार्थितं राजन्पश्वाहारं1 विनैष मे । KRT_3_0083ab
अनन्यसंततेः सूनुर्ज्वरेनाद्य विपद्यते ॥ KRT_3_0083cd
यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि । KRT_3_0084ab
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ KRT_3_0084cd
निणयो वर्णगुरुना त्वयैवैष प्रदीयताम् । KRT_3_0085ab
ब्राह्मणस्युa पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ KRT_3_0085cd
तपःस्थानपि ये जघ्नुर्ब्राह्मणप्रानलब्धये । KRT_3_0086ab
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ KRT_3_0086cd
इति ब्रुवति साक्षेपं शोकरूक्षाक्षरं द्विजे । KRT_3_0087ab
आपन्नार्तिहरो राजा चिरमेवम् व्यचिन्तयत् ॥ KRT_3_0087cd
न वध्याः प्राणिन इति प्राङ्मया समयः कृतः1 KRT_3_0088ab
विप्रार्थमपि किं कुर्यां स प्रतिज्जातविप्लवम् ॥ KRT_3_0088cd
निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि । KRT_3_0089ab
तत्राप्यत्यन्तपापीयानर्थह् संकल्पविप्लवः ॥ KRT_3_0089cd
नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् । KRT_3_0090ab
संभेदावर्तपतितं प्रसूनमिव मानसम् ॥ KRT_3_0090cd
तत्स्वदेहोपहारेण दुर्गां तोषयता मया । KRT_3_0091ab
प्रतिज्जया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ KRT_3_0091cd
इति संचिन्त्य सुचिरं देहदानोद्यतो नृपः । KRT_3_0092ab
श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ KRT_3_0092cd
क्षपायां क्ष्मापतिमथ स्वमुपाहर्तुमुद्यतम् । KRT_3_0093ab
निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ KRT_3_0093cd
इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः । KRT_3_0094ab
पृथग्जनेष्वसंभाव्यं वर्णयन्तस्त्रपामहे ॥ KRT_3_0094cd
1थवा रचनानिर्विशेषमार्षेण वर्त्मना । KRT_3_0095ab
प्रस्थिता2 नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ KRT_3_0095cd
तस्मिन्नस्तम्गते भुक्त्वा क्ष्मां चत्रुस्त्रिंशतम् समाः । KRT_3_0096ab
अनादित्यमिवाशेषं निरालोकमभूज्जगत् ॥ KRT_3_0096cd
अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः । KRT_3_0097ab
आहुः प्रवरसेनं यम् तुज्जीनं चाञ्जसा जनाः ॥ KRT_3_0097cd
दोःस्तम्भसंभृतासक्तौ कृपाणमणिदर्पणे । KRT_3_0098ab
संक्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ KRT_3_0098cd
समातृचक्रं निमाय यः पूर्वं प्रवरेश्वरम् । KRT_3_0099ab
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ KRT_3_0099cd
गृहाङ्गनमिव क्षोणीं गणयन्वशवर्तिनीम् । KRT_3_0100ab
त्रिगर्तोर्वीं ग्राममध्ये1 प्रवरेशाय यो ददौ ॥ KRT_3_0100cd
ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् । KRT_3_0101ab
स समास्त्रिंशतम् भूभृदानिस्त्रिंशाशयोभवत् ॥ KRT_3_0101cd
हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ । KRT_3_0102ab
साम्राज्ययुवराज्यत्वभाजने रञ्जनं क्षितेः ॥ KRT_3_0102cd
बलाहतना1ं प्राचुर्यं विनिवार्यासमञ्जसम् । KRT_3_0103ab
तोरमाणेन दीन्नारा2ः स्वाहता3ः संप्रवर्तिताः ॥ KRT_3_0103cd
मामवज्ञाय राज्ञेव कस्मादेतेन1 वल्गितम् । KRT_3_0104ab
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ KRT_3_0104cd
चिरंस्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा । KRT_3_0105ab
ऐक्ष्वाकस्यात्मजा राज्ञी वज्रेन्द्रस्यास्त गुर्विणी ॥ KRT_3_0105cd
आसन्नप्रसवा भर्त्रा सा त्रपार्तेन1 बोधिता । KRT_3_0106ab
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ KRT_3_0106cd
स कुम्भकारगेहिन्या काक्येव पिकशाबकः । KRT_3_0107ab
पुत्रीकृतो राजपुत्रः प्र्याप्तं पर्यवर्धत ॥ KRT_3_0107cd

80--<81>.

--1)--1) These two verses have been supplied in margin by A3.

83.

--1) A3 राजन्नुपहारं.

88.

--1) A3 प्राग्योस्मि समकल्पयम्.

95.

--1) This verse is supplied by A3 in margin.

--2) A3 gloss जनाः.

100.

--1) Thus A3; A1 ॰सख्ये.

103.

--1) Thus A; G R Edd. बाला॰.

--2) A3 gloss सुवर्णमया रजताश्रमयाश्च.

--3) A3 gloss स्वाहताः स्वनामाक्षरमुद्राङ्कदानेन आहताः संप्रवर्तिताः व्यवहारविषयाः कृताः.

104.

--1) A3 gloss तोरमाणेन.

106.

--1) A3 gloss त्रपार्तेन सलज्जेन.

[page 27]




जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् । KRT_3_0108ab
रत्नसूते1र्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ KRT_3_0108cd
पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः । KRT_3_0109ab
पैतामहेन नाम्नैव कुलाल्या ख्यापितोभवत् ॥ KRT_3_0109cd
वर्धमानः स संपर्कं न सेहे सहवासिनाम् । KRT_3_0110ab
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ KRT_3_0110cd
तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः । KRT_3_0111ab
अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाज्जनाः ॥ KRT_3_0111cd
स्ववृन्दस्यात्युदारौजा1 राजा चक्रे स दारकैः । KRT_3_0112ab
मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ KRT_3_0112cd
संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् । KRT_3_0113ab
अराजोचितमाचारम् नैव कंचिद1सेवत ॥ KRT_3_0113cd
भाण्डादि कर्तुम् मृत्पिण्डं कुम्भकारैः समर्पितम् । KRT_3_0114ab
स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरंपराः ॥ KRT_3_0114cd
तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत । KRT_3_0115ab
मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ KRT_3_0115cd
आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ1 KRT_3_0116ab
भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ KRT_3_0116cd
संभाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् । KRT_3_0117ab
सादृश्याद्भगिनीभिर्तुर्भागिनेयमशङ्कत ॥ KRT_3_0117cd
सत्वरस्तत्त्वजिज्ञासारसेनानुससार तम् । KRT_3_0118ab
प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ KRT_3_0118cd
सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् । KRT_3_0119ab
निःश्वासद्विगुणोष्माणि मुहुरस्रूण्यमुञ्चताम् ॥ KRT_3_0119cd
कुलाल्या दारको मातः कावेताविति पृष्टवान् । KRT_3_0120ab
अकथ्यतेत्थं वत्सैषा मातायां मातुलश्च ते ॥ KRT_3_0120cd
पितुर्बन्धेन सक्रोधं तम् कालापेक्षयाक्षमम् । KRT_3_0121ab
शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ KRT_3_0121cd
उत्पिञ्जोत्पादनासज्जे1 तस्मिन्भ्रात्रा यदृच्छया । KRT_3_0122ab
बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमाययौ ॥ KRT_3_0122cd
निवार्य मरणोद्योगं मातुर्निर्वेदखेदितः । KRT_3_0123ab
ययौ प्रवरसेनोथ तीर्थौत्सुक्याद्दिगन्तरम् ॥ KRT_3_0123cd
रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिम् समाः । KRT_3_0124ab
तस्मिन्क्षणे हिरण्योपि शान्तिं निःसंततिर्ययौ ॥ KRT_3_0124cd
तत्रानेहस्युज्जयिन्याम् श्रीमान्हर्षापराभिधः । KRT_3_0125ab
एकच्छत्त्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ KRT_3_0125cd
भूपमद्भुतसौभाग्यं श्रीर्बद्धरभसाभजत् । KRT_3_0126ab
विहाय हरिबाहूंश्च चतुरः सागरांश्च यम् ॥ KRT_3_0126cd
लक्ष्मिं कृत्वोपकरणं गुणे येन प्रवर्धिते1 KRT_3_0127ab
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकन्धराः ॥ KRT_3_0127cd
म्लेच्छोच्छेदाय वसुधाम् हरेर1वतरिष्यतः । KRT_3_0128ab
शकान्विनाश्य येनादौ कार्यभारो लघूकृतः ॥ KRT_3_0128cd
नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् । KRT_3_0129ab
तं कविर्मातृगुप्ताख्यः सर्वा1स्थानस्थमासदत् ॥ KRT_3_0129cd
स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् । KRT_3_0130ab
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ KRT_3_0130cd
सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः । KRT_3_0131ab
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ KRT_3_0131cd
यस्मिन्ना1जनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः । KRT_3_0132ab
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ KRT_3_0132cd
भङ्ग्यामुष्मिन्विदधती स्वाभिप्रायप्रकाशनम् । KRT_3_0133ab
वैदग्ध्यबन्ध्यतां नैति बुद्धिह् कुलवधूरिव ॥ KRT_3_0133cd
खिलीकृतखलालापे युक्तायुक्तविवेक्तरि । KRT_3_0134ab
नायातिसेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ॥ KRT_3_0134cd
अनाप्नुवद्भिः सावद्यदुर्विद्यसम्शीर्षिकाम् । KRT_3_0135ab
जीवन्मरणस्याग्रे गुणिभिर्नानुभूयते ॥ KRT_3_0135cd

208.

--1) A3 gloss भूमेः.

112.

--1) A2 gloss अतिशयेन उदारम् ओजः यस्य.

113.

--1) Thus corr. by later hand from A. किंचिद॰ .

116.

--1) A3 gloss प्रवरसेनः.

122.

--1) Thus A1; A1 has given a varia lectio in margin of which only उत्पिञ्जोद्वास is legible ( उत्पिञ्जोद्वासनासज्ञ्जे ?). A3 उत्पिञ्जोत्पादने सज्जे, with gloss द्वन्द्वयुद्धस्य कोलाहले सज्जे सति.

127.

--1) G Edd. गुणो येन प्रवर्धते.

128.

--1) G sec manu and Edd. सभायास्था॰.

132.

--1) A3 अस्मिन्ना॰.

[page 28]




संभावनानुसा1रेण प्रवृत्तोस्माद्विवेकिनः । KRT_3_0136ab
शोच्यते नाञ्चितोच्छ्वासं प्रीतिदायो महाशयैः ॥ KRT_3_0136cd
गृह्णन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः1 KRT_3_0137ab
अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥ KRT_3_0137cd
सेवया दृष्टकष्टस्य दाक्षिण्योत्पादने श्रमः । KRT_3_0138ab
अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ KRT_3_0138cd
मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः । KRT_3_0139ab
असत्यसंधः स्थेयो वा नास्थानेस्य महीपतेः ॥ KRT_3_0139cd
अश्लीलापिनोन्योन्यं नर्मोक्त्या मर्मभेदिनः । KRT_3_0140ab
अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ KRT_3_0140cd
छन्दानुवर्तिनामेष निजविज्ञानवन्दिनाम् । KRT_3_0141ab
सर्वज्ञंमन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ KRT_3_0141cd
अनेन सह संजातः संलापो विपुलोदयः । KRT_3_0142ab
लभ्यते नान्तराच्छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ KRT_3_0142cd
सर्वदेदोषोज्झितं सेव्यं नृपमेवमिमं मम । KRT_3_0143ab
समासादयतः पुण्यैरदूरे स्वार्थसिद्धयः ॥ KRT_3_0143cd
गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः । KRT_3_0144ab
एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ KRT_3_0144cd
न चास्माद्धनमादाय रञ्जितादन्यराजवत् । KRT_3_0145ab
भ्राम्यते1 भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ KRT_3_0145cd
इति संचिन्त्य सुदृढं स नवामिव तां सभाम् । KRT_3_0146ab
नारञ्जयन्न1 चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ KRT_3_0146cd
मृदुपूर्वं गुणानेवं दर्शयन्तं विशांपतिः । KRT_3_0147ab
विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम् ॥ KRT_3_0147cd
अचिन्तयच्च नायं स्याद्गुणिमात्रं महाशयः । KRT_3_0148ab
उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ KRT_3_0148cd
इति संचिन्त्य राज्ञापि ज्ञातुम् तस्यान्तरं मतेः । KRT_3_0149ab
नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ KRT_3_0149cd
स तेनानुपचारेण तमुहात्ताशयम् नृपम् । KRT_3_0150ab
स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ KRT_3_0150cd
क्रमोपचीयमानेन सेवाभ्यासेन धीमतः । KRT_3_0151ab
तस्य नोद्वेगमगमत्स्वकाय इव पार्थिवः ॥ KRT_3_0151cd
नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया । KRT_3_0152ab
शरन्निशाक्षणेनेव राजा1 निन्ये2 प्रसन्नताम् ॥ KRT_3_0152cd
नर्मभिर्गर्भचेटानां द्वाःस्थानां विक्रियाक्रमैः । KRT_3_0153ab
मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ KRT_3_0153cd
प्रसन्नालापसंप्राप्तौ छायाग्रह इवाचलः । KRT_3_0154ab
प्रतिस्पर्धीव च क्रुध्यन्नावज्ञायामभूत्प्रभोः ॥ KRT_3_0154cd
वीक्षणं राजदासीनाम् राजद्विष्टैः1 सहासनम् । KRT_3_0155ab
राजाग्रे च कथां नीचैः कालविन्नाच्चार सः ॥ KRT_3_0155cd
स्वभावाद्राजपुरुषैः सजनै राजनिन्दकैः । KRT_3_0156ab
नास्मात्1प्रभोरुपालम्भो लेभे पैशुन्यजीविभिः ॥ KRT_3_0156cd
वदद्भिरादरात्स्थैर्ये वैफल्याद्व्यन्वहं प्रभोः । KRT_3_0157ab
निन्ये नोत्साहशैथिल्यं सेवोत्साहासहिष्णुभिः ॥ KRT_3_0157cd
अन्योत्कर्षाaनपि वदन्प्रसङ्गेन निराग्रहः । KRT_3_0158ab
स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयंगमः ॥ KRT_3_0158cd
एवं स सेवमानस्तमुद्योगेन बलीयसा । KRT_3_0159ab
अनिर्विण्णो1 मातृगुप्तः षदृतूनत्यवाहयत् ॥ KRT_3_0159cd
अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् । KRT_3_0160ab
बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत् ॥ KRT_3_0160cd
वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः । KRT_3_0161ab
दार्द्यं जिज्ञासुना कष्टम् सोयमायासितो मया ॥ KRT_3_0161cd
कोस्याश्रयः किमशनं कानि प्रावरणानि वा । KRT_3_0162ab
इत्यैर्श्वर्यविमूढेन मया हन्त न चिन्तितम् ॥ KRT_3_0162cd
वसन्तेनेव न मया शोभयाद्यापि योजितः । KRT_3_0163ab
शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ KRT_3_0163cd

136.

--1) संभावनानुसा supplied by A3 in space left by A1.

137.

--1) A3 gloss प्रतिपत्तिः सत्कारः सत्क्रिया पूजनं माननमिति यावत्.

145.

--1) Thus corr. by A3 from A1 भ्राम्यते.

146.

--1) Thus corr. by A3 from A1 नारञ्जन्न॰.

152.

--1) A1 gloss राजा चन्द्रोपि.

--2) A3 gloss मातृगुप्तेन.

155.

--1) A3 gloss राजशत्रुभिः.

156.

--1) A3 gloss मातृगुप्तात्.

159.

--1) Thus corr. by from A1 अनिविन्नो.

[page 29]




अस्य ग्लानस्य भैषज्यं निविण्णस्य विनोदनम् । KRT_3_0164ab
श्रान्तस्य वा क्लमच्छेदं को विदध्यादसंपदः ॥ KRT_3_0164cd
नास्मै चिन्तामणिं दध्यां नामृतं वा निषेवित1ः । KRT_3_0165ab
मया यदयमेतावद्व्यामूढेन परीक्ष्यते ॥ KRT_3_0165cd
तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च । KRT_3_0166ab
प्रतिपत्त्या1 कतमया तावदानृण्यमाप्नुयाम् ॥ KRT_3_0166cd
इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति । KRT_3_0167ab
स्वप्रसादोचिता काचित्प्रत्यभा1न्नैव सत्क्रिया ॥ KRT_3_0167cd
तत्ः प्रावर्तत स्फारनीहारलववाहिभिः । KRT_3_0168ab
दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ KRT_3_0168cd
संततध्वान्तमिषतस्तीव्रशीतवशीकृताः । KRT_3_0169ab
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ KRT_3_0169cd
शीतार्त्या द्युमाणवौर्वदहनोष्माभिलाषतः । KRT_3_0170ab
द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ KRT_3_0170cd
अथ दीपोज्ज्वले धाम्नि लसद्दीप्तहसन्तिके1 KRT_3_0171ab
कदाचिन्नृपतिर्दैवादर्धरात्रे व्यबुध्यत ॥ KRT_3_0171cd
स हेमन्तानिलैर्भूरिभांकारपरुषैः पुरः । KRT_3_0172ab
दीपान्प्रकम्पितानीषत्प्रविष्टैर्धाम्नि दृष्टवान् ॥ KRT_3_0172cd
तानुज्ज्वलयितुं भृत्यानन्दिष्यन्नभ्यधात्ततः । KRT_3_0173ab
यामिकेषु1 बहिः सज्जः को वर्तत इति स्फुटम् ॥ KRT_3_0173cd
सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरत्ततः । KRT_3_0174ab
राजन्नयमहं मातृगुप्त इत्यशृणोद्वचः ॥ KRT_3_0174cd
प्रविशेति स्वयं राञ्जा दत्तानुज्ञस्ततो गृहम् । KRT_3_0175ab
लक्ष्मीसांनिध्यरम्यं तदपृष्टो1न्यैर्विवेश सः ॥ KRT_3_0175cd
दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः । KRT_3_0176ab
बहिर्यियासुरूचेथ1 क्षणं तिष्ठेति भूभुजा ॥ KRT_3_0176cd
स भयद्वोगुणीभूतशीतकम्पः प्रभोः पुरः । KRT_3_0177ab
किं स्विद्वक्तीति विमृषन्नातिदूरेभ्युपाविशत् ॥ KRT_3_0177cd
अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम् । KRT_3_0178ab
सोभ्यधाद्देव्य यामिन्या यामः सार्धोवशिष्यते ॥ KRT_3_0178cd
ततो भूभृदुवाचैनं कथं सम्यङ्निशाक्षणः । KRT_3_0179ab
त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ KRT_3_0179cd
अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत् । KRT_3_0180ab
अवस्थावेदनादा1शां दैन्यं वा त्यक्तुमुद्यतः ॥ KRT_3_0180cd
शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । KRT_3_0181ab
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ KRT_3_0181cd
तदाकर्ण्य महीपालः साधुवादैः परिश्रमम् । KRT_3_0182ab
अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत् ॥ KRT_3_0182cd
अचिन्तयच्च धिङ्मां यः सगुणात्खिन्नचेतसः । KRT_3_0183ab
दुःखोत्तप्तं वचः शृण्वन्नेवमेवाधुना स्थितः ॥ KRT_3_0183cd
निरर्थकान्साधुवादाननयस्येव विदन्मम । KRT_3_0184ab
अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ KRT_3_0184cd
चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् । KRT_3_0185ab
देयं महार्हमद्यापि न किंचित्प्रतिभाति मे ॥ KRT_3_0185cd
अथ वास्यैव सूक्तेन1 स्मारितोस्म्यधुना यथा । KRT_3_0186ab
वर्तते राजरहितं काम्यं कश्मीरमण्डलम् ॥ KRT_3_0186cd
पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते । KRT_3_0187ab
अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ KRT_3_0187cd
इति निश्चित्य चतुरं क्षपायामेव पार्थिवः । KRT_3_0188ab
गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः प्रति1 KRT_3_0188cd
आदिदेश च तान्यो वो दर्शयेच्छासनं मम । KRT_3_0189ab
मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम् ॥ KRT_3_0189cd
अथ दूतेषु यातेषु लेखयित्वा स्वशासनम् । KRT_3_0190ab
क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ KRT_3_0190cd

165.

--1) A3 gloss अनेन इत्यर्थः.

166.

--1) A3 gloss सत्क्रियया.

167.

--1) A3 gloss चित्तविषयं न गता इत्यर्थः.

171.

--1) A3 gloss हसान्तिका मग्नाग्निका.

173.

--1) A3 gloss रात्रिजागरेषु पुरुषेषु.

175.

--1) A3 तददृष्टो.

176. --1) Thus corr. by A3 from A1 ॰रूचे च.

180.

--1) A1 gloss अवस्थायाः आवेदनं तस्मात्.

186.

--1) A3 gloss सत्पात्रेत्यादिना.

188.

--1) A3 gloss सचिवान् प्रति.

[page 30]




मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम् । KRT_3_0191ab
ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत् ॥ KRT_3_0191cd
अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः । KRT_3_0192ab
आशापिशाचिकात्यक्तश्चरिष्याम्यधुना सुखम् ॥ KRT_3_0192cd
गतानुगतिकत्वेन कोयमासीन्मम भ्रमः । KRT_3_0193ab
जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम् ॥ KRT_3_0193cd
भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । KRT_3_0194ab
यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी च द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ KRT_3_0194cd
अथ वा विद्यतेमुष्य न काप्यनभिगम्यता । KRT_3_0195ab
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ KRT_3_0195cd
त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः । KRT_3_0196ab
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयःप्रतिबन्धकम् ॥ KRT_3_0196cd
रत्नोज्ज्वलाः प्रविक्रिरंल्लहरीः समीरैरब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । KRT_3_0197ab
दोषोर्थिनः स खलु भाग्यविपर्ययाणां1 दातुर्मन्नागपि न तस्य तु दातृतायाः ॥ KRT_3_0197cd
उत्तानफललुब्धानां वरं राजोपजीविनः । KRT_3_0198ab
न तु तत्स्वामिन1स्तीव्रपरिक्लेशैः फलन्ति ये ॥ KRT_3_0198cd
तिष्ठन्ति ये पशुपतेः किल पादमूले संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् । KRT_3_0199ab
ये तद्वृषस्य तु समुज्ज्वलजातरूपप्राप्त्या न कानि सुदिनानि अदैव तेषाम् ॥ KRT_3_0199cd
चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः । KRT_3_0200ab
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ KRT_3_0200cd
अथ वानादृतोन्येन संप्राप्तोन्तिकमाप्नुयात् । KRT_3_0201ab
कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ KRT_3_0201cd
अन्तर्ये सततं लुठन्त्य1गणितास्तानेव पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । KRT_3_0202ab
व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते2 स्वामिभिः ॥ KRT_3_0202cd
इदं संचिन्त्ययन्सोभूत्सेव्ये तस्मिन्निरादरः । KRT_3_0203ab
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ KRT_3_0203cd
प्रभातायां विभावर्यामथास्थानस्हितो नृपः । KRT_3_0204ab
आकार्यतां मातृगुप्त इति क्षत्तारमा1दिशत् ॥ KRT_3_0204cd
ततः प्रधावितानेकप्रतीहारप्रविशेतः । KRT_3_0205ab
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ KRT_3_0205cd
तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः । KRT_3_0206ab
भ्रूसंज्ञितेन व्यतरल्लेखं लेकहदिकारिणा ॥ KRT_3_0206cd
स्वयम् च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् । KRT_3_0207ab
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ KRT_3_0207cd
स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि । KRT_3_0208ab
संविदे1षा प्रयत्नेन विस्मर्तव्या न जातु चित् ॥ KRT_3_0208cd
अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः । KRT_3_0209ab
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ KRT_3_0209cd
यथादेशस्त्तथेत्युक्त्वा मातृगुप्ते विनिर्गते । KRT_3_0210ab
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ KRT_3_0210cd
अथा1क्लेशोचितं क्षाममपाथेयमबान्धवम् । KRT_3_0211ab
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ KRT_3_0211cd
अहो नरेश्वरस्येयं यत्किंचनविधायिता । KRT_3_0212ab
पृथग्जनोचिते कर्मण्यर्हतो1 निदधाति यः ॥ KRT_3_0212cd
दुराशया धृतक्लेशं सेवमानमहर्निशम् । KRT_3_0213ab
ध्रुवं क्लेशार्हमेवैनं ज्ञातवानबुधो नृपः ॥ KRT_3_0213cd
उपायं यं1 पुरस्कृत्य सेवते सेवकः प्रभुम् । KRT_3_0214ab
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ KRT_3_0214cd

197.

--1) A3 ॰पर्ययेण.

198.

--1) A1 glosses राज्ञोपजीविनः पुरुषाः, तत्स्वामिनः तेषां स्वामिनः कर्तारः न वरं.

202.

--1) Thus corr. by later hand from A1 लुठन्ति ग॰.

--2) Thus A3; A1 ॰र्थ्यते.

204.

--1) A1 gloss द्वास्स्थं.

208.

--1) A3 glosss शिक्षा.

211.,

--1) Thus corr. by later hand from A1 अथ क्ले॰.

212.

--1) A3 gloss पूज्यान्.

214.

--1) Doutful emendation; on account of an ink blot only the following is legible in the handwriting of A1: उपाय --- स्कृत्य. A4 reads उपायनं पुरस्कृत्य; this reading is found in R. G and Edd. read उपायं तं.

:p 31.
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् । KRT_3_0215ab
यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां श्रमादायि न्यस्तं निरवधि धराभारवहनम् ॥ KRT_3_0215cd
अयमेतद्गृहीतेषु गुनवत्सु गुणाधिकम् । KRT_3_0216ab
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ KRT_3_0216cd
अनन्तरज्ञः1 कोन्योस्माद्गुणान्दर्शयतेधिकान् । KRT_3_0217ab
अस्मै गुणवते पूजां यश्चकार किलेदृशीम् ॥ KRT_3_0217cd
यो नानाद्युतिमत्पदार्थरसिकोसरेपि शक्रायुधे सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् । KRT_3_0218ab
इत्याविष्कृतवर्हराजि नटते यो वर्हिणोम्भोलवान्नान्यन्मुञ्चति तं विहाय1 जलदं कोन्योस्ति शून्याशयः ॥ KRT_3_0218cd
गच्छतो मातृगुप्तस्य निर्दैन्यस्यैव वर्त्मसु । KRT_3_0219ab
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ KRT_3_0219cd
अहंपूर्विकयोद्व्यद्भिर्निमित्तैः शुभशंसिभिः । KRT_3_0220ab
स वितीर्णकरालम्भ इव न श्रममाददे ॥ KRT_3_0220cd
अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि । KRT_3_0221ab
स्वप्ने प्रासादमारुह्य स्वम् चोल्लङ्घितसागरम् ॥ KRT_3_0221cd
अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः । KRT_3_0222ab
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ KRT_3_0222cd
फलं मम तनीयोपि कश्मीरेषु भवेद्यदि । KRT_3_0223ab
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ KRT_3_0223cd
अकृच्छ्रलङ्घ्याः पन्थानो वल्लभातिथयो गृहाः । KRT_3_0224ab
उपानमन्गच्छतोस्य सत्क्रियाश्च पदे पदे ॥ KRT_3_0224cd
इत्थं विलङ्घिताध्वा स लोलानोकह1शाद्वलम् । KRT_3_0225ab
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ KRT_3_0225cd
सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः । KRT_3_0226ab
प्रत्युद्ययुस्तं मरुतः पाल्याया1ः संस्तुता भुवः ॥ KRT_3_0226cd
क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः । KRT_3_0227ab
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ KRT_3_0227cd
नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् । KRT_3_0228ab
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ KRT_3_0228cd
ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः । KRT_3_0229ab
स जगामान्तिकं तेषां दातुं दातुं नृपतिशासनम् ॥ KRT_3_0229cd
तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोद्यम् । KRT_3_0230ab
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ KRT_3_0230cd
श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् । KRT_3_0231ab
द्वाःस्थाः काश्मीरमन्त्रिभ्यस्तमासन्नं न्यवेदयन् ॥ KRT_3_0231cd
आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः । KRT_3_0232ab
स तान्समस्तसामन्तानाससादानिवारितः ॥ KRT_3_0232cd
यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः । KRT_3_0233ab
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ KRT_3_0233cd
कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः । KRT_3_0234ab
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ KRT_3_0234cd
तेभिवन्द्य प्रभोर्लेखमुपांशु1 मिलितास्ततः । KRT_3_0235ab
उन्मुच्य वाचयित्वैतमवोचन्विनयान्विताः ॥ KRT_3_0235cd
मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् । KRT_3_0236ab
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ KRT_3_0236cd
कः कोत्र संनिधातॄणामित्यश्रूयत वाक्ततः । KRT_3_0237ab
राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ KRT_3_0237cd
ततः कलकलोत्तालभूरिलोकसमाकुलः । KRT_3_0238ab
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ KRT_3_0238cd
अथ प्राङ्मुखसौवर्नभद्रपीठप्रतिष्ठितः । KRT_3_0239ab
संनिपत्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ KRT_3_0239cd
तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् । KRT_3_0240ab
सशब्दमभिषेकाम्बु रेवास्रोत1 इवावभवौ ॥ KRT_3_0240cd
अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् । KRT_3_0241ab
व्यजिज्ञपंस्तं राजानं क्रान्तराजासनं प्रजाः ॥ KRT_3_0241cd

217,

--1) A3 gloss मूर्खपुरुषः.

218.

--1) A3 विलोक्य जलदमित्यन्यादर्शे.

225.

--1) Thus A1; corr. by A3 into ॰नौकष्ठ॰, as also in G R.

226.

--1) A1 gloss पाल्याया इति प्रभूभविष्यता तेनैवेत्यर्थः.

235.

--1) A1 gloss परैर्न श्रूयते यत्तदुपांशु परिकीर्तितम्; A2 adds मन्त्रकरणे.

240.

--1) Thus A3; A1 ॰स्रेव, corr. by later hand into ॰स्रव.

[page 32]




अर्थितेन स्वयं त्रातुं विक्रमादित्यभूभुजा । KRT_3_0242ab
निदिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ KRT_3_0242cd
मण्डलानि विलभ्यन्ते1 येनानेन प्रतिक्षणम् । KRT_3_0243ab
मा मंस्था मण्डलं राजन्विलब्धं2 तदिदं परैः ॥ KRT_3_0243cd
कर्मभिः स्वरिaवाप्तस्य जन्मनः पितरौ यथा । KRT_3_0244ab
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ KRT_3_0244cd
इत्थं स्थितेपरं कंचित्त्वदीयोस्मीति शंसता । KRT_3_0245ab
न नेया भवता राजन्व1यमात्मा च लाघवम् ॥ KRT_3_0245cd
इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् । KRT_3_0246ab
मातृगुप्तो1 महीपालः क्षणमासीत्कृतस्मितः ॥ KRT_3_0246cd
दानेन सुदिनं कुर्वन्नवराज्योर्जितेन सः । KRT_3_0247ab
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत्1 KRT_3_0247cd
पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः । KRT_3_0248ab
अद्भुतप्राभृतं दूतं राज्यदातुर्व्यसर्जयत् ॥ KRT_3_0248cd
देशौन्नत्यानुसारेण स्पर्धामिव च ताम् विदन् । KRT_3_0249ab
स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत ॥ KRT_3_0249cd
अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः । KRT_3_0250ab
अल्पार्धाण्यपि सात्म्यानि1 प्राहिणोत्प्राभृतानि सः ॥ KRT_3_0250cd
असामान्याब्गुणांस्तस्य स्मरन्पर्यस्रुलोचनः । KRT_3_0251ab
स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत् ॥ KRT_3_0251cd
नाकारमुद्वहसि नैव विकत्थसे त्वं दित्सां न सूचयसि मुञ्चसि सत्फलानि । KRT_3_0252ab
निःशब्दवर्षणमिवाम्बुधरस्य राजन्संलक्ष्यते फलत एव तव1 प्रसादः ॥ KRT_3_0252cd
ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः । KRT_3_0253ab
क्रमागतामिव महीं यथावत्पर्यपालयत् ॥ KRT_3_0253cd
त्यागे वा पौरुषे वापि तस्यौचित्योन्न1तात्मनः । KRT_3_0254ab
क्ष्माभुजस्तर्कुकस्येव2 नाभूत्परिमितेच्छता ॥ KRT_3_0254cd
यष्टुं यज्ञान्धृतोद्योगस्त्यागी विततदक्षिणान् । KRT_3_0255ab
पशुबन्धमनुध्याय करुणाकूणितोभ1वत् ॥ KRT_3_0255cd
अमारमादिशेशाथ यावद्राज्यं स्वमण्डले । KRT_3_0256ab
चूर्णीकृत्य सुवर्णादि प्रददौ च करम्भकम् ॥ KRT_3_0256cd
करम्भके कीर्यमाणे मातृगुप्तेन भूभुजा । KRT_3_0257ab
वैतृष्ण्यमुन्मिषत्तोषो न को नाम न्यषेवत ॥ KRT_3_0257cd
गुणी च दृष्टकष्टश्च वदान्यश्च1 स पार्थिवः । KRT_3_0258ab
विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम् ॥ KRT_3_0258cd
विवेकतया तस्य श्लाघ्यया सुरभीकृताः । KRT_3_0259ab
लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु ॥ KRT_3_0259cd
हयग्रीववधं1 मेण्ठस्तदग्रे दर्शयन्नवम् । KRT_3_0260ab
आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः ॥ KRT_3_0260cd
अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात् । KRT_3_0261ab
लावण्यनिर्याणभिया तदध1ः स्वर्णभाजनम् ॥ KRT_3_0261cd
अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः । KRT_3_0262ab
भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम् ॥ KRT_3_0262cd
स मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम् । KRT_3_0263ab
कालेनादत्त यद्वामान्मम्मः स्वसुरसद्मने1 KRT_3_0263cd
इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः । KRT_3_0264ab
त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः ॥ KRT_3_0264cd
कृतार्थतां तीर्थतोयैराञ्जनेयो1नयन्पितॄन् । KRT_3_0265ab
जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्2 KRT_3_0265cd
पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत । KRT_3_0266ab
तरोरिवार्कतापेन नैशाम्बुलवसिक्तता ॥ KRT_3_0266cd
श्रीपर्वते पाशुपतव्रतिवेषस्तमा1गतम् । KRT_3_0267ab
आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत् ॥ KRT_3_0267cd

243.

--1)

--2) A1 indicates the vv. ll. विदीयन्ते and विदत्तं.

245.

--1) Thus A3; A1 राजा.

246.

--1) Thus corr. by later hand from A1 ॰गुप्तम॰; G R as above.

247.

--1) A3 gloss अत्यवाहयत्.

250.

--1) Thus A1; A3 स्वात्म्यानि, also G R; Edd. खाद्यानि.

252.

--1) तव supplied by A3.

254.

--1) Thus corr. by later hand from A1 ॰चित्यौन्न॰.

260.

--1) A3 gloss काव्यम्.

261.

--1) A3 राजाधः.

263.

--1) A1 gloss स्वदेवगृहाय.

265.

--1) A3 gloss प्रवरसेनः.

--2) A3 पराभवम्.

267.

--1) A3 gloss प्रवरसेनं.

[page 33]




जन्मान्तरे लब्धसिद्धिस्त्वामस्म्यु1परि साधकम् । KRT_3_0268ab
वाञ्छामपृच्छं राज्यार्थमभिलाषस्तु तेभवत् ॥ KRT_3_0268cd
सयत्रं तत्र कर्तुं तन्मनोरथमनन्यथा । KRT_3_0269ab
अथ मामित्थमादिक्ष1त्क्षपारमणशेखरः2 KRT_3_0269cd
गणोयं मामकः सिद्धो यस्तवोपरि साधकः । KRT_3_0270ab
जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा ॥ KRT_3_0270cd
भावं भवस्तद्भवतो भगवान्दत्तदर्शनः । KRT_3_0271ab
साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे1 KRT_3_0271cd
साम्राज्येच्छोः समामेकां तत्र तस्य1 तपस्यतः । KRT_3_0272ab
लब्धस्मृतिः2 सिद्धगिरा प्रददौ दर्शनं शिवः ॥ KRT_3_0272cd
व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम् । KRT_3_0273ab
स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत ॥ KRT_3_0273cd
उपेक्ष्य मोक्षं किम् क्ष्माभृद्भोगानिच्छसि भङ्गुरान् । KRT_3_0274ab
इति जिज्ञासुना भावं शंभुना सोभ्यधीयत ॥ KRT_3_0274cd
स तं बभाषे शंभुं त्वां बुद्ध्वा व्याजतपोधनम् । KRT_3_0275ab
अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः ॥ KRT_3_0275cd
महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतर1त्स्वयम् । KRT_3_0276ab
उदन्यया2 वदान्यो3दाद्दुग्धाब्धिं स4 पोयोर्थिने ॥ KRT_3_0276cd
अस्य वैकल्यकैवल्यलाभनिश्चलचेतसः । KRT_3_0277ab
नो वेत्स्यभिजनस्याभिभूतिं1 मर्मव्यथावहाम् ॥ KRT_3_0277cd
जगत्परिवृढः1 प्रौढप्रीतिस्तं सफलार्थनम्2 KRT_3_0278ab
कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत ॥ KRT_3_0278cd
मज्जतो राज्यसौख्येषु सायुज्या1वाप्तिदूतिकाम् । KRT_3_0279ab
मदाज्ञयाश्वपादस्ते संज्ञां काले करिष्यति ॥ KRT_3_0279cd
इत्युक्त्वान्तर्हिते देवे स कृतव्रतपारणः । KRT_3_0280ab
1गच्छदश्वपादं तमापृच्छयाभिमतां भुवम् ॥ KRT_3_0280cd
ततो विदितवृत्ता1न्तो मातृगुप्ताभिषेणनात् । KRT_3_0281ab
निषिध्य सविधा2यातानमात्यानब्रवीद्वचः ॥ KRT_3_0281cd
विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः । KRT_3_0282ab
मातृगुप्तं प्रति न नो रोषेणारूषितं मनः ॥ KRT_3_0282cd
अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । KRT_3_0283ab
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ KRT_3_0283cd
यान्यब्जान्युदयं द्विषन्ति शशिनः कोन्यस्ततो1संमतस्तन्निर्माथिकरीन्द्रदन्तदलनं यन्नाम कोयं नयः । KRT_3_0284ab
सामर्थ्यप्रथनाय चित्रमसमै2ः स्पर्धां विधूयोन्नता ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रुषः ॥ KRT_3_0284cd
त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः । KRT_3_0285ab
विक्रमादित्यमशृणोत्कालधर्ममुपागतम् ॥ KRT_3_0285cd
तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वस1तानिशम् । KRT_3_0286ab
नास्नायि नाशि नास्वापि स्थितेनावनताननम् ॥ KRT_3_0286cd
अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम् । KRT_3_0287ab
शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम् ॥ KRT_3_0287cd
कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः । KRT_3_0288ab
ययौ प्रवरसेनोस्य पार्श्वं मितपरिच्छदः ॥ KRT_3_0288cd
कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः । KRT_3_0289ab
विनयावनतो राजा1 राज्यत्यागस्य कारणम् ॥ KRT_3_0289cd
बभाषे तं क्षणं स्थित्वा स1 निःश्वस्य2 विहस्य च । KRT_3_0290ab
गतः स सुकृती2 राजन्येन भूमिभुजो वयम् ॥ KRT_3_0290cd
यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः । KRT_3_0291ab
द्योतने नान्यथा किंचिद्ग्रा1वैव तपनोपल्2अः ॥ KRT_3_0291cd

268.

--1) मस्म्यु supplied by A3 in space left by A1.

269.

--1)

--2) A3 glosses आदिदेश and ईश्वरः.

271.

--1) A3 gloss अश्वपादः.

272.

--1) A3 gloss प्रवरसेनस्य.

--2) Thus A1; corr. by later hand into ॰स्मृतेः, as found also in R.

276.

--1) A1 gloss स्वल्पमर्थिता बहु फलन्ति महान्तः.

--2) A1 gloss उदन्यया पिपासया.

--3) Emended: A R G वदन्यो.

--4) A3 gloss शिवः.

277.

--1) A3 gloss पराभवं.

278.

--1) A3 gloss प्रभुः.

--2) Thus corr. by A3 from A1 स फलार्थिनम्.

279.

--1) Thus A1; corr. by later hand into सांयुज्या॰.

280.

--1) A3 अगच्छ॰.

281.

--1) त्त supplied by A3 in space left by A1.

--2) A3 gloss निकटं.

284.

--1) A3 gloss तेभ्यः.

--2) A3 gloss नीचैः.

286.

--1) Emended; A निश्वस॰.

289.

--1) A3 gloss प्रवरसेनः.

290.

--1) A3 gloss मातृगुप्तः.

--2) Thus corr. by later hand from A1 निश्वस्य.

--3) A3 gloss विक्रमादित्यः.

291.

--1) Thus A1; corr. by A3 into द्योतयेन्नान्यथा किं न which reading is found also in G R Edd.

--3) A2 gloss सूर्यकान्तः.

[page 34]




अथ राजाभ्यधात्केन राजन्नपकृतं तव । KRT_3_0292ab
यत्प्रत्यप1पचिकीर्षायै तमीशमनुशोचसि ॥ KRT_3_0292cd
मातृगुप्तस्ततोवादीत्कोपस्मितसिताधरः । KRT_3_0293ab
अस्मानुत्सहते कश्चिन्नापकर्तुं बलाधिकः ॥ KRT_3_0293cd
नयता गण्यतामस्मानन्तरज्ञेन तेन1 हि । KRT_3_0294ab
न भस्मनि हुतं सर्पिनोर्नोप्तं वा सस्यमूषरे ॥ KRT_3_0294cd
उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदा1ः । KRT_3_0295ab
पदवीमुपकर्तॄणां यान्ति निश्चेतना अपि ॥ KRT_3_0295cd
निर्वाणमनुनिर्वाति तपनं तपनोपलः । KRT_3_0296ab
इन्दुमिन्दुमणिः किं च शुष्यन्तमनुशुष्यति ॥ KRT_3_0296cd
पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः । KRT_3_0297ab
इच्छामि सर्वसंन्यासं कर्तुं द्विजनोचितम् ॥ KRT_3_0297cd
मणिदीपमिवेशं1 तमन्तरेणान्धकारिताम् । KRT_3_0298ab
बिभेमि द्रष्टुमप्युर्वी भोगयोगे कथैव का ॥ KRT_3_0298cd
इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः । KRT_3_0299ab
धीरः प्रवरसेनोपि व्याजहारोचितं वचः ॥ KRT_3_0299cd
सत्यं विश्वंभरा देवी भूपते रत्नसूरियम् । KRT_3_0300ab
उत्पत्त्या द्योतने धर्म्यैः कृतज्ञैर्या भवादृशैः ॥ KRT_3_0300cd
अन्तरज्ञतया श्लाघ्यः कोन्यस्तस्मान्महीभुज1ः । KRT_3_0301ab
इत्थं जडे जगत्येकस्त्वां यथावद्विवेद यः ॥ KRT_3_0301cd
चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । KRT_3_0302ab
धीर त्वयैव न त्वामु1 संचारो यदि दर्श्यते2 KRT_3_0302cd
पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । KRT_3_0303ab
मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तःपुरुषाधमः कलयति प्रायः कृतोपक्रियः ॥ KRT_3_0303cd
अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । KRT_3_0304ab
शतशाखीभवत्येव यावन्मात्रापि सत्क्रिया ॥ KRT_3_0304cd
तत्त्वं गुणवतामग्र्यस्तत्त्वज्ञ्जैश्चाभिनन्दितः । KRT_3_0305ab
परीक्षितो मणिरिव व्यक्तं बहुमतः सताम् ॥ KRT_3_0305cd
तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम् । KRT_3_0306ab
ममापि ख्यातिमायातु गुणवत्पक्षपातिता ॥ KRT_3_0306cd
पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम् । KRT_3_0307ab
भवान्प्रतिप्र1णयिनीं विदधातु पुनर्भुवम् ॥ KRT_3_0307cd
अव्याजौदार्यचर्यस्य श्रुत्वेति नृपतेर्वचः । KRT_3_0308ab
कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत् ॥ KRT_3_0308cd
यान्यक्षराण्य1न्तरेण वाच्यं वक्तुं न पार्यते । KRT_3_0309ab
का गतिस्तदुपादाने मर्यादोल्लङ्घनं विना ॥ KRT_3_0309cd
1तः परुषमप्यद्य किंचिदेव मयोच्यते । KRT_3_0310ab
अव्याजार्जवमप्येतदार्थत्वमवधीर्यते ॥ KRT_3_0310cd
सर्वः स्मरति सर्वस्य प्रागवस्थासु लाघवम् । KRT_3_0311ab
आत्मैव वेत्ति माहात्म्यं वर्तमाने क्षणे पुनः ॥ KRT_3_0311cd
पूर्वावस्था मदीया ते त्वदीया या च मे हृदि । KRT_3_0312ab
ताभ्यां विमोहितावावां न विद्वोन्योन्यमाशयम् ॥ KRT_3_0312cd
राजा भूत्वा कथं मादृक्प्रतिगृह्णातु संपदः । KRT_3_0313ab
कथमेकपदे सर्वमौचित्यं परिमार्जतु ॥ KRT_3_0313cd
असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः । KRT_3_0314ab
भोगमात्रकृते मादृक्किं साधारणतां नयेत् ॥ KRT_3_0314cd
अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते । KRT_3_0315ab
ध्रियमाणेभिमाने मे केन ते1 विनिवारिताः ॥ KRT_3_0315cd
यन्ममोपकृतं तेन तद्विना प्रत्युपक्रियाम् । KRT_3_0316ab
जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः ॥ KRT_3_0316cd
या गतिर्भूभुजोमुष्य मया तामनुगच्छता । KRT_3_0317ab
पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाश्यताम् ॥ KRT_3_0317cd
एतावत्येव कर्तव्ये यातेस्मि1न्कीर्तिशेषताम् । KRT_3_0318ab
भोगमात्रपरित्यागाद्विदध्यां सत्यसंधताम् ॥ KRT_3_0318cd

292.

--1) Thus corr. by later hand from 1 यत्पत्युप॰.

294.

--1) A3 gloss तेन हर्षदेवेन.

295.

--1) A3 ॰वशीकृताः.

298.

--1) A3 gloss विक्रमादित्यं.

302.

--1) A3 gloss वीथीषु.

--2) दर्श्यते supplied by A3 in space left by A1.

307.

--1) Thus A1; A3 ॰न्पाणिप्र॰.

309.

--1) Thus corr. by A3 from A1 यान्यक्षारा॰.

310.

--1) This verse has been omitted by A1 and supplied in margin by A3; found in R G.

315.

--1) A3 gloss ते भोगा इत्यर्थः.

318.

--1) A3 gloss विक्रमादित्ये.

[page 35]




इत्युक्त्वा विरते तस्मिञ्ज्गाद जगातीपतिः । KRT_3_0319ab
त्वदीया न मया स्पृशयास्त्वयि जीवति संपदः ॥ KRT_3_0319cd
अथ वाराणसीं गत्वा कृतकाषायसंग्रहः । KRT_3_0320ab
सर्वं संन्यस्य सुकृती मातृगुप्तोभवद्यतिः ॥ KRT_3_0320cd
राजा प्रवरसेनोपि काश्मीरोत्पत्तिमञ्जसा । KRT_3_0321ab
निखिलां मातृगुप्ताय प्राहिणोद्दृढनिश्चयः ॥ KRT_3_0321cd
स्स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन् । KRT_3_0322ab
सर्वाaर्थिभ्यः कृती वर्षान्दश प्राणानधारयत् ॥ KRT_3_0322cd
अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम् । KRT_3_0323ab
त्रयाणाम1पि वृत्तान्त एष त्रिपथगापयः ॥ KRT_3_0323cd
राजा प्रवरसेनोथ नमयन्नवनीधरान् । KRT_3_0324ab
अकृच्छ्रलङ्घ्याः ककुभो वृद्धस्य यशसो व्यधात् ॥ KRT_3_0324cd
पीताब्धिर्लङ्घितोर्वीभृत्कुम्भयोनिरिवानयत् । KRT_3_0325ab
तस्य प्रतापः प्रभवन्भुवनानि1 प्रसन्नताम् ॥ KRT_3_0325cd
शुष्यत्तमालपन्नाणि शीर्णताडीदलानि च । KRT_3_0326ab
तत्सेनार्णवतीराणि चक्रेरिस्त्रीमुखानि च ॥ KRT_3_0326cd
स गङ्गालिङ्गिताङ्गस्य पूर्ववारिनिधेर्व्यधात् । KRT_3_0327ab
सैन्येभमदनिष्पन्दैः कालिन्दीसंगमाश्रियम् ॥ KRT_3_0327cd
रोधस्यपरपाथोधेः कटकैः स्पृष्टदिक्तटैः । KRT_3_0328ab
चकारोत्पाट्य सौराष्ट्रानसौ राष्ट्रविपाटनम् ॥ KRT_3_0328cd
यशोर्थिनः पार्थिवेषु द्वेषरागवहिष्कृतः । KRT_3_0329ab
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ KRT_3_0329cd
वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् । KRT_3_0330ab
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ KRT_3_0330cd
सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः । KRT_3_0331ab
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ KRT_3_0331cd
हेतूनुदीर्य विविधानमन्वानं पराजयम् । KRT_3_0332ab
सप्त वारान्स1 तत्याज जित्वा मुम्मुनि1भूभुजम् ॥ KRT_3_0332cd
धार्ष्ट्यादथाष्टमे वारे हेतुमाख्यातुमुद्यतम् । KRT_3_0333ab
धिक्पशून्बध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ KRT_3_0333cd
अवध्योहं पशुत्वेन वीरेत्युक्त्वाभयोत्सुकः । KRT_3_0334ab
मध्येसमं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ KRT_3_0334cd
नृत्तं केकां च शिखिनो1 दृष्ट्वास्मै द्रविणं नृपः । KRT_3_0335ab
अभयेन समं प्रादात्ताaलाव2चरणोचितम् ॥ KRT_3_0335cd
वसतोस्य दिशो जित्वा नप्तुः पैतामहे पुरे । KRT_3_0336ab
कर्तुं पुरं स्वनामाङ्कं प्रथते स्म मानोरथः ॥ KRT_3_0336cd
रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा । KRT_3_0337ab
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ KRT_3_0337cd
गच्छतः क्ष्मापतेस्तस्य मौलिरत्राग्र1बिम्बितः । KRT_3_0338ab
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ KRT_3_0338cd
अथानन्तचितालोकस्पष्टभीमतटद्रुमाम् । KRT_3_0339ab
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ KRT_3_0339cd
ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः । KRT_3_0340ab
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ KRT_3_0340cd
नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः । KRT_3_0341ab
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ KRT_3_0341cd
तमथ प्रतिशब्देन घोरेणापूरयन्दिशः । KRT_3_0342ab
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ KRT_3_0342cd
संत्यज्य विक्रमादित्यं सत्त्वोद्रिक्तं च शूद्रकम् । KRT_3_0343ab
त्वाम् च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ KRT_3_0343cd
वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते । KRT_3_0344ab
सेतुमेतं समुत्तीर्य पार्श्वसीमन्तितां मम ॥ KRT_3_0344cd
इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत्1 KRT_3_0345ab
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ KRT_3_0345cd
अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् । KRT_3_0346ab
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ KRT_3_0346cd

323.

--1) A1 gloss त्रयाणां विक्रमादित्यमातृगुप्तप्रवरसेनानाम्.

325.

--1) A3 gloss जलान्यपि.

332.

--1) A3 gloss प्रवरसेनः.

--2) Doubtful emendation:: मुंमु has been supplied by A3 in space left by A1; A3 has marked a different division of the words, जित्वाऽमुं । मुनिभूभुजम्, which is also indicated by the interlinear gloss of A3 प्रतापशीलं; C reads मुम्मुनि॰. For the name मुम्मुनि see iv. 167; v. 516; vii. 2180 (C).

335.

--1) A3 gloss शिखिवद्दृष्ट्वा.

--2) Thus A1; A3 तालार्धचरणो॰.

338.

--1) Thus A3; A1 ॰त्राङ्ग॰.

345.

--1) Thus apparently A1; A3 ॰यन्.

[page 36]




स तयोत्कृत्त्य तन्मांसं कृतसोपानपद्धतिः । KRT_3_0347ab
अतरद्यत्र तत्स्थानं क्षुरिकाबल1 उच्यते ॥ KRT_3_0347cd
पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् । KRT_3_0348ab
दृष्ट्वा पुरं विधेहीति वदद्भूतं तिरोदधे ॥ KRT_3_0348cd
देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते1 च सः । KRT_3_0349ab
ग्रामे शारीटके1पश्यत्सूत्रं वेतालपातितम् ॥ KRT_3_0349cd
भक्त्या प्रतिष्ठां प्राक्तस्मिन्निनीषौ प्रवरेश्वरम् । KRT_3_0350ab
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ KRT_3_0350cd
वेतलावेदितं लग्नं जानतो जगतीभुजा । KRT_3_0351ab
स्थपतेः स ज्याख्यस्य1 नाम्ना प्रख्यापितोभवत् ॥ KRT_3_0351cd
नगराप्रतिलोम्याय भक्त्या तस्य विनायकः । KRT_3_0352ab
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ KRT_3_0352cd
सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । KRT_3_0353ab
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ KRT_3_0353cd
वितस्तायां स भूपालो बृहत्सेतुमकारयत् । KRT_3_0354ab
ख्याता ततः1 प्रभृत्येव तादृग्रौसेतुकल्पना ॥ KRT_3_0354cd
श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् । KRT_3_0355ab
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम्1 KRT_3_0355cd
बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् । KRT_3_0356ab
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ KRT_3_0356cd
षट्विंशद्गृहलक्षाणि पुरं तत्प्रमथे पुरा । KRT_3_0357ab
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ KRT_3_0357cd
दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल । KRT_3_0358ab
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ KRT_3_0358cd
ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते । KRT_3_0359ab
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ KRT_3_0359cd
तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । KRT_3_0360ab
सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ KRT_3_0360cd
दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् । KRT_3_0361ab
यतः सर्वोकसां लक्ष्मीः संलक्ष्या द्युपथादिव ॥ KRT_3_0361cd
वैतस्तं वारि वास्तव्यैर्बृहत्तु1हिनशर्करम् । KRT_3_0362ab
ग्रीष्मोग्रेह्नि स्ववेश्माग्रात्क्व ततोन्यत्र लभ्यते ॥ KRT_3_0362cd
प्रतिदेवगृहं कोशास्ते तस्मिन्नर्पिता नृपैः । KRT_3_0363ab
सहस्रशः शक्यते यैः क्रेतुं भूः सागराम्बरा ॥ KRT_3_0363cd
पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः । KRT_3_0364ab
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ KRT_3_0364cd
ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । KRT_3_0365ab
तस्य शंभुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ KRT_3_0365cd
अथाश्वपादेनेशाननिदे1शात्तत्क्षणागतः । KRT_3_0366ab
काश्मीरिको जयन्ताख्यो द्विजमायोजि पार्श्वगः ॥ KRT_3_0366cd
श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत् । KRT_3_0367ab
राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम् ॥ KRT_3_0367cd
इत्युक्त्वार्पितलेखोसावसमर्थः पथः पृथून् । KRT_3_0368ab
गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ KRT_3_0368cd
स्नाह्यद्य तावत्त्वं स्पृष्टो द्विजः कापालिना मया । KRT_3_0369ab
उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ KRT_3_0369cd
उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम् । KRT_3_0370ab
तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाहतौ ॥ KRT_3_0370cd
स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम् । KRT_3_0371ab
अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ KRT_3_0371cd
प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः । KRT_3_0372ab
राञ्जा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम् ॥ KRT_3_0372cd
कृतं कृत्यं महद्दत्तं भोगा भ्क्ता वयो गतम् । KRT_3_0373ab
किमन्यत्करणीयं ते यदि गच्छ शिवालयम् ॥ KRT_3_0373cd
ततस्तं वृत्तसंकेतः संतोष्याभिमतार्पणात् । KRT_3_0374ab
भित्त्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ KRT_3_0374cd
जनैः स ददृशे गच्छन्कैलासतिलकां दिशम् । KRT_3_0375ab
विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ KRT_3_0375cd

347.

--1) Thus corr. by A3 from A1 ॰भाल; G ॰बाल.

349.

--1) Thus corr. by later hand from A2 ॰ष्ठितं.

--2) A2 gloss हारटठ्.

351.

--1) स्य supplied by A3.

354.

--1) Thus corr. by A3 from A1 तदा.

355.

--1) A3 gloss स्थापनम्.

[page 37]




जयन्तेनाद्भुतोदन्तहेतुनावाप्य संपदः । KRT_3_0376ab
स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ KRT_3_0376cd
एवं स भुवनैश्वर्यं भुक्त्वा1 भूमिभृतां वरः । KRT_3_0377ab
अनेनैव शरीरेण भेजे भूतपतेः सभाम् ॥ KRT_3_0377cd
प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः । KRT_3_0378ab
स्वर्गद्वारप्रतिभटं द्वारम1द्यापि लक्ष्यते ॥ KRT_3_0378cd
तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः । KRT_3_0379ab
अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं1 समाः ॥ KRT_3_0379cd
सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः । KRT_3_0380ab
आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ KRT_3_0380cd
भवच्छेदा1भिधं ग्रामं स्तुत्यं चैत्यादिसिद्धिभिः । KRT_3_0381ab
यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ KRT_3_0381cd
दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः । KRT_3_0382ab
आसन्कुमारसेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ KRT_3_0382cd
पद्मावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत् । KRT_3_0383ab
लङ्खणा1परनामा यो नरेन्द्रस्वामिनं व्यधात् ॥ KRT_3_0383cd
वज्रेन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ । KRT_3_0384ab
अभूतां सुकृतोदन्तौ राज्ञी च विमलप्रभा ॥ KRT_3_0384cd
स विधायाधिकरणं लिखितस्थितये निजम् । KRT_3_0385ab
द्यां त्रयोदशभिर्वर्षैरारुरोह महाभुजः ॥ KRT_3_0385cd
तस्यानुजो धरणिभृद्रणादित्यस्तनोभवत् । KRT_3_0386ab
तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ॥ KRT_3_0386cd
जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः । KRT_3_0387ab
अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ KRT_3_0387cd
रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन् । KRT_3_0388ab
तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ KRT_3_0388cd
अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वी द्विषाम् न्यधात् । KRT_3_0389ab
नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान् ॥ KRT_3_0389cd
यस्य पाणिप्रणयितां कृपाणे समुपागते । KRT_3_0390ab
कबन्धेभ्यः परो नृत्तं व्यधत्त द्विषद्बले1 KRT_3_0390cd
तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया । KRT_3_0391ab
विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत् ॥ KRT_3_0391cd
स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल । KRT_3_0392ab
कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ KRT_3_0392cd
देहत्यागोद्यतोप्यासीत्प्राप्यं किंचिद्विचिन्तयन् । KRT_3_0393ab
न पर्यन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम् ॥ KRT_3_0393cd
अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम् । KRT_3_0394ab
द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ KRT_3_0394cd
भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः । KRT_3_0395ab
तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी । KRT_3_0395cd
स वज्रशङ्कुपुच्छानां धीमांस्तेषां प्रतिक्रियाम् । KRT_3_0396ab
देहेवश्यपरित्याज्ये मन्वानोभूददुष्कराम् ॥ KRT_3_0396cd
प्रागयोवर्मणा देहं ततो महिषचर्मणा । KRT_3_0397ab
तेन छादयता दत्तो मृल्लेपोथ सगोमयः ॥ KRT_3_0397cd
अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः । KRT_3_0398ab
स लोष्ट इव संचारी प्रतस्थे क्रूरनिश्चयः ॥ KRT_3_0398cd
सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम् । KRT_3_0399ab
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ KRT_3_0399cd
अथोदतिष्ठन्गर्तेभ्यो घोरा भ्रमरमण्डलाः । KRT_3_0400ab
पक्षशब्दैः श्रुतिं घ्नन्तो मृत्युतूर्यरवैरिव ॥ KRT_3_0400cd
ते तमुच्छुष्कमृल्लेपरेणुव्रणितलोचनाः । KRT_3_0401ab
सहसा नाक्रमन्ते स्म प्रहन्तोपि बाधितुम् ॥ KRT_3_0401cd
रेणुभिर्येन्धितदृशस्ते न्यवर्तन्त षट्पदाः । KRT_3_0402ab
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ KRT_3_0402cd
तैः खण्ड्यमानमुच्चण्डैर्व्रजतो योजनत्रयीम् । KRT_3_0403ab
क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ KRT_3_0403cd
ततो मुहुः प्रहरतां तेषां महिषचर्मणि । KRT_3_0404ab
घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ KRT_3_0404cd

377.

--1) Thus A3; A1 त्यक्त्त्वा.

378.

--1) A3 च्छिद्रं.

379.

--1) Thus corr. by A3 from A1 चतुर्विंशतिं.

381.

--1) A3 gloss भौच्छो.

384.

--1) A1 X खणा॰.

390.

--1) A3 indicates a varia lectio in the marginal note अन्यत् कबन्धेभ्यः परं नृत्तं न न्यधत्त द्विषद्बलम्; over the last word the gloss कर्तृ by the same hand.

[page 38]




चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः । KRT_3_0405ab
रणत्कारैर्द्विरेफांस्तानयोवर्मनिपातिनः ॥ KRT_3_0405cd
धावंस्ततोतिवेगेन खण्ड्यमानेन षट्पदैः । KRT_3_0406ab
स शस्त्रवर्मणामोचि चित्तं1 धर्येण नो पुनः ॥ KRT_3_0406cd
गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् । KRT_3_0407ab
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ KRT_3_0407cd
अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः षडङ्घ्रिभिः । KRT_3_0408ab
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ KRT_3_0408cd
प्रशान्ते भृग्गसंपाते प्रकाशमवलोकयत् । KRT_3_0409ab
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ KRT_3_0409cd
स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः । KRT_3_0410ab
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ KRT_3_0410cd
दिव्येन पाणिस्पर्शेन तेन पीयूषवर्षिणा । KRT_3_0411ab
स क्षिप्रसादितस्वास्थ्यो दिक्षु चक्षेप चक्षुषी ॥ KRT_3_0411cd
प्रविष्टमात्रः प्रैक्षिष्ट सिंहविटरसीम्नि याम् । KRT_3_0412ab
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुनः1 KRT_3_0412cd
ददर्श पुनरुद्यानलतावासे विलासिनिम् । KRT_3_0413ab
स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ KRT_3_0413cd
गृहीतहारमुक्तार्घां बद्ध्वा1 पीनास्तनाञ्जलिम् । KRT_3_0414ab
महार्हैः कान्तिकुसुमैर्यौवनेनार्चिताङ्गकाम् ॥ KRT_3_0414cd
यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ । KRT_3_0415ab
स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ KRT_3_0415cd
भास्वद्बिम्बाधरां कृष्णकेशीं सितकराननाम् । KRT_3_0416ab
हरिमध्यां शिवाकाराम् सर्वदेवमयीमिव ॥ KRT_3_0416cd
तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् । KRT_3_0417ab
निन्ये1वारितवामेन स कामेन विधेयताम् । KRT_3_0417cd
दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् । KRT_3_0418ab
अप्सराः प्रत्यभात्तस्य सा हि चित्ते न1 देवता ॥ KRT_3_0418cd
कृपामृदुरवादीत्तं व्यथितोसि चिरम् पथि । KRT_3_0419ab
मुहुः सोम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ KRT_3_0419cd
स तां बभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः । KRT_3_0420ab
अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ KRT_3_0420cd
देवी जगाद तं भद्र कोयं ते मनसि भ्रमः । KRT_3_0421ab
देवीं वा स्यामदेवी व्चा वरीतुं त्वां तु शक्नुयातम् ॥ KRT_3_0421cd
इति सोभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् । KRT_3_0422ab
दूरमुत्क्रान्तमर्यादः संगमं तामयाचत ॥ KRT_3_0422cd
तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः । KRT_3_0423ab
प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ KRT_3_0423cd
देवीं तां जानतोप्यस्य नाभूदवहितं मनः । KRT_3_0424ab
निरुद्धा वासनाः केन जन्मान्तरनिबन्धनाः ॥ KRT_3_0424cd
स तामुवाच सत्यां1 चेद्देवि स्वां गिरिमिच्छसि । KRT_3_0425ab
प्रमाणीकुरु मद्वाणीमहमन्यन्न कामये ॥ KRT_3_0425cd
पूर्वमेव हि जन्तूनां योधिवासो निलीयते । KRT_3_0426ab
तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ KRT_3_0426cd
देवी वा भव कान्ता वा भीमा वा शोभनापि वा । KRT_3_0427ab
उआदृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ KRT_3_0427cd
तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् । KRT_3_0428ab
एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ KRT_3_0428cd
उत्सहन्ते हि संस्प्रष्टुं न दिव्या1 मर्त्यधर्मिणः । KRT_3_0429ab
तद्गच्छ क्रूरसंकल्पेत्युक्त्वा सान्तर्दधे ततः ॥ KRT_3_0429cd
अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् । KRT_3_0430ab
प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ KRT_3_0430cd
सोजायत रणादित्यो रणारम्भा च सा भुवि । KRT_3_0431ab
मर्त्यभावेपि या नैव जहौ जन्मान्तरस्मृतिम् ॥ KRT_3_0431cd
रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने । KRT_3_0432ab
तां तरङ्गान्ताल्लेभे रत्नराजिमिवोज्ज्वलम् ॥ KRT_3_0432cd

406.

--1) A3 चित्रं.

412.

--1) Thus A1; A3 G पुरः; R and Edd. read पुनः.

414.

--1) Thus A1; altered by A3 to ॰मुक्तार्घान्बद्ध्वा. A3 reads in margin गृहीतहारमुक्तार्घां बद्ध्वपीनस्तनाञ्जलिम्, with gloss मुक्ता एवार्घाः. G and R follow A1.

417.

--1) A1 writes after निन्ये.

418.

--1) This division of the words in indicated by A1.

425.

--1) Thus corr. by later hand from A1 सत्यं; स्त्यां also in G and R.

429.

--1) A3 देव्यो.

[page 39]




आ बाल्याद्व्यक्तिदिव्योक्तिं तामलंकृतयौवनाम् । KRT_3_0433ab
दिव्यार्हां पृथिवीशेभ्यो नार्थिभ्योपि ददौ नृपः ॥ KRT_3_0433cd
रणादित्यनृपामात्ये दूत्यायाते तथैव तम् । KRT_3_0434ab
प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ KRT_3_0434cd
तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता । KRT_3_0435ab
द्रुतं कुलूतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ KRT_3_0435cd
प्रहृष्टो विप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् । KRT_3_0436ab
परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ KRT_3_0436cd
मर्त्यसंस्पर्शभीरुः सा महादेवी भवन्त्यपि । KRT_3_0437ab
तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ KRT_3_0437cd
व्यधान्मयामयीं राज्ञस्तल्पे स्वसदृशीं स्त्रियम् । KRT_3_0438ab
स्वयं सा भ्रमरीरूपा निर्जगाम बहिर्निशि ॥ KRT_3_0438cd
स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् । KRT_3_0439ab
माहेश्वरः शैललिङ्गे कारयामास कारुभिः ॥ KRT_3_0439cd
श्वः प्रतिष्ठाप्रसङ्गेथ सज्जे तल्लिङ्गयोर्द्वयम्1 KRT_3_0440ab
देशान्तरागतः कश्चिद्दूषयामास दैववित् ॥ KRT_3_0440cd
स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः । KRT_3_0441ab
अश्मखण्डैः समण्डूकैर्बभाषे गर्भमावृतम् ॥ KRT_3_0441cd
किंकर्तव्यतया मूढं प्रतिष्ठाविन्नविह्वलम् । KRT_3_0442ab
दिव्यदृष्टिः स्वयम् देवी ततो राजानमब्रवीत् ॥ KRT_3_0442cd
राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् । KRT_3_0443ab
स्वमर्चादेवमादत्त1 पूजाभाण्डात्प्रजापतिः ॥ KRT_3_0443cd
तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः । KRT_3_0444ab
शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ KRT_3_0444cd
निमन्त्रितैर्ढौकितानि रत्नान्यथ सुरासुरैः । KRT_3_0445ab
पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ KRT_3_0445cd
तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् । KRT_3_0446ab
स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ KRT_3_0446cd
तेनाप्यभ्यर्च्यमानं तल्लङ्कायामभवच्चिरम् । KRT_3_0447ab
देवद्वयं रावणान्ते नीतमासीच्च वानरैः ॥ KRT_3_0447cd
तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः । KRT_3_0448ab
शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ KRT_3_0448cd
प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया । KRT_3_0449ab
तावद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ KRT_3_0449cd
तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् । KRT_3_0450ab
देवी प्रयाता श्र्द्धान्तं सिद्धान्सस्मार खेचरान् ॥ KRT_3_0450cd
ते1 ध्यातमात्राः2 संप्राप्ता देव्यादेशेन पाथसः3 KRT_3_0451ab
उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः4 KRT_3_0451cd
दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः । KRT_3_0452ab
प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ KRT_3_0452cd
तज्जे प्रतिष्ठालग्ने1थ माहेश्वरतया नृपः । KRT_3_0453ab
रणेश्वरप्रतिष्ठायां पूर्वं यावत्समुद्यतः ॥ KRT_3_0453cd
रणारम्भानुभावेन तावदेवाद्भुतावहः । KRT_3_0454ab
स्वयं पीठे रणस्वामी भित्त्वा यन्त्रमुपाविशत् ॥ KRT_3_0454cd
कर्तुं प्रभावजिज्ञासाम् राज्ञ्या1 दत्तधनस्ततः । KRT_3_0455ab
स स्वयंभूः स्वयम् भक्ता1ंस्तांस्तान्ग्रामानदापयत् ॥ KRT_3_0455cd
कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् । KRT_3_0456ab
परिज्ञाय तयोर्दिव्या प्रतिष्ठां गूढमादधे ॥ KRT_3_0456cd
स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् । KRT_3_0457ab
व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ KRT_3_0457cd
जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् । KRT_3_0458ab
इति केषामपि हृदि प्रवादो1द्यापि वर्तते ॥ KRT_3_0458cd
सा1 ब्रह्मप्रतिभं सिद्धं देवी ब्रह्मविदां वरम् । KRT_3_0459ab
अकारयत्तमुद्दिश्य परार्ध्यं2 ब्रह्ममण्डपम्3 KRT_3_0459cd
रणारम्भास्वामिदेवौ दंपतिभ्यां व्यधीयत । KRT_3_0460ab
मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि1 KRT_3_0460cd

440.

--1) A3 gloss शिवलिङ्गद्वयम्.

443.

--1) Thus A3; A1 ॰धत्त.

451.

--1)

--2)

--3) Thus corr. by later hand from A1 तं, ॰मात्र, पाथस.

--4) Thus A3; A1 व्यधुः.

453.

--1) Thus A1; A3 ॰लिङ्गे.

455.

--1) Thus corr. by A3 from A1 राज्ञा.

--2) Thus A3; A1 भक्तैस्तां॰.

456.

--1) A3 gloss हरिहरयोः.

458.

--1) Thus A3; A1 प्रवचो.

459.

--1) Thus corr. by later hand from A1 .

--2) Thus corr. by A3 from A1 पराख्यं.

--3) Thus !3; A1 ॰सत्तमम्.

460.

--1) A3 gloss प्रद्युम्नमूर्धनि शारिकागिरौ.

[page 40]




आरोग्यशाला निरधाप्युल्लाघत्वाय रोगिणाम् । KRT_3_0461ab
तेन सेनामुखीदेवीभयशान्त्यै च कारिता ॥ KRT_3_0461cd
ख्यातिं रणपुरस्वामिसंज्ञया सर्वतो गतम् । KRT_3_0462ab
स सिंहरोत्सिकाग्रामे मार्तण्डं प्रत्यपादयत् ॥ KRT_3_0462cd
अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः । KRT_3_0463ab
दक्षिणेस्मिन्नणेशस्य पार्श्वे देवोमृतेश्वरः ॥ KRT_3_0463cd
मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते । KRT_3_0464ab
विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ KRT_3_0464cd
राज्ञे देव्यनुरक्ताय सानुक्रोशाय सैकदा । KRT_3_0465ab
पातालसिद्धिदं मन्त्रं प्रददौ हाटकेश्वरम् ॥ KRT_3_0465cd
मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् । KRT_3_0466ab
असाधयत्स तं प्राप्य वशा1न्तं वत्सरान्बहून् ॥ KRT_3_0466cd
कृत्वेष्टिकापये कष्टं तपो1 नन्दिशिलां गतः । KRT_3_0467ab
भूरिभिर्वत्सरैर्मन्त्रसिद्धेः प्रणयितां ययौ ॥ KRT_3_0467cd
स्वप्नैश्च सिद्धिलिंगैश्च जाताभङ्गुरनिश्चयः । KRT_3_0468ab
चन्द्र1भागाजलं भित्त्वा नमुचेः प्राविशद्बिलम् ॥ KRT_3_0468cd
विलेपावृततां याते दिवसान्येकविंशतिम् । KRT_3_0469ab
प्रविश्य पौरान्प्राग्निन्ये दैत्यस्त्रीभोगभोगिताम् ॥ KRT_3_0469cd
एवं स भूपतिर्भुक्त्वा1 भुवं वर्षशतत्रयम् । KRT_3_0470ab
निर्वाणश्लाघ्यनिर्व्यूढि पातालै2श्वर्यमासदत् ॥ KRT_3_0470cd
सानुगे नृपतौ याते दैवतेयदयितान्तिकम् । KRT_3_0471ab
देवी सा वैष्णवी शक्तिः श्वेतद्वीपमगाहत ॥ KRT_3_0471cd
राजवंशेष्वनेकेषु राज्ञोर्वंशद्वये परम् । KRT_3_0472ab
द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ KRT_3_0472cd
रणादित्यस्य गोनन्दवंशे रामस्य राघवे1 KRT_3_0473ab
लोकान्तरसुखस्यापि ययो2रंशभुजः प्रजाः ॥ KRT_3_0473cd
विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः । KRT_3_0474ab
तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः ॥ KRT_3_0474cd
राजा ब्रह्मगलूना1भ्यां सचिवाभ्यां समं महीम् । KRT_3_0475ab
सोपासीद्वासवसमो द्वाचत्वारिंशतिं समाः ॥ KRT_3_0475cd
चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः । KRT_3_0476ab
रत्नावल्याख्यया बध्वा विहारं निरमापयत् ॥ KRT_3_0476cd
राज्ञोनन्तरजस्तस्य राजाभूत्तदन्तरम् । KRT_3_0477ab
तापितारातिभूपालो बालादित्यो बलेर्जितः ॥ KRT_3_0477cd
लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् । KRT_3_0478ab
यत्प्रतापो रिपुस्त्रीणां सनेत्राम्भोभजन्मुखम् ॥ KRT_3_0478cd
आसन्येरिमनोगाधबोधदण्डा इवाहृताः । KRT_3_0479ab
यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ KRT_3_0479cd
प्रभावाङ्केन वङ्काaलाञ्जित्वा येन व्यधीयत । KRT_3_0480ab
काश्मीरिकनिवासाय का1लम्ब्याख्यो जनाश्रयः ॥ KRT_3_0480cd
कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् । KRT_3_0481ab
राजा मडवराज्ये यो भेडरा1ख्यमकारयत् ॥ KRT_3_0481cd
विशां विपाटितारिष्टमरिष्टोत्सादने1 व्यधात् । KRT_3_0482ab
वल्लभा यस्य बिम्बोष्ठी बिम्बा बिम्बेश्वरं हरम् ॥ KRT_3_0482cd
भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः । KRT_3_0483ab
सेतोश्च कारका1 आसन्खङ्खशत्रुघ्नमालवाः ॥ KRT_3_0483cd
बभूव तस्य भूभर्तुर्भुवनाद्भुतविभ्रमा । KRT_3_0484ab
तनयानङ्गलेखाख्या शृग्गारोदधिकौमुदी ॥ KRT_3_0484cd
तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके । KRT_3_0485ab
अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित् ॥ KRT_3_0485cd
भविता तत्र जामाता जगतीभोगभाजनम् । KRT_3_0486ab
त्वदन्तमेव साम्राज्यं गोनन्दान्वयजन्मनाम् ॥ KRT_3_0486cd
सुतासंतानसाम्राज्यमनिच्छन्नथ पार्थिवः । KRT_3_0487ab
दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ KRT_3_0487cd

466.

--1) Thus A; R G वंशान्तं; Edd. वसन्तं.

467.

--1) Thus A3 -- A1 ततो.

468.

--1) Thus corr. by later hand from A1 चान्द्र॰.

470.

--1) Thus corr. by A3 from A1 भूत्वा.

--2) Thus A3; A1 ॰लेश्वरम्.

473.

--1) A1 gloss वंशे.

--2) A3 gloss ययोः रामरणादित्ययोः.

475.

--1) Emended; A R G ॰गलूरा॰.

480.

--1) The words from कालाम्ब्याख्यो to कारका in verse 483 have been supplied by A1 at a later date and in a smaller handwriting., partly in space left for this purpose, partly in margin.

481.

--1) Thus corr. by A3 from A1 भेरडा॰.

482.

--1) A3 gloss रद्दोसाने.

483.

--1) See note to verse 480 above.

[page 41]




अराजान्वयिने1 दत्त्वा नेयं साम्राज्यहारिणी । KRT_3_0488ab
मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ KRT_3_0488cd
हेतुं स रूपतामात्रं कृत्वा जामा1तरं नृपः । KRT_3_0489ab
अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ KRT_3_0489cd
मातुः कार्कोटनागेन सुस्नातायाः समीयुषा1 KRT_3_0490ab
राज्यायैव हि संजातो राज्ञा नाज्ञायि तेन स2ः ॥ KRT_3_0490cd
निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् । KRT_3_0491ab
जिगीषयेव तत्रैव निदधाति विधिः शुभम् ॥ KRT_3_0491cd
मात्सर्येण जहद्ग्रहा1न्विसदृशे धूमध्वजे योग्यतां ज्ञात्वा स्वां निदधत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः । KRT_3_0492ab
दैवं वेत्ति न यः शिखी तु2 परतो3 नामास्तु तत्संभवाः स्युर्दीपा अपि यद्वशेन जगतस्तिग्मांशुविस्मारकाः ॥ KRT_3_0492cd
धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम् । KRT_3_0493ab
अभूत्सर्वस्य चक्षुष्यः स तु दुर्लभवर्धनः ॥ KRT_3_0493cd
प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम् । KRT_3_0494ab
कौवीरभाग्यस्वाभ्यां च शनकैः श्वशुरोनयत् ॥ KRT_3_0494cd
पित्रोः प्रेयस्तयोद्वृत्ता1 तारुण्यादिमदेन च । KRT_3_0495ab
राजपुत्री यथावत्तु गणयामास नैव तम् ॥ KRT_3_0495cd
स्वैरिणीसंगमो भोगा युवानोग्रे पितुर्गृहम् । KRT_3_0496ab
पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ KRT_3_0496cd
सा नित्यदर्शनाभ्यासाच्छनकैर्विशता मनः । KRT_3_0497ab
अनङ्गलेखा खङ्खेन संप्रा1युज्यत मन्त्रिणा ॥ KRT_3_0497cd
छन्नप्रेमसुखाभ्यासनष्टह्रीभीतिसंभ्रमा । KRT_3_0498ab
धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ KRT_3_0498cd
स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः । KRT_3_0499ab
अन्तःपुरे यथाकामं विजहार तया सह1 KRT_3_0499cd
उपलेभे च शनकैस्तस्यास्तं शीलविप्रलवम् । KRT_3_0500ab
विरागलिङ्गैरुद्यद्भिर्धीमा1न्दुर्लभवर्धनः ॥ KRT_3_0500cd
सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने । KRT_3_0501ab
अकाण्ड एव प्रेत्याथ पश्यन्ती सस्मितं पथः ॥ KRT_3_0501cd
पत्युः कोपे कृतावज्ञा भ्रूनेत्रचिबुकाञ्चनैः । KRT_3_0502ab
तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ KRT_3_0502cd
तत्तुल्यगुणनिर्विण्णा तद्विपक्षस्तुतौ रता । KRT_3_0503ab
रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसंकथा ॥ KRT_3_0503cd
तच्चुम्बने भुग्नकण्ठी तदाश्लेषेसहाङ्गका । KRT_3_0504ab
तत्संभोगे त्यक्तहर्षा तत्तल्पे व्याजनिद्रिता1 KRT_3_0504cd
भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना । KRT_3_0505ab
निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम् ॥ कुलकम्॥ KRT_3_0505cd
निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः । KRT_3_0506ab
शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ KRT_3_0506cd
सोपश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् । KRT_3_0507ab
दुर्जारभ1र्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्2 KRT_3_0507cd
श्वासैरगलितावेगैः कम्पयद्भिः कुचाङ्कुरौ । KRT_3_0508ab
निवेदयन्तीं1 तत्कालमेव निर्वहणं रतेः ॥ KRT_3_0508cd
अन्यस्यापि क्रुधो हेतुं पुनरप्यक्षमावहाम् । KRT_3_0509ab
तां तथावस्थितां वीक्ष्य सं प्रजज्वाल मन्युना ॥ KRT_3_0509cd
प्रजिहीर्षुः स रोषेण विमर्शेन निवारितः । KRT_3_0510ab
प्रहृत्येव प्रहृत्येव निवृत्तं स्वममन्यत ॥ KRT_3_0510cd
ततस्तथाविधः क्षुभ्यत्प्रकोपावेशसागरः । KRT_3_0511ab
विचारवेलया तस्य बलाच्छममनीयत ॥ KRT_3_0511cd
नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि । KRT_3_0512ab
जीर्यन्ते येन पर्याप्ता ईर्ष्याविषविषूचिकाः ॥ KRT_3_0512cd
सोचिन्तयदहो कष्टाश्चेष्टा1रागानुगा इमाः । KRT_3_0513ab
विचारवन्ध्याः क्षिप्यन्ते क्षिप्रं याभिरधो नराः ॥ KRT_3_0513cd

488.

--1) A3 gloss न्यूनकुलोद्भवाय दत्ता.

489.

--1) कृत्वा जामा supplied by A3 in space left by A1.

490.

--1) Thus corr. by A3 from A1 समेयुषा.

--3) Thus corr. by A3 from A1 सा.

492.

--1) Emended; A R G जहन्य॰.

--2) Thus A3; A1 .

--3) A3 gloss दूरे इत्यर्थः.

495.

--1) A3 gloss उल्लंघितमर्यादा.

497.

--1) Emended; A संप्रयु॰.

499.

--1) A3 समम्.

500.

--1) The text from मान्दुर्लभवर्धनः to the end ofv verse 507 below has been supplied bv A3, partly in space left by A1, partly in margin.

504.

--1) Emended with Edd.; A ॰निद्रता.

507.

--1) A3 दुर्जात॰, with v.l. as above.

--2) See note to verse 500 above.

508.

--1) Thus corr. by A3 from A1 ॰यन्तौ.

513.

--1) Thus corrected by A3 from A1 कष्टाः श्रेष्ठा॰.

[page 42]




स्त्रीति नामेन्द्रियार्थोयमिन्द्रियर्था यथा परे । KRT_3_0514ab
तथैव सर्वसामान्या वशिनामत्र काः क्रुधः ॥ KRT_3_0514cd
निसर्गतरला नारीः को नियन्त्रयितुं क्षमः । KRT_3_0515ab
नियन्त्रणेन किं वा स्याद्यत्सतां स्मरणोचितम् ॥ KRT_3_0515cd
यः शृणोरिव संघर्ष1 एकार्थाभिनिविष्टयोः । KRT_3_0516ab
रागिणोर्यदि मानः स कोवमानस्ततः परः ॥ KRT_3_0516cd
ममकारो मृगाक्षीषु क्व इवायं सचेतसाम् । KRT_3_0517ab
स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ KRT_3_0517cd
उद्वेगोत्पादनादेषा बध्या चेत्र्प्रतिभाति मे । KRT_3_0518ab
रागस्तद्विस्मृतः कस्मान्मूलमुद्वेगशाखिनः ॥ KRT_3_0518cd
सप्तपातालनिक्षिप्तमूलो रागमहीरुहः । KRT_3_0519ab
भूमिभूतमनुत्पाद्य द्वेषमुन्मूल्यते कथम् ॥ KRT_3_0519cd
द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना । KRT_3_0520ab
क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ KRT_3_0520cd
वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणाम् वाच्यमौषधम् । KRT_3_0521ab
ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ KRT_3_0521cd
इति ध्यात्वालिखद्वर्णान्खड्खस्या1ंशुकपल्लवे । KRT_3_0522ab
बध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ KRT_3_0522cd
जनैरलक्ष्यमानेथ याते दुर्लभवर्धने । KRT_3_0523ab
त्यक्तनिद्रः स मन्त्री त1द्दृष्ट्वा वर्णानवाचयत् ॥ KRT_3_0523cd
दाक्षिण्यात्प्राणदस्यास्य खङ्खः स मनसा त1दा । KRT_3_0524ab
विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ KRT_3_0524cd
तस्योपकर्तुरुचितं प्रतिकारमिच्छोश्चिन्ताविशन्न तु मनः स्मरबाणपंक्तिः । KRT_3_0525ab
दृग्गोचरे परिचयप्रणयं प्रपेदे निर्निद्रता न तु कदाचन राजपुत्री ॥ KRT_3_0525cd
भूत्वा सप्त1त्रिंशतिमब्दान्स चतुर्भिर्मासैर्वन्ध्यां2 मूर्धनि रत्नं नृपतीनाम् । KRT_3_0526ab
तस्मिन्काले लोकमवापोज्ज्वलकृत्यो बालादित्यो बालशशाङ्काङ्कितमौलेः । KRT_3_0526cd
पूर्वं विपन्नतनयेभिजनस्य शेषे गोनन्दसंततिरजायत तत्र1 शान्ते । KRT_3_0527ab
प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्टतोयौघपाटितविसा नलिनीव दीना ॥ KRT_3_0527cd
अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः कनकघटविमुक्तैः पावनं तीर्थतोयैः । KRT_3_0528ab
कथमपि स1 कृतज्ञो राजजामातुरुच्चैर्व्यधितं विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ KRT_3_0528cd
कार्को1टप्रभवः प्रभुः मुकुटप्रत्युप्तमुक्ताकणद्योतश्रेणिफणाङ्कुराङ्कितबृहद्बाहुर्महीमुद्वहन् । KRT_3_0529ab
ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लवन्यासावर्जकहाटकाब्जपटलस्रग्धामशोभोभवत् ॥ KRT_3_0529cd
अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचेरतिशुचिनि भूः कार्कोटाहेः कुले व्यधित स्थितिम् । KRT_3_0530ab
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता त्रिभुवनगुरोः शंभोर्मौलाविवामरनिम्नगा ॥ KRT_3_0530cd
10 ॥ 536 ॥ आदितः 53 ॥ ग्रं 1069 ॥


इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां तृतीयस्तरङ्गः ॥

516.

--1) A3 gloss विरोधः.

522.

--1) Thus corr. by A3 from A1 ॰न्खड्गस्था॰.

523.

--1) मन्त्री त supplied by A3 in space left by A1.

524.

--1) तदा वि supplied vy A3 in space left by A1.

526.

--1) Thus A1; altered by A3 to सप्तात्रिं॰.

--2) A3 gloss ऊनामित्यर्थः.

527.

--1) A3 gloss तस्मिन्.

528.

--1) Thus corr. by A3 from A1 कर्कोट॰.

Colophon.

--1) A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन.

[page 43]




॥ चतुर्थस्तरङ्गः ॥

तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभवन्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । KRT_4_0001ab
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥ KRT_4_0001cd
स महीं राजकन्यां च प्राप्तवानेकतः कुलात् । KRT_4_0002ab
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ KRT_4_0002cd
पतिगोपितदौःशील्या तुल्यसौभाग्यगौरवा । KRT_4_0003ab
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ KRT_4_0003cd
शिशुरेवायुषोल्पत्वं दैवज्ञोक्तं विचिन्तयन् । KRT_4_0004ab
राज्ञः सुतो मल्हणाख्यो मल्हणस्वामिनं व्यधात् ॥ KRT_4_0004cd
परिविशोककोटादौ प्रदत्तप्रतिपत्तिना । KRT_4_0005ab
अदीयत द्विजेन्द्रेभ्यश्चन्द्रग्रामः क्षमाभुजा ॥ KRT_4_0005cd
श्रीनगर्यां प्रतिष्ठाप्य दुर्लभस्वामिनं हरिम् । KRT_4_0006ab
षट्त्रिंशता स वर्षाणां क्ष्मावृषास्तमुपाययौ ॥ KRT_4_0006cd
अनङ्गदेव्यां संभूतस्तस्य दुर्लभकः सुतः । KRT_4_0007ab
शशास वासवसमस्ततो वसुमतीं कृती ॥ KRT_4_0007cd
मातामहस्य यो मात्रा दौहित्रस्तनयीकृतः । KRT_4_0008ab
प्रतपादित्य इत्याख्यां तत्कुलानुगुणां दधे ॥ KRT_4_0008cd
औडेनैडबिडात्प्राप्तश्रिया यन्मन्त्रिणा कृताः । KRT_4_0009ab
अग्रहारा हनुमता पुण्यानुमतसंपदा ॥ KRT_4_0009cd
प्रतापतापितारतिः प्रतापपुर1पत्तनम् । KRT_4_0010ab
मघवन्नगरस्पर्धे दीर्घबाहुर्व्यधत्त सः ॥ KRT_4_0010cd
नानादिगन्तरायाततत्तत्क्रयिकसंकुले । KRT_4_0011ab
नोणाभिधोवसत्तस्य देशे रौहीतको वणिक् ॥ KRT_4_0011cd
रौहीतदेशे जातानां निवेशाय1 द्विजन्मनाम् । KRT_4_0012ab
महागुणो नोणमठं पुण्यज्येष्ठं चकार सः ॥ KRT_4_0012cd
स जातु राजभवने राज्ञा प्रीत्या निमन्त्रितः । KRT_4_0013ab
अर्चितोभवदेकाहमुपचारैर्नृपोचितैः ॥ KRT_4_0013cd
प्रातः सुखासिकां प्रेम्णा पृष्टोथ पृथिवीभुजा । KRT_4_0014ab
शीर्षव्यथामकथयत्प्रजातां1 दीपकज्जलैः ॥ KRT_4_0014cd
ततः क्रमेण नृपतिस्तेन जातु कृतार्थनः1 KRT_4_0015ab
वसंस्तदास्पदेद्राक्षीत्क्षपायां मणिदीपकान् ॥ KRT_4_0015cd
विलासित्वेन लक्ष्म्या च तादृश्या तस्य विस्मितः । KRT_4_0016ab
अथ द्वित्राण्यहान्यासीत्तत्रैव स कृतार्हणः ॥ KRT_4_0016cd
एकदा तेन तत्क्रान्ता व्यलोकि ललिताकृतिः । KRT_4_0017ab
श्रीनरेन्द्रप्रभा नाम हर्म्ये हिमकरानना ॥ KRT_4_0017cd
उरोजपूर्णकुभाङ्का सदूर्वाहितविभ्रमा1 KRT_4_0018ab
मूर्तिमन्मङ्गलमिव स्मरस्य2 च गृहस्य च ॥ KRT_4_0018cd
हर्म्यस्य निर्जनतया स निःशङ्कविहारिणीम् । KRT_4_0019ab
मां विलोक्यानवद्याङ्गीमभिलाषेण पस्पृशे ॥ KRT_4_0019cd
सापि दर्शितमालीभिः किंचित्साचीकृतानना । KRT_4_0020ab
अपश्यत्काश्यपीकान्तं श्रोत्रविश्रान्तया दृशा ॥ KRT_4_0020cd
प्राग्जन्मप्रेमवन्धाद्वा निदेशा1द्वा मनोभुवः । KRT_4_0021ab
सपक्षपातं सा तस्य दृष्ट्यैव विदधे मनः ॥ KRT_4_0021cd
क्षणादलब्धस्पर्शोपि तां सौभाग्यसुधामयीम् । KRT_4_0022ab
मज्जानम1पि संस्पृश्य स्थितामिव विवेद सः ॥ KRT_4_0022cd

10.

--1) A3 gloss तापर्.

12.

--1) A3 gloss स्थितये.

14.

--1) Thus corr. by A3 from A1 प्रजानां.

15.

--1) Thus corr. by A3; A1 seems to have read कृताननः.

18.

--1) A1 gloss सन्तौ च तावूरू सदूरू ताभ्यां आहितो विश्रमो यथा.

--2) व स्मरस्य supplied by A3 in space left by A1.

21.

--1) Thus corr. by later hand from A1 मज्जानामपि.

[page 44]




हर्म्यस्तम्भच्छन्नगात्री क्षणं भूत्वा जगाम सा । KRT_4_0023ab
व्यावर्त्य वक्त्रं पश्यन्ती पार्थिवं तं मुहुर्मुहुः ॥ KRT_4_0023cd
गृहीतहृदयस्तन्व्यास्तावतैव महीपतिः । KRT_4_0024ab
स चिन्ताजिह्मनयनो राजधानीं शनैर्ययौ ॥ KRT_4_0024cd
तत्र तस्य तदाकारध्यानावहितचक्षुषः । KRT_4_0025ab
सममन्तःपुरप्रीत्या प्रपेदे तानवं तनुः ॥ KRT_4_0025cd
अचिन्तयत्स धिक्कष्टं रूढोयमशुभावहः । KRT_4_0026ab
अस्मिन्मे मानसोद्याने रागनामा विषद्रुमः ॥ KRT_4_0026cd
अहो नु सुभगा रागवृत्तिश्चित्तम् विजित्य या । KRT_4_0027ab
विवेकादीन्व्यधाद्दूरे सुहृदः परिपन्थकान् ॥ KRT_4_0027cd
भाव्यं कौलीनभीतेन येन भूमिभृता सता । KRT_4_0028ab
तस्य मे दुःसहः कोयं सस्दाचार1विपर्ययः ॥ KRT_4_0028cd
यत्र दारापहरणं राजैव कुरुते विशाम् । KRT_4_0029ab
परः को नाम तत्रास्तु शासिता1 नीत्यतिक्रमे ॥ KRT_4_0029cd
विमृष्यन्निति भूपालो1 विस्मर्तुमभवत्क्षमः । KRT_4_0030ab
न पद्धतिं साधुसेव्यां न च तां दीर्घलोचनाम् ॥ KRT_4_0030cd
तमथ प्रथितास्वास्थ्यं नेदीयोमरणं वणिक् । KRT_4_0031ab
स जनाज्ज्ञातवृत्तान्तः सुजनो विजनेब्रवीत् ॥ KRT_4_0031cd
इमामवस्थां प्राप्नोसि किं धर्मेण निरुध्यसे । KRT_4_0032ab
न प्राणसंशये जन्तोरकृत्यं नाम किंचन ॥ KRT_4_0032cd
यन्मतानि प्रतीक्ष्यन्ते विबुधैर्धर्मसंशये । KRT_4_0033ab
तेषामपीदृशे कृत्ये श्रूयते संयमव्ययः ॥ KRT_4_0033cd
यशोनुरोधादुचितं1 नापि देहमुपेक्षितुम् । KRT_4_0034ab
स्वकीर्तिर्न परासूनां कीर्णा2 कर्णरसायना ॥ KRT_4_0034cd
माभून्मदनुरोधस्ते त्वत्प्रियार्थं हि पार्थिव । KRT_4_0035ab
प्राणा अपि न मे गण्या इन्द्रियार्थेषु का कथा ॥ KRT_4_0035cd
एवमुक्तोपि नादत्से तां चैतत्सा1 सुरास्पदात्2 KRT_4_0036ab
गृह्यतां नर्तकीभूत्वा नृत्तज्ञत्वान्मयार्पिता ॥ KRT_4_0036cd
तेनेति प्रेर्यमाणः स बलिना च मनोभुवा । KRT_4_0037ab
प्राग्लज्जामथ जग्राह कथंचित्ताम् सुलोचनाम् ॥ KRT_4_0037cd
कृत्यैरुदात्तैः सापास्ततादृक्चारित्रलाघवा । KRT_4_0038ab
नरेन्द्रमहिषी चक्रे श्रीनरेन्द्रेश्वरं हरम् ॥ KRT_4_0038cd
क्रमेण च प्रजापुण्यैश्चन्द्रापीडाभिधं सुतम् । KRT_4_0039ab
प्रासोष्ट पार्थिववधूर्निधानमिव मेदिनी ॥ KRT_4_0039cd
तस्याभिजनमालिन्य1ं स्वच्छैरच्छेदि तद्गुणैः । KRT_4_0040ab
शाणाश्मकषणै2ः कार्ष्ण्यमाकरोत्थं मणेरिव ॥ KRT_4_0040cd
धूमाद्राढ1मलीमसाच्छुवि पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिरचलात्कुण्टाश्ममालामयात् । KRT_4_0041ab
किंचात्यन्तजडाज्जलाद्युतिमतो ज्वालाध्वजस्योद्भ2वो जन्मावन्य3नुकारिणो न महतां सत्यम् स्वभावाः क्वचित् ॥ KRT_4_0041cd
तारापीडोपि तनयः क्रमात्तस्यामजायत । KRT_4_0042ab
अविमुक्तापीडनामा मुक्तापीडोपि भूपतेः ॥ KRT_4_0042cd
वज्रादित्योदयादित्यललितादियसंज्ञकाः । KRT_4_0043ab
प्रतापादित्यजाः ख्याताश्चन्द्रापीडादयोपि ते ॥ KRT_4_0043cd
वर्षान्पञ्चाशतं भुक्त्वा भुवं दुर्लभभूपतिः । KRT_4_0044ab
पुण्यनिःश्रेणिभिः पुण्यामारुरोह दिवं शनैः ॥ KRT_4_0044cd
राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोभवात् । KRT_4_0045ab
पीडितेन्दुत्विषा कीर्त्या कलेः पीडां चकार यः ॥ KRT_4_0045cd
एकपादाकृतिर्धर्मः समस्येवोज्झितो नृपैः । KRT_4_0046ab
शुद्धश्लोककृता येन पादैः संयोजितस्त्रिभिः ॥ KRT_4_0046cd
यं क्ष्माविक्रममुखाः परस्परविरोधिनः । KRT_4_0047ab
सिषेविरे गुणास्तुल्यं दिव्योद्यानमिवर्तवः ॥ KRT_4_0047cd
स्थाने स्थाने यदीया श्रीस्तुल्यमाप्याययन्त्यभूत् । KRT_4_0048ab
द्रुमानुद्यानकुल्येव निखिलाननुजीविनः ॥ KRT_4_0048cd
दोषांस्त्यक्त्वान्यभूपेषु यं शुद्धा श्रीरशिश्रियत् । KRT_4_0049ab
मार्गाद्रिष्वोघकालुष्यं क्षिप्त्वा सिन्धुरिवार्णवम् ॥ KRT_4_0049cd

28.

--1) चार supplied by A3 in space left by A1.

29.

--1) सिता supplied by A3 in space left by A1.

30.

--1) पालो supplied by A3 in space left by A1.

34.

--1) Thus corr. by A3 from A1 ॰दुदितं.

--2) Thus corr. by A3 from A1 कीर्णक॰.

36.

--1) A3 तदा.

--2) A1 gloss देवगृहात्.

40.

--1) A3 gloss कुलदोषं.

--2) Thus corr. by A3 from A1 ॰ककणैः.

41.

--1) Thus corr. by A1 from धूमोद्गा॰.

--2) Thus corr. by A3 from A1 ॰ध्वलस्यो॰.

--3) Thus A, with A3 gloss भूमि R G Edd wrongly जन्मावध्य॰.

[page 45]




कार्यज्ञो यो न तच्चक्रे यत्फंभूद्विविग्नधीः । KRT_4_0050ab
परं समाचर1न्स्तुत्यं स्तूयमानस्त्रपां दधे ॥ KRT_4_0050cd
व्यनीयत न योमात्यै1र्विनयं तान्स्वशिक्षयत् । KRT_4_0051ab
वज्रं न भिद्यते कैश्चिद्भि2नत्त्यन्यान्मणींस्तु तत् ॥ KRT_4_0051cd
यस्या1धर्मभयादासीत्संत्याज्यो धर्मसंशये । KR T_4_0052ab
निजोपि पक्षः कुलिशत्रासादिव गरुत्मन2ः ॥ KRT_4_0052cd
न्याय्यं दर्शयत वर्त्म तेन राज्ञा प्रवर्तिताः । KRT_4_0053ab
स्थितयो वीतमन्देहा1 भास्वतेव दिनक्रियाः ॥ KRT_4_0053cd
नियन्त्रिता1 यद्भणितिस्तद्गुणोदीरणादियम् । KRT_4_0054ab
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥ KRT_4_0054cd
तस्य त्रिभुवनस्वामिप्रासादारम्भकर्मणि । KRT_4_0055ab
चर्मकृत्कोपि न प्रादात्कुटीं क्षेत्रोपयोगिनीम् ॥ KRT_4_0055cd
शश्वत्प्रतिश्रुतार्थानां नवकर्माधिकारिणाम् । KRT_4_0056ab
नैसर्गिकाग्रहग्रस्तः सूत्रापातं न चक्षमे ॥ KRT_4_0056cd
विज्ञापितोथ तैरेत्य तमर्थं पृथिवीपतिः । KRT_4_0057ab
तानेव सागसो मेने चर्मकारं न तं पुनः ॥ KRT_4_0057cd
सोभ्यधात्तान्धिगेतेपामप्रेक्षापूर्वकारिताम् । KRT_4_0058ab
प्रागेव यैरपृष्ट्वा तं प्रविष्टं नवकर्मणि ॥ KRT_4_0058cd
नियम्यतां विनिर्माणं यद्वान्यत्र विधीयताम् । KRT_4_0059ab
परभूम्यपहारेण सुकृतं कः कलङ्कयेत् ॥ KRT_4_0059cd
ये द्रष्टारः सदसतां ते धर्मविगुणाः क्रियाः । KRT_4_0060ab
वयमेव विदध्मश्चेद्यातु न्याय्येन कोध्वना ॥ KRT_4_0060cd
इत्युक्तवति भूपाले प्रेषितो मन्त्रिपर्षदा । KRT_4_0061ab
पार्श्वात्पादूकृत1स्तस्य दूतः प्राप्तो व्यजिज्ञपत् ॥ KRT_4_0061cd
इच्छति स्वामिनं स बहिर्दत्तदर्शनः । KRT_4_0062ab
युक्तः प्रवेश आस्थाने बाह्याल्यवसरेस्तु तत् ॥ KRT_4_0062cd
अन्येद्युरथ भूपेन स बहिर्दत्तदर्शनः । KRT_4_0063ab
पुण्यकर्मणि नो विघ्नः किं त्वमेवेत्यपृच्छ्यत ॥ KRT_4_0063cd
प्रतिभाति गृहं तच्चेद्रम्यं तव ततोधिकम् । KRT_4_0064ab
तदर्थ्यतां धनं वापि भूर्येवं चाभ्यधीयत ॥ KRT_4_0064cd
तूष्णीं स्थितं ततो भूपं चर्मकारो व्यजिज्ञपत् । KRT_4_0065ab
दन्तांशुसूत्रैस्तत्सत्त्वमानं ज्ञातुमिवोद्यतः ॥ KRT_4_0065cd
राजन्विज्ञाप्यते1 किंचिद्यदस्माभिर्यथाशय2म् । KRT_4_0066ab
न स्थेयमाबलिप्तेन तत्र द्रष्ट्रा सता त्वया ॥ KRT_4_0066cd
नाहमूनः शुनो नास्ति1 काकुत्स्थात्पार्थिवः पृथुः । KRT_4_0067ab
क्षुभ्यन्तीवाद्य तत्सभ्याः शङ्कुभ्यामेव बध्यते ॥ KRT_4_0067cd
जातस्य जन्तोः संसारे भङ्गुरः कायकञ्चुकः । KRT_4_0068ab
अहंताममताख्याभ्यां शङ्कुभ्यामेव बध्यते ॥ KRT_4_0068cd
कङ्कणाङ्गदहारादिशोभिनां भवतां यथा । KRT_4_0069ab
निष्किंचनानामस्माकं स्वदेहेहंक्रिया तथा ॥ KRT_4_0069cd
देवस्य राजधान्येषा यादृशी सौधहासिनी । KRT_4_0070ab
कुटी घटमुखानद्धतमोरिस्तादृशी मम ॥ KRT_4_0070cd
आ जन्मनः साक्षिणीयं मातेव सुखदुःखयोः । KRT_4_0071ab
मठिका लोट्यमानाद्य नेक्षितुं क्षम्यते माय ॥ KRT_4_0071cd
नृणां यद्वेश्महरणे दुःखमाख्यातुमीश्वरः । KRT_4_0072ab
तद्विमानच्युतोमर्त्यो राज्यभ्रष्टोथ पार्थिवः ॥ KRT_4_0072cd
एवमप्येत्य1 मद्वेश्म सा चेद्देवेन2 याच्यते । KRT_4_0073ab
सदाचारानुरोधेन दातुं तदुचितं मम ॥ KRT_4_0073cd
इति तेनोत्तरे दत्ते भूभृद्गत्वा तदास्पदम् । KRT_4_0074ab
कुटीं जग्राह वित्तेन नाभिमानः शुभार्थिनाम् ॥ KRT_4_0074cd
अवोचच्चर्मकारस्तं तत्र1 स व्यञ्जिताञ्चलिः । KRT_4_0075ab
राजन्धर्मानुरोधेन परवत्ता तवोचिता ॥ KRT_4_0075cd
श्वविग्रहेण धर्मेण पाण्डुसूनोः पुरा पथा । KRT_4_0076ab
धार्मिकत्वं तथा तेद्य मयास्पृश्येन1 वीक्षितम् ॥ KRT_4_0076cd
स्वस्ति तुभ्यं चिरं स्थेयाव् धर्म्या वृत्तान्तपद्धतीः । KRT_4_0077ab
दर्शयन्नीदृशी शुद्धाः श्रद्धेया धर्मचारिनाम् ॥ KRT_4_0077cd

50.

--1) Thus A3; A1 ॰चरस्स्तुत्यं.

51.

--1) Thus A3; A1 मान्यैर्वि॰. G R Edd. follow A3.

--2) A3 gloss रत्नैः.

52.

--1) Thus corr. by A3 from A1 यस्य ध॰.

--2) Thus A3; A1 ॰त्मता.

53.

--1) A1 gloss मन्देहा नाम राक्षसविशेषाश्च.

54.

--1) A3 gloss अस्माभिः.

61.

--1) A1 gloss चर्मकारस्य.

66.

--1) A3 विज्ञप्यसे.

--2) Thus corr. by A1 from यथायथम्.

76.

--1) A1 मयास्पृश्येन; A3 gloss अधमेन.

[page 46]




एवं निष्कल्मषाचारः स चक्रे पावनीं भुवम् । KRT_4_0078ab
राजा त्रिभुवनस्वामिकेशवस्य प्रतिष्ठया ॥ KRT_4_0078cd
कृत्यैः प्रकाशदेव्याख्या प्रकाशाकाशकान्तिभिः । KRT_4_0079ab
प्रकाशिकाविहारस्य तत्पत्नी कारयित्र्यभूत् ॥ KRT_4_0079cd
गुरुर्मिहिरदत्ताख्यस्तस्योदात्तगुणोभवत् । KRT_4_0080ab
विश्वंभरस्य1 गम्भीरस्वामिनाम्नो2 विधायकः ॥ KRT_4_0080cd
सर्वाधिकरणस्थैर्योच्छेत्ता छलितकाभिधः । KRT_4_0081ab
नगराधिकृतस्तस्य छलितस्वामिनं व्यधात् ॥ KRT_4_0081cd
कदाचन समासीनं पृष्ट्वा धर्माधिकारिभिः । KRT_4_0082ab
प्रायोपविष्टा राजानं ब्राह्मणी काचिदब्रवीत् ॥ KRT_4_0082cd
त्वयि प्रशासति महीमहो गर्हानिव्वर्हने । KRT_4_0083ab
सुखसुप्तस्य मे प1त्युर्हृतं केनापि जीवितम् ॥ KRT_4_0083cd
एषैव महती लज्जा सदाचारस्य भूपतेः । KRT_4_0084ab
यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ KRT_4_0084cd
कलिकालबलात्त1च्चेत्त्वादृशैरपि दृश्यते । KRT_4_0085ab
पापात्पापतरेमुष्मिन्दोषे कथमुदास्यते ॥ KRT_4_0085cd
चिन्तयन्त्यपि नावैमि भर्तुः कंचिद्विरोधिनम् । KRT_4_0086ab
निर्दोषस्य हि तस्यासन्सर्वतः शीतला दिशः ॥ KRT_4_0086cd
अनसूयो निरुत्सेक1ः प्रियवाग्गुणवत्सलः । KRT_4_0087ab
पूर्वाभिभाषी निर्लोमो न विद्वेष्यो हि कस्यचित् ॥ KRT_4_0087cd
तस्य तुल्यवया बाल्यात्प्रभृत्यध्ययनेधमः । KRT_4_0088ab
माक्षिकस्वामिवास्तव्यो विप्रः शङ्क्योभिचारवित् ॥ KRT_4_0088cd
गुणदारिद्र्यनिर्निद्रैः क्षुद्रैः कौशलशालिनाम् । KRT_4_0089ab
प्रसिद्धिस्पर्धया वन्ध्यै1र्बाध्यन्तेसूययासवः ॥ KRT_4_0089cd
नापुंश्चलेयो दुःशीलो नाद्रोहो नित्यशङ्कितः । KRT_4_0090ab
नावाचालो मृषाभाषी नाकायस्थः कृतघ्नधीः ॥ KRT_4_0090cd
नादातृगृहजो लुब्धो नानीर्ष्यो नित्यदुःखितः । KRT_4_0091ab
नास्त्रीजितः सर्वहास्यो नावृद्धः स्निग्धभाषितः ॥ KRT_4_0091cd
नानन्यजः पितृद्वेषी नारागी निरपत्रपः । KRT_4_0092ab
नाक्षुद्रविद्यः पापीयानिति भूतार्थसंग्रहः ॥ तिलकम्॥ KRT_4_0092cd
इत्युक्तवत्यां ब्राह्मण्यां तच्छङ्कावसतिम् द्विजम् । KRT_4_0093ab
आनीय परिशुध्यस्वेत्यभ्यधाद्वसुधाधिपः ॥ KRT_4_0093cd
भूयो ब्राह्मण्यवादीत्तं ख्यातः खार्खोदविद्यया । KRT_4_0094ab
निःसंभ्रमः स्तम्भयितुं देव दिव्यक्रियामयम् ॥ KRT_4_0094cd
म्लायद्वक्त्र इवावदीत्ततस्तां1 मेदिनीपतिः । KRT_4_0095ab
अदृष्टदोषे किं कुर्मो वयमत्राधिकारिणः ॥ KRT_4_0095cd
नान्यस्मिन्न1पि दण्डस्य प्रसङ्गोनिश्चितागसि । KRT_4_0096ab
किं पुनर्ब्राह्मणो दण्ड्यो यो दोषेपि2 वधं विना ॥ KRT_4_0096cd
उक्त्वेति विरते तस्मिन्द्विजजायाब्रवीत्पुनः । KRT_4_0097ab
चतस्रः क्षणदाः क्षीणा राजन्ननशनस्य मे1 KRT_4_0097cd
नान्वगां परिनेतारं हन्तुः प्रतिचिकीर्षया । KRT_4_0098ab
तत्रा1विहितदण्डेस्मिंस्त्यजाम्यनशनैरसून् ॥ KRT_4_0098cd
तथा स्थितायां ब्राह्मण्यां कृतप्रायोपवेशनः । KRT_4_0099ab
स्वयम् त्रिभुवनस्मामिपादानुद्दिश्य सोभवत् ॥ KRT_4_0099cd
त्रिरात्रोपोषितं तत्र राजानं रजनीक्षये । KRT_4_0100ab
स्वप्नेस्वप्नोत्तमोवोचत्सत्योक्तिं सत्यवाहन1ः ॥ KRT_4_0100cd
ईदृङ्न युज्यते राजन्सत्यस्यान्वेषणं कलौ । KRT_4_0101ab
निशीथे1 कस्य सामर्थ्यं दिवि विकर्तनम्2 KRT_4_0101cd
भवच्छक्त्य1नुरोधेन सकृदेतत्प्रवर्त्यते । KRT_4_0102ab
मत्प्रासादाङ्गनेमुष्मिन्शालिचूर्णं2 विकीर्यताम् ॥ KRT_4_0102cd
प्रदक्षिणं कुर्वतोस्य त्रिरत्र यदि दृश्यते । KRT_4_0103ab
ब्र1ह्महत्यापादमुद्रा पादमुद्रा2नुयायिनी ॥ KRT_4_0103cd

80.

--1) A3 gloss नारायणस्य.

--2) A3 gloss गम्भीरसङ्गम्.

83.

--1) A1 varia lectio मत्पत्युः.

85.

--1) A3 gloss अकालमरण.

87.

--1) A3 gloss निरहङ्कारः.

89.

--1) A3 gloss रहितैः.

95.

--1) Thus corr. by later hand from A1 तं.

96.

--1) Ae gloss शूद्रादौ.

--2) A3 gloss सति.

97.

--1) Thus A3; A1 राजन्नपि शस्यते.

98.

--1) A3 gloss हन्तरि.

100.

--1) A3 gloss नारायण and सत्यस्तु गरुडे धुवे.

101.

--1) A later hand, not met with elsewhere, adds in margin of A th following note: ब्रह्महत्या इति । यः कश्चिद्ब्रह्महत्यां करोति तस्य ब्रह्महत्या मूर्तिमती अदृष्टा वा अनुगामिनी भवति । द्रुहिणशिरच्छेदेन महादेववत् । इत्यभिप्रायवानाह ब्रह्महत्यादि विकीर्णे शालिचूर्णे प्रासादाङ्गने त्रिः परिक्रम्य यदि ब्रह्महत्यायाः कृत्याविशेषस्य पादमुद्रा चरणस्थापनमुद्रायुगलं अस्य वधकस्य पादमुद्रानुगामिनी दृश्यते । ब्रह्महत्याचरणद्वयमुद्रा वधकद्विजपादद्वयमुद्रा च यद्यनुभवविषयीभवति तर्हि एष एव द्विजो वधकः तर्हि शालिचूर्णयुक्तेङ्गने पादचारोवश्यं कारयितव्यः तेनानुमानं । अनेनैव वधः कृतः यतः पादमुद्राद्वयं अधिकं ज्ञातं । एवं ब्रह्महत्याचारणमुद्रानुगच्छतीति स्वय्ं भगवता उपायः सूचितः.

--2) A3 gloss द्विजसंबन्धि.

[page 47]




तदेष वधको भूत्वा सदृशं दण्डमर्हति । KRT_4_0104ab
रात्रावेष विधिः कार्यो दिने पापहृदर्यमा ॥ KRT_4_0104cd
अथ तत्कारयित्वा स दृष्टदोषे द्विजमनि । KRT_4_0105ab
दण्डं दण्डधरश्चक्रे द्विजत्वाद्वधवर्जितम् ॥ KRT_4_0105cd
महीमघोना भर्तृघ्ने तस्मिन्विहितशासने । KRT_4_0106ab
ततो द्विजन्मजाया सा कृताशीरभ्यधादिदम् । KRT_4_0106cd
इयत्यवनिभृत्सर्गे गूढपापानुशासनम् । KRT_4_0107ab
कार्तवीर्यस्य वा दृष्टं तव वा पृथिवीपते ॥ KRT_4_0107cd
दण्डधारे त्वयि क्ष्माप क्षितिमेताम् प्रशासति । KRT_4_0108ab
को वैरस्नेहयोः पारमनासाद्यावसीदिति ॥ KRT_4_0108cd
इत्थं कृतयुगध्येयैर्धर्म्यवृत्तान्तवस्तुभिः । KRT_4_0109ab
स्वल्पोपि राज्यकालोस्य पर्याप्तैः पर्यपूर्यत ॥ KRT_4_0109cd
स्रष्टुर्विष्टरपाथोजसंसर्गेण निरर्गलः । KRT_4_0110ab
निविडम् जडिमा जाने व्यधत्त धियि संनिधिम् ॥ KRT_4_0110cd
विभक्तवर्णशोभस्य तस्यासावन्यथा1 कथम् । KRT_4_0111ab
माहेन्द्रस्येव धनुषो विदधे दृष्टनष्टता2म् । KRT_4_0111cd
कारयित्वाभिचारं तं निग्रहोग्ररुषं द्विजम् । KRT_4_0112ab
तं यशःशेषतामीशं तारापीडोनुजोनयत् ॥ KRT_4_0112cd
दुष्कर्मदुर्भगान्भोगान्भोक्तुं पापा गुणोन्नतम् । KRT_4_0113ab
मृद्गन्ति कण्टकान्प्राप्तुं करभा इव केतकम् ॥ KRT_4_0113cd
ततः प्रभृति भूपानां राज्येच्छूनां गुरून्प्रति । KRT_4_0114ab
दुष्टाः प्रवृत्ता राज्येस्मिन्नभिचारादिकाः क्रियाः ॥ KRT_4_0114cd
श्रीचन्द्रापीडदेवस्य तत्क्षमित्वमपश्चिमम् । KRT_4_0115ab
संस्मर्यमाणं कुरुते न कस्योत्पुलकं वपुः ॥ KRT_4_0115cd
मुमूर्षुर्यत्स लब्ध्वापि तं कृत्व्या1धायिनम् द्विजम् । KRT_4_0116ab
वराकेन्यप्रयुक्तेस्मिन्को दोष इति नावधीत् ॥ KRT_4_0116cd
विस्मृतः सकृतक्ष्माभृत्पङ्क्तिमध्ये1द्य वेधसा । KRT_4_0117ab
दत्त्वा काकपदं2 नूनं न्यस्तः कलिनृपावलौ ॥ KRT_4_0117cd
अष्टौ वर्षान्साष्टमासाननुगृह्येति मेदिनीम् । KRT_4_0118ab
प्रविवेश वशी स्वर्गमनिषं1 च सतां मनः ॥ KRT_4_0118cd
भ्रातृद्रोहास्रसुहृदा1 प्रतापेन भयावहः । KRT_4_0119ab
उवाह2 तारापीडः स चण्डः क्ष्मामण्डलं ततः ॥ KRT_4_0119cd
पूर्णपात्रप्रतिभटं1 द्विषाम् लुण्टयता यशः । KRT_4_0120ab
शिशोः प्रतापस्योत्पत्तौ कबन्धा येन नर्तिताः । KRT_4_0120cd
तस्यातिदुष्टचेष्टस्य लक्ष्मीर्दीप्तापि सर्वतः । KRT_4_0121ab
अभूदुद्वेगजननी श्मशानाग्नेरिव द्युतिः ॥ KRT_4_0121cd
मन्त्रैः प्रभावसांनिध्यं देवानां क्रियते द्विजैः । KRT_4_0122ab
मत्वेति देवद्वेषी स द्विजानां दण्डमत्यजत्1 KRT_4_0122cd
मासं1 गूढाभि1चारेण विहितायुःक्षयो द्विजैः । KRT_4_0123ab
स प्राभवद्गुरुद्रोहप्ररोहत्सुकृतात्ययः2 KRT_4_0123cd
अथ गूढाभि1चारेण विहितायुःक्षयो द्विजैः । KRT_4_0124ab
स भ्रातुः सदृशीं शान्तिं प्रपेदे न पुनर्गतिम् ॥ KRT_4_0124cd
योयं परापकरणाय सृजत्युपायं तेनैव तस्य नियमेन भवेद्विनाशः । KRT_4_0125ab
धूमं प्रसौति नयनान्ध्यकरं यम1ग्निर्भूत्वाम्बुदः स शमयेत्सलिलैस्तमेव ॥ KRT_4_0125cd
राजा श्रीललितादित्यः सार्वभौमस्ततोभवत् । KRT_4_0126ab
प्रादेशिकेश्वरस्रुष्टुर्विधेर्बुद्धेरगोचरः ॥ KRT_4_0126cd
प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः । KRT_4_0127ab
जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डनम् ॥ KRT_4_0127cd
नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे । KRT_4_0128ab
पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥ KRT_4_0128cd
विनिःसरज्जनतया भयाद्गर्भानिवामुचन् । KRT_4_0129ab
द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ॥ KRT_4_0129cd

111.

--1) A3 gloss ब्रह्मा जाड्यं विना.

--2) A3 gloss आदौ दृष्टः पश्चान्नष्टः.

126.

--1) A3 gloss उच्चाटना.

117.

--1) A3 gloss चन्द्रापीडः कृतयुगराजपङ्क्तिमध्ये.

--2) A3 gloss काकपदं कावछेदो । इति भाषया लिपिर्यथा +.

118.

--1) A3 स्वर्गं विषदं(* विषादं).

119.

--1) A3 भ्रातृदेहासुसुहृदा.

--2) Thus corr. by A3 from A1 उवाच.

--3) Thus A1; A3 मण्डलीं.

120.

--1) A3 gloss सदृशं.

122.

--1) A3 gloss अक्षिपदित्यर्थः.

123.

--1) Thus corr. by A3 from मासैः.

--2) A3 gloss पुण्यनाशः.

124.

--1) The text from here to नयनान्ध्यकरं यम in following verse has been supplied by A3 in space left by A1.

125.

--1) See note to preceeding verse.

[page 48]




विलोलतिलकान्तैर्यः सनेत्राम्भोभिराननैः । KRT_4_0130ab
निवापाञ्जलिदानानि द्विषां नारीरकारयत्1 KRT_4_0130cd
क्षितिं प्रदक्षिणयतो रवेरिव महीपतेः । KRT_4_0131ab
जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ ॥ KRT_4_0131cd
करं पूर्वदिशो गृह्णन्प्रतापानलसंनिधौ । KRT_4_0132ab
अन्तर्वेद्या1ं महाराजः स्वकीर्त्युष्णीषभ्ःद्बभौ ॥ KRT_4_0132cd
कन्यानां यत्र कुब्जत्वं व्यधाद्गधिपुरे मरुत् । KRT_4_0133ab
तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशम्1 KRT_4_0133cd
यशोवर्माद्रिवाहिन्याः क्षणात्कुर्वन्विशेषणम् । KRT_4_0134ab
नृपतिर्ललितादित्यः प्रतापादियतां1 ययौ ॥ KRT_4_0134cd
मतिमान्कन्यकुब्जेन्द्रः प्र्त्यभात्कृत्यवेदिनाम् । KRT_4_0135ab
दीप्तं यल्ललितादित्यं पृष्टं दत्त्वा न्यषेवत ॥ KRT_4_0135cd
तत्सहायास्ततोप्यासन्निकाममभिमानिनः । KRT_4_0136ab
कुसुमाकरतोप्युच्चैः सुरभिश्चन्दनानिलः ॥ KRT_4_0136cd
श्रीयशोवर्मणः संधौ सांधिविग्रहको न यत् । KRT_4_0137ab
नयं नियमनालेखे मित्रशर्मास्य चक्षमे ॥ KRT_4_0137cd
सोभू1त्संधिर्यशोवर्मललितादित्ययोरिति । KRT_4_0138ab
लिखितेनादिनिर्देशादनर्हत्वं विदन्प्रभोः ॥ युगलकम्2 KRT_4_0138cd
सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयितान्1 KRT_4_0139ab
औचित्यापेक्षतां2 तस्य क्षितिभृद्बह्वमन्यत ॥ KRT_4_0139cd
1प्रीतः पञ्चमहाशब्दभाजनं तं व्यधत्त सः । KRT_4_0140ab
यशोवर्मनृपं तं तु2 समूलमुदपाटयत् ॥ KRT_4_0140cd
अष्टादशानामुपरि प्राक्सिद्धानां तदुद्भवैः । KRT_4_0141ab
कर्मस्थानैः स्थितिः प्राप्ता ततः प्रभृति पञ्चभिः ॥ KRT_4_0141cd
महाप्रतीहारपीडा1 स महासंधिविग्रहः । KRT_4_0142ab
महाश्वशालापि महाभाण्डागारश्च पञ्चमः ॥ KRT_4_0142cd
महासाधनभागश्चेत्येता यैराभिधाः श्रिताः । KRT_4_0143ab
शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः ॥ KRT_4_0143cd
कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । KRT_4_0144ab
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥ KRT_4_0144cd
लो,अमुaत्लमुa1कुब्जोर्वी यमुनापारतोस्य सा2 KRT_4_0145ab
अभूदाकालि3कातीरं2 गृहप्राङ्गनवद्वशे ॥ KRT_4_0145cd
यशोवर्मानमुल्लङ्घ्य हिमाद्रिमिव जाह्नवी । KRT_4_0146ab
उखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ KRT_4_0146cd
पश्यद्भिर्जन्मव1सुधां सेर्ष्याधारेणभर्त्सितैः । KRT_4_0147ab
तन्मातङ्गैः कलिङ्गेभ्य1ः कथंचित्प्रस्थितं पथि ॥ KRT_4_0147cd
आकृष्टलक्ष्मीपर्यङ्कदन्तिसख्यादिवागताः । KRT_4_0148ab
अशिश्रयंस्तं निःशेषा दन्तिनो गौडमण्डलात् ॥ KRT_4_0148cd
कटकेभघटाहस्तकृतवीचिकचग्रहः । KRT_4_0149ab
अदृश्यताग्रगैस्तस्य गृहीतः पूर्ववारिधिः ॥ KRT_4_0149cd
वनराजिश्यामलेन दिशं वैवस्वताङ्किताम्1 KRT_4_0150ab
स प्रतस्थेब्धितीरेण तत्कृपाणेन2 तु द्विषः ॥ KRT_4_0150cd
तस्योर्ध्वजूटाः कार्णाटाः कृतप्रणतयोनयन् । KRT_4_0151ab
सुवर्णकेतकीस्त्यक्त्वा प्रतापमवतंसताम् ॥ KRT_4_0151cd
तस्मिन्प्रसङ्गे रट्टा1ख्या कर्णाटी चटुलेक्षणा । KRT_4_0152ab
अपासीन्नृपतिर्भूत्वा पृथुश्रीर्द2क्षिणापथम् ॥ KRT_4_0152cd
विन्ध्याद्रिमार्गाः पर्याप्ता निष्पर्यन्तप्रभावया । KRT_4_0153ab
दुर्गयेव तया देव्या कृता निहतकण्टकाः ॥ KRT_4_0153cd
ललितादियपादाब्जनखदर्पणमण्डले । KRT_4_0154ab
स्वमूर्तिं वीक्ष्य संक्रान्तां प्रणता सापि पिप्रिये ॥ KRT_4_0154cd

130.

--1) Thus corr. by A3 from A1 ॰कारयन्.

132

--1) A3 gloss प्रयागदेशे गङ्गायमुनयोरन्तरालभूमिरन्तर्वेदी.

133.

--1) A3 gloss कुब्जत्वं.

134.

--1) A3 प्रलयादित्यतां.

135.

--1) A3 gloss सः मित्रशर्मा.

--2) युगलकम् added by A3.

139.

--1) Thus corr. by later hand from A1 ॰तम्.

--2) Thus A G R; Edd. ॰पेक्षितां.

140.

--1) A1 has left before this verse a blank space for four lines, writing in the middle न किंचित्पतितम्.

142.

--1) Thus A G R; perhaps to be emended to ॰पीठं. Cf. महाप्रतीहारपीठाधिकारं iv.485.

145.

--1) Thus corr. by later hand from A1 कान्य॰.

--2) तोस्य सा and कातीरं supplied by A3 in spaces left by A1.

--2) Thus A3; A1 अभूदशालि॰, altered by later hand to अभूदाशालि॰. 147.

--1) These words have been written twice by A1, at the end of fol.62(here struck out again) and at the head of fol. 63.

150.

--1)

--2) A4 gives the notes यमत्रिद्वितां दक्षिणां दिशं and तस्य राज्ञः कृपाणेन खङ्गेन नु पुनर्द्विषो रिपवो वैवस्वताङ्कां दिशं प्रतस्थिरे इत्यर्थः.

152.

--1) द्वा supplied by A3 in space left by A1.

--2) A1 पृथुश्रीदक्षि, corr. by later hand into ॰श्रीः.

[page 49]




तालीतरुतलाचान्तनारिकेरसुरोर्मयः1 KRT_4_0155ab
कावेरीतीरपवनैस्तद्योधाः क्लममत्यजन् ॥ KRT_4_0155cd
चन्दनाद्रे1स्तदास्कन्द2त्रासभ्रश्यदहिच्छलात् । KRT_4_0156ab
श्रीखण्डद्रुमदोःषण्डा3न्मण्डलाग्रा4 इवापतन् ॥ KRT_4_0156cd
उत्तराश्मस्विव1 पदं क्षिप्त्वा द्वीपेष्वविघ्नतः । KRT_4_0157ab
स कुल्याया इवाम्भोधेः क्षिप्तं चक्रे गतागतम् ॥ KRT_4_0157cd
तेनोब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः । KRT_4_0158ab
प्रतस्थे पश्चिमामाशां जिगीषूणामपश्चिमः ॥ KRT_4_0158cd
आक्रम्य क्रमुकान्सप्त1 कौण्कणान्सप्त ताप्यत् । KRT_4_0159ab
तुरगानिव तिग्मांशोः2 प्रतापस्तस्य पप्रथे ॥ KRT_4_0159cd
पश्चिमाब्धेर्मरुद्व्यस्तवीचेराविर्भवन्त्यभूत् । KRT_4_0160ab
द्वारका तस्य सैन्यानां प्रवेशौत्सुक्यदायिनी ॥ KRT_4_0160cd
विन्ध्याद्रिस्तद्बलक्षुण्णधातुरेण्वावृता1म्बरः । KRT_4_0161ab
प्रत्यभात्त्यक्तमर्यादः कोपताम्र इवोन्नमन् ॥ KRT_4_0161cd
त्रिशतां दशनश्रेण्यस्तस्यावन्तिषु दन्तिनाम् । KRT_4_0162ab
महाकालकिरीटेन्दुज्योत्स्नया खण्डिताः परम् ॥ KRT_4_0162cd
सर्वतोदिक्कमालोक्य जितप्रायांस्ततो नृपान् । KRT_4_0163ab
स प्राविशत्सुविस्तीर्णमपथेनोत्तरापथम् ॥ KRT_4_0163cd
राजभिस्तस्य तत्रोग्रैः संग्रामोभूत्पदे पदे । KRT_4_0164ab
कुलाद्रिभिरिवेन्द्रस्य पक्षच्छेदोद्यमस्पृशः ॥ KRT_4_0164cd
काम्बोजानां वाजिशाला जायन्ते स्म हयोज्झिताः । KRT_4_0165ab
ध्वान्तच्छलात्तद्विरुद्धैर्निरुद्धा महिषैरिव ॥ KRT_4_0165cd
तुःखारा1ः शिखरश्रेणीर्यान्तः संत्यज्य वाजिवः । KRT_4_0166ab
कुण्टभावं2 तदुत्कण्ठां निन्युर्दृष्ट्वा हयाननान्3 KRT_4_0166cd
त्रीन्वारान्समरे जित्वा जितं मेने स मुम्मुनिम्1 KRT_4_0167ab
सकृज्जयमरेर्वीरा मन्यन्ते हि घुणाक्षरम् ॥ KRT_4_0167cd
चिन्ता न दृष्टा भौट्टानां1 वक्त्रे प्रकृतिपाण्डुरे । KRT_4_0168ab
वनौकसामि2व क्रोधः स्वभावकपिले मुखे ॥ KRT_4_0168cd
तस्य प्रतापो दरदां न सेहेनारतं मधु । KRT_4_0169ab
दरीणामोषधिज्योतिः प्रत्यूषार्क इवोदितः ॥ KRT_4_0169cd
कस्तूरीमृगसंस्पर्शी धूतकुङ्कुमकेसरः । KRT_4_0170ab
सैन्यसीमन्तिनीस्तस्य संचस्कारोत्तरानिलः ॥ KRT_4_0170cd
शून्ये प्राग्ज्योतिषपुरे निर्जिहानं ददर्श सः । KRT_4_0171ab
धूपधूमं वनप्लुष्टात्कालागुरुवनात्परम् ॥ KRT_4_0171cd
मरीचिकावितीर्णार्णोविभ्रमे बालुकाम्बुधौ । KRT_4_0172ab
तद्गजेन्द्रा महाग्राहसमूहसमतां ययुः ॥ KRT_4_0172cd
तद्योधान्विगलद्धैर्यान्स्त्रीराज्ये स्त्रीजनोकरोत् । KRT_4_0173ab
तुङ्गौ स्तनौ पुरस्कृत्य न तु कुम्भौ कवाटिनाम् ॥ KRT_4_0173cd
स्त्रीराज्यदेव्यास्तस्याग्रे वीक्ष्य कम्पादिविक्रियाम् । KRT_4_0174ab
संत्रासमभिलाषं वा निश्चिकाय न कश्चन ॥ KRT_4_0174cd
उत्तराः कुरवोविक्षंस्तद्भयाज्जन्मपदपान् । KRT_4_0175ab
उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ KRT_4_0175cd
जयार्जितधनः सोथ प्रविवेश स्वमण्डलम् । KRT_4_0176ab
भिन्नेभमौक्तिकापूर्णपाणिः सिंहः इवाचलम् ॥ KRT_4_0176cd
जालंधरं लोहरं च मण्डलानीतराणि च । KRT_4_0177ab
प्रसादीकृत्य विदधे राजत्वं सोनुजीविनाम् ॥ KRT_4_0177cd
पराजयव्यञ्जनार्थं नना लिङ्गानि पार्थिवाः । KRT_4_0178ab
उग्रेण ग्राहितास्तेन वहन्त्यद्यापि निर्मदाः ॥ KRT_4_0178cd
बन्धमुद्राभिधानाय पञ्चाद्बाहू तदाज्ञया । KRT_4_0179ab
तुरुष्का दधते व्यक्तं मूर्धानं चार्धमुण्डितम् ॥ KRT_4_0179cd
क्षितिभृद्दक्षिनात्यानां तिर्यक्त्वज्ञापनाय सः । KRT_4_0180ab
पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥ KRT_4_0180cd
न तत्पुरं न स ग्रामो न सा सिन्धुर्न सोर्णवः । KRT_4_0181ab
न स द्वीपोस्ति यत्रासौ प्रतिष्ठां न विनिर्ममे ॥ KRT_4_0181cd

152.

--1) Thus A3; A1 ॰रसोर्मयः.

156.

--1) A3 gloss मलयात्.

--2) A3 gloss प्रसभमवमर्दनमास्कन्दः.

--3) A3 gloss श्रीखण्डद्रुनाः चन्दनवृक्षा एव दोष्पण्डाः भुजसमूहा यस्य सः तथाविधात्.

--4) A3 gloss खड्गाः.

157.

--1) A2 gloss उत्तरणार्थ अश्मानः उत्तसदनानः ये कुल्यायां मध्ये भवन्ति; to this gloss A3 has added उटवटपल् इति भाषया.

159.

--1) Thus A1; A3 क्रमुकश्यानान्कौ॰.

--2) Thus A3; A1 तिग्मांशुः.

162.

--1) Thus corr. by A3; A1 ॰रणेवृता॰.

166.

--1) A1 तु X खाराः; A3 G R भुस्दखाराः.

--2) Thus corr. by later hand from A1 ॰भावां.

--3) Thus A3; A1 ॰ननाम्.

167.

--1) Thus A; misread दुस्सनिम् m G R and Edd. A4 gloss सुसेन् खान्. Cf.iii.332; v.516; vii. 2180 (C).

168.

--1) Thus A1; corr. by later hand into भोट्टानां.

--2) A3 gloss वानराणां.

[page 50]




क्वचिच्चेष्टासमुचितं क्वचिच्च समयानुगम् । KRT_4_0182ab
बाहुल्येन प्रतिष्ठानां स मानी1 नाम संदधे ॥ KRT_4_0182cd
मुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः । KRT_4_0183ab
सगर्वो1 दर्पितपुरं कृतवा2न्कृतकेशवम् ॥ KRT_4_0183cd
फलं गृह्णन्फलपुरं पर्णोत्सं पर्णमाददत् । KRT_4_0184ab
क्रीडारामविहारं1 च क्रीडन्राजा विनिर्ममे ॥ KRT_4_0184cd
एकमूर्ध्वं नयद्रत्नमधः कर्षत्तथापरम् । KRT_4_0185ab
बद्ध्वा1 व्यधान्निरालम्बं स्त्रीराज्ये नृहरिं च सः ॥ KRT_4_0185cd
दिगन्तरस्ये भूपाले तस्मिंस्तत्कर्मकृ1त्किल । KRT_4_0186ab
पुरं विधाय तन्नाम्ना तत्को1पफलमन्व2भूत् ॥ KRT_4_0186cd
ललिताख्ये1 पुरे तस्मिन्नादित्याय स भूपतिः । KRT_4_0187ab
सग्रामां कन्यकुब्जोर्वीमभिमानोर्जितो ददौ ॥ KRT_4_0187cd
तेन हुष्कपुरे श्रीमान्मुक्तस्वामी व्यधीयत । KRT_4_0188ab
बृहद्विहारो भूपेन सस्तूपश्च महात्मना ॥ KRT_4_0188cd
एकां कोटिं गृहीत्वा स दिग्जयाय विनिर्गतः । KRT_4_0189ab
भूतेशाय ददौ शुद्ध्यै कोटीरेकादशागतः ॥ KRT_4_0189cd
स तत्र ज्येष्ठरुद्रस्य शिलाप्रासादयोजनम् । KRT_4_0190ab
भूमिग्राम1प्रदानं च विदधे वसुधाधिपः ॥ KRT_4_0190cd
चक्रे चक्रधरे1 तेन वितस्ताम्भःप्रतारणम् । KRT_4_0191ab
विनिर्मायारघट्टालीस्तांस्तान्ग्रामान्प्रयच्छता । KRT_4_0191cd
सोखण्डिताश्मप्राकारं प्रासादान्तर्व्यधत्त च । KRT_4_0192ab
मार्तण्डस्याद्भुतं दाता द्राक्षास्फीतं च पत्तनम् ॥ KRT_4_0192cd
लोकपुण्ये पुरं1 कृत्वा नानोपकरणावलीम् । KRT_4_0193ab
प्रतिपादितवाञ्जिष्णुर्ग्रामैः2 साकं स विष्णवे ॥ KRT_4_0193cd
ततः परं1 परीहासशीलो भूलोकवासवः । KRT_4_0194ab
विहसद्वासवावासं परिहासपुरं2 व्यधात् ॥ KRT_4_0194cd
विरेजे राजतो देवः श्रीपरीहासकेशवः । KRT_4_0195ab
लिप्तो रत्नाaकरस्वापे मुक्ताज्योतिर्मरैरिव ॥ KRT_4_0195cd
नाभीनलिनलिञ्जल्कपुञ्जेनेवानुरञ्जितः । KRT_4_0196ab
अचका1त्काञ्चनमयः श्रीमुक्ताकेशवो हरिः ॥ KRT_4_0196cd
महावराहः शुशुभे काञ्चनं कवचं दधत् । KRT_4_0197ab
पाताले तिमिरं हन्तुं1 वहन्निव रविः2 प्रभाः ॥ KRT_4_0197cd
गोवर्धनधरो देवो राजतस्तेन कारितः । KRT_4_0198ab
यो गोकुलपयः पूरैरिव पाण्डुरतां दधे ॥ KRT_4_0198cd
चतुष्पञ्चाशतं हस्ता1न्रोपयित्वा महाशिलान् । KRT_4_0199ab
ध्वजाग्रे दितिजारातेस्तार्क्ष्यस्तेन निवेशितः ॥ KRT_4_0199cd
चक्रे बृहच्चतुःशालावृहच्चैत्यबृहज्जिनैः । KRT_4_0200ab
राजा राजविहारं स विरजाः सततोर्जितम् ॥ KRT_4_0200cd
तोलकानां सहस्राणि 1चतुर्भिरधिकानि सः । KRT_4_0201ab
अशीतिं निदधे हेम्नो मुक्ताकेशवविग्रहे ॥ KRT_4_0201cd
तावन्त्येव सहरानि पलानां रजतस्य च । KRT_4_0202ab
संधाय शुद्धधीश्चक्रे श्रीपरीहासकेशवम् ॥ KRT_4_0202cd
रीतिप्रस्थसहस्रैस्तु तेन तावद्भिरेव सः । KRT_4_0203ab
व्योमव्यापिवपुः श्रीमान्बृहद्बुद्धो व्यधीयत ॥ KRT_4_0203cd
चतुःशालां च चैत्यं च तावता तावता व्यधात् । KRT_4_0204ab
धनेनैवेति तस्यासन्पञ्च निर्मि1तयः समाः ॥ KRT_4_0204cd
राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे । KRT_4_0205ab
पार्श्वेषु मुख्यदेवानां पार्षदो1 धनदोपमः ॥ KRT_4_0205cd
कियन्ति तत्र रत्नानि ग्रामान्परिकरांस्1तथा । KRT_4_0206ab
स प्रादादिति कः शक्तः परिच्छेत्तुमियत्तया ॥ KRT_4_0206cd
अवरोधैरमात्यैश्च सेवकैश्च नरेश्वरैः । KRT_4_0207ab
तत्र प्रतिष्ठाः शतशो विहिता भुवनाद्भुताः ॥ KRT_4_0207cd

182.

--1) Thus corr. by A3 from A1 मुनी.

183.

--1) A3 सदर्पो.

--2) A3 कृतधीः.

184.

--1) A3 क्रीडाराजवि॰.

185.

--1) Thus corr. by A3 from A1 बुद्धा.

186.

--1) A4 पुरनिर्माणाधिकारी.

--2) त्को and न्व supplied A3.

187.

--1) A2 gloss लितपुर.

190.

--1) Thus corr. by later hand from A1 भूमिग्रामे.

192.

--1) Thus A3; A1 ॰धरस्तेन.

193.

--1) Thus corr. by A3 from A1 पुरे.

--2) Thus A3; A1 जिष्णुग्रामैः.

194.

--1) Thus corr. by later hand from A1 ॰पारं.

--2) Over हासपुरं A2 from A1 तर्तुं.

--3) Thus G sec. manu; A रविप्रभाः.

199

--1) Thus corr. by later hand from A1 हस्ताद्रो॰.

203.

--1) The words from चतुर्भिर॰ to सहस्राणि in the following verse have been omitted by A1 and supplied by A3 in margin.

205.

--1) Thus A1; A3 पार्थिवो.

203.

--1) Thus A3; A1 ॰करं तथा.

[page 51]




राज्ञी कमलवत्य1स्य कमलाहट्टकारिणी । KRT_4_0208ab
राजतम् त्रिपुलाकारं कमालाकेशवं व्यधात् ॥ KRT_4_0208cd
अमात्यो मित्रशर्मापि चक्रे मित्रेश्वरं हरम् । KRT_4_0209ab
श्रीकय्यस्वामिनं चक्रे लाटः कय्याभिधो नृपः ॥ KRT_4_0209cd
श्रीमान्कय्यविहारोपि तेनैव विदधेद्भुतः । KRT_4_0210ab
भिक्षुः सर्वज्ञमित्रोभूत्क्रमाद्यत्र जिनोपमः ॥ KRT_4_0210cd
तुःखार1श्चङ्कुणश्चक्रे स चङ्कुणविहारकृत् । KRT_4_0211ab
भूपचित्तोन्नतं स्तूपं जिनान्हेममयांस्तथा ॥ KRT_4_0211cd
ईशानदेव्या तत्पत्न्या खाताम्बु प्रतिपादितम् । KRT_4_0212ab
सुधारसमि1व स्वच्छमारोग्याधायि रोगिणाम् ॥ KRT_4_0212cd
ललितादित्य1भूभर्तुर्वल्लभा चक्रमर्दिका । KRT_4_0213ab
सहस्राण्योकसां सप्त तत्र चक्रपुरं व्यधात् ॥ KRT_4_0213cd
आचार्यो भप्पटो1 नाम विदधे भप्पटेश्वरम् । KRT_4_0214ab
अन्येपि रक्छटेशा2द्या बहवो बहुभिः कृताः ॥ KRT_4_0214cd
अधिष्ठानान्तरेप्यत्र चङ्कुणेनाप्यमन्त्रिणा । KRT_4_0215ab
सचैत्यः सुकृतोदारो विहारो निरमीयत ॥ KRT_4_0215cd
भिषगीशानचन्द्राख्यः स्यालश्चङ्कुणमन्त्रिणः । KRT_4_0216ab
विहारमकरोल्लब्ध्वा तक्षकानुग्रहाच्छ्रियम् ॥ KRT_4_0216cd
एवं हेममयीमुर्वीं स कुर्वन्नुर्वरा1पतिः । KRT_4_0217ab
गुणैरौदार्यशौर्याद्यैर्मघवानमलङ्घयत् ॥ KRT_4_0217cd
हेलयापि विनिर्यान्ती वक्त्राद्वसुमतीपतेः । KRT_4_0218ab
न कदाचन तस्याज्ञा देवैरप्युदलङ्घ्यत ॥ KRT_4_0218cd
तथाहि पूर्वपाथोधेस्तटे सकटको वसन् । KRT_4_0219ab
आनीयन्तां कपित्थानीत्यादिदेश स जातु चित् ॥ KRT_4_0219cd
किंकर्तव्यतयान्धेषु2 पुरोगेषु स्थितेष्वथ । KRT_4_0220ab
उपानयत्3कपित्थानि द्विव्यः कोपि पुमान्पुरः ॥ KRT_4_0220cd
अग्रादु1पायनं गृह्णन्कृतसंज्ञो भ्रुवा प्रभोः । KRT_4_0221ab
कस्य त्वमिति पप्रच्छ प्रतीहारः प्रसृत्य तम् ॥ KRT_4_0221cd
सोभ्यधात्तं कपित्थानि दत्त्वा राज्ञः । KRT_4_0222ab
प्रहितोद्य महेन्द्रेण नन्दनोद्यानपालकः ॥ KRT_4_0222cd
रहो महेन्द्रसंदिष्टं वक्तव्यं किंचिदस्ति मे । KRT_4_0223ab
इति श्रुत्वा प्रतीहारं सभां चक्रे स निर्जनाम् ॥ KRT_4_0223cd
ततो दिव्यः पुमानूचे शक्रस्त्वां वक्ति भूपते । KRT_4_0224ab
क्षन्तव्यं पथ्यमप्येतत्सौजन्यान्निष्ठुरं वचः ॥ KRT_4_0224cd
तुर्ये युगेपि भूपाल दिक्पाला अपि ते वयम् । KRT_4_0225ab
विभृमो यत्प्रणम्याज्ञां श्रूयतां तत्र कारणम् ॥ KRT_4_0225cd
पुरा ग्राम1गृहस्थस्य कस्यचित्पृथुसंपदः । KRT_4_0226ab
जन्मान्तरे कर्मकरो हालिकोभूद्भवान्किल ॥ KRT_4_0226cd
एकदा तस्य ते ग्रीष्मे वाहयित्वा महावृषान् । KRT_4_0227ab
श्रान्तस्य निर्जलेरण्ये क्षीणप्रायमभूदहः ॥ KRT_4_0227cd
ततः स्वाभिगृहात्क्षुत्तृट्खिन्नस्य भवतोन्तिकम् । KRT_4_0228ab
वारिकुम्भीमपूपं च गृहीत्वा कश्चिदाययौ । KRT_4_0228cd
निर्धौतपाणिपादस्त्वं भोक्तुं स्ंप्रस्तुतस्ततः ॥ KRT_4_0229ab
विप्रं कण्ठगतप्राणमपश्यः पुरतोतिथिम् ॥ KRT_4_0229cd
स त्वामवोचन्मा भुङ्क्ष्व1 दुर्भिक्षोपहतस्य मे । KRT_4_0230ab
कण्ठे यियासवः प्राणा वर्तन्ते भोजनं विना ॥ KRT_4_0230cd
वारितः पार्श्वगेनापि तस्मै त्वं प्रीतिपूर्वकम् । KRT_4_0231ab
पूपार्धं वारिकुम्भीं च प्रादाः प्रियमुदीरयन् ॥ KRT_4_0231cd
पात्रे प्रसन्नचित्तस्य काले दानेन तेन ते । KRT_4_0232ab
अखण्डितानामाज्ञानां शतमासीत्त्रिविष्टपे ॥ KRT_4_0232cd
तेन वारिप्रदानेन वाञ्छामात्रेपि दर्शिते । KRT_4_0233ab
प्रादुर्भवन्ति सुस्वादा नद्यो मरुपथेष्वपि ॥ KRT_4_0233cd
सत्क्षेत्रप्रतिपादितः1 प्रियवचोबद्धालवालावलिर्निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः । KRT_4_0234ab
1दातुस्तत्तदभीप्सितं किल फलन्कालेतिबालोप्यसौ रजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥ KRT_4_0234cd

208.

--1) Thus A1; A3 कमलदेव्य॰.

211.

--1) A1 तु X खार॰.

--2) Thus corr. by A3 from A1 सुधासरमिव.

213.

--1) Thus A3; A1 वल्लभादित्य॰. G R copy both readings, Edd. follow A3.

214.

--1) Emended with Edd.; A भपटो.

--2) Thus A1; A3 कर्कदेशा॰.

217.

--1) Thus corr. by A3 from A1 उर्वरी॰.

220.

--1) A1; A2 ॰यार्तेषु.

--2) Thus corr. by A3 from A1 ॰नयन्कपि॰.

221.

--1) A4 gloss राज्ञोग्रे इत्यर्थः.

226.

--1) Thus corr. by later hand from A1 ग्रामे.

230.

--1) Thus A3; A1 भुङ्क्ता(for भुङ्क्थाः ?).

234.

--1) A3 ॰प्रतिरोपितः.

--2) A3 दत्ते तत्तदभीप्सितं किल फलं काले इत्यन्यादर्शे.


[page 52]




अल्पावशेषास्तास्त्वद्य सन्त्याज्ञास्तव भूपते । KRT_4_0235ab
वचोलङ्घ्यं क्षपयतो यत्र तत्राविचारतः ॥ KRT_4_0235cd
अपि चेतरभू1पालसुलभं महतः सतः । KRT_4_0236ab
कस्माद्विचारशून्यत्वं तवापि हृदि रोहति ॥ KRT_4_0236cd
दिनानि कतिचिद्यानि कश्मीरेषु घनागमे । KRT_4_0237ab
जायन्ते तानि पूर्वाब्धौ फलानि शिशिरे कुतः ॥ KRT_4_0237cd
विगाहसे दिशं यां यां तत्र तत्रैव तत्पतेः1 KRT_4_0238ab
त्वदाज्ञाग्रहणे यत्नः पूर्वदानप्रभावतः ॥ KRT_4_0238cd
आशां श्रितस्य माहेन्द्रीमाज्ञा स्वल्पापि तेधुना । KRT_4_0239ab
गृहीता कथमप्येषा शक्रेणाभग्नशक्तिना ॥ KRT_4_0239cd
विना प्रयोजनं मुख्यं तस्मादाज्ञास्त्वया1 क्वचित् । KRT_4_0240ab
नैवमेव पुनर्देया विरलाः सन्ति सा यतः ॥ KRT_4_0240cd
इत्युक्त्वान्तर्हिते तस्मिन्भूपालो विपुलाशयः । KRT_4_0241ab
चिन्तयन्दानमाहात्म्यं परं विस्मयमाययौ ॥ KRT_4_0241cd
तत्ः प्रभृति तादृक्षयोग्यार्थप्राप्तिलालसः । KRT_4_0242ab
परिहासपुरे चक्रे स्थिरां गुर्वीं स पर्विणीम् ॥ KRT_4_0242cd
सहस्रभक्तमित्येवं प्रख्यातायां सदक्षिणम् । KRT_4_0243ab
लक्षमेकोत्तरं भक्तपात्राणां यत्र दीयते ॥ KRT_4_0243cd
अभिप्रायेण तेनैव पत्तनान्यूषरेषु सः । KRT_4_0244ab
चक्रे यद्येषु तृष्णार्तः कश्चिज्जातु पिबेदपः ॥ KRT_4_0244cd
संजग्राह स देशेभ्यस्तांस्तानन्तरविन्नरान् । KRT_4_0245ab
विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ KRT_4_0245cd
तेन कङ्कणवर्षस्य रससिद्धस्य सोदरः । KRT_4_0246ab
चङ्कुणो नाम भुःखार1देशान्नी2तो गुणोन्नतः ॥ KRT_4_0246cd
स रसेन समातन्वन्कोशे बहुसुवर्णताम् । KRT_4_0247ab
पद्माकर इवाब्जस्य भूभृतोभूच्छुभावहः ॥ KRT_4_0247cd
रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसंगमैः । KRT_4_0248ab
तटे स्तम्भित1सैन्योभूद्राजा चिन्तापरः क्षणम् ॥ KRT_4_0248cd
ततोम्बुतरणोपायं सरिन्नीरं ससैनिकः । KRT_4_0249ab
अगाधेम्भसि रोधःस्थश्चङ्कुणो मणिमक्षिपत् ॥ KRT_4_0249cd
तत्प्रभावाद्द्विधाभूतं सरिन्नीरं ससैनिकः । KRT_4_0250ab
उत्तीर्णो नृपतिस्तूर्णं परं पारं समासदत् ॥ KRT_4_0250cd
मणिमन्थेन मणिना चङ्कुणोप्याचकर्ष तम् । KRT_4_0251ab
सलिलं प्रागवस्थं च क्षणेन सरितामभूत् ॥ KRT_4_0251cd
परिभाव्या1द्भुतं तत्स प्रशंसामुखराननः । KRT_4_0252ab
प्रणयाच्चङ्कुणं राजा मणियुग्ममयाचत ॥ KRT_4_0252cd
स तमाह स्म विहसन्कर्मेमौ कुरुते मणी । KRT_4_0253ab
योग्यौ तस्य का शोभा विविधोत्कृष्टवस्तुषु1 KRT_4_0253cd
सामान्येष्वेव लभते सोत्कर्षं वस्तु संप्रथाम् । KRT_4_0254ab
महत्सु तस्य का शोभा विविधोत्कृष्टवस्तुषु1 KRT_4_0254cd
प्रस्यन्दनं शिशिमणेर्ग1णयन्ति तावद्यावत्स्थितो जलनिधेः पुलिनैकदेशे । KRT_4_0255ab
2 स्वीक्रियते यदि तेन3 ततस्तदास्य स्यन्दः4 स्फुरन्नपि न तत्सलिले विभाव्यः3 KRT_4_0255cd
इत्युक्त्वा विरते तस्मिन्राजा सस्मितमब्रवीत् । KRT_4_0256ab
संभावयसि किं रत्नमाभ्यामभ्यधिकं मम ॥ KRT_4_0256cd
अतो1धिकतरं यद्वा किंचित्त्वं2 माम् पश्यसि । KRT_4_0257ab
तदादाय प्रयच्छेदं निष्क्रयेण मणिद्वयम् ॥ KRT_4_0257cd
ततो महान्प्रसादोयमित्युक्त्वा चङ्कुणोब्रवीत् । KRT_4_0258ab
स्वायत्ते स्वामिनो रत्ने मह्यमिष्टं तु दीयताम् ॥ KRT_4_0258cd
गजस्कन्धेधिरोप्यैतम्मागधेभ्यो यदाहृतम् । KRT_4_0259ab
दत्त्वा सुगत1बिम्बं तज्जनोयमनुगृह्यताम् ॥ KRT_4_0259cd
सलिकोत्तरणोपायो मणी देवेन गृह्यताम्1 KRT_4_0260ab
संसारोत्तरणोपायः सुगतो मह्यमर्प्यताम् ॥ KRT_4_0260cd

236.

--1) Thus A3; A1 चेतसि भूपाल सु॰.

238.

--1) A4 gloss तद्दिक्पालस्य.

240.

--1) Thus A3; A1 ॰दाञ्जा त्वया.

246.

--1) A भु X3 ख्रर॰.

--2) Thus corr. by A3 from A1 ॰देशानीतो.

248.

--1) Thus A1; A3 स्तिमित॰.

252.

--1) A3 प्रतिभाव्या॰.

254.

--1) A3 ॰त्कृष्टभूमिषु.

255.

--1) A3 gloss चन्द्रकान्तस्य.

--2) A3 gloss शशिमणिः.

--3) A3 gloss जलनिधिना.

--4) Thus corr. by A3 from A1 स्यन्दं.

--5) Thus corr. by A3 from A1 वभाव्यः.

257.

--1) Thus A3; A1 ततो.

--2) Thus A1; A3 in margin कोशे त्वं.

259.

--1) A3 gloss बुद्ध.

260.

--1) A2 gloss मणी एव संसारतरणोपाय इत्यारोपः । अत एव गुqह्यतामित्येकवचनान्तं क्रियापदम् मणी एव संसारतरणोपायस्त्व्यया गृह्यतामित्यन्वयः.

[page 53]




इति तेनार्थितो युक्त्या जिनबिम्बं ददौ नृपः । KRT_4_0261ab
वाग्मिनां कस्य सामर्थ्यं परिपन्थयितुं वचः ॥ KRT_4_0261cd
स्वविहारेथ भगवान्स तेन विनिवेशितः । KRT_4_0262ab
कपिशाभिः सकाषाय इव यो भाति कान्तिभिः ॥ KRT_4_0262cd
दृश्यतेद्यापि कटकैरायसैः परिवेष्टितः । KRT_4_0263ab
गजस्कन्ध1निबद्धस्य सूचको2 यस्य विष्टरः ॥ KRT_4_0263cd
अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् । KRT_4_0264ab
अहो महाप्रभावाणां भूपतीनां वसुंधरा ॥ KRT_4_0264cd
अशिक्षितं कदाचित्स स्वयं दमयितुं हयम् । KRT_4_0265ab
निनायारण्यमेकाकी हयविद्याविशारदः ॥ KRT_4_0265cd
दूरान्निर्मानुषे तत्र ललनां ललिताकृतिम् । KRT_4_0266ab
एकां ददर्श गायन्तीम् नृत्यन्तीमपरामपि ॥ KRT_4_0266cd
क्षणाच्च ते समापय्य गीतनृत्ते मृगीदृशौ । KRT_4_0267ab
प्रणम्य किंचिद्गच्छन्त्यावपश्यद्दमयन्हयम् ॥ KRT_4_0267cd
तुरगं तं समारुह्य तत्रागच्छद्दिने दिने । KRT_4_0268ab
दृष्ट्वा तथैव ते कान्ते गत्वापृच्छत्सविस्मयः ॥ KRT_4_0268cd
तमूचतुस्ते नर्तक्यावाचां देव1गृहाश्रिते । KRT_4_0269ab
यः शूरवर्धमानोयं ग्रामस्तत्रावयोर्गृहम् ॥ KRT_4_0269cd
इहत्यजीवनभुजां मातॄणामुपदेशतः । KRT_4_0270ab
अस्मत्कुलेन1 नियतं नृत्तमत्र2 विधीयते ॥ KRT_4_0270cd
रूढिः परंपरायाता सेयमस्मद्गृहे स्थिता । KRT_4_0271ab
आवामन्योपि वा नात्र निमित्तं ज्ञातुमीश्वरः ॥ KRT_4_0271cd
एवं वचस्तयोः श्रुत्वा नृपोन्येद्युः सविस्मयः । KRT_4_0272ab
तदुक्त्या1 मेदिनीं कृत्स्नां2 कारुभिर्निरदारयत् ॥ KRT_4_0272cd
दूरं1 निर्हृतमृद्भिस्तैरथाद्राक्षीन्निवेदितम् । KRT_4_0273ab
नृपतिः पिहितद्वारं जीर्णं देवगृहद्वयम् ॥ KRT_4_0273cd
उद्घाटिताररिर्वर्णैः1 पीठोत्कीर्णैर्निवेदितौ । KRT_4_0274ab
अपश्यत्केशवौ तत्र रामलक्ष्मणनिर्मितौ ॥ KRT_4_0274cd
परिहासहरेः पार्श्वे पृथक्कृत्वा शिलागृहम् । KRT_4_0275ab
स रामस्वामिनः श्रीमान्प्रतिष्ठाकर्म निर्ममे ॥ KRT_4_0275cd
देवोपि लक्ष्मणस्वामी तथैवाभ्यर्थ्य पार्थिवम् । KRT_4_0276ab
चक्रमर्गिकया चक्रेश्वरपार्श्वे निवेशितः ॥ KRT_4_0276cd
दिग्जये पुरुषः कश्चिद्वृत्तप्रत्यग्रनिग्रहः । KRT_4_0277ab
अग्रे न्यक्षिपदात्मानं गजारूढस्य भूभुजः ॥ KRT_4_0277cd
तं कृत्तपाणिघ्राणादिब्रणैः शोणितवर्षिणम् । KRT_4_0278ab
त्राणार्थिनं कारुणिकः स्वोदन्तं पृष्टवान्नृपः ॥ KRT_4_0278cd
स तस्मै सिकतासिन्धुसविधस्थस्य भूपतेः । KRT_4_0279ab
प्रख्यातमूचे सचिवमात्मान1ं हितकारिणम् ॥ KRT_4_0279cd
प्रणतिर्ललितादित्यनृपतेः क्रियतामिति । KRT_4_0280ab
1हितं कथयतः स्वस्य निग्रहं च ततो नृपात् ॥ युग्मम् ॥ KRT_4_0280cd
प्रतिजज्ञे च भूपेन ततस्तत्स्वामिनिग्रहः । KRT_4_0281ab
रूढव्रणोगदंकारैः स चाकार्यत सत्कृतैः ॥ KRT_4_0281cd
ततो विहितयात्रं तं स मन्त्री कृतसत्क्रियः । KRT_4_0282ab
कदाचिदेवमवदद्विहने1 जगतीभुजम् ॥ KRT_4_0282cd
एवंविधस्य कायस्य राजन्यत्परिरक्षणम् । KRT_4_0283ab
तत्र वैरविशुद्ध्याशा विडम्बयति गामियम् ॥ KRT_4_0283cd
बाष्पैर्जलाञ्जलिं दत्त्वा दुःखाय च सुखाय च । KRT_4_0284ab
कृतकृत्यो ध्रुवं जह्मा1मवमानहतानसून् ॥ KRT_4_0284cd
अपकृत्याधिकं शत्रोरपकारं जयेन्मितम् । KRT_4_0285ab
गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः ॥ KRT_4_0285cd
इतो मासैस्त्रिभिर्गम्या भूः प्राप्या त्वरितं कथम् । KRT_4_0286ab
यदा वा प्राप्यते वैरी तदा तत्रैव किं वसेत् ॥ KRT_4_0286cd
मासार्धलङ्घ्यं पन्थानं तस्मादुपदिशामि ते । KRT_4_0287ab
गृहीता स1 जलं गम्यश्चमूनां किं तु निर्जलः ॥ KRT_4_0287cd
तद्भूमिजा बन्धवो मे न वक्ष्यन्ति तवदागमम् । KRT_4_0288ab
सामात्यान्तःपुरो राजा छद्मनानेन गृह्यते ॥ KRT_4_0288cd

231.

--1) Thus corr. by A3 from A1 यस्य.

263.

--1) Thus emended with Edd. A1 ॰स्कन्द॰.

--2) Thus A1; A3 सूचकैर्यस्य.

270.

--1)

--2) A4 glosses अस्मत्कुलजेन and देवगृहे.

272.

--1) Thus corr. by A1 from तदुक्तौ; A3 ॰क्तां.

--2) Thus A3; A1 कृच्छ्रां.

273.

--1) Thus A1; altered by later hand to दूरनि.

274.

--1) A1 gloss अक्षरैः.

279.

--1) Thus corr. by A3v from A1 ॰नाख्यातं.

280.

--1) A4 gloss ललितादित्याय प्रणमं कुर्विति मदुक्तं हितमहितं श्रुत्वा तेन राज्ञा मम कर्णनासादयोवयवाः कृत्ताः.

282.

--1) Thus A3; A1 ॰द्विजेन.

284.

--1) Thus A3; A1 जह्नाद॰.

287.

--1) A3 gloss पन्थाः.

[page 54]




इत्युक्त्वा सोकरोत्तस्य प्रवेशं बालुकार्णवे । KRT_4_0289ab
पक्षे क्षीणे च कटको निस्तोयः समपद्यत ॥ KRT_4_0289cd
तत्राप्यहानि द्वित्राणि वहन्नेवाभवन्नृपः । KRT_4_0290ab
तृणार्तं वीक्ष्य सैन्यं च मन्त्रिणं तमभाषत ॥ KRT_4_0290cd
उक्तकालाधिका यावद्वासरा गमिताः पथि । KRT_4_0291ab
मुमूर्षु तृष्णया सैन्यम् तदध्वा शिष्यते कियान् ॥ KRT_4_0291cd
ततो विहस्य सोवादीज्जिगीषो शेषमध्वनः । KRT_4_0292ab
किं पृच्छत्यरिराष्ट्रस्य यमराष्ट्रस्य वा भवान् ॥ KRT_4_0292cd
त्वं हि स्वामिहितायैव समुपेक्ष्य स्वजीवितम् । KRT_4_0293ab
मृत्युवक्त्रं सकटको मया युक्त्या प्रविशितः ॥ KRT_4_0293cd
नेदं मरुमंहीमात्रं भीमोयं बालुकार्णवः । KRT_4_0294ab
नाम्भोत्र लभ्यते क्वापि कस्त्राता तेद्य भूपते ॥ KRT_4_0294cd
श्रुत्वेति पृतना कृत्स्ना समभूद्वीतसौष्ठवा । KRT_4_0295ab
करकाभ्रं1शितफला स्तम्भशेषेव शालिभूः ॥ KRT_4_0295cd
संत्यक्तजीविताशानां भीरूणां क्रन्दितध्वनिम् । KRT_4_0296ab
भुजमुद्यम्य शमयंस्ततो नृपतिरब्रवीत् ॥ KRT_4_0296cd
अमात्य तव कृत्येन प्रीताः स्वामिहितैषिणः । KRT_4_0297ab
मरावप्यत्र शीतार्ता इव रोमाञ्चिता वयम् ॥ KRT_4_0297cd
अभेद्यसारे मयि तु व्यक्तमेवंविधोपि ते1 KRT_4_0298ab
प्रयासः2 कुण्ठतां यातो लोहं वज्रमणाविव ॥ KRT_4_0298cd
मणिभ्रमाद्वह्नि1कणं गृह्णन्दग्धा इवाङ्गुलीः । KRT_4_0299ab
त्वं मिथ्यावयवांल्लूनानद्य शोचिष्यसि ध्रुवम् ॥ KRT_4_0299cd
निदेशेनै1व मे पश्य पयः सूतेद्य मेदिनी । KRT_4_0300ab
रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ॥ KRT_4_0300cd
इत्युक्त्वा सोम्बु निष्क्रष्टुं कुन्तेनोर्वीं व्यदारयत् । KRT_4_0301ab
उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ KRT_4_0301cd
अथोज्जगाम पाताललक्ष्मीलीलस्मितच्छविः । KRT_4_0302ab
रसातलात्सरित्साकं सैन्यानां जीविताशया ॥ KRT_4_0302cd
तस्य सेनाचराणां सा क्लमं चिच्छेद वाहिनी । KRT_4_0303ab
वृथाव्ययीकृताङ्गस्य मन्त्रिणस्तस्य चेप्सितम् ॥ KRT_4_0303cd
लूनाङ्गोमङ्गलाशंसी स मन्त्री विफलश्रमः । KRT_4_0304ab
स्वस्य भर्तुर्विवेशादौ नगरीमन्तक्रस्त1तः ॥ KRT_4_0304cd
राञ्जापि कुटिलाचारो निगृह्य स महीपतिः । KRT_4_0305ab
निजस्य मन्त्रिणस्तस्य तुल्यावस्थो व्यधीयत ॥ KRT_4_0305cd
यथोपयोगं तेनैव स्थाने स्थाने प्रवर्तितः । KRT_4_0306ab
अद्यापि कुन्तवाहिन्यः प्रवहन्त्युत्तरापथे ॥ KRT_4_0306cd
सहस्रशः संभवन्तोप्यपरे भुवनाद्भुताः । KRT_4_0307ab
अतिप्रसङ्गभङ्गेन तद्वृत्तान्ता न दर्शिताः ॥ KRT_4_0307cd
यन्निःशब्दजला घनाश्मपरुषे देशेतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसंदूषिताः । KRT_4_0308ab
दृश्यन्ते कुलनिम्नगा अपि परं दिग्देश1कालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥ KRT_4_0308cd
कलेर्वायं प्रभावः स्यान्नरनाथासनस्य वा । KRT_4_0309ab
यत्सोपिo भीमकलुषाः प्रवृत्तीः समदर्शयत् ॥ युग्मम्॥ KRT_4_0309cd
अवरोधसखो राजा परिहासपुरे स्थितः । KRT_4_0310ab
स जातु मदिराक्षीव सचिवानेवमन्वशात् ॥ KRT_4_0310cd
कृतं प्रवरसेनेन यदेतत्प्रवरं पुरम् । KRT_4_0311ab
तन्निर्दहथ मन्यध्वे मत्पुरस्येव1 चेच्छ्रियम् ॥ KRT_4_0311cd
घोरामलङ्घिताज्ञस्य श्रुत्वेत्याज्ञां महीपतेः । KRT_4_0312ab
गत्वाश्व1घासकूटानि तेदहन्वातुलानके । KRT_4_0312cd
हर्म्याग्राद्वीक्षमाणस्तद्वह्निज्वालोज्ज्वलाननः । KRT_4_0313ab
उल्कामुख इवाभूत्स हर्षाट्टहाससितोत्कटः ॥ KRT_4_0313cd
द्वेषादिवैकृतवतः प्रतिभासतेन्यो मिथ्यैव चित्रमधिको विशदात्मनोपि । KRT_4_0314ab
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥ KRT_4_0314cd

295.

--1) A3 gloss दुष्टवर्षणं.

298.

--1) Thus corr. by A3; A2 ॰मेवोविधोपि तु.

--2) Thus A3; A1 प्रयोगः.

299.

--1) Thus corr. by A3 from A2 वज्जकणं.

300.

--1) Thus Edd. and G sec. manu; A R and G prima manu दिनेशेनैव.

304.

--1) A4 gloss ललितादित्य एव यमः.

308.

--1) Thus corr. by A2 from A1 धिग्देश॰; A2 gloss दिशि देशः दिग्देशः स च कालश्च तौ.

311.

--1) Thus A1; A3 मत्पुरस्यैव.

312.

--1) Thus corr. by A3 from A1 गत्वाशुघास॰.

[page 55]




नैवं चेदेकमपि तत्पुरं प्रवरभूपतेः । KRT_4_0315ab
असख्यपुरनिर्माता स विवेदाधिकं कुतः ॥ युग्मम्॥ KRT_4_0315cd
क्षीणक्षैव्योथ निर्ध्याय नगरप्लोषकिल्विषम् । KRT_4_0316ab
उष्णनिःश्वाससुहृदा पस्पर्शेनुशयाग्निना ॥ KRT_4_0316cd
नत्कुर्वतेन्तःसुषिरा1 गूढं2 येनातनुक्षयम्3 KRT_4_0317ab
दह्यन्ते4 जीर्णतरवः कोटरस्थानला इव ॥ KRT_4_0317cd
प्रातस्तमथ शोचन्तं सदुःखं वीक्ष्य मन्त्रिणः । KRT_4_0318ab
चिन्तानिवर्तनायोचुः पुरप्लोषं मृषैव तत् ॥ KRT_4_0318cd
श्रुतेप्रनष्टे नगरे निःशोकोभून्महीपतिः । KRT_4_0319ab
स्वप्रान्तर्हारिते पुत्रे प्रबुद्धोग्र इव स्थिते ॥ KRT_4_0319cd
कार्यं न जातु तद्वाक्यं यत्क्षीवेन मयोच्यते । KRT_4_0320ab
तान्युक्तकारिणोमात्यान्प्रशंसन्निति सोब्रवीत् ॥ KRT_4_0320cd
प्रियमनुचितं क्ष्मापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । KRT_4_0321ab
नृपमपथगं पान्ति प्रानानुपेक्ष्य निजामपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ KRT_4_0321cd
अतीन्द्रमपि माहात्म्यं राज्ञस्तस्याध्तिष्ठतः । KRT_4_0322ab
अयमन्योपि दोषोभूदितरक्षितिपोचितः ॥ KRT_4_0322cd
दत्त्वापि यत्स मध्यस्थं श्रीपरीहासकेशवम् । KRT_4_0323ab
जघान तीक्ष्णपुरुषैस्त्रिग्राम्यां गौडपार्थिवम् ॥ KRT_4_0323cd
गौडोपजीविनामासीत्सत्त्वमत्यद्भुतं तदा । KRT_4_0324ab
जहुर्ये जीवितं धीराः परोक्षस्य प्रभोः कृते ॥ KRT_4_0324cd
शारदादर्शनमिषात्कश्मीरान्संप्रविश्य ते । KRT_4_0325ab
मध्यस्थदेवावसथं संहताः समवेष्टयन् ॥ KRT_4_0325cd
दिगन्तरस्थे भूपाले प्रविवेक्षूनवेक्ष्य तान् । KRT_4_0326ab
परिहासहरिं चक्रुः पूजकाः पिहिताaरिम् । KRT_4_0326cd
ते रामस्वामिनं प्राप्य राजतं विक्रमोर्जिताः । KRT_4_0327ab
परिहासहरिभ्रान्त्या चक्रुरुत्पाद्य रेणुशः ॥ KRT_4_0327cd
तिलम् तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्वतः । KRT_4_0328ab
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥ KRT_4_0328cd
श्यामला रक्तसंसिक्तास्तेपतन्निहता भुवि । KRT_4_0329ab
अञ्जनाद्रिदृषत्खण्डा धातुस्यन्दोज्ज्वला इव ॥ KRT_4_0329cd
तदीयरुधिरासारैः समभूदुज्ज्वलीकृता । KRT_4_0330ab
स्वामिभक्तिरसामान्या धन्या चेयं वसुंधरा ॥ KRT_4_0330cd
वज्राद्वज्रकृतं भयं विरमति श्रीः पद्मरागाद्भवेन्नानाकारमपि प्रशसम्यति विषं गारुत्मतादश्मनः । KRT_4_0331ab
एकैकं क्रियते प्रभावनियमात्कर्मेति1 रत्नैः परं पुंरत्नैः पुनरप्र2मेयमहिमोन्नद्धरिन किं साध्यते ॥ KRT_4_0331cd
क्वदीर्घकाललङ्घ्योध्वा शान्ते भक्तिः क्व च प्रभौ । KRT_4_0332ab
विधातुरप्यसाध्यं तद्यद्गौडैर्विहितं तदा ॥ KRT_4_0332cd
लोकोत्तर1स्वामिभक्तिप्रभावाणि पदे पदे । KRT_4_0333ab
तादृशानि तदाभूवन्भृत्यरत्नानि भूभृताम् । KRT_4_0333cd
राज्ञः प्रियो रक्षितोभूद्गौडराक्षसविप्लवे । KRT_4_0334ab
रामस्वाम्युपहारेण श्रीपरीहासकेशवः ॥ KRT_4_0334cd
अद्यापि दृश्यते शून्यं रामस्वामिपुरास्पदम् । KRT_4_0335ab
ब्रह्माण्डं गौडवीराणां सनाथम् यशसा पुनः ॥ KRT_4_0335cd
एवं नानाविधोदन्तैर्वासराः क्ष्मापतेर्ययुः । KRT_4_0336ab
विरलाः स्वपुरे तस्य भूयांसस्तु दिगन्तरे ॥ KRT_4_0336cd
अनन्याक्रा1न्तपृथिवीसमालोकनकौतुकी । KRT_4_0337ab
अपारं प्रविवेशाथ पुनरेवोत्तरापथम् ॥ KRT_4_0337cd
कर्तुं प्रभावजिज्ञासां प्रहितैर्धनदादिभिः । KRT_4_0338ab
नैरृतैः सह वृत्तान्तास्तस्य ते ते तदाभवमन् ॥ KRT_4_0338cd
नाद्यापि या भुवो दृष्टा जाने भानुकरैरपि । KRT_4_0339ab
राज्ञस्तस्य बभूवाज्ञा तत्र1 स्वैरविहारिणी ॥ KRT_4_0339cd
चिरमज्ञातवृत्तान्तैर्मन्त्रिभिः प्रहितस्तनः । KRT_4_0340ab
प्रत्यावृत्तस्तस्य पार्श्वाद्दूतस्तानेवमुक्तवान् ॥ KRT_4_0340cd

327.

--1) A3 gloss अन्तश्छिद्राः.

--2) A3 gloss मध्ये एव.

--3) A3 gloss क्रियाविशेषणम्.

--4) A3 gloss कर्मकर्तरि लकारः स्वयमेव दह्यन्ते । अन्तश्छिद्राः पुरुषास्तत्कार्यं कुर्वते । येन कार्येण अतनुक्षयं यथा भवति तथा स्वयमेव दह्यन्ते । यथा कोटस्थाग्रयस्तरवस्वयमेव गूढं अन्तरेव दह्यन्ते ॥.

331.

--1) Thus corr. by A3 from A1 कर्माति॰.

--2) Thus corr. by A3 from A1 परम॰.

333.

--1) supplied by A3.

337.

--1) Thus corr. A3 from A1 अनन्यक्रा॰.

339.

A3 तासु.

[page 56]




इत्यादिशति वः स्वामी कोयम् मोहो भवादृशाम् । KRT_4_0341ab
क्ष्मामिमाम् मे प्रविष्ठस्य प्र1तीक्षध्वे यदागमम् ॥ KRT_4_0341cd
नवं नवं प्रतिदिनं संत्यज्य विजयार्जनम् । KRT_4_0342ab
स्वराष्ट्रं संप्रविष्टस्य किं कार्यं माम् पश्यथ ॥ KRT_4_0342cd
विनिर्गतानां स्वभुवः सरितां सलिलाकरः । KRT_4_0343ab
न निर्व्याज1जिगीषूणां दृश्यते ह्यवधिः क्वचित् ॥ KRT_4_0343cd
तस्मादाचारसारं वो वक्ष्ये स्वविषयोचितम् । KRT_4_0344ab
राज्यं तदनुसारेण निर्विघ्नं कुरुतानघाः ॥ KRT_4_0344cd
अत्रस्थैः सर्वदा स्वभेदः प्रभविष्णुभिः । KRT_4_0345ab
चार्वाकाणामिवैषां हि भयं न परलोकतः ॥ KRT_4_0345cd
अपराधं विनाप्यत्र दण्ड्या गह्वरवासिनः । KRT_4_0346ab
ते हि संभृतवित्ताः स्युर्दुर्भेद्या1 दुर्गसंश्रयाः ॥ KRT_4_0346cd
वर्षोपभोग्यान्यन्नानि क्षेत्रभूसंमिता वृषाः । KRT_4_0347ab
ग्राम्याणां नातिरिच्यन्ते यथा कार्यं तथासकृत् ॥ KRT_4_0347cd
श्रधिकीभूतवित्ता हि वत्सरेणैव ते भृशम् । KRT_4_0348ab
भवेयुर्डामराः क्रूरा नृपाज्ञातिक्रमक्षमाः ॥ KRT_4_0348cd
वस्त्रं स्त्रियः कुथा भोज्यमलंकारा हया गृहाः । KRT_4_0349ab
आसाद्यन्ते यदा जातु ग्रामीणैर्नगरोचिताः ॥ KRT_4_0349cd
मदाद्दुर्गाण्युपेक्ष्यन्ते संरक्ष्याणि यदा नृपैः । KRT_4_0350ab
यदा चानन्तरज्ञत्वं तेषां भृत्येषु दृश्यते ॥ KRT_4_0350cd
प्रदेशादेकतो रूढा यदा वृत्तिश्च शस्त्रिणाम् । KRT_4_0351ab
अन्योन्योद्वाहसंबन्धैः कायस्थाः संहता यदि ॥ KRT_4_0351cd
कर्मस्थानानि वीक्षन्ते क्ष्मापाः कायस्थवद्यदा । KRT_4_0352ab
तदा निःसंशयं ज्ञेयः प्रजाभाग्यविपर्ययः ॥ चक्कलकम्॥ KRT_4_0352cd
चेष्टानुसारेणोन्नीय गूढमाशयसंविदम् । KRT_4_0353ab
मयोक्तं हृदये कार्यमन्तरं राजवीजिनाम् ॥ KRT_4_0353cd
प्रत्यासत्तिं मदकरटिनो1 दानगन्धेन वायुर्गर्जोद्भूतिं प्रकटितरुचिश्चञ्जलैवाम्बुदस्य । KRT_4_0354ab
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्या जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥ KRT_4_0354cd
पुत्रः कुवलयादित्यो वज्रादित्यश्च मे समौ । KRT_4_0355ab
भिन्नशीला तयोर्भ्रात्रोर्धीर्द्विमातुरयोः पुनः ॥ KRT_4_0355cd
ज्यायान्रा1ज्येभिषेक्तव्यः2 स च स्याद्बलवान्यदा । KRT_4_0356ab
तस्याज्ञातिक्रमः कार्यो भवद्भिर्नियमात्तदा ॥ KRT_4_0356cd
उत्सृजञ्जीवितं वापि राज्यं वापि स पार्थिवः । KRT_4_0357ab
शोचनीयो न केनापि स्मरतेदं वचो मम ॥ KRT_4_0357cd
कार्यः कनीयान्न नृपः प्रमादात्क्रियते यदि । KRT_4_0358ab
नोल्लङ्घनीया तस्याज्ञा रक्ष्यश्च विषमोपि सः ॥ KRT_4_0358cd
पौत्रेषु मे कनीयान्यो जयापीडोस्मि दारकः । KRT_4_0359ab
पितामहसमो भूया इति वाच्यः स सर्वदा ॥ KRT_4_0359cd
भर्तुर्गृहीतनैराश्याः साभिप्रायां प्रणम्य ताम् । KRT_4_0360ab
आनर्चुः प्रश्चिमामाज्ञां ते बाष्पार्धकणत्यजः ॥ KRT_4_0360cd
उवाच चङ्कुणो जातु संनिपत्याखिलाः प्रजाः । KRT_4_0361ab
बाष्पैः पतिवियोगाग्नितप्तां सिञ्चन्वसुंधराम् ॥ KRT_4_0361cd
राज्ये कुवलापीडो राजपुत्रोभिषिच्यताम् । KRT_4_0362ab
सुगृहीताभिधो राजा गतः स सुकृती दिवम् ॥ KRT_4_0362cd
ससृजे यस्य कृतिनो दैवतैह् कोशवृद्धये । KRT_4_0363ab
रससिद्धिरकस्मान्मे यस्मात्सास्तमुपागता ॥ KRT_4_0363cd
दूरस्थोपि हि भूभृत्स भाग्यशक्त्या कयाचन । KRT_4_0364ab
कार्याणि घटयन्नासीद्दुर्घटान्यपि हेलया ॥ KRT_4_0364cd
अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमान्दूरस्थोपि पयोधरोतिशिशिरस्पर्शं करोत्यातपम् । KRT_4_0365ab
शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठ्यान्यहो यन्माहात्मयवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम्1 KRT_4_0365cd
सैकादशदिनान्सप्त मासान्षट्त्रिंशतं समाः । KRT_4_0366ab
एवमाह्लाद्य स महीं प्रजाचन्द्रोस्तमाययौ ॥ KRT_4_0366cd

341.

--1) The words from प्रतीक्ष्यध्वे to संप्रविष्टस्य in the following verse have been omitted by A1 and supplied in margin by A3.

343.

--1) Thus corr. by later hand from A1 निर्व्याजं.

346.

--1) Thus A1; altered by later hand to दुर्भेदा which is found in R G.

354.

--1) A3 gloss करटी हस्ती.

356.

--1) A4 gloss कुवलयापीडः.

--2) Emended; A षिक्तव्यः.

365.

--1) Thus corr. by A3 from A1 ॰यन्त्रणम्.

[page 57]




तुषारवर्षैर्वेहलैस्तमकाण्डनिपातिभिः । KRT_4_0367ab
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे ॥ KRT_4_0367cd
राजप्रष्टां1 प्रित्ष्ठां स सक्षितुं चिरसंचिताम् । KRT_4_0368ab
संकटे क्वापि दहनं प्राविक्षदिति केचन ॥ KRT_4_0368cd
केषांचित्तु मते भूभृद्दवीयस्युत्तरापथे । KRT_4_0369ab
सोमर्त्यसुलभां भूमिं प्रविष्टः कटकान्वितः ॥ KRT_4_0369cd
अत्यद्भुतानि कृत्यानि श्रुतान्यस्य यथा किल । KRT_4_0370ab
विपत्तिरपि भुयुभर्तुस्तथैवात्यद्भुता श्रुता ॥ KRT_4_0370cd
यातोस्तं द्युमणिः पयोधिसलिलं कैश्चित्प्रविष्टोपरैः संप्राप्तो दहनं गतः किल परैर्लोकान्तरं कीर्त्यते । KRT_4_0371ab
जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि ॥ KRT_4_0371cd
ततः कुवलयापीडो भेजे कुवलये1शताम् । KRT_4_0372ab
जातः कमलदेव्या यः श्रीमाज्शक्र इवादितेः ॥ KRT_4_0372cd
त्यागेन चक्रे विशदाम् योनुरक्तां नृपश्रियम् । KRT_4_0373ab
महोरगस्त्वचमिव स्वभावमलिनामपि ॥ KRT_4_0373cd
भ्रात्रा तुल्यप्रभावेण कंचित्कालं हृतप्रभः । KRT_4_0374ab
स हुताशोष्मणाक्रान्तः प्रदीप इव नारुचत् ॥ KRT_4_0374cd
भृङ्गैरिवानुगैर्दानलोभात्पर्यायवृत्तिभिः । KRT_4_0375ab
श्रीदुःस्थाभूत्तयोरन्तर्मत्तेभकटयोरिव ॥ KRT_4_0375cd
अथोभयधनादायिभृत्यचक्रिकया1 समम् । KRT_4_0376ab
राजा कुवलयापीडो बभञ्जानुजमञ्जसा ॥ KRT_4_0376cd
राज्यं निष्कण्टकं कृत्वा ततः प्राप्तबलो नृपः । KRT_4_0377ab
दिग्जयायोर्जितक्रान्तिः सोभूत्संभृतसाधनः ॥ KRT_4_0377cd
एकस्तस्मिन्क्षणे मन्त्री तस्याज्ञामुदलङ्घयत् । KRT_4_0378ab
स्मरन्वा तत्पितुर्वाचं भजन्वा दर्पविक्रियाम् ॥ KRT_4_0378cd
प्राप्तायामथ यामिन्यां तल्पे कोपाकुलो नृपः । KRT_4_0379ab
तमाज्ञातिक्रमं धायन्न निद्रां क्षणमप्यगात् ॥ KRT_4_0379cd
1वं कृतागसं हन्तुं सस्पृहस्य तदाश्रयात् । KRT_4_0380ab
बहवः प्रत्यभासन्त वध्यास्तस्योद्यतक्रुधः ॥ KRT_4_0380cd
विचारशैaल्मथिता तस्य चित्तमहोदधेः । KRT_4_0381ab
प्रकोपकालकूटस्य पश्चाच्छमसुधोदगात् ॥ KRT_4_0381cd
दध्यौ सोथ गतक्रोधः प्रवृद्धः प्राणिसंक्षयः । KRT_4_0382ab
एतावान्कस्य नु कृते कर्तव्यः प्रत्यभान्मम ॥ KRT_4_0382cd
अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् । KRT_4_0383ab
विधीयते हितं यस्य स1 देहः कस्य सुस्थिरः ॥ KRT_4_0383cd
कृतघ्नस्यास्य कायस्य हेतोरगलितस्मृतेः । KRT_4_0384ab
हन्तव्याः कस्य पन्थानः प्रतिभान्त्यनपायिनः ॥ KRT_4_0384cd
विदन्ति जन्तवो हन्त पश्यमानस्य नात्मनः । KRT_4_0385ab
अवस्थां कालसूदेन कृतां तां तां क्षणे क्षणे ॥ KRT_4_0385cd
ह्यः पश्यद्भिरकारणस्मितसितं पाथोजकोशाकृति श्मश्रूद्भेद1कठोरमद्य रभसादुत्तप्तताम्रप्रभम् । KRT_4_0386ab
प्रातर्जीर्णवलक्षकेशविकृतं वृद्धाजशीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायुभिः ॥ KRT_4_0386cd
इत्याद्यनित्यताचिन्तादत्तशान्तिसुखादरः । KRT_4_0387ab
राज्यं संत्यज्य स वनं प्लक्षप्रस्रवणं1 ययौ ॥ KRT_4_0387cd
गच्छ भद्र वनायैव तपस्याधीयतां मनः । KRT_4_0388ab
सापायाः क्षणभङ्गिन्य एवंप्राया विभूतयः ॥ KRT_4_0388cd
तेन संत्यजता राज्यं लिखितेन निजासने । KRT_4_0389ab
वैराग्यवासनोत्सेकः श्लोकेनानेन सूचितः ॥ KRT_4_0389cd
अभग्नशमसंवेगलब्धसिद्धिर्नराधिपः । KRT_4_0390ab
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥ KRT_4_0390cd
तथा याते पुत्रे मित्रशर्मा1 शुचान्वितः । KRT_4_0391ab
वितस्तासिन्धुसम्भेदे सभार्यो जीवितं जहौ । KRT_4_0391cd
राज्यं समां समासार्धां कृत्वा स वसुधाधिपः । KRT_4_0392ab
निःश्रेय्तसाप्तिनिःश्रेणीं सुधीः सिद्धिं समासदत् ॥ KRT_4_0392cd

368.

--1) Thus A1; A3 ॰प्रष्ठः.

371.

--1) Thus corr. by A3 from A1 परो॰.

372.

--1) Thus corr. by A2 from A1 भूवलयो॰; A2 adds the gloss को भूमेः वलयः कुवलयः.

376.

--1) A चिक्कि॰.

380.

--1) This and the following verse have been omitted by A1 and supplied in margin A3.

383.

--1) A3 देहं तत्कस्य सुस्थिरम्.

386.

--1) Thus A3; A1 श्मश्रूद्बोध॰.

387.

--1) A4 gloss मन्त्री.

[page 58]




वज्रादित्यो बप्पियको ललिताधित्य1 इत्यपि । KRT_4_0393ab
ख्यातोथ भूभृदभवद्यन्माता चक्रमर्दिका ॥ KRT_4_0393cd
स क्रूरचरितो भ्रातुः प्रहाज्लादविधायिनः । KRT_4_0394ab
सुधांशोरिव दुर्वासा नूनं1 विसदृशोभवत् ॥ KRT_4_0394cd
परिहासपुरात्पित्र्यां नानोपकरणावलीम् । KRT_4_0395ab
स जहार दुराचारो भूभृल्लोभवशंवदः ॥ KRT_4_0395cd
रागिणो भूमिपालस्य भूयस्योन्तःपरस्त्रियः । KRT_4_0396ab
बीजाश्वस्येव बडवास्तास्ताः समभवन्प्रियाः ॥ KRT_4_0396cd
विक्रयेण प्रयच्छन्स म्लेच्छेभ्यः प्रुरुषान्बहून् । KRT_4_0397ab
म्लेच्छोचिताम् व्यवहृतिं प्रावर्तयत मण्डले ॥ KRT_4_0397cd
सप्ताब्दान्वसुधाम् भुक्त्वा सोतिसंभोगजन्मना । KRT_4_0398ab
जगाम संक्षयं क्ष्माभृत्क्षयरोगेण किल्विषी ॥ KRT_4_0398cd
तस्मान्मञ्जरिकादेव्यां जातो राजा प्रजान्तकः । KRT_4_0399ab
ततः पृथिव्यापीडोभूत्समासाश्चतुरः समाः ॥ KRT_4_0399cd
जातो मम्माभिधानायां राज्यं नैव व्यराजत । KRT_4_0400ab
संग्रामापीडनामाथ तमुत्पाद्याभवन्नृपः ॥ KRT_4_0400cd
भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत । KRT_4_0401ab
हेमन्तशिशिरावाप्य चण्डांशोरिव मण्डलम् ॥ KRT_4_0401cd
शान्तेथ संग्रामापीडे कनीयान्बप्पियात्मजः । KRT_4_0402ab
राजा श्रीमाञ्जयापीडः प्राप राज्यं ततः क्रमात् ॥ KRT_4_0402cd
पितामहसमो भूयादित्यमात्यवचः स्मरन् । KRT_4_0403ab
जिगीषुः संभृतबलो दिग्जयाय स निर्ययौ ॥ KRT_4_0403cd
स्वदेशादेव नयविद्वशं नीतैः समं नृपैः । KRT_4_0404ab
वृद्धान्पप्रच्छ निर्गच्छन्कश्मीरद्वारगोचरान् ॥ KRT_4_0404cd
पितामहस्य नः सैन्यं कियन्निर्गच्छतोभवत् । KRT_4_0405ab
इति ब्रूताद्य यात्रासु यूयं संख्यातसैनिकाः ॥ KRT_4_0405cd
कृतस्मितास्तमूचुस्ते किं प्रश्नेनामुना प्रभो । KRT_4_0406ab
वस्तु कश्चिदतिक्रान्तं नानुकर्तुं क्षमोधुना ॥ KRT_4_0406cd
कर्णीरथानां तस्यासीत्सपादं लक्षमीशितुः । KRT_4_0407ab
अशीतिस्तु सहस्राणि देवस्याद्य जयोद्यमे ॥ KRT_4_0407cd
तदाकर्ण्य जयापीडो बहु मेने न निर्जयम् । KRT_4_0408ab
क्षिप्रं क्षितेः संकुचन्त्याः कालस्य बलवत्तया ॥ KRT_4_0408cd
जिगीषोः क्ष्माभुजस्तस्य भावमालोक्य तादृशम् । KRT_4_0409ab
दधुर्भावज्ञताम् वृद्धा ललितादित्यभूपतेः ॥ KRT_4_0409cd
तस्य दूरप्रयातस्य स्यालो जज्जाभिधो बलात् । KRT_4_0410ab
द्रोहेणाक्रम्य कश्मीरान्स्वयं भेजे नृपासनम् ॥ KRT_4_0410cd
दिने दिने राजसैन्यात्स्वदेशस्मारिणस्ततः । KRT_4_0411ab
सैनिकाः संन्य1वर्तन्त स्वामिभक्तिप्राङ्मुखाः ॥ KRT_4_0411cd
प्रख्यापयिष्यन्स्वामेव शक्तिं परिकरं विना । KRT_4_0412ab
निश्चिकाय जयापीडो युक्तां कांचित्तु संविदम् ॥ KRT_4_0412cd
अभङ्गुरास्तेभिमानास्तस्यैवासन्मनस्विनः । KRT_4_0413ab
अत्यर्वर्तत यैरेष वैधात्रीरपि वामताः ॥ KRT_4_0413cd
स विसृज्य भुवं स्वाम् स्वाम् स मनोजवान् । KRT_4_0414ab
प्रयागमगमत्सैन्यैः परिमेयैर्निजैः समम् ॥ KRT_4_0414cd
तत्रावशिष्टानुच्चित्य वाजिनः स मनोजवान् । KRT_4_0415ab
द्विजेभ्यो लक्षमेकोनं प्रददौ भूरिदक्षिणम् ॥ KRT_4_0415cd
संपूर्णमन्यो लक्षं यः प्रदद्यादत्र वाजिनाम् । KRT_4_0416ab
तन्मुद्रयेयं मम्नुद्रा विनिवार्येत्युदीर्य च ॥ KRT_4_0416cd
श्रीजयापीडदेवस्येत्यक्षरैरुपलक्षिताम् । KRT_4_0417ab
दिग्देशगामिनो मुद्रां गाङ्गस्य पयसो ददौ ॥ KRT_4_0417cd
तन्मुद्राङ्कं पयः पीत्वा गाङ्गमद्यापि निर्मलम् । KRT_4_0418ab
चित्ते प्रवर्धते तापो भूपानामभिमानिनाम् ॥ KRT_4_0418cd
स्वदेशगम्नानुज्ञां सैन्यस्याप्तमुखेन1 सः । KRT_4_0419ab
दत्त्वा2 निशायामेकाकी निययौ कटकान्तरम् ॥ KRT_4_0419cd
मण्डलेषु नरेन्द्राणां पयोदानामिवार्यमा । KRT_4_0420ab
गौडराजाश्रयं गुप्तं जयन्ताख्येन भूभुजा ॥ KRT_4_0420cd
प्रविवेश क्रमेणाथ नगरं पौण्ड्रवर्धनम् । KRT_4_0421ab
यस्मिन्1सौराज्यरम्याभिः प्रीतः1 पौरविभूतिभिः ॥ KRT_4_0421cd

393.

--1) A3 ललितापीड.

394.

--1) A3 दूरं.

400.

--1) Thus A1 R G; वत्सरान्.

411.

--1) Thus A3; A1 स्वा न्यवर्तन्त.

419.

--1) Thus corr. by A3 from A1 ॰प्तसुक्योथ सः.

--2) Thus corr. by A3 from A1 कृत्वा(?).

422.

--1) Thus corr. by A3 from A1 तस्मि॰ and प्रीतिं.

[page 59]




लास्यं स द्रष्टुम1विशत्कार्तिकेयनिकेतनम् । KRT_4_0422ab
भरतानुगमा2लक्ष्यनृत्तगीतादिशास्त्रवित् ॥ KRT_4_0422cd
ततो देवगृहद्वारशिलामध्यास्त स क्षणम् ।1 KRT_4_0423ab
... ... ... ... ... ... ... ... ... ... ... ॥ KRT_4_0423cd
तेजोविशेषचकितैर्जनैः परिहृतान्तिकम् । KRT_4_0424ab
नर्तकी कमला नाम कान्तिमन्तं ददर्श तम् ॥ KRT_4_0424cd
असामान्याकृतेः पुंसः सा ददर्श सविस्मया । KRT_4_0425ab
अंसपृष्ठेन1 धावन्तं करं तस्यान्तरान्तरा ॥ KRT_4_0425cd
अचिन्तयत्ततो गूढं चरन्नेष भवेद्भुवम् । KRT_4_0426ab
राजा वा राजपुत्रो वा लोकोत्तरकुलोद्भवः ॥ KRT_4_0426cd
एवं1 महीतु2मभ्यासः पृष्ठस्थाः पर्णवीटिकाः । KRT_4_0427ab
अंसपृष्ठेन येनायं लसत्पाणि3ः प्रतिक्षणम् ॥ KRT_4_0427cd
लोलश्रोत्रपुटो मदोत्कमधुपापातात्ययोपि द्विपः सिंहोस1त्यपि पृष्ठतः करिकुले व्यावृत्य विप्रेक्षिता । KRT_4_0428ab
मेघौन्मुख्यशमेप्यशान्तवदनोद्गीर्णस्वरो बर्हिणश्चेष्टानां विरमेन्न हेतुविगमेप्यभ्यासदीर्घा स्थितिः ॥ KRT_4_0428cd
इत्यन्तश्चिन्तयन्ती सा कृत्वा संक्रान्तसंविदम् । KRT_4_0429ab
सखीमभिन्नहृदयां विससर्ज तदन्तिकम् ॥ KRT_4_0429cd
प्राग्वत्पृष्ठं गते पाणौ पूगख्ण्डांस्तयार्पितान् । KRT_4_0430ab
वक्त्रेक्षिपज्जयापीडः परिवृत्य ददर्श ताम् ॥ KRT_4_0430cd
भ्रूसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः । KRT_4_0431ab
ददत्या1 वीटिकास्तस्या वृत्तान्तमुपलब्धवान् ॥ KRT_4_0431cd
तथा जनितदाक्षिण्यतैस्तैर्मधुरभाषितैः । KRT_4_0432ab
सख्याः समाप्तनृत्ताया निन्ये स1 वसतिं शनैः ॥ KRT_4_0432cd
अग्राम्यपेशलालापा तथा तं सा विलासिनी । KRT_4_0433ab
उपाचरत्परार्ध्यश्रीः सोप्यभूद्विस्मितो यथा ॥ KRT_4_0433cd
ततः शशाङ्कधवले संजाते रजनीमुखे । KRT_4_0434ab
पाणिनालम्ब्य भ्रूपालं शय्यावेश्म विवेश सा ॥ KRT_4_0434cd
ततः काञ्चनपर्यङ्कशायी मैरेयमत्तया । KRT_4_0435ab
तथार्थितोपि शिथिलं विदधे नाधरांशुकम् ॥ KRT_4_0435cd
प्रवेशयन्निदं बृहद्वक्षस्ताम् सत्रपां ततः । KRT_4_0436ab
दीर्घबाहुः समाश्लिष्य स शनैर्दमब्रवीत् ॥ KRT_4_0436cd
न त्वं पद्मपलाशाक्षि न मे हृदयहारिणी । KRT_4_0437ab
किं तु कालानुरोधोयं सापराधं करोति माम् ॥ KRT_4_0437cd
दासस्तवायं कल्याणि गुणैः क्रीतोस्म्यकृत्रिमैः । KRT_4_0438ab
अचिराज्ज्ञातवृत्तान्ता ध्रुवं दाक्षिण्यमेष्यसि ॥ KRT_4_0438cd
कार्यशेषमनिष्पाद्य सज्जं मानिनि कंचन । KRT_4_0439ab
अभोगे कृतसंकल्पं सुखानां त्वमवेहि माम् ॥ KRT_4_0439cd
तामेवमुक्त्वा पर्यङ्कं साङ्गुलीयेन पाणिना । KRT_4_0440ab
वादयन्नि1व निःश्वस्य श्लोकमेतं पपाठ सः ॥ KRT_4_0440cd
असमाप्तिजिगीषस्य स्त्रीचिन्ता का मनस्विनः । KRT_4_0441ab
अनाक्रम्य जगत्कृत्स्नं1 नो संध्यां भजते रविः ॥ KRT_4_0441cd
श्लोकेनात्मगतं तेन पठितेन महीभुजा । KRT_4_0442ab
सा कलाकुशलाज्ञासीन्महान्तं कंचिदेव तम् ॥ KRT_4_0442cd
गन्तुकामं च तं प्रातर्नृपं प्रणयिनी बलात् । KRT_4_0443ab
अर्थयित्वा चिरं1 कालमप्रस्थानमयाचत ॥ KRT_4_0443cd
एकदा वन्दितुं संध्यां प्रयातः सरितस्तट1म् । KRT_4_0444ab
शिरायातो गृहं तस्या ददर्श भृशविह्वलम्2 KRT_4_0444cd
किमेतदिति पृष्टाय तमूचे सा शिचिस्मिता । KRT_4_0445ab
सिंहोत्र सुमहान्रात्रौ निपत्याहन्ति देहिनः ॥ KRT_4_0445cd
नरनागाश्वसंहारः कृतस्तेन दिने दिने । KRT_4_0446ab
त्वय्यभूवं चिरायाते तद्भयेन समाकुला ॥ KRT_4_0446cd
राजानो राजपुत्रा ता तद्भयेन विसूत्रिता । KRT_4_0447ab
गृहेभ्यो नात्र निर्यान्ति प्रवृत्ते क्षनादाक्षणे ॥ KRT_4_0447cd
तामिति ब्रुवतीं1 मुग्धां निषिध्य च विहस्य च । KRT_4_0448ab
सन्नीड इव तां रात्रिं जयापीडोत्यवाहयत् ॥ KRT_4_0448cd

422.

--1) द्रष्टु supplied by A3 in space left by A1.

--2) A3 gloss भरताचार्यकृतगीतशास्त्रसदृशं ज्ञात्वा.

423.

--1) Here two padas seem to be wanting.

425.

--1) Thus A1; A2 ॰पृष्ठेथ.

427.

--1) A3 नूनं.

--2) Emended; A गृहीतु॰.

--3) Thus corr. by A3 from A1 स्व.

440.

--1) Thus A3; A1 जगच्चित्रं.

443.

--1) A3 नितं.

444.

--1) A3 स सरित्तटम्.

--2) Thus A1; altered by later hand to ॰ह्वलाम्.

448.

--1) Thus corr. by later hand from A1 ब्रुवतां.

[page 60]




अपरेद्युर्दिनापाये निर्गतो नगरान्तरात् । KRT_4_0449ab
सिंहागमप्रतीक्षोभून्महावटतरोरधः ॥ KRT_4_0449cd
अदृश्यत ततो दूरादुत्फुल्लबकुलच्छविः । KRT_4_0450ab
अट्टहासः कृतान्तस्य संचारीव मृगाधिपः ॥ KRT_4_0450cd
अध्वनान्येन यान्तं तमथ मन्थरगामिनम् । KRT_4_0451ab
राजसिंहो1 नदसिंहं समाह्वयत हेलया ॥ KRT_4_0451cd
स्तब्धश्रोत्रे व्यात्तवक्त्रः कम्प्र1कूर्चः प्रदीप्तदृक् । KRT_4_0452ab
उदस्तपूर्वकायस्तं सर्गजः समुपाद्रवत् ॥ KRT_4_0452cd
तस्य न्यस्याननबिले कफोणिं पततः क्रुधा । KRT_4_0453ab
क्षिप्रकारी जयापीडो वक्षः क्षुरिकया1भिनत् ॥ KRT_4_0453cd
शोणितं जग्धगन्धेभसिन्दूराभं विमुञ्चता । KRT_4_0454ab
एकप्रहारभिन्नेन तेनात्यज्यत जीवितम् ॥ KRT_4_0454cd
आमुक्तव्रणपट्टः स कफोणिमथ गोपयन् । KRT_4_0455ab
प्रविश्य नर्तकीवेश्म निशि सुष्वाप पूर्ववत् ॥ KRT_4_0455cd
प्रभातायां विभवर्यां श्रुत्वा सिंहं हतं नृपः । KRT_4_0456ab
प्रहृष्टः कौतुकाद्द्रष्टुं जयन्ती निर्ययौ स्वयन् ॥ KRT_4_0456cd
स दृष्ट्वा तं महाकायमेकप्रहृतिसंहृतम् । KRT_4_0457ab
साश्चर्यो निश्चयान्मेने प्रहर्तारममानुषम् ॥ KRT_4_0457cd
तस्य दन्तान्तराल्लब्धं केयूरं पार्श्वगार्पितम् । KRT_4_0458ab
श्रीजयापीडनामाङ्कं ददर्शाथ सविस्मयः ॥ KRT_4_0458cd
स्यात्कुतोत्र स भूपाल इति ब्रुवति पार्थिवे । KRT_4_0459ab
जयापीडागमाशङ्कि पुरमासीद्भयाकुलम् ॥ KRT_4_0459cd
ततः पौरान्विमृश्यैवं जयन्तः क्षितिपोब्रवीत् । KRT_4_0460ab
प्रहर्षावसरे मूढाः कस्माद्वो भयसंभवः ॥ KRT_4_0460cd
श्रूयते हि जयापीडो राजा भुजबलोर्जितः । KRT_4_0461ab
केनापि हेतुना भ्राम्यन्नेकाक्येव दिगन्तरे ॥ KRT_4_0461cd
राजपुत्रः कल्लट इत्युक्ता कल्याणदेव्यसौ । KRT_4_0462ab
तस्मै नियमिता दातुं निष्पुत्रेण सता मया ॥ KRT_4_0462cd
सोन्वेष्यश्चेत्स्वयं प्राप्तस्तद्रत्नाहरणेच्छया1 KRT_4_0463ab
रत्नद्वीपं प्रतिष्ठासोर्निधानासादनं गृहात् ॥ KRT_4_0463cd
अस्मिन्नेव पुरे तेन भाव्यं भुवनशासिना । KRT_4_0464ab
ब्रूयादेनं समान्वेष्य योस्मै दद्यामभीप्सितम् ॥ KRT_4_0464cd
वाचि सप्रत्ययाः1 पौराः भूपतेः सत्यवादिनः । KRT_4_0465ab
अन्विष्य कमलावासवर्तिनं तं न्यवेदयन् ॥ KRT_4_0465cd
सामात्यान्तःपुरोभ्येत्य प्रयत्नेन प्रसाद्य तम् । KRT_4_0466ab
ततः स्ववेश्म नृपतिर्निनाय विहितोत्सवः ॥ KRT_4_0466cd
कल्याणदेव्यास्तेनाथ कल्याणाभिनिवेशिना । KRT_4_0467ab
राजलक्ष्म्या व्यपास्ताया इव सोजिग्रहत्करम् ॥ KRT_4_0467cd
व्यधाद्विनापि सामग्रीं तत्र शक्तिं प्रकाशयन् । KRT_4_0468ab
पञ्च गौडाधिपाञ्जित्वा श्वशुरं तदधीश्वरम् ॥ KRT_4_0468cd
गतशेषं1 प्रभुत्यक्तं सैन्यं संवाहयन्स्थितः । KRT_4_0469ab
मित्रशर्मात्मजो देवशर्मामात्यस्तमाययौ ॥ KRT_4_0469cd
निजदेशं प्रति ततः स प्रतस्थे तदर्थितः । KRT_4_0470ab
अग्रे जयश्रियं कुर्वन्पश्चात्तेथ सुलोचने1 KRT_4_0470cd
सिंहासनं जितादाजौ1 कन्यकुब्जमहीभुजः । KRT_4_0471ab
स राज्यककुदं राजा जहारोदारपौरुषः ॥ KRT_4_0471cd
तस्मिन्प्रविष्टे स्वभुवं स्फूर्जदूर्जितविक्रमे । KRT_4_0472ab
सैन्यैः समं समित्सज्जैर्जज्जो योद्धुं विनिर्ययौ ॥ KRT_4_0472cd
शुष्कलेत्राभिधे ग्रामे तेन सार्धं सुदा1रुणः । KRT_4_0473ab
जयापीडस्य संग्रामः सुबहूनि दिनान्यभूत् ॥ KRT_4_0473cd
अनुरक्तप्रजो राजा जज्जराज्यासहिष्णुभिः । KRT_4_0474ab
युधि सोन्वीयमानोभू1द्ग्राम्याटविकमण्डलैः ॥ KRT_4_0474cd
श्रीदेवो ग्रामचण्डालः प्राप्तो ग्राम्यैः समं युधि । KRT_4_0475ab
कोत्र जज्ज इति भ्राम्यन्योधान्पप्रच्छ सर्वतः ॥ KRT_4_0475cd
तृष्णार्तं स्वर्णभृङ्गारात्पिबन्तं वारि तस्य ते । KRT_4_0476ab
रणमध्ये हयारूढं तं दूरात्समदर्शयन् ॥ KRT_4_0476cd

451.

--1) Thus corr. by A3 from A1 ॰सिंहं.

452.

--1) Thus corr. by A3 from A1 कम्प॰.

453.

--1) A3 gloss खञ्जर्.

463.

--1) A2 gloss दृष्टान्तोयम्.

465.

--1) A4 gloss सविश्वासाः.

469.

--1) Thus A3; A1 ॰दादौ.

470.

--1) A4 gloss कमलानर्तकीं कल्याणदेवीं च.

471.

--1) Thus A3; A1 ॰दादौ.

474.

--1) Thus A3; A1 सोन्विष्यमानो.

[page 61]




भ्रमयन्क्षेपणीयं स क्षिप्त्वाश्मानं तदानने । KRT_4_0477ab
सोयं हतो मया जज्ज इत्यमोचक्रियोनदन् ॥ KRT_4_0477cd
सा1हायकाय राज्ञोहं यामीत्युक्त्वार्थिताशनः2 KRT_4_0478ab
मातुर्हसन्त्या जज्जस्य प्रतिज्ञायाययौ वधम् ॥ KRT_4_0478cd
अश्मसंरुग्ण1भीमास्यं मुमूर्षुं पतितं हयात् । KRT_4_0479ab
विवेष्टमानं मेदिन्यां जज्जं त्यक्त्वा ययुर्निजाः ॥ KRT_4_0479cd
स समर्थाहितापातचिन्तासततदुःस्थितः । KRT_4_0480ab
द्रोहार्जितेन1 राज्येन त्रिभिर्वर्षैर्व्ययुज्यत ॥ KRT_4_0480cd
न्यासापहाराद्वणिजां वेश्यानां कामिवञ्चनात् । KRT_4_0481ab
द्रोहाच्चोपनता1 राज्ञामस्थिरा एव संपदः ॥ KRT_4_0481cd
हते जज्जे जयापीडः प्रत्यावृत्य निजां श्रियम् । KRT_4_0482ab
जग्राह दोष्णा भूभारं कृत्येन च सतां मनः ॥ KRT_4_0482cd
प्रपेदे यत्र कल्याणं स विरोधिवधान्नृपः । KRT_4_0483ab
देशे कल्याणपुरकृत्तत्र कल्याणदेव्यभूत् ॥ KRT_4_0483cd
राजा मल्हाणपुर1कृच्चक्रे विपुल1केशवम् । KRT_4_0484ab
कमला सा3 स्वनाम्नापि कम्लाख्यं4 पुरं व्यधात् ॥ KRT_4_0484cd
महाप्रतीहारपीटा1धिकारं प्रतिपद्य सः । KRT_4_0485ab
कल्याणदेवी2दाक्षिण्यादकरोदधिकोन्नतिम्3 KRT_4_0485cd
उत्पत्तिभूमौ देशेस्मिन्दूरदूरतिरोहिता2 KRT_4_0486ab
कश्यपेन वितस्तेव तेन विद्यावतारिता ॥ KRT_4_0486cd
वचोमूर्खोयमित्येव कस्मैचिद्वदते स्फुटम् । KRT_4_0487ab
सर्वज्ञाना1न्ददच्चक्रे सर्वान्विद्याभियोगिनः ॥ KRT_4_0487cd
देशान्तरादागमय्य1 व्याचक्षाणा2न्क्षमापतिः । KRT_4_0488ab
प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥ KRT_4_0488cd
क्षीराभिधाच्छ1ब्दविद्योपाध्यायात्संभृतश्रुतः । KRT_4_0489ab
बुधैः सह ययौ वृद्धिं स जयापीडपण्डितः ॥ KRT_4_0489cd
भूपतेरात्मना स्पर्धा चक्षमे न स कस्यचित् । KRT_4_0490ab
आत्मनस्तु बुधैः स्पर्धी शुद्धधीर्वह्वमन्यत ॥ KRT_4_0490cd
तावत्पण्डितशब्देभूद्राजशब्दादपि प्रथा । KRT_4_0491ab
तैस्तैर्दोषैर्न तु म्लानिं कालान्तरवदाययौ ॥ KRT_4_0491cd
नृपतौ विद्वदायत्ते राज1सांमुख्यकाङ्क्षिभिः । KRT_4_0492ab
गृहा बभूवुर्विदुषां व्याप्ताः सेवागतैर्नृपैः ॥ KRT_4_0492cd
समग्रहीत्तथा राजा सोन्विष्य निखिलान्बुधान् । KRT_4_0493ab
विद्वद्दुर्भिक्षमभवद्यथान्यनृपमण्डले ॥ KRT_4_0493cd
अध्यक्षो भक्तशालायां शुक्रदन्तस्य मन्त्रिणः । KRT_4_0494ab
विद्वत्तया थक्कि1याख्यस्तेन स्वीकृत्य वर्धितः ॥ KRT_4_0494cd
विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः । KRT_4_0495ab
भट्टोभूदुद्भ1टस्तस्य भूमिभर्तुः सभापतिः ॥ KRT_4_0495cd
स दामोदरगुप्ताख्यं कुट्टनीमतकारिण1म् । KRT_4_0496ab
कविं कविं1 बलिरिव धुर्यं धीसचिवं व्यधात् ॥ KRT_4_0496cd
मनोरथः शङ्खदन्तश्चटकः संधिमांस्तथा । KRT_4_0497ab
बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ KRT_4_0497cd
स स्वप्ने1 पश्चिमाशायां लक्षयन्नुदयं रवेः । KRT_4_0498ab
देशे धर्मोत्तराचार्यं प्रविष्टं साध्वमन्यत ॥ KRT_4_0498cd
सचेताः संस्तवव्यक्तविवक्तृत्वो बभूव सः । KRT_4_0499ab
भावानां भुज्यमानानामास्वादान्तरविन्नृपः ॥ KRT_4_0499cd
अपश्यद्भिर्महास्वादान्भावान्स्वादुविवेकिभिः । KRT_4_0500ab
किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धै1रिवोक्षभिः ॥ KRT_4_0500cd

478.

--1) A2 indicates by asterisks and the marginal note मण्डलैः साहायकाय, a different reading in which this verse followed after verse 474.

--2) Thus A2; A1 हिताशनः.

479.

--1) Thus A1; A3 ॰संरोध॰.

480.

--1) Thus A3; A1 द्रोहाज्जितेन.

481.

--1) Thus corr. by A3 from A1 स्वा.

484.

--1) A1 gloss मलरो इति भाषया.

--2) Doubtful: thus A2; A1 चिरलके॰; A3 मरलकेशवम्.

--3) Thus corr. by A3 from A1 स्वा.

--2) A2 gloss कलमपुरं.

485.

--1) Thus corr. by A2 from A1 ॰पेडाधि॰. Cf. महाप्रतीहारपीडा iv 142.

--2) Thus A1; A3 ॰देवीं and ॰न्नताम्.

486.

--1) Thus G R Edd.; A ॰हितौ.

487.

--1) वैज्ञाना supplied by A3 in space left by A1.

488.

--1) A3 gloss प्रापय्य.

--2) Thus A3; A1 ॰चक्षाणः.

489.

--1) A2 gloss क्षीरस्वामिनः.

492.

--1) Thus corr. by A1 from राज्य॰.

494.

--1) Thus corr. by later hand from A1 थाक्वया.

495.

--1) A2 gloss भट्टोद्भट आलङ्कारिकः.

496.

--1) A3 ॰कारणम्.

--2) A3 gloss शुक्रं॰.

498.

--1) Thus A3; A1 सुस्वप्नं,

--2) Thus according to marginal note of A3: देश धर्मोत्तराचार्यमित्यन्यादर्शे; A1 देशे धर्मोत्तराचार्ये.

500.

--1) Thus corr. by A2 from A1 ॰रन्यैरि॰.

[page 62]




आरूढस्य चितां कृतानुमरणोद्योगप्रियाकुङ्गनं1 पुण्ड्रेक्षद्रवपानमुल्बणमहामोहप्रलुप्तस्मृतेः । KRT_4_0501ab
वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवेद्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ KRT_4_0501cd
मन्त्रविक्रमयोस्तस्य द्वयोर्दर्पणयोरिव । KRT_4_0502ab
एकैव बिम्बिता मूर्तिः सहस्रगुणतां ययौ ॥ KRT_4_0502cd
आंकु1र्वन्विगुणामाज्ञां लङ्केकन्द्रा1त्पञ्च राक्षसान् । KRT_4_0503ab
तेनानयेति जगदे दूतो जातु पुरः स्थितः ॥ KRT_4_0503cd
सांधिविग्रहिकः1 सोथ गच्छन्पोताच्च्युतोम्बुधौ । KRT_4_0504ab
प्राप पारं तिमिग्रासं तिमिमुत्पाट्य निर्गतः ॥ KRT_4_0504cd
प्रियमर्त्यो रामभक्त्या नृपाज्ञालेखदायिनम् । KRT_4_0505ab
स्वदेशमनयद्दत्तै रक्षोभिस्तं विभीषणः ॥ KRT_4_0505cd
दूतं वित्तैः पूरयित्वा सरोगाधं च राक्षसैः । KRT_4_0506ab
चक्रे जयपुरं कोट्टं त्रिविष्टपसमं नृपः ॥ KRT_4_0506cd
बुद्ध1त्रयं महाकारं विहारं च विधाय सः । KRT_4_0507ab
नगरान्तर्जयादेवीं पुण्यकर्मा स निर्ममे ॥ KRT_4_0507cd
तत्पुरे चतुरात्मा च शेषशायी च केशवः । KRT_4_0508ab
विष्णुलोकस्थितिं त्यक्त्वा ध्रुवं बध्नाति संनिधिम् ॥ KRT_4_0508cd
अन्यत्कर्मान्तरं किंचित्कारयित्वा स राक्षसान् । KRT_4_0509ab
प्यधात्कारुभिरेवाम्भ इति शंसन्ति केचन ॥ KRT_4_0509cd
स हि स्वप्ने जलान्तर्मे कुरु द्वारवतीमिति । KRT_4_0510ab
उक्तः कंसारिणा चक्रे विनिर्माणं तथाविधम् ॥ KRT_4_0510cd
श्रीद्वारवत्यधिष्ठानं बाह्यं1 कोट्टं तथा ह्यसौ । KRT_4_0511ab
अभ्यंतरं2 जयपुरं ब्रूतेद्याप्यखिलो जनः ॥ KRT_4_0511cd
मन्त्री पञ्चमहाशब्दभाजनं जगतीभुजः । KRT_4_0512ab
तस्मिञ्जयपुरे कोट्टे जयदत्तो व्यधान्मठम् ॥ KRT_4_0512cd
राजक्षत्तुः प्रमोदस्य जामाता मथुरापतेः1 KRT_4_0513ab
आचाभिधो व्यरचयच्छुचिराचेश्वरं हरम् ॥ KRT_4_0513cd
पुनः संभृतसामग्र्यो दिग्जयाय विनिर्ययौ । KRT_4_0514ab
बलैर्जलधिवेलाद्रीन्द्राघयन्नलघुद्विपैः ॥ KRT_4_0514cd
संप्रविष्टापि पूर्वाब्धिम1विच्छिन्ना हिमाचले । KRT_4_0515ab
भगीरथस्य गङ्गेव रेजे तस्यानुगा चमूः ॥ KRT_4_0515cd
सार्धं प्रचण्डैश्चण्डालैरटन्तः कटकाद्बहिः । KRT_4_0516ab
तस्यासन्यामिका रात्रौ मुम्मुनिप्रमुखा नृपाः ॥ KRT_4_0516cd
नामान्यट्टिनयादित्य इति प्रख्यापयन्नृपः । KRT_4_0517ab
पूर्वाशां विनयादित्यपुरेणालंकृतां व्यधात् ॥ KRT_4_0517cd
अत्युत्सेकेन महसा1 साहसाध्यवसायिनाम्2 KRT_4_0518ab
श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ KRT_4_0518cd
भीमसेनाभिधनस्य स दुर्गं पूर्वदिक्पते1ः । KRT_4_0519ab
निःशब्दो व्रतिभिः सार्धं व्रतिलिङ्गी विवेश यत् ॥ KRT_4_0519cd
तं रन्ध्रान्वेषिणं तत्र परिज्ञाय चिरस्थितः । KRT_4_0520ab
भ्राता जज्जस्य सिद्धाख्यो गत्वा राज्ञे न्यवेदयत् ॥ KRT_4_0520cd
भूपतिं1 भीमसेनोथ राजाकस्माद्बबन्ध तम् । KRT_4_0521ab
नहुषाजगरो भीममिव भीमपराक्रमम् ॥ KRT_4_0521cd
तस्मिन्वीरे तथा बद्धे धुर्ये पुरुषकारिणाम् । KRT_4_0522ab
पौरुषद्वेषिणा जाने दैवेनोन्नमितं शिरः ॥ KRT_4_0522cd
जयापीडस्त्वसंमूढो व्यसनेप्यतिदारुणे । KRT_4_0523ab
तांस्तान्संचिन्तयन्नासीदुपायानुदयोन्मुखः ॥ KRT_4_0523cd
अत्रान्तरे नरपतेः पौराणामतिदुस्तरा । KRT_4_0524ab
लूता1मयकृता व्यापदुदपद्यत मण्डले ॥ KRT_4_0524cd

501.

--1) A2 note in margin; आरूढस्येत्यादिस्थाने षण्ढस्योन्मदबालपङ्कजमुखीपीनस्तनालिङ्गनमित्यपि पाठो रम्यः.

503.

--1) The original reading of A1, अकुर्वन्वि॰, has been corrected into आकुर्वन्त्वि॰ by a later hand, probably A2; A2 explains the latter reading by the gloss विगुणानपि आज्ञामाकुर्वन् आं अङ्गीकारे. A3 gives the interlinear note अकुर्वन्विगुणामित्यन्यादर्शे, and explains this reading in margin: दूतः किं कुर्वन् आज्ञां राजसम्बन्धिनां निष्फलां अकुर्वन् न विरचयन् मानयन्नाज्ञामित्यर्थः.

--2) Thus corr. by A2 from A1 लङ्केन्द्रान्पञ्च.

504.

--1) Thus corr. by later hand from A1 ॰ग्रहक.

507.

--1) चुद्ध supplied by A3 in space left by A1; found also in G R; C पुर॰.

511.

--1) Thus A R G; C राज्यं.

--2) A3 gloss अन्तर्कोट् इति भाषया.

513.

--1) Thus corr. by A2 from A1 मधुरा॰.

515.

--1) Thus corr. by A3 from A1 ॰द्रिम्.

518.

--1) Thus A3; A1 सहसा.

--2) Thus corr. A3 from A1 सहसाव्यवसायिनाम्; A3 gloss साहसेन हिताहितानपेक्षेण कर्मणा अद्यवसायो येषां.

519..

--1) Thus A3; A1 ॰भूपते.

521.

--1) Thus corr. by A3 from A1 ॰पतिर्भीम॰.

524.

--1) A2 gloss उच्छूनो रक्तवर्णः पिटकाकृतिविस्तृतः सञ्चारी च त्वचि रोगविशेषः लूताख्यः लोत् इति प्रसिद्धः.

[page 63]




आमयः स्पर्शसंचारी1 तत्र व्यापादकश्च सः । KRT_4_0525ab
देशदोषादतो जन्तुर्लूताव्याप्तो विवर्ज्यते ॥ KRT_4_0525cd
तदाकर्ण्य जयापीडो जातोपायप्रयुक्तधीः । KRT_4_0526ab
स्वभृत्येनोपयुक्तानि द्रव्याण्यानीतवान्रहः ॥ KRT_4_0526cd
तैः पित्तोद्रेचकैर्भुक्तैर्ज्वलत्पित्तोवहज्ज्वरम् । KRT_4_0527ab
वज्रवृक्षपयश्चाङ्गे क्षिप्त्वा सपिटकोभवत् ॥ KRT_4_0527cd
तं लूताव्याप्तमाकर्ण्य त्रिपक्षो रक्षिणां मुखात् । KRT_4_0528ab
विपत्स्यते ध्रुवमिति ध्यात्वा देशाद्बहिर्व्यधात् ॥ KRT_4_0528cd
एवं स्वमतिमाहात्म्यात्संतीर्णो विपदर्णवात् । KRT_4_0529ab
व्याप्तव्योमाग्रहीद्दुगं यशश्च अरिपन्थिनः ॥ KRT_4_0529cd
यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । KRT_4_0530ab
व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ KRT_4_0530cd
तमैच्छदभिसंधातुं विद्याविक्रमसंयुतः । KRT_4_0531ab
मायाव्यरमुडिर्नाम राजा नेपालपालकः ॥ KRT_4_0531cd
अकृतप्रणति1स्तस्य2 प्रविष्टस्य स्वमण्डलम् । KRT_4_0532ab
अग्रात्3सुदूरमध्वानं ससैन्योपससार सः ॥ KRT_4_0532cd
जिगीषोस्1तस्य तु तथा तत्तत्पार्थिवनिर्जयः । KRT_4_0533ab
पृथक्प्रयत्ननिर्वर्त्यो नाभूत्तदनुसारिणः ॥ KRT_4_0533cd
मग्नं क्वापि क्वचिद्दृश्यं प्रतिदेशं स वैरिणम् । KRT_4_0534ab
श्ये1नः कपोतं कक्ष्यान्तैवान्विष्य2ञ्जगाम सः ॥ KRT_4_0534cd
ततो निःशेषितापाये तस्मिन्कुर्वन्स दिग्जयम् । KRT_4_0535ab
आसन्नाब्धेस्तटे सिन्धो1ः समुपावेशयद्बलम् ॥ KRT_4_0535cd
प्रतस्थे दिवसैर्द्वित्रैरथ पूर्वार्णवोन्मुखः । KRT_4_0536ab
कर्षन्वेलानिलस्पर्शोत्सृष्टध्वजपटाश्रमूः ॥ KRT_4_0536cd
ततस्तस्मिन्सरित्पारे दक्षिणस्मिन्क्षमापतेः । KRT_4_0537ab
तस्थावरमुडि1ः सैन्यं स्वच्छत्राङ्कं प्रकाशयन् ॥ KRT_4_0537cd
भूरिभेरीरवोद्गारि प्रबलं वीक्ष्य तद्बलम् । KRT_4_0538ab
प्रजज्वाल जयापीडः पीतसर्पिरिवानलः ॥ KRT_4_0538cd
स जानुदघ्रं निर्विघ्नं पश्यन्नग्रे सरिज्जलम् । KRT_4_0539ab
अपूर्वत्वादभूमिज्ञः क्रुद्धस्तर्तुं1 व्यगाहत ॥ KRT_4_0539cd
मध्यं प्राप्ते नृपे पूर्णा वेलया वर्धमानया । KRT_4_0540ab
अकालेभूदगाधाम्भाः सार्णवाभ्यर्णगा सरित् ॥ KRT_4_0540cd
नरनागाश्वबहुलं तथा सैन्यं महीपतेः । KRT_4_0541ab
प्रवृद्धया प्लाव्यमानं क्षणात्संक्षयमाययौ ॥ KRT_4_0541cd
नृपतिर्वीचिसंमर्द1भ्रंशिताभरणांशुकः । KRT_4_0542ab
बाहुभ्यां लहरीश्छिन्दञ्जलैर्दूरमनीयत ॥ KRT_4_0542cd
एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्जितैः । KRT_4_0543ab
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥ KRT_4_0543cd
क्षिप्रकारी सदृतिभि1ः संनद्धैः सरितोन्तरात् । KRT_4_0544ab
स चाकृष्य जयापीडं बबध विहितोत्सवः । KRT_4_0544cd
दैवस्याम्बुमुचश्च नास्ति नियमः कोप्यानुकूल्यं प्रति व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । KRT_4_0545ab
क्षिप्रं दीर्घनिदाघवासरविपत्संतापनिर्वापणं प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गं च यः ॥ KRT_4_0545cd
स कालगण्डिकातीराश्रयात्युच्चाश्मवेश्मनि । KRT_4_0546ab
निचिक्षेप जयापीडमाप्तानां1 रक्षिणां करे ॥ KRT_4_0546cd
तथा काश्मीरिको राजा निमग्नो व्यसने पुनः । KRT_4_0547ab
स किंकर्तव्यतामूढः शुचा गूढमदह्यत ॥ KRT_4_0547cd
कलावत्सु शशाङ्कोपि तेजस्विष्वर्यमापि तम् । KRT_4_0548ab
न ददर्श यथा धीमान्स ररक्ष तथा नृपः ॥ KRT_4_0548cd
अपश्यन्निर्गत1ः किंचिदालोकन्यस्तलोचन2ः । KRT_4_0549ab
आसन्नां तटिनीमासीदुपायांश्च स चिन्तयन् ॥ KRT_4_0549cd

525.

--1) Thus corr. by A1 from सर्वसं॰.

532.

--1) A1 gloss आरमुडिः.

--2) A4 gloss जयापीडस्य.

--2) Thus A1; A3 अगात्सु॰; G R have both readings.

533.

--1) A4 gloss जयापीडस्य.

534.

--1) A3 gloss श्येनः कपोतं भक्षयतीति प्रसिद्धिः.

--2) Emended; A G R ॰न्वेष्य॰.

535.

--1) A2 gloss सरितः.

537.

--1) Thus corr. by A3 from A1 तस्यावुरसुडेः.

539.

--1) Thus corr. by A2 from A1 ॰स्तंतं.

542.

--1) Thus corr. by A2 from A1 ॰मर्म॰.

544.

--1) A2 gloss दृतिः जलोत्तरणार्थं श्नाहा इति प्रसिद्धा.

546.

--1) Thus corr. by A3 from A1 ॰पीडं सप्तानां.

549.

--1) Thus corr. by later hand from A1 निर्गतं.

--2) A3 gloss आलोक्यतेतेनेत्यालोकः वातायनं । तस्मिन् न्यस्ते लोचने येन सः.

[page 64]




अवस्थावेदकास्तत्र1 ग्रथिताः पृथिवीभुजा । KRT_4_0550ab
आर्द्रान्तःकरणैः श्लोकाः स्मर्यन्तेद्यापि सूरिभिः ॥ KRT_4_0550cd
यथा तस्मिन्स्थिते1 मानी देवशर्मनैव मन्त्रिषु । KRT_4_0551ab
चिन्तयन्स्वामिसंनानमनिशं पर्यतप्यत ॥ KRT_4_0551cd
भर्तुः स्वदेहत्यागेन1 स हितं कर्तुमुद्यतः । KRT_4_0552ab
दूतैररमुडे2श्चक्रे प्रियवाग्भिः प्रलोभबम्2 KRT_4_0552cd
जयापीडश्रिया साकं राज्यं कश्मीरमण्डले । KRT_4_0553ab
दास्यामि तुभ्यमित्यस्य दूतैः स श्रावितोभवत् ॥ KRT_4_0553cd
प्राप्तेषु प्रतिदूतेषु पूर्णायामथ संविदि । KRT_4_0554ab
गृहीतकटको मन्त्री नेपालविषयं ययौ ॥ KRT_4_0554cd
स कालगण्डिकासिन्धोरर्वाचि कटकं तटे । KRT_4_0555ab
स्थापयित्वा परं पारं ययौ मितपरिच्छदः ॥ KRT_4_0555cd
सामन्तैरग्रमायातैस्ताम् सभां संप्रवेशितम् । KRT_4_0556ab
सत्कृत्यारमुडि1ः प्रह्नं न्यवेशयत विष्ठरे ॥ KRT_4_0556cd
अध्वश्रान्त इति क्षिप्रं प्रतिमुक्त1ः क्षमाभुजा । KRT_4_0557ab
तद्विसृष्टोपचारस्तन्निनायावसथे दिनम् । KRT_4_0557cd
स चारमुडिभूभृच्च पीतकोशौ1 परस्परम् । KRT_4_0558ab
आसतां निर्जनेन्येद्युः कर्तव्यकृतनिश्चयौ ॥ KRT_4_0558cd
नृपमूचेथ सचिवो जयापीडार्जितं धनम् । KRT_4_0559ab
अस्ति सैन्ये तदाप्तानां तस्य वा विदितं च तत् ॥ KRT_4_0559cd
दानेन भविता मोक्षस्तवेत्युक्त्वा विमोहयन् । KRT_4_0560ab
तस्मात्तं प्रष्टुमिच्छामि क्व व् असु न्यस्तमित्यहम् ॥ KRT_4_0560cd
अत एव मया सैन्यं संहतं न प्रवेशितम् । KRT_4_0561ab
यदेत1न्मध्यगाः शक्या न बन्द्धुं1 न्यासधारिणः ॥ KRT_4_0561cd
तस्मादेकैकमाहूय तेषु बद्धेषु सैनिकः । KRT_4_0562ab
कोपमज्ञातहृदया न यास्यन्ति विवक्षवः ॥ KRT_4_0562cd
एवं विमोहितात्तस्मात्प्राज्ञोनुज्ञां1 स लब्धवान् । KRT_4_0563ab
बद्धस्य प्रययौ पार्श्वं जयापीडमहीभुजः ॥ KRT_4_0563cd
तदालोकनजं शोकं गोपयन्1धैर्यसागरः । KRT_4_0564ab
गृहं तन्निर्जनं कृत्वा क्षिप्रं पप्रच्छ तं नृपम् ॥ KRT_4_0564cd
अपि त्वया निजं तेजो भित्तिभूतं न हारितम् । KRT_4_0565ab
तस्मिन्हि सति सिध्यन्ति साहसालेख्यकल्पनाः ॥ KRT_4_0565cd
स तं बभाषे निःशस्त्रो मन्त्रिन्नेवं व्यवस्थितः । KRT_4_0566ab
अद्भुतं कर्म किं कुर्यां ध्रियमाणेन तेजसा ॥ KRT_4_0566cd
मन्त्री तमूचे तेजश्चेद्राजन्न निसृतं तव । KRT_4_0567ab
जानीहि तत्क्षणेनैव लङ्घितं विपदर्णवम् ॥ KRT_4_0567cd
अपि वातायनादस्मात्पतित्वा निम्नगाम्भसि । KRT_4_0568ab
पारं गन्तुं समर्थोसि सैन्यं दूरपाताद्विदीर्यते ॥ KRT_4_0568cd
राजा जगाद तं नास्मात्पतित्र्वोत्थीयतेम्भसः । KRT_4_0569ab
विना दूतिं दृतिश्चात्र दूरपाताद्विदीर्यते ॥ KRT_4_0569cd
तस्मान्नायमुपायोत्र न च नाम विमानितः । KRT_4_0570ab
बहु मन्ये तनुत्यागमनिर्मथ्यापकारिणम् ॥ KRT_4_0570cd
ततो1 निश्चित्य सोमात्यस्तमवादीन्महीपते । KRT_4_0571ab
बहिः केनाप्युपायेन बहेस्त्वं2 नालिकाद्वयम्3 KRT_4_0571cd
प्रविश्यैकाकिनैवाथ द्रष्टव्यः संभृतो मया । KRT_4_0572ab
सरिदुत्तरणोपायः सोनुष्ठेयोप्यशङ्कितम् ॥ KRT_4_0572cd
श्रुत्वेति निर्गतो गत्वा पा1युक्षालनवेश्म सः । KRT_4_0573ab
सविलम्बं बहिर्वेला2ं तदुक्तामत्यवाहयत् ॥ KRT_4_0573cd
एकाकी संप्रविष्टोथ तं ददर्श च्युतं क्षितौ । KRT_4_0574ab
विपन्नं गलमुद्बध्य दृढया चेलचीरया ॥ KRT_4_0574cd

550.

--1) A3 gloss बन्धनवेश्मनि.

551.

--1) Thus corr. by later hand from A1 ॰न्स्थितो.

552.

--1) supplied by A3.

--2) Enended; A1 ॰रारमुडैश्चक्रे, changed by later hand to ॰मुडेश्चक्रे.

--3) Thus corr. by later hand from A1 ग्भिर्विलोभनम्.

556.

--1) Thus corr. by A3 from A1 ॰डेः.

557.

--1) Thus A1; A3 प्रतिक्षिप्त.

558.

--1) A2 gloss पीतकोशौ कृतद्रौहिकावित्यर्थः; to द्रौहिका॰ A2 adds the note शपथः.

561.

--1) Thus corr. A13 from A1 यदि जन्म॰; A3 gloss follow A3.

564.

--1) Thus corr. by A3 from A1 दर्शय॰.

571.

--1) THus corr. by A3 from A1 इति.

--2) Thus corr. by later hand from A1 वहस्त्वं; A3 gloss वहेः गमयेत्यर्थः.

--2) A3 gloss घटिकाद्वयमित्यर्थः.

573.

--1) Thus corr. by A2 from A1 पाद॰.

--2) A3 gloss घटिकाद्वयरूपां.

[page 65]




1द्यो व्यापादिततनुः श्वासापूरितविग्रहः2 KRT_4_0575ab
अभेद्योहं तव धृ3तिर्मामा4रुह्य तरापगाम् ॥ KRT_4_0575cd
आरोढुरूरु1बन्धाय स्वोर्वोरुष्णीषपट्टिका2 KRT_4_0576ab
बद्धा मया तं प्राविश्य क्षिप्रमेव पताम्भसि ॥ KRT_4_0576cd
नखनिर्भिन्नगात्रास्रलिखितामिति संविदम् । KRT_4_0577ab
दृष्ट्वा चावाचयत्कण्ठनिबद्धांशुकपल्लवे ॥ तिलकम्॥ KRT_4_0577cd
विस्मयस्नेहयोः पश्चात्पूर्वं स सरितस्ततः । KRT_4_0578ab
प्रवाहे पतितो राजा परं पारं समासदत् ॥ KRT_4_0578cd
प्राप्तसैन्यः प्रविश्याथ क्षणेनैव निनाय सः । KRT_4_0579ab
तमशेषं सभापालं नेपालविषयं क्षयम् ॥ KRT_4_0579cd
रक्षिणोपि न यावत्तमजानन्बन्धनाच्च्युतम् । KRT_4_0580ab
तावदेव कथाशेषं तं चकार सः ॥ KRT_4_0580cd
नृत्यत्कबन्धः स्वर्गस्त्रीमुक्तस्रक्तूर्यघोषवान् । KRT_4_0581ab
भूपतेर्बन्धनान्मोक्षे बभूव समरोत्सवः ॥ KRT_4_0581cd
दावानलोल्बणभुवो गिरयो निदाघे यत्रैव दूरमितरे परिवर्जनीयाः । KRT_4_0582ab
तत्रैव संभवति सान्द्रहिमद्रवार्द्रश्चित्रं तुषारशिखरी नितरां निषेव्यः ॥ KRT_4_0582cd
जज्जादीनां क्षणे1 यत्र हब्न स्वानुद्रुहामभूत् । KRT_4_0583ab
तत्रैव मन्त्रिणश्चित्रं कृतिनो देवशर्मणः ॥ KRT_4_0583cd
नाभूद्धि सदृशः1 सूनुः स पितुर्मित्रशर्मणः । KRT_4_0584ab
तमोमयो भासुरस्य2 भानोरिव शनैश्चरः ॥ KRT_4_0584cd
रक्षारत्नोपमे तस्मिन्सचिवेस्तमुपागते । KRT_4_0585ab
प्राप्तामपि श्रियं मेने नृपतिर्हरितामिव ॥ KRT_4_0585cd
तस्य दिग्विजयस्यान्ते मानम्लानिर्विनिर्ययौ । KRT_4_0586ab
मानसात्पृथिवीभर्तुर्नामात्योपक्रिया पुनः ॥ KRT_4_0586cd
चित्रं जितवतस्तस्य स्त्रीराज्ये मण्डलं महत् । KRT_4_0587ab
इन्द्रियग्रामविजयं बह्वमन्यन्त भूभुजः ॥ KRT_4_0587cd
कर्णश्रीपटमाबध्य स्त्रीराज्यान्निर्जिताद्धृतम् । KRT_4_0588ab
धर्माधिकरणाख्यं च कर्मस्थानं विनिर्ममे ॥ KRT_4_0588cd
द्वितीयं चलगञ्जाख्यं कर्मस्थानमपि व्यधात् । KRT_4_0589ab
उपयुक्तं प्रयाणेषु गञ्जे दूरस्थिते निजे ॥ KRT_4_0589cd
किमन्यत्तद्भुजावासनिवासिन्या जयश्रियः । KRT_4_0590ab
चत्वारोम्बुधयोभूवन्विलासमणिदर्पणाः ॥ KRT_4_0590cd
पुनः प्रविश्य कश्मीरान्स भूपैः परिवारितः । KRT_4_0591ab
चिराय बुभुजे राजा विजयोपार्जितां श्रियम् ॥ KRT_4_0591cd
तं कदाचिन्नृपं स्वप्ने सर्वाशाविजयोर्जितम् । KRT_4_0592ab
पुमान्दिव्याकृतिः कोपि व्याजहार कृताञ्जलिः ॥ KRT_4_0592cd
सुखं त्वद्विषये राजन्वसन्नस्मि सबान्धवः । KRT_4_0593ab
नागेन्द्रोहं महापद्मनामा त्वाम् शरणं श्रितः ॥ KRT_4_0593cd
द्राविडो मान्त्रिकः कश्चिन्मामितो नेतुमुद्यतः । KRT_4_0594ab
जलाकाङ्क्षिणि वित्तेन विक्रेतुं मरुमण्डले ॥ KRT_4_0594cd
तस्माच्चेत्पासि मां तत्ते स्वर्णधातुभुवं गिरिम् । KRT_4_0595ab
स्वदेशे दर्शयिष्यामि स्फीतोपकृतिकारिणः ॥ KRT_4_0595cd
राजा स्वप्ने निशम्येति दिक्षु संप्रेरितैश्चरैः1 KRT_4_0596ab
कुतोपि प्राप्तमानीय तां पप्रच्छ चिकीर्षितम् ॥ KRT_4_0596cd
दत्ताभयः स नागोक्तं यथावत्सर्वमुक्तवान् । KRT_4_0597ab
सविस्मयेन भूभर्त्रा स्वयं भूयोप्यपृछ्यत ॥ KRT_4_0597cd
भूरियोजनविस्तीर्णात्सरसोभ्यन्तरात्त्वया । KRT_4_0598ab
नागः प्रभावोत्कृष्टः स निष्क्रष्टुं शक्यते कथम् ॥ KRT_4_0598cd
स तं व्यजिज्ञपद्राजन्नचिन्त्या मन्त्रशक्तयः । KRT_4_0599ab
ताश्चेद्दिदृक्षसे क्षिप्रमेत्याश्चर्यं विलोक्यताम् ॥ KRT_4_0599cd
अथानुगम्यमानः स राज्ञा प्राप्तः सरोन्तिकम् । KRT_4_0600ab
अभिमन्त्र्योज्झितैर्बाणैर्बद्धाशोशोषयज्जलम् ॥ KRT_4_0600cd

575.

--1) A2 gloss सद्यो व्यापादिततनुरित्यादि पताम्भसीत्यन्ता शिक्षा राज्ञः कृते नखनिर्भिन्नस्वशरीररक्तेन लिखिता तेन कृतज्ञेन संत्रिवरेण स्वकीयकण्ठनिबद्धे वस्त्रखण्डे.

--2) A2 gloss अत एव दृतिविदित्यर्थः.

--3) A1 originally दृतेर्मा॰; to this reading refers the gloss of A1: दृतेः सकाशादप्यभेद्योहमित्यर्थः. On altering the reading to दृतिर्मा॰, A2 has struck out the first gloss and added a fresh one: अहमभेद्यो दृतिरस्मि.

--4) A2 gloss मां दृतिरूपं.

576.

--1) Thus corr. by later hand from A1 ॰रूढबन्धाय.

--2) A2 gloss उष्णीषपद्दिका वेष्टनाञ्चलद्वयपद्दिकेत्यर्थः.

583.

--1) Thus corr. by later hand from A1 क्षणं.

584.

--1) Thus A R G; C नाभूद्विसदृशः.

--2) Thus A1; A3 भास्वरस्य.

596.

--1) Thus A1; A3 ॰प्रेषितैश्च॰.

[page 66]




राजापश्यत्ततः पङ्के लुठन्तं मानुषाननम् । KRT_4_0601ab
वितस्तिदेश्यमुरगं भूरिह्रस्वोरगाaन्वितम् ॥ KRT_4_0601cd
मन्त्रसंकोचितं राजन्गृह्णाम्यमुमिति ब्रुवन् । KRT_4_0602ab
मा ग्रहीरिति भूपेन सोभिधाय1 न्यषिध्यत ॥ KRT_4_0602cd
तूर्णं राजाज्ञया तेन1 मन्त्रवीर्येथ संहृते । KRT_4_0603ab
सरोभूत्प्रागवस्थं तत्पुनर्व्याप्तदिगन्तरम् ॥ KRT_4_0603cd
द्राविडं द्रविणं दत्त्वा विसृज्याचिन्तयन्नृपः । KRT_4_0604ab
दद्यान्नाद्याप्यसौ नागः कथं स्वर्णाकारं गिरिम् । KRT_4_0604cd
ध्यायन्तमेव तं स्वप्ने ततः प्रोवाच पन्नगः । KRT_4_0605ab
केनोपकारेण गिरिः स्वर्णसूस्तव दर्श्यते ॥ KRT_4_0605cd
स्वदेशोयं विदेशोयमिति बुद्धेः प्रवर्तकः । KRT_4_0606ab
अन्वयव्यतिरेकाभ्याम् स्थित्यभ्यासः शरीरिणम् ॥ KRT_4_0606cd
शरणं त्वामहमगामवमानभयात्पुनः । KRT_4_0607ab
शरण्येन सता तत्तु भवतैव प्रदर्शितम् ॥ KRT_4_0607cd
उदन्वानिव योक्षोभ्यो ज्ञायते संश्रितैः प्रभुः । KRT_4_0608ab
का ह्रीस्ततोन्या सोन्यैर्यत्तेषामग्रेभिभूयते1 KRT_4_0608cd
याभिरन्याभिभूताभिरीक्षितस्त्रातुमक्षमः । KRT_4_0609ab
तासां केनाभिमानेन स्त्रीणां द्रक्ष्याम्यहं मुखम् ॥ KRT_4_0609cd
येकारण1सधर्माणो व्यामूढस्य भवाम ते । KRT_4_0610ab
विडम्ब्यमानाः क्रीडायै ते वयं प्राकृता इव ॥ KRT_4_0610cd
अथ वा श्रीमदान्धानामप्रेक्षापूर्वकारिणाम् । KRT_4_0611ab
यत्किंचनविधायित्वं पार्थिवानां किमद्भुतम् ॥ KRT_4_0611cd
मन्यन्ते क्ष्माभुजः क्रीडामुन्नतानां विमाननाम्1 KRT_4_0612ab
यावज्जीवं तु सश्वासं मरणं तां विदन्ति ते ॥ KRT_4_0612cd
उपेक्ष्य1पक्षे भूपानां मानः स्वार्थस्य सिद्धये । KRT_4_0613ab
स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् । KRT_4_0613cd
महतो येवमन्यन्ते घटन्ते च विमानितैः । KRT_4_0614ab
मनःस्वरूपाभिज्ञत्वं तेषां केनानुमीयते ॥ KRT_4_0614cd
भवन्त इव तत्रापि न वयं व्यर्थदर्शयाः । KRT_4_0615ab
ताम्रधातुरसस्यन्दी दर्श्यते तद्गिरिस्तव ॥ KRT_4_0615cd
इत्युक्त्वा संविदं तस्मै स्वप्न एव स तां ददौ । KRT_4_0616ab
यथा प्रबुद्धः प्रत्यूषे प्राप ताम्राकरं गिरिम् ॥ KRT_4_0616cd
स तस्मात्क्रमराज्यस्थात्ताम्रमाकृष्य निर्ममे । KRT_4_0617ab
शतं दीनार1कोटीनामेकोनं स्वाभिधाङ्कितम् ॥ KRT_4_0617cd
पूर्णं कोटिशतं कुर्याद्यः स मां निर्जयेदिति । KRT_4_0618ab
दर्पभङ्गाय भूपानां समयं स्थापयन्नृपः ॥ KRT_4_0618cd
समस्या इव स क्ष्माभृत्सावशेषैर्विचेष्टितैः । KRT_4_0619ab
चिक्षेप तुल्यनिर्माणकुण्ठत्वायेति भूभृताम् ॥ KRT_4_0619cd
अथाकस्मान्महीपालः प्रजाभाग्यविपर्ययैः । KRT_4_0620ab
त्यक्त्वा पैतामहं मार्गं ययौ पित्र्येण सोध्वनाः ॥ KRT_4_0620cd
किं दिग्जयादिभिः क्लेशैः स्वदेशादर्ज्यतां धनम् । KRT_4_0621ab
इत्यर्थ्यमानः कायस्थैः स्वमण्डलमदण्डयत् ॥ KRT_4_0621cd
शिवदासादिभिर्लुब्धैर्धनस्थानाधिकारिभिः1 KRT_4_0622ab
प्रविवर्धितवित्तेच्छः सोभूल्लोभवशंवदः ॥ KRT_4_0622cd
काश्मीरिकाणामु1त्पन्नं निजाज्ञाव्यवधायकम् । KRT_4_0623ab
कायस्थवक्त्रप्रेक्षित्वं ततः प्रभृति भूभृताम् ॥ KRT_4_0623cd
मन्त्रस्तस्य महीभर्तुर्योभूत्तत्त1न्नृपग्रहे । KRT_4_0624ab
वास्तव्यबन्धचिन्तायां स एव स्थैर्यमाययौ ॥ KRT_4_0624cd
यत्सतां प्रशमाधायि पापस्योपदिदेश तत् । KRT_4_0625ab
जयापीडस्य पाण्डित्यं प्रजापीडनशौण्डताम् ॥ KRT_4_0625cd
स सौदास इवानेकलोकप्रानापहारकृत् । KRT_4_0626ab
अस्तुत्यकृत्यसौहित्यं स्वप्नेपि न समाययौ ॥ KRT_4_0626cd
कुर्मः किल्विषमेतदेव हृदये कृत्वेति कौतूहलात्स्वैरिण्यः क्षित्पाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत् । KRT_4_0627ab
पापाक्रान्तधियो भवन्त्यथ तथा1 नान्त्यान्स्पृशन्त्योपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोपि शान्तत्रपाः ॥ KRT_4_0627cd

602.

--1) Emended; A सोभ्यधाय.

603.

--1) Thus corr. by A3 from A1 याते.

608.

--1) Thus corr. by A3 from A1 ॰भूतये.

610.

--1) A1 येऽकारण॰.

612.

--1) Thus corr. by later hand from A1 विमानिनाम्.

613.

--1) A2 gloss त्याज्य.

617.

--1) Thus A1; A3 दीन्नार॰.

622.

--1) Thus corr. by A3 from A1 ॰कारादिभिः.

623.

--1) Thus corr. by A3 from A1 काश्मीरका॰.

627.

--1) Thus A3; A1 यथा.

[page 67]




लोभाभ्यासात्तथा क्रौर्यं स ययौ वत्सरत्रयम् । KRT_4_0628ab
सह कार्षकभागेन यथाहार्षीच्छरत्फलम् ॥ KRT_4_0628cd
लुब्धत्वध्वस्तधीर्भूभृत्स्वल्पवित्तलवप्रदान् । KRT_4_0629ab
सर्वस्वहारिणो मेने कायस्थान्हितकारिणः ॥ KRT_4_0629cd
सामुद्रास्तिमयो नृपाश्च सदृशा एके हृताद1म्भसः स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । KRT_4_0630ab
सर्वस्मात्स्फुटलुण्ठिताद्वित2रतो लेशान्किलान्येपि ये दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ KRT_4_0630cd
सर्वकालं ब्राह्मणानामहो धैर्यमकुण्ठितम् । KRT_4_0631ab
निस्त्रिंशस्य बभूवुर्ये तस्यापि परिपन्थिनः ॥ KRT_4_0631cd
देशान्तरं प्रयातेभ्यो ये शेषास्ते व्यरंसिषुः । KRT_4_0632ab
विक्रोशन्तो न मरणाद्धरणान्नापि पार्थिव1ः ॥ KRT_4_0632cd
विप्राणां शतमेकोनमेकाहेन1 विपद्यते । KRT_4_0633ab
निवेद्यमेतदित्यूचे क्रौर्याक्रान्तोथ पार्थिवः ॥ KRT_4_0633cd
विपर्यस्तचरित्रस्य तस्य क्रूरस्य भूपतेः । KRT_4_0634ab
एवं स्तुतिविपर्यासः काव्येष्वपि बुधैः कृतः ॥ KRT_4_0634cd
नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः । KRT_4_0635ab
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ KRT_4_0635cd
भाष्यव्याख्याक्षणे श्लोकैर्वै1चक्षण्यहृतैः कृतः । KRT_4_0636ab
सोयं तस्य विपर्यासो2 बुधैरेवं प्रवर्तितः3 KRT_4_0636cd
कृतविप्रोपसर्गस्य भूतनिष्ठावि1धायिनः । KRT_4_0637ab
श्रीयजापीडस्य पाणिनेश्च किमन्तरम् ॥ KRT_4_0637cd
तूलमूल्या1पहर्ता च चन्द्रभागातटे स्थितः । KRT_4_0638ab
विप्राणां शतमेकोनमशृणोत्तज्जले मृतम् ॥ KRT_4_0638cd
ततोग्रहारहरणादेव प्रविरतोभवत् । KRT_4_0639ab
वास्तव्यानां हृतां भूमिं न तु निःशेषतो जहौ ॥ KRT_4_0639cd
अथ विज्जप्तिसमये तूलमूल्यौक1सो द्विजाः । KRT_4_0640ab
चुक्रुशुर्जातु तस्याग्रे प्रतीहारकराहताः ॥ KRT_4_0640cd
मनुमान्धातृरामाद्या बभूवुः प्रवरा नृपाः । KRT_4_0641ab
अन्यभावि तदग्रेपि ब्राह्मणैर्न विमानना ॥ KRT_4_0641cd
सेन्द्रं स्वर्गं सशैलां क्ष्माम् सनागेन्द्रम् रसातलम् । KRT_4_0642ab
निर्दग्धुं हि क्षणेनैव विप्राः शक्ताः प्रकोपिताः ॥ KRT_4_0642cd
तदाकर्ण्यास्त सामन्तत्यक्तपृष्ठः क्षमापतिः । KRT_4_0643ab
उल्लासितैकभ्रूलेखो दर्पाद्वचनमब्रवीत् ॥ KRT_4_0643cd
भिक्षाकणभुजां कोयं शठानां वो मदज्वरः । KRT_4_0644ab
येनर्षय इव ब्रूथ प्रभावख्यापकं1 वचः ॥ KRT_4_0644cd
भीमभ्रूभङ्गभीतेषु तेषु तू1ष्णीं स्थितेष्वथ । KRT_4_0645ab
इट्टि1लाख्यस्तमाह स्म ब्रह्मतेजोनिधिर्द्विजः ॥ KRT_4_0645cd
राजन्युगानुरूप्येण भावाभावानुवर्तिनः3 KRT_4_0646ab
शासितुस्तेनुसारेण न कस्मादृषयो वयम् ॥ KRT_4_0646cd
आह स्म विश्वामित्रो वा वसिष्ठो वा तपोनिधिः । KRT_4_0647ab
त्वमगस्त्योथ वा किं स्या इति दर्पेण तं नृपः ॥ KRT_4_0647cd
ज्वलन्निव ततः स्फूर्जतेजोदुष्प्रेक्ष्य1विग्रहः । KRT_4_0648ab
स फणीवोत्फणस्ताम्यन्कोपान्नृपतिमब्रवीत् ॥ KRT_4_0648cd
1वान्यत्र हरिश्चन्द्रस्त्रिशङ्कुर्नहुषोपि वा । KRT_4_0649ab
विश्वामित्रमुखेभ्योहं तत्रैको भवितुं क्षमः ॥ KRT_4_0649cd
विहस्योवाच तं राजा विश्वामित्रादिकोपतः । KRT_4_0650ab
हरिश्चन्द्रादयो नष्टास्त्वयि क्रुद्धे तु किं भवेत् ॥ KRT_4_0650cd
पाणिना ताडयन्नुर्वीं ततः क्रुद्धोभ्यधाद्द्विजः । KRT_4_0651ab
मयि क्रुद्धे क्षनादेव ब्रह्मदण्डः पतेन्न किम् ॥ KRT_4_0651cd
तच्छ्रुत्वा विहसन्राजा कोपाद्ब्राह्मणमब्रवीत् । KRT_4_0652ab
पततु ब्रह्मदण्डोसौ किमद्यापि विलम्बते ॥ KRT_4_0652cd
नन्वयं पतितो जाल्मेत्यथ विप्रेण भाषिते । KRT_4_0653ab
राज्ञः कनकदण्डोङ्गे वितानस्खलितोपतत् ॥ KRT_4_0653cd

630.

--1) Thus A1; A2 हृतान॰.

--2) Thus A1; A3 ॰तान्वि॰.

633.

--1) Thus A1; A3 ॰काहे चेद्वि॰.

636.

--1) Thus A1; A3 ओके वै॰.

--2) Thus corr. by A3 from A1 विपर्यासे.

--2) Thus corr. by A1 from A1 विवर्तितः.

637.

--1) A3 gloss निष्ठाशब्द इह नाशवाची.

638.

--1) Thus corr. by A2 from A1 तूलमूला॰.

640.

--1) Thus A2; A1 तूलमूलौ॰. A2 gloss तूलमूलाख्यो ग्रामः.

644.

--1) Thus corr. by A3 from A1 ॰व्यापकं.

645.

--1) Thus corr. by A3 from A1 तूर्णी.

--2) Thus corr. by A2 from A1 इद्दिला..

646.

--1) A3 विप्रा भूपानुवर्तिनः इत्यन्यादर्शो.

648.

--1) Thus A1; A3 दुष्प्रेक्ष॰.

649.

--1) A2 gloss भवान्यत्रेति विश्वामित्रशापाद्धरिश्चन्द्रो भ्रष्टः स्वपदात् वसिष्ठशापाचिशङ्कुर्भ्रष्टः अगस्त्यशापाच्च नहुषो भ्रष्टः इति तद्दृष्टान्तोत्र दत्तः.

[page 68]




कृतव्रणः स तेनाङ्गे विमर्दक्लि1न्नविग्रहः । KRT_4_0654ab
कीर्यमाणक्रिमिकुलः क्रकचैश्वारितैरभूत् ॥ KRT_4_0654cd
अनुभाष्य व्यथां भाविनिरयक्लेशवर्णिकाम् । KRT_4_0655ab
गणरात्रेण तं प्राणाः काङ्क्षितापगमा जहुः ॥ KRT_4_0655cd
ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः । KRT_4_0656ab
अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥ KRT_4_0656cd
तस्यानियतचित्तस्य त्रिंशतं परिवत्सरान् । KRT_4_0657ab
एवं प्रतापिनः सैकान्भूभोगो भूपतेरभूत् ॥ KRT_4_0657cd
तथा भूभृन्मत्स्या द्रविणकलुषाम्भःकृततृषः स्थितिं1 स्वमुज्झन्तो विदधति कुमार्गानुसरणम् । KRT_4_0658ab
क्रियन्ते कार्तान्तानुगविकृतकैवर्तनिवहैर्यथा ह्येतेकस्मात्स्थिरनिरयजालप्रणयिनः ॥ KRT_4_0658cd
लृतपापं तमुद्दिश्य विपन्नममृतप्रभा । KRT_4_0659ab
मृतोद्धाराय तन्माता व्यधत्तामृतकेशवम् ॥ KRT_4_0659cd
ललितापीडनामाभूत्ततो वसुमतीपतिः । KRT_4_0660ab
देव्यां दुर्गाभिधायां यो जयापीडादजायत ॥ KRT_4_0660cd
बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः । KRT_4_0661ab
यस्य वाराङ्गनाभोज्यं राज्यं दुर्नयदूषितम् ॥ KRT_4_0661cd
दुष्कृतेनार्जितं वित्तं पित्रा निरयभागिना । KRT_4_0662ab
1श्चारणादिषु न्यस्यन्ननुरूपं व्ययं व्यधात् ॥ KRT_4_0662cd
बन्धकीबन्धुभावेन प्राप्तराजगृहाश्रयाः । KRT_4_0663ab
तं पौंश्चलीयविद्यानामन्तरङ्गं व्यधुर्विटाः ॥ KRT_4_0663cd
केशान्स्त्रीदशनच्छिन्नान्वक्षस्तन्नखलाञ्छितम् । KRT_4_0664ab
वपुषो मण्डनां मेने किरीटकटकोज्झितः ॥ KRT_4_0664cd
यो यो वेश्याकथाभिज्ञो1 यो यो नर्मविचक्षणः । KRT_4_0665ab
स स तत्प्रियतां लेभे न शूरो न च पण्डितः ॥ KRT_4_0665cd
अतृप्तः स्त्रीभिरल्पाभिरुग्ररागः स पार्थिवः । KRT_4_0666ab
जडं मेने जयापीडं स्त्रीराज्यान्निर्गतं जितात् ॥ KRT_4_0666cd
दिङ्निर्जयव्यसनिनः पूर्वभूपाञ्जहास सः । KRT_4_0667ab
गणिकाभोगसुखितः स्वसामयिकमध्यगः ॥ KRT_4_0667cd
संकोचकारिणो वृद्धान्नर्मोक्त्योद्वेज्य वारयन् । KRT_4_0668ab
तस्माद्विटजनो लेभे संप्रीतात्पारितोषकम् ॥ KRT_4_0668cd
अट्टचेट इव स्पष्टपरिहासविचक्षणः । KRT_4_0669ab
सोलज्जयन्मन्त्रिवृद्धानास्थाने गणिकासखः ॥ KRT_4_0669cd
बन्धकीपादमुद्राङ्कं चारु प्रावरणादि सः । KRT_4_0670ab
गौरावार्हान्दुराचारः सचित्रान्पर्यधापयत् ॥ KRT_4_0670cd
मानी मनोरथो मन्त्री परं परिजहार तम्1 KRT_4_0671ab
अशक्नुवन्यमयितुं मध्यपातपराङ्मुखः ॥ KRT_4_0671cd
कुकृत्यं योगराहित्यं1 वैधुर्यं द्रोहवृत्तिता । KRT_4_0672ab
... ... ...2 दुर्वृत्तस्य प्रभोरन्यत्परिहारान्न भेषजम् ॥ KRT_4_0672cd
सुवर्णपार्श्वं1 विप्रेभ्यो दधत्फलपुरं2 तथा । KRT_4_0673ab
भूभृत्स लोचनोत्सं च द्वादशाब्दानभूद्विभुः ॥ KRT_4_0673cd
कल्याणदेव्यां संजातो जयापीडमहीभुजः । KRT_4_0674ab
संग्रामापीडनामाथ बभूव भुवनेश्वरः ॥ KRT_4_0674cd
पृथिव्यापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । KRT_4_0675ab
समाप्तिं सप्तभिर्वर्षैः साम्राज्यस्य समासदत् ॥ KRT_4_0675cd
श्रीचिप्पटजयापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । KRT_4_0676ab
ललितापीडजो राजा शिशुदेश्यस्ततोभवत् ॥ KRT_4_0676cd
रागग्रहगृहीतस्य ललितापीडभूपतेः । KRT_4_0677ab
वेश्यायां कल्यपाल्यां यो जयादेव्यामजायत ॥ KRT_4_0677cd
उप्पाख्यस्याखुवग्रामकल्यपालस्य1 तां सुताम् । KRT_4_0678ab
रूपलुब्धोवरुद्धात्व2मनैषीत्स हि भूपतिः ॥ KRT_4_0678cd
पद्मोत्पलककल्याणमम्मधर्मै1ः स मातुलैः । KRT_4_0679ab
बालकैः पाल्यमानोभूत्पृथिवीभोगभागिभिः ॥ KRT_4_0679cd

654.

--1) Thus corr. by A3 from A1 विसर्प॰.

658.

--1) Thus corr. by A2 from A1 क्षितिं.

662.

--1) A1 seems to have read यच्चा॰; corrected by A3.

665.

--1) Thus corr. by A3 from A1 ॰कथादिज्ञो.

671.

--1) Thus corr. by A3 from A1 तत्.

672.

--1) A1 gloss परिहासपुरसमीपे.

678.

--1) A3 gloss कल्यं सुरां पालयतीति कल्यपालः कलवाल् इति भाषया.

--2) Thus corr. by A3; two aksharas of A1, corresponding to रुद्धा, are illegible on account of an ink blot. A3 gloss अवरुद्धा उरद्धा इति भाषया.

679.

--1) Thus A1; A3 ॰धम्मैः.

[page 69]




तस्य पञ्च महाशब्दाञ्ज्यायानुत्पलकोग्रहीत् । KRT_4_0680ab
अन्ये जगृहिरेन्यानि कर्मस्थानानि1 मातुलाः ॥ KRT_4_0680cd
आयत्तीकृतसाम्राज्यैर्भ्रातृभिर्वन्दिताज्ञया । KRT_4_0681ab
भूभृज्जनन्या विदधे जयादेव्या जयेश्वरः ॥ KRT_4_0681cd
राञ्जां कृपणवित्तैर्यत्प्रविष्टैर्दूष्यते धनम् । KRT_4_0682ab
अचिरान्नीयते शान्तिमपूर्वैः कैश्चिदेव तत् ॥ KRT_4_0682cd
जयापीडस्य यत्किंचित्सूनुना1 हि व्ययीकृतम् । KRT_4_0683ab
सूनुस्यालैर1शेषं तत्तैः क्रमेण हृतं वसु ॥ KRT_4_0683cd
भगिनीभगसौभाग्यसंभवैर्विभवैः कृताः । KRT_4_0684ab
तेभङ्गुराणां भोगानां भोत्कारो भाग्यभागिनः ॥ KRT_4_0684cd
निरङ्कुशं चेष्टमानाः शनकैस्त्यक्तशैशवात् । KRT_4_0685ab
ते स्वस्रीयान्नृपान्नाशमकुलीनाः शशाङ्किरे ॥ KRT_4_0685cd
अथाभिचारक्रियया मिथः सम्मन्त्र्य पापिभिः । KRT_4_0686ab
राज्येच्छया तैः स्वस्रीयः स्वामी च स नृपि हतः ॥ KRT_4_0686cd
भुक्तक्षितौ द्वादशाब्दांस्तस्मिन्व्यापादिते तथा । KRT_4_0687ab
नैच्छन्नेकस्य ते राज्यं परस्परमहंकृताः ॥ KRT_4_0687cd
तेषामाक्रान्तदेशानां1 नाममात्रमहीपतीन् । KRT_4_0688ab
तांस्तान्कर्तुमसामान्या2न्विरोधोन्योन्यमुद्ययौ2 KRT_4_0688cd
अथ मेघावैiदेव्यां जातो बप्पियभूपतेः । KRT_4_0689ab
ज्येठोप्यचाक्रिकतया योभूद्राज्यविवर्जितः ॥ KRT_4_0689cd
सोयं त्रिभुवनापीडो जयादेव्यामजीजनत् । KRT_4_0690ab
राजानमजितापीडं तं बलादुत्पलो व्यधात् ॥ युग्मम्1 KRT_4_0690cd
शेडा1दिगणनास्थाननिष्यन्दोत्थान्नृपाय ते । KRT_4_0691ab
2ञ्चमाद्गणनास्थानादशनाच्छादने ददुः ॥ KRT_4_0691cd
एकसंभाषणात्खेदं यात्स्वन्येषु दिने दिने । KRT_4_0692ab
पञ्च तुल्यमुखान्नै1च्छद्दुःस्थो राजा तदाश्रितः ॥ KRT_4_0692cd
ते राजन्यजितापीडे राज्योत्पत्त्यपहारिणः । KRT_4_0693ab
पुरदेवगृहादीनां प्रतिष्ठाकर्म चक्रिरे ॥ KRT_4_0693cd
सापत्यास्ते बुभुजिरे राज्यं स्वामिविवर्जितम् । KRT_4_0694ab
निर्जने महिषं शान्तं मिथः सेर्ष्या वृका इव ॥ KRT_4_0694cd
उत्पलेनोत्पलस्वामी तथोत्पलपुरं कृतम् । KRT_4_0695ab
पद्मस्य पद्मस्वाम्यास्ते कृतिः पद्मपुरं तथा ॥ KRT_4_0695cd
वधूर्व्यधत्त पद्मस्य गुणादेवी गुणोज्ज्वला । KRT_4_0696ab
मठमेकमधिष्ठाने द्वितीयं विजयेश्वरे ॥ KRT_4_0696cd
धर्मो धर्मोद्यमी हेतुर्धर्मस्वामिविनिर्मितेः । KRT_4_0697ab
कल्याणवर्मा सत्कर्मा कल्याणस्वामिकेशवे ॥ KRT_4_0697cd
दीन्नाराणां सहस्राणि पञ्चोपकरणं कृती । KRT_4_0698ab
एकैकस्याः सुधीर्धेनोःञ् कृत्वा मम्मो महाधनः ॥ KRT_4_0698cd
पञ्चाशीतिसहस्राणि गवां दत्त्वा प्रकल्पयन् । KRT_4_0699ab
कुम्भप्रतिष्ठासंभारं यो मम्मस्वामिनं व्यधात्1 KRT_4_0699cd
तस्यैकस्यैव सामग्र्यां कः संख्यां कर्तुमर्हति । KRT_4_0700ab
भ्रातॄणां किं पुनस्तेषां सर्वेषां भूरिसंपदाम् ॥ KRT_4_0700cd
द्रोहार्जितास्तु वा लक्ष्मीः सुकृतोपार्जिताथ वा । KRT_4_0701ab
सर्वेषां स्पृहणीयैव तेषां दातृतया तया ॥ KRT_4_0701cd
कृता देवगृहास्तैर्ये तत्पार्श्वेन्यसुरास्पदैः । KRT_4_0702ab
दिङ्मातङ्गसमीपस्थकलभौपम्यमाश्रितम् । KRT_4_0702cd
एकोननवते वर्षे स्वस्रीये शान्तिमागते । KRT_4_0703ab
निविघ्नभोगास्तेभूवन्षड्विंशाब्दात्ययावधि ॥ KRT_4_0703cd
अथ मम्मोत्पलकयोरुद्रभूद्दारुणो रणः । KRT_4_0704ab
रुद्धप्रवाहा यत्रासीद्वितस्ता सुभटैर्हतैः ॥ KRT_4_0704cd
कविर्बुधमनःसिन्धुशशाङ्कः शङ्कुका1भिधः । KRT_4_0705ab
यमुद्दिश्याकरोत्काव्यं भुवनाभ्युदयाभिधम् ॥ KRT_4_0705cd

680.

--1) A2 gloss कर्मस्थानानि कार्खान इति प्रसिद्धानि.

683.

--1) A4 glosses ललितापीडेन and पद्मोत्पलकादिभिः.

688.

--1) Thus corr. A3 from A1 ॰देहानां.

--2) A1 wrote ॰मसामान्याद्वि॰; A2 altered this to ॰मसम्मत्या; A3 has struck out the reading of A2 and has written above ॰मसामान्यान्वि॰.

--3) Thus corr. by A3 from A1 ॰माययौ.

690.

--1) युग्मम् added by A3.

691.

--1) Thus corr. by a later hand from A1 वेडा॰; G वेडा॰. Cf. viii. 578(C)

--2) A2 gives the marginal note शलस्थूलं नामेल्याणकं मिथान नवग्Fरामादि एषां चतुर्णां सम्बन्धी एकोत्पत्तिप्रवेशः स पञ्चमगणनास्थानमिति लोकाश्रायः.

692.

--1) Thus A1; A2 ॰मुखान्यै॰.

699.

--1) To this verse seems to refer the gloss og A2: मलूनायां.

705.

--1) A2 gloss श्रीशङ्कुकाभिधः प्रसिद्ध आलङ्कारिकः यस्य मतं रसनिरूपणे काव्यप्रकाशे चतुर्थोल्लासे श्रीमम्मटाचार्येण निरूपितम्.

[page 70]




मम्मसूनुर्यशोवर्मा संग्राग्रे व्यापाहरत् । KRT_4_0706ab
स यत्र तेजः शूराणां नक्षत्राणामिवार्यमा ॥ KRT_4_0706cd
अथोत्पाट्याजितापीडं संग्रामापीडसंभवः । KRT_4_0707ab
अनङ्गापीडनामाभूत्कृतो मम्मादिभिर्नृपः ॥ KRT_4_0707cd
मम्मोत्साहासहिष्णुत्वात्संभृतामर्षवैकृतः । KRT_4_0708ab
तस्य राज्यं द्विषन्नासीत्सुखवर्मोत्पलात्मजः ॥ KRT_4_0708cd
वर्षत्रयेणोत्पलके ततः प्रमथमागते । KRT_4_0709ab
1 चकारोत्पलापीडमजितापीडजं नृपम् ॥ KRT_4_0709cd
तेषामाश्वयुजीराज1सदृशानां महीभुजाम् । KRT_4_0710ab
भूत्वापि भृत्याः कृतिनो2 विभूतिं केपि लेभिरे ॥ KRT_4_0710cd
सांधिविग्रहिकस्तस्य रत्नो नाम विभूतिभाक् । KRT_4_0711ab
तस्मिन्कालेपि यश्चक्रे रत्नस्वामिसुरास्पदम् ॥ KRT_4_0711cd
भेहुर्दार्वाभिसारादीन्देशानुत्तम्ब्य भूपताम् । KRT_4_0712ab
विमलाश्वा ग्रामभुजो नराद्या व्यवहारिणः । KRT_4_0712cd
राज्ञां कार्कोटवंश्यानां क्षीणप्रायमभूत्कुलम् । KRT_4_0713ab
वंशस्तूत्पलकुल्यानां भुवि वैपुल्यमाययौ ॥ KRT_4_0713cd
सामर्ह्योपनतप्रायपार्थिवत्वो व्यपद्यत । KRT_4_0714ab
विद्वेषात्सुखवश्र्माथ शुष्काख्येन स्वबन्धुना ॥ KRT_4_0714cd
ततः शूराभिधो मन्त्री सुखवर्मात्मजेकरोत् । KRT_4_0715ab
राज्ययोग्योयमित्यास्थां सगुणेवन्तिवर्मणि ॥ KRT_4_0715cd
एकत्रिंशे स वर्षेथ प्रजाविप्लवशान्तये । KRT_4_0716ab
विनिवार्योत्पलापीडं तमे1व नृपतिं व्यधात् ॥ KRT_4_0716cd
यत्कृते विफलक्लेशा आसन्पितृपितामहाः । KRT_4_0717ab
पौत्रेण हेलया प्राप्ता सा सिद्धिः पुण्यकर्मणा ॥ KRT_4_0717cd
कुम्भाः पयोनिधिपयोहरणप्रवृत्ता नित्यं वहन्ति किल ये विफलश्रमत्वम् । KRT_4_0718ab
चित्रं क्षणादिह तदेकसमुद्भवेन संदर्शिता निखिलवारिधिपानलीला । KRT_4_0718cd
अभृत तदनु1 मूर्ध्नि राजलक्ष्मीघटितकटाक्षकृतादिपट्टबन्धे । KRT_4_0719ab
कनकघटमुखान्नवाभिषेकं झटिति पतन्तमवन्तिवर्मदेवः ॥ KRT_4_0719cd
संप्राप्तावुपदेष्टुमिन्दुतपनावुक्तं1 स्ववंशोद्भवैर्भूपालैर्नवराज्यतन्त्रमिव स श्रोत्रद्वये धारयन् । KRT_4_0720ab
राजा मण्डनकुण्डलद्वयमिषात्स्वच्छातपत्रच्छलाल्लक्ष्मीविष्टरपुण्डरीकघटितच्छायोदयो दिद्युते ॥ KRT_4_0720cd


(1)इति श्रीकाश्मीरिकमहामात्यचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरःहिण्यां चतुर्थस्तरङ्गः ॥ समाशतद्वये षष्टियुते मासेषु षट्सु च । निर्दशाहेषु कार्कोटवंशे सप्तदशाभवन् ॥

709.

--1) A4 gloss सुखवर्मा.

710.

--1) Thus corr. by A1 from ॰युजे मासस॰; A2 gloss आश्वयुजे मासि चश्चर्यर्थं ये निर्गच्छन्ति ते हेयारया इति प्रसिद्धास्तत्सदृशानां.

--2) Thus A3; A1 कठिना.

716.

--1) A4 gloss अवन्तिवर्माणम्.

719.

--1) Thus corr. by A3 from A1 तदुरु.

720.

--1) A1; A3 ॰तपनौ युक्तं.

Colophon.

--1) A3 inserts before this the following note: रा 17 ग्रं 116 आदितः राजानः 70 ग्रं 1785.

[page 71]




॥ पञ्चमस्तरङ्गः ॥

का1प्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृस्यति पुरो दृक्पश्य चक्षुःश्रुतेः । KRT_5_0001ab
संधानेभिनवे मिथो भगवतोर्जिह्वापृथक्स्पन्दिनी2 भिन्नार्थां सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ KRT_5_0001cd
अवन्तिवर्मा साम्राज्यं प्राप्य पाटितकण्टकः । KRT_5_0002ab
चकार चरितैश्चित्रं सतां कण्टकितं वपुः ॥ KRT_5_0002cd
आसतां क्षितिपामात्यौ तौ द्वावपि परस्परम् । KRT_5_0003ab
आज्ञादाने1 परिवृढौ भृत्यावाज्ञापरिग्रहे ॥ KRT_5_0003cd
कृतज्ञः क्षान्तिमान्क्ष्माभृन्मन्त्री भक्तः स्मयोज्झितः । KRT_5_0004ab
अभङ्गुरोयं संयोगः सुकृतैर्जातु दृश्यते ॥ KRT_5_0004cd
विवेक्ता प्राप्तराज्यः स क्ष्माभृद्वीक्ष्य नृपश्रियम् । KRT_5_0005ab
अविलुप्तस्मृतिर्धीमानन्तरेवमचिन्तयत् ॥ KRT_5_0005cd
गोभुजां वल्लभा लक्ष्मीर्मातङ्गोत्सङ्गलालिता । KRT_5_0006ab
सेयं स्पृहां समुत्पाद्य दूषयत्युन्नतात्मनः । KRT_5_0006cd
स नास्ति कश्चित्प्रथमं यः प्रदर्श्यानुकूलताम्1 KRT_5_0007ab
संताप्यते न चरमं नीचप्रीत्येव नानया ॥ KRT_5_0007cd
चपलाभिः प्रवृद्धेयं स्वर्वेश्याभिः सहाम्बुधौ । KRT_5_0008ab
तदेकचारिणीवृत्तमनया शिक्षितं कुतः ॥ KRT_5_0008cd
निःस्नेहा नान्वगात्कांश्चित्सुचिरं संस्तुताप्यसौ । KRT_5_0009ab
परलोकाध्वगान्भूपानपायेनानबान्धवान् ॥ KRT_5_0009cd
हेमभोजन1भाण्डादि भाण्डागारे यदर्जितम् । KRT_5_0010ab
कस्मादस्य न नाथास्ते लोकान्तरगता नृपाः ॥ KRT_5_0010cd
अन्योच्छेष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । KRT_5_0011ab
कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ KRT_5_0011cd
स्थूलेषु राजतस्थालकपालेष्ववलोकितैः । KRT_5_0012ab
प्रेतभूपालनामाङ्कैः शङ्का कस्य न जायते ॥ KRT_5_0012cd
कृष्टाः प्रविष्टे ये कालपाशे कण्ठान्मुमूर्षताम् । KRT_5_0013ab
अशस्ता अपवित्राश्च ते हाराः कस्य हारिणः । KRT_5_0013cd
संदूष्य बाष्पैर्दुःखोष्णैस्त्यक्तान्पूर्वैर्मुमूर्षुभिः । KRT_5_0014ab
स्पृशन्नेतानलंकारान्न कः संकोचमाप्नुयात् ॥ KRT_5_0014cd
या वारिराशिसलिलान्तरसंनिधानसंसेवयापि सततं मलिनैव लक्ष्मीः । KRT_5_0015ab
पात्रेषु रोर1शिखिभागिषु सा विमुक्ता वैमल्यमेति हरिणीव हुताशशौचा2 KRT_5_0015cd

2.

--1) A3 gloss: काव्येतेषु इति । एतेषु प्रत्यक्षविषयेषु फणिनां सर्पाणां कचेषु बन्धनेषु ते कापि रुचिः कश्चिदप्यभिलाषोस्ति । जडाजूटकक्ष्यादिबन्धनार्थनत्यन्तं सर्पानभिलषसीति देवीवचनम् । बन्धनस्थानानां कण्ठप्रकोष्ठकक्ष्यादीनां बहुत्वाद्बन्धानामपि बहुवचनम् । एतेषु कचेषु केशेषु फणिनां सम्बन्धिनी अर्थान्मोहकारिणी कापि रुचिरनिर्वचनीया कान्तिस्तवास्ति तत्र केशानामजगराणामिव दर्शनेनातीव मोहो ज्ञायते इति महादेववचनम् । पुंस्कोकिलस्येव तव कण्ठतटस्य गोभिर्वचनैः चक्षुःश्रुतेः सर्पस्य दृक् नेत्रं हृष्यति मोदते । कोकिलरुतमिव तव क्ण्ठध्वनिं श्रुत्वा सर्पस्य दृघर्षः सर्पाणां चक्षुरेव श्रवणस्थानीयमित्यतो दृक् हृष्यतीत्युक्तम् । गीतप्रियो हि सर्पः । यदुक्तम् । शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतरसं फणी । साहित्यामृतसारस्य शङ्करो वेत्ति वा नवेति ॥ इति महादेववचनम् ॥ देवीवचनं तु । तव कण्ठतटस्य कोकिलस्येव करैः पुरोग्रे नेत्रं हृष्यति । गोभिः किरणैः । कोकिलतुल्यवर्णकण्ठतटनैल्यदर्शनेन सर्पस्य दृघर्षः दृग्विकासः कोकिलरुतं श्रुत्वा सर्पाणां नेत्रविकासो जायते शीतसमये तु संकोच इति लौकिकाः ॥.

--2) Thus A3; A1 ॰स्पर्धिनी.

3.

--1) Thus corr. by A3 from A1 ॰धाने.

7.

--1) Thus corr. by later hand from A1 ॰कूल्यताम्.

10.

--1) supplied by A3.

15.

--1) A3 gloss रोरः दारिद्र्या.

--2) A1 ॰शौचे altered by later hand to ॰शौचा; A3 glosses: अग्निशौचानां मृगाणां अग्निना लोमशुद्धिः अग्निशौचवसनवत्, and हुताशेनाग्निना शौचं शुद्धिर्यस्याः सा हुताशशौचा । हरिणी मृगी इव यथा सा अग्नौ प्रक्षिप्तदेहा सती शुद्धलोमा भवति तद्वद्.

[page 72]




इति निर्धार्य नृपतिर्नीत्वा स्वर्णादि1 चूर्णताम् । KRT_5_0016ab
निजैरञ्जलिभिः प्रादाद्द्विजन्मभ्यः करम्भकम्3 KRT_5_0016cd
साधु भूपेति वक्तव्ये हर्षान्निर्गौरवं द्विजः । KRT_5_0017ab
साध्ववन्तिन्निति वदन्नेकः प्रापाञ्जलीन्बहून् ॥ KRT_5_0017cd
लक्ष्मीं कृत्वार्थिसात्कृत्स्नां कृतिनावन्तिवर्मणा । KRT_5_0018ab
विभूतिश्चामरच्छत्रमात्रशेषा व्यधीयत ॥ KRT_5_0018cd
अनन्तसंपत्संपन्नभूरिगोत्रजविप्लवे । KRT_5_0019ab
राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोभवत् ॥ KRT_5_0019cd
विप्लुतान्समरे भ्रातॄन्भ्रातृव्यांश्च विजित्य सः । KRT_5_0020ab
चकार भूरिभिर्वारै राज्यं विगतकण्टकम् ॥ KRT_5_0020cd
राज्यं निष्पाद्य निर्विघ्नमथ वात्सल्यपेशलः । KRT_5_0021ab
विभज्य बन्धुभृत्येषु बुभुजे पार्थिवः श्रियम् ॥ KRT_5_0021cd
भ्राता द्वैमातुरस्तेन शूरवर्माभिधः सुभीः । KRT_5_0022ab
ज्ञातिप्रियेण वितते यौवराज्येभ्यषिच्यत ॥ KRT_5_0022cd
खाधूया1हस्तिकर्णा2ख्यावग्रहारौ प्रदार्य3 यः । KRT_5_0023ab
शूरवर्मस्वामिनं च गोकुलं च विनिर्ममे ॥ KRT_5_0023cd
संपूर्णः पूर्णमहिमा1मर्त्य2माहात्म्यमन्दिरम् । KRT_5_0024ab
पञ्चहस्ताप्र3दश्चक्रे मठं सुकृतकर्मठः ॥ KRT_5_0024cd
भ्राता व्यधत्त नृपतेरपरः समराभिधः । KRT_5_0025ab
केशवं चतुरात्मानं समरस्वामिनं1 तथा ॥ KRT_5_0025cd
द्वौ श्रूरवरजौ धीरविन्नपाख्यौ निजाख्यया । KRT_5_0026ab
व्यधत्तां विबुधावासौ द्वावन्यौ गणनापती ॥ KRT_5_0026cd
भूत्वा बातूलता1च्छन्नप्रभावानुभवौ भुवि । KRT_5_0027ab
गतौ2 सविग्रहावेव हरावससाग्र्यसभ्यताम् ॥ युग्मम्॥ KRT_5_0027cd
राजदौवारिकः श्रीमाञ्शूरस्यासीन्महोदयः । KRT_5_0028ab
महोदयस्वामिनो1 यः प्रतिष्ठां समपादयत् ॥ KRT_5_0028cd
रामटाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् । KRT_5_0029ab
व्याख्यातृपदकं चक्रे स तस्मिन्सुरमन्दिरे ॥ KRT_5_0029cd
अमात्येन महीभर्तुः श्रीप्रभाकरवर्मणा । KRT_5_0030ab
कृतं प्रभाकरस्वामिनाम्नो विष्णोर्निकेतनम् ॥ KRT_5_0030cd
आयातेन शुकैः सार्धं1 दत्ता गृहशुकेन यः । KRT_5_0031ab
मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम्2 KRT_5_0031cd
विच्छिन्नप्रसरा विद्या भूयः शूरेण मन्त्रिणा । KRT_5_0032ab
सत्कृत्य विदुषः सभ्यान्देशेस्मिन्नवतारिता ॥ KRT_5_0032cd
युग्यैः क्षितिभुजां योग्यैरुह्यमाना महर्द्धयः । KRT_5_0033ab
बुधाः प्रवृद्धसत्कारा विविशुर्भूपतेः सभाम् ॥ KRT_5_0033cd
मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः1 KRT_5_0034ab
प्रथां रत्नाकरश्चा1गात्साम्राज्येवन्तिवर्मणः ॥ KRT_5_0034cd
आस्थाने कृतमन्दारो वन्दी शूरस्य मन्त्रिणः । KRT_5_0035ab
संकल्पस्मृतिमाधातुमिमामार्यां यदापठत् ॥ KRT_5_0035cd
अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियम् । KRT_5_0036ab
विपदि सदा1भ्युदयिन्यां पुनरुपकर्तुं कुतोवसरः ॥ KRT_5_0036cd
कृतः सुरेश्वरीक्षेत्रे बहुगेहविधायिना । KRT_5_0037ab
शिवयोर्मिश्रयोस्तेन प्रासादः सोव्ययस्थितिः ॥ KRT_5_0037cd
शूरेश्वरं1 प्रतिष्ठाप्य स्ववेश्मेव समुन्नतम् । KRT_5_0038ab
चक्रे शूरमठं धीमान्स भोगाय तपस्विनम् ॥ KRT_5_0038cd
स्वकृते पत्तनवरे तेन शूरपुराभिधे । KRT_5_0039ab
क्रमवर्त1प्रदेशस्थो ढक्को2भूद्विनिवेशितः ॥ KRT_5_0039cd
सुरेश्वरीप्राङ्गनतश्चक्रे भूतेश्वरं हरम् । KRT_5_0040ab
मठं शूरमठान्तश्च शूरजो रत्नवर्धनः ॥ KRT_5_0040cd
काव्यदेव्यभिधा शूरवधूः शुद्धान्वया व्यधात् । KRT_5_0041ab
सदाशिवं सुरेश्वर्यां काव्यदेवीश्वराभिधम् ॥ KRT_5_0041cd

16.

--1) A2 gloss आदिशब्देन मौक्तिकादेः परिग्रहः.

--2) A2 gloss हम्बलं and करम्बं व्यामिश्रं खिचडू इति भाषया.

23.

--1) A2 gloss धुधखोहा.

--2) A2 gloss व्याघ्राश्रमे वागहामे.

--3) A3 विधाय.

24.

--1) Thus A1; A3 सपूर्णपुण्यमहिमा.

--2) Thus A1; A3 मन्त्रमा॰.

--3) A2 gloss पाञ्जथ्.

25.

--1) A1 gloss शाल्यानश्रमे समरभोग.

27.

--1) तू written above the line by A3; corresponding letter of A1 smeared over. A3 gloss इमौ वातूलावुन्मत्ताविति स्वस्य तद्भावमिव विधाय लोकविषये गोपितनिजप्रभावावित्यर्थः.

--2) Thus corr. by A3 from A1 गुरौ.

28.

--1) A2 gloss म्डवाश्रमे.

31.

--1) सार्धं supplied by A3 in space left by A1.

--2) Thus corr. by later hand from A1 ख्यानशुका॰.

34.

--1) A2 gloss आनन्दवर्धनः काव्यालङ्कारध्वनिग्रन्थकारः.

--2) A2 gloss रत्नाकरः हरविजयकारः.

36.

--1) Thus corr. by A3 from A1 समाभ्यु॰.

38.

--1) A2 gloss शूरपुरे.

39,

--1) A2 gloss कमिलनकोद्दस्थः.

--2) A2 gloss द्रङ्गः.

[page 73]




निर्मत्सरोवन्तिवर्मा सोदरेभ्योनिपायिनीम् । KRT_5_0042ab
शूराय च सपुत्राय नृपतिप्रक्रियां ददौ ॥ KRT_5_0042cd
छन्दानुवर्ती भूपालो दैवतस्येव मन्त्रिणा । KRT_5_0043ab
आ बाल्याद्वैष्णवोप्यासीच्छैवतामुपदर्शयन् ॥ KRT_5_0043cd
क्षेत्रे विश्वैकसाराख्ये1 मृतानामपवर्गदे । KRT_5_0044ab
भूरिभोगास्पदं राज्ञा2 तेनावन्दिपुरं कृतम् ॥ KRT_5_0044cd
अवन्तिस्वामिनं तत्र प्राग्राज्याधिगमात्कृती । KRT_5_0045ab
विधाय प्राप्तसाम्राज्यश्चक्रेवन्तीश्वरं तदा ॥ KRT_5_0045cd
त्रिपुरेश्वरभूतेशविजयेशेषु भूभृता । KRT_5_0046ab
स्नानद्रोण्या रुप्यमय्या तेन पीठत्रयं कृतम् ॥ KRT_5_0046cd
शूरस्यापि नरेन्द्रं तं ध्यायतः स्वाधिदैवतम् । KRT_5_0047ab
तत्प्रियार्थमुपेक्ष्योभूद्धर्मः प्राणाः सुतोपि वा ॥ KRT_5_0047cd
तथा चार्चयितुं जातु1 यातो भूतेश्वरं नृपः । KRT_5_0048ab
विभवानुगुणे स्वस्मिन्पूजोपकरणेर्पिते ॥ KRT_5_0048cd
ददर्श पीठे देवस्य पूजकैरुपपादितम् । KRT_5_0049ab
वन्यमुत्पलशाकाख्यं तिक्तशाकमवस्थितम् ॥ KRT_5_0049cd
तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम् । KRT_5_0050ab
व्यजिज्ञपन्क्षितिन्यस्तजानुप्राञ्जलयस्ततः ॥ KRT_5_0050cd
डामरो धन्वनामास्ति लहरे1 विषये बली । KRT_5_0051ab
शूरस्य मन्त्रिणो देव सेवको यः सुतोपमः ॥ KRT_5_0051cd
हृतेषु तेन ग्रामेषु निरवग्रहशक्तिना । KRT_5_0052ab
निवेद्यमेतदेवास्मै भूतेशाय निवेद्यते ॥ KRT_5_0052cd
अकाण्डशूलजनितां पार्हिवः कथयन्व्यथाम् । KRT_5_0053ab
श्रुतमश्रुतवत्कृत्वा त्यक्तपूजोथ निर्ययौ ॥ KRT_5_0053cd
पूजां संत्यज्य गमनं शूलं चाकस्मिकं प्रभोः । KRT_5_0054ab
सहेतुकं विदञ्शूरो वृत्तान्तान्वेषकोभवत् ॥ KRT_5_0054cd
ज्ञाततत्त्वस्ततस्तूर्णं भूतेशाभ्यर्णवर्तिनः । KRT_5_0055ab
क्रुद्धः समातृचक्रस्य1 भैरवस्याविशद्गृहम् ॥ KRT_5_0055cd
निषिद्धजनबाहुल्याद्भू1त्वा विरलपार्श्वगः । KRT_5_0056ab
प्रहिणोद्धन्वमानेतुं ततो दूतान्पुनः पुनः ॥ KRT_5_0056cd
स क्षितिं पत्तिपृतनासंमर्देन प्रकम्पयन् । KRT_5_0057ab
अप्रकम्पतनुः प्राप क्रूरः शूरान्तिकं शनैः1 KRT_5_0057cd
तस्य प्रविष्टमात्रस्य शस्त्रिणः शूरचोदिताः । KRT_5_0058ab
मुण्डं सजीवितस्यैव चिच्छिदुर्भैरवाग्रतः ॥ KRT_5_0058cd
आसन्ने सरसि क्षिप्त्वा रुधिरोद्गारि तद्वपुः । KRT_5_0059ab
क्ष्मापतेः क्षालितामर्षो धीरः शूरो विनिर्ययौ ॥ KRT_5_0059cd
तस्य श्रुत्वा शिरश्छिन्नं स्वपुत्रस्येव मन्त्रिणा । KRT_5_0060ab
क्षीण1मन्युः क्षितिपतिः सवैलक्ष्य इवाभवत् ॥ KRT_5_0060cd
शूरोथ पृष्टकुशलो निर्वथोस्मीति भाषिणम् । KRT_5_0061ab
उत्थाप्य तल्पात्तं देवं पूजाशेषमकारयत् ॥ KRT_5_0061cd
इत्थं समस्तकृत्येषु भावज्ञः स महीपतेः । KRT_5_0062ab
अनुक्त्वैव हितं तत्तत्प्राणांस्त्यक्त्वाप्यसाधयत् ॥ KRT_5_0062cd
परस्परमनुत्पन्नमन्युकालुष्यदूषणौ । KRT_5_0063ab
स दृष्टौ न श्रुतौ वान्यौ तादृशौ राजमन्त्रिणौ ॥ KRT_5_0063cd
श्रीमेघवाहनस्येव साम्राज्येवन्तिवर्मणः । KRT_5_0064ab
अशेषप्राणिनामासीदमारो दश वत्सरान् ॥ KRT_5_0064cd
जलं जहद्भिः शिशिरं तटानेत्याकुतोभयैः । KRT_5_0065ab
तत्कालं सेवितः पृष्टे पाठीनैः शरदातपः ॥ KRT_5_0065cd
अनुग्रहाय लोकानां भट्टश्रीकल्लटादयः । KRT_5_0066ab
अवन्तिवर्मणः काले सिद्धा भुवमवातरन् ॥ KRT_5_0066cd
चरित्रे बहुवक्तव्ये येषामेकस्य पावनः । KRT_5_0067ab
अयं प्रासङ्गिकः कश्चिद्वृत्तान्तो वर्णयिष्यते ॥ KRT_5_0067cd
देशः प्रवलतोयोयं महापद्मसरोजलैः । KRT_5_0068ab
कूलिनीभिश्च शबलः स्वल्पोत्पत्तिः सदाभवत् ॥ KRT_5_0068cd
ललितादित्यभूभर्तुरुद्योगेन बलीयसा । KRT_5_0069ab
किंचिदाकृष्टसलिलः प्राप्तोत्पत्तिं मनाक्ततः ॥ KRT_5_0069cd

44.

--1) A2 gloss विश्वैकसाराख्ये भारसो इति ग्रामे.

--2) Thus corr. by later hand from A1 राजा.

48.

--1) Thus corr. by later hand from A1 जातो.

51.

--1) A3 gloss लार् इति प्रसिद्धे राष्ट्रे.

55.

--1) A2 separates from the following and gives the gloss शूरः to .

56.

--1) Thus A1; A3 ॰बाहुल्ये भूत्वा.

57.

--1) Thus A3; A1 पुरः.

60.

--1) Thus corr. by A2 from A1 क्षण॰.

[page 74]




जयापीडे क्रमाद्याते स्वल्पवीर्येषु राजसु । KRT_5_0070ab
सलिलोपप्लवैरासीत्पुनरेवावृता क्षितिः ॥ KRT_5_0070cd
दीन्नाराणां दशशती पञ्चाaशत्यधि1काभवत् । KRT_5_0071ab
धान्यखारीक्र2ये हेतुर्देशे दुर्भिक्षविक्षिते ॥ KRT_5_0071cd
अवन्तिवर्मणः पुण्यैर्जन्तूञ्जीवयितुं ततः । KRT_5_0072ab
स्वयमन्नपतिः श्रीमान्सुय्यः क्षितिमवातरत् ॥ KRT_5_0072cd
यस्याविज्ञातसंभूतेस्तुर्ये1 कालेपि निश्चितम् । KRT_5_0073ab
अयोनिजत्वं कृतिनश्चरितैर्भुवनाद्भुतैः ॥ KRT_5_0073cd
पुरा रथ्यारजःपुञ्जं संमार्जन्ती पिधानवत् । KRT_5_0074ab
सुय्या1भिधाना चाण्डाली मृद्भाण्डं प्राप नूतनम् ॥ KRT_5_0074cd
तस्मिन्पिधानमुद्धृत्य सापश्यन्मध्यशायिनम् । KRT_5_0075ab
बालं कमलपत्राक्षं धयन्तं स्वकराङ्गुलीः ॥ KRT_5_0075cd
मात्रा कयापि त्यक्तोसौ सुन्दरो मन्दभाग्यता । KRT_5_0076ab
अथेति चिन्तयन्त्यासीत्सा स्नेहात्प्रस्नुतस्तनी ॥ KRT_5_0076cd
अदूषन्त्या1 स्पर्शेन धात्र्या शूद्रस्त्रियो गृहे । KRT_5_0077ab
तया विहितवृत्तिः स शिशुर्वृद्धिमनीयत ॥ KRT_5_0077cd
स सुय्यनामा मतिमान्प्रवृद्धः शिक्षिताक्षरः । KRT_5_0078ab
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥ KRT_5_0078cd
व्रतस्नानादिनियमैस्तं सतां हृदयंगमम् । KRT_5_0079ab
गोष्टीषु विशदप्रज्ञम् विदग्धाः पर्यवारयन् ॥ KRT_5_0079cd
तेषां कथाव्यवस्थासु निन्दताम् जलविप्लवम् । KRT_5_0080ab
धीरस्ति मे निरर्थस्तु किं कुर्यामिति सोब्रवीत् ॥ KRT_5_0080cd
उन्मत्तस्येव वदतस्तस्य तन्नियमाद्वचः । KRT_5_0081ab
निशम्य भूभृच्चारेभ्यश्चिरमासीत्सविस्मयः ॥ KRT_5_0081cd
ततस्तमानीय नृपः किं ब्रूष इति पृष्टवान् । KRT_5_0082ab
धीरस्तीत्यादि राजाग्रेप्यवोचत्सोप्यसंभ्रमः1 KRT_5_0082cd
वातूलोसाविति निजैरुक्तोप्यथ महीपतिः । KRT_5_0083ab
धियं दिदृक्षुर्विदधे तस्यायत्तं निजं1 धनम् ॥ KRT_5_0083cd
कोशाद्दीन्नारभाण्डानि बहून्यादाय हेलया । KRT_5_0084ab
ययौ मडवराज्यं स नावमारुह्य रंहसा ॥ KRT_5_0084cd
ग्रामे तत्र प्रवृद्धाम्बुनिमग्ने नन्दकाभिधे । KRT_5_0085ab
एकं निक्षिप्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ KRT_5_0085cd
सत्यं वातूल एवासौ सभेष्वपि वदत्स्वपि । KRT_5_0086ab
वार्तां निशम्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ KRT_5_0086cd
क्रमराज्यं स संप्राप्य देशे यक्षदराभिधे1 KRT_5_0087ab
अञ्जलिभ्यां निचिक्षेप दीन्नारान्सलिलान्तरे ॥ KRT_5_0087cd
यत्र तीरद्वयालम्बिशैलनिर्लुठिताः शिलाः । KRT_5_0088ab
चक्रुर्वितस्ताम् निष्पीड्य पयः प्रतिपथोन्मुखम् ॥ KRT_5_0088cd
दुर्भिक्षोपहता ग्राम्या दीन्नारान्वेषिणस्तदा । KRT_5_0089ab
शिलाः प्रवाहादुद्धृत्य वितस्तां समशोधयन् ॥ KRT_5_0089cd
एवं दिनानि द्वित्राणि पयो युक्त्या विकृष्य तत् । KRT_5_0090ab
वितस्तामेकतः स्थानात्कर्मकृद्भिरबन्धयत् ॥ KRT_5_0090cd
पाषाणसेतुबन्धेन सुय्येनाद्भुतकर्मणा । KRT_5_0091ab
सप्ताहमभवद्बद्धा निखिला नीलजा सरित् ॥ KRT_5_0091cd
अधः प्रवाहं संशोध्य लुठदश्मप्रतिक्रियाम् । KRT_5_0092ab
कृत्वा बद्धैः शिलाबन्धैः सेतुबन्धमपाटयत् ॥ KRT_5_0092cd
चिरकालनिरोधेन सोत्कण्ठेवाम्बुधिं प्रति । KRT_5_0093ab
ततः प्रावर्तत जवाद्गन्तुं सागरगामिनी ॥ KRT_5_0093cd
जम्बालाङ्का स्फुरन्मीना भूर्बभौ सलिलोज्झिता । KRT_5_0094ab
व्यक्तकार्ष्ण्या सनक्षत्रा निर्मेघेव नभःस्थली ॥ KRT_5_0094cd
यत्र यत्र विवेदौघवेधं सलिलविप्लवे । KRT_5_0095ab
तत्र तत्र वितस्तायाः प्रवाहान्नूतनान्व्यधात् ॥ KRT_5_0095cd
मूलस्रोतोग्र्यनिष्ठ्यूतभूरिस्रोता बभौ सरित् । KRT_5_0096ab
एकभोगाश्रयानेकफणेवासितपन्नगी ॥ KRT_5_0096cd
वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु । KRT_5_0097ab
यान्त्यौ ये समगंसा1तां प्राग्वैन्यस्वामिनोन्तिके ॥ KRT_5_0097cd
वर्ततेद्य महानद्योः कल्पापायेप्यनत्ययः । KRT_5_0098ab
संगमो नगरोपान्ते स सुय्योपक्रमस्तयोः ॥ KRT_5_0098cd

71.

--1) Thus A1; A3 पञ्चाशदधि॰.

--2) Thus corr. by A3 from A1 ॰खारेः.

73.

--1) A2 gloss चतुर्थे युगे.

74.

--1) Thus A1; A3 पूयाभि॰.

77.

--1) Thus corr. by later hand from A1 ॰न्त्याः.

82.

--1) Thus corr. by A3 from A1 ॰सम्भवः.

87.

--1) A2 gloss द्यारगलाख्ये.

79.

--1) समगं supplied by A3 in space left by A1.

[page 75]




अद्याप्या1स्तां फलपुरपरिहासपुरस्थितौ । KRT_5_0099ab
विष्णुस्वामी संगमस्य वैन्यस्वामी च तीरयोः ॥ KRT_5_0099cd
सुन्दरीभवनाभ्यर्णप्राप्तस्याद्यतनस्य तु । KRT_5_0100ab
योगशायी हृषीकेशः सुय्यस्याभ्यर्चितस्तटे ॥ KRT_5_0100cd
दृश्यन्तेद्यापि सरितां पूर्वस्रोतस्तटोद्भवाः1 KRT_5_0101ab
निषादाकृष्टनैरज्जुरेखाङ्का जीर्णपादपाः ॥ KRT_5_0101cd
स्फुरत्तरङ्गजिह्वाह् स नदीर्मार्गमजिग्रहत् । KRT_5_0102ab
तास्ताः स्वेच्छानुसारेण मान्त्रिकः पन्नगीरिव ॥ KRT_5_0102cd
बद्ध्वा शैलमयान्सेतून्वितस्ताम् सप्तयोजनीम् । KRT_5_0103ab
महापद्मसरोवारि स चकार नियन्त्रितम् ॥ KRT_5_0103cd
महापद्मसरःकुण्डद्वितस्ता येन योजिता । KRT_5_0104ab
अवान्निर्याति1 कोदण्डयन्त्रादिपुरिवाध्वना ॥ KRT_5_0104cd
उद्धृत्य सलिलादुर्वीमेवमादिवराहवत् । KRT_5_0105ab
अनेकजनसंकीर्णान्ग्रामान्नानाविधान्व्यधात् ॥ KRT_5_0105cd
पालीभिरम्भः संरोध्य यान्कुण्डसदृशान्व्यधात् । KRT_5_0106ab
कुण्डलानीति सर्वान्नसमृद्धान्ब्रुवते जनाः ॥ KRT_5_0106cd
उत्खातकीलनिवहान्नद्योद्यापि शरत्कृशाः । KRT_5_0107ab
व्यञ्जन्ति जलगन्धेभबन्धनस्तम्भसंनिभान् ॥ KRT_5_0107cd
दीन्नारभाण्डानौ1ज्झीत्स यदगाधजलान्तरे । KRT_5_0108ab
नन्दिके निर्गतजले स्थलान्तात्तदलभ्यत ॥ KRT_5_0108cd
अदेवमातृकान्ग्रामान्परीक्ष्य विविधाः क्षितीः । KRT_5_0109ab
संविभेजे विभक्तेन नादेयेन स वारिणा ॥ KRT_5_0109cd
असिञ्चच्च जलैर्ग्रामान्मृदमुपाहताम् । KRT_5_0110ab
या यावता क्षणेनागाच्छोषम् तां तावता हृदि ॥ KRT_5_0110cd
कालेन मत्वा सेकार्हां प्रतिग्रामं जलस्रुतेः । KRT_5_0111ab
परिमाणं विभागं च परिकल्प्य निरस्त्ययम् ॥ KRT_5_0111cd
चकार चानूलाद्याभिः सिन्धुभिः सर्वतो दिशः । KRT_5_0112ab
सत्फलोदारकेदारसंपत्संपन्नविभ्रमाः ॥ तिलकम्॥ KRT_5_0112cd
न कश्यपेनोपकृतं न यत्संकर्षणेन वा । KRT_5_0113ab
हेलया मण्डलेमुष्मिंस्तत्सुय्येन सुकर्मणा ॥ KRT_5_0113cd
भूमेर्जलादुद्धरणं द्विजक्षेत्रे तथार्पणम् । KRT_5_0114ab
सेतुबन्धोश्मभिस्तोये यमनं कालियस्य च ॥ KRT_5_0114cd
चतुर्षु सिद्ध1मिति यद्विष्णोः सत्कर्मजन्मसु । KRT_5_0115ab
सुय्यस्य तत्पुण्यराशेरेकस्मिन्नेव जन्मनि ॥ युग्मम्2 KRT_5_0115cd
यस्मिन्महासुभिक्षेषु दीन्नाराणां शतद्वयी । KRT_5_0116ab
धान्यखारेः1 प्राप्तिहेतुरा सर्गादभवत्पुरा ॥ KRT_5_0116cd
ततः प्रभृति तत्रैव चित्रं कश्मीरमण्डले । KRT_5_0117ab
षट्त्रिंशता1 धान्यखरोर्दीन्नारैरुदितः क्रयः ॥ KRT_5_0117cd
निर्गताया1 महापद्मसलिलात्स्वर्गसंबिभम् । KRT_5_0118ab
वितस्तायास्तटे चक्रे स्वनामाङ्कं स पत्तनम् ॥ KRT_5_0118cd
स्वकृता स्थापिता तेन सरसि व्याप्तदिक्तटे । KRT_5_0119ab
आसंसारं स्थितामार1मर्यादा झषपक्षिणाम् ॥ KRT_5_0119cd
सुय्या1कुण्डलनामानं ग्रामं कृत्वा द्विजातिसात् । KRT_5_0120ab
सुय्यामु2द्दिश्य तन्नाम्ना सुय्या3सेतुं च निर्ममे ॥ KRT_5_0120cd
तेनोद्धृतासु सलिलाद्भूषु ग्रामाः सहस्रशः । KRT_5_0121ab
अवन्तिवर्मप्रमुखैर्जयस्थल1मुखाः कृताः ॥ KRT_5_0121cd
ईदृशैर्धर्म्यवृत्तान्तैः प्रवर्तितकृतोदयः । KRT_5_0122ab
अवन्तिदेवः पातिस्म मान्धातेव वसुंधराम् ॥ KRT_5_0122cd
प्राणप्रयाणसोद्योगरोगग्रस्तस्ततो ययौ । KRT_5_0123ab
क्षेत्रं स त्रिपुरेशाद्रिनिष्ठज्येष्ठेश्वराश्रितम् ॥ KRT_5_0123cd
आत्मनस्तत्र निश्चित्र विपत्तिं चिरगोपिताम् । KRT_5_0124ab
प्राणान्ते प्राञ्जलिः शूरो वैष्णवत्वमदर्शयत् ॥ KRT_5_0124cd
तेनान्ते भगवद्गीताः शृण्वता भावितात्मना । KRT_5_0125ab
ध्यायता वैष्णवं धाम निरमुच्यत जीवितम् ॥ KRT_5_0125cd

92.

--1) Emended A1 अध्यप्या॰, altered by later hand to अधप्या॰.

102

--1) Thus G and Edd.; A ॰द्भयः.

104

--1) Thus G and Edd.; A ॰र्यान्ति.

108.

--1) Emended; A ॰भाण्डात्नौ॰.

112.

--1) Supplied by A2.

115.

--1) Thus corr. by A2 from A1 यत्सिद्ध॰.

--2) युग्मम् supplied by A2.

116.

--1) Thus corr. by A1 from खारी.

117.

--1) A2 gloss द्वादशदीनाराणां बाहगन्ये इति कश्मीरदेशभाषया परिगणने षट्त्रिंशद्दीन्नाराः त्रिबाहगन्य इति ज्ञेयाः.

118.

--1) Thus corr. by A3 from A1 निर्गता वा.

--2) A2 gloss सुय्यपुराख्यम्.

119.

--1) Thus corr. by A3 from A1 स्थिरासार॰.

120.

--1) Thus corr. by later hand from A1 सुय्यकु॰.

--2) Emended; A सय्या॰.

--3) Thus corr. by later hand from A1 सय्या॰.

121.

--1) A2 gloss जिथन्.

:p 76.
आषाढशुक्लपक्षस्य तृतीयस्याम् क्षमापतिः1 KRT_5_0126ab
वर्षे एकोनषष्ठे स क्ष्मावृषास्तमुपाययौ ॥ KRT_5_0126cd
तस्मिन्प्रशान्ते प्रत्येकं विभवोत्सिक्तचेतसाम् । KRT_5_0127ab
तुल्यमुत्पलवंश्यानां राज्येच्छा भूयसामभूत् ॥ KRT_5_0127cd
ततश्चक्रे प्रतीहारः प्रयत्नाद्रत्नवर्धनः । KRT_5_0128ab
नृपं शंकरवर्माणमवन्तिनृपतेः सुतम् ॥ KRT_5_0128cd
कर्णपो विन्नपामात्य1स्तनूजं शूरवर्मणः2 KRT_5_0129ab
तद्द्वेषात्सुखवर्माख्यं यौवराज्येप्ययोजयत् ॥ KRT_5_0129cd
अतस्तयोरभूद्वैरं क्षितीशयुवराजयोः । KRT_5_0130ab
यस्मिन्क्षने क्षणे राज्यमासीद्दोलाभिवाश्रयत् ॥ KRT_5_0130cd
शिवशक्त्यादयो वीराः स्वामिकार्योज्झितासवः । KRT_5_0131ab
यत्राभूवन्स्वसत्त्वस्य परीक्षाक्षनलाभिनः ॥ KRT_5_0131cd
कुर्वतां स्वामिशत्रूणां दानमानप्रतिश्रवम् । KRT_5_0132ab
सत्त्वैकाग्र्यान्न ते यस्मादानुकूल्यमशिश्रियन् ॥ KRT_5_0132cd
पिण्डस्पृहां परित्यज्याहंकृताः शिक्षिताः क्वचित् । KRT_5_0133ab
तावन्न वीततमसह् श्ववृत्तिमनुजीविनः ॥ KRT_5_0133cd
कथंचिदथ निर्जित्य युवराजं1 महौजसम् । KRT_5_0134ab
प्राज्यः स्वविजयोंकारश्चक्रे शंकरवर्मणा ॥ KRT_5_0134cd
सम्राट्समरवर्माद्यैर्वितीर्णसमरोसकृत् । KRT_5_0135ab
कीर्तिं श्रिया प्रणयिनीं लब्धयाधिविवेद सः ॥ KRT_5_0135cd
अथ निर्जित्य दायादांल्लब्ध्वा लक्ष्मीं क्षितीश्वरः । KRT_5_0136ab
जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः ॥ KRT_5_0136cd
तस्य कालबलाद्देशे प्रक्षीणजनसंपदि । KRT_5_0137ab
लक्षाणि नव पत्तीनां द्वारान्निष्क्रामतोभवन् ॥ KRT_5_0137cd
स्वपुरस्योपकण्ठेपि योभूत्कुण्ठितशासनः । KRT_5_0138ab
स एव रत्नोत्तंसेषु राज्ञामाज्ञां न्यवेशयत् ॥ KRT_5_0138cd
गच्छन्नाम्नायविच्छेदसंप्रदायः ककुभये । KRT_5_0139ab
स्वप्रज्ञया समुन्नीतो राज्ञा शंकरवर्मणा ॥ KRT_5_0139cd
तत्सेना नरनाथानां पृतनाभिः पदे पदे । KRT_5_0140ab
कुलापगेव कुल्याभिर्विशन्तीभिरवर्ध्यत ॥ KRT_5_0140cd
दार्वाभिसार1राजेन2 त्रस्यता3 समुपाश्रिताः । KRT_5_0141ab
अद्रिद्रोण्यो न वाहिन्यंस्तत्सेनानादमादधुः ॥ KRT_5_0141cd
जनोल्बणैर्हरिगणैर्गृह्णन्हरिगणं क्षणात् । KRT_5_0142ab
अनासादितदुर्गं स चक्रे दुर्गान्तरातिथिम् ॥ KRT_5_0142cd
लक्षाणि नव पतीनां वारणानां शतत्रयी । KRT_5_0143ab
लक्षं च वाजिनामासीद्यस्य सेनापुरःसरम् ॥ KRT_5_0143cd
स गूर्जरजयव्ययः स्वपराभवशङ्किनम् । KRT_5_0144ab
त्रैगर्तं2 पृथिवीचन्द्रं निन्ये तमसि हास्यताम् ॥ KRT_5_0144cd
पुत्रं भुवनचन्द्राख्यं नीविं1 प्रागेव दत्तवान् । KRT_5_0145ab
स ह्यभूत्प्रणतिं कर्तुं तस्याभ्यर्णमुपागतः ॥ KRT_5_0145cd
अथ तत्कटकं भ्राम्यद्भूरिमण्डलनायकम् । KRT_5_0146ab
वीक्ष्य संमुखमायान्तं महार्णवमिवोल्बणम् ॥ KRT_5_0146cd
समागमक्षये यस्माच्छङ्गमानः स्वबन्धनम् । KRT_5_0147ab
पलाय्य प्रययौ दूरं नि1र्वाणौजोविजृम्भितः ॥ तिलकम्॥ KRT_5_0147cd
यमप्रतिमसौन्दर्यमद्याप्याहुः पुराविदः । KRT_5_0148ab
तमेवाद्राक्षुरुत्रस्ता नृपाः कालमिवोल्बणम् ॥ KRT_5_0148cd
उच्चखानालखानस्य संख्ये गूर्जरभुभूजः । KRT_5_0149ab
बद्धमूलां क्षणाल्लक्ष्मीं शुचं दीर्घामरोपयत् ॥ KRT_5_0149cd
तस्मै दत्त्वा टक्कदेशं1 विनयादङ्गुलीमिव । KRT_5_0150ab
स्वशरीरमिवापासीन्मण्डलं गूर्जराधिपः ॥ KRT_5_0150cd
हृतं भोजाधिराजेन स साम्राज्यमदापयत् । KRT_5_0151ab
प्रतीहारतया भृत्यीभूते थक्कियक्रान्वये ॥ KRT_5_0151cd

126.

--1) Thus corr. by A3 from A1 ॰पतेः.

129.

--1) Thus A3; A1 ॰पापत्य॰.

--2) A4 gloss अवन्तिवर्मभ्रातुः.

134.

--1) A4 gloss सुखवर्माणम्.

131.

--1) Thus A1; altered by later hand to ॰विच्छेदं.

141.

--1) A2 gloss दर्वाभिसारः दानगलो इति भाषया.

--2) A4 gloss नरवाहननाम्ना.

--3) A3 भ्राम्यता.

--4) A4 gloss दार्वाभिसारनृपस्य सेना.

144.

--1) A2 gloss गूर्जरेति अत्र गुर्जरः लघुगोज्यराद इति प्रसिद्धो देशः.

--2) A2 gloss त्रिगर्तो नगरकोट्टः तदधीशः.

142.

--1) A1 writes in margin the gloss: नीविः । नेय इति देशभाषया प्र, which A2 continues with सिद्धः यः स्वप्रतिनिधिः न्यूनबलेन माण्डलिकेनाधिकबलस्य राज्ञः प्रतीत्यर्थं सतर्ण्यते ॥.

147.

--1) ति suppied by A3 in space left by A1.

150.

--1) A1 gloss तक्कदेशः अट्किनदीतटे शकरवो नाम भुद्ददेशाद्दूरं वर्तमानो योजनविंशतिकेन.

[page 77]




दरत्तुरुष्काधिपयोर्थः केसरिवराहयोः । KRT_5_0152ab
हिमवद्विन्ध्ययोरासीदार्यावर्त इवानतरे ॥ KRT_5_0152cd
1उदभाण्डपुरे तस्थुर्यदीये निर्भया नृपाः । KRT_5_0153ab
पक्षच्छेदव्यथात्रस्ता महार्णव इवाद्रयः ॥ KRT_5_0153cd
नक्षत्रेष्विव भूपेषु नभसीवोत्तरापथे । KRT_5_0154ab
यस्यैव विपुला ख्यातिर्1मार्तण्डस्येव मण्दलम् ॥ KRT_5_0154cd
स श्रीमांल्लल्लियः1 शाहिरलखानाश्रयः क्रिधा । KRT_5_0155ab
निराकरिष्णोः2 साम्राज्यात्तस्य सेवां न लब्धवान् ॥ KRT_5_0155cd
एवं दिग्विजयं कृत्वा प्राप्तः स1 निजमण्डलम् । KRT_5_0156ab
प्रदेशे पञ्चसत्राख्ये स्वनाम्नां विदधे पुराम् ॥ KRT_5_0156cd
तस्य1 श्रीस्वामिराजस्य तनयोद2क्पथप्रभोः । KRT_5_0157ab
पूर्णिमेव क्षपाबन्धोः सुगन्धाख्याभवत्प्रिया ॥ KRT_5_0157cd
तया समं पुरवरे सुरराजोपमो नृपः । KRT_5_0158ab
तस्मिञ्शंकरगौरीश1सुगन्धेशौ विनिर्ममे ॥ KRT_5_0158cd
द्विजस्तयोर्नायकाख्यो गौरीशसुरसद्मनोः । KRT_5_0159ab
चातुर्विद्यः कृतस्तेन वाग्देवीकुलमन्दिरम् ॥ KRT_5_0159cd
परकाव्येन कवयः परद्रव्येण चेश्वराः । KRT_5_0160ab
निर्लोटितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ KRT_5_0160cd
स्वल्पसत्त्वो नरपतिः स्वपुरख्यापनाय सः । KRT_5_0161ab
सारापहारमकरोत्परिहासपुरस्य यत् ॥ KRT_5_0161cd
ख्यातिहेतुः पट्टवानम् पशूनां क्रियविक्रयौ । KRT_5_0162ab
इत्यादि यत्पत्तनेस्ति तत्तस्मिन्हि पुरोभवत् ॥ KRT_5_0162cd
राज्यप्रेदेन नृपते रत्नवर्धनमन्त्रिणा । KRT_5_0163ab
श्रीरत्नवर्धनेशाख्यो व्यधीयत सदाशिवः ॥ KRT_5_0163cd
चित्रं नृपद्विपाः पूतमूर्तयः कीर्तिनिर्झरैः । KRT_5_0164ab
भवन्ति व्यसनासक्तिपांसुस्नानमलीमसः ॥ KRT_5_0164cd
अथ क्रमेण नृपतिर्लोभाभ्यासेन भूयसा । KRT_5_0165ab
आधीयमान1चित्तोभूत्प्रजापीडनपण्डितः ॥ KRT_5_0165cd
आरब्धैर्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे । KRT_5_0166ab
देवादीनां स सर्वस्वं जहारायासयुक्तिभिः ॥ KRT_5_0166cd
कर्मस्थाने पुरगृहग्रामादिधनहारिणा । KRT_5_0167ab
तेनाaट्टपतिभागाख्यगृहकृत्याभिधे कृते ॥ KRT_5_0167cd
धूपचन्दनतैला1दिविक्रयोत्थं समाददे । KRT_5_0168ab
द्रविणं देववेश्मभ्यः क्रयमूल्य2कलाच्छलात्3 KRT_5_0168cd
प्रत्यवेक्षां मुखे दत्त्वा विभक्तैरधिकारिभिः । KRT_5_0169ab
चतुःषष्टिं सुरगृहान्मुमोषेत1रदञ्जसा ॥ KRT_5_0169cd
ग्रामान्देवगृहग्राह्यान्राजा प्रतिकरेण सः । KRT_5_0170ab
स्वयं स्वीकृत्य चोत्पत्तिं क्ष्मां कार्षक इव व्यधात् ॥ KRT_5_0170cd
तुलां कृत्वा त्रिभागोनां वर्षदेयां स पर्षदे । KRT_5_0171ab
भुक्ति1कम्बलमूल्यादिदम्भा2दभ्यधिकं ददौ ॥ KRT_5_0171cd
दिगन्तरस्थो ग्रामीणानूढभाराननागतान् । KRT_5_0172ab
तद्देशार्धैर्भारमूल्यं वर्षमेकमदण्डयत् ॥ KRT_5_0172cd
वर्षेपरस्मिन्निखिलान्भारमूल्यं निरागतान् । KRT_5_0173ab
तयैव संख्यया ग्राम्यान्प्रतिग्राममदण्डयत् ॥ KRT_5_0173cd
इत्येषा रूढभारोढिः प्रथमं तेन पातिता । KRT_5_0174ab
दारिद्र्यदूती ग्रामाणां या त्रयोदशधा स्थिता ॥ KRT_5_0174cd
स्कन्दकग्रामकायस्थमासवृत्त्यादिसंग्रहैः । KRT_5_0175ab
अन्यैश्च विविधायासरिव्यधाद्ग्रामान्स निर्धनान् ॥ KRT_5_0175cd
तुलापहारोपचयग्रामदण्डादिसंग्रहैः । KRT_5_0176ab
इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः ॥ KRT_5_0176cd
व्यधत्त पञ्च दिविरा1न्स तस्मिन्भिन्नकर्मणि । KRT_5_0177ab
षष्ठं तथा गञ्जवरं शकचं लवटाभिधम् ॥ KRT_5_0177cd

153.

--1) This verse is added in margin by A3; found in G R.

154.

--1) A1 विपुलख्याति मा॰; A3 has altered this to विपुला ख्यातिर्मा॰, but has subsequently restored the reading of A1. G follow A1, R reads as A3.

155.

--1) A3 gloss शङ्करवर्मा.

--2) A2 gloss शङ्करपोर्.

157.

--1) A3 gloss शङ्करवर्मणः.

--2) A3 gloss कन्या.

158.

--1) Emended; A गौरेश॰.

165.

--1) Thus corr. by A3 from A1 अधेयमान॰.

168.

--1) Thus A1; A3 ॰नचेला॰.

--2) Thus corr. by later hand from A1 ॰मूल्ये.

--3) A2 gloss कलालाभः.

169.

--1) Thus A3; A1 मुमोचेत॰.

171.

--1) Thus A1; A3 भुक्त॰.

--2) दम्भा supplied by A3 in space left by A1.

177.

--1) Thus A1. Cf. vi. 130; vii. 111, 119; misread शिविरान्स in R G Edd.

[page 78]




आत्मनो निरयं मूढः सोङ्गीकृत्येत्युपक्रियाम् । KRT_5_0178ab
भाविनामकरोद्राज्ञां पापी यद्वा1 नि2योगिनाम् ॥ KRT_5_0178cd
निमित्तं मण्डलेमुष्मिन्सविद्यानामनादरे । KRT_5_0179ab
राज्ञां प्रतापहानौ च नान्यः शंकरवर्मणः ॥ KRT_5_0179cd
मुख्येन गुणिनां राज्ञा धनहान्या प्रथापहाः । KRT_5_0180ab
मूर्खेण येन कायस्था दास्याः पुत्राः प्रवर्तिताः ॥ KRT_5_0180cd
तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया । KRT_5_0181ab
यथा संजायतेव1र्णं हरणादिव भूभुजाम् ॥ KRT_5_0181cd
तस्मिन्घोरे प्रजादुःखे कृपार्द्रः पृथिवीपतिम् । KRT_5_0182ab
पुत्रो गोपालवर्माख्यः कदाचिदिदमब्रवीत् ॥ KRT_5_0182cd
प्रदातुस्तात भवतः पूर्वं न्यासीकृतः स्थितः । KRT_5_0183ab
वरो यः सत्यसंधस्य सोधुना प्रार्थ्यते मया ॥ KRT_5_0183cd
कायस्थप्रेरणादेतैर्देवेनाद्य प्रवर्तितैः । KRT_5_0184ab
आयाससैः श्वासशेषैव प्राणवृत्तिः शरीरिणाम् ॥ KRT_5_0184cd
न च नामास्ति तातस्य काचिल्लोकद्वयोचिता । KRT_5_0185ab
मनागपि हितप्राप्तिरेतया जनपीडया ॥ KRT_5_0185cd
अदृष्टविषयां वार्तां गहनां विवृणोति कः । KRT_5_0186ab
दृष्टेप्यनिष्टादन्यन्न कर्मणानेन दृश्यते ॥ KRT_5_0186cd
एकतो व्याधिदुर्भिक्षप्रमुखा विपदोखिलाः । KRT_5_0187ab
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ KRT_5_0187cd
भूभुजोभ्यस्तलोभस्य श्रीः कैश्चिन्नाभिनन्द्यते । KRT_5_0188ab
अकालकुसुमस्येव फलसंभावनोज्झिता ॥ KRT_5_0188cd
दानं च सूनृता सूक्तिर्विश्वसंवननं प्रभोः । KRT_5_0189ab
लोभः पूर्वं तयोरेव विनाशाय महोद्यमः ॥ KRT_5_0189cd
प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः । KRT_5_0190ab
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजाम् ॥ KRT_5_0190cd
दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केपि प्रियम् । KRT_5_0191ab
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूमर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥ KRT_5_0191cd
राजसंवाहनामायं नवायासो जनासुहृत् । KRT_5_0192ab
तदेष लोभप्रभवः प्रजानाथनिवार्यताम् ॥ KRT_5_0192cd
श्रुत्वेति राजपुत्रस्य सौजन्येनोज्ज्वलं वचः । KRT_5_0193ab
स्मितधौताधरो राजा शनैर्वचनमब्रवीत् ॥ KRT_5_0193cd
तत्राकृत्यविसंवादि वचः सौजन्यपेशलम् । KRT_5_0194ab
स्मारयत्यद्य मामेतच्चित्तवृत्तिं पुरातनीम् ॥ KRT_5_0194cd
कुमारभावे पूर्वं मे तवेवार्द्रान्तरात्मनः । KRT_5_0195ab
प्रजावत्सलता वत्स पर्याप्ता पर्यववर्धत ॥ KRT_5_0195cd
सोहं घर्मे महद्वर्म शीते दत्त्वाछमंशु1कम् । KRT_5_0196ab
पदातिरपपादत्रः पित्रा संचारितोभवम् ॥ KRT_5_0196cd
मृगव्यादौ हयैः सार्धमटन्तं1 कण्टकक्षतम् । KRT_5_0197ab
अन्तर्बाष्पं मां विलोक्य तमसूयिषुरग्रगाः ॥ KRT_5_0197cd
स तानुवाच सामान्यो भूत्वाहं राज्यमाप्तवान् । KRT_5_0198ab
काले काले सेवकानां जाने सेवापरिश्रमम् ॥ KRT_5_0198cd
ईदृग्दुःखमयं भुक्त्वा ज्ञास्यत्यन्यव्यथां ध्रुवम् । KRT_5_0199ab
प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्वरतयान्यथा ॥ KRT_5_0199cd
उपायैरीदृशैर्योहं कृतः पित्रा सुशिक्षितः1 KRT_5_0200ab
तेनापि प्राप्तराज्येन मयैवं पीडिताः प्रजाः ॥ KRT_5_0200cd
गर्भवासव्यथां जातः शरीरो विस्मरेद्यथा । KRT_5_0201ab
प्राप्तराज्यस्तथा राजा नियतं पूर्वचिन्तनम्1 KRT_5_0201cd
त्वयैव तस्मादेकोद्य वरो मह्यं प्रदीयताम् । KRT_5_0202ab
प्राप्तराज्यः प्रजापीडां मा कार्षीस्त्वमतोधिकाम् ॥ KRT_5_0202cd
सासूयमिति तेनोक्तः कृतान्योन्यस्मितैर्विटैः । KRT_5_0203ab
राजाप्तैर्वीक्षितश्चासीत्कुमारो ह्रीनताननः ॥ KRT_5_0203cd
त्यागभीरुतया तस्मिन्गुणिसङपराङ्मुखः । KRT_5_0204ab
आसेवन्तावरा वृत्तीः कवयो भल्लटादयः ॥ KRT_5_0204cd
निर्वेतनाः तु कवयो भारिको लवटस्त्वभूत् । KRT_5_0205ab
प्रसादात्तस्य दीन्नारसहस्रद्वयवेतनः ॥ KRT_5_0205cd

178.

--1) Thus A; varia lectio in R G पापीयस्त्वा.

--2) Thus corr. by A3 from A1 वियोगि॰.

181.

--1) A2 gloss अपयशः.

196.

--1) Thus A3; A1 ॰दत्त्वोश्चमं॰.

197.

--1) Thus corr. by A3 from A1 ॰दन्तः.

200.

--1) Thus corr. by A3 from A1 ॰क्षिताः.

203.

--1) A3 ॰चिन्तितम्.

[page 79]




कल्यपालकुले जन्म तत्तेनैव प्रमाणितम् । KRT_5_0206ab
क्षीवोचितापभ्रंशोक्तेर्दैवी वाग्यस्य नाभवत् ॥ KRT_5_0206cd
वेष्टितश्मश्रुरुष्णीषो घ्राणस्याग्रे प्रदेशिनी । KRT_5_0207ab
धानैकाया दृगित्यासीत्सुखराजस्य1 मन्त्रिणः ॥ KRT_5_0207cd
योयमार्योचितो वेषो दुर्नयासेविनः प्रभोः । KRT_5_0208ab
छन्दानुवृत्त्या स प्राप नटस्येव विडम्वनम् ॥ युग्मम्॥ KRT_5_0208cd
सोनुगैः सह निर्द्रोहं जघान द्रोहशङ्कया । KRT_5_0209ab
शूरं दार्वाभिसारेशम् शर्वर्यां नरवाहनम् ॥ KRT_5_0209cd
प्रजाभिशापे पतिते नृपस्योन्मार्गवर्तिनः1 KRT_5_0210ab
त्रिंशद्विंशाः2 सुतास्तस्य व्यपद्यन्तामयं विना ॥ KRT_5_0210cd
वंशः श्रीर्जीवितं दारा नामापि पृथिवीभुजाम् । KRT_5_0211ab
क्षणादेव क्षयं याति प्रजाविप्रियकारिणाम् । KRT_5_0211cd
इत्युक्तं वक्ष्यते चाग्रे व्यक्तमेतत्तु चिन्त्यताम् । KRT_5_0212ab
प्रनष्टं तस्य नामापि यथा क्रूरेण कर्मणा ॥ KRT_5_0212cd
नाम्ना पत्तनमि1त्येव प्रख्यातं स्वपुरं कृतम् । KRT_5_0213ab
कस्यान्यस्याभिधाध्वंसि यथा शंकरवर्मणः ॥ KRT_5_0213cd
स्वस्रीयः सुखराजस्य तेन द्वाराधिपः कृतः । KRT_5_0214ab
वीरानका1भिधे स्थाने प्रमादादासदद्व2धम् ॥ KRT_5_0214cd
तत्कोपात्स स्वयं राजा दत्तयात्रो मदोर्जितः । KRT_5_0215ab
वीरानकं समुन्मूल्य प्रविवेशोत्तरापथम् ॥ KRT_5_0215cd
सिन्धुकूलाश्रयान्देशाञ्जित्वा भूरीन्भयातुरैः । KRT_5_0216ab
कृतानतिर्महीपालैः प्रत्यावृत्तोभवत्ततः ॥ KRT_5_0216cd
उरशां1 विशतस्तस्य वास्तव्यैरौरशैः समम् । KRT_5_0217ab
निकेतहेतोः सैन्यानामकस्मादुदभूत्कलिः ॥ KRT_5_0217cd
गिरिशृङ्गाधिरूढेन श्वपाकेन निपातितः । KRT_5_0218ab
वेगवाही शरस्तस्य प्रमादादविशद्गलम् ॥ KRT_5_0218cd
मुमूर्षुराप्तान्कटकं संरक्ष्य नयतेति सः । KRT_5_0219ab
उक्त्वा कर्णीरथारूढ1ः स्थानात्तस्माद्विनिर्ययौ ॥ KRT_5_0219cd
हीनदर्शनसामर्थ्यः परिज्ञाय शनैर्गिरा । KRT_5_0220ab
क्रन्दन्त्या वपुरालिङ्ग्य1 स्थितायाः क्षामभाषितः ॥ KRT_5_0220cd
पुत्रं गोपालवर्माख्यं न्यासीकृत्य च रक्षितुम् । KRT_5_0221ab
शिशुदेश्यं महादेव्याः सुगन्धाया अवान्धवम् ॥ KRT_5_0221cd
फाल्गुणे कृष्णसप्तम्यां वत्सरे सप्तसप्ततौ । KRT_5_0222ab
उत्खायमानविशिखो मार्ग एव व्यपद्यत ॥ तिलकम्॥ KRT_5_0222cd
सुखराजादयः1 सैन्यं रक्षन्तह् परभूमिषु । KRT_5_0223ab
वृत्तान्तै2र्गोपयन्तस्तं यान्त एवाभ्वन्पति ॥ KRT_5_0223cd
तं यन्त्रसूत्रैस्ते मूर्ध्नो नम्रतोन्नम्रतावहैः । KRT_5_0224ab
प्रतिप्रणामं प्राप्तानां सामन्तानामकारयन् ॥ KRT_5_0224cd
षड्भिर्दिनैर्निजे स्थाने प्राप्ते बोल्यासका1भिधे । KRT_5_0225ab
चक्रिरे गतसंत्रासास्ततस्तस्यान्तसत्क्रियाम् ॥ KRT_5_0225cd
तिस्रः सुरेन्द्रवत्याद्या राज्ञ्ये राजानमन्वयुः । KRT_5_0226ab
वेलावित्तः1 कृतज्ञश्च जयसिंहाद्वयः कृती ॥ KRT_5_0226cd
द्वौ लोडो वज्रसारश्च तं भृत्यावनुजग्मतुः । KRT_5_0227ab
इति षड्भिश्चितारूढैः सहसाक्रियताग्निसात् ॥ KRT_5_0227cd
ततो जुगोप गोपालवर्मा धार्मिकतोज्ज्वलः । KRT_5_0228ab
सुगन्धया पाल्यमानः सत्यसंधो वसुंधराम् ॥ KRT_5_0228cd
मध्ये लालितकादीनां1 दुर्वृत्तानां वसन्नपि । KRT_5_0229ab
अनतिक्रान्तबाल्योपि दुःसंस्कारान्न सोग्रहीत् ॥ KRT_5_0229cd
भूपालजननी भोगैर्वैधव्येधिकमुन्मदा । KRT_5_0230ab
सा प्रभाकरदेवाख्यमचीकमत मन्त्रिणाम् ॥ KRT_5_0230cd
तथा निर्भरसंभोगप्रीतया स व्यधीयत । KRT_5_0231ab
सौभाग्यपदशृङ्गारमौलिचक्रत्रयाङ्कितः ॥ KRT_5_0231cd
कोशाध्यक्षेण रागिण्यास्तस्या लुण्ठितसंपदा । KRT_5_0232ab
उदभाण्डपुरे1 तेन शाहिराज्यं व्यजीयत2 KRT_5_0232cd

207.

--1) Thus corr. by A3 from A1 ॰रागस्य.

210.

--1) supplied by A3.

--2) A1 writes below this word 50.

213.

--1) A2 gloss पट्टन्.

214.

--1) A2 gloss द्वारविद्यायां वीराणकं.

--2) A4 gloss सुखराजस्वस्रीयः.

217.

--1) A2 gloss उडू.

219.

--1) Thus A2; A1 ॰रूढान्स्था॰.

220.

--1) Thus corr. by later hand from A1 ॰लिङ्ग्या.

223.

--1) A3 gloss मन्त्रिणः.

--2) Thus A1; A3 वृत्तान्तं गो॰.

225.

--1) Thus A R G; A3 gloss वराहबलसमीपे द्वारवत्यां.

226.

--1) Emended: A R बालावित्तः; G बालाविभुः. Cf. वेलावित्तः vi 73, 106, 324.

229.

--1) A3 gloss लालितकाः पदातयः.

232.

--1) Thus corr. from A1 उदाभाण्ड॰ by A2 which adds the gloss हैभङ्; R G read as A2. Cf. उदभाण्डुपुरे v. 153.

--2) Thus A1; A3 व्यधीयत; G R follow A3.

[page 80]




आज्ञातिक्रमिणः शाहिः कृत्वा कमलुकाभिधाम्1 KRT_5_0233ab
तोरमाणाय2 स प्रादाद्राज्यं लल्लियसूनवे ॥ KRT_5_0233cd
प्रत्यावृत्तोथ नगरं विवेश विजयोर्जितः । KRT_5_0234ab
शौर्यशृग्गारवसतौ साभिमानः स्वविग्रहे ॥ KRT_5_0234cd
स राजजननीजारः साहंकारो1 जयार्जनात् । KRT_5_0235ab
मान2क्षतिमधिक्षेपैर्वीराणां व्यधितान्वहम् ॥ KRT_5_0235cd
क्षुद्रेण कामिना वेश्यावेश्मनीव नृपास्पदे । KRT_5_0236ab
तेनावृते संप्रवेशो माभूदन्यस्य कस्यचित् ॥ KRT_5_0236cd
शनैर्विज्ञातवार्तस्य धनमाना1पहारकृत् । KRT_5_0237ab
सोभूदक्षिगतोत्यर्थं राज्ञो गोपालवर्मणः ॥ KRT_5_0237cd
विद्यते यन्न गञ्जेस्मिंस्तत्सर्वं शाहिविग्रहे । KRT_5_0238ab
गतमित्यब्रवीद्भूपं स कोशगणनोद्यतम् ॥ KRT_5_0238cd
अथ गञ्जाधिपो1 राजभूतः खार्खोदवेदिनम् । KRT_5_0239ab
रामदेवाह्वयं बन्धुमभिचारमकारयत् ॥ KRT_5_0239cd
तयाभिचारक्रियया भुक्तभूर्वत्सरद्वयम् । KRT_5_0240ab
गोपालवर्मनृपतिर्जातदाहो व्यपद्यत ॥ KRT_5_0240cd
व्यक्तीभूतकुकर्मा स राजदण्डभयाकुलः । KRT_5_0241ab
रामदेवोवधीत्पापः स्वयमेव स्वविग्रहम् ॥ KRT_5_0241cd
रथ्यागृहीतो गोपालवर्मभ्राताथ संकटः । KRT_5_0242ab
बभूव प्राप्तराज्यः स दशभिर्दिवसैर्व्यसुः ॥ KRT_5_0242cd
अथ वंशक्षये वृत्ते राज्ञः शंकरवर्मणः । KRT_5_0243ab
प्रजाप्रार्थनया राज्यं सुगन्धा1 विदधे स्वयम्2 KRT_5_0243cd
गोपालपुर1गोपालमठगोपालकेशवान् । KRT_5_0244ab
सा पुरं च स्वनामाङ्कं विदधे धर्मवृद्धये ॥ KRT_5_0244cd
गोपालवर्मणो जाया नन्दानिन्द्यान्वयोद्भवा । KRT_5_0245ab
शिशुरप्यभवन्नन्दामठ1केशवधारिणी ॥ KRT_5_0245cd
अन्तर्यत्न्याः क्षणे तस्मिन्पत्न्या गोपालवर्मणः । KRT_5_0246ab
जयलक्ष्म्यां बबन्धास्थां श्वश्रूः संतानकाङ्क्षिणी ॥ KRT_5_0246cd
तस्यां विपन्नापत्यायां प्रसवान्तेतिदुःखिता । KRT_5_0247ab
साभूदन्वयिने राज्यं कस्मैचिद्दातुमुद्यता ॥ KRT_5_0247cd
तस्मिन्काले महीपालनिग्रहा1नुग्रहक्षमम् । KRT_5_0248ab
तत्र तन्त्रि2पदातीनां कृतसंहत्यभूत्कुलम् ॥ KRT_5_0248cd
ततः समाश्रितैकाङ्गा स्वयं संवत्सरद्वयम् । KRT_5_0249ab
सुगन्धा विदधे राज्यं सा1 मित्रत्वेन तन्त्रिणाम्3 KRT_5_0249cd
योग्याय दातुं साम्राज्यं कस्मै1चित्सा किलैकदा । KRT_5_0250ab
मन्त्राय मन्त्रिसामन्तांस्1तन्त्र्यैकाङ्गानढौकयत् ॥ KRT_5_0250cd
अवन्तिवर्मवंशान्ते नप्तारं शूरवर्मणः । KRT_5_0251ab
गग्गायाः स्वकुटुम्बिन्याः संजातं सुखवर्मणा ॥ KRT_5_0251cd
अनुव्रतो मे संबन्धिस्नेहादेवं भवेदिति । KRT_5_0252ab
राज्ये निर्जितवर्माख्यं कर्तुं तस्या मनोभवत् ॥ युग्मम्॥ KRT_5_0252cd
तया तदुक्तं विषयव्यसनित्वेन जागरात् । KRT_5_0253ab
रात्रौ दिवाशयतया योप्यनुत्थानदूषितः ॥ KRT_5_0253cd
नाम पङ्गुरिति1 प्राप राज्ये का तस्य योग्यता । KRT_5_0254ab
इत्युदीर्याभवन्घ्नन्तो यावत्केचन मन्त्रिणः ॥ KRT_5_0254cd
संहतैर्भेदनिर्यातैस्तावन्निर्जितवर्मजः । KRT_5_0255ab
दशवर्षः कृतो राजा पार्थस्तन्त्रिपदातिभिः ॥ तिलकम्॥ KRT_5_0255cd
ते1 गञ्जाधिपवाक्यानां सुगन्धोत्पाटनात्कृतम् । KRT_5_0256ab
प्रायश्चित्तममन्यन्त मानक्षतिविधायिनाम् ॥ KRT_5_0256cd
ता राज1धान्याः साम्राज्यपरिभ्रष्टा विनिर्ययौ । KRT_5_0257ab
कृता2धिकारा हारस्य पातितैर्बाष्पबिन्दुभिः ॥ KRT_5_0257cd
शरणं प्रत्यभाद्भृत्यो यो यस्तस्याः क्रमागतः । KRT_5_0258ab
तं तमेक्षिष्ट निर्यान्ती विपक्षैः सह संगतम् ॥ KRT_5_0258cd
वर्षे एकान्नन1वते संभूयैकाङ्गसैनिकाः । KRT_5_0259ab
गत्वा सुगन्धामानिन्युः पुनर्हुष्कपुर2स्थिताम् ॥ KRT_5_0259cd

233.

--1) Thus corr. by later haand from A1 ॰धम्.

--2) Thus A2; A1 तोमराणाय.

235.

--1) Thus A2; A1 ॰जननीसङ्गात्साभिमानो.

--2) Thus corr. by A3 from A1 मनः॰.

237.

--1) Thus corr. by A3 from A1 ॰मालाप॰.

239.

--1) A4 gloss प्रभाकरः.

243.

--1) A2 gloss गोपालवर्मसङ्कटयोर्माता सुगन्धाः.

--2) Thus corr. by A2 from A1 पुरम्.

244.

--1) A2 gloss गुरीपुरम्.

245.

--1) A2 gloss नन्दीमठं.

248.

--1) Thus corr. by A3 from A1 विग्रहा॰.

--2) Thus A2; A1 तत्र.

249.

--1) Thus emended; A G R समित्र॰.

--2) A3 v.l. मन्त्रिणाम्; struck out.

250.

--1) Thus A3; A1 ॰न्तात्तन्त्र्यै॰.

254.

--1) A2 gloss निर्जितवर्मा.

256.

--1) A2 gloss कोट्टरक्षाः.

257.

--1) Thus corr. by later hand from A1 राज्य॰.

--2) Thus A3; A1 हृता॰.

259.

--1) Thus A1; A3 एकोन॰.

--2) A2 gloss वराहमूले.

:p 81.
तामापतन्तीमाकर्ण्य पार्थानुग्रहका मदात् । KRT_5_0260ab
चैत्रान्ते तन्त्रिणः सर्वे निर्ययुः समरोन्मुखाः ॥ KRT_5_0260cd
ते जित्वा नवते वर्षे वैशाखे भिन्नसंहतीन् । KRT_5_0261ab
एकाङ्गान्व्यूढसंघातान्बबन्धुस्तां पलायिताम् ॥ KRT_5_0261cd
निष्पालकविहारान्तस्तैर्बद्धा स व्यपद्यत । KRT_5_0262ab
अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः ॥ KRT_5_0262cd
अस्मिन्धनजनक्षैण्यनिमित्तं मण्डलोत्तमे । KRT_5_0263ab
सर्वतोदिक्कमुत्तस्थावथानर्थपरंपरा ॥ KRT_5_0263cd
जनकः पालको भूत्वा पङ्गु1र्बालस्य भूपतेः । KRT_5_0264ab
सामात्योपीडयल्लोकमुत्कोचग्रहतत्परः ॥ KRT_5_0264cd
भूभुजो ग्रामकायस्था इवान्योन्यविपाटनम् । KRT_5_0265ab
दत्ताधिकाधिकोत्कोचा विदधुस्तन्त्रिसेवया ॥ KRT_5_0265cd
यद्राजैः1 कन्यकुब्जाद्या विलब्धास्तत्र मण्डले । KRT_5_0266ab
तन्त्रिणां हुण्डिकादानाद्भूभुजां जीविकाभवत् ॥ KRT_5_0266cd
विष्णुः पुराणाधिष्ठाने1 मेरुवर्धनमन्त्रिणा2 KRT_5_0267ab
श्रीमेरुवर्धनस्वामिनामा येन व्यधीयत ॥ KRT_5_0267cd
तदात्मजाः1 क्षणे तस्मिन्गहनद्रोहचाक्रिकाः । KRT_5_0268ab
चक्रुर्निगूढराज्येच्छाः प्रजायासैर्धार्जनम् ॥ युग्मम्॥ KRT_5_0268cd
सार्धं सुगन्धादित्येन1 गूढं शंकरवर्धनः । KRT_5_0269ab
तेषां ज्येष्ठो बद्धसख्यो2 मुमोष नृपमन्दिरम् ॥ KRT_5_0269cd
क्षीणप्रजे क्षणे तस्मिन्क्षारपात इव क्षते । KRT_5_0270ab
उदीपः1 प्लाविताशेषशरच्छालिरजृम्भत ॥ KRT_5_0270cd
खार्यां सहस्रक्रेयायां दुर्लभे भोजनेभवत् । KRT_5_0271ab
वर्षे त्रिनवते1 घोरे दुर्भिक्षेण जनक्षयः ॥ KRT_5_0271cd
शवैश्चिरप्रविष्टाम्बुसंसेकोच्छूनविग्रहैः । KRT_5_0272ab
वितस्ता सर्वतश्छन्ना दुर्लक्ष्य1सलिलाभवत् ॥ KRT_5_0272cd
विश्वतोस्थिमये जाते1 नैविद्यात्क्षितिमण्डले । KRT_5_0273ab
सर्वभूतभयादपि श्मशानैक्यमजायत ॥ KRT_5_0273cd
महार्ह1धान्यसंभारविक्रयप्राप्तसंपदः । KRT_5_0274ab
मन्त्रिणः क्ष्मापतेः प्रापुस्तान्त्रिणश्च धनाढ्यताम् ॥ KRT_5_0274cd
आधेय1ः क्ष्माभुजः सोभून्मन्त्री यस्तादृशीः प्रजाः । KRT_5_0275ab
विक्रीय वाहयन्नासीत्तन्त्रिणां हुण्डिकाधनम् ॥ KRT_5_0275cd
अटव्यां वृष्टि1संपाते वातवर्षैरुपद्रुतम् । KRT_5_0276ab
बहिः सर्वं जनं पश्यन्कश्चित्प्राप्नोष्णमन्दिरः ॥ KRT_5_0276cd
यथा तथा जनं दुःस्थं वीक्ष्य कापुरुषश्चिरम् । KRT_5_0277ab
राजधानीस्थितः पङ्गुः स्वसुखं वह्वमन्यत ॥ युग्मम्॥ KRT_5_0277cd
तुञ्जीनचन्द्रापीडादिप्रजापालप्रियाः प्रजाः । KRT_5_0278ab
एवं तस्मिन्क्षणे नीताः संक्षयं राजराक्षसैः ॥ KRT_5_0278cd
प्रापुश्चिरमवस्थानं पार्थिवा न तदा क्वचित् । KRT_5_0279ab
धारासंपातसंभूता बुद्बुदा इव दुर्दिने ॥ KRT_5_0279cd
पार्थः पितरमुत्पद्य कदाचित्प्राभवत्स्वयम् । KRT_5_0280ab
कदाचित्स तमुत्पाद्य तन्त्रिचक्रिकयाप्यभूत् ॥ KRT_5_0280cd
अप्रीणयत्पङ्गुवधूवडवामण्डलं युवा । KRT_5_0281ab
सुगन्धादित्य1वीजाश्वो व्यवाय2विधिसेवया ॥ KRT_5_0281cd
राज्ञ्या1 बप्पटदेव्याः स निर्दयैः सुरतोत्सवैः । KRT_5_0282ab
खण्डयामास कण्डूतिं साप्यस्यार्थेषणां धनैः ॥ KRT_5_0282cd
भगिनीभगसौभाग्यबद्धराज्याः स्वयं ददुः । KRT_5_0283ab
यां पङ्गवे मनोज्ञाङ्गीं मेरुवर्धनसूनवः ॥ KRT_5_0283cd
सुगन्धादित्यमौत्सुक्यात्सापि देवी मृगावती । KRT_5_0284ab
स्वयं संबुभुजेभ्यर्थ्य कान्ता कामितकामिनी ॥ KRT_5_0284cd
पर्यायेणाभवद्भृत्यः स तयोर्भोग1वृद्धये । KRT_5_0285ab
दरिद्रयोषितोरेकं भुक्तिपात्रमिवान्वहम् ॥ KRT_5_0285cd

264.

--1) A2 gloss निर्जितवर्मा.

266.

--1) Thus A1; alrered by later hand to यद्राज्यैः.

267.

--1) A2 gloss पांय्दृठन् इति प्रसिद्धे ग्रामे.

--2) A4 gloss पङ्गुश्वशुरेण.

268.

--1) A2 gloss निर्जितवर्मजाः तदात्मजाः चक्रवमी शूरवर्मा । शम्भुवर्धनः शंकरवर्धनः मेरुवर्धनपुत्राः.

269.

--1) A2 gloss मन्त्रिणा.

--2) A4 सुगन्धादित्येन सह.

270.

--1) Thus corr. by later hand from A1 उद्द्वीपः; A4 gloss य्योपो( ).

271.

--1) A4 gives the full date Saptarshi 3993.

272.

--1) Thus A1; altered by later hand to दुर्लक्ष॰.

273.

--1) जाते supplied by A3 in space left by A1.

274.

--1) A3 मार्घ॰.

275.

--1) Thus A1; A3 आदेयः.

276.

--1) Thus corr. by A3 from A1 दृष्टि॰.

281.

--1) A3 gloss मन्त्री.

--2) A3 gloss व्यवायः मैथुनम्.

282.

--1) A4 gloss चक्रवर्ममातुः.

285.

--1) A4 gloss तयोर्चप्पटदेवीमृगावत्योः पङ्गुपत्न्योः.

280

[page 82]




पुत्रयो राज्यलाभाय स्पर्धयाभ्यां स्वमन्त्रिणे । KRT_5_0286ab
दत्ता निधुवनश्रद्धा धनदानैः1 सदक्षिणा ॥ KRT_5_0286cd
अथा पार्थं समुत्पाद्य तत्पिता पङ्गुराश्रितः । KRT_5_0287ab
तन्त्रिभिः सप्तनवते वर्षे पौषेभिषेचितः ॥ KRT_5_0287cd
माघेष्टानवते वर्षे सोभिष्य्च्य शिशुं सुतम् । KRT_5_0288ab
चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत ॥ KRT_5_0288cd
पैतृकं वाञ्छतो राज्यं पार्थस्यानुचरा व्यधुः । KRT_5_0289ab
एकाङ्गैः सह संग्रामं तत्र तन्त्रिपदातयः ॥ KRT_5_0289cd
मातुर्बप्पटदेव्याः स कंचित्कालं शिशुर्नृपः । KRT_5_0290ab
मातामह्याः क्षिल्लिकाया1ः पाल्यस्त्वासीत्समा दश ॥ KRT_5_0290cd
बाल्यादव्यक्तदौःशील्ये तस्मिंस्तत्पालनं तयोः । KRT_5_0291ab
निर्दोषमासीदण्डस्थफणिलालनसनिभम् ॥ KRT_5_0291cd
जातः पङ्गोर्मृगावत्यां1 नवमेब्देथ तन्त्रिभिः2 KRT_5_0292ab
चक्रवर्त्माणमुत्पाद्य शूरवर्मा नृपः कृतः ॥ KRT_5_0292cd
निःस्नेहा मातुलामत्याः प्रययुः स्वार्थतत्पराः । KRT_5_0293ab
अदत्त्वा तन्त्रिणां देयम् तस्योत्पाटनहेतुताम् ॥ KRT_5_0293cd
अदुर्वृत्तोपि स क्ष्माभृद्विना भूरिधार्पणम् । KRT_5_0294ab
गुणवानिव वेश्यानां तन्त्रिणां नाभवत्प्रियः ॥ KRT_5_0294cd
वर्षे गते तमुत्पाद्य दृष्टोत्पत्तितया नृपम् । KRT_5_0295ab
बह्वर्थदं पुनः पार्थं व्यधुतन्त्रिपदातयः ॥ KRT_5_0295cd
अभूत्साम्बवती वेश्या साम्बे1श्वरविधायिनी । KRT_5_0296ab
पार्थप्रिया तन्त्रिचक्रसंग्रहे ज्ञातचक्रिका ॥ KRT_5_0296cd
कालापेक्षी चक्रवर्मा ततोप्यैच्छद्धनं बहु । KRT_5_0297ab
एकादशाब्दस्याषाढे कृतो भूयोपि तत्न्त्रिभिः ॥ KRT_5_0297cd
पार्थादीन्यैः1 समुत्पाद्य भुक्तं चक्रिकया पुरा । KRT_5_0298ab
तैस्तैः स्थानैश्च ये तेभ्यो2 जीवनाद्युपलेभिरे ॥ KRT_5_0298cd
पिता1 भ्राता2 च यैरस्य3 राज्यादुत्पाटितोभवत् । KRT_5_0299ab
संबन्धिभ्योपि यैर्द्रुग्धं कन्यां4 दत्त्वेत5रेतम् ॥ KRT_5_0299cd
अकरोद्दृष्टदोषाणां तेषामेव स नष्टधीः । KRT_5_0300ab
मेरुवर्धनपुत्राणामधिकारसमर्पणम् ॥ तिलकम्॥ KRT_5_0300cd
कृतोक्षपटलाधीशस्तेन शंकरवर्धनः । KRT_5_0301ab
गृहकृत्येप्यसत्कृत्यो दाम्भिकः शंभ्वर्धनः ॥ KRT_5_0301cd
पौषे तस्यैव वर्षस्य धनाभावात्स तन्त्रिणाम् । KRT_5_0302ab
अदत्तहुण्डिकादेयः पलायिष्ट भयाकुलः ॥ KRT_5_0302cd
स्थिते मडवराज्यान्तस्तस्मिञ्शंकरवर्धनः । KRT_5_0303ab
राज्यार्थी तन्त्रिणां दूतं प्राहिणोच्छंभुवर्धनम् ॥ KRT_5_0303cd
आवर्जितैः स निखिलैरधिकोत्कोचचर्चया । KRT_5_0304ab
वञ्चयित्वाग्रजं राज्ये तैः स्वमेवाभ्यषेचयत् ॥ KRT_5_0304cd
तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । KRT_5_0305ab
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वञ्चनचञ्चुतायाः1 KRT_5_0305cd
भ्रष्टश्रीश्चक्रवर्माय निशि श्रिढक्ववासिनः । KRT_5_0306ab
एकदा डामराग्र्यस्य संग्रामस्याविशद्गृहम् ॥ KRT_5_0306cd
ज्ञात्वा कान्तिविशेषेण राजानं स कृताञ्जलिः । KRT_5_0307ab
प्रणम्य ग्राहयामास संभ्रमान्निजमासनम् ॥ KRT_5_0307cd
राज्यभ्रंशादिवृत्तान्तमुक्त्वा साहायकार्थिनम् । KRT_5_0308ab
तं विपत्पेशलं प्रह्वो विचिन्त्योवाच डामरः ॥ KRT_5_0308cd
तन्त्रिणां वा तृणानां वा राजन्का गणना रणे । KRT_5_0309ab
त्वत्सेवनार्थं सामर्थ्यं कस्मिन्न मम कर्मणि ॥ KRT_5_0309cd
प्राप्तोत्साहः पुनर्नूतनमस्माने1व हनिष्यसि । KRT_5_0310ab
विस्मरन्त्युपकारं हि कृतकार्या महीभुजः ॥ KRT_5_0310cd
ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तम् । KRT_5_0311ab
कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ KRT_5_0311cd
धीधैर्यादिप्रकर्षेण येनोपक्रियते नृपः । KRT_5_0312ab
प्राप्तोदयः स तेनैव शङ्क्यं वेत्त्युपकारिणम् ॥ KRT_5_0312cd

286.

--1) A2 reads धनधान्यैः.

290.

--1) Thus corr. by later hand from A1 क्षल्लि.

292.

--1) A4 gloss मेरुवर्धनपुत्र्यां.

--2) Thus A3; A1 मन्त्रिभिः.

296.

--1) A2 gloss साम्बोरणग्रामे.

298.

--1) A4 gloss अत्र सर्वत्र यच्छब्देन मेरुवर्धनपरामर्शः.

--2) A4 पार्थादिभ्यः.

299.

--1) A4 gloss पङ्गुः.

--2) A4 gloss पार्थः शूरवर्मा वा.

--3) A4 gloss चक्रवर्मणः..

--4) A4 gloss मृगावतीं.

--5) A4 gloss पङ्गवे.

305.

--1) Emended; A चञ्चु॰.

310.

--1) Thus corr. by A3 from A1 ॰स्मान्नेद.

[page 83]




अस्मिन्स्थिते विपदभूदिति संचिन्त्य वर्ज्यते । KRT_5_0313ab
मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥ KRT_5_0313cd
संपद्यापत्सहायस्य विस्मृतोपक्रिया नृपाः । KRT_5_0314ab
मध्ये प्रमादस्खलितमुत्पन्नं हृदि कुर्वते ॥ KRT_5_0314cd
आमयार्तिपुत्रासक्षुदादौ दृष्टवैकृतान् । KRT_5_0315ab
लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥ KRT_5_0315cd
रा1ज्ञः सतोपि नाश्वासो यस्येभस्येव कर्णयोः । KRT_5_0316ab
अविशुद्ध2प्रकृतयो ध्वनन्ति मधुपा इव ॥ KRT_5_0316cd
दिवसे संनिधानेन पिशुनप्रेरणा प्रभोः । KRT_5_0317ab
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥ KRT_5_0317cd
राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः । KRT_5_0318ab
तत्र प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥ KRT_5_0318cd
कथंचिदह्नि हृदये कुशलैर्विनिवेशिता । KRT_5_0319ab
शिक्षा गौर1खरेणेव राज्ञा विस्मार्यते निशि ॥ KRT_5_0319cd
न के लोभं1 समुत्पाद्य जिह्वया स्निग्धदीर्घया । KRT_5_0320ab
पिपीलिका इव ग्रस्ताः क्ष्मापालैः शल्यकैरिव ॥ KRT_5_0320cd
जानाति हन्तुं हन्तव्यमासन्नं न तु दूरगम् । KRT_5_0321ab
एको बकः परः1 सत्यं द्रोहवृत्तिर्महीपतिः ॥ KRT_5_0321cd
न नाम कण्टकाकीर्णः कौटिल्यं लक्ष्यतां नयेत् । KRT_5_0322ab
कालापेक्षी क्षितिपतिः शरीरमिव जाहकः1 KRT_5_0322cd
नमन्नपि हरिर्हन्यादाश्लिष्यन्नपि पन्नगः । KRT_5_0323ab
विहसन्नपि वेतालः स्तुवन्नपि महीपतिः ॥ KRT_5_0323cd
अद्रोहवृत्त्या तस्मात्त्वं द्रक्ष्यस्यस्यस्मान्सदा यदि । KRT_5_0324ab
ससैन्यस्ते तदेषोहं प्रातरेव पुरःसरः ॥ KRT_5_0324cd
तदाकर्ण्याब्रवीद्राजा लज्जास्मितसिताधरः । KRT_5_0325ab
स्वात्मेव यूयं संरक्ष्या मम पूर्वोपकारिणः ॥ KRT_5_0325cd
ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि । KRT_5_0326ab
कोशं1 चक्रतुरन्योन्यं सखड्गौ नृपडामरौ ॥ KRT_5_0326cd
अथ संघटितासंख्यचण्डडामरमण्डलः । KRT_5_0327ab
चक्रवर्माकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ KRT_5_0327cd
तस्मिन्क्षणे पुरस्कृत्य योद्धुं शंकरवर्धनम् । KRT_5_0328ab
विनिर्ययुः सिताष्टम्यां चैत्रे तन्त्रिपदातयः ॥ KRT_5_0328cd
कालानुवृत्तिप्रच्छन्नं तेषां संभावनोज्झितम् । KRT_5_0329ab
स तत्वरे पुरस्कर्तुं चक्रवर्मा स्वविक्रमम् ॥ KRT_5_0329cd
अथ प्रवृत्ते संग्रामे घोरे पद्मपुराद्बहिः । KRT_5_0330ab
जघान प्रेरितहयः पूर्वं शंकरवर्धनम् ॥ KRT_5_0330cd
हते सेनाधिपे तत्र शतधा तन्त्रिवाहिनी । KRT_5_0331ab
प्रययौ पवनाघातप्रेरिता1 नौरिवार्णवे ॥ KRT_5_0331cd
पृष्ठानुसरणो1द्युक्तो नृपस्तेषामपाहरत् । KRT_5_0332ab
गतिं तुरगवेगेन शिरःश्रेणिं तथासिना ॥ KRT_5_0332cd
भ्रमतः समरे बभ्रुर्वीर1पट्टाञ्चलच्छटा2ः । KRT_5_0333ab
चक्रवर्ममृगेन्द्रस्य सटापटलविभ्रमम् । KRT_5_0333cd
किमन्यत्पञ्चपाण्यासन्सहस्राणि रणाङ्गने । KRT_5_0334ab
पतितानि क्षणादेव हतानां तत्र तन्त्रिणाम् ॥ KRT_5_0334cd
तन्त्रिणो रणसंरम्भपरिश्रान्ताः क्षमातले । KRT_5_0335ab
गृध्रपक्षकृतच्छाये शायिताश्चक्रवर्मणा ॥ KRT_5_0335cd
विशुद्धवंश्यैर्गुणिभिर्निहतै1ः संश्रितैः समम् । KRT_5_0336ab
अभूषयद्वीरशय्यां शूरः शंकरवर्धनः ॥ KRT_5_0336cd
उदयं संहता एव संहता एव च क्षयम् । KRT_5_0337ab
प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥ KRT_5_0337cd
माननीयानधृष्यांश्च महावंश्यान्महीपतीन् । KRT_5_0338ab
अहीनिव खिलीकृत्य भिक्षयन्तः क्षणे क्षणे ॥ KRT_5_0338cd

316.

--1) A3 note न विशुद्धा प्रकृतिर्येषां ते । अविशुद्धप्रकृतयः सूचकाः यस्य राज्ञः कर्णयोर्विषये ध्वनन्ति । तस्य सतोपि साधोरपि स्वयं नाश्वासः । इभस्येव । यथा हस्तिनः कर्णयोर्मलिनाः मधुपा ध्वनन्ति ॥.

--2) A2 gloss कुटिलाः.

319.

--1) A3 गोपस्य॰.

320.

--1) A3 भोगं.

321.

--1) Thus corr. by later hand from A1 परं.

322,

--1) Thus A1 and R; misread in G and Edd. जार्यकः: A3 gloss जार्यको घूकमार्जारखट्टाकैरण्डकासु चेति विश्वः.

326.

--1) A3 gloss दिव्यमित्यर्थः । उभौ मैत्रीसम्बन्धार्थं रक्ताक्ते मेषचर्मणि(gloss भ्रस्त्रायां) परस्परं पादप्रक्षेपं कुरुत इति शपथसंप्रदायः दिव्ये च कोशः पुष्पादिकुद्वलासिपिधानयोरिति मङ्खः.

331.

--1) A3 विशीर्णा.

332.

--1) Thus corr. by later hand from A1 ॰सारणो॰.

333.

--1) A2 gloss अधारयन्.

--2) A2 gloss शिरस्त्रबन्धनार्थं दत्तो यो वीरपट्टः डोपट्ट इति प्रसिद्धः तस्य असलच्छटाः फिते इति प्रसिद्धाः.

336.

--1) Thus A1; altered by later hand to ॰हतः.

[page 84]




अनयन्क्रीडया व्रीडां माद्यन्तो जीविकाकृते । KRT_5_0339ab
प्रागाहितुण्डिकाः क्रूरा इव ये गर्ह्यवृत्तयः ॥ KRT_5_0339cd
ते तेन्त्रिणः क्षणाद्दग्धा गूढवैरविषाग्निना । KRT_5_0340ab
विमाननाविविग्नेन चक्रवर्ममहाहिना ॥ तिलकम्॥ KRT_5_0340cd
अथ द्वितीये दिवसे भग्नानामपि तन्त्रिनाम् । KRT_5_0341ab
वीरः संघटनां यावदकरोच्छंभुवर्धनः ॥ KRT_5_0341cd
तावन्मिलितसामान्तसचिवैकाङ्गलालितः । KRT_5_0342ab
सैन्यैर्नानापथायातैर्नदद्भिर्व्याप्तदिक्पथः ॥ KRT_5_0342cd
वल्गन्मध्येश्ववाराणां नृत्यतेवाग्र्यवाजिना । KRT_5_0343ab
वल्गाङ्केनोद्वहंल्लम्बं शिरश्च वामपाणिना ॥ KRT_5_0343cd
सस्वेदेतर1हस्ताग्रवेष्टनोल्लासनस्पृशः । KRT_5_0344ab
खड्गस्य बिम्बितार्कस्य भाभिर्द्योतितकुण्डलः ॥ KRT_5_0344cd
कवचोत्सेधसंरब्ध1कण्ठायासेन ताम्यता । KRT_5_0345ab
बद्धभ्रु2कुटिबन्धेन वदनेन भयावहः ॥ KRT_5_0345cd
तर्जयन्कृतहुंकारांल्लुण्ठितापणान् । KRT_5_0346ab
शिरोक्षिसंज्ञया त्रस्तवास्तव्यकृतसान्त्वनः ॥ KRT_5_0346cd
भेरीरवैः श्रुतिं भिन्दन्पौराशीर्घोषरोधिभिः । KRT_5_0347ab
संग्रामजयशोभाङ्कश्चक्रवर्माविशत्पुरम् ॥ कुलकम्॥ KRT_5_0347cd
तस्मिन्सिंहासनं प्राज्यमाक्रामति1 जयोर्जिते । KRT_5_0348ab
बद्ध्वा कुतश्चिदानिन्ये भूभटः शंभुवर्धनम् ॥ KRT_5_0348cd
राज्ञः पुरस्तात्तं शस्त्रपातभीमीलितेक्षणम् । KRT_5_0349ab
भक्तिं प्रदर्शयन्पापश्चण्डाल इव सोवधीत् ॥ KRT_5_0349cd
उज्झतां धर्ममर्यादां भृत्यानां जनकोपमान् । KRT_5_0350ab
हन्तुं नरेन्द्रान्द्रोहेण प्रारंभः शंभुवर्धन1ः । KRT_5_0350cd
प्राप्य निष्कण्टकं राज्यं चक्रवर्मनृपः क्रमात् । KRT_5_0351ab
अजायत धृतोत्सेको नृशंसविषमक्रियः ॥ KRT_5_0351cd
स्वविक्रमकथास्तोत्ररोमन्थप्रियताहृतः । KRT_5_0352ab
सोभवद्विटवन्द्यादिचाटुकारविधेयधीः ॥ KRT_5_0352cd
आत्मानं दैवतमिव स्तुतिमोहितचेतसः । KRT_5_0353ab
जानतः प्राभवंस्तस्य विवेकविगुणाः क्रियाः ॥ KRT_5_0353cd
तस्मिन्प्रसङ्गे रंगाख्यः प्रख्यातो डोम्बगायनः । KRT_5_0354ab
वैदेशिकोभवद्राज्ञा वितीर्णावसरो बहिः ॥ KRT_5_0354cd
प्राप्तान्सचिवसामन्तान्विन्यस्यन्तो यथाक्रमम् । KRT_5_0355ab
प्रतीहारा नृपस्याग्रमनयन्त विविक्तताम् ॥ KRT_5_0355cd
विबभौ धवलोष्णीषा सभा दीपप्रभोज्ज्वला । KRT_5_0356ab
शेषशय्येव मणिभिः कृतालोका फणोद्भवैः ॥ KRT_5_0356cd
कृतावरोधधम्मिल्लमालान्दोलनकेलिभिः । KRT_5_0357ab
प्रदोषपवनैश्चक्रे शिशिरैर्त्राणतर्पणम् ॥ KRT_5_0357cd
जातगीतदिदृक्षाणां गवाक्षावलयो बभुः । KRT_5_0358ab
आसवामेदिभिर्वक्त्रैरवरोधमृगीदृशाम् ॥ KRT_5_0358cd
हारकङ्कणकेयूरपारिहार्यादिशोभिना । KRT_5_0359ab
स्ववृन्देनानुयातोथ प्राविशड्डोम्बगायनः ॥ KRT_5_0359cd
हंसी नागलता चास्य सुते ललितलोचने । KRT_5_0360ab
चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितामिव ॥ KRT_5_0360cd
तयोर्विलासवलितैश्चलितापाङ्गविभ्रमैः । KRT_5_0361ab
द्वितीयपुष्पप्रकरो व्यकीर्यत सभान्तरे ॥ KRT_5_0361cd
गायनैर्जय जीवेति कृतकोलाहलैरभूत् । KRT_5_0362ab
सदः सशब्दं कुर्वद्भिस्तत्तन्नृ1पगुणग्रहम् ॥ KRT_5_0362cd
भुक्तोत्तरोचितोदञ्चत्पञ्चमस्थानचारिणः । KRT_5_0363ab
वंशै रागविशेषस्य दत्ते स्थाने1 ततः शनैः ॥ KRT_5_0363cd
अविक्रियशिरःकम्पभ्रूनेत्रभ्रमशोभितः । KRT_5_0364ab
अभिन्न इव गायन्यो1र्गीतध्वनिरजृम्भत ॥ KRT_5_0364cd
अथ ताम्बूलरोमन्थत्यागनिश्चलमूर्तिना । KRT_5_0365ab
जातं राजकुरङ्गेण प्रमोदास्पन्ददृष्टिना ॥ KRT_5_0365cd
गायन्यौ1 भावमा1लक्ष्य तस्य स्निग्धमगायताम् । KRT_5_0366ab
अधिकोद्रेचिताभिख्यं विलासस्मितविभ्रमैः ॥ KRT_5_0366cd

344.

--1) Thus A1; A3 स वामोतर॰.

345.

--1) A3 संरुद्ध॰.

--2) A3 वक्रभु॰.

346.

--1) Thus corr. by A3 from A1 ॰लिब्धकां॰.

348.

--1) Thus A3; A1 ॰क्राम्यति.

350.

--1) Thus G Edd. A ॰स्तस्तन्नृप॰.

363.

--1) A3 ताने.

364.

--1) Thus corr. by later hand from A1 गायन्त्योर्गी॰.

366.

--1) Thus corr. by later hand from A1 गायन्त्यौ.

--2) A3 gloss आशयं.

[page 85]




राज्ञस्तयोश्च संसक्तचित्रयोरितरेतरम् । KRT_5_0367ab
दृग्व्यापारैः स्वसंवेद्यैः संलाप इव पप्रथे ॥ KRT_5_0367cd
नृपं हारितचित्तं तं विज्ञायैकः प्रियो विटः । KRT_5_0368ab
ततः1 प्रसङ्गे प्रोवाच प्रीतिवृद्धिकरं वचः ॥ KRT_5_0368cd
देव गीतमिदं यातं संप्रप्यैते मनोरमे । KRT_5_0369ab
कर्पूरपारीपतितं मैरेयमिव हारिताम्1 KRT_5_0369cd
गायन्योर्मा1र्जितामेतां रागाद्द2न्तचतुष्किका3म् । KRT_5_0370ab
अनयोः प्रतिमाव्याजाच्चुमबीव निशाकरः ॥ KRT_5_0370cd
करन्यस्तकपोलान्तमुद्गायन्त्याविमे ध्रुवम् । KRT_5_0371ab
कटाक्षैः कुतुतो व्योम्नि वैमानिकविमोहनम् ॥ KRT_5_0371cd
जानत्यास्वाश्रयां चर्चामनयोरेकयात्रयोः । KRT_5_0372ab
असूरास्मितगर्भोयं कटाक्षः पश्य पातितः ॥ KRT_5_0372cd
गायन्त्येकानतमुखी कर्णव्यालोलकुण्डला । KRT_5_0373ab
विपरीतरतोद्रेककृतारम्भेव शोभते ॥ KRT_5_0373cd
सफलं तस्य तारुण्यमीदृश्यो निर्जने स्त्रियः । KRT_5_0374ab
औत्सुक्याद्विरहे यस्य गायन्त्येवंविधैः स्वरैः ॥ KRT_5_0374cd
उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः । KRT_5_0375ab
एकसार्थप्रयातेभ्यः कथमेको विवर्ज्यते ॥ KRT_5_0375cd
नेत्रस्य रूपं श्रोत्रस्य ध्वनिं संस्पृशतो न चेत्1 KRT_5_0376ab
तदङ्गस्या2न्यकान्ताङ्गं स्पृशतो दुष्कृतं कुतः ॥ KRT_5_0376cd
अभिलाषाङ्कुरः सिक्त इव तैर्विटभाषितैः । KRT_5_0377ab
राज्ञः स्वभावलोलस्य शतशाखस्वमाययौ ॥ KRT_5_0377cd
ये1 विस्तारितवर्ण2संकररुचः संदर्श्य गोत्रान्तकृ3द्बद्धावस्थितिचापलङ्घनमलं पार्श्वे ध्वनन्त्युद्धताः । KRT_5_0378ab
नीय4न्ते विपथा5वपातपरतां लब्धोदयैस्तैः क्षनात्सिंहा वारिधरैरमी च रभसाद्भू6पालसिंहा विटैः ॥ KRT_5_0378cd
वस्तु क्षणादनुपपत्त्युपपत्तियुक्तं कृत्वा जडान्यदि विमोहयितुं समर्थाः । KRT_5_0379ab
न स्युर्विटा अथ कुतर्कपथस्थिताश्च नित्योद्वसेषु1 निरयेषु मृगाश्चरेयुः ॥ KRT_5_0379cd
संतोष्य हारकेयूरकुण्डलैर्डोम्बमण्डलम् । KRT_5_0380ab
अमार्गत्यागराधेयः1 शुद्धान्तमगमन्नृपः ॥ KRT_5_0380cd
कान्तोस्याः क्षितिवल्लभोयम1भिधेत्युर्वीपतेरेकतो2 ब्रूतेसाव3तिचण्डताण्डवयुतं डोम्बः स्व4नामान्यतः । KRT_5_0381ab
मध्ये यत्कि5मपेति गीतरचना काव्यं6 यदेतद्विदो7 यल्लक्ष्मीं8 क्षपयन्ति9 तान्धिगबुधान्कीर्त्यर्थिनः पार्थिवान् ॥ KRT_5_0381cd
वेश्यानुरागस्य महेन्द्रचापधाम्नो हरिद्रारसरञ्जनस्य । KRT_5_0382ab
ज्याङ्गगीतस्य च हारिणोपि सौन्दर्यमस्यैर्यहतप्रकर्षम् ॥ KRT_5_0382cd
दर्शनाभ्याससंवृद्धचक्षूरागः क्षमापतिः । KRT_5_0383ab
विना श्वपाककन्ये ते न पुनः प्राप निर्वृतिम् ॥ KRT_5_0383cd
गायन्त्यौ शयनोपान्ते शनैर्विहितचुम्बनम् । KRT_5_0384ab
नृपं रतिमुखाभिज्ञं तं हटात्ते पचक्रतुः ॥ KRT_5_0384cd
समागमेन नव्येन तयोर्वैयात्यशोभिना । KRT_5_0385ab
चक्रे क्षपितसामर्थ्यः स लज्जोद्वहनाक्षमः ॥ KRT_5_0385cd
रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः । KRT_5_0386ab
भाग्योष्मसंक्षयजडं वपुस्तस्य व्यधीयत ॥ KRT_5_0386cd
रागान्धेन कृता हंसी महादेवी महीभुजा । KRT_5_0387ab
भेजे राजवधूमध्ये बालव्यजनवीजनम् ॥ KRT_5_0387cd

368.

--1) A2 तत्र.

369.

--1) A3 gloss हरति मन इति हारी तस्य भावः तत्ता तं यातमिति सम्बन्धः.

370.

--1) Thus corr. by A3 from A1 गायन्त्योः.

--2) Thus A3; A1 .

--3) A2 gloss दन्तपङ्क्तिचतुष्टयं.

376.

--1) A3 gloss दुष्कृतं.

--2) A3 gloss त्वगिन्द्रियस्य.

378.

--1) A3 gloss वारिधराः विटाश्च.

--2) A2 gloss वर्णाः नीलपीताद्याः ब्राह्मणाद्याश्च.

--3) A3 gloss गोत्रान्तकृति इन्द्रे बद्धा अवस्थिर्येन स चासौ चापः धनुः इन्द्रचापः तस्य लङ्घनं । गोत्रान्तकृद्भिः कुलक्षयकारिभिः पापिभिः बद्धा स्थितिर्यस्य । तत् चापलं प्रदर्श्य ध्वनन्ति इति च घनं निविडं इति चापलविशेषणं.

--4) Thus corr. by later hand from गीयन्ते.

--5) A3 कुपथाव॰.

--6) A3 तरसा भू॰.

379.

--1) A3 gloss नित्यशून्येषु.

380.

--1) A3 gloss अपाaत्रत्यागे कर्णः.

381.

--1) A3 gloss डोम्बेनोच्चरारिता उर्वीपतेः अभिधा नामधेयं एकतः इत्यस्ति इति कथमिति कान्तोस्या इति.

--3) A3 gloss उर्वीपतिः.

--4) A3 डाम्बस्य नामा॰.

--5) A3 मध्येन्यत्किम॰.

--6) A3 gloss यत्किमपीति । यत्किञ्चिदालजालप्रायं लौकिकं गीतं । तस्य रचना एव काव्यं.

--7) A3 gloss एतत् गीतिरचनाकाव्यं विदन्ति एतद्विदः.

--8) A3 gloss येषां पार्थिवानां लक्ष्मीः यल्लक्ष्मीः तां.

--2) A3 gloss अपहरन्ति.

[page 86]




तस्य यैर्भुक्तमुच्छिष्टं ते यथा चक्रवर्मणः । KRT_5_0388ab
नृपान्तराणामन्येषामप्यभुवन्सभासदः ॥ KRT_5_0388cd
मन्त्रिणामक्षपटल1प्रख्यमुख्याधिकारदा । KRT_5_0389ab
प्रवृद्धिहेतुतां प्राप डोम्बसेवनचक्रिका ॥ KRT_5_0389cd
मौर्ख्यात्सचिवतां केचिच्छ्वपाका न व्यधुः स्वयम् । KRT_5_0390ab
केचित्त्वकुर्वन्नीतिज्ञा राजकार्याणि मन्त्रिवत् ॥ KRT_5_0390cd
मन्त्रिणस्तस्करा राज्ञी श्वपाकी श्वपचाः प्रियाः । KRT_5_0391ab
किं च लोकोत्तरमभूद्भूपतेश्चक्रवर्मणः ॥ KRT_5_0391cd
ऋतुस्नातार्तवा1ङ्कानि श्वपाकी स्वांशुकान्यदात् । KRT_5_0392ab
तदाच्छादनदृप्तेच्छा मन्त्रिणः प्रावैशन्सभाम् ॥ KRT_5_0392cd
कैश्चित्क्षित्भुजा वैरमङ्गीकृत्यापि तत्क्षणम् । KRT_5_0393ab
यैर्नाशि श्वपचोच्छिष्टं तेभूवन्तोमपैः समाः ॥ KRT_5_0393cd
मण्डलेस्मिन्प्रभावोग्रा न देवा न्यवसन्ध्रुवम् । KRT_5_0394ab
तद्वेश्मानि तदा नो चेच्छ्वपाकी प्राविशोत्कथम् ॥ KRT_5_0394cd
तां रणस्वामिनं द्रष्टुं तिलद्वादश्यहे गताम् । KRT_5_0395ab
सामन्तेभ्यः साभिमाना नान्वयुर्डामराः परम्1 KRT_5_0395cd
राजकौटुम्ब्यदृप्तानां डोम्बानां निर्गता मुखात् । KRT_5_0396ab
राज्ञामिवाज्ञा दुर्लङ्घ्या न केनाप्युदलङ्घ्यत ॥ KRT_5_0396cd
राज्ञा प्रदत्ते रङ्गाय हेलु1ग्रामेग्रहारवत् । KRT_5_0397ab
लिलेख पट्टोपाध्यायो न यदा दानपट्टकम् ॥ KRT_5_0397cd
तदाक्षपटलं गत्वा रङ्गः कोपात्तमब्रवीत् । KRT_5_0398ab
रङ्गस्स हेलु दिण्णेति1 दासीसुत न लिख्यते ॥ KRT_5_0398cd
लिलेखः सोथ संत्रासाद्रङ्गभ्रूभङ्गतर्जितः । KRT_5_0399ab
को1 न राजनि दुर्वृत्ते भवे2न्नीतिव्यतिक्रमः ॥ KRT_5_0399cd
अन्त्यागमनपापस्य पापः पृच्छन्स निष्कृतिम् । KRT_5_0400ab
विटैर्हास्यावहान्येव प्रायश्चित्तानि कारितः ॥ KRT_5_0400cd
हिमेनैव हिमं शाम्येडुष्कृतेनैव दुष्कृतम् । KRT_5_0401ab
सोनुशिष्टो विटैरेवम् दधत्पामरसारताम्1 KRT_5_0401cd
पवित्रास्पर्शतोस्पृश्यास्पर्शपापं जिहीर्षुणा । KRT_5_0402ab
तेनादूष्यत विप्रस्य योषिन्मासोपवासिनः ॥ KRT_5_0402cd
ततोपि पापिनोभूवन्केपि तस्मिन्क्षणे द्विजाः । KRT_5_0403ab
तस्मादप्यग्रहारान्ये जगृहुर्गृहभोजिनः ॥ KRT_5_0403cd
चक्रे चक्रमठं सोपि पापः पाशुपताश्रयम् । KRT_5_0404ab
तस्मिन्हतेर्धनिष्पन्नं तद्वधूर्यम1योजयत् ॥ KRT_5_0404cd
पूर्वोपकारान्विस्मृत्य डामरान्स निरागसः । KRT_5_0405ab
नृपतिः श्वपचाकामी विश्वस्तांश्छद्मनावधीत् ॥ KRT_5_0405cd
हन्तुंव्याजेन विश्वस्ताः केचिड्डामरतस्कराः । KRT_5_0406ab
तस्थुस्तस्यान्तिके द्रोहच्छिद्रानेहःप्रतीक्षिणः ॥ KRT_5_0406cd
श्वपाकीशयनावासासन्नावस्करमन्दिरे । KRT_5_0407ab
शौचस्थितं तं शिःशस्त्रं ते रात्रौ प्रापुरेकदा ॥ KRT_5_0407cd
अथ तैः प्राप्तमयैरकस्मात्तस्य सर्वतः । KRT_5_0408ab
क्षिप्रं न्यपात्यताशेषशातशस्त्रपरंपरा ॥ KRT_5_0408cd
सुप्रस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः । KRT_5_0409ab
प्रबुद्धः शस्त्रपातैः स व्यमुचद्भैरवान्रवान् ॥ KRT_5_0409cd
निःशस्त्रः शस्त्रमन्विष्यन्क्षरत्क्षतजनिर्झरः । KRT_5_0410ab
अनुद्रुतोरिभिर्धावञ्छय्यावेश्म विवेश तत् ॥ KRT_5_0410cd
अप्राप्तहेतिं क्रन्दन्त्या श्वपाक्यालिङ्गिताङ्गकम् । KRT_5_0411ab
तत्कुचोत्सङ्गलग्नाङ्गं जघ्नुस्तेनुप्रविश्य तम् ॥ KRT_5_0411cd
स्वैरेव प्रेरिता दारैस्ते तस्य नृपतेः किल । KRT_5_0412ab
मुमूर्षोर्जानुनी स्वैरं शिलया1 समचूर्णयन् ॥ KRT_5_0412cd
त्रयोदशाब्दे ज्यौष्ठस्य शुक्लाष्टम्यां क्षपाक्षणे । KRT_5_0413ab
श्वपाकभोग्यः स श्वेवावस्करे तस्करैर्हतः ॥ KRT_5_0413cd
उन्मत्तावन्तिनामाथ पार्थसूनुर्दुराशयः । KRT_5_0414ab
अभ्यषिच्यत वैधेयैः सचिवैः शर्वटादिभिः ॥ KRT_5_0414cd
श्वपाकीकामुके पापे निहते निशि तस्करैः । KRT_5_0415ab
प्रजानां पाप्मना सोभूत्पापात्पापतरो नृपः ॥ KRT_5_0415cd

389.

--1) A2 gloss गणनार्थं गणनाधिपतिस्थानस्य अक्षपटलस्य अट्टले इति भाषया नाम शिष्टदेश इति केचित्.

392.

--1) A2 gloss रजः.

395.

--1) A3 gloss केवलं.

397.

--1) Thus corr. by later hand here and in following verse from A1 हलु॰.

398.

--1) A3 gloss रङ्गस्य हेलुः दत्ता.

399.

--1) Thus corr. by A3 from A1 के.

--2) Thus corr. by A3 from A1 भवन्नी॰.

401.

--1) A3 दधर्षापरमातरमित्यन्यादर्शे.

404.

--1) Thus corr. by A3 from A1 ॰र्यवदयो॰; A2 gloss मठं.

412.

--1) Thus A; G R Edd. शिलायां.

413.

--1) Thus G. Edd; A ज्येष्ठस्य.

[page 87]




स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती । KRT_5_0416ab
कथंचित्त्रस्नुरश्वेव सेयं प्रस्थाप्यते मया ॥ KRT_5_0416cd
आसीत्पितृकुलं तस्य भक्ष्यं दुर्नृपरक्षसः । KRT_5_0417ab
और्वाभिधस्य हव्याशविशेषस्येव जीवनम् ॥ KRT_5_0417cd
तस्यासंष्टक्कराघातसटांकारकरोटिकाः । KRT_5_0418ab
घ्राणस्कन्दादिवाद्यज्ञाः सभायां मुख्यमन्त्रिणः ॥ KRT_5_0418cd
तेमात्याश्चारणत्वेन निर्लज्जास्तमरञ्जयन् । KRT_5_0419ab
कालान्तरेण यैरेव भूमिपालैर्भविष्यते ॥ KRT_5_0419cd
पर्वगुप्तोभवत्तस्य सर्वेभ्योप्यधिकं प्रियः । KRT_5_0420ab
आस्थाने नर्तनं कुर्वन्नपाकृतकटीपटः ॥ KRT_5_0420cd
आ तन्त्रिविप्लवाद्दृष्ट्वा कीटप्रायान्महिपतीन् । KRT_5_0421ab
पर्वगुपः सर्वदाभूद्राज्यावाप्तिकृतोद्यमः ॥ KRT_5_0421cd
तदा निगूढराज्येच्छः सख्यं मुख्यैः स मन्त्रिभिः । KRT_5_0422ab
पीतकोशैः प्रविदधे पञ्चभिर्भूभटादिभिः ॥ KRT_5_0422cd
भूभटः शर्वटश्छोजः कुमुदः सोमृताकरः । KRT_5_0423ab
पर्वगुप्तेन संबन्धं चक्रिरे कोशपीथिनः ॥ KRT_5_0423cd
गवाक्षासरसि प्राप्तश्रीजलोवागलद्द्विजः । KRT_5_0424ab
संग्रामडामर्गृहे यो रक्कः ख्यातपौरुषः ॥ KRT_5_0424cd
पदातिमात्रो भूपेन दृष्टशौर्यः स संयुगे । KRT_5_0425ab
महोदरो महाकायः प्रापितो मुख्यमन्त्रिताम् ॥ KRT_5_0425cd
यादृशी तेन ददृशे देवी श्रीः सरसोन्तरे । KRT_5_0426ab
तादृग्रक्क1जयादेवीत्यभिधानेन निर्ममे ॥ KRT_5_0426cd
राज्यं निष्कण्टकं कृत्वा धूतेनापजिहीर्षुणा । KRT_5_0427ab
प्रेरितः पर्वगुप्तेन भूभृच्चक्रे कुलक्षयम् ॥ KRT_5_0427cd
तेन लुण्ठितसर्वस्वः पार्थस्तस्थौ कलत्रवान् । KRT_5_0428ab
श्रीजयेन्द्रविहारान्तः श्रमणैर्दत्तभोजनः ॥ KRT_5_0428cd
शिशूञ्शंकरवर्मादीन्भ्रातॄन्द्वारान्निरोध्य सः । KRT_5_0429ab
तत्र स्थिताननशनैरुत्क्रान्तासूनकारयत् ॥ KRT_5_0429cd
उद्यतः पितरं हन्तुं मन्त्रिणोनुमतप्रदान् । KRT_5_0430ab
बद्धपट्टान्व्यधाद्बद्धनिगडानितरान्पुनः ॥ KRT_5_0430cd
एकदा मन्त्रिसामन्ततन्त्रिकायस्थसैनिकाः । KRT_5_0431ab
पार्थं तदाज्ञामासाद्य निशायां पर्यवेष्टयन् ॥ KRT_5_0431cd
म्लानक्षीणाम्बरां पत्नीं रुद्धद्वारां निपात्य1 ते । KRT_5_0432ab
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥ KRT_5_0432cd
केशानालम्ब्य कर्षन्तः शर्करोत्पाटिताङ्गकम् । KRT_5_0433ab
विपन्नं गोकुलाद्दान्तमिव निर्हृत्य तं गृहात् ॥ KRT_5_0433cd
क्षुत्क्षामरूक्षं क्रन्दन्तम् निजघ्नुर्नग्नविग्रहम् । KRT_5_0434ab
चण्डाला इव निःशस्त्रं कुमुदाद्या नृपप्रियाः ॥ KRT_5_0434cd
पितरं निहतं श्रुत्वा राजा संजातकौतुकः । KRT_5_0435ab
प्रातः स्वसचिवैः सार्धं गत्वा हृष्टोथ दृष्टवान् ॥ KRT_5_0435cd
अत्राङ्गेस्य प्रहारोयं मद्दत्त इति वादिनः । KRT_5_0436ab
तस्याग्रे राजपुरुषाः शशंसुर्निजविक्रमम् ॥ KRT_5_0436cd
न्यक्कृत्य स्वीकृतो राज्ञा तदा तद्रञ्जनोद्यतः । KRT_5_0437ab
अचूचुदत्पर्वगुप्तो देवगुप्ताभिधं सुतम् ॥ KRT_5_0437cd
पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः । KRT_5_0438ab
रञ्जितो येन भूपालो जातहासोभवच्चिरम् ॥ KRT_5_0438cd
डामरैर्लुण्ठितो देशः प्रणाशे चक्रवर्मणः । KRT_5_0439ab
उत्थाप्य पापान्कायस्थांस्तेन भूयोपि दण्डितः ॥ KRT_5_0439cd
संप्रेरितः कुसचिवैः शस्त्राभ्यासं चकार सः । KRT_5_0440ab
पाटयन्क्षुरिकाघातैः कोटवीस्त1नकोटरम् ॥ KRT_5_0440cd
गर्भिणीनां च जठरं गर्भान्द्रष्टुमपाटयत् । KRT_5_0441ab
काठिन्यस्य परीक्षार्थमङ्गं कर्मकृतामपि ॥ KRT_5_0441cd
प्रतिग्रहाद्घोराद्यद्वा वधभयाद्द्विजाः1 KRT_5_0442ab
प्रत्यगृह्णन्नग्रहारांस्तस्मादपि नृपाधमात् ॥ KRT_5_0442cd
क्रूरपापानुरूपेण क्षयरोगेण पार्थिवः । KRT_5_0443ab
ततोनुबाध्यमानोभूदपर्यन्तव्यथातुरः ॥ KRT_5_0443cd
व्यथया तस्य तादृश्या प्रजा एव न केवलम् । KRT_5_0444ab
तुतुषुर्निजशुद्धान्तमहिष्योपि चतुर्दश ॥ KRT_5_0444cd

426.

--1) Thus corr. by A3 from A1 तावद्रक्क॰.

432.

--1) Thus corr. by later hand from A1 निपत्य.

440.

--1) Thus corr. by later hand from A1 कौटवी॰.

442.

--1) Thus corr. by later hand from A1 द्विजः.

[page 88]




अथान्तःपुरदासीभिर्यः कुतश्चिदुपाहृतः । KRT_5_0445ab
क्षितिपालात्प्रजातोयमिति प्रख्यापितो मृषा ॥ KRT_5_0445cd
तं शिशुं शूरवर्माख्यं विनिवेश्य नृपासने । KRT_5_0446ab
हस्ते निक्षिप्य सामन्तसचिवैकाङ्गतन्त्रिणाम् ॥ KRT_5_0446cd
कम्पनाधिपतेर्बद्धद्वेषः कमलवर्धनात् । KRT_5_0447ab
बिभ्यन्मडवराज्यस्थाड्डामरोत्पाठनक्षमात् ॥ KRT_5_0447cd
आसन्ननिरयप्राप्तिः1 पितृहा पार्थिवाधमः । KRT_5_0448ab
शुचौ पञ्चदशाब्दस्य प्रजापुण्यैः क्षयम् ययौ ॥ चक्कलकम्॥ KRT_5_0448cd
पितृघातिसुतो राजा जयस्वामिविरोचनम् । KRT_5_0449ab
आषाढ1शुक्लसप्तम्यां शिशुर्द्रष्टुं विनिर्ययौ ॥ KRT_5_0449cd
नवा विरेजे राजश्रीर्बालस्य पृथिवीपतेः । KRT_5_0450ab
कृपाणवेणिललिता छत्रचामरहासिनी ॥ KRT_5_0450cd
अत्रान्तरे जवायातैश्च1रौरावेदितश्रुतः । KRT_5_0451ab
सामन्तैर्नगरोपान्तं प्राप्तः कमलवर्धनः ॥ KRT_5_0451cd
एकाङ्गतन्त्रिसामन्तस्यालहारकसादिभिः । KRT_5_0452ab
नगरं प्रविशञ्श्रान्तः समं सैन्यैररुध्यत ॥ KRT_5_0452cd
विरुद्धडामरानीकान्युद्ध्वा मार्गेषु निर्गतः । KRT_5_0453ab
श्रान्तोप्यसौ वैरिसेनामजयद्विक्रमोर्जितः ॥ KRT_5_0453cd
सहस्रमश्ववाराणां विद्राव्य तुरगैर्मितैः । KRT_5_0454ab
राजधानीमसंरुद्धः प्रविवेश ततः क्षणात् ॥ KRT_5_0454cd
तं लब्धजयमाकर्ण्य सैन्यैस्त्यक्तं पलायितैः । KRT_5_0455ab
एकाकिनं क्वाप्यनयज्जननी शिशुभूपतिम् ॥ KRT_5_0455cd
प्राक्कर्मभिर्मोहितो वा प्रेरितो वा कुमन्त्रिभिः । KRT_5_0456ab
नाभूत्सिंहासनारूढो मूढः कमलवर्धनः ॥ KRT_5_0456cd
तदानीं स्वगृहान्यातो राज्यकामोन्यवासरे । KRT_5_0457ab
संघट्टय1न्द्विजान्सर्वानचूचुददनीतिवित् ॥ KRT_5_0457cd
प्रौढं शक्तं च कुरुत क्ष्मापं कंचित्स्वदेशजम् । KRT_5_0458ab
मामेव कुर्युः सामर्थ्यादिति मूढः स चिन्तयन् ॥ KRT_5_0458cd
एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् । KRT_5_0459ab
अप्रौढोनुपभुज्यान्यदिने दूत्यार्थयेत यः1 KRT_5_0459cd
विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् । KRT_5_0460ab
नीत्या कामयतेन्येद्युः शोच्यस्ताभ्यां परोस्ति कः ॥ युग्मम्॥ KRT_5_0460cd
अथो1त्पुल2कुले छिन्ने स्थूलकम्बलवाहिनः । KRT_5_0461ab
अशृङ्गोक्षनिभा विप्राः समगंसत गोकुले ॥ KRT_5_0461cd
धूमनिर्दग्धकूर्चानाम् राज्ञस्तांस्तांशकीर्षताम् । KRT_5_0462ab
राज्यव्यवस्थोपन्यासस्तेषाम् चिरमवर्धत ॥ KRT_5_0462cd
वैमत्येन मिथस्तेषां नान्यः कोप्यभ्यषिच्यत । KRT_5_0463ab
कूर्चा1 भाषणनिष्ट्यूतैः स्वकूर्चष्ठीवनैः परम् ॥ KRT_5_0463cd
राज्यार्हान्वेषिभिर्विप्रैः प्राप्तः1 स्वस्मृतिकॢप्तये । KRT_5_0464ab
अवार्यतेष्टकावातैर्मुग्धः कमलवर्धनः ॥ KRT_5_0464cd
पञ्चषाणि दिनान्येव यावत्तस्थुर्द्विजातयः । KRT_5_0465ab
काहलाकांस्यतालादिवाद्यकोलाहलाकुलम् ॥ KRT_5_0465cd
उत्पताकध्वजच्छन्नशोभि युग्यार्पितासन1म् । KRT_5_0466ab
अशेषं पारिषद्यानां तावत्तत्रामिलद्बलम् ॥ युग्मम्॥ KRT_5_0466cd
स्वपत्नीं बन्धकीभूतामिवान्यवशवर्तिनीम् । KRT_5_0467ab
वीक्ष्य राजश्रियं शोचन्नासीत्कमलवर्धनः ॥ KRT_5_0467cd
पितृधातिबधूश्छन्नपुत्रराज्यार्थिनी ततः । KRT_5_0468ab
प्राहिणोद्राजपुरुषान्पार्श्वं प्रायोपवेशिनाम् ॥ KRT_5_0468cd
पिशाचकपुरग्रामे वीरदेवाभिधस्य यः । KRT_5_0469ab
कुटुम्बिनः कामदेवनामा मूनुरजायत ॥ KRT_5_0469cd
स शिक्षिताक्षरो लब्ध्वा मेरुवर्धनमन्दिरे । KRT_5_0470ab
बालाध्यापकतां स्नानशीलादिगुणभूषितः ॥ KRT_5_0470cd
क्रामाद्गञ्जाधिकार्यासीदथ तस्यात्मजः शनैः । KRT_5_0471ab
लेभे गञ्जाधिकारित्वं राज्ञः शंकरवर्मणः ॥ KRT_5_0471cd

448.

--1) Thus corr. by A3 from A1 ॰प्राप्तेः.

449.

--1) Thus corr. by A3 from A1 अषाढे.

451.

--1) श्चारै supplied by A3.

457.

--1) Thus A1; A3 संघटय्य.

459.

--1) G sec manus अप्रौढो नोपभुङ्क्तेन्यदिने दूत्यार्थयन्नु यः.

461.

--1) A3 अथौत्पल॰.

--2) A3 gloss उत्पलो नाम बाल्यपालः तेन चिप्पटजयापीडं स्वस्रीयं निहत्याभिचारक्रियया स्वकीयभ्रातुःपुत्रः अजितपीडः राज्ये स्थापितः । ततः प्रभृति कल्यपालकुलराज्यं । उन्मत्तावन्तिपर्यन्तं प्राप्य कल्यपालकुलस्य च्छेदः । अत एवोक्तं । उत्पलकुले च्छिन्ने इति ।.

463.

--1) Thus A1; A3 रूक्षभा॰.

464.

--1) A2 प्राप्तैः.

466.

--1) तासनम् supplied by A3 in space left by A2.

[page 89]




यः प्रभाकरदेवोपि सुगन्धाच्छन्नकामुकः । KRT_5_0472ab
लक्ष्म्या सरस्वतीद्वेषाद्देशविप्लवतोथ वा1 KRT_5_0472cd
विद्वान्यशस्करो नाम तत्पुत्रोत्यन्तदुर्गतः । KRT_5_0473ab
सख्या फल्गुणकाख्येन समं देशान्तरं गतः ॥ KRT_5_0473cd
सुस्वप्रदर्शनैह् पीठदेव्याशीर्भिश्च हर्षलः । KRT_5_0474ab
तस्मिन्प्रसङ्गे सोत्साहः प्रत्यावृत्तो निजां भुवम् ॥ KRT_5_0474cd
पितृघातिवधूदूतैर्यातैर्बोधयितुं द्विजान् । KRT_5_0475ab
मध्ये गृहीतो वाग्मित्वात्प्रविवेश तदन्तिकम् ॥ कुलकम्॥ KRT_5_0475cd
दृष्ट्वैव तं दैववशादैकमत्यस्पृशो द्विजाः । KRT_5_0476ab
ध्वनिं राजायमेवास्त्वित्युच्चकैरुदचारयन् ॥ KRT_5_0476cd
अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः । KRT_5_0477ab
क्ष्माधृतिप्रौढसामर्थ्य1ः सानुमानिव तोयदैः ॥ KRT_5_0477cd
दग्धं वेणुवनम् परस्परमहासंघर्षजेनाग्निना तन्मूलोद्धृतिरम्भसा क्षणधृतोद्रेकेण संपादिता । KRT_5_0478ab
वात्वावेगविपाटितं विटपिनं प्राप्तं कुतश्चिद्दृढां रूढिं नेतुमहो महाद्रिकुह1रे धात्रा न किं सूत्रितम्2 KRT_5_0478cd
भृत्यप्रेरणया वंशं पार्थजः स्वं न चेद्दहेत् । KRT_5_0479ab
तत्पुत्रोत्पाटनं कुर्यान्न चेत्कमलवर्धनः ॥ KRT_5_0479cd
अनुच्चकुलजातस्य1 दरिद्रस्याटतः क्षितिम् । KRT_5_0480ab
ताद्यशस्करदेवस्य राज्यप्राप्तिः कथं भवेत् ॥ KRT_5_0480cd
पद्भ्यां व्रजन्निरनुगो ददृशे जनेन यस्तत्क्षणं निखिललोकसमानमूर्तिः1 KRT_5_0481ab
साम्राज्यरम्यममुमीक्षितुमास्त नारीदृङ्नीरजस्तवकितो नरनाथमार्गः ॥ KRT_5_0481cd
नृपतिवसतिं प्रत्यागच्छन्यशस्करभूपतिः पुरमृगदृशामाशीर्मध्ये वचोपि विवक्षितम् । KRT_5_0482ab
स्तिमितवलितापाङ्गं शृण्वन्निमीलदहंकृतिः कृतपरिकरस्तज्ज्ञैर्जञ्जे प्रजापरिपालने ॥ KRT_5_0482cd
प्रतिमितरविदीपोद्भासिशुभ्रातपत्रप्रचयारजतपात्रासूत्रितारात्रिकाश्रीः । KRT_5_0483ab
अथ मुखरितमाशीर्मङ्गलैरङ्गनानामवनिहरिणधामा राजधाम1 प्रपेदे ॥ KRT_5_0483cd


इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां पञ्चमस्तरङ्गः ।
त्रयधिकायां समाशीतौ मासेषु च चतुर्ष्वगात् ।
कल्यपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥

472.

--1) Thus A3; A1 ॰तो गतः.

477.

--1) A3 gloss क्ष्मायाः भूमेः धृतिः धारणं तस्मिन् प्रौढं सामर्थ्यं यस्य सः.

478.

--1) हं supplied by A3.

--2) A3 दैवेन किं सूत्रितमित्यादर्शान्तरे पाठः.

480.

--1) A3 gloss नीचकूलोत्पन्नस्य.

481.

--1) Thus A3; A1 ॰कीर्तिः.

483.

--1) A3 gloss अवनौ भूमौ हरिणधामा चन्द्रः and राजासनं.

[page 90]




॥ षष्टस्तरङ्गः ॥

नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती1 बहिः2 KRT_6_0001ab
प्रेम्णैर्वार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुतीरेवं देववधूमुखाच्छ्रुतिसुखाः3 शृण्वन्त्यपर्णावतात् ॥ KRT_6_0001cd
इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् । KRT_6_0002ab
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ KRT_6_0002cd
वेत्रिवित्रास्यमानांस्तु तान्कृताञ्चलिरब्रवीत् । KRT_6_0003ab
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ KRT_6_0003cd
राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः । KRT_6_0004ab
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकम् ॥ KRT_6_0004cd
तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत । KRT_6_0005ab
व्यस्मरत्सहसंवाससंभूतमपि लाघवम् ॥ KRT_6_0005cd
खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभाबलात् । KRT_6_0006ab
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ KRT_6_0006cd
अचौराभूत्तथा भूमिर्यथा रात्रौ वणिक्पथा । KRT_6_0007ab
अतिष्ठन्विवृतद्वारा मार्गाश्चाविघ्निताध्वगाः ॥ KRT_6_0007cd
प्रत्यवेक्षापरे तस्मिन्नासीत्सर्वापहारिणाम् । KRT_6_0008ab
कृष्यध्यक्षत्वमुसृज्य कृत्यं नान्यन्नियोगिनाम् ॥ KRT_6_0008cd
ग्राम्याः कृषिपराधीना नापश्यन्राजमन्दिरम् । KRT_6_0009ab
विप्राः स्वाध्यायसंसक्ता नाकुर्वञ्शस्त्रधारणम् । KRT_6_0009cd
न विप्रगुरवः साम गायन्तो मदिरां पपुः । KRT_6_0010ab
न तापसाः पुत्रदारपशुधान्यढौकयन् ॥ KRT_6_0010cd
न मूर्ख1रवो मत्स्यापूपयागविधायिनः । KRT_6_0011ab
चक्रिरे स्वकृतैर्ग्रन्थैस्तर्कागमपरीक्षणम् ॥ KRT_6_0011cd
नादृश्यन्त च गेहन्यो गुरुदीक्षोत्थदेवताः । KRT_6_0012ab
कुर्वाणा भर्तृशीलश्रीनिषेधं मूर्धधूननैः ॥ KRT_6_0012cd
कार्तान्तिको भिषक्सभ्यो गुरुर्मन्त्री पुरोहितः । KRT_6_0013ab
दूतः स्थेयो1 लेखको वा न तदाभूदपण्डितः ॥ KRT_6_0013cd
प्रा1योपवेशाधिकृतैर्बोधितेन महीभृता । KRT_6_0014ab
प्रायोपविष्टो निकटं प्रापितः कश्चिदब्रवीत् ॥ KRT_6_0014cd
अहमाड्योभवं पूर्वं वास्तव्योत्र महीपते । KRT_6_0015ab
निष्किंचनत्वं शनकैरगच्छं दैवयोगतः ॥ KRT_6_0015cd
उत्तमर्णैः पीडनस्य प्रवृद्धर्णस्य यस्य मे । KRT_6_0016ab
निश्चयोभूदृणं छित्त्वा परिभ्रान्तुं दिगन्तरे ॥ KRT_6_0016cd
अथ विक्रीय सर्वस्वमृणं शोधयता मया । KRT_6_0017ab
महाधनाय वणिजे विक्रीतं निजमन्दिरम् ॥ KRT_6_0017cd
भार्यामुद्दिश्य भर्त्रव्यामेक एव तु वर्जितः । KRT_6_0018ab
सोपानकूपो विक्रीतान्महतो वेश्मनस्ततः ॥ KRT_6_0018cd
निदाघे पुष्पताम्बूलीपर्णाद्यत्रतिशीतले । KRT_6_0019ab
न्यस्यद्भिर्मालिकै1र्दत्तात्मा जीवेद्भाटकादिति2 KRT_6_0019cd
ततो दिगन्तराद्भ्रान्त्वा विम्शत्या वत्सरैरहम् । KRT_6_0020ab
लब्धाल्पवित्तः संप्राप्तो जमभूमिमिमाम् पुनः ॥ KRT_6_0020cd
अन्विष्यता मया साध्वी स्ववधूर्ददृशेथ सा । KRT_6_0021ab
विवर्णदेहा जीवन्ती प्रेष्यात्वेनान्यवेश्मसु ॥ KRT_6_0021cd
किं दत्तजीविकापि त्वमीदृशीं वृत्तिमाश्रिता । KRT_6_0022ab
मयेति सा सदुःखेन पृष्टा स्वोदन्तमब्रवीत् ॥ KRT_6_0022cd

1.

--1) A3 gloss पर्णवातजीवनौ.

--2) A3 gloss एतौ चराचरगुरुणा बहिः कृतौ इत्यन्वयः.

--3) Thus A1; A3 ॰सुखाच्छृण्व॰.

11.

--1) Thus corr. by later hand from A1 मूर्खा गु॰.

13.

--1) A3 gloss विवादपरिनिर्णेता स्थेयः.

14.

--1) A3 gloss मृतावनशने प्रायो बाहुल्ये सदृशे त्रिषु इति कोशः.

19.

--1) A3 gloss पौष्पिकैः.

--2) A3 gloss भाटी इति भाषया । प्रत्यहं वेतनं भाटी.

[page 91]




सोपानकूपं संप्राप्ता त्वयि याते दिगन्तरम् । KRT_6_0023ab
लगुडैस्ताडयित्वाहं वणिजा तेनव् वारिता ॥ KRT_6_0023cd
तदन्या कास्त मे वृत्तिरित्युक्त्वा विरराज सा । KRT_6_0024ab
तदाकर्ण्य निमग्नोहमन्तरे शोककोपयोः ॥ KRT_6_0024cd
कृतप्रायोपवेशोथ स्थेयैस्तैस्तैः पदे पदे । KRT_6_0025ab
प्रत्यर्थिनो दत्तजयैः किमप्यस्मि पराजितः ॥ KRT_6_0025cd
जडत्वाद्वेद्मि न न्यायं न विक्रीतो मया पुनः । KRT_6_0026ab
सोपानकूप इत्यस्मिन्नर्थे प्राणा इमे पणः ॥ KRT_6_0026cd
सोहं विपद्ये क्षीणार्थो द्वारि शास्तुस्तव ध्रुवम् । KRT_6_0027ab
वृजिनादस्ति चेद्भीतिर्वस्तु निर्णीयतां स्वयम् ॥ KRT_6_0027cd
राजेति तेन विज्ञप्तो दत्त्वा1 धर्मासनं स्वयम् । KRT_6_0028ab
दंघटय्याखिलान्स्थेयानासीत्तत्त्वं विचारयन् ॥ KRT_6_0028cd
स्थेयास्तमूचुर्बहुशो विचार्यायं पराजितः । KRT_6_0029ab
शाद्यादगणयन्न्यायं दण्ड्यो लिखितदूषकः ॥ KRT_6_0029cd
सोपानकूपसहितं विक्रीतं गृहमित्यथ । KRT_6_0030ab
राजा विक्रयपत्रस्थान्स्वयम् वर्णानवाचयत् ॥ KRT_6_0030cd
ततोधिगतमित्येव सभ्येषु निगदत्स्वपि । KRT_6_0031ab
अन्तरात्मा जगादेव नृपतेरर्थिनो जयम् ॥ KRT_6_0031cd
मुहूर्तमिव संचिन्त्य राजान्याभिरभूच्चिरम् । KRT_6_0032ab
कथाभिरतिचित्राभिर्मोहयन्सभ्यमण्डलम् ॥ KRT_6_0032cd
कथान्तराले सर्वेभ्यो गृह्णन्रत्नानि वीक्षितुम् । KRT_6_0033ab
हसन्प्रत्यर्थिनो हस्तादुपादत्ताङ्गुलीयकम् ॥ KRT_6_0033cd
क्षणादेवा1खिलैः स्थेयमित्थमेवेति सस्मितम् । KRT_6_0034ab
वचो ब्रुवाणः प्रययौ पादक्षालनकैतवात् ॥ KRT_6_0034cd
अभिज्ञानाय तत्रस्थः स वितीर्याङ्गुलीयकम् । KRT_6_0035ab
भृत्यमेकं वणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥ KRT_6_0035cd
स वणिग्गणनाध्यक्षं ययाचे साङ्गुलीयकः । KRT_6_0036ab
यत्राब्दे पत्रमुत्पन्नं गणनापत्रिकां1 ततः ॥ KRT_6_0036cd
निणयेद्य तथा कृत्यमस्ति भाण्डपतेरिति । KRT_6_0037ab
श्रुत्वादाद्गणनाध्यक्षस्ताम् गृहीताङ्गुलीयकः ॥ KRT_6_0037cd
दीन्नाराणां1 दशशतीं तस्यां भूभृदवाचयत् । KRT_6_0038ab
व्ययमध्येधिकरणलेखकाय2 समर्पिताम् ॥ KRT_6_0038cd
तस्मै मितधनार्हाथ बहुमूल्यार्पणा1न्नृपः । KRT_6_0039ab
रेफे2 सकारं वणिजा कारितं निश्चिकाय सः ॥ KRT_6_0039cd
सभायां तत्प्रदर्श्याथ पृष्ट्वा दत्त्वाभयं च तम् । KRT_6_0040ab
आनीय लेखकं सभ्यान्संजातप्रत्ययान्व्यधात् ॥ KRT_6_0040cd
सभ्यैरभ्यर्च्यमानेन राज्ञा सार्धं वणिग्गृहम् । KRT_6_0041ab
वितीर्णमर्थिने1 देशात्प्रत्यर्थी च प्रवासितः ॥ KRT_6_0041cd
कृताह्निकं भोक्तुकामं तं दिनान्ते च भूपतिम् । KRT_6_0042ab
अकालावेदनाद्बिभ्यत्क्षत्ता जातु व्यजिज्ञपत् ॥ KRT_6_0042cd
देवः समाप्रकृत्योद्य विज्ञप्तौ श्वस्तव क्षणः । KRT_6_0043ab
इत्युक्तो दर्शणे प्राणत्यागी वित्रो बहिः स्थितः ॥ KRT_6_0043cd
दत्तप्रवेशादेशोथ रुद्धसूदेन भूभुजा । KRT_6_0044ab
द्विजः प्रविष्टः पृष्टश्च1 तीव्रार्तिरिदमब्रवीत् ॥ KRT_6_0044cd
सुवर्णरूपकशतं भ्रान्त्वा देशान्तरेर्जितम् । KRT_6_0045ab
गृहीत्वा श्रुतसौराज्यः स्वदेशमहमागतः ॥ KRT_6_0045cd
त्वय्यि राजनि निश्चौरैरध्वभिर्विशतः सुखम् । KRT_6_0046ab
ह्योभवल्लवणोत्से मे दिनान्ते श्राम्यतः स्थितिः ॥ KRT_6_0046cd
दीर्घाध्वलङ्घनक्लान्तस्तत्राहमकुतोभयः । KRT_6_0047ab
मार्गारामतरोर्मूले त्रियामामात्यवाहयम् ॥ KRT_6_0047cd
वेतनं ग्रन्थिबद्धं तदुत्थास्नोरपतन्मम1 KRT_6_0048ab
अरघट्टे समीपस्थे कक्षयोगादलक्षिते ॥ KRT_6_0048cd

28.

--1) Thus A; G has sec. manu the conjuctural reading गत्वा.

34.

--1) Thus A3; A1 ॰दिवा॰.

36.

--1) A2 gloss गणत् वतूर् इति भाषया बही इति मध्यदेशीयाः.

38.

--1) A2 gloss दीन्नाराः द्यार् इति कश्मीरभाषया.

--2) A2 gloss यत्सन्निधौ अर्थिप्रत्यर्थिनावुभौ भूमेः क्रयविक्रयं कुरुतः । येन चावस्तरमानं क्रियते सोधिकरणलेखकः । अवस्तरपरिमाणलेखपत्रकारी सराफ् इति भाषया .

39.

--1) A2 gloss अधिकरणलेखकाय दीन्नारदशशतीशनात्.

--2) A2 gloss गृहविक्रयिणा यदिना विक्रयपत्रे लिखितं । सोपानकूपरहितं विक्रीतं गृहमिति । ततस्तेन लुब्धेन वणिजा प्रत्यर्थिना रेफविषये सकारः कारितः अधिकरणलेखकहस्तेन । उत्कोचं दीन्नारदशशत्याख्यं दत्त्वा कूपसहितं गृहं विक्रीतमिति लेखितं । ततोनन्तरं राञ्जानुमितं लेखपत्रचित्रणार्थं किमर्थं दीन्नारदशशती । बहुमूल्यत्वादिति रेफस्य सकार एव कृतोनेन इति ॥.

41.

--1) A3 gloss विज्ञप्तिकराय.

42.

--1) A3 gloss द्वास्स्थः.

44.

--1) Thus corr. by later hand from A1 पृष्टोथ.

48.

--1) Thus corr. A3 from A1 ॰तद्भुवि.

[page 92]




तस्मिन्दुरवरोहेतिनिर्वसुत्वाज्जहद्वपुः । KRT_6_0049ab
सोहं हारितसर्वस्वः शोचन्रुद्धिश्चिरं जनैः ॥ KRT_6_0049cd
एकोध्यवसितः कोपि साहसे1 पुरुषोब्रवीत् । KRT_6_0050ab
मह्यं दापितवित्ताय2 किं ददासीति मां ततः ॥ KRT_6_0050cd
तमस्म्यवोचं विवशस्तस्यार्थस्यास्मि कः प्रभुः । KRT_6_0051ab
तुभ्यं यद्रोचते मह्यं तत्ततो दीयतां त्वया ॥ KRT_6_0051cd
अवरुह्याधिरूढोथ रूपकेभ्यो द्वयं मम । KRT_6_0052ab
स प्रादात्स्पष्टमेवाष्टानवतिं स्वीचकार तु ॥ KRT_6_0052cd
व्यवहारा वचोनिष्ठा1 एव राज्ञि यशस्करे । KRT_6_0053ab
निन्दन्व्यवस्थां तां लोकैर्न्यक्कृतोस्मीति वादिभिः ॥ KRT_6_0053cd
उपचारोक्तिसारल्य1च्छलहारितवेतनः । KRT_6_0054ab
सोहं जहाम्यसून्द्वारे दुर्व्यवस्थापकस्य ते ॥ KRT_6_0054cd
पुंसस्तस्य स राज्ञाथ पृष्टः प्रकृतिनामनी । KRT_6_0055ab
वदनप्रत्यभिज्ञै1व ममास्तीत्यभ्यभाषत ॥ KRT_6_0055cd
प्रातस्तवेoसितावाप्तिं करिष्यामीति भूभुजा । KRT_6_0056ab
प्रतिज्ञाय कथंचित्स स्वपार्श्वे कारितोशनम् ॥ KRT_6_0056cd
लवणोत्सौकसां दूताहूतानां स विशां ततः । KRT_6_0057ab
स्थितमन्तर्द्विजोन्येद्युस्तं राञ्जेदर्शयन्नरम् ॥ KRT_6_0057cd
पृष्टः स राज्ञा विप्रेण यथैवोक्तं तथैव तत् । KRT_6_0058ab
सर्वमूचे वाक्प्रतिष्ठं व्यवहारमुदीरयन् ॥ KRT_6_0058cd
सत्यवाक्पारतन्त्र्यस्य वस्तुवृत्तस्य चान्तरम् । KRT_6_0059ab
अलक्षयन्तः प्रैक्षन्त दोलाकुलधियो धराम् ॥ KRT_6_0059cd
धर्मासनस्थो राजाथ रूपकाणामभाषत । KRT_6_0060ab
तमष्टानवतेः पात्रं विप्रमन्यं द्वयस्य तु ॥ KRT_6_0060cd
अनुयोक्तॄञ्जगादापि दुःसंचिन्त्या महात्मनः । KRT_6_0061ab
धर्मस्याधर्ममुद्वृत्तं निहन्तुं धावतो गतिः ॥ KRT_6_0061cd
सायं हुताशं प्रविशन्नम्मयं1 चेन्दुमण्डलम् । KRT_6_0062ab
स्वतेजसा संविभजन्प्रदीपैर्ज्योत्स्नयाप्यसौ ॥ KRT_6_0062cd
तदुत्थाय यथा भानुर्निहन्ति ध्वान्तमुद्धतम् । KRT_6_0063ab
अनन्यकर्मा धर्मोयं तथाधर्मं व्यपोहति ॥ युग्मम्॥ KRT_6_0063cd
दुःसंलक्ष्यस्तु धर्मोसावधर्मं बाधतेञ्जसा । KRT_6_0064ab
तिष्ठन्नित्य1मधुष्ठाय दाह्यं काष्ठमिवानलः ॥ KRT_6_0064cd
ददाति यद्भवान्दत्तां तदित्याद्युक्तमुज्झतः । KRT_6_0065ab
तुभ्यं रोचत इत्यादि वचोस्य निसृतं तदा ॥ KRT_6_0065cd
रुचितास्य बभूवाष्टानवतिर्लोभनोस्य ताम् । KRT_6_0066ab
नादादस्मायरुचितं रूपकाणां द्वयं ददत् ॥ KRT_6_0066cd
इत्यादिसूक्ष्मेक्षिकया धर्माधर्मान्तरं विदन् । KRT_6_0067ab
प्रत्यवेक्षापरः क्ष्माभृद्व्यधात्कृतयुगोदयम् ॥ KRT_6_0067cd
इत्थं जनं स विनयन्हास्योभून्निजदुर्नयैः । KRT_6_0068ab
परस्योपदिशन्पथ्यमथ्याशीव रोगहृत् ॥ KRT_6_0068cd
श्रोत्रियेणे1व तेनापि मृदम्भःशौचशालिना । KRT_6_0069ab
डोम्बोच्छिष्ठभुजो भृत्याः2 पार्श्वान्न परिजह्रिरे ॥ KRT_6_0069cd
यथोत्तरं संश्रितार्थैरन्योन्यं पृष्ठपातिभिः । KRT_6_0070ab
नगराधिकृतै1श्चक्रे चतुर्भिः सोर्थ2संग्रहम् ॥ KRT_6_0070cd
लेभिरे निधनं तस्मात्सत्यंकारात्पदातयः । KRT_6_0071ab
श्रीरणेश्वरपीठाग्रन्यस्तखड्गादपि प्रभोः ॥ KRT_6_0071cd
स ज्येष्ठे भ्रातरि मृते तथाभून्मुदित1श्चिरम् । KRT_6_0072ab
तदुपज्ञं2 यथा प्राज्ञैर्तत्रोत्प्रैक्षि3 रसा4र्पणम् ॥ KRT_6_0072cd
नीतस्य मण्डलेशत्वं वेलावित्तस्य1 भूभुजा । KRT_6_0073ab
देवीः कामयमानस्य चक्रे गजनिमीलिका2 KRT_6_0073cd
रामाच्छुद्धान्तकान्तानां मूर्धानमधिरोपिता । KRT_6_0074ab
लल्ला नामाभवत्तस्य वेश्या वैवश्यकारिणी ॥ KRT_6_0074cd

50.

--1) Thus A1; A3 ॰सी.

--2) A3 gloss वचसि वाक्य एव निष्ठा येषां । न तु न्यायविचारणे इति व्यवस्थां निन्दन्.

54.

--1) Thus corr. by later hand from A1 ॰सारल्येच्छ॰.

55.

--1) A4 gloss वदनमेव केवलं तदीयं विदितं माम् न तु नामप्रकृती इत्यर्थः.

62.

--1) A3 gloss आप्यं.

64.

--1) Thus corr. by A3 from A1 तिष्ठनिष्टम॰.

69.

--1) Thus A1; A3 ॰येणैव.

--2) Thus corr. by A3 from A1 ॰भृत्यान्पा॰.

70.

--1) A2 gloss हट्टरक्षिभिः.

--2) Thus corr. by A3 from A1 सोथसं॰.

72.

--1) Thus A3; A1 ॰भूदुदित॰.

--2) Thus corr. by A3 from A1 तदुपज्ञौ; Edd. ॰ज्ञैर्यथा.

--3) Emended; A R G ॰त्प्रेक्षि॰.

--4) A3 gloss भुवः.

73.

--1) A3 gloss एतन्नामकसचिवस्य; एतन्नामक struck out again.

--2) A3 gloss उपेक्षा कृता इत्यर्थः.

[page 93]




अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् । KRT_6_0075ab
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ KRT_6_0075cd
उत्तमाधमसंसक्तौ जानन्सदृशवृत्तिताम् । KRT_6_0076ab
नारीणां शुचिबाह्यानामङ्गनात्वं1 व्यधाद्विधिः ॥ KRT_6_0076cd
सा लालितापि राञ्जा यल्लल्ला ललितलोचना । KRT_6_0077ab
चण्डालयामिके1तनागाद्यामिनीषु समागमम् ॥ युग्मम्॥ KRT_6_0077cd
सुभगंकरणं किंचिच्चण्डालतरुणेभवत् । KRT_6_0078ab
तं यत्प्रभावविवशा भेजे राजवधूरपि ॥ KRT_6_0078cd
सा वा चण्डालकुलजा सा वा कार्मण1कर्मवित् । KRT_6_0079ab
अन्यथा संगमः2 किं स्यादसंभाव्यस्तथाविधः ॥ KRT_6_0079cd
सोभूत्केन प्रकारेण तया सह समागतः । KRT_6_0080ab
इत्येष लेभे वृत्तान्तः प्रतिभेदं न कुत्रचित् ॥ KRT_6_0080cd
केवल्ं प्रत्यभात्ता1दृक्पापिनोः प्रेम तत्तयोः । KRT_6_0081ab
दृग्व्यापारेक्षणात्क्षिप्रं हाडिनाम्नोधिकारिणः ॥ KRT_6_0081cd
तमर्थमाथ तथ्येन वीक्ष्य प्रणिधिभिर्नृपः । KRT_6_0082ab
प्रायश्चित्तानुवरणक्षामः कृष्णाजिनं दधौ ॥ KRT_6_0082cd
कुपितोपि स यन्नैनां न्यवधी1द्रागमोहितः । KRT_6_0083ab
तेनैवागात्पुरोभागिवितर्कातङ्कपात्रताम् ॥ KRT_6_0083cd
डोम्बोच्छिष्टानुगासङ्गादशुचित्वं यशस्करे । KRT_6_0084ab
संक्रान्तं कुष्ठिसंस्पर्शात्कुष्ठं दुःखमिवाभवत् ॥ KRT_6_0084cd
सामान्येन सता कैश्चित्सदृशैः शुभकर्मभिः । KRT_6_0085ab
जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् ॥ KRT_6_0085cd
साम्राज्यकामो नृपतिर्भा1विष्वपि स जन्मसु । KRT_6_0086ab
युक्त्या प्रादान्निरातङ्कां राज्यलक्ष्मीं द्विजन्मने ॥ KRT_6_0086cd
भूभुजा दानशौण्डेन पैतृके स्थण्डिले कृतः1 KRT_6_0087ab
छात्राणामार्यदेश्या2नां तेन विद्यार्थिनां मठः ॥ KRT_6_0087cd
मठाधिपतये तत्र छत्रचामरहासिनीम् । KRT_6_0088ab
स नरेन्द्रश्रियं1 प्रादाट्टङ्कान्तःपुरवर्जिताम् ॥ KRT_6_0088cd
वितस्तापुलिने राजा नानोपकरणान्वितान् । KRT_6_0089ab
ब्राह्मणेभ्यः सोग्रहारान्प1ञ्चपञ्चाशतं ददौ ॥ KRT_6_0089cd
अथ जातोदरव्याधिर्मज्जातो नायमित्यसौ । KRT_6_0090ab
जानन्संग्रामदेवाख्यं परिवर्ज्य निजा1त्मजम् ॥ KRT_6_0090cd
समर्प्य सचिवैकाङ्गसामन्तानभ्यषेचयत् । KRT_6_0091ab
रामदेवात्मजं राज्ये वर्णतं प्रपितृव्यजम् ॥ KRT_6_0091cd
शक्ये राज्यादपाकर्तुं शिशावनभिपेचिते । KRT_6_0092ab
निराशाः समपद्यन्त तदा राज्यजिहीर्षवः ॥ KRT_6_0092cd
स पर्वगुप्तकौटिल्यप्रयुक्तेरुदयोन्मुखः । KRT_6_0093ab
विपाकका1लस्तत्राह्नि भङ्गोन्मुख इवाभवत् ॥ KRT_6_0093cd
राजधानीस्थितस्यापि वर्णटो राज्यदायिनः । KRT_6_0094ab
आरोग्यवार्तयाप्यासीन्मुमूर्षोरनिरीक्षकः ॥ KRT_6_0094cd
ततः सानुशयो राजा ताम्यन्प्रैर्यत मन्त्रिभिः । KRT_6_0095ab
राज्यं संग्रामदेवाय1 दातुमाश्वासकारिभिः ॥ KRT_6_0095cd
राजाज्ञया निशामेकां बद्धोष्टस्तम्भमण्डपात् । KRT_6_0096ab
बहिर्दत्तार्गलात्प्रातर्वर्णटो निरवर्त्स्यत1 KRT_6_0096cd
भयात्प्रजागराद्वापि तद्भृत्यानां विवेकिनाम् । KRT_6_0097ab
आस्थानमण्डपं प्राप पायुक्षालनभूमिताम् ॥ KRT_6_0097cd
एकाहराजपुरुषस्त1दसिं विजयेश्वरे । KRT_6_0098ab
व्रीडाद्देवप्रसादाख्यो राजबीजी समर्पयत् ॥ KRT_6_0098cd
अथाभिषिच्य संग्रामदेवं तीव्रीभवद्व्यथः । KRT_6_0099ab
स राजधान्या निर्गत्य मर्तुं निजभटं ययौ ॥ KRT_6_0099cd
धीः केशश्मश्रुवपने शिरः शाटकवर्जनम् । KRT_6_0100ab
कषायग्रहणोद्वेगः शस्त्रत्यागग्रहश्च यः ॥ KRT_6_0100cd
राजभृत्यैः प्रतिज्ञातः स तस्मिन्निश्चितक्षये । KRT_6_0101ab
जीवत्येव कृतज्ञत्वव्यञ्जकैः परिवर्जितः ॥ युग्मम्॥ KRT_6_0101cd

76.

--1) Thus corr. by A3; reading of A1 illegible; A3 in margin ॰ङ्गनाख्यां.

77.

--1) A2 gloss प्रहरजागरूकेण.

79.

--1) A3 gloss वशीकरण.

--2) Thus corr. by A3 from A1 सम्भवः.

81.

--1) Thus corr. by A3 from A1 ॰भार्यादृ॰.

83.

--1) A3 न्यग्रहीद्र॰.

86.

--1) Thus A3; A1 ॰कामोपि नृपो भा॰.

87.

--1) Thus A3; A1 स्थितः.

--2) Thus corr. by A3 from A1 ॰देशानां.

88.

--1) Thus A3; A1 नरेन्द्राश्रितां.

89.

--1) A3 gloss काषट्ःएलतीर्थविषये यशस्करस्याग्रहारा अभवन्नित्याहुः लोकाः.

90.

--1) Thus corr. by A3 from A1 नृपा॰.

93.

--1) Thus corr. by A3 from A1 विपाकपाकस्त॰.

95.

--1) Thus corr. by A3 from A1 ॰देवस्य.

96.

--1) Thus A1; A3 निरवास्यत; perhaps to be emended निरवत्स्यत.

98.

--1) A4 gloss एकाहं राजभूतस्य वर्णटस्य पुरुषो भृत्यः.

[page 94]




द्वे सहस्रे सुवर्णस्य सार्धे बद्धा1 पटाञ्चले । KRT_6_0102ab
यो निर्जगाम राजासौ मुमूर्षुर्निजमन्दिरात् ॥ KRT_6_0102cd
पञ्चाभिः पर्वगुप्ताद्यैर्द्योतकं तस्य मन्त्रिभिः । KRT_6_0103ab
हृतं सजीवितस्यैव विभक्तान्योन्यमग्रतः ॥ युग्मम्॥ KRT_6_0103cd
विवेष्टमानः शय्यायां व्याधिदग्धान्तरे नृपः । KRT_6_0104ab
तिष्ठन्मठाङ्गनकुटीगर्भे ध्वान्तान्धकारिते ॥ KRT_6_0104cd
अजातसंविद्भ्रंशोग्रे पश्यन्द्रोहपरान्निजान् । KRT_6_0105ab
प्राणैरहनि द्वित्राणि न यदा निरमुच्यत ॥ KRT_6_0105cd
तदा सुहृद्बन्धुभृत्यवेलावित्तैः कृतत्वरैः । KRT_6_0106ab
जिहीर्षुभिश्च साम्राज्यं विषं दत्त्वा विपादितः ॥ KRT_6_0106cd
अवरोधवधूमध्यात्सती तं पतिमन्वगात् । KRT_6_0107ab
एका त्रैलोक्यदेव्येव स्वप्रभेव विरोचनम् ॥ KRT_6_0107cd
वर्णाश्रमप्रतवेक्षाबद्धकक्ष्यः क्षितीश्वरः । KRT_6_0108ab
चक्रभान्वभिधं चक्रमेलके1 द्विजतापसम् ॥ KRT_6_0108cd
कृतात्याचारमा1लोक्य राजा धर्मवंशवदः । KRT_6_0109ab
निजग्राह श्वपादेन ललाटतटमङ्कयन् ॥ KRT_6_0109cd
तन्मातुलेन1 तद्रोषाद्वीरनाथेन योगिना । KRT_6_0110ab
सांधिविग्रहिकेणाथ2 स स्वेनैव न्यगृह्यत ॥ KRT_6_0110cd
पूर्वाचार्यप्रभावेण स्वमाहात्म्याधिरोपणम् । KRT_6_0111ab
प्रख्यापयद्भिर्गुरुभिः श्रद्धयेति यदुच्यते ॥ KRT_6_0111cd
तत्ख्यापितैव सप्ताहात्स विपन्न इति श्रुतिः । KRT_6_0112ab
दीर्घव्याधिहते तस्मिन्नुपपत्तिः कथं भवेत् ॥ KRT_6_0112cd
अथामयान्तरेवाभूत्सा वार्तेत्युच्यते यदि । KRT_6_0113ab
वर्णटाद्यभिशापोपि तदायात्वत्र हेतुताम् ॥ KRT_6_0113cd
भुक्तैश्वर्यो नव1 समाश्चतुर्विंशे स हायने । KRT_6_0114ab
मासि भाद्रपदे कृष्णतृतीयस्यां व्यपद्यत ॥ KRT_6_0114cd
पितामहीं पितामह्या तान्व्यापाद्येतरान्बली । KRT_6_0115ab
भूभटाद्यैः समं प्राभू3त्पर्वगुप्तोथ पञ्चभिः ॥ KRT_6_0115cd
क्रमात्समं पितामह्या तान्व्यापाद्येतरान्बली । KRT_6_0116ab
एकः स एवमाक्रान्तः1 प्रबभूव नृपास्पदे ॥ KRT_6_0116cd
स पार्थिवत्वमन्त्रित्वमिश्रया चेष्टया स्फुरन्1 KRT_6_0117ab
राजा राजानक2श्चेति मिश्रामेवं धियं व्यधात् ॥ KRT_6_0117cd
सेवमानः स्वयं बालभूपं भोज्यार्पणादिभिः । KRT_6_0118ab
ऋजूनां प्रत्यभात्पर्वगुप्तो द्रोहबहिष्कृतः ॥ KRT_6_0118cd
यान्द्रोहभीरून्संभाव्य संविभेजे यशस्करः । KRT_6_0119ab
तस्य तत्तनयोच्छेदे त एवासन्प्रयोजकाः ॥ KRT_6_0119cd
करभाङ्गरुहापिङ्गे श्मश्रुणि क्षितिपालवत् । KRT_6_0120ab
स ददौ कुङ्कुमालेपं वर्चः शाद्वलविस्तृते ॥ KRT_6_0120cd
बिभ्यदेकाङ्गसंघातातात्प्रकटोत्पाटनाक्षमः । KRT_6_0121ab
प्रमापणाय प्रयुङ्क्त शिशोः कर्माभिचारिकम् ॥ KRT_6_0121cd
न्याय्यं ते सान्वयस्यास्ति राज्यं चैत्रादिवासरे । KRT_6_0122ab
अन्यथाचरतो नाशः क्षिप्रं वंशायुषोर्भवेत् ॥ KRT_6_0122cd
इतीमामपि यामिन्यां श्रुतवान्भूतभारतीम् । KRT_6_0123ab
अभिचारस्य वन्ध्यत्वं निर्ध्यायाधिकशङ्कितः ॥ KRT_6_0123cd
एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसंभ्रमः । KRT_6_0124ab
उदताम्यत्तथा चिन्तालुप्तसंविद्दिवानिशम् ॥ KRT_6_0124cd
यथा महाहिमापातनिःसंचारजेन दिने । KRT_6_0125ab
अकस्मात्संभृतबलो राजधानीं निरुद्भवान् ॥ KRT_6_0125cd
विरोधकारिणं बुद्धाभिधेन सह सूनुना । KRT_6_0126ab
निर्द्रोहमाहवे हत्वा मन्त्रिणं रामवर्धनम् ॥ KRT_6_0126cd

102.

--1) Thus corr. by later hand from A1 बद्धा.

108.

--1) A3 gloss, partly effaced चक्र.... जने.... क्ररक्षा.... चक्रमेल.... वे.... .

109.

--1) A3 gloss अतिक्रान्ताचारम्.

110.

--1) A4 gloss चक्रभानुद्विजमातुलेन.

--2) A3 gloss सन्धिविग्रहशुद्धान्तमुख्यकर्माधिकारी सान्धिविग्राहिकः कटकपालः.

114.

--1) नव supplied by A3 in space left by A1.

115.

--1) A4 gloss सङ्ग्रामदेवस्य.

--2) A2 gloss प्रभुरभूत्.

116.

--1) Emended with G Edd; A1 एव साङ्क्रान्तिः which A3 alters to एवमाक्रान्तिः.

117.

--1) Thus A3; A1 स्फुटम्.

--2) A2 gloss राज्ञा पार्थिवः राजानकः मन्त्री । राज्ञः अनः प्राणनं । जिवनं धरित्रीरक्षणलक्षणं । यस्मात्सः राजानः अनश्वसप्राणने । राजान एव राजानकः । स्वार्थे कः यद्वा अत्र लिङ्गात् । कः सादृश्ये देवदत्त इव देवदत्तक इतिवत् । यथा प्राणनं विना देहस्थितिर्नास्ति । तथा धीसचिवं मन्त्त्रिणं विना पार्थिवानां स्वयं कार्याकार्यविवेककौशलातिशयो न सम्भवेदिति । राजानकमपेक्षते राजा ॥ यद्वा राज्ञः अनः प्राण इव राजानक इत्यर्थः ॥.

[page 95]




पित्र्येण वेलावित्तेन प्राभृतार्थमुपाहृताम्1 KRT_6_0127ab
गले पुष्पस्रजं बद्ध्वा पातितं पार्थिवासनम् ॥ KRT_6_0127cd
स तं वक्राङ्घ्रिसंग्रामं हतमन्यत्र मन्दिरे । KRT_6_0128ab
पातयित्वा वितस्तान्तः कण्ठवद्धशिलं निशि ॥ KRT_6_0128cd
चतुर्विंशस्य वर्षस्य दशम्यां कृष्णफाल्गुणे । KRT_6_0129ab
पापः सखड्गकवचो न्यविक्षत नृपासने ॥ चक्कलकम्1 KRT_6_0129cd
पारेविशोकं1 दिविराज्जातस्याभिनवाभिधात् । KRT_6_0130ab
सूनुः संग्रामगुप्तस्य स तदा2 पार्थिवोभवत् ॥ KRT_6_0130cd
केचित्तं प्रय1वस्थानं ये पुरा प्रतिजज्ञिरे । KRT_6_0131ab
ते सर्व एव तद्भीताः प्रातरेव प्रणेमिरे ॥ KRT_6_0131cd
पार्थिवैकाङ्गसामन्तमन्त्रिकायस्थतन्त्रिणाम् । KRT_6_0132ab
तद्भीत्या द्रोहवृत्तीनां द्रोहाद्वै1तमदृश्यत ॥ KRT_6_0132cd
एकाङ्गस्य तदास्थाने सुय्याभिजनजन्मनः । KRT_6_0133ab
प्रमादान्मदनादित्यनाम्नो ढक्का व्यदीर्यत ॥ KRT_6_0133cd
हतांशुकेन भूभर्त्रा कुपितेन खलीकृतः । KRT_6_0134ab
स निकृत्तकचश्मश्रुस्तपस्वी समपद्यत ॥ KRT_6_0134cd
तादृशस्य पुनस्तस्य सखीपुत्रत्वमीयुषः । KRT_6_0135ab
अद्याप्यभिजने जाता वसन्ति त्रिपुरेश्वरे ॥ KRT_6_0135cd
कुर्वता पर्वगुप्तेन भूभृता द्रविनार्जनम् । KRT_6_0136ab
प्रापिताः पुनरुत्साहं प्रजारोगा नियोगिनः ॥ KRT_6_0136cd
व्यधत्त स्कन्दभवनविहारवसुधान्तिके । KRT_6_0137ab
पर्वगुप्तेश्वरं सोपि वृजिनार्जितया श्रिया ॥ KRT_6_0137cd
श्रीयशस्करभूभर्तृशुद्धान्तस्य विशुद्धधीः । KRT_6_0138ab
कौली1नमलुना2देका गौरीव नृपसुन्दरी ॥ KRT_6_0138cd
सुचिराङ्कुरितप्रीतेः पर्वगुप्तस्य याकरोत् । KRT_6_0139ab
समागार्थिनो युक्त्या वञ्चनामुचिताम् सती ॥ KRT_6_0139cd
इदं यशस्कारस्वामिसुरवेश्मार्धनिर्मितम् । KRT_6_0140ab
त्यक्त्वा पत्युर्विपन्नस्य कृत्वा निर्माण1पूरणम् ॥ KRT_6_0140cd
अमोघमस्मि1 नियमाद्विधास्यामि त्वदीप्सितम् । KRT_6_0141ab
स ह्युपच्छन्दयन्नेवं सुभ्रुवाभिहितस्तया ॥ KRT_6_0141cd
अथ प्रवृद्धगर्वेण तत्स्वल्पैरेव वासरैः । KRT_6_0142ab
संपूर्णतां सुरगृहं गमितं तेन भूभुजा ॥ KRT_6_0142cd
सा यागज्वलने राजललना पीतसर्पिषि । KRT_6_0143ab
पूर्णाहृत्या समं साध्वी जुहाव सहसा तनुम् ॥ KRT_6_0143cd
उपर्यस्या निरस्तासोः पुष्टाः कुसुमवृष्टयः । KRT_6_0144ab
तत्काङ्क्षिणस्तु न्यपतन्नवर्णमुखरा गिरः ॥ KRT_6_0144cd
सुदीर्घसाहसारम्भचिन्तासंरम्भशोषितः । KRT_6_0145ab
पूर्वगुप्तो बभूवाय तृष्णामयपथातिथिः ॥ KRT_6_0145cd
व्याध्याधिप्रशमायासैर्ज्ञात्वाप्यस्थायिनीं स्थितिम् । KRT_6_0146ab
मूढाः प्ररूढिं नोज्झन्ति द्रोहश्रीलोभमोहिताः ॥ KRT_6_0146cd
आशङ्क्य तादृङ्निष्ठोपि सोकुण्ठैः प्राप्तनैः शुभैः । KRT_6_0147ab
कैश्चित्सुरेश्वरीक्षेत्रे परासुः समपद्यत ॥ KRT_6_0147cd
षड्विंशवत्सराषाढबहुलेह्नि त्रयोदशे । KRT_6_0148ab
द्रोहार्जितेन नृपतिः स राज्येन व्ययुज्यत ॥ KRT_6_0148cd
अतीन्द्रियायाम् परलोकवृत्ताविहैव तीव्राश्रुभपाकशंसी । KRT_6_0149ab
दृश्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेन भूत्यै ॥ KRT_6_0149cd
क्षेमगुप्ताभिधानोभूदथ राजा तदात्मजः । KRT_6_0150ab
आसवासेवनोत्सिक्तवित्ततारुण्यसंज्वरः ॥ KRT_6_0150cd
सोभूत्स्वभावदुर्वृत्तो नितरां दुर्जनाश्रयात् । KRT_6_0151ab
कृष्णक्षपाक्षणो घोरमेघान्ध इव भीतिकृत् ॥ KRT_6_0151cd
स्वतुल्यवेषा1लंकारः शतं लालितका2 नृपम् । KRT_6_0152ab
तं फल्गुणप्रभृतयो दुराचाराः सिषेविरे ॥ KRT_6_0152cd
द्यूतासवाङ्गनासेवाव्यसनेपि स पार्थिवः । KRT_6_0153ab
विटनिर्लुण्द्यमानोपि नाभूल्लक्ष्मीबहिष्कृतः ॥ KRT_6_0153cd

127.

--1) Thus corr. by A3 from A1 ॰हृतम्.

129.

--1) चक्कलकम् added by A3.

130.

--1) Thus corr. by A3 from A1 विशोके.

--2) Thus A3; A1 तथा.

131.

--1) Thus A1; A3 केचित्तत्प्रत्य॰.

132.

--1) Thus A3; A1 द्रोहाद्द्वै॰.

138.

--1) A3 gloss कौलीनं लोकनिन्दां.

--2) Thus corr. by A3 from A1 ॰मधुनाद॰.

140.

--1) Thus corr. by A3 from A1 निर्वाण॰.

141.

--1) A3 gloss अस्मीति निपातः अहमित्यर्थे.

152.

--1) Thus A1; A3 ॰वेशा॰.

--2) A3 gloss पतातयः.

[page 96]




रागी मधुप्रणयवान्विहिताक्षसक्तिर्यः सख्यमेति मधुपरिहृतकोशसारैः । KRT_6_0154ab
पद्मे प्रयाति दिनमात्रमपि प्रसक्तिं श्रीस्तत्र चेत्किमिव तन्न कुतूहलाय ॥ KRT_6_0154cd
विटाः प्रविष्टा हृदयं जिष्णुजा वामनादयः । KRT_6_0155ab
पिशाचस्येव रुचितामशुचिं तस्यचक्रिरे ॥ KRT_6_0155cd
परोपहासकुशलः परनारीरतिप्रियः । KRT_6_0156ab
परायत्ताशयस्तस्थौ पार्थिवोनर्थतत्परः ॥ KRT_6_0156cd
ष्ठीवनं श्मश्रुमालासु गालयः श्रोत्रपालिषु1 KRT_6_0157ab
तेन क्षिप्ताः प्रतीक्ष्याणां करोटीषु च टक्कराः ॥ KRT_6_0157cd
कटिसंघटनैर्ना1र्यो मृगव्यज्ञा2 वनाटनैः । KRT_6_0158ab
विटाश्चाश्लीलरटनैर्वाल्लभ्यं तस्य लेभिरे ॥ KRT_6_0158cd
पुंश्चलीजाल्मवैधेयवालकद्रोग्धृनिर्भरा । KRT_6_0159ab
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥ KRT_6_0159cd
जिष्णुपुत्रैः क्षेमगुप्तक्षमाभृद्यन्त्रपुत्रकः । KRT_6_0160ab
चारणत्वगुणाकृष्टः किं न धूर्तैरनर्त्यत1 KRT_6_0160cd
तस्य कङ्कणवर्षोसीत्यभिधानं विधाय ते । KRT_6_0161ab
तोषिताश्चासकृच्चक्रुर्दोष्णोः कङ्कणवार्षिताम् ॥ KRT_6_0161cd
निर्दोषदोषाविष्कारे नववस्तुप्रदर्शने । KRT_6_0162ab
अधृष्यटक्कराधाने प्रसादः प्रापि तैर्नृपात् ॥ KRT_6_0162cd
संलक्ष्यकुचकक्ष्यान्ताः कृत्वा निजवधूः पुरः । KRT_6_0163ab
रागी राजा गृहान्नीतो द्यूते तरिनिर्धनः कृतः ॥ KRT_6_0163cd
संभोगाभग्नसौभाग्यकृतस्पर्धैः परस्परम् । KRT_6_0164ab
संभुज्यैता भवान्वक्तु विशेषमिति चोदितः ॥ KRT_6_0164cd
उपभोगं स्वभार्याणां निर्लज्जैस्तैः स कारितः । KRT_6_0165ab
का हृद्येति च रत्यन्ते पृष्टोभीष्टधनप्रदः ॥ युग्मम्1 KRT_6_0165cd
तस्य लालितकेष्वास्तां मूढौ संभोगढौकने । KRT_6_0166ab
मात्रोश्चारित्ररक्षित्वाद्भिक्षाकौ1 हरिधूर्जटी ॥ KRT_6_0166cd
नीत्वा नर्मकथाङ्गतां निजवपुर्मुञ्जन्ति मानोन्नतिं संदूष्य स्वयमङ्गनाः शुचितया त्यक्तं कुलं कुर्वते । KRT_6_0167ab
सौख्यं घ्नन्ति सुदीर्घसेवनसमासक्त्या यदर्थं श्रमः प्रत्याख्याय तदेव वेद्मि न विटैः किं प्रार्थ्यते सेवया ॥ KRT_6_0167cd
यशस्करस्य भूत्वापि सचिवो भट्टफल्गुणः । KRT_6_0168ab
तस्याभूदनुजीव्यन्ते धिग्भोगाभ्यासवासनाम् ॥ KRT_6_0168cd
फल्गुणस्वामिमुख्यानां प्रतिष्ठानां विधायिनः । KRT_6_0169ab
तस्योपदेशो भूभर्त्रा पर्यहास्यसकृद्रहः ॥ KRT_6_0169cd
गृह्णन्विद्वेषितां1 हन्तुं टक्करादि बलात्ततः । KRT_6_0170ab
वृद्धो रक्कः कम्पनेशो दुर्गोष्ठीमध्यगोभवत् ॥ KRT_6_0170cd
तीक्ष्णाक्षेपे संप्रविष्टं हन्तुं संग्रामडामरम् । KRT_6_0171ab
श्रीजयेन्द्रविहारं स निर्घृणो निरदाहयत् ॥ KRT_6_0171cd
सुगतप्रतिमारीतिं हत्वा दुग्धात्ततो1खिलात् । KRT_6_0172ab
जरद्देवगृहेभ्यश्च संगृह्य2 ग्रावसंचयम् ॥ KRT_6_0172cd
सुरप्रतिष्ठया दार्ढ्यं मूढः स्वयशसो विदन् । KRT_6_0173ab
नगरापणवीथ्यन्तः क्षेमगौरीश्वरं व्यधात् ॥ KRT_6_0173cd
एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वा1परः प्रसभमुद्वहति प्रमोदम् । KRT_6_0174ab
नो वेत्ति तत्स्वनिधने परकोशगामि धिग्वासनामसममोहकृतान्धकराम् ॥ KRT_6_0174cd
त्यागिना क्षेपगुप्तेन भुक्त्यर्थं खशभूभुजे1 KRT_6_0175ab
हत्वा विहारान्निर्दग्धान्ग्रामाः षट्त्रिंशदर्पिताः ॥ KRT_6_0175cd
दुर्गाणां लोहरादीनां शास्ता शतमखोपमः1 KRT_6_0176ab
नृपतिः सिंहराजाख्यस्तस्मै स्वां तनयां ददौ ॥ KRT_6_0176cd
स तस्यां शाहिदौहित्र्यां दिद्दायां सक्तमानसः । KRT_6_0177ab
दिद्दाक्षेम इति ख्यातिं ययौ लज्जावहां नृपः ॥ KRT_6_0177cd
मातामहेन भूभर्तृवध्वास्तस्या व्यधीयत । KRT_6_0178ab
श्रीभीमशाहि1नोदात्तप्रासादो भीमकेशवः ॥ KRT_6_0178cd

157.

--1) Corr. by A3 from A1 ॰पालयः.

158.

--1) Corr. by A3 from A1 घटनान्न॰.

--2) मृगव्यज्ञा supplied by A3 in space left by A1.

160.

--1) Corr. A3 from A1 ॰नन्द्यत.

165.

--1) युग्मम् supplied by A3.

166.

--1) Thus corr. by A2: A1 ॰रक्षित्वा भिक्षा॰.

170.

--1) Thus A3; A1 ॰न्विशेषतां.

172.

--1) Thus A3; A1 दग्ध्वा ततो.

--2) Thus A3; A1 सङ्ग्राह्य.

174.

--1) Thus corr. by A3 from A1 कृत्वा.

175.

--1) A4 gloss सिंहराजाय.

176.

--1) Thus corr. by from A1 शतमुखो॰.

178.

--1) Thus A3; A1 श्रीभूमिस्वामिनो॰. Cf. Alberuni's Indica(trans. by Sachau), ii. 13.

[page 97]




चन्द्रलेखाभिधां कन्यां राज्ञे1 दत्तवताभवत् । KRT_6_0179ab
फल्गुणद्वारपतिना समं दिद्दा समत्सरा ॥ KRT_6_0179cd
गुरूपदेशः सुमहान्कुन्तविद्याश्रमस्तथा । KRT_6_0180ab
तस्य निर्वहणाद्गर्ह्याद्भू1भुजो हास्यतां ययौ ॥ KRT_6_0180cd
अमोघपतनान्प्रा1सा2न्योग्यान्संग्रामकर्मसु । KRT_6_0181ab
सृगालमृगयासक्त्या स हि श्लाघ्यानम3न्यत ॥ KRT_6_0181cd
तं वृतं वागुरावाहिडोम्बाटविक1पेटकैः । KRT_6_0182ab
पर्यटन्त श्वभिः सार्धमपश्यन्सततं जनाः ॥ KRT_6_0182cd
तस्य दामोदरारण्यलल्यानशिमिकादिषु । KRT_6_0183ab
स्थानेषु क्रोष्टुमृगयारसिकस्य वयोगमत् ॥ KRT_6_0183cd
अथ कृष्णचतुर्दश्यां स कुर्वन्मृगयां नृपः । KRT_6_0184ab
ज्वालामपश्यत्क्रोशन्त्याः मृगाल्या निर्गतां मुखात् ॥ KRT_6_0184cd
तदालोकनसंजातसत्रासाकम्पितस्ततः1 KRT_6_0185ab
लूतामयज्वरेणाभूत्परीतो मृत्युहेतुना ॥ KRT_6_0185cd
मर्तुं ययौ च वाराहक्षेत्रं यत्र विधायकः । KRT_6_0186ab
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके ॥ KRT_6_0186cd
मसूरविदलाकारलूताक्लिन्नकलेवरः । KRT_6_0187ab
पौषे चाब्दे चतुस्त्रिंशे नवमेह्नि1 सिते मृतः ॥ KRT_6_0187cd
क्षेमगुप्तात्मजः क्ष्माभृदभिमन्युरभूत्ततः । KRT_6_0188ab
शिशुनिस्त्रिंशधर्मिण्या दिद्दादेव्यानुपालितः ॥ KRT_6_0188cd
संधि1विग्रहशुद्धान्तमुख्यकर्माधिकारिणः । KRT_6_0189ab
नःसाध्वसं राजवधूमवन्ध्यशयनां व्यधुः ॥ KRT_6_0189cd
अभिमन्यौ क्षितिं रक्षत्यकस्मादेव दारुणः । KRT_6_0190ab
तुङ्गेश्वरापणोपान्तादुज्जगाम हुताशनः ॥ KRT_6_0190cd
वर्धनस्वामिपार्श्वस्थभिक्षुकीपारकावधिः । KRT_6_0191ab
वेतालसूत्रपातस्थान्स दहाह महागृहान् ॥ KRT_6_0191cd
डोम्बचण्डालसंस्पृष्टभूपसंपर्कदूषितान् । KRT_6_0192ab
दग्ध्वा महागृहान्वह्निर्भुवः शुद्धिमिवाकरोत् ॥ KRT_6_0192cd
रक्षित्री क्ष्मापतेर्माता स्त्रीस्वभावाद्विमूढधीः । KRT_6_0193ab
सारासारविचारेण लोलकर्णी न पस्पृशे ॥ KRT_6_0193cd
राज्ञः सुतार्पणाद्धवैरातस्थौ पुरा यतः । KRT_6_0194ab
पतिवत्न्येव1 सा सार्धं फल्गुणेनाग्र्यमन्त्रिणा ॥ KRT_6_0194cd
पत्यौ1 मृते सपत्नीनां दृष्ट्वानुमरणं2 ततः । KRT_6_0195ab
दम्भेनानुमुमूर्षन्तीमनुमेने स तां द्रुतम् ॥ KRT_6_0195cd
निषिषेधानुबन्धात्तु सानुतापां चितान्तिके । KRT_6_0196ab
कृपालुर्मरणादेताममात्यो नरवाहनः ॥ KRT_6_0196cd
अतो निसर्गपिशुनो रक्कस्तां मन्युदूषिताम् । KRT_6_0197ab
फल्गुणाद्राज्यहरणाशङ्कां राज्ञीमजिग्रहत् ॥ KRT_6_0197cd
विरागशंसिभिर्लङ्गैस्तां ज्ञात्वा विषमाशयाम् । KRT_6_0198ab
समन्युं साखिलामात्यां फल्गुणोप्यास्त शङ्कितः ॥ KRT_6_0198cd
स हि सर्वाधिकारस्थः सर्वस्याक्षिगतोभवत् । KRT_6_0199ab
दीप्यमानोधिकं मन्त्र1शौर्योत्साहादिभिर्गुणैः ॥ KRT_6_0199cd
अस्थीनि क्षेमगुप्तस्य गृहीत्वा जाह्नवीं गते । KRT_6_0200ab
पुत्रे कर्दमराजाख्ये प्रबलैरन्वितो बलैः ॥ KRT_6_0200cd
तत्प्रत्यागमपर्यन्तं पर्णोत्से स्थातुमुद्यतः । KRT_6_0201ab
अविश्वसन्नृपगृहे फल्गुणो वैरिशाङ्कितः ॥ KRT_6_0201cd
निर्गत्य नगराद्यावत्सभाण्डागारिसैनिकः । KRT_6_0202ab
काष्ठावाटान्तिकं प्राप1 तावद्रक्कादिचोदिता ॥ KRT_6_0202cd
आकलय्य द्रुतं दिद्दा संत्यज्य प्रार्थनादिकम् । KRT_6_0203ab
पृष्ठे प्रत्युत याष्टीकांस्तस्य हन्तुं व्यसर्जयत् ॥ KRT_6_0203cd
नवावमानखिन्नः स मिलितानन्तसैनिकः । KRT_6_0204ab
प्रत्यावृत्त्य ततो मानी वाराहं क्षेत्रमाययौ ॥ KRT_6_0204cd
श्रुत्वा समेतसैन्यं तं प्रत्यायातं प्रतापिनम् । KRT_6_0205ab
आस्कन्दशङ्किनी दिद्दा सामात्या समकम्पत ॥ KRT_6_0205cd

179.

--1) Thus corr. by later hand from A1 राज्ञो.

180.

--1) Thus corr. by A3 from A1 ॰द्गर्ह्याभू॰.

181.

--1) Thus corr. by A3 from A1 ॰प्रतिमान्प्रा॰.

--2) A3 कुन्तान्.

--2) Thus corr. by A3 from A1 श्राध्यामम॰.

182.

--1) Thus corr. by A3 from A1 ॰टविटपे॰.

185.

--1) Thus corr. by A3 from A1 ॰तस्थितिः.

187.

--1) Thus corr. by A3 from A1 नवमेब्दे.

189.

--1) Thus corr. by A3 from A1 मन्त्रिवि॰.

194.

--1) A4 gloss सभर्तृकैव सती.

195.

--1) Thus corr. by A3 from A1 पत्न्यौ.

--2) A1 ॰नुसरणं.

199.

--1) Thus A3; A1 तन्त्र॰.

202.

--1) Thus corr. by later hand from A1 प्राप्य; A3 gloss प्राप्त इत्यर्थः.

[page 98]




तस्मिन्क्षेत्रे गतं शान्तं विलप्य स्वामिनं चिरम् । KRT_6_0206ab
वराहपादसविधे तेन1 शस्त्रं समर्पितम् ॥ KRT_6_0206cd
देoहसंभावनापापं शस्त्रत्यागेन मन्त्रिणा । KRT_6_0207ab
स्वस्य संमार्जितं तेन राजमातुश्च साध्वसम् ॥ KRT_6_0207cd
युक्तायुक्तविचारबाह्यमनसः सेवा महद्वैशसं क्रुद्धेस्मिन्प्रतिकारकर्म गहनद्रोहापवादावहम् । KRT_6_0208ab
येन न्यूनगुणोदृशोपकरणीभावोपि तस्मै परं कोपः कोपि विवेकिनः समुचितःशस्त्राय शस्त्राय वा ॥ KRT_6_0208cd
पर्णोत्समेव शनकैः ससैन्ये फल्गुणे गते । KRT_6_0209ab
विगताध्यापका बाला इवामोदन्त मन्त्रिणः ॥ KRT_6_0209cd
योगक्षेमौ चिन्तयन्ती क्षेमगुप्तधूरपि । KRT_6_0210ab
अनिशं प्रजजागार स्वयं कण्टकपाटने ॥ KRT_6_0210cd
राज्यप्रार्थी पर्वगुप्तो मन्त्रिणौ कोशपीथिनौ । KRT_6_0211ab
अजिग्रहत्करौ पूर्वं पुत्र्योर्यौ1 छोजभूभटौ ॥ KRT_6_0211cd
तयोः प्रजातौ तनयौ ख्यातौ महिमपाटलौ । KRT_6_0212ab
अवर्धिपतां यौ राजमन्दिरे राजपुत्रवत् ॥ KRT_6_0212cd
तौ तत्रावस्थितावेव तत्कालं राज्यलालसौ । KRT_6_0213ab
संमन्त्र्य समगंमातामुद्दामैर्हिम्म1कादिभिः ॥ KRT_6_0213cd
बलिनौ तावबलया राज्ञ्यापास्तौ नृपास्पदात् । KRT_6_0214ab
समन्यू स्वगृहादास्तां यावत्कृतगतागतौ ॥ KRT_6_0214cd
एकतः पृष्ठतः प्रादान्महिम्नो निर्गतस्य सा । KRT_6_0215ab
निर्वासनाय याष्टीकांस्तावत्प्रकटवैकृता ॥ KRT_6_0215cd
शक्तिसेना1भिधानस्य श्वशुरस्य निवेशनम् । KRT_6_0216ab
प्रविवेश स तज्ज्ञात्वा तं ते तत्रापि दुद्रुवुः ॥ KRT_6_0216cd
शक्तिसेनेन याष्टीकाः सान्त्विता नाचलन्यदा । KRT_6_0217ab
तदा भीतस्य जामातुर्व्यक्तं प्रादात्स संश्रयम् ॥ KRT_6_0217cd
तं1 लब्धसंश्रयं प्राप हिम्मको मुकुलस्तथा । KRT_6_0218ab
एरमन्तकनामा च परिहासपुराश्रयः ॥ KRT_6_0218cd
श्रीमानुदयगुप्ताख्योप्यमृताकरनन्दनः । KRT_6_0219ab
ललितादित्यपुरजा यशोधरमुखा अपि ॥ KRT_6_0219cd
एकैके ते1 मिथः सैन्यैर्भुवनक्षोभकारिणः । KRT_6_0220ab
संभूय चक्रुर्द्रैराज्यं महिम्नः पक्षमाश्रिताः ॥ KRT_6_0220cd
तस्मिन्महाभये दिद्दापक्षं मन्त्री सबान्धवः । KRT_6_0221ab
एक एव तु तत्याज नाद्रोहो नरवाहनः ॥ KRT_6_0221cd
प्रवर्धमानपृतना योद्धुं बद्धोद्यमास्ततः । KRT_6_0222ab
पद्मस्वाम्यन्तिकं प्रापुर्दीप्यमानायुधा द्विषः ॥ KRT_6_0222cd
अथ शूरमठे दिद्दा विसृज्यात्मजमाकुला । KRT_6_0223ab
आपच्छान्तिक्षमांस्तांस्तानुपायान्समचिन्तयत् ॥ KRT_6_0223cd
ललितादित्यपुरजान्द्विजान्स्वर्णेन भूरिणा । KRT_6_0224ab
तूर्णम् स्वीकृत्य विदधे रिपूणां संघभेदनम् ॥ KRT_6_0224cd
एकाक्षेपेखिलैः कोपो विधेय इति वादिभिः । KRT_6_0225ab
महिम्नः पीतकोशैस्तैः संधिर्देव्या समं कृतः ॥ KRT_6_0225cd
गोष्पदोल्लङ्घने यस्याः शक्तिर्नाज्ञायि केनचित् । KRT_6_0226ab
वायुपुत्रायितं पङ्ग्वा तया संघाब्धिलङ्घने ॥ KRT_6_0226cd
यत्संग्रहो रत्नमहौषधीनां करोति सर्वव्यसनावसानम् । KRT_6_0227ab
त्यागेन तद्यस्य भवेन्नमोस्तु चित्रप्रभावाय धनाय1 तस्मै ॥ KRT_6_0227cd
उत्कोचकाञ्चनादानेप्युच्चां ध्यायन्त्युपक्रियाम् । KRT_6_0228ab
दिद्दा यशोधरादिभ्यः कम्पनादि समार्पयत्1 KRT_6_0228cd
अभिचारं महिम्नश्च कृतवत्या मितैर्दिनैः । KRT_6_0229ab
मण्डलेखण्डिताज्ञत्वं रण्डाया1ः समजृम्भत ॥ KRT_6_0229cd
कदाचित्थक्कना1ख्यस्य शाहीशस्योपरि क्रुधा । KRT_6_0230ab
सत्रा स्ववंशजैर्यात्रा कम्पनाधिपतिर्ददौ ॥ KRT_6_0230cd
तद्देशं निमन्गाशैलदुर्गं प्रविशता जवात् । KRT_6_0231ab
अखण्डशक्तिना तेन बलादग्राहि थक्कनः ॥ KRT_6_0231cd

206.

--1) Corr. by later hand from A1 तत्र.

211.

--1) Thus corr. by later hand from A1 यो.

213.

--1) Emended; A R G ॰र्हिमका॰.

216.

--1) Thus corr. by A3 from A1 शक्तिसेवाभि॰.

218.

--1) Thus corr. by A3 from A1 तैर्लब्ध॰; A3 gloss तं महिमानं.

220.

--1) Thus A3; A2 एकैकं तं.

227.

--1) Thus corr. by A2 from A1 नमोस्तु.

228.

--1) Emended; A R G समर्पयत्.

229.

--1) Thus A3; A1 दिद्दायाः. Cf. vi. 260.

230.

--1) Thus corr. by A1 from ॰चिड्ढक्कना॰.

[page 99]




स कृतप्रणतेस्तस्य करमादाय भूपतेः । KRT_6_0232ab
अभिषेकाम्बुभिश्चक्रे श्रीलता1प्यायनं पुनः ॥ KRT_6_0232cd
लब्धप्रवेशैः1 समये तस्मिन्रक्कादिभिः खलैः । KRT_6_0233ab
कम्पनाधिपतौ राज्ञ्या विद्वेषोग्राहि मूढया ॥ KRT_6_0233cd
उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः । KRT_6_0234ab
असंनिधानात्सततस्थितीनामन्योपरागः1 कुरुते प्रवेशम् ॥ KRT_6_0234cd
स्वचित्तसंवादि वचो वदन्तो धूर्ता वितन्वन्ति मनःप्रवेशम् । KRT_6_0235ab
पृथग्जनानां गणिकावधूनां विटाः प्रभूणामपि गर्भचेटाः ॥ KRT_6_0235cd
द्रोग्धायं थक्कनं रक्षन्धनादायीति पैशुनम् । KRT_6_0236ab
तथ्यमेव तदीयं सा स्वयं1वादादमन्यत ॥ KRT_6_0236cd
अथ स्ववसतिं प्राप्ते कम्पनेशे जयोर्जिते । KRT_6_0237ab
याष्टीकान्व्यसृजद्दिद्दा स्फुटं निर्वासनोद्यता ॥ KRT_6_0237cd
तदाक्षेपं समाकर्ण्य स्मरन्तः कोशदंविदम्1 KRT_6_0238ab
ते हिम्मकैरमन्ताद्याः पूर्ववद्विक्रियां ययुः ॥ KRT_6_0238cd
नरवाहनख्यास्तु1 राक्षीपक्षं न तत्यजुः । KRT_6_0239ab
विभेदं पूर्ववत्प्रापदेवं निजबलं पुनः ॥ KRT_6_0239cd
प्रविष्टेषु ततः कोपात्परं शुभदरादिषु । KRT_6_0240ab
भट्टारकामठे दिद्दा भूयः व्यसर्जयत् ॥ KRT_6_0240cd
दत्तार्गले नृपगृहे स्थितां तां दैवमोहिताः । KRT_6_0241ab
ते तदैव विना पुत्रं विमूढा नोदपा1टयन् ॥ KRT_6_0241cd
राश्याः संजघटे लोकः परस्मिन्नेव वासरे । KRT_6_0242ab
यद्बलेन तदा स्थैर्यं सा किंचित्समदर्शयत् ॥ KRT_6_0242cd
जयाभट्टारिकापार्श्वाद्यावच्छूरमठान्तिकम् । KRT_6_0243ab
व्याप्य स्थितैर्द्विषत्सैन्यैरथ प्रववृते रणः ॥ KRT_6_0243cd
राजधानीं राजसैन्ये प्रविष्टे त्रासविद्रुते । KRT_6_0244ab
सिंहद्वारे घटाबन्धमेकाङ्गाः समदर्शयन् ॥ KRT_6_0244cd
शरीरनिरपेक्षास्ते भीतं संस्तम्भ्य तद्बल । KRT_6_0245ab
अधावन्वि1द्विषां सैन्यं चेलु2ः केचिच्च शत्रवः ॥ KRT_6_0245cd
तस्मिन्नवसरे राजकुलभट्टः समाययौ । KRT_6_0246ab
तूर्यघोषैर्द्विषां सैन्यं भिन्दन्नानन्दयन्निजम्1 KRT_6_0246cd
तस्मिन्प्राप्ते द्विषां सैन्यं विननाश विनश्वरम्1 KRT_6_0247ab
न द्रोहाविनयं जातु सहन्ते शस्त्रदेवताः ॥ KRT_6_0247cd
त्रोट1यत्यायसान्बन्धान्स्फोटयत्युपलानिति । KRT_6_0248ab
यः ख्यातिमवहत्त2थ्यां हिम्मको भीमविक्रमः ॥ KRT_6_0248cd
तस्यासिना राजकुलभट्टदेहार्धपातिना । KRT_6_0249ab
चर्ममात्रं न तुत्रोट कङ्कटस्यातिसंकटे ॥ KRT_6_0249cd
विलोक्य तदसंभाव्यं सैन्ये दैन्यं समाश्रिते । KRT_6_0250ab
अघानि हिम्मको योधैरवाष्टम्भि1 यशोधरः ॥ KRT_6_0250cd
तथाप्यासीत्स्फुरन्संख्ये य एर1मन्तकः क्षणम् । KRT_6_0251ab
स भग्नासिश्च्युतो वाहाज्जीवग्राहमगृह्यत ॥ KRT_6_0251cd
नाजौ तैरेष्यताधातुं यः श्रीमान्राजबान्धवः । KRT_6_0252ab
जगामोदयगुप्तः स क्वापि त्यक्त्वा महाहवम् ॥ KRT_6_0252cd
इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा । KRT_6_0253ab
यशोधरं शुभधरं मुकुलं च सवान्धवम् ॥ KRT_6_0253cd
काश्मीरिकाणां1 यः श्राद्धशुल्को2च्छेत्ता गया3न्तरे । KRT_6_0254ab
सोप्येरमन्तकः शूरः परिहास4पुराश्रयः ॥ KRT_6_0254cd
बद्ध्वा महाशिलां कण्ठे वितस्ताम्भसि पातितः । KRT_6_0255ab
स्वदुर्नयफलं देव्याः प्रकोपेनानुभावितः ॥ KRT_6_0255cd

232.

--1) A2 gloss श्रीः एव लता.

233.

--1) Thus corr. by later hand from A1 ॰देशः; R G as above.

234.

--1) Thus corr. by A3 from A1 ॰न्योन्यरागः.

236.

--1) Thus A1; A3 स्वसंवादा॰.

238.

--1) A3 gloss एकाक्षेपेखिलैः कोपो विधेय इत्येवंरूपां.

239.

--1) मुख्या supplied by A3 in space left by A1.

241.

--1) Thus corr. by A3 from A1 नोपपाट॰.

245.

--1) Thus corr. by A3 from A1 अधावद्वि॰.

--2) The words from चैलुः to सैन्यं in the following verse are omitted by A1 and supplied in margin by A3.

246.

--1) A3 ॰न्निजान्.

247.

--1) Thus A1; A3 G R विनेश्वरम्.

248.

--1) Thus corr. by later hand from A1 लोट॰.

--2) तिमवहत्त supplied by A3 in space left by A1.

250.

--1) Emended with C; A R G ॰रवष्टम्भि.

251.

--1) Thus A; R G ऐर॰.

254.

--1) Thus corr. by A3 from A1 काश्मीरका॰.

--2) Thus corr. by A2 from A1 ॰शुष्कोच्छेता.

--3) Thus corr. by A3 from A1 गमान्तरे.

--4) Thus corr. by A3 from A1 ॰हार॰.

[page 100]




ये सप्तसप्ताद्वर्षादा गोपालनृपात्पुरा । KRT_6_0256ab
अभिमन्युं यावदासन्षोडशानां महीभुजाम् ॥ KRT_6_0256cd
वर्षषष्टिं प्रतापायुःश्रीहरा द्रोहवृत्तयः । KRT_6_0257ab
ते क्षिप्रं मन्त्रिणः सर्वे सान्ववायाः सहानुगाः ॥ KRT_6_0257cd
भीमभ्रूभङ्गमात्रेण दिद्दादेव्या सकोपया । KRT_6_0258ab
आसन्निःशेषतां नीता दुर्गयेव महासुराः ॥ तिलकम्॥ KRT_6_0258cd
अभयन्विहिता राज्ञ्या तानुपाद्य महोद्धतान् । KRT_6_0259ab
रक्कादयः कम्पनादिकर्मस्थानाधिकारिणः ॥ KRT_6_0259cd
इत्थं मन्त्रिप्रकाण्डः स रण्डामाखण्डलोपमाम् । KRT_6_0260ab
अखण्डमण्डलां चक्रे निर्द्रोहो नरवाहनः ॥ KRT_6_0260cd
राज्ञी कृतज्ञभावेन सापि मन्त्रिसभान्तरे । KRT_6_0261ab
तमाजुहाव निर्द्रोहं स्वयं राजानकाख्यया । KRT_6_0261cd
सुप्ते सुष्वाप निष्पन्नभोजनेस्मिन्नभुङ्क्त सा । KRT_6_0262ab
हृष्टे जहर्ष निर्विण्णे निर्विवेदानुकूल्यतः ॥ KRT_6_0262cd
आरोग्यान्वेषणं शिक्षाप्रार्थनां गृहवर्तिनः । KRT_6_0263ab
सात्मवस्तुविसर्गं च नाकृत्वा तस्य पिप्रिये ॥ KRT_6_0263cd
अभूतां युग्यवाहस्य कुय्यनाम्नः सुतौ पुरा । KRT_6_0264ab
यौ सिन्धुभुय्यौ तज्ज्यायान्सिन्धुर्ललितकः किल ॥ KRT_6_0264cd
पर्वगुप्तगृहे भूत्वा गञ्जा1ध्यक्षे स्थिते2 क्रमात् । KRT_6_0265ab
लब्ध्वा गञ्जाधिकारित्वं तस्या राज्ञ्याः शनैरभूत् ॥ KRT_6_0265cd
रूड्ःया तयैव गञ्जेशो नवायासवि1धायकः । KRT_6_0266ab
कर्मस्थानस्य निर्माता सिन्धुगञ्जाभिधस्य यः ॥ KRT_6_0266cd
प्रायशो हृतराज्यस्ते वर्तते नरवाहनः । KRT_6_0267ab
इति नेयधियं राज्ञीं सोभ्यधत्त दुराशयः ॥ KRT_6_0267cd
सा तथेत्यब्रवीद्यावत्तावत्प्रेम्णा स जातुचित् । KRT_6_0268ab
मन्त्री तां प्रार्थयामास भोक्तुं निजगृहागमम् ॥ KRT_6_0268cd
सा सानुगां तत्र यातां ध्रुवं त्वामेव भन्त्स्यति1 KRT_6_0269ab
इत्युक्ता सिन्धुनाaपृच्छत्तत्कर्तव्यं भयाकुला ॥ KRT_6_0269cd
अनुक्त्वैव प्रचलिता राजधानीमलक्षिता । KRT_6_0270ab
स्त्रीधर्मिण्यस्मि जातेति पश्चाद्वार्तां व्यसर्जयत् ॥ KRT_6_0270cd
संप्रवृत्तोप1चारायां गतायां तत्पथात्2तथा । KRT_6_0271ab
राज्ञ्यां नाशममात्यस्य प्रीतिः संविच्च सा ययौ ॥ KRT_6_0271cd
तयोस्ततः प्रभृत्येव निष्कृष्टस्नेहयोः कृतम् । KRT_6_0272ab
चाक्रिकैरतिरूक्षत्वं तिलपिण्याकयोरिव ॥ KRT_6_0272cd
कुलिशं सर्वलोहानामम्भसां शैलसेतवः । KRT_6_0273ab
श्भेद्याः प्रतिभाव्यन्ते न किंचिदसतां पुनः ॥ KRT_6_0273cd
ये बालादपि संमूढाः प्राज्ञाः सुरगुरोरपि । KRT_6_0274ab
तेषां न विद्मः के1 तावन्निर्माणपरमाणवः ॥ KRT_6_0274cd
विश्वासोज्झितधीः शिशून्कलयते काकोन्यदीयान्निजान्हंसः क्षीरपयोविभागकुशलस्त्रस्यत्यसाराद्घनात् । KRT_6_0275ab
लोकावेक्षणतीक्ष्णधीः खलगिरं जानाति सत्यां नृपो धिग्वैदग्ध्यविमुग्धताव्यतिकरस्पृष्टं विधानं विधेः ॥ KRT_6_0275cd
मूढा चरणहीना सा श्रुतिवाह्यतया तया । KRT_6_0276ab
वैधेयविप्रप्रकृतिरिव प्रायाद्विगर्ह्यताम् ॥ KRT_6_0276cd
उद्वेजितस्तया शश्वत्तया स नरवाहनः । KRT_6_0277ab
यथा विमाननोत्तप्तः स्वयं तत्याज जीवितम् ॥ KRT_6_0277cd
प्रकुप्यप्रतीकार्ये स्वतेजस्तप्तचेतसाम् । KRT_6_0278ab
शरणं मरणं किमिवान्यद्यशोर्थिनाम् ॥ KRT_6_0278cd
शशिहीनेव रजनी सत्यत्यक्तेव भारती । KRT_6_0279ab
विरराज न राजश्रीर्नरवाहनवर्जिता ॥ KRT_6_0279cd
सा क्रौर्याभ्यासविषमा हन्तुं विततविक्रमान् । KRT_6_0280ab
संग्रामडामरसुतान्समीपस्थानचिन्तयत् ॥ KRT_6_0280cd
निजमुत्तरघोषं ते तद्भयेन विनिर्गताः । KRT_6_0281ab
कय्यकद्वारपत्यादीन्कृतारब्धीन्व्यपादयन् ॥ KRT_6_0281cd
उत्पिञ्ज1भितया राज्ञ्या त्यक्त्वा परिभवत्रपाम् । KRT_6_0282ab
ते यत्नात्समपद्यन्त मानः स्वार्थार्थिनां कुतः ॥ KRT_6_0282cd

265.

--1) A3 gloss स्यनौ सुरागृहे गञ्जा भण्डागारे पुमानथेति कोशः.

--2) Thus A R G; perhaps, to be emended with G sec. manu गञ्जाध्यक्षस्ततः क्रमात्.

266.

--1) Thus emended according to conjectural reading ( sec manu) in G; A R G ( prima manu) नवायामदि॰.

269.

--1) Emended; A1 वंत्स्यति; G P वत्स्यति; R भर्त्स्यति; C वत्स्यति.

271.

--1) A3 ॰वृत्ताप॰.

--2) A3 तन्मृतातथा.

274.

--1) Thus A3; A1 किन्ताव॰.

[page 101]




स्थानेश्वरादिभुर्मुख्यैर्डामरैरितरैः समम् । KRT_6_0283ab
ते भीताः पुरतस्तस्याः पुनरेत्य जजृम्भिरे ॥ KRT_6_0283cd
अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते । KRT_6_0284ab
आनीतः फल्गुणो भूयो वीरार्थिन्या निजान्तिकम् ॥ KRT_6_0284cd
राजकार्याणि कुर्वाणः स भूयः शस्त्रमग्रहीत् । KRT_6_0285ab
न्यस्तशस्त्रोपि यत्सत्यं दुस्त्यजा भोगवासना ॥ KRT_6_0285cd
महिमा राजपुर्यादिजयिनस्तस्य पश्चिमः । KRT_6_0286ab
अद्भुतो वृद्धबन्धक्या अवरुद्ध इवाभवत् ॥ KRT_6_0286cd
अभूदुदयराजस्य देवीभ्रातुरतिप्रियः । KRT_6_0287ab
यः सहायोक्षपटले जयगुप्ताभिधः कुधीः ॥ KRT_6_0287cd
अन्येधिकारिणस्तेन सहिताः क्रूरवृत्तयः । KRT_6_0288ab
कश्मीरेषु व्यधुर्लुण्ढिं दुष्कृतैस्तदुपार्जितैः ॥ KRT_6_0288cd
सौःशील्यभाजो मातुश्च पाप्मभिर्विधुरीकृतः । KRT_6_0289ab
अभिमन्युः क्षणे तस्मिन्क्षयरोगेण पस्पृशे ॥ KRT_6_0289cd
पण्डितः पुण्डरीकाक्षो विद्वत्पुत्रैरुपस्कृतः । KRT_6_0290ab
कृतश्रुतः स वैदुष्यतारुण्याभ्यां विदिद्युते ॥ KRT_6_0290cd
तथा विशुद्धप्रकृतेस्तस्य दुष्कृतसंगमः । KRT_6_0291ab
शोषाधायी शिरीषस्य रविताप इवाभवत् ॥ KRT_6_0291cd
अर्धमान1ः प्रजाचन्द्रस्तृतीयस्यां स कार्तिके । KRT_6_0292ab
शुक्लेष्टचत्वारिंशाब्दे ग्रस्तो नियतिराहुणा ॥ KRT_6_0292cd
तत्पुत्रो नन्दिगुप्तस्तु बालश्चक्रे निजासने । KRT_6_0293ab
वृद्धस्तनयशोकस्तु विहाय हृदये पदम् ॥ KRT_6_0293cd
सा शोकपिहितक्रौर्या तस्थौ प्रशमशीतला । KRT_6_0294ab
रविरत्नशलाकेव ध्वान्तच्छन्नोष्मवैकृता ॥ KRT_6_0294cd
ततः प्रभृत्यद्भुताभिस्तस्या धर्मप्रवृत्तिभिः । KRT_6_0295ab
कुकर्मभिरुपोढापि लक्ष्मीः प्राप्ता पवित्रताम् ॥ KRT_6_0295cd
नगराधिपतिर्भुय्यः सिन्धुभ्राता शुभाशयः । KRT_6_0296ab
तदीयधर्मचर्यायां बभूव परिपोषकः ॥ KRT_6_0296cd
सा तेनोत्पादितानर्वजनरागा गतैनसा । KRT_6_0297ab
ततः प्रभृत्यभूद्देवी सर्वलोकस्य संमता ॥ KRT_6_0297cd
राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा । KRT_6_0298ab
कुर्याद्यः सुखसेव्यत्वं हेमन्त इव भास्वतः ॥ KRT_6_0298cd
सा निर्मात्री विपन्नस्य सूनोः सुकृतवृद्धये । KRT_6_0299ab
अभिमन्युस्वामिनोभूदभिमन्युपुरस्य च ॥ KRT_6_0299cd
अथ दिद्दापुरोपेतो दिद्दास्वामी तया कृतः । KRT_6_0300ab
मठश्च मध्यदेशीयलाटशौडोत्र1संश्रयः ॥ KRT_6_0300cd
भर्तुः कङ्कणवर्षस्य पुण्योत्कर्षाभिवृद्धये । KRT_6_0301ab
चकार कङ्कणपुरं रमणी स्वर्णवर्षिणी ॥ KRT_6_0301cd
श्वेतशैलमयं चान्यं सा दिद्दास्वामिनं व्यधात् । KRT_6_0302ab
धवलं चरणोद्भूतगङ्गाम्भःप्लवनैरिव ॥ KRT_6_0302cd
चक्रे काश्मीरिकाणां च वैशिकानां समाश्रयः1 KRT_6_0303ab
तयात्युच्चचतुःशालो विहारश्चारुसंपदा ॥ KRT_6_0303cd
श्रीसिंहस्वामिनं नाम्ना सिःहराजस्य सा पितुः । KRT_6_0304ab
मठं च विदधे स्थित्यै1 दैशिकानां द्विजन्मनाम् ॥ KRT_6_0304cd
मठप्रतिष्ठावैकुण्ठनिर्माणाद्यैः स्वकर्मभिः । KRT_6_0305ab
तयातिपावनश्चक्रे वितस्तासिन्धुसंगमः ॥ KRT_6_0305cd
तेषु तेषु प्रदेशेषु किमुक्तैर्भूरिभिः शुभैः1 KRT_6_0306ab
सा प्रतिष्ठा व्यरचयच्चतुःषष्टिमिति श्रुतिः ॥ KRT_6_0306cd
जीर्णोद्धारकृता देव्या प्लुष्टप्राकारमण्डलाः । KRT_6_0307ab
प्रायः सुरगृहाः सर्वे शिलावप्रावृताः कृताः ॥ KRT_6_0307cd
क्रीडाचङ्क्रमेण राज्ञ्याः पङ्ग्वा विग्रहवाहिनी । KRT_6_0308ab
वल्गाभिधा वैवधिकी वल्गामठमकारयत् ॥ KRT_6_0308cd
तीर्थासेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने वाताशान्प्रसते शिखी घनपयोमात्राशनोप्यन्वहम् । KRT_6_0309ab
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोपि भुङ्क्ते बकः सत्कर्माचरणेपि दोषविकृतौ1 न प्रत्ययः पापिनाम् ॥ KRT_6_0309cd
चर्षणी1 वर्षमात्रेण शान्तशोका बभूव सा । KRT_6_0310ab
भोगोत्सुकार्भके तस्मिन्नप्तरि व्यभिचारकृत् ॥ KRT_6_0310cd

292.

--1) Thus A R G; Edd. वर्धमानः, found also sec. manu in R G. A2 gloss अर्धवयाः खण्डबिम्बश्च.

300.

--1) Thus A R G.

303.

--1) Thus corr. by A3 from A1 जनाश्र॰.

304.

--1) स्थित्यै omitted by A1 and supplied in margin by A2.

306.

--1) Thus A3; A1 श्रुताः.

309.

--1) Thus A1; A2 ॰विरतौ.

320.

--1) A2 gloss चर्मणी असती इत्यर्थः.

[page 102]




वर्ष एकान्न1पञ्चाशे नीतः पक्षे सिते क्षयम् । KRT_6_0311ab
स मार्गशीर्षद्वादश्याममार्गव्यग्रया तया ॥ KRT_6_0311cd
पौत्रस्त्रिभुवनो नाम मार्गशीर्षे1 सितेहनि । KRT_6_0312ab
पञ्चमेप्येकपञ्चाशे वर्षे तद्वत्तया हतः ॥ KRT_6_0312cd
अथ मृत्युपथे राज्यनाम्नि स्वैरं निवेशितः । KRT_6_0313ab
क्रूरया चरमः पौत्रो भीमगुप्ताभिधस्तया ॥ KRT_6_0313cd
तस्मिन्नवसरे वृद्धः फल्गुणोपि व्यपद्यत । KRT_6_0314ab
निगूढक्रौर्यदौःशील्या दिहा यद्गौरवाद्भूत् ॥ KRT_6_0314cd
बभूव साथ1 सुस्पष्टदुष्टचेष्टाशतोत्कटा । KRT_6_0315ab
भ्रष्टवक्त्रपटा मत्तदन्तिमूर्तिरिवोत्कटा ॥ KRT_6_0315cd
महाभिजनजातानामपि हा धिङ्निसर्गतः । KRT_6_0316ab
सरितामिव नारीणां वृत्तिर्निम्नानुसारिणी ॥ KRT_6_0316cd
स्रोतोधिराज्यमधिगम्य विराजमानास्सिन्धोः प्रसूय कम्लाल्पपयोनिकेते । KRT_6_0317ab
जाते सरस्यविरतं जलजे प्रसक्ता नार्यो महाभिजनजा अपि नीचभोग्याः ॥ KRT_6_0317cd
खशस्य बद्दिवासा1ख्यपर्णोत्सग्रामजन्मनः । KRT_6_0318ab
बाणस्य सूनुस्तुङ्गाख्योविशन्महिषपालकः ॥ KRT_6_0318cd
प्रविष्टो जातु कश्मीरांल्लेखहा1रककर्मणा । KRT_6_0319ab
सुगन्धिसीहप्रकटनागाट्टयिकषण्मुखैः ॥ KRT_6_0319cd
पञ्चभिर्भ्रातृभिः सार्धं सांधि1विग्रहिकान्तिके2 KRT_6_0320ab
देव्या दृग्गोचरं यातो हृदयावर्जकोभवत् ॥ तिलकम्॥ KRT_6_0320cd
रहःप्रवेशितो दूत्या स भाव्यर्थबलाद्युवा । KRT_6_0321ab
संभुक्तभूरिजाराया अपि तस्याः प्रियोभवत् ॥ KRT_6_0321cd
तुङ्गानुरागिणी राज्ञी पापा लज्जोज्झिता ततः । KRT_6_0322ab
रसदानेन वैमुख्यमाजं भुय्यमघातयत् ॥ KRT_6_0322cd
धिङ्निर्विचारान्कुपतीन्येषां विषमचेतसाम् । KRT_6_0323ab
फलशून्या स्तुतिस्तोषे दोषे प्राणधनक्षयः ॥ KRT_6_0323cd
रक्कजो देवकलशो वेलावित्तः कृतस्तया । KRT_6_0324ab
भुय्याधिकारे कौट्टन्यमाaचर्न्निस्त्रपो विटः ॥ KRT_6_0324cd
येपि कर्दमराजाद्या वीरा द्वारादिनायकाः । KRT_6_0325ab
तेपि कौट्टन्यम1भजन्नन्येषां गणनैव का ॥ KRT_6_0325cd
चतुष्पञ्चानि वर्षाणि तिष्ठन्नृपगृeहे शिशुः । KRT_6_0326ab
भीमगुiप्तोभवद्यावत्किंचित्प्रौढीभवन्मतिः ॥ KRT_6_0326cd
राज्यव्यवस्था यावच्च पितामह्याश्च वृत्तयः । KRT_6_0327ab
दुःस्थिताः प्रत्यभासनत संस्थाप्यास्तस्य चेतसि ॥ KRT_6_0327cd
अङ्गशीलविहीनाया निर्घृणाया विसर्गतः । KRT_6_0328ab
नावन्नेयधियस्तस्याः स चिन्त्यः समपद्यत ॥ KRT_6_0328cd
अभिमन्यु1वधूस्तं हि चक्रे गूढप्रवेशितम् । KRT_6_0329ab
महाभिजनजं पुत्रं तस्मात्सोभूत्तथाविधः ॥ KRT_6_0329cd
सा देवकलशेनाथ दत्तमन्त्रा विशङ्किता । KRT_6_0330ab
त्रपोज्झिता स्पष्टमेव भीमगुप्तमबन्धयत् ॥ KRT_6_0330cd
निगूढे नन्दिगुप्तादिद्रोहे लोकस्य योभवत् । KRT_6_0331ab
संदेहः स तथा तेन व्यक्तकृत्येन वारितः ॥ KRT_6_0331cd
ताभिस्ताभिर्यातनाभिर्भीमगुप्तं निपात्य सा । KRT_6_0332ab
षट्पञ्चाशेभवद्वर्षे स्वयं क्रान्तनृपासना ॥ KRT_6_0332cd
प्रवृद्धरागया राज्ञ्या दत्तोद्रेको दिने दिने । KRT_6_0333ab
सर्वाधिकारी तुङ्गोथ बभूवाधरि1ताखिलः ॥ KRT_6_0333cd
सभ्रातृकेन तुङ्गेन मीलिताः पूर्वमन्त्रिणः । KRT_6_0334ab
राज्यविप्लवमाधातुमयतन्त विरागिणः ॥ KRT_6_0334cd
तेथ संमन्त्र्य कश्मीरानानिन्युः क्रूरपौरुषम् । KRT_6_0335ab
उग्रं विग्रहराजाख्यं दिद्दाभ्रातुः सुतं नृपम् ॥ KRT_6_0335cd
मुख्याग्रहारान्स प्राप्तो विधातुं राज्यविप्लवम् । KRT_6_0336ab
धीमान्प्रायोपवेशाय1 द्रुतं प्रावेशय2द्द्विजान् ॥ KRT_6_0336cd
त्रिहितैक्येषु विप्रेषु लोकः सर्वोपि विप्लुतः । KRT_6_0337ab
अन्वियेषान्वहं तुङ्गं तत्र तत्र जिघांसया ॥ KRT_6_0337cd

311.

--1) Thus A1; A3 एकोनप॰.

312.

--1) Thus corr. by later hand from A1 मार्गशीर्ष.

315.

--1) बभूव साथ supplied by A3 in space left by A1.

318.

--1) A4 gloss बोदोल् ग्रामः.

319.

--1) supplied by A3 in space left by A1.

320.

--1) Corr. by A3 from A1 सन्धि॰.

--2) Thus A1; A3 ॰कान्तरे.

325.

--1) Thus corr. by A3 from A1 कौटिन्य॰.

329.

--1) Thus corr. by A3 from A1 अभिमत्यव॰.

333.

--1) धारे supplied by A3 in space left by A1.

336.

--1) A3 gloss प्रावः भोजनत्यागः.

--2) Thus A1; A3 प्रायोजयद्द्वि॰.

[page 103]




कस्मिंश्चित्पिहितद्वारे तुङ्गं प्रच्छाद्य वेश्मनि । KRT_6_0338ab
दिनानि कतिचिद्दिहा तस्थावास्कन्दशङ्किनी ॥ KRT_6_0338cd
तथा स्वर्णप्रदानेन सुमनोमन्तकादयः । KRT_6_0339ab
ब्राह्मणाः समगृह्यन्त ततः प्रायो व्यवर्तत ॥ KRT_6_0339cd
एवं तस्मिन्महाक्षेपे तथा दानेन वारिते । KRT_6_0340ab
ययौ विग्रहराजः स भग्नशक्तिर्यथागतम् ॥ KRT_6_0340cd
अथ दार्द्यं सभासाद्य तुङ्गाद्याः प्रभविष्णवः । KRT_6_0341ab
शनैः कर्दमराजादीञ्जिश्नुर्विहितविप्लवान् ॥ KRT_6_0341cd
सुलक्कनो रक्कसूनुस्तथान्ये मुख्यमन्त्रिणः । KRT_6_0342ab
रुष्टैर्निर्वासिता देशात्तुष्टैस्तैः संप्रवेशिताः ॥ KRT_6_0342cd
प्रवर्धमानवैरेण गूढदूतैर्विसर्जितैः । KRT_6_0343ab
प्रायं विग्रहराजेन ब्राह्मणः कारिताः पुनः ॥ KRT_6_0343cd
उत्क्रोचादित्सया विप्रा भूयः प्रायविधायिनः । KRT_6_0344ab
लब्धस्थैर्येण तुङ्गेन संनिपत्यापहस्तिताः ॥ KRT_6_0344cd
तेषां मध्ये वसन्गूढमादित्याख्यः पलायितः । KRT_6_0345ab
हतो विग्रहराजस्य प्रियः कटकवारिकः ॥ KRT_6_0345cd
शस्त्रक्षतः प्रतीहारो वत्सराजाभिधः पुनः । KRT_6_0346ab
न्यङ्कोतकादिभिर्धावञ्जीवग्राहमगृह्यत ॥ KRT_6_0346cd
ते स्वर्णाग्राहिणो विप्राः सुमनोमन्तकादयः । KRT_6_0347ab
सर्वेपि बद्धास्तुङ्गेन कारागारं प्रवेशिताः ॥ KRT_6_0347cd
अथ फल्गुणनाशेन दृप्ते राजपुरीपितौ । KRT_6_0348ab
तां प्रत्यारब्धिरभवत्क्रुद्यतां सर्वमन्त्रिणाम् । KRT_6_0348cd
निपत्य संकटे वीरः पृथ्वीपालाभिधस्ततः । KRT_6_0349ab
चक्रे राजपुरीराजः काश्मीरिकाबलक्षयम् ॥ KRT_6_0349cd
शिपाटको हंसराजो विपन्नौ तत्र मन्त्रिणौ । KRT_6_0350ab
चन्द्राद्यैर्दुर्गतिर्दृष्टा1 मरणं यत्र भेष2जम् ॥ KRT_6_0350cd
अथान्येन पथाकस्मात्तुङ्गः सार्धं सहोदरैः । KRT_6_0351ab
कृत्स्नां राजपुरीं वीरः प्रविश्य सहसादहत् ॥ KRT_6_0351cd
ननाश तेनोपायेन पृत्वीपालः स पार्थिवः । KRT_6_0352ab
शेषाणां मन्त्रिणां सैन्यं प्राप मुक्तिं च संकटात् ॥ KRT_6_0352cd
अबलः सन्स भूपालस्तुङ्गाय प्रददौ करम् । KRT_6_0353ab
एवं कृतं तदा तेन नष्टस्था1र्थस्य योजनम् ॥ KRT_6_0353cd
प्रविशन्नगरं तुङ्गस्ततः स्वीकृतकम्पनः । KRT_6_0354ab
चकार डामरग्रामसंहारं सिंहविक्रमः ॥ KRT_6_0354cd
दिद्दाप्युदयराजस्य भ्रातुःञ् पुत्रं परीक्षितम् । KRT_6_0355ab
चक्रे संग्रामराजाख्यं युवराजमशङ्किता ॥ KRT_6_0355cd
सा हि सर्वाञ्शिशुप्रायान्पुरो भ्रातृसुतान्स्थितान् । KRT_6_0356ab
परीक्षितुं मुमोचाग्रे पालेवतफलावलिम् ॥ KRT_6_0356cd
शक्तः कियन्ति कः प्राप्तुं फलान्यत्रेतिवादिनी । KRT_6_0357ab
साभवद्राजपुत्राणां तेषाम् कलहकारणम् ॥ KRT_6_0357cd
गृहीताल्पफलांलग्नप्रहारांस्तान्ददर्श च । KRT_6_0358ab
संग्रामराजं1 र्वस्वल्पफलभाजमविक्षतम् ॥ KRT_6_0358cd
अनन्तफलसंप्राप्तावक्षतत्वे च कारणम् । KRT_6_0359ab
सविस्मयं तथा पृष्टः स तामेवं तदान्नवीत् ॥ KRT_6_0359cd
अन्योन्यकलहव्यग्रानेतान्कृत्वा पृथग्वसन् । KRT_6_0360ab
समवापं फलान्यस्मिन्न चाभूवं परिक्षतः ॥ KRT_6_0360cd
व्यसनं संप्रवेश्या1न्यान्स्थितानामप्रमादिनाम् । KRT_6_0361ab
न काः क्लेशाविहीनानां2 घटन्ते स्वार्थसिद्धयः ॥ KRT_6_0361cd
श्रुत्वेति तस्य सा वाचमप्रमत्तत्वदूतिकाम् । KRT_6_0362ab
भीरुर्नारीस्वभावेन राज्येमन्यत योग्यताम् ॥ KRT_6_0362cd
शूरस्य लभ्यं शौर्येण भीरोर्भीरुतया यथा । KRT_6_0363ab
कार्यं हि प्रतिभात्यन्तर्न भवेच्च तदन्यथा ॥ KRT_6_0363cd
काष्ठं बह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां लोम्नां शुद्ध्यै सलिलमनलश्चाग्नि1शौचैणकानाम् । KRT_6_0364ab
जन्तोर्भावा विदधति यथा भाविनः2 कार्यसिद्धिं तत्त्वं तेषां क्वचन वस्तुतो नास्ति किंचित् ॥ KRT_6_0364cd

350.

--1) Thus A3; A1 ॰दुर्गतिं दृष्ट्वा.

--2) Thus corr. by later hand from A1 भैष॰.

353.

--1) नष्टस्था supplied by A3 in space left by A1.

358.

--1) राजं omitted by A1 and supplied by A3.

361.

--1) Thus corr. by A1 व्यसने संप्रविश्या॰.

--2) Thus corr. by A3 from A1 ॰विहीनां.

364.

--1) A3 gloss अग्निशौचा मृगा अग्निमश्नन्ति विषमूषकाः विषं च न विपद्यन्ते जीविता-----.

--2) A3 यथाभावनं.

[page 104]




तस्यामेकान्नशीत्यब्दशुक्लभाद्राष्टमीदिने । KRT_6_0365ab
देव्यां दिवं प्रयतायां युवराजोभवन्नृपः ॥ KRT_6_0365cd
स्त्रीसंबन्धेन भूपालवंश्या1नां भुवनाद्भुतः । KRT_6_0366ab
तृतीयः परिवर्तोयं वर्ततेमुत्र मण्डले ॥ KRT_6_0366cd
निर्नष्ट1कण्टककुले वसुसंपदाद्ये श्रीसा2तवाहकुलमाप महीतलेस्मिन् । KRT_6_0367ab
दावाग्निदग्धकुतरौ जलदाम्बुसिक्ते चूतप्ररोह इव केलिवने प्रवृद्धिम्3 KRT_6_0367cd
अथ स मृदुतयान्तर्गूढधैर्यानुभावः सुखमवनिमशेषां दोष्णि संग्रामराजः । KRT_6_0368ab
विसकुलनिभशोभानिह्नुतप्राणसारः फणकुल1 उरगाणामीशितेव न्यधत्त ॥ KRT_6_0368cd


(1)इति श्रीकाश्मीरिकमहामात्यचप्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां षष्ठस्तरङ्गः(2) ॥
अत्र वर्षचतुःषष्टौ मासेप्यर्धे दिनेषु च ।
अष्टस्वभूवन्भूपाला दश भूभोगभोगिनः(3) ॥

366.

--1) Thus corr. by later hand from A1 ॰वंशा॰.

367.

--1) Thus corr. by A3 from A1 निष्पन्नक॰.

--2) Thus corr. by A2 from A1 सालवा॰; R G as above.

--3) A3 प्ररूढिम्.

368.

--1) Thus corr. by A3 from A1 फलकुल.

Colophon.

--1) A3 inserts here the note: रा॰ 10 ग्र 369 ॥ आदितः रा॰ 92 ग्रन्थः 1663 ॥.

--2) A1 adds here: लिखितश्चैष राजानकरत्नकण्टेन.

--3) A3 भागिनः.

[page 105]




॥ सप्तमस्तरङ्गः ॥

मातुस्तेजनि निर्मले1 पितृकुले श्लाघ्या तनुर्वेधसा त्वं संध्याहितसंनिधिर्मम जपारत्केधरे खेलसि । KRT_7_0001ab
संध्यावन्दनसाभ्यसूयगिरिजास्तुत्येदृशैर्वाक्छलैर्यः संध्यामपि वन्दते स्व स जगत्प्रीणातु गौरीश्वरः ॥ KRT_7_0001cd
क्षमां1 क्षमापतिर्विभ्रन्मनसा च भुजेन च । KRT_7_0002ab
गाम्भीर्येण च शक्त्या च सोजयद्वाहिनीपतीम्2 KRT_7_0002cd
जज्ञे राज्ञीक्षये भङ्गो यैस्तुङ्गस्य तदाखिलैः । KRT_7_0003ab
दिनश्रीविगमे संध्याप्रसङ्गस्येव रागिणः ॥ KRT_7_0003cd
तत्तत्प्रतिभटाटोपत्रोटनात्प्रत्युतास्य तैः । KRT_7_0004ab
उदयो ददृशे शश्वद्गतिं गो वेत्ति वेधसः ॥ युगमम्॥ KRT_7_0004cd
नृपेण जातज्ञातयः शूरः शक्तिसमन्वितः । KRT_7_0005ab
सर्वाधिकारयोग्योगा1त्तदा चन्द्राकरः क्षयम् ॥ KRT_7_0005cd
अन्ये भीमतिकाग्रामदिविरस्योरुसंपदः । KRT_7_0006ab
पुण्याकरस्य तनयाः शूराः शान्तिं प्रपेदिरे ॥ KRT_7_0006cd
समर्थमन्त्रिविरहादनिच्छन्नपि वेधसा । KRT_7_0007ab
निन्ये गत्यन्तरत्यक्तस्तुङ्गपक्षं क्षमापतिः ॥ KRT_7_0007cd
संग्रामराजतुङ्गादीन्देवी कोशमपाययत्1 KRT_7_0008ab
मुमूर्षन्ती पुरा स्थातुमद्रोहेणेतरेतरम् ॥ KRT_7_0008cd
क्लेशासहो महीपालस्ततः कार्यवशादपि । KRT_7_0009ab
तुङ्गन्यस्तप्रजाकार्यो भोगाभ्यसालसोभवत् ॥ KRT_7_0009cd
पर्याप्तं तस्य भीरुत्वं कियदन्यत्प्रकाश्यताम् । KRT_7_0010ab
असमैर्यौनसंबन्धैश्चक्षमे यशसः क्षतिम् ॥ KRT_7_0010cd
साहायकार्थी यत्प्रादाच्छ्रीशौर्यादिमते सुताम् । KRT_7_0011ab
दिद्दामठाधिपतये प्रेमनाम्ने स लोठिकाम् ॥ KRT_7_0011cd
क्व लोकोद्वहनोन्नद्धभूभृद्योग्या नृपात्मजा । KRT_7_0012ab
प्रतिग्रहजलक्लिन्नपाणिः क्वाल्पमना द्विजः ॥ KRT_7_0012cd
अथ तुङ्गादिभङ्गाय प्रायं ब्राह्मणमन्त्रिणः । KRT_7_0013ab
परिहासपुरे विप्रपारिषद्यानकारयन् ॥ KRT_7_0013cd
विप्रमन्त्रिमतैक्येन कृतो राज्ञः स विप्लवः । KRT_7_0014ab
दुःसहः पवमानाग्निसमागमसमोभवत् ॥ KRT_7_0014cd
राज्ञोप्युत्पाटने सज्जैः कथंचित्प्रार्थितै1र्द्विजैः । KRT_7_0015ab
मतिः क्षान्तिचरुप्राये2 तुङ्गनिःसारणे कृता ॥ KRT_7_0015cd
राज्ञा1 तुङ्गादिभिश्चैत2द्यावत्तेभ्यः प्रतिश्रुतम् । KRT_7_0016ab
अन्यत्प्रार्थयितुं लग्नास्तावत्ते शठबुद्धयः ॥ KRT_7_0016cd
तुङ्गास्कन्देन विप्रोयं1 यो मृतस्तद्गृहे2 वयम् । KRT_7_0017ab
तं निर्दहाम इत्युक्त्वा शवः कोप्यरघट्टतः ॥ KRT_7_0017cd
तैरुद्धृत्य यदानीतः शठैस्तुङ्गगृहान्प्रति । KRT_7_0018ab
केशह्प्माच्च विहिताद्या कृत्योत्थापिताभवत् ॥ KRT_7_0018cd
तया प्रतीपपातिन्या निःशौचानां द्विजन्मनाम् । KRT_7_0019ab
अकस्मान्निरगच्छस्त्रं विनाशायोत्थिते कलौ ॥ तिलकम् ॥ KRT_7_0019cd
ततः पलायिता विप्रा यस्तेषाम् मन्त्रदोभवत् । KRT_7_0020ab
निगूढं राजकलशस्तद्वेश्म प्राविशन्भयात् ॥ KRT_7_0020cd
स व्यक्तीभूतकौटिल्यः संग्रामं सुचिरं व्यधात् । KRT_7_0021ab
अपद्वारैस्तु ते विप्राः पलाय्य स्वगृहान्ययुः ॥ KRT_7_0021cd

1.

--1) A3 निर्मिते.

2.

--1) A3 gloss भुवं क्षान्तिं च.

--2) A3 gloss सेनापतीन् समुद्रांश्च.

5.

--1) गा supplied by A2.

8.

--1) A3 gloss कोशं । दिव्यं । अपाययत् अकारयत् । पीतकोशान् कृतवती इत्यर्थः.

15.

--1) Thus corr. by A3 from A1 प्रार्थितो.

--2) A3 ॰प्रायैस्तु॰.

16.

--1) Thus corr. by A3 from A1 राज्ञस्तु॰.

--2) A3 gloss निःसारणं.

17.

--1) यं supplied by A3.

--2) A4 gloss तुङ्गगृहे.

[page 106]




विजिते राजकलशे समकार्या द्विजातयः । KRT_7_0022ab
मन्त्रिणः श्रीधरसुताः सप्तागत्य व्यधुर्मृधम् ॥ KRT_7_0022cd
ते कृत्वा सुमहत्कर्म समाप्तिं समरे गताः । KRT_7_0023ab
निर्भिद्य मण्डलं सप्त सप्तसप्तेर्द्रुतं ययुः ॥ KRT_7_0023cd
जितः सुगन्धिसीहेन1 तेषु शान्तेषु संयुगे । KRT_7_0024ab
बद्ध्वाथ राजकलशस्तुङ्गेनानायितो गृहम् ॥ KRT_7_0024cd
नीयमानोधिरोप्याशु स्कन्दं मार्गेषु विक्षतः । KRT_7_0025ab
तुङ्गस्य युग्यवाहैः स नर्तितोपहृतायुधः ॥ KRT_7_0025cd
अन्योपि भूतिकलशो नाम मन्त्री विनिर्जितः । KRT_7_0026ab
सुतेन राजकाख्येन सह शूरमठं ययौ ॥ KRT_7_0026cd
क्रमात्सुगन्धिसीहाद्यैर्मुक्तः करुणया ततः । KRT_7_0027ab
सुपुत्रः सोवमानाग्नितप्तो देशान्तरं ययौ ॥ KRT_7_0027cd
परिहासपुरादेवं जातो यो देशविप्लवः । KRT_7_0028ab
स दैवयोगात्तुङ्गस्य शुभाय प्रत्युताभवत् ॥ KRT_7_0028cd
ततः प्रसादिते राज्ञि गुणदेवेन मन्त्रिणा । KRT_7_0029ab
आययौ भूतिकलशः कृतगङ्गानिमज्जनः ॥ KRT_7_0029cd
पुनर्नृपगृहे तस्मिन्किंचिल्लब्धपदे शनैः । KRT_7_0030ab
तुङ्गं निहन्तुं राज्ञैनं गूढं दूताः प्रयोजिताः ॥ KRT_7_0030cd
ज्ञातवार्तेन तुङ्गेन तस्मिन्नर्थे प्रकाशिते । KRT_7_0031ab
सपुत्रो भूतिकलशो राज्ञा निर्वासितः पुनः ॥ KRT_7_0031cd
अवष्टम्भं मनाग्लेभे चन्द्राकरसुतः शनैः । KRT_7_0032ab
यो मय्यामन्तकः सोपि तस्मिन्काले व्यपद्यत ॥ KRT_7_0032cd
भूत्वा किंचित्क्षणं भूभृत्कन्यासंभोगभाजनम् । KRT_7_0033ab
राजोपकारकृच्छ्रीमान्प्रेमापि प्रमयं ययौ ॥ KRT_7_0033cd
विपेदिरेन्ये गङ्गाद्याः सर्वेपि नृपतिप्रियाः । KRT_7_0034ab
आविशिष्यत भोगाय तुङ्गः सभ्रातृकः परम् ॥ KRT_7_0034cd
इति यो यो हि वृत्तान्तस्तस्य नाशाय शङ्कितः । KRT_7_0035ab
स स दैवानुकूल्येन प्रत्युतोद्रेचको1भवत् ॥ KRT_7_0035cd
कालक्रमत्रुटितसंश्रयभूः स्वमूलमात्राश्रयी तटतरुः सरितोम्बुपूरैः । KRT_7_0036ab
यैः शङ्क्यते निपततीति वितीर्णमृद्भिस्तैरेव तस्य हि भवेत्स्थितिभूमिदार्ह्यम् ॥ KRT_7_0036cd
नीत्युज्ज्वलं व्यवहरन्प्रजाराधनतत्परः । KRT_7_0037ab
प्राक्पुण्यसंक्षयात्तुङ्गः शनैस्त्वासीत्स्ख1लन्मतिः ॥ KRT_7_0037cd
यत्स्वभाग्यापहाराय हीनजन्मानमाददे । KRT_7_0038ab
साहायकाय कायस्थं क्षुद्रं भद्रेश्वराभिधम् ॥ KRT_7_0038cd
विड्वा1णिज्यं सौनिकत्वं काष्ठविक्रयिता2दि च । KRT_7_0039ab
आरामिकस्य यस्यासीत्कृत्यम् वंशक्रमोचितम् ॥ KRT_7_0039cd
कम्बलोद्धृष्टपृष्ठोथ भोजनार्थमवालगत्1 KRT_7_0040ab
भस्त्रामषीभाण्डवाही यश्च पश्चान्नियोगिनाम् ॥ KRT_7_0040cd
अनन्तराजकार्यादिचिन्ताश्रान्तो विधाय तम् । KRT_7_0041ab
तुङ्गः सहायं नाबुद्धं संसर्गाद्भाग्यसंक्षयम् । KRT_7_0041cd
धार्मिकं तेन धर्मार्कं विनिवार्यार्यचेतसाम् । KRT_7_0042ab
गृहकृत्याधिकारे1 स दुष्कृती विनिवेशितः ॥ KRT_7_0042cd
देवगोब्राह्मणानाथातिथिराजोपजीविनाम् । KRT_7_0043ab
अकालमृत्युर्विदधे वृत्तिच्छेदम् स दुर्मतिः ॥ KRT_7_0043cd
शवाजीवोपि पुष्णाति क्रूरः कापालिको निजान् । KRT_7_0044ab
भद्रेश्वरस्तु पापोभून्निजानामपि जीवहृत् ॥ KRT_7_0044cd
तुङ्गेन चैत्रे सर्वत्र कृते भद्रेश्वरे प्रभौ । KRT_7_0045ab
सुगन्धिसीहः प्रययावाषाढे मासि संक्षयम् ॥ KRT_7_0045cd
परलोकं गते तस्मिन्सर्वभारसहेनुजे । KRT_7_0046ab
तुङ्गश्छिन्नोत्तमाङ्गत्वं सदैन्योमन्यतात्मनः ॥ KRT_7_0046cd
श्रीत्रिलोचनपालस्य शाहेः साहायलार्थिनः1 KRT_7_0047ab
देशं ततो मार्गशीर्षे मासि तं2 व्यसृजन्नृपः ॥ KRT_7_0047cd
राजपुत्रमहामात्यसामन्तादिनिरन्तरम् । KRT_7_0048ab
सैन्यं तमन्वगाद्भूरि भुवनक्षोभनक्षमम् ॥ KRT_7_0048cd

24.

--1) A4 gloss तुङ्गानुजेन.

35.

--1) A3 gloss वृद्धिकरः.

37.

--1) Thus emended with C; A R G ,,सीद्स्यल॰.

39.

--1) A2 gloss गोमयविक्रयित्वं.

--2) Thus corr. by A3 from A1 ॰क्रयिकादि.

40.

--1) Thus first half of this verse has been omitted by A1 and supplied by A3 in margin.

42.

--1) Thus corr. by A3 from A1 ॰कारी.

47.

--1) A4 gloss तुरुष्कसमरे.

--2) A4 gloss तुङ्गं.

[page 107]




अग्रागतेन ससुतः1 शाहिना कृतसत्क्रियः । KRT_7_0049ab
पञ्चषाणि दिनान्यासीत्तद्देशे स यदोन्मदः ॥ KRT_7_0049cd
प्रजागरचरन्यासशस्त्राभ्यासादिवासनः । KRT_7_0050ab
अभियोगोचिताः शाहिर1पश्यंस्त2 तदाब्रवीत् ॥ युग्मम्॥ KRT_7_0050cd
तुरुष्कसमरे यावन्न यूयं कृतबुद्धयः । KRT_7_0051ab
आलस्यविवशास्तावत्तिष्ठतास्मिन्गिरेस्तटे ॥ KRT_7_0051cd
एवं त्रिलोचनेनोक्तं1 सोग्रहीन्न हितं वचः । KRT_7_0052ab
तस्थौ परं समं सैन्यैरुत्सेकादाहवोत्सुकः ॥ KRT_7_0052cd
हस्मीरेण1 तदा सैन्यं जिज्ञासार्थम् विसर्जितम् । KRT_7_0053ab
तौषीपारे2 मितप्रायैस्ततस्तीर्त्वावधीद्बलैः ॥ KRT_7_0053cd
ततस्त1माहितोत्सेकमपि शाहिः पुनः पुनः । KRT_7_0054ab
जगादाहवतत्त्वज्ञः पूर्वोक्तामेव संविदम् ॥ KRT_7_0054cd
स तस्य नाग्रहीद्वाक्यम् रणौत्सुक्यवशंवदः । KRT_7_0055ab
प्रत्यासन्नविनाशानामुपदेशो निरर्थकः ॥ KRT_7_0055cd
प्रातस्ततः स्वयं कोपात्तुरुष्कानीकनायकः । KRT_7_0056ab
सर्वाभिसारेणाग1च्छच्छलाहवविशारदः ॥ KRT_7_0056cd
अथ तुङ्गस्य कटकह् सहसा भङ्गमाययौ । KRT_7_0057ab
शाहिसैन्यं परं सख्ह्ये ददृशे विरचत्क्षणम् ॥ KRT_7_0057cd
शाहिसैन्ये गतेप्यासीज्जयसिंहः स्फुरन्रणे । KRT_7_0058ab
श्रीवर्धनश्च सांग्रामि1विभ्रमार्कश्च डामरः ॥ KRT_7_0058cd
घोरे तुरङ्गतुमुले प्रहरद्भिस्त्त्रिभिर्भटैः । KRT_7_0059ab
वीरक्षेत्रे निजे देशे रक्षितस्तैर्यशःक्षयः ॥ KRT_7_0059cd
करित्रलोचनपालस्य माहात्म्यं वक्तुमीश्वरः । KRT_7_0060ab
निःसस्ंख्या अपि यं संख्ये न जेतुमशकन्द्विषः ॥ KRT_7_0060cd
शुशुभे रुधिरासारवर्षी युद्धे त्रिलोचनः । KRT_7_0061ab
कल्पान्तदहनज्योतिर्विसारीव त्रिलोचनः ॥ KRT_7_0061cd
स योधयित्वा संग्रामे कोटीः कङ्कटवाहिनाम् । KRT_7_0062ab
एकाकी कार्यमर्मज्ञो निर्ययौ रिपुसंकटात् ॥ KRT_7_0062cd
गते त्रिलोचने दूरमशेषं क्षितिम1ण्डलम् । KRT_7_0063ab
प्रचण्डचण्डाaलचमूशलभच्छायमानशे ॥ KRT_7_0063cd
संग्रामविजयोप्यासीन्न हम्मीरः समुच्छ्वसन् । KRT_7_0064ab
श्रीत्रिलोचनपालस्य स्मरञ्शौर्यममानुषम् ॥ KRT_7_0064cd
त्रिलोचनोपि संश्रित्य हास्तिकं स्वपदाच्च्युतः । KRT_7_0065ab
सयत्नोभून्महोत्साहः प्रत्याहर्तुम् जयश्रियम् ॥ KRT_7_0065cd
यथा नामापि निर्नष्टं शीघ्रं शाहिश्रियस्तथा । KRT_7_0066ab
इह प्रासङ्गिकत्वेन वर्णितं न सविस्तरम् ॥ KRT_7_0066cd
स्वप्नेपि यदसंभाव्यं यत्रव् भग्ना मनोरथाः । KRT_7_0067ab
हेलया तद्विदधतो नासाध्यं विद्यते विधेः ॥ KRT_7_0067cd
ईषद्यद्भूमिवैपुल्यं1 राज्ञः शंकरवर्मणः । KRT_7_0068ab
वृत्तान्तवर्णने पूर्वममुत्र प्रकटीकृतम् ॥ KRT_7_0068cd
स शाहिदेशः सामात्यः सभूभृत्सपरिच्छदः । KRT_7_0069ab
किमभूत्किमु वा नाभूदिति संचिन्त्यतेधुना ॥ KRT_7_0069cd
अवतारं तुरुष्काणां दत्त्वाशेषे महीतले । KRT_7_0070ab
प्राप्तभङ्गस्ततस्तुङ्गः स्वदेशं प्राविशच्छनैः ॥ KRT_7_0070cd
सृगालायेव तुङ्गाय लब्धभङ्गाय भूपतिः । KRT_7_0071ab
न तत्रागसि चुक्रोध स धैर्यसदृशाशयः ॥ KRT_7_0071cd
किं तु खेदाय समभूत्तुङ्गायत्तत्वमीशितुः । KRT_7_0072ab
परायत्तया चित्तं पशेoर1प्युपतप्यते ॥ KRT_7_0072cd
तुङ्गात्मजोपि कन्दर्पसिंहः श्रीशौर्यगर्वितः । KRT_7_0073ab
राजे1चित्तं व्यवहरंस्तस्योद्वेगप्रदोभवत् ॥ KRT_7_0073cd
गूढलेखैः क्षणे तस्मिंश्छिद्रान्वेषी स भूभुजम्1 KRT_7_0074ab
भ्राता विग्रहराजोपि प्रैरयत्तुङ्गमारणे ॥ KRT_7_0074cd
कोशादिस्मरणा1द्राजा चिरं दोलायमानधीः । KRT_7_0075ab
अभीक्ष्णप्रेरणोद्विग्नः प्रेरकानब्रवीत्ततः ॥ KRT_7_0075cd

49.

--1) Thus A3; A1 स तथा.

50.

--1) supplied by A3 in space left by A1.

--2) Thus corr. by A3 from A1 ॰पश्यत्तं.

52.

--1) Thus corr. by A3 from A1 ॰नोक्ताः.

53.

--1) Thus A1; altered by later hand to हस्मी॰; G as above.

--2) Thus corr. by A2 from A1 ॰प्राय; A3 gloss तौषी नाम नदी.

54.

--1) स्त supplied by A3.

56.

--1) Thus A3; A1 ॰रेणोद्गच्छ॰.

58.

--1) Thus A3 with gloss सङ्ग्रामस्यापत्यं साङ्ग्रामिः; A1 सङ्ग्रामे.

63.

--1) Thus A3; A1 रिपुम॰.

68.

--1) A3 gloss यस्य देशस्य भूमेः वैपुल्यं.

72.

--1) पशोर supplied by A3 in space left by A1.

73.

--1) Emended; A राज्यो॰.

74.

--1) Thus A1; altered by later hand to भूभुजाम् which is found also in G R.

75.

--1) A3 gloss वयं देव्या पीतकोशः कृता इति स्मरणात्.

[page 108]




एकाक्येव सुपुत्रः स गोचरो नः कदाचन । KRT_7_0076ab
पतेद्यदि क्षणे तस्मिन्पश्यामः किं विदध्महे ॥ KRT_7_0076cd
अन्यथा ध्रुवमा1क्षिप्तो हन्यादस्मानसौ बलात् । KRT_7_0077ab
इति कालापहारार्थमुक्त्वाभूद्विरतो नृपः ॥ KRT_7_0077cd
तावन्मात्रं वचो बीजभूतं हृदि निधाय ते । KRT_7_0078ab
विधातुं तदवस्थत्वं तुङ्गस्यासन्कृतोद्यमाः ॥ KRT_7_0078cd
षण्मासाभ्यन्तरे तुङ्गो भूपेनाकारितो गृहात्1 KRT_7_0079ab
ससुतो निर्ययौ दृष्टदुःस्वप्नोपि विधेर्वशात् ॥ KRT_7_0079cd
स प्रविश्य नृपास्थानं स्थित्वा राज्ञोग्रतः क्षणम् । KRT_7_0080ab
पञ्चषैः सहितो भृत्यैः प्राविशन्मन्त्रमण्डपम् ॥ KRT_7_0080cd
पश्चात्प्रविष्टास्तत्रैनं पर्वशर्करकादयः । KRT_7_0081ab
अनुक्त्वापि महीपालं तुङ्गं शस्त्रैरपातयन् ॥ KRT_7_0081cd
मन्त्री महारथो नाम योभूच्छंकरवर्मणः । KRT_7_0082ab
तद्वंश्यस्तुङ्गभृत्येषु श्लाघ्यः सिंहरथः परम् ॥ KRT_7_0082cd
निःशस्त्रो यः क्षणे तस्मिन्परित्राणविधित्सया । KRT_7_0083ab
हृन्यमानस्य तुङ्गस्य पृष्ठे स्वं वपुरक्षिपत् ॥ KRT_7_0083cd
तुङ्गस्य प्रथमाघाते रुद्धः1 श्वासोभवद्भयात् । KRT_7_0084ab
राजा तस्मिन्निरुच्छ्वासे सोच्छ्वासः समपद्यत ॥ KRT_7_0084cd
आस्थानब्राह्मणस्यासीद्धर्मनाम्नः सुतोन्तिके । KRT_7_0085ab
यः पापकारी तुङ्गस्य पार्थः कङ्कश्च दुर्मतिः ॥ KRT_7_0085cd
ताभ्यामाशुचिरेकिभ्यां त्राणार्थं स्वाङ्गुलीमुखे । KRT_7_0086ab
क्षिपद्भ्यां पशुवत्तत्र शस्त्रं त्रासवशाज्जहे ॥ KRT_7_0086cd
अन्तरङ्गाश्च च1ङ्गाद्या येभूवंस्तुङ्गमन्त्रिणः । KRT_7_0087ab
तैः स्त्रीवदासितं तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥ KRT_7_0087cd
अज्ञाततुङ्गमृत्युभ्यस्तुमुले तत्र भूपतिः । KRT_7_0088ab
तद्भृत्येभ्यः शङ्कमानो वह्निदानाहवादिकम् ॥ KRT_7_0088cd
आश्वासाय स्वभृत्यानां छित्त्वा खड्गेन सत्वरम् । KRT_7_0089ab
पातयामास तुङ्गस्य ससुतस्य शिरो बहिः ॥ KRT_7_0089cd
दृष्ट्वा स्वामिशिरश्छिन्नं सैन्ये दैन्यात्पलयिते । KRT_7_0090ab
भृत्यतामुज्ज्वलीचक्रुः कतिचित्तुङ्गसेवकाः ॥ KRT_7_0090cd
भुजंगनामा सामन्तद्विजापत्यो गृहागतः । KRT_7_0091ab
संग्रामराजं विदधे गेहाद्गेहं पलायितम् ॥ KRT_7_0091cd
द्वारं कनकदण्डेन भञ्जन्नर्गलितं ततः1 KRT_7_0092ab
विंशतिं हतवान्योधान्स राजास्थानमण्डपे ॥ KRT_7_0092cd
कोशाधिकारी त्रैलोक्यराजनामा हतो रणे । KRT_7_0093ab
कय्यामन्तकधात्रेयो वीरोप्यभिनवाभिधः ॥ KRT_7_0093cd
अङ्गेन त्रिंशदेकाङ्गा वीरास्तुङ्गोपजीविनः । KRT_7_0094ab
श्रेणीं बबन्धुर्निहता निःश्रेणीं स्वर्गपद्धतेः ॥ KRT_7_0094cd
संग्रामं पद्मराजाख्यः कृत्वापि1 निःसृ2तोक्षतः । KRT_7_0095ab
स्वामिप्रमयदुःखाग्नितापं तीर्थाश्रयाज्जहौ । KRT_7_0095cd
अन्ये लोकद्वयत्रानमित्रं शस्त्रं रणाङ्गने । KRT_7_0096ab
संत्यजन्तो व्ययुज्यन्त यशसा जीवितेन च ॥ KRT_7_0096cd
चन्दाख्यः सुभटंमन्यो दैशिकश्चार्जुनाभिधः । KRT_7_0097ab
हेलाचक्रो डामरश्च त्यक्तशस्त्राः परैर्हताः ॥ KRT_7_0097cd
लोटितावसथस्तुङ्गो लुण्ठितश्रीर्महीभुजा । KRT_7_0098ab
आषाढशुक्लद्वादश्यां कथाशेषो व्यधीयत ॥ KRT_7_0098cd
निर्द्रोहवृत्तौ भूभर्त्रा तुङ्गे सतनये हते । KRT_7_0099ab
लब्धोदया व्यजृम्भन्त खलप्राया नृपास्पदे ॥ KRT_7_0099cd
राज्ञो मनः कलुषयन्गूढपैशुनकर्मणा । KRT_7_0100ab
यो भ्रातृभ्रातृ1सुतयोर्विपत्तौ हेतुतां गतः ॥ KRT_7_0100cd
स दुष्प्रवादनिर्दग्धो नागो निजकुलान्तकः । KRT_7_0101ab
तुङ्गभ्राता ततो राज्ञा कम्पनाधिपतिः कृतः ॥ युगलकम्॥ KRT_7_0101cd
भार्या कन्दर्पसिंहस्य क्षेमा परमचर्षणी1 KRT_7_0102ab
नागेन संगमं चक्रे रक्षसेवासितक्षपा2 KRT_7_0102cd
प्रशान्ते तुमुले बिम्बा चतुर्भिर्दिवसैः सती । KRT_7_0103ab
तुङ्गस्नुषा सुता शाहेः प्रविवेश हुताशनम् ॥ KRT_7_0103cd

77.

--1) Thus corr. by A3 from A1 ह्ययमा॰.

79.

--1) Thus corr. by A3 from A1 गृहान्.

84.

--1) Emended; A R G रुद्धश्वासो॰.

87.

--1) supplied by A3 in space left by A1.

92.

--1) Thus corr. by A3 from A1 रञ्जन्तेर्गलितं हतः.

95.

--1) Thus corr. by A3 from A1 ॰ख्य कृत्वा.

--2) A1 निस्सृतो; A3 निसृतो.

100.

--1) Thus corr. by A3 from A1 भ्रातृपुत्रसुत॰.

102.

--1) Emended; A ॰चर्षिणी.

--2) A3 gloss रक्षो हि रात्रौ चरति.

[page 109]




मम्मायाजवरुद्धायं कन्दर्पो1 यावज्जीवनत् । KRT_7_0104ab
पुत्रं विचित्रसिंहं च मातृसिंहं च विश्रुतौ ॥ KRT_7_0104cd
गृहीत्य्वा तौ स्नुषां तां च मङ्खना तुङ्गवल्लभा । KRT_7_0105ab
देशाद्विनिर्गता दीना राजपुर्यां स्थितिं व्यधात् ॥ युग्मम्1 KRT_7_0105cd
तुङ्गस्थाने ततो राज्ञा पापो भर्देश्वरः कृतः । KRT_7_0106ab
भूतेश्वरादिदेवानां चक्रे1 कोशादिलुण्ठनात् ॥ KRT_7_0106cd
कियद्विवेकवैल्यमस्य राज्ञः प्रकाश्यताम् । KRT_7_0107ab
तादृशानपि यश्चक्रे पार्थादीनधिकारिणः ॥ KRT_7_0107cd
पार्थः परमदुमेधाः ख्यातो भ्रातृकलत्रगः । KRT_7_0108ab
निर्विचारेण यत्तेन नगराधिकृतः कृतः ॥ KRT_7_0108cd
वधादिपापं पार्थेन सुकृतत्यक्तचेतसा । KRT_7_0109ab
पवित्रे प्रवरेशस्य रङ्गपीठे प्रवर्तितम् ॥ KRT_7_0109cd
चक्रे लुब्धस्य भूभर्तुर्मतङ्गः1 कृपणाग्रणीः । KRT_7_0110ab
सिंधोः सुतः कोशवृद्धिम् प्रजापीडनपण्डितः ॥ KRT_7_0110cd
पुरा देवमुखाख्यस्य दिविरस्य किलाजनि । KRT_7_0111ab
आपूलिकायां वेश्यायां पुत्रश्चन्द्रमुखाभिधः ॥ KRT_7_0111cd
यस्तुङ्गोपाश्रयाल्लब्ध्वा लालितत्वं महीपतेः । KRT_7_0112ab
वराटकात्प्रभृत्यासीत्कोटीनां कृतसंचयः ॥ KRT_7_0112cd
विभूतिमध्ये लुब्धस्य प्राभृताया1न्यढौकितैः । KRT_7_0113ab
अपूपैर्निजभृत्येषु विक्रयोभूत्कुलोचितः ॥ KRT_7_0113cd
प्रभूताग्निररोगश्च भूत्वा लब्धोदयः पुनः । KRT_7_0114ab
यो मन्दाग्निः सरोगश्च तिष्ठंल्लोकैर्व्यवहस्यत ॥ KRT_7_0114cd
एकमेवाभवद्यस्य सुकृतं मरणक्षने । KRT_7_0115ab
कोटोस्त्रिभागं यददाच्छ्रीरणेश्वरयोजने ॥ KRT_7_0115cd
तदात्मजाः कृताः नानभागनन्दिमुखास्त्रयः । KRT_7_0116ab
अधीशाः पृतनाङ्गस्य राज्ञा तुङ्गोपजीविनः ॥ KRT_7_0116cd
हास्यं बभूव भूभर्तुस्तेषां तुङ्गपदार्पणम्1 KRT_7_0117ab
बन्धनं यदकाण्डीनां हेमस्थाने शिशोरिव ॥ KRT_7_0117cd
ते तुरुष्काहवे राज्ञा क्षान्तिशीले च भूपतौ । KRT_7_0118ab
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ KRT_7_0118cd
इत्थं मन्त्रिष्वयोग्येषु क्षान्तिशीले च भूपतौ । KRT_7_0119ab
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ KRT_7_0119cd
सा लोठिकामठं कृत्वा लोठिका नृपतेः सुता । KRT_7_0120ab
तिलोत्तमाया विदधे मातुर्नाम्नापरं मठम् ॥ KRT_7_0120cd
पापिनामपि हन्तेयं कापि सत्कर्मवासना । KRT_7_0121ab
भद्रेश्वरोपि यच्चक्रे विहारं सुकृतोज्ज्वलम् ॥ KRT_7_0121cd
सत्यं विवेक्ता संग्रामराजो योन्याय्यतोर्जितम् । KRT_7_0122ab
निजं ब्रुवाणो द्रविणं प्रपामि न निर्ममे ॥ KRT_7_0122cd
श्रीलेखा पार्थिववधूः श्रीयशोमङ्गलात्मजा । KRT_7_0123ab
पत्यौ शिथिलसामर्थ्ये स्वैरिणीत्वमसेवत ॥ KRT_7_0123cd
सुतः सुगन्धिसीहस्य जयलक्ष्म्यां1 बभूव यः । KRT_7_0124ab
वल्लभो निर्भरं देव्याः सोस्यास्त्रिभुवनोभवत् ॥ KRT_7_0124cd
स जयाकरग1ञ्जादिगञ्जस्रष्टातितीक्ष्णधीः । KRT_7_0125ab
कोशोपकारकृत्तस्य जारोप्यासीज्जयाकरः ॥ KRT_7_0125cd
मयग्रामीण1गञ्जादिकर्त्री संचयत्परा । KRT_7_0126ab
साभूद्भर्तुः प्रसादेन सुभगा भूरिवैभवा ॥ KRT_7_0126cd
स चतुर्थसमाषाढप्रारम्भाहे महीपतिः । KRT_7_0127ab
हरिराजाभिधं पुत्रमभिषिच्यास्तमाययौ ॥ KRT_7_0127cd
सुमनः1सेवितः कुर्वन्नशेषाशा2प्रकाशनम् । KRT_7_0128ab
ह्लासा3वहः स सर्वस्य चैत्रोत्सव इवाभवत् ॥ KRT_7_0128cd
अमोघाज्ञेन तेनेमां निश्चौरां कुर्वता महीम् । KRT_7_0129ab
पण्यवीथ्यां1 निशीथिन्यां2 निषिद्धा द्वारसंवृतिः ॥ KRT_7_0129cd
अचिरस्थायिनी राज्ञस्तस्याज्ञाचिन्तितोन्न1तिः । KRT_7_0130ab
वन्द्या नवेन्दुलेखेव पार्थिवानामजायत ॥ KRT_7_0130cd

104.

--1) A3 gloss कन्द्र्पसिंहः.

105.

--1) युग्मम्. added by A3.

110.

--1) Emended with G C; A R भूभर्तुः सतङ्गः.

113.

--1) A3 gloss कोशलिकार्थं.

117.

--1) Thus A1; A3 ॰पदेर्पणम्.

124.

--1) Thus corr. by A3 from A1 ॰लक्ष्मीं.

125.

126.

--1) Thus words from गञ्जादिगञ्जस्रष्टा॰ to मयग्रामीण in the following verse have been omitted by A1 and supplied in margin by A3; they are found in G R.

128.

--1) A3 gloss पण्डितैः पुपैश्च.

--2) A3 gloss आकाङ्क्षा दिशश्च.

--2) A3 gloss शैत्यं तोषश्च.

129.

--1) Thus corr. by A3 from A1 पुण्यबोध्यां and निषीथिन्यां.

130.

--1) Thus A3; A1 ॰ज्ञाचिन्तनोन्नतिः.

[page 110]




द्वाविंशतिमहान्युर्वीं स सक्षित्वा क्षमापतिः । KRT_7_0131ab
क्षयं ययौ शुचियशाः शुचिशुक्लाष्टमीदिने ॥ KRT_7_0131cd
प्राणिनं द्योतमानानां नक्षत्राणामिव क्षणात् । KRT_7_0132ab
लक्ष्मीर्ग्रीष्मक्षपेवेयं संगता भङ्गदायिनी ॥ KRT_7_0132cd
समन्योः स्वैरिणीवृत्तिः सुतस्य जननी निजा । KRT_7_0133ab
अभिचारं चकारास्येत्यविगाना1 जनश्रुतिः ॥ KRT_7_0133cd
राज्योपकरणे सज्जीकृते राज्यार्थिनी स्वयम् । KRT_7_0134ab
सा राजमाता श्लीलेखा यावत्स्नात्वा समागता ॥ KRT_7_0134cd
मिलितैस्तावदेकाङ्गैर्भ्रात्रा धात्रेयकेण च । KRT_7_0135ab
सागराख्येन तत्पु1त्रो बालोनन्तो नृपः कृतः ॥ युग्मम्॥ KRT_7_0135cd
निधिं1 जिघृक्षोरन्येन हृते तत्र प्रमापणम् । KRT_7_0136ab
तद्रक्षिणोर्हैर्लुब्धस्य पापायैव यथा किल ॥ KRT_7_0136cd
राजमातुस्तथा राज्यलुब्धायाः पुत्रनाशनम् । KRT_7_0137ab
अभूदन्यहृते राज्ये वृजिनायैव केवलम् ॥ युग्मम्॥ KRT_7_0137cd
सा राज्यविप्रलम्भेन तादृशा व्यथिताशया । KRT_7_0138ab
व्यस्मरत्तनयस्नेहं धिग्भोगाभ्यासवासनाम् ॥ KRT_7_0138cd
अथाजगाम स्थविरः पितृव्यो बालभूपतेः । KRT_7_0139ab
राज्यं विग्रहराजाख्यो हर्तुं1 विततविक्रमः ॥ KRT_7_0139cd
स लोहरात्प्रचलितो दग्ध्वा द्वारमतर्कितः । KRT_7_0140ab
दिनद्वयेन सार्धेन नगरं सत्वरोविशत् ॥ KRT_7_0140cd
श्रीलेखाप्रेरिताः सेनाः प्रविष्टं1 लोटिकामठम् । KRT_7_0141ab
उद्दीपिताग्नयस्ततर निजघ्नुस्तं सहानुगम् ॥ KRT_7_0141cd
मठद्वयं ततः कृत्वा स्वस्य भर्तुः सुतस्य च । KRT_7_0142ab
तस्थौ व्ययवती राज्ञी राज्यद्रोहोद्यतानिशम् ॥ KRT_7_0142cd
ततो नरपतिः किंचिच्छनैः शिथिलशैशवः । KRT_7_0143ab
अतिव्ययादिव्यसनी गर्भेश्वरतयाभवत् ॥ KRT_7_0143cd
तस्यासन्रुद्रपालाद्याः शाहिपुत्राः परं प्रियाः । KRT_7_0144ab
अनल्पवेतानादानै राज्योत्पत्त्यपहारिणः ॥ KRT_7_0144cd
कृतप्रत्यहनिर्वाहः सार्धलक्षेण भूभुजा । KRT_7_0145ab
रुद्रपालो दरिद्रत्वं कदाचिदपि नात्यजत् ॥ KRT_7_0145cd
दिद्दापालः क्षमापाललब्धया प्र्तिवासरम् । KRT_7_0146ab
सहस्राणामशीत्यापि शेते स्व न सुखं निशि ॥ KRT_7_0146cd
अनङ्गपालवेतालश्चक्रे क्ष्मापाललालितः । KRT_7_0147ab
शश्वत्सुवर्णगीर्वाणप्रतिमापाटने1 मनः ॥ KRT_7_0147cd
रुद्रपालः परिव्राता धनप्राणादिहारिणाम् । KRT_7_0148ab
बभूव चौरचण्डालप्रायाणां वज्रपञ्चरः ॥ KRT_7_0148cd
कायस्था रुद्रपालाप्ताः प्रजानां पीडनं व्यधुः । KRT_7_0149ab
चकारान्धमठं श्रीमानुत्पलाख्यो यदग्रणीः ॥ KRT_7_0149cd
कियद्भूपालवाल्लभ्यमन्यत्तस्याभिधीयताम् । KRT_7_0150ab
जालन्धराधिप1स्येन्दुचन्द्रस्येन्दुमुखीं सुताम् ॥ KRT_7_0150cd
उपयेमे मनोज्ञत्वाज्ज्येष्ठामास1मतिं स्वयम् । KRT_7_0151ab
यया मठः स्वाभिधया विदधे त्रिपुरेश्वरे ॥ KRT_7_0151cd
तस्याः किंचिद्वयो1न्यूनां स्वसारं यो यवीयसीम् । KRT_7_0152ab
अथ सूर्यमतीं देवीं भूभ्जे परिणीतवान् ॥ KRT_7_0152cd
रुद्रेण भूपतिः सख्या स कर्णसुखदायिना । KRT_7_0153ab
पात्रीकृतो दुर्नयानां कर्णेनेव सुयोधनः ॥ KRT_7_0153cd
कम्पनाधिपतिस्तत्र क्षणे त्रिभुवनो बली । KRT_7_0154ab
आययौ भूपतेर्हर्तुं राज्यं संभृतडामरः ॥ KRT_7_0154cd
आकृष्टाशेषकटके तस्मिन्योद्धुमुपागते । KRT_7_0155ab
एकाङ्गाः सहयारोहा राजपक्षं न तत्यजुः ॥ KRT_7_0155cd
असिना लङ्घयन्प्रासानमोघाञ्श्लाव्यविक्रमः । KRT_7_0156ab
प्रजहारानन्तदेवः स्वयं त्रिभुवनं रणे ॥ KRT_7_0156cd
संनाहरक्षिताद्गः स दृढप्रहृतिपीडितः । KRT_7_0157ab
विदद्रौ1 वदनेनासृक्स्वप्रतापमिवोद्वमन् ॥ KRT_7_0157cd
विनयच्छन्नशौटीर्य1ः शिशुप्राaय2ः स भूपतिः । KRT_7_0158ab
दृष्ट्वा बलमसंभाव्यं तस्मिंस्त्यक्त्वा रणं गते ॥ KRT_7_0158cd

133.

--1) त्यविगाता supplied by A3 in space left by A1.

135.,

--1) A4 gloss तस्या अपरः पुत्रः.

136.

--1) Thus A3; A1 रत्नं.

139.

--1) Thus A R; G C हन्तुं.

141.

--1) Thus corr. by A3 from A1 प्रविष्टो.

147.

--1) Thus corr. by A3 from A1 ॰मापटले.

150.

--1) supplied by A3.

151.

--1) मास supplied by A3 in space left by A1.

152.

--1) Thus A1; A3 किंचिदिव.

157.

--1) A3 gloss चचाल.

158.

--1) A3 gloss शौटीर्यं अभिमानः प्रागल्भ्यं वा.

--2) A3 gloss शिशुसदृशः.

[page 111]




शमालाडामरं घ्नन्तं प्रासैरभिनवाभिधम् । KRT_7_0159ab
शालास्थले व्यधाच्छ्लूव्यविक्रमो मोघविक्रमम्1 KRT_7_0159cd
मांसासृग्वेष्टनाद्यष्टीभूतखड्गो भ्रमन्त्रणे । KRT_7_0160ab
भुवनक्षोभकृदभूद्भैरवोनन्तभूपतिः ॥ KRT_7_0160cd
पश्यन्प्रहारलूनाङ्गानेकाङ्गान्स पदे पदे । KRT_7_0161ab
निवेद्यमानानग्रस्यैर्नामग्रहणपूर्वकम् ॥ KRT_7_0161cd
क्षितिभृज्जातदाक्षिण्यो विलब्धिस्थावेरे ततः । KRT_7_0162ab
चाञ्चल्यमक्षपटलादेकाङ्गानां न्यवारयत् ॥ युग्मम्॥ KRT_7_0162cd
एवं तत्र कृतज्ञेन भृत्येभ्यः प्रतिपादिता । KRT_7_0163ab
विलब्धिस्तेन दीन्नारकोटिषण्नवतेः क्रमात् ॥ युग्मम्॥ KRT_7_0163cd
राज्ञो रणान्निवृत्तस्य दुग्धसेकैः करात्त्सर्रुः । KRT_7_0164ab
स्थिरग्रहदृढः कृष्टश्चिरेणेति जनश्रुतिः ॥ KRT_7_0164cd
अहो महत्त्वं भूभर्तुर्दिनो देशान्तरागतः । KRT_7_0165ab
तादृक्त्रिभुवनो येन संविभेजे विमन्युना ॥ KRT_7_0165cd
ब्रह्मराजाभिधस्तेन बन्धुर्गञ्जाधिपः कृत1ः । KRT_7_0166ab
रुद्रपालकृतद्वेषो विरक्तश्चलितो ययौ ॥ KRT_7_0166cd
सप्तभिर्म्लेच्छभूपालैः समं मिलितडामरः । KRT_7_0167ab
तेना1नीतो दरद्राजो यत्नादचलमङ्गल2ः ॥ KRT_7_0167cd
क्षीरपृष्टा1भिधं ग्रामं प्राप्तस्य समरोत्सुकः । KRT_7_0168ab
तस्याग्रं विक्रमोदग्रो रुद्रपालो विनिर्ययौ ॥ KRT_7_0168cd
श्वो व्यवस्थापिते युद्धे सैन्याभ्यां दरदीश्वरः । KRT_7_0169ab
क्रीडन्पिण्डारकाख्यस्य नागस्य भवनं ययौ ॥ KRT_7_0169cd
दुर्नयाचरणात्तत्र पार्श्वस्थैर्वारितोपि सः । KRT_7_0170ab
प्लवमानस्य मत्स्यस्य गात्रे कुन्तमपातयत् ॥ KRT_7_0170cd
अथोज्जगाम गोमायुवपुः कुण्डाद्भुजंगमः । KRT_7_0171ab
स च तं मृगयौत्सुक्यादधावद्दरदीश्वरः ॥ KRT_7_0171cd
तमापतन्तमालोक्य व्यवस्थोन्मूलनं विदत्1 KRT_7_0172ab
आस्कन्दाशङ्कि भूभर्तुः सैन्यं युद्धाय निर्ययौ ॥ KRT_7_0172cd
अभूत्ततोस्त्रसंघर्षसंजातानलसंहतिः । KRT_7_0173ab
कृतस्वर्गाङ्गनोद्बाहो वीराणां समरोत्सवः ॥ KRT_7_0173cd
तस्मिन्महाभटाटोपे शिरश्छिन्नं दरत्पतेः । KRT_7_0174ab
रुद्रस्य रौद्रमहसः संप्ररूढं यशः पुनः ॥ KRT_7_0174cd
समरे वधबन्धादि म्लेच्छराजाः प्रपेदिरेव् । KRT_7_0175ab
संप्राप हेमरत्नादि पुनः कश्मीरभूपतिः ॥ KRT_7_0175cd
1त्तंसमुक्ताद्योताम्भःक्षालितास्रझलज्झलम्2 KRT_7_0176ab
रुद्रपालो दरद्राजशिरो भर्तुरुपानयत्3 KRT_7_0176cd
भ्रात्रोदयनवत्सेन कृतप्रायैस्तथा द्विजैः । KRT_7_0177ab
बह्यश्चैवं1विधास्तस्य बभूवुरव्वदालिकाः ॥ KRT_7_0177cd
रुद्रपाले ततो लूतामयेन प्रमयं गते । KRT_7_0178ab
अन्येपि शाहिततनयाः क्षिप्रमेव क्षयं ययुः ॥ KRT_7_0178cd
पालस्नेहान्ध्यविगमे शुद्धाशयजुषोभवत् । KRT_7_0179ab
देवी सूर्यमती भर्तुर्दर्पणस्येव बिम्बिता ॥ KRT_7_0179cd
सुभटापरनामा सा गौरीश्वरविधायिनी । KRT_7_0180ab
पुण्यं वितस्तापुलिने निर्ममे सुभटामठम् ॥ KRT_7_0180cd
गोहेमहयरत्नादिप्रदानैः सुबहून्द्विजान् । KRT_7_0181ab
सदाशिवप्रतिष्ठायामदरिद्रांश्चकार सा ॥ KRT_7_0181cd
आशाचन्द्रापराख्यस्य कल्लनस्यानुजन्मनः । KRT_7_0182ab
नाम्ना व्यधापि वात्सल्यात्साग्रहारो मठस्तया ॥ KRT_7_0182cd
सिल्लनाख्यस्य च भ्रातुर्भर्तुश्चाभिधया सती । KRT_7_0183ab
मटौ चाकारयत्पार्श्वे विजयेशामरेशयोः ॥ KRT_7_0183cd
अष्टोत्तरं चाग्रहारशतं श्रीविजयेश्वरे । KRT_7_0184ab
ब्राह्मेभ्यो महापुण्यं विद्वद्भ्यः प्रत्यपादयत् ॥ KRT_7_0184cd
पत्युर्नाम्नाप्यग्रहारान्प्रददावमरेश्वरे । KRT_7_0185ab
त्रिशूलबाणलिङ्गादिप्रतिष्ठाश्च विनिर्ममे ॥ KRT_7_0185cd

159.

--1) Thus corr. by A3 from A1 मोघवक्रियम्.

162.

--1) Supplied by A3.

166.

--1) Emended with G C; A कृपः.

167.

--1) A3 gloss ब्रह्मराजेन.

--2) दचलमङ्गलः supplied by A3 in space left by A1; A3 gloss नाम.

168.

--1) Thus A1; A3 स्यरपृष्ठा॰, with gloss स्वरोद् इति ग्रामः क्रमराज्ये.

172.

--1) Emended; A विदन्.

176.

--1) A3 gloss उत्तंसभूताः या मुक्ताः कुम्तामणयः तासां यो द्योतः दीप्तिः स एवाम्भः तेन क्षालिता अस्रस्य रुधिरस्य झलज्झलाकाचकच्यं प्रकाशः स्फार इति यावत् यस्य तत् इति शिरोविशेषणम् । झलज्झला नु शोभायामिति कोशः मुक्ताफलदीप्तेरतिशुक्लत्वादम्भस्त्वेन रूपणम् । जलस्य हि शुक्लं रूपमिति वैशेषिकाः ॥.

--2) Thus corr. by A3 from A1 झलज्जलम्.

--2) Thus corr. by A3 from A1 ॰रुपायनम्.

177.

--1) Thus A3; A1 तथा ह्येवं॰.

[page 112]




दंपती राजराजाख्ये मृते पुत्रे प्रचक्रतुः । KRT_7_0186ab
सदाशिवान्तिके राजवेश्म संत्यज्य तौ स्थितिम् ॥ KRT_7_0186cd
ततः प्रभृति संत्यज्य पूर्वरागकुलस्थितिम् । KRT_7_0187ab
तथैव रूढ्या1 भूपालास्तत्रैव वसतीर्व्यधुः ॥ KRT_7_0187cd
पार्थिवस्याश्वशालीयाः प्रियवाजितया प्रियाः । KRT_7_0188ab
प्रसादैर्देशलुण्ठ्या1 च सर्वतः समतां ययुः ॥ KRT_7_0188cd
गर्भेश्वरतया भर्तुर्वल्लभो नर्मकोविदः । KRT_7_0189ab
अलुण्ठयत्प्रजा नित्यं डल्लको नाम दैशिकः ॥ KRT_7_0189cd
मालवाधिपतिर्भोज1ः प्रहितैः स्वर्णसंचयैः । KRT_7_0190ab
अकारयद्येन कुण्डयोजनं कपटेश्वरे ॥ KRT_7_0190cd
प्रतिज्ञा भोजराजेन पापसूदनतीर्थजैः । KRT_7_0191ab
सततं वदनस्नाने या तोयैर्विहिताभवत् ॥ KRT_7_0191cd
अपूरयत्तस्य यस्तां1 दुस्तरां नियमादितः । KRT_7_0192ab
प्रहितैः काच2कलशीकु3लैस्तद्वारिपूरितैः ॥ KRT_7_0192cd
स तस्य पद्मराजाख्यः पर्णप्राप्तिक1दैशिकः । KRT_7_0193ab
प्रियताम्बूलशीलस्य त्यागिनो वल्लभोभवत् ॥ चक्कलकम्॥ KRT_7_0193cd
तेन नागरखण्डादिपर्णविक्रयिणा नृपः । KRT_7_0194ab
देशोत्पत्तिधनं प्रायो निःशेषं दापितस्तदा ॥ KRT_7_0194cd
पञ्चचन्द्रकशोभाङ्कमैलिसिंहासस्ने1 नृपात् । KRT_7_0195ab
बन्धायादत्त लब्धव्ये धने स धनिकोधिके ॥ KRT_7_0195cd
तद्राजचिह्नमास्थानोपयुक्तं तस्य मन्दिरात् । KRT_7_0196ab
आनीयमानं मासा2र्धवासरे मासि मास्यभूत् ॥ KRT_7_0196cd
स्वकोशसंचयं दत्त्वा देवी सूर्यमती ततः । KRT_7_0197ab
पद्मराजोद्भवां देशस्याव्यवथां न्यवारयत् ॥ KRT_7_0197cd
शमितो चाश्वशालीयडल्लकादिभये तदा । KRT_7_0198ab
प्रावर्तन्त पुनर्देशे व्यवस्था नुरुपद्भवाः ॥ KRT_7_0198cd
ततः प्रभृति राज्ञ्येव राजकार्योद्यताभवत् । KRT_7_0199ab
तस्थौ शौर्यकथां त्यक्त्वा राजा कार्यकरः पुनः ॥ KRT_7_0199cd
भर्तुर्नारीविधेयत्वं तस्या भर्तृजयस्तथा । KRT_7_0200ab
निष्कलङ्केन शीलेन1 नान्योन्यं गर्ह्यता2मगात् ॥ KRT_7_0200cd
भवभक्तिव्रतस्नान1त्यागशीलादिभिर्गुणैः । KRT_7_0201ab
कृतिनानन्तदेवेन मुनयोपि विनिर्जिताः ॥ KRT_7_0201cd
राज्ये तस्य महीभर्तुर्दीर्घे तांस्तानलङ्घयत् । KRT_7_0202ab
पतिंवरेव राजश्रीर्भृत्यान्नवनवोन्म्खी ॥ KRT_7_0202cd
क्षेमाभिधो राजगञ्जपूरणं बालभञ्जक2ः । KRT_7_0203ab
व्यधाद्द्वादशभागादिप्रकारैर्ढौकयन्धनम् ॥ KRT_7_0203cd
मन्त्री ततोभवत्साधुस्त्रैगर्तः केशवो1 द्विजः । KRT_7_0204ab
सौधश्चन्द्रातपेनेव भूपालो येन भूषितः ॥ KRT_7_0204cd
भ्राम्यन्गतश्रीरेकाकि स एव ददृशे जनैः । KRT_7_0205ab
भाग्याम्बुवाहतडितो निविडाः कस्य संपदः ॥ युगमम्॥ KRT_7_0205cd
भाग्याधीनं धनं ध्यात्वा मुधा मुग्धधियामसौ । KRT_7_0206ab
कुलविक्रमयोर्दर्पो मिथ्यैव पृथुतां प्रति ॥ KRT_7_0206cd
प्रासादपालवैश्यस्य गौरीशत्रिदशालये । KRT_7_0207ab
भूतेर्ह1लधरो वज्रो वराहश्चाभवन्सुताः ॥ KRT_7_0207cd
तेभ्यो हलधरः सूर्यमत्या विहितसेवनः । KRT_7_0208ab
वृद्धिं दिने दिने गच्छंल्लेभे सर्वाधिकारिताम् ॥ KRT_7_0208cd
विधेयान्बुद्धियुक्तेन1 कुर्वतः क्षित्यनन्तरान्2 KRT_7_0209ab
सपत्नीकोभवत्तस्य मुखप्रेक्षी क्षमापतिः ॥ KRT_7_0209cd
क्षेमेन सूत्रितं पूर्वं सपादाग्रमुदग्रधीः । KRT_7_0210ab
कर्मस्थानं स्फुटीचक्रे सर्वस्थान1धुरंधरम् ॥ KRT_7_0210cd
अभूद्वर्णकमूल्यादिलेखनं कनकस्य यत् । KRT_7_0211ab
राजायत्तं जनस्यार्थसंचयानां प्रकाशकम् ॥ KRT_7_0211cd
स तन्निवारयामास भाविनां भूभुजां विदन् । KRT_7_0212ab
ज्ञानी1 संचितवित्तस्य दण्डाद्यायासकारिताम् ॥ KRT_7_0212cd

187.

--1) Thus corr. by A3 from A1 रूढा.

188.

--1) Thus corr. by A3 from A1 ॰लुण्ठा.

190.

--1) Thus corr. by later hand from A1 ॰भोंजैः.

192.

--1) A3 gloss प्रतिज्ञां.

--2) Thus corr. by later hand from A1 प्रहितै काशक॰.

--3) A3 gloss शेष इति भाषया.

193.

--1) A3 gloss ग्रामविशेषः.

195.

--1) Thus corr. by later hand from A1 ॰सनं.

196.

--1) र्घ supplied by A3 in space left by A1.

200.

--1) Thus corr. by later hand from A1 शीलेना.

--2) Thus corr. by A3 from A1 गुह्यता॰/

201.

--1) Thus corr. by A3 from A1 ॰स्थान॰.

203.

--1) A3 gloss नापितः.

204.

--1) Thus corr. by later hand from A1 कैशवो.

207.

--1) Thus A1; A3 भूत्रिह॰.

209.

--1) Thus A1; A3 ॰शुद्धेन.

--2) Thus corr. by A3 from A1 ॰न्म्तरम्.

210.

--1) Thus A1; A3 सर्वकार्यधु॰.

212.

--1) Thus A3; A1 ज्ञाने.

[page 113]




भर्तिसितानश्वशालीयान्धनदारापहारिणः । KRT_7_0213ab
कांशिद्व्यापाद्य स शमं निन्ये लोकस्य विप्लवम् ॥ KRT_7_0213cd
तेनायासहृता नीतः कचत्स्व1र्णैः सुरास्पदैः । KRT_7_0214ab
शोभां मठाग्रहारैश्च वितस्तासिन्धुसंगमः ॥ KRT_7_0214cd
भ्रातरश्च सुताश्चास्य लक्ष्मीपरिचयोन्मदाः । KRT_7_0215ab
द्विरदा इव न क्वापि दानप्रणयितां जदुः ॥ KRT_7_0215cd
तद्भ्रातृपुत्रो बिम्बाख्यः श्रीमान्वीरो वराहजः । KRT_7_0216ab
द्वाराधिकारकार्यासीद्दानप्रलयवारिदः ॥ KRT_7_0216cd
स डामरकुलाकालमृत्युः स्वल्पानुगमोभवन्1 KRT_7_0217ab
स्वशाहदे जहौ3 प्राणान्पलायनपराङ्मुखः ॥ KRT_7_0217cd
चम्पायां सालभूपालमुन्मूल्यानन्तभूपतिः । KRT_7_0218ab
तत्तन्नृपजयी नव्यं धराधवमरोपयत् ॥ KRT_7_0218cd
मन्त्रशून्येन शौर्येण परदेशेषु भूपतिः । KRT_7_0219ab
हठप्रवेशान्विदधत्सोभूत्कृच्छ्रगतोसकृत् ॥ KRT_7_0219cd
तुक्का1त्मजस्य कलशस्यारब्धौ खिन्नसैनिकम् । KRT_7_0220ab
अमोचयद्धलधरो युक्त्या वल्लापुरादमुम् ॥ KRT_7_0220cd
उरशां च प्रविष्टस्य वैरिरुद्धाध्वनो व्यधात् । KRT_7_0221ab
कम्पनाधिपतिस्तस्य मार्गान्सं1शोध्य निर्गमम् ॥ KRT_7_0221cd
कालेनन्तमहीभर्तुर्वैरिविग्रहसंकटे । KRT_7_0222ab
साहसान्युदजृम्भन्त तानि तानि क्षणे क्षणे ॥ KRT_7_0222cd
राजेश्वरो द्वारपतिः श्रीमान्भद्रेश्वरात्मजः । KRT_7_0223ab
डामरैः निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ KRT_7_0223cd
वीक्ष्य बूतुदृशा कार्यं भीत्या व्यवहरन्नपि । KRT_7_0224ab
भृत्यतां निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ KRT_7_0224cd
दुष्प्रवादास्पदीभूतो देव्या निविडसेवनात् । KRT_7_0225ab
आशाचन्द्रादिभिः क्रुद्धैर्बद्धो हलधरोप्यभूत् ॥ KRT_7_0225cd
स राज्ञा हृतसर्वस्वो बन्धनक्लेशमन्वभूत् । KRT_7_0226ab
भाग्यप्रभावे निःसारे मुखमेकान्ततः कुतः ॥ KRT_7_0226cd
नृपेण बन्धनात्त्यक्तं तं श्रीः प्रत्यागता पुनः । KRT_7_0227ab
आलिलिङ्ग सितच्छत्रलज्जास्मितसितानना ॥ KRT_7_0227cd
स राज्ञ्याः प्रावृष इव प्रणयेन क्षणे क्षणे । KRT_7_0228ab
कोपप्रसादमेघार्कपर्यायापातमन्वभूत् ॥ KRT_7_0228cd
ततः सरलचित्तस्य क्रमेण समपद्यत । KRT_7_0229ab
भार्याजितत्वं भूभर्तुर्दुर्विपाकार्पणोन्मुखम् ॥ KRT_7_0229cd
अधिकारपरित्यागाद्दोषाननुशयावहान् । KRT_7_0230ab
वदद्भिर्वार्यमाणोपि प्राज्ञैर्हलधरादिभिः ॥ KRT_7_0230cd
पत्न्या संप्रेरितः शश्वत्तनयस्नेहमूढया । KRT_7_0231ab
पुत्राय कलशायाभूद्राज्यं दातुं समुद्यतः ॥ KRT_7_0231cd
यास्यस्यनुशयं राजन्नेवंवाद्यपि कारितः । KRT_7_0232ab
सज्जं1 तेन रणादित्यनामा क्षत्ताभिषेचनम्2 KRT_7_0232cd
एकान्नचत्वारिंशस्य वर्षस्य तनय1ः सिते । KRT_7_0233ab
षष्ठेह्नि बाहुलस्या2भूदभिषिक्तो महीभुजा ॥ KRT_7_0233cd
अथास्थाने रणादित्यो राजपुत्रान्निवेशयन् । KRT_7_0234ab
चिन्तयन्राज्यमाहात्म्यं प्रतिप1त्तिषु निष्ठुरः ॥ KRT_7_0234cd
अनन्तो राजपुत्रोयं देवेति कथयन्वचः । KRT_7_0235ab
कृकाटिकान्यस्तहस्तः क्षितिपालं न्यवेदयत् ॥ KRT_7_0235cd
कुपितेन स भूभर्त्रा परिवृत्यावलोकितः । KRT_7_0236ab
एवं कृतस्मितो व्यक्तं तमूचे नीतिनिष्ठुरः ॥ KRT_7_0236cd
इत्थं यत्र निवेद्यन्ते कान्यकुब्जादिभूभुजः । KRT_7_0237ab
तत्रैव व्यक्तराज्यस्य कान्यास्तु प्रक्रिया तव ॥ KRT_7_0237cd
दिने दिने सानुशयो नियतं भविता भवान् । KRT_7_0238ab
नाभिमानपरित्यागः कर्तुं शक्यो मुनेरपि ॥ KRT_7_0238cd
सुदूरदर्शिनां तत्र मन्त्रिणां हृदयंगमम् । KRT_7_0239ab
राजा तस्य वचः श्रुत्वा प्रतिवाक्याक्षमोभवत् ॥ KRT_7_0239cd
दृष्ट्वान्येद्युर्नवं भूपं राजचक्रेण सेवितम् । KRT_7_0240ab
नवेतरं च सहितं परिमेयैः परिच्छदैः ॥ KRT_7_0240cd

214.

--1) Thus corr. by A3 from A1 कश्चित्स्व॰; A3 gloss क्चत् देदीप्यमानं स्वर्णं येषां तैः.

217.

--1) Thus corr. by A3 from A1 ॰भवत्.

--2) Thus A3; A1 जहत्.

220.

--1) तुक्का supplied by A3 in space left by A1.

221.

--1) Thus corr. by A3 from A1 मार्गात्सं॰.

232.

--1) सज्जं supplied by A3 in space left by A1.

--2) A3 gloss तेनानन्तदेवेन रणादित्यनामा क्षत्ता प्रतीहारः अभिषेचनं सज्जं कारित इत्यन्वयः कथं भूतः एवंवादी अपि.

233.

--1) A2 gloss कलशः.

--2) Thus corr. by later hand from A1 बहु॰; A2 gloss कार्तिकस्य.

234.

--1) supplied by A2.

[page 114]




धीमान्हरधरो युक्त्या कृतासूयया नqपम् । KRT_7_0241ab
एवं निर्भर्त्सयंल्लक्षीं तं प्रत्याजीहरत्पुनः ॥ KRT_7_0241cd
विधाय निःसुखं सूनुं राज्यभारार्पणाच्छिशुम् । KRT_7_0242ab
कस्मात्स्वसुखसपेक्षो न जिह्रेष्यनत्र वार्द्धके ॥ KRT_7_0242cd
तत्स्वयं राजकार्याणां कार्यमुद्वहनं त्वया । KRT_7_0243ab
अशून्यो यौवनाभोगैरयमस्तु सुतस्तव ॥ KRT_7_0243cd
इत्युक्त्वा स पुनर्भूपमधिकारमजिग्रहत् । KRT_7_0244ab
चक्रे कलशदेवं च कलया युक्तिवञ्चितम् ॥ KRT_7_0244cd
पित्रोरेवान्तिके कुर्वन्नाहाराद्यपि संततम् । KRT_7_0245ab
ततो बभूव कलशो नाममात्रमहीपतिः ॥ KRT_7_0245cd
सर्वास्थानास्त्रपूजीदिविधाने पार्थिवोचिते । KRT_7_0246ab
पितुः सहायकल्पः स पौरोहित्यमिवाकरोत् ॥ KRT_7_0246cd
अनिमित्तप्रहृड्टानामनिमित्तानुतापिनाम् । KRT_7_0247ab
न क्वापि चलचित्तानां तिरश्चामिव निश्चयः ॥ KRT_7_0247cd
दापयित्वा पतिं राज्यं निर्बन्धेनापि तावता । KRT_7_0248ab
सूनौ बभूव यद्राज्ञी विप्रेमेवा1नुतापिनी ॥ KRT_7_0248cd
सेर्ष्या स्नुषाणामुत्कर्षं पार्थिवप्रमदोचितम् । KRT_7_0249ab
वेषालंकरणादौ सा रूक्षचित्ता न चक्षमे ॥ KRT_7_0249cd
दासीकृत्यं तया पुत्रमहिष्यः कारिताः सदा । KRT_7_0250ab
गृहोपलेपने यावन्न वैमुख्यमदर्शयन् ॥ KRT_7_0250cd
पुत्रो विग्रहराजस्य क्षितिराजाभिधस्ततः । KRT_7_0251ab
राज्ञ1ः पितृव्यजो भ्राता कदाचित्पार्श्वमाययौ ॥ KRT_7_0251cd
तस्मै न्यवेदयत्खेदं स चित्तस्योपतापकम् । KRT_7_0252ab
पुत्रे भुवनराजाख्ये राज्यल्ब्धेतिविप्लुते ॥ KRT_7_0252cd
स हि तस्यात्मजो नीलपुराराज्यं1 समाश्रितः । KRT_7_0253ab
तद्बलैः पितुरारब्धिं2 विधातुं सोद्यमोभवत् ॥ KRT_7_0253cd
नाम भागवतानां च पूज्यानां स्वपितुर्व्यधात् । KRT_7_0254ab
दत्त1यज्ञोपवीतानां शुनामशुचिमानसः ॥ KRT_7_0254cd
क्षितिराजः स्ववध्वां च विरुद्धायां विशुद्धधीः । KRT_7_0255ab
मनस्तापापहे चक्रे सर्वत्यागामृते स्पृहाम् ॥ KRT_7_0255cd
राज्यं कलशपुत्राय ज्येष्ठानन्तरजन्मने1 KRT_7_0256ab
रामलेखाभिधानायां राज्ञ्यां जाताय सत्वरम् ॥ KRT_7_0256cd
दत्त्वा स्तनंधयायापि तदोत्कर्षाभिधाय सः । KRT_7_0257ab
राजर्षिर्विबुधैः सार्धं विदधे तीर्थसेवनम् ॥ KRT_7_0257cd
भुक्त्वा शमसुखं भूरीन्वर्षान्परमवैष्णवः । KRT_7_0258ab
स चक्रायुधसायुज्यं ययौ चक्रधरे सुधीः ॥ KRT_7_0258cd
1 च भोजनरेन्द्र2श्च दानोत्कर्षेण विश्रुतौ । KRT_7_0259ab
सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ । KRT_7_0259cd
पितु1ः पितृव्यजाद्धा2तुर्जातस्या3नन्तभूभुजा । KRT_7_0260ab
तन्वङ्ग4राजस्योत्सङ्गे नप्ता5 न्यासीकृतः शिशुः ॥ KRT_7_0260cd
तन्वङ्गोपि विवृद्धिं तन्नीत्वा राष्ट्रं शिशुं च तम् । KRT_7_0261ab
पुनः प्रविष्टः कश्मीरानस्तं चक्रधरे ययौ ॥ KRT_7_0261cd
सर्वसाधारणीभूतभोगानां राजवीजिनाम् । KRT_7_0262ab
तावज्ञातेयमभवन्नेहा द्रोहकलङ्कितम् ॥ KRT_7_0262cd
इन्दुराजात्मजात्सिद्धराजो यो बुद्धराजतः । KRT_7_0263ab
जातो मदनराजाख्यं वीरं पुत्रमजीजनत् ॥ KRT_7_0263cd
1त्युत्सिक्तः सुतस्तस्य दर2न्नृपतिमण्डलात् । KRT_7_0264ab
विधुरे राज्ञि निर्यातः शौर्योद्रेकादखण्डितः ॥ KRT_7_0264cd
तदानीं जिन्दुराजाख्यो डामरोद्रेकखिन्नया । KRT_7_0265ab
राज्ञ्या स्वयं गृहं नीत्वा1 साचिव्यं ग्राहितोभवत् ॥ KRT_7_0265cd
काणः शोभाभिधस्तेन गाढोद्वेगावहः प्रभोः । KRT_7_0266ab
देग्राम1स्थो डामरोथ दत्त्वास्कन्दं निपातितः ॥ KRT_7_0266cd
:म्
ँ 248>.
--1) अँ2 ग्लोसस् ँ विप्रेमा निस्स्नेहा>;् अँ3 ँ क्षिप्रमेवानुतापिनी इत्यन्यादर्शे>.
ँ 251>.
--1) ँ ज्ञः> सुप्प्लिeद् बय् अँ3 इन् स्पचे लेFत् बय् अँ1.
ँ 253>.
--1) ठुस् अँ1;् अँ3 ँ नीलपूरराजं>.
--2) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ ॰रालब्धिं>;् अँ3 ग्लोसस् ँ आस्कन्दं>.
ँ 254>.
--1) ँ दत्त> सुप्प्लिeद् बय् अँ3 इन् स्पचे लेFत् बय् अँ1.
ँ 256>.
--1) अँ4 ग्लोसस् ँ कलशदेवस्य द्वौ पुत्रौ हर्षदेव एकः कनिष्ठ उत्कर्षो द्वितीयः>.
ँ 259>.
--1) अँ4 ग्ग्लोसस् ँ अनन्तदेवः>.
--2) अँ4 ग्लोसस् ँ भोजराजश्च>.
ँ 260>.
--1) अँ3 गिवेस् इन् मर्गिन् अ गेनेaलोगिचल् लिसत् स्होड़िनग् थे देस्चेन्दनतस् ओF थे ब्रोथेरस् ँ उदयराज> अनद् ँ कान्तिराजः उदयराज, संग्रामदेव, अनन्तदेव, कलश>, अनद् ँ कान्तिराज, जस्सराज. तन्वङ्ग>. -- अँ4 ग्लोसस् (तो ँ पितुः>) ँ संग्रामदेवस्य>.
--2) अँ4 ग्लोसस् ँ कान्तिराजपुत्रजस्सराजात>.
--3) अँ4 ग्लोसस् ँ तन्वङ्गस्य>.
--4) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ तन्वन्राज॰>.
--5) अँ4 ग्लोसस् ँ पौत्र उत्कर्षः>.
ँ 264>.
--1) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ इत्यु॰>.
--2) अँ3 ँ दूरं नृपतीत्यन्यादर्शे>.
ँ 265>.
--1) ठुस् अँ1;् अँ2 ँ गत्वा>.
ँ 266>.
--1) अँ3 ग्लोसस् ँ देगामो इति भाषया>.

[page 115]




कम्पनाधिपतां दत्त्वा ततस्तस्य प्रतापिनः । KRT_7_0267ab
पार्थिवो1 याजपुर्या2दीन्देशांश्चक्रे करप्रदान् ॥ KRT_7_0267cd
अनन्तभूभुजो राज्ये तत्तत्स्खलितसंकटे । KRT_7_0268ab
आलम्बयिष्टिप्रतिमो ययौ हलधरः क्षयम् ॥ KRT_7_0268cd
मुमूर्षुणा चक्रधरे तेन पार्श्वस्थितो नृपः । KRT_7_0269ab
सजानिरुपदेशार्थी स तदेत्यमकथ्यत ॥ KRT_7_0269cd
मा कार्ष्ठ परराष्ट्रेषु रभसारब्धिसाहसम् । KRT_7_0270ab
युक्त्या वल्लापुरादौ वो व्यपोढं व्यसनं मया ॥ KRT_7_0270cd
विशङ्क्यो जिन्दुराजोयं परार्ध्यां वृद्धिमागतः । KRT_7_0271ab
भेदं वः सह पुत्रेण1 जयानन्दो2 विधास्यति ॥ KRT_7_0271cd
कथितं तेन1 तत्स्मृत्वा जिन्दुराजं महौजसम् । KRT_7_0272ab
विज्जेनाबन्धयद्राजा युक्तिमांस्त्याजितायुधम् ॥ KRT_7_0272cd
अथ कालेन कलशक्ष्माभृत्कलुषिताशयः । KRT_7_0273ab
भृत्यैरसाधुस्संसेव्ये प्रसक्तिं ग्राहितोध्वनि ॥ KRT_7_0273cd
तस्याभवन्वि1ज्जपित्थराजपाजादयः प्रियाः । KRT_7_0274ab
उत्सेकदा राजपुत्राश्चत्वारः शाहिवंशजाः ॥ KRT_7_0274cd
पुत्रो गञ्जपतेर्नागनाम्नो1 निकटसेवकः । KRT_7_0275ab
सोपि तस्य जयानन्दः कौटिल्याध्यापकोभवत् ॥ KRT_7_0275cd
द्विजेन्द्रेमरकण्ठे तु याते शिवसमानताम् । KRT_7_0276ab
राजा प्रमदकण्ठस्य ययौ तज्जस्य1 शिष्यताम् । KRT_7_0276cd
दुःशीलस्युa प्रकृत्यैव तस्याकृत्योपदेशकृत् ॥ KRT_7_0277ab
गम्यागम्यविचारस्य परिहर्ताभवद्गुरुः । KRT_7_0277cd
गुरोर्गतविकल्पत्वं तस्यान्यत्किमिवोच्यताम् । KRT_7_0278ab
त्यक्तशङ्कः प्रववृते स्वसुतासुर1तेपि यः ॥ KRT_7_0278cd
महासमयसंचारचतुरैर्यैरभीतितः । KRT_7_0279ab
गण्यते स्वप्रभावोग्रैर्भैरवोपि न निर्भयैः1 KRT_7_0279cd
ते मट्टपादास्त्रासेन पतिता भग्नजानवः । KRT_7_0280ab
विडाल1वणिजा स्वस्थाः शिरोहस्तार्पणैः कृताः ॥ KRT_7_0280cd
पुरा मट्टपादास्त्रासेन पतिता भग्नजानवः । KRT_7_0281ab
विडालवणिगि1त्यात्मनामविस्मारिकां दधे ॥ KRT_7_0281cd
यो1 व्याजमूर्खो वैद्यत्वगुरुत्वाहंकृतः क्रमात् । KRT_7_0282ab
पदकृद्रजकादीनां शिल्पिनां गुरुतामगात् ॥ KRT_7_0282cd
स भट्टपादानुल्लाघांश्चक्रे मूर्ध्न्यधिरोपयन् । KRT_7_0283ab
श्रेष्ठी विडालविष्टौघहिङ्गुगन्धोत्कटं करम् ॥ KRT_7_0283cd
एवं प्रकृतिनिःसारैरपि गर्जद्भिरन्वहम् । KRT_7_0284ab
आन्ध्यं स गुरुभिर्निन्ये दिवसोम्बुधरैरिव ॥ KRT_7_0284cd
ये दीर्घजागरा1 रात्रौ भूरिभोजनसेविनः । KRT_7_0285ab
अजीर्णपिशितोद्गारनित्यदुर्गन्धकन्धराः ॥ KRT_7_0285cd
अवस्करप्रणालाभाः पृष्ठे क्षिप्तम1धःपथैः । KRT_7_0286ab
शौचपाथ इव क्षिप्रमुज्झन्ति मधुनिर्झरम् ॥ KRT_7_0286cd
नक्तमातोद्यवाद्यज्ञैस्तैः सार्धं कृतसेवनः । KRT_7_0287ab
चारणो वेणुवाaद्यज्ञो योषितां धर्षयन्हठात् ॥ KRT_7_0287cd
कनकाख्ये मदोद्दामे क्रुद्धे हलधरात्मजे । KRT_7_0288ab
स्तम्भे निबद्ध्य तद्भृत्यैश्छिन्ननासो व्यधीयत ॥ KRT_7_0288cd
यो विटश्चमको नाम लूनाङ्गलावहः । KRT_7_0289ab
शनैर्लेभे स वाल्लभ्यं कौट्ट1न्यान्नवभूपतेः ॥ KRT_7_0289cd
प्रसादवित्तो भूभर्तुरन्तरे मन्त्रिणामपि । KRT_7_0290ab
लब्धप्रतिष्ठः स प्राप टक्कुराख्यां नृकुक्कुरः ॥ KRT_7_0290cd
प्रथां प्राप्तस्त्रपा1हेतुं स भञ्जन्वंशमञ्जसा । KRT_7_0291ab
प्रागेव नासावंशस्य भञ्जनं बह्वमन्यत ॥ KRT_7_0291cd
तेनोद्दीपितदौःशील्यः स यच्च1क्रे त्रपोज्झितः । KRT_7_0292ab
अवाच्यमपि वृत्तान्तं मध्यपातात्तदुच्यते ॥ KRT_7_0292cd
कल्लनाख्या स्वसा राज्ञो नागाख्या च तदात्मजा । KRT_7_0293ab
परदारप्रसक्तेन संभोक्तुं नावशेषिता ॥ KRT_7_0293cd

237.

--1) Thus corr. by A3 from A1 सपर्थो and ॰न्देशाञ्चक्रे.

--2) A3 gloss राजविर्.

271.

--1) A4 gloss कलशेन.

--2) A4 gloss अनन्तदेवगञ्जपतेर्नागनाम्नी भृत्यस्य पुत्रः.

272.

--1) A4 gloss हलधरेण.

274.

--1) Emended; A R G ॰भवद्विज्ज॰.

275.

--1) A4 gloss तुङ्गभ्रातुः.

276.

--1) Thus corr. by A3 from A1 तज्जनशि॰.

278.

--1) supplied by A3; A3 gloss स्वा आत्मीया चासौ पुत्री तस्याः सुरते सम्भोगे.

272.

--1) Thus A1; A3 निर्भयः.

280.

--1) Thus corr. by A3 from A1 विडाज॰.

281.

--1) Thus corr. by A3 from A1 विडालनाम इत्या॰.

282.

--1) This verse has been omitted by A1 and added in margin by A3; found in R G.

285.

--1) Thus A3; A1 ॰जागराद्रात्रौ.

286.

--1) Thus corr. by A3 from A1 क्षिप्रम॰.

289.

--1) Thus corr. by A3 from A1 कौढ॰.

291.

--1) Thus A3; A1 कथामाप्तो - पाहेतुं.

292.

--1) Thus R G; A यश्चक्रे.

[page 116]




तमुदन्तं सपत्नीको बुद्धवान्वृद्धभूपतिः । KRT_7_0294ab
न प्रत्यभैत्सीत्त्रपया तस्थौ तु निभृतव्यथः ॥ KRT_7_0294cd
भिक्षको1 धान्यमुष्टीनामोवना3ग्रामजो द्विजः । KRT_7_0295ab
योप्यभूद्वामदैवज्ञो वैधेयो लोष्टकाभिधः ॥ KRT_7_0295cd
स ग्रामक्षेत्रपालस्य प्रसादात्पर्यटन्निशि । KRT_7_0296ab
वस्तूनां मुष्टिबद्धानां विज्ञानान्मुष्टिलोष्टकः ॥ KRT_7_0296cd
परां प्रसिद्धिं संप्राप्तो नवक्ष्मापस्य रागिणः । KRT_7_0297ab
आसीद्गुरुत्वकौट्टन्यदैवज्ञत्वै रतिप्रियः ॥ तिलकम्॥ KRT_7_0297cd
भट्टारकमठा1धीशः साधुर्व्योमशिवो जटी । KRT_7_0298ab
खुर्खुटाख्याधिकरणे गृहीतनियतव्रतः ॥ KRT_7_0298cd
अन्धगान्धर्विकान्मम्मनाम्नः स्वार्चनसेवकात् । KRT_7_0299ab
अवन्तिपुरजं हस्तग्राहकद्विजचेलकम्1 KRT_7_0299cd
परिभ्रष्टमुपादत्त लालितत्वेन यं2 पुरा । KRT_7_0300ab
स तेन2 वारिताशस्तभङ्गासूत्रमयाम्बरः ॥ KRT_7_0300cd
विसृज्यमानः पुष्पाणि ग्राहयित्वा नृपान्तिकम् ।1 KRT_7_0301ab
... ... ... ... ... ... ... ... ... ... .... ॥ KRT_7_0301cd
मदनो नाम वाचालः प्रपेदेत्यन्तरङ्गताम् । KRT_7_0302ab
शनैः कौट्टन्यदुर्गोष्ठीमध्यपातं समाश्रयन् ॥ चक्कलकम्॥ KRT_7_0302cd
तैश्चान्यैश्च विटैश्चाटुकारैः क्षिप्रविमोहितः । KRT_7_0303ab
दोषानपि गुणान्मेने कलशः कलुषीकृतः ॥ KRT_7_0303cd
नर्म ह्रेपणकारि वाक्यमुचितं कृत्यं प्रजापीडनं तेजस्वित्वमलज्जता सरसतागम्याङ्गनासंगमः । KRT_7_0304ab
सारत्वं खलगालिदानसहनं येषां न तत्संनिधौ किंचित्कर्म कुकर्म दोष इति यद्विज्ञाय संत्यज्यते ॥ KRT_7_0304cd
राजा चौर्यरतौत्सुक्यात्प्रतिगेहं परिभ्रमन् । KRT_7_0305ab
स्वदारालिङ्गनैः प्रीतिं क्षणदासु न लब्धवान् ॥ KRT_7_0305cd
पारतन्त्र्यकृतापारप्रीतिः परवधूरतिः । KRT_7_0306ab
अभिलाषानलोत्सेके रागभाजां धृताहुतिः ॥ KRT_7_0306cd
तान्कुट्टनान्पु1रस्कृत्य पञ्चषानेकदा नृपः । KRT_7_0307ab
जिन्दुराजगृहं प्रायात्स रात्रौ चौर्यकामुकः ॥ KRT_7_0307cd
तत्रासीज्जिन्दुराजस्य स्नुषा परमपुंश्चली । KRT_7_0308ab
स्वगृहे दत्तसंकेतो नक्तं कलशभूभुजः ॥ KRT_7_0308cd
प्रविशन्तमधावंस्तं भषद्भिः सूचितं श्वभिः । KRT_7_0309ab
धृतासयो गृहद्वारं चण्डालाश्चौरशङ्किताः ॥ KRT_7_0309cd
तान्हन्तुमुद्यतान्दृष्ट्वा तंक्षितौ पतितं भयात् । KRT_7_0310ab
पृष्ठन्यस्तस्ववपुषो ररक्षुरनुयायिनः ॥ KRT_7_0310cd
तेभ्यः स मुष्टिघातादि ददद्भ्यः कथमप्यभूत्1 KRT_7_0311ab
मैवं कलशदेवोयमित्युक्त्वा त्याजितो निजैः ॥ KRT_7_0311cd
घ्राणहीनं1 पुरस्कृत्य नारीमभिससार यत् । KRT_7_0312ab
तदेव कामिनस्तस्य नूनमासीदमङ्गलम् ॥ KRT_7_0312cd
स निर्यातो गृहात्कान्ताकटाक्षविवशीकृतः । KRT_7_0313ab
पथि कालीकटाक्षाच्च1 दैवान्न प्रलयं ययौ ॥ KRT_7_0313cd
निजचित्तापराधेन कुर्वन्नीतिव्यतिक्रमम् । KRT_7_0314ab
अस्पृश्येभ्यः परिभवं भूपालोप्युप1लब्धवान् ॥ KRT_7_0314cd
इन्द्रियैरिन्द्रचन्द्राद्या ह्रेषिता यैः सुरा अपि । KRT_7_0315ab
अपरिम्लानमानत्वं तैर्मर्त्यस्याथ वा कथम् ॥ KRT_7_0315cd
प्रागुन्मीलति दुर्यशः सुविषमं गर्ह्योभिलाषस्ततो धर्मः पूर्वमुपैति संक्षयमथो श्लाघ्योभिमानक्रमः । KRT_7_0316ab
संदेहं प्रथमं प्रयात्यभिजनं पश्चात्पुनर्जीवितं किं नाभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ॥ KRT_7_0316cd
राजधानीमवाप्तस्य दुःशीलस्य महीपतेः । KRT_7_0317ab
क्षपायामेव तां वार्तां पितरावधिजग्मतुः ॥ KRT_7_0317cd
तौ रुदित्वा सुतस्नेहलज्जाशोकान्वितौ चिरम् । KRT_7_0318ab
निश्चयं बन्धने तस्य सदोषस्य प्रचक्रतुः ॥ KRT_7_0318cd
सवविद्यानिधिं ज्येष्ठं नप्तॄणां बप्पिकात्मजम् । KRT_7_0319ab
हर्षं राज्ये चिकीर्षू च निन्यतुस्तां निशीथिनाम् ॥ KRT_7_0319cd

295.

--1) Thus A B G; C भिक्षुकः.

--2) A2 gloss उयन् नाम ग्रामः.

298.

--1) A3 gloss भ्रडीमइ.

299.

--2) The second half of this verse has been omitted by A1 and supplied by A3 in margin.

300.

--1) A4 gloss मदनं वक्ष्यमाणं.

--2) A4 gloss व्योमशिवेन.

301.

--1) A1 indicate here a lacuna of two padas.

307.

--1)Thus corr. by two dots.

312.

--1) A4 gloss चमकं विटं.

313.

--1) Thus emended with C and G sec. manu; A ॰कटाक्षा.

314.

--1) suipplied by A3.


[page 117]




आकारितस्ततस्ताभ्यां प्रातः कलशभूपतिः । KRT_7_0320ab
ऊचे विज्जजयानन्दौ1 साaशङ्कौ जनकाद्भयम् ॥ KRT_7_0320cd
तन्मन्तेन जयानन्ददत्तहस्तः कथंचन । KRT_7_0321ab
अन्वीयमानो विज्जेन स पित्रोः प्राविशद्गृहम् ॥ KRT_7_0321cd
पिता प्रविष्टमात्रं तं वक्त्रे दत्तचपेटकः । KRT_7_0322ab
अभाग्यभागिञ्जहिहि क्षुरिकामित्यथाब्रवीत् ॥ KRT_7_0322cd
एवं त्रासविसूत्राङ्गसंधिमालम्ब्य पाणिना । KRT_7_0323ab
सावष्टम्भं स्पृशञ्शस्त्रं विज्जो राजानमब्रवीत् ॥ KRT_7_0323cd
राजन्मानवतां धुर्यो भवन्नपि भवान्कथम् । KRT_7_0324ab
नात्या1ज्यं मानिनां वेत्ति मानग्रहमहान्रतम् ॥ KRT_7_0324cd
गृहीतवेतनेनायं राजपुत्रेण शस्त्रिणा । KRT_7_0325ab
संकटेस्मिन्मया स्वामी जीवता त्यज्यते कथम् ॥ KRT_7_0325cd
पिता भवानयं पुत्रः क्षणेन्न्यस्मिन्महीपते । KRT_7_0326ab
मय्यसंनिहितेमुष्य यद्योग्यं तद्विधीयताम् ॥ KRT_7_0326cd
मुग्धं विमोह्य नृपतिं वचोभिः स्निग्धकर्कशैः । KRT_7_0327ab
बिज्जः स्वामिनमादाय निराक्रामत्तदन्तिकात् ॥ KRT_7_0327cd
बिज्जस्यापूजयन्धीरास्तद्धैर्यमतिमानुषम् । KRT_7_0328ab
अनन्तदेवस्याप्यग्रे यदेवं स व्यजृम्भत ॥ KRT_7_0328cd
चण्डी नरपतेः1 पत्नी भाव्यर्थबलवत्तया । KRT_7_0329ab
अत्यात्यजपमौनस्था तस्मिन्नवसरेभवत्1 KRT_7_0329cd
सा चेदासिष्यतो1द्युक्ता नाभविष्यत्तदेतरत् । KRT_7_0330ab
नियतात्सर्वनाशाद्वा बन्ध2नात्कलशस्य वा ॥ KRT_7_0330cd
ततो बिज्जेन कलशः सत्वरेण प्रवेशितः । KRT_7_0331ab
त्रस्यन्दिल्हाभिधानाया वल्लभाया निवेशनम् ॥ KRT_7_0331cd
शिरोर्तिरस्य संजातेत्युक्त्वा भीतं पतिं व्यधात् । KRT_7_0332ab
सा प्राज्ञा ज्ञातवृत्तान्ता तैर्लेनाभ्यक्तमस्तकम् ॥ KRT_7_0332cd
व्याजेन तेन सर्वस्य संप्रवेशं निषिध्य सा । KRT_7_0333ab
पतिं जुगोप विन्यस्य बिज्जं द्वारस्य रक्षणे ॥ KRT_7_0333cd
ततः समाधेर्विरता राज्ञी निर्भर्त्स्य भूपतिम् । KRT_7_0334ab
कुशलान्वेषणमिषात्तनयस्यान्तिकं ययौ ॥ KRT_7_0334cd
बद्धुं1 बद्धोद्यमो राजा तथैव प्रययौ यदा । KRT_7_0335ab
दत्तप्रवेशो बिज्जेन तदैकाक्येव सोभवत् ॥ KRT_7_0335cd
निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः । KRT_7_0336ab
रुषित्वा विजयक्षेत्रं गन्तुं प्रावर्ततोद्धत1ः ॥ KRT_7_0336cd
तं प्रयान्तं सपत्नीकं प्राप्तं पद्मपुरान्तिकम् । KRT_7_0337ab
अवोचन्नेत्य तत्रस्था विश्शा1वट्टादयो द्विजाः ॥ KRT_7_0337cd
अधिकारं स्वयं त्यक्त्वा राजन्किमनुपत्यसे । KRT_7_0338ab
कृतस्या1नुशयो युक्तो न सतो नासतोपि वा ॥ KRT_7_0338cd
न च ते दुर्मतौ त्यक्ता1ः प्रजा एता मयेत्यपि । KRT_7_0339ab
ध्यात्वा सूनोः समुचिता कर्तुं दुष्टस्य वाच्यता2 KRT_7_0339cd
न यन्त्रपुत्रकस्येव शक्तिः कापि हि भूभुजः । KRT_7_0340ab
भवेत्साधुर्वा स प्रजानां शुभाशुभैः ॥ KRT_7_0340cd
उज्झन्ति यत्पयोवाहा जलानि तडितोथ वा । KRT_7_0341ab
वनस्पतीनां सदसत्कर्मपाकस्य तत्फलम् ॥ KRT_7_0341cd
यच्चापथस्थितं पुत्रं त्यक्त्वेच्छस्यासितुं सुखम् । KRT_7_0342ab
कोशं1 त्यक्त्वा प्रस्थितस्य घटते तत्कथं तव ॥ KRT_7_0342cd
धाराधिरूढसामर्थ्यः सदृशः शुचिमानपि । KRT_7_0343ab
संस्पृश्यते क्षीणकोशः कृपाण इव कैः पुमान् ॥ KRT_7_0343cd
श्रुत्वेत्यैच्छन्नृपो यावत्प्रत्यावृत्तिं विचारवान् । KRT_7_0344ab
तावत्स पुत्रेणाभ्येत्य सभार्येण प्रसादितः ॥ KRT_7_0344cd
अथ प्रविश्य नगरं स प्रासादा1पवर्जितान् । KRT_7_0345ab
अशान्तमन्युरादाय लक्ष्मीं भूयो विनिर्ययौ ॥ KRT_7_0345cd

320.

--1) A3 gloss जयानन्दः नागपुत्रः तुङ्गभ्रातृपुत्रः.

324.

--1) Thus corr. by A3 from A1 न व्याज्यं.

329.

--1) ण्डीनरपतेः and न्नवसरेभवत् supplied by A2 in space left by A1.

330.

--1) सिध्यतो supplied by A2 in space left by A1.

--2) र्वनाशाद्वा बन्ध supplied by A2 in space left by A1.

335.

--1) Emended: A1 बन्धुं; A3 बन्द्धुं.

336.

--1) द्धतः supplied by A3 in space left by A1.

337.

--1) Emended; A बिश्चाव॰.

338.

--1) कुतस्या supplied by A3.

339.

--1) Thus corr. by A3 from A1 व्यक्त्त्वा.

--2) A3 gloss, partly effaced, दुर्मतौ दुष्टबुद्धिविशिष्टेँ पुत्रे मया एताः प्रजाः त्यकत्[आः] पुत्र एव राज्य[स्या]पनादित्यपि [ध्या]त्वा दुष्टस्य पुत्रस्य वाच्यता निन्दा कर्तुं न समुचिता ते --- त्यन्वयः.

342.

--1) A3 gloss भाण्डागारं.

345.

--1) Emended: A प्रसादा॰; C प्रमादा॰.

[page 118]




हयायुधतनुत्रादि स्वयं स्वीकृत्य निर्गतः । KRT_7_0346ab
देवीं प्रतीक्षमाणोस्थात्स1रित्पारे ततः क्षणम् ॥ KRT_7_0346cd
नानाप्रकारानारोप्य कोशानौषु नृपाङ्गनाः । KRT_7_0347ab
नायःशङ्कूनपि गृहे निर्यान्त्यः पर्यशेषयन् ॥ KRT_7_0347cd
अज्ञातवार्तः प्राक्तूष्णीं तत्प्रस्थानेभवज्जनः । KRT_7_0348ab
ज्ञातवार्तस्तदा त्वा1सीदाक्रन्दमुखराननः ॥ KRT_7_0348cd
प्रतिमोक्तुं पुरे ताभ्यां दत्तपुष्पाञ्जलौ जनः । KRT_7_0349ab
बाष्पबिन्दुमिषादौज्झीद्दीर्घानर्घकणानिव ॥ KRT_7_0349cd
हा मातर्हा पितः क्वेत्थं1 गच्छतः परिदेवितात् । KRT_7_0350ab
इत्यस्मादपरः शब्दो मार्गेषु न तदा श्रुतः ॥ KRT_7_0350cd
मार्गेन्तरान्तराक्रन्दविरतौ निर्झरध्वनिः । KRT_7_0351ab
शैलानां शोकनिःश्वासशूत्कार इव शुश्रुवे ॥ KRT_7_0351cd
तयोराक्रन्दितैः शश्वत्पथि संजातसंस्तवौ । KRT_7_0352ab
कर्णौ शून्येप्यशृणुतामाक्रन्दितमिवासकृत् ॥ KRT_7_0352cd
पुत्रागसा तादृशौ तौ दृष्ट्वा मार्गे द्रुमौकसाम् । KRT_7_0353ab
खगानां शावभरणम1पि लोको व्यगर्हत ॥ KRT_7_0353cd
तयोः पुत्रनयोत्तप्तचेतसोर्विजयेश्वरः । KRT_7_0354ab
मनःप्रसादं संदृष्टः स्निग्धबन्धुरिवाकरोत् ॥ KRT_7_0354cd
तत्तत्र भाण्डागाराश्वभृत्याद्यावसथार्पणैः । KRT_7_0355ab
संविधानक्रियाभिश्च व्यग्रयोरगमद्दिनम् ॥ KRT_7_0355cd
देशे कोशोपकरणपूर्णगोणीगणावृते । KRT_7_0356ab
आसन्निन्धनगण्डालीच्छ1न्नरथ्या इवापणाः ॥ KRT_7_0356cd
तन्वङ्गराजतुङ्गा1दिज्ञातिपुत्रा नृपात्मजाः । KRT_7_0357ab
तं सूर्यवर्मचन्द्राद्या डामराश्चानुवव्रजुः ॥ KRT_7_0357cd
डामरान्क्षीरभूपादीनान्राजा नौनगरादिषु । KRT_7_0358ab
स्थानेषु स्वेषु निक्षिप्य रक्षित्वे गुप्तिमानभूत् ॥ KRT_7_0358cd
विश्रान्तसर्वचित्तस्य श्रीमतोनन्तभूपतेः । KRT_7_0359ab
प्रावर्तन्तोत्सवैर्गन्तुं दिनानि वियजेश्वरे ॥ KRT_7_0359cd
राजपुत्रहयारोहशास्त्रिडामरमण्डलैः । KRT_7_0360ab
कृत्स्नैरेव स्थितिर्बद्धा सविधे वृद्धभूभुजः ॥ KRT_7_0360cd
वत्सरे पञ्चपञ्चाशे ज्यैष्ठे मासि विनिर्गतः । KRT_7_0361ab
आसाद्य विजयक्षेत्रं स1 स्वर्गसुखम1न्वभूत् ॥ KRT_7_0361cd
कलशस्तु गते राज्ञि प्राप वीतवसुं1 महीम् । KRT_7_0362ab
रक्षाहौ चलिते यातरात्नां निधिमहीमिव ॥ KRT_7_0362cd
स्वराज्यमुज्ज्वलीकर्तुम् रिक्तोपि विहितोद्यमः । KRT_7_0363ab
चक्रे संमन्त्र्य बिज्जाद्यैः संमतानधिकारिणः ॥ KRT_7_0363cd
तेन सर्वाधिकारेषु जयानन्दो नियोजितः । KRT_7_0364ab
द्वारे वराहदेवश्च वितस्तात्र1पुरोद्भवः2 KRT_7_0364cd
यो ह्यम्बरा1धिकार्यासीज्जिन्दुराजस्य कम्पने । KRT_7_0365ab
राज्ञा2 विजयमित्रः स कम्पनाधिपतिः कृतः ॥ KRT_7_0365cd
यथाधिकारमन्यांश्च विनिधायाधिकारिणः । KRT_7_0366ab
राजार्थचिन्तामारेभे संरब्धः पितृविग्रहे ॥ KRT_7_0366cd
जयानन्दः पदातीनां चिकीर्षुरथ संग्रहम् । KRT_7_0367ab
रत्नादनुचितेभ्योपि संरब्धः पितृविग्रहे ॥ KRT_7_0367cd
स्वीकृत्य पत्तीम्बिज्जादिराजपुत्रगणान्वितः । KRT_7_0368ab
अथावन्तिपुरं प्राप योद्धुं वृद्धिनराधिपम् ॥ KRT_7_0368cd
अभ्यर्थ्य कारितो वे1लां राज्ञा काराविनिर्गतः । KRT_7_0369ab
शिमिकावर्त्मना योद्धुं जिन्दुराजो विनिर्ययौ ॥ KRT_7_0369cd
तेषामुद्योगमाकर्ण्य क्रुद्धा वृद्धमहीभुजाम् । KRT_7_0370ab
स्वे डामराश्ववाराद्याः संरम्भा1दुपतस्थिरे ॥ KRT_7_0370cd
अजायत न्यस्तगुडक्रीडत्तुरगमण्डला । KRT_7_0371ab
शस्त्रैः सत्राटवी कृत्स्ना संकटा विजयेश्वरे ॥ KRT_7_0371cd
तत्ः सूर्यमती रत्नात्पतिं परमकोपनम् । KRT_7_0372ab
ययाचे पुत्रवात्सल्यादयुद्धं दिवसद्वयम् ॥ KRT_7_0372cd

343.

--1) Thus corr. by A3 from A1 ॰स्या सरि॰.

348.

--1) Thus corr. by A3 from A1 ॰स्तदाप्यासी॰.

350.

--1) Thus corr. by A3 from A1 क्व.

353.

--1) A2 gloss शावाः पोताः तेषां भरणं पोषणम्.

356.

--1) A2 गण्डाल्यः गण्यः इति भाषया.

357.

--1) Thus corr. A3 from A2 ॰गुङ्गा॰.

361.

--1) A2 gloss अनन्तदेवः.

--2) A3 gloss स्वर्गसुiखं परमानन्दं न तु भृ[तिम्].

362.

--1) A3 gloss धनरहिताम्.

364.

--1) त्र supplied by A3 in space left by A1.

--2) A3 gloss वितस्तात्रं नाम यत्पुरं । तस्मादुद्भवो यस्य स वितस्तात्रपुरोद्भवः.

365.

--1) Thus corr. by A3 from A1 यो-.

--2) A3 gloss कलशेन.

369.

--1) वे supplied by A3 in space left by A1.

370.

--1) संरम्भा supplie A2 in space left by A1.

[page 119]




अत्याप्तानथ मय्यादीन्द्विजान्निशि विसृज्य सा । KRT_7_0373ab
तन्मुखेनातिवात्सल्यादिदमूचे रहः सुतम् ॥ KRT_7_0373cd
विनाशशंस्ययं पुत्र कस्ते मतिविपर्ययः । KRT_7_0374ab
तीव्रशौर्येण पित्राद्य यदेवं योद्धुमिच्छसि ॥ KRT_7_0374cd
यस्य भ्रूभङ्गमात्रेण दरद्राजादयो हताः । KRT_7_0375ab
तत्प्रकोपानले कस्मादीहसे1 शलभायितुम् ॥ KRT_7_0375cd
अस्मिंस्तु वीतमा1रूढे वीतिहोत्रसमे नृपे । KRT_7_0376ab
कस्त्राता स्यात्त्वदीयानां तृणानामिव शस्त्रिणाम् ॥ KRT_7_0376cd
सेनाङ्गैः कतमैः केन शौर्येण कतमैर्धनैः । KRT_7_0377ab
भवाञ्शक्तिमतां धुर्य योद्धुमेनं प्रधावति ॥ KRT_7_0377cd
दैवात्संत्यक्तमेतेन भुङ्क्ष्व1 राज्यमखण्डितम् । KRT_7_0378ab
पित्रा तीर्थोपविष्टेन किमिवापकृतं तव ॥ KRT_7_0378cd
द्वैधेच्छुविः पात्यमानो व्यसनेस्मिन्सुदारुणे । KRT_7_0379ab
प्रयास्यसि दिनैरेव रिक्तोप्यत्यन्तरिक्तताम् ॥ KRT_7_0379cd
नय सेनाः पितुर्भीतिर्जीवन्त्यां मयि नास्ति ते । KRT_7_0380ab
ऋजुमेनं नयस्वार्द्रं प्रत्युतानुनयोक्तिभिः ॥ KRT_7_0380cd
इति दूतमुखैर्गूढं पुत्रो मात्रा कृतार्थनः । KRT_7_0381ab
सर्वाशाभ्योनयत्सैन्यं रात्रावेव निजान्तिकम् ॥ KRT_7_0381cd
श्रुतापसारं सैन्यानां दूतश्चैत्य प्रसादितम् । KRT_7_0382ab
उपालेभे पतिं प्रातर्धृष्टा प्रत्युत वल्लभा ॥ KRT_7_0382cd
राज्ञ्या मिथस्तयोरे1वं शमिताक्षेपयोरपि । KRT_7_0383ab
पिशुनप्रेरणात्प्राप कालुष्यं धीः क्षणे क्षणे ॥ KRT_7_0383cd
वैरस्य रूप1मेतद्धि भेदं याति मुहुर्मुहुः । KRT_7_0384ab
संधीयमानमपि यत्क्लिन्नाम्बरमिवाशयम् ॥ KRT_7_0384cd
बाह्याल्यादौ सुतोदन्तं श्रुत्वा तप्ताशयो नृपः । KRT_7_0385ab
गृहं प्रविष्टो धृष्टस्त्रीभाषितैर्जाडतां ययौ ॥ KRT_7_0385cd
एवं प्रतिदिनं तप्तस्त्यक्ततापः प्रतिक्षपम् । KRT_7_0386ab
स्वच्छाशयः शरत्तुच्छ1तडाकौपम्यमाययौ ॥ KRT_7_0386cd
चकार पितृपक्ष्याणां पुत्रो वेश्मादिनाशनम् । KRT_7_0387ab
पिता तु पुत्रपक्ष्याणां न किंचित्स्त्रीवशीकृतः ॥ KRT_7_0387cd
पुत्रस्नेहान्धया पत्न्या बाधितैश्चानुयायिभिः । KRT_7_0388ab
रूक्षोक्तिभिस्ताप्यमानस्तस्थौ दुःस्थः सदा1 नृपः । KRT_7_0388cd
राज्यं जिहीर्षुः पुत्रस्य निःशूरं तद्बलं विदन् । KRT_7_0389ab
ईषत्स जिoन्दुराजस्य गणनां पौरुषेकरोत् ॥ KRT_7_0389cd
पुत्राज्जिहीर्षुणा राज्यं तेन तन्वङ्गनन्दनाः । KRT_7_0390ab
प्रार्थ्यन्ते स्म तदा राज्यकृतये तत्पराङ्मुखाः ॥ KRT_7_0390cd
संप्रेर्य तं तदा रात्रौ स्वान्व1याशर्मशङ्किनी । KRT_7_0391ab
हर्षं देवी नृपं कर्तुं दूतैराहूतवत्यभूत् ॥ KRT_7_0391cd
स पितामहयो1र्दूतैराहूतः साहसोन्मुखः । KRT_7_0392ab
बाह्याल्यां निर्गतः सज्जै रक्ष्यमाणोपि रक्षिभिः ॥ KRT_7_0392cd
दत्तपार्ष्णिकषाaघातः क्षणार्धेनोदलङ्घयत् । KRT_7_0393ab
मनोजवेनाभग्नौजा वाजिना पञ्चयोजनीम् ॥ KRT_7_0393cd
वाजिनं विजिताभ्यासमनुगन्तुं समुद्यताः । KRT_7_0394ab
अगच्छन्बहवो मार्गे दीनाः सेनाहयाः श्रमम् ॥ KRT_7_0394cd
प्राप्तस्य पादयोस्तस्य पतितस्य पितामहौ । KRT_7_0395ab
आनन्दास्रुजलस्यन्दैरभिषेकं प्रचक्रतुः ॥ KRT_7_0395cd
पुत्रे तन्निकटं प्राप्ते कलशः प्राज्ञो व्यसर्जयत् । KRT_7_0396ab
अप्रियाचरणात्पित्रोः संधित्सुः स न्यवर्तत ॥ KRT_7_0396cd
स तस्य नगरात्पत्रीः पार्श्वं प्राज्ञो व्यसर्जयत् । KRT_7_0397ab
अकरोद्विप्लुते राष्ट्रे स्वभेदस्याप्रकाशनम् ॥ KRT_7_0397cd
एवं प्रवर्धमानेपि वैरे कलशभूपतिः । KRT_7_0398ab
कंचित्कालं मते मातुरवर्तिष्ट मनागिव ॥ KRT_7_0398cd
खशालाः कलशादेशाद्यियासोः कम्पनापतेः । KRT_7_0399ab
तया प्रावर्तितनतेर्मार्गं संत्याजितः पतिः ॥ KRT_7_0399cd
अत्रान्तरे शमयितुं वैरं देशोपघातकृत् । KRT_7_0400ab
तावुद्दिश्य पितापुत्रौ द्विजाः प्रायं प्रचक्रिरे ॥ KRT_7_0400cd

375.

--1) Thus corr. by A3 from A1 दीशिषे.

376.

--1) A3 gloss अश्वं.

378.

--1) Thus corr. by A3 from A1 भुङ्क्त.

383.

--1) A3 gloss अनन्तकलशयोः.

384.

--1) रूप supplied by A3 in space left by A1.

385.

--1) Thus corr. by A3 from A1 बाह्याला॰.

386.

--1) ॰त्तुच्छ upplied by A3 in space left by A1.

388.

--1) Thus A3; A1 तदा.

391.

--1) Thus corr. by A3 from A1 स्वन्व॰.

392.

--1) A3 gloss पितामहयोः पितामहपितामह्योः.

[page 120]




संधिबन्धे समुत्पन्ने ततस्तदनुरोधतः । KRT_7_0401ab
दंपती संप्रविष्टौ तौ सार्धं मासद्वयं पुरम् ॥ KRT_7_0401cd
यजानन्दादिबुद्ध्याथ बुद्ध्वा बन्धोद्यतं सुतम् । KRT_7_0402ab
भूयोपि ययतुः खेदान्निर्गत्य विजयेश्वरम् ॥ KRT_7_0402cd
तस्याश्ववासकूटानि पुत्रो रात्रावदाहयत् । KRT_7_0403ab
व्यापादयत्पदातींश्च विषशस्त्राग्नियुक्तिभिः ॥ KRT_7_0403cd
तथा प्रवर्धमानेपि विरोधे सत्यरोधयत् । KRT_7_0404ab
वात्सल्यविवशा राज्ञी भर्तुः प्रतिचिकीर्षितम् ॥ KRT_7_0404cd
लुड्डाभिधाभूत्कैवर्तबन्धकी तद्विधेयधीः । KRT_7_0405ab
थक्कडामरनामा च तञ्जारः खलतिस्तदा ॥ KRT_7_0405cd
स तन्नाम्नैव दुष्टात्मा कथ्यमानौ समीपगैः । KRT_7_0406ab
शुश्राव पित1रौ नित्यं लीलास्मितसिताननः ॥ युग्मम्॥ KRT_7_0406cd
तौ दंपती पुनर्हेमतुलापुरुषयुग्मदौ । KRT_7_0407ab
चित्राभिर्धर्मचर्याभिर्मनस्तापममुञ्चताम् ॥ KRT_7_0407cd
यदा पुनस्तयोर्दार्ढ्यमाद्यत्वान्न व्यहीयत । KRT_7_0408ab
तदा सेर्ष्यः स दुष्पुत्रो रात्रौ वह्निमहापयत् ॥ KRT_7_0408cd
तेनाग्निनोर्वरीशस्य सर्वोपकरणैः समम् । KRT_7_0409ab
भस्मावशेषमभवद्विजयेश्वरपत्तनम् ॥ KRT_7_0409cd
सर्वनाशशुचा दीना राज्ञी मर्तुं समुद्यता । KRT_7_0410ab
तन्वङ्गपुत्रैश्चकृषे कथंचिज्ज्वलतो गृहात् ॥ KRT_7_0410cd
त्यक्त्वांशुकानि शय्याभ्यो निशायां सुप्तमुत्थितम् । KRT_7_0411ab
निःशेषं राजसैन्यं तदजायत दिगमबरम् ॥ KRT_7_0411cd
तद्राजधानीसौधाग्रात्पश्यन्कलशभूपतिः । KRT_7_0412ab
तोषादनृत्यज्ज्वलौघैर्गगनालिङ्गिभिः समम् ॥ KRT_7_0412cd
अतरन्नष्टसर्वस्वः स पारं सरितो नृपः । KRT_7_0413ab
निममज्ज सजानिस्तु दुस्तरे शोकसागरे ॥ KRT_7_0413cd
संप्राप्य च1 प्रददौ पूर्वं भृत्यानां भोजनांशुके । KRT_7_0414ab
संप्राप्य प्रातरप्लुष्टं रत्नलिङ्गं नृपाङ्गना1 KRT_7_0414cd
व्य2क्रीणाल्लक्षसप्तत्या टाकानां पार्श्व3मीयुषाम् ॥ KRT_7_0415ab
धनेन तेन निदग्धान्यपि धामान्यशोधयत् ॥ KRT_7_0415cd
भस्मकूलतलात्तावल्लब्धं स्वर्णादि भूभुजा । KRT_7_0416ab
कथापि यावतो हन्त ग्रथयत्यद्य कौतुकम् ॥ KRT_7_0416cd
राजा शून्याटवीभूते पत्तने तत्र सानुगः । KRT_7_0417ab
नडत्वन्ग्र1थितच्छत्रपटलाच्छादितेवसत् ॥ KRT_7_0417cd
तावत्यप्यर्थसामर्थ्ये चिकीर्षोस्तत्पुरं नवम् । KRT_7_0418ab
विना राजोचितामाज्ञां न सिद्धं वृद्धभूपतेः ॥ KRT_7_0418cd
अदृष्टाभिभवो मातुरानुकूल्यान्नवो नृपः । KRT_7_0419ab
परितापं पितुस्तैस्तैर्दुःसंदेशैः सदाकरोत् ॥ KRT_7_0419cd
निबन्धादथ पुत्रेण पर्णोत्सगमनं पिता । KRT_7_0420ab
निर्वासनोत्सुकेनोक्तः शश्वद्दूतमुखैर्यदा ॥ KRT_7_0420cd
प्रभवन्त्या यदा चासीत्पत्न्या तस्यैव वस्तुनः । KRT_7_0421ab
निष्पत्तये प्रेर्यमाणः साधिक्षेपं क्षणे क्षणे ॥ KRT_7_0421cd
तदा जातु रहः कमप्यंस्तन्वङ्गे थक्कने स्थिते । KRT_7_0422ab
उवाचानुक्तपूर्वं तामेवं स पुरुषं वचः ॥ तिलकम्॥ KRT_7_0422cd
अभिमानो यशः शौर्यं राज्यमोजो मतिर्धनम् । KRT_7_0423ab
मया जायाविधेयेन हन्त किं किं न हारितम् ॥ KRT_7_0423cd
मिथ्योपकरणं नारीर्गणयन्ति नृणां जनाः । KRT_7_0424ab
परिणामे तु नारीणां क्रीडोपकरणं नराः ॥ KRT_7_0424cd
द्वेषोन्मेषात्प्रसक्ताभिर्विरक्ताभिरसूयया । KRT_7_0425ab
के नाम नात्र कान्तिभिः कृतान्तस्यातिथीकृताः ॥ KRT_7_0425cd
रूपं काश्चिद्बलं काश्चित्प्रज्ञां काश्चिच्च कार्मणैः । KRT_7_0426ab
पुंस्त्वं काश्चिदसून्काश्चि1द्भर्तॄणां जह्रुरङ्गनाः ॥ KRT_7_0426cd
हरन्ति ग्रावभिरिव क्ष्मां पुत्रैरन्यगोव्रजैः । KRT_7_0427ab
मत्ताः पयोधरौन्नत्यात्तरङ्गिण्य इवाङ्गनाः ॥ KRT_7_0427cd
पर्यन्ते वैतनमिमे किं जीर्णैरीदृशैरिति । KRT_7_0428ab
पोषयन्ति सुतान्भर्तॄञ्शोषयन्ति तु योषितः ॥ KRT_7_0428cd
सर्वकालं विदित्वापि दोषान्योषित्कृतानमून् । KRT_7_0429ab
प्रतिपत्त्यनुरोधेन मयेयं नावधीरिता ॥ KRT_7_0429cd

406.

--1) A2 gloss पितराविति पितरौ राजा राज्ञी च राजा थक्कडामरनाम्ना समीपगैः कथ्यमानः राज्ञी च लुड्डाभिधा कैवर्ती नाम्ना कथ्यमाना उपहासार्थमित्यर्थः.

414.

--1) Thus corr. by A3 from A1 नृपात्मजा.

--2) Thus corr. by A3 from A1 विक्री॰.

--3) Thus A3; A1 पूर्वमीयु॰.

415.

--1) Thus A1; A3 तत्प्र॰.

417.

--1) नडत्वक् । पिचू इति भाषया.

426.

--1) दसून्काश्चि supplied by A2 in space left by A1.

[page 121]




प्रभविष्णुर्निहत्येयमैहिकीः सुखसंपदः । KRT_7_0430ab
परलोकसुखस्याशामपि हन्तुं ममोद्यता ॥ KRT_7_0430cd
वलीपलितयुक्तस्य नेदीयोमरणावधेः । KRT_7_0431ab
विहाय विजयक्षेत्रं कुत्र गन्तुं ममोचितम् ॥ KRT_7_0431cd
क्षणाकरकलामौलेः किल्विषक्षपणक्षमा । KRT_7_0432ab
द्वारोपकण्ठसंसेवोत्कण्ठा कुण्टीभवेत्कथम् ॥ KRT_7_0432cd
पुत्रो लोकद्वयत्राता कस्यान्यस्येदृशो भवेत् । KRT_7_0433ab
तीर्थात्प्रस्थापयन्मां यत्कुपथे मृतमिच्छति ॥ KRT_7_0433cd
प्रतिभात्यवतीतोयं प्रवादो मेद्य चेतसि । KRT_7_0434ab
अनयान्यकुलिद्भूतो यदयं संप्रवेशितः ॥ KRT_7_0434cd
विसंवादिनमाकाराचारैर्बन्धुविरोधिनम् । KRT_7_0435ab
पुत्रं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ KRT_7_0435cd
सुचिराविष्कृताकूतां त्यक्त्वा प्राणाय यन्त्रणाम् । KRT_7_0436ab
एवं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ KRT_7_0436cd
गोत्रजस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । KRT_7_0437ab
आमृष्टविप्रियालापा साभूदधिकलज्जिता ॥ KRT_7_0437cd
महत्त्तमस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । KRT_7_0438ab
विपन्नापत्ययोपात्तयेत्यासीज्जनश्रुतिः ॥ KRT_7_0438cd
उत्सिक्तभाषितं भर्तुर्योषितो जितभर्तृकाः । KRT_7_0439ab
जानन्त्याङ्घ्रिसंवृत्तशिरस्ताडनसंनिभम् ॥ KRT_7_0439cd
अतः सा सुदृढं प्रौढिसंस्कारपरुषं वचः । KRT_7_0440ab
प्राकृतप्रमदेवोच्चैरित्युवाच रुषा पतिम् ॥ KRT_7_0440cd
गतश्रीस्तापसो यस्यास्य नाभूत्प्रावरणं पुरा । KRT_7_0441ab
वृथा वृद्धः क्व किं वाच्यमिति मूढो न वेत्त्ययम् ॥ KRT_7_0441cd
स्नात्वोत्थितस्य यस्यास्य नाभूत्प्रावरणं पुरा । KRT_7_0442ab
लोको जानात्ययं किं न तेन मां प्राप्य हारितम् ॥ KRT_7_0442cd
स्वकुलस्त्रीसमुचितं यत्किंचिन्मामभाषयाः । KRT_7_0443ab
क्रियते किं न कालोयं यत्प्रायश्चित्तसेवने ॥ KRT_7_0443cd
अकर्मण्यो गतवया देशात्पुत्रेण वारितः । KRT_7_0444ab
पत्न्यापि त्यक्त इत्यस्मात्परिवादाद्धि मे भयम् ॥ KRT_7_0444cd
कुलदोषादिवृत्तान्तगर्भोपालम्भनिर्भरैः । KRT_7_0445ab
वचोभिर्व्यथितस्तस्यास्तस्थौ तूष्णीं यदा नृपः ॥ KRT_7_0445cd
तदा तस्यासनप्रान्तनिःसृतः प्रसरन्बहिः । KRT_7_0446ab
निर्विकाराकृतेर्व्यक्तं ददृशे रक्तनिर्झरः ॥ KRT_7_0446cd
संभ्रान्तायां ततो राज्ञ्यामपश्यत्थक्कनो रुदन् । KRT_7_0447ab
असिधेनुं गुदे तेन क्रुधा राज्ञा प्रवेशिताम् ॥ KRT_7_0447cd
ततोतिधीरो राजैव तं लज्जाचकितोन्वशात् । KRT_7_0448ab
राज्ञो रक्तातिसरणं जातमित्युच्यतां बहिः ॥ KRT_7_0448cd
विधेया नारीणां तनयनिहिताशेषविभवाः कृतमालौ भृत्ये पुनरुदितविस्रम्भरभसाः । KRT_7_0449ab
नयन्तो गण्यत्वं प्रसभमभियोगैर्घु1मरिं नयत्यक्ताः क्ष्मापाः प्रलयमुपगच्छन्ति न चिरात् ॥ KRT_7_0449cd
नृपतिर्वाहितहयः शरदातपखेदितः । KRT_7_0450ab
तृष्यन्निपीय धान्याम्बु1 च्युतासृग्जात इत्यभूत् ॥ KRT_7_0450cd
गम्भीरै राजपुरुषैस्तथा वार्ता प्रवर्तिता । KRT_7_0451ab
यथा नाबुद्ध वृत्तान्तमेतं कोपि बहिर्जनः ॥ युग्मम्॥ KRT_7_0451cd
वत्सरे सप्तपञ्चाशे पौर्णमास्यां स कार्तिके1 KRT_7_0452ab
विजयेशाग्रतो राजा जीवितेन व्ययुज्यत ॥ KRT_7_0452cd
पत्न्याः पुत्रस्य चौद्वेगैस्त्यक्तो राजा सुखोचितः । KRT_7_0453ab
प्रसार्य पादौ निद्रातुं प्राप सोवसरं चिरात् ॥ KRT_7_0453cd
चुकोपासौ न कस्मैचिच्चुकोपास्मै न कश्चन । KRT_7_0454ab
चक्रे सुखी विमन्युश्च मरणेन महामनाः ॥ KRT_7_0454cd
संग्रामराजदायादो न कस्यचिदिव प्रियः । KRT_7_0455ab
अंशुकाच्छादितो भूमावनाथ इव सोस्वपत्1 KRT_7_0455cd
न प्रियाक्रन्दितैः स्निह्यन्न कुप्यन्नप्रियोक्तिभिः । KRT_7_0456ab
सर्वत्यागी ययौ राजा दीर्घनिद्रारसज्ञताम् ॥ KRT_7_0456cd
दाक्षिण्योल्लङ्घनप्रायश्चित्तायेव त्यजन्नसून् । KRT_7_0457ab
कृतज्ञया पतिः पत्न्या ततो निन्ये सनाथताम् ॥ KRT_7_0457cd

449.

--1) Thus A3; A1 ॰योगं लघु॰.

450.

--1) A2 gloss धान्यं धनिका धान्यवल् इति भाषया । तदम्बु.

452.

--1) Thus corr. by A3 from A1 क्षपान्तिके.

455.

--1) Thus corr. by A1 सोभवत्.

[page 122]




आराजपुत्रचण्डालं देयं प्रत्यहवेतनम् । KRT_7_0458ab
ददौ स्वस्येव भृत्येभ्यः सा कर्तुमनृणं पतिम् ॥ KRT_7_0458cd
गृहीतवेतना भृत्याः कोश1ं सर्वे तया स्वयम् । KRT_7_0459ab
पुरस्ताद्विजयेशस्य नप्तुः क्षेमाय पायिताः ॥ KRT_7_0459cd
पादन्यस्तशिराः पौत्रो रुदन्नर्पितकोशया । KRT_7_0460ab
मूर्धन्याघ्राय कथितो मा पितुर्विश्वसीरिति ॥ KRT_7_0460cd
उत्थितै1व ततो भूत्वा स्वयमात्तलता2 सती । KRT_7_0461ab
प्रातिहार्यं3 व्यधाद्भर्तुः कारयन्त्यन्तमण्डनाम् ॥ KRT_7_0461cd
सादिनां शतमादिश्य नप्तस्तत्रैव रक्षणे । KRT_7_0462ab
सा पुनः शिबिकारूढमथ प्रास्थापयत्पतिम् ॥ KRT_7_0462cd
क्षामेकां दिनार्धं च स्थित्वैवं पतिदेवता । KRT_7_0463ab
प्रणम्य विजयेशानं युग्यारूढा प्रास्थापयत्पतिम् ॥ KRT_7_0463cd
निर्यान्तौ वीक्ष्य तौ प्रेततूर्यकल्लोलमिश्रितैः । KRT_7_0464ab
लोकस्याक्रन्दतुमुलैर्भग्ना इव दिशोभवन् ॥ KRT_7_0464cd
विमानस्योत्पताकस्य परिष्कारेषु बिम्बिताः । KRT_7_0465ab
प्रजा राज्ञेन्तिके रेजुरनुगन्तुमिवोद्यताः ॥ KRT_7_0465cd
राज्ञां वितीर्णस्कन्दानां1 मरुल्लोलाः शिरोरुहाः । KRT_7_0466ab
विमानस्थस्य नृपतेरवहंश्चामरश्रियम् ॥ KRT_7_0466cd
पश्यन्ती1 पश्चिमां सेवां सैन्यानां नृपतिप्रिया । KRT_7_0467ab
अस्ताभिलाषिणि दिने प्रपेदे पितृकाननम् ॥ KRT_7_0467cd
दुस्त्यजात्सुतवात्सल्याद्यद्वा केनापि हेतुना । KRT_7_0468ab
सा बभूव क्षणे तस्मिंस्तनयालोकनोत्सुका ॥ KRT_7_0468cd
जानन्ती पवनोद्धूतं रजः सेनासमुत्थितम् । KRT_7_0469ab
चकितोत्कण्ठिता साभूत्कलशागमना1शया ॥ KRT_7_0469cd
तस्मिन्क्षणे जनाः केचिदायाता नगराध्वना । KRT_7_0470ab
अङ्ग किं कलशः प्राप इति पृष्टास्ततया स्वयम् ॥ KRT_7_0470cd
स तु पुत्रः क्षणे तस्मिन्यियासुर्मातुरन्तिकम् । KRT_7_0471ab
दत्त्वा विभीषिकास्तास्ता निरुद्धो द्वैधकारिभिः ॥ KRT_7_0471cd
ततो गृहीतनैराश्या राज्ञी पुत्रावलोकने । KRT_7_0472ab
सा प्रार्थयित्वा वैतस्तं वारि श्लोकमथापठत् ॥ KRT_7_0472cd
वैतस्तेन तु तोयेन जठरस्थेन ये मृताः । KRT_7_0473ab
मोक्षं गच्छन्त्यसंदेहं ते यथा ब्रह्मवादिनः ॥ KRT_7_0473cd
उपनीतं वितस्ताम्बु पीत्वोपस्पृश्य चाथ सा । KRT_7_0474ab
एवं शशाप पिशुनान्स्नेहसंक्षयकारिणः ॥ KRT_7_0474cd
जनितं प्राणदृद्वैरं यैः पुत्रेण सहावयोः । KRT_7_0475ab
सान्वयानां क्षयस्तेषां भूयात्परिमितैर्दिनैः ॥ KRT_7_0475cd
तस्यास्तेनोपतप्तायाः शापेनाव्यभिचारिणा । KRT_7_0476ab
क्षिप्रमेव जयानन्दजिन्दुराजादयो मृताः ॥ KRT_7_0476cd
चक्रे हलधराप्रत्वजातकौलीनशान्तये । KRT_7_0477ab
परलोकं पणीकृत्य युक्त्या च शपथं सती ॥ KRT_7_0477cd
एवं विशुद्धशीलत्वं संप्रकाश्य शुचिस्मिता । KRT_7_0478ab
कर्णीरथाददाज्झम्पां ज्वलिते जातवेदसि ॥ KRT_7_0478cd
अजायत नभो वह्निज्वालावलयमालितम् । KRT_7_0479ab
तदागमोत्सवे दत्तसिन्दूरमिव निर्जरैः ॥ KRT_7_0479cd
साक्रन्दैर्न चटत्कारी दुःखोत्तप्तैर्न चोष्मलः । KRT_7_0480ab
परमालेख्यलिखित इव जज्ञे शिखी जनैः ॥ KRT_7_0480cd
गङ्गाधरष्टक्किबुद्धो युग्यवाहश्च दण्डकः । KRT_7_0481ab
तावुद्दा नोनिका वल्गा चेति दास्यस्तदान्वयुः ॥ KRT_7_0481cd
बप्पटोद्भटयोः कुल्यौ सेनटक्षेमटावुभौ । KRT_7_0482ab
भूपालवल्लभावास्तां वैराग्याद्विजयेश्वरे ॥ KRT_7_0482cd
भावा यन्त्रनिसर्गभुङ्गुरतरास्तिष्ठन्ति नैते चिरं चेतःकाचघटस्य1 तस्य घटते दीर्घोयमेको गुणः । KRT_7_0483ab
यत्तस्मिन्निहितप्ररूढि न गलत्यायाति न म्लानतां धत्ते नापचयं चमत्कृतिवचो गीर्वाणगङ्गापयः ॥ KRT_7_0483cd
एकषष्टिमतिक्रम्य वर्षान्भूपतिरायुषः । KRT_7_0484ab
सपत्नीकः पुरारातिगौरीसायुज्यमासदत् ॥ KRT_7_0484cd

459.

--1) A3 gloss दिव्यं.

461.

--1) उत्थि supplied by A2 in space left by A1.

--2) A3 gloss आत्ता गृहीता लता यथा.

--3) A3 gloss द्वास्स्थत्वं.

466.

--1) A3 gloss वितीर्णाः दत्ताः स्कन्दाः भुजशिरांसि शिविकावाहार्थं यैः तेषां.

467.

--1) Thus corr. by A3 from A1 पश्यन्त्यपश्चि॰.

469.

--1) Thus corr. by A3 from A1 ॰गमाशया.

483.

--1) A3 gloss चेतोरूपे काचघटे शीश इति प्रसिद्धे.

[page 123]




अथास्थीनि सस्मादाय चतुर्थे दिवसे तयोः । KRT_7_0485ab
पुत्रास्तन्वङ्गराज्यस्य सर्वे गङ्गां प्रतस्थिरे ॥ KRT_7_0485cd
पैतामहेन कोशेन परिवारेण चान्वितः । KRT_7_0486ab
पित्रा विरोधं जग्राह हर्षस्तु विजयेश्वरे ॥ KRT_7_0486cd
आद्ये पिता पुरवरे1 पिता श्रीविजयेश्वरे । KRT_7_0487ab
तस्मिन्पुत्रस्तु तत्रासीत्पिता तु नगरान्तिके ॥ KRT_7_0487cd
ततोतिव्ययिनं पुत्रं दरिद्रो नीतिमान्पिता । KRT_7_0488ab
अभ्यर्थ्यानर्थभीतश्च संधिं दूतैरयाचत ॥ KRT_7_0488cd
स तैरसकृदायातैरुत्सिक्तो युक्तवादिभिः । KRT_7_0489ab
राजपुत्रः समं पित्रा संधिं निन्ये कथंचन ॥ KRT_7_0489cd
रक्षां पैतामहे कोशे शरीरे चात्मजन्मने । KRT_7_0490ab
प्रतिशुश्राव जनकः कृतप्रत्यहवेतनः ॥ KRT_7_0490cd
नृपतेः पुत्रमानेतुम् विशतो विजयेश्वरम् । KRT_7_0491ab
दृष्टिः प्लुष्टैर्गृहैर्दग्धा श्रुतिश्च जनगर्हया ॥ KRT_7_0491cd
स पीतकोशः संगृह्य तनयं प्राविशत्पुरम् । KRT_7_0492ab
कोशं चास्थापयन्मुद्रां दत्त्वा तदभिधाङ्किताम् ॥ KRT_7_0492cd
अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत । KRT_7_0493ab
दारिद्र्यच्छेदिनी धर्म्या धनबुद्धिश्च सर्वतः ॥ KRT_7_0493cd
तनयो नयनाख्यस्य कल्पः सेल्यपुरौकसः । KRT_7_0494ab
कुटुम्बिनो जय्यकाख्यः क्रमाड्डामरतामगात् ॥ KRT_7_0494cd
स्थलोत्पत्तिः स दिग्देशविक्रीतान्नो वणिज्यया । KRT_7_0495ab
संभृतार्थः शनैर्लुब्धो धनेशस्प1र्धितां दधे2 KRT_7_0495cd
सार्धं क्रोशं खनित्वा स नित्यं दीन्नारराशिभिः । KRT_7_0496ab
पूरितायाः क्षितेः पृष्ठे बहून्व्रीहीनवापयत् ॥ KRT_7_0496cd
दीन्नारन्यसनं भृत्यैः कारयित्वा प्रतिक्षपम् । KRT_7_0497ab
बहवो भेदभीतेन तेन गूढं निपातिताः ॥ KRT_7_0497cd
स भाङ्गिलं लब्धुमिच्छन्वलेकस्मात्पलायिते । KRT_7_0498ab
द्राक्षालतानिरुद्धाश्वो हतः केनापि पत्तिना ॥ KRT_7_0498cd
तदीयेनोपलब्धेन धनेन वसुधातलात् । KRT_7_0499ab
पर्याप्तेनात्यजद्राजा यावदायुर्दरिद्रताम् ॥ KRT_7_0499cd
समृत्सु क्षाल्यमानेषु तद्दीन्ना1रेष्वहर्निशम् । KRT_7_0500ab
कलुषाम्भा बहून्मासान्वितस्ता समपद्यत ॥ KRT_7_0500cd
दानोपभोगरहिताः काले क्लेशेन भूयसा । KRT_7_0501ab
अन्यार्थमर्थान्रक्षन्ति चित्रं लुब्धा महाशयाः ॥ KRT_7_0501cd
प्राणान्धारयते निपीय मरुतः शेते तमोन्धे बिले संभोगे परदत्तमिच्छति पटं नग्नस्त्रपाशान्तरे । KRT_7_0502ab
विस्तार्येति कदर्यतामहिरवत्यन्यस्य हेतोर्निधीन्नान्यः कोपि परं परोपकृतिषु प्रौढोस्ति लुब्धं विना ॥ KRT_7_0502cd
अन्यैश्च बहुभिर्मर्गैर्नद्यः सिन्धुमिवाविशत् । KRT_7_0503ab
नानाथसंपदस्तास्ता1 भाग्यभाजं महीभुजम् ॥ KRT_7_0503cd
अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् । KRT_7_0504ab
दिम्भ्योभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ KRT_7_0504cd
स्रोतांसि प्रबलत्वमेत्य वसुधां मूलेषु पुष्णन्त्यधो व्योम्नोम्भः पतति त्यजन्ति हरितो वारि प्रणालीमुखैः । KRT_7_0505ab
इत्थं शुष्कसरः पयोदसमये संपूर्यते सर्वतो भाग्यानामुदये विशन्ति शतशो द्वारैर्न कैः संपदः ॥ KRT_7_0505cd
जनरक्षणदाक्षिण्ये तत1ः पितुरिवान्वहम्2 KRT_7_0506ab
कुशला कलशस्यासीत्प्रजापुण्योदयैर्मतिः ॥ KRT_7_0506cd
स्वयं वणिगिवार्थानां गणनाकुशलोपि सः । KRT_7_0507ab
विवेक्ता सत्पथत्यागे मुक्तहस्तः सदाभवत् ॥ KRT_7_0507cd
उपस्हितौ भाविनौ च पश्यन्नायव्ययौ स्वयम् । KRT_7_0508ab
अन्तिकान्नात्यजद्भूर्जखटिकादि नियोगिवित् ॥ KRT_7_0508cd
तस्य स्वरूपमूल्येन रत्नादि क्रीणतः स्वयम् । KRT_7_0509ab
नाशकन्वञ्चनां कर्तुं केपि विक्रयकारिणः ॥ KRT_7_0509cd
त्रिवर्गं सेवमानः स विभज्य समयं सुखी । KRT_7_0510ab
मध्याह्नादूर्ध्वमभवददृश्यः सर्वकार्यिणाम् ॥ KRT_7_0510cd
तस्य त्वेषां परेषां च कृत्यमन्विष्यतश्चरैः । KRT_7_0511ab
अज्ञातः स्वप्नवृत्तान्तः प्रजानामभवद्यदि ॥ KRT_7_0511cd

487.

--1) Thus emended with G; A पुत्रवरे.

495.

--1) शस्प supplied by A3 in space left by A1.

--2) Thus corr. by A2 from A1 र्धतामगात्.

500.

--1) Emended; A तद्दीना॰.

503.

--1) Thus corr. by A3 from A1 ॰स्ताता.

506.

--1) ततः supplied by A3 in space left by A1.

--2) Thus corr. by A3 from A1 ॰वान्तिकम्.

[page 124]




स्ववेश्यमेव गृहस्थस्य ध्यायतश्चास्य मण्डलम् । KRT_7_0512ab
जनो जनपदे जातु न कश्चिद्दैन्यमस्पृशत् ॥ KRT_7_0512cd
कौलीनचकितो राजा कुर्वन्कण्टकशोधनम् । KRT_7_0513ab
प्रकटं नात्यजद्दण्डं चौरेभ्योपो स जातु चित् ॥ KRT_7_0513cd
न तस्यार्थः कोपि नष्टो मन्त्रिणो यमयोजयन् । KRT_7_0514ab
मन्त्रिणां स पुनश्चक्रे नष्टस्यार्थस्य योजनम् ॥ KRT_7_0514cd
विवाहयज्ञयात्रादिमहोत्सवशताकुलः । KRT_7_0515ab
नित्यप्रहृष्टो निर्दैन्यस्तद्राज्ये ददृशे जनः1 KRT_7_0515cd
तेन नीतिविदाक्रान्तः क्ष्माभुजः क्षित्यनन्तराः । KRT_7_0516ab
आहाराचरणेप्यासंस्तदध्यक्षान्विताक्षमाः ॥ KRT_7_0516cd
तन्वङ्गस्थस्य1क्वनादींस्त्रीनायातान्दिगन्तरात् । KRT_7_0517ab
व्ययितैकानुजान्मल्लप्रमुखान्गुङ्गजानपि ॥ KRT_7_0517cd
अप्रीणयद्बन्धुभृत्यान्स भव्याभिर्विभूतिभिः । KRT_7_0518ab
कलाभिरमृतार्द्राभिः सोमः1 सुरपितॄनिव ॥ युग्मम्॥ KRT_7_0518cd
अवाप्तपरिपाकोपि दौःशील्येन न भूपतिः । KRT_7_0519ab
कुदैशिकोपदिष्टेन दुष्टाचारेण चोज्झितः ॥ KRT_7_0519cd
टक्केन बुल्लियाख्येन कन्यकाः समुपाहृताः । KRT_7_0520ab
क्रीतास्तस्य तुरुष्केभ्यो1 नानादिग्देशसंभवाः ॥ KRT_7_0520cd
स ताभिः परदारैश्च रूपलोभादुपाहृतैः । KRT_7_0521ab
अवरोधपुरंध्रीणां द्वासप्ततिमढौकयत् ॥ KRT_7_0521cd
बह्वीः कामयमानस्य योषितः प्रतिवासरम् । KRT_7_0522ab
मत्स्ययूषादिभिर्वृष्यैर्ना1स्य पुष्टिरंहीयत ॥ KRT_7_0522cd
महासमयपूजासु व्यग्रः स गुरुभिः समम् । KRT_7_0523ab
महाचरूणामाहारं नीतिमुत्सृज्य चाकरोत् ॥ KRT_7_0523cd
एवं शबलकृत्येन पुरं तेन नवीकृतम् । KRT_7_0524ab
निर्दग्धे विजयक्षेत्रे शिलावेश्म न1 शूलिनः ॥ KRT_7_0524cd
विजयेशशिलावेश्ममौलावातपवारणम् । KRT_7_0525ab
नृपोम्बरशिरश्चुम्बि जाम्बूनदमयं व्यधात् ॥ KRT_7_0525cd
व्यवस्थितिं चानपायां व्यधत्त त्रिपुरेश्वरे । KRT_7_0526ab
पिनाकिनश्च प्रासादं स स्वर्णामलसारकम् ॥ KRT_7_0526cd
ततः सत्कर्मकुशलश्चकार कलशेश्वरम् । KRT_7_0527ab
निःसंख्यहाटकघटीपटलाङ्कशिलागृहम् ॥ KRT_7_0527cd
कलशेशोपरि छत्त्रं चिकीर्षोः काञ्चनाञ्चितम् । KRT_7_0528ab
तुरुष्कदेशजः शिल्पी राज्ञोभ्यर्णमुपाययौ ॥ KRT_7_0528cd
सहस्रैर्भूरिभिर्हेम्नश्छत्त्रसिद्धिं वदन्कलाम् । KRT_7_0529ab
स छादयन्निजां ताम्रे काञ्चनारोपणं विदन् ॥ KRT_7_0529cd
कानिचिद्दिवसान्यासीत्प्राप्नुवन्नृपसत्क्रियाम् । KRT_7_0530ab
ततोतितीक्ष्णप्रज्ञेन नोनकाख्येन मन्त्रिणा ॥ KRT_7_0530cd
अभ्यूह्य शिक्षितकलो विलक्षोगाद्यथागतम् । KRT_7_0531ab
तच्च छत्त्रं ययौ सिद्धिमत्यल्पैरेव काञ्चनैः ॥ KRT_7_0531cd
अनन्तेशाभिधं बाणलिङ्गमन्याश्च भूपतिः । KRT_7_0532ab
प्रतिष्ठा विविधाश्चक्रे स शक्राधिकवैभवः ॥ KRT_7_0532cd
नृपे सहजपालाख्ये शान्तिं यातेभ्यषिच्यत । KRT_7_0533ab
ततः संग्रामपालाख्यो राहपुर्यां1 तदात्मजः ॥ KRT_7_0533cd
राज्यं जिहीर्षुर्बालस्य पितृव्यस्तस्य भूपतेः । KRT_7_0534ab
भेजे पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ KRT_7_0534cd
रद्भयाच्छरणं प्रायान्नृपं साहायकार्थिनी । KRT_7_0535ab
स्वसा संग्रामपालस्य1 जस्सराजश्च टक्कुरः ॥ KRT_7_0535cd
कृतप्रसादो नृपतिः साहायककृते ददौ । KRT_7_0536ab
तयोः पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ KRT_7_0536cd
तत्र विद्रावितामित्रः स1 स्फूर्जन्क्रान्तमण्डलः । KRT_7_0537ab
संग्रामपालामात्यानां कार्यान्ते शङ्क्यतां2 ययौ ॥ KRT_7_0537cd
काङ्क्षन्तो गमनं तस्य दत्त्वा तास्ता विभीषिकाः । KRT_7_0538ab
ते त्रासमैच्छन्नाधातुम् स वीरो न त्वकम्पत ॥ KRT_7_0538cd
मतिं राजपुरीयाणामसावेतामदादिति । KRT_7_0539ab
शङ्कमानेन तेनाथ बिज्जे मन्युरुपाहृतः ॥ KRT_7_0539cd

525.

--1) Thus corr. by A1 from जनैः.

527.

--1) Doubtful; thus A.

528.

--1) मः supplied by A3 in space left by A1.

520.

--1) Thus A3; A1 तुरुष्केन.

522.

--1) A3 gloss वृष्यैः वाजीकरणैः. A2 quotes: वृष्यकल्पतरौ पारिभद्ररसेनैव हिङ्गुलं याममात्रकम् । मर्दयित्वा पारदवत्पातयेत्पूर्वयुक्तितः । योजयेत्सर्वयोगेषु सप्तकञ्चुकवर्जितम्॥.

524.

--1) supplied by A3 in space left by A1.

533.

--1) A3 gloss राजविर् इति भाषया.

535.

--1) Thus corr. by A3 from A1 संग्रामराजस्य.

537.

--1) A4 gloss जयानन्दः.

--2) Thus emended with G sec. manu; A शक्यतां.

[page 125]




तैस्तत्र दत्तद्रविणैः प्रार्थितोथ महामतिः । KRT_7_0540ab
रक्षापदेशात्स्वं सैन्यं स्थापयित्वा न्यवर्तत ॥ KRT_7_0540cd
एवं राजपुरीं तस्मिन्स्वीकृत्यान्तिकमागते । KRT_7_0541ab
तुतोष कार्यमर्मज्ञः प्राज्ञः कलशभूपतिः ॥ KRT_7_0541cd
क्रमाद्राजायमानेषु बिज्जादिष्वथ पस्पृशे । KRT_7_0542ab
आमयेन जयानन्दो दैवात्प्रमयहेतुना ॥ KRT_7_0542cd
स्वास्थ्यवार्तोपलम्भाय भूपतिं गृहमागतम् । KRT_7_0543ab
वाच्यमस्ति रहः किंचिदित्यूचे स कथान्तरे ॥ KRT_7_0543cd
निर्यातेष्वथ सर्वेषु किंचिन्नैवाब्रवीद्यदा । KRT_7_0544ab
तदा ताम्बूलतित्यक्षाव्याजाद्बिज्जो विनिर्ययौ ॥ KRT_7_0544cd
आप्तेनोक्तोपि निर्गच्छन्किं प्रयासीति भूभुजा । KRT_7_0545ab
मन्त्रिणा चैत्य स प्राज्ञो बहिरेव व्यलम्बत ॥ KRT_7_0545cd
जयानन्दोभ्यधाद्भूपमुक्त्वा राजपुरीकथाम् । KRT_7_0546ab
व्यक्तं नास्त्येव ते राज्यं बिज्जे वृद्धिमुपागते ॥ KRT_7_0546cd
आदीयमानाद्बिज्ज्येन कार्येभ्यो वेतनादपि । KRT_7_0547ab
दर्शयामास गणनां बहुमूल्यां महीभुजे ॥ KRT_7_0547cd
प्राप्तः कलुषतां राजा प्रयातः स्वगृहांस्ततः । KRT_7_0548ab
याचितो गमनानुज्ञां बिज्जेनेङ्गितवेदिना ॥ KRT_7_0548cd
निषेधन्निव दाक्षिण्यलेशान्निर्बन्धकारिणः । KRT_7_0549ab
तस्यानुज्ञां ददौ गन्तुं सान्तस्तोषो महीपतिः ॥ KRT_7_0549cd
लब्धादेशो गृहान्गम्त्वा सर्वोपकरणैः समम् । KRT_7_0550ab
प्रस्थाप्य सोग्रतो भ्रातॄनाप्रष्टुं नृपतिं ययौ ॥ KRT_7_0550cd
राज1धर्मभीरत्वक्रूरयोः स्वामिभृत्ययोः । KRT_7_0551ab
काचिदेव क्षणे तस्मिंश्चेष्टाभूदद्भुतावहा ॥ KRT_7_0551cd
न यत्प्रभुः प्रियं भृत्यं गमनात्स व्यवर्तयत् । KRT_7_0552ab
उपालेभे समन्युश्च न यद्भृत्यः प्रियं प्रभुम् ॥ KRT_7_0552cd
सहोत्थितेन कतिचित्पदानि सह भूभुजा । KRT_7_0553ab
चिरं कृत्वा कथां नीचैर्हसन्बिज्जो विनिर्ययौ ॥ KRT_7_0553cd
जिन्दुराजं हलधरो मुमूर्षुर्दूषयन्यथा । KRT_7_0554ab
तथा बिज्जं यजानन्दः स व्यवारोपयत्पदात् ॥ KRT_7_0554cd
तल्लक्ष्मीमात्रशेषां क्ष्मां कृत्वा गच्छन्विधीयताम् । KRT_7_0555ab
हृतार्थो बिज्ज इत्युक्तिं नाग्रहीन्मन्त्रिणां नृपः ॥ KRT_7_0555cd
निर्वर्तयिष्यति क्ष्माभृन्नियतं गमनादमुम् । KRT_7_0556ab
इत्याशयान्वगाद्बिज्जं राजवर्जं जनोखिलः ॥ KRT_7_0556cd
आस्कन्दं शङ्कमानोस्थाद्बिज्जाद्राजा बलोर्जितात् । KRT_7_0557ab
तृणस्पन्देपि चकितो निर्निद्रः पञ्च यामिनीः ॥ KRT_7_0557cd
तस्मिञ्शूरपुराद्या1ते निवृत्तेष्वनुगन्तृषु । KRT_7_0558ab
निवृत्तशङ्कस्तां शङ्कां प्रादुश्चक्रे स मन्त्रिणाम् ॥ KRT_7_0558cd
ते तदाकर्ण्य यं मन्त्रं बिज्जार्थहरणेब्रुवन् । KRT_7_0559ab
तस्याविधाने भूभर्तुरमन्यन्त नयज्ञाताम् ॥ KRT_7_0559cd
बिज्जादयस्तु निर्द्रोहा यं यं देशमशिश्रयन् । KRT_7_0560ab
तत्र तरैव पूज्यत्वं रत्नानीव प्रपेदिरे ॥ KRT_7_0560cd
बिज्जोधिकं प्रवृद्धोपि दैवतस्येव भक्तिमान् । KRT_7_0561ab
पद्भ्यां कलशदेवस्य सत्यंकरः सदाभवत् ॥ KRT_7_0561cd
एवं निर्वास्य बिज्जादीनशिरावाप्तवैभवः । KRT_7_0562ab
क्षिप्रं सूर्यमतीशापाजयानन्दः क्षयं ययौ ॥ KRT_7_0562cd
राज्ञो विरोधकृद्वक्तुं शापस्याव्यभिचारिताम् । KRT_7_0563ab
प्रमयम् जिन्दुराजोपि तस्मिन्नेव क्षणे ययौ ॥ KRT_7_0563cd
तेपि बिज्जादयः क्षिप्रमचिरावाप्तसंपदः । KRT_7_0564ab
प्रापुः शापोचितं सर्वे प्रमयं गौडमण्डले ॥ KRT_7_0564cd
आकस्मिकेथ प्रमये1 बिज्जः प्रमयमाययौ । KRT_7_0565ab
सुदीर्घबन्धनक्लेशं प्राप्युस्तदनुजा अपि ॥ KRT_7_0565cd
पलायितेषु कारायास्तेषु व्याघ्रेण पाजकः1 KRT_7_0566ab
हत1स्तदनुजाः शेषा मुक्तक्लेशाः क्षयं ययुः ॥ KRT_7_0566cd
द्वित्रास्तद्द्वैध1काराणां नानश्यन्मदनादयः । KRT_7_0567ab
अदीर्घेणैव कालेन दुरन्तैर्यैर्भ1विष्यते ॥ KRT_7_0567cd
जयानन्दसहायोथ तत्पुत्रान्परिपालयन् । KRT_7_0568ab
सर्वाधिकारी भूपेन वामनाख्यो व्यधीयत ॥ KRT_7_0568cd

551.

--1) Thus corr. by later hand from A1 राज्य॰.

558.

--1) A3 gloss हूरपुर्.

565.

--1) A2 gloss आकस्मिके प्रमये मारीदोष इत्यर्थः.

566.

--1) Thus A1; A3 R G पाजकाः.

--2) Thus A1; A3 ततस्त॰.

567.

--1) Thus A1; A3 द्वित्रास्तु द्वैध॰.

--2) Thus corr. by A3 from A1 -- तैस्तैर्भवि॰.

[page 126]




यस्य तास्ता व्यवहृतीर्नातिज्ञस्याद्भुतावहाः । KRT_7_0569ab
वर्णयन्ति वयोवृद्धा गोष्ठीष्वद्यापि1 धीमताम् ॥ KRT_7_0569cd
ग्रामानवन्तिस्वम्यादिभोग्यानाहत्य लुब्धधीः । KRT_7_0570ab
राजा कलशगञ्जाख्यं कर्मस्थानं विनिर्ममे ॥ KRT_7_0570cd
मन्त्रिणे नोनकायासौ धनोत्पादविदेप्यदात् । KRT_7_0571ab
क्रौर्यवस्तो न पादाग्रं जनरक्षणदक्षिणः ॥ KRT_7_0571cd
मन्त्रिणो राजकलशापत्यान्यत्यन्तरङ्गताम् । KRT_7_0572ab
लेभिरे क्ष्माभुजः पार्श्वे प्रशस्तकलशादयः ॥ KRT_7_0572cd
सुताः स्वाच्छन्द्यविवशाश्चौराः संध्यादिसंश्रयाः । KRT_7_0573ab
युक्त्या निदधिरे राज्ञा निबद्धस्वाधिकारिणः ॥ KRT_7_0573cd
पुनर्मदनपालेन क्रान्ते राजपुरीपतौ । KRT_7_0574ab
साहायकाय व्यसृजत्सेनान्यं बप्पटं नृपः ॥ KRT_7_0574cd
प्रतापैर्भूपतेस्तेन भृत्यांशेनापि1 निर्जितः । KRT_7_0575ab
बद्ध्वा मदनपालेपि कश्मीरान्संप्रवेशितः ॥ KRT_7_0575cd
भ्राता वराजदेवस्य कन्दर्पाख्यो महीभुजा । KRT_7_0576ab
कृतो द्वाराधिपो वीरो विदधे डामरक्षयम् ॥ KRT_7_0576cd
बभूव जिन्दुराजात्स शिक्षितो नयविक्रमौ । KRT_7_0577ab
भूम्यन्तरसामन्तमुकुटस्पृष्ठशासनः ॥ KRT_7_0577cd
स राजपुर्यादिजयी द्वारं परमकोपनः । KRT_7_0578ab
क्षणे क्षणेत्यजद्राज्ञा प्रसाद्य ग्राहितः स्वयम् ॥ KRT_7_0578cd
मदनः1 क्षितिपालेन प्रापितः कम्पनेशताम् । KRT_7_0579ab
लब्धप्रकर्षान्त्रोपादीन्डामरान्बहुशोवधीत् ॥ KRT_7_0579cd
सेवावशीकृतः श्येनपालं स1 नगराधिपम् । KRT_7_0580ab
चक्रे विजयसिंहाख्यं हताशेषमलिम्लुचम् ॥ KRT_7_0580cd
कन्दरोपोद1यसिंहाद्यैः प्रहिते लोहरे सकृत् । KRT_7_0581ab
राजा भुवनराजस्य दूरं निःसारणं व्यधात् ॥ KRT_7_0581cd
कीर्तिराजस्य तनयां स च नीलपुरप्रभोः । KRT_7_0582ab
लब्ध्वा भुवनमत्याख्यां रिपोश्छिन्नामयo1भवत् ॥ KRT_7_0582cd
कार्यप्रतिग्रहे कर्तुं प्रवृत्तिं ग्राहितोभवत् । KRT_7_0583ab
हृत्वा विजयसिंहाद्यो नृपेण नगरेशताम् ॥ KRT_7_0583cd
गुङ्गात्मजः स मल्लोथ तेन द्वारपतिः कृतः । KRT_7_0584ab
राज्ञां मौलिमणिस्थाने स्वप्रतापमरोपयत् ॥ युग्मम्॥ KRT_7_0584cd
शौर्यं निष्परिवारस्य पार्थस्यो1त्तरगोग्रहे । KRT_7_0585ab
उरशासंप्रवेशे वा श्रुतं3 मल्लस्य मानिनः ॥ KRT_7_0585cd
पञ्चाशैस्तुरगैर्यत्स कृष्णां तीर्त्वा व्यपाहरत् । KRT_7_0586ab
राज्यं वाजिव्रजैः सार्धमभयाख्यस्य भूभुजः ॥ KRT_7_0586cd
एवं वशीकृतभुवो भूपतेर्नयवेदिनः । KRT_7_0587ab
सममेवाष्टभूपालास्त्रिषष्टेब्देविशन्पुरम् ॥ KRT_7_0587cd
कीर्तिन्यब्बपुराधीशश्चाम्येयो भूभृदासटः । KRT_7_0588ab
तुक्कात्मजस्तु कलशो बल्लापुरनरेश्वरः ॥ KRT_7_0588cd
राजा संग्रामपालाख्यः स च राजपुरीपतिः । KRT_7_0589ab
उत्कर्षो लोहरोर्वीभृदौर्वशो मुङ्गजो नृपः ॥ KRT_7_0589cd
गाम्भीरसीहः कान्देशः काष्टवाटधराधिपः । KRT_7_0590ab
श्रीमानुत्तमराजोपि राजानमुपतस्थिरे ॥ तिलकम्॥ KRT_7_0590cd
राजलोकः प्रवृद्धोपि वने जनपदेभवत् । KRT_7_0591ab
दुर्लक्षो वार्षिकसरित्पूरो वारिनिधाविव ॥ KRT_7_0591cd
तस्मिन्क्षणे शिलीभूतवितस्तासलिले नृपैः । KRT_7_0592ab
शीतक्षणेप्यसंक्षीणं सुखं तैरन्बभूयत ॥ KRT_7_0592cd
मनसापि हि भूपाला यत्ते किंचिदचिन्तयन् । KRT_7_0593ab
प्राप्तमेव पुरेपश्यन्वामनेन तदाहृतम् ॥ KRT_7_0593cd
कौशलं मन्त्रिणस्तस्य रराजेतरदुर्लभम् । KRT_7_0594ab
निमित्तं तदसंभ्रान्तो नित्यवद्योत्यवाहयत् ॥ KRT_7_0594cd
पार्थिवेष्वथ यातेषु मल्ले कार्यपराङ्मुखे । KRT_7_0595ab
क्षितिपालेन कन्दर्पो द्वारं स्वीकारितः पुनः ॥ KRT_7_0595cd
अभिमानधनो मन्त्री कृतारब्धिर्निजैर्धनैः । KRT_7_0596ab
दुर्गं स स्वापिकं नाम युक्त्या दुर्ग्रहमग्रहीत् ॥ KRT_7_0596cd
स प्रविष्टोपि नगरं खिन्नः केनापि हेतुना । KRT_7_0597ab
पार्थिवाभ्यर्थ्यमानोपि कार्यं नैवाग्रहीद्यदा ॥ KRT_7_0597cd

569.

--1) पि supplied by A3.

575.

--1) Thus corr. by A3 from A1 ॰शेमाति.

579.

--1) A3 gloss मदनपालः.

580.

--1) supplied by A3.

581.

--1) Thus corr. by A3 from A1 कन्दर्पोभ॰.

582.

--1) Thus corr. by A3 from A1 ॰च्छिन्नाश्रयो॰.

585.

--1) A3 gloss अर्जुनस्य.

--2) A3 gloss उत्तरो विराटपुत्रः.

--3) Thus A1; A3 द्रुतं.

[page 127]




तदा प्रशस्तकलशो1 नित्यं दूत्यम् समाचरन् । KRT_7_0598ab
तदुत्सिक्तोक्तिसंतप्तः संस्पृशन्नभिमानिताम् ॥ KRT_7_0598cd
निजश्रियातिभूयस्या भूरीन्संगृह्य शस्त्रिणः । KRT_7_0599ab
तत्पदे रत्नकलशं स्वभ्रातरमकारयत् ॥ KRT_7_0599cd
सोर्थैः क्रीत1प्रथोप्यासीन्न कन्दर्पस2मः क्वचित् । KRT_7_0600ab
किं चित्रोल्लिखितः सिंहः सत्यसिंहक्रियां स्पृशेत् ॥ KRT_7_0600cd
ततः क्रमेण भूभर्त्रा भृत्यरत्नं कथंचन । KRT_7_0601ab
राजस्थानाधिकारं स नगरे ग्राहितः पुनः ॥ KRT_7_0601cd
अतिताडनतश्चौरे विपन्नेथ कृपाकुलः । KRT_7_0602ab
त्यक्त्वा तमप्यधीकारं विषण्नो जाह्न1वीमगात् ॥ KRT_7_0602cd
पटान्तकृतसंरोधस्ताडयित्वा करं प्रभोः । KRT_7_0603ab
कोपाद्देशान्त्रं याaतस्तं प्रत्यास्ते2 स्म मन्युमान् ॥ KRT_7_0603cd
अत्यन्तखेदितोप्या1सीदानीतस्यान्तिकं पुनः । KRT_7_0604ab
दर्पं हर्तुं नृपस्तस्य संनद्धो न तु जीवितम् ॥ KRT_7_0604cd
इत्थं पुरुषसिंहानां प्रौढदार्द्यो विदोढवान् । KRT_7_0605ab
आरोहमवरोहं च सोन्तरज्ञः क्षमापतिः ॥ KRT_7_0605cd
उपाङ्गगीतव्यसनं नर्तकीसंग्रहादरः । KRT_7_0606ab
देशान्तरोचितं राञ्जा तेनैवेह प्रवर्तितम् ॥ KRT_7_0606cd
ततो जयवनोपान्ते निरन्तरमहागृहम् । KRT_7_0607ab
स्वनामाङ्कं पुरं कर्तुं प्रावर्तत विशांपतिः ॥ KRT_7_0607cd
मठाग्रहारप्रासादमहागृहपरंपराः । KRT_7_0608ab
सत्तोयोपवनास्तत्र ययुः सिद्धिम् सहस्रधा ॥ KRT_7_0608cd
अत्रान्तरे राजसूनुर्हर्षः सोत्कर्षपौरुषः । KRT_7_0609ab
गुणैर्लेभे प्रकाशत्वमन्यभूपालदुर्लभैः ॥ KRT_7_0609cd
सोशेषदेशभाषाज्ञः सर्वभाषासु सत्कविः । KRT_7_0610ab
कृत्स्नविद्यानिधिः प्राप ख्यातिं देशान्तरेष्वपि ॥ KRT_7_0610cd
लुब्धेन पित्रा संत्यक्ता जना नानादिगागताः । KRT_7_0611ab
गुणशौर्योज्ज्वलास्तेन गृहीताः कृतवेतनाः ॥ KRT_7_0611cd
अपर्याप्ते पितृकृते वेतने व्ययशालिनः । KRT_7_0612ab
एकाहान्तरितं तस्य भोजनं त्यागिनोभवत् ॥ KRT_7_0612cd
पितरं गायन इव व्यक्तं गीतैः स रञ्जयन् । KRT_7_0613ab
भर्तव्यभरणं चक्रे तद्दत्तैः पारितोषिकैः1 KRT_7_0613cd
उद्गायति पुरस्तस्मिन्कदाचिदथ पार्थिवः । KRT_7_0614ab
सभ्येषु प्रीयमाणेषु शौचायोत्थाय निर्ययौ ॥ KRT_7_0614cd
तेन प्रसङ्गभङ्गेन जततेजोवधः सुधीः । KRT_7_0615ab
क्षुभ्यन्वै1लक्ष्यकोपाभ्यां कुमार2ः क्षितिमैक्षत ॥ KRT_7_0615cd
प्रभुर्वीतक्षान्तिः सुहृदतिशठः स्त्री परुषवाक्सुतो गर्वोन्नद्धः परिजन उदात्तप्रतिवचाः । KRT_7_0616ab
इयान्सोढुं शक्यो ननु हृदयदाही परिकरो न तु श्रोतावज्ञालिलितनयनान्तं परिभवन् ॥ KRT_7_0616cd
पितुरेव तदा भृत्यो विश्शावट्टाभिधो विटः । KRT_7_0617ab
शाधि राज्यं निहत्येमं निर्मणेवेत्युवाच तम् ॥ KRT_7_0617cd
अधिक्षिपन्स तं रोषान्नानेनोक्तमसांप्रतम् । KRT_7_0618ab
इत्यासन्नेन हसता धम्मटेना1प्यकथ्यत ॥ KRT_7_0618cd
अग्रे भोगेच्छवश्छन्नाः कुमाराननुगान्पितुः । KRT_7_0619ab
स्नेहं प्रदर्श्य स्वीकुर्युर्वेश्याः कामिस2खीरिव ॥ KRT_7_0619cd
पुनः सभां संप्रविष्टस्तं पिता पर्यतोषयत् । KRT_7_0620ab
प्रीतिदायैस्ततस्तैस्तैः साधुवादैश्च मानिनाम् ॥ KRT_7_0620cd
अन्येद्युस्तु पितुः पार्श्वात्स भुक्त्वा स्वगृहान्गतः । KRT_7_0621ab
अभ्येत्य विश्शावट्टेन तदेव जगदे रहः ॥ KRT_7_0621cd
उपपन्नं तत्तदुक्त्वा तेचाभीक्ष्णं निषेधता । KRT_7_0622ab
निर्बध्नन्नपि हस्तेन सोथ कोपादताद्यत ॥ KRT_7_0622cd
लग्नाभिघातं रुधिरं वमन्तं घ्राणवर्मना । KRT_7_0623ab
तं वीक्ष्य सोभिजातोभूत्सदाक्षिण्यो नृपात्मजः ॥ KRT_7_0623cd
भृत्यैः प्रक्षालयन्नस्रम् तस्येदृक्पाप्मनो भवेत् । KRT_7_0624ab
उक्तेनापीति कथयन्स्मित्वा वासांस्यदापयत् ॥ KRT_7_0624cd

598.

--1) Emended; A R G ॰कलशं.

600.

--1) Thus A1; A3 नीत॰.

--2) Thus corr. by later hand from A1 कन्दर्पः समः.

602.

--1) जाह्न supplied by A3 in space left by A1.

603.

--1) Thus corr. by A3 from A1 प्रत्यास्ने.

604.

--1) Thus A1; A3 ॰स्येदितस्यासीदा॰.

613.

--1) Emended; A ॰तोषकैः.

615.

--1) Thus A1; A3 क्षुभ्यद्वै॰.

--2) Thus corr. by A3 from A1 कुमाराः.

618.

--1) Emended; A धर्मटेँना॰.

619.

--1) Thus A1; A3 कामी स॰.

[page 128]




अनिच्छोरपि तस्येच्छा दानात्तेनान्वमीयत । KRT_7_0625ab
दुःशीलेना1नुaकामिन्याः स्मितमात्रादिव स्पृहा ॥ KRT_7_0625cd
असकृत्कृतयत्नः स ततः कालेन भूयसा । KRT_7_0626ab
तं प्रैरयत्तत्र कृत्ये मध्ये स्वीकृत्य धम्मटम् ॥ KRT_7_0626cd
स रोदद्द्रोहसंकल्पजन्मना पाप्मन श्रितः । KRT_7_0627ab
संमन्त्र्य पितरं1 हन्तुं तीक्ष्णान्प्रायुङ्क्त सर्वतः ॥ KRT_7_0627cd
शश्वत्स गोचरीभूतस्तेषां स्नेहलवस्पृशाम् । KRT_7_0628ab
न घातितः सूनुना च वर्जिता न च तत्कथा ॥ KRT_7_0628cd
आप्तत्वं तीक्ष्णवर्गेथ प्रतिभेदभयाद्गते । KRT_7_0629ab
तां विश्शावट्ट एवाशु वार्तां राज्ञे व्यवेदयत् ॥ KRT_7_0629cd
बुद्धवान्राजपुत्रस्त1त्तस्मिन्नहनि जातभीः । KRT_7_0630ab
भोक्तुं नागात्पितुः पार्श्वमपि दूतैः कृतार्थनः ॥ KRT_7_0630cd
सोपि तस्मिन्ननायाते तत्रार्थे शा1न्तसंशयः । KRT_7_0631ab
दिने तत्र मनस्तापान्नाभुङ्क्त सपरिच्छदः ॥ KRT_7_0631cd
सभ्रातृकस्य प्राप्तस्य प्रातर्दुःखं न्यवेदयत् । KRT_7_0632ab
सुचिरं थक्कनस्याङ्के शिरो विन्यस्य सोरुदत् ॥ KRT_7_0632cd
उक्त्वा च धम्मटो1दन्तं बद्ध्वा2 तस्य समर्पणम् । KRT_7_0633ab
विधेहित्यभ्यधान्नापि तं भङ्गीभणितिक्रमैः ॥ KRT_7_0633cd
न कृताधिगमाaवावां कृत्यस्यास्येत्युदीर्य तम् । KRT_7_0634ab
अभाषेतां भ्रातुर1र्थे पुनस्तन्वङ्गनन्दनौ ॥ KRT_7_0634cd
त्वत्प्रसादबलाद्राजश्चापन्नत्राणदीक्षितौ । KRT_7_0635ab
यावावां तत्प्रवेशा1र्थं व्यक्तद्वारं निशास्वपि ॥ KRT_7_0635cd
कथं न्बु पृथिवीपाल प्राप्ते प्राणात्ययक्षणे । KRT_7_0636ab
निर्दोषो वा सदोषो वा ताभ्यां संत्यज्यतेनुजः ॥ युगलकम्॥ KRT_7_0636cd
स्वामिद्रोहापवादश्च भवेत्तद्रक्षणाद्भुवम् । KRT_7_0637ab
देशत्यागं तदुत्सृज्य शरणं नान्यदावयोः ॥ KRT_7_0637cd
इत्यादि संभाव्य तयोः पादन्यस्तोत्तमाङ्गयोः । KRT_7_0638ab
रुदित्वा गमनानुज्ञां कथंचित्पार्थिवो ददौ ॥ KRT_7_0638cd
पथि कश्चिदमुं हन्यान्मध्यीकृत्येति धम्मतम्1 KRT_7_0639ab
तौ विनिर्जन्तुर्देशात्ततः सबलवाहनौ ॥ KRT_7_0639cd
तन्वङ्गजेषु यातेषु विविक्तीकृतमन्दिरः । KRT_7_0640ab
सुतमानीय नृपतिः सान्त्वयन्निदमब्रवीत् ॥ KRT_7_0640cd
आसंसारं जगत्यस्मिन्सर्वतः ख्यातकीर्तिना । KRT_7_0641ab
जनकेनैव जन्यस्य1 ज्ञप्तिरुत्पाद्यते जनैः । KRT_7_0641cd
पुत्र शीतांशुनेवात्रिं दिग्द्वीपाख्यातकारितिना ॥ KRT_7_0642ab
भवता तु सुपुत्रेण मां जानात्यखिलो जनः ॥ KRT_7_0642cd
स त्वं गुणवतामग्र्यो निरर्गलयशा भवन् । KRT_7_0643ab
असाधुसेव्यमध्वानं वद कस्मान्निषेवसे ॥ KRT_7_0643cd
पैतामहं1 निजं चार्थं यन्न तुभ्यं समार्पय2म् । KRT_7_0644ab
तत्र हेतुमनाकर्ण्य नासूयां कर्तुमर्हसि ॥ KRT_7_0644cd
रिक्तः स्वेभ्यः परेभ्यश्च प्राप्नोत्यभिभवं नृपः । KRT_7_0645ab
इति निर्धाय हि मया क्रियते कोशरक्षणम् ॥ KRT_7_0645cd
पुरप्रतिष्ठां निष्पाद्य क्षिप्त्वा राज्यधुरं त्वयि । KRT_7_0646ab
वाराणस्यां गमिष्यामि नन्दिक्षेत्रेणेथ वा पुनः1 KRT_7_0646cd
तद्राज्यकोशयोः स्वामी बुभूषुर्न चिराद्भवान् । KRT_7_0647ab
अतितात्पर्यतः कस्मादनार्योचितमीहसे ॥ KRT_7_0647cd
संभावयते त्वयि न तद्यन्ममावेदितं खलैः । KRT_7_0648ab
यथार्थकथनात्तस्मात्कौलीनं विनिवार्यताम् ॥ KRT_7_0648cd
विशुद्धये करोत्वेष स्वकृतस्याप्रतिश्रवम् । KRT_7_0649ab
स्नेहादितीच्छंस्तद्राजा साभिप्रायं वचोभ्यधात् ॥ KRT_7_0649cd
अपलापवचोमात्रं निनीषुस्तस्य हेतुताम् । KRT_7_0650ab
जनप्रत्यायने सोभूद्यस्मात्क्षान्तिसमुत्सुकः ॥ KRT_7_0650cd
हर्षस्तु साधुवादैस्तत्पितुः संपूज्य भाषितम् । KRT_7_0651ab
वक्ष्याम्याप्तमुखे तत्त्वमित्युक्त्वा निर्ययौ बहिः ॥ KRT_7_0651cd
सामान्यप्रेरणादेषा चिकीर्षाभूदिति ब्रुवन् । KRT_7_0652ab
स पितृप्रहितं दूतं ह्रीतः स्वा1वसथं ययौ ॥ KRT_7_0652cd

625.

--1) Thus corr. by A3 from A1 दुःशीलान्य॰.

627.

--1) रं supplied by A3.

639.

--1) Thus corr. by A3 from A1 ॰पुत्रस्तस्त॰.

631.

--1) A1 तत्रार्थेऽशान्त॰.

633.

--1) Emended; A दम्मटो॰.

--2) Emended; A बुद्ध्वा.

634,.

--1) A3 gloss धम्मटस्य.

635.

--1) यावावां तत्प्रवेशा supplied by A3 in space left by A1.

639.

--1) Emended; दम्मटम् supplied by A3 in space left by A1.

641.

--1) A4 gloss पुत्रस्य.

644.

--1) A4 gloss अनन्तदेवसम्बन्धिनं.

--2) Emended with C; A समर्पयम्.

646.

--1) Thus R G C; A पुत्रः.

652.

--1) Emended; A सावसथं.

[page 129]




दूतं म्लानाननं वीक्ष्य पाणिभ्यां ताडयञ्शिरः । KRT_7_0653ab
हा पुत्रेति वदन्नाजा तस्यास्कन्दमदापयत् ॥ KRT_7_0653cd
हतेस्मिन्स्वशिरश्छिन्द्याaमिति प्रोक्तवतः प्रभोः । KRT_7_0654ab
निदेशाद्वेष्टयित्वैव तस्थुस्तद्वेश्म शास्त्रिणः ॥ KRT_7_0654cd
तीक्ष्णास्तु पिहितद्वाराः परिवार्य नृपात्मजम् । KRT_7_0655ab
ऊचुः सुपरुषं वाचमेवं निश्चितमृत्यवः2 KRT_7_0655cd
अस्मान्घृणी प्रमादी च विरुद्धं छद्म कारयन् । KRT_7_0656ab
घातयित्वा दुरचार क्व जीवन्स्थातुमिच्छसि ॥ KRT_7_0656cd
रक्षिष्यति सुतं स त्वाम् स पिता रक्षितस्त्वया । KRT_7_0657ab
ज्ञातेयं युवयोरस्ति वयमेव हताः पुनः ॥ KRT_7_0657cd
युध्यस्व मध्यगोस्माकं त्वां निहन्मोन्यथा वयम् । KRT_7_0658ab
एवं सर्वपकारं ते व्यक्तं नास्त्येव जीवितम् ॥ KRT_7_0658cd
तां वार्तां भूपतेः श्रुत्वा व्याकुलस्याग्रतः स्थितः । KRT_7_0659ab
हर्षान्तिकं दण्डकाख्यः प्रायान्निजमहत्तरः ॥ KRT_7_0659cd
तीक्ष्णैर्निजतया दत्तप्रवेशः स नृपात्मजम् । KRT_7_0660ab
प्रसृत्योवाच मतिमानेवं सर्वान्विमोहयन् ॥ KRT_7_0660cd
क्षत्रियापुत्र जीवित्वा कल्पानल्पेतरानपि । KRT_7_0661ab
कारणैर1पि गन्तव्यं नियमान्नियतेर्वशम् ॥ KRT_7_0661cd
तदेतस्मिन्समासन्ने मरणेव्यभिचारिणि । KRT_7_0662ab
यदर्थं गृह्यते शस्त्रं स मानः पाल्यतां त्वया ॥ KRT_7_0662cd
कृतश्रुतः ख्यातयशा युवा सुक्षत्रियो भवान् । KRT_7_0663ab
तदाहवविलम्बेन कार्यं किमिव पश्यसि ॥ KRT_7_0663cd
एतेषु सुसहायेषु मयि चाग्रेसरेधुना । KRT_7_0664ab
विपत्तिर्विजयो वापि प्रतापिंस्तव शोभते ॥ KRT_7_0664cd
उत्तिष्ठ नखकोशाaदियोजनं कारय द्रुतम् । KRT_7_0665ab
वीरपट्टं बधानापि स्वःस्त्रीपरिणयस्रजम् ॥ KRT_7_0665cd
इत्युक्त्वा क्षुरकर्मार्थं राजपुत्रं सनापितम् । KRT_7_0666ab
प्रावेशयत्पूज्यमानस्तीक्ष्णैराभ्यन्तरं गृहम् ॥ KRT_7_0666cd
न्यस्तासिधेनुर्हर्षेण दत्तझम्पः क्षणात्स्वयम् । KRT_7_0667ab
पश्चात्प्रवि1श्य तद्वेश्म चक्रे सुनिहितार्गलम् ॥ KRT_7_0667cd
ततः स राजस्थानीयं तमारादब्रवीद्वचः । KRT_7_0668ab
रक्षितो राजपुत्रोयं क्रियतां स्वोचितं त्वया ॥ KRT_7_0668cd
भूतग्रहादिभवमोषधिभिर्विरोधिजातं बलैः प्रहरणभवं तनुत्रैः । KRT_7_0669ab
निर्वाप्यते प्रतिभयं पृथिवीपतीनां सार्वत्रिकं तु रभसाद्भुवि बुद्धिवृद्धैः ॥ KRT_7_0669cd
नदन्तस्तुमुलं योधास्ततो राजसुतास्पदे । KRT_7_0670ab
आरोढुमाययुर्वप्रहर्मादि प्रविवेशवः ॥ KRT_7_0670cd
तीक्ष्णा दृढद्वारगृहस्थितं त्यक्त्वा नृपात्मजम् । KRT_7_0671ab
यावन्निर्गन्तुमिच्छन्ति हन्यमाना युयुत्सवः ॥ KRT_7_0671cd
द्वित्राः प्रसङ्गसांनिध्यान्मध्यपातं समाश्रिताः । KRT_7_0672ab
तावद्विनिर्ययुर्वीरा निर्द्रोहा अभिमानिनः ॥ KRT_7_0672cd
ते निर्याताः सूर्यमतीगौरीशाश्रयिणो गृहात् । KRT_7_0673ab
सदाशिवान्तिकं प्रापुर्घ्नन्तो युधि विरोधिनः ॥ KRT_7_0673cd
रक्ष्यमाणोपि भूर्भर्तुर्गिरा ज्ञातेयशालिनः । KRT_7_0674ab
राजज्ञातिर्हतस्तेषु प्रथमं सहजाभिधः ॥ KRT_7_0674cd
द्विजस्तिव्याभिधो वीरः पण्डितः शौर्यमण्डितः । KRT_7_0675ab
रामदेवश्च केशी1 च कर्णाटोरिभटैर्हतः ॥ KRT_7_0675cd
केचित्त्यजन्तः शस्त्राणि स्वं घ्नन्तः केपि च स्वयम् । KRT_7_0676ab
लेभिरे बधबन्धादि पापाः कापुरुषोचितम् ॥ KRT_7_0676cd
सितषष्ठ्यां सहस्यस्य चतुःषष्ठे स वत्सरे । KRT_7_0677ab
वैरं नीत्वा पितापुत्रौ विप्लवः कारितो विटैः ॥ KRT_7_0677cd
हट्यत्यागासक्तिः प्रिययुवतिसंप्रेरणवचः खलासङ्गः पूर्वप्रणयपरिहारो जनयितुः । KRT_7_0678ab
अमात्येन भ्रात्रा सममपरमात्राथ कलहः कुमाराणां बुद्धिं पितरि विपरीतां प्रतनुते ॥ KRT_7_0678cd
एवं स खलसंगत्या कुमारो लब्धलाघवः । KRT_7_0679ab
बन्धं कारागृहे प्रापदसुखानि सुकोचितः ॥ KRT_7_0679cd

655.

--1) A4 gloss स्वकीया एव पूर्व राजवधं प्रति प्रोत्साहिताः.

661.

--1) A2 gloss कारणानि ब्रह्मादीनि पञ्च.

667.

--1) Fol. 166 of A ends with पश्चात्प्र; fol. 167 which ended with verse 688, is now lost.

675.

--1) Thus R; G केशश्च.

[page 130]




राज्ञीं भुवनमत्यस्मिन्बद्धे माध्यस्थ्य1संविदि । KRT_7_0680ab
स्थापिता मानिनी कण्ठच्छेदं कृत्वा जहावसून् ॥ KRT_7_0680cd
रक्षिणो मन्त्रिणामाप्तांस्तस्य विन्यस्य भूपतिः । KRT_7_0681ab
प्राहिणोदुचितान्भोगान्सुतस्नेहाद्दिने दिने ॥ KRT_7_0681cd
चक्रिकायामशक्तोयमिति संचिन्त्य भूभुजा । KRT_7_0682ab
भृत्यः प्रयागनामास्य निजः पार्श्वान्न वारितः ॥ KRT_7_0682cd
नोनको हर्षमुद्दिश्य स्वेनान्यैश्च महीभुजम् । KRT_7_0683ab
जीवितं लोचने वास्य कृष्येतामित्यभाषत ॥ KRT_7_0683cd
नृपः स शीलवैकल्ये पशुतुल्ये ह्रियं त्यजन् । KRT_7_0684ab
रिपोरिव तनूजस्य चक्रमे कतिचित्प्रियाः ॥ KRT_7_0684cd
तासु श्वशुरवाल्लभ्यमवाप्य सुगलाभिधा । KRT_7_0685ab
बभूव तुक्कभू1भर्तृनप्त्री भर्तृवधार्थिनी ॥ KRT_7_0685cd
संमन्त्र्य नोन्कः सा च द्वौ सूदावशनान्तरे । KRT_7_0686ab
रसं1 प्रदातुं हर्षस्य पापं प्रैयतां ततः ॥ KRT_7_0686cd
अन्यसूदमुखाद्वार्तां प्रयागस्तामवाप्तवान् । KRT_7_0687ab
प्रभुं तद्दाप्यमानान्नपरिहारमकारयत् ॥ KRT_7_0687cd
तेनान्नेन1 परीक्षार्थं दापितेनापजीवितौ । KRT_7_0688ab
हर्षः सर्वाणि भोज्यानि स्पृष्ट्वैवौज्झीद्दिने दिने ॥ KRT_7_0688cd
प्रयागोपहतेनासीत्परं बाह्येन स तां विदन् । KRT_7_0689ab
ततः प्रयागमानीय तत्र पप्रच्छ कारणम् ॥ KRT_7_0689cd
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । KRT_7_0690ab
भोज्येन येन केनापि कुर्वञ्जीवितधारणम् ॥ KRT_7_0690cd
अन्नस्याभोजनं श्रुत्वा राजा सूदैर्निवेदितम् । KRT_7_0691ab
रसार्पणकथां कृत्स्नां तज्ज्ञानं च स्वयं प्रभोः ॥ KRT_7_0691cd
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । KRT_7_0692ab
रसार्पणकथां कृत्स्नां तज्ञानं च स्वयं प्रभोः ॥ KRT_7_0692cd
अथान्येष्वपि सूदेषु पित्रा दत्तेषु शङ्कितः । KRT_7_0693ab
राजसूनुर्न बुभुजे प्रयागोपहृतं विना ॥ KRT_7_0693cd
स सर्वेषु विरुद्धेषु यद्ययत्तत्रात्यवाहयत् । KRT_7_0694ab
मेने तत्तद्दिनं लब्धं शेषेष्वास्थापराङ्मुखः ॥ KRT_7_0694cd
अत्रान्तरे समुदभूदकस्मान्नाशसूचकः । KRT_7_0695ab
अदृष्टपूर्वो भूभर्तुः सदाचारविपर्ययः ॥ KRT_7_0695cd
उत्पाद्य ताम्रस्वाम्याख्यं पूर्वं ताम्रमयं रविम् । KRT_7_0696ab
स रीतिप्रतिमाः स्वैरं विहारेभ्योप्यपाहरत् ॥ KRT_7_0696cd
धनानि निरपत्यानामाहर्तुं व्यवसायिना । KRT_7_0697ab
न्यवार्यतार्यमर्यादा क्रौर्याक्रान्तेन भूभुजा ॥ KRT_7_0697cd
ततोतिशापसंतापव्यञ्जकेनाञ्जसाभवत् । KRT_7_0698ab
अतिसंभोगजातेन धातुक्षैण्येन सोर्दितः ॥ KRT_7_0698cd
कुम्भप्रतिष्ठासंभारं चिकीर्षोर्हरमन्दिरे । KRT_7_0699ab
तस्यापतन्महाकालकुम्भे नासापुताययौ ॥ KRT_7_0699cd
आकस्मिकं दुर्निमित्तं तत्प्रतीकारसंविदा । KRT_7_0700ab
न मनागप्यगाच्छान्तिं प्रवृद्धिं प्रत्युपायौ ॥ KRT_7_0700cd
अस्रस्रुत्य1नुबन्धेन तेन ग्पलितसौष्ठवः । KRT_7_0701ab
शनैः शय्याप्रणयितामन्तः स प्रत्यपद्यत ॥ KRT_7_0701cd
बलमांसकृतक्षैण्यमग्निमान्द्याद्युपद्रवैः । KRT_7_0702ab
कलाशेषेण शशिना तद्वपुः साम्यमाययौ ॥ KRT_7_0702cd
राज्यं स दित्सुर्हर्षाय द्ष्ट्वामात्यान्पराङ्मुखान् । KRT_7_0703ab
ततोभिषेकमौत्कर्षमानिन्ये लोहराचलात् ॥ KRT_7_0703cd
उच्चावचास्तेन सर्वे संविभक्ता मुमूर्षुणा । KRT_7_0704ab
परमीर्ष्याविधेयेन न शुद्धान्तवधूजनः ॥ KRT_7_0704cd
कृत्वा धनार्पणं कुर्यां देशादस्य प्रवासनम् । KRT_7_0705ab
इत्युक्त्वा हर्षमानेतुं तेनाप्रार्थ्यन्त मन्त्रिणः ॥ KRT_7_0705cd
ते तु गोप्तॄ1न्निवार्याद्यांष्ठक्कुराल्लोहराश्रितान् । KRT_7_0706ab
विन्यस्य रक्षिभावे तमुत्कर्षाय न्यवेदयन् ॥ KRT_7_0706cd
स नाद्यमण्डपात्तेन निकृष्टः क्षामविग्रहः । KRT_7_0707ab
निवेशितश्चतुःस्तम्भे बद्ध्वा बान्धववर्जितः ॥ KRT_7_0707cd
अथोज्जि1गमिषून्प्राणान्निःसामर्थ्यो विदन्नृपः । KRT_7_0708ab
मुमूर्षुरभवत्तीर्थस्थानाय कृतत्वरः ॥ KRT_7_0708cd

680.

--1) Thus R G sec. manu; C G prima manu माध्यस्थ॰.

658.

--1) Emended; G R ॰भूभर्तृनप्तृभर्त्रूपधार्थिनी; C ॰भूभर्तृनप्तृभर्तृपधा॰.

686.

--1) Thus G C; R रसे.

688.

--1) Thus emended with C; A R G तेनात्तेन.

701.

--1) Emended; A अवु॰.

706.

--1) Emended with C; A गोप्तृन्नि.

708.

--1) Emended with C; A अथोजग॰.

[page 131]




स जानन्दैवकक्रोधं तम्रस्वामिविपाटनात् । KRT_7_0709ab
इयेष शरणं कर्तुं मार्ताण्डं प्राणलब्धये ॥ KRT_7_0709cd
संत्यज्य विजयक्षेत्रमत एवापवर्गदम् । KRT_7_0710ab
महीश्वरोपो प्रययौ तत्र त्रासवशंशवदः ॥ KRT_7_0710cd
अधीकारप्राप्त्या तृणमिव विदन्विश्वमखिलं नियोगी जातार्तिर्नमति गृहदासीरपि रुदन् । KRT_7_0711ab
नदन्मूर्खो ज्ञानी बहुदुरुपदेशा1धिगमतः करोति प्राणान्ते शिशुरिव च किं किं न विगुणम् ॥ KRT_7_0711cd
तादृश्या कृपणप्रायसेव्यया क्लैव्यसंविदा । KRT_7_0712ab
गुरूपदेशाहंकारस्तस्य हास्यत्वमाययौ ॥ KRT_7_0712cd
शुक्लायां मार्गशीर्षय तृतीयस्यां निशामुखे । KRT_7_0713ab
तलादेवाश्रितो युग्यं भूभृन्मर्तुं विनिर्ययौ ॥ KRT_7_0713cd
स भेरीतूर्यनिर्घोषैर्जनाक्रन्दं तिरोदधत् । KRT_7_0714ab
सामान्यान्तःपुरो नौभिः प्रतस्थे जलवर्त्मना ॥ KRT_7_0714cd
यामशेषे दिनेन्द्यस्मिन्प्राप्तस्य चरणान्तिके । KRT_7_0715ab
मार्ताण्डस्य स्वजीवाप्त्यै सौवर्णीं प्रतिमां व्यधात् ॥ KRT_7_0715cd
भृत्यैरगणिताज्ञस्य द्दृक्षोर्ज्येष्टमात्मजम् । KRT_7_0716ab
औत्सुक्येनारतिस्तस्य व्यथितस्याधिकाभवत् ॥ KRT_7_0716cd
बहिर्हर्षकृतं गीतं गायनानां स गायताम् । KRT_7_0717ab
विवृतद्वारविवरः शृणोति स्म विनिःश्वसन् ॥ KRT_7_0717cd
प्राणावसानसमये परिसंकुचन्ती स्वप्नप्रसङ्ग इव धावनशक्तिराज्ञा । KRT_7_0718ab
प्राचुर्यदा खलु रुजो मरणोद्भवाया मर्मव्यथां प्रथयते पृथिवीपतीनाम् ॥ KRT_7_0718cd
प्रजाज्येष्ठं तनूजं च संविभक्तुं कृतार्थनः । KRT_7_0719ab
उत्कर्षं ग्राहयञ्शिक्षां बद्धजिह्वोभवत्ततः ॥ KRT_7_0719cd
अव्यक्तं वदतो हर्ष इति वाचं पुनः पुनः । KRT_7_0720ab
निह्नोतुं नोनको भावं तस्यादर्शम1ढौकयत् ॥ KRT_7_0720cd
स तन्निवार्य विहसन्दष्टौष्ठः कम्पयञ्शिरः । KRT_7_0721ab
जपन्किमपि सार्धे द्वे बद्धवागभवद्दिने ॥ KRT_7_0721cd
आसन्नप्राणनिर्याणः संज्ञयाहूय मन्त्रिणः । KRT_7_0722ab
ततः स्वं तैरसमूढैर्मार्ताण्डाग्रमनाययत् ॥ KRT_7_0722cd
वर्षानेकान्नपञ्चाशद्भुक्तवान्स सितेहनि । KRT_7_0723ab
मार्गस्य पञ्चषष्टेब्दे षष्ठ्यां निष्ठामथासदत् ॥ KRT_7_0723cd
सप्त मम्मनिकामुख्या देव्यः परिणयाहृताः । KRT_7_0724ab
अवरुद्धा1पि जयमित्यभिधाना तमन्वगुः ॥ KRT_7_0724cd
प्रसादवित्तया तस्य पुनः कय्याभिधानया । KRT_7_0725ab
अवरुद्धिकया कृत्स्ना स्त्रीजातिरपवित्रिता ॥ KRT_7_0725cd
सर्वावरोधप्राधान्यप्रदानं नास्मरद्यदि । KRT_7_0726ab
मा स्मार्षीन्नाम भर्तुस्तदनुच्चाभिजनोद्भवा ॥ KRT_7_0726cd
संश्रित्य विजयक्षेत्रं क्रमाद्ग्रामनियोगिनः । KRT_7_0727ab
भेजे यत्त्ववरुद्धात्वमतो दुःखाकरोति नः ॥ KRT_7_0727cd
भूपालभोग्यं स्ववपुः सा भोगाभ्यासभासुरम् । KRT_7_0728ab
निनाय ग्राम्यभोग्यत्वं धिङ्नारीनीचचेतसः ॥ KRT_7_0728cd
उत्कर्षस्याभिषेकाय व्यग्रेष्वखिलमन्त्रिषु । KRT_7_0729ab
अन्त्ये1ष्टिमकरोद्राज्ञः कृतज्ञो वामनः परम् ॥ KRT_7_0729cd
घोषोभिषेकतूर्याणामेकतो गीतमङ्गलः । KRT_7_0730ab
साक्रन्दः प्रेततूर्याणां नादोन्यत्र समुद्ययौ ॥ KRT_7_0730cd
जातः पद्मश्रियो देव्याः पुत्रः कलशभूभुजा । KRT_7_0731ab
ततो विज1यमल्लाख्यो भ्रातुर्वैमत्यमादधे ॥ KRT_7_0731cd
यददाद्धर्षदेवस्य पिता प्रत्यहवेतनम् । KRT_7_0732ab
प्रतिशुश्राव तस्मै स तदे1वोत्कर्षभूपतिः ॥ KRT_7_0732cd
आश्वासाय च मध्यस्थान्ददौ सामान्तमन्त्रिणः । KRT_7_0733ab
कय्यात्मजस्य चक्रे च जयराजस्य वेतनम् ॥ KRT_7_0733cd
अन्विष्यन्ति रुदत्य एव तरला गत्यन्तरं योषितो योगक्षेमकथां चितान्तिकगता एवात्मजाः कुर्वते । KRT_7_0734ab
अन्येषां शतशोवसानसमये चर्वां विचार्येदृशीम् स्त्रीपुत्रादिकृते कुकर्मभिरहो संनिन्वतेर्थं जडाः ॥ KRT_7_0734cd

711.

--1) Emended with C; A ॰देशोधि॰.

720.

--1) A2 gloss हर्ष आनीयतामिति राज्ञो भावमभिप्रायं निह्नोतुं आदर्शो नोनकेना नित इत्यर्थः हर्षः आदर्श इति पाठमात्रसाम्यादित्यर्थः.

724.

--1) A2 gloss उरद्धा इति वेद्यभाषया.

729.

--1) Emended with C; A अन्त्येष्टि॰.

731.

--1) supplied by A3.

732.

--1) Emended; A तदैवो॰.

[page 132]




पर्विवेश ततः श्रीमान्नगरं नृपतिर्नवः । KRT_7_0735ab
न तु हर्षोदयाकाङ्क्षि हृदयं नगरौकसाम् ॥ KRT_7_0735cd
तद्राज्यलाभदिवसो जनस्याभोगदूषितः । KRT_7_0736ab
सन्नपि प्रत्यभान्नैव स रोगार्तेरिवोत्सवः ॥ KRT_7_0736cd
हर्षदेवस्तु पितरि प्रयाते भर्तुमातुरे । KRT_7_0737ab
नवबद्धश्चतुःस्तम्भे न तस्मिन्नह्नि1 भुक्तवान् ॥ KRT_7_0737cd
सार्थभ्रष्टमिवाध्वन्यमन्यस्मिन्नह्नि ठक्कुराः । KRT_7_0738ab
ते शोकमूकं संप्रार्थ्य कथंचित्तमभोजयन् ॥ KRT_7_0738cd
राज्यं दातुं निजे देशे चक्रुश्चास्य प्रतिश्रवम् । KRT_7_0739ab
राज्यद्वयं नायमर्हत्येक एवेति वादिनः ॥ KRT_7_0739cd
एवं मिलितचित्तस्तैर्विपत्तिं श्रुतवान्पितुः । KRT_7_0740ab
कृतोपवासः सोन्येद्युः शुश्रावोत्कर्षमागतम् ॥ KRT_7_0740cd
बाष्पैः पित्रे प्रयच्छन्तं निर्वापसलिलाञ्जलीन् । KRT_7_0741ab
तं दूतैरनुजो राजा स्नातुं प्रार्थयताथ सः ॥ KRT_7_0741cd
तस्य स्नानक्षणे राज्ञि सज्जे राज्याभिषेचने । KRT_7_0742ab
घोषोभिषेकतूर्याणामुदभूत्सजयध्वनिः ॥ KRT_7_0742cd
स तेन सुनिमित्तेन प्राप्तां मेने निमित्तवित् । KRT_7_0743ab
विद्युद्द्योतेन जीमूतगर्जामिव नृपश्रियम् ॥ KRT_7_0743cd
ततः प्रभृत्युन्मुखता सुनिमित्तैरगृह्यत । KRT_7_0744ab
तस्यात्यासन्नराज्यस्य भृत्यैरिव दिने दिने ॥ KRT_7_0744cd
स भोजनं कारयितुं दूतान्भ्रात्रा विसर्जितान् । KRT_7_0745ab
देशान्निर्वासयतु मां राजा1 संत्यज्य बन्धनात् ॥ KRT_7_0745cd
स्थातुमप्रत्यवस्थित्या1 विदध्यां कोशसंविदम् । KRT_7_0746ab
म्रियेन्यथा निरशनैः संदिश्येति व्यसर्जयत् ॥ KRT_7_0746cd
स तन्मिथ्या प्रतिश्रुत्य तं दूतैः प्रहितैस्ततः । KRT_7_0747ab
कृतकोशं सान्त्वयित्वा राजा भोज्यमभोजयत् ॥ KRT_7_0747cd
नित्यं च श्वो विधास्ये तदर्थ्यमा1न इति ब्रुवन् । KRT_7_0748ab
कालापहारं कुर्वाणः शङ्कां तस्योदपादयत् ॥ KRT_7_0748cd
विश्वासाय स्वताडङ्क1पाणिं कृत्वा प्रयागकम् । KRT_7_0749ab
पार्श्वं विजयमल्लस्य सोथ गूढं व्यवसर्जयत् ॥ KRT_7_0749cd
तदेवोक्त्वा तमूचे स त्वां ब्रूते दुःस्थितोग्रजः । KRT_7_0750ab
कुमारे त्वयि राज्येस्मिञ्शुच्यामो बन्धने वयम् ॥ KRT_7_0750cd
संक्रान्तदुःखं संचिन्त्य चिरेणापि तमब्रवीत् । KRT_7_0751ab
कार्यं कुर्यात्कथमिदं मद्गिरा नीतिमान्नृपः ॥ KRT_7_0751cd
तथाप्यस्मिन्यथाशक्ति यतिष्ये त्वद्विमोक्षणे । KRT_7_0752ab
त्वया तु सावधानेन रक्षणीयं स्वजीवितम् ॥ KRT_7_0752cd
तं पार्श्वं हर्षदेवस्य संदिश्येति व्यसर्जयत् । KRT_7_0753ab
उपायांश्चिन्तयन्नासीत्तस्य कार्यस्य सिद्धये ॥ KRT_7_0753cd
उत्कर्षः प्राप्तराज्यस्तु दैवतैरिव मोहितः । KRT_7_0754ab
नादधे किंचिदारम्भं व्यवस्थाग्रथनक्षमम् ॥ KRT_7_0754cd
समर्पिताधिकारोपि कन्दर्पादीन्स मन्त्रिणः । KRT_7_0755ab
राज्यकृत्यं न पप्रच्छ विदधे स च न स्वयम् ॥ KRT_7_0755cd
परिमातुं परीमाणं कोशसंचयवीक्षणे । KRT_7_0756ab
परं क्षमापतेस्तस्य दिनकूत्यमजायत ॥ KRT_7_0756cd
कर्मणा निर्व्ययेनास्य चिन्त्यमानस्य येन वा1 KRT_7_0757ab
सुदीर्घदर्शी लोकोभूत्तेन लुब्धत्वनिश्चयी ॥ KRT_7_0757cd
सा तस्य लुब्धताख्यातिः समुद्गान्नप्रदायिनः । KRT_7_0758ab
भूभर्तुः पितृपत्नीभिः स्वैरिणीभिः प्रवर्धिता ॥ KRT_7_0758cd
स श्रोत्रिय इवोत्कम्पी1 व्यवहारमिताशयः । KRT_7_0759ab
महाहृदयभोग्यानां प्रजानां नाभवत्प्रियः ॥ KRT_7_0759cd
ततो नियमितां वृत्तिं तस्माल्लुब्धादनाप्नुवन् । KRT_7_0760ab
कुप्यन्विजयमल्लोभूद्देशान्गन्तुं कृतोद्यमः ॥ KRT_7_0760cd
स्वं रक्षितुं स मध्यस्थाननुव्रज्याकृतेखिलान् । KRT_7_0761ab
प्रार्थयामास तेना1पि सज्जास्तमनुवव्रजुः ॥ KRT_7_0761cd
लवणोत्से निशामेकां पुरान्निर्गत्य तस्थुषः । KRT_7_0762ab
मध्यस्थ1सैन्यास्तस्यैव2 योधाः पक्षमशिश्रयम् ॥ KRT_7_0762cd

737.

--1) Thus corr. by A3 from A1 ॰न्नस्मि.

746.

--1) Thus corr. by A3 from A1 राज्यात्सन्त्य॰.

746.

--1) त्या supplied by A3 in space left by A1.

748.

--1) Emended; A ॰दर्थमान.

749.

--1) ताड supplied by A3 in space left by A1.

757.

--1) येन वा supplied by A3 in space left by A1.

759.

--1) A3 gloss उत्कम्पी दानसस्मये सकम्प इत्यर्थः.

761.

--1) A4 gloss हेतुना.

762.

--1) मध्यस्थ supplied by A3 in space left by A1.

--2) Thus corr. by A3 from A1 ॰स्तस्या-.

[page 133]




हर्षे बद्धे त्वयि गते कृतकृत्यो भवेन्नृपः । KRT_7_0763ab
तत्तं निष्कृष्य काराया गमनं तव सांप्रतम् ॥ KRT_7_0763cd
इति तैः प्रेर्यमाणः स राजसूनुरुदायुधैः । KRT_7_0764ab
विनिवृत्याकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ KRT_7_0764cd
श्रुत्वा चिकीर्षितं तस्य व्यावृत्तस्य तथाविधम् । KRT_7_0765ab
सहायाः समपद्यन्त कतिचिड्डामरा अपि ॥ KRT_7_0765cd
अकरोन्मधुरावट्टो हयसेनापतिः सुतम् । KRT_7_0766ab
राजसूनुर्यियासुर्यं मध्यस्थाननुयात्रिकम् ॥ KRT_7_0766cd
नागाह्वयो द्रोहहीनो राजपक्षमसंत्यजन् । KRT_7_0767ab
कैश्चित्सह हयारोहैः स पद्मपुरवत्मना ॥ KRT_7_0767cd
आगच्छन्नन्तिकं राज्ञो दुर्निमित्तहृतत्वरः । KRT_7_0768ab
न यावन्नगरं प्राप क्षिप्रकारी नृपात्मजः ॥ KRT_7_0768cd
शकुनैराहितोत्साहः शालाग्रोद्दीपिताग्निभिः । KRT_7_0769ab
सैन्यैर्गृहान्दहंस्तावद्राजधानीमवेष्टयत् ॥ चक्कलकम्॥ KRT_7_0769cd
समयाय विनिर्यातं त्यक्त्वो1त्कर्षं महीभुजम् । KRT_7_0770ab
तत्पक्षं जयराजोपि राजसूनुरशिश्रियत् ॥ KRT_7_0770cd
हस्तस्थितौ राजपुत्रौ तस्याचिन्तयतां गतिम् । KRT_7_0771ab
नवौ कवी व्यवहृतिं सिद्धवाचः कवेरिव ॥ KRT_7_0771cd
हर्षदेवे परित्यक्ते यास्याम इति वादिनः । KRT_7_0772ab
स हस्तिमहिषादीनां शालाः सैन्यैरदाहयत् ॥ KRT_7_0772cd
त्यागप्रलयजीमूतो हर्षदेवोभिष्य्च्यताम् । KRT_7_0773ab
लुब्धः खशो वणिक्प्रायो राज्यादेष निवार्यताम् ॥ KRT_7_0773cd
एवं वदन्तः सन्तोपि हर्षमेत्य पुरौकसः । KRT_7_0774ab
पुष्पैः प्राच्छादयन्बद्धं तमोरिविवरार्पितैः ॥ KRT_7_0774cd
उत्पिञ्जे तत्र संजाते भग्नसैन्यस्य भूपतेः । KRT_7_0775ab
संप्रेष्य ठक्कुरान्हर्षस्तटस्थं तद्बलं व्यधात् ॥ KRT_7_0775cd
इत्थं बद्धोपि तत्कृत्वा वैरिकार्य11विरोधिनः । KRT_7_0776ab
संदेहवेपमानाङ्गस्ततस्तानेवमब्रवीत् ॥ KRT_7_0776cd
वर्तेद्य संकटे दुष्टे तन्मां मुञ्चत बन्धनात् । KRT_7_0777ab
न चेदाशु महीपालादनिष्टं नियमाद्भवेत् ॥ KRT_7_0777cd
इत्युच्यमानास्ते यावद्विमृशन्ति स्म तन्मुहुः । KRT_7_0778ab
पादप्रहारा न्यपतंस्तावद्द्वारगृहाद्बहिः ॥ KRT_7_0778cd
उच्चचार स किम् द्रोहः प्रक्रान्तोयं दुराशयैः । KRT_7_0779ab
रे ठक्कुरा विवृणुत द्वारमित्युच्चकैर्वचः ॥ KRT_7_0779cd
ठक्कुरेष्वथ भीतेषु धैर्यादगणयन्भयम् । KRT_7_0780ab
अकारयद्घर्षदेव एव द्वारमपावृतम् ॥ KRT_7_0780cd
तेत्रमात्रस्थितप्राणो ददर्श विशतस्ततः । KRT_7_0781ab
लौहराञ्शस्त्रिणो हन्तुं प्राप्तान्षोडश वारिकान्1 KRT_7_0781cd
ते हि छित्त्वोज्झिते हर्षशीर्षे सर्वमिदं क्षणात् । KRT_7_0782ab
शाम्येदिह भयं मन्त्रं नोनकस्येति जल्पतः ॥ KRT_7_0782cd
उत्कर्षेणासकृच्छ्रुत्वा तं निहन्तुं विसर्जिताः । KRT_7_0783ab
विमृश्य चोक्त्वा गच्छन्तः कार्यशेषं विमुञ्चता ॥ KRT_7_0783cd
कदाचित्तेन कृत्यं स्यादहतेनेति तत्क्षणम् । KRT_7_0784ab
निवार्य ठक्कुरान्रक्ष्यो हन्तव्यश्च यदोर्मिकाम् ॥ KRT_7_0784cd
इमां दद्यामभिज्ञानं यदा चेयं विसृज्यते । KRT_7_0785ab
तदा तु बन्धनात्त्याज्य इत्युदीर्याङ्गुलीयकम् ॥ KRT_7_0785cd
पाणौ दर्शयता चोक्ता विलम्बालम्बनं यतः । KRT_7_0786ab
निवार्य ठक्कुरांस्तस्मिन्क्षिप्रं न प्राहरंस्ततः ॥ कुलकम्॥ KRT_7_0786cd
स तु प्रत्येकमाहूय नामग्रहणपूर्वकम् । KRT_7_0787ab
अजिग्रहत्तांस्ताम्बूलमप्युपावेशयत्पुरः ॥ KRT_7_0787cd
जहुस्ते कृतसत्कारास्ताम्बूलग्रहणक्षणे । KRT_7_0788ab
ह्रीताः कराग्राच्छस्त्राणि प्रजिहीर्षां च मानसात् ॥ KRT_7_0788cd
धत्ते श्रियं सृजति कीर्तिमघं लुनीते मित्रत्वमानयति हन्त विरोधिनोपि । KRT_7_0789ab
यात्यध्वभिः प्रतिपदं सुमनोनुकूलैर्गौः कामधुक्कमिव नापहरत्यनर्थम् ॥ KRT_7_0789cd
राजपुत्रः स तानूचे किं ह्रीता इव तिष्ठथ । KRT_7_0790ab
निर्दोषाः सर्वथा प्रेष्याः स्वाम्यादेशानुपालने ॥ KRT_7_0790cd

770.

--1) Thus corr. by A3 from A1 त्यक्तोत्क॰.

776.

--1) Emended; A वैरि -- वि॰; C वैरिकानवि॰.

781.

--1) Thus A; R ॰वार्षिकान्.

[page 134]




विलम्ब्यतां तथाप्यत्र द्रष्टव्यं महदद्भुतम्1 KRT_7_0791ab
यथोदेष्यत्य3वस्थानामन्यथात्वं क्षणे क्षणे ॥ KRT_7_0791cd
द्विपद्वीपिक्रव्यादुरगतुरगादिप्रभकृतो यथास्यां भिद्यन्ते दिवि किल त एवाम्बुदलवाः । KRT_7_0792ab
तथा सौम्यक्रूरक्रमविकृतिभाजस्तनुभृतां क्षणानां नानात्वान्ननु हृदि विकारोर्मय इमाः ॥ KRT_7_0792cd
क्षणानुवृत्तिं कुर्वाणास्तद्यथात्र स्थिता वयम् । KRT_7_0793ab
तथा सन्तु भवन्तोपि कार्यान्तरदिदृक्षवः ॥ KRT_7_0793cd
अपि चैवंविधा एव वितन्वन्तो रसान्तरम् । KRT_7_0794ab
आसन्नराज्यप्राप्तीनां राज्ञां स्युह् प्राणसंशयाः ॥ KRT_7_0794cd
ग्रीष्मस्योष्मा व्रजति घनतां नूनमासन्नवृष्टेर्नैशं गाढीभवति तिमिरं संनिकृष्टप्रभातम्1 KRT_7_0795ab
जन्तोरेवं प्रसभविभवस्फारसंपत्प्रचारान्निष्क्रामन्ती विपदुपचितोपद्रवोद्रेकमेति ॥ KRT_7_0795cd
प्राणचारेण शकुनं निश्चित्येति वदन्सताम् । KRT_7_0796ab
आचचक्षे शुभोद1र्काः स्वोदन्तसदृशीः कथाः ॥ KRT_7_0796cd
कालं क्षेप्तुमुपन्यस्तशुद्धिव्यक्तीभवद्रसाम् । KRT_7_0797ab
तेभ्यश्च कथयामास हरिश्चन्द्राश्रयां कथाम् ॥ KRT_7_0797cd
तद्रञ्जने स्वरक्षायां बाह्यवार्तागवेषणे । KRT_7_0798ab
व्यापृतत्वं गभीरस्य न तस्य समलक्ष्यत ॥ KRT_7_0798cd
अत्रान्तरे स्वरक्षायां बाह्यवार्तागवेषणे । KRT_7_0799ab
राजश्रियश्च काल्याश्च1 शतशोभूद्गतागतम् ॥ KRT_7_0799cd
उत्कर्षो भूमिपस्तस्य परित्यागं ह्यमन्यत । KRT_7_0800ab
आदिदेशानुगांस्तांस्तान्भूरिशश्च प्रमापणे ॥ KRT_7_0800cd
अभिज्ञानोर्मिकादानं वधादेशे तु नास्मरत् । KRT_7_0801ab
ते नोक्तिं तस्य दूतानामन्वतिष्ठन्त रक्षिणः ॥ KRT_7_0801cd
स तान्वन्ध्यश्रमान्वीक्ष्य स्मृत्वाभिज्ञानसंविदम् । KRT_7_0802ab
सत्वा1त्मजं राजपुत्रं शूराख्यम् व्यसृजत्ततः ॥ KRT_7_0802cd
अभिज्ञानं वितरतस्तत्करे तस्य मुह्यतः । KRT_7_0803ab
दैवयोगात्क्षणे तस्मिन्नूर्मिकाव्यत्ययोभवत् ॥ KRT_7_0803cd
यः1 पातार्थमुपार्जितोन्यशिरसस्तेनैव सिन्धुप्रभुर्वृद्धक्षेत्रधराधवः स्वशिरसह् पातं वरेणान्वभूत् । KRT_7_0804ab
दिव्या स्वैव गदा श्रुतायुधनृपं हन्तावधीदाहवे यत्त्राणाय विगण्यते विधिवशात्तेनैव नाशो भवेत् ॥ KRT_7_0804cd
तथा चैकस्य विस्मृत्या व्यत्ययेनापरस्य च । KRT_7_0805ab
अभिज्ञानस्य स नृपो नाशं प्रत्युत लब्धवान् ॥ KRT_7_0805cd
1भिजन्येन हर्षस्य ते क्षनादेव रक्षिणः । KRT_7_0806ab
प्रपेदिरे हितैषित्वमुत्कर्षाज्जाविरोधिनः ॥ KRT_7_0806cd
द्वारमाक्रान्तमुत्क्रोधो वधायायमुपागतः । KRT_7_0807ab
इति निर्ध्याय ते शूरं हन्तुमैच्छन्नुदायुधाः ॥ KRT_7_0807cd
उद्घाटिताररिपुटा दृष्ट्वा तस्योर्मिकां करे । KRT_7_0808ab
तेनैव साकं नृत्यन्तो1 हर्षं समुपतस्थिरे ॥ KRT_7_0808cd
पादन्यस्तोत्तमाङ्गैस्तैर्निर्गच्छेत्यर्थितस्ततः । KRT_7_0809ab
अविश्वसन्नाजसूनुः क्षणमासीत्स चिन्तयन् ॥ KRT_7_0809cd
तस्मिन्क्षणे हर्षदेवं हतं ज्ञात्वा रणे स्थितः । KRT_7_0810ab
क्रुध्यन्विजयमल्लोभूदधिकोद्रिक्तपौरुषः ॥ KRT_7_0810cd
तं दग्धमुद्यतं राजधानीं जीवति तेग्रजः1 KRT_7_0811ab
अभिधायेति रुरुधुः कथंचित्पार्थिवानुगाः ॥ KRT_7_0811cd
प्रत्ययार्थं ततस्तस्य राज्ञा हर्षवधूर्द्रुतम् । KRT_7_0812ab
गृहीतभर्तृताडङ्का सुगला प्रैष्यतान्तिकम् ॥ KRT_7_0812cd
तां विलोक्यैव विरते वह्निदाहान्नृपात्मजे । KRT_7_0813ab
राजा भयप्रतीकारं हर्षत्यागादमन्यत ॥ KRT_7_0813cd
गत्वामात्याः स्वयं नोनप्रशस्तकलशादयः । KRT_7_0814ab
हर्षं निर्निगडं कृत्वा कारागारात्ततोत्यजन् ॥ KRT_7_0814cd

712.

--1) Thus corr. by later hand from A1 ॰द्भुताम्.

--2) देष्यत्य supplied by A3 in space left by A1.

795.

--1) Thus corr. by A1 from ॰प्रतापम्; A3 ॰प्रभाते.

796.

--1) Thus corr. by A3 from A1 शुचोद॰.

719.

--1) A3 gloss कली यमस्त्री.

802.

--1) Doubtful; thus A R G.

804.

--1) A2 gloss यः पातार्थमिति एतद्वृत्तद्वयोपाख्यानं महाभारते द्रोणपर्वणि ज्ञेयम्.

806.

--1) A3 gloss आभीजन् इति देशभाषया.

808.

--1) कं नृत्यन्तो supplied by A3 in space left by A1.

811.

--1) Emended A R G तेनुज्ञः.

[page 135]




मन्त्रः स तेषां शोकेन वक्रात्कृतगतागतः । KRT_7_0815ab
अन्त्यक्षणे श्वास इव प्रससार बहिश्चरन् ॥ KRT_7_0815cd
हर्षः प्रच्छाद्यमानस्तु पौराणां पुष्पवृष्टिभिः । KRT_7_0816ab
हयमारुह्य सामात्यो रणस्थं नृपमासदत् ॥ KRT_7_0816cd
अभिनन्द्यानुजो राजा तमूचे भ्रातरं रणात् । KRT_7_0817ab
निर्वार्यागम्यतां कुर्मः प्राप्तकालं ततो वयम् ॥ KRT_7_0817cd
तथेति प्रस्थिते तस्मिंस्त्यक्त्वा तत्स रणाजिरम् । KRT_7_0818ab
प्राविशन्मन्त्रिभिः सार्धं कोशं हेमादिसंश्रयम् ॥ KRT_7_0818cd
उत्तीर्णं महतः कृच्छ्राद्घर्षदेवमुपस्हितम् । KRT_7_0819ab
दृष्ट्वा विजयमल्लोभूत्प्रहर्षान्निष्क्रयः क्षणम् ॥ KRT_7_0819cd
ततो ववन्दे तत्पादौ स चोत्क्राम्या1लिलिङ्ग तम् । KRT_7_0820ab
तास्ताः कथास्तयोरासन्नुपकर्त्रु2पकार्ययोः ॥ KRT_7_0820cd
व्यापादयैनमेवादौ हर्षोत्कर्षम् ततो नृपः । KRT_7_0821ab
निष्कण्टकोसि भवितेत्याप्तस्योपांशु जल्पतः ॥ KRT_7_0821cd
ततो विजयमल्लेन नाद्रोहेणादृतं वचः । KRT_7_0822ab
ज्जात्वेङ्गितज्ञो हर्षस्तत्ततस्तु चकितः क्षणम् ॥ युग्मम्॥ KRT_7_0822cd
स्वदेहमामिषीभूतं स भ्रात्रोः श्येनयोरिव । KRT_7_0823ab
निष्पत्त्रपक्षप्र1तिमो ररक्षार्वगतश्चरन् ॥ KRT_7_0823cd
आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याaद्गलतस्श्च मज्जनमयी शङ्का भवेद्वारिधौ1 KRT_7_0824ab
भोक्तव्यस्य विधिः शुभस्य रभसात्स्वादुत्वनिष्पत्तये जन्तोः संतनुते निराकृतभियो भीत्यन्तरोत्पादनम् ॥ KRT_7_0824cd
तं हयभ्रमणव्याजाद्रक्षितुं निजजीवितम् । KRT_7_0825ab
ज्जातवार्ता निहाः केचित्पत्तयः पर्यवारयन् ॥ KRT_7_0825cd
साकं विजयमल्लेन ततः संमन्त्र्य स क्षणात् । KRT_7_0826ab
चचाल विप्लवापायमाख्यातुं तं महीभुजे ॥ KRT_7_0826cd
अग्रं तद्वेश्मनः प्राप्तं विनिर्यान्तं नृपात्मजात् । KRT_7_0827ab
ततो विजयसिंहस्तं संप्रवेशान्न्यवारयत् ॥ KRT_7_0827cd
ऊचे च मरणात्तीर्णो मर्तुं विशसि किं पुनः । KRT_7_0828ab
निष्प्रज्ञ गत्वोपविश त्यक्तशङ्कं नृपासने ॥ KRT_7_0828cd
एवमुक्तवस्तस्तस्य भृत्यैः कोशादुपाहते । KRT_7_0829ab
सिंहासने हर्षदेवस्ततस्तूर्णमुपाविशत् ॥ KRT_7_0829cd
वैयात्यच्छादितानन्तप्रातिकूल्या तदन्तिके । KRT_7_0830ab
उपाविशच्च सुगला महादेवीत्वसिद्धये ॥ KRT_7_0830cd
तस्याभिषेकशब्देन समघद्यन्त सर्वतः । KRT_7_0831ab
रसितेनाम्बुवाहस्य चातका इव मन्त्रिणः ॥ KRT_7_0831cd
तद्वार्ताश्रवणेनार्तमुकर्षं मन्दिराततः । KRT_7_0832ab
धूर्तो विजयसिंहोपि कृष्ट्वान्यमनयद्गृहम् ॥ KRT_7_0832cd
आस्थानस्थस्य भूभर्तुरग्रेण स मितानुगः । KRT_7_0833ab
नष्टश्रीर्ददृशे गच्छन्स्थिराः कस्य विभूतयः ॥ KRT_7_0833cd
तस्य वेश्मप्रविष्टस्य बहिर्विन्यस्य रक्षिणः । KRT_7_0834ab
राज्ञो विजयसिंहस्तत्कृतं कार्यं न्यवेदयत् ॥ KRT_7_0834cd
कारायां संस्तुतान्राजपार्श्वमानीय ठक्कुरान् । KRT_7_0835ab
तत्सैन्येग्रस्थितेत्याक्षीद्भयं विजयमूलतः ॥ KRT_7_0835cd
सोप्यग्रजं प्राप्तराज्यं श्रुत्वा तत्सविधं व्रजन् । KRT_7_0836ab
निन्ये संमान्य तद्दूतैः स्वामेव वसतिं क्षणात् ॥ KRT_7_0836cd
तत्सैन्यं स्वान्तिकं प्राप्तमथ वीक्ष्य क्षमापतिः । KRT_7_0837ab
आनिनाय तमभ्यर्णं क्षणमात्रेण नीतिवित् ॥ KRT_7_0837cd
मह्यं प्राणाश्च राज्यं च त्वया दत्तमिति ब्रुवन् । KRT_7_0838ab
स प्राञ्चलिस्तमकरोत्क्लेशसाफल्यदायिनम् ॥ KRT_7_0838cd
तस्य दैवानुकूल्येन नीत्येव सुप्रयुक्तया । KRT_7_0839ab
तत्कालमेव तद्राज्यशय्यायां समुपाविशत् ॥ KRT_7_0839cd
कारागृहान्तःसंवीतान्येव वासांसि धारयन् । KRT_7_0840ab
सिंहासनेन शुशुभे श्रीसांनिध्यान्नवो नृपः ॥ KRT_7_0840cd
तादृक्साहससंरम्भपरिश्रान्तो दिनात्यये । KRT_7_0841ab
कृतारोहोथ शय्यायां त्यक्तभार इवापतत् ॥ KRT_7_0841cd

820.

--1) त्काम्या supplied by A3 in space left by A1.

--2) Emended with C; A ॰न्नुपकर्त्रूप॰.

823.

--1) Thus A; perhaps, ॰पक्षि॰.

824.

--1) The same hand which has supplemented the marginal note of A3 in i. 110, writes here: नक्रास्याच्चलतश्च मज्जनमयी शङ्का प्लवस्याम्बुधौ इत्यन्यादर्शे with the gloss नक्रः जलप्राणिविशेषः यो जलहस्तिनोपीरयति तन्मुखात्सकाशाद्दैववशाच्चलितस्यापि ब्रुडनमयी शङ्का उडुपस्य स्यादेवेत्यर्थः.

[page 136]




पश्यन्निवसतामेव सर्वतो विशरारुताम् । KRT_7_0842ab
न स निद्रामुखं तत्र मीलिताक्षोपि लब्धवान् ॥ KRT_7_0842cd
उत्कर्षो युधि बद्धस्तु मन्त्रं पृच्छन्स्वमन्त्रिणः । KRT_7_0843ab
आक्षिप्यान्यद्वचो रूक्षं नोनकेनेत्यकथ्यत ॥ KRT_7_0843cd
प्रातः प्रोक्तोसि यन्मन्त्रं तन्नाकार्षीर्महीपते । KRT_7_0844ab
पतितामनयादस्माद्भाविनीं शृणु सम्विदम् ॥ KRT_7_0844cd
अध्याक्षिपो बन्धनस्थं त्वं तमुच्छिष्टभोजिनाम् । KRT_7_0845ab
श्वः श्वमांसार्पिणाम् हस्ते स तु त्वामर्पयिष्यति ॥ KRT_7_0845cd
शरणं मरणादन्यत्तस्मादस्मिन्क्षनेस्ति किम् । KRT_7_0846ab
त्यक्ताहवानामस्माकं तदप्यप्राप्यतां गतम् ॥ KRT_7_0846cd
अवसाद1फलास्वादकालेत्यन्तमरुंतुदम् । KRT_7_0847ab
यद्वोपालम्भपाण्डित्यम् न विपक्षेषु शोभते ॥ KRT_7_0847cd
त्वयापायमनालोच्य य उपायः प्रवर्तितः । KRT_7_0848ab
सर्वमेकपदे तेन मुहूर्तेनैव हारितम् ॥ KRT_7_0848cd
संस्थाप्यमानो दुर्नीत्या सूच्येव जरटः पटः । KRT_7_0849ab
प्रस्त्युतोपद्रवोल्पोपि शतद्वारः प्रजायते ॥ KRT_7_0849cd
एवं श्रुत्वा स तन्मध्यान्निर्गत्याभ्यन्तरं गृहम् । KRT_7_0850ab
अवरुद्धिकया सार्धं विवेश सहजाख्यया ॥ KRT_7_0850cd
तत्र संध्यासमाधिस्थस्तिष्ठामीत्यभिधाय ताम् । KRT_7_0851ab
क्षणं तिरस्करिण्यन्तरेकाक्येवाकरोत्स्थितिम् ॥ KRT_7_0851cd
निःशस्त्रेण गले क्षिप्त्वा पटच्छेदनकर्तरीम् । KRT_7_0852ab
नाद्यः प्राणहरास्तेन छिन्नाः खिन्नात्मना ततः ॥ KRT_7_0852cd
फणत्कारेण कर्तर्याश्च्युताया भुवि शङ्किता । KRT_7_0853ab
अपश्यत्सहजा रक्तं श्च्योतज्जवनिकान्तरात् ॥ KRT_7_0853cd
सोथ लम्बशिरोनिर्यत्सान्द्रासदृशदृशे तया । KRT_7_0854ab
वज्रावभग्नशृङ्गान्तश्च्योतद्धातुरिवाचलः ॥ KRT_7_0854cd
तस्यास्तदानीमौचित्यं निर्व्यूढं येन योषिताम् । KRT_7_0855ab
भर्तृप्रसादपात्राणामद्याप्युच्चैस्तरां शिरः ॥ KRT_7_0855cd
व्रजन्ति रजनी त्यक्त्वा क्वापि क्षये क्षणदाकरं पदमुपगतस्यास्तं संध्या रवेरनुगच्छति । KRT_7_0856ab
इति परिणतौ प्रेमण्युच्चावचे परिचिन्तिते क्वचन नियमान्निन्द्या वन्द्या न वा सुधियां स्त्रियः ॥ KRT_7_0856cd
कुलाचारपतिप्रेमसादृश्येप्यभवत्तदा । KRT_7_0857ab
कय्यासहजयोर्यस्मान्निन्द्या वन्द्या च पद्धतिः ॥ युग्मम्॥ KRT_7_0857cd
सापि हि द्युसदो वेश्मनर्तकी नाद्य्मण्डपे । KRT_7_0858ab
दृष्ट्वा तेनावरुद्धात्वं निन्ये राजवधूः परा ॥ KRT_7_0858cd
कान्तास्रगैरिकास्यन्दकृतसान्द्राङ्गरागया । KRT_7_0859ab
प्रेम्णो हेम्न इवौज्ज्वल्यं प्रविश्याग्निं तयार्पितम् ॥ KRT_7_0859cd
हर्षदेवस्यापि पूर्वं वेश्यात्वे साभवत्प्रिया । KRT_7_0860ab
अतस्तेनार्थ्यमानापि मरणान्न न्यवर्तत ॥ KRT_7_0860cd
चतुर्विंशाब्ददेशीयो दिनद्वाविंशतौ नृपः । KRT_7_0861ab
मृतस्त्रिष्ठन्निशामेकां प्रातः सोक्रियताग्निसात् ॥ KRT_7_0861cd
तस्यावरोधलोलाक्ष्यो लोहराद्रिस्थिता अपि । KRT_7_0862ab
कृशानुवर्त्मना काश्चित्पदवीं द्रुतमन्वयुः ॥ KRT_7_0862cd
शस्त्रं संत्याज्यमानेषु तन्मत्रिषु नृपानुगैः । KRT_7_0863ab
मुमूर्षुर्नोनकः शस्त्रं न तत्याज क्षणं यदा ॥ KRT_7_0863cd
विनास्मान्मन्त्रदो राज्ञः कोन्यः स्याद्यद्दिनैरसौ । KRT_7_0864ab
मोक्ष्यत्यस्मांस्ततः प्राणान्नोपेक्षिष्टा विचारयन् ॥ KRT_7_0864cd
स्वयूथ्य एवेति वचः प्रशस्तकलशो वदन् । KRT_7_0865ab
तदा संत्याजयामास स्वयं तच्च समर्पितम् ॥ तिलकम्॥ KRT_7_0865cd
नोनसिल्हारभट्टारप्रशस्तकलशादयः । KRT_7_0866ab
बद्ध्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥ KRT_7_0866cd
इत्येवमेकेनैवाह्ना तादृग्राजविपर्ययः । KRT_7_0867ab
कृतश्च हर्षदेवेन दैवेनेव महाद्भुतः ॥ KRT_7_0867cd
यथाकथंचिद्द्व्युत्क्रान्ता बहवः पृथिवीभृतः । KRT_7_0868ab
प्रतीतिविषमो मार्गः कष्टमापतितोधुना ॥ KRT_7_0868cd
सर्वोत्साहोदकक्षेत्रं सर्वानुल्लासदूतिका । KRT_7_0869ab
सर्वव्यवस्थाजननी सर्वनीतिव्यपोहकृत् ॥ KRT_7_0869cd
उद्रिक्तशासनस्फूर्तिरुद्रिक्ताज्ञाक्षयक्षितिः । KRT_7_0870ab
उद्रिक्तत्यागसंपत्तिरुद्रिक्तहरणपग्रहा ॥ KRT_7_0870cd

847.

--1) अवसाद supplied by A3 in space left by A1.

[page 137]




कारुण्योत्सेकसुभगा हिंसोत्सेकभयंकरी । KRT_7_0871ab
सत्क्रमोत्सेकललिता पापोत्सेककलःकिता ॥ KRT_7_0871cd
स्पृहणीया च वर्ज्या च वन्द्या निन्द्या च सर्वतः । KRT_7_0872ab
निश्चोद्या चोपहास्या च काम्या शोध्या च धीमताम् ॥ KRT_7_0872cd
आशास्या चापकीर्त्या च स्मार्या त्याज्या च मानसात् । KRT_7_0873ab
हर्षराजाश्रया चर्चाकथा व्यावर्णयिष्यते ॥ कुलकम्॥ KRT_7_0873cd
नूनं स तैजसैरेव ससृजे परमाणुभिः । KRT_7_0874ab
कुतोन्यथाभूत्प्रसवे दुष्प्रेक्ष्यो महतामपि ॥ KRT_7_0874cd
न मर्त्येषु न देवेषु तद्वेषो दृश्यते क्वचित् । KRT_7_0875ab
दानवेन्द्रेषु स प्राज्ञैः परमुत्प्रेक्ष्यते यदि ॥ KRT_7_0875cd
प्रतिमार्कपरीमाणज्वलत्कुण्डलमण्डितः । KRT_7_0876ab
उत्तुङ्गमुकुटानद्धविकटोष्णीषमण्डलः ॥ KRT_7_0876cd
प्रसन्नसिंहविप्रेक्षी नीचश्मश्रुच्छटाञ्चितः । KRT_7_0877ab
वृषस्कन्धो महाबाहुः श्यामलोहितविग्रहः ॥ KRT_7_0877cd
व्यूढवृक्षाः क्षाममध्यो मेघघोषगद्भीरवाक् । KRT_7_0878ab
सोमानुषाणामपि यत्प्रतिभाभङ्गकार्यभूत् ॥ तिलकम्॥ KRT_7_0878cd
सिंहारे महा1घण्टाश्चतुर्दिक्कमबन्धयत् । KRT_7_0879ab
ज्ञातुं विज्ञप्तिकामान्स प्राप्तांस्तद्वाद्यसंज्ञया ॥ KRT_7_0879cd
आर्तां च वाचमाकर्ण्य1 तेषां तृष्णा1निवारणम् । KRT_7_0880ab
प्रावृषेण्यः पयोवाहश्चातकानामिवाकरोत् ॥ KRT_7_0880cd
अचित्रवस्त्रो निर्हेमभूषणोल्पपरिच्छदः । KRT_7_0881ab
ददृशे विगतो ॰ ॰1 न कश्चिद्राजमन्दिरे ॥ KRT_7_0881cd
सिंहद्वारे नरपतेर्नानाजनसमाश्रिते । KRT_7_0882ab
सर्वदेशश्रियोश्रान्तमास1न्राशीकृता इव ॥ KRT_7_0882cd
अपेतसंख्याः सौवर्नशृङ्खलाकटकान्विताः । KRT_7_0883ab
भ्रेमुर्मन्त्रिप्रतीहारमुख्याः क्ष्मापतिमन्दिरे ॥ KRT_7_0883cd
एवं स्फूर्जन्स नृपतिर्नवसाम्राज्यसुन्दरः । KRT_7_0884ab
अभूद्विजयमल्लस्य गुरोरिव मते स्थितः ॥ KRT_7_0884cd
आदीयमानवचसह् कृतज्ञेन महीभुजा । KRT_7_0885ab
तस्याभूत्पार्थिवस्येव सेवकैः संकटा सभा ॥ KRT_7_0885cd
स्वसेवकाननादृत्य रक्षन्संस्थाव्यतिक्रमम् । KRT_7_0886ab
पित्र्येभ्य एव मन्त्रिभ्यः सोधिकारान्समर्पयत् ॥ KRT_7_0886cd
द्वारे चकार कन्दर्पं मदनं चापि कम्पने । KRT_7_0887ab
अन्यान्विजयसिंहाaदीन्कर्तव्ये च निजे निजे ॥ KRT_7_0887cd
तेन प्रशस्तकलशप्रमुखाः शान्तमन्युना । KRT_7_0888ab
बन्धात्संत्यज्य कार्येषु निजेष्वेव1 नियोजिताः ॥ KRT_7_0888cd
स्मृत्वाप1कारान्सुबहूनमात्यो नोनकः परम् । KRT_7_0889ab
धात्रेयेण समं भ्रात्रा कोपाच्छूले विपादितः ॥ KRT_7_0889cd
काले काले तु कार्येषु संकटेषु महामतिम् । KRT_7_0890ab
संस्मरन्स्वामिभक्तं तं पश्चात्तापेन पस्पृशे ॥ KRT_7_0890cd
योग्यः कृतापकारोपि कदाचिदुपयुज्यते । KRT_7_0891ab
विहितागारदाहोग्निः शरणं भोज्यसिद्धये ॥ KRT_7_0891cd
संदर्श्याग्रे स्वभार्यायाः कर्णनासावकर्तनम् । KRT_7_0892ab
विश्शाभट्टो1 राजभृत्यैः शूलेनैव विपादितः ॥ KRT_7_0892cd
उदये संविभेजे स भृत्यान्कराविनिर्गतान् । KRT_7_0893ab
मधौ प्रफुल्तः शाखीव भृङ्गान्भूविवरोत्थितान्1 KRT_7_0893cd
राक्केः क्षेमस्य यः पौत्रो वज्यजः स महीभुजा । KRT_7_0894ab
सर्वामात्यप्रधानत्वं निन्ये सुन्नः सहानुजः ॥ KRT_7_0894cd
राज्ञो यात्रादिसमये प्रेक्षकाणां पदे पदे । KRT_7_0895ab
एक एकोभवन्मन्त्री महीपालभ्रमप्रदः ॥ KRT_7_0895cd
सर्वप्रतीहारघटामूर्धानमधिरोपितः । KRT_7_0896ab
जयराजोनुजस्तस्य जीवितादधिकोभवत् ॥ KRT_7_0896cd
जाह्नवीयात्रया भ्रात्रीरानुशंस्या ॰ ॰ ॰ ॰ 1 KRT_7_0897ab
धम्मटः सोपि तान्वङ्गैर्भ्रातृपुत्रैः सहाययौ ॥ KRT_7_0897cd

879.

--1) Thus corr. by A3 from A1 मघा॰.

880.

--1) कर्ण्य and तृष्णा supplied by A3 in space left by A1.

881.

--1) A1 indicates here a lacuna of two aksharas; C विगतोत्तापे; perhaps, विगतोद्वेगे(?).

882.

--1) Emended; A ॰मासीन्नाशी॰.

888.

--1) Thus corr. by A3; A1 ----- सन्त्यज्य कार्येषु नियोजिताः.

889.

--1) Thus corr. by later hand from A1 स्मृत्वोप॰.

892.

--1) Thus A; perhaps, to be read विश्शावट्टो; cf. vii. 617, 621,630.

893.

--1) A2 gloss मधौ वसन्ते भूविवरोत्थिता भृङ्गा नीज्यन्नम्बर इति भाषाया प्रसिद्धाः ये अस्तावलम्बिनि सूर्ये सूक्ष्मेभ्यः भूविवरेभ्यः वसन्तसमये उत्तिष्ठन्ति शाद्वलोपरि सञ्चारार्थं ॥

897.

--1) Here A1 indicates a lacuna; C ॰नृशंस्याद्विचक्षणः.

[page 138]




संमान्य तं नरपतिं स्वकृते हारिताग्रजम् । KRT_7_0898ab
सभ्रातृपुत्रमद्राक्षीत्स्वाविशेषेण सर्वदा ॥ KRT_7_0898cd
विभज्य भञ्जतो राज्यं तस्यैवं प्रेरितः खलैः । KRT_7_0899ab
क्रमाद्विजयमल्लोथ दुद्रुक्षुर्विकृतिं दधे ॥ KRT_7_0899cd
राज्यं प्रादाः किमन्यस्मै जित्वेत्युक्तः स दुर्जनैः । KRT_7_0900ab
तल्लिप्सुर्मन्त्रयामास वधं प्रथमजन्मनः ॥ KRT_7_0900cd
विजने मन्दिरे हन्यामिति संमन्त्र्य भूपतिः । KRT_7_0901ab
यागं विधाय व्याजेन तेनागन्तुं निमन्त्रितः ॥ KRT_7_0901cd
मन्त्रे श्रुतिं गते राज्ञः सोथास्कन्द1विशङ्कितः । KRT_7_0902ab
आदिदेश स्वसैन्यानां द्रुतं संनहनोद्यमम्2 KRT_7_0902cd
संनद्धे राजसैन्येथ द्रुतं निर्गत्य भूपतेः । KRT_7_0903ab
हृता विजयमल्लेन मन्दुराभ्यस्तुरंगमाः ॥ KRT_7_0903cd
संहरंस्तु1रगान्वीक्ष्य प्रहरन्नृपतेर्बलम् । KRT_7_0904ab
कुर्वन्महाहवं वीरो निर्गन्तुं तत्वरे पुरात् ॥ KRT_7_0904cd
आश्लिष्य पृष्ठं तिष्ठन्त्या जाया सस्हितो व्रजन् । KRT_7_0905ab
स चकार तुरंगस्थः संग्राममतिमानुषम् ॥ KRT_7_0905cd
धारासारैः क्षणे तस्मिन्नकालकलदोज्झितैः । KRT_7_0906ab
विपर्यस्तेव पृथिवी सर्वतः समलक्ष्यत ॥ KRT_7_0906cd
भांकरमारुतारन्धभूरिभेरीरवे रणे । KRT_7_0907ab
आसारेण शरैश्चासीच्छाद्यमानो नृपात्मजः ॥ KRT_7_0907cd
तं क्षीयमाणपृतनं यान्तं हन्तुं समुद्यताः । KRT_7_0908ab
कर्माणि प्राकृ1तानीव न चण्डकसुता जहुः ॥ KRT_7_0908cd
भग्नसेतुम् पयोवेगैर्वितस्तासिन्धुसंगमम् । KRT_7_0909ab
सस्जानिर1तरद्दो2र्भ्यामवतीर्य3 स वाजिनः ॥ KRT_7_0909cd
सत्त्ववान(1करोत्पत्न्या2 मज्जनं3 रिपुसंकटे । KRT_7_0910ab
सिन्धुं प्रवृद्धामुत्तीर्य तुरंगोपि तमन्वगात् ॥ KRT_7_0910cd
द्विषां दृग्गोचराद्यातः स तमारुह्य वाजिनम् । KRT_7_0911ab
दरद्देशोन्मुखो वीरः प्रायाल्लहरवर्त्मना ॥ KRT_7_0911cd
कन्दर्पद्वारपतिना सर्वतो रुद्धपद्धतिः । KRT_7_0912ab
गिरीन्नुल्लङ्घ्य चाविक्षद्गिरिगुप्ताम् दरत्पुरीम् ॥ KRT_7_0912cd
दरदा1भ्यर्चितं तत्र श्रीविद्याधरहि2ना । KRT_7_0913ab
केचिन्निजाः परिजनाः शनकैस्तं प्रपेदिरे ॥ KRT_7_0913cd
श्रुत्वा स्वीकार्यमाणं च संरम्भं डामरादिभिः । KRT_7_0914ab
प्रायुङ्क्त हर्षपृथ्वीभृदुपायांश्चकितोन्वहम् ॥ KRT_7_0914cd
तेषु वन्ध्येषु शीतर्तु सोतिवाह्य दरत्पुरे । KRT_7_0915ab
डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात्1 KRT_7_0915cd
उत्तीर्य संकटांस्तिष्ठन्मार्गान्तः पट1मण्डपे । KRT_7_0916ab
अकस्मादभवन्मानी हिमानीहतजीवितः ॥ KRT_7_0916cd
यदुल्लासाय संरम्भो धीरैर्विस्तार्यते महान् । KRT_7_0917ab
कृत्यं हिनस्ति तद्दैवमत्यल्पेनैव वस्तुना ॥ KRT_7_0917cd
उन्मीलनं तिग्मरुचिः प्रयत्नाद्येषां सहस्रेषु करैः करोति । KRT_7_0918ab
उन्मूलयत्येककरेण तानि पद्मानि धाता कुपितो द्विपेन ॥ KRT_7_0918cd
द्वैराज्यशङ्कया किंचित्कालं संकुचितं ततः । KRT_7_0919ab
भूयः प्रभयतो लग्नं राज्यं1 हर्षमहीभुजः ॥ KRT_7_0919cd
राजशब्दस्तदा सेहे न कुत्राप्यधिरोपणम् । KRT_7_0920ab
अत्युदग्रतया तस्मिंल्लघुत्वेनान्यराजसु ॥ KRT_7_0920cd
सुशोभादायिनीर्भङ्गीः प्रावर्तयत मण्डले । KRT_7_0921ab
निर्मत्सरो नरपतिः पुष्पर्तुरिव कानने ॥ KRT_7_0921cd
मुक्तकोशा निरुष्णीषा निष्कलाभरणः पुरा । KRT_7_0922ab
संत्यज्यैकं महीपालमभवन्निह देहिनः ॥ KRT_7_0922cd
धम्मिल्लग्रथनाद्यत्र मदनः कम्पनापतिः । KRT_7_0923ab
जयानन्दोप्यमात्याग्र्यश्चित्रार्धोरुकधारणात् ॥ KRT_7_0923cd

902.

--1) थास्कन्द supplied by A3 in space left by A1.

--2) Emended; A ॰नोद्यतम्.

904.

--1) संहरं supplied by A3 in space left by A1.

908.

--1) Thus A; perhaps, to be read प्राक्कृतानीव.

909.

--1) सजानिर supplied by A5 in space left by A1.

--2) Thus corr. by A3 from A1 ॰तरन्दो॰.

--3) Thus corr. by A3 from A1 ॰तार्य.

910.

--1) Thus corr. by A3 from A1 ॰वामक॰.

--2) त्पत्न्या and नं supplied by A3 in space left by A1.

916.

--1) Thus corr. by A3 from A1 पुरम॰.

919.

--1) प्रभयतो लग्नं राज्यं supplied by A3 in space left by A1.

[page 139]




अन्वभूत्पार्थिवक्रोधमविशेषेण मण्डले । KRT_7_0924ab
तेन राज्योचितो वेषस्तत्र राज्ञा प्रवर्तितः ॥ युग्मम्॥ KRT_7_0924cd
स केषांचिदमात्यानामाकल्पोल्लासशोभिनाम् । KRT_7_0925ab
निर्मत्सरह् स्वदासीभिरारात्रिकमकारयत् ॥ KRT_7_0925cd
दाक्षिणात्याभवद्भङ्गिः प्रिया तस्य विलासिनः । KRT_7_0926ab
कर्णाटानुगुणष्टङ्कस्ततस्तेन प्रवर्तितः ॥ KRT_7_0926cd
लडत्तालीदलाः स्थूलचन्दनस्थाससुन्दराः । KRT_7_0927ab
रेजुर्जनास्तदास्थाने श्लाघ्यदीर्घासिधेनवः ॥ KRT_7_0927cd
स्वर्णकेतकपत्त्राङ्कजूटलम्बोर्जितस्रजः । KRT_7_0928ab
चटुलातिलका1श्लिष्टविलोलतिलकाङ्कुराः ॥ KRT_7_0928cd
अपाङ्गश्रोत्रयोर्बद्धसंधयोञ्जनरेखया । KRT_7_0929ab
निर्नीरङ्गिककेशान्तबद्धहेमोपवीतकाः ॥ KRT_7_0929cd
अधराम्बरपुच्छान्तैर्लम्बैश्चुम्बितभूतलाः । KRT_7_0930ab
प्रच्छादितार्धदोर्लेखकाङ्कपयोधराः ॥ KRT_7_0930cd
कर्पूरोद्धूलनस्मेरा भ्रमन्त्यस्तलभ्रुवः । KRT_7_0931ab
बभ्रुराश्रितपुंवेषा1 झषाङ्कच्छलदङ्कताम् ॥ चक्कलकम्॥ KRT_7_0931cd
अन्योपजीव्यतां प्रापुस्तस्यार्थित्वेन मार्गणाः । KRT_7_0932ab
विश्वाप्यायकतां मेघाः प्रणयेनेव वारिधेः ॥ KRT_7_0932cd
प्रसादैस्त्यागिनस्तस्य राज्ञः कनकवर्षिणः । KRT_7_0933ab
समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः ॥ KRT_7_0933cd
विद्वच्चूडामणिर्भूभृत्पण्डितान्रत्नमण्डितान् । KRT_7_0934ab
चकार युग्यतुरगच्छन्नादिप्रक्रियाभृतः ॥ KRT_7_0934cd
कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः । KRT_7_0935ab
विद्यापतिं यम् कर्णाटश्चक्रे1 पर्माडिभूपतिः ॥ KRT_7_0935cd
प्रसर्पतः करटिभिः कर्णाटकटकान्तरे । KRT_7_0936ab
राञ्जोग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ KRT_7_0936cd
त्यागिनं हर्षदेवम् स श्रुत्वा सुकविबान्धवम् । KRT_7_0937ab
बिल्हणो वञ्जनां मेने विभूतिं तावतीमपि ॥ KRT_7_0937cd
सौवर्णामल1साराद्या2 राजधान्यो धरापतेः । KRT_7_0938ab
सुवह्योभ्रंलिहगृहा भ्रेजिरे भुवनाद्भुताः ॥ KRT_7_0938cd
तदीये नन्दनवने द्रुमेभ्यो नो व्यधुः स्थितिम् । KRT_7_0939ab
त्यागिना निर्जितास्तेन केवलं कल्पपादपाः ॥ KRT_7_0939cd
विविधाभिरशून्याम्बु विहंगमृगजातिभिः । KRT_7_0940ab
तेन व्याप्तदिगाभोगं चक्रे पम्पाभिदहं सरः ॥ KRT_7_0940cd
सोज्ञासीद्यावतीर्विद्यास्तासां नामापि निश्चितम् । KRT_7_0941ab
वक्तुं नास्त्येव सामर्थ्यं व्यक्तं वाचस्पतेरपि ॥ KRT_7_0941cd
गीतमाकर्ण्यतेद्यापि तस्य वाग्गेयकारिणः । KRT_7_0942ab
वैपक्षैरपि पक्ष्माग्रलुठद्वाष्पोदबिन्दुभिः ॥ KRT_7_0942cd
स्वपतो दिनयामौ द्वौ सर्वकालं विलासिनः । KRT_7_0943ab
दत्तस्थानस्य तस्यासीद्यामिनीषु प्रजागरः ॥ KRT_7_0943cd
तस्य दीपसहस्राङ्के स्थितस्यास्थानमण्डपे । KRT_7_0944ab
विद्वद्गोष्ठीगीतनृत्तप्रस्तावेन क्षपा ययुः ॥ KRT_7_0944cd
कथान्ते शुश्रुवे तत्र पर्णचर्वणजः परम् । KRT_7_0945ab
कान्ताधम्मिल्लशेफालीत्रिटिजन्मा च मर्मरः ॥ KRT_7_0945cd
वितानैः सपयोदेव साग्निविप्रेव दीपकैः । KRT_7_0946ab
रुक्मण्डलैः सशम्पेव सधूमेवासिमण्डलैः ॥ KRT_7_0946cd
साप्सरा इव कान्ताभिः सनक्षत्रेव मन्त्रिभिः । KRT_7_0947ab
सर्षिसंघेव विबुधैः सगन्धर्वेव गायनैः ॥ KRT_7_0947cd
नित्यसंकेतवसतिर्धनदस्य यमस्य च । KRT_7_0948ab
एकं विहरणारण्यं दानस्य च भयस्य च ॥ KRT_7_0948cd
क्षपात्थानस्थितिस्तस्य राज्ञः शक्राधिकश्रियः । KRT_7_0949ab
कस्य वाचस्पतेर्वाचा वक्तुं कार्त्स्न्येन शक्यते ॥ चक्कलकम्॥ KRT_7_0949cd
रौक्मैश्च राजतश्चासीद्व्यवहारस्तदा घनः । KRT_7_0950ab
मण्डले विरलामुष्मिन्दीन्नारैस्ताम्रजैः पुनः ॥ KRT_7_0950cd
दण्डनायकतां प्राप्य सुन्नः सर्वोन्नतिं भजन् । KRT_7_0951ab
तस्मिन्काले त्वभूल्लोभान्नीचो मुष्टिंपचः परम् ॥ KRT_7_0951cd
निजा जयवने सूर्यामूलके विजयेश्वरे । KRT_7_0952ab
आख्यान्ति यस्य लुब्धत्वं निर्व्ययस्थितये मठाः ॥ KRT_7_0952cd

928.

--1) A3 gloss ललाटलम्ब्यलङ्कारश्चटुलातिलको मतः.

931.

--1) Emended; A ॰पुंवेशा.

935.

--1) Thus corr. by A3 from A1 ॰टश्चे.

938.

--1) Thus corr. by later hand from A1 सौवर्णामाल॰.

--2) राढ्या supplied by A3 in space left by A1.

[page 140]




क्षुधितव्याधितानाथदीनाद्यार्तिनिवारणम् । KRT_7_0953ab
सुस्पष्टं प्राप पट्टस्य राज्यलक्ष्मीः कृतार्थताम् ॥ KRT_7_0953cd
नन्दिक्षेत्रे व्ययीकृत्य प्रत्यब्दं सप्त वासरान् । KRT_7_0954ab
चप्पकः सफलां चक्रे सर्वकालार्जितां श्रियम् ॥ KRT_7_0954cd
कृष्णाजिनोभयमुखीमुख्यैर्दानैः क्षमाभुजा । KRT_7_0955ab
अदरिद्रीकृता विप्रा निःशेषार्तिच्छिदार्थिनाम् ॥ KRT_7_0955cd
राज्ञो वसन्तलेखाख्या शाहिवंशप्रियाकरोत् । KRT_7_0956ab
मठाग्रहारान्नगरे पूज्ये च त्रिपुरेश्वरे ॥ KRT_7_0956cd
माहेश्वर्यमयी काचिदित्थं ज्वालेव सोद्ययौ । KRT_7_0957ab
उदारव्यवहारं तु न तद्राज्यं प्रचक्षते ॥ KRT_7_0957cd
अथ प्रवृद्धिं संप्राप्ताः शनकैर्नवमन्त्रिणः । KRT_7_0958ab
पूर्वामात्यद्विषो राज्ञो मतिमोहं प्रचक्रिरे ॥ KRT_7_0958cd
कुष्ठार्ताङ्घ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिं भानुः पादसहस्रभाक्प्रतिपदं संचार्यतेनूरुणा । KRT_7_0959ab
वञ्च्यन्ते बलिनोपि यल्लघुबलैः सामर्थ्यहीनैश्च यद्भ्राम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायितम् ॥ KRT_7_0959cd
स सर्वशास्त्राधिगमप्रौढः परिवृढो विशाम् । KRT_7_0960ab
यन्मोहितमतिश्चक्रे वैधेयैरपि मन्त्रिभिः ॥ KRT_7_0960cd
विपन्नस्य पितुर्वैरप्रतिकारविधित्सया । KRT_7_0961ab
स राजधानीनामाङ्कमठादि निरलोठयत् ॥ KRT_7_0961cd
त्यागी तत्कोशसंभारं व्ययीकुर्वन्नितस्ततः । KRT_7_0962ab
लुब्धस्य चाभिधां तस्य पापसेन इति व्यधात् ॥ KRT_7_0962cd
शुद्धान्ते शुद्धशीलानां ढौकितं मूढचेतसा । KRT_7_0963ab
स्पष्टं षष्ट्यधिकं राज्ञा स्त्रीणां तेन शतत्रयम् ॥ KRT_7_0963cd
यादृशीस्तादृशीस्तत्र नारीर्विन्यस्यतानिशम् । KRT_7_0964ab
नागृह्यन्त परं डोम्ब1जनंगमकुलाङ्गनाः ॥ KRT_7_0964cd
अत्रान्तरे पूर्यमाणो गूढं कोटपदातिभिः । KRT_7_0965ab
पुनर्भुवनराजोभूल्लहरालब्धिलुब्धधीः ॥ KRT_7_0965cd
स दर्पितपुरं प्राप्तः कन्दर्पद्वारनायकम् । KRT_7_0966ab
श्रुत्वा योद्धुं विनिर्यातं ययौ भूयोप्यदृश्यताम् ॥ KRT_7_0966cd
तस्मिन्प्रसङ्गेपि नृपो दृप्यन्राजपुरीपतिः । KRT_7_0967ab
संग्रामपालः केनापि हेतुना विक्रियां ययौ ॥ KRT_7_0967cd
कन्दर्पे कोटभृत्यानां भिन्नानां संग्रहोद्यते । KRT_7_0968ab
क्रुध्यन्राजपुरीं राजा व्यसृजद्दण्डनायकम् ॥ KRT_7_0968cd
स महद्भिः समं सैन्यैर्गच्छंल्लोहरवर्त्मना । KRT_7_0969ab
अधीरः कोटकच्छेषु सार्धं मासं व्यलम्बत ॥ KRT_7_0969cd
प्रत्यासन्नाच्छुचेर्मासात्प्रतापाच्च विरोधिनाम् । KRT_7_0970ab
त्रस्तस्तस्य यात्रायां न संकल्प्प्यराजत ॥ KRT_7_0970cd
अविशेषज्जभावेन भर्तुस्तिष्ठन्निरुद्यमः । KRT_7_0971ab
ततो जगाम कन्दर्प एवोपालम्भमात्रताम् ॥ KRT_7_0971cd
कृतप्रतिज्ञोनाहारतया राजपुरीजये । KRT_7_0972ab
उपालम्भार्दितः सोथ निःसामग्र्योप्यवाचलत् ॥ KRT_7_0972cd
निराहारस्य वसतः कन्दर्पस्याद्रिगह्वरे । KRT_7_0973ab
षष्ठेह्न्यभूद्राजपुरी योजनेभ्यधिके स्थिता ॥ KRT_7_0973cd
अवयाहतः सोरिवलाद्विषच्छस्त्राणि पातयन् । KRT_7_0974ab
कदलीपल्लवान्मृद्गन्वनं सिंह इवाविशत् ॥ KRT_7_0974cd
दण्डनायकसैन्येभ्यः परमेकस्तमन्वगात् । KRT_7_0975ab
सेनानीः कुलराजाख्यो बुद्धराजकुलोद्भवः ॥ KRT_7_0975cd
तं बाह्याल्यां राजपुर्या हतासंख्याहितं द्विषः । KRT_7_0976ab
निहत्य शुक्लच्छत्त्राङ्कं कन्दर्पं मेनिरे हतम् ॥ KRT_7_0976cd
मध्याह्ने स तु कन्दर्पः स्वयं संप्राविशद्बली । KRT_7_0977ab
राजधनीं राजपुर्या विंशत्रिंशैः समं भटैः ॥ KRT_7_0977cd
द्विषां त्रिंशत्सहस्राणि योधानामनिवर्तिनाम् । KRT_7_0978ab
रुरोध राजपुर्यग्रे तत्पदातिशतत्रयम् ॥ KRT_7_0978cd
काश्मीरिकाणां1 निहतं रणे तत्र शतद्वयम् । KRT_7_0979ab
चत्वारि तु शतन्युर्वीं खशानामप्यशेरत ॥ KRT_7_0979cd
भग्ने रिपुवले दूरमसंख्येयैश्चिताग्निभिः । KRT_7_0980ab
संस्कुर्वद्भिर्हतान्नाशीच्रणे मृत्योर्महानसः ॥ KRT_7_0980cd
तेनैवं स्वाम्युपालम्भवेतालो रभसार्पितः । KRT_7_0981ab
रणश्मशाने वीरेण शमितो मांसशोणितैः ॥ KRT_7_0981cd

164.

--1) Emended; A डोम्भ॰.

179.

--1) Emended; A काश्मीरका॰.

[page 141]




याममात्रावशेषेह्नि पुनरेवाथ संहताः । KRT_7_0982ab
द्विषः परिभवोत्तप्ताः1 कन्दर्पं योद्धुमाययुः ॥ KRT_7_0982cd
ततस्तानथ नाराचान्निचिक्षेप स संयुगे । KRT_7_0983ab
लिप्तानौषधितैलेन विद्धा यैः प्राज्वलन्दिशः ॥ KRT_7_0983cd
आग्नेयं वेत्त्यसावस्त्रमिति मूढा विशङ्किताः । KRT_7_0984ab
ते दूरं प्रययुर्भीता निन्दन्तः पुनरागमम् ॥ KRT_7_0984cd
प्रगल्भभावः प्रतिभानमोजःप्रयोगचातुर्यमसंभ्रमश्च । KRT_7_0985ab
महाशयानामतिसंकटेषु धैर्योपनद्धां न धियं जहाति ॥ KRT_7_0985cd
राजधानीं प्रविष्टः स भानावस्ताभिलाषिणि । KRT_7_0986ab
भूयोप्यपश्यत्स छन्नां बाह्यालीं वहलैर्बलैः ॥ KRT_7_0986cd
योद्धुं यियासुः शुश्राव प्राप्तं तम् दण्डनायकम् । KRT_7_0987ab
घोरां रणाटवीं दृष्ट्वा भयात्स्थगितसैनिकम् ॥ KRT_7_0987cd
स्वीयैर्दृष्टैः क्षतैः कैश्चिद्दृप्यन्त्यधिकमाहवे । KRT_7_0988ab
पारकीयैस्त्रसन्त्यन्ये कोन्तरं वेत्ति देहिनाम् ॥ KRT_7_0988cd
आनीतोथ विनिर्गत्य तेनैव स भये व्रुडन् । KRT_7_0989ab
स्पर्धमानो यथाम्भोधौ मज्जन्हंसेन वायसः ॥ KRT_7_0989cd
रक्तप्रजं वीतसैन्यमभिन्नं बहुकोशवत् । KRT_7_0990ab
परराष्ट्रं विशेदेवं स्ववीर्येणैव कोपरः ॥ KRT_7_0990cd
प्रणतात्करमादाय ततो राजपुरीपतेः । KRT_7_0991ab
मासमात्रेण कन्दर्पः पुनः स1 भुवमाययौ ॥ KRT_7_0991cd
प्रत्युद्गमादिसत्कारैः कृतपूजो महीभुजा । KRT_7_0992ab
स दण्डनायकादीनां शिरःशूलावहोभवत् ॥ KRT_7_0992cd
परिहासपुरे पारिपाल्यं कुर्वन्कठोरधीः । KRT_7_0993ab
वातगण्डाख्यया ख्यातिं निन्ये यस्तत्र पर्षदा ॥ KRT_7_0993cd
प्रभूतोत्कोचसंपीतसचिवप्रेरनस्पृशा । KRT_7_0994ab
अपास्य वामनं1 राज्ञा पादाग्रादौ नियोजितः ॥ KRT_7_0994cd
आनन्दः स क्षणे तस्मिन्निच्छन्द्वाराधिकारिताम् । KRT_7_0995ab
कन्दर्पद्वेषिणामासीन्मन्त्रिणामतिसंमतः ॥ KRT_7_0995cd
तत्प्रेरितस्ततः पातुं लोहरं विप्लुताहितम् । KRT_7_0996ab
मण्डलेश्वरतां दत्त्वा कन्दर्पं प्राहिणोन्नृपः ॥ KRT_7_0996cd
मन्त्रविक्रमसंपन्नः कुभृत्यैः स्वोदयेप्सुभिः । KRT_7_0997ab
शक्त्या तया राजपशोः समीपात्सोपात्सोपवाहितः ॥ KRT_7_0997cd
दूत्यार्होयमिति प्रहाय निकटाद्देशान्तरं वाग्मिनं सूरिं बन्धुवियोगकृन्ननु वचोमुष्येति संत्यज्य च । KRT_7_0998ab
शूरो राज्यमसौ हरेदिति तया हित्वा विचारोज्झितो धूर्तप्रेरणयाबुधो नृपपशुर्नायाति नाशं चिरात् ॥ KRT_7_0998cd
अदर्शनात्सुबद्धापि कन्दर्पप्रीतिराशयात् । KRT_7_0999ab
राज्ञो जगाल कालेन सा मुष्ठेरिव1 वालुका ॥ KRT_7_0999cd
उत्कर्षपुत्रावादाय चिकीर्सुर्लोहरेशताम् । KRT_7_1000ab
कन्दर्पो वर्तत इति क्षितिपं मन्त्रिणोवदन् ॥ KRT_7_1000cd
तथेति नृपतिर्गृह्णन्बन्धुं हन्तुमथाशु तम् । KRT_7_1001ab
ससैन्यं व्यसृजत्पट्टं1 टक्कं2 चासिधराभिधम् । KRT_7_1001cd
तयोः संप्राप्तयोर्वार्तां3 तां लेखव्यत्ययाद्विदन् । KRT_7_1002ab
विमुखश्चकितात्मा च कन्दर्पोभूद्यथा मुहुः ॥ KRT_7_1002cd
केलिद्यूतक्षणे हस्तं मृद्गन्देवकव1त्पुरः । KRT_7_1003ab
आसीदसिधरस्तस्य बन्द्धुम2भ्युद्यतस्तदा ॥ KRT_7_1003cd
ततः पाणिं विनिष्कृत्य सोङ्गुष्ठाग्रेण तत्करम् । KRT_7_1004ab
अमृद्गाद्येन निस्त्वक्त्वं1 क्लिन्नः पक्षीव सोगमत् ॥ KRT_7_1004cd
अनन्तरज्ञो भूभृच्च तेनात्मा च नृपाश्रितः । KRT_7_1005ab
विगर्ह्यते स्म खिन्नेन पट्टश्चैवमकथ्यत ॥ KRT_7_1005cd
नेयाशयो नरपतिः कुटुम्बं प्रहिणोतु मे । KRT_7_1006ab
अर्पयित्वा ततः कोटं प्रयास्यामि दिगन्तरम् ॥ KRT_7_1006cd
अनीय दत्ताम्स्तैर्ज्ञातीनादाय द्रोहवर्जितः । KRT_7_1007ab
स विमुक्ताधिकारोथ मन्त्री वाराणसीं ययौ ॥ KRT_7_1007cd
हत्वा गयायां सामन्तमेकमन्यं निवेश्य च । KRT_7_1008ab
काश्मीरिका1णां चक्रे स श्राद्धशुल्कनिवारणम् ॥ KRT_7_1008cd

982.

--1) Emended; ॰भवो तप्ताः.

991.

--1) Thus A; perhaps, to be read स्वभुवं.

994.

--1) Thus A1; A3 वासनं.

999.

--1) Thus corr. by A3 from A1 मुष्टिरिव.

1001.

--1) A4 gloss मन्त्रिणं.

--2) Thus A2; A1 रक्किं.

1002.

--1) तां supplied by A3 in space left by A1.

1003.

--1) Emended with C; A ॰न्सेवकत्पुरः.

--2) Emended; A बद्धुमु॰.

1004.

--1) Doubtful emendation; A apparently निस्त्वक्त्यं; R G निस्त्वथ्यं.

1008.

--1) Emended; A काश्मीरकाणां.

[page 142]




स हत्वा चौरसेनान्यं ससैन्ये दुर्गमेध्वनि । KRT_7_1009ab
पूर्वाशामध्वनीनां च1 व्यधान्निर्धूतकण्टकाम् ॥ KRT_7_1009cd
व्याघ्रं निहत्योग्रसत्त्वं वाराणस्यां निरस्यता । KRT_7_1010ab
पूर्वा दिग्भूषिता तेन मठैः सुकृतकर्मठैः ॥ KRT_7_1010cd
ते तन्निर्वासनादेव लब्धलक्षाः कुमन्त्रिणः । KRT_7_1011ab
अन्योन्यासूयया जघ्नुरथ कार्याणि भूभुजः ॥ KRT_7_1011cd
स्वैराहारोदितगुरुमदाः शृङ्गकण्डूतिशान्त्यै दुर्वारेर्ष्याकलुषमतयो यत्र दुर्मन्त्रिमेषा1ः । KRT_7_1012ab
घ्नन्त्यन्योन्यं भवति गणितैर्वासरैरेव कैश्चिन्मध्यस्थाणोरिव नरपतेस्तत्र सर्वाङ्गभङ्गः ॥ KRT_7_1012cd
अतिक्रामति कालेथ पार्थिवं हन्तुमुद्यमम् । KRT_7_1013ab
दुर्द्रुक्षुर्जातराज्येच्छस्तान्वङ्गिर्धम्मटोभजत् ॥ KRT_7_1013cd
द्रोहापवादभागेष भवेद्राज्यमिदं पुनः । KRT_7_1014ab
मामेव वैश्या1पुत्रत्वादनर्हेस्मिन्नुपेष्यति ॥ KRT_7_1014cd
इति संमन्त्र्य सुचिरं निहन्तुम् पृथिवीभुजम् । KRT_7_1015ab
प्रेरितो जयराजोभूत्तेनासरलचेतसा ॥ युग्मम्॥ KRT_7_1015cd
विलावग्रामजान्क्षिप्त्वा तीक्ष्णान्द्रोहाय भूपते । KRT_7_1016ab
सोवरोधवधूर्द्वित्रा विदधे मध्यपातिनीः ॥ KRT_7_1016cd
क्रमात्सिद्ध्युन्मुखे तस्मिन्कार्ये राजपुरीं नृपः । KRT_7_1017ab
दूत्याय व्यसृजज्जातु बहुमानेन धम्मटम् ॥ KRT_7_1017cd
सस्हस्रमङ्गलगृहे सुदिनापेक्ष्या स्थितम्1 KRT_7_1018ab
तं सिद्धिभङ्गचकितो जयराजः समाययौ ॥ KRT_7_1018cd
तमर्थं मण्डपे गूढं तयोर्मन्त्रायमाणयोः । KRT_7_1019ab
प्रयागानुचरः कश्चिद्भित्तिव्यवहितोशृणोत् ॥ KRT_7_1019cd
तदावेदिततद्वार्तात्प्रयागात्तत्कथां ततः । KRT_7_1020ab
बुद्ध्वा निवर्तयामास धम्मटं गमनान्नृपः ॥ KRT_7_1020cd
कुलक्षयभयात्तिष्ठंस्तत्प्रतीकारमन्थरः । KRT_7_1021ab
स्वमेव केवलं रक्षन्नासीत्स चकितोन्वहम् ॥ KRT_7_1021cd
असिद्धिम् जयराजस्तु दृष्ट्वा दूतैः स्वसंमुखौ । KRT_7_1022ab
शमालडामरौ वीरौ वागपाजाभिधौ व्यधात् ॥ KRT_7_1022cd
स्वभृत्यैर्भेदनिर्यातैर्ययासुं तं निवेदितम् । KRT_7_1023ab
श्रुत्वा क्षपायां क्षितिभृद्दिक्षु चिक्षेप रक्षिणः ॥ KRT_7_1023cd
व्याजाद्यात्रां वदन्सज्जः प्रातस्तान्वङ्गिरेव तम् । KRT_7_1024ab
चतुष्कं पूजने1 धूर्तो जयराजमुपानयत् ॥ KRT_7_1024cd
राज्ञो दत्तार्गले धाम्नि1 स्थितस्य स्थानमण्डलम् । KRT_7_1025ab
सत्रा स भ्रातृपुत्रेण धम्मटेण ततोविशत् ॥ KRT_7_1025cd
रक्षिणोथ बहिर्न्यस्य प्रयागः1 पार्थिवाज्ञया । KRT_7_1026ab
जयराजं बधानेति नीचैर्धम्मटमभ्यधात् ॥ KRT_7_1026cd
धम्मटे विश्वसञ्शस्त्रं जयराजस्त्यजेद्ध्रुवम् । KRT_7_1027ab
निदेशेनामुना वेत्ति स्वमज्ञातं च धम्मटः ॥ KRT_7_1027cd
द्वयोरेकस्य वा युद्धे तयोर्मृत्यौ हितं च नः । KRT_7_1028ab
व्यक्तीकृतैक्ययोर्वापि वधो लोकेप्यगर्हितः ॥ KRT_7_1028cd
इति निर्ध्यायतः शश्वदविरोधेन वेधसः । KRT_7_1029ab
प्रज्ञास्य प्रत्यभाद्राज्ञो मन्त्रो युक्ततमस्तथा ॥ तिलकम्॥ KRT_7_1029cd
नाबुद्ध मां ध्रुवं राजा तान्वङ्गिरिति विश्वसन् । KRT_7_1030ab
जयराजमुपागत्य ततो धार्ष्ट्याद्वचोब्रवीत् ॥ KRT_7_1030cd
अप्रसन्नस्त्वयि नृपो यद्यद्रोहोसि निश्चयात् । KRT_7_1031ab
तत्त्वयाशु विशुद्ध्यर्थमसिधेनुः समर्प्यताम् ॥ KRT_7_1031cd
दैवेन वा मोहितः स तद्विश्वासेन वात्यजत् । KRT_7_1032ab
आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत् ॥ KRT_7_1032cd
वैक्लव्यदर्शनात्सेर्ष्यस्ततः स परुषं गिरम् । KRT_7_1033ab
तन्वङ्गपौत्रष्टुल्लाख्यस्तं जगदाaज्जकात्मजः ॥ KRT_7_1033cd
न त्वं निःसत्त्व कय्याया जातः कलशभूभुजा । KRT_7_1034ab
आसीज्जनयिता नूनं क्लीबो यः कश्चिदेव ते ॥ KRT_7_1034cd
निष्ठायां धैर्यचर्याणां परिणाममजानता । KRT_7_1035ab
तेनेत्युक्तः स शीताम्बुसिक्तसुप्रोपमोभवत् ॥ युगलकम्॥ KRT_7_1035cd
द्रोहोदन्तं पृच्छयमानो धीरस्तन्मध्यपातिनम् । KRT_7_1036ab
यातनाक्लेशितोप्यूचे स्वमेव न तु धम्मटम् ॥ KRT_7_1036cd

1009.

--1) has been erased by A1.

1012.

--1) Thus A1; corr. by later hand दुर्मन्त्रिशेषाः.

1014.

--1) Thus corr. by later hand from A1 वेश्या॰.

1018.

--1) Thus corr. by later hand from A1 स्थितिम्.

1024.

--1) Thus corr. by A2 from A1 पूर्तये; A2 in margin भोजने.

1026.

--1) Thus corr. by A2 from A1 प्रायम्.

[page 143]




विघ्नमन्त्रवीर्येण मोघीकृतविषाशनः । KRT_7_1037ab
रज्ज्वा निपीड्य ग्रीवाग्रं ततो निशि विपादितः ॥ KRT_7_1037cd
जय्यकेन प्रतीहर्त्रा शिरश्छित्त्वोज्झितं ययौ । KRT_7_1038ab
भट्टारनङ्वलातोये तद्वपुर्मत्स्यभोज्यताम् ॥ KRT_7_1038cd
तमेकसप्तते वर्षे भाद्रपदे नृपः । KRT_7_1039ab
वधम् गभीरहृदयो धम्मटस्याप्यचिन्तयत् ॥ KRT_7_1039cd
आदिदेशाथ तत्सिद्ध्यै रहः शस्त्रभृतां वरम् । KRT_7_1040ab
शूरं कलशराजाख्यं ठक्कुरं लोहराश्रयम् ॥ KRT_7_1040cd
प्रहिणोति यदा दूतं प्रयागस्ते तदा त्वया । KRT_7_1041ab
संपाद्यमेतदित्यूचे तं चोपचितसत्क्रियम् ॥ KRT_7_1041cd
असिद्धिभीत्या स्वं दूतं स ग्रहिण्वन्प्रयागकः । KRT_7_1042ab
संमन्त्र्य क्रियतामेतदित्यूचे कुपितो नृपम् ॥ KRT_7_1042cd
राज्ञि मन्त्र1यमाणेथ पञ्चानीयाग्र्यमन्त्रिणः । KRT_7_1043ab
वामनः सार्गले द्वारे त्यक्तदेहोब्रवीद्वचः ॥ KRT_7_1043cd
मन्त्रश्च मन्त्रिणश्चैते न यावन्निःसृता बहिः । KRT_7_1044ab
तावत्क्रियेति चेदेतन्न भद्राणि दरिद्रति ॥ KRT_7_1044cd
राजाज्ञया प्रयोगेन1 ततो दूते विसर्जिते । KRT_7_1045ab
तीक्ष्णः कलशराजाख्यस्तनयाभ्यां सहाययौ ॥ KRT_7_1045cd
तस्मिन्प्रसङ्गे तान्वङ्गिः श्येनस्य दददातपम् । KRT_7_1046ab
राजधान्यन्तरेवासीद्द्वित्रैरनुचरैः समम् ॥ KRT_7_1046cd
पुरः कलशराजं तं दृष्ट्वा पश्चाच्च तत्सुतौ । KRT_7_1047ab
यावत्साश1ङ्कमाचख्यौ तावद्भृत्यैर्निजैर्जहे ॥ KRT_7_1047cd
शक्तोपि धम्मटः क्रष्टुं कृपाणीमिति वादिनम् । KRT_7_1048ab
हन्तुं कलशराजं तु यावच्छस्त्रे व्यधात्करम् ॥ KRT_7_1048cd
तावत्तेनाग्रतः पश्चात्तत्पुत्राभ्यां कृताहतिः । KRT_7_1049ab
आसनादुच्चलन्नेव क्षिप्रं प्राणैरमुच्यत ॥ KRT_7_1049cd
मुमूर्षुणा क्षतस्तेन ज्यायान्कलशराजजः । KRT_7_1050ab
चित्रमायुधवैगुण्यान्नाभीक्ष्णव्रणितोभवत् ॥ KRT_7_1050cd
तस्य ह्यभाग्ययोगेन तेष्वेवाहःसु शस्त्रिणः । KRT_7_1051ab
निजा कृपाणी तुत्रोट तेनाभद्रायुधो1भवत् ॥ KRT_7_1051cd
निहत्य पातितः पृष्ठात्स तैर्व्याधैरिवाण्डजः । KRT_7_1052ab
शुनां ग्रासाय संत्यक्तः श्वपाकैः पार्थिवाज्ञया ॥ KRT_7_1052cd
राज्ञा तन्वङ्गनप्तारौ स्वयं रल्हणमल्हणौ । KRT_7_1053ab
आगत्य प्राङ्गने त्यक्तकृपाणी परिरक्षितौ ॥ KRT_7_1053cd
दत्तास्कन्दास्तु1 टुल्लाद्याः संरम्भेण युयुत्सवः । KRT_7_1054ab
माययोदयसिंहेन दाम्भिकेनैत्य वञ्चिताः ॥ KRT_7_1054cd
यूयं पुत्रा ममेत्युक्तवतस्ते धार्मिकस्य यत् । KRT_7_1055ab
प्रत्ययात्तस्य शस्त्राणि नत्यजुर्जीवितेच्छवः ॥ KRT_7_1055cd
राज्ञो विशुद्धिः क्रियतां पार्श्वमेत्येति तद्वचः । KRT_7_1056ab
तैः समागत्य जगृहे मार्गो राजगृहान्प्रति ॥ KRT_7_1056cd
तन्वङ्गजगृहोच्छिष्टैर्बाल एव विवर्धितः । KRT_7_1057ab
टुल्लं ततो विहस्यैवं स्वच्छत्त्रग्राहकोवदत् ॥ KRT_7_1057cd
तन्वङ्गनप्तर्यत्1पूर्वं जयराजमभाषथाः । KRT_7_1058ab
न त्वम् निःसत्त्व कय्याया इति तद्विस्मृतं तव ॥ KRT_7_1058cd
स ते तादृश एवायं वर्तते संकटः क्षणः । KRT_7_1059ab
किं धैर्यावसरे मूढ वैक्लव्यमवलम्बसे ॥ KRT_7_1059cd
तस्माज्जातोसि नियतं मत्पित्रोच्छिष्टमुष्टिना । KRT_7_1060ab
अहम् तु तेन वीरेण त्वत्पित्रा कीर्तिभागिना ॥ KRT_7_1060cd
इत्युक्त्वा स रणे गृह्णन्खड्गधाराजलज्जलम् । KRT_7_1061ab
पपात जन्ममालिन्यं मानी प्रक्षालयन्निव ॥ KRT_7_1061cd
नृपान्तिकं प्रयास्याम इति निश्चयतस्ततः । KRT_7_1062ab
टुल्लादीन्राजपुरुषाः कारागारे निचिक्षिपुः ॥ KRT_7_1062cd
ते यौवनभरोन्मत्ता द्रुमा वासन्तिका इव । KRT_7_1063ab
प्रत्यभासन्त कारुण्याद्रक्षणीयाः क्षमाभुजः ॥ KRT_7_1063cd
टक्कस्तु बिम्बियो नाम पापः संप्रेक्ष्य भूभुजम् । KRT_7_1064ab
न्यजिग्रहत्तान्ग्रीवासु निशि पाशान्निवेशयन् ॥ KRT_7_1064cd
टुल्लो विजयराजश्च बुल्लो गुल्लश्च तेलुठन् । KRT_7_1065ab
तन्वङ्गपौत्राश्चत्वारो हता वध्यमहीतले ॥ KRT_7_1065cd

1043.

--1) Emended; A मन्त्रिय॰.

1045.

--1) A here and elsewhere प्रयोगेण.

1047.

--1) Emended; A ॰त्सशङ्कमा॰.

1048.

--1) Thus A; perhaps, to be emended कृपाणीमतिवादिनीम्.

1051.

--1) युधो supplied by A3 in space left by A1.

1054.

--1) Emended; A ॰स्कन्दाद्यास्तु.

1058.

--1) Emended; A ॰नप्तो यत्पूर्वं.

[page 144]




हतानामपि सौन्दर्यं तेषामद्यापि वर्ण्यते । KRT_7_1066ab
कथान्तरे वयोवृद्धैर्बद्धास्रुस्यन्ददुर्दिनैः ॥ KRT_7_1066cd
सतताभ्यस्तताम्बूलैः स्रस्तैस्तद्दशनाङ्कुरैः । KRT_7_1067ab
कीर्णशो1णाश्ममालेव सुचिरं वध्यभूरभूत् ॥ KRT_7_1067cd
वृद्धिमानीतयो राज्ञाप्युत्कर्षापत्ययोस्ततः । KRT_7_1068ab
ज्यायान्प्रमिम्ये1 डोम्बाख्यो गूढदण्डैः कुलच्छिदा ॥ KRT_7_1068cd
स्फुलिङ्गमिव संभाव्य तेजोविस्फूर्जितं शिशुम् । KRT_7_1069ab
जघान जयमल्लं च तद्विद्विजयमल्लजम् ॥ KRT_7_1069cd
गोप्तॄ1न्स्वगोत्रजान्हत्वा भोक्तुमेकस्य कस्यचित् । KRT_7_1070ab
कुर्वन्ति दैवोपहता राज्यम् निष्कण्टकं नृपाः ॥ KRT_7_1070cd
संरूढं मधुगोलमुच्चविटपव्यूहावलींगह्वरे मूढः कर्तुमकृच्छ्रहार्यमभितः कस्यापि भव्यात्मनः । KRT_7_1071ab
दैवप्रेरणया प्रकम्पविवशः पत्त्रप्रहारैर्दृढं तद्गोप्तॄ1न्मधुपान्निहत्य शमयत्यश्वत्थपृथ्वीरुहः ॥ KRT_7_1071cd
ज्ञातिद्रोहमहापाप्मनष्टधीरथ पार्थिवः । KRT_7_1072ab
डिम्बानामप्यसंभाव्यामभजद्विटभोज्यताम् ॥ KRT_7_1072cd
वामनस्यात्मजः क्षेमस्तं जाजञ्ज1नकद्विषम् । KRT_7_1073ab
प्रैरय2त्कलशेशस्थच्छत्त्रहेमनिवर्हणे ॥ KRT_7_1073cd
तामिच्छामच्छिनत्तस्य भक्तो युक्त्या प्रयागकः । KRT_7_1074ab
धावतः श्वभ्रपतिच्छां धीरो यन्तेव दन्तिनः ॥ KRT_7_1074cd
अनिशं नष्टचेष्टानां शवानामिव भूभुजाम् । KRT_7_1075ab
अन्तःप्रवेशकुशलो यो वेताल इवाभवत् ॥ KRT_7_1075cd
नप्ता हलधरस्याथ विटो लोष्टधराभिधः । KRT_7_1076ab
जगाद निर्जने जातु राजानं रञ्जनेच्छया ॥ युग्मम्॥ KRT_7_1076cd
ह्रियतां ग्रामहेमादि कलशेश्वरसम्श्रयम् । KRT_7_1077ab
तत्प्रासादाश्मभिः सेतुं वितस्तायां करोमि ते ॥ KRT_7_1077cd
आलेख्यं गगने लिखामि विसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः । KRT_7_1078ab
इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ॥ KRT_7_1078cd
निषिषेध चिकीर्षां तु प्रयागस्वामपि प्रभोः । KRT_7_1079ab
सदुपस्थायिकोपथ्याभ्यर्थनामिव रोगिणः ॥ KRT_7_1079cd
अथ लोष्टधरो हास्यावसरे जातु भूपतिम् । KRT_7_1080ab
बद्धस्य मोक्षो देवस्य क्रियतामित्यभाषत ॥ KRT_7_1080cd
स्मित्वा किमेतदित्युक्तवन्तं तं स व्यजिज्ञपत् । KRT_7_1081ab
उदभाण्डपुरे ॰ ॰1 भीमशा2हिरभूत्पुरा ॥ KRT_7_1081cd
विरोधात्पारिषद्यानां1 तत्कृतो भीमकेशवः । KRT_7_1082ab
राज्ये कलशदेवस्य बद्धद्वारोभवच्चिरम् ॥ KRT_7_1082cd
तैः शान्तैर्वैरैर्विदधे यदाथ विवृताररिः । KRT_7_1083ab
चौरापहृतदुर्वर्णकवचो ददृशे तदा ॥ KRT_7_1083cd
भूयोपि चक्रे तद्भीत्या कोशसामर्थ्यभागिति । KRT_7_1084ab
ततः प्रभृत्यद्य यावद्बद्धद्वारारदिः स्फुटम् ॥ KRT_7_1084cd
आदीयतां तदीयस्तत्कोश1श्चौरभयावहः । KRT_7_1085ab
सोपि बन्धाद्विमुक्तोस्तु पुष्पदीपादिभोगभाक् ॥ KRT_7_1085cd
इति संप्रेरितस्तेन तथा चक्रे स भूपतिः । KRT_7_1086ab
कोशं ततः प्रपेदे च मणिस्वर्णादिनिर्भरम् ॥ KRT_7_1086cd
अचिन्तयच्च यत्रेदृग्व1स्तु शून्यसुरास्पदे । KRT_7_1087ab
कीदृक्तत्रा2परेषु स्यादाद्येषु सुरवेश्मसु ॥ KRT_7_1087cd
कृतप्रायः स तत्रत्यैः पारिषद्यैस्ततो नृपः । KRT_7_1088ab
निष्क्रयं रूढभारोढिवारणेन प्रदापितः ॥ KRT_7_1088cd
क्रमेण सेनाननाङ्गव्ययव्यसनशालिनः । KRT_7_1089ab
सुरार्थह1रणे रूढा धीः संभावनया तथा ॥ KRT_7_1089cd
पूर्वराजार्पितन्कोशांस्ततः स भुवनाद्भुतान् । KRT_7_1090ab
सर्वगीर्वाणवेश्मभ्यो लुब्धबुद्धिरपाहरत् ॥ KRT_7_1090cd

1067.

--1) Thus A1; altered by later hand into ॰गोणाश्म॰.

1068.

--1) Emended; A प्रसिस्थे.

1070.

--1) Emended; A गोप्तृ॰.

1071.

--1) Emended; A तद्गोप्तृ॰.

1073.

--1) Emended; A जान जनक॰.

--2) supplied by A2.

1081.

--1) Two aksharas are wanting; A does not indicate the lacuna.

--2) Emended; A भीमश्शाहिर॰. Cf. vi. 178.

1082.

--1) Doubtful emendation; A ॰त्परिपत्यानां. Cf. vii. 1088.

1085.

--1) Emended; A ॰त्कोशचौर॰.

1087.

--1) Emended; A यत्रेदृद्वस्तु.

--2) Emended with C; A कीदृक्कुत्रा॰.

1089.

--1) Thus A; G C सुराकुहरणे.

[page 145]




हतेषु कोशेष्वानेतुं देवानां प्रतिमा अपि । KRT_7_1091ab
चकारोदयराजाख्यं देवोत्पाटन1नायकम् ॥ KRT_7_1091cd
वदनेषु च नग्नाटैः शीर्णध्राणाङ्घ्रिपाणिभिः । KRT_7_1092ab
मूर्तिनाशाय देवानां शकृन्मूत्राद्यपातयत् ॥ KRT_7_1092cd
स्वर्णरू1प्यादिघटिता गीर्वाणाकृतयोलुठन् । KRT_7_1093ab
अध्वस्विन्धनगण्डाल्य इव सावस्करेष्वपि ॥ KRT_7_1093cd
विवुधप्रतिमाश्चक्रुराकृष्टा गुल्फदामभिः । KRT_7_1094ab
थूत्कारकुसुमच्छन्ना भग्नन1ग्नाटकादयः ॥ KRT_7_1094cd
ग्रामे पुरेथ नगरे प्रासादो न स कश्चन । KRT_7_1095ab
हर्षराजतुरुष्केण न यो निष्प्रतिमीकृतः ॥ KRT_7_1095cd
तस्य देवावधृष्यौ द्वौ परमस्तां प्रभाविनौ । KRT_7_1096ab
नगरे श्रीरणस्वामी मार्ताण्डः पत्तनेष्विव ॥ KRT_7_1096cd
द्वौ महाप्रतिमामध्याद्बुद्धविम्बावरक्षताम् । KRT_7_1097ab
दानप्रसङ्गे तं जातु याचित्वा त्यागिनं नृपम् ॥ KRT_7_1097cd
परिहासपुरे जन्ममेदिन्यां कनकाभिधः । KRT_7_1098ab
गायनः कुशलश्रीश्च श्रमणो नगरान्तरे ॥ KRT_7_1098cd
अधिगतवतां लोके विश्वाद्भुतामपि संपदं न खलु विरतिर्दुष्कर्मभ्यो धनाaर्जनकाङ्क्षिणाम् । KRT_7_1099ab
किमपि कमलावाप्त्यै पद्माकरोद्धृतिपातकं भजति कमलालीलावासो भवन्नपि हि द्विपः ॥ KRT_7_1099cd
पैतामहेन पित्र्येण तथा राज्यचिकीर्षया । KRT_7_1100ab
लोहरादाहृतार्थस्य कोशेनोत्कर्षभूपते1ः ॥ KRT_7_1100cd
युक्तोपि पूर्वराजार्थं वेदौक्रोभो जहार यः । KRT_7_1101ab
ऐच्छद्धनार्जनं हा धिक्सोपि वास्तव्यपीडया ॥ युग्मम्॥ KRT_7_1101cd
तदाज्ञामात्रमादाय सचिवैरथ पापिभिः । KRT_7_1102ab
ते ते नवनवायासनामाङ्का नायकः कृताः ॥ KRT_7_1102cd
कालानुवृत्तिपरतां धिग्धिग्राजोपजीविनाम् । KRT_7_1103ab
यत्र मन्त्री वयःस्थः सन्सदाचारोपि गौरकः ॥ KRT_7_1103cd
सर्वदेवगृहग्रामसर्वस्वापहृतिव्रतम् । KRT_7_1104ab
स्वीचकाराज्जया भर्तुरर्थनायकतामपि ॥ युग्मम्॥ KRT_7_1104cd
पार्षदः समरस्वामिदेवागारे सहेलक1ः । KRT_7_1105ab
आप्तो विजयमल्लस्य यो राज्ञो द्वेष्यतां ययौ ॥ KRT_7_1105cd
द्विगुणोत्पत्तिदानेन सोर्थनायकतां गतः । KRT_7_1106ab
लब्धावकाशो राजाग्रे क्रमेणासीन्महत्तमः ॥ KRT_7_1106cd
किमन्यदद्धरता तेन सर्वार्थान्सर्वनायकैः । KRT_7_1107ab
व्यधीयत धनावाप्त्यै पुरीशस्यापि नायकः ॥ KRT_7_1107cd
श्रीगर्भपदपर्यायच्छन्नजाड्यप्रभावतः । KRT_7_1108ab
तथार्जितस्य कोशस्य सोनुरूपव्ययोभवत् ॥ KRT_7_1108cd
मृगीदृशां दुर्लभताम् हयानां श्वासान्विटानां कुवचःसहत्वम् । KRT_7_1109ab
वैतालिकानां च विकत्थनत्वं क्रेतुम् क्षितीशाः क्षपयन्ति लक्ष्मीम् ॥ KRT_7_1109cd
कोपप्रसादैर्दयिताजनस्य हयादिवृत्तान्तगवेषणेन । KRT_7_1110ab
भृत्यानुवृत्त्या मृगयाकथाभी राज्ञां शिशुनामिव याति कालः । KRT_7_1110cd
विलासहासासनयानदानपानाशनाद्या असतीः सतीर्वा । KRT_7_1111ab
छायेव चेष्टाः क्षितिपालवर्गः परानुकारेण करोति सर्वाः ॥ KRT_7_1111cd
अमानुषत्वं पुरुषाधिराजा विटस्तवैः स्वस्य विचिन्त्य सत्यम् । KRT_7_1112ab
तृतीयमक्ष्यभ्यधिकं भुजौ वा ममेति मत्वा न विदन्ति मृत्युम् ॥ KRT_7_1112cd
निशासु येषां प्रभवन्ति दारा दिनेष्वमात्या नियताधिकाराः । KRT_7_1113ab
अहो भ्रमः स्वस्य यदत्र तेपि विदन्ति भूपा प्रभविष्णुभावम् ॥ KRT_7_1113cd

1091.

--1) Emended with R C; A ॰त्पाटनायकम्.

1093.

--1) Emended; A ॰रुप्या॰.

1094.

--1) Thus corr. by later hand from A1 रुग्नन॰.

1100.

--1) Emended; A ॰भूपतिः.

1105.

--1) Emended; A च हेलकः. Cf. vii. 1170, 1319, 1358, 1359.

[page 146]




स्वादूचितं सावुतयैव भुङ्क्ते थूत्कृत्य मुञ्चत्यपि थूत्कृतानि । KRT_7_1114ab
वित्रासितस्त्रासमुपैत्यकस्माद्भूभृच्च बालश्च समानभावः ॥ KRT_7_1114cd
जाड्यमित्यादि यत्किंचित्क्षितिपानां कटाक्षितम् । KRT_7_1115ab
तत्सर्वं हर्षदेवस्य जाड्येन लघुतां ययौ ॥ KRT_7_1115cd
तुष्टः पटहवाद्येन हृद्यातोद्यविदे ददौ । KRT_7_1116ab
भामनायकनाम्ने स करिणं करिणीसखम् ॥ KRT_7_1116cd
स्वशिष्यस्तेन तस्यासीद्गायनः कनकोथ सः । KRT_7_1117ab
चप्पकावरजः खेदाद्गीताभ्यासकृतोद्यमः ॥ KRT_7_1117cd
प्रसादीकृतमस्मै च खेदच्छेदनमिच्छता । KRT_7_1118ab
तेन काञ्चनदीन्नारलक्षमक्षतचेतसा ॥ KRT_7_1118cd
कर्णाटभर्तुः पर्माण्डेः सुन्दरीं चन्दलाभिधाम् । KRT_7_1119ab
आलेख्यलिखितां वीक्ष्य सोभूत्पुष्पायुधक्षतः ॥ KRT_7_1119cd
उत्तेजयन्ति संघर्षे हास्ये जडमतीन्विटाः । KRT_7_1120ab
सारमेयानिवाजस्रं प्रोत्साह्य प्राकृताशयाः ॥ KRT_7_1120cd
स्स विटोद्रेचितो वीतत्रपश्चक्रे सभान्तरे । KRT_7_1121ab
प्रतिज्ञां चन्दलावाप्त्यै पर्माण्डेश्च विलोडने ॥ KRT_7_1121cd
कृतापक्त्रिमकर्पूरपरित्यागं प्रतिज्ञया । KRT_7_1122ab
तं च स्तुतिमिषादेवं जहसुः कविचारणाः ॥ KRT_7_1122cd
भाषाविशेषविशेषतः परिगतस्त्वं दाक्षिणात्योध्वगो गन्धादप्यवधारितं यदुत ते कर्पूरकोलं करे । KRT_7_1123ab
पक्वं चेदिदमङ्ग हर्षनृपतेस्तत्कल्पयोपायनं नो चेत्तिष्ठतु नालिकेरकुहरे संप्रत्यमुष्मिन्यतः ॥ KRT_7_1123cd
आ कर्णाटवसुंधराधववधादा चन्द्रलालिङ्गनादा कल्याणपुरप्रवेशनिविधेरा पिम्मलादर्शनात् । KRT_7_1124ab
आ राजाश्रयकाननान्तवसुधापारर्द्धिकौतूहलाद्देवेन प्रतिषिद्धमिद्धमहसा पोताससंचर्वणम् ॥ KRT_7_1124cd
विटः प्रसाद्य नृपतिं मदनः कम्पनापतिः । KRT_7_1125ab
महत्तरत्वं जग्राह तस्याश्चित्रार्पिताकृतेः ॥ KRT_7_1125cd
वस्त्रालंकारनिर्वाहकृतेमुष्याश्च वेतनम् । KRT_7_1126ab
नित्यमादत्त भूपालाद्दायमीर्ष्याशमाय च ॥ KRT_7_1126cd
विटत्वे निस्त्रपत्वे च मदनस्य कथाक्रमः । KRT_7_1127ab
मौग्ध्ये पारिप्लवत्वे च नृपस्य निकषोभवत् ॥ KRT_7_1127cd
मातेयं बप्पिका1 नाकात्तवानीतेति वादिभिः । KRT_7_1128ab
संदर्श्य जरतीं नारीं मुषितः सोपरैर्विटैः ॥ KRT_7_1128cd
दासीश्च देवता एता इत्युत्वान्यैः प्रवेशिताः । KRT_7_1129ab
उन्नतिं च श्रियं चौज्झत्प्रणमञ्जहसे जनैः ॥ KRT_7_1129cd
दास्यो मदनसंलापमन्त्राद्युल्लेखकारिभिः । KRT_7_1130ab
अध्यापिता विटैस्तस्य मतिमोहं प्रचक्रिरे ॥ KRT_7_1130cd
ताभ्यः काभिरपि क्ष्माभृत्सुरतं समयोचितम् । KRT_7_1131ab
वाञ्छन्तीभिः कृतः स्वाङ्गस्पर्शाद्भाग्योदयोज्झितः ॥ KRT_7_1131cd
आयुष्कामाय भूयांसं कालं जीवितकाङ्क्षिणे । KRT_7_1132ab
आयुर्वर्षशतान्यस्मै ता मूढमतये ददुः ॥ KRT_7_1132cd
डोम्बेन पिण्डसिद्धार्थी केनाप्येतद्रसायनम् । KRT_7_1133ab
पिण्डसिद्धिकृदित्युत्वा पेयं किमपि पायितः ॥ KRT_7_1133cd
किं तस्य कथितैरन्यैर्मौग्ध्यैर्यो याचितो विटैः । KRT_7_1134ab
विद्यमानादिव धनादायुषोपि व्ययं व्यधात् ॥ KRT_7_1134cd
बलरूपेच्छुरपरानुपायान्यानसेवत । KRT_7_1135ab
कथयेत्कः सदाचारस्तानतोपि त्रपावहान् ॥ KRT_7_1135cd
स एवमन्धतामिस्रे1 निक्षिप्तः शाश्वतीः समाः । KRT_7_1136ab
मुग्धबुद्धिः स्वजाड्येन2 दुर्जातैश्च कुमन्त्रिभिः ॥ KRT_7_1136cd
मेघवसहनमुख्यानां कृत्ये लोकोत्तरे यथा । KRT_7_1137ab
सन्त्यद्याल्पधियः केचित्संदेहान्दोलिताशयाः ॥ KRT_7_1137cd
तथास्मिन्नपि दुष्कृत्ये वर्ण्यमानेद्भुतावहे । KRT_7_1138ab
भविष्यतीत्व कालेन कालेन नूनमप्रत्ययो जनः ॥ KRT_7_1138cd
राज्ये बहुच्छले तादृग्दुर्नीत्योपहतोप्यभूत् । KRT_7_1139ab
आयुःशेषेण न वशे स रन्ध्रान्वेषिणां द्विषाम् ॥ KRT_7_1139cd

1128.

--1) Emended; A बाधिका. Cf. vii. 319.

1136.

--1) Emended; A ॰तामस्रे.

--2) Emended; A स्वजात्येन; C स्वजन्येन.

[page 147]




नर्तकीः शिक्षयन्नात्रावुत्थायाभिनयं स्वयम् । KRT_7_1140ab
तिष्ठन्दीपोज्ज्वले धाम्नि दूरात्केनापि शत्रुणा ॥ KRT_7_1140cd
क्षिप्तेषुरपि नाभूद्यन्निहतो व्रणितोथ वा । KRT_7_1141ab
फलं तस्यायुःशेषस्य प्रजानां कुकृतस्य वा ॥ KRT_7_1141cd
कश्चिदेवाथ शुद्धान्ते पातदूतो महीपतेः । KRT_7_1142ab
सर्वाशुद्धि1निधेः प्राभून्नारीचारित्रविप्लवः ॥ KRT_7_1142cd
ते युवानो मदोन्मत्तास्ताः स्त्रियो यौवनोन्मदाः । KRT_7_1143ab
नाशाय हर्षदेवस्य तस्मिन्नेवाभवन्क्षणे ॥ KRT_7_1143cd
निगृहीतास्तेन रोषात्सजाराः काश्चन स्त्रियः । KRT_7_1144ab
काश्चित्त्वाकृष्य शुद्धान्ताज्जारैर्नीता दिगन्तरम् ॥ KRT_7_1144cd
स्वेन दौःशीलदोषेण सर्व एव विशङ्किताः । KRT_7_1145ab
भृत्यास्तस्याशुभान्यैच्छन्नयतन्त च शान्तये ॥ KRT_7_1145cd
तस्यापि शीलवैकल्यं तावत्सर्वत्र पप्रथे । KRT_7_1146ab
यावत्कलशभूपालात्संजातस्योपपद्यते ॥ KRT_7_1146cd
शैशवे वर्धितो याभिरङ्कमारुह्य मातृभिः । KRT_7_1147ab
सोङ्कमारोप्य ता एव चुम्बन्संबुभुजेनिशम् ॥ KRT_7_1147cd
संभोगं भगिनीवर्गे कुर्वता दुर्वचोरुषा । KRT_7_1148ab
निगृहीता च भुक्ता च नागा पुत्री पितृस्वसुः ॥ KRT_7_1148cd
स तरुष्कशतधीशाननिशं पोषयन्धनैः । KRT_7_1149ab
निधनावधि दुर्बुद्धिर्बुभुजे ग्राम्यसूकरान् ॥ KRT_7_1149cd
अथ सेवाभिसारेण कदापि कुपितो नृपः । KRT_7_1150ab
स मन्दबुद्धिरास्कन्दमदाद्राजपुरीं प्रति ॥ KRT_7_1150cd
विलोक्य सैन्यसामग्रीमनन्यसदृशीं पथि । KRT_7_1151ab
त्रैलोक्याक्रान्तिसामर्थ्यं पार्थिवैस्तस्य शङ्कितम् ॥ KRT_7_1151cd
स तु पृथ्वीगिरिं दुर्गं दृष्ट्वा तद्ग्रहणोद्यतः । KRT_7_1152ab
अप्रविष्टो राजपुरीं तन्मूले समुपाविशत् ॥ KRT_7_1152cd
मासमभ्यधिकं तेन तस्थुषा परिपीडिताः । KRT_7_1153ab
प्रक्षीणान्नादिसंभारा बभूवुर्दुर्गरक्षिणः ॥ KRT_7_1153cd
त्रातुं संग्रामपालस्तानूरीचक्रे धरापतिः । KRT_7_1154ab
कियन्तं न करं भीतः कियतीर्न च संविधाः ॥ KRT_7_1154cd
उपोड्ःअदार्द्ये नृपतौ स तदप्रतिगृह्णति । KRT_7_1155ab
लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् ॥ KRT_7_1155cd
अमन्यमाने1 नृपतौ व्यावृत्तिं प्रेरिता रहः । KRT_7_1156ab
प्रवासवेतनं भूरि मार्गितुं तेन शस्त्रिणः ॥ KRT_7_1156cd
तैः प्राये प्राकृतप्रायैः कृते सोल्लुणट्ःअभाषितैः । KRT_7_1157ab
राज्ञो दूरस्थकोशस्य कटकः क्षोभमाययौ ॥ KRT_7_1157cd
स तत्समर्थनां यावच्चक्रे तावद्विभीषिकाम् । KRT_7_1158ab
तुरुष्कास्कन्दजामन्यां प्रददौ दण्डनायकः ॥ KRT_7_1158cd
अथाल्पधैर्यो नृपतिरुत्थाप्य कटकं ययौ । KRT_7_1159ab
कृत्स्नां च कोशसामग्रीं तस्याजाध्वसु साध्वसात् ॥ KRT_7_1159cd
अपरीक्ष्यादृतो भृत्यः स्वामिनामतिसंकटे । KRT_7_1160ab
करोति व्यसनापातमजात्योसिरिवाहवे ॥ KRT_7_1160cd
तेन स्वयमयोग्येन योग्यानन्याननिच्छता । KRT_7_1161ab
कलङ्किता नरेन्द्रश्रीः क्षुद्रश्वेनेव मन्दुरा ॥ KRT_7_1161cd
ततः प्रभृति निर्वाणप्रतापस्य महीपतेः । KRT_7_1162ab
प्रतापचक्रवर्त्याख्या सर्वतो म्लानिमाययौ ॥ KRT_7_1162cd
म्लानाननो न यत्सिद्धं स्वेन भृत्यैस्तथाखिलैः । KRT_7_1163ab
तत्कर्म कृतवन्तं स कन्दर्पं बह्वमन्यत ॥ KRT_7_1163cd
आनिनीषोश्च तं तस्य जडस्याकृत भूपतेः । KRT_7_1164ab
दण्डनायक एवेच्छाच्छेदं पैशुनकर्मणा ॥ KRT_7_1164cd
ज्ञातद्रोहोथ नृपतिरबध्नाद्दण्डनायकम् । KRT_7_1165ab
प्रातिपत्त्यानुरोधेन न क्रुधा न्यग्रही1त्पुनः ॥ KRT_7_1165cd
दुर्गे1 संदिग्धजीवोपि निवसन्संचिकाय सः । KRT_7_1166ab
लुब्धस्ताम्बूलवस्त्रादि प्रहितं भृत्यबान्धवैः ॥ KRT_7_1166cd
आत्मनः सर्वनाशाय संजातं दैवमोहितः । KRT_7_1167ab
वर्धार्हं प्रत्युत पुनर्निन्ये तं स्वपदं नृपः ॥ KRT_7_1167cd
तं विटाश्चाटुभिर्भूयो राजानमुदतेजयन् । KRT_7_1168ab
घोषयान्राजितं स्तोत्रैः कर्णाद्या इव कौरवम् ॥ KRT_7_1168cd

1142.

--1) Emended; A सर्वशुद्धनिधेः.

1156.

--1) Emended; A प्रमन्यमाने.

1165.

--1) Emended; A न्यगृही॰.

1166.

--1) Conjectural reading; A दुग्धे.

[page 148]




वादी वादपराजितः प्रतिभटं गालीभिरत्याक्षिपन्योषिन्नाष्टसतीव्रता कुकलहैरुद्वेजयन्ती पतिम् । KRT_7_1169ab
कायस्थश्च हृताखिलार्थमहिमा कृच्छ्रे नृपं पातयन्स्वस्यासन्नपराभवस्य कुरुते भूयः समुत्तम्भनम् ॥ KRT_7_1169cd
भुक्तदेयधनो बिभ्यत्तं सहेलमहत्तमः । KRT_7_1170ab
उर्वीपतिं दुर्व्यसने प्रेरयन्स्वार्थपण्डितः ॥ KRT_7_1170cd
बन्धुमन्विष्य दरदां लवन्यैः सह लाहरैः । KRT_7_1171ab
दुर्गघाताभिधं दुर्गं ग्रहीतुं तमचूचुदत् ॥ KRT_7_1171cd
यद्धि लक्कनचन्द्राख्ये पुरा गोप्तरि डामरे । KRT_7_1172ab
जनकद्वारपतिना हतेनन्तनृपाज्ञया ॥ KRT_7_1172cd
प्रायोपविष्टया द्वारे तत्पत्न्यापि समर्पितम् । KRT_7_1173ab
कलशक्ष्माभुजा कॢप्तोपेक्षं प्राप दरन्नृपः ॥ KRT_7_1173cd
तद्बलाद्दारदैः क्रान्तानन्तग्रामेत्र मण्डले । KRT_7_1174ab
राजा च मन्त्रिणा चाथ बभूव स्वीकृतोद्यमः ॥ KRT_7_1174cd
निह्रदे1 तत्र गोप्तॄणां वृत्तये संभृतं हिमम् । KRT_7_1175ab
अवग्रहेण तत्तस्मिन्क्षणे निःशेषतां ययौ ॥ KRT_7_1175cd
चारैस्तद्रन्ध्रमालक्ष्य तद्ग्रहाय महत्तमः । KRT_7_1176ab
अभीक्ष्णं प्रेरयन्क्ष्मापं स च तत्रोद्यमं व्यधात् ॥ KRT_7_1176cd
वातग1ण्डं तदुद्योगे प्रतिष्ठासुं नृपाज्ञया । KRT_7_1177ab
चप्पको द्वारकार्यस्थमभिसंधातुमैहत ॥ KRT_7_1177cd
द्वारं निवार्य भूपेन प्रापितो मण्डलेशताम् । KRT_7_1178ab
सर्वैः सहाभजद्वारं स हि द्वाराधिकारिभिः ॥ KRT_7_1178cd
विसूत्रितोपि1 कटके तेन द्वारपतिस्ततः । KRT_7_1179ab
तीर्त्वा मधुमतीं सिन्धुं सैन्यैर्दुर्गमवेष्टयत् ॥ KRT_7_1179cd
समस्तानपि सामन्तान्प्रहिण्वन्सर्वतः स्वयम् । KRT_7_1180ab
एकप्रयाणान्तरितः कोटेपि व्यवसन्नृपः ॥ KRT_7_1180cd
त्यजद्भिर्गण्डशैलादि दुर्गसंश्रयदुर्जयैः । KRT_7_1181ab
काश्मीरिका1ः सह दरत्सैनिकैः समरं व्यधुः ॥ KRT_7_1181cd
विदधे प्राजिमठिकानाम्न्याघातपदे वसन् । KRT_7_1182ab
सपुत्रो गुङ्गजो मल्लः संभ्रमानतिदुःसहान् ॥ KRT_7_1182cd
तत्पुत्रै1 दैववित्प्रोक्तराज्यप्राप्ती तदिच्छया । KRT_7_1183ab
मानं व्यवर्धिषातां यौ वीरावुच्चलसुस्सलौ ॥ KRT_7_1183cd
अत्युद्दामस्तयोर्ज्यायान्द्विषन्नपि नृपासनम् । KRT_7_1184ab
आसीद्भाव्यर्थमाहात्म्याद्यात्रायां तत्र निर्गतः ॥ KRT_7_1184cd
अवग्रहेण भूपालप्रतापेन च शोषिताः । KRT_7_1185ab
यथाकथंचित्तद्दुर्गं ररक्षुर्दारदा भटाः ॥ KRT_7_1185cd
अथाज्ञेय विधेर्हर्षप्र्तापपरिपन्थिनी । KRT_7_1186ab
पपात महती वृष्टिरेकीकृतजलस्थला ॥ KRT_7_1186cd
दुर्गशृङ्गं हिमैः कृत्स्नं दुर्भेद्यैः पर्यवार्यत । KRT_7_1187ab
अनुकूलेन विधिना संनाहैर्निहितैरिव ॥ KRT_7_1187cd
उत्थाने पातयन्कांश्चित्पतने कांश्चिदुत्क्षिपन् । KRT_7_1188ab
वेधाः कन्दलयत्वेव कन्दुकक्रीडितभ्रमम् ॥ KRT_7_1188cd
ततः स्मृत्वा गृहान्वृष्टिदुःस्थास्ते दुष्टमन्त्रिणः । KRT_7_1189ab
चक्रिरे पूर्ववद्राज्ञः स्कन्दावारे विसूत्रणम् ॥ KRT_7_1189cd
ऊर्ध्वस्रोतोनुसारीव तिमिः शैलहताननः । KRT_7_1190ab
ततोपि चक्रे व्यावृत्तिम् राजा जरपराङ्मुखः ॥ KRT_7_1190cd
मुक्तापणः शीर्णकोशः त्यक्तश्रीकश्च्युतायुधः । KRT_7_1191ab
कटकः सर्व एवाभूत्पलायनपरायणः ॥ KRT_7_1191cd
धावतः पथिभिस्तैस्तैः साक्रन्दान्राजशैनिकान् । KRT_7_1192ab
पृष्ठलग्ररिपून्दीर्घा मार्गेग्रसिष्यतापगा ॥ KRT_7_1192cd
क्षौमैः सहंसमालेव साब्जषण्डेव खेटकैः । KRT_7_1193ab
सशेवलेव खड्गौघैः सशिलेव तुरंगमैः ॥ KRT_7_1193cd
सौवर्णैः सथाङ्गेव राजतैर्भाजनैरपि । KRT_7_1194ab
सफेनेव जनत्यक्तैरासीन्मधुमती सरित् ॥ KRT_7_1194cd
नीतानां च हतानां च दरदैः प्रसृतोदयैः । KRT_7_1195ab
अभून्नदीहृतानां च संख्या काचिन्न देहिनाम् ॥ KRT_7_1195cd
अनाथवत्तथा भूतं सैन्यं त्रातुं कृतोद्यमः । KRT_7_1196ab
एकस्तु सानुजो मानि नाचलन्माल्लिरुच्चलः ॥ KRT_7_1196cd

1175.

--1) Emended; A निह्रादे.

1177.

--1) Emendedl; A वातगण्डस्तदु॰.

1179.

--1) Thus or, perhaps, विसूत्रितेपि to be read fro A विसूत्रितापि.

1181.

--1) Emended; A काश्मीरकाः.

1183.

--1) Emended; A तत्पुत्रो.

[page 149]




दरद्बलाम्बुधिर्धावन्स विश्वाक्रमणोद्यतः । KRT_7_1197ab
ताभ्यां वेलागिरीन्द्राभ्यामिव संस्तम्भितोखिलः ॥ KRT_7_1197cd
तौ रक्षित्वा बलं प्राप्तौ प्रसिद्धिमतुलां गतौ । KRT_7_1198ab
पतिंवरेव राजश्रीर्भेजे लक्ष्येण तेजसा ॥ KRT_7_1198cd
ततः प्रभृति लोकस्य सर्वस्यासीदसौ मतिः । KRT_7_1199ab
राज्यार्हौ मानिनावेतौ क्लीबोयं न तु भूपतिः ॥ KRT_7_1199cd
तथा कृत्वापि यद्राज्ञे दर्शनं परिजह्रतुः । KRT_7_1200ab
तौ प्रीतिदायविमुखौ बबन्धास्थां ततो जनः ॥ KRT_7_1200cd
अथ शान्तरिपुत्रासो नगरं प्राविशन्नृपः । KRT_7_1201ab
प्रतापस्तु दिशः प्रायान्मल्लराजतनूजयोः ॥ KRT_7_1201cd
तौ रामलक्ष्मणावेताविति सर्वस्तदाब्रवीत् । KRT_7_1202ab
रावणप्रतिमे राज्ञि भाव्यर्थानुगुणं वचः ॥ KRT_7_1202cd
राजा तु गतलज्जः स नित्यकृत्योपमं जडः । KRT_7_1203ab
कर्तुं प्रारभताखिन्नः पुनर्मण्डलपीडनम् ॥ KRT_7_1203cd
अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् । KRT_7_1204ab
श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ॥ KRT_7_1204cd
ततः प्रविष्टः संप्रीतः सेवया दत्तकम्पनम् । KRT_7_1205ab
मदनं सोशृणोत्स्वैरं शंसन्तं तत्पराभवम् ॥ KRT_7_1205cd
तद्रोषेण जिघांसुस्तमागो जग्राह सोपरम् । KRT_7_1206ab
तस्य देवीविसृष्टाज्ञालेखोल्लङ्घनलक्षणम् ॥ KRT_7_1206cd
प्राप्तो मडवराज्यात्स क्ष्माभुजादत्तदर्शनः । KRT_7_1207ab
भीतो लक्ष्मीधरस्यागान्मन्दिरं टक्क1मन्त्रिणः ॥ KRT_7_1207cd
राजा प्रसाद्यमानोपि तत्कृतेन्येन मन्त्रिणा । KRT_7_1208ab
सस्मितं वीक्षितं सैन्यैस्तं सपुत्रमघातयत् ॥ KRT_7_1208cd
कोपस्मितं नरपतेरकालकुसुमं तरोः । KRT_7_1209ab
वेतालस्याट्टहसितं नैवमेव प्रशाम्यति ॥ KRT_7_1209cd
ये संप्ररूढविपुलप्रणयाभिमाना निःशङ्कमीश्वरनिषेवणमाचरन्ति । KRT_7_1210ab
मन्त्रानुषङ्गरभसाद्भुजगेन्द्रसख्यं प्रख्यापयन्त एव ते प्रलयं प्रयान्ति ॥ KRT_7_1210cd
कर्णेजपकुले तावन्मदनप्रलयावधिः । KRT_7_1211ab
शापः सूर्यमतीदेव्याः प्रसारितभुजोभवत् ॥ KRT_7_1211cd
विक्रमालोकनेनोत्कम्पी निचिक्षेप क्षमापतिः । KRT_7_1212ab
बद्ध्वा कलशराजं तं लक्ष्मीधरनिवेशने ॥ KRT_7_1212cd
विरुद्धं तस्य बद्धस्य शिक्षापेक्षामिषान्नृपः । KRT_7_1213ab
तेजोवधाय सविधमुदयाख्यं व्यसर्जयत् ॥ KRT_7_1213cd
लक्ष्म्या जाज्वल्यमानं तं वीक्ष्य प्रज्वलितः क्रुधा । KRT_7_1214ab
लब्धासिधेनुः कस्माच्चिन्मनस्वी सहस्रावधीत् ॥ KRT_7_1214cd
तद्भृत्यैरथ संक्रुद्धैर्निपत्य स विपादितः । KRT_7_1215ab
दुर्बुद्धेस्तस्य भूभर्तुरेवं भृत्या विपेदिरे ॥ KRT_7_1215cd
मण्डले राजदण्डेन क्षतेनेव परिक्षते । KRT_7_1216ab
क्षारपातोपमान्यापि प्राभूद्दुःखपरंपरा ॥ KRT_7_1216cd
अहारि काञ्चनस्थाली यैः पार्थिवगृहादपि । KRT_7_1217ab
सत्यप्यहसकरे जघ्नुस्तस्करास्तादृशा विशः ॥ KRT_7_1217cd
प्रवर्धमाने मरके क्रन्दितध्वनिनिर्भरः । KRT_7_1218ab
निर्घोषः प्रेतवाद्यानां न व्यरंसीद्दिवानिशम् ॥ KRT_7_1218cd
उदीपब्रुडितग्रामे वत्सरे पञ्चसप्तते । KRT_7_1219ab
अखण्डं सर्वभाण्डानां दुर्भिक्षमुदजृम्भत ॥ KRT_7_1219cd
दीन्नाराणां धान्यखारिः प्राप्याभूत्पञ्चभिः शतैः । KRT_7_1220ab
दीन्नारेणाभवल्लभ्यं मार्द्वीकस्य पलद्वयम् ॥ KRT_7_1220cd
ऊर्णापलस्य दीन्नारैः क्रयः षड्निरजायत । KRT_7_1221ab
लवणोषणहिङ्वादेरभिधाप्यास्त दुर्लभा ॥ KRT_7_1221cd
शवैर्नद्योभवन्नम्भःसंसेकोच्छूनविग्रहैः । KRT_7_1222ab
छन्नतोया गिरिस्रस्तैश्छिन्नदारुवनैरिव ॥ KRT_7_1222cd
एतद्व्यवहिता1 राजधानी दूरान्न दृश्यते । KRT_7_1223ab
ध्यात्वेति सर्वतो राजा द्रुमाणाम् छेदमादिशत् ॥ KRT_7_1223cd

1207.

--1) Emended; A ठक्क.

1223.

--1) Emended; A व्यवहृता.

[page 150]




सप्रसूनफला वृक्षा गृहस्था इव पातितः । KRT_7_1224ab
कुटुम्बैरिव रोलम्बै1रशोच्यन्त पदे पदे ॥ KRT_7_1224cd
प्राणापहं महादण्डं तथार्तेपि जने नृपः । KRT_7_1225ab
हलावरुग्णे वृद्धोक्षे गण्डशैलमिवाक्षिपत् ॥ KRT_7_1225cd
निपीड्य लोकं कायस्थैर्महादण्डव्यवस्थया । KRT_7_1226ab
पुरग्रामादिषु क्वापि न मृदप्यवशेषिता ॥ KRT_7_1226cd
अथोल्वणत्वं संप्राप्तान्निहन्तुं सर्वडामरान् । KRT_7_1227ab
स दण्डभृदिव क्रुध्यन्नादिक्षन्मण्डलेश्वरम् ॥ KRT_7_1227cd
पूर्वं मडवराज्योर्व्या होलडान्तः स डामरान् । KRT_7_1228ab
दत्तास्कन्दोघधीत्तांस्तान्कुलाये विहगानिव ॥ KRT_7_1228cd
घ्नता लवन्यानुन्नद्धकुन्तलोविकटाकृतिः । KRT_7_1229ab
जीवन्मडवराज्यान्तस्तेन विप्रोपि निज्झितः ॥ KRT_7_1229cd
लावन्यबुद्ध्या शूलानि पान्यैरप्यथ रोपितैः । KRT_7_1230ab
भीमरूपाभवद्भूमिर्भैरवस्य महानसः ॥ KRT_7_1230cd
शूले लवन्यस्यैकस्य क्रूरां विन्यस्यतो वधूम् । KRT_7_1231ab
ययुः सर्वे दिशो दिशो भीता लवन्या मण्डलेश्वरात् ॥ KRT_7_1231cd
केचिद्बुभुजिरे तेषां गोमांसं म्लेच्छभूमिषु । KRT_7_1232ab
अरघट्टघरट्टादिकृष्टाः केचिदवालगन्1 KRT_7_1232cd
प्रहिणोत्प्राभृतं भूरि भैरवाय महीभुजे । KRT_7_1233ab
लवन्यमुण्डमालालीरखण्डा मण्डलेश्वरः ॥ KRT_7_1233cd
तोरणवलयो राजद्वारेदृश्यन्त सर्वतः । KRT_7_1234ab
डामराणां करोटीभिर्घटीभिरिव निर्भराः ॥ KRT_7_1234cd
द्वारे कङ्कणवस्त्रादि लम्बमान्ं नृपौकसः । KRT_7_1235ab
नेता डामरमुण्डस्य यः कोपि स किलासदत् ॥ KRT_7_1235cd
भोक्तुं डामरमुण्डानि प्राप्तविस्तीर्णतोरणाः1 KRT_7_1236ab
विदधुर्गृध्रकङ्काद्या राजद्वारोपसेवनम् ॥ KRT_7_1236cd
यत्र यत्रास्त भूपालस्तत्र तत्र व्यधुर्जनाः । KRT_7_1237ab
लवन्यमुण्डैरुच्चण्डैर्विस्तीर्णास्तोरणस्रजः ॥ KRT_7_1237cd
गन्धेनाशुचिना घ्राणं कर्णो भीमैः शिवारुतैः । KRT_7_1238ab
अखिद्यत शवाकीर्णे श्मशान इव मण्दले ॥ KRT_7_1238cd
बलेरकप्रपाप्रान्तल्लोकपुण्या1वधि व्यधात् । KRT_7_1239ab
एकश्रेणीं मण्डलेशो डामरैः शूलकीलितैः ॥ KRT_7_1239cd
एवं मडवराज्यं स कृत्वा निर्नष्टडामरम् ॥ KRT_7_1240ab
अधावत्क्रमराज्योर्वीं कर्तुं ताम्वेव पद्धतिम् । KRT_7_1240cd
अवश्यं न भविष्याम इति निश्चित्य डामराः । KRT_7_1241ab
चक्रिरे क्रमराज्यस्य लौलाहे सैन्यसंग्रहम् ॥ KRT_7_1241cd
तैः सर्वैर्दत्तसंग्रामैः कुर्वद्भिः कदनं महत् । KRT_7_1242ab
आस्ते स्म तत्र सुचिरं निरुद्धो मन्डलेश्वरः ॥ KRT_7_1242cd
किमन्यद्राक्षसः कश्चित्सुरतीर्थर्षिपूजितम् । KRT_7_1243ab
निहन्तुं मण्डलमिदं हर्षव्याजादवातरत् ॥ KRT_7_1243cd
उल्लासो रात्रिषु दिने स्वापः क्रौर्यमुदग्रता । KRT_7_1244ab
अवाङ्मयत्वं कर्वव्ये दक्षिणेशोचिते रतिः ॥ KRT_7_1244cd
इत्यादयस्तस्य केचिद्धर्मा नक्तंचरोचिताः । KRT_7_1245ab
तथा हि तत्कालभवैः प्रियाः प्राज्ञैः प्रकीर्तिताः ॥ KRT_7_1245cd
अत्रान्तरे मल्लसूनुः कनीयान्यौवनोन्मदः । KRT_7_1246ab
लक्ष्मीधरस्य गेहिन्या हृदयाह्लादकोभवत् ॥ KRT_7_1246cd
सा हि राजसुते तस्मिन्संसक्ता प्रातिवेश्मिके । KRT_7_1247ab
नारज्यत निजे पत्यौ वानरप्रतिमाकृतौ ॥ KRT_7_1247cd
ज्ञातीनगण्यान्हत्वान्यान्कस्माद्राज्यार्हलक्षणौ । KRT_7_1248ab
नावधीरुद्धतावेतौ राजन्नुच्च्लसुस्सलौ ॥ KRT_7_1248cd
इति लक्ष्मीधरेणेर्ष्यारोषादुक्तोपि भूपतिः । KRT_7_1249ab
न चु1क्रोधानुतापार्तिं पूर्वज्ञातिवधाद्गतः ॥ KRT_7_1249cd
स्वयमन्यमुखेनापि स तेनोक्तस्ततोसकृत् । KRT_7_1250ab
॰ ॰ 1 घाते तदौद्धत्यं ध्यात्वा साध्वसमादधे ॥ KRT_7_1250cd
ज्ञातिप्रीत्यनुवृत्त्यादि तेन विस्मरता ततः । KRT_7_1251ab
संमन्त्र्य मन्त्रिभिः सार्धं दध्रे तद्विधनिश्चयः ॥ KRT_7_1251cd
आसन्नवारवनिता थक्कनाख्याथ तं व्यधात् । KRT_7_1252ab
भूभर्तुर्दुरभिप्रायं तयोः कर्णपथातिथिम् ॥ KRT_7_1252cd

1224.

--1) Emended; A रोलम्भैर॰.

1232.

--1) Thus A2; A1 ॰वादयन्; G ॰वागलन्.

1236.

--1) Emended; A व्याप्ता विस्तीर्णतोरणा.

1239.

--1) A2 gloss नूतन --- यावल्लोकभवनं ( three akshara illegible).

1249.

--1) Emended; A चक्रोधा॰.

1250.

--1) A1 indicates a lacuna of two aksharas.

[page 151]




सख्या दर्शनपालेन तत्रार्थे छिन्नसंशयौ । KRT_7_1253ab
निरगातां निशीथिन्यां द्वित्रैस्तावनुगैः समम् ॥ KRT_7_1253cd
षट्सप्ततेब्दे नगरान्मार्गशीर्षेथ निर्गतौ । KRT_7_1254ab
उन्नास1वसतेः प्राप्तौ डामरस्योपदेशनम् ॥ KRT_7_1254cd
प्रशस्तराजो दुध्रुक्षुः सिल्लराजं निजानुजम् । KRT_7_1255ab
सोभिसंधाय तौ निन्ये लवन्यो मण्डलान्तरम् ॥ KRT_7_1255cd
ततो राजपुरीं ज्यायान्प्रायात्कल्हस्य भूपतेः । KRT_7_1256ab
कनीयान्प्रययौ पार्श्वं कलिञ्जरधेर1शितुः ॥ KRT_7_1256cd
तयोर्निर्गतयो राज्यं न कै1श्चिच्छ्रदधीयत । KRT_7_1257ab
निमित्तज्ञेन राज्ञैव दुर्निमित्तैस्त्वशङ्क्यत ॥ KRT_7_1257cd
लक्ष्मीधरमुखेनैव प्रार्थनां हन्तुमुच्चलम् । KRT_7_1258ab
चक्रे संग्रामपालस्य सोङ्गीकृत्य धनं ततः ॥ KRT_7_1258cd
स त्वनिकागतस्येषन्मल्लसूनोः कृतादरः । KRT_7_1259ab
तया विशङ्कया शत्रोरासीदधिकगौरवः ॥ KRT_7_1259cd
आसन्नाभ्युदयं शत्रुं द्वेष्ट्वैव विधिचोदितः । KRT_7_1260ab
शङ्काविष्करणाल्लोके नयेत्संभावनाभुवम् ॥ KRT_7_1260cd
राजपुर्याः प्रकृत्यैव काश्मीरानर्थकाङ्क्षिताः । KRT_7_1261ab
प्रभविष्णौ रिपौ प्राप्ते चक्रिकायां किमुच्यताम् । KRT_7_1261cd
कांश्चिन्निकृतिकप्रायान्पार्श्वयातानथोच्चलः ॥ KRT_7_1262ab
गमागमान्कृतोद्योगो डामराणामकारयत् ॥ KRT_7_1262cd
डामरास्तु महोत्साहा1स्तमानेतुं व्यसर्जयन् । KRT_7_1263ab
राज्ञा विप्रकृता1 दूतान्वितीर्णोपायनान्बहून् ॥ KRT_7_1263cd
तं सूर्यवर्मचन्द्रस्य तनयो जनलाभिधः । KRT_7_1264ab
चकारोपचितोत्साहं मायादूतैर्विसर्जितैः ॥ KRT_7_1264cd
वीक्ष्य डामरदूतांस्ताञ्जहता राजतो भयम् । KRT_7_1265ab
व्यक्तं संग्रामपालेन निन्ये माहात्म्यमुच्चलः ॥ KRT_7_1265cd
स कार्यगौरवात्प्रह्वो मूर्ध्नि कर्पूरचूर्णनम् । KRT_7_1266ab
कृत्वा तमविनाशाय यावद्विस्रष्टुमैहत ॥ KRT_7_1266cd
तावत्कलशराजाख्यस्तद्देशे मुख्यटक्कुरः । KRT_7_1267ab
हर्षदेवार्पितोत्कोचस्तमेत्य विजनेब्रवीत् ॥ KRT_7_1267cd
राज्ञः प्रसादनं त्यक्त्वा तवोच्चलहितैषिणः । KRT_7_1268ab
कामधेनुं विनिर्धूय छागकण्ठग्रहे ग्रहः ॥ KRT_7_1268cd
कोयं काश्मीरभूपानां कास्य शक्तिस्तपस्विनः । KRT_7_1269ab
आराधनेन तद्राज्ञो विधेहि स्वमसाध्वसम् ॥ KRT_7_1269cd
अयं राजगिरौ दुर्गे स्थाप्यतां पार्थिवस्ततः । KRT_7_1270ab
स्यान्मनीषितवर्षी वस्त्रासान्मित्रं च सर्वदा ॥ KRT_7_1270cd
तेनेति प्रभुराख्यातः खशानां स मिताशयः । KRT_7_1271ab
तद्भीतः स्वार्थलुब्धश्च तथेति प्रत्यपद्यत ॥ KRT_7_1271cd
तमभ्यधाच्च नो बन्द्धुं शक्तोहममुमुद्यतम् । KRT_7_1272ab
त्वयैव बध्यतामेष मिषतः प्रेषितोन्तिकम् ॥ KRT_7_1272cd
इत्युक्त्वा तं स्ववसतिं विसृज्यावददुच्चलम् । KRT_7_1273ab
प्रातः कलशराजस्य त्वया त्वया गन्तव्यमन्तिकम् । KRT_7_1273cd
इह प्रधानामात्योसौ तेन ते स्यादनत्ययः । KRT_7_1274ab
ततो विपक्षोच्छित्त्यै त्वां प्रतिमोक्ष्यामि सानुगम् ॥ KRT_7_1274cd
अथ तद्वसतिं गन्तुं चलितोन्येद्युरुच्चलः । KRT_7_1275ab
प्राग्दुर्निमित्तैस्तत्कृत्यमाप्तैरथ विबोधितः ॥ KRT_7_1275cd
मन्त्रे भिन्ने निवृत्तं तं श्रुत्वा खशनृपान्तिकम् । KRT_7_1276ab
कुप्यन्कलशराजोथ सज्जसैन्यः समाययौ ॥ KRT_7_1276cd
तमास्कन्दाय संप्राप्तं जानञ्शस्त्रभृतां वरः । KRT_7_1277ab
ऐच्छद्रणाय निर्गन्तुं निजभृत्यैः सहोच्चल्लः ॥ KRT_7_1277cd
क्षोभे संप्रस्तुते तं स सान्त्वयित्वा खशाधिपः । KRT_7_1278ab
तिष्ठन्कलशराजेन सहानिन्ये निजां सभाम् ॥ KRT_7_1278cd
निषेधाधायिनो भृत्यान्स विधूयौजसां निधिः । KRT_7_1279ab
सज्जः खशसमाजं तं कोपकम्प्राधरोविशत् ॥ KRT_7_1279cd
द्रष्टुं तं1 नाशकत्कश्चित्कल्पान्तार्कमिवोल्बणम् । KRT_7_1280ab
क्रुद्धं कलशराजो वा राजा वा तेजसाम् निधिम् ॥ KRT_7_1280cd
स विविक्तीकृते1 धाम्नि खशाधी2शं समन्त्रिणम् । KRT_7_1281ab
सान्त्वयन्तं महातेजाः कोपरूक्षाक्षरोब्रवीत् ॥ KRT_7_1281cd

1254.

--1) Thus A1; A2 gloss उचसो, corr. by later hand into उत्रास; A3 reads उत्त्रास.

1256.

--1) Thus corr. by A1 from कालि॰.

1257.

--1) Emended; A .

1263.

--1) Thus A1; A later hand corrects डामरांस्तु महोत्साहांस्त॰ and विप्रकृतान्दू॰.

1280.

--1) Emended; A तन्नाश॰.

1281.

--1) Emended; A कृतो.

--2) Emended; A खशादीशं.

[page 152]




पूर्वं दार्वाभिसारेभूद्भारद्वाजो नरो नृपः । KRT_7_1282ab
नरवाहननामास्य सूनुः फुल्लमजीजनत् ॥ KRT_7_1282cd
स सातवाहनं1 तस्माच्चन्दोभूत्तत्सुतः सुतौ । KRT_7_1283ab
गोपालसिंहराजाख्यौ चन्दुराजोप्यवाप्तवान् ॥ KRT_7_1283cd
बह्वात्मजः सिंहराजो दिद्दाख्यां तनयां ददौ । KRT_7_1284ab
क्ष्माभुजे क्षेमगुप्ताय सावीरा भ्रातृनन्दनम् ॥ KRT_7_1284cd
राज्ये संग्रामराजाख्यं व्यधादुदयराजजम् । KRT_7_1285ab
भ्रातापि कान्तिराजोस्या जस्स1राजमजीजनत् ॥ KRT_7_1285cd
पितानन्तस्य संग्रामो जस्सस्तन्वङ्गगुङ्गयोः । KRT_7_1286ab
अनन्तात्कलशक्ष्माभृद्गुङ्गान्मल्लोप्यजायत ॥ KRT_7_1286cd
कलशाद्घर्षदेवाद्या जाता मल्लात्तथा वयम् । KRT_7_1287ab
कोयमित्यादि तन्मन्दैः क्रमेस्मिन्कथ्यते कथम् ॥ KRT_7_1287cd
पृथिव्याम् वीरभोज्यायां क्रमो वा क्वोपयुज्यते । KRT_7_1288ab
वीरस्य च सहायोस्तु कः स्वबाहुद्वयत्परः ॥ KRT_7_1288cd
दिष्ट्या तदनुकम्प्यानां मूर्ध्नि हस्तमिवास्पृशन् । KRT_7_1289ab
काश्मीरिकाणां1 भूपानां नाभूवं कुलपांसनः ॥ KRT_7_1289cd
तस्माद्द्रक्ष्यथ मे शक्तिमित्युक्त्वा निर्गतस्ततः । KRT_7_1290ab
विजयाय स पत्तीनां शतेनानुगतोचलत् ॥ KRT_7_1290cd
निहतं शशमादाय तद्याग्रे कश्चिदाययौ । KRT_7_1291ab
स तेन सुनिमित्तेन प्राप्तां मेने रिपुश्रियम् ॥ KRT_7_1291cd
अरघट्टघरट्टादिकृष्टिमुत्सृज्य निर्गताः । KRT_7_1292ab
डामरा वाट्टदेवाद्यास्तं यान्तमुपतस्थिरे ॥ KRT_7_1292cd
कटकस्थस्य संग्रामपालस्यायातमन्तिकात् । KRT_7_1293ab
तद्देव्यो राजपुर्यन्तः खिन्नं निन्युः प्रसन्नताम् ॥ KRT_7_1293cd
भुक्त्वा तद्वसतेर्गच्छन्स्वावासं स दिनात्यये । KRT_7_1294ab
सैन्यैः कलशराजस्य दत्तास्कन्दोभवद्बहिः ॥ KRT_7_1294cd
राज्ञीभिर्निर्गमात्तस्मिन्द्वारम् संरोध्य वारिते । KRT_7_1295ab
तदीयाः सैनिका युद्धे लोष्टा1वट्टादयो हताः ॥ KRT_7_1295cd
मध्यं प्रविश्य शमिते प्रधानैस्तत्र संयुगे । KRT_7_1296ab
सोल्पसैन्योपि संवृत्तः सुतरामल्पसैनिकः ॥ KRT_7_1296cd
चैत्रस्य पौर्णमास्यन्तः कृच्छ्रमप्यनुभूतवान् । KRT_7_1297ab
वैशाखासितपञ्चम्यां यात्रामत्रस्तधीर्व्यधात् ॥ KRT_7_1297cd
विसृज्य वाट्ट1देवादीन्विप्रवाय स्ववर्त्मभिः2 KRT_7_1298ab
आललम्बे2 प्रवेशेच्छां क्रमराज्याध्वना स्वयम् ॥ KRT_7_1298cd
यं राजोदयसीहान्ते कपिलं क्षेमजा1त्मजम् । KRT_7_1299ab
अस्थापयल्लोहरोर्व्या स विशन्तं मुमोच तम् ॥ KRT_7_1299cd
स्वयमग्रे समग्राणां खड्गचर्मधरो व्रजन् । KRT_7_1300ab
पलायने पूर्वशिष्यान्पर्णोत्से तद्भटान्व्यधात् ॥ KRT_7_1300cd
बद्ध्वा निःशङ्कमासीनं द्वारेशं सुज्जकाभिधम् । KRT_7_1301ab
कश्मीरानामिषाकाङ्क्षि क्षिप्रं श्येन इवापतत् ॥ KRT_7_1301cd
तं डमाश्च कतिचित्खाशिकाश्चाद्रिसंश्रयाः । KRT_7_1302ab
राजद्विपः प्राप्तमात्रं सर्वतः पर्यवारयन् ॥ KRT_7_1302cd
तमाकाशादिव स्रस्तं भुवो गर्भादिवोत्थितम् । KRT_7_1303ab
निशम्यातर्कितं प्राप्तं चकम्पे हर्षभूपतिः ॥ KRT_7_1303cd
मा भूदसौ बद्धमूलः क्रमराज्यान्तरस्थितम्1 KRT_7_1304ab
मा वधीन्मण्डलेशं च ध्यायान्नित्याकुलोथ सः ॥ KRT_7_1304cd
विलम्बमाने संनद्धसैनिके दण्डनायके । KRT_7_1305ab
त्वरितं प्राहिणोत्पट्टं वितीर्णासंख्यनायकम् ॥ KRT_7_1305cd
दैवोपहतवीर्यो वा क्रान्तो वा द्रोहचिन्तया । KRT_7_1306ab
अभ्यमित्रीणताम् त्यक्त्वा स तु मार्गे व्यलम्बत ॥ KRT_7_1306cd
अन्यांश्च यान्यांस्तिलकराजादीन्व्यसृजन्नृपः । KRT_7_1307ab
ते ते पट्टं समासाद्य नाकुर्वन्नग्रनिर्गमम् ॥ KRT_7_1307cd
दण्डनायकमु1ख्येपि लोके राज्ञा विसर्जिते । KRT_7_1308ab
याते विमूढतां प्राप बद्धमूलत्वमुच्चलः ॥ KRT_7_1308cd
वराहमूलं प्रविशन्नागतां द्विषतां बलात् । KRT_7_1309ab
अश्वां सुलक्षणोपेतां राजलक्ष्मीमिवासदत् ॥ KRT_7_1309cd
महावराहमौलिस्रक्तस्य मूर्ध्नि पपात च । KRT_7_1310ab
तदसंस्थितया पृथ्व्या वरणार्थमिवार्पिता ॥ KRT_7_1310cd

1283.

--1) Emended; A सार्थवाहनं. Cf. vi.367.

1285.

--1) Thus corr. by A3 from A1 ॰स्यास्सज्जरा॰.

1289.

--1) Emended; A काश्मीरकाणां.

1295.

--1) Thus A1; corr. by later hand into लोष्टवद्दा॰.

1298.

--1) Emended; A1 वद्द॰.

--2) न्विप्लवा and र्त्म supplied by A3 in space left by A1.

--3) Emended; A आललम्ब.

1299.

--1) Thus A; perhaps, to be emended क्षेमटा॰. Cf. vii. 482.

2304.

--1) Emended; A ॰स्थितिम्.

2308.

--1) Thus A1; A3 ॰नायकसख्ये.

[page 153]




काकाद्यवैद्य1कुलजैर्योधैः संरुद्धपद्धतिः । KRT_7_1311ab
स हुष्कपुरमुत्सृज्य क्रमराज्योन्मुखो ययौ ॥ KRT_7_1311cd
अत्रान्तरे तमायान्तमाकर्ण्योत्सेकमागतैः । KRT_7_1312ab
विद्रवोन्मुखतां निन्ये डामरैर्मण्डलेश्वरः ॥ KRT_7_1312cd
तैर्हि प्रागेव भङ्गं स नीतो हत्वा महाभटान् । KRT_7_1313ab
यशोराजमुखान्भूरीन्ययौ मन्दप्रतापताम् ॥ KRT_7_1313cd
शनैरपसरन्सोथ तारसूलकमासदत् । KRT_7_1314ab
उच्चलाधिष्ठितास्तेपि विद्विषन्तस्तमन्वयुः ॥ KRT_7_1314cd
समेतानन्तसैन्येन तेन तत्र चिरं धृतः । KRT_7_1315ab
उच्चलप्रलयाभ्रस्य पौरस्त्यानिलविभ्रमः ॥ KRT_7_1315cd
सैन्ययोरुभयोस्तत्र जयश्रीकरिणीकृते । KRT_7_1316ab
बभूव तुल्यसंघर्षः सेर्ष्ययोरिव दन्तिनोः ॥ KRT_7_1316cd
आनन्दनामाप्युत्पिञ्जोत्थानमुच्चलमातुलः । KRT_7_1317ab
चक्रे भडवराज्येथ निविडीकृतडामरः ॥ KRT_7_1317cd
तद्विप्लवे डामरौघा दिग्देशेभ्यः सहस्रशः । KRT_7_1318ab
उन्ममज्जुर्हिमापाये रन्ध्रेभ्य इव षट्पदाः ॥ KRT_7_1318cd
तत्क्षणं क्षीणभाग्यस्य यथा द्वारपतितस्तथा । KRT_7_1319ab
कायस्थः कम्पने राज्ञः सहे1लोभू2न्महत्तमः ॥ KRT_7_1319cd
आनन्देन कृतास्कन्दो बहुशो विहिताहवः । KRT_7_1320ab
औज्झीन्मडवराज्यं स न यत्तद्बह्वभूततदा ॥ KRT_7_1320cd
अथाद्भुतप्रतापेन वेष्टयित्वा महाचमूम् । KRT_7_1321ab
उच्चलेनाहवे बद्धः ससैन्यो भण्डलेश्वरः ॥ KRT_7_1321cd
न विद्मः किं तदा वृत्तं योधानां यत्किलाविदन् । KRT_7_1322ab
ते सखड्गाश्वसंनाहा बद्धा वयमिति स्फुटम् ॥ KRT_7_1322cd
तथा बद्धोपि निर्दध्यौ स भव्यः प्रभवे हितम् । KRT_7_1323ab
स्वामिभक्तिर्विपर्येति पर्यन्तेपि न मानिनाम् ॥ KRT_7_1323cd
तूर्णं पुरप्रवेशाय सोथ प्रैरयदुच्चलम् । KRT_7_1324ab
विश्वास्य नेतृगन्योस्ति क्षण इत्यस्सकृद्ब्रुवन् ॥ KRT_7_1324cd
विशतस्तस्य चानेकैः पुरग्रामाद्यलुण्ठयत् । KRT_7_1325ab
कर्मणानेन कौलीनमस्यास्त्विति विचिन्तयन् ॥ KRT_7_1325cd
परिहासपुरे तेन स ततः संप्रवेशितः । KRT_7_1326ab
श्वभ्राम्बुविषमाद्यस्मान्निर्गमोत्यन्तदुर्गमः ॥ KRT_7_1326cd
तत्रोच्चलं चतुःशाले स्वं च दग्धुमचूचुदत् । KRT_7_1327ab
निजान्स निशि ते तत्तु न चक्रुस्तद्धितैषिणः ॥ KRT_7_1327cd
यथा चित्तं तथास्य स्यात्कायश्चेत्साहसक्षमः । KRT_7_1328ab
तदात्मनिरपेक्षस्य किं न सिध्येन्मनीषितम् ॥ KRT_7_1328cd
क्लीबच्छन्नवपुस्त्वचा सह वसत्यच्छेद्यया कच्छपो निर्वर्मा रणकर्मसाहसमहोत्साहश्च सिंहः सदा । KRT_7_1329ab
धिक्प्रादुष्कृतपक्षपातरभसो नीचेषु मुधो विधिर्वीराणां कुरुते शरीरमभितो वैकल्यशल्याहतम् ॥ KRT_7_1329cd
संदिदेशाथ स क्ष्मापमाकृष्यायं मयाग्रतः । KRT_7_1330ab
सृगाल इव ते क्षिप्तह् क्षिप्रं निर्गत्य बध्यताम् ॥ KRT_7_1330cd
ततः समस्तसामन्तसैन्यसंततिसंयुतः । KRT_7_1331ab
अद्य मृत्युर्जयो वेति निश्चित्य निरगान्नृपः ॥ KRT_7_1331cd
स प्राणसंशये सर्वायासप्रशममादिशत् । KRT_7_1332ab
पटहोद्घोषणेनासीत्प1रैरनुगतोखिलैः ॥ KRT_7_1332cd
प्राप्तं भरतसेत्वग्रं घ्नन्तः सैन्यं विरोधिनम् । KRT_7_1333ab
आजानेयैः राजभृत्याः क्षणान्मार्गमलङ्घयन् ॥ KRT_7_1333cd
क्षुभितेब्धाविवायाते राजसैन्ये द्विषद्बलम् । KRT_7_1334ab
मण्डलेश्वर एवान्तःप्रविष्टो निरनाशयत् ॥ KRT_7_1334cd
अथ्जोच्चलबले भग्ने विदुद्रुः केपि जाङ्घिकाः । KRT_7_1335ab
श्रान्ता राजविहारं च प्राविशन्केपि डामराः ॥ KRT_7_1335cd
त्रिल्लसेनाभिधं दृष्ट्वा प्रविष्टं1 डामरं परे । KRT_7_1336ab
उच्चलोसाविति भ्रान्त्या विहारं तमदाहयन् ॥ KRT_7_1336cd
सोमपालाभिधेनारिहयारोहान्तरे चिरम् । KRT_7_1337ab
कुर्वन्दर्शनपालस्य पितृव्येण सहाहवम् ॥ KRT_7_1337cd
यत्नाज्जनकचन्द्राद्यैर्मानी व्यावर्तितो रणात् । KRT_7_1338ab
परिहासपुरात्प्रायान्मृत्युवक्त्रादिवोच्चलः ॥ KRT_7_1338cd

1311.

--1) Thus A1; corr. by later hand into कांकाद्यवैश्य॰.

1319.

--1) Emended; A सहलो.

--2) Emended; A ॰भूमहन्तमः.

1332.

--1) Doubtful; thus emended with C; A ॰सीत्पारैर॰.

1336.

--1) Thus A1; corr. by later hand into प्रविष्टा.

[page 154]




वितस्तां गौरिकाबाल1ग्रामात्तीर्त्वा हयान्वितः । KRT_7_1339ab
स डामरैः सह पुनः प्रययौ तारमूलकम् ॥ KRT_7_1339cd
जयेन तावन्मात्रेण कितवोल्प इवोन्मदः । KRT_7_1340ab
राजा प्रशंसन्नानन्दं राजधानीं न्यवर्तत ॥ KRT_7_1340cd
जीवन्तमप्यरिं श्रुत्वा न पश्चादलगत्स यत् । KRT_7_1341ab
आसन्नुच्छ्वसितास्तेन भङ्गभाजोपि डामराः ॥ KRT_7_1341cd
यातान्पलाय्य ताञ्ज्येष्ठामूलीये मासि सर्वतः । KRT_7_1342ab
भूयोपि संघटयितुम् स्थिरधीरैच्छदुच्चलः ॥ KRT_7_1342cd
स्वदोर्मात्रसहायस्य परायत्तस्य मानिनः । KRT_7_1343ab
दुर्भिक्षान्तर्महोद्योगः स तस्य विषमोभवत् ॥ KRT_7_1343cd
तन्मध्येतिदरिद्रोपि संप्राप्तं स ररक्ष यत् । KRT_7_1344ab
तमुत्पाद्यानवद्राजा श्रीपरीहासकेशवम् ॥ KRT_7_1344cd
तस्मिन्विघटिते पांसुः कपोतच्छदधूसरः । KRT_7_1345ab
रोदसीच्छादनं हर्षशीर्षच्छेदावधि व्यधात् ॥ KRT_7_1345cd
प्रागन्धकारो1 देशेस्मिन्दिवसेपि व्यजृम्भत । KRT_7_1346ab
रूपिकादिवसालोक इति यत्पप्रथे जने ॥ KRT_7_1346cd
निवेशिते परीहासकेशवे प्रशशाम तत् । KRT_7_1347ab
तस्मिन्नुन्मूलिते भूयः सार्धं मासमजृम्भत ॥ KRT_7_1347cd
किंचिदुच्छ्वसिते राज्ञि मन्दोद्रेकतया रिपोः । KRT_7_1348ab
दिशा शूरपुरस्याथ सुस्सलः प्रयदृश्यत ॥ KRT_7_1348cd
अवनाहे1 स हि वसन्नुपालम्भपरैः पितुः । KRT_7_1349ab
संदेशैः शंसतो ज्येष्ठमौदासीन्यादपाहृतः ॥ KRT_7_1349cd
दत्तान्कल्हक्षितीशेन कांश्चिददाय वाजिनः । KRT_7_1350ab
चिरेण राजदाक्षिण्यमौज्झीत्तेन व्यलम्बत ॥ KRT_7_1350cd
आरम्भादुदयान्तं च तिष्ठन्वैरेपि निष्ठुरे । KRT_7_1351ab
साम प्रयुयुजे मोहा1वहं मायानिधी रिपोः ॥ KRT_7_1351cd
जित्वा माणिक्यनामानं तेन सेनापतिं रणे । KRT_7_1352ab
प्रापि शूरपुरद्रङ्गाज्ज्यश्रीः श्रीश्च भूयसी ॥ KRT_7_1352cd
तस्याभ्युदयपात्रस्य तया संप्राप्तया श्रिया । KRT_7_1353ab
आरब्धिसमयः कृत्स्नः स विभूत्यद्भुतोभवत् ॥ KRT_7_1353cd
मण्डलेश्वरपट्टादीनविचिन्त्योच्चलं ततः । KRT_7_1354ab
प्राहिणोन्नृपतिर्योद्धुं सुस्सलं क्षिप्तकारिणम् ॥ KRT_7_1354cd
तेन शूरपुरे भग्नास्तद्योधाः शौर्यशालिना । KRT_7_1355ab
भूयांसह् प्रलयं प्रापुर्मग्ना वैतरणीजले ॥ KRT_7_1355cd
तत्र दर्शनपालस्य स्वामिद्रोहकृतो वपुः । KRT_7_1356ab
विक्रामतो न संस्पृष्टं खिन्नयेव जयश्रिया ॥ KRT_7_1356cd
राजसैन्यं तदन्येद्युर्हतशेषं पलायितम् । KRT_7_1357ab
लोकपुण्ये निवसतः सहेलस्यान्तिकं ययौ ॥ KRT_7_1357cd
सुस्सलापातकल्पान्तं विशङ्क्यापि सहेलकः । KRT_7_1358ab
तैस्तैर्भग्नैर्बलैः साकं नगरं प्राविशत्ततः ॥ KRT_7_1358cd
एवमभ्येत्य नृपतौ सुस्सलेन विसूत्रिते । KRT_7_1359ab
अवाप तारमूलस्थः प्रतिष्ठां पुनरुच्चलः ॥ KRT_7_1359cd
बिभ्यद्भिस्तुरगनीकात्प1त्तिप्रायैः स डामरैः । KRT_7_1360ab
आनिन्ये शैलदुर्गेण भूयो लहरवर्त्मना ॥ KRT_7_1360cd
राजाप्युदयराजाख्यं कृत्वा द्वारपतिं पुनः । KRT_7_1361ab
प्राहिणोदुच्चलं जेतुं लहरं मण्डलेश्वरम् ॥ KRT_7_1361cd
ततः पद्मपुरं प्राप्ते मातुले मल्लजन्मनोः । KRT_7_1362ab
न कोपि कम्पनं भूपान्मन्त्री त्रासातुरोग्रहीत् ॥ KRT_7_1362cd
को मेस्तीति विनिश्वस्य वदतोथ महीपतेः । KRT_7_1363ab
अधिकारस्रजं हस्ताच्चन्द्रराजः समाददे ॥ KRT_7_1363cd
अनाशीः शयने मृत्युर्येषां तेषां स वंशजः । KRT_7_1364ab
श्रीजिन्दुराजमुख्यानामौचित्यं प्रत्यपाद्यत ॥ KRT_7_1364cd
स द्रौणिरिव निर्नष्टे काले सेनापतिः कृतः । KRT_7_1365ab
निर्गत्य तत्पद्मपुरादरिसैन्यं न्यवारयत् ॥ KRT_7_1365cd
विपक्षः कम्पनेशः स तेन क्ष्मां क्रामता1 शनैः । KRT_7_1366ab
नवम्यां शुक्लनभसो हतोवन्तिपुरान्तरे ॥ KRT_7_1366cd
स हि गोवर्धनधरोपान्ते कुर्वद्भिराहवम् । KRT_7_1367ab
स्वसैन्यैर्वर्जितो गीतं शृण्वन्परिमितानुगः ॥ KRT_7_1367cd

1339.,

--1) A2 gloss परिहासपुरसमीपे गुरिकाबलमस्ति.

1346.

--1) Emended; A ॰कारदेशे॰.

1349.

--1) Thus A1; A2(?) अशनाहे; A3 gloss पौदुपावग्रामे.

1351.

--1) Emended; A मोहौवहं.

1360.

--1) Emended; A ॰नीकान्पत्ति॰.

1366.

--1) Emended; A क्रमता.

[page 155]




प्रविस्यारिहयरोहैर्वितस्तातीरवर्त्मना । KRT_7_1368ab
प्राप्तोकस्माद्वधं लेभे प्रमत्तानां शुभं कुतः ॥ KRT_7_1368cd
प्रहितं चन्द्रराजेन क्ष्मापतिर्वीक्ष्य तच्छिरः । KRT_7_1369ab
भूयो जयाशामकरोदानुकूल्यं विदन्विधेः ॥ KRT_7_1369cd
वैमुख्येन व्रजन्कुर्यात्सांमुख्यैरन्तरा विधिः । KRT_7_1370ab
प्रत्यागमभ्रमं सिंह इव व्यावृत्य वीक्षितैः ॥ KRT_7_1370cd
अथ लब्धबलश्चन्द्रराजोमन्दोद्यमोविशत् । KRT_7_1371ab
विजयक्षेत्रमाकर्षन्कटकं दशधाष्टधा ॥ KRT_7_1371cd
तुलाधर इव स्रष्टा साम्यभङ्गं न चक्षमे । KRT_7_1372ab
तदा द्वयोः कटकयोस्तुलायाः पुटयोरिव ॥ KRT_7_1372cd
प्राoतो यतस्तृतीयस्मिन्दिवसे मण्डलेशितुः । KRT_7_1373ab
अकालवृष्टिविवशं लहरे व्यद्गवद्बलम् ॥ KRT_7_1373cd
शीतवातहता योधा मग्नाः केदारकर्दमे । KRT_7_1374ab
तुरगासितनुत्रादि द्राक्तिर्यञ्च इवामुचन् ॥ KRT_7_1374cd
उच्चलेन ततो रक्ष्यमाणमप्यार्द्रचेतसा । KRT_7_1375ab
प्राप्तं जनकचन्द्राद्या निजघ्नुर्मण्डलेश्वरम् ॥ KRT_7_1375cd
हर्षभूभृद्भृत्यवर्गे द्रोहशङ्काङ्किते परम् । KRT_7_1376ab
कलेवरव्ययात्कीर्तिः क्रीता तेनैव मन्त्रिणा ॥ KRT_7_1376cd
ध्रुवं संस्पर्धतो वन्द्या देवशर्मादयोस्य ते । KRT_7_1377ab
न चेत्कोपि विपर्यासे दोषमुद्घोषयेज्जनः ॥ KRT_7_1377cd
लवन्योन्मूलनारातिव्यूहव्यामोहनादयः । KRT_7_1378ab
विध्यधीने फले ध्याते स्तुत्याः कस्य न तत्क्रियाः ॥ KRT_7_1378cd
किं पतालतमो न हन्ति हिमगुः किं नो विषं भीतये पानीयं गिलतः किमान्तरशिखिध्वस्त्यै न धन्व1न्तरिः । KRT_7_1379ab
सर्वत्रैकपदे प्रयात्यफलतां वाच्यो जडो नाम्बुधिः सिधेर्दैवविधेयतां विमृषतां स्तुत्यैव वस्तुज्ञता ॥ KRT_7_1379cd
स्वामिकृत्योद्यमस्तुत्यसूतूतिषु स्त्रीषु पूज्यताम् । KRT_7_1380ab
गज्जा तज्जननी स्वस्य नमस्यन्त्यविशचिताम् ॥ KRT_7_1380cd
साहसे सा हि तनये यत्र तत्र महीभुजा । KRT_7_1381ab
प्रहीयमाणे तं स्नेहमोहिताह स्म भूभुजं ॥ KRT_7_1381cd
अनन्यसंततेरेकं सुतमेतं प्रभो मम । KRT_7_1382ab
मा नियुङ्क्था1 यत्र तत्र कार्ये संदेहितासुनि ॥ KRT_7_1382cd
स तामकथयन्मातर्यथा तेनन्यसंततेः । KRT_7_1383ab
तथा मेनन्यभृत्यस्य सोयमेकोवलम्बनम् ॥ KRT_7_1383cd
स्वसंभवस्य तां1 भर्तुर्भक्तिसंभावनामसौ । KRT_7_1384ab
प्राप्तप्रतिष्ठानिष्ठायां मेने मानवती सती ॥ KRT_7_1384cd
उच्चलस्य क्षणे तस्मिन्हिरण्यपुरमूयुषः । KRT_7_1385ab
राज्याभिषेकं संभूय तत्रत्या ब्राह्मणा ददुः ॥ KRT_7_1385cd
नृपमत्यन्तविवशं प्रसङ्गे तत्र मन्त्रिणः । KRT_7_1386ab
भूयांसः सन्ति तैः सार्धं व्रज तल्लोहलराचलम् ॥ KRT_7_1386cd
प्रजा एव ततः शान्तोत्कण्ठा नवनृपं प्रति । KRT_7_1387ab
त्वामानेष्यन्ति न चिराद्दिनैर्वा स्वयमेष्यसि ॥ KRT_7_1387cd
सोभ्यधादवरोधस्त्रीकोशसिंहासनाद्यहम् । KRT_7_1388ab
असामान्यं परित्यज्य गन्तुं सपदि नोत्सहे ॥ KRT_7_1388cd
पुनस्तेकथयन्नाप्ता यान्तोध्यारुह्य वाजिनः । KRT_7_1389ab
पृष्ठे विन्यस्य नेष्यन्ति कोशान्तःपुरयोषिँतः ॥ KRT_7_1389cd
श्वपाकीकामुकोप्यासीद्यस्मिंस्तदपरोपि चेत् । KRT_7_1390ab
सिंहासनं समारोहेत्काभिमानक्षतिस्ततः ॥ KRT_7_1390cd
आस्तामेतत्परं ब्रूथ मन्तमित्यथ चोदिताः । KRT_7_1391ab
ते पार्थिवेन भूयोपि ससंरम्भं बभाषिरे ॥ KRT_7_1391cd
क्षत्रधर्मं पुरस्कृत्य शासतां क्ष्मां क्षमाभुजाम् । KRT_7_1392ab
को दैन्य1स्यावकाशः स्यादाशीर्येषां मृधे वधः ॥ KRT_7_1392cd
अनुद्योगश्च लज्जा च भयं द्वैधं च मन्त्रिणा । KRT_7_1393ab
भूभुजां व्यसनोल्लासे शत्रवो न तु गोत्रिणः ॥ KRT_7_1393cd
कार्यं न पश्येदलसः स्वयं यो भृत्येषु विन्यस्तसमस्तकृत्यः । KRT_7_1394ab
यष्ट्याश्रयस्येव विनष्टदृष्टेः पदे पदे तस्य किलोपघातः ॥ KRT_7_1394cd

1379.

--1) Emended; A धान्व॰.

1382.

--1) Emended; A नियुक्या.

1384.

--1) Emended; A ता भर्तु॰.

1392.

--1) Thus A1; corr. by later hand into सैन्य॰.

[page 156]




तज्जेह1मस्य स्वयमात्तशस्त्रः स्वल्पस्य शत्रोः कलयन्नवज्ञाम् । KRT_7_1395ab
एवं किलादीर्घमतिर्ददाति स्वयम् प्रवृद्धिं त्रपया विमुग्धः ॥ KRT_7_1395cd
कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । KRT_7_1396ab
अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोभिमानः ॥ KRT_7_1396cd
पराभवाधायि भयं जिवीषोः सर्वाङ्गवैकल्यवताहितेन । KRT_7_1397ab
येनाभियुक्तः स समस्तसंपत्पूर्णोपि वैकल्यहतत्वमेति ॥ KRT_7_1397cd
लब्धस्थितिः स्फीतविभूतिपात्रं दीनोभियोक्ता परपिण्डवृत्तिः । KRT_7_1398ab
आद्ये कथं नाम पराभवः स्याद्भयं भेवेच्चेह न तत्र1 भावः ॥ KRT_7_1398cd
अमात्यवैमत्यवशेन निष्ठा दृष्टा न कार्यस्य तनीयसोपि । KRT_7_1399ab
वैशाखरज्जोरिव कर्षकाभ्यां पर्याययोगेन कृते विकर्षे ॥ KRT_7_1399cd
समग्रशक्तेरेकेनाप्याशाक्रान्तस्य भूपतेः । KRT_7_1400ab
वैरी सर्वाङ्गहीनोपि राज्यमायुश्च कर्षति ॥ KRT_7_1400cd
यत्र द्विषष्तत्र याहि क्रान्तां च मेदिनीम् । KRT_7_1401ab
पातार्थी न चिरादेवं पुनर्जयमवाप्स्यसि ॥ KRT_7_1401cd
विधुरेपि विधौ शूरसहस्रपरिवारितैः । KRT_7_1402ab
पतद्भिराहवे भूपैः ख्यात्याभिख्योपलभ्यते ॥ KRT_7_1402cd
नृत्यच्छिन्नशिरोधरोद्धुरनटे1 ज्यालाबु2वीणागुणप्रक्वाणिन्युदयच्छिवा2मुखशिखिज्वालाप्रदीपाङ्कुरे । KRT_7_1403ab
धन्याः केप्युप2लभ्य वीरशयने शान्ताभिमानज्वरोल्लाघश्लाव्यशरीरतासफलितस्निग्धाशिषः शेरते ॥ KRT_7_1403cd
उदात्तमित्यन्तकृत्यं संचित्य1 कितवा इव । KRT_7_1404ab
राज्ये भजन्ते दीव्यन्तः क्षत्रियास्त्रासहीनताम् ॥ KRT_7_1404cd
मन्त्रान्तरानुयोक्तारं तदप्युत्सृज्य मन्त्रितम् । KRT_7_1405ab
परुषं1 प्राप्तकालं च ते निःश्वस्य तमब्रुवन् ॥ KRT_7_1405cd
उत्कर्षवदसूंस्त्यक्तुमपि शक्नोषि संकटे । KRT_7_1406ab
अन्यथानुचितं किंचित्प्राप्स्यस्यहितचिन्तितम् ॥ KRT_7_1406cd
स तानुवाच स्वं हन्तुं न शक्तोहं ततो मयि । KRT_7_1407ab
भवद्भिरेव विषमे प्रहर्तव्यमुपस्हिते ॥ KRT_7_1407cd
गिरं कापुरुषस्येव क्लैव्यग्रस्तस्य तां प्रभोः । KRT_7_1408ab
सबाष्पास्तेनुशोचन्तः पुनरेवं बभाषिरे ॥ KRT_7_1408cd
प्रतीकाराय नः शक्तिर्न चेद्दैवहतौसजाम् । KRT_7_1409ab
प्रत्युतैवंविधे कृत्ये प्रसरेयुः कराः कथम् ॥ KRT_7_1409cd
पशून्पुरुषरूपान्स नूनं भूभृत्पुपोष तान् । KRT_7_1410ab
दुःखेनोदखनंस्तस्य ये तादृग्दैन्यमीयुषः ॥ KRT_7_1410cd
युगान्तानपि जीवित्वा कायः सापाय एव यः1 KRT_7_1411ab
तत्यागमात्रसाध्येर्ये धिग्दैन्यमनुजीविनाम् ॥ KRT_7_1411cd
योषितोपि विशन्त्यग्निं यं ध्यात्वा विस्मृतिं व्रजेत् । KRT_7_1412ab
भर्तृस्नेहः स पुंसोपि यस्य कोन्यस्ततोधमः ॥ KRT_7_1412cd
शैलूषस्येव ये शोकभयदैन्याद्यविक्रियाः । KRT_7_1413ab
भर्तुः पश्यन्ति तैरेषा भूः सतीर्थाप्यपावनी । KRT_7_1413cd
क्षुत्क्षामस्तनयो वधूः परगृहप्रेष्यावसन्नः सुहृद्दुग्धा गौरशनाद्यभावविवशा हम्बारवोद्गारिणी । KRT_7_1414ab
निष्पथ्यौ पितरावदूरमरणौ स्वामी द्विषन्निर्जितो दृष्टो येन परं न तस्य निरये भोक्तव्यमस्त्यप्रियम् ॥ KRT_7_1414cd
भूयोपि मानुषपशून्स तान्नृपतिरब्रवीत् । KRT_7_1415ab
उदात्तकृत्योप्याविश्य भूतैरिव विमोहितः ॥ KRT_7_1415cd
एतस्मिन्पश्चिमे काले भुक्तं राज्यं यथा मया । KRT_7_1416ab
जानेविशालेच्छतया तथान्यो नोपभोक्ष्यते ॥ KRT_7_1416cd

1395.

--1) supplied by A3 in space left by A1.

1398.

--1) Thus corr. by later hand from A1 तत्प्रभावः.

1403.

--1) Emended; A1 has written first ॰उधुरनख and corrected this into ॰द्धुरनटो.

--2) Thus corr. A1 from ज्वालाग्र.

--3) Thus corr. vy A1 from ॰च्छिवो.

--4) omitted in A.

1404.

--1) Thus A; perhaps, to be emended संचिन्त्य.

1405.

--1) Emended; A पुरुषं.

1411.

--1) Emended; A वः.

[page 157]




यमः कुबेरश्चौष्ठाग्रे राज्ञां तिष्ठत इत्यसौ । KRT_7_1417ab
मदेकशरणैवाभूत्ख्यातिरस्मिन्कलौ युगे ॥ KRT_7_1417cd
रुद्रोपेन्द्रमहेन्द्राद्याः प्रयातारो यदध्वना । KRT_7_1418ab
उपस्थितायां नियतौ तत्र मर्त्यस्य काः शुचः ॥ KRT_7_1418cd
किं तु दूये यदेषा भूर्भूत्वा कुलवधूरिव । KRT_7_1419ab
मद्दोषाद्घट्टचेटीव प्राप्ता प्रसभभोग्यताम् । KRT_7_1419cd
इतः प्रभृति यः कश्चिद्राज्यस्यास्य गतौजसः । KRT_7_1420ab
चक्रिकामात्रसाध्यत्वं जानन्नाशाम् करिष्यति ॥ KRT_7_1420cd
अलौकिके कृते यद्यत्तद्वीक्ष्य फलबन्ध्यताम् । KRT_7_1421ab
प्राप्तोदयैरल्पसत्त्वैर्दर्पान्नूनं हसिष्यते ॥ KRT_7_1421cd
कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः । KRT_7_1422ab
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ KRT_7_1422cd
पक्षान्तकोरिरवलम्बनभूः स नेत्रं दुग्धेन यस्य मरणं धियि कैरिवेत्थम् । KRT_7_1423ab
पारं गते मथनकर्मणि मन्दराद्रेर्दोषोर्प्यते विगुणहेतुपरीक्षणेन ॥ KRT_7_1423cd
शास्त्रसंदर्भवित्त्वेपि श्रीगर्भत्वमर्दशयम् । KRT_7_1424ab
जनोपजीवनार्थं यत्तज्जातं जाड्यसिद्धये ॥ KRT_7_1424cd
उच्चलेनापि सत्कृत्ये हस्ताग्रोच्चेयचेतसा । KRT_7_1425ab
दर्शितश्यामदशनं करिष्यन्ते विडम्बनाः ॥ KRT_7_1425cd
ततोवमानान्न त्रासात्संप्राप्तोद्य विहस्ताम् । KRT_7_1426ab
समर्थनेच्छुर्वाञ्छामि मृत्युमीदृशमप्यहम् ॥ KRT_7_1426cd
स्वैरेव स हतो नो चेत्कस्तस्माद्वसुधां हरेत् । KRT_7_1427ab
लब्धां रक्षितुमिच्छामि ख्यातिमेतेन हेतुना ॥ KRT_7_1427cd
मुक्तापीडः पुरा राजा ज्वलित्वा मूर्ध्नि भूभुजाम् । KRT_7_1428ab
कार्पण्यप्रणयं प्राप लब्धरन्ध्रो विरोधिभिः ॥ KRT_7_1428cd
स ह्युत्तरापथे नानापथस्थगितसैनिकः । KRT_7_1429ab
मितानुगोहितै रुद्धमार्गोभूद्दुर्गमेध्वनि ॥ KRT_7_1429cd
तं शल्यो नाम सामग्र्यवैरल्प1विवशं नृपः । KRT_7_1430ab
बन्धुं प्रतिज्ञामकरोद्वाजिलक्षैर्युतोष्टभिः ॥ KRT_7_1430cd
स सामप्रमुखोपायापायध्यानावसन्नधीः । KRT_7_1431ab
भवस्वाम्यभिधं कृत्यमपृच्छन्मुख्यमन्त्रिणम् ॥ KRT_7_1431cd
असाध्यां सोपि निर्ध्याय विनिपातप्रतिक्रियाम् । KRT_7_1432ab
न्याये निश्चित्य नैयत्यं कर्तव्ये प्रत्युवाच तम् ॥ KRT_7_1432cd
उपाययुक्तिप्रत्युक्ते कृत्ये कीर्त्यभिमानिनाम् । KRT_7_1433ab
निःसंभ्रमेव प्रतिभा लोभेनाक्षोभिते हृदि ॥ KRT_7_1433cd
कृत्यं कृत्यविदो लब्धप्रसिद्धिपरिरक्षणम् । KRT_7_1434ab
साम्राज्योपार्जनमुखो व्यापारस्त्वानुषङ्गिकः ॥ KRT_7_1434cd
गच्छञ्शरीरविच्छेदादपि भस्मावशेषताम् । KRT_7_1435ab
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥ KRT_7_1435cd
शान्तयोर्जीवितस्थानं द्वयमत्यद्भुतं द्वयोः । KRT_7_1436ab
अनङ्गस्याङ्गनापाङ्गः स्तोतृजिह्वा यशस्विनः ॥ KRT_7_1436cd
ख्यातिसंरक्षणं नाम जन्तोः कल्पान्तरस्थितिः । KRT_7_1437ab
वर्तते कीर्तिकायस्य संपूर्णाः परमाणवः ॥ KRT_7_1437cd
धीरैर्विधिश्च निर्ध्येयो विरोधिष्ववधानवान् । KRT_7_1438ab
यस्तेषामुन्नतिधनध्वंसाय यततेन्वहम् । KRT_7_1438cd
तुङ्गावपातहठव्यसनी विधाता स्वोत्पत्तिपद्मकुलजेपि सरोजषण्डे । KRT_7_1439ab
संकोचिनि द्विजपतावपि शुद्धिवन्ध्ये मातङ्गहस्तपतनैः कुरुतेवमानम् ॥ KRT_7_1439cd
ये हठापातिनो धातुर्धियं1 ख्यातिनिपातने । KRT_7_1440ab
रक्षितुं समुपेक्षन्ते तैः किं नाम ॰2 रक्षितम् ॥ KRT_7_1440cd
जातिः क्ष्माभृति वंशजाश्रयतया ख्यातिप्रतिष्ठाभिमामुद्दीप्यानलमुज्झितस्ववपुषः केप्यत्र वेत्राङ्कुराः । KRT_7_1441ab
त्रातुं हन्त विदन्ति ये न विधिना क्रुद्धेन पृथ्वीभृता द्वारि द्वाःस्थकरैर्गतागतखलीकाराणि संप्रापिताः ॥ KRT_7_1441cd
भोगान्निर्वाणभूयिष्ठानिष्टान्प्राप्तानवेत्य तत् । KRT_7_1442ab
प्रतिष्ठासौष्ठवत्राणे संरब्धुं देव सांप्रतम् ॥ KRT_7_1442cd

1430.

--1) Thus A1; A2 ॰वैबल्य॰.

1440.

--1) Thus corr. by A1 or a later hand from ॰धातुरियं.

--3) The lacuna not indicated in A; supplied in R C.

[page 158]




दण्डकालसकाख्यस्य तद्रोगस्याशुकारिणः । KRT_7_1443ab
पार्थिवाकस्मिकोत्थानं मिषादद्य प्रकाश्यताम् ॥ KRT_7_1443cd
श्वो वक्तास्म्यथ कर्तव्यं व्यापत्प्रक्षपणक्षमम् । KRT_7_1444ab
उक्त्वेति स महामात्यो निर्गत्य स्वगृहानगात् ॥ KRT_7_1444cd
दण्डकालसकं दण्डधरो व्यञ्जन्मिषात्ततः । KRT_7_1445ab
अधीर इव चक्रन्द लुठन्निस्पन्दलोचनः ॥ KRT_7_1445cd
स्वेदसम्वाहनस्नेहवमनाद्यैरुपक्रमैः । KRT_7_1446ab
निःशैथिल्यव्यथं तेन मुमूर्षुं तं जनोवदत् ॥ KRT_7_1446cd
ततो निश्चितमृत्युत्वं पत्युः कथयता कृतः । KRT_7_1447ab
वह्निप्रवेशोमात्येन कृतज्ञत्वनिवेदकः ॥ KRT_7_1447cd
कर्तव्यशेषं दाक्षिण्यादनाचक्षाणमग्रतः । KRT_7_1448ab
युक्त्योक्तनिष्ठुराचारमन्तस्तुष्टाव तं नृपः ॥ KRT_7_1448cd
अप्रौढः सोढुमुद्दामां व्यथामस्मीति वादिना । KRT_7_1449ab
राज्ञाप्यनलासाद्देहं ततश्चक्रेभिमानिना ॥ KRT_7_1449cd
तेन प्राणानुपेक्ष्यैवमन्यरूपातेर्मनस्विना । KRT_7_1450ab
ऊर्ध्वादिरोहे सोपानं कृतं न निजकीर्तनात् ॥ KRT_7_1450cd
एवं दैवोपनीतानामख्यातीनां चिकित्सितम् । KRT_7_1451ab
स्वधियामात्यबुद्ध्या वा पारमेति मनस्विनाम् ॥ KRT_7_1451cd
इत्युक्त्वा विरतो वम्शबीजरक्षार्थमात्मजः । KRT_7_1452ab
भोजो विसृज्यतां कोटमेवमूचेथ मन्त्रिभिः ॥ KRT_7_1452cd
तं राजपुत्रं प्रस्थानमङ्गलान्ते विनिर्गतम् । KRT_7_1453ab
पुनर्व्यावर्तयामास दण्डनायकमोहितः ॥ KRT_7_1453cd
सा धीः स साहसारम्भस्तदवैह्वल्यमापदि । KRT_7_1454ab
नष्टमेकपदे तस्य नाशकाले ह्युपस्थिते ॥ KRT_7_1454cd
लक्ष्मीत1डिल्लता कीर्तिवलाका शौर्यगर्जितम् । KRT_7_1455ab
प्रतापशक्रचापं च भागधेयाम्बुदानुगम् ॥ KRT_7_1455cd
धीशौर्यादिगुणेन भाग्यसमये प्रागेष एको नृपः शक्रस्याक्रमणं क्रियेत न कुतोनेनेति संभाव्यते । KRT_7_1456ab
मौग्ध्यं पङ्गुजडान्धवच्च स ततो गच्छन्नभाग्योदये दत्तोतेन पदक्रमो भुवि कथं नामेति संचिन्त्यते ॥ KRT_7_1456cd
विरोधिप्रतिरोधाय तन्त्रिसैन्यं विसर्जितम् । KRT_7_1457ab
नगरस्थमपि क्ष्मापात्प्रवासधनमादधे ॥ KRT_7_1457cd
दायादाश्रयणं राजभृत्याः सर्वेपि चक्रिरे । KRT_7_1458ab
ये केचित्त्ववसन्गेहे ते देहैरेव केवलम् ॥ KRT_7_1458cd
पराश्रयपरं द्वित्रा न संकल्पमपि व्यधुः । KRT_7_1459ab
किं वा स्तुतैस्तैर्ये स्त्रीवदमुञ्चन्न1चिरादसून् ॥ KRT_7_1459cd
यां काण्दश्रावतीनर्तक्यन्वये कापि नर्तकी । KRT_7_1460ab
पुत्रीचक्रे क्वापि जातां जयमत्यभिधाथ सा ॥ KRT_7_1460cd
भूत्वा गृहीतकौमारा तरुण्युच्चलरागिणी । KRT_7_1461ab
धनलुब्धरुद्धात्वमभजन्मण्डलेशितुः ॥ KRT_7_1461cd
तस्मिन्हते तदैवास्तापत्रपोच्चलमाययौ । KRT_7_1462ab
तयैव दैवयोगेन पट्टदेव्या भविष्यते ॥ तिलकम्1 KRT_7_1462cd
आबद्धपङ्क्त्यश्चर्चामुञ्चलाश्रयिणीं व्यधुः । KRT_7_1463ab
भूपालदर्शनेप्यस्तभीतयो राजसेवकाः ॥ KRT_7_1463cd
वेतनस्वीकृतैः सर्वैः शिक्षाधायी पुरस्कृतः । KRT_7_1464ab
लोभावमानावुद्घोष्य योधश्रद्धां हरन्युधि ॥ KRT_7_1464cd
मन्दप्रतापतावाप्तो नर्मोक्त्या मर्मभेदकृत् । KRT_7_1465ab
आहारादिक्षणे कर्ता प्रक्रियार्थनया कलेः ॥ KRT_7_1465cd
अतीव प्रभुदानादिमाहात्म्याख्यानकोविदः । KRT_7_1466ab
एक एकोकरोद्योधः पृतनानां विसूत्रणम् ॥ युग्मम्1 KRT_7_1466cd
श्रीलेखाभ्रातृसूनोर्यस्तनयो व्यड्डमङ्गलः । KRT_7_1467ab
मल्लज्ञातीयकोपेन स राज्ञास्कन्द्य घातितः ॥ KRT_7_1467cd
मातुलस्यात्मजा मल्लापत्ययोस्तस्य गेहिनी । KRT_7_1468ab
श्वश्र्वा समं स्ववसतीरादीप्य दहने मृता ॥ KRT_7_1468cd
मौनव्रतादिनियमच्छन्नक्रौर्योन्तकोपमः । KRT_7_1469ab
करोत्यभ्यन्तरान्भिन्नान्मल्लः परमदाम्भिकः ॥ KRT_7_1469cd
तदेष पुत्रराज्येछुर्वध्य1तां निर्भयं रिपुः । KRT_7_1470ab
शाहिपुत्रीभिरित्यूचे तस्मिन्नवसरे नृपः ॥ KRT_7_1470cd

1455.

--1) Emended; A लक्ष्मीस्तडि॰.

1459.

--1) Emended; A ॰मुञ्चदचि॰.

1462.

--1) A1 writes here 3 instead of तिलकम्.

1466.

--1) A1 writes here 2 instead og युग्मम्( युगलकम्).

1470.

--1) Emended; A ॰र्बध्यतां.

[page 159]




स्वयं प्रादात्समास्कन्दं द्वारि स्थितवतः पुरः । KRT_7_1471ab
तस्य प्राणार्थिनो वाञ्छापूर्त्यै मल्लश्च निर्ययौ ॥ KRT_7_1471cd
स हि द्वैराज्यसज्जाभ्यां पुत्राभ्यां प्रार्थितोपि सन् । KRT_7_1472ab
मुनिव्रतः सदाचारानुरोधान्नात्यजन्नृपम् ॥ KRT_7_1472cd
विश्वासाय परं राज्ञो भ्रातॄन्राज्ञोर्भविष्यतोः । KRT_7_1473ab
द्वैमातुरान्सल्हणादीन्नीविं दत्त्वावसद्गृहे ॥ KRT_7_1473cd
आसेदुषे मुनिदशामाजमप्रीणिताग्रये । KRT_7_1474ab
तदा स तस्मै चुक्रोध प्रत्यासन्नवधो नृपः ॥ KRT_7_1474cd
स सुराभ्यर्चनं कुर्वन्नाह्वतः परिपन्थिभिः । KRT_7_1475ab
रेजे तेनैव वेषेण समराय विनिर्गतः ॥ KRT_7_1475cd
उपवीत्यक्षसूत्राङ्कपाणिर्दर्भोज्ज्वलाङ्गुलिः । KRT_7_1476ab
भस्मस्मेरललाटाङ्को जामदग्न्य इवापरः ॥ KRT_7_1476cd
स्नानार्द्रधवलश्यामलोलधम्मिल्ल1लीलया । KRT_7_1477ab
देहत्यागे प्रयागाम्बु धारयन्निव मूधनि ॥ KRT_7_1477cd
उष्णीषी वीरपट्टेन खेटकेनोष्णवारणी । KRT_7_1478ab
सोसिधारातीर्थपान्थो दण्डी खड्गेन दिद्युते ॥ KRT_7_1478cd
भोगे पुरस्कृताः केचित्तद्भृत्याः पूर्वनिर्गताः । KRT_7_1479ab
अमर्त्यनारीभोगेपि तस्यासन्नग्रभागिनः ॥ KRT_7_1479cd
द्वौ रय्यावट्टविजयौ द्विजौ पौरोगवस्तथा । KRT_7_1480ab
कोष्ठकः सज्जकाख्यश्च योद्धा1 युद्धे हता बभुः ॥ KRT_7_1480cd
क्षतोप्युदयराजाख्यः क्षत्ता1युःशोषसत्तया । KRT_7_1481ab
प्राणैर्नियोगभागाजौ नाज्जकोपि व्ययुज्यत ॥ KRT_7_1481cd
विरोधियोधैर्नीरन्ध्रं द्वारमालोक्य सर्वतः । KRT_7_1482ab
त्यक्तकम्पो ददौ झम्पां स तेषामेव मूधनि ॥ KRT_7_1482cd
शेवलेष्विव खड्गेषु खेटकेष्वम्बुजेष्विव । KRT_7_1483ab
जरसा धवलो भ्राम्यन्राजहंस इवाबभौ ॥ KRT_7_1483cd
क्षणाच्च ददृशे शातशरशङ्कुशताचितः । KRT_7_1484ab
प्रवीरो वीरशयने सुप्तो भीष्म इवापरः ॥ KRT_7_1484cd
शोच्यं गतायुषो राज्ञः किं नाभूत्तस्य तादृशः । KRT_7_1485ab
चिच्छेद यः शिरः पृष्ठे हयं च भ्रमयन्स्मयात् ॥ KRT_7_1485cd
राज्ञी कुमुदलेखाख्या मल्लस्याला च वल्लभा । KRT_7_1486ab
गृहेष्वजुहुतां वीतिहोत्रे गात्राणि संभृते ॥ KRT_7_1486cd
राजावकल्ययोः पत्न्यौ बाले सल्हणरल्हयोः । KRT_7_1487ab
स्तुषे मल्लस्यासमती सहजा चाग्निसाद्गते ॥ KRT_7_1487cd
सर्वोपभोगभागिन्यस्तदन्तःपुरयोषिताम् । KRT_7_1488ab
परिवाराङ्गना वह्नौ पट्वात्रैव विपेदिरे ॥ KRT_7_1488cd
महागृहाग्नितापेन शोकोष्णैश्च जलास्रुभिः । KRT_7_1489ab
तप्ताम्भसो वितस्तायास्तीरे वामे बभूव तत् ॥ KRT_7_1489cd
प्रवर्धितायाः स्तन्येन द्रष्टुमक्षमया पयः । KRT_7_1490ab
दास्यमानं निवापेषु पुत्र्याश्चान्द्र्याख्यया समम् ॥ KRT_7_1490cd
धात्र्या परस्मिन्वै तस्मिंस्तीरे स्वान्तःपुरे स्थिता । KRT_7_1491ab
माता भविष्यतो राज्ञोर्नन्दा1निन्द्यकुलोद्भवा ॥ KRT_7_1491cd
महानसाग्निधूमेन संलक्ष्यावीक्ष्य पुत्रयोः । KRT_7_1492ab
सोत्कण्ठं कटकौ सौधादुदग्दक्षिणदिक्स्थयोः ॥ KRT_7_1492cd
क्रियतां दिवसैरेव पुत्रौ शत्रोः पितृद्विषः । KRT_7_1493ab
जामदग्न्यायितं वंशे शप्न्वेति नृपतिं सती ॥ KRT_7_1493cd
अनिषण्णेव दीप्ताग्नौ गृहे स्वं निरदाहयत् । KRT_7_1494ab
प्रनृत्यन्तीभिरालीभिरिव ज्वालाभिरावृता ॥ KRT_7_1494cd
वधे दर्शनपालस्तु नृपे प्राप्ते प्रतिक्षणम् । KRT_7_1495ab
अत्यद्भुतैरन्तराaयैरायुःशेषेण रक्षितः ॥ KRT_7_1495cd
वर्षमात्रावशेषायुर्यद्वा द्रोहेण रक्षितः । KRT_7_1496ab
सोवमानस्य पूयस्य रोगजस्य च भुक्तये ॥ KRT_7_1496cd
कृष्णभाद्रनवम्यां तं वधं श्रुतवतोः पितुः । KRT_7_1497ab
मल्लात्मजन्मनोः शोकः कोपेन निरपीयत ॥ KRT_7_1497cd
आअवह्निपुरकग्रामान्प्रज्वलन्क्रोधवह्निना । KRT_7_1498ab
श्रधावद्विजयक्षेत्रं सोन्येद्युरथ सुस्सलः ॥ KRT_7_1498cd
योद्धुमभ्याप1तन्तं तं चन्द्रराजोथ निर्गतः । KRT_7_1499ab
पट्टदर्शनपालाद्यैः ससैन्यैः पर्यवर्ज्यत ॥ KRT_7_1499cd
निजैरुपेक्षितश्चक्रे स चिरं तत्र दुष्करम् । KRT_7_1500ab
स्वल्पसैन्योपि संग्रामं भूरिसैन्येन शत्रुणा ॥ KRT_7_1500cd

1477.

--1) Emended; A ॰धम्मिल॰.

1480.

--1) Emended; A योधा.

1481.

--1) Emended; A क्षतायुः॰.

1491.

--1) Emended A राज्ञो नन्दा॰.

1499.

--1) Emended; A योद्धुमस्याप॰.

[page 160]




अक्षोटमल्लः समरे तत्र मल्लश्च चाचरिः । KRT_7_1501ab
अगातां राजगृह्यौ द्वौ स्वर्गस्त्रीभोगभागिताम् ॥ KRT_7_1501cd
रजोन्धकारे छत्त्रेन्दुद्योतिन्यालिङ्गितो हतः । KRT_7_1502ab
चन्द्राराजः सुरस्त्रीभिरिन्दु1राजोस्य चानुग2ः ॥ KRT_7_1502cd
तस्मिन्नपि हते वीरे चक्रे हर्षमहीभुजः । KRT_7_1503ab
आशारविन्दिनीमूलकन्दनिर्दलनं विधिः ॥ KRT_7_1503cd
पट्टादयः प्रविश्याथ विजयेशाङ्गनं भयात् । KRT_7_1504ab
प्रविष्टे सुस्स्सले देशम् द्वारं दत्तार्गलं व्यधुः ॥ KRT_7_1504cd
आस्थानीयः परं पद्मनामा युद्ध्वा हतो बहिः । KRT_7_1505ab
लक्ष्मीधरो मर्तुमिच्छुर्बद्ध्वा नीतः स डामरैः ॥ KRT_7_1505cd
विजयेश्वरगञ्जाग्रसौधारूढोथ सुस्सलः । KRT_7_1506ab
अधो ददर्श तान्सर्वान्पशूनिव भयाकुलान् ॥ KRT_7_1506cd
धूर्तः स दत्तमध्यस्थो हसन्नानीतवान्पुनः । KRT_7_1507ab
पट्टदर्शनपालौ द्वौ तेषां पूर्वं निजान्तिकम् ॥ KRT_7_1507cd
निःश्रेण्यभावादारोढुमक्षमौ सुस्सलानुगैः । KRT_7_1508ab
तौ मृताविव निर्बद्धपाणी रज्ज्वाधिरोपितौ ॥ KRT_7_1508cd
तयोर्विदेशगमनं व्रीडादर्थायमानयोः । KRT_7_1509ab
प्रतिश्रुत्याकरोद्धीमान्सुस्सलो म्लानिमार्जनम् ॥ KRT_7_1509cd
स्निग्धोक्त्या मृष्टमांसादिभोगैस्तस्याग्रतस्तयोः । KRT_7_1510ab
तस्मिन्नेवाह्नि मन्दत्वं विदेशौत्सुक्यमार्जनम् ॥ KRT_7_1510cd
केनाप्यधिष्ठितश्चक्रे परेद्युर्यत्स सुस्सलः । KRT_7_1511ab
जाने विश्वसृजोप्यङ्गरोमाञ्चयति तत्स्मृतिः ॥ KRT_7_1511cd
जासटो नृपतिर्हर्षभूभर्तुर्मातुलात्मजः । KRT_7_1512ab
उमाधरमुखाश्चान्ये राजानो यत्र च त्रयः ॥ KRT_7_1512cd
राजपुत्रहयारोहतन्त्रिसामन्तसंततेः । KRT_7_1513ab
न यत्र गणना काचिर्सैन्येष्वष्टादशस्वभूत् ॥ KRT_7_1513cd
विजयेशाङ्गनस्थानां द्वारमुत्पाट्य सोविशत् । KRT_7_1514ab
एकाक्येवान्तरं तेषां सासिराक्षेपरूक्षवाक् ॥ KRT_7_1514cd
स तत्र साक्षिणं कृत्वा क्षमावान्विजयेश्वरम् । KRT_7_1515ab
प्रतिश्रुत्याभयं तेभ्यः प्रणतेभ्यो विनिर्ययौ ॥ KRT_7_1515cd
पुनः सौधाग्रमारूढस्तान्सर्वानर्पितायुधान् । KRT_7_1516ab
रज्जुबद्धकरान्भृत्यैरानिनाय ततोन्तिकम् ॥ KRT_7_1516cd
स्वर्णरूप्य1त्सरुश्रेणिपूर्णायुधपरिष्कृता । KRT_7_1517ab
कीर्णपुष्पोपकारेव सुस्सलास्थानभूरभूत् ॥ KRT_7_1517cd
विन्यस्य पशुपालानां पशूनिव स तानकरे । KRT_7_1518ab
संरक्षितुं डामराणाम् त्र्यहं तत्राकरोत्स्थितिम् ॥ KRT_7_1518cd
तत्ः सुवर्णसानूरग्रामं स प्राप्य बन्धनात् । KRT_7_1519ab
पट्टदर्शनपालौ द्वावौज्झीद्देशान्तरोन्मुखौ ॥ KRT_7_1519cd
पट्टः शूरपुरं प्राप्तो भार्ययागतया गृहात् । KRT_7_1520ab
संसृष्टमानोप्यस्मार्षीदल्पसत्त्वो दिगन्तरम् ॥ KRT_7_1520cd
यावन्मात्राप्यौचिती सा विदेशौन्मुख्यलक्षणा । KRT_7_1521ab
द्रोग्धुर्दर्शनपालस्य पट्टमैत्र्या विसूत्रिता ॥ KRT_7_1521cd
अहंपूर्विकया राज्यं जिघृक्षुरथ सुस्सलः । KRT_7_1522ab
नगरासादनादैच्छदभिसंधातुमग्रजम् ॥ KRT_7_1522cd
समानप्रायवयसो1ः सर्वदोद्दामयोरभूत् । KRT_7_1523ab
यस्माज्ज्येष्ठकनिष्ठत्वं प्रक्रियारहितं तयोः ॥ KRT_7_1523cd
द्वित्रेष्वहःसु यातेषु क्रामंस्तां तां भुवं बली । KRT_7_1524ab
उदतिष्ठद्राजधान्याः सविधादेव सुस्सलः ॥ KRT_7_1524cd
निर्दग्धुं कलशा1 तत्प्रस्तुतं भूपतेः सुतः । KRT_7_1525ab
बुप्पापराभिधो भोजदेवो योद्धुं विनिर्ययौ ॥ KRT_7_1525cd
आत्मवच्छङ्कमानेन कुमाराणां प्रदुष्टताम् । KRT_7_1526ab
यो भाव्यर्थबलात्पित्रा हतौजा विदधे सदा ॥ KRT_7_1526cd
कृतो गत्यन्तराभावात्तदानीं तु निरङ्कुशः । KRT_7_1527ab
केषु केषु न युद्धेषु योधानामग्रणीरभूत् ॥ KRT_7_1527cd
प्रपिता1महतुल्यः स स्याच्चेत्प्रागेव वर्धितः । KRT_7_1528ab
कुर्यादुत्साहसंपन्नो निर्दायादा न किम् दिशः ॥ KRT_7_1528cd
नानीतिविन्नाम कश्चित्प्रयोगस्तु विहीयते । KRT_7_1529ab
अस्त्रविल्लभ्यते सर्वो विषयज्ञस्तु दुर्लभः ॥ KRT_7_1529cd

1502.

--1) Thus corr. by A1 from ॰भिर्नन्द्रराजो॰.

--2) Thus corr. by A1 from चात्मजः.

1517.

--1) Emended; A ॰रुप्य॰.

1523.

--1) Emended with C; A वयसो.

1525.

--1) Thus A1; C कलशाख्यं; doubtful.

[page 161]




स राजसूनुरुद्दामविक्रमस्य रिपोरभूत् । KRT_7_1530ab
अत्युद्दामोधिकं जातस्तिमेरिव तिमिंगिलः ॥ KRT_7_1530cd
मृतघ्नभावं पितरि प्रपन्ने विगर्हणां नार्हति तत्प्रसूतिः । KRT_7_1531ab
कल्की1भवेच्चेत्तिलमुज्झ्यते किं तैलेन दत्तः कुसुमाधिवासः ॥ KRT_7_1531cd
देवेश्वरात्मजः पित्थः पार्थिवेनाधिगौरवम् । KRT_7_1532ab
वर्धितोप्यभवत्पापः प्रतिपक्षसमाश्रयम् ॥ KRT_7_1532cd
ततस्तदात्मजो मिल्लः प्रस्तिते सुस्सलाहवे । KRT_7_1533ab
नृपेणार्थायमानोश्वं खेदात्सावज्ञमीक्षितः ॥ KRT_7_1533cd
ज्ञास्यस्यद्यान्तरं राजन्ममेत्युक्त्वा विनिर्गतः । KRT_7_1534ab
खड्गधाराजलैर्मानी म्लानिमक्षालयद्रणे ॥ KRT_7_1534cd
सर्वनाशादभूद्दुःखं राजन्ममेत्युक्त्वा विनिर्गतः । KRT_7_1535ab
तदन्तरापरिज्ञानात्कृतज्ञस्य यथाधिकम् ॥ KRT_7_1535cd
विभवैर्नित्यसंमूढा जानते त्वन्तरं नृपाः । KRT_7_1536ab
तदा शक्या यदा तेषां प्रलापैरेव सत्क्रिया ॥ KRT_7_1536cd
भोजेन निर्जितानीको विद्रुतः सुस्सलो रणात् । KRT_7_1537ab
लवणोत्सं पलाय्यागाद्द्विर्दर्शितगतागतः ॥ KRT_7_1537cd
प्रत्यावृत्तस्ततो भोजस्तीव्रातपकदर्थितः । KRT_7_1538ab
उद्यानान्तस्तनुं तल्पे पित्रा सह मुहुर्जहौ ॥ KRT_7_1538cd
अथोत्तरेणोदतिष्ठन्नादः पारान्नृपौकसः । KRT_7_1539ab
ज्यायान्मल्लात्मजः प्राप्तः सेतुराच्छिद्यतामिति ॥ KRT_7_1539cd
सुस्सलेन हृतं राज्यं नाद्यायासि द्रुतं यदि । KRT_7_1540ab
स दण्डनायकेनाभूत्संदिष्ट इति पापिना ॥ KRT_7_1540cd
अतो जव्न चाविक्षत्प्रथमं चावधीन्मृधे । KRT_7_1541ab
नरेन्द्रेश्वरदेवग्रवर्तिनं देवनायकम् ॥ KRT_7_1541cd
अथोज्जगाम स्थामस्थः सह व्यूहेन सादिनाम् । KRT_7_1542ab
नगराधिकृतो नागस्तस्याग्राद्भूरिसैनिकः ॥ KRT_7_1542cd
यत्रास्थां पार्थिवोबध्नात्प्रधानपृतनान्विते । KRT_7_1543ab
बभार नोच्चलाशङ्कां सुस्सलाहवनिर्गतः ॥ KRT_7_1543cd
अल्पसैन्यो मल्लसूनुर्यावत्तस्मादशङ्कत । KRT_7_1544ab
अपनीतिशिरस्त्राणस्तावस्स तमवन्दत ॥ KRT_7_1544cd
मण्डलेश्वरवत्तं स प्रियं शत्रोरविश्वसन् । KRT_7_1545ab
ऊचे स्ववेश्म याहीति स च पापस्तथाकरोत् ॥ KRT_7_1545cd
तस्य द्रोहफलं दृष्टमेतस्मिन्नेव जन्मनि । KRT_7_1546ab
मण्डले यदनन्यस्मिन्भिक्षित्वा जीवितं जहौ ॥ KRT_7_1546cd
ततो राजा सरित्तीरं प्राप्तः प्रैक्षत डामरान् । KRT_7_1547ab
सेत्वग्रे श्यामविकृतान्दावदग्धान्द्रुमानिव ॥ KRT_7_1547cd
बलक्षवारबाणस्य तेषां मध्ये वपुर्बभौ । KRT_7_1548ab
परं जनकचन्द्रस्य शुक्रस्येव तमोन्तरे ॥ KRT_7_1548cd
महासेतुः सघटितो राज्ञा नौभिः स्वसिद्धये । KRT_7_1549ab
पर्यवस्यन्विधिवशाच्छत्रूणां सिद्धये पुनः ॥ KRT_7_1549cd
अथारुरुहुरादाय वह्निं हर्म्यचतुष्किकाम् । KRT_7_1550ab
शतद्वारे मर्तुकाम देव्यः शाहिसुतादिकाः ॥ KRT_7_1550cd
लोको विरक्तः सेत्यग्रे दायादैः सह संगरम् । KRT_7_1551ab
ददर्शाश्वयुजीलागिमिव निर्विक्रियः प्रभोः ॥ KRT_7_1551cd
विजये सावशेषेसौ1 वह्निदानोद्यताः प्रियाः । KRT_7_1552ab
अनिशं वारयन्राजा सेत्वग्रे रणमग्रहीत् ॥ KRT_7_1552cd
अथ विन्यस्तवर्माणं राजसेनागजं शरैः । KRT_7_1553ab
सेतोर्जनकचन्द्राद्याः प्रमुखस्थमताडयन् ॥ KRT_7_1553cd
स विद्धो मर्मसु शरैः पूत्कारोद्गारकृद्गजः । KRT_7_1554ab
स्वचमूमेव चरणैरमृद्राद्विमुखीकृतः ॥ KRT_7_1554cd
विधिनेव विरुद्धेन सिन्धुरेण कदर्थिता । KRT_7_1555ab
भ्रश्यत्पत्तिहयारोहा समपद्यत वाहिनी ॥ KRT_7_1555cd
सेतुं तीर्णस्ततो वैरिसैनिकैर्विमुखीकृतः । KRT_7_1556ab
शतद्वाराङ्गनं त्रस्तः साश्वारोहोविशन्नृपः ॥ KRT_7_1556cd
उदात्तवेष1रहितो रहोपि ददृशे न यः । KRT_7_1557ab
भुञ्जानस्यापि यस्यास्यमुद्रा नैव व्यभाव्यत ॥ KRT_7_1557cd

1530.

--1) Emended with C; A जाता तिमेरिव.

1531.

--1) Emended; A शङ्की॰, corr. by later hand into शल्की॰. Cf. Böhtlingk, Sanskrit Wörterbuch in kürzerer Fassung, vi. 214 b.

1552.

--1) Emended; A सावशेषोसौ.

1557.

--1) Emended; A ॰वेशर॰.

[page 162]




स भयद्द्विगुणार्कांशुस्वेदप्रस्विन्नविग्रहः । KRT_7_1558ab
पुनः पुनः क्षिप्यमाणस्रस्तवर्मांसयोर्निजैः ॥ KRT_7_1558cd
अनवस्थितपार्ष्ण्यन्ताघातप्रचलितं हयम् । KRT_7_1559ab
निरोद्धुं बहुशः कर्षन्नष्टवल्गाग्रहं करम् ॥ KRT_7_1559cd
खल्वाटशीर्षपर्यन्तलम्बिनीः कुन्तलच्छटाः । KRT_7_1560ab
प्रापयञ्श्रवणोपान्तं करेण गलितासिना ॥ KRT_7_1560cd
लडत्प्रलम्बनिर्भूषश्रोत्रपालिलताच्छलात् । KRT_7_1561ab
कालाहिनेव भूर्तेन वेष्टितोच्छुष्ककन्दरः ॥ KRT_7_1561cd
निस्ताम्बूलतयोच्छुष्कौ जतुपीताविवासकृत् । KRT_7_1562ab
ओष्ठावुत्क्षिप्य कृच्छ्रेण विह्वलो जिह्नया लिहन् ॥ KRT_7_1562cd
कनीनिकासक्तकरेण क्षामधूसरमाननम् । KRT_7_1563ab
उत्तानीकृत्य पृष्ठस्थाः पश्यन्दीनमनाः प्रियाः ॥ KRT_7_1563cd
परिभ्रमन्नङ्गनान्तस्त्रस्तः स ददृश्ये जनैः । KRT_7_1564ab
वह्निदानोद्यतास्ताश्च वारयन्करसंज्ञया ॥ KRT_7_1564cd
मल्लराजस्य वेश्माभूद्राजधान्यन्तिकेपि यत् । KRT_7_1565ab
तीर्त्वा जनकचन्द्रेण तत्र वह्निरदीयत ॥ KRT_7_1565cd
राजधान्युन्मुखं दृष्ट्वा ज्वलन्तं वह्निमागतम् । KRT_7_1566ab
भेजे पलायनं भोजो राज्यं विश्चित्य हारितम् ॥ KRT_7_1566cd
स शूलैर्विद्विषां भीमैर्नडैरिव तिरोहितम् । KRT_7_1567ab
द्वारं भित्त्वा तुरंगस्थः प्राङ्गनान्निर्ययौ बहिः ॥ KRT_7_1567cd
पञ्चषैः सादिभिः सार्धं लोहरौन्मुख्यमाश्रितः । KRT_7_1568ab
प्रतस्थे सेतुमुत्तीर्य सिहराजमठाग्रगम् ॥ KRT_7_1568cd
वातस्य दृक्पथात्सूनोः सास्रालोकयन्दिशम् । KRT_7_1569ab
राजाश्ववारैः सहितो वेश्मनां बहिरभ्रमीत् ॥ KRT_7_1569cd
अत्रान्तरे मर्तुकामास्त्रातुं काश्चिन्नृपाङ्गनाः । KRT_7_1570ab
अश्मभिस्तत्परिजनैरभज्यत चतुष्किका ॥ KRT_7_1570cd
शाहिपुत्र्यस्तदज्ञा1त्वा शत्रवः पतिता इति । KRT_7_1571ab
मत्वा चतुष्किकाशृङ्गे ततोग्निमुददीपयन् ॥ KRT_7_1571cd
वास्तव्या डामराश्चाथ घ्नन्तोन्योन्यमुदायुधाः । KRT_7_1572ab
ज्वलतः क्ष्मापतिगृहाद्भाण्डागाराद्यलुण्ठयन् ॥ KRT_7_1572cd
केचित्तत्र वधं प्रापुर्विपदं केचनात्यजन् । KRT_7_1573ab
अदृष्टवस्तुसंप्राप्तिः केषांचिद्घास्यदाभवत् ॥ KRT_7_1573cd
सितेयं शर्करेत्येकः कर्पूरं वदनेक्षिपत् । KRT_7_1574ab
ततः सरिति तद्भाण्डं निर्दग्धवदनो व्यधात् ॥ KRT_7_1574cd
पामरैः स्वर्णचित्राणि कैश्चित्स्वर्णग्रहेच्छया । KRT_7_1575ab
विनिर्दग्धानि वासांसि विचितं भस्म चादरात् ॥ KRT_7_1575cd
अविद्धमौक्तिकस्तोमः सि1ततण्डुलविभ्रमात् । KRT_7_1576ab
क्वचित्पामरनारीभिर्घरट्टेषु विचूर्णितः ॥ KRT_7_1576cd
वसन्त्यदृश्ये देशेस्मिन्खलीकारेण तादृशा । KRT_7_1577ab
एवं विडम्बिता लक्ष्मीर्न पुनः क्वाप्यदृश्यत ॥ KRT_7_1577cd
विद्याधरीरिवोदात्तवेषा1ः क्ष्मापतिसुन्दरीः । KRT_7_1578ab
हरन्तो डामराः क्रूरा दृश्यन्ते स्म पदे पदे ॥ KRT_7_1578cd
वसन्तलेखाप्रमुखाः सस्नुषास्तत्र चक्रिरे । KRT_7_1579ab
निर्यातशेषाः स्वान्देहान्राज्ञ्यः सप्तदशाग्निसात् ॥ KRT_7_1579cd
गृहाणां दह्यमानानामश्रूयत1 चटत्कृतिः । KRT_7_1580ab
गाढोष्मक्वथामानाभ्रसिन्धुघोषप्रतीतिकृत् ॥ KRT_7_1580cd
श्रीपद्मश्रीप्रपापार्श्वस्थितस्तद्वीक्ष्य पार्थिवः । KRT_7_1581ab
आर्षं श्लोकमिमं शोकात्स्मृत्वापाठीत्पुनः पुनः ॥ KRT_7_1581cd
प्रजापीडनसंतापात्समुद्भूतो हृताशनः । KRT_7_1582ab
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ KRT_7_1582cd
दग्ध्वाथ राजधानीं तामञ्चलो डामरान्वितः । KRT_7_1583ab
अत्यक्तसैन्यं वीक्ष्यारिं पारमेवातरत्पुनः ॥ KRT_7_1583cd
ततो युद्ध्वा मर्तुमिच्छन्निन्ये राजाकुलात्मताम् । KRT_7_1584ab
उच्चावचैर्मतिद्वैधैः पदातीनां क्षणे क्षणे ॥ KRT_7_1584cd
गच्छन्ननतपालादिराजपुत्रधिया मृधम् । KRT_7_1585ab
दण्डनायकवाक्येन न्यषिध्यत पदे पदे ॥ KRT_7_1585cd
युध्यस्व लोहरं वापि याहीत्यूचे च1 चण्णकः । KRT_7_1586ab
प्रयोगस्योत्तरं पक्षः प्रत्यभान्नाग्रिमः पुनः ॥ KRT_7_1586cd

1572.

--1) Emended; A ॰स्तदा ज्ञात्वा.

1576.

--1) Emended; A ॰स्तोमसित॰.

1577.

--1) Emended; A वसत्वदृश्ये.

1578.

--1) Emended; A ॰वेशाः.

1580.

--1) Emended; A ॰श्रूयन्त.

1586.

--1) wanting in A; supplied with R C.

[page 163]




वार्तामबुद्ध्वा पुत्रस्य नृपतिर्व्याकुलीभवन् । KRT_7_1587ab
पदवीं भोजदेवस्य याहीत्याह स्म चण्णकम् ॥ KRT_7_1587cd
प्रयागमात्रानुचरो राजन्संपत्स्यसे क्षणात् । KRT_7_1588ab
तस्मान्मामपि मा त्याक्षीरित्यूचे तं स निःश्वसन् ॥ KRT_7_1588cd
सोन्तर्बाष्पस्तं बभाषे निर्द्रोहोसीति कथ्यते । KRT_7_1589ab
त्वयाप्यस्मिन्क्षणे कस्मात्तस्मादुल्लङ्घ्यते वचः ॥ KRT_7_1589cd
विना पुत्रं न पश्यामि सार्केपि दिवसे दिशः । KRT_7_1590ab
त्वं तस्मिन्नङ्कसंवृद्धे न मन्युं कर्तुमर्हसि ॥ KRT_7_1590cd
अश्वनिमित्तं कलहस्तेष्वेव दिवसेष्वभूत् । KRT_7_1591ab
मन्त्रिणो राजपुत्रेण तेन तस्याभिमानिना ॥ KRT_7_1591cd
गिरा प्रभोरुपालब्धस्तदागूरणगर्भया । KRT_7_1592ab
स लज्जानम्रवदनो राजपुत्रानुसार्यगात् ॥ KRT_7_1592cd
पञ्चाशताश्ववारैः स भ्रातृभृत्यादिभिः समम् । KRT_7_1593ab
उत्तीर्णः सरितः पारमात्मना पञ्चमोभवत् ॥ KRT_7_1593cd
भ्रातृद्वये1श्ववारे च शेषारा2जात्मजे पथि । KRT_7_1594ab
हताश्वे ततिते सोभूद्धनकेनान्वितो भ्रमन् ॥ KRT_7_1594cd
अनाप्तवन्राजसूनोर्वार्तां वा वर्त्मनाप्यटन् । KRT_7_1595ab
गलितेहनि संप्राप वितस्तासिन्धुसंवमम् ॥ KRT_7_1595cd
एवमाप्तान्परान्पुत्रमन्वेटुं प्राहिणोन्नृपः । KRT_7_1596ab
अन्येपि तन्मिषं लब्ध्वा तस्य पार्श्ववाचलन् ॥ KRT_7_1596cd
उत्कोचादायिना क्रुद्धं राजपुर्यादिविग्रहे । KRT_7_1597ab
योग्यानसहता भूत्यान्नि1ःसारः कटकः कृतः ॥ KRT_7_1597cd
लोहरप्रस्थितौ विघ्नं राजा1 पुत्रस्य कारितः । KRT_7_1598ab
प्रवेशितः पुरं वैरी राज्यन्यन्याहवाकुले ॥ KRT_7_1598cd
सर्वस्वध्वंसिना येन स एव नृपतेरभूत् । KRT_7_1599ab
तताप्युचितकर्तव्यनिषेद्धा दण्डनायकः ॥ तिलकम्1 KRT_7_1599cd
राज्ञः कृत्स्नावसन्नस्य शृण्वतो बहुमन्त्रितम् । KRT_7_1600ab
नैकत्र रूढिः कर्तव्ये क्वाप्यधीरधियोभवत् ॥ KRT_7_1600cd
सर्वैर्यथा निखिलरन्ध्रमुखेन वंशः संपूरितो न खलु शब्दमपाकरोति । KRT_7_1601ab
तैस्तैस्तथा बहुपथप्रचयेन मन्त्रः संपक्ल्पितः किल न निश्चयमभुपैति ॥ KRT_7_1601cd
भाग्यक्षयस्यैतदेव लक्षणं प्राकृतोपि यत् । KRT_7_1602ab
अपृष्टः कथयेद्धार्ष्ट्यान्मन्त्रं स्वहृदयोचितम् ॥ KRT_7_1602cd
त्रैलोक्यनाम्ना सूतेन शंसता दण्डनायकम् । KRT_7_1603ab
निरोध्य वल्गामित्यूचे भूयः क्ष्माभृद्रणोन्मुखः ॥ KRT_7_1603cd
एकाङ्गैः साश्ववारैः प्राग्जिगाय त्व1त्पितामहः । KRT_7_1604ab
तद्गच्छामोक्षपटलोपान्तं तत्संग्रहेच्छया ॥ KRT_7_1604cd
पदातिप्रायसैन्यांस्तान्निहन्मः संहताaन्रिपून् । KRT_7_1605ab
पश्चान्निपत्य तैः साकं श्येना इव विहंगमान् ॥ KRT_7_1605cd
ततश्चिचलिषावेव राज्ञि तत्कटको दिशः । KRT_7_1606ab
सवृष्ट्यमबुहतो रङ्गप्रेक्षिलोक इवागमत् ॥ KRT_7_1606cd
पारेवितस्तां प्राप्तेभ्यः पाथेयायात्मजन्मनः । KRT_7_1607ab
स शेया1राजजन्मभ्यो रत्नग्रैवेयकाद्यदात् ॥ KRT_7_1607cd
श्रारामिकैस्तैः संप्राप्ते राजचिह्ने क्षणादिव । KRT_7_1608ab
तेजःस्फारोर्जितो राजा गतश्रीर्ददृशे जनैः ॥ KRT_7_1608cd
पदे पदे भ्रश्यमानसैन्योक्षपटलादिषु । KRT_7_1609ab
स्थानेषु चाभ्रमीत्कश्चिन्न च तस्यापदन्तिकम् ॥ KRT_7_1609cd
संश्रयार्थ्यथ बभ्राम सायं वेश्मानि मन्त्रिणाम् । KRT_7_1610ab
प्रवेशं प्रददौ चास्य न कोपि द्वारि तस्थुषः ॥ KRT_7_1610cd
प्रायोपवेशकुशलाः शक्तास्त्वन्ते न कुत्रचित् । KRT_7_1611ab
मिथ्यासंभावनाभूमिर्भूपानां ब्रह्मबन्धवः ॥ KRT_7_1611cd
ये केपि देशे सन्त्यस्मिंस्तद्गेहेष्वास्थया भ्रमन् । KRT_7_1612ab
प्रविविक्षुर्गृहान्प्राप कपिलाख्यस्य मन्त्रिणः ॥ KRT_7_1612cd
तस्मिंस्ल्लोहरकोट्टस्थे तत्पत्न्या स्थातुमर्थितः । KRT_7_1613ab
नौभिश्च कोट्टं गन्तुं न प्राविक्षद्दैवमोहितः ॥ KRT_7_1613cd

1594.

--1) Emended; A भ्रातृद्वारे.

--2) Thus A; cf. vii. 1607.

1597.

--1) Emended; A ॰न्निसारः.

1598.

--1) Emended A राजपुत्रस्य. Cf. vii.1453

.

1599.

--1) A1 writes here 3 instead of तिलकम्.

1604.

--1) Emended; A प्राग्जगायन्तत्सिता॰ C ॰गाय तत्पिता॰.

1607.

--1) A1 शेया-- राजन्मभ्यो; subsequently supplied by A1 or later hand; or but comp. शेषा राजात्मजे. vii.1594.

[page 164]




आर्तस्य तस्य तत्पुत्रैः पितृवद्द्रोहकारिभिः । KRT_7_1614ab
ऋणकैरुत्तमर्णस्य स्वं निःस्वैरिव गोपितः ॥ KRT_7_1614cd
सदोषोस्मीति सोज्ञासीत्स्वयम् शृण्वन्विगर्हणाम् । KRT_7_1615ab
तदैव गोपिताशेषकृत्यो दुर्मन्त्रिभिः पुरा ॥ KRT_7_1615cd
गृहीतसर्वनैराश्यः पार्श्वस्येष्वप्यविश्वसन् । KRT_7_1616ab
अभूत्प्रद्युम्नमुत्तीर्णो नितरां विरलानुगः ॥ KRT_7_1616cd
प्रख्यापयन्तः संभूतिं षट्त्रिंशति कुलेषु ये । KRT_7_1617ab
तेजस्विनो भास्वतोपि सहन्ते नोच्चकैः स्थितिम् ॥ KRT_7_1617cd
तेप्यन्तेनन्तपालाद्या राजपुत्रास्तमत्यजन् । KRT_7_1618ab
सान्द्रतां दधति ध्वान्ते स्थगिताश्वाः पदे पदे ॥ KRT_7_1618cd
वाहनाज्जोहिलमठोपान्तं प्राप्यावतीर्णवान् । KRT_7_1619ab
स दण्डनायकेनापि तत्यजे सानु1जन्मना ॥ KRT_7_1619cd
इहास्मच्छ्वशुरावासस्तत्र वस्तुमिमां निशम्1 KRT_7_1620ab
वीक्ष्य ते स्थानमेष्यामीत्युक्त्वा व्याजेन सोचलत् ॥ KRT_7_1620cd
यियासोरनुजं तस्य पाथेयार्थं प्रयागकः । KRT_7_1621ab
ययाचेङ्गदमस्मै स प्रादात्सक्तून्न तत्पु1नः ॥ KRT_7_1621cd
एकांशुकावशेषश्रीस्ततो वा शेषजीवितः । KRT_7_1622ab
प्रयागाशेषानुचरो नृपतिः समपद्यत ॥ KRT_7_1622cd
सूदश्चप्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् । KRT_7_1623ab
मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥ KRT_7_1623cd
उदीपविहितैः खातैरग्रे दुःसंचरा क्षितिः । KRT_7_1624ab
भ्राम्यतस्तानुवाचेति नारी काचिद्गुहान्तरात् ॥ KRT_7_1624cd
ततस्तीरे वितस्ताया निषण्णेस्मिन्प्रयागकः । KRT_7_1625ab
गन्तुं जयपुरं कोट्टमाजुहाव स नाविकान् ॥ KRT_7_1625cd
स हि प्राक्संविदं चक्रे तत्रत्यैः सह शस्त्रिभिः । KRT_7_1626ab
नृपं प्रेयाश्रयं नेतुं भीमादेवस्य1 मन्दिरम् ॥ KRT_7_1626cd
उच्चलाश्रयिणाप्यूचे भीमादेवेन येन सः । KRT_7_1627ab
राज्ञोनुगो गमिष्यामि प्रविष्टस्योपवेशनम् ॥ KRT_7_1627cd
नौचरैराहृतां नावमारुरोह न भूपतिः । KRT_7_1628ab
नाशोन्मुखः समासन्नदृष्टिपातभयाकुलः ॥ KRT_7_1628cd
पर्यापतत्कालकरस्थभोगिसंदर्शनेनेव मतिप्रदीपः । KRT_7_1629ab
क्षिप्रं प्रशान्त्युन्मुखतामुपैति विनाशकालेषु शरीरभाजाम् ॥ KRT_7_1629cd
तस्मिन्द्रोहसुभिक्षेपि यस्य मानवतः परम् । KRT_7_1630ab
अनन्यालोकिनी दृष्टिर्भेजे कुलवधूव्रतम् ॥ KRT_7_1630cd
नीलाश्वीयः स बिम्बाख्यो डामरो1मिलितोहितैः । KRT_7_1631ab
तदापि प्रययौ राज्ञो विस्मृतिं संश्रयार्थिनः ॥ युगलम्॥ KRT_7_1631cd
ततः प्रावर्तत त्यक्तुं वारि वारिमुचां गणः । KRT_7_1632ab
क्ष्मामिव क्षालयितुं द्रोहस्पर्शेन दूषिताम् ॥ KRT_7_1632cd
भूर्निर्जना वृष्टिपातस्तमिश्रा दुःसहायिता1 KRT_7_1633ab
वैरिभीतिरिति प्राभूत्किं किं तस्य न दुःखदम् ॥ KRT_7_1633cd
इति वृत्तानुरोधेन धिग्दुष्कर्मविधायिनाम् । KRT_7_1634ab
अस्मर्तव्यमपि व्यक्तं नाम पाहिष्यतेधुना ॥ KRT_7_1634cd
सोमानानदाभिधानस्य पूज्याः सिद्धस्य देवताः । KRT_7_1635ab
सोमेश्वराभिधाः सन्ति काश्चित्पितृवनान्तरे1 KRT_7_1635cd
तल्लाञ्छिताङ्गना तुङ्गतरुप्रच्छन्नवाटिका । KRT_7_1636ab
अभूद्गुणाभिधा1नस्य कुटी क्षुद्रतपस्विनः ॥ KRT_7_1636cd
वारस्त्रिया1 स विरहभुजंगीतिप्रसिद्ध्या । KRT_7_1637ab
भिश्चाख्यया समं भेजे चेष्टितं कुट्टिनोचितम् ॥ KRT_7_1637cd
तस्य प्रतापगौरीशदेवागारान्तिकस्थितेः । KRT_7_1638ab
कुटीं मुक्तेन तां निन्ये क्ष्माभृद्वस्तुं स तां क्षपाम्1 KRT_7_1638cd
मुक्तमालम्ब्य नृपतिस्तमालम्ब्य प्रयागकः । KRT_7_1639ab
यान्ति स्म विद्युद्द्योतेन क्ष्मां पश्यन्तोन्तरान्तरा ॥ KRT_7_1639cd
निरुष्णीषोङ्गसंस्यूतक्रूतवासाः स्खलन्नृपः । KRT_7_1640ab
स तां प्रयागमुक्ताभ्यां कथंचित्प्रापितः कुटीम् ॥ KRT_7_1640cd

1618.

--1) A1 writes here 3(instead of युग्मम्?).

1619.

--1) Emended; A सोनुजन्मना. Cf. vii. 894

.

1620.

--1) Emended; A निजम्.

1621.

--1) Emended with C; A तं पुनः.

1626.

--1) Emended; A भूमादेवस्य.

1631.

--1) Emended; A डामरामि॰.

1633.

--1) Thus A.

1635.

--1) Thus A3; A1 ॰वनान्तिके.

1636.

--1) Thus A3; A1 अभूच्छिन्नाभि॰.

1637.

--1) वारस्त्रिया supplied by A3 in space left by A1.

1638.

--1) Emended; A क्षमम्.

[page 165]




तदा कुमन्त्रिनिष्कृष्टं स व्यापद्वारणक्षमम् । KRT_7_1641ab
शोचन्सस्मार कन्दर्पं रुद्रं दैत्यमिवोत्पलः ॥ KRT_7_1641cd
प्राकारमूर्ध्ना मुक्तेन प्रविष्टेन हृतार्गलाम् । KRT_7_1642ab
नृपः कुटीप्राङ्गनोर्वीं विवेशास्थिततापसाम् ॥ KRT_7_1642cd
विशतोश्मक्षतः पादस्तस्यासृग्दक्षिणोत्यजत् । KRT_7_1643ab
मेने तेनानिमित्तेन स मृत्युं समुपस्थितम् ॥ KRT_7_1643cd
कुद्यामर्गलरुद्धायां निषण्णस्याङ्गने ययौ । KRT_7_1644ab
रात्रिर्भीतिमतो1 भीमा तस्य घोराभ्रमालिनी ॥ KRT_7_1644cd
पङ्कोपलिप्तः पङ्काङ्कस्थण्डिलस्थो निनाय ताम् । KRT_7_1645ab
दासकम्बलिकाच्छन्नगात्रो वृष्ट्युत्तरां निशम् ॥ KRT_7_1645cd
विसस्मारन्तराद्दुःखमासीनप्रचलायितैः । KRT_7_1646ab
निर्निद्रस्त्वभवच्छ्वभ्राद्भ्रश्यन्निव समाकुलः ॥ KRT_7_1646cd
कोहं केनाभिभूतोद्य क्व वर्ते कोनुगोधुना । KRT_7_1647ab
किं कृत्यमिति निर्ध्याय मुहुर्मुहुरकम्पत ॥ KRT_7_1647cd
हृतं राज्यम् प्रिया दग्धा भ्रष्टः सूनुरबान्धवः । KRT_7_1648ab
जातोस्म्येकाक्यपाथेयो लुठन्भिक्षाभुजोङ्गने ॥ KRT_7_1648cd
इत्येकैकं च निर्ध्याय दुःखं नैक्षिष्ट सोपरम् । KRT_7_1649ab
प्राप्तावसादं शोचन्तमात्मतुल्यं कथास्वपि ॥ युग्मम्॥ KRT_7_1649cd
भोजस्तु वाजिभिर्द्वित्रैरवशिष्टैः समं व्रजन् । KRT_7_1650ab
हस्तिकर्णान्तरं प्राप निर्गत्य नगरान्तरात् ॥ KRT_7_1650cd
व्रजतस्तस्य धीरासीन्नियतं पञ्चषैर्दिनैः । KRT_7_1651ab
पुनः संप्राप्नुयां राज्यं यदीन्द्रोपि भवेद्रिपुः ॥ KRT_7_1651cd
गर्भवास इव पौरुषे स्फुरन्किं न कर्म पुरुषश्चिकीर्षति । KRT_7_1652ab
कर्मवायुरिव संस्पृशन्हठान्मूढमेव कुरुते तु तं विधिः ॥ KRT_7_1652cd
मातृभिर्दत्तपाथेयं भृत्यं नागेश्वराभिधम् । KRT_7_1653ab
प्रतीक्षमाणश्चक्रे स रङ्गवाटान्तरे स्थितिम् ॥ KRT_7_1653cd
शून्ये देवगृहे तत्र तिष्ठञ्श्रुत्वा तमागतम् । KRT_7_1654ab
स निर्ययौ तेन तस्मिन्निःशङ्कं प्रहृतं पुनः ॥ KRT_7_1654cd
तत्र प्रादुष्कृतद्रोहे क्षत्रधर्मादविच्युतः । KRT_7_1655ab
राजपुत्रः स यश्चक्रे न तत्कस्याद्भुतावहम् ॥ KRT_7_1655cd
स सिंह इव संहारं कृत्वा युधि विरोधिनाम् । KRT_7_1656ab
अस्राङ्गरागलिप्ताङ्गो वीरशय्यामभूषयत् ॥ KRT_7_1656cd
भ्रातास्य मातुलापत्यं विपेदे पद्मकाभिधः । KRT_7_1657ab
खेलो लालितवच्चैव संख्येसंख्यपराक्रमः ॥ KRT_7_1657cd
मठं सूर्यमतीदेव्याः शर्वर्यामु लोविशत् । KRT_7_1658ab
भ्राताप्यस्य रणश्रान्तो लवणोत्सात्समाययौ ॥ KRT_7_1658cd
हतं भोजं श्रुतवतोर्हर्षमात्रे स्थितोe तयोः । KRT_7_1659ab
मनस्युत्खातशूलेश्रिरेवैका पर्यशिष्यत ॥ KRT_7_1659cd
प्राप्तमप्राप्तवद्राज्यम् तथापि प्रत्यभात्तयोः । KRT_7_1660ab
प्रवासे विस्मृते राज्यमुखे लन्धे च कुत्रचित् ॥ KRT_7_1660cd
प्राह्णे कुतश्चि1दानीतो मुक्तेनान्विष्य तापस1ः । KRT_7_1661ab
प्रणम्य नृपतिं चक्रे स्वकुटीं तां1 निरर्गलाम् ॥ KRT_7_1661cd
तां दंश1मशका2कीर्णामास्तीर्णतृणविष्टराम् । KRT_7_1662ab
कृताम्बुसेकां मुक्तेन नृपतिः प्राविशत्कुटीम् ॥ KRT_7_1662cd
यद्गिरा बहुमानोभूच्छ्रुतया भूभुजामपि । KRT_7_1663ab
स भूभृच्चाटुकारित्वं भीतो भिक्षाभुजोप्यगात् ॥ KRT_7_1663cd
भिक्षाकस्योचितं ग्राम्यमनुदात्तं त्रपावहम् । KRT_7_1664ab
आलापाभ्यवहाराभ्यां तस्य शृण्वन्स विव्यथे ॥ KRT_7_1664cd
स भिक्षाकः प्रयागेन विक्रयायाधरांशुकम् । KRT_7_1665ab
निजं दत्त्वा विससृजे विपणिं भोज्यसिद्धये ॥ KRT_7_1665cd
कदुक्तिः कटुवागग्रे परोक्षं भेदभीतिकृत् । KRT_7_1666ab
कुतपसो दौस्थ्यहेतुर्नृपस्यारिर्यथाप्यभूत् ॥ KRT_7_1666cd
मध्याह्ने स्कन्धविन्यस्तभोज्यभाण्डकरण्डिका । KRT_7_1667ab
तपस्विन्याप्यथानिन्ये तेन क्षुद्रतपस्विना ॥ KRT_7_1667cd
भृत्यभिक्षाकयोः पूर्वं स्त्रिया अप्यथ पार्थिवः । KRT_7_1668ab
स्वं वीक्ष्य गोचरीभूतं निराशो जीवितेभवत् ॥ KRT_7_1668cd

1644.

--1) Emended with C; A ॰र्भीतिवतो.

1661.

--1) प्राह्ने कुतश्चि, पसः, चक्रे स्वकुटीं तां, supplied by A3 in space left by A1.

1662.

--1) Thus corr. by A2 from A1 चाधम॰.

--2) Emended; A ॰मषका॰.

[page 166]




तेन प्रयागोपहृतं भोज्यं तदनुरोधतः । KRT_7_1669ab
स्पृटमेव न भुक्तं तु तीव्रदुःखोल्बणात्मना ॥ KRT_7_1669cd
का वार्तेति प्रयागेन प्राङ्गनस्थेन पृष्टया । KRT_7_1670ab
तापस्या ग्राम्यया व्यक्तमुक्तो भोजवधस्ततः ॥ KRT_7_1670cd
मिथ्यैतदिति तेनाथ1 कथ्यमानोपि पार्थिवः । KRT_7_1671ab
श्रुतिं तामङ्गशकुनं परीक्ष्याबुद्ध नान्यथा ॥ KRT_7_1671cd
नारोहति गिरं शत्रोरप्रियाख्यायिनोपि यत । KRT_7_1672ab
तस्य संववqते दुःखं निमग्नस्य तदापदि ॥ KRT_7_1672cd
स शोचन्नात्मजं बाल्ये नीत्यै यां यन्त्रणां व्यधात् । KRT_7_1673ab
आजन्मदुःखदायित्वं मेन तस्यात्मनस्तया1 KRT_7_1673cd
हतः स समरे वृत्त्या प्रवीरस्पृहणीयया । KRT_7_1674ab
जज्ञे तेनातिवात्सल्यादङ्कशायीव घातिनः ॥ KRT_7_1674cd
गात्रेषु हारान्पुत्रस्य यौवनव्यूढवक्षसि । KRT_7_1675ab
पश्यन्नात्मनि संकल्पैर्विह्वलः सोकृताशिषः ॥ KRT_7_1675cd
रक्षणीयो हतो1 बालो वृद्धस्त्वेवं स्वजीवितम् । KRT_7_1676ab
रक्षाम्यनु2चिताचा3रैर्जिह्रायेति स चिन्तयन् ॥ KRT_7_1676cd
एवं स पुत्रशोकेन धृतावाच्यव्यथो व्यथन् । KRT_7_1677ab
निनाय तापसावासे द्वितीयामपि यामिनीम् ॥ KRT_7_1677cd
कृतार्थनः प्रयागेन प्रयातुं भगवन्मठम् । KRT_7_1678ab
शोकहारितधी रात्रौ न संकल्पमपि व्यधात् ॥ KRT_7_1678cd
लम्बेन्दुवदन1सान्द्रावश्याया2म्भोस्रुवर्षिणी । KRT_7_1679ab
रथाङ्गाक्रन्दिनी रात्रिः सशोकेवाथ सागमत् ॥ KRT_7_1679cd
क्षुत्पिपासापरिक्षामं प्रभुं वीक्ष्य स तापसः । KRT_7_1680ab
प्रार्थ्यते स्म प्रयागेन प्रातर्भोक्तव्यसिद्धये ॥ KRT_7_1680cd
उपनिन्ये विनिर्गत्य प्रविष्टस्तापसस्तयोः । KRT_7_1681ab
सव्यञ्जनाम्नपूर्णे द्वे पात्रे ॰ ॰ क्ष1णात्पुरः ॥ KRT_7_1681cd
कस्यापि गृहिणो यागोत्सवादेते मयाहृते । KRT_7_1682ab
तस्मिन्नित्युक्तवत्यूचे विनिश्वस्य प्रयागकः ॥ KRT_7_1682cd
राजन्स्वामिवियोगेस्मिन्पश्य लोकस्य सुस्थताम् । KRT_7_1683ab
स तं जगाद विहसन्किं मूढ उव भाषसे ॥ KRT_7_1683cd
यो गतो गत एवासौ तत्क्षत्या नापरः क्षतः । KRT_7_1684ab
सर्वो निजसुखापेक्षी न किंचित्कोपि शोचति ॥ KRT_7_1684cd
लोकैकचक्षुषि गते परलोकमर्के लोकः स्वपित्यखिल एव सुखं गृहेषु । KRT_7_1685ab
कोन्यो विचिन्तयितुमर्हति विश्वमेतत्तिष्ठेन्मया विरहमेत्य कथं किलेति ॥ KRT_7_1685cd
पुत्रस्य स्नेहविश्वासः पूर्वमास्त1 क्षये श्रुते । KRT_7_1686ab
यथैकः प्रभवेन्नान्यस्तथा स्नेहोपि देहिनः ॥ KRT_7_1686cd
अहमेव हतं पुत्रं श्रुत्वा जीवितजीवितम् । KRT_7_1687ab
तिष्ठामि स्वस्थवद्यत्र तत्रान्यो निन्द्यतां कथम् ॥ KRT_7_1687cd
इत्युक्त्वा विरते राज्ञि पुनर्गूढं प्रयागकः । KRT_7_1688ab
प्रैरयत्तापसं1 भोज्यं कर्तुं ते भाजते त्यजन् ॥ KRT_7_1688cd
ह्यस्तनव्ययशिष्टं मे पर्याप्तं नास्ति चेतनम् । KRT_7_1689ab
यते तथापीयुक्त्वा स सखेद इव निर्ययौ ॥ KRT_7_1689cd
गोप्यं रहस्यभणितमत्यल्पहृदयातिथि । KRT_7_1690ab
अमृतं पारतमिव नाल्पसत्त्वैः सुदुर्जरम् ॥ KRT_7_1690cd
कुल्यो मनोरथो नाम विप्रस्य वनवासिनः । KRT_7_1691ab
सुजृत्तपस्विनस्तस्य तां कथामुपलब्धवान् ॥ KRT_7_1691cd
राज्ञः संदर्श्य दायादं भवावो भूतिभाजनम् । KRT_7_1692ab
इत्युक्त्वा तेन निन्ये स द्रोग्धृ1तां क्षुद्रतापसः ॥ KRT_7_1692cd
जज्ञे भृत्येन गर्ह्येण जातः सोन्त्येन केनचित् । KRT_7_1693ab
सदृशं यत्सदसतोर्ज्ञापकं जन्मकर्मणोः ॥ KRT_7_1693cd
इल्लाराजस्तां प्रवृत्तिं बुद्ध्वा ताभ्यां न्यवेदयत् । KRT_7_1694ab
उच्चलाय समादिक्षत्कार्ये तत्र तमेव सः ॥ KRT_7_1694cd

1671.

--1) Emended; A तेनार्ध.

1673.

--1) स्तया supplied by A3 in space left by A1.

1676.

--1) Thus corr. by A3 from A1 ह्नुतो.

--2) रक्ष्याम्यनु and ताचारै supplied by A3 in space left by A1.

1679.

--1) Thus corr. by later hand from A1 ॰वदना.

--2) Emended with C; A ॰श्यायोम्भो॰.

1681.

--1) Two aksharas wanting in fourth ; the lacuna not marked in A; C तद्वीक्षणात्पुरः.

1686.

--1) Thus A1; A3 पूर्वमाप्तक्षये.

1688.

--1) प्रैरयत्तापसं supplied by A3 in space left by A1.

1692.

--1) Emended; A दोग्धृतां.

[page 167]




केचित्तु भूति1भिश्चाख्यमिल्लाराजोपसर्पणे । KRT_7_1695ab
कायस्थं कारणं प्राहुस्तयोस्तापसविप्रयोः ॥ KRT_7_1695cd
वार्ता वेदवगीतेयं सुबहुश्रोत्रसंकुले । KRT_7_1696ab
काले तद्भृत्यपाशस्य तस्यैव द्रोहमुख्यता ॥ KRT_7_1696cd
श्वपाकस्कन्धमारूढो लब्ध्वा तास्ता विमाननाः । KRT_7_1697ab
विपेदे यत्स कारायां युक्तं तत्तस्य कर्मणः ॥ KRT_7_1697cd
क्षुत्तप्तो हर्षदेवस्तु प्रयोगेनार्थितोसकृत् । KRT_7_1698ab
प्रत्यग्रे पुत्रशोकेपि भोजनायाकरोन्मनः ॥ KRT_7_1698cd
गृहीतभोजनं जानन्प्राप्तं प्राप्तं स तापसम् । KRT_7_1699ab
तमोरेर्बहिरैक्षिष्ट नीडाच्छिशुरिवाण्डजः ॥ KRT_7_1699cd
अपश्यच्च कुटीं कृत्स्नां वेष्टितामेत्य शस्त्रिभिः । KRT_7_1700ab
शुश्राव चाङ्गनद्वाराद्वार्यमाणार्गलाद्ध्वनिम् ॥ KRT_7_1700cd
जानञ्जातं ततो द्रोहमङ्गनात्तापसाधमम् । KRT_7_1701ab
सशस्त्रिणं मुक्तमेहीत्याह्वयन्तं व्यलोकयत् ॥ KRT_7_1701cd
मुक्तं विसृज्य कृत्वा च द्वारमुद्घाटितारारि । KRT_7_1702ab
त्यक्तभीरादधे लघ्वीं क्षुरिकामन्तिकस्थिताम् ॥ KRT_7_1702cd
एकस्तत्सविधं क्रूरः साहसाहंक्रियेन्मदः । KRT_7_1703ab
आरुरोहाथ कृष्टासिधेनुः कवचितो भटः ॥ KRT_7_1703cd
तं राजा संकटकु1टीरुद्धायामोष्यपातयत् । KRT_7_1704ab
क्षितौ व्यायामकुशलो नावधीत्कृत्पया पुनः ॥ KRT_7_1704cd
पतितेन हतेनार्थो वराकेणामुना न मे । KRT_7_1705ab
इत्तूचे दुरहंकारग्रस्तस्तस्मिन्नपि क्षणे ॥ KRT_7_1705cd
नीध्रमुत्पाद्य निपतन्नेकोन्योप्युत्पतन्भटः । KRT_7_1706ab
भयाद्भूमौ न्यपततां तंविलोक्योद्यतायुधम् ॥ KRT_7_1706cd
पृष्टे पूर्वं प्रविष्टस्य1 तिष्ठन्स्थानकनिष्ठुरः । KRT_7_1707ab
स रुरोरिव चामुण्डा रेजे दण्डाकृतिः क्षणम् ॥ KRT_7_1707cd
न सिंहनादैर्नो भेरीतूर्यघोषैर्न वोन्मदैः । KRT_7_1708ab
शस्त्रशब्दैः स शुशुभे भूपस्यान्तक्षणे रणः ॥ KRT_7_1708cd
आखोर्भाण्डप्रवेशस्य विडाला इव डामराः । KRT_7_1709ab
परं प्रवेशितास्तस्य निःशब्दं शस्त्रिणः कुटीम् ॥ KRT_7_1709cd
अथान्यो नीध्रमार्गेण संप्रविष्टः प्रयागकम् । KRT_7_1710ab
हत्वादोष्णि च शीर्षे च राजानं समुपाद्रवत् ॥ KRT_7_1710cd
राज्ञः प्रहरतः शस्त्रं वञ्चयित्वा स शस्त्रभृत् । KRT_7_1711ab
वक्षसि क्षुरिकाघातद्वयं प्रादात्कृतत्वरः ॥ KRT_7_1711cd
वर्णान्महेश्वरेत्येनान्द्विरुक्त्वा गतजीवितः । KRT_7_1712ab
पपात निहतो भूमौ छिन्नमूल इव द्रुमः ॥ KRT_7_1712cd
पलाय्य संप्रविशतो योग्यश्चौरस्य यादृशः । KRT_7_1713ab
चक्रवर्त्यपि स प्राप वधं वेश्मनि तादृशम् ॥ KRT_7_1713cd
नान्यः स इव कालेस्मिन्ददृशे भूतिमान्नृपः । KRT_7_1714ab
गर्ह्यनिर्हरणत्वं च तस्येवान्यस्य नेक्षितम् ॥ KRT_7_1714cd
यद्वैकेनैव संग्रामवैमुख्येनोन्नतात्मनः । KRT_7_1715ab
सर्वप्रकारसुभगं माहात्म्यं तस्य खण्डितम् ॥ KRT_7_1715cd
नेयबुद्धित्वमेवासीदथ वा तस्य दूषणम् । KRT_7_1716ab
सर्वक्लेशावहा दोषाः कृत्स्नास्तन्मन्त्रिणां पुनः ॥ KRT_7_1716cd
द्वाचत्वारिंशतिः1 साष्टमासा यस्य वयःसमाः । KRT_7_1717ab
स शुक्लभास्रपञ्चम्यां हतोब्दे सप्तसप्तते ॥ KRT_7_1717cd
राजा दुर्योधन इव स्ववंशच्छेदमिच्छता । KRT_7_1718ab
सोभूज्जातकयोगेन कारितः स्वकुलक्षयम् ॥ KRT_7_1718cd
तस्यासन्क्ष्मार्कजौ जीवबुधौ शुक्रोष्णगू2 शशी । KRT_7_1719ab
तनयामित्रजामित्रखेषु कर्कटजन्मनः3 KRT_7_1719cd

1695.

--1) Emended; A भूमिश्चा॰. Cf. viii. 94.

1704.

--1) Emended; A संकटी कु॰.

1707.

--1) Emended with C; A प्रविष्ट.

1717.

--1) Emended; A द्वाचत्वारिंशतः.

1719.

--1) Emended; A तस्यासी क्ष्मा॰.

--2) Emended with C; A ॰ष्णगी.

--3) A2 explains this verse by the following janmachakra: कं । सिं । क । मि । वृ । मे चं । मी । कुं । म सू शु । ध्ं बु जी । वृं भौ श । तुं ।

[page 168]




चन्द्रदैत्येज्य1पापेषु खमदात्मजगेषु यत् । KRT_7_1720ab
आहुः सुसंहिताकाराः कौरवादीन्कुलान्तकान् ॥ KRT_7_1720cd
निर्ब्रह्मण्यो जनः कृत्स्नो देशेस्मिन्वैर्णोन्तिकम् । KRT_7_1721ab
दस्योरिव शिरश्छित्वा स्वामिनोपि निनाय तत् ॥ KRT_7_1721cd
तस्योत्तमाङ्गे भूभर्तुश्छिद्यमाने ससागरा । KRT_7_1722ab
चकम्पे भूर्निरभ्रापि द्यौर्वृष्टिं महतीं जहौ ॥ KRT_7_1722cd
तन्मुण्डे लगुडारूढे यदयुक्तं जनो व्यधात् । KRT_7_1723ab
अब्न्हूत्तेनाभिशापेन सोग्रे दीर्घोपसर्गभाक् ॥ KRT_7_1723cd
मण्डले देवबिम्बानां यथामुष्मिन्विपाटनम् । KRT_7_1724ab
तथा नवं प्रववृते भूपतेर्मुण्डखण्डनम् ॥ KRT_7_1724cd
नैक्षिष्ट तच्छिरः प्राप्तमौचित्यादुच्चलो नृपः । KRT_7_1725ab
भूत्वा चिरमुदस्रुस्तु कारयामास वह्निसात् ॥ KRT_7_1725cd
धिक्क्षष्टं तस्करस्येव तादृशश्चक्रवर्तिनः । KRT_7_1726ab
नोच्चलाज्ञां विना प्राप्ता शरीरेणान्तसत्क्रिया ॥ KRT_7_1726cd
भृत्यत्यक्तो नष्टवंशो गौरकाख्येन केनचित् । KRT_7_1727ab
स काष्ठागारिणा चक्रे नग्नोनाथ इवाग्निसात् ॥ KRT_7_1727cd
दीर्घो हर्षनृपोदन्तः सोयं कोप्यद्भुतावहः । KRT_7_1728ab
रामायणस्य नियतं प्रकारो भारतस्य वा ॥ KRT_7_1728cd
भाग्याम्बुवाहतडितस्तरलाः श्रियस्तास्तच्चावसानविरसं प्रसभोन्नतत्वम् । KRT_7_1729ab
तत्रापि नैष वत मोहहताशयानां शान्तिं प्रयाति विभवानुभवाभिमानः ॥ KRT_7_1729cd
तावत्यप्यवरोधिकापरिकरे नैकापि चक्रन्द तं तावत्स्वप्यनुगेषु नानुसृतवान्कोप्यास्त तीर्थे न वा । KRT_7_1730ab
लोकस्य स्वसुखोपलिप्तमनसो वीक्ष्येति निःस्नेहतां निeवेदं समुपेत्य नाश्रयति धिक्स्वान्तं वनान्ते रतिम् ॥ KRT_7_1730cd
नादौ किंचिद्भवति नियतं यच्च पश्चान्न किंचिन्मध्येकस्मात्सपदि घटयन्सौस्थ्यानुरोधम् । KRT_7_1731ab
निःशीर्षाङ्घ्रीर्नट इव मुहुः कोपि जन्तुर्नटित्वा नो जानीमो भवजवनिकान्तर्हितः क्व प्रयाति ॥ KRT_7_1731cd
श्रीः सा1तवाहनकुलेकृत कान्ति2राजवंशे त्यजन्त्युदयराजकुले प्रतिष्ठाम् । KRT_7_1732ab
शृङ्गं दुरैर्विरहितं जहती हिमाद्रेर्दिव्ये तटे सुरगिरेरिव वासरश्रीः ॥ KRT_7_1732cd


इति काश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कवेः कृतौ राजतरङ्गिण्यां सप्तमस्तरङ्गः ॥ समाष्टानवतावस्यां त्र्यहोनायां महीभुजः । षडत्रोदयराजस्य वंशे जाताः प्रकीर्तिताः ॥ राजानः 6 श्लोकाः 1723(1) ॥

1720.

--1) A2 gloss शु.

1732.

--1) Emended; A श्रीसात॰.

--2) Emended; A कान्तराज॰. Cf. vii. 1285.

Colophon.

--1) Thus A1, perhaps for 1732. A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन.

[page 169]




॥ अष्टमस्तरङ्गः ॥

ओं नमो विघ्नहर्त्रे ।
प्रौढाः कञ्चुकिनो जरद्वरवृषः कुब्जस्तुषारद्युतिर्नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो । KRT_8_0001ab
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा सा भिद्या1द्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ KRT_8_0001cd
छन्नकोपप्रसादोभूत्कं1चित्कालं नवो नृपः । KRT_8_0002ab
प्राङ्मन्थादिव पाथोधिरव्यञ्जितविषामृतः ॥ KRT_8_0002cd
सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ । KRT_8_0003ab
मेघस्येव पुरो वातावग्रहौ स्फूर्तिहारिणौ ॥ KRT_8_0003cd
यत्किंचचविधाय्यासीद्भ्राता यद्यौवनोन्मदः । KRT_8_0004ab
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ KRT_8_0004cd
सोनिशं हि गजारूढो विकोशासि1ः परिभ्रमन् । KRT_8_0005ab
आत्तसारां महीं पीतरसां रविरिवाकरोत् ॥ KRT_8_0005cd
एकीभूतानमून्सर्वाण्डामरान्निर्दहाग्निना । KRT_8_0006ab
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकाग्रो वचोग्रहीत् ॥ KRT_8_0006cd
दस्यवो मन्त्रिसामन्ता द्वैराज्येच्छुः सहोदरः । KRT_8_0007ab
भूर्निष्कोशेत्यभूत्किं न भूपतेस्तस्य संकटम् ॥ KRT_8_0007cd
अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः । KRT_8_0008ab
पातुं लोहरसंबन्धं प्राहिणोन्मण्डलान्तरम् ॥ KRT_8_0008cd
द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् । KRT_8_0009ab
विनाय सर्वं वात्सल्यादनिषिद्धोग्रजन्मना ॥ KRT_8_0009cd
आशङ्क्य कोट्टभृत्येभ्यः प्रवेशे प्रत्यवस्थितिम् । KRT_8_0010ab
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान् ॥ KRT_8_0010cd
कुर्याममुं पृपमहं प्रातिहार्यं समाचरन् । KRT_8_0011ab
नम्राः स्वभृत्यवत्तस्थुर्भूभुजो भूम्यनन्तराः ॥ KRT_8_0011cd
दिनानि सप्त संरुद्धे मार्गे तदनुयायिनाम् । KRT_8_0012ab
गायनः कनको लब्धान्तरो देशान्तरं ययौ ॥ KRT_8_0012cd
वाराणस्यां विजहता निर्वेदात्तेन जीवितम् । KRT_8_0013ab
हर्षभूभर्तृभृत्येषु व्यक्तं निन्ये कृतज्ञता ॥ KRT_8_0013cd
ऊर्ध्वाधिरोहं दाक्षिण्याद्दस्यूनामुच्चलः पुनः । KRT_8_0014ab
सेवास्मृत्या सुधीः सेहे चन्दनो भोगिनामिव ॥ KRT_8_0014cd
तथा जनकचन्द्रेण दर्पाद्व्यवहृतं तदा । KRT_8_0015ab
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ KRT_8_0015cd
अभयस्योरशाभर्तुस्तनयायामजीजनत् । KRT_8_0016ab
राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः ॥ KRT_8_0016cd
जातं मेँ1तद्द्वित्रिपुत्रानन्तरं गुरुभिः शिशुम् । KRT_8_0017ab
आयुष्कामैस्तमाबद्धाभव्यभिक्षाचराभिधम् ॥ KRT_8_0017cd
व्यब्दमप्यरिसंतानतन्तुत्वेनाप्रियोचितम् । KRT_8_0018ab
ररक्ष तद्गिरा राजा राज्ञ्याश्चाङ्के समार्पयत्1 ॥ तिलकम्॥ KRT_8_0018cd
तमादाय स्वयं वासौ यावद्राज्येकरोन्मनः । KRT_8_0019ab
तावद्बभारोङ्गितज्ञो नीतिकौटिल्यमुञ्चलः ॥ KRT_8_0019cd
तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः । KRT_8_0020ab
एष एवातिसत्काराद्यद्वास्तुं विशदाशयः ॥ KRT_8_0020cd
इति संचिन्त्य स द्वारदित्सां तस्योदघोषयत् । KRT_8_0021ab
यथा विकारं प्रययुर्भीमादेवादयोखिलाः ॥ KRT_8_0021cd

1.

--1) Thus A1; A2 भिन्द्यादु॰.

2.

--1) Emended; A ॰भूत्किंचित्कालं.

5.

--1) कोशासिः supplied by A3 in space left by A1.

--2) Emended with C; A सूतं.

18.

--1) Emended with C; A समर्पयत्.

[page 170]




तेषां यस्य च मात्सर्यं यदा पर्याप्तिमाययौ । KRT_8_0022ab
तदान्योन्याश्रिता भृत्याः पणं चक्रुर्युयुत्सवः ॥ KRT_8_0022cd
दिदृक्षुः क्ष्मापतिस्तेषां सेतुपृष्ठे रणं मिथः । KRT_8_0023ab
वार्यमाणोपि सचिवैरारुरोह चतुष्क्रिकाम् ॥ KRT_8_0023cd
द्वन्द्वयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितैः । KRT_8_0024ab
अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ KRT_8_0024cd
सेतुद्वयाध्वना युद्धे लग्ने राज्ञि सरित्तटात् । KRT_8_0025ab
योधा जनकचन्द्रस्य शरवर्षमवाकिरन् ॥ KRT_8_0025cd
वान्तः शराः ससीत्कारास्ते स्पृ1ष्टनृपविग्रहाः । KRT_8_0026ab
मग्नाः स्तम्भेष्वदृश्यन्त कोपेनेव प्रकम्पिनः ॥ KRT_8_0026cd
आकृष्य दोर्भ्यां भूपालं बलादिव ततोनुगाः । KRT_8_0027ab
प्रविष्टा मण्डपद्वारं चक्रिरे निहिता1र्गलम् ॥ KRT_8_0027cd
शस्त्रं जनकचन्द्राद्या भीमादेवादरोपि ते । KRT_8_0028ab
चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ KRT_8_0028cd
तुमुले तत्र शस्त्र्याङ्गं भीमादेवानुगोभिनत् । KRT_8_0029ab
तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुनः ॥ KRT_8_0029cd
स वीक्ष्य स्वं क्षतं द्रोहं प्रयुक्तं भूभुजा विदन् । KRT_8_0030ab
पादप्रहारारान्विदधे क्रोधाद्द्वारि नृपौकसः ॥ KRT_8_0030cd
अभग्ने तत्र संत्रासात्स्नानद्रोण्यन्तरं गतम् । KRT_8_0031ab
अधावत्कृष्टशस्त्रीको भीमादेवो जिघांसया ॥ KRT_8_0031cd
स्तम्भछन्नस्तद्विलोक्य तद्गेहगणनापतिः । KRT_8_0032ab
मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात् ॥ KRT_8_0032cd
तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ । KRT_8_0033ab
स एव करवालेनालक्षितोकृत विक्षतौ ॥ KRT_8_0033cd
अवभज्य तरुं वज्रः सुचिरं नावतिष्ठते । KRT_8_0034ab
उदग्रकर्मा च पुमान्निहत्यात्युन्नतं रिपुम् ॥ KRT_8_0034cd
स हि द्विभाद्रे तत्राब्दे हर्षान्ताहादनन्तरम् । KRT_8_0035ab
अन्यूनानतिरिक्तैर्यत्त्रिभिः पक्षैरहन्यत ॥ KRT_8_0035cd
यद्द्वोपकर्तुरप्येष द्रोहं यत्स्वामिनो व्यधात् । KRT_8_0036ab
औत्कद्यात्पप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ KRT_8_0036cd
सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ । KRT_8_0037ab
भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीन्नृपे ॥ KRT_8_0037cd
प्रहिते लोहरं गग्गे स्वमुल्लाघयितुं क्षतम् । KRT_8_0038ab
त्रस्तास्तेन व्यसृज्यन्त स्वोर्वीरन्येपि डामराः ॥ KRT_8_0038cd
उपायापकृतैः प्राप्य1 राज्यं दस्युभिरुज्झितम् । KRT_8_0039ab
एवं शनैरवष्ठम्भं भेजे भूपतिरुच्चलः ॥ KRT_8_0039cd
तेनाथ लब्धस्थैर्येण दिनैरेव जिगीषुणा । KRT_8_0040ab
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ KRT_8_0040cd
ततो मडवराज्यं स प्रस्थितो विप्रियप्रियान् । KRT_8_0041ab
डामरान्कालियमुखान्बद्ध्वा शूले व्यपादयत् ॥ KRT_8_0041cd
इल्लाराजोपि बलवांस्तेन क्रान्तक्षितिः क्रमात् । KRT_8_0042ab
बलैर्नगर एवोग्रैरवस्कन्देन घातितः ॥ KRT_8_0042cd
प्राग्जन्मप्रेमसंस्कारादन्तरज्ञतयाथ वा । KRT_8_0043ab
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ KRT_8_0043cd
न सेहे नाममात्रं यः कण्ठकानां प्रियप्रजः । KRT_8_0044ab
नृपो गग्गाय चुक्रोध सापराधाय1 न क्वचित् ॥ KRT_8_0044cd
राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता । KRT_8_0045ab
उक्ते शुभावहे शिक्षे द्वे स मन्त्रवदस्मरत् ॥ KRT_8_0045cd
एकया लोकवार्तार्थं प्राह्णात्प्रभृति निर्गतः । KRT_8_0046ab
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ KRT_8_0046cd
अन्ययो1त्थानशीलेन श्रुत्वा नामापि वैरिणः । KRT_8_0047ab
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ KRT_8_0047cd
तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये1 मनस्विनः । KRT_8_0048ab
कार्पण्यो2पहतं वृत्तं नाप्य3भूदमलीमसम् ॥ KRT_8_0048cd
अद्योच्चलसदाचारजाह्न्वीजलमज्जनात् । KRT_8_0049ab
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ KRT_8_0049cd
तेनानुपचिताङ्गेन प्रायशो विनिवारिताः । KRT_8_0050ab
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसंचयाः ॥ KRT_8_0050cd

26.

--1) स्पृ supplied by A3 in space left by A1.

27.

--1) Emended; A निहिता॰.

39.

--1) Emended; A प्राप्तराज्यं.

44.

--1) Emended; A सापराध न क्वचित्.

47.

--1) Thus A1; corr. byu later hand into अन्यायो॰.

48.

--1) तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये supplied by A3 in space left by A1.

--2) Thus A3; A1 कार्मणापहतं.

--3) Thus A3; A1 नाप्राभूद॰.

[page 171]




प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया । KRT_8_0051ab
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥ KRT_8_0051cd
निशम्य कृपणस्यार्तं क्रन्दितं तदनिष्टकृत् । KRT_8_0052ab
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ KRT_8_0052cd
कार्यिणो यस्य वा दोषादार्ता1क्रन्दितमुद्ययौ । KRT_8_0053ab
तस्य स्ववान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ KRT_8_0053cd
अबलानुग्रहव्यग्रे तस्मिन्राजनि सर्वतः । KRT_8_0054ab
वास्तव्या बलिनस्तस्थुरबलास्त्वधिकारिणः ॥ KRT_8_0054cd
सोश्वेनैकश्चरन्राजेत्यज्ञात्वा कथितं जनैः । KRT_8_0055ab
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ KRT_8_0055cd
येन केनापि संप्राप्तः प्राप्त्युपायेन पार्थिवः । KRT_8_0056ab
अमोघदर्शनः सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ KRT_8_0056cd
सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः । KRT_8_0057ab
नाशकत्सेवकांस्त्यक्तुं विश्रम्भ1भवनेष्वपि ॥ KRT_8_0057cd
श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः । KRT_8_0058ab
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ KRT_8_0058cd
सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः । KRT_8_0059ab
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ KRT_8_0059cd
वास्तव्यानां निशम्यार्ति तेन दैत्यनिवारणम् । KRT_8_0060ab
चक्रे पित्रेव पुत्राणां संत्यक्तेतरकर्मणा ॥ KRT_8_0060cd
स्वसंचितानि सोन्नानि विक्रीणानोल्पवेतनैः । KRT_8_0061ab
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ KRT_8_0061cd
निवार्य चौर्याचारणात्कृपार्द्रस्तस्करानपि । KRT_8_0062ab
कोशाध्यक्षान्स विदधच्चकारागर्ह्यजीविकान् ॥ KRT_8_0062cd
कः संविभाग्यश्छेत्तव्या विपदः कस्य मण्डले । KRT_8_0063ab
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ KRT_8_0063cd
तस्यैकोप्यर्थनैस्पृह्यं नाम कोपि महान्गुणः । KRT_8_0064ab
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ KRT_8_0064cd
स स्थित्यै दण्डयन्दण्ड्यानघाश्लेषभयाद्धनम् । KRT_8_0065ab
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ KRT_8_0065cd
प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसंख्यया । KRT_8_0066ab
सहस्रसंख्यया दानश्रद्धागात्पूर्णतां यदि ॥ KRT_8_0066cd
श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् । KRT_8_0067ab
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ KRT_8_0067cd
अनुदात्तं क्षिप्तकालं क्षीणसंख्यमसत्कृतम् । KRT_8_0068ab
नेतृदूतादिनीतार्धं न तद्दत्तमदृश्यत ॥ KRT_8_0068cd
उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने । KRT_8_0069ab
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ KRT_8_0069cd
उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः । KRT_8_0070ab
ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ KRT_8_0070cd
ताम्बूलदानव्यसनं परार्व्योत्सवता तथा । KRT_8_0071ab
नाभूद्घर्षनृपस्यापि तादृक्तस्यास्त1 यादृशी ॥ KRT_8_0071cd
लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् । KRT_8_0072ab
स दानविभ्रमांस्1तान्ये धनदेनापि दुष्कराः ॥ KRT_8_0072cd
निर्माणलोठनैर्धाम्नामजस्रं वाजिनां क्रयैः । KRT_8_0073ab
काश्मीरिको1पि चक्रे स न मृत्तस्करसाद्धनम् ॥ KRT_8_0073cd
अध्वन्यध्वनि योगेन प्राणविन्यासनैस्तथा । KRT_8_0074ab
बभूव सर्वकृत्यज्ञः सोन्तरात्मेव देहिनाम् ॥ KRT_8_0074cd
भोगान्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः । KRT_8_0075ab
वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ KRT_8_0075cd
पित्र्योपरागकेत्वादिदुर्निमित्तोपशान्तिषु1 KRT_8_0076ab
गोसहस्राश्वहेमादिसंभवैः सोभजद्द्विजान् ॥ KRT_8_0076cd
नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवह्निना । KRT_8_0077ab
पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ KRT_8_0077cd
श्रीचक्रधरयोगेशस्वयंभूस्थानयोजनम् । KRT_8_0078ab
जीर्णोद्धृतिव्यसनिना कृतं तेन सुकर्मणा ॥ KRT_8_0078cd
हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः । KRT_8_0079ab
परिहासपुरे तं स नवं नरपतिर्व्यधात् ॥ KRT_8_0079cd

53.

--1) Emended; A दोषादर्ता॰; C दोषाद्दत्ता॰.

57.

--1) A विस्रम्भ॰.

71.

--1) Thus A1; A3 ॰स्यास्तु.

72.

--1) Emended; A ॰विभ्रमास्तान्ये.

73.

--1) Emended; A काश्मीरकोपि.

76.

--1) Emended; A ॰पमार्तिषु.

[page 172]




प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया । KRT_8_0080ab
तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ KRT_8_0080cd
जयापीडाहृतं हर्षोत्पाटने प्लुष्टमग्निना । KRT_8_0081ab
सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ KRT_8_0081cd
लब्ध्वा तदर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् । KRT_8_0082ab
सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ KRT_8_0082cd
सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः । KRT_8_0083ab
शस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ KRT_8_0083cd
लब्धभूपालवाल्लभ्या नार्थः क्रोधात्प्रजासु यत् । KRT_8_0084ab
राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ KRT_8_0084cd
प्रियप्रजस्यायमन्यो गुणः सर्वगुनाग्रणीः । KRT_8_0085ab
उच्चलक्ष्मापतेरासीदर्थनैस्पृह्यशालिनः ॥ KRT_8_0085cd
जिघांसवः पापकामः परस्वादयिनश्च ताः । KRT_8_0086ab
रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ KRT_8_0086cd
तेनेतिहासिनीं नीतिं श्रद्धानेन सर्वदा । KRT_8_0087ab
येन संपठता श्लोकं कायस्थोन्मूलनं कृतम् ॥ KRT_8_0087cd
यत्ते विषूचिकाशूलसंन्यासेभ्यः किलेतरे । KRT_8_0088ab
घ्नन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः ॥ KRT_8_0088cd
पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका । KRT_8_0089ab
हन्ति सर्वं तु कायस्थः कृतघ्नः प्राप्तसंभवः ॥ KRT_8_0089cd
गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः । KRT_8_0090ab
वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ KRT_8_0090cd
विषवृक्षे नियोगी च यदेवाश्रित्य वर्धते । KRT_8_0091ab
चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ KRT_8_0091cd
तेन ते क्ष्माभुजा मानक्षतिकार्यनिवारणैः । KRT_8_0092ab
काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ KRT_8_0092cd
कार्यान्निवार्य बहुशः सहेलाद्यान्महत्तमान् । KRT_8_0093ab
भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ KRT_8_0093cd
स कार्यवेषं हास्स्याय सभार्थं चारणोचितम् । KRT_8_0094ab
अकारयद्भूतभिंश्च1 धावनं डीम्ब2योधवत् ॥ KRT_8_0094cd
स प्रांशुर्वेष्टितश्मश्रुरुष्णीषेणोत्फलत्पुनः । KRT_8_0095ab
शूलहस्तः सजानूरुः केषामासीन्न हास्यकृत् ॥ KRT_8_0095cd
स शीर्षदर्शनं साम्यवादवेश्याविटान्वितम् । KRT_8_0096ab
प्रियवेश्यं कंचिदग्रे नृत्तवाद्यमकारयत् ॥ KRT_8_0096cd
बद्ध्वान्यं शकटे नग्रं क्षुरलूनार्धमस्तकम् । KRT_8_0097ab
अकारयत्सटान्यस्तचीनपिष्टच्छटाङ्कितम् ॥ KRT_8_0097cd
ते कुम्भवादनैर्मुण्डमण्डनैश्चाङ्किताभिधाः । KRT_8_0098ab
नियोगिनो भग्नमानाः सर्वतः ख्यातिमाययुः ॥ KRT_8_0098cd
कार्यभ्रष्टा मलविक्लिन्नक्षीणवस्त्रावगुण्ठनाः । KRT_8_0099ab
सर्वार्थिनो व्यभाव्यन्त केप्यटन्तः प्रतिक्षपम् ॥ KRT_8_0099cd
वृथावृद्धाः सुखप्राप्यं पाण्डित्यं भूर्जवत्परे । KRT_8_0100ab
मत्वा बाला इवाचार्यगृहे प्रारेभिरे श्रुतम् ॥ KRT_8_0100cd
केप्युच्चैरट्टभिक्षाकाः सादरं स्तोत्रपाठिनः । KRT_8_0101ab
कृतानुपाठाः स्वापत्यैः प्राह्णे लोकमहासयन् ॥ KRT_8_0101cd
माता स्वसा सुता भार्या स्वापि कैरप्यकार्यता । KRT_8_0102ab
सामन्तसेवनं कार्याप्त्यै सुरतसेवया ॥ KRT_8_0102cd
जातकस्वप्नशकुनसुलक्षणनिरीक्षणम् । KRT_8_0103ab
कारयद्भिः शठैरन्यैर्गणकाः परिखेदिताः ॥ KRT_8_0103cd
पिशाचा इव शुष्कास्या रूक्षश्मश्रुकचाः कृशाः । KRT_8_0104ab
बद्धाः परैर्व्यभाव्यन्त शृङ्खलामुखराङ्घ्रियः ॥ KRT_8_0104cd
नृपेण कार्यिणां दर्पलिङ्गनाशे विपाटिते । KRT_8_0105ab
अक्ष्णोर्ज्ञातिपरिज्ञानक्षमत्वं समजायत ॥ KRT_8_0105cd
भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् । KRT_8_0106ab
ते दुर्गोत्तारिणीविद्याजपं चोदस्रुलोचनाः ॥ KRT_8_0106cd
इत्थं 1दौःस्थ्योदये दीर्घे मज्जन्तो नित्यदुर्जनाः । KRT_8_0107ab
तस्मिन्नाजनि कायस्था व्यलोक्यन्त पदे पदे ॥ KRT_8_0107cd
भिन्नसंधानभूर्यर्थदानभोज्यादिढौकनैः । KRT_8_0108ab
न हि मोहयितुं शक्ताः प्राज्ञं तं तेन्यराजवत् ॥ KRT_8_0108cd
तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् । KRT_8_0109ab
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ KRT_8_0109cd

94.

--1) Emended; A ॰डूतभिश्चधा॰.

--2) Emended; A डोम्भ॰.

[page 173]




भूतेशस्य यथा पुरी हुतवहप्लुष्टा त्वदाज्ञाबलाद्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् । KRT_8_0110ab
त्वं कायस्थकुटुम्बिकॢप्तिसचिवप्राया -1पञ्चानलीलीढामुच्चलदेवनिर्वृतिसुखस्थित्या पुरीं स्वां क्रियाः ॥ KRT_8_0110cd
शिवरात्युत्सवे श्लो1कममुं शिवरथाभिधः । KRT_8_0111ab
विद्वान्पठंस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ KRT_8_0111cd
व्यवहारानभिज्ञोपि कंचित्कालमदीदृशत् । KRT_8_0112ab
शुचित्वादार्यभाजः स क्रामन्कृतयुगस्थितिम् ॥ KRT_8_0112cd
शीघ्रदण्डत्वमुच्चण्डतेजसस्तस्य भूपतेः । KRT_8_0113ab
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्बह्वमन्यत ॥ KRT_8_0113cd
न हि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् । KRT_8_0114ab
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ KRT_8_0114cd
चिरेण दण्डिता ह्येते कुर्युर्दण्डभयाद्ध्रुवम् । KRT_8_0115ab
लब्धान्तराः प्राणहरं कृच्छ्रं किंचित्प्रशासितुः ॥ KRT_8_0115cd
दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रबान्धवाः । KRT_8_0116ab
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ KRT_8_0116cd
कर्णेजपांलोष्टधरप्रमुखांस्तेन दुःखदैः । KRT_8_0117ab
कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिलीकृतः ॥ KRT_8_0117cd
विस्मृतं लब्धराज्यानां पूर्वसंकल्पत्रासनाः । KRT_8_0118ab
प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ KRT_8_0118cd
प्राग्राज्याधिगमात्किंचित्सदसद्यद्व्यचिन्तयत् । KRT_8_0119ab
राज्ये तन्न विसस्मार जातिस्मर इवोच्चलः ॥ KRT_8_0119cd
ददर्श शत्रोरद्रोहान्यान्द्रोग्धॄन्वा पुरानुगान् । KRT_8_0120ab
कर्तव्यानुगुणं तेषां प्रतिपत्तिमदर्शयत् ॥ KRT_8_0120cd
स्मरेन्नोपपतिः पूर्वपतिद्रोहं कुयोषितः । KRT_8_0121ab
पूर्वस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ KRT_8_0121cd
शेषाहिदेहान्मेदिन्या समं प्रज्ञापि राज्ञ्यभूत् । KRT_8_0122ab
तस्मिन्परिणता नूनं कृत्याकृत्यविवेक्तरि ॥ KRT_8_0122cd
तथा ह्येकस्य वणिजो व्यवहर्तुश्च सोभवत् । KRT_8_0123ab
विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ KRT_8_0123cd
सौहृदागूढसद्भावे व्यापदौपयिकं धनी । KRT_8_0124ab
न्यासीचकार दीन्नारलक्षं कोपि वणिग्गृहे ॥ KRT_8_0124cd
तेनोपयुज्यमाना च व्ययेषु वणिजः करात् । KRT_8_0125ab
कियत्यपि गृहीतांभूदात्त1मात्रान्तरान्तरा ॥ KRT_8_0125cd
त्रिंशद्विंशासु1 यातासु समासु न्यासधारिणम् । KRT_8_0126ab
गृहीतशेषं दातुं स धनं प्रार्थयताथ तम् ॥ KRT_8_0126cd
वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः । KRT_8_0127ab
कालापहारमकरोत्तैस्तैः कलुषधीर्मिषैः ॥ KRT_8_0127cd
स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुखैः पयः । KRT_8_0128ab
प्राप्तिर्भूयस्तु नास्त्येव वणिग्न्यस्तस्य वस्तुनः ॥ KRT_8_0128cd
तैलस्निग्धमुखः स्वल्पालापो मृद्वाकृतिर्भवन् । KRT_8_0129ab
न्यासग्रासविवादोग्रो वणिग्व्याघ्राद्विशिष्यते ॥ KRT_8_0129cd
विवादे श्रेष्ठिना शाद्यम् स्मितैः प्राक्सख्यदर्शनैः । KRT_8_0130ab
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ KRT_8_0130cd
निसर्गवञ्चका वेश्याः कायस्थो दिविरो वणिक् । KRT_8_0131ab
गुरूपदेशोपस्कारैर्विशिष्टाः सविषादियोः ॥ KRT_8_0131cd
चन्दनाङ्कालिके श्वेतांशुके धूपाधिवासिनि । KRT_8_0132ab
विश्वस्तः स्यात्किराते1 यो विप्रकृष्टेस्य नापदः ॥ KRT_8_0132cd
ललाटदृक्पुटश्रोत्रद्वन्द्वहृन्न्यस्तचन्दनः । KRT_8_0133ab
षड्बिन्दुर्वृश्चिक इव क्षणात्प्राणान्तकृद्वणिक् ॥ KRT_8_0133cd
पाण्डुश्यामोग्निधूमार्द्रः सूच्यास्यो गननोदरः । KRT_8_0134ab
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ KRT_8_0134cd
सोथ निःशेषितमिषः क्रुद्धो निर्बन्धकारिणः । KRT_8_0135ab
गणनापत्रिकां तस्य सभ्रूभङ्गमदर्शयत् ॥ KRT_8_0135cd
यदादौ श्रेयस इति न्यस्तमश्रेयते पदम् । KRT_8_0136ab
आतरेष्वत्यये सेतोर्गृहीता षट्शती त्वया ॥ KRT_8_0136cd
छिन्नोपानत्कषाबन्धे शतं चर्मकृतेर्पितम् । KRT_8_0137ab
विपादिकाकृते दास्या नीतं पञ्चाशतो घृतम् ॥ KRT_8_0137cd

110.

--1) A1 indicates here a lacuna of one of akshara.

111.

--1) Emended with C; A लोक॰.

125.

--1) Emended; A ॰भूदत्तमा॰. Cf. viii. 154.

126.

--1) Emended; A विंशद्विंशद्यातास्. Cf. v.210.

132.

--1) Emended; A किराटे.

[page 174]




स्फोटने भाण्डभारस्य क्रन्दन्त्याः कृपयार्पितम् । KRT_8_0138ab
कुलाल्या बहुशः पश्य भूर्जे लग्नं शतत्रयम् ॥ KRT_8_0138cd
विशुभ्योस्य विडालस्य क्रीताः पोषाय मूषिकाः । KRT_8_0139ab
त्वया शतेन वात्सल्याद्घट्टान्मत्स्यरसस्तथा ॥ KRT_8_0139cd
चरणोद्वर्तनं सर्पिः शालिचूर्णं च सप्तभिः । KRT_8_0140ab
क्रीतं शतैः श्राद्धपक्षस्नाने च घृतमाक्षिकम् ॥ KRT_8_0140cd
नीतं क्षौद्रार्द्रकं कासायासायादर्भकेण ते । KRT_8_0141ab
सोव्यक्तजिह्वः किं वेत्ति वक्तुं लग्नं शतं ततः ॥ KRT_8_0141cd
वृषणोत्पाटको भिक्षाचरस्ते हठयाचकः । KRT_8_0142ab
यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम् ॥ KRT_8_0142cd
आनीते भट्टपादानां मध्यं सर्वव्ययोपरि । KRT_8_0143ab
शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ KRT_8_0143cd
इत्याद्यचिन्त्यतायुक्तान्परिहार्यव्ययानसौ । KRT_8_0144ab
तस्यैकीकृत्य गणनां लाभेपि शनकैर्व्यधात् ॥ KRT_8_0144cd
वर्षमासग्रहतिथिप्रत्यावृत्तिः पुनः पुनः । KRT_8_0145ab
संसास्येव तस्यान्तं न ययौ नर्तिताङ्गुलेः ॥ KRT_8_0145cd
स मूलग्रहणं पिण्डीकृत्याथ सकलान्तरम् । KRT_8_0146ab
प्रसारितोष्ठस्तन्नेत्रे मीलयन्नभ्यधान्मृदु ॥ KRT_8_0146cd
शल्यमुद्धर निक्षेपं नयोज्जासधनं त्विदम् । KRT_8_0147ab
विश्रम्भ1दत्तं निर्दम्भं दीयतां सकलान्तरम् ॥ KRT_8_0147cd
तत्स धर्म्यं वचो जानन्क्षणमुच्छ्वसितोभवत् । KRT_8_0148ab
क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ KRT_8_0148cd
युक्तापह्नुतसर्वस्वं क्रौर्याना1र्यमथार्थकः । KRT_8_0149ab
विवादे नाशकज्जेतुं नापि स्थेया विचारकाः ॥ KRT_8_0149cd
स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः । KRT_8_0150ab
तदित्थमिति निश्चित्य वणिजं तमभाषत ॥ KRT_8_0150cd
अद्यापि न्यासदीन्नाराः सन्ति चेत्तत्प्रदर्श्यताम् । KRT_8_0151ab
अंशः कियानपि ततस्ततो वच्मि यथोचितम् ॥ KRT_8_0151cd
तथा कृते तेन वीक्ष्य दीन्नारान्मन्त्रिणोब्रवीत् । KRT_8_0152ab
राजभिर्भाविनां राज्ञां नाम्ना टङ्कः क्रियेत किम् ॥ KRT_8_0152cd
न चेत्कलशभूपालकाले न्यासीकृतेष्वमी । KRT_8_0153ab
दीन्नारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ KRT_8_0153cd
निक्षिप्तेनैष लक्षेण वणिक्तस्माद्व्यवाहरत् । KRT_8_0154ab
वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ KRT_8_0154cd
तस्माद्यदा यदेतेन गृहीतं दीयतां ततः । KRT_8_0155ab
तदा प्रभृत्यद्ययावल्लाभोस्मै वणिजोर्थिनः ॥ KRT_8_0155cd
न्यसनानेहसश्चैष प्रभृत्यस्मै प्रयच्छतु । KRT_8_0156ab
लक्षादखण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ KRT_8_0156cd
अवधारयितुं शक्यं मादृशैः सघृणैरियत् । KRT_8_0157ab
श्रीयशस्करवद्रौक्ष्यमीदृक्षेषु तु युज्यते ॥ KRT_8_0157cd
विवादे संदिहानस्य युक्तं क्षान्त्यानुशासनम् । KRT_8_0158ab
भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ KRT_8_0158cd
अनिर्हार्येषु शल्येषु महामर्मगतेष्विव । KRT_8_0159ab
सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ KRT_8_0159cd
पप्रथे पार्थिवस्येत्थं निश्चोद्यं तस्य पालनम् । KRT_8_0160ab
प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ KRT_8_0160cd
सख्यं कारणनिर्व्यपेक्षमिनताहंकारहीना सतीभावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् । KRT_8_0161ab
विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ KRT_8_0161cd
स तादृशोपि राजेन्द्रचन्द्रमाः सन्कि1लाभवत् । KRT_8_0162ab
मात्सर्याविष्टवैवश्याद्दोषोल्कावर्षभीषणः ॥ KRT_8_0162cd
औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः । KRT_8_0163ab
बभूव संख्यातीतानां मानप्राणहरो नृणाम् ॥ KRT_8_0163cd
मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषाहतैः । KRT_8_0164ab
लाघवं प्रत्युपालम्भैः पार्थिवोप्यनुभावितः ॥ KRT_8_0164cd
प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना । KRT_8_0165ab
तेजो विस्फूर्जितं ज्ञेयं न हि नाम शरीरिणाम् ॥ KRT_8_0165cd

147.

--1) A विस्रम्भ॰.

149.

--1) Emended with C; A क्रौर्यानर्य॰.

162.

--1) Emended; A स किला॰

[page 175]




विविधे भूतसर्गेस्मिन्न च कश्चित्स विद्यते । KRT_8_0166ab
वपुर्वंशचरित्रादिं यस्य दोषैर्न दूषितम् ॥ KRT_8_0166cd
जातिः पङ्करुहाद्वपुः कपिलताक्रान्तं शिरः खण्डनप्रभ्रश्यच्छुविशीलतादिविगुणाचारप्रदुष्टं यशः । KRT_8_0167ab
विश्वस्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥ KRT_8_0167cd
अविचार्येति भूपालः स चकारानुजीविनाम् । KRT_8_0168ab
वंशचारित्रदेहादिदोषोद्घोषणमन्वहम् ॥ KRT_8_0168cd
अन्योन्यद्वेषमुत्पाद्य संख्यातीता महाभटाः । KRT_8_0169ab
युद्धश्रद्धालुना तेन द्वन्द्वयुद्धेषु घातिताः ॥ KRT_8_0169cd
मासार्धदिनमाहेन्द्रमहाद्यवसरेषु सः । KRT_8_0170ab
निनाय योधान्संनद्धानन्योन्यप्रधनैर्धनम् ॥ KRT_8_0170cd
स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने । KRT_8_0171ab
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ KRT_8_0171cd
नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः । KRT_8_0172ab
बान्धवैर्निन्यरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ KRT_8_0172cd
स्निग्धश्यामकचांश्चारुश्मश्रूनाकल्पशोभिनः । KRT_8_0173ab
हतान्वीक्ष्य भटान्राजा मुमुदे न तु विव्यथे ॥ KRT_8_0173cd
नार्यो राजगृहं गत्वा प्रत्यायातेषु भर्तृषु । KRT_8_0174ab
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ KRT_8_0174cd
भवेत्तद्यदहं कुर्यामित्यहंक्रियया वदन् । KRT_8_0175ab
साच्व्यमव्याहतवाग्यैस्तैर्भृत्यैरजिग्रहत् ॥ KRT_8_0175cd
प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः । KRT_8_0176ab
हृताधिकारान्विदधे बहुशश्च विमानितान् ॥ KRT_8_0176cd
दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सक्रुधि । KRT_8_0177ab
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ KRT_8_0177cd
तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः । KRT_8_0178ab
हृताधिकारो विदधे विभूतिं वीक्ष्य भूयसीम् ॥ KRT_8_0178cd
माणिक्यसैन्यपतिना द्वारेकस्मान्निवारिते । KRT_8_0179ab
खिन्नेन विजयक्षेत्रे चक्रे व्रतपरिग्रहः ॥ KRT_8_0179cd
कम्पनाद्यधिकारस्थाः प्रवीरास्तिलकादयः । KRT_8_0180ab
काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ KRT_8_0180cd
भोगसेनो निरनुगः क्षीणवासा भवन्कृतः । KRT_8_0181ab
तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ KRT_8_0181cd
यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः । KRT_8_0182ab
क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ KRT_8_0182cd
येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः । KRT_8_0183ab
तान्रड्डुच्छुड्डव्याड्डान्स मन्त्रिणः समपादयत् ॥ KRT_8_0183cd
पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ । KRT_8_0184ab
तिलको जनकश्चास्ताम1मात्यश्रेणिमध्यगौ ॥ KRT_8_0184cd
यमैलाभयबाणादिमुख्या द्वारादिनायकाः । KRT_8_0185ab
कस्तान्समर्थः संख्यातुं तडित्तरलसंपदः ॥ KRT_8_0185cd
द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे । KRT_8_0186ab
प्रापुर्बालद्रुमान्तःस्थजीर्णानोक1हविभ्रमम् ॥ KRT_8_0186cd
कन्दर्पः क्ष्माभुजा दूतैः समानीतोपि नाददे । KRT_8_0187ab
तस्यासहनतां वीक्ष्य प्रार्थितोप्यधिकारिताम् ॥ KRT_8_0187cd
आस्थानाचारसंलापव्यवहारादि मण्डले । KRT_8_0188ab
नवमेवाभवत्सर्वं तस्मिन्नभिनवे नृपे ॥ KRT_8_0188cd
लक्ष्मीः कार्मणचूर्णाङ्का वेश्येव वशवर्तिनः । KRT_8_0189ab
धूरानपि विधायेयं करोत्युन्मार्गवर्तिनः ॥ KRT_8_0189cd
सपिण्डानामपि व्यक्तशूलवीक्षणतत्परा । KRT_8_0190ab
प्रेततेव नरेन्द्रश्रीर्जातिस्नेहापकारिणी ॥ KRT_8_0190cd
समस्तसंपत्पूर्णोपि यस्मात्सुस्सलभूपतिः । KRT_8_0191ab
दध्यौ भ्रातुरवस्कन्दं राज्यापहरणोद्यतः ॥ KRT_8_0191cd
अकस्मादशृणोच्छ्येनमिव तं श्रीघ्रपातिनम् । KRT_8_0192ab
स्थानं वराजवार्ताख्यमुल्लङ्घ्यायातमग्रजः ॥ KRT_8_0192cd
क्षिप्रकारी विनिर्गत्य तमप्राप्तपदं ततः । KRT_8_0193ab
निपत्य सैन्यैर्बहुलैः सोपकारमकारयत् ॥ KRT_8_0193cd
विद्रुतस्यास्पदे तस्य नानोपकरणैश्च्युतैः । KRT_8_0194ab
ताम्बूलवलीकू1टैश्च सामग्री समभाव्यत ॥ KRT_8_0194cd

184.

--1) Emended with C; A ॰श्चास्तम॰.

186.

--1) Emended; A ॰जीर्णानौकह॰.

194.

--1) Emended; A ताम्बूलवेलाकू॰.

[page 176]




कृतकार्यपरावृत्त्यासावरूढोपि पार्थिवः । KRT_8_0195ab
प्रत्यावृत्तं तमशृणोदन्येद्युः क्रूरविक्रमम् ॥ KRT_8_0195cd
गग्गचन्द्रस्तदादेशाद्गत्वा बहलसैनिकः । KRT_8_0196ab
चक्रे सुस्सलभूपालबलनिर्दलनं ततः ॥ KRT_8_0196cd
असंख्यैः सौस्सलैर्योधैराहवायासनिःसहैः । KRT_8_0197ab
क्लान्तिर्विमानोद्यानेषु द्युनारीणामच्युत ॥ KRT_8_0197cd
भर्तृप्रसादस्यानृण्यं प्राणैर्युधि समर्पितैः । KRT_8_0198ab
राजपुत्रौ गतौ तत्र सहदेवयुधिष्ठिरौ ॥ KRT_8_0198cd
वराश्वान्सुस्सलानीकाद्ग1ग्गस्तान्प्राप विद्रुतान् । KRT_8_0199ab
चक्रे भूरितुरंगस्य यैर्भूपस्यापि कौतुकम् ॥ KRT_8_0199cd
निविष्टकटकं तं स श्रुत्वा सेल्यपुराध्वना । KRT_8_0200ab
क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ KRT_8_0200cd
अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना । KRT_8_0201ab
प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ KRT_8_0201cd
दत्तमार्गं तस्य राजा डामरं लोष्टकाभिधम् । KRT_8_0202ab
स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ KRT_8_0202cd
तस्मिन्दूरं गते वैरकलुषोपि स नाददे । KRT_8_0203ab
भ्रातृस्नेहेन संरम्भं ग्रहीतुं लोहरं गिरिम् ॥ KRT_8_0203cd
कल्हः कालिञ्ज1राधीशो दौहित्रीं पुत्रवद्गृहे । KRT_8_0204ab
यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ KRT_8_0204cd
राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः । KRT_8_0205ab
उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ KRT_8_0205cd
तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे । KRT_8_0206ab
शक्तिरासीद्विरुद्धानामपि वाधाय वैरिणाम् ॥ KRT_8_0206cd
धीरः सुस्सलदेवोपि मार्गैर्निर्गत्य दुर्गमैः । KRT_8_0207ab
आसदद्भूरिभिर्मासैः स्वोर्वीं दुर्गिरिवर्त्मना ॥ KRT_8_0207cd
प्रशान्ते व्यसने तस्मिन्धीरस्योच्चलभूपतेः । KRT_8_0208ab
अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ KRT_8_0208cd
भीमादेवः समादाय भोजं कलशदेवजम् । KRT_8_0209ab
साहायकार्थमानिन्ये दरद्राजं जगद्दलम् ॥ KRT_8_0209cd
सल्हो हर्षमहीभर्तुरवरुद्धात्मजोभवत् । KRT_8_0210ab
भ्राता दर्शनपालस्य सञ्जपालस्तु तद्बलम् ॥ KRT_8_0210cd
नीतिज्ञेन ततो राज्ञा साम्नैव दरदीश्वरः । KRT_8_0211ab
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्य निजां भुवम् ॥ KRT_8_0211cd
सह्लस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् । KRT_8_0212ab
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ KRT_8_0212cd
गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः । KRT_8_0213ab
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥ KRT_8_0213cd
देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः । KRT_8_0214ab
डामरानाश्रिते राज्ञि निर्याते व्यद्र1वद्द्दिशः ॥ KRT_8_0214cd
विचारपरिहारेण धावन्तः सर्वतो जडाः । KRT_8_0215ab
तिर्यञ्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ KRT_8_0215cd
मल्लस्य रामला1ख्योहं सूनुरासं दिगन्तरे । KRT_8_0216ab
अट्टसूदः कश्चिदेवं चक्रिकाचतुरो वदन् ॥ KRT_8_0216cd
निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियैः । KRT_8_0217ab
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ युग्मम्॥ KRT_8_0217cd
ग्रीष्मे प्रविष्टः कश्मीरानेकाकी घर्मपीडितः । KRT_8_0218ab
व्यधीयत छिन्ननासः परिज्ञाय नृपानुगैः ॥ KRT_8_0218cd
कटके पर्यटन्राज्ञः स एव ददृशे पुनः । KRT_8_0219ab
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ KRT_8_0219cd
मिथैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः । KRT_8_0220ab
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ KRT_8_0220cd
शान्तापि ज्वलति क्वापि क्वचिद्दीप्तापि शाम्यति । KRT_8_0221ab
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसंनिभा ॥ KRT_8_0221cd
पलायनैर्वापयाति निश्चला भवितव्यता । KRT_8_0222ab
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ KRT_8_0222cd

199.

--1) Emended; A ॰नीकान्गग्ग॰.

204.

--1) Emended; A कालिन्दर॰. Cf. vii.1256. viii. 618.

214.

--1) Emended with C; A वद्रव॰.

216.

--1) Thus corr. by A3 from A1 मल्लरामाला॰.

217.

--1) A1 writes here 2 instead of युग्मम्.

[page 177]




नाच्छिन्नवह्निविषशस्त्रशरप्रयोगैर्न श्वभ्रपातरभसेन न चाभिचारैः । KRT_8_0223ab
शक्या निहन्तुमसवो विधुरैरकाण्डे भोक्तव्यभोगनियतोच्छ्वसितस्य जन्तोः ॥ KRT_8_0223cd
भिक्षाचरः समादिष्टवधो जयमतीगृहात् । KRT_8_0224ab
नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्जया ॥ KRT_8_0224cd
ग्राव्णि प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः । KRT_8_0225ab
क्षिप्तस्तटं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ KRT_8_0225cd
द्विजेनैकेन संप्राप्तश्चिरादुद्गतचेतनः । KRT_8_0226ab
आसमत्यभिधानाया ज्ञातिर्दिद्देति गौरवात् ॥ KRT_8_0226cd
शाहिपुत्रीभिरुक्ता या दत्तश्चतुरया तया । KRT_8_0227ab
नीतो देशान्तरं गूढं बवृधे दक्षिणापथे ॥ तिलकम्1 KRT_8_0227cd
स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा । KRT_8_0228ab
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यतः ॥ KRT_8_0228cd
अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् । KRT_8_0229ab
रक्षितो जयमन्त्यैव स किलेत्यपरेब्रुवन् ॥ KRT_8_0229cd
देशान्तरागताद्दूतात्तां वार्तामु1पलब्धवान् । KRT_8_0230ab
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ KRT_8_0230cd
बहिरप्रतिभिन्दंस्तत्स धीरो मार्गवर्तिभिः । KRT_8_0231ab
चक्रे तदप्रवेशाय संबन्धं पार्थिवैः समम् ॥ KRT_8_0231cd
ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयन्रिपोः । KRT_8_0232ab
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ KRT_8_0232cd
भिक्षाचरे हते बालं कंचिदादाय तत्समम् । KRT_8_0233ab
तन्नाम्ना ख्यातिमनयद्दिद्दैवेत्यपरेब्रुवन् ॥ KRT_8_0233cd
तथ्येन सोस्तु मिथ्या वा प्रतिष्ठां तां तथाप्तवान् । KRT_8_0234ab
यथा लघुत्वमानेतुं न दैवेनाप्यशक्यत1 KRT_8_0234cd
स्वप्नेन्द्रजालमायानामपि निर्विषया इमाः । KRT_8_0235ab
कर्मवैचित्र्यजनिताः काश्चिदाश्चर्यविप्रुषः ॥ KRT_8_0235cd
स राजवीजी नाशाय विशां गूढं व्यवर्धत । KRT_8_0236ab
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ KRT_8_0236cd
रोहत्यन्तिकसीमनि प्रतिविषावीरु1द्विषक्ष्मारुहः काले प्रावृडुपद्रुताच्छसलिले मूर्च्छत्यगस्त्योदयः । KRT_8_0237ab
सर्गच्छेदविधिक्षमानुदयतो दृष्ट्वा किलोपद्रवान्संधत्ते प्रतिकारकल्पनमहो दीर्घावलोकी विधिः ॥ KRT_8_0237cd
अजायत विपन्मज्जज्जगदुद्धरणक्षमः । KRT_8_0238ab
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः सुतः ॥ KRT_8_0238cd
तज्जन्मकालादारभ्य सर्वतो जयमर्जयन् । KRT_8_0239ab
नामान्वर्थं नृपस्तस्य जयसिंह इति व्यधात् ॥ KRT_8_0239cd
शास्तुः सर्वार्थसिद्धाख्या यथा सर्वार्थसिद्धिभिः । KRT_8_0240ab
तथा तस्याभिधान्वर्था नात्यजद्रूढिशब्दताम् ॥ KRT_8_0240cd
मुद्रां स कुङ्कुमस्याङ्घेस्तदीयस्याभ्युपागताम् । KRT_8_0241ab
विलोक्योच्चलदेवोभूद्विमन्युर्भ्रातरं प्रति ॥ KRT_8_0241cd
बालस्यैवाङ्घ्रिमुद्रास्य वैरं पितृपितृव्ययोः । KRT_8_0242ab
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम् ॥ KRT_8_0242cd
स स्वर्गिणः पितुर्नाम्ना ततः सुकृतसिद्धये । KRT_8_0243ab
चकारोच्चलभूपालः पैतृके स्थण्डिले मठम् ॥ KRT_8_0243cd
गोभूमिहेमवस्त्रान्नदाता तस्मिन्महोत्सवे । KRT_8_0244ab
आश्चर्यकल्पवृक्षत्वं त्यागी सर्वार्थनामगात् ॥ KRT_8_0244cd
प्रसादैः प्रहितैस्तेन महार्घैः श्लाघ्यसंपदा । KRT_8_0245ab
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ KRT_8_0245cd
भर्तृप्रसादाधिगतां श्रियं नेतुं परार्ध्यताम् । KRT_8_0246ab
विहारं समठं देवी जयमत्यपि निर्ममे ॥ KRT_8_0246cd
केषांचित्पूर्वपुण्यानां विरहेण महीभुजः । KRT_8_0247ab
हताभीष्टाभिधानोभून्मठो1 नवमठाख्यया ॥ KRT_8_0247cd
सुल्लां स्वसारमुद्दिश्य परस्मिन्स्थण्डिले पितुः । KRT_8_0248ab
विहारोपि कृतस्तेन नोचितां ख्यातिमाययौ ॥ KRT_8_0248cd
मृत्योर्मस्तकपातित्वं तस्याकलयतः किल । KRT_8_0249ab
न निष्ठां स्वप्रतिष्ठासु संप्रपेदे व्ययस्थितिः ॥ KRT_8_0249cd

227.

--1) A1 writes here 3 instead of तिलकम्.

230.

--1) Emended; A ॰लात्तावत्तमुप॰.

234.

--1) Emended with C; A ॰शङ्कत.

237.

--1) A3 gloss प्रतिविषा वीरुत् यस्या उपविषेत्यादिनामान्तरं कोशे यथा विश्वाविषा प्रतिविषातिविषोपविषारुणा शृङ्गीमहौषधं चेति( ii. 4.99-100).

247.

--1) Emended; A ॰मठे.

[page 178]




कदाचित्क्रमराज्यस्थो द्रष्टुमग्निं स्वयंभुवम् । KRT_8_0250ab
ययौ वर्हठचक्राख्यं गिरिग्रामं स भूपतिः ॥ KRT_8_0250cd
तं कम्बलेश्वरग्रामाध्वना यान्तमवेष्टयन् । KRT_8_0251ab
अकस्मादेत्य तत्रत्याश्चौराश्चण्डालशस्त्रिणः ॥ KRT_8_0251cd
प्रजिहीर्षुभिरप्याशु तस्मिन्नत्यल्पसैनिके । KRT_8_0252ab
न तैः प्रहृतमुत्ते1जोवष्ठम्भस्तम्मितायुधैः ॥ KRT_8_0252cd
अथ हारितमार्गः स गहने गिरिगह्वरे । KRT_8_0253ab
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ KRT_8_0253cd
उच्चचार क्षणे तस्मिन्स्कन्दावारेषु दुःसहा । KRT_8_0254ab
नास्ति राजेति दुर्वार्ता सर्वतः क्षोभकारिणी ॥ KRT_8_0254cd
कटकान्निःसृतात्यल्पा वात्येव गिरिगह्वरात् । KRT_8_0255ab
सा दुष्प्रवृत्तिर्दीर्घत्वं पुरेरण्य इवासदत् ॥ KRT_8_0255cd
नगराधिकृतास्तस्मिन्क्षणे छुड्डाभिधोभवत् । KRT_8_0256ab
शस्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ KRT_8_0256cd
कृत्वा पुरक्षोभशान्तिं शस्त्रुकः स नृपास्पदे । KRT_8_0257ab
प्रविश्य भ्रातृभिः सार्धं कार्यशेषमचिन्तयत् ॥ KRT_8_0257cd
नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवीत् । KRT_8_0258ab
सुड्डाभिधोपि कायस्थः कुटुम्बिकुटिलाशयः ॥ KRT_8_0258cd
यूयमेव सुहृद्बन्धुभृत्यबाहुल्यदुर्जयाः । KRT_8_0259ab
राज्यं कुरुत संप्राप्य राष्ट्रमेवमकण्टकम् ॥ KRT_8_0259cd
तेनैवमुक्तास्ते पापा जातराज्यस्पृहास्ततः । KRT_8_0260ab
सिंहासनाधिरोफाय क्षिप्रमासन्समुद्यताः ॥ KRT_8_0260cd
श्रीयशस्करदेवस्य वंश्या एत इति श्रुतिः । KRT_8_0261ab
तदन्वयेभूत्सर्वेषां राज्यौत्सुक्यप्रदायिनी ॥ KRT_8_0261cd
अत एवाभजत्क्रोधं तेषां कुसुहृदुक्तिभिः । KRT_8_0262ab
सा वासनान्तःसंलीना सदाचारानपेक्षिणाम् ॥ KRT_8_0262cd
कथं न प्रतिभात्वेषा सड्डस्यापि कुपद्धतिः । KRT_8_0263ab
भारिकस्य कुले जातो लवटस्य हि सोधमः ॥ KRT_8_0263cd
क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः । KRT_8_0264ab
क्रूराशयत्वमभजन्महासाहसिकोचितम् ॥ KRT_8_0264cd
चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात् । KRT_8_0265ab
संभावितोपि गाम्भीर्यान्नाज्ञायि स किलेङ्गितैः ॥ KRT_8_0265cd
सासिधेनुर्निरुष्णीषो विहसन्नखिलान्स्मयात् । KRT_8_0266ab
राजपुत्र इवात्यल्पं स त्रैलोक्यममन्यत ॥ KRT_8_0266cd
तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्गुलीः । KRT_8_0267ab
या राज्यहेतुः क्रूरेण फलेन समभाव्यत ॥ KRT_8_0267cd
तद्गिरा निजसंकल्पादपि ते राज्यलालसाः । KRT_8_0268ab
नृपं जीवन्तमाकर्ण्य ततोभूवन्हतस्पृहाः ॥ KRT_8_0268cd
न स्फुरन्न च संमीलन्न वा सुप्त इवानिशम् । KRT_8_0269ab
तेषां चेतसि संकल्पस्तदा प्रभृति सोभवत् ॥ KRT_8_0269cd
असुस्थिरादरेणाथ शनकैः पृथिवीभुजा । KRT_8_0270ab
निन्यरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ KRT_8_0270cd
प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा । KRT_8_0271ab
तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ KRT_8_0271cd
ते राज्ये हर्षभूभर्तुः पितरि प्रमथं गते । KRT_8_0272ab
मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ KRT_8_0272cd
तैर्मय्यामत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः । KRT_8_0273ab
सुहृद्घतोथ विश्वस्तो जननोजारशङ्कया ॥ KRT_8_0273cd
असतीमपि किं नैते न्यगृह्णन्निति भूपतिः । KRT_8_0274ab
विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ KRT_8_0274cd
तां कथां स नृपस्तेषां परोक्षमुदघोषयत् । KRT_8_0275ab
क्व पुत्रा1श्छिन्ननासाया वदन्नित्यन्वियेष च ॥ KRT_8_0275cd
बृहद्गञ्जादिगञ्जेशं कृत्वा कार्यान्न्यवारयत् । KRT_8_0276ab
स कायस्थकृतान्तत्वं भजन्सड्डमपि प्रभुः ॥ KRT_8_0276cd
पीडितस्तेन रौद्रेण निजोथ गणनापतिः । KRT_8_0277ab
कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ KRT_8_0277cd
प्रवेशभागिकपदे हृते राज्ञा रुषा ततः । KRT_8_0278ab
स क्रूरो रड्डच्छुड्डदीन्प्रैरयत्पूर्वचिन्तिते ॥ KRT_8_0278cd
जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः । KRT_8_0279ab
समगंसत दुष्प्रज्ञैरथ हंसरथादिभिः ॥ KRT_8_0279cd

252.

--1) Doubtful emendation; A ॰मुद्रोजोवष्टम्भ॰.

275.

--1) Emended; A पुत्रायाच्छिन्न॰.

[page 179]




प्रजिहीर्षुभिरुर्वीशं पीतकोशैः समेत्य तैः । KRT_8_0280ab
चतुष्पञ्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ KRT_8_0280cd
बहुभिर्बहुधा भिन्नैर्बहुकालं विचिन्तितः । KRT_8_0281ab
न भेदमगमन्मन्त्रः स चित्रं लोकदुष्कृतैः ॥ KRT_8_0281cd
तवैतां कुरुते शश्वन्नृपो मर्मस्पृशं कथाम् । KRT_8_0282ab
इति प्रत्येकमुक्त्वा ते विरागं पार्थिवेभजन् ॥ KRT_8_0282cd
तैरुरःपार्श्वपृष्ठादि गूढैर्वर्मभिरायसैः । KRT_8_0283ab
प्रच्छाद्य पार्थिवो1जस्रमनुसस्रे जिघांसुभिः ॥ KRT_8_0283cd
असहो विरहं सोढुं यां प्रसादयितुं न काम् । KRT_8_0284ab
राजापि संदधे चेष्टां प्राक्प्राकृतभुजंगवत् ॥ KRT_8_0284cd
स्वभाववैपरीत्येन नाशचिह्नेन स स्थिराम् । KRT_8_0285ab
जयमत्या स1हाप्रीतिं तदादाद्वत्सरद्वयम् ॥ KRT_8_0285cd
रक्षां भिक्षाचरस्याहुर्निमित्तं तत्र केचन । KRT_8_0286ab
केचित्तु विद्युत्1सदृशीं प्रेम्णां तरलवृत्तिताम् ॥ KRT_8_0286cd
अथ वर्तुलभूभर्तुरात्मजा विज्जलाभिधा । KRT_8_0287ab
कृतपाणिग्रहस्यागाद्बाल्लभ्यं वसुधाभुजः ॥ KRT_8_0287cd
संग्रामपाले नृपतौ तस्मिन्नवसरे मृते । KRT_8_0288ab
तत्सूनुः सोमपालाख्यः पित्र्यं राज्यं समादधे ॥ KRT_8_0288cd
राज्यार्हमग्रजं बद्ध्वा सोभ्यषिच्यत चाक्रिकैः । KRT_8_0289ab
इति कोपाश्नरेन्द्रोभूत्क्रुध्यन्राजपुरीं प्रति ॥ KRT_8_0289cd
लक्ष्मीस्थैर्यप्रतिभुवः पुत्र्याः पाणिमजिग्रहत् । KRT_8_0290ab
.............................................॰1 KRT_8_0290cd
अर्थिचिन्तामणेस्तस्य प्रीणतो निखिलाः प्रजाः । KRT_8_0291ab
नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ KRT_8_0291cd
याते जामातरि क्ष्माभृच्चक्रे निखिलतन्त्रिणः । KRT_8_0292ab
निर्वृत्ती1न्किमपि क्रुध्यन्दुध्रु2क्षूंस्तु व्यसर्जयत् ॥ KRT_8_0292cd
भोगसेनोपि भूपेन काले तस्मिन्समन्युना । KRT_8_0293ab
निवारितो द्वारकार्यात्सवैरः समपद्यत ॥ KRT_8_0293cd
विक्रान्तः स हि कार्यस्थो निर्जिताखिलडामरः । KRT_8_0294ab
सुस्सलक्ष्मापतिं जेतुं प्रतस्थे लोहरं पुरा ॥ KRT_8_0294cd
वात्सल्यमिश्र1वैरेण वारितोथ महीभुजा । KRT_8_0295ab
तत्परीवादमकरोच्चुक्रोधावेत्य तच्च सः ॥ KRT_8_0295cd
प्रवेशयन्रड्डच्छुड्डमुखान्स समयान्तरम् । KRT_8_0296ab
तमादिसुहृदं वीरं तदा राज्ञा विमानितम् ॥ KRT_8_0296cd
विमानिता विशालेच्छाः संहता हतवृत्तयः । KRT_8_0297ab
न ते वहिष्कृतास्तेन यमराष्ट्रं जिगीषता ॥ KRT_8_0297cd
तान्भोगसेनविन्यस्तसद्भावान्कुटिलाशयः । KRT_8_0298ab
सड्डो निनिन्द वीरत्वात्तं जानन्सरलान्तरम् ॥ KRT_8_0298cd
ऊचे चाद्यैव हित्वापि प्राणान्व्यापाद्यतां नृपः । KRT_8_0299ab
भोगसेनोन्यथा भेदं कुर्यादगहनाशयः ॥ KRT_8_0299cd
अन्यथाभून्न सड्डोक्तं भोगसेनो यदब्रवीत् । KRT_8_0300ab
किंचिद्रहोस्मि वक्तेति नृपतिं भेदलालसः ॥ KRT_8_0300cd
स तु किं वक्षि न द्वारं तव दद्यामिति ब्रुवन् । KRT_8_0301ab
दुध्रुक्षु1पक्षप्रणयं निन्ये तमवमानयन् ॥ KRT_8_0301cd
प्रबोधाधायिनो द्वेष्टि नियतिप्रणयीभवन् । KRT_8_0302ab
तपात्ययाहनिद्रान्त इव जन्तुर्गतस्मृतिः ॥ KRT_8_0302cd
तन्त्रिणो यामिका भूत्वा स्वस्मिन्वारे ततोविशन् । KRT_8_0303ab
ते राजधानीं संनद्धैः स्वसैन्यैः सह संहताः ॥ KRT_8_0303cd
यामिन्यां यं वयं हन्मस्तं हतेत्यभिधाय च । KRT_8_0304ab
प्रावेशयन्न्यस्तचिह्नांश्चण्डालान्मण्डपान्तरम् ॥ KRT_8_0304cd
भुक्तोत्तरं स्थिते राजि ते बाह्ये मण्डपे स्थिताः । KRT_8_0305ab
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ KRT_8_0305cd
राजा च विज्जलावेश्म यियासुर्मण्डपान्तरात् । KRT_8_0306ab
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ KRT_8_0306cd
मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः । KRT_8_0307ab
तत्त्यक्तं मण्डपं सड्डो रुद्ध्वान्यानरुणज्जनान् ॥ KRT_8_0307cd
अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते । KRT_8_0308ab
जिघांसवः समुत्थाय नृपतिं पर्यवाaरयन् ॥ KRT_8_0308cd

283.

--1) Emended with C; A पार्थिवे.

285.

--1) Emended; A महा॰.

286.

--1) Emended with C; A विद्वत्स॰.

290.

--1) A omits here two without indicating a lacuna. C adds here: तं प्रेष्ठं सर्व्वलोकानां श्रेष्ठं सर्व्वक्षमाभुजां.

292.

--1) Emended with C; A निर्वृतीड्किमपि.

--2) Emended; A ॰दुदुक्षूंस्तु.

295.

--1) Emended with C; A ॰मिश्रं वै॰.

309.

--1) A दुद्रुक्षु॰

[page 180]




विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा । KRT_8_0309ab
तं द्विजो दिन्नजस्तेज1ः शस्त्र्या कृष्टकचोभिनत् ॥ KRT_8_0309cd
ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः । KRT_8_0310ab
बह्ण्यः सुमेरुशृङ्गाणि महोरम्य इवाविशन् ॥ KRT_8_0310cd
स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् । KRT_8_0311ab
क्रीडाशस्त्र्याः कषां रुद्धमुष्टिं दन्तैर्व्यपाटयत् ॥ KRT_8_0311cd
सुजनाकरनामा हि भृत्यः कट्टारकं वहन् । KRT_8_0312ab
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ KRT_8_0312cd
अतो बालोचितां लघ्वीं क्षुरिकां स चकर्ष ताम् । KRT_8_0313ab
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ KRT_8_0313cd
निर्यातान्त्रः शत्रुभिस्त्यक्तकेशो बबन्ध तम् । KRT_8_0314ab
धम्मिल्लमथ तां शस्त्रीं जानुद्वन्द्वान्तरर्पयन् ॥ KRT_8_0314cd
नदित्वा प्रहरंस्तेजं तादृग्वीर्योपि सोभवत् । KRT_8_0315ab
येन क्षितौ निपतितः सर्वमर्मस्विवाहनः ॥ KRT_8_0315cd
अभिनच्च ततो रड्डं प्रहरन्तं च पृष्ठतः । KRT_8_0316ab
नदन्सिंह इव व्यड्डं परिवृत्य व्यदारयत् ॥ KRT_8_0316cd
अन्यं च शस्त्रिणं कंचित्सवर्माणमपातयत् । KRT_8_0317ab
विवेष्टमानो यः प्राणैरचिरेण व्ययुज्यत ॥ KRT_8_0317cd
लब्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः । KRT_8_0318ab
रक्षिभिर्भूमिपालोयमित्यबुद्ध्वा कवाटितः ॥ KRT_8_0318cd
द्वारमन्यत्प्रसर्पन्स क्व प्रयासीति जल्पता । KRT_8_0319ab
छुड्डेन रुद्धमार्गेण खड्गपातैरहन्यत ॥ KRT_8_0319cd
भोगसेनं ततोपश्यद्द्वारस्यान्ते समुत्थितम् । KRT_8_0320ab
दारुतूलिकया भित्तिमालिखन्तं पराङ्मुखम् ॥ KRT_8_0320cd
भोगसेनेक्षसे कस्मादमुं त्वमिति वादिनम् । KRT_8_0321ab
सोव्यक्तं किमपि ह्रीतः प्रधावन्तं जगाद तम् ॥ KRT_8_0321cd
रय्यावट्टाभिधो दीपधरस्त्रिष्ठन्निरायुधः । KRT_8_0322ab
अयोदीपिकयारब्धयुद्धस्तैर्विक्षतोपतत् ॥ KRT_8_0322cd
चाम्पेयः सोमपालाख्यराजपुत्रः क्षताहितः । KRT_8_0323ab
प्रहारैः प्राप्तवैक्लव्यो न गर्ह्याचारतामगात् ॥ KRT_8_0323cd
पौत्रः श्रीशूरपालस्य राजकापत्यमज्जकः । KRT_8_0324ab
विदद्रौ श्वेव संछाद्य शस्त्रीं पुच्छछटोपमाम् ॥ KRT_8_0324cd
ततः प्रधावन्प्रग्रीवमारुरुक्षुः क्षितीश्वरः । KRT_8_0325ab
निकृत्तजानुश्चण्डालैरालिलिङ्ग वसुम्धराम् ॥ KRT_8_0325cd
तत्पृष्ठे स्वं क्षिपन्देहं प्रहारैर्जर्जरीकृतः । KRT_8_0326ab
शृङ्गारनामा कायस्थो निर्द्रोहो वारितोरिभिः ॥ KRT_8_0326cd
पुनरुत्थातुकामस्य सर्वे शस्त्रावलीर्द्विषः । KRT_8_0327ab
न्यपातयंस्तस्य काल्या नीलाब्जवरणस्रजम् ॥ KRT_8_0327cd
तिष्ठेत्कदाचिद्धूर्तोयमविपन्नो विपन्नवत् । KRT_8_0328ab
कन्धरामधमः सड्डस्तस्येति स्वयमच्छिनत् ॥ KRT_8_0328cd
कृतं पदापहरणं यस्य सोहमिति ब्रुवन् । KRT_8_0329ab
छित्त्वाङ्गुलीश्चकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ KRT_8_0329cd
एकपादस्थितोपानत्स्रस्तमाल्यैः शिरोरुहैः । KRT_8_0330ab
छन्नवक्त्रः स ददृशे सुप्तो दीर्घभुजः क्षितौ ॥ KRT_8_0330cd
पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः । KRT_8_0331ab
निर्दोषतामीषदगान्निस्त्रिंशत्वं जनान्प्रति ॥ KRT_8_0331cd
सेवकः शूरटो नाम पूत्कुर्वन्द्रोहमुच्चकैः । KRT_8_0332ab
निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ KRT_8_0332cd
प्रस्थितो दयितावासं स दिङ्मोहवशादिव । KRT_8_0333ab
पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मनि ॥ KRT_8_0333cd
राज्योद्याने नृपतिमधुपा भोगकिञ्जल्कलोलाश्चेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः । KRT_8_0334ab
हा धिग्दैवानिलतरलया पात्यमाना नियत्या बल्ल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ KRT_8_0334cd
तिर्यग्भ्यस्त्रिजगज्जयी परिभवं लङ्केश्वरो लब्धवान्प्रापाशेषनृपोत्तमः कुरुपतिः पादाहतिं मूर्धनि । KRT_8_0335ab
इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यवत्तत्को नाम भवेन्महानहमिति ध्यायन्धृताहंक्रियः ॥ KRT_8_0335cd
परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् । KRT_8_0336ab
नग्रं हुताशसात्कृतुं स्वच्छन्नग्राहिणोनयन् ॥ KRT_8_0336cd

309.

--1) Thus corr. by A1 from ॰स्तेज्जः.

[page 181]




भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः । KRT_8_0337ab
तं भुग्नग्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ KRT_8_0337cd
सशूत्कारव्रणं नग्रमनाथमिव पार्थिवम् । KRT_8_0338ab
राजधान्या विनिष्कृष्टं न्यधत्तां पित्रृकानने ॥ KRT_8_0338cd
महासरिद्वितस्ताम्भःसंभेदद्वीपभूतले । KRT_8_0339ab
अह्नाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥ KRT_8_0339cd
न हतो नापि निर्दग्धः स केनापि व्यलोक्यत । KRT_8_0340ab
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ KRT_8_0340cd
व्यतीतेन स वर्षैकचत्वारिंशतमायुषा । KRT_8_0341ab
सप्ताशीत्यब्दपौषस्य शुक्लषष्ट्यां व्ययुज्यत ॥ KRT_8_0341cd
चक्रेथ सासिकवचो रड्डः शोणितमण्डितः । KRT_8_0342ab
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ KRT_8_0342cd
.......................................... । KRT_8_0343ab
- - - 1बद्धमूलानामाद्यानां तन्न1 दिद्युते ॥ KRT_8_0343cd
तस्यावरोहतः सिंहासनाद्योद्धुम् पुरो युधि । KRT_8_0344ab
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ KRT_8_0344cd
तन्त्रिणौ वट्टपट्टाख्यौ युद्ध्वा तद्बान्धवौ चिरम् । KRT_8_0345ab
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ KRT_8_0345cd
रणरङ्गनटो नृत्यन्निव राजगृहाङ्गने । KRT_8_0346ab
सखद्गखेटको रड्डः खण्डयन्नहितान्बभौ ॥ KRT_8_0346cd
दीशन्विजयसंदेहमहितानां क्षणे क्षणे । KRT_8_0347ab
प्रहारैः सुबहून्भित्त्वा स चिरेणापतद्रणे ॥ KRT_8_0347cd
राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् । KRT_8_0348ab
वैशसत्यक्तमर्यादो गर्गः1 कोपादकारयत् ॥ KRT_8_0348cd
दिद्दामठान्तिके व्यड्डः पौरैर्भस्माश्मवर्षिभिः । KRT_8_0349ab
अवस्करप्रणालान्तर्मग्नवक्रो व्यपात्यत ॥ KRT_8_0349cd
ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः । KRT_8_0350ab
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ KRT_8_0350cd
पलाय्य प्रययुः क्वापि सड्डं हंषरथादयः । KRT_8_0351ab
मरणाभ्यधिकां कंचित्कालं सोढुं विपद्व्यथाम् ॥ KRT_8_0351cd
दृष्यन्पराजितं गर्ग1 नष्टे तदनुजे विदन् । KRT_8_0352ab
भोगसेनोथ तां वार्तामशृणोत्प्रलयोपमाम् ॥ KRT_8_0352cd
व्यावृत्य प्रत्यवस्थानुकामः पश्यन्पलायिनः । KRT_8_0353ab
योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात् ॥ KRT_8_0353cd
इत्थं निहतविध्वस्तनायका द्रोग्धृसंहतिः । KRT_8_0354ab
स्वदोर्मात्रसहायेन गर्गचन्द्रेण सा कृता ॥ KRT_8_0354cd
सत्त्वं साहससिद्धिं च नेतिहासेष्वपि क्वचित् । KRT_8_0355ab
अश्रौषं तादृशं यादृक्तस्यास्ते स्म प्रतापिनः ॥ KRT_8_0355cd
निशां प्रहरमह्नश्च राज्यं कृत्वा स लब्धवान् । KRT_8_0356ab
द्रोहकृच्छङ्खराजाख्यां गतिं कुकृतिनामगात् ॥ KRT_8_0356cd
यशस्करकुले जन्म द्रोग्धृभिस्तैः प्रमाणितम् । KRT_8_0357ab
क्षणभङ्ग्यभजद्राज्यं यस्माद्वर्णटदेववत् ॥ KRT_8_0357cd
दावोद्दीपनकूटयन्त्रघटनैः सिंहादिसंहारिणो यान्त्याकस्मिकगण्डशैलपतनैरन्तं किराता वने । KRT_8_0358ab
एकेनैव ननु प्रधावति जनः सर्वोपि मृत्योः पथा हन्ताहं1 निहतोयमेष तु मितम् कालं विभेदग्रहः ॥ KRT_8_0358cd
स्वोद्वाहे ललनौघमङ्गलरवो यैर्हर्षुलैः श्रूयते दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तक्षणे । KRT_8_0359ab
ह्योपि घ्नन्नहितं प्रहृष्यति परः स्वं घ्नन्तमन्ते मुदोद्वृत्तं सोप्यवलोकयत्यहह धिङ्मोहोयमान्ध्यावदः ॥ KRT_8_0359cd
सायं विचिन्तितो रात्रौ फलितोन्यत्र वासरे । KRT_8_0360ab
दुर्विपाकप्रदाताभूद्द्रोग्धॄणां साहसद्रुमः ॥ KRT_8_0360cd
अथ सिंहासनस्यान्तः कार्यान्ते त्यक्तविग्रहः । KRT_8_0361ab
गर्गः प्रक्षालितामर्षश्चक्रन्द स्वामिनं चिरम् ॥ KRT_8_0361cd
तस्मिन्रुदति सर्वोपि पौरलोको भयोज्झितः । KRT_8_0362ab
संप्राप्तावसरो भूपं व्यलापीलोकवत्सलम् ॥ KRT_8_0362cd
कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया । KRT_8_0363ab
जयमत्या तदावादि गर्गः कपटशीलया ॥ KRT_8_0363cd

343.

--1) There words written by A1 after verse 342, belong apparently to a verse of which the beginning is lost; the lacuna in the text is not indicated in A. Perhaps, more verses have been lost here.

--2) A तन्निदि॰.

348.

--1) Thus corr. by A1 from गग्गः.

352.

--1) Thus corr. by A1 from गग्गं.

358.

--1) A1 gloss अहं हन्ता.

[page 182]




कुरु मे संविदं सत्त्वमयस्तु सः । KRT_8_0364ab
तत्प्रक्रियावचो ज्ञात्वा चितिं अकल्पयत् ॥ KRT_8_0364cd
चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या तरलतरला यत्काठिन्यं तथा कुचकुम्भयोः । KRT_8_0365ab
वसति हृदि तद्यासां पिण्डीभवन्ननु ता इमा गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ KRT_8_0365cd
दौःशील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् । KRT_8_0366ab
हेलया प्रविशन्त्यग्निं न स्त्रीषु प्रत्ययः क्वचित् ॥ KRT_8_0366cd
युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत । KRT_8_0367ab
अग्रतो बिज्जला तावन्निर्गत्य प्राविशच्चिताम् ॥ KRT_8_0367cd
अथ तस्याश्चितारोहं कुर्वन्त्या भूषणार्थिभिः । KRT_8_0368ab
लुण्टकैर्लुण्ट्यमानाया व्यया गात्रेषु पप्रथे ॥ KRT_8_0368cd
सच्छत्रचामरे राज्ञयु1 दह्यमाने विलोकयन् । KRT_8_0369ab
लोकः सर्वोपि साक्रन्दो दग्धवृष्टिरिवाभवत् ॥ KRT_8_0369cd
औचित्यं तेन च तदा निन्येत्यन्तपवित्रताम् । KRT_8_0370ab
सर्वैर्यदर्थ्यमानोपि नोपाविक्षन्नृपासने ॥ KRT_8_0370cd
सुतमुच्चलदेवस्य बालमङ्के निधित्सता । KRT_8_0371ab
राज्येभिषेक्तुं ते केचित्तेनान्वैष्य1न्त यत्नतः ॥ KRT_8_0371cd
लोको येष्वद्य केषांचित्तत्त्वमालोक्य सस्मितः । KRT_8_0372ab
भिक्षामप्यटितुं जाने नैव जानाति योग्यताम् ॥ KRT_8_0372cd
राज्ञ्यां श्वेताभिधानायां मल्लराजस्य ये1 सुताः । KRT_8_0373ab
सल्हणाद्यास्त्रयोभूवन्मध्यमे प्राक्क्षयं गते ॥ KRT_8_0373cd
हन्तुं ज्येष्ठकनिष्ठौ द्वौ शेषौ सल्हणलोठनौ । KRT_8_0374ab
अन्विष्टौ शङ्खराजेन भयान्नवमठं गतौ ॥ KRT_8_0374cd
निर्लज्जैर्निहतान्द्रोग्धॄन्विहाय मिलितैः पुनः । KRT_8_0375ab
तन्त्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ KRT_8_0375cd
दृष्ट्वा राज्यार्हमप्राप्य कंचिज्ज्यायांस्तयोस्तदा । KRT_8_0376ab
गर्गेण राज्ये संरम्भादभ्यषिच्यत सल्हणः ॥ KRT_8_0376cd
हा धिक्चतुqणां यामानामन्तरे नृपतित्रयी । KRT_8_0377ab
अहस्त्रियामे तत्रासीद्दृश्या या पुरुषायुषैः ॥ KRT_8_0377cd
ये सायमुच्चलनृपं प्राह्णे रड्डुं सिषेविरे । KRT_8_0378ab
मध्याह्ने सल्हणं प्रापुर्दृष्टास्ते राजसेवकाः ॥ KRT_8_0378cd
अथ लोहरकोट्टस्थः सार्धेह्नि गलिते नृपः । KRT_8_0379ab
सुस्सलो भ्रातृमरणं श्रुत्वा तूद्भान्तमानसः ॥ KRT_8_0379cd
गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षिपन्क्षितौ । KRT_8_0380ab
ततस्तं वीतसंदेहं चकारार्तप्रलापिनम् ॥ KRT_8_0380cd
आद्यात्सल्हणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् । KRT_8_0381ab
गर्गदूताद्भ्रातृवधं स्वस्याह्वानं च केवलम् ॥ KRT_8_0381cd
अश्रद्दधानस्तं शीघ्रमरिच्छेदं सुदुष्करम् । KRT_8_0382ab
तदाह्नानाय गर्गो यं प्राहिणोत्तं चलन्गृहात् ॥ KRT_8_0382cd
आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये । KRT_8_0383ab
कश्मीराभिमुखो यात्रामसंभृतबलोप्यदात् ॥ KRT_8_0383cd
अन्योथ गर्गदूतस्तं पथि संघटितोभ्यधात् । KRT_8_0384ab
कृत्स्नमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ KRT_8_0384cd
क्षिप्रं हतेषु द्रोहेषु त्वय्यसंनिहितेनुजः । KRT_8_0385ab
कृतस्तु सल्हणो राजा कृत्यमागमनेन किम् ॥ KRT_8_0385cd
श्रुत्वेति गर्गसंदेशं कोपादसहनो नृपः । KRT_8_0386ab
अप्रयाणैषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ KRT_8_0386cd
नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः । KRT_8_0387ab
मज्ज्यायसा मया चैतद्भुजाभ्यामर्जितं पुनः ॥ KRT_8_0387cd
राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः । KRT_8_0388ab
येनाहृतमिदं पूर्वं स क्रमः क्व गतोधुना ॥ KRT_8_0388cd
इत्युक्त्वावरितैरेव वहन्नासीत्प्रयाणकैः । KRT_8_0389ab
दूतांश्च पार्श्वं गर्गस्य स्वीकृत्यै प्राहिणोद्बहून् ॥ KRT_8_0389cd
स काष्ठवाटं संप्राप सल्हणस्य हितैषिणा । KRT_8_0390ab
निर्गत्य गर्गचन्द्रेण चक्रे हुष्कपुरे पदम् ॥ KRT_8_0390cd
प्रवृत्तायां विभावर्यां दूतैः कृतगतागतैः । KRT_8_0391ab
तस्याङ्गीकृतसामापि गर्गो द्रोग्धाभ्यधीयत ॥ KRT_8_0391cd

369.

--1) Emended; A राज्ञो.

372.

--1) Emended with C; A ॰न्वेष्यन्त.

373.

--1) Thus A4 C R; A1 यं.

[page 183]




कार्यमध्यगतो राजा तथापि प्राहिणोत्तदा । KRT_8_0392ab
धात्रेयं भ्रातरं गर्गाभ्यर्णं हितहिताभिधम् ॥ KRT_8_0392cd
भोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः । KRT_8_0393ab
खाशकान्बिल्बवनजान्मध्येकृत्य नृपान्तिकम् ॥ KRT_8_0393cd
सोभ्यर्णं कर्णभूत्याख्यमश्वारोहं महीपतेः । KRT_8_0394ab
विसृज्य गर्गं जेष्ट्यामीत्युक्त्वाभूल्लोभनोद्यतः ॥ KRT_8_0394cd
कालापेक्षामपि त्यक्त्वा हन्तुं भ्रातृद्रुहं स तम् । KRT_8_0395ab
योग्यं प्रसङ्गमन्विष्यञ्जज्ञे लोकैरसज्जनः ॥ KRT_8_0395cd
यस्य भ्रातृद्रुहः पार्श्वे स त्वमाश्रीयसे कथम् । KRT_8_0396ab
गर्गोपि तमुपालेभे दूतैरित्यादि संदिशन्1 KRT_8_0396cd
स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् । KRT_8_0397ab
दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ KRT_8_0397cd
पतन्रणं कर्णभूतिर्वीरवृत्त्या व्यरोचत । KRT_8_0398ab
तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ KRT_8_0398cd
तेहःसेनस्तु शूलाग्रे नृपादेशान्न्यवेश्यत । KRT_8_0399ab
मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ KRT_8_0399cd
अवष्टम्भेन भूपोभून्निग्रहावग्रहक्षमः । KRT_8_0400ab
न येनासितुमप्यास्था तावदासीत्तु तद्बलम् ॥ KRT_8_0400cd
पुरोगोपि कृतः पश्चाद्योतीतेह्नि महीभुजा । KRT_8_0401ab
स सञ्जपालस्तत्पार्श्वमथादायाययौ हयान् ॥ KRT_8_0401cd
तेष्वायातेष्ववष्टम्भं यातं किंचिच्च तद्बलम् । KRT_8_0402ab
प्राप्तश्च गर्गसेनानीः सूर्याख्योनल्पसैनिकः ॥ KRT_8_0402cd
दुध्रुक्षुर्वीक्ष्य तानाप्तैर्नृपोश्वमधिरोपितः । KRT_8_0403ab
उत्सेकशठधीर्वर्म कृच्छ्राच्च परिधापितः ॥ KRT_8_0403cd
गगनं शलभच्छन्नमिव कुर्वन्नथापतत् । KRT_8_0404ab
शरासारो रिपुबलात्सर्वतोच्छिन्नसंततिः ॥ KRT_8_0404cd
ओंकारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसस्हाः । KRT_8_0405ab
प्राहरन्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ KRT_8_0405cd
हतविक्षतविध्वस्तसैन्यः साहसिको नृपः । KRT_8_0406ab
वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ KRT_8_0406cd
गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घ्यत । KRT_8_0407ab
सवाजिना तेन सेतुर्दुर्लङ्घ्यः पत्रिणामपि ॥ KRT_8_0407cd
सञ्जपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् । KRT_8_0408ab
पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ KRT_8_0408cd
वीरानकाभिधं वीरः स खशानां निवेशनम् । KRT_8_0409ab
त्रिंशद्विंशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ KRT_8_0409cd
निरम्बरैर्निराहारैस्तिष्ठन्कतिपयैः समम् । KRT_8_0410ab
स तत्र चित्रमाक्रम्य निर्भयो दण्डयन्खशान् ॥ KRT_8_0410cd
क्रमेण च हिमापातदुर्लङ्घ्याध्वनि संकटे । KRT_8_0411ab
अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ KRT_8_0411cd
पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः । KRT_8_0412ab
तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ KRT_8_0412cd
वराकं द्वारसेत्वग्राद्वर्गो हितहितं क्रुधा । KRT_8_0413ab
विरुद्धधीर्वितस्तायां बद्धपाण्यङ्घ्रिमक्षिपत् ॥ KRT_8_0413cd
तस्मिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः । KRT_8_0414ab
दासोस्योच्चैःपदारोहमधःपातेपि लब्धवान् ॥ KRT_8_0414cd
राज्यप्रदः क्षतारिशच् गर्गः प्राप्तोन्तिकं ततः । KRT_8_0415ab
प्राप सल्हणराजस्य सविशेषमधीशताम् ॥ KRT_8_0415cd
स भूभृन्मन्त्रिविक्रान्तिहीनो राज्यमवाप्तवान् । KRT_8_0416ab
चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ KRT_8_0416cd
न मन्त्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् । KRT_8_0417ab
न दातृता न लुब्धत्वं तस्योद्रिक्तं किमप्यभूत् ॥ KRT_8_0417cd
तद्राज्ये राजधान्यन्तर्मध्याह्नेपि मलिम्लुचः1 KRT_8_0418ab
लोकं मुमुषुरन्याध्वसंचारस्य कथैव का ॥ KRT_8_0418cd
पङ्गुरप्यङ्गना कालं क्रान्त्या यत्रात्यवाहयत् । KRT_8_0419ab
पुमानप्यभवत्तत्र साध्वसाध्वस्तधीरसौ ॥ KRT_8_0419cd
यामद्य सह्लणोन्येद्युर्भेजे तां लोठनः1 स्त्रियम् । KRT_8_0420ab
साधारण्यं गर्तो राज्यभोग इत्यभवत्तयोः ॥ KRT_8_0420cd
पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः । KRT_8_0421ab
सर्वोपि तस्य तन्त्रज्ञैर्व्यवहारो व्यहस्यत ॥ KRT_8_0421cd

396.

--1) Emended with C; A सन्दिशत्.

418.

--1) Thus A.

420.

--1) Emended with C; A लोष्ठनः.

[page 184]




श्वशुरो लोठनस्योजसू1हस्तेन व्यधीयत । KRT_8_0422ab
द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्ठुरे ॥ KRT_8_0422cd
यः सुस्सलभयोच्छेदमङ्गीकुर्वस्तदागमे । KRT_8_0423ab
स्वमन्त्रलक्षजापेन सिद्धिं मन्त्रक्षणेभ्यधात् ॥ KRT_8_0423cd
जिह्मो गर्गाज्ञया राजा तदप्रियमपातयत् । KRT_8_0424ab
बद्धाश्मानं वितस्तायां बिम्बं नीलाश्वडामरम् ॥ KRT_8_0424cd
राजानुग्राहको गर्गस्तांस्तान्व्यापादयन्रिपून् । KRT_8_0425ab
हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत् ॥ KRT_8_0425cd
राज्यकिंचित्करे गर्गायत्तजीवितमृत्यवः । KRT_8_0426ab
बाह्याश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ KRT_8_0426cd
कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् । KRT_8_0427ab
चुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ KRT_8_0427cd
तदा ह्युदचरद्वार्ता शूलान्यारोप्य नौषु यत् । KRT_8_0428ab
क्रुध्यन्गर्गोयमायातो हन्तुम् सर्वान्नृपाश्रितान् ॥ KRT_8_0428cd
गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया । KRT_8_0429ab
द्वित्राण्यहान्यन्वभावि जनैर्ज्वर इवाखिलैः ॥ KRT_8_0429cd
ततस्तिलकसिंहाद्यैरुद्रेकाद्द्रागदीयत । KRT_8_0430ab
अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ KRT_8_0430cd
देशश्चात्युल्बणः कृत्स्नो धावति स्म धृतायुधः । KRT_8_0431ab
प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ KRT_8_0431cd
निर्लज्जा दिल्हभट्टारलक्ककाद्यास्तुरंगमैः । KRT_8_0432ab
भ्राम्यन्तस्तत्रादृश्यन्त गर्गावसथवीथिषु ॥ KRT_8_0432cd
निषिषेध न तान्राजा प्रत्युतास्कन्ददायिनाम् । KRT_8_0433ab
लोठनं कुण्ठशक्तीनां तेषां स्फूर्त्यै व्यसर्जयत् ॥ KRT_8_0433cd
तेनापि योधैर्गर्गस्य रुद्धमार्गेण मन्दिरम् । KRT_8_0434ab
न रुद्धं नापि निर्दग्धुं पारितं दत्तवह्निना ॥ KRT_8_0434cd
धानुष्कः केशवो नाम मठेशो लोठिकामठे । KRT_8_0435ab
अवाधतैव नाराचैस्तद्योधान्घातयन्परम् ॥ KRT_8_0435cd
प्रकाशेन समं राजलोके विरलतां गते । KRT_8_0436ab
सायं सानुचरो गर्गो हयारूढो विनिर्ययौ ॥ KRT_8_0436cd
समरैरप्रतिहतो निनाय लहरं व्रजन् । KRT_8_0437ab
बद्ध्वोजसूहमस्वस्थमासीनं त्रिपुरेश्वरे ॥ KRT_8_0437cd
तापसेन किमेतेनेत्युक्त्वान्येद्युर्मुमोच तम् । KRT_8_0438ab
तं सुस्सलेपि विधुरे नृपतिं नोदपाटयत् ॥ KRT_8_0438cd
क्षणे क्षणेभवद्देशस्ततः प्रभृति सर्वतः । KRT_8_0439ab
गर्गागमनसंत्रस्तपौरार्गलितमन्दिरः ॥ KRT_8_0439cd
अथार्तस्य महीभर्तुर्गर्गसंधानमिच्छतः । KRT_8_0440ab
महत्तमः सहेलोभूल्लहरे दूत्यमाचरन् ॥ KRT_8_0440cd
तेनाङ्गीकारितो गर्गः कथंचित्कन्यकार्पणम् । KRT_8_0441ab
भृत्यास्तु तेन संबन्धं नैच्छन्भूतस्य भूपतेः ॥ KRT_8_0441cd
ततः सुस्सलदेवेन सह संधिं निबद्धवान् । KRT_8_0442ab
पश्चात्संप्रार्थ्यमानोपि संबन्धं न व्यधत्त सः ॥ KRT_8_0442cd
मण्डले विशरारुत्वमेवं याते नृपोवधीत्1 KRT_8_0443ab
सड्डं हंसरथं नोनरथं चासादितांश्चरैः ॥ KRT_8_0443cd
तानग्निकणसूच्यादिप्रवेशौ - - - र्जनः1 KRT_8_0444ab
अत्यक्तानसुभिर्घोरामवस्थामन्वबीभ2वत् ॥ KRT_8_0444cd
भोगसेनाङ्गानां मल्लामनुमेने स यन्नृपः । KRT_8_0445ab
अनुसर्तुम् पतिं छन्नं वसन्ती1 साधु तद्व्यधात् ॥ KRT_8_0445cd
तादृग्वृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे । KRT_8_0446ab
प्रमिम्ये दिल्हभट्टारो रसदानेन भूभुजा । KRT_8_0446cd
न राजबीजी नोच्चण्डविक्रमो वा बभूव सः । KRT_8_0447ab
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ KRT_8_0447cd
तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा । KRT_8_0448ab
तस्या वह्निप्रवेशेन सिद्धं मानवतीव्रतम् ॥ KRT_8_0448cd
सोल्पोपि राज्य1कालोभूदेवमातङ्कदुःसहः । KRT_8_0449ab
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसंनिभः ॥ KRT_8_0449cd
कालवित्सुस्सलो गर्गाद्बद्धसंधिरपि त्रसन् । KRT_8_0450ab
न्ययुङ्क्ताग्रे सञ्जपालं काश्मीरौन्मुख्यभाक्ततः ॥ KRT_8_0450cd

422.

--1) Emended; A ॰स्योजस्सूह॰. Cf.viii.437.

443.

--1) Emended; A नृपोब्रवीत्.

444.

--1) A1 ॰प्रवेशैर्जनः, without indicating the lacuna; C ॰देशैरिह दुर्जनः.

--2) Emended; A ॰भीभवत्.

445.

--1) Thus corr. by later hand from A वसन्तीं.

449.

--1) Emended with R C; A राजका॰.

[page 185]




द्वारेण सह दत्तार्थो लक्ककः सल्हभूभुजा । KRT_8_0451ab
वराहमूaं संप्राप्य कथंचित्प्रस्थितिं भजन् ॥ KRT_8_0451cd
गर्गः स्मरन्नवस्कन्दं पश्चादभ्येत्य नाशयन् । KRT_8_0452ab
वाराह1मूलेन समं तस्य सैन्यमलुण्ठयत् ॥ KRT_8_0452cd
विदद्रौ स तु तद्योधैर्हतैश्च परिषस्वजे । KRT_8_0453ab
अदिव्यैर्मेदिनी दिव्यैर्देहैस्त्वप्सरसां गणः ॥ KRT_8_0453cd
नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही । KRT_8_0454ab
पतितैरुप्पच्छुड्डाद्यैर्भूषिता मौक्तिकैरिव ॥ KRT_8_0454cd
आगच्छता भिन्नभीतिः सञ्जपालेन लक्ककः । KRT_8_0455ab
निराश्रयः संप्रपेदे पार्श्वं सुस्सलभूपतेः ॥ KRT_8_0455cd
सोथ भूभृत्सञपाले दूरं क्रान्तरिपौ गते । KRT_8_0456ab
आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ KRT_8_0456cd
संधिं तत्र विधास्यामि सार्धं सुस्सलभूभुजा । KRT_8_0457ab
इत्युक्त्वा सल्हणं प्रायात्तदभ्यर्णं सहेलकः ॥ KRT_8_0457cd
काङ्क्षिताभ्युदयं पौरैश्चातकैरिव वारिदम् । KRT_8_0458ab
अशिश्रियन्राजवर्जं सर्व एवोच्चलानुजम् ॥ KRT_8_0458cd
गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् । KRT_8_0459ab
कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ KRT_8_0459cd
उपयेमे स्वयं राजा राजलक्ष्म्यभिधां तयोः । KRT_8_0460ab
गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ KRT_8_0460cd
सल्हणे सानुजेभ्येत्य सञ्जपालेन वेष्टिते । KRT_8_0461ab
राजापि राजसदसः सिंहद्वारं समासदत् ॥ KRT_8_0461cd
साक्षाद्वि1रोधिभृत्येन द्वारमेकेन पातितम् । KRT_8_0462ab
अभून्मोघं तमप्राप्य सार्धं वैरिमनोरथैः ॥ KRT_8_0462cd
ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ । KRT_8_0463ab
गर्गास्कन्दविशङ्क्यासीच्चकितं सौस्सलं बलम् ॥ KRT_8_0463cd
गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् । KRT_8_0464ab
तस्थौ स्थानव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ KRT_8_0464cd
अस्ताभिपाषिणि दिने तादृक्क्रासहते बले । KRT_8_0465ab
स्नेहाददहति क्ष्मापे दुर्भेदौकःस्थितान्रिपून् ॥ KRT_8_0465cd
प्रविश्य ग्राव1निर्भुग्नकवाटेन तमोरिणा । KRT_8_0466ab
द्वारं विवृत्याङ्गनस्थैः सञ्जपालोग्रहीद्रणम् ॥ KRT_8_0466cd
तस्य निश्चित्य पातंगीं वृत्तिं भूयस्यरिव्रजे । KRT_8_0467ab
अनुप्रवेशं विदधे पदातिर्लक्ककाभिधः ॥ KRT_8_0467cd
दरदानयने काष्ठावाटसंकटविक्रमे । KRT_8_0468ab
यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत् ॥ KRT_8_0468cd
स केशवश्च स मठाधीशस्तमनुसस्रतुः । KRT_8_0469ab
शैनेयमारुती पार्थमिव प्रार्थितसैन्धवम् ॥ KRT_8_0469cd
निर्गत्य मण्डपाल्लग्नप्रहारैस्तैः कथंचन । KRT_8_0470ab
विवृते प्राङ्गनद्वारे धीरो राजाविशत्स्वयम् ॥ KRT_8_0470cd
निर्विभागे वर्तमाने संगरे सैन्ययोर्द्वयोः । KRT_8_0471ab
प्राङ्गने प्रमयं प्रापुर्भूयांस्तत्र शस्त्रिणः ॥ KRT_8_0471cd
सचिवः सल्हराजस्य पतंगग्रामजो द्विजः । KRT_8_0472ab
आजौ प्रापाजको नाम स्वःस्त्रीसंभोगभागिताम् ॥ KRT_8_0472cd
कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारिताम् । KRT_8_0473ab
स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ KRT_8_0473cd
सायं वनस्पतिर्लीनैः खगैर्चालितो यथा । KRT_8_0474ab
ग्राव्णि प्रविष्टे प्रोड्डीननिःशब्दविहगोभवत् ॥ KRT_8_0474cd
आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा । KRT_8_0475ab
तथा सुस्सलभूपेन तुरंगस्थेन तर्जिता ॥ KRT_8_0475cd
अनारूढेङ्गनान्तःस्थे तस्मिन्ंसिंहासनं ध्वनिः । KRT_8_0476ab
सुस्सलो जयतीत्येवं ढक्कावाद्यम् च शुश्रुवे ॥ KRT_8_0476cd
मल्लराजगृहे तादृङ्नान्यस्याप्युदपद्यत । KRT_8_0477ab
अगातां तत्र वैक्लव्यं यादृक्सल्हणलोठनौ ॥ KRT_8_0477cd
आबद्धकवचावश्वारूढावालिङ्ग्य सुस्सलः । KRT_8_0478ab
बालौ युवामिति वदन्धूर्तोत्याजयदायुधम् ॥ KRT_8_0478cd
आदिश्य मण्डपेन्यस्मिन्बद्धयोश्च स्थितिं तयोः । KRT_8_0479ab
प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम् ॥ KRT_8_0479cd
त्र्यहोनांश्चतुरो मासान्भुक्तराज्यं बबन्ध तम् । KRT_8_0480ab
सितस्य सोष्टाशीतेब्दे राधस्य त्रितयेहनि ॥ KRT_8_0480cd

452.

--1) Thus A.

462.

--1) Emended with C; A साधाद्वि॰.

466.

--1)Emended; A ग्रामनि॰.

:p: 186
तेन सिंहासने क्रान्ते भास्वतेव नभस्तले । KRT_8_0481ab
क्षणादेवाखिलो लोकः क्षोभमब्धिरिवात्यजत् ॥ KRT_8_0481cd
विकोशशस्त्रः सन्द्रोहावेक्षणक्षोभतः सदा । KRT_8_0482ab
व्याधलोके व्यात्तवक्रो मृगराज इवाभवत् ॥ KRT_8_0482cd
भ्रातृद्रुहां कुलच्छेदमन्विष्यान्विष्य कुर्वता । KRT_8_0483ab
न तेन नीतिनिष्ठेन शिशवोप्यवशेषिताः ॥ KRT_8_0483cd
जनस्य वीक्ष्य दौर्जन्यमधृष्टाकारतां वहन् । KRT_8_0484ab
स कार्यापेक्षयाप्यासीन्न क्वाप्याहितमार्दवः ॥ KRT_8_0484cd
वस्तुतस्त्वार्द्रहृदयः क्रूरं दमयितुं जनम् । KRT_8_0485ab
अवास्तवं तद्भीमत्वाद्भित्तिव्याल इवादधे ॥ KRT_8_0485cd
कालवित्समयत्यागी प्रगल्भः प्रतिभानवान् । KRT_8_0486ab
इङ्गितज्ञो दीर्घदृष्टिः स एवान्यो न कोप्यभूत् ॥ KRT_8_0486cd
अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः । KRT_8_0487ab
दोषोथ वा पूर्वजस्य स्वभावैक्येप्यदृश्यत ॥ KRT_8_0487cd
अन्वकारि समानेपि कोपे तत्पूर्वजन्मनः । KRT_8_0488ab
कोपेनं विषमालर्कं तदीयेन तु सारघम् ॥ KRT_8_0488cd
न बभूव स वेशादौ सासूयोनुचितं पुनः । KRT_8_0489ab
स्थितिभेदभयात्सेहे नोत्सेकमनुजीविनाम् ॥ KRT_8_0489cd
नैच्छत्स द्वन्द्वयुद्धादिसंधानैर्मानिनां वधम् । KRT_8_0490ab
तस्मिन्प्रमादान्निर्व्यूढे त्वदीयत कृपाकुलः ॥ KRT_8_0490cd
वाक्पारुष्यं नृपस्यासीदाद्यस्यातङ्कदुःसहम् । KRT_8_0491ab
तस्य तु प्रणयप्रायं हिंसाद्यावाधवर्जितम् ॥ KRT_8_0491cd
तस्यार्थगृध्रोरुत्पादो भूयानास्ते स्म संपदाम् । KRT_8_0492ab
त्यागो विषयकालादिनैरत्यात्तु1 मितोभवत् ॥ KRT_8_0492cd
नवकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम् । KRT_8_0493ab
तत्यजुः कारवो वाजिविक्रेतारश्च दैशिकाः ॥ KRT_8_0493cd
दुःसहव्यसनोत्पत्तौ जिगीषोः प्रशमैषिणः । KRT_8_0494ab
तस्यासीदपरित्याज्यं न किंचिद्वसुवर्षिणः ॥ KRT_8_0494cd
तस्येन्द्रद्वादशी भूरिपरार्ध्याशुकदायिनः । KRT_8_0495ab
यथा नृपस्य शुशुभे तथा नान्यस्य कस्यचित् ॥ KRT_8_0495cd
यथा प्रागुच्चलो राजा सुप्राप प्रियसेवकः । KRT_8_0496ab
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शनः ॥ KRT_8_0496cd
नोच्चलादपरस्यासीद्व्यसनं हयवाहने । KRT_8_0497ab
नान्यस्य सुस्सलनृपाद्दाक्ष्यं तत्र च पप्रथे ॥ KRT_8_0497cd
शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुच्चलः । KRT_8_0498ab
राज्ये सुस्सलदेवस्य न तत्स्वप्नेप्य1दृश्यत ॥ KRT_8_0498cd
किमन्यदखिलैः सोभूदग्रजादधिको गुणैः । KRT_8_0499ab
त्यक्त्वा त्यागार्थनैस्पृह्यसुप्रापत्वानि केवलम् ॥ KRT_8_0499cd
औच्चलेः पालको गर्गो यं राज्ये कर्तुमैहत । KRT_8_0500ab
सहस्रमङ्गलस्तेन निरवास्यत स क्रुधा ॥ KRT_8_0500cd
तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः । KRT_8_0501ab
काञ्चनोत्कोचदश्चक्रे डामरैः सह चाक्रिकाम् ॥ KRT_8_0501cd
असंत्यजन्नुश्चलकं पितृव्येणार्थितं शिशुम् । KRT_8_0502ab
प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ KRT_8_0502cd
प्रहितानां नरेन्द्रेण तृणानामिव शास्त्रिणाम् । KRT_8_0503ab
गर्गदावाग्निदग्धानां निःसंख्यानामभूत्क्षयः ॥ KRT_8_0503cd
गर्गस्यालोपि विजयः स देवसरसोद्भवः । KRT_8_0504ab
प्रातिलोम्येन नृपतिसैन्यानां कदनं व्यधात् ॥ KRT_8_0504cd
राज्यप्राप्तेर्मासमात्रे दिनैरभ्यधिके गते । KRT_8_0505ab
तेनोत्पिञ्जने राज्ञोभून्न धीरस्याकुलं मनः ॥ KRT_8_0505cd
सुरेश्वर्यमरेoर्वीवितस्तासिन्धुसंगमाः । KRT_8_0506ab
गर्गेण राज1सैन्यानां कृताः कदनकाङ्क्षिणः ॥ KRT_8_0506cd
संग्रामे तुमुलेमात्यौ शृङ्गारकपिलौ हतौ । KRT_8_0507ab
कर्णशूद्रकनामानौ तन्त्रिणौ च सहोदरौ ॥ KRT_8_0507cd
निहतानन्तसुभटसमूहान्तरलक्षितान् । KRT_8_0508ab
तादृशानपि निष्क्रष्टुं नासीत्कस्यापि पाटवम् ॥ KRT_8_0508cd
हर्षमित्रः कम्पनेशो भूभर्तुर्मातुलात्मजः । KRT_8_0509ab
विजयेन हतानीको विदधे विजयेश्वरे ॥ KRT_8_0509cd

492.

--1) Emended; A ॰नैयत्या तु.

498.

--1) Emended with C; A स्वप्नेदृश्यत.

506.

--1) Emended with C; A राज्यसै॰

[page 187]




पुत्रो मङ्गलराजस्य तिल्हो राजान्यवंशजः । KRT_8_0510ab
तत्र त्रिब्बाकरमुखास्तन्त्रिणश्च प्रमिम्यिरे ॥ KRT_8_0510cd
राजानीके सञ्जपालः प्रवीरप्रवरोभवत् । KRT_8_0511ab
भूरिसैन्येन गर्गेण नाल्पसैन्योपि यो जितः ॥ KRT_8_0511cd
संस्तभ्य विजयक्षेत्रे लक्ककाद्यैर्विसर्जितैः । KRT_8_0512ab
धीरो राजा बलं भग्नं स्वयम् गर्गोन्मुखं ययौ ॥ KRT_8_0512cd
सोन्विष्य गर्गेण हतन्योधान्राशीकृतान्बहून् । KRT_8_0513ab
निरदाहयदन्येद्युरसंख्येयैर्श्चिताग्निभिः ॥ KRT_8_0513cd
बलिना भूभुजा गर्गः पीड्यमानः शनैः शनैः । KRT_8_0514ab
ततः स्ववसतीर्दग्ध्वा हला1हाभिमुखोभवत् ॥ KRT_8_0514cd
स तत्र रत्नवर्षाख्यं गिरिदुर्गं समाश्रितः । KRT_8_0515ab
हृताश्वोनुचरैस्त्यक्तो नृपेणारादवेष्ट्यत ॥ KRT_8_0515cd
अन्वारूढेन तत्रापि सञ्जपालेन विष्टितः । KRT_8_0516ab
चरणौ शरणीचक्रे राज्ञो दत्त्वोच्चलात्मजम् ॥ KRT_8_0516cd
अन्तिकस्थं नृपे कर्णकोष्ठजं मल्लकोष्ठकम्1 KRT_8_0517ab
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ KRT_8_0517cd
गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु । KRT_8_0518ab
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ KRT_8_0518cd
गत्वाथ लोहरे न्यस्य बद्ध्वा सल्हणलोठनौ । KRT_8_0519ab
स कल्हसोमपालाद्यै रेमे संसेवितो नृपैः ॥ KRT_8_0519cd
भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः । KRT_8_0520ab
गर्गं प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ KRT_8_0520cd
ग्रीष्मार्कप्रतिमे तस्मिन्ह्लादिनावनुचक्रतुः । KRT_8_0521ab
महादेवी कुमारश्च द्रुमच्छायावनानिलौ ॥ KRT_8_0521cd
डामरौ देवसरसोद्भवौय् विजयगोत्रिणौ । KRT_8_0522ab
बृहट्टिकिक्कस्तथा सूक्ष्मटिक्को वेलां प्रचक्रतुः ॥ KRT_8_0522cd
सानाथ्यकाङ्क्षिणौ पार्थिवस्य प्रविशतः पुरः । KRT_8_0523ab
लोकपुण्ये तस्थतुस्तौ क्रन्दद्भिः स्वानुगैः समम् ॥ KRT_8_0523cd
विजये गर्गसंबन्धात्सदाक्षिण्यो महीपतिः । KRT_8_0524ab
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ KRT_8_0524cd
तौ भानिनश्च तद्भृत्याः कृष्टशस्त्रास्ततो व्यधुः । KRT_8_0525ab
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ KRT_8_0525cd
श्वपाकोभोगदेवाख्यः कृपाण्या प्राहरन्नृपम् । KRT_8_0526ab
धीरो गज्जकनामा च करवालेन पृष्ठतः ॥ KRT_8_0526cd
सावशेषतया भूपस्यायुषो मोघतां ययुः । KRT_8_0527ab
द्विषत्प्रहृतयो वाहतुरगी तु व्यपद्यत ॥ KRT_8_0527cd
नृपस्यान्तरयन्वैरिप्रहृतिं बाणवंशजः । KRT_8_0528ab
निहतस्तत्र शृङ्गारसीहः सादीशसस्यकः ॥ KRT_8_0528cd
सैनिकैस्तैर्बृहट्टिक्काभोगदेवादयो हताः । KRT_8_0529ab
सूक्ष्मटिक्कस्तु निस्तीर्णो हेतुर्भाविनि विप्लवे ॥ KRT_8_0529cd
शूले व्यापादिता गज्जकादयो द्रोहसंश्रिताः । KRT_8_0530ab
संदेहितासुरित्यासीद्राजा गर्गानुकूल्यभाक् ॥ KRT_8_0530cd
न भवेत्पविपातेपि प्रमथः समयं विना । KRT_8_0531ab
प्रसूनमप्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ KRT_8_0531cd
ज्वालाभिरौर्वदहनस्य पयोधिमध्ये न म्लानतामपि हि यानि मुद्दुः स्पृशन्ति । KRT_8_0532ab
तान्येव यान्ति विलयं किल मौक्तिकानि कान्ताकुचेषु युवभावभुवोष्मणापि ॥ KRT_8_0532cd
प्राक्सेवामपि विस्मृत्य परोत्सेकासहिष्णुना । KRT_8_0533ab
मण्डलात्सञ्जपालाद्या निरवास्यन्त भूभुजा ॥ KRT_8_0533cd
संबन्धी काकवंश्यानां यशोराजाभिधस्ततः । KRT_8_0534ab
सहस्रमङ्गलाभ्यर्णं राजा1 निर्वासितो ययौ ॥ KRT_8_0534cd
तमन्यांश्च विनिर्यातान्देशाद्गृह्णन्समृद्धिमान् । KRT_8_0535ab
ऐच्छल्लब्धप्रतिष्ठः स राज्ञः प्रत्यभियोगिताम् ॥ KRT_8_0535cd
तत्पुत्रः कान्दमार्गेण विविक्षुः क्ष्मापसैनिकैः । KRT_8_0536ab
यशोराजे क्षते प्रासः प्रत्यावृत्य ययौ भयात् ॥ KRT_8_0536cd
अथानेष्वपि भृत्येषु राज्ञा निर्वासितेषु सः । KRT_8_0537ab
मिलितेषु प्रथां यावद्यथावदुपलब्धवान् ॥ KRT_8_0537cd

514.

--1) Emended; A फलाहा॰. Cf. हालालाण्डामरान् viii.425.

517.

--1) Emended; A with diplography मल्लकोष्ठकोष्ठकम्.

534.

--1) Emended with C; A राजा.

[page 188]




उपरागे नवे सज्जे पार्वतीयास्त्रयो नृपाः । KRT_8_0538ab
चाम्पेयो जासटो वज्रधरो बब्बापुरा1धिपः ॥ KRT_8_0538cd
राजा सहजपालश्च वर्तुलानामधीश्वरः । KRT_8_0539ab
युवराजौ त्रिवर्तोर्वीवल्लाaपुरनरेन्द्रयोः ॥ KRT_8_0539cd
बल्ह आनन्दराजश्च पञ्च संघटिताः क्वचित् । KRT_8_0540ab
प्रस्थानार्थं कृतपणाः कुरुक्षेत्रमुपागताः ॥ KRT_8_0540cd
आसमत्याहृतं तावदभ्येत्य नरवर्मणः । KRT_8_0541ab
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ कुलकम्॥ KRT_8_0541cd
स जासटेन संबन्धिस्नेहाद्विहितसत्कृतिः । KRT_8_0542ab
नीतोन्यैश्च प्रथां भूपैर्बल्लापुरमथाययौ ॥ KRT_8_0542cd
देशाद्विनिर्गतैर्बिम्बप्रमुखैर्वर्धितप्रथे । KRT_8_0543ab
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ KRT_8_0543cd
पौत्रोयं हर्षदेवस्य क एते राज्व इत्यथ । KRT_8_0544ab
उक्त्वा त्यक्त्वा सहस्रादींस्तमेवाशिश्रियञ्जनाः ॥ KRT_8_0544cd
कृतज्ञभावमुत्सृज्य संबन्धिस्नेहमोहितः । KRT_8_0545ab
दर्यको राज1पुत्रस्तं राज्ञा निर्वासितोप्यगात् ॥ KRT_8_0545cd
पुत्रः कुमारपालस्य तत्पितुर्मातुलस्य सः । KRT_8_0546ab
वृद्धिं सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ KRT_8_0546cd
प्रेरितो युवराजेन जासटेन च कन्यकाम् । KRT_8_0547ab
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ KRT_8_0547cd
तद्देशठक्कुरो भूपान्संघटय्याखिलांस्ततः । KRT_8_0548ab
तमैच्छद्गयपालाख्यः कर्तुं पैतामहे पदे ॥ KRT_8_0548cd
तां वार्तां श्रुतवान्राजा यावदासीत्समाकुलः । KRT_8_0549ab
गयपालो हतस्तावद्गोत्रजैश्छद्मना बली ॥ KRT_8_0549cd
पद्मके तान्प्रतिगते1 योद्धुं प्रधनमध्यगः । KRT_8_0550ab
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ KRT_8_0550cd
तेन प्रधाननाशेन ततो भिक्षाचरो ययौ । KRT_8_0551ab
अकिंचित्करतां मेघ इवावग्रहवारितः ॥ KRT_8_0551cd
आसमत्यां प्रयातायां क्षीणे1 पाथेयकाञ्चने । KRT_8_0552ab
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारताम् ॥ KRT_8_0552cd
चतुष्पञ्चानि वर्षाणि तिष्ठञ्जासटमन्दिरे । KRT_8_0553ab
ग्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ KRT_8_0553cd
ठक्कुरो देङ्गपालोथ चन्द्रभागातटाश्रयः । KRT_8_0554ab
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥ KRT_8_0554cd
प्राप्तसौख्यो वसंस्ततर कंचित्कालं भयोज्झितः । KRT_8_0555ab
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ KRT_8_0555cd
तदन्तरे साहसिकः प्रासः साहस्रिरुन्मदः । KRT_8_0556ab
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ KRT_8_0556cd
स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः । KRT_8_0557ab
स्वैरेव भृत्यैर्भूभर्तुर्बद्ध्वा पापैः समर्पितः ॥ KRT_8_0557cd
तत्रोत्पिञ्जे परं सत्त्वं सञ्जपालस्य पप्रथे । KRT_8_0558ab
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ KRT_8_0558cd
तस्मिञ्शूरे कुलीने च किं वाच्यं स दिगन्तरे । KRT_8_0559ab
शौर्येणैव यशोराजः पप्रथे यत्तदाद्भुतम् ॥ KRT_8_0559cd
अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् । KRT_8_0560ab
सर्वाधिकारे विदधे कायस्थं गौरकाभिधम् ॥ KRT_8_0560cd
स तापसस्य संबन्धी कस्यचिद्विजयेश्वरे । KRT_8_0561ab
सेवया लोहरस्थस्य तस्य वाल्लभ्यमाययौ ॥ KRT_8_0561cd
शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् । KRT_8_0562ab
नीतः सर्वाधिकारित्वं सोन्यामेव स्थितिं व्यधात् ॥ KRT_8_0562cd
अशेषकर्मस्थानेभ्यो वृत्तिं राजोपजीविनाम् । KRT_8_0563ab
नि1वार्य कोशे भरणं तेनाकार्यनिशं प्रभोः ॥ KRT_8_0563cd
म्रदिम्ना पाप्मिनस्तस्य नाज्ञायि क्रूरता जनैः । KRT_8_0564ab
मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ KRT_8_0564cd
न्यधात्कृपणवित्तं स पूर्वसंचितनाशकृत् । KRT_8_0565ab
विशुद्धे नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ KRT_8_0565cd
कोशः कृपणवित्तेन प्रविष्टेन हि दूषितः । KRT_8_0566ab
भुज्यते भूमिपालानां तस्करैरथ वारिभिः ॥ KRT_8_0566cd

538.

--1) Comp. vii. 588.

545.

--1) A1 with Diplography दर्यको राजको राजपुत्रस्तं.

550.

--1) Emended; A प्रतिगतो.

552.

--1) Emended; A क्षणे.

563.

--1) Emended; A निर्वार्य.

[page 189]




लोभाभ्यासेन भूयोपि संविन्वन्कोशमन्वहम् । KRT_8_0567ab
आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसंपदः ॥ KRT_8_0567cd
गौरकाश्रयिभिर्वट्टाञ्जकाद्यैर्नियोगिभिः । KRT_8_0568ab
विधीयते स्म निःसारा महोत्पातैरिव क्षितिः ॥ KRT_8_0568cd
उच्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे । KRT_8_0569ab
अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ KRT_8_0569cd
प्रशस्तकलशस्यान्ते तद्भ्रातृतनयः परम् । KRT_8_0570ab
कायस्थः कनको नाम श्लाघ्यामकृत संपदम् ॥ KRT_8_0570cd
नानादिगन्तरायातो दुर्भिक्षपतितो जनः । KRT_8_0571ab
येनाविच्छिन्नसत्त्रेण शान्तव्यापद्व्यधीयत ॥ KRT_8_0571cd
संजातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् । KRT_8_0572ab
त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ KRT_8_0572cd
द्वारे तिलकसिंअहः स तादृक्तेन व्यधीयत । KRT_8_0573ab
राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ KRT_8_0573cd
प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः । KRT_8_0574ab
जिताद्द्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ KRT_8_0574cd
काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः । KRT_8_0575ab
निन्ये प्रकम्पम1हितान्प्रकम्पन इव द्रुमान् ॥ KRT_8_0575cd
ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा । KRT_8_0576ab
नृपप्रतापैरहिताः सज्जकेनापि निर्जिताः ॥ KRT_8_0576cd
काकवंशाश्रयात्प्रा1प्तराजद्वारेण धीमता । KRT_8_0577ab
अट्टमेलकभृत्येनाप्यवापीष्टेन मन्त्रिता ॥ KRT_8_0577cd
एवं स्वाहंक्रियात्यक्तगुणापेक्षेण मन्त्रिणः । KRT_8_0578ab
कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ KRT_8_0578cd
वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् । KRT_8_0579ab
स्वस्य श्वश्र्वाश्च पत्न्याश्च नाम्ना सुरगृहत्रयम् ॥ KRT_8_0579cd
उत्पातवह्निना दग्धो निःसंख्यधनदायिना । KRT_8_0580ab
तेन दिद्दाविहारोपि नूतनत्वमनीयत ॥ KRT_8_0580cd
पुरीमट्टिलिकां1 जातु स प्रयातोन्तिकस्थितैः । KRT_8_0581ab
आप्तैः प्रैर्यत कल्हाद्यैर्गर्गोच्छेदाय भूपतिः ॥ KRT_8_0581cd
गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् । KRT_8_0582ab
मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ KRT_8_0582cd
सर्वाभ्यधिकसामर्थ्यं तं निग्राह्यं निवेद्य ते । KRT_8_0583ab
नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ KRT_8_0583cd
बद्ध्वा त्वां लोहरे भूभृदिच्छति क्षेप्तुमित्यथ । KRT_8_0584ab
गर्गः शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ KRT_8_0584cd
ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ । KRT_8_0585ab
दिनैर्भूपोपि संप्राप्तः प्रविवेश स्वमण्डलम् ॥ KRT_8_0585cd
अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः । KRT_8_0586ab
चक्रिकैः कृतसंचारैर्वैरं प्रौढिमनीयत ॥ KRT_8_0586cd
स्यालं गर्गस्य विजयं स्नेहशेषवशंवदः । KRT_8_0587ab
समीपात्स त्यजन्राजा पश्चात्तापेन पस्पृशे ॥ KRT_8_0587cd
कारायां गर्गशत्रुर्यस्तेन पूर्वं व्यधीयत । KRT_8_0588ab
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात् ॥ KRT_8_0588cd
निबद्धयौनसंबन्धं डामरैरपरैः समम् । KRT_8_0589ab
तं कारयित्वा समर्षो निनाय बलितां नृपः ॥ KRT_8_0589cd
शनैर्युद्धाय निर्याते राजसैन्येथ पूर्ववत् । KRT_8_0590ab
गर्गेण कदनं चक्रे योधानामरेश्वरे ॥ KRT_8_0590cd
तत्र सर्वातिशायिन्या वीरवृत्त्या नृपाश्रितः । KRT_8_0591ab
शमालाडामरः प्राप प्रथां पृथ्वीहरः परम् ॥ KRT_8_0591cd
रणे द्वारपतेर्गर्गनिर्जितस्य पलायने । KRT_8_0592ab
शौर्यं तिलकसिंहस्य प्राप सर्वोपहास्यताम् ॥ KRT_8_0592cd
हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः । KRT_8_0593ab
तदीया गर्गचन्द्रेण कारुण्यात्केपि रक्षिता ॥ KRT_8_0593cd
वह्निसात्क्रियमाणेषु वीरदेहेषु सर्वतः । KRT_8_0594ab
राजसैन्ये चिताग्नीनां गणना कापि नाभवत् ॥ KRT_8_0594cd
कृष्टसैन्येन राञ्जाथ गर्गो निर्दग्धमन्दिरः । KRT_8_0595ab
संत्यज्य लहरं प्रायाद्गिरिं धुडावनाभिधम् । KRT_8_0595cd
गिरिमूलोपविष्टस्य भूपतेः सैनिकैः समम् । KRT_8_0596ab
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु संगरम् ॥ KRT_8_0596cd

575.

--1) Emended with C; A प्रकम्पं सहिता॰.

577.

--1) Emended; A ॰श्रयान्प्राप्त॰.

581.

--1) Thus A; cf. viii. 764, 831, 1947(C).

[page 190]




कूटयुद्धैर्नृपानीकं प्रतिरात्र्युपतापयन् । KRT_8_0597ab
रणे त्रैलोक्यराजादिप्रमुखांस्तन्त्रिणोवधीत् ॥ KRT_8_0597cd
फाल्गुणे1 हिमसंभारभीमे परिमितानुगः । KRT_8_0598ab
स धीरो राज्ञ्यपि रिपौ न धैर्येण व्ययुज्यत ॥ KRT_8_0598cd
धैर्यवान्काकवंश्यस्तु तिलकः कम्पनापतिः । KRT_8_0599ab
परं शिखरिशृङ्गस्थं शक्तोभूत्तं प्रधावितुम् ॥ KRT_8_0599cd
पीडितस्तेन संप्रेष्य स्वभार्यातनयोन्तिकम् । KRT_8_0600ab
निन्येनुकूलतां भूपं प्रसादच्छादितक्रुधम् ॥ KRT_8_0600cd
गूढमन्युर्नृपः संधिं बद्ध्वा प्रचलितस्ततः । KRT_8_0601ab
तं मल्लकोष्ठकं वृद्धिं निनाय न पुनः शमम् ॥ KRT_8_0601cd
सेहेथ लहरे द्वित्रान्मासानविशदे नृपे । KRT_8_0602ab
स मल्लकोष्ठकासह्यस्पर्धीं नीचविमाननाम् ॥ KRT_8_0602cd
तन्मध्ये नृपतिर्गूढं बिभेदं तद्बलं नयन् । KRT_8_0603ab
तदीयानकरोद्भृत्यान्कर्णादीन्स्वहितावहान् ॥ KRT_8_0603cd
स खिन्नो नीचदायादसमशीर्षिकयाथ तैः । KRT_8_0604ab
प्रेरितः पार्थि1वाभ्यर्णं सदारतनयोविशत् ॥ KRT_8_0604cd
स्नातुं प्रवृत्तः पार्श्वस्थं स्नानद्रोण्युपरिस्थितः । KRT_8_0605ab
अथैकदा तमाक्षिप्तं शस्त्रमत्याजयन्नृपः ॥ KRT_8_0605cd
कुर्यादास्थामवष्टम्भे कोन्यः पौरुषमर्वितः । KRT_8_0606ab
आक्षेपसमये सोपि यत्क्लैव्यं भीरुवद्ययौ ॥ KRT_8_0606cd
उत्खातरोपितनृपः क्व नु सोभिमानः कार्पण्यभागितरलोकसमा क्व वृत्तिः । KRT_8_0607ab
यद्वावशं नटयति प्रकटं विधातुरिच्छैव यन्त्रगुणपङ्क्तिरिवात्र जन्तुम् ॥ KRT_8_0607cd
अशकन्युधि ये द्रष्टुमपि तं नास्य ते शठाः । KRT_8_0608ab
केपि राजप्रिया बाहू ग्रन्थिवद्धौ तया व्यधुः ॥ KRT_8_0608cd
श्रीसंग्राममठाभ्यर्णमन्दिरस्था नृपे स्वयम् । KRT_8_0609ab
संक्रान्ते1 प्राङ्गनं युद्धात्कल्याणाद्या व्यरंसिसुः ॥ KRT_8_0609cd
जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः । KRT_8_0610ab
सान्त्वमानः स्वयं राज्ञा कृच्छ्राच्छस्त्रं समार्पयत्1 KRT_8_0610cd
गर्गः सदारतनयो राजौकस्येव भूभुजा । KRT_8_0611ab
उपाचर्यत दाक्षिण्याद्बद्धो भोगैर्निजोचितैः ॥ KRT_8_0611cd
गार्गिः पलाय्य यातोपि चतुष्को निजमन्दिरात् । KRT_8_0612ab
अवर्णभाजा कर्णेन दृष्ट्वा राज्ञः समर्पितः ॥ KRT_8_0612cd
रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः । KRT_8_0613ab
अन्तःशुद्धिविहीनस्य व्रणस्येव न निश्चयः ॥ KRT_8_0613cd
दरद्राजे मणिधरे दिदृक्षावागते नृपः । KRT_8_0614ab
तत्संगमाय निर्यातो गर्गं भृत्यैरघातयत् ॥ KRT_8_0614cd
द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि । KRT_8_0615ab
सत्रा त्रिभिः सुतैह् कण्ठद्दरज्जुर्न्यपात्यत ॥ KRT_8_0615cd
निष्ठां बिम्बमुखान्निन्ये यथैव स नृपानुगैः । KRT_8_0616ab
तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यताम्भसि ॥ KRT_8_0616cd
तं चतुर्नवते वर्षे भाद्रपदे नृपः । KRT_8_0617ab
सुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ KRT_8_0617cd
कल्हे कालिञ्जराधीशे महादेव्याश्च मातरि । KRT_8_0618ab
मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ KRT_8_0618cd
तनम्ध्ये नागपालाख्यः सोमपालस्य सोदरः । KRT_8_0619ab
तेन प्रतापपालाख्ये हते द्वैमातुरेग्रजे ॥ KRT_8_0619cd
शङ्कितस्तन्निहन्तारं हत्वामात्यं पलायितः । KRT_8_0620ab
त्यक्तस्वदेशः शरणं ययौ सुस्सलभूभुजम् ॥ KRT_8_0620cd
क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः । KRT_8_0621ab
अगृह्णन्सोमपालस्य निश्चिकार्याभिषेणनम् ॥ KRT_8_0621cd
निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् । KRT_8_0622ab
स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ॥ KRT_8_0622cd
निशम्यानीतदायादं तं प्रकोपाकुलो नृपः । KRT_8_0623ab
दत्तास्कन्दोविशत्तीव्रतेजा राजपुरीं ततः ॥ KRT_8_0623cd
दत्त्वा राज्ये नागपालं सोमपाले पलायिते । KRT_8_0624ab
सप्त मासान्स तत्रासीत्तांस्तान्संवासयन्रिपून् ॥ KRT_8_0624cd

918.

--1) A फाल्गुणे.

604.

--1) Emended with C; A पार्णिवा॰.

605.

--1) Emended; A ॰क्षिप्तशस्त्रं.

609.

--1) Emended; A सङ्ग्रमि प्रा॰.

610.

--1) Emended with C; A समर्पयत्.

[page 191]




राज्ञां वज्रधरादीनां राजा वज्रधरोपमः । KRT_8_0625ab
सेवावसरदानेन प्रसादविवशोभवत् ॥ KRT_8_0625cd
भ्रमतां चन्द्रभागादिसरित्तीरेषु सर्वतः । KRT_8_0626ab
तत्सै1न्यानां मुखमपि द्रष्टुं शेकुर्न वैरिणः ॥ KRT_8_0626cd
अग्रगाम्यभवत्तस्य तिलकः कम्पनापतिः । KRT_8_0627ab
पृथ्वीहरो डामरश्च मार्गरक्षणदीक्षितः ॥ KRT_8_0627cd
धार्मिको नृपतिर्ब्रह्मपुरीं देवगृहांश्च सः । KRT_8_0628ab
मण्डलं द्विषतो रक्षन्प्रपेदे मौलिकं फलम् ॥ KRT_8_0628cd
तस्येन्द्रविभवस्यान्यत्सामग्र्यं वर्ण्यते कियत् । KRT_8_0629ab
आययावश्वघासोपि सैन्ये यस्य स्वमण्डलात् ॥ KRT_8_0629cd
तत्र प्रसङ्गे तत्राप्तीभवन्सुजनवर्धनः । KRT_8_0630ab
दूरस्थस्यानयद्रूढिं गौरकस्योपरि क्रुधम् ॥ KRT_8_0630cd
राष्ट्रगुप्त्यै स्वयं राज्ञा स्थापितः1 स स्वमण्डले । KRT_8_0631ab
अज्ञायि पैशुनाश्रुद्धबुद्धिना निखिलार्थहृत् ॥ KRT_8_0631cd
तत्संबब्धेन जनकं स निन्दन्नगराधिपम् । KRT_8_0632ab
मनस्तिलकसिंहस्य तद्भ्रातुरुदवेजयत् ॥ KRT_8_0632cd
हृत्वाधिकारं त्वस्याथ क्रुद्धः पर्णोत्ससंभवम् । KRT_8_0633ab
अनन्तात्मजमा1नन्दाभिधं द्वाराधिपं व्यधात् ॥ KRT_8_0633cd
सोमपालादयः श्लाघ्यास्तदा प्रकृतयोभवन् । KRT_8_0634ab
राज्ञस्तथा स्थितस्यापि न याः सविधमाययुः ॥ KRT_8_0634cd
स पञ्चनवते वर्षे वैशाख्येथ स्वमण्डलम् । KRT_8_0635ab
प्राविशन्नागपालोपि राज्यभ्रष्टस्तमन्वगात् ॥ KRT_8_0635cd
दुःसहातङ्कदूतेन लोभेन क्षोभित1स्ततः । KRT_8_0636ab
अदण्डयच्च वास्तव्याननयाच्चाल्पतां व्ययम् ॥ KRT_8_0636cd
निर्वार्य गौरकं कार्यात्कार्यिणस्तत्समाश्रितान् । KRT_8_0637ab
तस्य दण्डयतः सर्वे विरागं मन्त्रिणो ययुः ॥ KRT_8_0637cd
अकाण्डे व्यवहारेषु स विपर्यासितेष्वभूत् । KRT_8_0638ab
अवसन्नधनो गाढमप्रौढ्यान्नवमन्त्रिणाम् ॥ KRT_8_0638cd
सौवर्णीरिष्टकाः कृत्वा प्राहिणोल्लोहरान्तरे । KRT_8_0639ab
काञ्चनाद्रिप्रतीकाशान्स्वर्णराशीनढौकयत् ॥ KRT_8_0639cd
अथ दण्डयितुं गर्गभृत्यान्दण्डाधिकारिणम्1 KRT_8_0640ab
लहरेकृत गर्गस्य मन्त्रिणं गज्जकाभिधम् ॥ KRT_8_0640cd
तं दण्डभीतैर्गर्गस्य सेवकैराश्रितस्ततः । KRT_8_0641ab
विश्वस्तमवधीत्क्रुध्यंश्छद्मना मल्लकोष्ठकः ॥ KRT_8_0641cd
लहरे विप्लुते राजा द्वैमातुरमथाग्रजम् । KRT_8_0642ab
मल्लकोष्ठस्यार्जुनाख्यं बबन्ध सविधस्थितम् ॥ KRT_8_0642cd
हस्तं च सड्डचन्द्रस्य पुत्रं गोत्रिणमप्यसौ । KRT_8_0643ab
बद्ध्वा व्यधाद्बहिकाख्यं तस्य तद्भ्रातरं हितम् ॥ KRT_8_0643cd
पूर्ववैरं स्मरन्सूर्यं सपुत्रं तं परांस्त1था । KRT_8_0644ab
बबन्धानन्दचन्द्रादीन्नीत्युलङ्घनमाचरन् ॥ KRT_8_0644cd
निगते लहरं मल्लकोष्ठके विद्रुते ततः । KRT_8_0645ab
आरोप्यार्जुनकोष्ठं तं शूले कोपाद्व्यपादयत् ॥ KRT_8_0645cd
निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः । KRT_8_0646ab
डामरा निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ KRT_8_0646cd
क्रुध्यन्पृथ्वीहरायापि कृतसेवाथ मन्त्रिभिः । KRT_8_0647ab
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत् ॥ KRT_8_0647cd
कथं चित्सस् तु विस्तीर्णो जयन्तीविषयौकसः । KRT_8_0648ab
बन्धोः क्षीराभिधानस्य प्रविवेशोपवेशनम् ॥ KRT_8_0648cd
दिनेवन्तिपुरादीनां पुराणामन्तरेण तम् । KRT_8_0649ab
व्रहन्तं विधुरं केचिन्नाशकन्बाधितुं द्विषः ॥ KRT_8_0649cd
तद्वैधुर्यविधानं तत्प्रजासंहारकार्यभूत् । KRT_8_0650ab
प्रमादा1द्भूपतेः क्रुद्धवेतालोत्थापनोपमम् ॥ KRT_8_0650cd
क्षीरोथ तीक्ष्णधीर्वृद्धः सह पृथ्वीहरेण सः । KRT_8_0651ab
अढौकयच्छमाङ्गासान्तरेष्टादश डामरान् ॥ KRT_8_0651cd
अभेद्यसंधांस्ताञ्जेतुं निर्यातो विजयेश्वरम् । KRT_8_0652ab
न्ययङ्क्त भूभृत्संभ्रान्तस्तिलकं कम्पनापतिम् ॥ KRT_8_0652cd
संग्रामैः खण्डशः कुर्वन्स तानतुलविक्रमः । KRT_8_0653ab
विद्रावयामास रयैः पुरोवायुरिवाम्बुदान् ॥ KRT_8_0653cd

626.

--1) Emended; A तान्सैन्य॰.

631.

--1) Emended with C; A स्थापितां.

633.

--1) Emended; A अनन्ताधिपमा॰. Cf. viii.713. 1005. 1042.

636.

--1) Emended; A क्षोभतस्ततः.

640.

--1) Emended with C; A ॰कारिणाम्.

644.

--1) Emended with C; A परंस्त॰.

650.

--1) Emended with C; A प्रमाद्भूपतेः.

[page 192]




संमानावसरे तस्य जित्वायातस्य डामरान् । KRT_8_0654ab
प्रवेशं प्रत्युत नृपो न प्रादादवमानकृत् ॥ KRT_8_0654cd
स भग्नमानो नगरं प्रविष्टे नृपतौ ततः । KRT_8_0655ab
खिन्नः स्ववेश्मन्यवसत्स्वामिकार्ये निरुद्यमः ॥ KRT_8_0655cd
संप्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया वैरे विद्विषतां कृता धुरि परं1 संधौ बहिः स्थापिताः । KRT_8_0656ab
कार्यान्तेद्भुतकर्मकौशलकृतावज्ञा विरागस्पृशः सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ॥ KRT_8_0656cd
त्यक्तकार्यानुसंधाने तस्मिन्सर्वत्र डामराः । KRT_8_0657ab
संभृतिं विक्रियां निन्युः कृषिं क्षयधना इव ॥ KRT_8_0657cd
आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे । KRT_8_0658ab
वह्नौ गुताग्निभिर्घोरा कुकीर्तिरुदपद्यत ॥ KRT_8_0658cd
उपसर्गेण तुरगाः करभाश्च क्षयं गताः । KRT_8_0659ab
न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ KRT_8_0659cd
प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे । KRT_8_0660ab
आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ KRT_8_0660cd
अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः । KRT_8_0661ab
ऊष्मस्पृष्टा हिमानीव बभूवापतनोन्मुखी ॥ KRT_8_0661cd
प्रथमं देवसरसाद्विल्पवप्रसरस्ततः । KRT_8_0662ab
मुखं व्यथावहो गण्ड इव पाकं व्यदर्शयत् ॥ KRT_8_0662cd
एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली । KRT_8_0663ab
स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ KRT_8_0663cd
तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः । KRT_8_0664ab
संरम्भं नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ KRT_8_0664cd
कथंचिदथ भूपेन प्रार्थितः कम्पनापतिः । KRT_8_0665ab
निर्ययौ स्वामिदौरात्म्य1संस्मृतिश्लथसौष्ठवः ॥ KRT_8_0665cd
विजयेन समं तस्य बद्धमूलेन संयुगे । KRT_8_0666ab
संदेहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ KRT_8_0666cd
प्रवृद्धिं मल्लकोष्ठेपि प्रयाते लहरान्तरे । KRT_8_0667ab
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् । KRT_8_0667cd
सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु ॥ KRT_8_0668ab
अरतिं निन्यरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ KRT_8_0668cd
बाहुमात्र1सहायेन सर्वशक्तिमतां वरः । KRT_8_0669ab
येन हर्षनरेन्द्रोपि विधुरेणोदपाद्यत ॥ KRT_8_0669cd
भूरीन्वाराञ्जितवतो विक्रमेण महीमिमाम् । KRT_8_0670ab
साहसानां न संख्यास्ति जामदग्न्यस्य यस्य वा ॥ KRT_8_0670cd
स संकुचितविक्रान्तिः कालस्य वलवत्तया । KRT_8_0671ab
तत्र भ्रग्नबलोकस्माद्व्ययुज्यत जयश्रिया ॥ KRT_8_0671cd
ततः पलायिते तस्मिन्नकस्मादेत्य सज्जकम् । KRT_8_0672ab
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ KRT_8_0672cd
पलायितस्यानुसंरंस्तस्य पृष्ठं स निष्ठुरः । KRT_8_0673ab
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ KRT_8_0673cd
स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् । KRT_8_0674ab
राज्ञो रजाश्रितानां च चार1केभ्यस्तुरंगमान् ॥ KRT_8_0674cd
निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् । KRT_8_0675ab
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ KRT_8_0675cd
नीविं पृथ्वीहरस्याथ हत्वा डामरमनिकम् । KRT_8_0676ab
पृष्ठन्यस्तविसं भोज्यमिव रात्रौ व्यसर्जयत् ॥ KRT_8_0676cd
विसृज्य भ्रातरं हम्ब विद्दकस्य तथै1व सः । KRT_8_0677ab
अन्येषां प्राहिणोत्पार्श्वं भ्रातॄन्पुत्रांश्च विप्लुतः ॥ KRT_8_0677cd
मातरं जय्यकाख्यस्य सिफिन्नाग्रामवासिनः । KRT_8_0678ab
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्णं व्यसर्जयत् ॥ KRT_8_0678cd
सपुत्रं सूर्यकं शूलेधिरोप्य नगरे परान् । KRT_8_0679ab
भूरीन्वध्यानवध्यांश्च क्रोधाक्रान्तो न्यपातयत् ॥ KRT_8_0679cd
कालस्येवोल्वणस्याथ तस्य सर्वेपि शङ्किताः । KRT_8_0680ab
आभ्यन्तराश्च बाह्याश्च विरागं प्रतिपेदिरे ॥ KRT_8_0680cd
येनैवानीतिमार्गेण हारितं हर्षभूभुजा । KRT_8_0681ab
निन्दन्नप्यादधे तं स राज्ये व्यवहरन्स्वयम् ॥ KRT_8_0681cd

656.

--1) Thus corr. by A1 from पदं.

665.

--1) Emended; A ॰दौरात्म्यासं॰.

669.

--1) मात्र supplied by A3.

674.

--1) Emended; A चरके॰.

677.

--1) Emended; A तथैव.

[page 193]




प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् । KRT_8_0682ab
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ KRT_8_0682cd
तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः । KRT_8_0683ab
निनाय मल्लकोष्टादीन्किंचिन्मन्दप्रतापताम् ॥ KRT_8_0683cd
अथानिनाय विजयो विषलाटाध्वना शनैः । KRT_8_0684ab
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ KRT_8_0684cd
विविक्षन्देवसरसं कम्पनापतिना ततः । KRT_8_0685ab
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतत्क्षितौ ॥ KRT_8_0685cd
परिज्ञाय हतस्याथ स तस्य विजयी शिरः । KRT_8_0686ab
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ KRT_8_0686cd
तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् । KRT_8_0687ab
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ KRT_8_0687cd
अवजानञ्जघानामुं श्वभ्राख्यः कम्पनापतिः । KRT_8_0688ab
तत्र कस्मात्तवोत्सेक इति तं संदिदेश च ॥ KRT_8_0688cd
सर्वप्रकारं तिलकः कृतघ्नं नृपतिं विदन् । KRT_8_0689ab
अथ जातविरागः स द्रोहौन्मुख्यं समादधे ॥ KRT_8_0689cd
सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् । KRT_8_0690ab
द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ KRT_8_0690cd
नेयाशयित्वमथ वोचितकृत्यकृत्त्वं नीतिप्रियाः प्रतिपदं समुदाहरन्तु । KRT_8_0691ab
मानोन्नतास्तु विहितस्तुतयः कृतज्ञैस्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ KRT_8_0691cd
पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरेः श्रुतिं यातं मन्त्रं पतननिरतां जीर्णवसतिम् । KRT_8_0692ab
असेवाज्ञं भूपं व्यसनविमुखं स्निग्धमजहन्न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ KRT_8_0692cd
इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि । KRT_8_0693ab
द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ KRT_8_0693cd
जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः । KRT_8_0694ab
अधिकाः पितृघातिभ्यः पापिनस्तत्प्रभुद्रुहः ॥ KRT_8_0694cd
निहते विजये शाम्यप्रभावेष्वपरेष्वपि । KRT_8_0695ab
नाज्ञायि कस्यचित्स्वास्थ्यं तत्त्वज्ञेनान्तरात्मनः ॥ KRT_8_0695cd
कंचित्क्षणं सोपसृतः प्रत्युतोग्रोपतापकृत् । KRT_8_0696ab
विप्लवप्रसरो ज्ञातः सर्वैर्हुड इवोन्मदः ॥ KRT_8_0696cd
आनिनीषुस्ततो मल्लकोष्टो1 भिक्षाचरं पुनः । KRT_8_0697ab
विषलाटां2 तस्य पार्श्वं सैन्यं व्यसर्जयत् । KRT_8_0697cd
कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः । KRT_8_0698ab
राज्ञा न्यषेधि तद्रोप्षादेवं च समदिश्यत ॥ KRT_8_0698cd
एनं वर्त्मन्यनुद्घाते त्यज हन्यामहं ततः । KRT_8_0699ab
पुरोगतं मृगव्यान्तः सृगालमिव वाजिभिः ॥ KRT_8_0699cd
द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः । KRT_8_0700ab
कर्तव्ये तत्र शाठ्यं स नृपतिः प्रत्यपद्यत ॥ KRT_8_0700cd
मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान् । KRT_8_0701ab
तिलकोकारयच्छैलमार्गैर्भिक्षाचरागमम्1 KRT_8_0701cd
स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका । KRT_8_0702ab
जनानां या ख्यातिहेतुर्भिक्षो राज्ञस्तु भीतिदा ॥ KRT_8_0702cd
नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश । KRT_8_0703ab
अश्रान्तो योजनशतं यात्यायाति च संचरन् ॥ KRT_8_0703cd
इत्यादितादृङ्माहात्म्यभिक्षुस्तुत्यानयज्जनः । KRT_8_0704ab
निखिलान्पलितश्वेतलम्बकूर्चोपि कौतुकम् ॥ युग्मम्1 KRT_8_0704cd
भविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक् । KRT_8_0705ab
वार्तामव्यवहर्तापि भिक्षोरूचेन्वियेष च ॥ KRT_8_0705cd
सरित्स्नानगृहे स्नान्तो वृद्धाः क्षीणनियोगिनः । KRT_8_0706ab
राजवेश्मन्यगणिता नाममात्रनृपात्मजाः ॥ KRT_8_0706cd
स्वभावदुर्जनाः केचिद्योधाश्चोच्चाश्वकाङ्क्षिणः । KRT_8_0707ab
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कष1णं नखैः ॥ KRT_8_0707cd

194.

--1) Emended; A ॰कोष्ठं.

--2) Emended; A विषलाटं. Cf. viii. 177. 1074. 1564(C).

701.

--1) Emended; A ॰चरागम्.

704.

--1) A1 writes 2 instead of युग्मम्.

707.

--1) Thus corr. by A3 from A1 शिष्याक्स्फिक्क॰.

[page 194]




वृद्धाः सुरौकोनर्तक्यो देवप्रासादपालकाः । KRT_8_0708ab
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्पराः ॥ KRT_8_0708cd
प्रायोपवेशकुशलाः पारिषद्यद्विजातयः । KRT_8_0709ab
शस्त्रिणः कार्षकप्राया नगरोपान्तडामराः ॥ KRT_8_0709cd
सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया । KRT_8_0710ab
एते प्रायेण देशेस्मिन्पार्थिवोपप्लवप्रियाः ॥ कुलकम्॥ KRT_8_0710cd
प्रवर्धमानया भिक्षाचरागमनवार्तया । KRT_8_0711ab
वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ KRT_8_0711cd
पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ । KRT_8_0712ab
राजानीकं बभञ्जाजौ निर्गत्यातुलविक्रमः ॥ KRT_8_0712cd
अनन्तकाकयोर्वश्यावानन्दद्वारनायकौ । KRT_8_0713ab
चक्रे तिलकसिंहं च मन्त्रिणस्त्रीन्पलायिनः ॥ KRT_8_0713cd
निहते विजये ज्यैष्ठे शुक्लषष्ट्यां पराभवम् । KRT_8_0714ab
तमाषाढस्य नृपतिः प्राप्याभूद्विवशः पुनः ॥ KRT_8_0714cd
उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम् । KRT_8_0715ab
पिपीलककुलस्याण्डोपसंक्रान्त्यैव वर्षणम् ॥ KRT_8_0715cd
प्रत्यासन्नं स राजाथ दुर्निमित्तैरुपद्रवम् । KRT_8_0716ab
विचिन्त्यायातमुचितं कर्तव्यं प्रत्यपद्यत ॥ युग्मम्1 KRT_8_0716cd
तृतीयेह्नि शुचेः शुक्ले ततः प्रास्थापयत्सुतम् । KRT_8_0717ab
देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ KRT_8_0717cd
ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः । KRT_8_0718ab
लोष्ठद्विजातयो विप्रा वितस्तायां विपेदिरे ॥ KRT_8_0718cd
स तेन दुर्निमित्तेन खिन्नो हुष्कपुरान्तिकम् । KRT_8_0719ab
अनुगम्याथ तान्द्वित्रैर्दिनैर्भूयोविशत्पुरम् ॥ KRT_8_0719cd
विना पुत्रेण देव्या च स ततः प्रत्यपद्यत । KRT_8_0720ab
प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम् ॥ KRT_8_0720cd
स मन्त्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् । KRT_8_0721ab
अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत् ॥ KRT_8_0721cd
स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् । KRT_8_0722ab
अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥ KRT_8_0722cd
श्रावणे लाहरैर्योधैरानीय बलशालिनाम् । KRT_8_0723ab
भिक्षुर्मडवराज्यानां डामराणामथार्प्यत ॥ KRT_8_0723cd
तेपि जन्या इव वरं श्वशुरालयसंनिभम् । KRT_8_0724ab
प्रावेशयंस्तं लहरमनुयान्तः ससैनिकाः ॥ KRT_8_0724cd
सभाजयित्वा तान्मल्लकोष्ठमुख्या निजां भुवम् । KRT_8_0725ab
व्यसर्जय1न्कम्पनेशप्रमाथाय1 पृथुश्रियः ॥ KRT_8_0725cd
सर्वतः परचक्रेथ पर्यापतति पार्थिवः । KRT_8_0726ab
संग्र1हीतुं प्रववृते पदातीनतुलव्ययः ॥ KRT_8_0726cd
तस्मिन्दुर्व्यसने राज्ञि वसुवर्षिणि सर्वतः । KRT_8_0727ab
अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ KRT_8_0727cd
नगरे सैन्यपतयः प्रतिमार्गमकारयन् । KRT_8_0728ab
तुरगान्न्यस्तसंनाहान्व्यायामसमरोन्मुखाः ॥ KRT_8_0728cd
मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः । KRT_8_0729ab
राजसैन्यैः समं युद्धमगृह्णन्नेत्य लाहराः ॥ KRT_8_0729cd
तैर्हिरण्यपुरोपान्ते प्रबन्धारब्धसंगरैः । KRT_8_0730ab
श्रीविनायकदेवाद्या राजसेनाधिपा हताः ॥ KRT_8_0730cd
आद्य एव रणे यातां राजानीकाद्विरोधिनः । KRT_8_0731ab
लब्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ KRT_8_0731cd
राजधान्यन्तिके क्षिप्तिकाख्यायाः सरितस्तटे । KRT_8_0732ab
पृथ्वीहरश्चकाराजावशेषसुभटक्षयम् ॥ KRT_8_0732cd
तिलके विजयेशस्थेप्यगृह्णन्नेत्य डामराः । KRT_8_0733ab
महासरित्तटे युद्धं खडूवीहोलडौक1सः ॥ KRT_8_0733cd
ते रुद्धनगरा दाहं क्वापि क्वापि च लुण्ठनम् । KRT_8_0734ab
वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ KRT_8_0734cd
निर्यत्सतूर्यपृतनाः प्रविशच्छस्त्रविक्षताः । KRT_8_0735ab
क्रन्दद्धताप्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ KRT_8_0735cd
प्रसरत्प्रेक्षिनिवहा व1हदाशुगभारिकाः । KRT_8_0736ab
संचार्यमाणसंनाहाः कृष्यमाणतुरंगमाः ॥ KRT_8_0736cd

716.

--1) A1 writes here 2 instead of युग्मम्.

725.

--1) and माथाय supplied by A3 in space left by A1.

726.

--1) Emended; A संगृहीतुं.

733.

--1) A ॰होलळौ॰.

736.

--1) Emended with C; A व्यहद॰.

[page 195]




आसन्नशान्तसंमर्दप्रसरत्पांसवोनिशम् । KRT_8_0737ab
दिने दिने राजपथा उपप्लवविशृङ्खलाः ॥ तिलकम्1 KRT_8_0737cd
प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु । KRT_8_0738ab
अद्य ध्रुवं जितो राजेत्यज्ञायि प्रतिवासरम् ॥ KRT_8_0738cd
धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् । KRT_8_0739ab
कृच्छ्रेणापि स्वराष्ट्रेण क्रष्टुं धैर्यादपार्यत ॥ KRT_8_0739cd
व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् । KRT_8_0740ab
शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत ॥ KRT_8_0740cd
प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः । KRT_8_0741ab
शस्त्रिलोके नरपतेर्निःसंख्योभूद्धनव्ययः ॥ KRT_8_0741cd
युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु । KRT_8_0742ab
नित्यं नरतुरंगानां सहस्राणि क्षयं ययुः ॥ KRT_8_0742cd
तुरंगबहलैर्हन्यमाना नृपबलैस्ततः । KRT_8_0743ab
लाहरा मल्लकोष्ठाद्या मन्दोद्रेकत्वमाययुः ॥ KRT_8_0743cd
भिन्नैराभ्यन्तरैरेव दत्तमन्त्राः सुरेश्वरीम् । KRT_8_0744ab
ते निन्युर्भिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ KRT_8_0744cd
सेतुना स्वल्पपार्श्वेन धन्विप्रायैः सरोन्तरे । KRT_8_0745ab
अवापि तैर्जयो मोचिवाजिभ्यश्च भयं रणे ॥ KRT_8_0745cd
द्रोग्धाथ कम्पनेशः स1 निवसन्विजयेश्वरे । KRT_8_0746ab
बलितां डामरान्निन्ये मन्दोद्रेकं स्फुरन्रणे ॥ KRT_8_0746cd
लवन्यलोको मा ज्ञासीदशक्तिं मेथ गच्छतः । KRT_8_0747ab
पृष्ठे निपत्य मा कार्षीद्द्यथां चेति विचिन्तयन् ॥ KRT_8_0747cd
स प्रभावं दर्शयितुम् प्राप्तस्य विजयेश्वरम् । KRT_8_0748ab
अज्जराजस्य सेनायां व्यावृत्त्य प्रस्थितोभवत् ॥ KRT_8_0748cd
सार्धां शतद्वयीं तस्य योधानां हतवानपि । KRT_8_0749ab
संत्यज्य विजयक्षेत्रं द्रोहकृन्नगरं ययौ ॥ KRT_8_0749cd
पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् । KRT_8_0750ab
नदन्तोद्रिशिरोरूढा मार्गान्सर्वांश्च तत्यजुः ॥ KRT_8_0750cd
त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् । KRT_8_0751ab
पूर्वचेष्टां स्मरन्भूपं जहास कृतसत्क्रियम् ॥ KRT_8_0751cd
इतरामात्यवत्स्थामस्थितोथ न निजोचितम् । KRT_8_0752ab
रणे प्रादर्शयत्किंचित्साक्षिभूत इव स्थितः ॥ KRT_8_0752cd
ततो मडवराज्यात्ते समस्ता एव डामराः । KRT_8_0753ab
अभ्येत्य प्रत्यपद्यन्त1 तां महासरितस्तटीम् ॥ KRT_8_0753cd
उपायाः सामभेदाद्या रिपुचक्रे प्रयोजिताः । KRT_8_0754ab
राज्ञो विफलतां जग्मुर्बहिराप्तैः प्रकाशिताः ॥ KRT_8_0754cd
क्रान्ततत्तन्महीपालमण्डलस्यापि भूपतेः । KRT_8_0755ab
फलं दोर्विक्रमस्याग्र्यमासीन्नगररक्षणम् ॥ KRT_8_0755cd
अमरेशे द्वारपतिः सार्धं तस्थौ नृपात्मजैः । KRT_8_0756ab
राजानवाटिकोपान्ते राजस्थानीयमन्त्रिणः ॥ 1 KRT_8_0756cd
दूरद्रीपान्तरगता इव स्वीचक्रिरे नृपात् । KRT_8_0757ab
ते प्रवासधनं भूरि न चायुध्यन्त कुत्रचित् ॥ KRT_8_0757cd
कटका विद्विषां सर्वे पर्यायेण जयाजयौ । KRT_8_0758ab
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ KRT_8_0758cd
मधुमत्तेन तेनाजौ वेतालेनेव वल्गता । KRT_8_0759ab
प्रायो वरा वराः सर्वे ग्रस्ता नृपचमूभटाः ॥ KRT_8_0759cd
उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे । KRT_8_0760ab
युवदेश्यस्यापि शौर्यमेकस्मिंस्तु तदाहवे ॥ KRT_8_0760cd
पृथ्वीहरस्यापजह्रे द्वन्द्वयुद्धाभिमानिना । KRT_8_0761ab
प्रहृत्य कृष्टकूर्चेन कराद्येनासिवल्लरी ॥ KRT_8_0761cd
युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः । KRT_8_0762ab
स्त्रीबालाद्या अपि वधं प्रमादात्प्रतिपेदिरे ॥ KRT_8_0762cd
एवं जनक्षये घोरे वर्धमाने किमप्यभूत् । KRT_8_0763ab
अनुत्साहान्नृपो गेहादपि निगन्तुमक्षमः ॥ KRT_8_0763cd
तस्मिन्निरुद्धसंचारे सोमपालस्तदन्तरे । KRT_8_0764ab
अलुण्ठयच्चाट्ट1लिकां लब्धरन्ध्रो ददाह च ॥ KRT_8_0764cd
सिंहे गजाहवव्यग्रे तद्गुहाग्रपरिग्रहे । KRT_8_0765ab
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ KRT_8_0765cd

737.

--1) A1 writes 3 instead of तिलकम्.

746.

--1) Thus corr. by A3 from A1 कम्पनेशस्य.

753.

--1) Thus corr. by A3 from A1 ॰पद्यत.

756.

--1) A1 writes here 2 for युग्मम् which would be in its place after the following verse.

764.

--1) Emended; A ॰चाटलिकां. Cf. viii. 581. 831. 1947(C).

[page 196]




राष्टद्वयोपमर्देन राजा निःसदृशेन सः । KRT_8_0766ab
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ KRT_8_0766cd
सर्वानौचित्यबहलः सर्वव्यसनदुःसहः । KRT_8_0767ab
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ KRT_8_0767cd
तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः । KRT_8_0768ab
राजानवाटिकाव्रिप्रैः प्रायश्चक्रे विरागिभिः ॥ KRT_8_0768cd
प्रार्थयन्ते स्म ते युद्धे तटस्थास्तव मन्त्रिणः । KRT_8_0769ab
गृहीत्वा नीविरेतेभ्यो लोहराद्रौ विसृज्यताम् । KRT_8_0769cd
न चेद्व्याप्य इवैतस्मिन्व्यसने स्थायितां गते । KRT_8_0770ab
को दध्यान्न परैर्नीतं प्रत्यासन्नं शरत्फलम् ॥ KRT_8_0770cd
न प्रत्यभैत्सीत्ताटस्थं यत्कालापेक्षया नृपः । KRT_8_0771ab
तस्मिंस्तैर्दर्शिते शङ्कां निखिला मन्त्रिणो दधुः ॥ KRT_8_0771cd
शक्तिस्तृणं कुब्जायितुं न यस्य स तदार्थिभिः । KRT_8_0772ab
विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ KRT_8_0772cd
कर्मस्थानोपजीव्युग्रपारिषद्यादिसंकुला । KRT_8_0773ab
तत्पार्श्वात्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ KRT_8_0773cd
तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् । KRT_8_0774ab
देशो व्याकुलतां कृच्छ्रं लुण्ठिश्चाघटतोत्1कटा ॥ KRT_8_0774cd
अदृष्टपार्थिवास्स्थानैः शठैरव्यवहारिभिः । KRT_8_0775ab
ऊचे तैः सान्त्वयन्राजा दुःस्थितस्तत्तदप्रियम् ॥ KRT_8_0775cd
लवन्यविप्लवाद्राज्ञः सोधिको विप्लवोभवत् । KRT_8_0776ab
गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ KRT_8_0776cd
काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् । KRT_8_0777ab
कांश्चित्स्वीकृत्य स प्रायं कथंचिद्विन्यवीवरत्1 KRT_8_0777cd
विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् । KRT_8_0778ab
प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ KRT_8_0778cd
तेनातिरभसात्स्थानं भित्त्वा प्रविशता पुरम् । KRT_8_0779ab
प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ KRT_8_0779cd
ईषन्मन्दप्रतापेन लवन्येष्व1पि भूपतेः । KRT_8_0780ab
पृथ्वीहरेण संधित्सा भेदेच्छोः संप्रकाशिता ॥ KRT_8_0780cd
तस्मिन्धुर्ये जिगीषूणां संधित्सौ भूभुजा समम् । KRT_8_0781ab
द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ KRT_8_0781cd
राज्ञा नागमठोपान्तमानेतुं प्रहितांस्ततः । KRT_8_0782ab
त्रीनमात्यान्सुविश्वस्तानागच्छंश्छद्मनावधीत् ॥ KRT_8_0782cd
धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः । KRT_8_0783ab
तेषां तिलकसिंहस्य पार्श्वे भृत्यास्त्रयो हताः ॥ KRT_8_0783cd
नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् । KRT_8_0784ab
इष्टे त्वाक्रन्दिनि परैः प्रहृतं करुणोज्झितैः ॥ KRT_8_0784cd
तद्वैशसं श्रुतवतो देशः सर्वो विरागकृत् । KRT_8_0785ab
राजधान्यन्तरे राज्ञो दुरुक्तिमुखरोभवत् ॥ KRT_8_0785cd
इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् । KRT_8_0786ab
अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ KRT_8_0786cd
अथ संजातवैक्लव्यो नेदमस्तीति चिन्तयन् । KRT_8_0787ab
किं कृत्यमित्यसदृशानपि पप्रच्छ भूपतिः ॥ KRT_8_0787cd
विष्समे वर्तमानस्य तस्य कश्चित्स नाभवत् । KRT_8_0788ab
अन्तर्जहास1 यो नान्त - - -2 न तुतोष वा ॥ KRT_8_0788cd
तमपि व्यसनापातं तस्य सोढवतस्ततः । KRT_8_0789ab
अभजन्त क्रमाद्भृत्याः प्रतिपक्षसमाश्रयम् ॥ KRT_8_0789cd
कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरोहितान् । KRT_8_0790ab
समाश्रयद्द्वारकार्यं तद्दत्तं प्रत्यपद्यत ॥ KRT_8_0790cd
गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् । KRT_8_0791ab
भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ KRT_8_0791cd
असिवाजितनुत्रादि दत्त्वा भिक्षाचरान्तिकम् । KRT_8_0792ab
अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ KRT_8_0792cd
किमन्यद्व्यक्तमेवाह्नि येवसन्पार्थिवान्तिके । KRT_8_0793ab
अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ KRT_8_0793cd
इतो याति ततश्चैति लोको व्यक्तमतन्त्रि1तः । KRT_8_0794ab
इति राजनि कुण्ठाज्ञे कोप्यजृम्भत विप्लवः ॥ KRT_8_0794cd
n
ँ 774>.
--1) एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰घटितोत्कटा>.
ँ 777>.
--1) अँ1 हस् Fइरसत् ड़्रित्तेन् ँ ॰द्विन्यवीवृतम> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् बेत्ड़ेन् थे लिनेस्.
ँ 780>.
--1) छोन्जेच्तुरल् रेaदिनग्;् अँ ँ न वन्येष्वपि>.
ँ 788>.
--1) एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰दासो>.
--2) ठुस् अँ;् छ् ँ नान्तर्बहिर्यो न>.
ँ 794>.
--1) अँ1 हस् Fइरसत् ड़्रित्तेन् ँ ॰तन्द्रितः> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् इन् मर्गिन्.
197 p
डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः । KRT_8_0795ab
कान्दिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ KRT_8_0795cd
प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् । KRT_8_0796ab
भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ KRT_8_0796cd
क्व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य संपदः । KRT_8_0797ab
पराममर्श1 नैवेति गतानुगतिको जनः ॥ KRT_8_0797cd
संदृश्यते परिवृता चिरमम्बरेण रेखा स्वयं न खलु या शशिनो नवस्य । KRT_8_0798ab
तस्यां जनः प्रकुरुते नतिमम्बरार्थी धिग्लुब्धतामपसरत्सदसद्विचाराम् ॥ KRT_8_0798cd
विजये राजवर्ग्याणां भुग्नग्रीव इवाभवत् । KRT_8_0799ab
भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ KRT_8_0799cd
द्विजकौलेयकन्यायो राजडामरसंघयोः । KRT_8_0800ab
ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत ॥ KRT_8_0800cd
राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः । KRT_8_0801ab
ऐच्छन्पलायितुं भीता अज्ञातग्न्योन्यनिश्चयाः ॥ KRT_8_0801cd
बान्धवानपि दुध्रुक्षू1नविश्वस्तो विदन्नृपः । KRT_8_0802ab
स्थितौ पलयने वापि श्रद्दधे न स्वजीवितम् ॥ KRT_8_0802cd
तं महाव्यसने वासःस्वर्णरत्नादिवर्षणम् । KRT_8_0803ab
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ KRT_8_0803cd
नष्टोयं नैष भवितेत्यभीतेर्जल्पतो जनात् । KRT_8_0804ab
वचो रोगी भिषक्त्यक्त इव शृण्वन्स विव्यथे ॥ KRT_8_0804cd
अप्यग्रोपस्थितं किंचित्तदादेशेन ढौकयन् । KRT_8_0805ab
सविलासं सगर्वं च तमैक्षिष्टानुगव्रजः ॥ KRT_8_0805cd
सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो । KRT_8_0806ab
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ KRT_8_0806cd
यावदैच्छन्संघभेदाच्चलितुं डामरव्रजाः । KRT_8_0807ab
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्विसूत्रताम् ॥ KRT_8_0807cd
ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे । KRT_8_0808ab
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ KRT_8_0808cd
ददद्धनं धनेशश्रीर्देयादप्यधिकं नृपः । KRT_8_0809ab
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ KRT_8_0809cd
मर्तुं चिच1लिषुस्तीर्थमृणिकैरिव सामयः । KRT_8_0810ab
स रुद्ध्वा निखिलैर्देयं दापितोथ गतत्रपैः ॥ KRT_8_0810cd
स्थानपालैरपि प्रायकृद्भिराक्रम्य दापितः । KRT_8_0811ab
धनं सुवर्णभाण्डादि चूर्णीकृत्य विशृङ्खलैः ॥ KRT_8_0811cd
सवृद्धबालं नगरं ततः क्षुभ्यत्क्षणे क्षणे । KRT_8_0812ab
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ KRT_8_0812cd
एकदा प्रातरेवान्यै रुद्धद्वारः स्व1शस्त्रिभिः । KRT_8_0813ab
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ KRT_8_0813cd
ततः क्षोभं शमयितुं जनकं नगराधिपम् । KRT_8_0814ab
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ KRT_8_0814cd
कथंचिद्दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः । KRT_8_0815ab
सावरोधः स संनद्धो राजधान्या विनिर्ययौ ॥ KRT_8_0815cd
अङ्ग1नात्तुरगारूढो बहिर्यावन्न निर्ययौ । KRT_8_0816ab
राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ KRT_8_0816cd
अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् । KRT_8_0817ab
तद्भृत्यान्राज्यमुत्सृज्य लुण्ठिस्तावन्व्रजति शस्त्रिणः ॥ KRT_8_0817cd
विशृङ्खलस्त्रपाकोपशङ्काभिः शस्त्रिणां नृपः । KRT_8_0818ab
सहस्रैः पञ्चषैरासीद्व्रजन्ननुगतोध्वनिः ॥ KRT_8_0818cd
वर्षे षण्णवते1 कृष्णषष्ट्यां मार्गे विनिर्गतः । KRT_8_0819ab
याममात्रावशेषेह्नि सभृत्यो द्रोहविह्वलः ॥ KRT_8_0819cd
निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे । KRT_8_0820ab
स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ KRT_8_0820cd
तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् । KRT_8_0821ab
तत्र बन्धोरिवास्रूणि चिरं दुःखोल्बणोमुचत् ॥ KRT_8_0821cd
द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् । KRT_8_0822ab
वेश्म हुष्कपुरेन्येद्युस्तस्य च प्राविशत्स्वयम् ॥ KRT_8_0822cd

797.

--1) Emended; A ॰ममर्ष.

802.

--1) Emended; A दुद्रुक्षून॰.

810.

--1) Emended with C; A विचलि॰.

813.

--1) Emended; A स शस्त्रिभिः.

816.

--1) Emended; A आङ्गना॰.

819.

--1) Emended with C; A षण्णनवते.

[page 198]




तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसंग्रहम् । KRT_8_0823ab
प्रविश्य क्रमराज्यं स कर्तुम् भूयो जयो1त्सुकः ॥ KRT_8_0823cd
गूढं युयुत्सून्कल्याणवा1डादीनथ डामरान् । KRT_8_0824ab
आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ KRT_8_0824cd
गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ । KRT_8_0825ab
स्वीकुर्वन्स्वर्णदानेव दस्यून्मार्गविरोधिनः ॥ KRT_8_0825cd
प्रयान्तं तात् एवौज्झीत्तिलकस्तत्सहोदरः । KRT_8_0826ab
प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ KRT_8_0826cd
भृत्यत्यक्तः स दानेन विक्रमेण च तस्करान् । KRT_8_0827ab
अगान्मार्गेण शमयन्नायुःशेषेण रक्षितः ॥ KRT_8_0827cd
त्राणं सिंहनखा द्रुमाद्रिगहनस्यारादरण्यस्य ये तेषां बालगलाश्रयादपि भवेत्कालातिवाहः क्रमात् । KRT_8_0828ab
ये दन्ताः करिणां रणप्रहरणं तेप्याप्नुयुर्दीव्यतां क्रीडायां करताडनानि न दृढा शौर्यस्य रूढिः क्वचित् ॥ KRT_8_0828cd
जन्तूनां विक्रमत्यागयशःप्रज्ञादयो गुणाः । KRT_8_0829ab
भवे चित्रस्वभावेस्मिन्न भवेयुरभङ्गुराः ॥ KRT_8_0829cd
भास्वानप्यौग्र्यमृदुतां भिन्नाव1स्थां दिने दिने । KRT_8_0830ab
तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ KRT_8_0830cd
अशक्नुवन्नट्टलिकामरिप्लुष्टां निरीक्षितुम् । KRT_8_0831ab
मन्युनिःशब्दसैन्योद्रिमारुरोह स लोहरम् ॥ KRT_8_0831cd
स्वं कलत्रमपि द्रष्टुं तत्रातित्रपयाक्षमः । KRT_8_0832ab
शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम् ॥ KRT_8_0832cd
दत्तदीपादनिर्गच्छन्नन्तर्गेहाद्दिनेष्वपि । KRT_8_0833ab
दाक्षिण्याद्दर्शनं प्रादाद्भृत्यानां भोजनक्षणे ॥ KRT_8_0833cd
विलेपनानि नास्प्राक्षीन्नारुरोह तुरंगमान् । KRT_8_0834ab
गीतनृत्तादि नैक्षिष्ट सुखगोष्ठीर्न चादधे ॥ KRT_8_0834cd
ताम्यंस्ताटस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम् । KRT_8_0835ab
एकेनैकेन च स्मृत्वा स्मृत्वा देव्यै न्यवेदयत् ॥ KRT_8_0835cd
अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि । KRT_8_0836ab
निन्ये वृद्धिं परार्ध्यश्रीः स दाक्षिण्याद्धनार्पणैः ॥ KRT_8_0836cd
काश्मीरेषु गते तस्मिंस्तदैवाखिलमन्त्रिणः । KRT_8_0837ab
पुराण1राजधान्यग्रे ससैन्याः समगंसत ॥ KRT_8_0837cd
मन्त्र्यश्चारोहसामन्ततन्त्रिपौरादिसंमतः । KRT_8_0838ab
तेषां जनकसिंहोभूदग्रणीर्नगराधिपः ॥ KRT_8_0838cd
स भिक्षोर्मल्लकोष्ठाद्यैराप्तैः कृतगतागतैः । KRT_8_0839ab
विश्वासाय सुतभ्रातृसुतौ नीविं प्रदापितः ॥ KRT_8_0839cd
प्रावर्तत भयभ्रश्यत्स्त्रीबालाद्यावृते पुरे । KRT_8_0840ab
अराजकाथ रजनी सर्वभूतभयावहा ॥ KRT_8_0840cd
निहताः केपि मुषिताः केपि केप्यरिभिः पुरे । KRT_8_0841ab
दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ KRT_8_0841cd
सैन्यैरन्येद्युरुन्नादैर्निरुद्धाखिलदिक्पथः । KRT_8_0842ab
सिन्दूरारुणपुण्ड्राश्वसादिमण्डलमध्यगः ॥ KRT_8_0842cd
विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रहः । KRT_8_0843ab
मृगेन्द्र इव लोकस्य भयकौतूहलावहः ॥ KRT_8_0843cd
वीरपट्टाञ्जलश्लिष्टैर्यौवनोद्रेचितैः कचैः । KRT_8_0844ab
अबद्धैः शोभितः पृष्ठे जयश्रीबन्धशृङ्खलैः ॥ KRT_8_0844cd
कुण्डलद्योतिना स्निग्धधवलायतदृष्टिना । KRT_8_0845ab
प्रत्यग्रश्मश्रुणा चारुनन्दनोल्लेखशोभिना ॥ KRT_8_0845cd
ताम्राधरेण वक्त्रेण श्रीसांनिध्याधिकत्विषा । KRT_8_0846ab
प्रत्यग्रश्मश्रुणा चारुचन्दनोल्लेखशोभिना ॥ KRT_8_0846cd
असेर्विकोशस्यान्तःस्थां श्रियमश्वेन वल्गता । KRT_8_0847ab
केसरच्छटया चा1पि चामरेणेव वीजयन् ॥ KRT_8_0847cd
पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम् । KRT_8_0848ab
स्वीकुर्वन्नर्हणां भिक्षुः प्राविशन्नगरं ततः ॥ कुलकम्॥ KRT_8_0848cd
तस्यार्भकस्य धात्रीव पृष्ठस्थो मल्लकोष्ठकः । KRT_8_0849ab
प्रययावप्रगल्भस्य सर्वकार्योपदेष्टृताम् ॥ KRT_8_0849cd
अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः । KRT_8_0850ab
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ KRT_8_0850cd

823.

--1) Emended; A जनोत्सुकः

824.

--1) A ॰न्कल्याणवाळादी॰.

830.

--1) Emended with C; A भिन्नोवस्थां.

837.

--1) Doubtful emendation; A पुराणि राज॰.

847.

--1) A omits here two akshara without indicating a lacuna; चापि supplied with C.

[page 199]




गृहं जनकसिंहस्य प्राक्कन्यावाप्तयेविशत् । KRT_8_0851ab
राज1लक्ष्मीं स संप्राप्तुं राजधानीं ततः परम् ॥ KRT_8_0851cd
दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ । KRT_8_0852ab
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ KRT_8_0852cd
वृष्टेन तादृशा भिक्षोरिति वृत्तेन शत्रुषु । KRT_8_0853ab
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ KRT_8_0853cd
प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः । KRT_8_0854ab
कोशेन1 नीतशेषेन विलासा नवभूपतेः ॥ KRT_8_0854cd
वाजिवर्मासिभूयिष्ठां राजलक्ष्मीं विभेजिरे । KRT_8_0855ab
राजडामरलुण्ठाकमन्त्रिणो यन्त्रणोज्झिताः ॥ KRT_8_0855cd
पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे । KRT_8_0856ab
दस्यवो ग्रामभोगार्हाः पिशाचा इव गह्वराः ॥ KRT_8_0856cd
अस्थाने न बभौ भूभृद्ग्रामीणैः सर्वतो वसन् । KRT_8_0857ab
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ KRT_8_0857cd
भिक्षाचरस्यासंभाव्यप्रादुर्भावतया प्रथाम् । KRT_8_0858ab
डामरा अवतारोयमित्यन्यां निन्यिरे प्रथाम् ॥ KRT_8_0858cd
राज्यस्यानन्यदृष्टस्य कर्तव्येषु मुमोह सः । KRT_8_0859ab
अदृष्टकर्मेव भिषग्भैषज्यस्य पदे पदे ॥ KRT_8_0859cd
शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् । KRT_8_0860ab
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ॥ KRT_8_0860cd
जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः । KRT_8_0861ab
पादाग्राधिकृतोद्राक्षीत्स्वार्थमर्थं न तु प्रभोः ॥ KRT_8_0861cd
सर्वाधिकारिणं राजलक्ष्मीर्बिम्बमशिश्रियत्1 KRT_8_0862ab
राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ KRT_8_0862cd
वेश्यायत्तीकृतैश्वर्यः प्राकृताचारबहगपि । KRT_8_0863ab
अन्तरङ्गः सदसतां किंचिद्बिम्बस्तदाभवत् ॥ KRT_8_0863cd
द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः । KRT_8_0864ab
नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालोप्यशिश्रियत् ॥ KRT_8_0864cd
मन्त्रिणो भूतभिश्चाद्या1स्तस्य पैतामहा अपि । KRT_8_0865ab
लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ KRT_8_0865cd
मुग्धे राज्ञि प्रमत्तेषु मन्त्रिषूग्रेषु दस्युषु । KRT_8_0866ab
उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ KRT_8_0866cd
स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः । KRT_8_0867ab
भिक्षुर्नैक्षिष्ट कर्तव्यं मुखानुभवमोहितः ॥ KRT_8_0867cd
स सुखानुभवप्रावृड्निद्रान्धो विजयोद्यमे । KRT_8_0868ab
स्वैः प्रेरितः सभामध्ये स्वप्नुमैच्छन्मदालसः ॥ KRT_8_0868cd
दर्पेण सचित्रे वाभ्रं कथयत्यनुकम्पिकाम् । KRT_8_0869ab
न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत ॥ KRT_8_0869cd
निष्प्रतिष्ठैः सेव्यमानो वेश्यो1च्छिष्टैरशिष्टवत् । KRT_8_0870ab
अट्टचेटोचिताश्चेष्टा विटैः प्रैर्यत सेवितुम् ॥ KRT_8_0870cd
पानीयरेखाप्रतिमस्थैर्यस्याखिलस्तुंषु । KRT_8_0871ab
तस्याप्रमाणवचसः सेवाम् प्रणयिनो जहुः ॥ KRT_8_0871cd
यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः । KRT_8_0872ab
वचः सुषिरगर्भस्य तस्य प्रणयिनो जहुः ॥ KRT_8_0872cd
सचिवैः स्वगृहान्नीत्वा दत्तभोज्यः स मुग्धधीः । KRT_8_0873ab
धनी विपन्नपितृक इव प्रमुषितो विटैः ॥ KRT_8_0873cd
आहारमुष्टीर्बि1म्बस्य गृहे बिम्बनितम्बिनी । KRT_8_0874ab
तस्याश्वस्येव2 वडवा रागिणोग्रगताहरत् ॥ KRT_8_0874cd
वञ्चयित्वा दृशौ पत्युर्दर्शितैः स्मेरया तया । KRT_8_0875ab
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ KRT_8_0875cd
पृथ्वीहरो मल्लकोष्ठश्चान्योन्योद्भूतमत्सरौ । KRT_8_0876ab
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ KRT_8_0876cd
स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ । KRT_8_0877ab
तावन्योन्यमुपैक्षेतां1 न मन्युं विक्रमोन्मदौ ॥ KRT_8_0877cd
अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयम् नृपः । KRT_8_0878ab
जातामर्षेण सुस्पष्टं मल्लकोष्ठेन तत्यजे ॥ KRT_8_0878cd
द्रुह्यञ्जनककाणोपि संबन्धापेक्षयोज्झितः । KRT_8_0879ab
विरागमोजानन्दादीन्निन्ये ब्राह्मणमन्त्रिणः ॥ KRT_8_0879cd

851.

--1) Thus A.

854.

--1) A कोषेण.

862.

--1) Emended with C; A राजा लक्ष्मीबिम्बमशिश्रयन्.

865.

--1) Emended; A भूतविश्चा॰. Cf. vii. 1695. viii. 94.

870.

--1) Emended with C; A वैश्यैच्छ॰.

874.

--1) Emended; A ॰मुष्टिर्वि॰.

--2) Emended with C; A तस्याश्चेव.

877.

--1) Emended; A ॰मुपेक्षेतां.

[page 200]




तटस्थो द्रोग्धृदुर्बुद्धिप्रायभृत्यविधेयधीः । KRT_8_0880ab
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ KRT_8_0880cd
डामरस्वामिके लोके प्राभवत्को न विप्लवः1 KRT_8_0881ab
ब्राह्मण्यो घर्षणं यत्र श्वपाकेभ्योपि लेभिरे ॥ KRT_8_0881cd
अराजकेथ वा भूरिराजके मण्डले तदा । KRT_8_0882ab
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ KRT_8_0882cd
दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः । KRT_8_0883ab
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ KRT_8_0883cd
राजपुर्यध्वना बिम्बं ससैन्यमाथ पार्थिवः । KRT_8_0884ab
लोहरं प्राहिणोत्कर्तुं सुस्सलास्कन्दमुन्मदः ॥ KRT_8_0884cd
तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः । KRT_8_0885ab
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ KRT_8_0885cd
संदर्श्य पाशमेतेन बद्ध्वा क्रक्ष्यामि सुस्सलम् । KRT_8_0886ab
इत्येक एकोश्वारोहस्तुरुष्काणामकत्थत1 KRT_8_0886cd
काश्मीरिक1खशम्लेच्छयोधव्यतिकरोभवत् । KRT_8_0887ab
न केषां नाम संभाव्यो विश्वोत्पाटनपाटवः ॥ KRT_8_0887cd
भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः । KRT_8_0888ab
न कासामव्यवस्थानां मूढः स्थानमजायत ॥ KRT_8_0888cd
स निमन्त्र्य निजं नीतो गृहं बिम्बावरुद्धया । KRT_8_0889ab
भोगसंभोगदानेन धर्षण्या पर्यतोप्यत ॥ KRT_8_0889cd
कार्यापेक्षापि तस्यासीन्न मन्त्रिस्त्रीसमागमे । KRT_8_0890ab
कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ KRT_8_0890cd
आद्यूनानुगुणं1 भोज्यं कुम्भकांस्यादिवादनम् । KRT_8_0891ab
तत्र प्राकृतकामीव न स जिह्राय शीलयन् ॥ KRT_8_0891cd
शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः । KRT_8_0892ab
काले भोज्यमपि प्राप्यं नासीद्गलितसंपदः ॥ KRT_8_0892cd
तादृक्प्रलोभक्रौर्यादिक्रान्तो यः प्रागगर्ह्यत । KRT_8_0893ab
स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ KRT_8_0893cd
धनमानादिनाशं या विरक्तास्तस्य चक्रिरे । KRT_8_0894ab
काङ्क्षन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ KRT_8_0894cd
प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् । KRT_8_0895ab
ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ KRT_8_0895cd
क्षणाद्वैमुख्यमायान्ति सांमुख्यं यान्ति च क्षणात् । KRT_8_0896ab
न हेतुं कंचिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ KRT_8_0896cd
ते मल्लकोष्ठजनकादयो दूतैर्विसर्जितैः । KRT_8_0897ab
त्यक्तराज्यं पुनर्भूपं जयोद्यममजिग्रहन् ॥ KRT_8_0897cd
अक्षोमुवाग्रहारेथ लोकैष्टिक्कस्य लुण्ठिते । KRT_8_0898ab
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ KRT_8_0898cd
तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे । KRT_8_0899ab
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ KRT_8_0899cd
ओजानन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः । KRT_8_0900ab
गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्षदः ॥ KRT_8_0900cd
युग्यार्पितैः सितच्छत्त्रवस्त्रचामरशोभिभिः । KRT_8_0901ab
विबुधप्रतिमावृन्दैः सर्वतश्च्छादिताङ्गनः ॥ KRT_8_0901cd
काहलाकांस्यतालादीवाद्यक्षोभितदिङ्मुखः । KRT_8_0902ab
अदृष्टपूर्वो ददृशे पारिषद्यसमागमः ॥ KRT_8_0902cd
ते सान्तवमाना भूभर्तुर्दूतैरुत्सेकवादिनः । KRT_8_0903ab
न विना लम्बकूर्चं नो गतिरित्यब्रुवन्वचः ॥ KRT_8_0903cd
ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् । KRT_8_0904ab
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसंनिभम् ॥ KRT_8_0904cd
प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने । KRT_8_0905ab
अमन्त्रयत कां कां न व्यवस्थां पर्षदां गणः ॥ KRT_8_0905cd
नृपापातभयात्क्षोभं मुहुर्मुहुरुपागतैः । KRT_8_0906ab
पारिषद्यैश्च पौरैश्च योद्धुमास्थीयतोद्धतम् ॥ KRT_8_0906cd
वश्यं जनकसिंहस्य नगरं तन्मतेन तत् । KRT_8_0907ab
सज्जं सुस्सलदेवस्य कृत्स्नमानयनेभवत् ॥ KRT_8_0907cd
प्रायाद्वारयितुं पूर्वमग्रहारद्विजान्नृपः । KRT_8_0908ab
प्रययौ विजयक्षेत्रं तत्रासीच्च हतोद्यमः ॥ KRT_8_0908cd

881.

--1) A1 had first repeated here the second half of verse 878, but has subsequently erased it and written as above.

886.

--1) Conjectural reading; A ॰स्तुरुष्कामकथ्यत; C ॰तुरुष्कैः समकथ्यत.

887.

--1) Emended; A काश्मीरक॰.

892.

--1) Emended with C; A ॰गुणो.

[page 201]




तन्मध्ये निखिलांस्तत्र डामरांस्तिलकोब्रवीत् । KRT_8_0909ab
व्यापादयेति तं तच्च सत्त्वैकाग्रो न सोग्रहीत् ॥ KRT_8_0909cd
राज्ञ एव मुखाद्बुद्ध्वा1 लवन्यास्तद्विशश्वसुः । KRT_8_0910ab
तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ KRT_8_0910cd
भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् । KRT_8_0911ab
बन्धु1मैच्छन्नृपोस्निग्धं प्रययौ स तु सुस्सलम् ॥ KRT_8_0911cd
ततः प्रविश्य नगरं संनिपत्याखिलं जनम् । KRT_8_0912ab
अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ KRT_8_0912cd
युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः । KRT_8_0913ab
पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ KRT_8_0913cd
अत्रान्तरे सोमपालबिम्बाद्या लोहरे1 स्थितम् । KRT_8_0914ab
योद्धुं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ KRT_8_0914cd
तं च पद्मरथो नाम राजा कालिञ्जरेश्वरः । KRT_8_0915ab
मैत्रीं संस्मृत्य कल्हाद्यैराययौ तत्कुलोद्भवः ॥ KRT_8_0915cd
सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् । KRT_8_0916ab
तैर्मानी सुस्सलो रजा संग्रामं प्रत्यपद्यत ॥ KRT_8_0916cd
प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोप्त्सान्तिके रणः । KRT_8_0917ab
तस्याद्भुतोवमानाग्निक्षालनप्रथमक्षणः ॥ KRT_8_0917cd
कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् । KRT_8_0918ab
तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ KRT_8_0918cd
भयस्स्खलितपाशानां कालपाशैः समागमम् । KRT_8_0919ab
स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ KRT_8_0919cd
मातुलं सोमपालस्य निन्ये कवलतां बली । KRT_8_0920ab
रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ KRT_8_0920cd
किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् । KRT_8_0921ab
हतविद्रुतविध्वस्तान्य1थात्मपरिपन्थिनः ॥ KRT_8_0921cd
काश्मीरिकाणा1मौचित्यं किं नाभूत्स्वामिनो ददुः । KRT_8_0922ab
एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ KRT_8_0922cd
तुरुष्कैः सह यातेथ सोमपाले गतत्रपाः । KRT_8_0923ab
बिम्बं काश्मीरिका1स्त्यक्त्वा राजान्तिकमशिश्रियन् ॥ KRT_8_0923cd
ह्यो धनूंसि शिरांस्यद्य नमयन्तोद्भुताशयाः । KRT_8_0924ab
कुलप्रभोः पुरः स्पष्टं न ते धृष्टा ललज्जिरे ॥ KRT_8_0924cd
आगच्छद्भिस्ततः पौरैर्डामरैश्च समं नृपः । KRT_8_0925ab
प्रतस्थे दिवसैर्द्वित्रैः कश्मीराभिमुखः पुनः ॥ KRT_8_0925cd
राजपुत्रः साहदेविह् कल्हणो विशतः प्रभोः । KRT_8_0926ab
डामरान्क्रमराज्यस्थान्संगृह्याग्रेसरोभवत् ॥ KRT_8_0926cd
य एव प्रथमं राजसैन्याद्भिक्षुमशिश्रियत् । KRT_8_0927ab
स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ KRT_8_0927cd
अन्ये जनकसिंहस्य संमता मन्त्रितन्त्रिणः । KRT_8_0928ab
प्रत्युद्यन्तो व्यलोक्यन्त नृपतिं निरपत्रपाः ॥ KRT_8_0928cd
काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः । KRT_8_0929ab
भाङ्गिले कश्चिदभवच्छून्ये क्रान्तोपवेशनः1 KRT_8_0929cd
भिक्षुर्वितीर्णमार्गं तं सुस्सलान्तिकगामिनः । KRT_8_0930ab
लोकस्यात्रान्तरे जेतुं सहपृथ्वीहरो ययौ ॥ KRT_8_0930cd
जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् । KRT_8_0931ab
क्रोधाज्जनकसिंहं च वार्तां तां च1 विवेद सः ॥ KRT_8_0931cd
नगरस्थेन तेनाथ पौराश्वारोहतन्त्रिणः । KRT_8_0932ab
संघटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥ KRT_8_0932cd
जानांस्तेनावृतं राज्यं ततो भिक्षाचरो नृपः । KRT_8_0933ab
पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ KRT_8_0933cd
सेतौ सदाशिवाग्रस्थे तत्सैन्यैः सह सम्गरम् । KRT_8_0934ab
दृप्यञ्जनकसिंहोथ सान्त्वमानोपि सोग्रहीत् ॥ KRT_8_0934cd
दृष्टं जनकसिंहस्य योधानां बल्गतां मदात् । KRT_8_0935ab
अविशङ्क्य पराभूतिं मुहूर्तं सुभटायितम् ॥ KRT_8_0935cd
अलकेन समं पृथ्वीहरस्तद्भ्रातृसूनुना । KRT_8_0936ab
अन्येन सेतुना तीर्त्वा तस्य सैन्यमनाशयत् ॥ KRT_8_0936cd
तन्त्र्यश्वा1रोहपौरेषु विद्रुतेषु सबान्धवः । KRT_8_0937ab
नक्तं जनकसिंहोथ पलाय्य लहरं ययौ ॥ KRT_8_0937cd

910.

--1) Emended; A मुखाद्बुद्ध्वा.

911.

--1) Emended; A बन्धुमै॰.

914.

--1) Emended; A लहरे.

921.

--1) Emended; A ॰ध्वस्तयथा॰.

922.

--1) Emended; A काश्मीरका॰.

923.

--1) Emended; A काश्मीरका॰.

929.

--1) Emended with C; A ॰वेदनः.

931.

--1) Emended with C; A .

937.

--1) Emended with C; A तन्व्यारोह॰.

[page 202]




भिक्षुपृथ्वीहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ । KRT_8_0938ab
तत्पश्चात्तेश्ववाराद्या धृष्टा भूयोप्यशिश्रियन् ॥ KRT_8_0938cd
क्षिप्त्वा क्षिप्रं स्वकक्ष्यान्तर्विबुधप्रतिमा भयात् । KRT_8_0939ab
ते पारिषद्याविप्राद्याः प्रायमुत्सृज्य विद्रुताः ॥ KRT_8_0939cd
शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा । KRT_8_0940ab
प्रायान्निवृत्ता वयमित्युक्तवन्तो न बाधिताः ॥ KRT_8_0940cd
ह्यो जानके भैक्षवेद्य वल्गत्तुङ्गतुरंगमान् । KRT_8_0941ab
दृष्टवन्तो वयम् सैन्ये सादिनोद्यापि साद्भुताः ॥ KRT_8_0941cd
भिक्षुराजप्रदीपेन द्योतितः क्षणभङ्गिना । KRT_8_0942ab
पैतृ1व्येणाधिकारेण स्यालस्तिलकसिंहजः ॥ KRT_8_0942cd
गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् । KRT_8_0943ab
विधातुं वेश्मभङ्गादि लब्धं भिक्षुमहीभुजा ॥ KRT_8_0943cd
अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु । KRT_8_0944ab
भङ्गं सुल्हणसिम्बाद्यैः समेतानन्तसैनिकैः ॥ KRT_8_0944cd
अग्रायातैर्मल्लकोष्ठजनकाद्यैः ससैनिकैः । KRT_8_0945ab
अपरैरपि सामन्तैर्बलबाहुल्यशालिभिः ॥ KRT_8_0945cd
अन्वीयमानो दिवसैर्द्वित्रैराक्रान्तमण्डलः । KRT_8_0946ab
विंशल्लहरमार्गेण विपक्षालक्षितोपतत् ॥ KRT_8_0946cd
नगरापणवीथ्यन्तर्हयारोहमुखान्पु1रः । KRT_8_0947ab
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वसः ॥ KRT_8_0947cd
वेष्टितालम्बकूर्चेन वक्त्रेण भ्रुकुटीभृता । KRT_8_0948ab
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ KRT_8_0948cd
कांश्चित्संतर्जयन्निन्दन्नन्यान्भग्नांस्तथापरान् । KRT_8_0949ab
तीव्रातपश्यामवपुस्ताम्यन्काल इवोल्बणः ॥ KRT_8_0949cd
आशीर्घोषकृतां पुष्पवर्षिणां पुरवासिनाम् । KRT_8_0950ab
पूर्वापकारिणां श्रेणीष्ववज्ञान्यस्तलोचनः ॥ KRT_8_0950cd
स्कन्धमात्रोपरि न्यस्तं कवचं हेलया दधत् । KRT_8_0951ab
केशानन्तशिरस्त्रान्तनिःसृतान्धूलिधूसरान् ॥ KRT_8_0951cd
पक्ष्मालां च विभ्राणः सकोशासिस्तुरंगिणाम् । KRT_8_0952ab
आकृष्टखड्गमालानामन्तर्वल्गत्तुरंगमः ॥ KRT_8_0952cd
ससिंहनादैरुद्दामैर्भेरीभांकारनिर्भरैः । KRT_8_0953ab
बलैर्भरितदिक्कोशः सुस्सलः प्राविशत्पुरम् ॥ कुलकम्॥ KRT_8_0953cd
षड्भिः सद्वादशदिनैर्मासैर्ज्येष्ठे सितेहनि । KRT_8_0954ab
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ KRT_8_0954cd
राजधानीमप्रविष्टो भिक्षुं पूर्वपलायितम् । KRT_8_0955ab
अन्विष्यन्क्षिप्तिकातीरे सलवन्यं1 व्यलोकयत् ॥ KRT_8_0955cd
सरित्पारं रिपौ प्राप्ते स सपृथ्वीहरो गतः । KRT_8_0956ab
मार्गे लवन्यैर्मिलितैरन्यैः साकं न्यवर्तत ॥ KRT_8_0956cd
तं विद्राव्य रणे राजा बद्ध्वा प्रहृतिविक्षतम् । KRT_8_0957ab
सिंहं पृथ्वीहरज्ञातिं राजधानीमथाविशत् ॥ KRT_8_0957cd
उपभोगैः सपत्नस्य तत्कालनिःसृतस्य सा । KRT_8_0958ab
अङ्किता मानिनस्तस्य वेश्येवोद्वेगदाभवत् ॥ KRT_8_0958cd
भिक्षुः संत्यज्य कश्मीरान्सह पृथ्वीहरादिभिः । KRT_8_0959ab
ग्रामं पुष्याणनाडाख्यं सोमपालाश्रयं ययौ ॥ KRT_8_0959cd
प्रस्थिते1 डामरान्सर्वान्राजा स्वीकृत्य तु व्यधात् । KRT_8_0960ab
खेर्यां वट्टात्मजं मल्लं हर्षमित्रं च कम्पने ॥ KRT_8_0960cd
पूर्वापकारं स्मरतो देशकालानपेक्षिणः । KRT_8_0961ab
..........................................॰1 KRT_8_0961cd
भिक्षुसंपर्कजं गन्धमपि सोढुमशक्नुवन् । KRT_8_0962ab
भृत्येभ्यः खण्डशः कृत्वा द्वेषात्सिंहासनं ददौ ॥ KRT_8_0962cd
अनयोपार्जितां त्यक्तुमनीशा डामराः श्रियम् । KRT_8_0963ab
समन्योश्च नृपाद्भीता नात्यजन्विप्लवोद्यमम् ॥ KRT_8_0963cd
भिक्षुस्तु राज्यभ्रष्टः सुहृदो विषये वसन् । KRT_8_0964ab
उत्साहं सोमपालस्य दानमानैः पुनर्ययौ ॥ KRT_8_0964cd
बिम्बः साहायकप्रार्थी विस्मयस्यान्तिकं गतः । KRT_8_0965ab
तस्मिन्विरोधिभिर्बद्धे1 रणे धीरस्तनुं जहौ ॥ KRT_8_0965cd
भिक्षाचरो1 बिम्बशून्यो भजन्दुर्नयपात्राम् । KRT_8_0966ab
अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ KRT_8_0966cd

942.

--1) Emended; A पितृव्येणा॰.

947.

--1) Emended; A ॰मुखात्पुरः.

948.

--1) Emended with A वस्त्रेण.

955.

--1) Emended with A सकवन्यो.

960.

--1) Thus A; perhaps to be emended प्रस्थितो.

961.

--1) Here two are missing. A does not indicate the lacuna; C supplements पूर्व्वविद्वेषिणस्तस्य न कृपां प्रतिपेदिरे.

965.

--1) Emended; A ॰र्बद्धैः; C ॰र्बद्धो.

966.

--1) Emended with C; A भिक्षाचरे.

[page 203]




निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली । KRT_8_0967ab
जित्वा पृथ्वीहरो बट्टात्मजं व्यद्रा1वयद्रणात् ॥ KRT_8_0967cd
तस्मिन्पलायिते भिक्षुं पुनरानीय सोविशत् । KRT_8_0968ab
भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ KRT_8_0968cd
तत्रत्यैर्मङ्खजय्याद्यैर्डामरैः स्वीकृतैः समम् । KRT_8_0969ab
जगाम विजयक्षेत्रं विजेतुम् कम्पनापतिम् ॥ KRT_8_0969cd
निजस्तेनाहवे हर्षमित्रो निहतसैनिकः । KRT_8_0970ab
विजयेश्वरमुत्सृज्य भीतोवन्तिपुरे ययौ ॥ KRT_8_0970cd
विजयक्षेत्रजास्तत्तत्पुरग्रामोद्भवा अपि । KRT_8_0971ab
जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम् ॥ KRT_8_0971cd
योषिच्छिशुपशुव्रीहिधनोपेतैरपूर्यत । KRT_8_0972ab
स्थानं ततैश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ KRT_8_0972cd
अन्वारूढैरथ स्पष्टं लोकोल्लुण्ठनलालसैः । KRT_8_0973ab
ते1 भैक्षवैरवेष्ट्यन्त कटकैर्व्याप्तदिक्कटैः ॥ KRT_8_0973cd
तान्दारुमयवप्रौघद्वारगुप्ते सुरौकसः । KRT_8_0974ab
अङ्गने1 तिष्ठतो हन्तुं बन्द्धुं वा नाशकन्द्विषः ॥ KRT_8_0974cd
तदन्तरस्थितं दग्धुं कर्पूराख्यं स्ववैरिणाम् । KRT_8_0975ab
कश्चित्कतिस्थलीग्रामजन्मा निर्गुण1डामरः ॥ KRT_8_0975cd
पापो जनकरजाख्यस्तत्राग्निमुगदीदिपत् । KRT_8_0976ab
मूढस्तादृगपर्यन्तजन्तुसंहारनिर्घृणः ॥ KRT_8_0976cd
तमापतन्तं ज्वलितं ज्वलनं वीक्ष्य सर्वतः । KRT_8_0977ab
भूतग्रामस्य सुमहान्हाहाकारः समुद्ययौ ॥ KRT_8_0977cd
विशत्कृतान्तवाहारिभियेव छिन्नबन्धनैः । KRT_8_0978ab
अश्वैरसूचीसंचारा भ्रमद्भिर्जघ्निरे जनाः ॥ KRT_8_0978cd
प्राच्छाद्यत बलज्ज्वालाकरालैर्धूमराशिभिः । KRT_8_0979ab
व्योम पिङ्गकचश्मश्रुजालैर्नक्तंचरैरिव ॥ KRT_8_0979cd
निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः । KRT_8_0980ab
संतापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ KRT_8_0980cd
संतापविद्रुतव्योमचारिमौलिपरिच्युताः । KRT_8_0981ab
रक्तोष्णीषा इव भ्रेमुर्ज्वालाभङ्गा नभोङ्गने ॥ KRT_8_0981cd
दीर्घदारुग्रन्थिभङ्गजन्मा चटचटारवः । KRT_8_0982ab
तापप्रक्वाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ KRT_8_0982cd
स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसंनिभैः । KRT_8_0983ab
अग्राहि गहनव्योममार्गभ्रमणसंभ्रमः ॥ KRT_8_0983cd
शकुनैः शावसंचारशोकादाक्रन्दिभिर्नभः । KRT_8_0984ab
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ KRT_8_0984cd
भ्रातॄन्भर्तॄन्पितॄन्पुत्रानालिङ्ग्याक्रन्दनिर्भराः । KRT_8_0985ab
भीमीलितदृशो नार्यो निरदह्यन्त वह्निना ॥ KRT_8_0985cd
तदन्तरात्साहसिका ये केचिन्निरयासिषुः । KRT_8_0986ab
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ KRT_8_0986cd
तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् । KRT_8_0987ab
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ॥ KRT_8_0987cd
अन्तः शान्तेषु सर्वेषु बहिः शान्तेषु हन्तृषु । KRT_8_0988ab
क्षणादेव प्रदेशः स निःशब्दः समजायत ॥ KRT_8_0988cd
वह्नेः कहकहाशब्दो ह्रस्वीभूतार्चिषः परम् । KRT_8_0989ab
स्विद्यतश्च शवौघस्य श्रुतः सिमसिमाध्वनिः ॥ KRT_8_0989cd
विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः । KRT_8_0990ab
प्रसस्रुर्विस्रगन्धश्च योजनानि बहून्यगात् ॥ KRT_8_0990cd
एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् । KRT_8_0991ab
ईदृग्घु1तवहाबाधो घोरश्चक्रधरेभवत् ॥ KRT_8_0991cd
भूतग्रामस्य1 संहारः संवर्त इव वह्निना । KRT_8_0992ab
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ KRT_8_0992cd
पुण्येह्नि शुक्लद्वादश्यां नभसः कुकृतं महत् । KRT_8_0993ab
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यैश्च तत्यजे ॥ KRT_8_0993cd
सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु । KRT_8_0994ab
पुरग्रामसहस्रेषु गृहाः शून्यत्वमाययुः ॥ KRT_8_0994cd
मङ्खाख्यो डमरश्चिन्वञ्शवान्नौन1गरोद्भवः । KRT_8_0995ab
प्रीतिं प्राप्तैस्तदीयार्थैः कापालिक इवाययौ ॥ KRT_8_0995cd

937.

--1) Emended with C; A विद्राव॰.

976.

--1) Emended; A तैर्भैक्षवै॰.

974.

--1) Emended with C, A अङ्गाने.

975.

--1) Emended; A निर्गुटडा॰.

993.

--1) Emended with C; A ईदृग्धुत॰.

992.

--1) Emended; A भूतग्रामसंहार॰; C भूतग्रामादिसं॰.

995.

--1) Emended; A ॰औगरोद्भवः.

[page 204]




अवरूढोथ विजयक्षेत्रं भिक्षाचरस्ततः । KRT_8_0996ab
लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ॥ KRT_8_0996cd
गर्ह्यं पैतामहे देशे किं नासीत्तस्य चेष्टितम् । KRT_8_0997ab
पितृद्रुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ KRT_8_0997cd
गृहिणी हर्षमित्रस्य पत्यौ त्यक्त्वा पलायिते । KRT_8_0998ab
पृथ्वीहरेण संप्राप्ता विजयेशाङ्गनान्तरात् ॥ KRT_8_0998cd
निमित्तभूतमेतादृक्प्रजासंहारवैशसम् । KRT_8_0999ab
स्वं निन्दन्सुस्सलो राजा ततो योद्धुं विनिर्ययौ ॥ KRT_8_0999cd
संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये । KRT_8_1000ab
प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ KRT_8_1000cd
यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् । KRT_8_1001ab
स मूढैः सुलभापायः कायश्चित्रं न गण्यते ॥ KRT_8_1001cd
कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् । KRT_8_1002ab
चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ KRT_8_1002cd
शमालां प्रययौ पृथ्वीहरो मडवराज्यतः । KRT_8_1003ab
विजित्य मल्लकोष्ठेन1 त्याजितो निजमण्डलम् ॥ KRT_8_1003cd
क्षिप्ताः केचिद्वितस्तायां केचिच्चक्रधराङ्गने । KRT_8_1004ab
अक्रियन्ताग्निसात्क्रुष्टुमशक्या बहवः शवाः ॥ KRT_8_1004cd
क्रमराज्येथ कल्याणवाडा1दीन्रिल्ह2णोजयत् । KRT_8_1005ab
आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ KRT_8_1005cd
शूले प्रमापितं सिंहं नयन्पृथ्वीहरो बली । KRT_8_1006ab
सार्धं जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ KRT_8_1006cd
तीर्थं प्रस्थाप्यमानेषु विपन्नास्थिष्विहास्त्यहः । KRT_8_1007ab
भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ KRT_8_1007cd
हतवीराक्रान्द1मुखरे नगरान्तरे । KRT_8_1008ab
पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ युग्मम्॥ KRT_8_1008cd
अथा1यातो यशोराजस्यालः शूरो दिगन्तरात् । KRT_8_1009ab
श्रीवको विदधे राज्ञा खेरीकार्याधिकारभाक् ॥ KRT_8_1009cd
अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् । KRT_8_1010ab
कालं तु गूढसौहार्दैरन्योन्यस्यात्यवीवहन् ॥ KRT_8_1010cd
पुनराश्वयुजे राजा शमालां निर्गतस्ततः । KRT_8_1011ab
परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ KRT_8_1011cd
नित्याभ्यासेन युद्धानां लब्धोत्कर्षो न्यदर्शयत् । KRT_8_1012ab
सर्ववीराग्रणीर्भिक्षुस्तत्पूर्वं तत्र विक्रमम् ॥ KRT_8_1012cd
तुक्कद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः । KRT_8_1013ab
आसारापातविवशा निहताः सौस्सले बले ॥ KRT_8_1013cd
प्रधानवीरभूयिष्ष्ठे सैन्यद्वन्द्वे न कोप्यभूत् । KRT_8_1014ab
स वीरश्चरतः संख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ KRT_8_1014cd
पृथ्वीहरस्य भिक्षोश्च संग्रामे भूरिवार्षिके । KRT_8_1015ab
कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ KRT_8_1015cd
अस्तामत्यद्भुते याभ्यामनेकतुरगक्षये । KRT_8_1016ab
न विपन्नं प्रहृतिभिर्नान्वभाव्यथ वा क्लमः ॥ KRT_8_1016cd
सैन्यानां संकटे त्राणमश्रान्तिरविकत्थनः । KRT_8_1017ab
अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्क्वचित् ॥ KRT_8_1017cd
योधानां सौस्सले सैन्ये विद्रवेषु न कश्चन । KRT_8_1018ab
त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ KRT_8_1018cd
नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः । KRT_8_1019ab
भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ KRT_8_1019cd
नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा । KRT_8_1020ab
स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ KRT_8_1020cd
ततः प्रभृत्यभूद्गोप्ता पुरः पश्चाच्च सर्वदा । KRT_8_1021ab
विश्वेदेव इव श्राद्धे युद्धे भिक्षुर्महाभटः ॥ KRT_8_1021cd
आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् । KRT_8_1022ab
एवमस्खलितस्थैर्यमुपपत्तिमसंत्यजन् ॥ KRT_8_1022cd
न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः । KRT_8_1023ab
कृत्ये प्रसक्तुं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ KRT_8_1023cd
अनाथा इव ते नाथा विशां व्यापादनक्षणे । KRT_8_1024ab
ज्ञात्वा नष्टं कुलं नाथवद्भ्यो नूनं स्पृहां दधुः ॥ KRT_8_1024cd

1003.

--1) Emended with C; A मल्लन.

1005.

--1) ॰वाळादी॰.

--2) Emended with C; A.. ॰दीन्रल्हणो॰.

1008.

--1) Emended; A ॰बलाक्रान्तमु॰.

1009.

--1) Emended; A अथ यातो.

[page 205]




इति मत्वा सोढकष्टश्चेष्टे1 सुदृढनिश्चयः । KRT_8_1025ab
दूयमानोस्मि दायाददुःखदायी दिने दिने ॥ KRT_8_1025cd
नास्त्येवाप्रा1प्तकालस्य विपत्तिरिति जानतः । KRT_8_1026ab
कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः ॥ KRT_8_1026cd
किं कार्यगतिकौटिल्यैरुक्तैस्तान्यथ वा कथम् । KRT_8_1027ab
न वदामः प्रतिज्ञाय स्वयमार्षेध्वनि स्थितिम् ॥ KRT_8_1027cd
सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः । KRT_8_1028ab
ततो दायादविच्छेदं नास्याकृषत जातु चित् ॥ KRT_8_1028cd
प्राग्राज्याधिगमाद्राज्ञामन्येषां राजवीजिनः । KRT_8_1029ab
चिन्तयन्तो व्यवहृतिं व्युत्पद्यन्ते शनैः शनैः ॥ KRT_8_1029cd
पितुः पितामहस्याथ न दृष्टं तेन किंचन । KRT_8_1030ab
अत एवाभजन्मोहं राज्यं संप्राप्तवान्पुरा ॥ KRT_8_1030cd
तत्स भूयोपि चेदप्स्य1त्कैव वार्ता विपाटने । KRT_8_1031ab
सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ चक्कलकम्॥ KRT_8_1031cd
जानंल्लवन्यकौटिल्यं प्रमादात्स हतेहिते । KRT_8_1032ab
प्राप्नुयां राज्यमित्याशां बद्ध्वाहान्यत्यवाहयत् ॥ KRT_8_1032cd
दस्यूनां सुस्सलो राजा मेने तस्स्वहितं मतम् । KRT_8_1033ab
जिगीषु1र्नीतिविक्रान्त्योः प्रयुक्तौ लिप्सुर1न्तरम् ॥ KRT_8_1033cd
युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् । KRT_8_1034ab
नास्मिन्विश्वासमेतस्माद्धेतोर्नास्याभवज्जयः ॥ KRT_8_1034cd
इत्थं नानामतैः पक्षप्रतिपक्षैरुपेक्षितम् । KRT_8_1035ab
राष्ट्रं निखिलमेवागात्सर्वतः शोचनीयताम् ॥ KRT_8_1035cd
यत्संबन्धाद्विटपिनिवहैर्निग्रहव्यग्रवन्यव्याधप्रत्तानलपरिभवः कोपि निन्वन्वभावि । KRT_8_1036ab
हा धिग्दन्ती विघटनपरः सोपि माद्यन्नमीषां लभ्यं श्रेयो विधिविधुरतैर्नान्यतो न स्वतोपि ॥ KRT_8_1036cd
द्वैराज्ये प्रभवत्येवमकाण्डपतितैर्हिमैः । KRT_8_1037ab
विवशं सुस्सलक्ष्माभृदजयद्भैक्षवं बलम् ॥ KRT_8_1037cd
पुष्याण1नाडं भूयोपि भिक्षुपृथ्वीहरौ गतौ । KRT_8_1038ab
अन्यैर्लवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ KRT_8_1038cd
सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः । KRT_8_1039ab
सर्वां मडवराज्योर्वी वीरः शमितविप्लवाम् ॥ KRT_8_1039cd
तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः । KRT_8_1040ab
पूर्ववैरं स्वपक्ष्याणां प्रादुश्चक्रेथ भूपतिः ॥ KRT_8_1040cd
जिघांसौ कथिते राज्यन्युल्हणेन पलायितः । KRT_8_1041ab
मल्लकोष्ठः सोपि कोपाद्राज्ञा राष्ट्रात्प्रवासितः ॥ KRT_8_1041cd
अनन्तात्मजमानन्दं बद्ध्वा द्वाराधिकारिणम् । KRT_8_1042ab
व्यधत्त सैन्धवं प्रज्जिनामानं राजबीजिनम् ॥ KRT_8_1042cd
गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् । KRT_8_1043ab
नगरं तं च विश्वस्तं बद्ध्वा कारागृहेक्षिपत् ॥ KRT_8_1043cd
अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः । KRT_8_1044ab
आचचाम क्षमावारि तस्य भृत्यान्दिधक्षतः ॥ KRT_8_1044cd
सिंहथक्कनसिंहाभ्यामनुजाभ्यां सहावधीत् । KRT_8_1045ab
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥ KRT_8_1045cd
कम्पने श्रीवकं चक्रे सुज्जिं प्रज्जेः सहोदरम् । KRT_8_1046ab
बद्ध्वा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ KRT_8_1046cd
आप्ताश्च मन्त्रिणश्चासंस्तस्य वैदेशिकास्ततः । KRT_8_1047ab
स्वदेशजस्तु सोभूद्यो लोहरस्थं तमन्वगात् ॥ KRT_8_1047cd
अथ सर्वेपि साशङ्कास्तं त्यक्त्वाध्यश्रयन्रिपून् । KRT_8_1048ab
शतैकीयः कश्चिदासीद्राजधान्यां नृपाश्रितः ॥ KRT_8_1048cd
तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे । KRT_8_1049ab
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ KRT_8_1049cd
एकाक्षेपे परेपि स्युर्यत्र भृत्या विशङ्किताः । KRT_8_1050ab
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ KRT_8_1050cd
माघेथ मल्लकोष्टाद्यैरा1हूताः पुनराययुः । KRT_8_1051ab
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ KRT_8_1051cd
वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम् । KRT_8_1052ab
इति प्रायान्नवमठं त्यक्त्वा राजगृहं नृपः ॥ KRT_8_1052cd

1025.

--1) A1 gloss स्वयं.

1026.

--1) Emended with C; A नास्त्येवप्राप्त॰.

1032.

--1) Emended; A चेदाप्स्योत्कैव.

--2) A1 writes here 4 instead of चक्कलकम्.

1033.

--1) Doubtful emendation; A जिगीषोर्नी॰ and प्रयुक्तो लिप्तरन्तरम्; C जिगीषोर्नी॰ and प्रयत्नो लिप्यनन्तरः.

1038.

--1) A पुष्यान॰.

1048.

--1) Emended; A त्यक्ताधिश्र॰.

1051.

--1) Emended; A ॰कोष्टाद्ये आदूताः.

[page 206]




वर्षेष्टानवर्ते चैत्रे डामरेषु युयुत्सुषु । KRT_8_1053ab
अभ्येत्य मल्लकोष्ठेन प्रागेवाग्राहि संगरः ॥ KRT_8_1053cd
सोश्ववारैः सह रणं चकार नगरान्तरे । KRT_8_1054ab
नृपावरोधैः सौधाग्रादालोकितमथाकुलैः ॥ KRT_8_1054cd
भिक्षुणा क्षिप्तिकारीरे स्कन्दावारं न्यबध्यत । KRT_8_1055ab
................................................1 KRT_8_1055cd
नृपोद्यानाद्द्रुमान्निन्युरिन्धनाय महानसे । KRT_8_1056ab
दूर्वाङ्कुरान्मन्दुराभ्यो वाहभोज्याय डामराः ॥ KRT_8_1056cd
पृथ्वीहरस्तु संगृह्णन्दस्यून्मडवराज्यजान् । KRT_8_1057ab
चकार विजयक्षेत्रे यावत्कटकसंग्रहम् ॥ KRT_8_1057cd
तावत्प्रज्जिमुखान्मल्लकोष्ठयुद्धाय भूपतिः । KRT_8_1058ab
आदिश्यादाद1वस्कन्दं वैशाखे साहसोन्मुखः ॥ KRT_8_1058cd
अकस्मात्पतिते तस्मिन्हतावष्टम्भविक्षताः1 KRT_8_1059ab
प्रययुः सेतुमुल्लङ्घ्य जीवाश्वस्ताः कथंचन ॥ KRT_8_1059cd
नगरं मल्लकोष्ठाजिव्यग्रे प्रज्जावथाविशत् । KRT_8_1060ab
पृथ्वीहरानुजः सुज्जिं निर्जित्य मनुजेश्वरः ॥ KRT_8_1060cd
परं पारं वितस्तायां सेतुच्छेदादनाप्नुवन् । KRT_8_1061ab
अर्वाचि तीरे स गृहान्दग्ध्वागा1त्क्षिप्तिकां ततः ॥ KRT_8_1061cd
लवन्यैर्नगरं प्राप्तं मत्वा सुस्सलभूपतिः । KRT_8_1062ab
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विह्वलः ॥ KRT_8_1062cd
अहंपूर्विकयारातिशङ्कार्तैश्च निजैर्बलैः । KRT_8_1063ab
पीडितस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ KRT_8_1063cd
स कृष्णषष्ट्यां ज्यैष्ठस्य तस्यासंख्यश्चमूचयः । KRT_8_1064ab
यथाग्निना चक्रधरे तथा तत्राम्भसा मृतः ॥ KRT_8_1064cd
भुजमुद्यम्य शमयन्सैन्यानां संभ्रमं नृपः । KRT_8_1065ab
त्रस्तैर्भ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ KRT_8_1065cd
अनभ्यस्ताम्बुतरणैराश्लोष्य व्रुषितोसकृत् । KRT_8_1066ab
तरदायुधविद्धाङ्गः स निस्तीर्णः कथंचन ॥ KRT_8_1066cd
अनुत्तीर्णं बलं त्यक्त्वा पारे सामन्तसंकुलम् । KRT_8_1067ab
सहस्रांशेन सैन्यस्य तीर्णेनानुगतो ययौ ॥ KRT_8_1067cd
संत्यक्तानन्तसैन्योपि सोवष्टम्भमयो नृपः । KRT_8_1068ab
प्रविश्य नगरं मल्लकोष्ठमुख्यान्रणेग्रहीत् ॥ KRT_8_1068cd
विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झितम् । KRT_8_1069ab
निनाय देवसरसं सैन्यं तद्विजयेश्वरात् ॥ KRT_8_1069cd
साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने । KRT_8_1070ab
टिक्कश्च दत्तो भूपालसैन्यं विद्रावितं च तत् ॥ KRT_8_1070cd
परं व्यायामविद्याविद्विद्रुते निखिले बले । KRT_8_1071ab
द्विजः कल्याणराजाख्यः समरेभिमुखो हतः ॥ KRT_8_1071cd
मन्त्रिडामरसामन्तसंकुलात्सौस्सलाद्बलात् । KRT_8_1072ab
पृथ्वीहरेणागृह्यन्त बद्ध्वा वृन्दानि शस्त्रिणाम् ॥ KRT_8_1072cd
अन्वगात्स वितस्तान्तं यावत्तान्विद्रुतान्बलात् । KRT_8_1073ab
ओजानन्दद्विजादींश्च बद्ध्वा शूले व्यपादयत् ॥ KRT_8_1073cd
मन्त्रिणो जनकश्रीवकाद्या राजात्मजास्तथा । KRT_8_1074ab
तीर्त्वाद्रिं विषलाटायां शरणं प्रययुः खशान् ॥ KRT_8_1074cd
इत्थं पृथ्वीहरो लब्धजयः संगृह्य डामरान् । KRT_8_1075ab
जिगीर्षुर्भिक्षुणा साकं नगरोपान्तमाययौ ॥ KRT_8_1075cd
भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः । KRT_8_1076ab
रणः प्रववृते प्राग्वत्पुरे रुद्धस्य भूपतेः ॥ KRT_8_1076cd
निर्निरोधः पथानेन नृपावसथ इथभूत् । KRT_8_1077ab
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणीः ॥ KRT_8_1077cd
तत्तत्सामन्तकुलजैर्वीरैः काश्मीरकैर्भटैः । KRT_8_1078ab
समेतं डामरकुलं दुर्जयं सर्वतोभवत् ॥ KRT_8_1078cd
काश्मीरकाः शोभकाद्याः काकवंश्याः सहस्रशः । KRT_8_1079ab
प्रख्याता भैक्षवे पक्षे रत्नाद्याश्चापरेस्फुरन् ॥ KRT_8_1079cd
नदतः स्वबलाद्वाद्यं तुमुलं शृण्वतोमिषत् । KRT_8_1080ab
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात् ॥ KRT_8_1080cd
हित्वा भूर्यथ तूर्यादि परिच्छेत्तुं स कौतुकी । KRT_8_1081ab
श्वपाकदुन्दुभीभाण्डशतानि द्वादशाशकत् ॥ KRT_8_1081cd

1055.

--1) Here two seem to be lost; A does not indicate the lacuna. C adds रामेण वानरी सेना यथा पाथोनिधेस्तटे.

1058.

--1) Emended; A ॰श्यादाववस्कन्दं.

1059.

--1) Emended with C; A ॰विक्षितः.

1061.

--1) Emended with C; A ॰न्दग्ध्वाग्रात्क्षि॰.

[page 207]




तथा विनष्टसैन्योपि त्रिंशद्विंशैर्नृपात्मजैः । KRT_8_1082ab
मितैः स्वदेशजैश्चारीन्प्रतिजग्राह सुस्सलः ॥ KRT_8_1082cd
राजन्याविच्छटिकुलोद्भूतावुदयधान्यकौ । KRT_8_1083ab
चम्पावल्लापुराधीशावुदयब्रह्मजज्जलौ ॥ KRT_8_1083cd
ओजो1 मल्हणहंसानां धुर्यो हरिहडौकसः । KRT_8_1084ab
क्षत्रिकाभिञ्जिकास्थानसव्यराजादयस्तथा ॥ KRT_8_1084cd
बिडालपुत्रा नीलाद्या भावुकान्वयसंभवाः । KRT_8_1085ab
रामपालः सहजिको युवा तस्य च नन्दनः ॥ KRT_8_1085cd
नानावंश्याः परेप्युग्रसंग्रामव्यग्रताजुषः । KRT_8_1086ab
पुरोपरोधसंनद्धानरुन्धन्सर्वतो रिपून् ॥ KRT_8_1086cd
तनूजनिर्विशेषेन रिल्हणेन महीभुजः । KRT_8_1087ab
रणाग्रेसरताग्राहि विजयाद्यैश्च सादिभिः ॥ KRT_8_1087cd
स्वयमुद्यमिना राज्ञा वर्मणेव निजौ भुजौ । KRT_8_1088ab
सुज्जिप्रज्जी पाल्यमानावभूतां रणकर्मठौ ॥ KRT_8_1088cd
ताभ्यां साधारणीकुर्वन्राज्योत्पत्तिं महीपतिः । KRT_8_1089ab
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ KRT_8_1089cd
तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटा1ः । KRT_8_1090ab
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ KRT_8_1090cd
भूभर्तुष्टक्कविषये लवराजस्य नन्दनः । KRT_8_1091ab
आसीत्कमलियश्चाल्य संग्रामाग्रेसरः प्रभोः ॥ KRT_8_1091cd
प्रहारं बलिनस्तस्य चामरध्ग्वजशोभिनः । KRT_8_1092ab
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ KRT_8_1092cd
अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च । KRT_8_1093ab
पाञ्चालाः1 फल्गु2नस्येव पार्श्वरक्षित्वमाययुः ॥ KRT_8_1093cd
एतावद्भिर्भृत्यरत्नै राष्ट्रेपि कुपितेजयत् । KRT_8_1094ab
भूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ KRT_8_1094cd
तत्र तत्राहवे सोपि बभ्रामासंभ्रमो नृपः । KRT_8_1095ab
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ KRT_8_1095cd
तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे । KRT_8_1096ab
प्रवृद्धिं प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ KRT_8_1096cd
क्लैव्यकृद्भयमापाते मध्यपाते न तादृशम् । KRT_8_1097ab
करक्षिप्तं यथा शीतं मज्जने न तथा पयः ॥ KRT_8_1097cd
वैरिसैन्यतमो यत्र यत्र ज्योत्स्नेव निर्ययौ । KRT_8_1098ab
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ KRT_8_1098cd
एकदा कृतसंकेतास्तुल्यमाहवमेलके । KRT_8_1099ab
महासरितमुत्तीर्य डामरा नगरेपतन् ॥ KRT_8_1099cd
असीमनगरस्थानविभ्जक्तकटको नृपः । KRT_8_1100ab
परिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ KRT_8_1100cd
नाभजड्डामरानीकस्तेन विद्रावितो धृतिम् । KRT_8_1101ab
हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ॥ KRT_8_1101cd
त्र्यानन्दः काककुलजो लोष्टशाह्यनलादयः । KRT_8_1102ab
अन्ये च डामरानीके ख्याता भूभृद्भटैर्हताः ॥ KRT_8_1102cd
लग्नाभिघातानानीताaन्राज्ञः क्रूरस्य दृक्पथम् । KRT_8_1103ab
बहून्निजघ्नुश्चण्डाला इव राजोपजीविनः ॥ KRT_8_1103cd
भयाद्गोपाद्रिमारूढा अपरे भैक्षवास्ततः । KRT_8_1104ab
आसन्नमृत्यवोभूवन्कटकैर्वेष्टिता द्विषाम्1 KRT_8_1104cd
यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् । KRT_8_1105ab
तत्र व्यापारयामास भिक्षुर्मानी तुरंगमान् ॥ KRT_8_1105cd
कथंचित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः । KRT_8_1106ab
पार्श्वे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ KRT_8_1106cd
वेलाद्रिभिरिवोद्वृत्तैः सिन्धौ तैर्द्विषतां बले । KRT_8_1107ab
रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ KRT_8_1107cd
अथोदतिष्ठद्वा1मेन राजनीकस्य वाहिनी । KRT_8_1108ab
मल्लकोष्ठस्य पत्त्यश्वक्षोभिताशेषदिक्तटा ॥ KRT_8_1108cd
अरिपृष्ठग्रहव्यग्रैस्तिष्ठन्स्वैर्वर्जितो बलैः । KRT_8_1109ab
तदाज्ञाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ KRT_8_1109cd
आपातं सुस्सलो राजा यावत्तस्याविसोढवान् । KRT_8_1110ab
तावत्सावरजः प्रज्जि1राजगाम रणाङ्गनम् ॥ KRT_8_1110cd

1084.

--1) Thus A1 in margin; A1 तेजो in text.

2090.

--1) Thus A; perhaps to be emended मुङ्गजाः; cf. vii. 589.

1093.

--1) Emended (i.e. पाञ्चालाड्); A पाञ्चालौ.

--2) Thus A; parhaps read with C फाल्गुन॰.

1104.

--1) Thus A3; A1 दिशाम्.

1108.

--1) Emended; A ॰तिष्ठ -- मेन; C ॰तिष्ठत् सुस्सेन.

1110.

--1) Emended with C; A प्राज्जि॰.

[page 208]




आषाढबहुलाष्टम्यां स हयारोहमेलकः । KRT_8_1111ab
निजशस्त्रध्वनिपत्तसाधुवादो महानभूत् ॥ KRT_8_1111cd
ताभ्यां स शमिते युद्धे ससूनुः ससमीरणः । KRT_8_1112ab
दावो नभोनभस्याभ्यामिव प्रापाम्बुवृष्टिभिः1 KRT_8_1112cd
संग्रामबहले काले तादृगन्यो न कोप्यभूत् । KRT_8_1113ab
यादृक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ KRT_8_1113cd
अनीकिनी लाहरी सा विलम्बेना1ययाविति । KRT_8_1114ab
तेषामुत्पाटनेच्छूनां नाभवद्घस्तमेलकः ॥ KRT_8_1114cd
अन्योन्यस्य परिज्ञाता दिवसे तत्र संकटे । KRT_8_1115ab
भिक्षोर्भूमिभृता शक्तिर्भूमिभर्तुश्च भिक्षुणा ॥ KRT_8_1115cd
ततो मडवराज्यांस्त्तान्योद्धुं तत्रैव निदर्शन् । KRT_8_1116ab
क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ KRT_8_1116cd
दिगन्तरादयायातो यशोराजो महीभुजा । KRT_8_1117ab
मण्डलेश्वरतां निन्ये रिपून्प्रतिजिहीर्षुणा ॥ KRT_8_1117cd
खेरीकार्ये पुरा तस्य लवन्या वृष्टविक्रमाः । KRT_8_1118ab
रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ KRT_8_1118cd
कुङ्कुमालेपनच्छत्त्रहयादिप्रतिपत्तिदः । KRT_8_1119ab
सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ KRT_8_1119cd
दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया । KRT_8_1120ab
जनो बबन्ध तत्रास्थां नववैद्य इवातुरः ॥ KRT_8_1120cd
ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् । KRT_8_1121ab
नृपतिर्मल्लकोष्ठस्य प्रातिपक्ष्ये1 न्ययोजयत् ॥ KRT_8_1121cd
शिशुश्हुडाख्यया मात्रा पालितः स शनैः शनैः । KRT_8_1122ab
आश्रीयमाणोनुचरैः पित्र्यैः किंचित्प्रथां ययौ ॥ KRT_8_1122cd
यशोराजानुयातेन राञ्जा जन्येषु निर्जिताः । KRT_8_1123ab
केचित्तत्प1क्षमभजन्भग्नाः केचिच्च डामराः ॥ KRT_8_1123cd
सभिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् । KRT_8_1124ab
मल्लकोष्ठोन्मुखो राजा निर्जगामामरेश्वरम् ॥ KRT_8_1124cd
अत्रान्तरे मल्लकोष्ठो विसृज्य निशि तस्करान् । KRT_8_1125ab
सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ KRT_8_1125cd
पृथ्वीहरेण भूयोपि योद्धुमागच्छतासकृत् । KRT_8_1126ab
प्रज्जिसुज्जमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ KRT_8_1126cd
वारं वारं लवन्यः स नगरे निर्दहन्गृहान् । KRT_8_1127ab
प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ KRT_8_1127cd
तत्र तत्र रणान्कुर्वन्प्राणसंदेहदायिनः । KRT_8_1128ab
आचक्रामाथ नृपतिर्लहरं बहलैर्बलैः ॥ KRT_8_1128cd
निःसेतुम् तरतः सिन्धुं वृत्तिभङ्गाद्ययुर्जले । KRT_8_1129ab
मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ KRT_8_1129cd
दरद्देशं ययौ मल्लकोष्ठो राज्ञा निराकृतः । KRT_8_1130ab
सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ KRT_8_1130cd
आनिन्यिरे ज्यय्यकेन लवन्येन नृपान्तिकम् । KRT_8_1131ab
विषलाटान्तरात्तेथ जनकश्रीवकादयः ॥ KRT_8_1131cd
लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे । KRT_8_1132ab
शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ KRT_8_1132cd
भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे । KRT_8_1133ab
आजौ सज्जात्मजो डोम्बनामा राजसुतो हतः ॥ KRT_8_1133cd
युद्धं सुवर्णसानूरग्रामशूरपुरादिषु । KRT_8_1134ab
कुर्वञ्शश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ KRT_8_1134cd
श्रीकल्याणपुराद्भङ्गं नीते पृथ्वीहरादिभिः । KRT_8_1135ab
श्रीवके नागवट्टाद्या युधि प्रापुः प्रमापणम् ॥ KRT_8_1135cd
पौषे सुवर्णसानूरानिहन्तुं मातुरन्तक1म् । KRT_8_1136ab
टिक्कं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ KRT_8_1136cd
स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता । KRT_8_1137ab
अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ KRT_8_1137cd
स स्त्रीवधं व्यधात्पाती द्वितीयम1पि निर्घृणः । KRT_8_1138ab
विशेषः कोथ वातिर्यङ्म्लेच्छतस्कररक्षसाम् ॥ KRT_8_1138cd
अबलां स्वामिनीं हन्यमानां त्यक्त्वा पलायिताः1 KRT_8_1139ab
चित्रं पशूपमाः शस्त्रं स्वीचक्रुर्लाहराः पुनः ॥ KRT_8_1139cd

1112.

--1) The text of this verse appears to be defective.

1114.

--1) A विलम्भेन.

1121.

--1) Emended with C; A प्रातिपक्षे.

1123.

--1) Emended with C; A ॰त्तान्पक्ष॰.

1136.

--1) Conjectural reading; A मातुरन्तिकम्. Cf. viii. 1069 ff. and 1138.

1138.

--1) Emended with C; A द्वितीयामपि.

1139.

--1) Emended with C; A ॰यितः.

[page 209]




ईषत्प्रगागतं शय्यां भूय एवोल्वणं नृपः । KRT_8_1140ab
ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ KRT_8_1140cd
मल्लराजतनूजानां निजा जिह्वैव दुर्जना । KRT_8_1141ab
बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ KRT_8_1141cd
प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः । KRT_8_1142ab
दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ KRT_8_1142cd
आ बाल्यात्संस्तुताश्लीलवचःपरुषभाषितैः । KRT_8_1143ab
निर्गौरवैर्यशोराजो राज्ञि तस्मिन्व्यरज्यत ॥ KRT_8_1143cd
स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः । KRT_8_1144ab
अभजत्तत उत्थाय प्रतिपक्षसम्प्रश्रयम् ॥ KRT_8_1144cd
वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् । KRT_8_1145ab
विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ KRT_8_1145cd
धिग्राज्यं यत्कृते सोपि सेहे प्राणान्निरक्षिषु । KRT_8_1146ab
मुष्णाद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ KRT_8_1146cd
माघे पलाय्य नगरं प्रविष्टः स वयाभिधे । KRT_8_1147ab
भृत्ये द्रोग्धर्यशङ्किष्ट स्वेषामपि तनूरुहाम् ॥ KRT_8_1147cd
काश्मीर1के जनेशेषे निराशो2 नितरां ततः । KRT_8_1148ab
अङ्कन्यस्तोत्तमाङ्गोभूत्प्रज्जिपक्षे क्षमापतिः ॥ KRT_8_1148cd
मुद्रिता रुद्रपालादिपूर्वराजात्मजप्रथा । KRT_8_1149ab
प्रज्जिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ KRT_8_1149cd
तेनैव वर्धितामुत्र देशे विशदकीर्तिना । KRT_8_1150ab
कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ KRT_8_1150cd
अमन्त्रयत संगम्य यशोराजस्तु भिक्षुणा । KRT_8_1151ab
नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ KRT_8_1151cd
उत्पाद्य पुनरुत्पिञ्जं साधिष्ठानबला वयम् । KRT_8_1152ab
राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ KRT_8_1152cd
इति तैर्मन्त्रिते छुड्डां1 हतां श्रुत्वा दरत्पुरात् । KRT_8_1153ab
आगत्य मल्लकोष्ठोपि प्राविशत्स्वोपवेशनम् ॥ KRT_8_1153cd
वर्षोथ दुस्तरः ख्यात एकान्नशतसंख्यया । KRT_8_1154ab
सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ KRT_8_1154cd
वसन्ते डामराः सर्वे प्राम्वन्मार्गैर्निजैर्निजैः । KRT_8_1155ab
आगत्य भूयो भूपालं नगरस्थमवेष्ठयन् ॥ KRT_8_1155cd
धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् । KRT_8_1156ab
निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ KRT_8_1156cd
दाहलुण्ठनसंग्रामकर्मशौण्डैः स डामरैः । KRT_8_1157ab
प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवधत1 KRT_8_1157cd
महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः । KRT_8_1158ab
नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ KRT_8_1158cd
ततः कतिषुचिद्युद्धाहेषु यातेषु संगरे । KRT_8_1159ab
निजेनैव यशोराजः परकीयभ्रमाद्धतः ॥ KRT_8_1159cd
कय्यात्मजेन हि समं विजयाख्येन सादिना । KRT_8_1160ab
सौस्सलेन तु संग्रामे परावृत्तीः प्रदर्शयन् ॥ KRT_8_1160cd
विप्रलब्धैः सवर्णाश्वकवचावेक्षणान्निजैः । KRT_8_1161ab
शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ KRT_8_1161cd
भिक्षो राज्यं समर्थोयं दातुं हन्तुं ततश्च नः । KRT_8_1162ab
भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ KRT_8_1162cd
यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः । KRT_8_1163ab
तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ KRT_8_1163cd
पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् । KRT_8_1164ab
क्षिप्तिकारोधसा भूयोभ्येत्य संग्राममग्रहीत् ॥ KRT_8_1164cd
तत्रादिष्ठानयोधानां भिक्षुप्रक्षोपजीविनाम् । KRT_8_1165ab
पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ KRT_8_1165cd
वह्निदानमहायोधसंहाराद्यैरुपद्रवैः । KRT_8_1166ab
एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ KRT_8_1166cd
अतपत्तरणिस्तीक्ष्णमभीक्ष्णं भूरकम्पत । KRT_8_1167ab
ववुर्द्रुमाद्रीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ KRT_8_1167cd
पवनोत्थापितैः पांसुकूटैर्दध्रे मदो1द्धतैः । KRT_8_1168ab
व्योम्नि प्रोत्तम्भनस्तस्म्भभङ्गिर्निर्घातदारिते ॥ KRT_8_1168cd

1148.

--1) A काश्मीरिके.

--2) Emended; A निराशे.

1153.

--1) Emended with C; A ॰न्त्रितैच्छुड्डां.

1157.

--1) Thus corr. by A3 from A1 -- -- -- -- भूत्.

1168.

--1) Thus A; C महोद्धतैः.

[page 210]




ज्यैष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे । KRT_8_1169ab
काष्ठीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ KRT_8_1169cd
सोग्निर्वा मारुतोद्भूतः प्रसरन्वैद्युतोथ वा । KRT_8_1170ab
जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ KRT_8_1170cd
दृष्टस्तदानीमेतावद्गजव्यूह इवापतन्1 KRT_8_1171ab
माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ KRT_8_1171cd
अथेन्द्रदेवीभवनविहारं सहसागमत् । KRT_8_1172ab
ततो नगरमुज्ज्वालं क्षणात्सर्वमदृश्यत ॥ KRT_8_1172cd
न भूमिर्न दिशो न द्यौर्धूमध्वान्ते व्यभाव्यत । KRT_8_1173ab
हुडुक्कामुखचर्माभो दृश्यादृश्ययोभवद्रविः ॥ KRT_8_1173cd
धूमान्धकारसंच्छन्नास्ततः प्रज्वलताग्निना । KRT_8_1174ab
अपुनर्दर्शनायेव मुहुराविष्कृता गृहाः ॥ KRT_8_1174cd
वितस्तादृश्यतोज्ज्वालवेश्माश्लिष्टतटद्वया । KRT_8_1175ab
रक्ताक्तोभयधारेव कृतान्तस्यासिवल्लरी ॥ KRT_8_1175cd
ब्रह्माण्डोर्ध्वकवाटान्तसंस्पर्शात्पतितोन्नतैः । KRT_8_1176ab
ज्वालाकलापैः संवृद्धैर्हेमच्छत्त्रवनायितम् ॥ KRT_8_1176cd
उच्चावचैर्युतो ज्वालाशृङ्गैर्हेमाद्रिसंनिभः । KRT_8_1177ab
वह्निर्धूमच्छलान्मूर्ध्नि बभाराम्बुधरावलिम् ॥ KRT_8_1177cd
आविर्भवन्तो1 ज्वालाभ्यो गृहाश्चक्रुर्मुहुर्मुहुः । KRT_8_1178ab
अदग्धा एत1 इत्याशां विमुग्धगृहमेधिनाम् ॥ KRT_8_1178cd
ज्वलितैस्1तापितजला वितस्ता पतितैर्गृहैः । KRT_8_1179ab
और्वोष्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ KRT_8_1179cd
दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः । KRT_8_1180ab
उद्यानद्रुमषण्डानां व्योमोड्डयनमादधुः ॥ KRT_8_1180cd
सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः । KRT_8_1181ab
क्षयसंध्याम्बुदाश्लिष्टहिमाद्रिशिखरभ्रमम् ॥ KRT_8_1181cd
मज्जनावासनौसेतुकदम्बैः प्लोषशङ्कया । KRT_8_1182ab
अपास्तैर्नगरस्यान्तर्ययुर्नद्योपि शून्यताम् ॥ KRT_8_1182cd
किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम् । KRT_8_1183ab
नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ KRT_8_1183cd
लोष्टावशेषे नगरे धूमश्यामो निरास्पदः । KRT_8_1184ab
उच्चैरेको बृहद्बुद्धो दृष्टो दग्धद्रुमोपमः ॥ KRT_8_1184cd
सैन्येषु ज्वलितावासत्राणाय चलितेष्वथ । KRT_8_1185ab
शतमात्रेण योधानां युतो भूभृदजायत ॥ KRT_8_1185cd
पारं गन्तुं वितस्तायाश्छिन्नसेतुं तमक्षमम् । KRT_8_1186ab
लब्धरन्ध्रा द्विषोनन्ता निहन्तुं पर्यवारयत ॥ KRT_8_1186cd
पुरं दग्धं स्वमुत्सन्नं1 प्रजा नष्टाश्च चिन्तयन् । KRT_8_1187ab
आसन्नं मरणं राजा निर्विण्णो वह्वमन्यत ॥ KRT_8_1187cd
प्रस्थास्नुमथ तं प्रत्यङ्मुखमाशङ्क्य विद्रुतम् । KRT_8_1188ab
संज्ञितोन्यैः कमलियः क्व देवेत्यब्रवीद्वचः ॥ KRT_8_1188cd
संरम्भस्मितविद्योति चन्दनोल्लेखमाननम् । KRT_8_1189ab
परिवर्त्य निरुद्धाश्वो धीरः स तमभाषत ॥ KRT_8_1189cd
तदद्य करवै भूमेः कृते हम्मीरसंगरे । KRT_8_1190ab
चकार राजा भिज्जो यत्सोभिमानी पितामहः ॥ KRT_8_1190cd
कुतस्त्यो1प्येष दायादो यद्भ्रातास्माकमस्मि वा । KRT_8_1191ab
स हर्षदेवोपश्यन्नः कार्यशेषं पलायितः ॥ KRT_8_1191cd
को नाम मानिनां पङ्क्तौ प्रविष्टोन्ते निजां भुवम् । KRT_8_1192ab
असिक्तां स्वाङ्गरक्ताक्तां1 व्याघ्रः कृत्तिमिवोज्झति ॥ KRT_8_1192cd
इत्युक्त्वोदञ्चयन्वल्गामुत्क्षिप्ताग्रमुखं हयम् । KRT_8_1193ab
संस्प्र1ष्टुमिच्छुः पाणिभ्यां कृपाणमुदनामयत् ॥ KRT_8_1193cd
ततो निगृह्य1 वल्गायां वाजिनं लवराजजः । KRT_8_1194ab
ऊचे भृत्येषु सत्स्वग्रे प्रवेशार्हा न भूभुजः ॥ KRT_8_1194cd
प्रहारविक्लवस्तिष्ठन्गृहादेकोभ्युपाययौ । KRT_8_1195ab
संकटे तत्र भूभर्तुः पृथ्वीपालोन्तिकं परम् ॥ KRT_8_1195cd
कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः । KRT_8_1196ab
स्वस्यात्तनिष्क्रयां1 मेने सेवाविष्कृत्युपक्रियाम् ॥ KRT_8_1196cd

1172.

--1) Thus corr. by A1 from ॰पतत्.

1178.

--1) Emended with C; A ॰भवन्त्यो.

--2) Emended; A यत.

1179.

--1) Emended with C; A ज्वल्वितै॰.

1187.

--1) Emended; A सम्प्रष्टुमिच्छुः; cf. viii. 1528.

1194.

--1) Emended with C; A निर्गृह्य.

1196.

--1) Emended with C; A स्वस्थात्तन्निष्क्रियां.

[page 211]




अथ स्थितास्त्रिभिर्व्यूहैरहितास्तेकिरञ्शरान् । KRT_8_1197ab
हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः1 KRT_8_1197cd
स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः । KRT_8_1198ab
सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम्1 KRT_8_1198cd
अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः । KRT_8_1199ab
नृपः साहायकायातविश्वरूपं इवाबभौ ॥ KRT_8_1199cd
कलविङ्कानिव श्येनः कुरङ्गानिव केसरी । KRT_8_1200ab
एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ KRT_8_1200cd
निपत्य पत्तीन्रुन्धानान्खुराग्राण्यपि वाजिनाम् । KRT_8_1201ab
प्राहरंस्ते हयारोहा व्यूहव्याहतरंहसः ॥ KRT_8_1201cd
बिम्बितज्वलनज्वालाः सर्व एव महाभटाः । KRT_8_1202ab
हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ KRT_8_1202cd
स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तत । KRT_8_1203ab
बाष्पायमाणोस्तकाशं1 हव्याशेनोज्झितं पुरम् ॥ KRT_8_1203cd
तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः । KRT_8_1204ab
स चौज्झीद्रमणीयस्य विनाशाज्जीवितादरम् ॥ KRT_8_1204cd
जाग्रन्स्वपंश्चलंस्तिष्ठन्स्नन्नश्नन्नथ सोरिभिः । KRT_8_1205ab
निर्गच्छन्नित्यमाहूतो न कैरुद्बाष्पमीक्षतः ॥ KRT_8_1205cd
वह्निर्दगग्धसर्वान्नसंभारे मण्डलेखिले । KRT_8_1206ab
दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ KRT_8_1206cd
दीर्घविप्लवसंक्षीणसंचया डामरैर्बहिः । KRT_8_1207ab
उत्तब्धोत्पत्तयो रुद्धसंचारा दग्धमन्दिराः ॥ KRT_8_1207cd
अनाप्नुवन्तो विधुरो राज्ञि राजकुलाद्धनम् । KRT_8_1208ab
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं वि1पेदिरे ॥ KRT_8_1208cd
वह्निनिष्ठ्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः । KRT_8_1209ab
बुभुक्षार्तैर्जनैर्दत्तो ददाहाग्निर्दिने दिने ॥ KRT_8_1209cd
सरिताम् सेतवो वारिसंसेकोच्छूनविग्रहैः । KRT_8_1210ab
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ KRT_8_1210cd
निर्मासनरकङ्कालकपालशकलाकुला1 KRT_8_1211ab
उवाह सर्वतः श्वेता क्षितिः कापालिकव्रतम् ॥ KRT_8_1211cd
कृच्छ्रसंचारिणोर्कांशुश्यामक्षामोच्चविग्रहाः । KRT_8_1212ab
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ KRT_8_1212cd
अथ प्रबन्धयुद्धेन दिनैह् क्वापीषुणा क्षतः । KRT_8_1213ab
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ KRT_8_1213cd
गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनैः । KRT_8_1214ab
तां वार्तां श्रुतवान्राजा ननन्दायुद्ध चोद्धतम् ॥ KRT_8_1214cd
धीरेव पुंश्चली व्याजौत्सुक्यसंदर्शनेन तम् । KRT_8_1215ab
जयश्रीर्लोभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ KRT_8_1215cd
एकान्तवामहृदयो विधिरानुकूल्यं मिथ्या प्रदर्श्य विशिनष्ट्यनुबन्धि दुःखम् । KRT_8_1216ab
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ KRT_8_1216cd
दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् । KRT_8_1217ab
तपःफलमिव क्ष्माभृत्काङ्क्षन्नासीन्मनोरथैः ॥ KRT_8_1217cd
वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः । KRT_8_1218ab
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ KRT_8_1218cd
तस्योपकरणीभूतविभूतिर्गृहिणी प्रिया । KRT_8_1219ab
तस्मिन्काले महादेवी विपेदे मेघमञ्जरी ॥ तिलकम्1 KRT_8_1219cd
विनोदशून्यनिर्विण्णलोकयात्रं जगद्विदन् । KRT_8_1220ab
प्राणै राज्येन वा कृत्यं न स किंचिन्निरैक्षत ॥ KRT_8_1220cd
सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसंमुखी । KRT_8_1221ab
औत्सुक्याद्दत्तयात्रासीच्छ्रान्ता फुल्लपुरान्तिके ॥ KRT_8_1221cd
पूर्वं तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः । KRT_8_1222ab
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ KRT_8_1222cd
राज्ञीमज्ञातपारुष्यतयादूषितभक्तयः । KRT_8_1223ab
अनुसस्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ KRT_8_1223cd
अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्रिक्तत्वमत्यजन् । KRT_8_1224ab
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ KRT_8_1224cd
स ह्यसंनिहितोन्यस्मिन्नह्न्यायातो निजं शिरः । KRT_8_1225ab
तच्चिंतोपान्तरूढेन भङ्क्त्वा ग्राव्णाविशन्नदीम् ॥ KRT_8_1225cd

1197 -- 1198.

--1) The text in these two verses appears to be corrupt or incomplete.

1203.

--1) Thus A.

1208.

--1) Emended; A प्रपे॰.

1211.

--1) Emended with C; A ॰कुलाः.

1219.

--1) A1 writes here 3 insetead of तिलकम्.

1220.

--1) ण्ण supplied by A3 in space left by A1.

[page 212]




आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः । KRT_8_1226ab
राञ्जो द्विषः कार्यवशादुपकारित्वमाययुः ॥ KRT_8_1226cd
स राज्यमथ निक्षेप्तुकामो निर्विण्णमानसः । KRT_8_1227ab
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ KRT_8_1227cd
मण्डलेश्वरतां प्रज्जेर्भ्रातृव्यं भागिकाभिधम् । KRT_8_1228ab
नीत्वा च गुप्तिमकरोल्लेहरे कोशदेशयोः ॥ KRT_8_1228cd
वराहमूलं संप्राप्तमग्रायातः प्रियं सुतम् । KRT_8_1229ab
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ KRT_8_1229cd
राजसूनुस्त्रिभिर्वर्षैः पत्यायातः स्वमण्डलम् । KRT_8_1230ab
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ KRT_8_1230cd
खेदनम्राननो लोष्टावशेषं सोविशत्पुरम् । KRT_8_1231ab
अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ KRT_8_1231cd
राज्येभ्यषिञ्चदाषाढस्याद्येह्नि जनकोथ तम् । KRT_8_1232ab
अवादीद्राज्यतन्त्रं च कृत्स्नमुक्त्वास्रुगद्गदः ॥ KRT_8_1232cd
भ्रान्ताः पितृपितृव्यास्ते न यां बोढुमशक्नुवन् । KRT_8_1233ab
धुरमुद्वह तां वीर त्वयि भारोयमर्पितः ॥ KRT_8_1233cd
साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् । KRT_8_1234ab
न त्वार्पिपदधीकारं तस्मिन्दैवविमोहितः ॥ KRT_8_1234cd
अभिषेकविश्रावेव राजसूनोः शमं ययुः । KRT_8_1235ab
पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ KRT_8_1235cd
संपन्नसस्या च तथा देवी संववृते मही । KRT_8_1236ab
दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ KRT_8_1236cd
अत्रान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् । KRT_8_1237ab
कर्णेजपैर्जनयितुर्द्रोग्धायमिति सूचितः ॥ KRT_8_1237cd
कोपादविमृशं1स्तत्त्वं स बन्2द्धुं तं व्यसर्जयत् । KRT_8_1238ab
कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ KRT_8_1238cd
कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् । KRT_8_1239ab
निनाय रक्षामात्रेण पार्थिवाज्ञाममोघताम् ॥ KRT_8_1239cd
अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः । KRT_8_1240ab
साकं तेन सुतोन्येद्युर्गन्तुं प्रावर्ततान्तिकम् ॥ KRT_8_1240cd
आक्षेप्तुं शङ्कितोशक्य इति मत्वा स मन्त्रिभिः । KRT_8_1241ab
मार्गान्न्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ KRT_8_1241cd
अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः । KRT_8_1242ab
बद्ध्वैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ KRT_8_1242cd
धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् । KRT_8_1243ab
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ KRT_8_1243cd
पुत्रपुत्रीसुहृद्भृत्या येषां शङ्कनिकेतनम् । KRT_8_1244ab
विस्रम्भ1भूर्भूपतीनां कस्तेषामिति वेत्ति कः ॥ KRT_8_1244cd
साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः । KRT_8_1245ab
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ KRT_8_1245cd
शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः । KRT_8_1246ab
गृहीतशस्त्रस्तन्नित्यं क्रमाट्टिक्कस्य लब्धवान् ॥ KRT_8_1246cd
प्रथमाब्दात्प्रभृत्यात्तदूत्यो भूर्भर्तुराप्तताम् । KRT_8_1247ab
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ KRT_8_1247cd
स हि भिक्षाचरं टिक्कमथ व्यापादयेत्यमुम् । KRT_8_1248ab
जगादङ्गीकृतैश्चर्यदानष्टिक्कोपवेशने ॥ KRT_8_1248cd
कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः । KRT_8_1249ab
दानैरुपाचरद्गञ्जपतिनाम्नाप्ययोजयत् ॥ KRT_8_1249cd
भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः । KRT_8_1250ab
स कार्यं परिहार्यं वा न कृत्यं निश्चिकाय तत् ॥ KRT_8_1250cd
प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः । KRT_8_1251ab
तत्तच्च प्रा1हिणोत्तस्यै पितेव प्रवोचितम् ॥ KRT_8_1251cd
सा तस्यात्युपचारस्य कारणं परिशङ्किता । KRT_8_1252ab
पतिं पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ KRT_8_1252cd
न कार्यः स्वामिनो द्रोहः कृते वास्मिन्स सुस्सलः । KRT_8_1253ab
त्वामेव शनकैर्हन्याद्द्रोग्धायमिति चिन्तयन् ॥ KRT_8_1253cd
वरं स एव विश्वास्य व्यापाद्यस्तत्र चेद्वधः । KRT_8_1254ab
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ KRT_8_1254cd

1238.

--1) A ॰विमृषं॰.

--2) Emended; A बन्धुं.

1244.

--1) Thus A.

1261.

--1) Emended with C; A प्रहिणो॰.

[page 213]




भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये । KRT_8_1255ab
टिक्कं विदितवृत्तान्तं कृत्वा बद्धोद्मः कृतः ॥ KRT_8_1255cd
गतागतानि कुर्वाणे दुध्रुक्षावथ पार्थिवः । KRT_8_1256ab
स पुत्र इव विश्वासं ययौ दैवविमोहितः ॥ KRT_8_1256cd
विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते । KRT_8_1257ab
जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ KRT_8_1257cd
वैधेयैः स्वार्थलोभान्धैर्यद्वानर्थसमागमः । KRT_8_1258ab
सरघोप1द्रवः क्षौद्रलुब्धैरिव न चिन्त्यते ॥ KRT_8_1258cd
तं पीडितं प्रज्जिना च राज्ञा चावनतिं ततः । KRT_8_1259ab
उत्पलोकारयट्टिक्कं नीविं चादापयत्सुतम् ॥ KRT_8_1259cd
राजाथ देवसरसं जितं संत्यज्य कारिके । KRT_8_1260ab
वाष्ट्काख्यमगाद्ग्रामं खेरीविषयवर्तिनम् ॥ KRT_8_1260cd
स कल्याणपुराभ्यर्णे रणैस्तैस्तैर्विलक्षताम् । KRT_8_1261ab
भिक्षुकोष्ठेश्वरमुखानपि निन्ये महाभटान् ॥ KRT_8_1261cd
मध्याद्भिक्षाचरादीनां सुज्जिः1 काककुलोद्भवम् । KRT_8_1262ab
जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ KRT_8_1262cd
भवकीयस्य कृत्वादौ विजयस्य पराभवम् । KRT_8_1263ab
भूभुजा तद्गृहा दग्धाः कल्याणपुरवर्तिनः ॥ KRT_8_1263cd
दग्धे वडोसके1 भिक्षाचरो नष्टाश्रयो व्यधात् । KRT_8_1264ab
त्यक्त्वा तां क्ष्मां शमालायां ग्रामे काकरुहे स्थितिम्2 KRT_8_1264cd
अनुजो भवकीयस्य विजयस्य भयान्नृपम् । KRT_8_1265ab
संश्रितस्तेन तूग्रेण बद्ध्वा कारागृहेर्पितः ॥ KRT_8_1265cd
भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् । KRT_8_1266ab
आस्कन्दाशङ्किनीं राजा चक्रे राजपुरीमपि ॥ KRT_8_1266cd
इत्थमुद्दण्डया वृत्त्या खण्डितोच्चण्डडामरः । KRT_8_1267ab
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ KRT_8_1267cd
भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः । KRT_8_1268ab
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ KRT_8_1268cd
किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः । KRT_8_1269ab
जीवतामप्यनुल्लासान्निर्जीवत्वमिवाययौ ॥ KRT_8_1269cd
स सोमपालकौटिल्यं स्मरन्कुर्यां हिमात्यये । KRT_8_1270ab
श्मशानोर्वीं राजपुरीमिति ध्यायन्न्यवर्तत ॥ KRT_8_1270cd
शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः । KRT_8_1271ab
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत1 KRT_8_1271cd
शतैकीयो योवशिष्टो विप्लवक्षपिते जने । KRT_8_1272ab
वर्षं वर्षं स तद्राज्ये युगदीर्घं त्वमन्यत ॥ KRT_8_1272cd
असुखत्रासदारिद्रप्रियनाशादिवैशसैः । KRT_8_1273ab
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ KRT_8_1273cd
नरः पौरुषनैष्ठुर्यशठत्वेन करोति किम् । KRT_8_1274ab
विधातृवृत्तिवैचित्र्य1पराधीनासु सिद्धिषु ॥ KRT_8_1274cd
पुरोभूतं कंचित्परिहरति राशिं तम इव व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् । KRT_8_1275ab
स्वमुल्लङ्घ्यासन्नं क्वचन नृपतिं दर्दुर इव क्रमेत्स्रष्टुर्दृष्टः स्फुटमिति गतीनामनियमः ॥ KRT_8_1275cd
विश्वासनिहतान्निन्दन्नुच्चलादीन्पुरावसत् । KRT_8_1276ab
नित्यं विकोशशस्त्रो यः पुराविद्भ्यो निशम्य च ॥ KRT_8_1276cd
विदूर1थादिवृत्तान्तं नादात्केलिक्षणे ब्रुवन् । KRT_8_1277ab
स्त्रीषु संभुज्यमानासु2 विश्वासविशदां दृशम् ॥ KRT_8_1277cd
स बन्धाविव निर्बन्धाद्विशश्वास यदुत्पले । KRT_8_1278ab
तत्र संभाव्यते केन दैवादन्यो विमोहकृत् ॥ KRT_8_1278cd
टिक्कादयो भूमिपतेः सुज्जेर्वान्यतरे1 हते । KRT_8_1279ab
त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ KRT_8_1279cd
सुज्जिर्न व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् । KRT_8_1280ab
तत्र तत्राभवत्सज्जः प्रसङ्गं नासदत्पुनः ॥ KRT_8_1280cd
प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः । KRT_8_1281ab
प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ KRT_8_1281cd

1258.

--1) A2 gloss सरघा मधुमक्षिका( Amara. ii. 5. 26).

1262.

--1) Emended; A सुज्जिं.

1264.

--1) वळोसके; perhaps read बडोत्सके. Cf. वाडौत्सः viii. 1306.

--2) Emended with C; A स्थितं.

1271.

--1) The last two have become in A partly illegible by an ink blot and have been repeated in the margin by the same hand which supplemented the gloss to i. 110.

1274.

--1) Emended with C; A ॰वैचित्य॰.

1277.

--1) Emended with C; A विडूरया॰.

--2) Emended; A ॰मानास्वविश्वास॰.

1272.

--1) Emended; A ॰न्यतमे.

[page 214]




व्याघ्रप्रशस्तराजादींस्तीक्ष्णांश्चात्मसमा1न्परम् । KRT_8_1282ab
आदाय कार्यमेतैर्मे सिध्येदित्युक्तवान्नृपम् ॥ KRT_8_1282cd
उच्चित्योच्चित्य सेनाभ्यो गृहीतैः सहासक्षमैः । KRT_8_1283ab
शतैः समं त्रिचतुरैः पत्तीनामेकदा ययौ ॥ तिलकम्1 KRT_8_1283cd
समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा । KRT_8_1284ab
प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ KRT_8_1284cd
तुरंगं मन्दुराचक्रवर्त्याख्यं नगरस्थितम् । KRT_8_1285ab
अस्वस्थमुल्लाघयितुं तुरगव्यसनी नृपः ॥ KRT_8_1285cd
स लक्ष्मक1प्रतीहारकय्यात्मजमुखान्निजान् । KRT_8_1286ab
पार्श्वाद्विसृष्टवा2नासीत्क्षणे तस्मिन्मितानुगः ॥ KRT_8_1286cd
शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् । KRT_8_1287ab
व्यधाच्छ्रुतिपथे राज्ञस्तदुत्पलचिकीर्षितम् ॥ KRT_8_1287cd
विरुद्धे बन्धुधीर्दृष्टहिंसारम्भेपि संभवेत् । KRT_8_1288ab
आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ KRT_8_1288cd
स शापो गान्धर्यास्तदपि सरुषो भाषितमृषेस्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयत्1 KRT_8_1289ab
कुलान्तं तत्त्राणाक्षमकृत वैकुण्ठमपि तद्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ KRT_8_1289cd
मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् । KRT_8_1290ab
तमङ्गुल्योत्पलादींस्तानग्रस्थानेवमब्रवीत् ॥ KRT_8_1290cd
द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे । KRT_8_1291ab
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ KRT_8_1291cd
ते छादयन्तः स्मेरास्या धार्ष्ठेन भयवैकृतम् । KRT_8_1292ab
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ KRT_8_1292cd
निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् । KRT_8_1293ab
द्वाःस्थेनाकारयद्द्वित्रानन्तिके मुख्यशस्त्रिणः ॥ KRT_8_1293cd
उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् । KRT_8_1294ab
सास्रुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ KRT_8_1294cd
मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः । KRT_8_1295ab
पुण्यक्षये पिपतिषुर्वैमानिक इवाम्बरात् ॥ KRT_8_1295cd
राजन्तरङ्गाः साशङ्काः प्रभौ शाठ्येन मोहिते । KRT_8_1296ab
पूत्कारमैच्छन्दातारमन्यं केचिदचेतनाः ॥ KRT_8_1296cd
अयमेव स कालस्य बलात्कवलनग्रहः । KRT_8_1297ab
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ KRT_8_1297cd
सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् । KRT_8_1298ab
उत्पलाद्याश्च साशङ्काः कथमप्यावाहयन् ॥ KRT_8_1298cd
रहः क्षणपार्थिनस्तांस्तृतीयेह्न्यब्रवीन्नृपः । KRT_8_1299ab
स्नात्वा प्रत्यूषे तद्यूयं भोक्तुं यात मुहुर्गृहम् ॥ KRT_8_1299cd
देवतार्चनपर्यन्तमवसायाह्निकं विधिम् । KRT_8_1300ab
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ KRT_8_1300cd
कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसद्मनः । KRT_8_1301ab
राज्ञोभ्यर्णम् स साशङ्कं द्वाःस्थ1रुद्धानुगोविशत् ॥ KRT_8_1301cd
प्रावेशयद्द्वारि रुद्धं व्याघ्रं तदनुजं1 नृपः । KRT_8_1302ab
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ KRT_8_1302cd
बिलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः । KRT_8_1303ab
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ KRT_8_1303cd
ताम्बूलदायकः प्रौढवयास्तेनावशेषितः । KRT_8_1304ab
सांधिविग्रहिको विद्वान्राहिलश्चान्तिके परम् ॥ KRT_8_1304cd
दूतौ टिक्कस्यार्घदेवतिष्य1वैश्याभिधावुभौ । KRT_8_1305ab
तत्र प्रसङ्गादासातामज्ञातोत्पलसंविदौ ॥ KRT_8_1305cd
वाडौत्स1ः सुख2राजाख्यो डामरो भिक्षुसंमतः । KRT_8_1306ab
प्रयास्यति प्रभोर्दृष्ट्वा पादौ तत्कार्यसिद्धये ॥ KRT_8_1306cd
इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् । KRT_8_1307ab
ससैन्यं डामरं1 चक्रे स्वस्य त्राणार्थमुत्पलः ॥ KRT_8_1307cd
तथा चैनं तस्थिवांसं कृत्यमस्त्यमुनेति च । KRT_8_1308ab
उक्त्वा प्रशस्तराजं तं पार्श्वं प्रावेशयद्द्रुतम् ॥ KRT_8_1308cd
प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डलम् । KRT_8_1309ab
अलक्ष्यमाणव्यापारो द्वारमर्गलितं व्यधात् ॥ KRT_8_1309cd

1282.

--1) Emended; A ॰त्मसरान्परान्.

1283.

--1) A1 writes here 3 instead of तिलकम्.

1286.

--1) Thus A1; A3 पक्ष्मक॰.

--2) वा supplied by A3 in space left by A1.

1289.

--1) Emended; A प्रकटयन्.

1309.

--1) Emended; A द्वास्थ.

1305.

--1) Emended; A ॰स्याघदेवतिष्ठवैश्य॰; Cf. viii. 1543.

1306.

--1) A वाळौत्सः perhaps read वाडोत्सः. Cf. वडोसके viii. 1264.

--2) A सु X ख॰.

1307.

--1) A डमरं.

[page 215]




स्नानार्द्रकेशं शीतालुतया प्रावारवेष्टितम् । KRT_8_1310ab
कृत्वा कृत्स्नं वपुः कृष्टशस्त्रीकं विष्टरोपरि ॥ KRT_8_1310cd
आसीनं वीक्ष्य नृपतिं प्रसङ्गो नेदृशो भवेत् । KRT_8_1311ab
विज्ञप्तिं कुरु भूर्भर्तुरित्यूचे व्याघ्र उत्पलम् ॥ KRT_8_1311cd
स तया संज्ञया व्यग्रः पादप्रणतिकैतवात् । KRT_8_1312ab
राज्ञोग्रमेत्य तच्छस्त्रीं विष्टरस्थामपाहरत् ॥ KRT_8_1312cd
विकोशां1 चाकरोत्पश्यंस्तां तथोद्भ्रान्तलोचनः । KRT_8_1313ab
प्राह स्म हा धिक्किं द्रोह इति यावद्वचो नृपः ॥ KRT_8_1313cd
प्राहरत्प्रथमं तावत्सव्ये पार्श्वे तथैव सः । KRT_8_1314ab
तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः ॥ युग्मम्1 KRT_8_1314cd
व्याघ्रेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा । KRT_8_1315ab
प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ KRT_8_1315cd
पूर्वयैव प्रहृत्या हि छिन्नपार्श्वास्थिमालया । KRT_8_1316ab
मेने कृष्टान्त्रतन्त्रीकं स तं प्रोषितजीवितम् ॥ KRT_8_1316cd
गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रेण राहिलः । KRT_8_1317ab
पृष्ठे कृताहतिर्द्वित्रा नालिका नोज्झितोसुभिः ॥ KRT_8_1317cd
ताम्बूलदायकस्त्यक्त्वा कङ्को1लाद्यज्जको व्रजन् । KRT_8_1318ab
दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ KRT_8_1318cd
अन्तः समुत्थिते क्षोभे वाह्यमण्डपवर्तिभिः । KRT_8_1319ab
टिक्ककाद्यैः कृता लुण्ठिर्द्रोहगृह्यैरुदायुधैः ॥ KRT_8_1319cd
उत्पलो निहतो राञ्जेत्यवेत्य कटकस्थितैः । KRT_8_1320ab
बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ KRT_8_1320cd
रक्तार्द्रशस्त्रं संदर्श्य तमोरेर्वपुरुत्पलः । KRT_8_1321ab
ऊचे मया हतो राजा न त्याज्या तच्चमूरिति ॥ KRT_8_1321cd
तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः । KRT_8_1322ab
द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम् ॥ KRT_8_1322cd
निर्यान्तो मण्डपत्तीक्ष्णा निजघ्नुर्नागकाभिधम् । KRT_8_1323ab
द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ KRT_8_1323cd
भूपालशय्यापा1लस्य त्रैलोक्याख्यस्य सेवकः । KRT_8_1324ab
निन्दन्द्रोहं टिक्ककाद्यैर्द्वाःस्थश्चैको विपा2दितः ॥ KRT_8_1324cd
उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् । KRT_8_1325ab
सखेटकांसि धावन्तं भावुकान्वयभूषणम् ॥ KRT_8_1325cd
दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः । KRT_8_1326ab
तीक्ष्णः स त्वपतद्भूमौ तद्भृत्यप्रहृतिक्षतः ॥ KRT_8_1326cd
जाते कुकीर्तिकालुष्यपात्रे राजात्मजव्रजे । KRT_8_1327ab
वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ KRT_8_1327cd
हतो1 दौशिकसंवादिदेहो राजात्मभ्रजमात् । KRT_8_1328ab
विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ KRT_8_1328cd
अक्षतान्व्रजतो वीक्ष्य तीक्ष्णान्ग्रामान्तरोन्मुखान् । KRT_8_1329ab
चित्रार्पिता इवव् क्रोधान्नाधावन्केपि शस्त्रिणः ॥ KRT_8_1329cd
राजवंश्या महीपालप्रीतिपात्रमथोययुः । KRT_8_1330ab
स्थागयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ KRT_8_1330cd
तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् । KRT_8_1331ab
स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ KRT_8_1331cd
जाता दुष्कृतसंस्पर्शात्खेदात्कर्तुं न शक्नुमः । KRT_8_1332ab
पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ KRT_8_1332cd
अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् । KRT_8_1333ab
पापिनः केपि तन्मुख्या ददृशुः स्वामिनं हतम् ॥ KRT_8_1333cd
अदरेणास्रसंस्कारलेशावेशप्रकम्पिना । KRT_8_1334ab
वदन्तं दन्तदष्टेन स्वान्तस्थान्तेनुतप्तताम् ॥ KRT_8_1334cd
वञ्चितः कथमेषोहमिति नामेति चिन्तया । KRT_8_1335ab
निस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ KRT_8_1335cd
श्यामायमानं वाष्पेण1 व्रणवक्त्रैरुदञ्चता । KRT_8_1336ab
अन्तःप्रशान्तामर्षाग्निशेषधूमलतात्विषा ॥ KRT_8_1336cd
आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् । KRT_8_1337ab
सक्तया लिखितस्येव घनक्षतजलाक्षया ॥ KRT_8_1337cd
श्राश्यानास्रजटीभूतकेशं नग्नं भुवि च्युतम् । KRT_8_1338ab
पर्यस्ततपाणिचरणं स्कन्धाग्रालम्बिकन्धरम्1 KRT_8_1338cd

1313.

--1) Emended with C; A विकोशं.

1314.

--1) A1 writes here 2 instead of युग्मम्.

1318.

--1) Emended; A कङ्काला॰.

1324.

--1) Conjectural reading; A ॰शक्यापालस्य.

--2) Emended; A ॰र्द्वास्थश्चैको.

--3) Emended; A व्यपादितः.

1328.

--1) Emended; A हतदैशि॰.

1336.

--1) The first of this verse has been first omitted and subsequently supplied by A1 in margin.

1338.

--1) A कन्दरस्.

[page 216]




तं वीक्ष्य नोचितं किंचिदारेरुस्ते नराधमाः । KRT_8_1339ab
वैजन्यस्य फलं भुङ्क्ष्वेत्यविगादधिचिक्षिपुः ॥ KRT_8_1339cd
बद्ध्वा तुरंगे युग्ये वा न तैर्नीतश्चिताग्निसात् । KRT_8_1340ab
कर्तुं न वा पारितः स प्राणात्राणाय धावितैः ॥ KRT_8_1340cd
आस्तां विलम्बसाध्यं वा कर्मैतद्भ्राष्ट्रदारुसात् । KRT_8_1341ab
सज्जापि चाग्निसाद्देहमपि कश्चिन्न नाकरोत् ॥ KRT_8_1341cd
राजवाजिनमेकैकं तेध्यारुह्य पलायिताः । KRT_8_1342ab
निर्लुण्ठितस्तु कटको व्रजन्ग्रामेषु डामरैः ॥ KRT_8_1342cd
न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् । KRT_8_1343ab
मृतं हतं लुण्ठितं वा प्रचलन्सहिमेध्वनि ॥ KRT_8_1343cd
न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नतिं पथि । KRT_8_1344ab
परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ KRT_8_1344cd
लवराजयशोराजद्विजौ व्यायामवेदिनौ । KRT_8_1345ab
कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ KRT_8_1345cd
अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् । KRT_8_1346ab
प्रविष्टा वाष्टुवं1 छित्त्वा शिरो निन्युर्महीपतेः ॥ KRT_8_1346cd
गतेषु देवसरसं तेषु छिन्नशिरा नृपः । KRT_8_1347ab
हतश्चौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ KRT_8_1347cd
एवं द्रोहैस्तृतीयाब्दामावास्यायां स फाल्गुने । KRT_8_1348ab
पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ KRT_8_1348cd
विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ । KRT_8_1349ab
प्रेमाख्येनैत्य दुर्वार्ता धात्रेनेण1 व्यधीयत ॥ KRT_8_1349cd
संभाव्यते योनुभावः1 सशस्त्रस्याप्रियश्रुतौ । KRT_8_1350ab
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ KRT_8_1350cd
मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः । KRT_8_1351ab
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ KRT_8_1351cd
मदर्थं कुर्वता राज्यं प्रयत्नादपकण्टकम् । KRT_8_1352ab
अधमे किं महाराज त्वयात्मा परिभावितः ॥ KRT_8_1352cd
अहेतोः पश्यतः शत्रूनन्ते वैरविशुद्धये । KRT_8_1353ab
अपि ते मानिनोगच्छंस्तात संभावनाभुवम् ॥ KRT_8_1353cd
त्वया निषेधिते वैरे पिता भ्राता च ते दिवि । KRT_8_1354ab
निर्मन्युः संप्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ KRT_8_1354cd
अनरण्यकृपद्रोणजामद1ग्न्यादिषु स्पृहाम् । KRT_8_1355ab
कुल्यक्षालितवैरेषु मा कार्षीः कांचन क्षणम् ॥ KRT_8_1355cd
शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप । KRT_8_1356ab
दूये न तत्र यातं यत्त्रैलोक्यमभियोज्यताम् ॥ KRT_8_1356cd
वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् । KRT_8_1357ab
मद्दर्शने यदासीत्ते तन्मे पर इवाधुना ॥ KRT_8_1357cd
इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः । KRT_8_1358ab
ह्रीशोकभयमूकान्स ददर्शाप्तान्पितुः पुरः ॥ KRT_8_1358cd
अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् । KRT_8_1359ab
तथाप्येवं स तानूचे किंचिदाक्षेपकर्कशम् ॥ KRT_8_1359cd
कोशैः सद्वंशतां वीक्ष्य कुर्वतः1 सत्क्रियां गताः । KRT_8_1360ab
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ KRT_8_1360cd
यन्मत्पितृव्ये निहते1 कृतमुच्छिष्टजीविभिः । KRT_8_1361ab
मान्यानां भवतां सिद्धिम् हा धिक्तदपि नाधुना ॥ KRT_8_1361cd
इत्युपालम्भमानस्तान्द्वित्रैरन्तिकमागतैः । KRT_8_1362ab
द्वित्रैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः ॥ KRT_8_1362cd
प्रस्थानं लोहरे केचिदूचुः संत्यज्य मण्डलम् । KRT_8_1363ab
त्वरां च तत्र रात्र्यन्ते वदन्तो भैक्षवं भयम् ॥ KRT_8_1363cd
गर्गात्मजं पञ्चचन्द्रमालम्ब्य1 मन्त्रिणां नृपः । KRT_8_1364ab
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ KRT_8_1364cd
न हि स्वगृहवद्भिक्षोर् विविक्षोर्नगरान्तरम् । KRT_8_1365ab
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ KRT_8_1365cd
आत्मन्यसंभावनया तादृशां1 मन्त्रिणां नृपः । KRT_8_1366ab
सान्तःखेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ KRT_8_1366cd
कालापेक्षापरिव्यक्तपितृव्यापत्तिदुःस्थितः । KRT_8_1367ab
स कोशादिष्वथादिक्षद्रक्षिणस्त्राणदीक्षितम् ॥ KRT_8_1367cd

1346.

--1) Thus A; cf. बाष्टुकं viii. 1459.

1349.

--1) Emended; A धात्रीयेन.

1350.

--1) नुभाव supplied by A3 in space left by A1.

1355.

--1) Thus A.

1360.

--1) Emended; A कुरुतः.

1361.

--1) Emended with C; A न हते.

1364.

--1) Emended; A ॰लम्भ्य.

1366.

--1) तादृशां supplied by A3 in space left by A1.

[page 217]




इतश्चेतश्च बम्ब्व्ह्रम्यमाणैः प्रोद्यत्प्लुतस्वरम् । KRT_8_1368ab
अन्योन्याख्यायिभिर्लोकैः पुरं मुखरतामगात् ॥ KRT_8_1368cd
मत्तवेतालमालेव कालरात्याकुलेव च । KRT_8_1369ab
बभूव सा यामवती सर्वभूतभयावहा ॥ KRT_8_1369cd
दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मन्त्रिभिः । KRT_8_1370ab
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ KRT_8_1370cd
निर्द्वारे सतमस्युग्रमारुते शून्यवेश्मनि । KRT_8_1371ab
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ KRT_8_1371cd
कष्टमेतादृशासह्यवैशसक्षालनावधि । KRT_8_1372ab
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ KRT_8_1372cd
विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकाः1 KRT_8_1373ab
सहिमैरेव दुर्लङ्घ्यैः कथमेष्यन्ति वर्त्मभिः ॥ KRT_8_1373cd
इत्थं विमृशत1स्तस्य सत्तत्तीव्राभिषङ्गिनः । KRT_8_1374ab
ययौ भीतिमतो भीमा कथंचित्सा निशीथिनी2 KRT_8_1374cd
प्रातश्चतुष्किकां पौरसमाश्वासाय निर्गतः । KRT_8_1375ab
नष्टं कटकमन्वेष्टुं सोश्वासरूढान्व्यसर्जयत् ॥ KRT_8_1375cd
मार्गानसूचीसंचारैर्विवरोज्झितान् । KRT_8_1376ab
आश्लिष्टवसुधा मेघाः कर्तुं प्रारेभिरे ततः ॥ KRT_8_1376cd
नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु1 दूरतः । KRT_8_1377ab
निवृत्तेषु नियुक्तेषु विमृश्य2 नृपतिः क्षणम् ॥ KRT_8_1377cd
यद्यद्येनाहृतं तत्तत्परित्यक्तं मयाधुना । KRT_8_1378ab
दत्तं चारीञ्श्रितवतामभयं सागसामपि ॥ KRT_8_1378cd
इत्याज्ञां भ्रमयामास पटहोद्घोषणैः पुरे । KRT_8_1379ab
साशीर्घोषास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ तिलकम्1 KRT_8_1379cd
अनन्तरनृपाचारवैधर्म्योकारकल्पया । KRT_8_1380ab
तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ KRT_8_1380cd
शतादप्यूनसंख्यैर्यः स्थितवाननुगैः समम् । KRT_8_1381ab
अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ KRT_8_1381cd
प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः । KRT_8_1382ab
भजंल्लोकस्याग्र्यमन्त्रिपदवीं लक्ष्मकोग्रहीत् ॥ KRT_8_1382cd
राज्यं शय्यां नयत्येवं प्राज्ञे राज्ञि नयक्रमैः । KRT_8_1383ab
याति मध्यं दिने भिक्षुर्विविक्षुः पुरमाययौ ॥ KRT_8_1383cd
तस्य डामरपौराश्ववारलुण्ठाकसंकुलः । KRT_8_1384ab
अदृष्टपूर्वो ददृशे सैन्यव्यतिकरस्तदा ॥ KRT_8_1384cd
हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं व्रजन् । KRT_8_1385ab
राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ KRT_8_1385cd
हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः । KRT_8_1386ab
कथं प्रकृतयो जह्युर्गुणवन्तं तदात्मजम् ॥ KRT_8_1386cd
पुरप्रवेशे का राजंस्तस्मादेकमहस्त्वरा । KRT_8_1387ab
एहि पद्मपुरं यामो मार्गं रोद्धुं विरोधिनाम् ॥ KRT_8_1387cd
आगच्छन्तो नष्टसैन्याः सुज्जिमुख्या महाभटाः । KRT_8_1388ab
निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ KRT_8_1388cd
प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैर्ध्रुवम् । KRT_8_1389ab
नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ KRT_8_1389cd
अलमेतैर्जरन्मन्त्रैर्वदन्त इति चक्रिरे । KRT_8_1390ab
स च कोष्ठेश्वराद्याश्च विलम्बं कारितो निजैः ॥ KRT_8_1390cd
राज्यं विदद्भिः संप्राप्तं1 तांस्ताञ्शासनपट्टकान् । KRT_8_1391ab
द्रुतमर्थयमानैश्च स्मेरास्तस्यावधीरणाम् ॥ KRT_8_1391cd
अतो बहुहिमापातविवशाशेषसैनिकः । KRT_8_1392ab
आसदन्नगरोपान्तं समयेन स तावता ॥ KRT_8_1392cd
एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः । KRT_8_1393ab
गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ KRT_8_1393cd
हतस्वामिपरित्यागमन्युक्षालनकाङ्क्षिभिः । KRT_8_1394ab
राजपुत्रैः समं सोथ वीरो योद्धुं विनिर्ययौ ॥ KRT_8_1394cd
असंभावनसंग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः । KRT_8_1395ab
यावत्प्रारेभिरे योद्धुं तावत्किमपि सर्वतः ॥ KRT_8_1395cd
क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतानिजान् । KRT_8_1396ab
न संस्तम्भयितुं शेकुः स्वचमूश्च पलायिनीः ॥ KRT_8_1396cd

1373.

--1) Emended; A ॰नायकः.

1374.

--1) A विमृषत॰.

--2) A निषीथिनी.

1377.

--1) Thus A; perhaps read मोघदैन्येषु.

--2) A विमृष्य.

1372.

--1) A1 writes here 3 instead of तिलकम्.

1392.

--1) Emended; A संप्राप्तांस्तांस्ता॰.

[page 218]




सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः । KRT_8_1397ab
अदृष्टपूर्वं संत्रासं तेप्यशस्त्रिवदाययुः ॥ KRT_8_1397cd
विद्रवन्तोनुयाताः स्युस्ते चेद्दूरं नृपानुगैः । KRT_8_1398ab
तन्नू1नमवशिष्येत क्षणादेव न किंचन ॥ KRT_8_1398cd
वैमुख्यं तेषु यातेषु चिरात्सांमुख्यमाययौ । KRT_8_1399ab
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ KRT_8_1399cd
अन्यथा कलितो लोकैरन्यथा दैवयोगतः । KRT_8_1400ab
इत्थं राज्ञोर्द्वयोरासीद्विजयावजयक्रमः ॥ KRT_8_1400cd
कंचिन्निपातवति बद्धपदं क्षणेन कंचित्परं पिपतिषु नयति प्ररूढिम् । KRT_8_1401ab
संकल्पनिर्विषयचिन्नतरानुभाव ओघोम्भसामिव तटं पुरुषं विधाता ॥ KRT_8_1401cd
अथ तत्तद्भयस्थानशान्तः सुज्जिर्दिनात्यये । KRT_8_1402ab
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ KRT_8_1402cd
मेधाचक्र1पुरग्रामस्थितः श्रुत्वा हतं नृपम् । KRT_8_1403ab
स हि सम्मन्त्र्य रात्र्यन्तर्नोत्तस्थाववसत्परम् ॥ KRT_8_1403cd
रिल्हणादीन्स्थिताञ्शूरपुरादौ सैन्यनायकान् । KRT_8_1404ab
प्रतीक्षमाणस्तैः साकं निर्बाधं नगरेविशत् ॥ KRT_8_1404cd
तमिस्रायां प्रत्यभिज्ञाकृते तेषामनश्वरान् । KRT_8_1405ab
स्वावासपृष्ठे ज्वलतो दीपानस्थापयत्ततः ॥ KRT_8_1405cd
वैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक्पृथक् । KRT_8_1406ab
निशि क्वापि परिभ्रष्टा न तत्कटकमाययुः ॥ KRT_8_1406cd
प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः । KRT_8_1407ab
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ KRT_8_1407cd
वृद्धस्त्रीबालभूयिष्ठान्सहप्रस्थायिनो जनान् । KRT_8_1408ab
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ KRT_8_1408cd
पञ्चाशत्या हरारोहैः सह व्यावृत्य तिष्ठता । KRT_8_1409ab
कंचित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ KRT_8_1409cd
द्राक्षाषण्डद्रुमव्यूहसंबाधेध्वन्यसाध्वसैः । KRT_8_1410ab
बाध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ KRT_8_1410cd
हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः । KRT_8_1411ab
आनृण्याकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ KRT_8_1411cd
येषां प्राणपरित्वागे निश्चयं बध्नतामपि । KRT_8_1412ab
न योग्यकालापेक्षास्ति किं तैर्हिंस्रपशूपमैः ॥ KRT_8_1412cd
हन्तुं तं नष्टमायान्तं रुद्ध्वा पद्मपुरान्तिकम् । KRT_8_1413ab
अवसण्डामराः क्रूराः खडूवीविषयौकसः ॥ KRT_8_1413cd
खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः । KRT_8_1414ab
व्रजंस्तेनाययौ तत्र प्रसङ्गे श्रीवकः पथा ॥ KRT_8_1414cd
तमनष्टानुगं सुज्जिरसाविति विशङ्किताः । KRT_8_1415ab
निपत्य ते विदधिरे हललुण्ठितसैनिकम् ॥ KRT_8_1415cd
मेरुश्च सज्जनश्चाश्ववारौ तत्राहवे हतौ । KRT_8_1416ab
क्षतो वट्टात्मजो मल्लो दिवसैर्यो व्यपद्यत ॥ KRT_8_1416cd
उदीप1विहितश्वभ्रवहत्सलिलसंकटम् । KRT_8_1417ab
उदीपपूरबालाख्यं स्थानं तत्र क्षणेभवत् ॥ KRT_8_1417cd
युद्ध्वा युद्ध्वा प्रचलतस्तत्र पद्मपुराद्बहिः । KRT_8_1418ab
रुद्धसैन्यस्य विशिखः श्रीवकस्याविशद्गलम् ॥ KRT_8_1418cd
प्रहारविवशो नासौ सुज्जिर्ज्ञात्वेति डामरैः । KRT_8_1419ab
स निर्लुण्ट्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ KRT_8_1419cd
लुण्ठित1श्रीबकानीककोशभारग्रहानतैः । KRT_8_1420ab
तैः कैश्चिच्चलितैरासीत्सुज्जेर्मार्गोनुपद्रवः ॥ KRT_8_1420cd
प्रस्थिते पथिकेकस्माद्यन्त्रेषूत्सादयन्वने । KRT_8_1421ab
आयुःशेषो मृगेन्द्रस्य विदध्यादध्वशोधनम् ॥ KRT_8_1421cd
निःशब्दसैन्यो निर्यातः सुज्जिः पद्मपुरान्तरे । KRT_8_1422ab
उदीपश्वभ्रसविधं संप्राप्तोज्ञायि डामरैः ॥ KRT_8_1422cd
पदातिकोश1शस्त्रादि मुष्णतः सोनवेक्ष्य2 तान् । KRT_8_1423ab
तीर्त्वा अवभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ KRT_8_1423cd
ततः परं प्रशान्तारिभयं दूराद्विरोधिनः । KRT_8_1424ab
भ्रूभङ्गतर्जनीकम्परूक्षालापैरतर्जयत् ॥ KRT_8_1424cd

1398.

--1) Emended with C; A तान्नून॰.

1403.

--1) Emended; A मेघाचक्रं पुर॰.

1417.

--1) A2 had written in margin a gloss of which only इति भाषया is now legible.

1420.

--1) Emended; A लुण्ठितः श्री॰.

1423.

--1) ॰कोष॰.

--2) Emended with C; A सोनवीक्ष्य.

[page 219]




संत्रस्तैश्छत्त्रमात्रं तैस्त्यक्तमादाय च द्रुतम् । KRT_8_1425ab
प्रविश्य नगरं सास्रुर्नृपतेः पार्श्वमाययौ ॥ KRT_8_1425cd
ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः । KRT_8_1426ab
दुःखोष्णैरस्रुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ KRT_8_1426cd
महत्तमोनन्तसूनुरानन्दस्तत्र वासरे । KRT_8_1427ab
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ KRT_8_1427cd
तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् । KRT_8_1428ab
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ KRT_8_1428cd
भासाभिधः सुज्जिभृत्यो लोकपुण्यात्पलायितः । KRT_8_1429ab
श्रान्तोवन्तिपुरेविक्षदवन्तिस्वामिनोङ्गनम् ॥ KRT_8_1429cd
कम्पनोद्ग्रा1हकः क्षेमानन्दः स च तदन्तरे । KRT_8_1430ab
अमर्षणैरवेष्ट्येतां2 डामरैर्होलडोद्भवैः ॥ KRT_8_1430cd
इन्दुराजोपि सेनानीः कुलराजकुलोद्भवः । KRT_8_1431ab
टिक्कं तद्वेष्टितो ध्यानोड्डारे1 व्याजादशिश्रियत् ॥ KRT_8_1431cd
पिञ्चदेवादयोन्येपि बहवः सैन्यनायकाः । KRT_8_1432ab
अतिष्ठन्क्रमराज्यान्तर्डामरैः कृतवेष्टनाः ॥ KRT_8_1432cd
पाते वनस्पतेः शावा इव तन्नीडचिच्युताः । KRT_8_1433ab
इत्थं हताः क्षताश्चा1संस्तत्र तत्र नृपानुगाः ॥ KRT_8_1433cd
निष्पादत्रा हिमप्लुष्टचरणा नग्नविग्रहाः । KRT_8_1434ab
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ KRT_8_1434cd
न व्यलोक्यत मार्गेषु तदा नगरगामिषु । KRT_8_1435ab
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ KRT_8_1435cd
घासं विलासवासस्त्वं तेपि चित्ररथादयः । KRT_8_1436ab
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ KRT_8_1436cd
द्वितीयेपि दिने रुद्धसंचाराः पत्त्रिणामपि । KRT_8_1437ab
तुषारवर्षिणो मेघा न मुहूर्तं व्यरंसिषुः ॥ KRT_8_1437cd
वनपूर्वाभिधग्रामस्थितस्य कटकाद्भटान् । KRT_8_1438ab
भिक्षोर्निक्षिप्य धन्योथ सिंहदेवमशिश्रियत्1 KRT_8_1438cd
निशम्य कृतसत्कारं नृपं तदनुयायिनाम् । KRT_8_1439ab
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ KRT_8_1439cd
मन्दप्रतापे दायादेः संप्राप्तावसरास्ततः । KRT_8_1440ab
राज्ञ्यश्चतस्रो राजानमनुसर्तुं विनिर्ययुः ॥ KRT_8_1440cd
परापातभयाच्छीतापाताच्च विवशैर्जनैः । KRT_8_1441ab
न ता नेतु1मशक्यन्त दूरस्थं पितृकाननम् ॥ KRT_8_1441cd
चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् । KRT_8_1442ab
ते सत्वरं ततस्तासामदूरे राजसद्मनः ॥ KRT_8_1442cd
राज्ञी चम्पोद्भवा देवलेखा तरललेखया । KRT_8_1443ab
स्वस्रा सहाविशद्वह्निं रूपोल्लेखावधिर्विधेः ॥ KRT_8_1443cd
गुणोज्ज्वला जज्जला --1 मृता वल्लापुरोद्भवा । KRT_8_1444ab
गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ KRT_8_1444cd
मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभाः । KRT_8_1445ab
डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ KRT_8_1445cd
ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् । KRT_8_1446ab
गाढामर्षाग्निसंदीप्तैर्दृक्पातैर्निर्दहन्निव ॥ KRT_8_1446cd
कोष्ठेश्वरज्येष्ठपालादयस्तत्सत्क्रियोद्यताः । KRT_8_1447ab
असहासन्नतां वैराद्भजता तेन वारिताः ॥ KRT_8_1447cd
नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया । KRT_8_1448ab
ताटस्थ्येनाहिताकृष्टान्भृत्याञ्ज्ञात्वाब्रवीद्वचः ॥ KRT_8_1448cd
प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति । KRT_8_1449ab
हते तु तस्मिन्दायदेविपन्नः1 स्यां पतिर्भुवः ॥ KRT_8_1449cd
इत्यचिन्तयमेतत्तु दैवात्संजातमन्यथा । KRT_8_1450ab
राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ KRT_8_1450cd
किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना । KRT_8_1451ab
जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ KRT_8_1451cd
मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम । KRT_8_1452ab
सिंहद्वारे मदीरेद्य तन्मुण्डं वर्तते लुठनत् ॥ KRT_8_1452cd
दश मासान्मदाद्यानां सुखच्छेदं व्यधत्त यः । KRT_8_1453ab
तत्तद्दुखं स तु मया दशाब्दाननुभावितः ॥ KRT_8_1453cd

1430.

--1) Doubtful emendation; A नोद्ग्राहकः.

--2) Emended with C; A ॰रवेष्ट्येत.

1431.

--1) Emended; A ॰ड्डारं.

1433.

--1) A क्षताश्चाश्चाश्चासंस्तत्र with diplography.

1438.

--1) Emended; A ॰शिश्रयत्.

1441.

--1) Thus A1; corr. by later hand into तानेनु॰.

1444.

--1) One akshara wanting; the lacuna not indicated in A; C supplements सा.

1449.

--1) Emended; A विपन्नां; C ॰दायादे विपन्न.

[page 220]




एवं निर्व्यूढकर्तव्यता नेष्याम्यवन्ध्यताम् । KRT_8_1454ab
उपशान्तमनस्तापः सुस्थित्या शेषमायुषः ॥ KRT_8_1454cd
इत्याद्युक्त्वा गतष्टिक्काभ्यर्णं तं प्रणतं व्यधात् । KRT_8_1455ab
प्रीत्या स हेमघटिकश्वेतच्छत्त्रादिभाजनम् ॥ KRT_8_1455cd
तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः । KRT_8_1456ab
गृहीतोभ्येत्य शीता1र्तस्तस्थावन्तर्विचिन्तयन् ॥ KRT_8_1456cd
अत्यन्तानुचितं चान्यल्लवन्यैः संव्धित्सुभिः । KRT_8_1457ab
रक्षितं रक्षिणो न्यस्य हतक्ष्माभृत्कलेवरम् ॥ KRT_8_1457cd
विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीदृशी । KRT_8_1458ab
दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ KRT_8_1458cd
दिदृक्षाव्याजतः सज्जकाख्यो नगरशस्त्रभृत् । KRT_8_1459ab
आयातो वाष्टुकं1 गोप्तॄन्युद्धैर्जित्वाग्निसद्य्वधात् ॥ तिलकम्2 KRT_8_1459cd
स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः । KRT_8_1460ab
ब्भूतैरधिष्ठितस्त्रिष्ठन्प्रजासंहारकार्यभूत् ॥ KRT_8_1460cd
देवताधिष्ठिताविष्टदेहिवाक्यादिति श्रुतिः । KRT_8_1461ab
भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ KRT_8_1461cd
तदीयानन्यथात्वेन छेत्ता भ्रमयिता च यः । KRT_8_1462ab
तन्मुण्डस्यास्य स पुमांल्लब्धः सुप्तो मृतस्तथा ॥ तिलकम्1 KRT_8_1462cd
भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् । KRT_8_1463ab
प्राचण्ड्यख्यातये मुण्डमथ राजपुरीं रिपोः ॥ KRT_8_1463cd
उच्चलात्मजया तत्र देव्या सौभाग्यलेखया । KRT_8_1464ab
नेतॄन्पितृव्यमुण्डस्य जिघांसन्त्या निहानुगैः ॥ KRT_8_1464cd
राजपुर्यामाकुलत्वं नीतायामाससाद तत् । KRT_8_1465ab
तद्भर्तुः सोमपालस्य दूरस्थस्यान्तिकं चिरात् ॥ युग्मम्1 KRT_8_1465cd
आदीनस्य1 मधुक्षैव्यग्राम्यधर्मादिकर्मसु । KRT_8_1466ab
तिरश्च इव शोच्यस्य नेयबुद्धेः खशप्रभोः ॥ KRT_8_1466cd
सभ्यैरुच्चावचं तत्र कर्तव्यं परिचिन्तितम् । KRT_8_1467ab
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ KRT_8_1467cd
नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः स्थितोन्तिके । KRT_8_1468ab
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ KRT_8_1468cd
सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् । KRT_8_1469ab
विशङ्क्योचुः सर्वथेदं सत्कार्यं वः शिरः प्रभोः ॥ KRT_8_1469cd
क्रियते येन1 नियतेरन्यथात्वं सनाथताम् । KRT_8_1470ab
विनिहस्य हरेर्दृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ KRT_8_1470cd
तद्गोपालपुरे कालागुरुचन्दनदारुभिः । KRT_8_1471ab
काष्ठैर्निष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ KRT_8_1471cd
यथा प्राप्तिभ्रंशा धरणिपतिभावस्य विविधा यथा ह्रासोल्लासा अपि समरसीमासु बहुशः । KRT_8_1472ab
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ KRT_8_1472cd
कस्यापरस्य तस्येव लेभिरे वह्निसत्क्रियाम् । KRT_8_1473ab
एकत्रेतरगा1त्राणि मुण्डमन्यत्र मण्डले ॥ KRT_8_1473cd
टिक्कादयोथ नगरं यान्तोवन्तिपुराध्वना । KRT_8_1474ab
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ KRT_8_1474cd
युद्धाग्न्युद्दीपनग्रावप्रहारच्छेदकारिभिः । KRT_8_1475ab
न ते जेतुमशक्यन्त तैः प्रयत्नैरपि ॥ KRT_8_1475cd
स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने । KRT_8_1476ab
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ KRT_8_1476cd
एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः । KRT_8_1477ab
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ KRT_8_1477cd
गृहीतनीविना तेषां सुज्जिः प्रायोजि सत्वरम् । KRT_8_1478ab
तेन भास्सादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ KRT_8_1478cd
प्रापावन्तिपुरं यावन्न स तावत्तदग्रगान् । KRT_8_1479ab
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ KRT_8_1479cd
देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् । KRT_8_1480ab
भग्नानामनुगान्हत्वा सुज्जेरन्तिकमाययुः ॥ KRT_8_1480cd

1456.

--1) Emended with C; A शीर्तार्त॰.

1459.

--1) Thus A; cf. वाष्टुवं वीi.1346.

--2) A1 writes here 3 instead of तिलकम्.

1462.

--1) A1 writes here 3 instead of तिलकम्.

1465.

--1) A1 writes here 2 instead of युग्मम्.

1466.

--1) Emended; A आदीनास्थ.

1470.

--1) Emended with C; A ये.

1473.

--1) Emended with C; A एकत्रेतगा॰.

[page 221]




लब्धप्रतापे नगरं प्रविष्टे कम्पनापतौ । KRT_8_1481ab
आययाविन्दुराजोपि टिक्कं संत्यज्य सानुगः ॥ KRT_8_1481cd
चक्रे चित्ररथश्रीवभासादीनपि भूपतिः । KRT_8_1482ab
पादाग्रद्वारखेर्यादिकर्मस्थानाधिकारिणः ॥ KRT_8_1482cd
यथापूर्वमधीकारानजहत्सुज्जिरप्यभूत् । KRT_8_1483ab
प्रतीहारमुखप्रेक्षी का कथेतरमन्त्रिणाम् ॥ KRT_8_1483cd
प्रतीहारोपि निःशीमडामरग्रामसंमतः । KRT_8_1484ab
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ KRT_8_1484cd
स नासीदसुहृद्व्यूहे कोपि तत्प्रेरणेन यः । KRT_8_1485ab
नाशिश्रिय1न्नृपं नो वा बभूवाश्रयणोन्मुखः ॥ KRT_8_1485cd
निह्नुतेशित्वसदृशस्फूर्तिर्धूर्तो महीपतिः । KRT_8_1486ab
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ KRT_8_1486cd
इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः । KRT_8_1487ab
सोवर्तिष्ट समासन्नफलं कन्दलयन्नयम् ॥ KRT_8_1487cd
संघटय्याखिलान्भिक्षुर्डा1मरान्विजयेश्वरे । KRT_8_1488ab
अथाध्यष्टा2दधिष्ठानं जिघृक्षुः शिशिरात्यये ॥ KRT_8_1488cd
दृष्टपूर्वं स्वचमूचक्रैक्यं वीक्ष्य डामराः । KRT_8_1489ab
भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ KRT_8_1489cd
एकैकस्यैष1 धीशौर्यम्नित्रामित्रादि दृष्टवान् । KRT_8_1490ab
नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ KRT_8_1490cd
इति संमन्त्र्य ते राज्यं सोमपालाय दित्सवः । KRT_8_1491ab
दूतान्निगूढं प्राहिण्वन्सो1पि दूतं व्यसर्जयत् ॥ KRT_8_1491cd
आकाराचारवैक्लव्यैः पशुतुल्यस्य तस्य तैः । KRT_8_1492ab
राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्तयत ॥ KRT_8_1492cd
भोगलोभोज्झितौचित्यदस्युसंघचिकीर्षितम् । KRT_8_1493ab
देशेत्र पापत्पापीयो1 दैवान्न समपादि तत् ॥ KRT_8_1493cd
दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः । KRT_8_1494ab
शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ KRT_8_1494cd
शीलान्पलालपुरुषोवति यः कृशानुदग्धाननश्चटकपेटकभीतिदानैः । KRT_8_1495ab
त्रातुं स काननतरून्विहितोi विदध्यात्किं तत्र भञ्जनकृतां वनकुञ्जराणाम् ॥ KRT_8_1495cd
भिक्षोर्निर्दिष्टतां दिष्टवृद्धिव्याजात्ततो भजन् । KRT_8_1496ab
तद्दूतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ KRT_8_1496cd
वैशाख्येथ कृतारम्भस्तदा संभावितत्वरः । KRT_8_1497ab
निर्गत्य नगरात्सुज्जिर्गम्भीरमाययौ ॥ KRT_8_1497cd
तस्याभियोगः श्लाव्योभूद्योद्धुं यत्समवायिनः । KRT_8_1498ab
एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ KRT_8_1498cd
अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् । KRT_8_1499ab
जीयते लक्षमेकेन लक्षेणैकोथ वा युधि ॥ KRT_8_1499cd
पारं तरीतुं निःसेतोः सरितोपारयन्नसौ । KRT_8_1500ab
पारे परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ KRT_8_1500cd
द्वित्रा निशाः स ते चासंस्तस्याः स्न्धोस्तटत्वये । KRT_8_1501ab
रुद्धाः संनाहिनोन्योन्यरन्ध्रावेक्षण1दीक्षिताः ॥ KRT_8_1501cd
अथावन्तिपुरान्नौभिरानीताभिरबन्धयत् । KRT_8_1502ab
सेतुं साश्वेतरत्सुज्जिरारुह्य तरणीं स्वयम् ॥ KRT_8_1502cd
तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् । KRT_8_1503ab
द्विषच्चमूर्मरुल्लोका द्रुमालैiवाभवच्चला ॥ KRT_8_1503cd
दृष्टं मुहूर्तादेतावदारूढः स च यत्तटम् । KRT_8_1504ab
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ KRT_8_1504cd
न खड्ग्गी न हयारोहो नापि शूली न चापभृत् । KRT_8_1505ab
व्यावृत्य प्रेक्षितुं1 कश्चिदशकद्विद्रुताद्बलात् ॥ KRT_8_1505cd
निबद्धवध्रशैथिल्याल्लोलपल्ययने हये । KRT_8_1506ab
कोष्ठेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ KRT_8_1506cd
निर्यन्त्र्य1 तेपि पर्याणं सुज्जौ पश्चात्प्रधाविते । KRT_8_1507ab
वात्योद्भूतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ KRT_8_1507cd
हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः । KRT_8_1508ab
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ KRT_8_1508cd

1485.

--1) Emended with C; A नाशिश्रयन्नृपं.

1488.

--1) Emended; A भिक्षून्डा॰.

--2) Emended; A अथाधिष्ठव्द॰; C अथातिष्ठद॰.

1490.

--1) Conjectural reading; A एकैकस्यौषधीशौर्य॰.

1493.

--1) Emended; पापीये.

1501.

--1) Emended with C; A ॰वीक्षण॰.

1505.

--1) Emended with C; A प्रेक्षितुः.

1507.

--1) Emended; A निर्यन्त्य; C निर्यत्य.

[page 222]




विजयेशाग्रगं तीर्त्वा वितस्तासेतुमग्रगः1 KRT_8_1509ab
भासोपि दस्यून्विदधे पलायनपरायणान् ॥ KRT_8_1509cd
उषित्वा विजयक्षेत्रे तदान्येद्युरुपागते । KRT_8_1510ab
कम्पनेशे1 ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ KRT_8_1510cd
तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः । KRT_8_1511ab
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ KRT_8_1511cd
जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ । KRT_8_1512ab
प्रविश्य देवसरसं व्यधाट्टिक्कोपवेशने ॥ KRT_8_1512cd
ययुर्विनष्टसंघातास्तस्मिन्पश्चात्प्रधाविते । KRT_8_1513ab
भिक्ष्वादयः शूरपुरं स्वोर्वीं कोष्ठेश्वरादयः ॥ KRT_8_1513cd
गर्हा महाभये सोमपालदूतः पलायितः । KRT_8_1514ab
दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोर्व्यधात् ॥ KRT_8_1514cd
स हि तादृङ्महारम्भक्षोभसाद्योन्नतीच्छुताम् । KRT_8_1515ab
तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ KRT_8_1515cd
प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनैः । KRT_8_1516ab
सुज्जिः प्रसाद्य प्रददावेवं स स्वामिसूनवे ॥ KRT_8_1516cd
शमालादीनपि व्यूढान्दानोपायेन डामरान् । KRT_8_1517ab
पौरांश्च भिक्ष्वाश्रयिणो राजाभ्येतुं प्रचक्रमे ॥ KRT_8_1517cd
राज्ञः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् । KRT_8_1518ab
इति सर्वाभिसारेण तं संमन्त्र्य रणं दधुः ॥ KRT_8_1518cd
रजोजवनिकाल1क्ष्यभटौघनटताण्डवः । KRT_8_1519ab
दामोदरेभूत्संग्रामः स वीरग्रामघस्मरः ॥ KRT_8_1519cd
कोष्ठेश्वरवशं यातं रक्षता पितरं क्षतम् । KRT_8_1520ab
लब्धाः सहजपालेन श्लाघाः प्रकृतिभिः समम् ॥ KRT_8_1520cd
श्रमस्तत्रावैशेषोभूद्राज्ञो भिक्षाचरस्य च । KRT_8_1521ab
भिक्षुस्त्वहन्यसंवेद्यं विवेदात्मपराजयम् ॥ KRT_8_1521cd
ततः प्रभृति यः प्रातः स न सायमदृश्यत । KRT_8_1522ab
योद्य वा न परेद्युः स सैनिको भैक्षवे बले ॥ KRT_8_1522cd
एवं त्यक्त्वा परान्पौरडामरेषु नृपान्तिकम् । KRT_8_1523ab
प्रयात्सु लाभसत्कारानुचितान्प्राप्नुवत्सु च ॥ KRT_8_1523cd
काप्यहंपूर्विकोत्तस्थौ मनुजेश्वरकोष्ठयोः । KRT_8_1524ab
प्रयातुं पार्थिवाभ्यर्णं लाभसौख्याभिलाषिणोः ॥ KRT_8_1524cd
ज्ञात्वाथ तत्काकरुहाद्गृहीतस्वपरिच्छदः । KRT_8_1525ab
देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ KRT_8_1525cd
अनुयाद्भिः स दाक्षिण्यशेषाद्विहितसान्त्वनैः । KRT_8_1526ab
तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ KRT_8_1526cd
अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः । KRT_8_1527ab
अतिरूपेषु दारेषु तस्य कोष्ठेश्वरः स्पृहाम् ॥ KRT_8_1527cd
सटां हरेः फणारत्नमहेर्ज्वालां हविर्भुजः । KRT_8_1528ab
बालां च तस्य संस्प्रष्टुं1 कोप्रशान्तस्य शक्नुयात् ॥ KRT_8_1528cd
समं सौस्सलिना बद्धसंधिराश्रयकाङ्क्षिणः । KRT_8_1529ab
सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ KRT_8_1529cd
उद्वेजितः प्राणहरैः प्रयत्नैस्तस्य सर्वतः । KRT_8_1530ab
तद्देश1दुर्गममहीसीमान्तं सुल्हरीं ययौ ॥ KRT_8_1530cd
त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले । KRT_8_1531ab
त्यागो दार्वाभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ KRT_8_1531cd
पीडयेत्त्यक्तभीर्भूभृद्दूरस्थे त्वयि डामरान् । KRT_8_1532ab
त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ KRT_8_1532cd
क्ष्मां तद्व्रजामोर्थयितुं सांप्ररं नरवर्मणः । KRT_8_1533ab
मन्त्रिभिर्युक्तमित्युक्तमपि मन्त्रं न चाग्रहीत् ॥ KRT_8_1533cd
वसाल्पपरिवारोस्मद्गृह इत्यथ गृह्णतः । KRT_8_1534ab
श्वशुरप्रार्थनां तस्य भृत्याः पार्श्वादवाचलन् ॥ KRT_8_1534cd
प्रावर्तताथ नगरे विशद्भिर्विभवोज्ज्वलैः । KRT_8_1535ab
सुलग्नसुलभे काले वरयात्रेव डामरैः ॥ KRT_8_1535cd
वीक्ष्याश्वच्छत्त्रतुरगैरेकैकं पार्थिवाधिकम् । KRT_8_1536ab
सुस्सलक्ष्मापतेर्धैर्ये नैष्टुर्यं तुष्टुवुर्जनाः ॥ KRT_8_1536cd
औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् । KRT_8_1537ab
कोष्ठेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ KRT_8_1537cd

1509.

--1) Thus corr. by A1 from ॰ममतः.

1510.

--1) Emended; A कम्पनेशं.

1519.

--1) Emended with C; A ॰जवनिकां लक्ष्य॰.

1528.

--1) Emended with C; A संप्रष्टुं; cf. viii. 1193.

1530.

--1) Emended with C; A तदेश॰.

[page 223]




प्रशान्तविप्लवे देशे ययावुत्सववाद्यताम् । KRT_8_1538ab
विशद्भूरिलवन्यौघतूर्यघोषो1 दिवानिशम् ॥ KRT_8_1538cd
क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः । KRT_8_1539ab
आनीताः पार्थिवाभ्यर्णं सैन्यार्णवभयंकराः ॥ KRT_8_1539cd
अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् । KRT_8_1540ab
प्रतीहारगृहद्वारप्रवेशो वड्डमानकृत् ॥ KRT_8_1540cd
लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः । KRT_8_1541ab
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ KRT_8_1541cd
डामरेभ्यो नृपः पारात्1संगृह्णन्कृतवेतनः । KRT_8_1542ab
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ KRT_8_1542cd
तिष्यवैश्यार्घदेवा1द्या ज्ञातयो जनकद्रुहाम् । KRT_8_1543ab
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ KRT_8_1543cd
मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् । KRT_8_1544ab
अनन्यशासनं राष्ट्रं स्वमेव समपादयत् ॥ KRT_8_1544cd
नि1र्धाम नगरं पौराः सर्वसामर्थ्यवर्जिताः । KRT_8_1545ab
अनन्तै राष्ट्रमाकीर्णं डामरैः पार्थिवोपमैः ॥ KRT_8_1545cd
बद्धमूलो नातिदूरे सर्वभारसहो रिपुः । KRT_8_1546ab
सबाह्याभ्यन्तरा मन्त्रिसामन्ता वैरिसंश्रिताः ॥ KRT_8_1546cd
मन्त्रोपदेशो1 वृद्धस्य नैकस्यापि नृपास्पदे । KRT_8_1547ab
अधर्मबहलाः सर्वे भृत्या द्रोहैकवृत्तयः ॥ KRT_8_1547cd
राज्यारम्भे बभूवेयं या सामग्र्यस्य भूपतेः । KRT_8_1548ab
सा स्मर्तव्यान्तराज्ञतुं प्रत्युदन्तं विवेक्तृभिः ॥ KRT_8_1548cd
प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् । KRT_8_1549ab
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्श्यते ॥ KRT_8_1549cd
पूर्वापरानुसंधानवन्ध्यैर्दृष्टान्तवत्1कथाः । KRT_8_1550ab
नाबुद्ध्वातिगभीराणां शक्या रसयितुं गुणाः ॥ KRT_8_1550cd
प्रत्यक्षस्य गुणान्राज्ञो विचिन्वन्तो यथास्थितान् । KRT_8_1551ab
अनीर्ष्यस्य भविष्यामो विवेकस्यानृणा वयम् ॥ KRT_8_1551cd
स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः । KRT_8_1552ab
अमानुषानुभावस्य राज्ञः किं पुनरीदृशः ॥ KRT_8_1552cd
हितानां दाराणां सदृशसुखदुःखस्य सुहृदः कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः । KRT_8_1553ab
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतेरसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ KRT_8_1553cd
भवेत्प्राप्तप्रसरणा परिणामेथ वा मतिः । KRT_8_1554ab
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ KRT_8_1554cd
सन्त्येवास्यापि विषमाः स्वबहवा दोषतां जनः । KRT_8_1555ab
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ KRT_8_1555cd
विकासः केषांचिन्नयनविषमैर्विद्युदुदयैः परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः । KRT_8_1556ab
न चेष्टा काप्यन्योपकृतिपरिहीनां जलमुचो जडो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ KRT_8_1556cd
गुणांल्लोकोत्तराञ्शृण्वन्नस्यानुभवगोचरान् । KRT_8_1557ab
भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ KRT_8_1557cd
अनुच्चलन्नपि स्थानाद्भूभ1ङ्गेन चकार सः । KRT_8_1558ab
विलोलांल्लोमकम्पेन दिङ्नाग इव भूधरान् ॥ KRT_8_1558cd
विरुदद्वाहिनीवृन्दा गूढं यद्भयसंभवम् । KRT_8_1559ab
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ KRT_8_1559cd
भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः । KRT_8_1560ab
पूर्वराजयशश्चन्द्रो भुवनेष्वप्रकाशताम् ॥ KRT_8_1560cd
यो यस्तं पश्यति स्वात्मसंमुखं स स सर्वतः । KRT_8_1561ab
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ KRT_8_1561cd
स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् । KRT_8_1562ab
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ KRT_8_1562cd
कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य संमुखः । KRT_8_1563ab
नापरः प्रतिशब्दाच्च गर्जतः प्रतिगर्जति ॥ KRT_8_1563cd
तस्य नातिशितं कोपे प्रसादे निशितं पुनः । KRT_8_1564ab
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ KRT_8_1564cd

1538.

--1) Doubtful emendation; A ॰घोषा; G ॰विप्लवो देशो and ॰घोषादिवा॰.

1540.

--1) Thus A; C पौरान्सं॰.

1543.

--1) Cf. दूतौ ढिक्कस्यावदेवतिष्ठवैश्या॰ (A)viii. 1305.

1545.

--1) Thus A1; R C निवासन॰, as apparently corr. by later hand in A.

1547.

--1) Conjectural emendation; A मत्तोपदेशवृद्धस्य.

1550.

--1) दृष्टान्त supplied by A3 in space left by A1.

1558.

--1) Emended with C; A ॰द्भॄभङ्गेन.

[page 224]




तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः । KRT_8_1565ab
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ KRT_8_1565cd
राज्ञि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविषुताम् । KRT_8_1566ab
विवेद मन्त्रिणां लोकः सिषेवे तांश्च सर्वतः ॥ KRT_8_1566cd
प्ररूढास्तु प्रतीहारो न विषेहेन्यमन्त्रिणाम् । KRT_8_1567ab
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ KRT_8_1567cd
तस्योत्पाटयतः सर्वांस्तृणानीवावहेलया । KRT_8_1568ab
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ KRT_8_1568cd
आ बाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् । KRT_8_1569ab
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ KRT_8_1569cd
अद्वैधं यौनसंबन्धादिच्छतस्तत्सुतो मदात् । KRT_8_1570ab
छुड्डाभिधस्तस्य ततः कृतावज्ञोतनोत्त्रपाम् ॥ KRT_8_1570cd
रन्ध्रान्वेषी स तद्रोषादुपजापैः क्षणे क्षणे । KRT_8_1571ab
ससूनौ जनके यत्नान्नृपं1 द्वेषमजिग्रहत् ॥ KRT_8_1571cd
राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् । KRT_8_1572ab
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ KRT_8_1572cd
तुरंगयोग्योपस्कारस्नानाहारादि राजवत् । KRT_8_1573ab
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ KRT_8_1573cd
सह स्ववृद्धैः समशीर्षिका प्रभोर्न युज्यते प्राप्तसमुन्नतेः क्वचित् । KRT_8_1574ab
श्रितोन्नतेर्दर्दुरवृन्दलङ्घनं सरोजषण्डस्य महाविडम्बना ॥ KRT_8_1574cd
तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः । KRT_8_1575ab
तद्वर्गेप्यखिले चक्रुस्तद्द्विषः कलुषं नृपम् ॥ KRT_8_1575cd
अथ राजा विजयिनं सत्कर्तुं कम्पनापतिम् । KRT_8_1576ab
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ KRT_8_1576cd
अत्रान्तरे पिञ्जदेवादागच्छन्गिरिगह्वरे । KRT_8_1577ab
प्राप शूरपुरद्रङ्गाधीश्वरादुत्पलो वधम् ॥ KRT_8_1577cd
पुष्याणनाडादुत्पिञ्जकृतये पुनराग्तः । KRT_8_1578ab
द्रङ्गाधिपेन गुटिकान्वेषिणा स ह्यवाप्यत ॥ KRT_8_1578cd
क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् । KRT_8_1579ab
मुमूर्षुर्विशिखाविद्धजानुमर्मापि सोवधीत् ॥ KRT_8_1579cd
प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः । KRT_8_1580ab
द्वर्यवन्तिपुरस्थस्य1 द्रङ्गेशोरिशिरो व्यधात् ॥ KRT_8_1580cd
स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्गरः । KRT_8_1581ab
चक्रे तस्य दृढामर्षशोकशङ्कुविपाटनम्1 KRT_8_1581cd
आद्यायामेव यात्रायां जातारातिक्षयो जनैः । KRT_8_1582ab
स निःशेषयिताशेषकण्टकानामगण्यत ॥ KRT_8_1582cd
तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः । KRT_8_1583ab
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ॥ KRT_8_1583cd
कैश्चित्1पलायितैः शङ्कां ग्राहिताः पृथिवीपतेः । KRT_8_1584ab
ततः कोष्ठेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ KRT_8_1584cd
शमालां निर्गतः श्रीमान्कार्तिकेथ कृती नृपः । KRT_8_1585ab
तत्र तत्रासुहृद्ग्रामं संग्रामोग्रमबाधत ॥ KRT_8_1585cd
यत्र सुस्सलभूपाद्याः प्रापुर्भग्नप्रतापताम् । KRT_8_1586ab
तं हाडिग्राममदहत्सुज्जिरूर्जितविक्रमः ॥ KRT_8_1586cd
महीभुजा पीड्यमानैराहूतः कोष्ठकादिभिः । KRT_8_1587ab
अथ भिक्षाचरो राज्यगृध्रुर्भूयोप्युपाययौ ॥ KRT_8_1587cd
एकेनाह्ना योजनानि प्रोल्लङ्घ्य दश पञ्च च । KRT_8_1588ab
शिलिकाकोट्टनामानं गिरिग्राममवाप सः ॥ KRT_8_1588cd
क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम् । KRT_8_1589ab
क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ KRT_8_1589cd
कार्यमायाति वैमुख्यं जिगीषोर्विधुरे विधौ । KRT_8_1590ab
प्रस्थितस्य पुरोवाते रथस्येव ध्वजंशुकम् ॥ KRT_8_1590cd
आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै कश्चित्प्रयत्नपरमोप्यफलप्रयासः । KRT_8_1591ab
मन्थाद्रिणामृतमवाप्युदधेर्मुहूर्तात्सक्तिं चिराद्विदधता न हिमाद्रिजेन ॥ KRT_8_1591cd

1571.

--1) Emended; A नृपो.

1580.

--1) Emended with C; A ॰पुरस्स्थस्य.

1581.

--1) Emended; A विपादनम्.

1584.

--1) Emended with C; A कैश्चित्प॰.

[page 225]




भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे वेलोर्मिवेल्लनवशेन विवर्तमाना । KRT_8_1592ab
मिथ्यैव यच्छति धियं पुनरुद्गतेति नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ KRT_8_1592cd
तस्य तावन्महायत्नकठोरस्योदयक्षणे । KRT_8_1593ab
सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ KRT_8_1593cd
आयातं तमबुद्ध्वा तु1 तस्मिन्नेव क्षणेश्रयत् । KRT_8_1594ab
पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नृपम् ॥ KRT_8_1594cd
कोष्ठेश्वरः स चावेत्य संप्राप्तं तमतिष्ठताम् । KRT_8_1595ab
कृत्याक्षमौ ततः सर्पाविव मन्त्रनियन्त्रितौ ॥ KRT_8_1595cd
ताभ्यां स्थानेथ सोन्यस्मिंस्त्याजितोध्वपरिश्रमम् । KRT_8_1596ab
कार्कोटद्रङ्गमार्गेण निर्गतः सुल्हरीं ययौ ॥ KRT_8_1596cd
आसीच्च तत्र प्रोच्चण्डदर्पकण्डूलदोर्द्रुमः । KRT_8_1597ab
ऊष्मायमाणः कश्मीराक्रान्तिसंततचिन्तया ॥ KRT_8_1597cd
उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः । KRT_8_1598ab
पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ KRT_8_1598cd
अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् । KRT_8_1599ab
सुज्जेरसहमानोभूच्छलान्वेषणतत्परः ॥ KRT_8_1599cd
आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः । KRT_8_1600ab
धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमज्जनात् ॥ KRT_8_1600cd
तदाद्याः संस्तुता राज्ञश्चिरसंभावितास्ततः । KRT_8_1601ab
अनाप्नुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ KRT_8_1601cd
कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मन्त्रिषु । KRT_8_1602ab
कालप्रतीक्षाक्षमतामूहु1स्ते गहनाशयाः ॥ KRT_8_1602cd
प्रतीहारस्तु दुर्लक्ष्यसुज्जिनिर्लोठनोद्यतः । KRT_8_1603ab
अप्रियानपि तान्प्रीत्या जग्राहोग्रोपयोगिनः ॥ KRT_8_1603cd
व्यतीतेष्वथ मासेषु केषुचिद्दैवयोगतः । KRT_8_1604ab
अकस्मादभवद्भूभृत्स्फीतलूतामयातुरः ॥ KRT_8_1604cd
विस्फोटशोफातीसारवह्निमान्द्याद्युपद्रवैः । KRT_8_1605ab
संदिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ KRT_8_1605cd
इत्थं स्थितः कुलस्यैक1भर्तुः स्वामी बली रिपुः । KRT_8_1606ab
तत्पक्षा डामरा राष्ट्रं दुष्टमेव व्यचिन्तयन् ॥ KRT_8_1606cd
आयत्यां च तदात्वे च हितकृत्यं विचारयन् । KRT_8_1607ab
राज्ञः श्रीगुणलेखाया जातमेकसुतं शिशुम् ॥ KRT_8_1607cd
पञ्चाब्ददेश्यम् पर्माण्डिं सुज्जिर्भूमिपतिं तदा । KRT_8_1608ab
चिकीर्षुर्मन्त्रयामास मातुलेनास्य गार्गिणा1 KRT_8_1608cd
इत्थं भूतस्य दुध्रुक्षुः ससूनुः सुज्जिरद्य ते । KRT_8_1609ab
पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ KRT_8_1609cd
लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः । KRT_8_1610ab
इत्यवोचंस्ततो भूपं स तथेत्यग्रहीच्च तत् ॥ KRT_8_1610cd
पूर्वप्रजासृज1 इवाद्भुतवस्तुतत्त्व2व्यावर्णनेन कुतुकं जनयन्ति तज्ज्ञाः । KRT_8_1611ab
बाला इवाप्लमतिहार्यधियश्च सन्ति प्रायो नृपा नियमशून्यमनोनुभावाः ॥ KRT_8_1611cd
शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा निःशस्त्रो यश्छलनकुशलैर्मानसं संप्रविश्य । KRT_8_1612ab
नीतो भूतैरिव विवशतां निर्भरं गर्भचेष्टैर्भद्रं भूपात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ KRT_8_1612cd
निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं प्रीत्युत्फुल्लदृगेष किं किमिति तं पृच्छत्यनच्छाशयम् । KRT_8_1613ab
ब्रूते किंचिदसौ कचानथ कषन्सर्वंकषं मानिनां मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ KRT_8_1613cd
सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ प्रभोर्वलितलोचनं जगदवज्ञयालोकयन् । KRT_8_1614ab
निजस्य मुखविक्रियाप्रणयताडनाद्यैर्विदन्ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ KRT_8_1614cd
अपि जातु स दृश्येत निःसंक्षोभमतिर्नृपः । KRT_8_1615ab
यो यन्त्रपुत्रक इव व्यक्तं धूर्तैर्न नर्त्यते ॥ KRT_8_1615cd

1594.

--1) Here one akshara is wanting in A; तु supplemented with C.

1602.

--1) Emended; A ॰क्षमतां मुहुस्ते.

1606.

--1) Thus corr. by A1 from कुलेस्यै॰.

1608.

--1) Emended; A गर्गिणा.

1619.

--1) Emended; A ॰स्रज.

--2) Emended with C; A ॰तत्त्वं व्या॰.

[page 226]




यतो भृत्यान्तराज्ञानाज्जातः सर्वस्वसंक्षयः । KRT_8_1616ab
तत्प्रजादुष्कृतै राज्ञां हा धिङ्नाद्यापि शाम्यति ॥ KRT_8_1616cd
सुज्जिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः । KRT_8_1617ab
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ KRT_8_1617cd
दाक्षिण्यं वसमतां यातमाशये प्रतिबिम्बितम् । KRT_8_1618ab
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः । KRT_8_1618cd
तस्मिन्राजगृहे खेदान्मन्दीकृतगतागते । KRT_8_1619ab
नृपतेस्तद्गतां प्रीतिं निःशेषां जह्रिरे खला1ः ॥ KRT_8_1619cd
भृत्यः सुज्जेश्चित्ररथोप्यास्थानद्विजभूः शठः । KRT_8_1620ab
प्रातिलोम्यावहैर्भर्तुर्मन्त्रैरासीच्छ्रियोन्तकृत् ॥ KRT_8_1620cd
नीरोगे राज्ञि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे । KRT_8_1621ab
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ KRT_8_1621cd
न तं प्रासादयद्राजा विशालबलवाहनः । KRT_8_1622ab
आक्रम्यो1सौ कथं नः2 स्यादित्युपायं त्वचिन्तयत् ॥ KRT_8_1622cd
त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः । KRT_8_1623ab
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ KRT_8_1623cd
राजस्थानात्स्रजं धन्य1मुदयं कम्पनादपि । KRT_8_1624ab
अजिग्रहन्नरपतिः खेरीकार्यं च रिल्हणम् ॥ KRT_8_1624cd
हु1ताधिकारे प्रव्यक्तवैकृते नृपतौ ततः । KRT_8_1625ab
अल्पावशेषानुचरः सुज्जिरासीद्विशङ्कितः ॥ KRT_8_1625cd
विमानितः पुराद्गङ्गायात्रामुच्चिश्य मानवान् । KRT_8_1626ab
शोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ KRT_8_1626cd
औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिके न सः । KRT_8_1627ab
निर्गच्छन्राजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ KRT_8_1627cd
तन्न्निर्वासनगर्वस्य स्थापनायानुयात्रिके । KRT_8_1628ab
प्रतीहारस्तस्य गुप्त्यै कोशादेः स्वात्मजं व्यधात् ॥ KRT_8_1628cd
निग्रहानुग्रहावस्मदायत्ताविति रक्षिणम् । KRT_8_1629ab
पुत्रं प्रादाल्लक्ष्मको स1 इति ध्यायन्स विव्यथे ॥ KRT_8_1629cd
निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः । KRT_8_1630ab
अवारोपयद्रोहो भागिकं लोहराचलात् ॥ KRT_8_1630cd
प्रतीहारविसृष्टाय धात्रेयाय महीभुजः । KRT_8_1631ab
प्रेमाभिधाय तत्कोट्टाधीकारं च समार्पयत्1 KRT_8_1631cd
उत्खाय लोहरत्यागाच्छङ्काशङ्कुं महीपतेः । KRT_8_1632ab
स ग्रीष्मविषमं कामं राजपुर्यामलङ्घयत् ॥ KRT_8_1632cd
अमात्यकन्दुकव्रातपातनोत्पातन1क्षमः । KRT_8_1633ab
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ KRT_8_1633cd
द्वारेथाकारयत्सुज्जिप्रतिमल्लविधित्सया । KRT_8_1634ab
कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ KRT_8_1634cd
अनन्यदेशजः सुज्जेः1 शूरो मत्कोश2पोषितः । KRT_8_1635ab
कीर्तिमेष हरेद्दध्या2वितीर्ष्याकलुषो हि सः ॥ KRT_8_1635cd
खड्गग्राहिसहायः स क्षुण्णः पर्यटितुं पथि । KRT_8_1636ab
निःसुखश्चेपहास्यश्च तेन कार्यार्पणात्कृतः ॥ KRT_8_1636cd
कर्तुं पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः । KRT_8_1637ab
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ KRT_8_1637cd
पदे श्रीखण्डस्यानुचितमुचिते वर्ष्मणि निजे वृषाङ्कः प्रक्षेप्तुं प्रभवति रभसात् । KRT_8_1638ab
न तत्स्वेच्छायत्तत्रिजगदुदयापायघटनोप्यसौ तद्गन्धेन स्फुटमिह पटुः1 संघटयितुम् ॥ KRT_8_1638cd
तस्मिन्सुज्जिप्रतिस्पर्धामप्रौढे वोढुमक्षमे । KRT_8_1639ab
दूतानसृजदानेतुं सञ्जपालं दिगन्तरात् ॥ KRT_8_1639cd
निर्वीरे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् । KRT_8_1640ab
कोष्ठेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ KRT_8_1640cd
प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा । KRT_8_1641ab
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ॥ KRT_8_1641cd

1619.

--1) Emended; A जह्रिरेखिलाः.

1622.

--1) Emended; A आक्रम्यासौ.

--2) Thus corr. in A from .

1624.

--1) Emended; A धान्य॰.

1625.

--1) Emended; A हिता॰.

1629.

--1) Conjectural reading; A कोप; R C ॰कोथ.

1632.

--1) Emended; A समर्पयत्.

1633.

--1) Thus A1; A2 ॰पातनोत्थापनक्षमः.

1635.

--1) Thus A1; A3 सुज्जिः.

--2) Thus corr. by A3 from A1 मत्केश॰.

--3) Thus corr. by A3 from A1 स्पर्धामेष वहे -- -- विती॰.

1638.

--1) पटुः supplied by A3 in space left by A1.

[page 227]




एवं दमकदम्बैक्यं राज्ञि कुर्वति कार्यतः । KRT_8_1642ab
चालकैः सोमपालाद्यैः सुज्जिर्निन्येथ वैकृतम् ॥ KRT_8_1642cd
प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् । KRT_8_1643ab
सोमपालाय तद्राज्यं सोङ्गीचक्रेवमानितः ॥ KRT_8_1643cd
प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् । KRT_8_1644ab
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ KRT_8_1644cd
द्वौ तावल्पाशयौ राजकन्ययोः स्वीक्रियां तदा । KRT_8_1645ab
रभसाद्यावकुर्वाणावदत्तामन्तरं द्विषाम् ॥ KRT_8_1645cd
उपायैर्जयसिंहस्य शकुनैश्च निरीक्षितैः । KRT_8_1646ab
प्रेरितः सोमपालोथ सुज्जेर्मन्दादरोभवत् ॥ KRT_8_1646cd
स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् । KRT_8_1647ab
सीमान्तर्भुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ KRT_8_1647cd
जातां कल्हनिकाख्यायां महादेव्यां महीपतेः । KRT_8_1648ab
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ KRT_8_1648cd
याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः । KRT_8_1649ab
तत्स्वस्रेयीं1 प्रतीहारो भूभुजे प्रत्यपादयत् ॥ KRT_8_1649cd
इत्थं राष्ट्रद्वये बद्धसंधौ निरवकाशताम् । KRT_8_1650ab
प्राप्तः प्रतस्थे हेमन्ते सुज्जिस्त्रिपथगोन्मुखः ॥ KRT_8_1650cd
जालंधरे संघटितो ज्येष्ठपालो निनाय तम् । KRT_8_1651ab
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ KRT_8_1651cd
त्वयि भिक्षाचरे चैकसैन्यनायकतां गते । KRT_8_1652ab
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ KRT_8_1652cd
राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् । KRT_8_1653ab
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्वयोः ॥ KRT_8_1653cd
इति संप्रेरितस्तेन देङ्गपालान्तिकस्थितेः । KRT_8_1654ab
यियासुः सोन्तिकं भिक्षोर्भागिकेन न्यषिध्यत ॥ KRT_8_1654cd
अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले1 KRT_8_1655ab
न युक्तमेतत्ते कृत्यमित्यावेगादशासि2 च ॥ KRT_8_1655cd
स्नात्वा द्युनद्यामेष्यामि पार्श्वं व इति निश्चयम् । KRT_8_1656ab
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ KRT_8_1656cd
प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः । KRT_8_1657ab
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ KRT_8_1657cd
यो यो हि व्यग्रहीत्तं तम् संधाय सविधस्थितः । KRT_8_1658ab
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ KRT_8_1658cd
प्रगल्भमाने शास्त्येव1मुदयः कम्पनापतिः । KRT_8_1659ab
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ KRT_8_1659cd
अविश्वासोल्वणान्सर्वलावन्यानथ लक्ष्मकः । KRT_8_1660ab
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ KRT_8_1660cd
स्नात्वाभ्येप्यति गङ्गायां यावत्सुज्जिर्विसूत्रताम् । KRT_8_1661ab
यावत्कथं मया नेया कश्मीरा इति चिन्तयन् ॥ KRT_8_1661cd
तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् । KRT_8_1662ab
भिन्नान्भिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ KRT_8_1662cd
मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः । KRT_8_1663ab
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ KRT_8_1663cd
स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः । KRT_8_1664ab
आनीतः संमतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ KRT_8_1664cd
प्रतीक्षमाणो राज्याप्तिहेतुं सुज्जिसमागमम् । KRT_8_1665ab
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः ॥ KRT_8_1665cd
बाणशालाभिधे दुर्गे वसन्नल्पोच्छ्रितावपि । KRT_8_1666ab
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ KRT_8_1666cd
प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः । KRT_8_1667ab
व्यावर्तताथ गङ्गायाः सुज्जिर्विहितमज्जनः ॥ KRT_8_1667cd
पूर्वविप्रकृते भिक्षावस्मिंश्चाभेदमागते । KRT_8_1668ab
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ KRT_8_1668cd
ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमादधे । KRT_8_1669ab
सुज्जिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ KRT_8_1669cd
सुज्जिर्जालंधरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् । KRT_8_1670ab
यावद्यास्यति तं सायं तद्दूतस्तावदासदत् ॥ KRT_8_1670cd

1649.

--1) Emended with C; A स्वस्रेयी.

1655.

--1) These two have been written by A1.

--2) Emended with C; A ॰शाधि.

1689.

--1) Thus A; perhaps read शास्त्यैवमु॰.

[page 228]




प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च । KRT_8_1671ab
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ KRT_8_1671cd
ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति । KRT_8_1672ab
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ KRT_8_1672cd
इति दूतमुखेनोक्तः सोमपालेन चान्वहम् । KRT_8_1673ab
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ KRT_8_1673cd
उदयः कम्पनाधीशो वैशाखे तीर्णसंकटः । KRT_8_1674ab
खशान्वितेन संग्रामं प्रत्यपद्यत भिक्षुणा ॥ KRT_8_1674cd
प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः । KRT_8_1675ab
तस्मिन् कोट्टान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ KRT_8_1675cd
राजाथ विजयक्षेत्रं निर्यातः प्रत्यपूरयत् । KRT_8_1676ab
कम्पनेशस्य कटकं तास्ताः संप्रेषयंश्च1मूः ॥ KRT_8_1676cd
यन्त्रोपलशरासारविविधायुधवर्षिणी । KRT_8_1677ab
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ KRT_8_1677cd
पतत्स्वश्मसु भिक्षोश्च नामलक्ष्मसु पत्रिषु । KRT_8_1678ab
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ KRT_8_1678cd
दिनैरभ्यधिके मासमात्रे यातेग्रहीत्ततः । KRT_8_1679ab
विदार्य मूलं दुर्गस्य धन्यः1 खाताम्बु संभृतम् ॥ KRT_8_1679cd
दुगभाजो बलासाध्या राज्ञ्युपायपरे धियम् । KRT_8_1680ab
जाततद्वैरिवाधेच्छा धनलुब्धामदर्शयन् ॥ KRT_8_1680cd
विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये । KRT_8_1681ab
राजा1 डामरसामन्तमन्त्रिराजात्मजैः समम् ॥ KRT_8_1681cd
कोष्ठेश्वरत्रिल्लकाद्याः कृच्छ्र1स्थस्य विमोक्षणम् । KRT_8_1682ab
करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ KRT_8_1682cd
पश्यन्संकटशैलाग्रादधः कोट्टं मितोन्नति । KRT_8_1683ab
जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः ॥ KRT_8_1683cd
पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे । KRT_8_1684ab
अयोधि सर्वसैन्यस्य बलात्कोट्टं जिघृक्षुभिः ॥ KRT_8_1684cd
ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे । KRT_8_1685ab
नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ KRT_8_1685cd
वीरदेहद्रुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः । KRT_8_1686ab
निर्यदस्रैघसरघाः शीर्षभ्रमरगोलकाः ॥ KRT_8_1686cd
कोष्ठेश्वरस्य मूढत्वं तत्र किंचन । KRT_8_1687ab
स्वस्य भिक्षोर्लवन्यानामन्येषां च विनाशकृत् ॥ KRT_8_1687cd
नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये । KRT_8_1688ab
स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ KRT_8_1688cd
दुध्रुक्षूणां खशानां स संकटे धैर्यमादधे । KRT_8_1689ab
कोष्ठेश्वरोस्मि चाभिन्नौ तद्वश्या डामराः परे ॥ KRT_8_1689cd
यदेतद्दृश्यते भूरि सैन्यमस्मद्धिताय तत् । KRT_8_1690ab
पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ KRT_8_1690cd
विस्रम्भभूरमुष्यारिर्यत्र कोष्ठेश्वरोप्यसौ । KRT_8_1691ab
अन्येषु तत्र कैवास्थेत्यथ ते निश्चयं दधुः ॥ KRT_8_1691cd
भूभृत्पितृद्रुहः कार्यवशेन स्वोपवेशने । KRT_8_1692ab
अङ्गीकृताधिकारस्तु धीमांष्टिक्कस्य लक्ष्मकः ॥ KRT_8_1692cd
कह्शाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् । KRT_8_1693ab
स्वीकृत्य भिक्षुदुदुध्रुक्षा1बद्धकक्ष्यमकारयत् ॥ KRT_8_1693cd
आनन्दाख्यः खशाधीशस्यालः कृतगतागतः । KRT_8_1694ab
नीत्वा टिक्कं प्रतीहाराभ्यर्णं भूयोप्यरोपयत् ॥ KRT_8_1694cd
प्रतीहारस्य टिक्केन सहैक्यं वीक्ष्य डामरैः । KRT_8_1695ab
निःसंशयं हतोज्ञायि भिक्षुः कोष्ठेश्वरादिभिः ॥ KRT_8_1695cd
संरब्धास्तद्विमोक्षाय प्राहिण्य्वंस्ते खशान्तिकम् । KRT_8_1696ab
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ KRT_8_1696cd
खशस्तु दध्या1वुत्कोचं गृहीत्वास्माभिरुद्धितः । KRT_8_1697ab
जानाति रक्षितान्प्राणान्भिक्षुः कोष्ठेश्वरादिभिः ॥ KRT_8_1697cd
समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः । KRT_8_1698ab
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्ष्यः प्रयत्नतः ॥ KRT_8_1698cd
मत्वेति तेन प्रत्युक्ता भिक्षुं1 शौचस्थितं गृहात् । KRT_8_1699ab
विपाद्यातः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ KRT_8_1699cd

1676.

--1) Emended; A संप्रैषयच्चमूः.

1679.

--1) Emended; A धान्यः; C धान्यखा॰; cf.viii.1624.

1681.

--1) Emended; A राज्ञां.

1682.

--1) Thus corr. by A2 from A1 कृच्छ्रात्तस्य.

1693.

--1) Emended; A ॰दुधुक्षु॰.

1697.

--1) Emended with R; A दद्यावु॰.

1699.

--1) Emended; A भिक्षुशौ॰.

[page 229]




स त्वमेध्योपलिप्राङ्गः श्वेवावस्करवर्त्मना । KRT_8_1700ab
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ KRT_8_1700cd
कोष्ठेश्वरोव्यक्तकृत्यः सैन्यक्षोभेछयाक्षिपन् । KRT_8_1701ab
रूक्षं कालविदा प्राह्णे प्रतीहारेण सान्त्वितः ॥ KRT_8_1701cd
नीवौ खशाद्यैर्दत्तायामा प्रत्यूषादगृह्यत । KRT_8_1702ab
व्यवसायः प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ KRT_8_1702cd
गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् । KRT_8_1703ab
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ KRT_8_1703cd
तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् । KRT_8_1704ab
कृतयत्नस्य1 साध्योभून्न यो वृद्धमहीभुजः ॥ KRT_8_1704cd
डिम्बो राजानुगा डिम्बास्तस्य भिक्षोः प्रमापणम् । KRT_8_1705ab
साध्यमेते हि मन्यन्ते हन्त किं केन संगतम् ॥ KRT_8_1705cd
विहस्य मीयते वित्तं खशैरेत्य क्षणादमी । KRT_8_1706ab
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ KRT_8_1706cd
पृथग्भूतः कोष्टकोयं त्रिल्लकोस्यैव बान्धवः । KRT_8_1707ab
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ KRT_8_1707cd
को नूतनोत्र संप्राप्तो यो राज्ञः साधयेद्धितम् । KRT_8_1708ab
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ KRT_8_1708cd
इत्यूचुः शिबिरे यावज्जनास्तावदवेष्ट्यत । KRT_8_1709ab
कटकैर्मन्त्रिणां दुर्गं विकोशायुधवाहिभिः ॥ KRT_8_1709cd
एकाकी चिरसंक्लिष्टो हन्तव्यस्तत्कृतेखिलैः । KRT_8_1710ab
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ KRT_8_1710cd
त एवेत्यूचुरासीच्च कचच्छस्त्रोर्मिनिर्मलः । KRT_8_1711ab
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ KRT_8_1711cd
व्योम्नोड्डीयेत वा सैन्यं लङ्घयेद्वा मृगप्लुतेः । KRT_8_1712ab
दुष्टाभ्रवृष्टिरिव वा निखिलांस्ताडयेत्समम् ॥ KRT_8_1712cd
साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् । KRT_8_1713ab
संभ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ KRT_8_1713cd
एतावन्मन्त्रिणां सिद्धमथ प्रत्यूहसंभवः । KRT_8_1714ab
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ KRT_8_1714cd
सैन्ये भिक्षाचरापातं पश्यत्यूर्ध्वार्पितेक्षणे । KRT_8_1715ab
कोट्टान्निष्कृष्टशस्त्रीकः पुमानेको विनिर्ययौ ॥ KRT_8_1715cd
रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः । KRT_8_1716ab
पृष्ठे केपि वपुर्लोलकौसुम्भाधरवाससः ॥ KRT_8_1716cd
बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् । KRT_8_1717ab
उन्मुखः स जनोश्रौषीट्टिक्कं तमथ निर्गतम् ॥ KRT_8_1717cd
स हि1 भिक्षोः कृतद्रोहतुमुले प्रस्तुतो2 वधम् । KRT_8_1718ab
तस्माद्राजानुगेभ्यो वा स्वस्याशङ्क्य विनिर्ययौ ॥ KRT_8_1718cd
अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च । KRT_8_1719ab
कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ KRT_8_1719cd
सानुगस्त्यक्तमार्गां स विलङ्घ्य नृपवाहिनीम् । KRT_8_1720ab
अद्रिप्रस्रवणोपान्ते नातिदूरेब्न्ह्युपाविशत् ॥ KRT_8_1720cd
उद्ध्वसंश्चिरसंप्राप्तैरम्भोभिर्दुर्गनिर्गतः । KRT_8_1721ab
मायां प्रयोक्तुं प्रारेभे प्रेरितः सोन्यडामरैः ॥ KRT_8_1721cd
संजातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् । KRT_8_1722ab
भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ KRT_8_1722cd
इति तद्वाचिकात्तीक्ष्णा नीविभिर्मन्त्रिणां समम् । KRT_8_1723ab
खशैस्त्यजद्भिर्वृषदो न्यरुध्य1न्तारुरुक्षवः ॥ KRT_8_1723cd
ततः किलकिलारावमुखरैः करतालिकाः । KRT_8_1724ab
योधैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ KRT_8_1724cd
मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् । KRT_8_1725ab
द्विषतो मन्त्रिभिः स्वा1र्थो दत्त्वार्थान्को नु साधितः ॥ KRT_8_1725cd
राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः । KRT_8_1726ab
किमेतदिति तं नीविं खशस्यालमभाषत ॥ KRT_8_1726cd
सोभ्यधात्कुम्भदास्यापि रोद्धुं शक्यं चिकीर्षितम् । KRT_8_1727ab
खशानां प्रत्यवस्थाता कथं तत्रास्म्यसंनिधिः ॥ KRT_8_1727cd
स हन्तुं वैपरीत्यं तं खशानां त्वं व्रजेत्यथ । KRT_8_1728ab
उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ KRT_8_1728cd

1704.

--1) Emended; A ॰यन्त्रस्य.

1718.

--1) Emended; A सह.

--2) Thus A; perhaps read कृतद्रोहस्तुमुले प्रस्तुते.

1723.

--1) Emended with C; A न्यरुधन्ता॰.

1725.

--1) Emended; A स्वार्त्या.

[page 230]




सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः । KRT_8_1729ab
देङ्गपालगृहा -- -- 1दारम्भः समभाव्यत ॥ KRT_8_1729cd
अतः प्रधानकोद्देशस्यालः समम1गृह्यत । KRT_8_1730ab
प्रागेवार्थैरेतदर्थं ग्रथ्नता दीर्घवागुराम् ॥ KRT_8_1730cd
संक्षोभावसरे क्षत्ता ततो निःसंभ्रमोभवत् । KRT_8_1731ab
शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ KRT_8_1731cd
स तानूचे न हास्यं मे नष्टे कार्येत्र साहसम् । KRT_8_1732ab
सर्वनाशे हतेमुष्मिन्खशस्यालेपि किं भवेत् ॥ KRT_8_1732cd
अकुण्ठया भाग्यशक्त्या राज्ञः स्यालः खशस्य सः । KRT_8_1733ab
सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ KRT_8_1733cd
दस्यूनामसवः कण्ठे संदेहं मन्त्रिणां धियः । KRT_8_1734ab
स्वःस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ KRT_8_1734cd
स चर्मकौपीनपटीबन्धस्तत्स्वाभिधाङ्कितैः । KRT_8_1735ab
इषुभिः स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ KRT_8_1735cd
स ताम्बूलाधारः सक्तिः सा केशश्मश्रुयोजने । KRT_8_1736ab
याभूदनुमुमूर्षूणां भिक्षुराजो1पजीविनाम् ॥ KRT_8_1736cd
निश्चितान्ते ततस्तस्मिन्स तेषां संन्य1वर्तत । KRT_8_1737ab
कोष्ठेश्वरादिशिबिरं तूर्णं शरणमीयुषाम् ॥ तिलकम्2 KRT_8_1737cd
एकैकशो लक्ष्मकेण युक्त्या स्वैः प्रेरितैर्भटैः । KRT_8_1738ab
टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ KRT_8_1738cd
खशैरस्मिन्नवसरे स पलायनशङ्किभिः । KRT_8_1739ab
रक्ष्यमाणस्तेष्वहःसु मनस्तापादभुक्तवान् ॥ KRT_8_1739cd
वीरस्ताम्यन्विलम्बेन तीक्ष्णानामाहवोत्सुकः । KRT_8_1740ab
तस्थौ भिक्षाचरः स्वान्तमक्षवत्या विनोदयन् ॥ KRT_8_1740cd
हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया । KRT_8_1741ab
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ KRT_8_1741cd
दीव्यतः1 कान्तया साकं कामिनः सुहृदागमे । KRT_8_1742ab
प्रत्युत्थास्नोiरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ KRT_8_1742cd
किमद्यापि वधेन स्याद्बहूनामिति चिन्तयन् । KRT_8_1743ab
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ KRT_8_1743cd
सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः । KRT_8_1744ab
चञ्चच्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ KRT_8_1744cd
गण्डताण्डविताच्छिद्रशङ्खताडङ्करोचिषा । KRT_8_1745ab
चन्दनोल्लेखकान्त्या च द्योतिताहंक्रियास्मितम् ॥ KRT_8_1745cd
वितीर्णं चित्रचार्यन्ते विपर्यस्ताङ्घ्रिताडनम् । KRT_8_1746ab
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ KRT_8_1746cd
कौसुम्भाधरवासोग्रबद्धधौताधराञ्चलैः । KRT_8_1747ab
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ KRT_8_1747cd
दृङ्मनपाणिपादैक्यचारुप्रचुरचारिभिः । KRT_8_1748ab
चरन्तं मण्डलैश्चित्रैर्लघुचित्रस्थिरक्रमैः ॥ KRT_8_1748cd
औचित्यस्योचितां चर्य1मलंकारमहंकृतेः । KRT_8_1749ab
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ KRT_8_1749cd
अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः । KRT_8_1750ab
विचरन्तं तमैक्षिष्ट भिक्षुमग्रे विरोधिनाम् ॥ KRT_8_1750cd
राजबीजी मधोर्नप्ता तं प्रवीरः कुमारियः । KRT_8_1751ab
भ्रातापि ज्येष्टपालस्य निर्यातो रक्तिकोन्वगात् ॥ KRT_8_1751cd
हर्म्यैर्निम्नोन्नतैस्तैर्विशतः परिपन्थिनः । KRT_8_1752ab
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ KRT_8_1752cd
ते धावन्तो व्य1भाव्यन्त शरैस्तच्चापनिर्गतैः । KRT_8_1753ab
वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ KRT_8_1753cd
स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खशैः । KRT_8_1754ab
क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ KRT_8_1754cd
तस्मिन्प्रचलिते मार्गैः प्रविश्योच्चावचैर्भटाः । KRT_8_1755ab
ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ KRT_8_1755cd
भिक्षोरेकं क्षणालक्ष्यधैर्यं पार्श्वधृतायुधम् । KRT_8_1756ab
अधावत्तूर्णमादाय शूलमेको वृहद्भटः ॥ KRT_8_1756cd

1729.

--1) A1 omits here two aksharas without indicating the lacuna; C देङ्गपालगृहादस्मादारम्भः; perhaps read ॰गृहाभ्यर्णादारम्भः.

1730.

--1) Thus A; C स समगृह्यत.

1736.

--1) Emended with C; A राज्ञोपजी॰.

1737.

--1) Emended; A तेषां सन्यव॰.

--2) A1 writes here 3 instead of तिलकम्.

1742.

--1) Emended with C; A दीव्यन्तः.

1749.

--1) चर्Fया.

[page 231]




तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः । KRT_8_1757ab
क्षिप्त्वापहस्तेनावेगात्केशाञ्जग्राह धावितः ॥ KRT_8_1757cd
प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति । KRT_8_1758ab
तस्मिन्प्राह1रतां भूयस्तौ कुमारियरक्तिकौ ॥ KRT_8_1758cd
निर्विभागैर्हते तस्मिन्विविधायुधवाहिभिः । KRT_8_1759ab
विरोधियोधैः संनद्धैस्त्रयो युयुधिरेथ ते ॥ KRT_8_1759cd
अजायन्त विविक्ताश्च शस्त्रसंत्रासिताहिताः । KRT_8_1760ab
कोटराजगरापास्तसरघौघा इव द्रुमाः ॥ KRT_8_1760cd
अशक्नुवन्तस्तान्हन्तुं खड्गशूरादिभिर्द्विषः । KRT_8_1761ab
अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ KRT_8_1761cd
भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् । KRT_8_1762ab
ततो हर्म्यात्खशैर्मुक्ताः पुष्टाः पाषाणवृष्टयः ॥ KRT_8_1762cd
धावतस्तस्य घोराश्मवृष्टिकुट्टितवर्ष्मणः । KRT_8_1763ab
निममज्ज यकृत्पिण्डं भञ्जन्पार्श्वे शिलीमुखः ॥ KRT_8_1763cd
क्रान्त्वा त्रीणि पदान्याशु स पपात दिशन्क्षितेः । KRT_8_1764ab
ततश्चिरप्ररूढं तु कम्पं विद्विषतां हरन् ॥ KRT_8_1764cd
कुमारियोपि बाणेन विद्धवङ्क्षणवर्त्मना । KRT_8_1765ab
व्रणितोप्यपतद्भर्तुः पादोपान्तेप1जीवितः ॥ KRT_8_1765cd
रक्तिक1स्तु शरेणैव विद्धो मर्माणि विह्वलः । KRT_8_1766ab
सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ KRT_8_1766cd
महाकुलीनैः सहितो हतो भिक्षुरशोभत । KRT_8_1767ab
वज्रावभुग्नः शिखरी पुष्पितैरिव पादपैः ॥ KRT_8_1767cd
इयतो राजचक्रस्य मध्ये हर्षनृपात्मनः1 KRT_8_1768ab
नावमानस्य मानस्य त्वभूद्भिक्षोः2 परं पदम् ॥ KRT_8_1768cd
विधाता नित्यविधुरस्तेनान्तेप्यभिमानितः । KRT_8_1769ab
अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ KRT_8_1769cd
को वराको महर्द्धीनां सोग्रे पूर्वमहीभृताम् । KRT_8_1770ab
उदात्तेनान्त1कृत्येन ते त्वस्याग्रे न किंचन ॥ KRT_8_1770cd
अहोपुरुषिकाग्रस्तैरारोहद्भिर्द्विषद्भटैः । KRT_8_1771ab
तदवस्थस्तदार्तोपि शस्त्र्यायुद्ध कुमारियः ॥ KRT_8_1771cd
स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा । KRT_8_1772ab
विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ KRT_8_1772cd
विपन्नेस्मिन्नलं मूढाः प्रहारैरिति निन्दिताः । KRT_8_1773ab
खशैः प्रजह्रुर्बहुशो हते भिक्षौ द्विषद्भटाः ॥ KRT_8_1773cd
अविधेयायुधस्त्रीव्रव्रणवेदनयाधमैः । KRT_8_1774ab
कैश्चिन्निर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ KRT_8_1774cd
वयसस्त्रिंशतिं वर्षान्नव मासांश्च भुक्तवान् । KRT_8_1775ab
स षष्ठाब्दासितज्यैष्ठ1दशम्यां नृपतिर्हतः ॥ KRT_8_1775cd
निदानं विप्लवे दीर्घे सर्वनाशेपि कारणम् । KRT_8_1776ab
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः1 KRT_8_1776cd
नेत्रस्पन्दं भ्रुवोः कम्पं स्मेरास्यत्वं च नामुचत् । KRT_8_1777ab
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ KRT_8_1777cd
एकं व्योम्न्यविशच्चित्रभानुं भूमौ पुनः परम् । KRT_8_1778ab
तद्देहमप्सरःसङ्गं धराम्बु1 च विदज्जडम् ॥ KRT_8_1778cd
सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः । KRT_8_1779ab
तेषां त्रयाणां मुण्डानि ततोन्येद्युरुपाहरन् ॥ KRT_8_1779cd
श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने । KRT_8_1780ab
दृष्टचित्रस्वभावोब्धिर्यथायं पार्थिवस्तथा ॥ KRT_8_1780cd
तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् । KRT_8_1781ab
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ युग्मम्1 KRT_8_1781cd
नादृप्यन्निहतोसाध्यः पितुर्मे योप्यभूदिति । KRT_8_1782ab
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ KRT_8_1782cd
नाकुप्यन्म1त्पितुर्मुण्डमेष भ्रमितवानिति । KRT_8_1783ab
वीक्ष्य भिक्षोः शिरोव्याजभावौदार्यस्त्व2चिन्तयत् ॥ युग्मम्2 KRT_8_1783cd
आकारस्यास्य संभाव्यं सत्त्वं न द्वेषवैकृतम् । KRT_8_1784ab
वैशद्यं स्फटिकस्येव नार्कालोकोपतप्तता1 KRT_8_1784cd

1758.

--1) Emended; A प्रह॰.

1765.

--1) Emended; A पादोपान्तो.

1766.

--1) Emended with C; A भक्तिकस्तु.

1668.

--1) Thus A; C ॰त्मजः.

--2) Perhaps read ॰द्भिक्षुः.

1770.

--1) Thus A; R C ॰नात्तकृत्येन.

17775.

--1)

[page 232]




उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् । KRT_8_1785ab
हा धिक्स्वमृत्युना दृष्टं नेह देहविसर्जनम् ॥ KRT_8_1785cd
प्रसादवित्ता येप्यासन्पूर्वमस्यौर्वाभुजः । KRT_8_1786ab
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ KRT_8_1786cd
इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् । KRT_8_1787ab
आदिदेश रिपोः शीघ्रं तादृशास्यान्तसत्क्रियाम् ॥ KRT_8_1787cd
निद्राच्छेदे च निशि च1 ध्यायंस्तस्योदयात्य2यौ । KRT_8_1788ab
भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ KRT_8_1788cd
अपि वर्षसहस्रेण देशे दायाददुःस्थितिः । KRT_8_1789ab
नूनं न भविता भूय इति लोकोप्यमन्यत ॥ KRT_8_1789cd
दग्ध्वा तृणं तनु घनं प्रतनोति शष्पं वृष्टिं सुजत्युपचितोष्म दिनं1 प्रदर्श्य । KRT_8_1790ab
वैचित्र्यसंस्पृशि विधेर्नियमेन कृत्ये न प्रत्ययः क्वचन नञ्चलनिश्चयस्य ॥ KRT_8_1790cd
कृत्यं निर्वर्त्य विश्रान्त्यै धीरस्यावध्रतो मनः । KRT_8_1791ab
विधिर्विधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ KRT_8_1791cd
आरोढुं प्रथमस्य दीर्घदमन1प्रत्तक्लमस्याङ्घ्रिणा नो संत्ययत एव पादकटको यावद्द्वितीयोखिलः । KRT_8_1792ab
वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखान्यारोहेण परेण तावदसहाधिष्ठियते पृष्ठभूः ॥ KRT_8_1792cd
एवमेव क्षपामात्रं राज्ये निःशत्रुतां गते । KRT_8_1793ab
शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ KRT_8_1793cd
पृष्टः सभ्यैः स संभ्रान्तैर्यस्मिन्नेवाह्नि भूपतेः । KRT_8_1794ab
यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ KRT_8_1794cd
भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा । KRT_8_1795ab
न्यस्तौ सुस्सलभूपेन यौ तौ सल्ह1णलोठनौ ॥ KRT_8_1795cd
ज्येष्ठे मृते कोट्टभृत्यैः कनिष्ठं लोठनं हठात् । KRT_8_1796ab
तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ KRT_8_1796cd
सुतभ्रातृसुतैर्दृप्तैः राज्यर्हैः सह पञ्चभिः । KRT_8_1797ab
निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ KRT_8_1797cd
दूयेत मुह्येदाक्रनदेत्प्रसारितभुजः पतेत् । KRT_8_1798ab
स्वप्याद्विसूत्रो निःस्पन्ददृक्त्वं गच्छेदथ ध्रुवम् ॥ KRT_8_1798cd
दीर्घदौःस्थशमक्षिप्रमृदूकृतमना नृपः । KRT_8_1799ab
असौ तत्कालनिपतद्दुर्वार्तावज्रचूर्णितः ॥ KRT_8_1799cd
इति संभाव्य दिक्पालैरपि साकूतमीक्षितः । KRT_8_1800ab
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ KRT_8_1800cd
न ह्यनन्याभिभूतेन सर्वतोसह्यवर्तिना । KRT_8_1801ab
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ KRT_8_1801cd
पित्रास्य यद्बलान्नष्टं राज्यं भूयः प्रसाधितम् । KRT_8_1802ab
अनेनापि हताराaति विहितं पैतृकं पदम् ॥ KRT_8_1802cd
हारितौ दुर्गकोशौ1 तौ नष्टनामापि दारकः । KRT_8_1803ab
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ KRT_8_1803cd
धनमानान्तकृद्भूरिवर्षान्व्यसनमादधे । KRT_8_1804ab
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ KRT_8_1804cd
मित्रदुर्गार्थसंपन्नाः प्रोद्भूताः षड्विरोधिनः । KRT_8_1805ab
भिन्नप्रकृतिकं कोशशून्यमेतच्च1 मण्डलम् ॥ KRT_8_1805cd
तादृङ्निकषनिस्तीर्णमाहात्म्यस्य महीपतेः । KRT_8_1806ab
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ KRT_8_1806cd
प्राप्कोषितं हि साम्राज्यदाने निर्वासने च तम् । KRT_8_1807ab
तुल्यानुभावमस्मार्षीत्पितैवं गणयन्गुणान् ॥ KRT_8_1807cd
आहूतस्याभिषेकाय विसृष्टस्य वनाय वा । KRT_8_1808ab
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ KRT_8_1808cd
कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् । KRT_8_1809ab
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥ KRT_8_1809cd
एकक्षणानुभूतेस्मिन्संघट्टे सुखदुःखयोः । KRT_8_1810ab
ईदृक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ KRT_8_1810cd
नियतं निरुपादानां शक्तिं दर्शयितुं जने । KRT_8_1811ab
नानोपकरणग्रामं संनद्धोस्याच्छिनद्विधिः ॥ KRT_8_1811cd

1788.

--1) omitted in A; supplemented with C.

--2) Emended with C; A यान्ययौ.

1790.

--1) Thus corr. by A1 from ॰तोष्म चिरं.

1792.

--1) Emended; A दीर्घमदन॰.

1795.

--1) Emended; A सुल्हण॰.

1803.

--1) A ॰कोषौ.

1805.

--1) Emended; A ॰मेतं च.

[page 233]




अत्यद्भुतानि कृत्यानि वस्क्ष्यमाणानि भूपतेः । KRT_8_1812ab
कोमुष्य बहु मन्येत सामग्र्ये सति संपदाम् ॥ KRT_8_1812cd
धैर्याब्धिना कार्यशेषं ज्ञातुं राज्ञा सविस्तरम् । KRT_8_1813ab
पृष्टोथ कोट्ट1वृत्तान्तमाचख्यौ लेखहारकः ॥ KRT_8_1813cd
उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वस्रः । KRT_8_1814ab
लुप्तोद्योगोभवदुप्तौ प्रेमा संपत्प्रमत्तधीः ॥ KRT_8_1814cd
मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया । KRT_8_1815ab
स वृत्त्या भृत्यवैमुख्याधात्र्याभव्यं व्यवाहरत् ॥ KRT_8_1815cd
कुल्यानुकम्पिना दृष्ट्युत्पाट1नादेः स वारितः । KRT_8_1816ab
देवेन2 नादाद्बद्धानां कांचिद्रक्षाक्षमां क्रियाम् ॥ KRT_8_1816cd
मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः । KRT_8_1817ab
माञिकश्च प्रतीहारो बद्धमूलस्य मन्त्रिणः ॥ KRT_8_1817cd
पुत्रो भीमाकरस्येन्दाकरश्चात्रान्तरे समम् । KRT_8_1818ab
दुध्रुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन्1 KRT_8_1818cd
अलब्धो हन्तुमप्राप्तावसरैस्तैः कदाचन । KRT_8_1819ab
कोट्टादट्टालिकां कार्यवशादवरुरोह सः ॥ KRT_8_1819cd
कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना । KRT_8_1820ab
प्रैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ KRT_8_1820cd
कौट्टौकसामशेषाणां गूढलेखान्विधाय ते । KRT_8_1821ab
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ KRT_8_1821cd
दृष्ट्वा दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् । KRT_8_1822ab
सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन्1 ॥ तिलकम्1 KRT_8_1822cd
शरदाख्या वधूरेका कापि सुस्सलभूपतेः । KRT_8_1823ab
तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ KRT_8_1823cd
तदार्पितैरयोयन्त्राभञ्जनैरर्गलानि ते । KRT_8_1824ab
कोशान्निवार्य प्रयाप्तं कोशरत्नादि जह्रिरे ॥ KRT_8_1824cd
सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् । KRT_8_1825ab
दानेन त्याजिताa या सा1 चण्डालैः प्रतिकूलता ॥ KRT_8_1825cd
भेरीतूर्यादिनिर्घोषैर्निर्निद्राः कोट्टवासिनः । KRT_8_1826ab
कृता राजोचिताकल्पमपश्यन्नथ लोठनम् ॥ KRT_8_1826cd
अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् । KRT_8_1827ab
निन्ये जनान्नृपामात्ययोगो दीपैः प्रकाशितः ॥ KRT_8_1827cd
प्रेम्णः पार्श्वस्थितस्याभ्यामानयोद्दारकोन्तिकम् । KRT_8_1828ab
ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च टक्कुरौ ॥ KRT_8_1828cd
तदास्थयाहितास्कन्दभङ्गस्तेषामशेषतः । KRT_8_1829ab
रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ KRT_8_1829cd
प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः । KRT_8_1830ab
संताप्यमानश्चेष्णांशुकरौ रोद्धुमुपाययौ ॥ KRT_8_1830cd
तं प्रतोलीतलप्राप्तं निर्यातैर्वैरिसैनिकैः । KRT_8_1831ab
पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ KRT_8_1831cd
श्रुत्वेति भूभृत्त्वरया लुल्लं लोहरमन्त्रिणम् । KRT_8_1832ab
विससर्जोदयद्वारपतिमानन्दवर्धनम् ॥ KRT_8_1832cd
भूमिज्ञौ तौ हि कोट्टस्य विवेदानन्यदेशजौ । KRT_8_1833ab
सोल्पान्नत्वादिरन्ध्राणां लक्षणाद्ग्रहणक्षमौ ॥ KRT_8_1833cd
प्रविष्टश्च पुरं दृष्ट्वा प्रीतिदायार्थिभिः शिरः । KRT_8_1834ab
भ्राम्यमाणं भटैर्भिक्षोराक्षिप्यैतानदाहयत् ॥ KRT_8_1834cd
राजादेशादसंरुद्धैः स्त्रीभूयिष्टैरसौ जनैः । KRT_8_1835ab
नप्ता पैतामहे देशे द्यह्यमानोन्वशोच्यत ॥ KRT_8_1835cd
काले ग्रीष्मोदयोद्रिक्तभानौ सुविषमे नृपः । KRT_8_1836ab
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ KRT_8_1836cd
स शौर्य1स्वामिभक्त्यर्थनैस्पृह्यादिगुणोज्ज्वलः । KRT_8_1837ab
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥ KRT_8_1837cd
भवितव्यतया दत्तव्यामोहः प्रेरितोथ वा । KRT_8_1838ab
शठामात्यैरभूभृत्स व्यक्तायुक्तमन्त्रितः ॥ KRT_8_1838cd
हीनोर्थदुर्गामाथैर्वैक्लव्यस्य वैरिणः । KRT_8_1839ab
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ KRT_8_1839cd
उदयः कम्पनाधीशो राज्जोग्रे पर्यशिष्यत । KRT_8_1840ab
सर्वामात्यः प्रतीहारमन्वगच्छन्पुनः परे ॥ KRT_8_1840cd

1813.

--1) A कोट॰.

1816.

--1) Emended with C; A दृष्ट्युपात्पट॰.

--2) Emended with C; A देवेनादाद्व॰ with haplography.

1818.

--1) Emended; A ॰चिन्तयत्.

1822.

--1) ॰षेचयत्.

--2) A1 3.

1825.

--1) Emendation doubtful; A ॰तायामा.

1837.

--1) Emended with C; A चौर्य॰.

[page 234]




राजात्मजहयारोहडामरामात्यमिश्रया । KRT_8_1841ab
दैर्घ्यं तत्सेनयावापि सर्व1सामग्र्युदग्रया ॥ KRT_8_1841cd
सवेष्टयन्नट्टलिकानिविष्टकटको दिशः । KRT_8_1842ab
संग्रहीतुं प्रववृते सर्वोपायैर्रोधिनः ॥ KRT_8_1842cd
लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः । KRT_8_1843ab
भयभेदाहवव्यग्रान्प्रकम्पमनयन्रिपून् ॥ KRT_8_1843cd
तुस्सलक्ष्मापतिर्बद्धे1 लोठने तत्सुतामदात् । KRT_8_1844ab
यस्य्मै प्राप्पद्मलेखाख्यां बहुस्थलधराभुजे ॥ KRT_8_1844cd
साहायकाय प्राप्तस्य तस्य सैन्यैर्द्विषच्चमूः । KRT_8_1845ab
शूराभिधस्य युद्धेषु प्रत्यग्राहि प्रतिक्षणम् ॥ KRT_8_1845cd
तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः । KRT_8_1846ab
अङ्गीचक्रे नरपतेर्नतिं दण्डं च लोठनः ॥ KRT_8_1846cd
एतावत्सिद्धमफलारब्धीनामत्र दुःसहे । KRT_8_1847ab
काले व्यावृत्तिरस्माकमुचितास्मिन्नलाघवा1 KRT_8_1847cd
शारदारम्भसुभगे क्रमात्काले बलोर्जिताः । KRT_8_1848ab
अथारब्धिं विदास्यामः सर्वारम्भेण शोभनाम् ॥ KRT_8_1848cd
1इत्यन्वहं लक्ष्मकेण प्रहितं नादधे नृपः । KRT_8_1849ab
अन्ये च मन्त्रिणो मन्त्रं शाद्यादभर्य्णवर्तिनः ॥ तिलकम्2 KRT_8_1849cd
सर्वाधिकार्युदयनः प्रतिश्तुत्य धनं बहु । KRT_8_1850ab
साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ KRT_8_1850cd
अपाङ्क्तेयः स संबन्धबद्धोपि धनलुब्धधीः । KRT_8_1851ab
द्रुह्यति स्म महाव्यापन्निमग्नाय महीभुजे ॥ KRT_8_1851cd
बह्वर्थदो लोठनश्चेत्किं मे संबन्ध्यपेक्षया । KRT_8_1852ab
अन्यथा भवतामस्मीत्यन्या1न्वक्ष्यामि कैतवात् ॥ KRT_8_1852cd
दम्भमित्यभिसंधाय सोमपालोभ्य्तुपाययौ । KRT_8_1853ab
समर्थने हेतुरासीत्सुज्जेर्व्याजे कियानपि ॥ युग्मम्1 KRT_8_1853cd
स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा । KRT_8_1854ab
सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ KRT_8_1854cd
दूतः प्रार्थयमानस्य तस्यार्था1न्प्राक्प्रतिश्रुतान् । KRT_8_1855ab
ऋणिकस्योत्तमार्णेभ्यः प्रदातुमनुबध्नतः ॥ KRT_8_1855cd
तदा भिक्षाचरं जानन्हतकल्पमनेन नः । KRT_8_1856ab
व्यसनप्रशमे कोर्थ इत्यवज्ञां प्रकाशयन् ॥ KRT_8_1856cd
मदेन न ददौ किंचित्सोथ भिक्षाचरं हतम् । KRT_8_1857ab
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ KRT_8_1857cd
यावदेकाहमभजल्लोहरव्यसने भयम् । KRT_8_1858ab
तावन्निशम्य संप्राप्तोत्सेको भूयोपि मन्युभाक् ॥ KRT_8_1858cd
लोठनं बद्धसंधिं वः करिष्यामीति भूभुजः । KRT_8_1859ab
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् । KRT_8_1859cd
युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितुम् । KRT_8_1860ab
बलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ KRT_8_1860cd
समं सोमेन तत्सैन्यमध्य1प्रस्थित्यलक्षितैः । KRT_8_1861ab
मितैरनुगतो भृत्यैर्वोरमूलकमासदत् ॥ कुलकम्॥ KRT_8_1861cd
यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना । KRT_8_1862ab
भोगलुब्धतया तेन हता विततसत्त्वता ॥ KRT_8_1862cd
तुषारशर्कराशुक्लजलपानाददुर्जरम् । KRT_8_1863ab
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः ॥ KRT_8_1863cd
सतुषं शुष्कसक्त्वादि बहिर्भोक्तुमपारयन् । KRT_8_1864ab
यैस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ KRT_8_1864cd
काश्मीरकाः कार्यशेषमदृष्ट्वा ग्रीष्मशोषिताः । KRT_8_1865ab
आकर्ण्य च तदापातमाकुलत्वमशि1श्रियन् ॥ KRT_8_1865cd
भुञ्जानैर्भृष्टमांसानि पिब1द्भिः पुष्पगन्धि च । KRT_8_1866ab
प्रतीहाराग्रतो हारि मार्द्वीकं लघु शीतलम् ॥ KRT_8_1866cd
आनेष्यामो जवात्सुज्जिमाकृष्य श्मश्रु संयुगे । KRT_8_1867ab
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ KRT_8_1867cd
काश्मीरकैर्मितैर्युक्तं खशैः सैन्धवकैरपि । KRT_8_1868ab
अभिषेणयितुं शेकुर्न तेत्यु1द्यमिनोपि तम् ॥ KRT_8_1868cd
भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् । KRT_8_1869ab
विदध्यां जयसिंहाय वरमित्यभिमानिनाम् ॥ KRT_8_1869cd

1841.

--1) Emended with C; A सर्वे.

1842.

--1) Emended; A सर्वोपायवि॰.

1844.

--1) Emended; A ॰र्बद्धो.

1847.

--1) Emended; A ॰लाघव; C ॰लाघवः.

1849.

--1) Emended; A प्रत्य॰.

--2) Emended with C; A ॰स्मीत्यान्व॰, with haplography.

1853.

--1) A1 2.

1855.

--1) Emended; A ॰मानस्यार्थान्प्रा॰, omitting two aksharas; C ॰मानस्य तानर्थान्प्र॰.

1861.

--1) Emended; A ॰मन्यप्र॰.

1865.

--1) Emended; A ॰शिश्रियन्.

1866.

--1) A पिबद्भिः.

1868.

--1) Emended; A तेप्युद्य॰.

[page 235]




बह्वर्थमर्थ्यमानेन लोठनेन तिरस्कृतः । KRT_8_1870ab
सोमपालः प्रियं किम्चिद्राजपक्षे न्यदर्शयत् ॥ KRT_8_1870cd
मयि श्वशुरसैन्यानां व्यग्राणां वैरिविग्रहे । KRT_8_1871ab
सज्जे हिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ KRT_8_1871cd
इति निर्भर्त्सितस्तेन सुज्जिः स्वाहंक्रियोचितः । KRT_8_1872ab
सर्वानुल्लङ्घ्य संनद्धो राजसैन्यग्रहेभवत् ॥ KRT_8_1872cd
जरठा1षाढसंजातशीतज्वरमहाभयः । KRT_8_1873ab
वरूथिनीमथोत्थाप्य विदद्रौ निशि लक्ष्मकः ॥ KRT_8_1873cd
विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोर्द्रुतम् । KRT_8_1874ab
केचिदन्वसरन्सुज्जिं सैनिकास्ते जिघांसवः ॥ KRT_8_1874cd
पारेणैकेन भूपालसैन्यमन्येन वैरिणः । KRT_8_1875ab
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ KRT_8_1875cd
शारम्बरपथं वैरिवश्यम् त्यक्त्वा प्रियासवः । KRT_8_1876ab
स्वोर्वीं कालेनका1ख्येन संकटेन तदन्तिके ॥ KRT_8_1876cd
तस्मिन्नहन्यस्खलिता वनिकावासनामानि । KRT_8_1877ab
ग्रामे सैन्या न्यविक्षन्त1 लोकैरुच्चावचैः समम् ॥ युग्मम्2 KRT_8_1877cd
अनुप्रस्थायिनोभ्यर्णग्रामकेषपि बुबुडुः । KRT_8_1878ab
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ KRT_8_1878cd
अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् । KRT_8_1879ab
क्षोभभृत्सुज्जिरभ्येत्य तूर्यघोषमकारयत् ॥ KRT_8_1879cd
क्षणदाशेष एवाशु पलायां चक्रिरे ततः । KRT_8_1880ab
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ KRT_8_1880cd
चित्राम्बराणि मुष्णद्भिः प्राह्णेत्यज्यन्त मन्त्रिणः । KRT_8_1881ab
भूप्रकम्पैर्गण्डशैला नाना1धातुद्रवैरिव ॥ KRT_8_1881cd
लुण्ट्यमानाश्चमूस्त्रातुं नादधे कश्चिदायुधम् । KRT_8_1882ab
तदा तु येन वा तेन स्वात्मना ना1न्यस्तु रक्षितः ॥ KRT_8_1882cd
उत्प्लुत्य लङ्घयन्तोद्रीन्केपि शोणाधरांशुकाः । KRT_8_1883ab
रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ KRT_8_1883cd
केप्यम्बरपरित्यागविकचद्गौरविग्रहाः । KRT_8_1884ab
हरितालशिलाखण्डा इव वातेरिता ययुः ॥ KRT_8_1884cd
शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः । KRT_8_1885ab
केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ KRT_8_1885cd
किं नामोदीरणैर्मन्त्री स नासीत्तत्र कश्चन । KRT_8_1886ab
तिरश्चेव1 विपर्यस्तधैर्यैर्येन पलायितम् ॥ KRT_8_1886cd
भृत्यस्कन्धा1धिरूढोथ गच्छन्मूढः प्रधावितु2म् । KRT_8_1887ab
प्रतीहारो द्विषद्योधैर्दूरात्कैश्चिद्व्यलोक्यत ॥ KRT_8_1887cd
निरंशुकः स सूर्यांशुकचत्केयूरकुण्डलः । KRT_8_1888ab
प्रतिज्ञायानुसस्रे तैः सर्वप्राणप्रधावितैः ॥ KRT_8_1888cd
अश्माहतेन भृत्येन त्यक्तः स्कन्धाद्दृषत्क्षतः । KRT_8_1889ab
स निस्पन्दवपुस्तिष्ठंस्तैरग्राहि महाजवैः ॥ KRT_8_1889cd
नवबन्धनशोकार्तशारिकाकृश1विग्रहः । KRT_8_1890ab
स --ल्ग2लिरिव व्यञ्जद्द्वि3षः संकुचितेक्षणः ॥ KRT_8_1890cd
बद्धस्य मे मानधनप्रहर्तुर्वैशसान्तरम् । KRT_8_1891ab
इतोधिकं ध्रुवं सुज्जिर्विदध्यादिति चिन्तयन् ॥ KRT_8_1891cd
स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः । KRT_8_1892ab
नदद्भिः सोपहासं तैः सुज्जेरग्रं व्यनीयत ॥ तिलकम्1 KRT_8_1892cd
प्रच्छाद्य सत्त्ववान्वक्रं सोंशुकेनैष निर्चितः । KRT_8_1893ab
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ KRT_8_1893cd
प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः । KRT_8_1894ab
धैर्येणायोजयत्स्निग्धैर्वचोभिः परिसान्त्वयन् ॥ KRT_8_1894cd
निर्लुण्ठिततुरंगासिकोशैः परिवृतः खशैः । KRT_8_1895ab
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ KRT_8_1895cd
इमा व्योमाङ्गनाक्रीडत्तडित्तरलविभ्रमाः । KRT_8_1896ab
भाग्यमेवानुयायिन्यः स्थायिन्यः कस्य संपदः ॥ KRT_8_1896cd
आराधनधिया स्वैरं यस्याग्रेभोजि भृत्यवत् । KRT_8_1897ab
गात्राणि कुङ्कुमालेपैरुपाच1र्यन्त च स्वयम् ॥ KRT_8_1897cd

1873.

--1) Emended; A जरढा॰.

1876.

--1) नका written by A3 in space left by A1.

1877.

--1) Emended; A न्यविक्ष्यन्त.

--2) 2.

1881.

--1) Emended with C; A नानातुधातु॰.

1882.

--1) Conjectural reading; A स्वत्मनान्यस्तु.

1883.

--1) Emended; A तिरश्चेर्य.

1887.

--1) A ॰स्कन्दा॰.

--2) Thus corr. by A1 from प्रधायितुम्.

1890.

--1) A ॰कृषवि॰.

--2) Thus A without indicating the lacuna; parhaps read गल्गलिरिव.

--2) Thus A1. apparently corr. from व्यञ्जन्मिषः; doubtful.

1897.

--1) Emended with C; A ॰रुपचर्यन्त.

[page 236]




सोमपालादिभिः प्रह्वैः स मासैरेव पञ्चषैः । KRT_8_1898ab
तेषामग्रे तथाभूतस्तिष्ठंल्लोकैर्व्यभाव्यत ॥ KRT_8_1898cd
लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः । KRT_8_1899ab
वनौका इव बद्धोभूच्छोकमूको वनान्तरे ॥ KRT_8_1899cd
अर्पितं सुज्जिना सोमपालः स्वीकृत्य लक्ष्मकम् । KRT_8_1900ab
आनन्गृहीतान्कश्मीरान्निजराष्ट्रं न्यवर्तत ॥ KRT_8_1900cd
लोठनस्यान्तिकादेत्य स शूरैर्माञिकादिभिः । KRT_8_1901ab
प्रतिश्रुत्य प्रभूतार्थैः प्रतीहारमयाच्यत ॥ KRT_8_1901cd
कश्मीरा हि प्रतीहारशिक्षापक्षानुयायिभिः । KRT_8_1902ab
तदा न कैरमन्यन्त संप्राप्या डामराण्डजैः ॥ KRT_8_1902cd
लुब्धेना1पि प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा । KRT_8_1903ab
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ KRT_8_1903cd
भग्नमानेष्वमात्येषु प्राप्तेषु नगरं नृपः । KRT_8_1904ab
हारिते च प्रतीहारे न धैर्यात्पर्यहीयत ॥ KRT_8_1904cd
यैः सैन्यसारैर्द्वैराज्यं पुरा भिक्षाचरोकरोत् । KRT_8_1905ab
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ KRT_8_1905cd
भूभृता संगृहीतानां शीतज्वररुजा ततः । KRT_8_1906ab
तेषां दश सहस्राणि योधानां निधनं ययुः ॥ KRT_8_1906cd
विरराम तदा देशे न मुहूर्तमपि क्वचित् । KRT_8_1907ab
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ KRT_8_1907cd
वोरघर्मघृणिश्रान्ताशेषव्यवहृतिस्थितिः । KRT_8_1908ab
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ KRT_8_1908cd
नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि । KRT_8_1909ab
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ KRT_8_1909cd
काकतालीयसंप्राप्तलोकोत्तरनृपश्रियः । KRT_8_1910ab
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ KRT_8_1910cd
तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः । KRT_8_1911ab
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ KRT_8_1911cd
नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् । KRT_8_1912ab
स वयःपाकनिष्कर्मव्यवहारो व्यभाव्यत ॥ KRT_8_1912cd
छाया निरङ्कुशगतिः स्वयमातपस्तु छायान्वितः शतश एव निजप्रसङ्गम् । KRT_8_1913ab
दुःखं सुखेन पृथगेवमनन्तदुःखानुवेधविधुरा तु सुखस्य वृत्तिः । KRT_8_1913cd
तादृगभ्युदयावाप्तेर्मारे न्यूनेधिके गते । KRT_8_1914ab
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ KRT_8_1914cd
तमेकपुत्रा शोचन्ती शोकशङ्कुहताशया । KRT_8_1915ab
ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥ KRT_8_1915cd
पत्न्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे । KRT_8_1916ab
विपन्ने स तथा लक्ष्म्या न कृत्यं किंचिदैक्षत ॥ KRT_8_1916cd
निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् । KRT_8_1917ab
मोहनी वा श्रियः शक्तिर्यदज्ञासीत्पुनः सुखम् ॥ KRT_8_1917cd
अकारयन्निर्धनोपि तथा बृद्धस्य कालवित् । KRT_8_1918ab
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्ष्मापतिः ॥ KRT_8_1918cd
दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि । KRT_8_1919ab
तस्मिन्प्राप्ते न कोज्ञासीद्राज्ञा प्रत्याहतां श्रियम् ॥ KRT_8_1919cd
स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः । KRT_8_1920ab
प्रभवन्पुनरेवासीन्निग्रहानुग्रहक्षमः ॥ KRT_8_1920cd
धनप्रलोभनिर्नष्टसर्वाव1ष्टम्भपाटवः । KRT_8_1921ab
सुज्जिः साचिव्यमव्याजं भेजे लोठनभूपतेः ॥ KRT_8_1921cd
दत्तवान्भागिकसुतामविश्वासमपाहरत् । KRT_8_1922ab
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ KRT_8_1922cd
अभर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती । KRT_8_1923ab
तस्य सोमलदेव्याख्यामुद्वाहाय तदात्मजाम् ॥ KRT_8_1923cd
एवं प्रधानसंबन्धैर्बद्धमूलं विधाय तम् । KRT_8_1924ab
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ KRT_8_1924cd
अचिन्तयच्च कश्मीरप्रवेशं डामरादिभिः । KRT_8_1925ab
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ KRT_8_1925cd
इत्थंभूतं कृतैक्यं च समं सीमान्तभूमिपैः । KRT_8_1926ab
अथ छलयितुं शत्रुं नीतिं प्रायुङ्क्त सौस्सलिः ॥ KRT_8_1926cd

1903.

--1) Emended, A लब्धेन.

1925.

--1) omitted in A; supplied with C.

[page 237]




तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः । KRT_8_1927ab
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ KRT_8_1927cd
तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः । KRT_8_1928ab
दानमानादिभिः स्वामिकृत्ये नित्योदितो1भवत् ॥ KRT_8_1928cd
वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः । KRT_8_1929ab
अखिन्नोच्छिन्नसंग्रामैर्भेदं निन्ये द्विषद्बलम् ॥ KRT_8_1929cd
कटाक्षिताभिप्रायेस्मिन्मिथ्या तथ्येन वा दधुः । KRT_8_1930ab
भयं लोठनभूपालान्माञिकेन्दारका1दयः ॥ KRT_8_1930cd
हन्तव्यांश्चाक्रिकानस्मान्सुज्जौ न्यस्ताशयो नृपः । KRT_8_1931ab
वेत्ति तत्प्रेरणेनासौ तदाशङ्किषतेति ते ॥ KRT_8_1931cd
संजातं सहजाख्यायां राज्ञ्यां सुस्सलभूपतेः । KRT_8_1932ab
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ KRT_8_1932cd
तत्प्रेमाणमिवाकस्मादभिसंधत्त1 लोठनम् । KRT_8_1933ab
संदिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ KRT_8_1933cd
व्याजेन राज्ञा संदिष्टं तत्कोट्टं स्त्रीचिकीर्षुणा । KRT_8_1934ab
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ KRT_8_1934cd
मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्धचाक्रिकम् । KRT_8_1935ab
तदाद्यान्भ्रातृसूनूंस्तांश्चाक्रिकानप्यबन्धयत् ॥ KRT_8_1935cd
अवरुद्धातनू1जेन शङ्कां सौस्सलिना भजन् । KRT_8_1936ab
परं विग्रहराजेन प्रातिहार्यमजिग्रहत् ॥ KRT_8_1936cd
राजा व्याजात्पितृव्येण बद्धसंधिरुपायवित् । KRT_8_1937ab
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ KRT_8_1937cd
विसृज्य शूरं निष्कम्पराज्यः सुज्जेः परिश्रमात् । KRT_8_1938ab
मासान्कांश्चिदसंक्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ KRT_8_1938cd
सुज्जिः पद्मरथापत्यं प्राक्कन्यामानिनाय याम् । KRT_8_1939ab
अनूढाया विवाहाय तस्या1 मातरमागताम् ॥ KRT_8_1939cd
आकर्ण्य तेजलादीनां1 प्रसङ्गेस्मिन्सगौरवाम् । KRT_8_1940ab
सामात्यो2 दर्पितपुरं कृतप्रत्युद्गतो ययौ ॥ KRT_8_1940cd
माञिकाद्यैरथ प्राप्तरन्ध्रैर्गत्य बन्धनात् । KRT_8_1941ab
मल्लार्जुनः कोट्ट1राज्ये संहतैरभ्यषिच्यत ॥ KRT_8_1941cd
ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् । KRT_8_1942ab
भृत्यांस्ते सिंहभूभर्तुः प्रविविक्षून्न्यवारयन्1 KRT_8_1942cd
षष्ठेब्न्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने1 KRT_8_1943ab
यथ्जायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ KRT_8_1943cd
अनूढां कन्यकां मूढः संपदं चाव्ययीकृताम् । KRT_8_1944ab
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ KRT_8_1944cd
अटित्वाट्टालिकादिभ्यो देशेभ्यो नष्टशक्तिना । KRT_8_1945ab
तेन सुज्जिबलात्कोशशेषः कश्चिदवाप्यत ॥ KRT_8_1945cd
पूर्वाहूतान्सिंहभूभृद्भृत्यान्न्यक्कृत्य माञिकः । KRT_8_1946ab
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ KRT_8_1946cd
तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् । KRT_8_1947ab
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ KRT_8_1947cd
वर्षतो विषयौत्सुक्याद्घाटकं कुट्टनादिषु । KRT_8_1948ab
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुदधोष्यत ॥ KRT_8_1948cd
प्रजोपतापोपचितः कोशः सुस्सलभूपतेः । KRT_8_1949ab
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ KRT_8_1949cd
गणिकाचारणद्रोग्धृविटचेटादिपेटकम् । KRT_8_1950ab
साधून्विधूय सोपुष्णाद्दर्पोष्णः1 कुर्म2तिर्यतः ॥ KRT_8_1950cd
सपत्नसादहितदाद्यादि वा वह्निसाद्भवेत् । KRT_8_1951ab
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ KRT_8_1951cd
प्रजापीडनजं वित्तं जयपीडमहीभुजः । KRT_8_1952ab
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नप्तुरन्तकैः1 KRT_8_1952cd
लोकसंक्लेशनोद्भूतः कोशः शंकरवर्मणः । KRT_8_1953ab
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ KRT_8_1953cd

1928.

--1) Thus A; perhaps read नित्योद्यतो॰.

1930.

--1) Thus corr. by A1 from ॰केन्दाकादयः. Perhaps read ॰केन्दाकरा॰; cf. viii. 1818.

1933.

--1) Emended with C; A ॰सन्धात्त.

1936.

--1) Emended; A सामान्यो.

1941.

--1) Emended; A कोष्ठराज्ये.

1942.

--1) Emended A ॰वारयत्.

1943.

--1) A फाल्गुणे.

1945

--1) Thus A1; A2 ॰त्याटिल्लिकां; cf. viii. 581.

1950.

--1) Thus A1 in margin; in text ॰ष्णाद्घर्मोष्णः.

--2) Thus corr. by A1 from कुपति॰.

1952.

--1) Emended with C; A1 नप्तरक्तकैः; the reading नप्तृनर्तकैः, given by A2 in margin, has been struck out.

[page 238]




अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् । KRT_8_1954ab
ददुः सुगन्धादित्याय धनं संभोगभागिने ॥ KRT_8_1954cd
राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसंचितान् । KRT_8_1955ab
अङ्गनानङ्गवैवश्यादालिङितजनंगमा ॥ KRT_8_1955cd
पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः । KRT_8_1956ab
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ KRT_8_1956cd
संग्रामराजः श्रीलेखामुखाब्जमधुपैर्धनी । KRT_8_1957ab
मुषितो व्यड्डसूहाद्यैर्निविडोपार्जनस्पृहः ॥ KRT_8_1957cd
अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता । KRT_8_1958ab
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ KRT_8_1958cd
पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः । KRT_8_1959ab
कुकलाकौशलोद्भूतः कोशः1 कलशभूपतेः ॥ KRT_8_1959cd
सह गेहैः समं स्त्रीभिः सत्रा पुत्रैरभूद्धनम् । KRT_8_1960ab
अश्रान्तार्जनतर्षस्य हर्षदेवस्य वह्निसात् ॥ KRT_8_1960cd
चन्द्रापीडोच्चलावन्तिवर्माद्यैर्धर्मनिष्ठुरैः । KRT_8_1961ab
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥ KRT_8_1961cd
चौरचाक्रिकसीमान्तभूभृद्वेश्याविटादयः । KRT_8_1962ab
लुण्ढिं प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ KRT_8_1962cd
वञ्चयित्वाप्यसीन्भूभृत्ताम्यन्विघटितेप्सितः । KRT_8_1963ab
अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ KRT_8_1963cd
द्वारपादाग्रयोस्तुल्याधिकारेण प्रवर्धितः । KRT_8_1964ab
सोनन्तसामन्तयुतः पदं फुल्लपुरे व्यधात् ॥ KRT_8_1964cd
उत्सेहिरे न वितता अपि दुर्गसमाश्रयात् । KRT_8_1965ab
मल्लार्जुनचमूर्जन्ये जेतुं तदनुजीविनः ॥ KRT_8_1965cd
भेदाय कोट्टमारूढस्तद्भृत्यो राजसंमतः । KRT_8_1966ab
मल्लार्जुनानुगै रात्रौ हतः संवर्धनाभिधः ॥ KRT_8_1966cd
युद्धासाध्येपि तिष्ठन्तः कोट्टे भयविधेयताम् । KRT_8_1967ab
कोष्ठेश्वरेन्वगायाते तत्रामित्राः प्रपेदिरे ॥ KRT_8_1967cd
प्रतिश्रुतकरो बद्धसंधिः स व्यसृजततः । KRT_8_1968ab
सभाजनाय जननीं तेषां मल्लार्जुनोन्तिकम् ॥ KRT_8_1968cd
सा वैधव्य1विविक्तेन वेषेणै2श्वर्यशोभिना । KRT_8_1969ab
कोष्ठेश्वरादीन्सोत्कण्ठाश्चक्रे चपलचेतसः ॥ KRT_8_1969cd
तस्यां गृहीतविस्रम्भं व्यावृत्तायां तदान्तिकात् । KRT_8_1970ab
द्वारेशाय ददावूरीकृतं मल्लार्जुनः करम् ॥ KRT_8_1970cd
आकृष्टो राजजननीचक्षूरागेण कोष्ठकः । KRT_8_1971ab
दिदृक्षाकपटात्कोट्टमारुरोह मितानुगः ॥ KRT_8_1971cd
अव1रूढेन सहितस्तेन चित्ररथस्ततः । KRT_8_1972ab
संभूतप्राभृतो भूमिभर्तुः सविधमाययौ ॥ KRT_8_1972cd
राजा तु संमन्त्र्य ततः प्रायुङ्क्ताहृतिशालिना । KRT_8_1973ab
उअदयद्वारपतिना नीतिं जेतुमरीन्पुनः ॥ KRT_8_1973cd
वीतास्कन्दो लोठनेपि गते पद्मरथान्तिकम् । KRT_8_1974ab
लेभेभिनवभूपालः किंचित्पादप्रसारिकाम् ॥ KRT_8_1974cd
उदूढवान्सोमलाख्यां तां पद्मरथकन्यकाम् । KRT_8_1975ab
उपयेमे धृतायामो नागपालात्मजामपि ॥ KRT_8_1975cd
तस्मादहंक्रियामूढ्जाल्लेभिरे गूढकैतवाः । KRT_8_1976ab
भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ KRT_8_1976cd
कविगायनजल्पाकयोधचारणचेष्टितैः । KRT_8_1977ab
बहवो मुमुषुर्धूर्तास्तेपि तं राजबीजिनः ॥ KRT_8_1977cd
स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन्बहु । KRT_8_1978ab
जज्ञे वाक्प्रौढिमात्रेण बा1लिशैः कुशलाशयः ॥ KRT_8_1978cd
केतोरिवाभद्रहेतोः प्रदीप्तं वदनं विना । KRT_8_1979ab
अनिष्ठुराकृतेर्वृष्टं तस्यान्यत्र न सौषट्ःअवम् ॥ KRT_8_1979cd
अत्रान्तरे नृपः सुज्जिं संजग्राहोग्रविक्रमम् । KRT_8_1980ab
माभून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ KRT_8_1980cd
निर्वासने प्रवेशे च प्रभुः सुज्जेस्ततोधिकम् । KRT_8_1981ab
तात्कालिकीं प्रतीहारः शक्तिं कांचिददर्शयत् ॥ KRT_8_1981cd
स कम्पनाद्यधीकारस्रजं राजविसर्जिताम् । KRT_8_1982ab
वितरन्सुज्जये राजस्थानकार्यस्रजं विना ॥ KRT_8_1982cd
निस्तोषाय गृहायातसोमपालानुरोधतः । KRT_8_1983ab
प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ KRT_8_1983cd

1959.

--1) A कोषः.

--2) Emended; A वैधव्यं वि॰.

--2) Emended; A वेषेणैश्व॰.

1972.

--1) Emended; A अर्धरूढेन.

1978.

--1) A वालिशैः.

[page 239]




आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः । KRT_8_1984ab
आप्यायसान्द्रया वृष्ट्या यत्संपद्वीरुधो व्यधात् ॥ चक्कलकम्1 KRT_8_1984cd
भर्त्रे हिताय सौहार्दं विधूयोदयधन्ययोः । KRT_8_1985ab
अभजद्रिल्हणः सुज्जेः प्रवेशे प्रतिलोमताम् ॥ KRT_8_1985cd
प्रत्युद्गमेन संमान्य सुज्जिं प्रावेशयन्नृपः । KRT_8_1986ab
देशान्निरास्थद्धन्यादीन्मानसान्न तु तद्गिरा ॥ KRT_8_1986cd
कृतागाः क्ष्मापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति । KRT_8_1987ab
कोष्ठेश्वरः पलयिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ KRT_8_1987cd
आस्कन्दायागते राज्ञि गृहीतमनुजेश्वरे । KRT_8_1988ab
स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ KRT_8_1988cd
लोठनस्तु जिनग्राह कांश्चिदालम्ब्य ठक्कुरान् । KRT_8_1989ab
बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ॥ KRT_8_1989cd
तत्र दृष्टमसंभाव्यमेवास्य खलु पौरुषम् । KRT_8_1990ab
परिभ्रष्टोपि यद्बद्धपदं तमजयत्सदा ॥ KRT_8_1990cd
जहार तुरगांल्लुण्ठि चकाराट्टिलकापणे । KRT_8_1991ab
मार्गद्रङ्गादिभङ्गं च -- -- 1 सर्वत्र सोकरोत् ॥ KRT_8_1991cd
राजराजाभिधानेन डामरेणार्थितस्ततः । KRT_8_1992ab
कश्मीरराज्यसंप्राप्यै क्रमराज्यमगाहत ॥ KRT_8_1992cd
तदवेत्य समीपस्थे हते चित्ररथेन सः । KRT_8_1993ab
तस्मिंल्लवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ KRT_8_1993cd
तस्मिन्नास्कन्दमसकृद्ददत्यट्टलिकामपि । KRT_8_1994ab
अवरोद्धुमशकोभूत्कोट्टे मल्लार्जुनो वसन्1 KRT_8_1994cd
भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु । KRT_8_1995ab
ततः कोष्ठेश्वरो यात्रासज्जः संधिं न्यबन्धयत् ॥ KRT_8_1995cd
लोहरे विहितस्थैर्यो1 गृहीत्वा लोठनं ततः । KRT_8_1996ab
कश्मीरोर्व्यां पपातासौ विजिघृक्षुः2 क्षमाभुजा ॥ KRT_8_1996cd
गिरीनुल्लङ्घ्य कार्कोटद्रङ्गे विहितवान्पदम् । KRT_8_1997ab
निपत्य मार्गेनुद्घाते यावदन्यैश्च डानरैः ॥ KRT_8_1997cd
नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः । KRT_8_1998ab
सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ KRT_8_1998cd
अत्रान्तरे प्रतीहारः प्रापास्तमपपीडया1 KRT_8_1999ab
न संपत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ KRT_8_1999cd
उत्सारणप्रियतया परिरुद्धसर्वद्वारं गृहे निरनुरोधतया वसन्तः । KRT_8_2000ab
संपल्लघूकृतधियोप्रतिघप्रवृत्तेर्धिग्जानते न रभसान्नियतेर्निपातम् ॥ KRT_8_2000cd
कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् । KRT_8_2001ab
नाज्ञासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ KRT_8_2001cd
ज्वरितः स हि निष्ठ्यूतज्वरः स्वपिति विज्वरः । KRT_8_2002ab
विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ KRT_8_2002cd
सलोठने कोष्ठकेथ प्रयाते नृपतिः पुनः । KRT_8_2003ab
न स मल्लार्जुनो नापि कोष्ठको न स लोठनः ॥ KRT_8_2003cd
छद्मनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् । KRT_8_2004ab
तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्ठकः ॥ KRT_8_2004cd
अनुनिन्ये न तं खिन्नं स संभृतबलस्ततः । KRT_8_2005ab
अभिषेणयितुं क्रोधादधावत्सहलोठनम् ॥ KRT_8_2005cd
कोष्ठको मल्लकोष्ठाद्यैर्मितैर्युक्तोपि सादिभिः । KRT_8_2006ab
तीर्त्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ KRT_8_2006cd
हतेषु तेषु संग्रामे खशसैन्धवकादिषु । KRT_8_2007ab
वधं प्राप्तः सिंहभूभृद्द्वेषान्न स नृपो हतः ॥ KRT_8_2007cd
आरूढः कोट्ट1मूर्धानं मानमूर्ध्नः परिच्युतः । KRT_8_2008ab
भग्नप्रतापो भूयोपि समधत्त स कोष्ठकम् ॥ KRT_8_2008cd
विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः । KRT_8_2009ab
अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ KRT_8_2009cd
बद्ध्वाधिकारिणः शुल्कं गृह्यताकारि राजवत् । KRT_8_2010ab
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम्1 KRT_8_2010cd
जतुसंहतयोः काचकलशीदलयोरिव । KRT_8_2011ab
क्षणे क्षणे संधिभङ्गस्तयोः समुदपद्यत ॥ KRT_8_2011cd

1984.

--1) A1 4.

1991.

--1) A1 indicates here a lacuna of two aksharas; C तदा.

1994.

--1) Emended; A ॰वसन्.

1996.

--1) Emended; A ॰स्थैर्ये.

--2) Emended with C; A ॰विजिगृक्षुः.

1999.

--1) Emended with C; A ॰हारप्रापास्तमपीडया.

2004.

--1) Emended with C; A कोष्ठभू॰.

2010.

--1) Emended; A ॰मुद्रणाम्.

[page 240]




निर्व्यूढशून्यैर्वाग्रौक्ष्यैर्विरागं लोहरेश्वरः । KRT_8_2012ab
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरनङ्कुशैः ॥ KRT_8_2012cd
डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् । KRT_8_2013ab
परार्ध्यायुधधुर्याश्वहरणात्सु--1रं कृतम् ॥ KRT_8_2013cd
दत्त्वा द्व -- -- 1 रायत्यां विषमैर्हठपौरुषैः । KRT_8_2014ab
एवं तं कोष्ठको मूढः सुखोच्छेदं व्यधाद्द्विषाम् ॥ KRT_8_2014cd
तनयादानसंबन्धाच्छ्वशुरं मुख्यमन्त्रिणाम् । KRT_8_2015ab
अत्रान्तरे नृपो हन्तुं माञिकं स व्यचिन्तयत् ॥ KRT_8_2015cd
आसीत्कठोरतारुण्यतरङ्गितमनोभवः । KRT_8_2016ab
सुव्यक्तं स हि तन्मातुरौपपत्येन संमतः ॥ KRT_8_2016cd
आहारावसरे तीक्ष्णाः कृतसंज्ञाः क्षमाभुजा । KRT_8_2017ab
दत्तप्रहरणाः प्राणैर्भुञ्जानं तं व्ययोजयन् ॥ KRT_8_2017cd
धुन्वन्नसिपटं बद्धवीरपट्टो रटन्बहु । KRT_8_2018ab
निर्लुण्ठयन्स तत्सेनां तां तामारभटीं त्व्यधात् ॥ KRT_8_2018cd
अवाशिष्यत न द्रोहमध्यादिन्दाकरोप्य1हो । KRT_8_2019ab
राज्ञा विषमितस्तेन रसदानेन स स्वयम् ॥ KRT_8_2019cd
दैवतोत्सारितारातिस्ततः सिंहमहीपतिः । KRT_8_2020ab
संदधे कोष्ठकं सुज्जिं प्राहिणोद्विजयाय च ॥ KRT_8_2020cd
मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः । KRT_8_2021ab
यावत्तुरंगहरणात्कोष्ठकेनाकुलीकृतः ॥ KRT_8_2021cd
अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः । KRT_8_2022ab
गृहीतकोशः संत्यज्य कोट्टं1 मल्लार्जुनो ययौ ॥ KRT_8_2022cd
राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः । KRT_8_2023ab
अवनाहोन्मुखो रक्षन्कोशशेषं कथंचन ॥ KRT_8_2023cd
भ्रष्टमष्टादशशरद्देश्यश्चा1ष्टमवत्सरे । KRT_8_2024ab
राज्यात्तेन द्वितीयस्यां वैशाखस्यासि2तेहनि ॥ KRT_8_2024cd
दाता शिखामृतरुचेरमृतं विलब्ध -- -- 1 ण्यकृत्समिति लूनशिराः कृतश्च । KRT_8_2025ab
ईशेन यत्र तदकार्युपकर्तुरस्तु तत्रापरः क इव संनिहितद्विजिह्वः ॥ KRT_8_2025cd
मुक्ता इमा इति जलं नलिनेषु लीनं ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् । KRT_8_2026ab
यज्ज्ञायते किमपि हन्त विमोहनी सा शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ KRT_8_2026cd
घ्नन्त्यद्भुतप्रहरणा विपिनेषु केपि घ्राणेन केचन दृशाथ रसज्ञयान्ये । KRT_8_2027ab
ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा वाचैव ये विरचयन्ति किलोपघातम् ॥ KRT_8_2027cd
ज्योतीरसाश्मन इवाश्रितमीश्वरस्य निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः । KRT_8_2028ab
पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः कुर्युः खला रविकरा इव भस्मशेषम् ॥ KRT_8_2028cd
कापिलं हर्षटं कोट्टं नीतवान्मण्डलेशिताम् । KRT_8_2029ab
उदयैः कोटभृत्यानां संग्रहं कम्पनाधिपः ॥ KRT_8_2029cd
कुर्वञ्शय्यां पुनर्नेतुम् मण्डलं तद्व्यलम्बत । KRT_8_2030ab
दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ KRT_8_2030cd
विटैरसूयाविषमैः प्रसादावसरो नृपः । KRT_8_2031ab
तावत्कलुषताम् तस्मिन्नु1पजापैरनीयत ॥ तिलकम्2 KRT_8_2031cd
राजा भवन्परः कोस्तु स्वविचारदृढक्रियः । KRT_8_2032ab
एषोपि शिशुवद्भूभृद्यत्र धूर्तैः प्रनर्त्यते ॥ KRT_8_2032cd
शैशवे बालिश1प्रायैः संस्तुतैर्जाड्यमर्पितम् । KRT_8_2033ab
प्रौढावपि न वा यायाद्राज्ञः कार्ष्ण्यं मणेरिव ॥ KRT_8_2033cd
भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् । KRT_8_2034ab
निरागसो वज्रपातः कष्ठं राष्ट्रस्य जायते ॥ KRT_8_2034cd

2013.

--1) A1 indicates here a lacuna of one of akshara; C सुस्थिरं.

2014.

--1) Thus or त्व-- -- A2; दत्त्वाभयं तैरायत्यां.

2019.

--1) Cf. viii. 1818. 1930.

2022.

--1) Emended; A कोद्दे.

2024.

--1) Thus A; text evidently corrupt; perhaps read ॰द्देश्यस्याष्टम॰.

--2) Thus corr. by later hand from A1 ॰स्याहितेहनि.

2025.

--1) Thus A1; C विलुब्धकार्पण्यकृ॰; perhaps read विलुब्धकारुण्यकृ॰.

2031.

--1) A1 writes here 4 instead of तिलकम्(?).

2033.

--1) A वालि॰.

--2) Thus corr. by A3 from A1 कार्श्यं.

[page 241]




कृत्ये व्यवसितेसाध्ये दास्यः स्याल्लक्ष्मकादिवत् । KRT_8_2035ab
सुज्जिः प्रायोजिराजाप्तैर्निर्जेतुमिति लोहरम् ॥ KRT_8_2035cd
निर्व्यूढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया । KRT_8_2036ab
अमोघया प्रहह्नुस्ते पापाः पैशुनविद्यया ॥ KRT_8_2036cd
गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः । KRT_8_2037ab
प्रत्यायातः कलुषतां नाज्ञासीत्कम्पनापतिः ॥ KRT_8_2037cd
प्रकृत्या तस्य निर्द्रोहतया शङ्कास्य तादृशम् । KRT_8_2038ab
प्रियं कृतवतश्च स्यादविश्वासोथ वा कथम् ॥ KRT_8_2038cd
प्रीतिरासीन्न नृपतेस्तत्कृत्यैरुचितैरपि । KRT_8_2039ab
अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ KRT_8_2039cd
जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति । KRT_8_2040ab
बहुमानेन दर्पाच्च स्वच्छन्दं स व्यवाहरत् ॥ KRT_8_2040cd
पौरानगारहरणाद्यपकारैरङ्कुशाः । KRT_8_2041ab
तद्बन्धवो बाधमाना विरागमनयञ्जनम् ॥ KRT_8_2041cd
निजागःस्मरणात्कोष्ठेश्वरी न व्यश्वसीन्नृपे । KRT_8_2042ab
न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ KRT_8_2042cd
कोशं प्रजोपतापेन संचिन्वन्सुज्जिना समम् । KRT_8_2043ab
संबन्धकृच्चित्ररथो नाभूदभिमतः प्रभोः ॥ KRT_8_2043cd
धन्योदयौ1 नृपः सुज्जिदाक्षिण्यालक्ष्यसौहृदः । KRT_8_2044ab
अपुष्णाद्द्रविणैर्गूढं राज1पुर्यां कृतस्थिती ॥ KRT_8_2044cd
तौ चावालगतां1 शीतज्वरनष्टपरिच्छिदौ । KRT_8_2045ab
मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ KRT_8_2045cd
सुज्जिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः । KRT_8_2046ab
आगच्छत्सञ्जपालः स प्राप राजपुरीं तदा ॥ KRT_8_2046cd
सुज्जिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा । KRT_8_2047ab
अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ KRT_8_2047cd
तन्निमित्तं स केनापि सामन्तेन सहाध्वनि । KRT_8_2048ab
संजातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ KRT_8_2048cd
तथाभूतमपि स्वर्णं भूर्युरीकृत्य नाशकत् । KRT_8_2049ab
यत्तन्मल्लार्जुनो नेतुं कार्यज्ञैस्तदपूज्यत ॥ KRT_8_2049cd
सोस्वतन्त्रेण राज्ञा च सौजन्याद्रिल्हणेन च । KRT_8_2050ab
दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ KRT_8_2050cd
न न्यघ्नन्नत्र1 चेद्धन्युर्माममुत्रेति चिन्तयन् । KRT_8_2051ab
अमित्रविषमे मार्गे पु2रं साहसिकोविशत् ॥ KRT_8_2051cd
स कन्यकुब्जगौडादिमण्डलेषु महीभुजाम् । KRT_8_2052ab
स्पर्धया लब्धसत्कारो भूपतेर्मन्त्रियन्त्रिताम् ॥ KRT_8_2052cd
अनवाप्य निजे देशे सत्प्रियां दुःखितोभवत् । KRT_8_2053ab
राजधान्यन्तिकैः पौरैः प्रसृतास्रु व्यलोक्यत ॥ KRT_8_2053cd
भूलालोगणयित्वाथ मन्त्रिणो दत्तदर्शनः । KRT_8_2054ab
भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ KRT_8_2054cd
निष्किंचनोपि सन्ख्यातिमात्रेणानुगतो जनैः । KRT_8_2055ab
यातायातं नृपगृहे कुर्वञ्शत्रूनकम्पयत् ॥ KRT_8_2055cd
व्याहारव्यवहारादि व्यालोक्यालौकिकाकृतेः । KRT_8_2056ab
पुरुषान्तरवित्सुज्जिस्तस्य स्वैरमवेपत ॥ KRT_8_2056cd
दध्यौ सोथ ध्रुवं राष्ट्रेखर्वसर्वंकषक्रियम् । KRT_8_2057ab
नैवमेवाद्भुतं भूतमेतदृक्शान्तिमेष्यति ॥ KRT_8_2057cd
तांस्तान्देशान्तरे वीरानुत्सिक्तान्दृष्टवान्स च । KRT_8_2058ab
तं पर्यालोच्य विश्रान्तिं सोत्सेकानाममन्यत ॥ KRT_8_2058cd
भवितव्यतया दर्पेणाथ नीतः स्वतन्त्रताम् । KRT_8_2059ab
परिवादावहं सुज्जिस्ततो वत्तद्व्यवाहरत् ॥ KRT_8_2059cd
स्वानुगैर्लुण्ठितं रूक्षमाचक्षाणं रुषा द्विजम् । KRT_8_2060ab
प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ॥ KRT_8_2060cd
बाह्ये कुकर्मणा तेन विप्लाव्य जनमागतम् । KRT_8_2061ab
तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ KRT_8_2061cd
अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः । KRT_8_2062ab
अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम् ॥ KRT_8_2062cd
मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् । KRT_8_2063ab
अकारि चारणप्रायस्तादृक्कोपीति सुज्जिना ॥ KRT_8_2063cd

2033.

--1) Emended; A धन्योदयो.

2044.

--1) Emended; A राज्यपुर्यो.

2045.

--1) Doubtful emendation; A चावालगतौ; G चारालगतौ.

2051.

--1) न्न supplied with C; A न्यध्र -- त्र.

[page 242]




संजातयौनसंबन्धबन्धः कमलियादिभिः । KRT_8_2064ab
अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ KRT_8_2064cd
अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च । KRT_8_2065ab
खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ KRT_8_2065cd
प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीदिपत्1 KRT_8_2066ab
दुर्मन्त्रैर्विग्रहैकाग्र्ये साहदेविस्तमुल्हणः ॥ KRT_8_2066cd
असम्ना1नां सहास्माभिः क्षमते तमशीर्षिकाम् । KRT_8_2067ab
कृतघ्नोयमिति स्वैरं मन्युं राज्ञ्यपि सोग्रहीत् ॥ KRT_8_2067cd
बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं बाह्यभृत्यवत् । KRT_8_2068ab
मन्त्रस्वैरकथाद्येषु विस्रम्भेषु व्यवर्जयत् ॥ KRT_8_2068cd
स तु धूर्तत्वदुर्लक्ष्यतादृक्षस्वामिवैकृतः । KRT_8_2069ab
स्वेषां धैर्यं परेषां तु संत्रासं माययातनोत् ॥ KRT_8_2069cd
समग्रशक्तिराकाङ्क्ष्यसंस्तवः पक्षयोर्द्वयोः । KRT_8_2070ab
तस्य तु प्रययौ सञ्जपालो दानेन मित्रताम् ॥ KRT_8_2070cd
संनद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः । KRT_8_2071ab
क्षणे क्षणे राजधानी ययौ संभ्रमलोलताम् ॥ KRT_8_2071cd
सुज्जिः सभूपानाक्षेप्तुं प्रतिपक्षान्युयुत्सया । KRT_8_2072ab
महीमानोत्सवास्थाने संक्षोभमुदपादयत् ॥ KRT_8_2072cd
कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः । KRT_8_2073ab
तं निर्भर्त्स्य शिलाक्षेपं क्रोधरूक्षाक्षरोकरोत् ॥ KRT_8_2073cd
लिखितैरिव तान्सर्वैः सोड्ःउं रक्षणमीशितुः । KRT_8_2074ab
मिथ्या तथ्यमिवोदीर्य संग्रथ्नद्भिः समर्थताम् ॥ KRT_8_2074cd
उपावेशयदभ्यर्णे भूपतिः परिसन्त्व्य तम् । KRT_8_2075ab
सत्यस्मिन्नास्ति नः किंचिदित्यन्तस्तु व्यचिन्तयत् ॥ KRT_8_2075cd
चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः । KRT_8_2076ab
न सुज्जेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ KRT_8_2076cd
अन्विष्य विद्विषः शङ्कां मन्त्रविन्निशि रिल्हणः । KRT_8_2077ab
संनद्धसैन्यमानिन्ये पञ्चचन्द्रं तदप्रियम् ॥ KRT_8_2077cd
शशङ्के सञ्जपालाच्च तस्माच्च बहुसैनिकात् । KRT_8_2078ab
सुज्जिरन्यानगणयन्नबुद्धास्य च तद्रिपुः ॥ KRT_8_2078cd
आस्कन्दभीत्या निर्गत्य हयारोहैः समं गृहात् । KRT_8_2079ab
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ KRT_8_2079cd
भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् । KRT_8_2080ab
कोष्ठेश्वरोपि संनद्धः सुज्जिना बद्धसौहृदः ॥ KRT_8_2080cd
स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् । KRT_8_2081ab
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ KRT_8_2081cd
तथा स्थिते निशीथिन्यामाचख्यु1स्तस्य विद्विषः । KRT_8_2082ab
दुध्रुक्षाहेतुतां राज्ञः स्वगुप्त्यै तेन या कृता ॥ KRT_8_2082cd
अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः । KRT_8_2083ab
यः पश्येन्मूढवत्सोर्थैस्त्यक्तोनर्थैः कदर्थ्यते ॥ KRT_8_2083cd
रत्नज्योतिर्हुतवहधिया त्यज्यते दृष्टिपातः श्यावाक्षाणामितरविषयः स्वस्य संभाव्यते च । KRT_8_2084ab
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा तत्तथ्येनेत्थं किमिव न जनैर्दृश्यते तत्त्वशून्यैः ॥ KRT_8_2084cd
राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् । KRT_8_2085ab
न्ययुङ्क्त तस्य तीक्ष्णत्वे न सञ्जपालं महौजसः ॥ KRT_8_2085cd
स कापुरुषवद्धीरः प्रहर्तुं छद्मनाक्षमः । KRT_8_2086ab
काङ्क्षन्नाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ KRT_8_2086cd
मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोर्द्वयोः । KRT_8_2087ab
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ KRT_8_2087cd
प्रत्याशङ्क्योदयं रात्रौ सुज्जौ जाग्रति पूर्ववत् । KRT_8_2088ab
अव्यग्रयामिकग्रामं राजधामाप्यजायत ॥ KRT_8_2088cd
राष्ट्रन्निर्वासने रिल्हणस्य सुज्जेरभीप्सिते । KRT_8_2089ab
पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ KRT_8_2089cd
स निर्यि1यासुरामन्त्र्य तत्खेदात्क्षुभिताः प्रजाः । KRT_8_2090ab
संदर्श्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ KRT_8_2090cd
संमन्त्र्य नृपतिं मैत्रीप्रार्थिना सुज्जिना समम् । KRT_8_2091ab
पीत्वा कोशं सञ्जपालः प्राप्तो रात्रौ व्यजिज्ञपत् ॥ KRT_8_2091cd

2066.

--1) Thus corr. by A3 from A1 समुददीपित्.

2037.

--1) Emended; A आसन॰.

2082.

--1) Emended with C; A ॰ चाख्युः.

2090.

--1) Emended with C; A निर्यायासु॰.

[page 243]




प्रेरणादुल्हणादीनां स्वोत्सेकाच्चैष वर्तते । KRT_8_2092ab
राजन्सुज्जेरभिप्रायः1 स्पर्धिनोन्याननिच्छतः ॥ KRT_8_2092cd
निर्द्रोहस्योपकर्तुश्च मते स्याद्यदि मे नृपः । KRT_8_2093ab
निर्वास्य रिल्हणं वित्ररथं बद्ध्वा महाधनम् ॥ KRT_8_2093cd
लोहरारब्धिनिर्नष्टानश्वान्कोशं च भूपतेः । KRT_8_2094ab
नयेयं संभृतो हन्यां दुर्वृत्तमपि कोष्ठकम् ॥ KRT_8_2094cd
कार्योपरोधान्निर्बन्धः संबन्धेष्वेव नास्ति मे । KRT_8_2095ab
दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥ KRT_8_2095cd
मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे । KRT_8_2096ab
युवाविश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ KRT_8_2096cd
साहायकाय द्वारेशमुल्हणाश्रये । KRT_8_2097ab
कार्यत्राते च मामीशमाकारयितुमिच्छति ॥ KRT_8_2097cd
ब्रूते च मामुल्हणश्च त्वं चाहं चाविभेदिनः । KRT_8_2098ab
मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ KRT_8_2098cd
इहस्था नवदायादमेकमानीय कंचन । KRT_8_2099ab
निदध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ KRT_8_2099cd
गुणान्प्रसरणत्रासाद्बन्धायेव गिरा सृजन् । KRT_8_2100ab
द्विजांशुभङ्ग्या राजाथ विनिश्वस्ताव्रवीद्वचः ॥ KRT_8_2100cd
यथाह स तथैवैतन्न द्रोहो नासमर्थता । KRT_8_2101ab
नौदासीन्यमथैतस्मिन्संभाव्यमभिमानिनि ॥ KRT_8_2101cd
निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति । KRT_8_2102ab
इयमप्यन्यतस्तावदस्त्वपायधियः कथा ॥ KRT_8_2102cd
किं तु दूये यदाको1पप्राथम्यात्तथ्यतोपि वा । KRT_8_2103ab
निर्द्रोहस्य वधो ध्यातो योस्यासौ कार्य एव तत् ॥ KRT_8_2103cd
अर्थोयमल्पसत्त्वानामग्रेस्माभिर्हि मन्त्रितः । KRT_8_2104ab
नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ KRT_8_2104cd
पुण्यैरपरिहार्यैः स्वैर्जाद्यैर्वा मादृशाममी । KRT_8_2105ab
जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ KRT_8_2105cd
बालि1शान्गृह्णतां प्रायश्चित्तमेतन्महीभुजाम् । KRT_8_2106ab
तन्मौर्ख्यस्य फलं मूढैरेतैर्यदनुभूयते ॥ KRT_8_2106cd
दुर्गमो भूमिभृन्मार्गो विटैर्हट्टवृषैरिव । KRT_8_2107ab
... ... ... ... ... ... ... ... ... ... ...1 KRT_8_2107cd
तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः । KRT_8_2108ab
परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ KRT_8_2108cd
इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः । KRT_8_2109ab
असंहार्यं कुकर्मेदं पश्चात्तापाय नो भवेत् ॥ KRT_8_2109cd
इत्युदीर्य नृपः सुज्जेः सज्जो व्यापादसिद्धये । KRT_8_2110ab
तमजागारयच्छश्वज्जागरं चाग्रहीत्स्वयम् ॥ KRT_8_2110cd
बिभ्रन्मन्त्रस्रुतेः शङ्कां जिघांसुः सुज्जिरित्यपि। KRT_8_2111ab
तथ्यं भृत्यवचो जानंस्तस्थौ दौःस्थ्येन पार्थिवः ॥ KRT_8_2111cd
गत्वा स्वयं गृहान्यौनसंबन्धं कुरुतं1 युवाम् । KRT_8_2112ab
इत्युक्त्वा रिल्हणेनाथ स सुज्जिं समयोजयत् ॥ KRT_8_2112cd
विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनाप्नुवन् । KRT_8_2113ab
उदताम्यद्दिवारात्रं तल्पोपर्यवशं लुठन् ॥ KRT_8_2113cd
सञ्जपाले गृहाद्बन्धुनाशदुःखिन्यनागते । KRT_8_2114ab
आशङ्क्य साहसासिद्धिमधिकं पर्यतप्यत ॥ KRT_8_2114cd
निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् । KRT_8_2115ab
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ KRT_8_2115cd
सेनानीः कुलराजः स ख्यातो व्यायामविद्यया । KRT_8_2116ab
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ युग्मम्1 KRT_8_2116cd
स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् । KRT_8_2117ab
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ KRT_8_2117cd
कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् । KRT_8_2118ab
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ KRT_8_2118cd
दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः । KRT_8_2119ab
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथ वा ॥ KRT_8_2119cd
विस्रम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः । KRT_8_2120ab
तं दृष्टवांस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ KRT_8_2120cd

2092.

--1) Emended; A ,,प्रायस्पर्धिनो॰.

2100.

--1) Emended with C; A स्रजन्.

2103.

--1) Emended; A य आकोप॰; G sec. manu यतः को॰.

2106.

--1) A वालि॰.

2107.

--1) Here two are missing; C supplements क्व स नीतिज्ञविज्ञेयः क्व च ते खलबुद्धयः.

2112.

--1) Emended; A कुरुतां.

<2116>.

--1) A1 2.

[page 244]




शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः । KRT_8_2121ab
कर्तुं साहसाचिव्यं विदूरेण तु पार्यते ॥ KRT_8_2121cd
करे पिनाको मकराङ्कशत्रोः शोभाविशेषाय सदानुषक्तः । KRT_8_2122ab
पुराहवे कार्मुककर्म तस्य तत्कालमाप्तेन तु मन्दरेण ॥ KRT_8_2122cd
ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् । KRT_8_2123ab
कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ KRT_8_2123cd
ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः । KRT_8_2124ab
आर1ब्धेति स निन्ये न ताम्बूलं स्वर्णभाजने ॥ KRT_8_2124cd
व्यसनप्रशमं राज्ञः स्वदेहत्यागतोनु1गाः । KRT_8_2125ab
एवं कर्तुं यतन्तेन्ये निर्व्यूढौ स्खलिताः पुनः ॥ KRT_8_2125cd
सगणोवगणो वास्तु निहतो नियतं मया । KRT_8_2126ab
जागर्त्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ KRT_8_2126cd
गतस्य साहसासिद्धौ निहतो नियतं मया । KRT_8_2127ab
... ... ... ... ... ... ... ... ... ... ... 1 KRT_8_2127cd
व्रजन्स्वामिहितं कृत्वा पुनः पश्चान्निनाय सः । KRT_8_2128ab
शस्त्रिणौ द्वौ मिषाच्छस्त्र्यौ बन्धस्थाने परामृशन्1 KRT_8_2128cd
स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ । KRT_8_2129ab
द्वा1ःस्थेनावेदितः सुज्जेः पार्श्वं रुद्धानुगोविशत् ॥ KRT_8_2129cd
ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् । KRT_8_2130ab
यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ KRT_8_2130cd
गृहीतवन्दितस्वामिताम्बूलः सस्मितं स तम् । KRT_8_2131ab
पृष्ट्वा1 कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ KRT_8_2131cd
जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् । KRT_8_2132ab
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्वमाश्रितः ॥ KRT_8_2132cd
तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव । KRT_8_2133ab
संमन्या वयमित्यग्रेलक्षयन्प्रकृतिक्षणम् ॥ KRT_8_2133cd
सोत्सेकामिव तां वाचं स दर्पादवधीरयन् । KRT_8_2134ab
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ KRT_8_2134cd
स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः । KRT_8_2135ab
तं सान्त्वयित्वा तद्भृत्यै रुद्ध्वा व्यावर्तितः पुनः ॥ KRT_8_2135cd
तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः । KRT_8_2136ab
सज्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ KRT_8_2136cd
अवशेनेव तेनाथ वीक्ष्य तौ संप्रवेशितौ । KRT_8_2137ab
सहायलाभाद्दुध्रुक्षुः प्रजिहीर्षुरवर्तत ॥ KRT_8_2137cd
याताद्य कुर्यां प्रातर्वो विधेयमिति तान्वदन् । KRT_8_2138ab
दत्तपृष्ठो निदिद्रासुस्तल्पे सुज्जिर्जहौ वपुः ॥ KRT_8_2138cd
मत्वाथ किंचिद्व्यावृत्तो निष्कृष्टक्षुरिको जवात् । KRT_8_2139ab
प्राहरत्कुल1राजोस्य वामे पार्श्वे कृतत्वरः ॥ KRT_8_2139cd
तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति । KRT_8_2140ab
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ KRT_8_2140cd
विमर्शः1 पश्यतां यावदाशङ्क्ये तत्र नोद्ययौ । KRT_8_2141ab
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ KRT_8_2141cd
भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु । KRT_8_2142ab
चकर्ष शस्त्रं तत्रैकः पिञ्चदेवः परं तदा ॥ KRT_8_2142cd
प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः । KRT_8_2143ab
भ्राम्यन्स्रुतासृक्तस्मात्स मण्डपान्निरवास्यत ॥ KRT_8_2143cd
स्थितान्दत्तार्गले धाम्नि रुद्धद्वारतमोरयः । KRT_8_2144ab
जिघांसवः सुज्जिभृत्यास्ततस्तान्पर्यवारयन् ॥ KRT_8_2144cd
तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः । KRT_8_2145ab
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ KRT_8_2145cd
खड्गेषुशूलपरशुक्षुरिकाश्माभिवर्षिणः । KRT_8_2146ab
तान्समभ्र1मयन्मार्गैरनेकैस्ते विविक्षवः ॥ KRT_8_2146cd
नैराश्यहेतोर्विशतां तेषां संकटवर्तिभिः । KRT_8_2147ab
पृष्टाच्छित्वा शिरः सुज्जेरङ्गनेक्षिप्यताथ तैः ॥ KRT_8_2147cd
अस्रनिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुतिः । KRT_8_2148ab
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ KRT_8_2148cd

2124.

--1) Thus emended in C; A आरेभेति.

2125.

--1) Emended; A ॰तोन्वगाः.

2127.

--1) Here two are missing; C supplements इति चिन्तयतस्तस्य मन आसीद्विशृङ्खलं.

2128.

--1) Emended; A ॰मृषन्.

2129.

--1) A विमर्षः.

2146.

--1) Emended; A तान्स सम्भ्रम॰

[page 245]




अक्ष्णोर्बम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः । KRT_8_2149ab
संभाव्यमानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ KRT_8_2149cd
स्थपुटस्याक्रमच्छेदाद्गलमांसस्य संधिषु । KRT_8_2150ab
हरिद्रार्द्रैरिवाश्यानमेदोग्रन्थिभिरुल्बणम् ॥ KRT_8_2150cd
धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् । KRT_8_2151ab
परं भालतलस्थेन ददत्कुङ्कुमविन्दुना ॥ KRT_8_2151cd
तद्वीक्ष्य तिर्यक्पतनव्यक्तसंध्यन्तरद्विजम् । KRT_8_2152ab
उच्चलत्तुमुलाक्रन्दा भृत्याः क्वापि विदुद्रुवुः ॥ कुलकम्॥ KRT_8_2152cd
तीक्ष्णान्प्रयुज्य क्ष्मापस्तु तिष्ठन्व्याकुलधीस्तदा । KRT_8_2153ab
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ KRT_8_2153cd
सुज्जौ हते क्षते कार्यमेतदिति द्रुतम् । KRT_8_2154ab
संनह्य सैन्यस्यादिक्षत्स तन्मन्दिरचेष्टनम् ॥ KRT_8_2154cd
मिथैव सुज्जिर्निस्त्रीर्ण इति श्रुतवता जनात् । KRT_8_2155ab
स्वयमग्राहि भूपेन ततः समरसंभ्रमः ॥ KRT_8_2155cd
निःसंशयं हतं ज्ञात्वा सुज्जिं राजोपजीविनः । KRT_8_2156ab
तत्र स्थितं शिवरथं सर्वद्वेष्यमबन्धयन् ॥ KRT_8_2156cd
हिल्लात्मजन्मनः सुज्जिभ्रातृस्यालस्य कौशलम् । KRT_8_2157ab
कलशस्या1द्य निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ KRT_8_2157cd
आक्षिप्यमाणैर्भिक्ष्वाद्यैरन्ते वीरोचितं कृतम् । KRT_8_2158ab
तेन त्वसंशथस्येन सदाचारान्न विच्युतम् ॥ KRT_8_2158cd
राजौकस्येव तां वार्तां श्रुत्वा स ह्यपलायितः । KRT_8_2159ab
हतस्य स्वामिनोभ्यर्णं जिहासुर्जीवितं ययौ ॥ KRT_8_2159cd
द्वारं पदप्रहृतिभिर्भञ्जन्तं राजसैनिकाः । KRT_8_2160ab
अपसार्य कथंचित्तं तीक्ष्णाः कृच्छ्रादरक्षिषु ॥ KRT_8_2160cd
प्रविष्टेस्मिन्ननिर्व्यूढपीडिते मण्डपान्तरम् । KRT_8_2161ab
लब्धप्राणा नृपाभ्यर्णं कुलराजादयो ययुः ॥ KRT_8_2161cd
हठप्रविष्टो हतवान्स तत्रैकं महाभटम् । KRT_8_2162ab
शरैरेव हतो दूरात्कथंचित्परिपन्थिभिः ॥ KRT_8_2162cd
आयातं क्षुभिते देशे सञ्जपालं महीपतिः । KRT_8_2163ab
रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ KRT_8_2163cd
यातो मार्गात्पलाय्यायं परिशङ्क्येति रिल्हणः । KRT_8_2164ab
क्षिप्तिकातटपर्ययन्तमटित्वा यावदाययौ ॥ KRT_8_2164cd
पूर्वायातः सञ्जपालो गृहद्वाराद्विनिर्यतः । KRT_8_2165ab
उल्हणस्य पथो रुन्धन्सुबहून्प्रहरन्रणे ॥ KRT_8_2165cd
तावदेकस्य खड्गेन निकृत्ते दोष्णि दक्षिणे । KRT_8_2166ab
त्वङ्मात्रशेषे छिन्नास्थिस्नायुग्रन्थिरजायत ॥ तिलकम्1 KRT_8_2166cd
अगण्यप्रायतां प्राप्ते वंशे यत्कौशलादसौ । KRT_8_2167ab
दिगन्तरेषु स्वस्मिंश्च देशे प्राप प्रथां पुनः ॥ KRT_8_2167cd
फलकाले समासन्ने शौर्यप्रतिभुवाभजत् । KRT_8_2168ab
स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ KRT_8_2168cd
स प्राग्वदुदयावाप्तौ भवेदविकलो यदि । KRT_8_2169ab
फलेन तस्य जानीयादिच्छां लोकोयमग्भुताम् ॥ KRT_8_2169cd
पीतामृतस्य क्षतविग्रहत्वं न प्राभविष्यद्यदि नाम राहोः । KRT_8_2170ab
अज्ञास्यादिच्छां तदमुष्य लोकः सामर्थ्यभाजः सुचिरप्ररूढाम् ॥ KRT_8_2170cd
वृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना । KRT_8_2171ab
सस्पृहं निहतः साधु -- --1 जातव्रणार्तिना ॥ KRT_8_2171cd
तस्यार्त्या विशतो वेश्म जज्जलाख्योग्रगो हतः । KRT_8_2172ab
मान्योनुगो गेहे रिल्हणोग्निमदापयत् ॥ KRT_8_2172cd
बालं तनयमालोक्य निषण्नस्याङ्गनस्थितेः । KRT_8_2173ab
तस्यानिर्गच्छतो गेहे रिल्हणोग्निमदापयत् ॥ KRT_8_2173cd
आनीयमानो धूमान्धो बद्ध्वा मुख्यैः स सैनिकैः । KRT_8_2174ab
गृहद्वारे हतः कैश्चित्प्राकृतैर्व्रणविक्लवः ॥ KRT_8_2174cd
तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः । KRT_8_2175ab
मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ KRT_8_2175cd
व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः । KRT_8_2176ab
उच्चावचाः सुज्जिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ KRT_8_2176cd

2157.

--1) Emended with C; A कल -- -- स्याद्य.

2166.

--1) A1 3.

2171.

--1) Before or after साधु two aksharas

are missing; the lacuna not indicated in A; C supplements सम्यग्जा॰.

[page 246]




अनुजो लक्ष्मकः सुज्जेर्बद्ध्वा नीतः स विक्रियाम् । KRT_8_2177ab
नृपं वीक्ष्यादयैः कैश्चिद्राजधान्यङ्गने हतः ॥ KRT_8_2177cd
भ्राता पितृव्यजस्तस्य संगटाख्यो नृपाङ्गने । KRT_8_2178ab
अटन्नट इव प्राणानौचित्येनामुचत्कृती ॥ KRT_8_2178cd
प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः । KRT_8_2179ab
उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ KRT_8_2179cd
सुज्जिस्यालस्तु शृङ्गारवृत्त्या भङ्गुरया हतः । KRT_8_2180ab
महाकुलीनो विचस्न्नौचित्येन च चित्रियः ॥ KRT_8_2180cd
सङ्गिकाख्यः प्रतीहारो व्रणितः शनकैर्हतः । KRT_8_2181ab
अन्येपि संश्रिताः सुज्जेस्तत्र तत्र प्रमिम्यिरे ॥ KRT_8_2181cd
जात्यवाजिजवप्राप्तप्राणाः कोष्ठेश्वरान्तिकम् । KRT_8_2182ab
आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥ KRT_8_2182cd
व्रजञ्शरदियो1 दुष्टोत्थानरुद्धतुरंगमः । KRT_8_2183ab
प्रपेदे संगटभ्राता बन्धनं सुभटामठे ॥ KRT_8_2183cd
सूनुश्च सज्जलः सुज्जेः श्वेतिकश्चाग्रजात्मजः । KRT_8_2184ab
उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ KRT_8_2184cd
इत्थं राजन्यमात्ये1 च प्राप्ते पिशुनवश्यताम् । KRT_8_2185ab
नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ KRT_8_2185cd
कार्ये क्वापि विपर्यस्तसत्त्वं संस्मृत्य मन्त्रिणम् । KRT_8_2186ab
तमद्यापि नृपस्तादृग्भृत्योपेतोनुतप्यते ॥ KRT_8_2186cd
वेतालोत्थापनाच्छ्वभ्रलङ्घनाद्विषचर्वणात् । KRT_8_2187ab
व्यालाश्लेषाच्च विषमं सत्यं राजोपसेवनम् ॥ KRT_8_2187cd
अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् । KRT_8_2188ab
शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ KRT_8_2188cd
अयुक्तं नृपतिः सुज्जिवधं मेने प्रजाः पुनः । KRT_8_2189ab
युक्तं ज्ञात्वा तमुद्रिक्तशक्तितां विविदुः प्रभोः1 KRT_8_2189cd
भेजे राजा सञ्जपालं कम्पनाधिपतिं ददत् । KRT_8_2190ab
कुलराजे च नगराधीकारित्वं समार्पयत्1 KRT_8_2190cd
त्यक्त्वा मल्लार्जुनं1 धन्योदयौ नगरमागतौ । KRT_8_2191ab
प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वंभराभुजः ॥ KRT_8_2191cd
इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः । KRT_8_2192ab
श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ KRT_8_2192cd
अद्भुतैश्वर्यधुर्योपि राष्ट्रं दण्डेन पीडयन् । KRT_8_2193ab
शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ KRT_8_2193cd
गन्धर्वानाभिधे ग्रामे टिक्कं हत्वा व्यसर्जयत् । KRT_8_2194ab
पारेविशोकं कोट्टेशस्तच्छिरः पार्थिवान्तिकम् ॥ KRT_8_2194cd
निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे । KRT_8_2195ab
तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ KRT_8_2195cd
कोष्ठेश्वरेण रभसादल्पैः परिजनैर्युतः । KRT_8_2196ab
निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ KRT_8_2196cd
महाकथितकन्योन्यैः संरब्धे राज्ञि सर्वतः । KRT_8_2197ab
बद्धसंधिर्लवन्यस्तं विससर्ज यथागतम् ॥ KRT_8_2197cd
उच्चलादिवदादातुं राज्यं स रभसं भजन् । KRT_8_2198ab
निर्व्यूढिशून्यदार्द्योगान्मूढो लोकस्य हास्यताम् ॥ KRT_8_2198cd
तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्ठकम् । KRT_8_2199ab
उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ KRT_8_2199cd
प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजम्1 KRT_8_2200ab
न संप्रा2सादयत्क्रुद्धः प्रतियोद्धुं त्वचिन्तयत् ॥ KRT_8_2200cd
स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् । KRT_8_2201ab
स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ KRT_8_2201cd
स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली । KRT_8_2202ab
प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ KRT_8_2202cd
लग्ने रणे चित्ररथः पृथुसैन्योपि दैवतः । KRT_8_2203ab
तस्य सैन्यैकदेशेन निन्ये जयविपर्ययम् ॥ KRT_8_2203cd
भङ्गेना1मङ्गलोंकारकल्पेन किल तेन सः । KRT_8_2204ab
ततः प्रभृत्यभूद्भ्रश्यदवष्टम्भो दिने दिने ॥ KRT_8_2204cd
रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिलानुगः । KRT_8_2205ab
लवन्यो न्यपतत्सायं कम्पनाधिपतेर्बले1 KRT_8_2205cd

2183.

--1) C शरदि यो.

2185.

--1) Emended with C; A ॰मन्ये.

2189.

--1) Conjectural emendation of G.(sec. manu); A प्रजाः.

2190.

--1) Emended; A ॰भुजाम्.

--2) Emended; A संप्रसाद॰.

2204.

--1) Doubtful emendation; A भङ्गनामङ्गलों॰; C अङ्गनामङ्गलौङ्कार॰.

2205.

--1) Emended; A ॰र्बली.

[page 247]




ऊनैः शतादपि भटैर्युतो विद्रुतसैनिकः । KRT_8_2206ab
सेहे1 तत्सैन्यरोषं स गजक्षोभमिवाचलः ॥ KRT_8_2206cd
किं वाच्यः स नरव्याघ्रः प्रवृद्धिं याति संगरे । KRT_8_2207ab
निजवर्मतनुत्रादि यस्य मानि1 न वर्ष्मणि ॥ KRT_8_2207cd
मन्दीकृतारिसंरम्भमवष्टम्भेन तादृशा । KRT_8_2208ab
तं त्रिल्लकादयः प्रापुर्लवन्याः सैन्यशालिनः ॥ KRT_8_2208cd
तैः सजातीयदाक्षिण्यात्तटस्थैरपि संकटे । KRT_8_2209ab
तस्येषदुपयोगोभूत्स्ववीर्यापास्तविद्विषः ॥ KRT_8_2209cd
काले संनहनं रात्रिजागरः सामतो बलैः । KRT_8_2210ab
समये ग्रहणत्यागतत्तद्युक्तिविकपनम् ॥ KRT_8_2210cd
लब्धभूम्यपरित्यागो जिगीषोरीदृशैर्गुणैः । KRT_8_2211ab
चलेयुररयोप्यस्य का वैर्याक्रमणे स्तुतिः ॥ KRT_8_2211cd
अविश्वसन्भिन्नभृत्यस्तादृक्संरम्भपीडितः । KRT_8_2212ab
पलायनोन्मुखः शैलात्कोष्ठकोथ व्यगाहत ॥ KRT_8_2212cd
मार्गेष्वकालप्रालेयपातरुद्धेषु वाजिनाम् । KRT_8_2213ab
गन्तुं तस्योद्यमं जघ्नुः पृष्टलग्ना विरोधिनः ॥ KRT_8_2213cd
अवमानोपतप्तोथ परिमेयपरिच्छदः । KRT_8_2214ab
स ययौ जाह्नवीं स्नातुं राज्ञा राष्ट्रादपाकृतः ॥ KRT_8_2214cd
सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः । KRT_8_2215ab
दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ॥ KRT_8_2215cd
पुत्रौ दत्तवतो नीविं नागपालस्य तस्य च । KRT_8_2216ab
अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ KRT_8_2216cd
बृहद्राजस्य जिह्मोयं दौस्थ्यहेतुरभूदिति । KRT_8_2217ab
स तदापदि नास्मार्षीदव्याजौदार्यधुर्यधीः ॥ KRT_8_2217cd
साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः । KRT_8_2218ab
भूयः प्रतिष्ठामनयद्दर्पप्रशमनाद्द्विषाम् ॥ KRT_8_2218cd
स्नात्वा द्युनद्यां व्यावृत्तः कोष्ठकोत्रान्तरे पुनः । KRT_8_2219ab
मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ KRT_8_2219cd
अकोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् । KRT_8_2220ab
लवन्यं कार्यतस्त्यक्तपूर्ववैरो नृपात्मजः ॥ KRT_8_2220cd
आहूतो लोठनः पूर्वमायातस्तेन डामरम् । KRT_8_2221ab
निशम्य तं संघटितं1 खिन्नः प्रायाद्यथागतम् ॥ KRT_8_2221cd
विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः । KRT_8_2222ab
प्रविविक्षूनुपैक्षिष्ट सोमपालो दुराशयः ॥ KRT_8_2222cd
आराधनाय भूभर्तुस्तत्पुत्रः कोष्ठकं पुनः । KRT_8_2223ab
प्राप्तं स्वविषयैस्तैस्तैष्ठक्कुरैर्निरलुण्ठयत् ॥ KRT_8_2223cd
अत्रान्तरे चित्ररथं सं1वृद्धायासदुर्ग्रहम् । KRT_8_2224ab
अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ KRT_8_2224cd
उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा । KRT_8_2225ab
ज्वलितो ज्वलने देहान्वहवो जुहुवुः शुचा ॥ KRT_8_2225cd
चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः । KRT_8_2226ab
वह्निं गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ KRT_8_2226cd
भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः । KRT_8_2227ab
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ KRT_8_2227cd
देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् । KRT_8_2228ab
व्याजहारानुजन्मानं कारुण्यास्रुकणान्किरन् ॥ KRT_8_2228cd
उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा । KRT_8_2229ab
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ KRT_8_2229cd
छन्दानुवृत्त्यामात्या1नां यत्र क्ष्माभृदुपेक्षते । KRT_8_2230ab
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ KRT_8_2230cd
यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्नुतम् । KRT_8_2231ab
शमिता दण्डयेच्छाम्यं शमितारं परोथ वा ॥ KRT_8_2231cd
विशृङ्खलं नयेच्छय्यां दार्ढ्यसारं विघट्टनैः । KRT_8_2232ab
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ KRT_8_2232cd
दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्ज्वलः । KRT_8_2233ab
वधाच्चिन्नरथस्यान्यद्विधेयं नावभाति मे ॥ KRT_8_2233cd
धर्मः सर्वोपकार्येकक्षुद्रक्षपणमुच्यते । KRT_8_2234ab
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ KRT_8_2234cd

2206.

--1) Emended; A सह.

2221.

--1) Emended; A सङ्घटितुं.

2224.

--1) Emended with C; A सवृद्धायास॰.

2230.

--1) Emended with C; A apparently ॰मान्यानां.

[page 248]




दुर्वृत्तदमने1स्माभिः कृते तेजस्विनो जनात् । KRT_8_2235ab
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ KRT_8_2235cd
कायस्यास्य परित्यागादनन्ता जन्तवो यदि । KRT_8_2236ab
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम् ॥ KRT_8_2236cd
संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् । KRT_8_2237ab
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ KRT_8_2237cd
कालेस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल । KRT_8_2238ab
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ KRT_8_2238cd
ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन । KRT_8_2239ab
धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ KRT_8_2239cd
द्विजानुद्वेजयन्सुज्जिर्द्विजादेवासदद्वधम् । KRT_8_2240ab
विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ KRT_8_2240cd
द्विजोत्थापितयाक्रान्तचित्तोसौ कृत्यया ध्रुवम् । KRT_8_2241ab
दध्यौ तस्य वधं प्राणान्विना कारणमुत्सृजन् ॥ KRT_8_2241cd
कृशानुसादकृषत विप्रा देहान्यदैव ते । KRT_8_2242ab
तद्वेषस्तुल्यसंघर्षे तदैवासीद्धतानुगः ॥ KRT_8_2242cd
अनासादयतश्चित्ररथं पृथुबलान्वितम् । KRT_8_2243ab
गणरात्रमभूद्धन्तुर्दिवारात्रं प्रजागरः ॥ KRT_8_2243cd
स ह्यपर्यन्तसामन्तसीमन्तितपथो व्रजन् । KRT_8_2244ab
अभूददृश्यो दृश्यश्च जनसंवाधमध्यगः ॥ KRT_8_2244cd
तेन साश्चर्यनैश्चल्यनिष्ठुरेणैकदा जवात् । KRT_8_2245ab
सोनुसस्रे व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ KRT_8_2245cd
विलम्बितस्य स्तम्भा1ग्रे कृपाण्या मूर्ध्न्यथास्य सः । KRT_8_2246ab
सामन्तमध्यगस्यैव प्राहरत्तीव्रसाहसः ॥ KRT_8_2246cd
मुमूर्षोरिव तत्रास्य वैह्वल्यगलितस्मृतेः । KRT_8_2247ab
उद्भ्रान्तचक्षुषो वर्चश्च्यवनं समपद्यत ॥ KRT_8_2247cd
प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्ववहिष्कृताः । KRT_8_2248ab
वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ KRT_8_2248cd
तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः । KRT_8_2249ab
प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ KRT_8_2249cd
न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः । KRT_8_2250ab
राज्ञा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ KRT_8_2250cd
प्रनष्टं1 भृष्टमांसादिराज्यभोगपुरःसरैः । KRT_8_2251ab
सर्वैः कापुरुषैस्त्रासादथ चित्ररथानुगैः ॥ KRT_8_2251cd
ज्यायांल्लोठरथस्तस्य भ्राता भीत्या पलायितः । KRT_8_2252ab
शरणं नर्तकीमेकां ययौ वक्त्रार्पितस्तनः ॥ KRT_8_2252cd
तादृक्प्रवेशितश्चित्ररथोभ्यर्णं महीभुजा । KRT_8_2253ab
मा भैषीः1 प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम् ॥ KRT_8_2253cd
नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः । KRT_8_2254ab
तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥ KRT_8_2254cd
धीरो योधान्स्वधैर्यात्तलङ्घनश्लाघ्यविक्रमः । KRT_8_2255ab
त्रिंशद्विंशान्स हत्वाथ प्रहृत्य चरणे हतः ॥ KRT_8_2255cd
परित्राणाय साधूनां विनाशाय च दृष्कृताम् । KRT_8_2256ab
धर्मसंस्थापनार्थाय संभवामि युगे युगे1 KRT_8_2256cd
लब्धा लिखिततत्कृत्यकारणा पत्रिका करात् । KRT_8_2257ab
तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ KRT_8_2257cd
अरुच्युन्माददीनत्वयुतश्चित्ररथस्ततः । KRT_8_2258ab
रूढव्रणोपि लालाटसंधिवेधादजायत ॥ KRT_8_2258cd
स मासान्प्रञ्चषान्याप्य निराप्यायकृशाकृतिः । KRT_8_2259ab
विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ KRT_8_2259cd
मल्लार्जुनं पुरस्कृत्य कोष्ठकोi विप्लवोन्मुखः । KRT_8_2260ab
तन्मध्ये तरुसंबाधं गिरिदुर्गमगाहत ॥ KRT_8_2260cd
मा1 मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् । KRT_8_2261ab
अविस्मृतापदं लोकं पुनर्द्वैराज्यशङ्किनम् ॥ KRT_8_2261cd
अकाण्डाम्बुदजाद्येन पीडिताङ्ग इवाभजत् । KRT_8_2262ab
परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ KRT_8_2262cd
तरुदुर्गं तदकृशक्रोश1व्याप्यथ सर्वतः । KRT_8_2263ab
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ KRT_8_2263cd

2235.

--1) Misread in C दुर्वृत्तहसने॰.

2246.

--1) Emended; A स्तम्बाग्रे.

2251.

--1) Emended with C; A प्र--.

2253.

--1) Emended with C; A भैषीन्प्रा॰.

2256.

--1) Compare fore this verse iv. 8.

2261.

--1) The text od the first is corrupt; perhaps read स समभ्रमयद्भ्रा॰.

2263.

--1) A ॰क्रोष॰.

[page 249]




सञ्जपाले यवनकैः स्कन्धा1वारं निबध्नति । KRT_8_2264ab
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ KRT_8_2264cd
धन्योपि शिलिकाकोट्टपर्यस्तकटकोभवत् । KRT_8_2265ab
गन्धद्वेषी गजरिपुः सिन्धुर1स्येव वैरिणः ॥ KRT_8_2265cd
आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् । KRT_8_2266ab
अटवीं पर्यटन्घूकानिवार्को ब्रुडितानरीन् ॥ KRT_8_2266cd
तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् । KRT_8_2267ab
कोष्ठेश्वरस्त्रिचतुरान्मासान्संचारशून्यताम् ॥ KRT_8_2267cd
क्लिष्टे देशान्तरे राष्ट्रानन्तरैर्न्यक्कृतो नृपैः । KRT_8_2268ab
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ KRT_8_2268cd
वालि1शत्वादकुशलो ज्ञातुं वृत्तिं महीभुजाम् । KRT_8_2269ab
स विस्मृतागाः संधातुमैच्छच्छिन्नपदो नृपम् ॥ KRT_8_2269cd
उज्जिहीर्षोः प्रभोर्मन्युं वाच्यम् तद्वञ्चनाद्विदन् । KRT_8_2270ab
भक्त्येकाग्रः सञ्जपालस्तस्येच्छां तामपूरयत् ॥ KRT_8_2270cd
तथार्तोपि रिपुं राज्ञः संधित्सुर्न्यग्रहीन्न सः । KRT_8_2271ab
पृथ्वीहरप्रसूतानां निर्द्रोहत्वं न कौतुकम् ॥ KRT_8_2271cd
तेन प्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् । KRT_8_2272ab
छिन्दतापि महीभर्तुर्मन्युश्छेत्तुं न पारितः ॥ KRT_8_2272cd
कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् । KRT_8_2273ab
भुक्तोवेलोपि भूपालं कर्तुं नाशकदक्रुधम् ॥ KRT_8_2273cd
अस्वीकृततद्वित्रभूभृल्लाञ्छनः स हि राजवत् । KRT_8_2274ab
तत्तत्प्रत्युक्तभूपाज्ञः सर्वं गर्वाद्व्यवाहरत् ॥ KRT_8_2274cd
शुश्राव बद्धं तनम्ध्ये यातं मल्लार्जुनं नृपः । KRT_8_2275ab
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ KRT_8_2275cd
नीयमानः स हि स्कन्ध1मधिरोप्यानुजीविभिः । KRT_8_2276ab
अजाङ्घिकतया मार्गोल्लङ्घनायास2निःसहः ॥ KRT_8_2276cd
ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् । KRT_8_2277ab
सावर्णिकाभिधं ग्रामं प्राप्तो विन्यस्तरक्षिणा ॥ KRT_8_2277cd
निरुद्धो जग्गिकाख्येन ठक्कुरेण महीपतिः । KRT_8_2278ab
प्रियंकरं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ KRT_8_2278cd
बद्धप्रायोरिणा दुर्गान्निर्गतः स कथंचन । KRT_8_2279ab
बद्धस्तेन पुनः शक्तिः1 कस्य भाव्यर्थ2लङ्घने ॥ KRT_8_2279cd
गङ्गा द्युमार्गलुठिता जठरात्कथंचिदेकस्य संहृतवतो निसृता महर्षेः । KRT_8_2280ab
ग्रस्तापरेण कृतसागरगर्तपूर्तिः शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ KRT_8_2280cd
जग्गिके1 बद्धसंप्राप्तिपर्यन्तोपान्तरक्षिणि । KRT_8_2281ab
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ KRT_8_2281cd
तं विना धैर्यगाम्भीर्यशौर्यधुर्यं महाधियम् । KRT_8_2282ab
संकटे न ह्यवष्टम्भो राज्ञाज्ञाय्यन्यमन्त्रिणाम् ॥ KRT_8_2282cd
स ह्यतिक्रम्य साबाधान्मार्गानुभयवेतनैः । KRT_8_2283ab
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ KRT_8_2283cd
निष्ठाशून्येन धैर्यसंभावनावहः । KRT_8_2284ab
स्तुवन्त तं बहिः प्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ KRT_8_2284cd
सर्वतो ज्यायसीं भर्तृभक्तिं यो बहु मन्यते । KRT_8_2285ab
भवान्धुर्यो मतिमतामाहृतो लोभनातुरैः ॥ KRT_8_2285cd
कृता रक्षामणिसमं सहायं त्वादृशं विना । KRT_8_2286ab
हानिर्मे दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ KRT_8_2286cd
दुष्प्रेक्ष्यमाणां भवत्येव नियमाद्राजभास्वताम् । KRT_8_2287ab
भाग्यान्तहेमन्तदिने जननेत्रविलङ्घ्यता ॥ KRT_8_2287cd
शोभते रुधिराताम्रमण्डलाग्रो यथोदये । KRT_8_2288ab
तथा वोस्तमये भास्वानिव वन्ध्यः स भूपतिः ॥ KRT_8_2288cd
धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः । KRT_8_2289ab
उदयेस्तमयेप्युग्रे रागव्यग्राप्सरोगणः ॥ KRT_8_2289cd
पदे प्रयोगं लब्ध्वार्थं किंचित्कृत्वा कुलीनवत् । KRT_8_2290ab
अहं कविरिव प्रौढः प्राप्तो निर्व्यूढिमूढताम् ॥ KRT_8_2290cd
सत्यंकारोधुना भूत्वा विधत्तां स्वान्तसुस्थितिम् । KRT_8_2291ab
साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ KRT_8_2291cd

2264.

--1) A. स्कन्दा॰.

2265.

--1) A सिन्दुरस्येव.

2269.

--1) A वालि॰.

2276.

--1) Emended; A स्कन्दम॰.

--2) Emended; ॰ल्लङ्घनाय स नि॰.

2279.

--1) Emended; A शक्ति.

--2) Emended; A भावार्थ.

2281.

--1) Doubtful; A जग्गके; cf. viii. 2278.

[page 250]




इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः । KRT_8_2292ab
सपीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ KRT_8_2292cd
अच्छलाहवसंमर्दप्रासशूलेषुवर्षिणः । KRT_8_2293ab
योधान्योद्धुम् वरं भावं1 मानवान्नूनमिच्छति ॥ KRT_8_2293cd
इति संभाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् । KRT_8_2294ab
वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ KRT_8_2294cd
आकृष्टदृष्टिरहतः क्ष्माभुजोन्तिकमक्षतः । KRT_8_2295ab
यथेदृगेव प्राप्तोषि तथा त्वामर्थयेधुना ॥ KRT_8_2295cd
कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः । KRT_8_2296ab
सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्यार्द्राः पल्लवा इव ॥ KRT_8_2296cd
अन्तक्षणस्ततो भिक्षो स्मर्यमाणः सचेतसाम् । KRT_8_2297ab
विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ KRT_8_2297cd
मनुष्यवाह्यमारूढः पत्त्रं निन्ये स निस्त्रपः । KRT_8_2298ab
तेन स्वपालितांलोकानपि पश्यन्नविक्रियम् ॥ KRT_8_2298cd
अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि । KRT_8_2299ab
कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ KRT_8_2299cd
पश्यन्नानीयमानं तं गोप्तृभिस्तादृशं जनः1 KRT_8_2300ab
दयार्द्रहृदयश्चासीन्नाभ्यनन्दच्च भूभुजम् ॥ KRT_8_2300cd
उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः । KRT_8_2301ab
नैतावद्भाति नैर्घृण्यमनुजे पितृवर्जिते ॥ KRT_8_2301cd
असेचनकमेतस्य मेचकाब्जदृशो वपुः । KRT_8_2302ab
क्लेशगर्ह्यमनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ KRT_8_2302cd
पूर्वापरानुसंधानवन्ध्यस्तं दृष्ट्यांस्तदा । KRT_8_2303ab
विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ KRT_8_2303cd
गणना काथ वा बालबालि1शादौ विधीयते । KRT_8_2304ab
न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ KRT_8_2304cd
श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् । KRT_8_2305ab
पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्रेषु जायते ॥ KRT_8_2305cd
कुरूणां क्षतजापाने भग्नोरोर्मूर्धताडने । KRT_8_2306ab
श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ KRT_8_2306cd
परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना । KRT_8_2307ab
तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ KRT_8_2307cd
स पौरान्रोद्ययन्नङ्के छिन्नाङ्गुल्यङ्कमुद्वहन् । KRT_8_2308ab
युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ KRT_8_2308cd
न्यधत्ताश्वयुजाशुक्लपञ्चदश्यां महीपतिः । KRT_8_2309ab
एकादशेशब्दे तं रक्षियुतं नवमठान्तरे ॥ KRT_8_2309cd
त्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः । KRT_8_2310ab
पार्श्वं जगाम कारुण्याच्चरणस्पर्शनार्थिनः ॥ KRT_8_2310cd
अवादीदर्थितं तस्मै प्रतिश्रुश्रुवुषेभ्यम् । KRT_8_2311ab
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्ठकौ ॥ KRT_8_2311cd
राजा निर्जग्मुषः स्वोर्वीं कोष्ठकस्याथ बन्धनम् । KRT_8_2312ab
विधित्सुः पञ्चषानाप्तान्रिह्लणादीनचूचुरत् ॥ KRT_8_2312cd
सर्वेषु गलितौजःसु स्वयं राज्ञ्युद्यमस्पृशि । KRT_8_2313ab
अथ तं रिल्हणो दोर्भ्यां झषं ग्राह इवाग्रहीत् ॥ KRT_8_2313cd
हृतशस्त्रः स बलिनस्तस्य दोष्पञ्जरान्तरे । KRT_8_2314ab
तस्थावचेष्टो निद्रान्धो भूतेनेवासनीकृतः ॥ KRT_8_2314cd
भ्रातृव्यो भिःख1राजाख्यः कुलराजस्य कोपनः । KRT_8_2315ab
भूभृद्भक्त्या कृपाण्यास्य निर्विभेद कृकाटिकाम् ॥ KRT_8_2315cd
परश्वधेन मूर्ध्न्येनं पृथ्वीपालश्च ताडयन् । KRT_8_2316ab
राजबीजी स च क्रोधान्न्यषिध्यत महीभुजा ॥ KRT_8_2316cd
कृकाटिकास्थिसंजातमर्मवेधोपचेष्टितः । KRT_8_2317ab
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ KRT_8_2317cd
महाबलैः कमलियप्रमुखैस्तस्य सोदरः । KRT_8_2318ab
चतुष्कः पातितोप्युर्व्यां गण्डशैल इव द्विपैः ॥ KRT_8_2318cd
विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ1 तथा । KRT_8_2319ab
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ KRT_8_2319cd
उच्चावचेषु प्रहरन्स भूपालोपजीविषु । KRT_8_2320ab
अतर्क्यमाणस्तुमुलं राज्ञैवालक्ष्यतापतत् ॥ KRT_8_2320cd

2293.

--1) A माऽयं.

2300.

--1) Emended; A जनाः.

2304.

--1) A ॰वालि॰.

2315.

--1) A भि X ख॰.

2319.

--1) Emended with C; A स्वामिनो.

[page 251]




नृपान्तिकादापततस्तांस्तान्घ्नन्तं महाभटान् । KRT_8_2321ab
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ KRT_8_2321cd
प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् । KRT_8_2322ab
निहन्तुं संरुरोधेव भित्तौ व्यायामवित्स तम् ॥ KRT_8_2322cd
अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् । KRT_8_2323ab
तस्थौ च बहुसंधानः संस्तभ्यैन1मविक्षतम् ॥ KRT_8_2323cd
चरणास्फालनोत्फालदोःशब्दमुखरोन्तिकम् । KRT_8_2324ab
धाविते पद्मराजेथ मल्लकोक्षिपदीक्षणम् ॥ KRT_8_2324cd
प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ वक्षसि । KRT_8_2325ab
प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ KRT_8_2325cd
तौ बिज्जराजे1 दर्पोष्णनिबिडे प्रहरत्युभौ । KRT_8_2326ab
तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ KRT_8_2326cd
स त्रीनप्यभियोक्तॄंस्त्यक्त्वा दृक्पथमागतम् । KRT_8_2327ab
चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ KRT_8_2327cd
लक्षीभूते नृपे शीघ्रमनुधावन्ससंभ्रमम् । KRT_8_2328ab
चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ KRT_8_2328cd
ततः सर्वैर्वृतो योधैः क्लीबाकीबान्स सत्वरम् । KRT_8_2329ab
हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ KRT_8_2329cd
जीवद्व्यापद्गतस्वामिवीक्षितः श्लाघ्यविक्रमः । KRT_8_2330ab
स एवास्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ KRT_8_2330cd
बहिः कोष्ठकभृत्येषु विद्रुतेष्वदरिद्रताम् । KRT_8_2331ab
परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ KRT_8_2331cd
निरायुधो राजभृत्याद्भृत्वैकस्मात्परश्वधम् । KRT_8_2332ab
स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ KRT_8_2332cd
यियासोस्तस्य चण्डांशुमण्डलं परशुः करे । KRT_8_2333ab
सुष्म्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ KRT_8_2333cd
नाद्राक्ष्म नाश्रौष्म वापि बद्धे भर्तरि यत्तदा । KRT_8_2334ab
कोष्ठकस्य वधूरन्वतिष्ठन्मानवती सती । KRT_8_2334cd
जीवन्भूयोपि लभेत त्वया स पतिरित्यसौ । KRT_8_2335ab
बधूनामवधीर्योक्तिं प्राविशद्यद्दुताशनम् ॥ KRT_8_2335cd
सप्तर्षियोषिदाश्लेषतर्षकिल्विषदूषितः । KRT_8_2336ab
तस्याः सतीलोकगायाः पादाभ्यां पावितोनलः ॥ KRT_8_2336cd
वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा । KRT_8_2337ab
शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ KRT_8_2337cd
लवन्यललनाः कुर्युर्वैधव्येपि धनेच्छया । KRT_8_2338ab
ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ KRT_8_2338cd
मतिव्यामोहनिर्व्यूढवैक्लव्यस्याभिमानिनः । KRT_8_2339ab
तयानुगाभ्यां च कृतं कोष्ठकस्योच्चकैः ॥ KRT_8_2339cd
रूढव्रणोपि क्रिमिसाद्भूतः कैरपि किल्विषैः । KRT_8_2340ab
निष्प्राणो गणरात्रेण कारायां कोष्ठकोभवत् ॥ KRT_8_2340cd
अथ चित्ररथः शोषकृशः कलुषितं नृपम् । KRT_8_2341ab
श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्तदुःस्थितः ॥ KRT_8_2341cd
पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती । KRT_8_2342ab
परलोकातिथिः पूर्वं विभवप्रतिभूरभूत् ॥ KRT_8_2342cd
देहे याप्यहताप्याये गेहे गतपरिग्रहे । KRT_8_2343ab
पत्यौ वैमत्यकलुषे नेषदप्येष पिप्रिये ॥ KRT_8_2343cd
तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् । KRT_8_2344ab
इति संचिन्त्य स प्रायान्मिषान्मर्तुं सुरेश्वरीम् ॥ KRT_8_2344cd
अथ नानार्थभूयिष्ठां धाधीशाधिकश्रियः । KRT_8_2345ab
स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ KRT_8_2345cd
कनकांशुकसंनाहवाजिरत्नायुधादिभिः । KRT_8_2346ab
स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥ KRT_8_2346cd
लोहरद्रोहधर्मोष्मशोषितो राजपादपः । KRT_8_2347ab
तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ KRT_8_2347cd
विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः । KRT_8_2348ab
वनवासोचितत्रासः शाल्वः सौभमि1वात्यजत् ॥ KRT_8_2348cd
श्वेतच्छत्त्रांशुपृक्तेव चिन्तापाण्डुरवर्तत । KRT_8_2349ab
बन्दीकृता नरेन्द्रश्रीर्निर्निद्रा यस्य मन्दिरे ॥ KRT_8_2349cd

2323.

--1) Emended with C; संष्तम्भ्यैनं.

2326.

--1) Emended; A बिज्जराजो.

2348.

--1) Emended; A साल्वः सौ-- मिवा॰; C सालूरोऽन्धुमिवा॰.

[page 252]




राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः । KRT_8_2350ab
तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ तिलकम्1 KRT_8_2350cd
इत्थं स पप्रथे तादृक्प्रजापालनशालिनः । KRT_8_2351ab
सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ KRT_8_2351cd
तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ । KRT_8_2352ab
शृङ्गारजनकावास्तां तद्भृत्यौ व्यक्तचक्रिकौ ॥ KRT_8_2352cd
प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ । KRT_8_2353ab
शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ KRT_8_2353cd
चिरप्रचलितं द्वारमुदये निदधे पुनः । KRT_8_2354ab
मेघकालः सरित्परं प्रतीर इव पार्थिवः ॥ KRT_8_2354cd
अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् । KRT_8_2355ab
कथाशेषोभवच्चित्ररथो मासैरथाष्टभिः ॥ KRT_8_2355cd
हास्यावहोप्यविकृतो विकृतोनपास्यो दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः । KRT_8_2356ab
पूर्वानुभावजयिनो भवति प्रभावाद्यस्य स्तुमस्तमतिसंस्तवमप्रतर्क्यम् ॥ KRT_8_2356cd
निन्द्यैराद्यूतनाद्यैर्यश्चेष्टितैः प्रागभीष्टताम् । KRT_8_2357ab
बाल्ये दुर्ललितस्वागाद्भूभर्तुश्चित्रचेतसः ॥ KRT_8_2357cd
विसृज्यमानः संप्राप्तसाम्राज्येन दिवानिशम् । KRT_8_2358ab
क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ KRT_8_2358cd
दूत्यैः कृत्यान्तरज्ञत्वं प्राप्तवाचाप्ततां गतः । KRT_8_2359ab
तदन्ते घटयन्राज्ञस्तद्भृत्यान्कोशदर्शकान् ॥ KRT_8_2359cd
तदा सर्वोन्नताशेषमन्त्रिशून्ये नृपास्पदे । KRT_8_2360ab
सज्जकस्यात्मजः प्राप शृङ्गारो मुख्यमन्त्रिताम् ॥ चक्कलकम्1 KRT_8_2360cd
तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृतम्1 KRT_8_2361ab
नायुः2 पात्रार्पणात्तुच्छत्वागित्वेनापि संपदः ॥ KRT_8_2361cd
योषित्कशिपुभोग्येन धन्यंमन्योपि सोभवत् । KRT_8_2362ab
धान्यदानवदान्य1त्वं गुरूणामाजगाम यत् ॥ KRT_8_2362cd
पीठं कृतवतो रूप्यं1 संयोज्य रजतैर्निजैः । KRT_8_2363ab
विद्यमानं सुरेश्वर्यां सायुज्यं तस्य युज्यते ॥ KRT_8_2363cd
उर्वीशैरपि नार्वाग्भिर्योनुगन्तुमशक्यत । KRT_8_2364ab
आषाढ्यामाद्यसंभारो निबिडद्रविणव्ययः ॥ KRT_8_2364cd
नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चप्पकादिभिः । KRT_8_2365ab
तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ KRT_8_2365cd
नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् । KRT_8_2366ab
अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ KRT_8_2366cd
केलीसज्जैर्युवतिकरजैः कण्ठभूषादशायां यस्याज्ञायि त्रुटनमसकृत्क्ष्माधरेष्वासकृष्टौ । KRT_8_2367ab
सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं च भोगी शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ KRT_8_2367cd
तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् । KRT_8_2368ab
कार्यं जनकशृङ्गारावुत्कोचेनापजह्रतुः ॥ KRT_8_2368cd
कदाचिज्जनकं बद्ध्वा सार्धं भूषणमौक्तिकैः । KRT_8_2369ab
सपुत्रदारं शृङ्गारो1 बाष्पबिन्दूनमोचयत् ॥ KRT_8_2369cd
स तं च जातु निर्विद्य मानहीनमकारयत् । KRT_8_2370ab
रूक्षरक्ष्या1र्पितोत्कचधनाभ्यर्थितमैथुनः ॥ KRT_8_2370cd
अङ्गुष्ठनखनिर्घर्षनर्तितानामिकोर्मिकः । KRT_8_2371ab
वदन्वामोत्तरौष्ठाग्रोदञ्चनैः कुञ्चितेक्षणः1 KRT_8_2371cd
भ्रूभङ्गोद्वेलित1वलीनिम्नोन्नतललाटभूः । KRT_8_2372ab
पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ तिलकम्2 KRT_8_2372cd
अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु । KRT_8_2373ab
हसन्सकरतालं च संपद्यन्यो व्यभाव्यत ॥ KRT_8_2373cd
सोल्लेखप्रतिभोन्नीततत्त्वानां1 हास्यवस्तुनि । KRT_8_2374ab
कथाशरीरं पर्याप्तं नेदृ2शां किमचेतसाम् ॥ KRT_8_2374cd
सर्वस्मिन्वस्तुतोवाचि काले विगतयोग्यते । KRT_8_2375ab
जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगर्ह्यताम् ॥ KRT_8_2375cd
यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः । KRT_8_2376ab
धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ KRT_8_2376cd

2350.

--1) A4 3.

--1) A1 4

--1) Emended; A दुष्कृताम्.

--2) Thus A; R G C नातः.

2362.

--1) A ॰ददन्य.

2363.

--1) Emended with C; A रुप्यं.

2369.

--1) Emended; A शृङ्गारं.

2370.

--1) Thus A; C emends रूक्षरक्षा॰.

2371.

--1) Emended; A कु-- तेक्षणः; C कुरुते क्षणः.

2372.

--1) Thus A; perhaps read with C ॰द्वेल्लित॰.

--2) A1 3.

2374.

--1) Emended; A ॰त्त्वरां.

--2) Emended; A न दृशां.

[page 253]




लब्धबोधिरिवारेर्यश्चक्रे व्यापद्युपक्रियाम् । KRT_8_2377ab
दावप्रदस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ KRT_8_2377cd
गुरुसूरिद्विजानाथप्रभृत्युचितायापि यः । KRT_8_2378ab
प्रतिपत्त्या संविभेजे संविभाग्यकुटुम्बकम् ॥ KRT_8_2378cd
प्रासादान्विजयेशादिदेवव्रातस्य शुद्धधीः । KRT_8_2379ab
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ KRT_8_2379cd
मठदेवगृहारामह्रदकुल्यादियोजने । KRT_8_2380ab
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ KRT_8_2380cd
सकृद्दर्शितविद्वेषकार्यः सब्रह्मचारिणाम्1 KRT_8_2381ab
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ KRT_8_2381cd
विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसंप्रीणनप्रायं कृत्यमुदात्तमेकसमयोपात्तेन दुष्कर्मणा । KRT_8_2382ab
स्वःसिन्धोर्लघुतां गतं सगर1जश्रेणीचितास्पर्शना -- 2ता येन जनाः श्मशानमिव सा योग्या किलास्थ्नां स्हितौ ॥ KRT_8_2382cd
तदन्तरे1 शिवरथो द्विजः प्रचुरचक्रिकः । KRT_8_2383ab
कायस्थपाशः पाशेन गलं बद्ध्वा व्यपद्यत ॥ KRT_8_2383cd
इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् । KRT_8_2384ab
अपेतविघ्नं सौजन्यनिघ्नो व्यधित मण्डलम् ॥ KRT_8_2384cd
विपक्षावरणापायप्रायेण पृथ्वीभुजः । KRT_8_2385ab
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ KRT_8_2385cd
परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः । KRT_8_2386ab
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ KRT_8_2386cd
प्रावर्तयत सातत्यात्क्रतून्विततदक्षिणान् । KRT_8_2387ab
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ KRT_8_2387cd
संविभेजे स्वसंभारैः स क्रिया धर्मचारिणाम् । KRT_8_2388ab
तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ KRT_8_2388cd
प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् । KRT_8_2389ab
तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ KRT_8_2389cd
दारूणामाकराः कशवृ1द्धये ये धराभुजाम् । KRT_8_2390ab
नवीचक्रे पुरं सर्वं स्वाधीनान्स विधाय तान् ॥ KRT_8_2390cd
मज्जतो राजकार्येषु तत्त्वविद्भिर्हरार्चने । KRT_8_2391ab
विस्मितैर्वीक्ष्यते तस्य काष्ठा मुनेरिव ॥ KRT_8_2391cd
प्राह्णादारभ्य साहाह्नपर्यन्तः चास्य दृश्यते ॥ KRT_8_2392ab
न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः । KRT_8_2392cd
अविचारान्धतमसे विद्या व्यद्योततान्तरा । KRT_8_2393ab
जयापीडादिमेघश्रीसौदामन्या विलोलया ॥ KRT_8_2393cd
तेन श्रियं तु विश्राण्य स्थास्नुं रत्नप्रभामिव । KRT_8_2394ab
गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ KRT_8_2394cd
तूरयो येन -- -- --1 विक्षतक्षेत्रसंपदाम् । KRT_8_2395ab
ग्रामाणामाग्रहार्थेन्दु2 सान्वयाः स्वामिनः कृताः ॥ KRT_8_2395cd
विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः । KRT_8_2396ab
व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ KRT_8_2396cd
प्रतिभाप्रभवे प्रज्ञोपज्ञे च पथि पान्यता । KRT_8_2397ab
सार्थवाहं तमालम्ब्य विर्दोषा विदुषां स्थिता ॥ KRT_8_2397cd
आसीद्यथार्यराजस्य शयानस्याप्यतिप्रियः1 KRT_8_2398ab
कामं लिङ्गाभिषेकाम्भःसंक्षोभप्रभवो ध्वनिः ॥ KRT_8_2398cd
निद्राणस्य तथा वेणुवीणादिपरिहारिणः । KRT_8_2399ab
दयितं तस्य निर्द्वेषविद्वज्जल्पविकल्पनम् ॥ KRT_8_2399cd
काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् । KRT_8_2400ab
सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ KRT_8_2400cd
मठदेवगृहेष्वेव1 स्वकालप्रभवेषु यत् । KRT_8_2401ab
सर्वेष्वेव कृता तेन निर्व्यपाया व्यवस्थितिः ॥ KRT_8_2401cd
रत्नदेव्या दृढारूढभर्तृवल्लभताभुवः । KRT_8_2402ab
सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ KRT_8_2402cd
रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ । KRT_8_2403ab
बभूव पूर्वपथिकः समस्तामात्यसंततेः ॥ KRT_8_2403cd

2384.

--1) A ॰कार्यसन्नह्यचारिणा, evidently corrupt; emendation doubtful.

2382.

--1) Conjectural reading; A सरगज॰; C सुरगज॰.

--2) Thus A; perhaps read ॰स्पर्शनात्पूता; C ॰नात् जाता.

2383.

--1) Emended; A ॰न्तरं.

2390.

--1) A कोष॰.

2392.

--1) A सायाह्ण॰.

2395.

--1) A1 indicates a lacuna of three aksharas; C supplements संग्रामे.

--2) Emended with G (sec. manu); A ॰ग्रहा X कन्दु.

2328.

--1) Emended; A ॰व्यतिश्रियः; cf. the passage ii. 126, to which evidently reference is made here.

1401.

--1) Perhaps read ॰ष्वेकं.

[page 254]




तपोधनांल्ल1ब्धवर्णान्धर्मवृद्धांश्च शुद्दधीः । KRT_8_2404ab
विस्रम्भभवनस्योपि शक्तस्त्यक्तुं न यः कश्चित् ॥ KRT_8_2404cd
कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः । KRT_8_2405ab
धर्मकन्याविवाहैश्च यस्याशून्यत्वमायुषः ॥ KRT_8_2405cd
सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना । KRT_8_2406ab
सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः ॥ KRT_8_2406cd
भोगान्बुभुजिरे भव्यान्सत्त्रे सूत्रितविस्मये । KRT_8_2407ab
यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ KRT_8_2407cd
अग्रहारगणोदग्रैर्विततैर्मठसेतुभिः । KRT_8_2408ab
पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ KRT_8_2408cd
आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः । KRT_8_2409ab
प्राप्तः प्रतिष्ठाप्रष्ठत्वं यत्कृतो रिल्हणेश्वरः ॥ KRT_8_2409cd
लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् । KRT_8_2410ab
1लेरकप्रपास्थाने विहारस्तेन कारितः ॥ KRT_8_2410cd
मार्जार्यास्तिर्यगुचितस्नेहविस्मृत्यपोहतः । KRT_8_2411ab
मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥ KRT_8_2411cd
तद्भर्तुरीर्ष्याकालुष्ये तस्या दूराग्रगा पुरः । KRT_8_2412ab
प्रदेशे मानुषीवासीत्प्रिया क्रीडाविडालिका ॥ KRT_8_2412cd
तीर्थप्रस्थानदिवसादारभ्यास्था विराविणी । KRT_8_2413ab
उत्सृ1जन्त्याहृतं भोज्यं सा शुचा जीवितं जहौ ॥ KRT_8_2413cd
आरोहति परां काष्ठां प्रतिष्ठाविधाध्वना । KRT_8_2414ab
दिद्दा नृपतिपत्नीषु मन्त्रिस्त्रीषु तु सुस्सला ॥ KRT_8_2414cd
श्रीचङ्कुणविहारं या यातं नामावशेषताम् । KRT_8_2415ab
अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ KRT_8_2415cd
अरघट्टप्रबन्धान्धुच्छात्त्रशालादिकर्मभिः । KRT_8_2416ab
तस्याः संपूर्णतां पुण्यप्राकारा निखिला गता ॥ KRT_8_2416cd
पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् । KRT_8_2417ab
तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ KRT_8_2417cd
प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया । KRT_8_2418ab
विपत्तिः श्रीसुरेश्वर्यां प्राज्यसायुज्यदूतिका ॥ KRT_8_2418cd
मठाग्रहारा धन्येन बल्लभाभिधया कृताः । KRT_8_2419ab
नाभीष्टं लेभिरे नाम ख्यातिः पुण्यैर्विना कुतः ॥ KRT_8_2419cd
अग्रहारमठांस्तद्वदुदयः कम्पनापतिः । KRT_8_2420ab
कृत्वापि स्वाभिधामेव तत्संबद्धां सदाशृणोत् ॥ KRT_8_2420cd
उदयद्वारपतिना सह ब्रह्मपुरीगणैः । KRT_8_2421ab
कृते प्रष्टे मठे शोभां लेभे पद्मसरस्तटः ॥ KRT_8_2421cd
शृङ्गारतन्त्रपतिना श्रीद्वारेप्यजन्मना । KRT_8_2422ab
प्रत्यष्टापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ KRT_8_2422cd
स्नानकोष्ठमठब्रह्मपुरीसेत्वादिकर्मणा । KRT_8_2423ab
सोलंचकारालंकारो बृहद्गञ्जाधिपो धराम् ॥ KRT_8_2423cd
बुधः सस्दौषधीशान्तिहेतोर्जातः कलावतः । KRT_8_2424ab
यः कविर्दानवत्त्वं च ख्यातस्त्यागेन योजयत् ॥ KRT_8_2424cd
नृसिंहसेवी निर्हिंसहिरण्यकशिपुप्रदः1 KRT_8_2425ab
वराजसमये दत्तगौश्च योपूर्ववैष्णवः ॥ KRT_8_2425cd
भट्टारकमठाभ्यर्णे पूर्णवार्धाविव प्रहिः । KRT_8_2426ab
मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ KRT_8_2426cd
सांधिविग्रहिको दार्वाभिसारोर्वीभुजोकरोत् । KRT_8_2427ab
अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ KRT_8_2427cd
पुष्पाकरप्रणयभूः सुभगा विभूतिरेकस्य हन्त करवीरतरेर्द्रुमेषु । KRT_8_2428ab
पुष्पाणि यस्य सफलीकुरुते स्वयं तत्प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ KRT_8_2428cd
विभूत्या संविभक्तेषु भूभुजाखिलमन्त्रिषु । KRT_8_2429ab
उत्कर्ष1कोटिं भुट्टाख्यः परं जल्हानुजोर्हति ॥ KRT_8_2429cd
स्वयंभूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् । KRT_8_2430ab
ज्येष्ठरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ KRT_8_2430cd
सविहारमठोदग्रवेश्मभिः कलुषोज्झितम्1 KRT_8_2431ab
तेन तत्र कृतं भट्टपुराख्यं पुटभेदनम् ॥ KRT_8_2431cd

2404.

--1) Emended with C; A तपोधनाल्ल॰.

2410.

--1) Thus A; cf. vii. 1239, where बलेरकप्रपा॰.

2413.

--1) Emended with C; A उत्सज॰.

2414.

--1) Emended; A ॰धुना.

2425.

--1) Doubtful emendation; A ॰कशिपुदः. withput indicating the lacuna; C ॰कशिपुच्छिदः.

2429.

--1) Emended; A षोज्झितः.

[page 255]




नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः । KRT_8_2432ab
सरश्च मडवाग्रामे धर्मविभ्रमदर्पणः ॥ KRT_8_2432cd
नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः । KRT_8_2433ab
रत्नादेव्या दृढं चक्रे स्वार्थग्रथनसुस्थिरा ॥ KRT_8_2433cd
रत्नापुरे बहुद्वारमहार्धे निरघो मठः । KRT_8_2434ab
धत्ते सुकृतसंहस्य स्फीनवीतंसविभ्रमम् ॥ KRT_8_2434cd
मृत्युंजयो राजतेस्याः सुधाधौतान्भजन्गृहान् । KRT_8_2435ab
जनस्यानित्यतोच्छित्त्यै श्वेतद्वीपं सृजन्निव ॥ KRT_8_2435cd
गोकुलानां विधातारो गोकुले विहिते तया । KRT_8_2436ab
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ KRT_8_2436cd
गवामव्याहतस्वैरसंचारचरकाञ्चिते । KRT_8_2437ab
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ KRT_8_2437cd
मुकुन्दस्तत्र साश्चर्यसौन्दर्यौदार्यमन्दिरम् । KRT_8_2438ab
अश्वा गोवर्धनधरः सिद्धो ना विश्वकर्मणः1 KRT_8_2438cd
मठ -- -- -- कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् । KRT_8_2439ab
-- -- जयवनाद्येषु स्थानेषु च मनोरमान्1 KRT_8_2439cd
दा1र्वाभिसारे2प्युर्वीसुन्दरौदार्यमन्दिरम् । KRT_8_2440ab
स्वनामाङ्कं पुरं चक्रे तया शक्रपुरोपमम् ॥ KRT_8_2440cd
उद्दिश्योपरतान्मान्यमहत्तरमुखानपि । KRT_8_2441ab
प्रतिष्ठा विविधाश्चक्रे सा राज्ञ्याश्रितवत्सला ॥ KRT_8_2441cd
एवं सर्वाङ्गमामुक्तालंकृतेरथ स क्षितेः । KRT_8_2442ab
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ KRT_8_2442cd
अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा । KRT_8_2443ab
तज्ज्ञैरारोपितः ख्यातिं मुख्यः सिंहपुराख्यया ॥ KRT_8_2443cd
व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्विजान् । KRT_8_2444ab
निविडान्द्रविडांश्चात्र प्राक्सिद्धच्छन्नमध्यगान् ॥ KRT_8_2444cd
किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः । KRT_8_2445ab
भूयः सग्राम1नगरं कृत्स्नं कश्मीरमण्डलम् ॥ KRT_8_2445cd
जीर्णारण्यसधर्मायं कालदौरात्म्यतो भवन् । KRT_8_2446ab
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ KRT_8_2446cd
आरम्भात्प्रभृति क्ष्मापे दीक्षितेभीष्टदत्तिषु । KRT_8_2447ab
शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ KRT_8_2447cd
सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा । KRT_8_2448ab
साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ KRT_8_2448cd
अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः । KRT_8_2449ab
नष्टेषु शालिषु क्षीणं1 सुभिक्षं तत्र न क्षणे ॥ KRT_8_2449cd
अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् । KRT_8_2450ab
केत्वाद्युत्पातजातं राज्ञा निन्येन्तका1न्तिकम् ॥ KRT_8_2450cd
कोष्ठेश्वरानुजश्छुड्डनामा विहितविप्लवः । KRT_8_2451ab
आहवैर्गूढदण्डैश्च राज्ञा निन्येन्तका1न्तिकम् ॥ KRT_8_2451cd
चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः । KRT_8_2452ab
प्रयोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ KRT_8_2452cd
प्रजेशान्1कान्यकुब्जादावजर्येण नृपार्यमा । KRT_8_2453ab
स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ KRT_8_2453cd
विद्योतमाने निश्चाद्यैस्तत्रैवमेकदा । KRT_8_2454ab
भेजे जीवितदारिद्र्यं दरद्राजो यशोधरः ॥ KRT_8_2454cd
स भूम्यनन्तरोप्यन्तराज्ञो राज्ञोतिसेवया । KRT_8_2455ab
विपत्तौ प्रकृतिक्रान्तसंतानश्चिन्त्यतामगात् ॥ KRT_8_2455cd
निकृत्यास्य निजामात्यो विड्डसीहाभिधो यतः । KRT_8_2456ab
संभुज्य दयितां राज्यमप्रौढतनयेग्रहात् ॥ KRT_8_2456cd
वशीकृत्य शनैर्देशं नाममात्रनृपं शिशुम्1 KRT_8_2457ab
उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ KRT_8_2457cd
अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् । KRT_8_2458ab
तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ युग्मम्1 KRT_8_2458cd

2438-- 2439.

--1) The last two of verse 2438 and the following verse are found in the above, mutilated form in A at the foot of fol. 290, having been added subsequently by A1; C reads: मठप्रतिष्ठां कृत्वा सा नन्दिक्षेत्रेऽकरोत् स्थितिं । विहारान् यवनाद्येषु स्थानेषु च मनोरमान्.

2440.

--1) The first two of this verse have been subsequently added by A1 at the top of fol. 291.

--2) Emended; A दार्वासारे; C दार्वागारेष्वप्यू॰.

2445.

--1) Emended; A सङ्ग्राम.

2449.

--1) Thus A1 originally; corr. by A1 to शालिष्वक्षीणं.

2451.

--1) Emended with C; A निन्येन्तिका॰.

2453.

--1) A प्रजेशा X का॰.

2458.

--1) A1 2.

2457.

--1) Emended; A ॰मात्रशिशुं नृपम्;

[page 256]




काश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति । KRT_8_2459ab
उत्सृज्य सञ्जपालादीन्सर्वकार्यभरक्षमान् ॥ KRT_8_2459cd
देवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः । KRT_8_2460ab
सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम् ॥ KRT_8_2460cd
पर्युकाजर्यतः साञ्जे1रप्रौढमनुजं निजम् । KRT_8_2461ab
प्रहिण्वतोनुमन्त्रित्वं मन्त्रज्ञोप्यभजन्नृपः ॥ तिलकम्2 KRT_8_2461cd
अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः । KRT_8_2462ab
क्व सर्वंकषनिष्कम्पप्रतिभाः कार्यवेदिनः ॥ KRT_8_2462cd
क्व बालबा1लिशप्रायो नष्टव्यवहृतिर्जनः । KRT_8_2463ab
धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ युग्मम्2 KRT_8_2463cd
कार्यापेक्षविपक्षैः स्वैरिच्छन्त्युद्रिक्तताच्छिदाम् । KRT_8_2464ab
सैन्यक्ष्मादुर्गकोशादेर्न -- 1शन्त्यन्तरज्ञताम् ॥ KRT_8_2464cd
प्रक्रियामात्रतो मन्त्रं गृह्णन्ति क्षित्यनन्तराः । KRT_8_2465ab
कृतसाहायकैरेव चिन्त्या मित्रमुखा द्विषः ॥ KRT_8_2465cd
युक्त्यारब्धविधौ तत्र वैरिसाहायकग्रहे । KRT_8_2466ab
क्व वैधेया बकप्रायाः1 कार्यसंदर्भवेदिनः ॥ KRT_8_2466cd
दरद्राजद्रुमोन्योन्यभेद1कूलक्षयाच्च्युतः । KRT_8_2467ab
क्रष्टुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ KRT_8_2467cd
पर्युकात्संकटे कार्ये तं तमुत्कोचमिच्छतः । KRT_8_2468ab
स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ KRT_8_2468cd
पर्युकेण समं विड्डसीहः संधिं निबद्धवान् । KRT_8_2469ab
यथागतं गते सौज्जौ1 कश्मीरेन्द्रेग्रहीद्रुषम् ॥ KRT_8_2469cd
सर्वाधिकारप्रवगाचिरसंचारभूरुहः । KRT_8_2470ab
प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ KRT_8_2470cd
आ लक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया । KRT_8_2471ab
वृत्त्या ततस्तु शतधा निर्झराम्भ1 इवाभवत् ॥ KRT_8_2471cd
अन्येप्यमात्याः सांमत्याद्भर्तुर्माहात्म्यभागिनः । KRT_8_2472ab
प्रमयं समये तस्मिन्दैवात्किमपि लेभिरे ॥ KRT_8_2472cd
प्रशंसामानृशंसस्य किं विदध्मो धराभुजः । KRT_8_2473ab
मृतामात्यार्भका1पत्यं निधत्ते यः पितुः पदे ॥ KRT_8_2473cd
प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिरद्भुता । KRT_8_2474ab
निर्वैलक्ष्याः प्रभोर्लक्ष्मीं जह्रुः स्वगृहिणीमिव ॥ KRT_8_2474cd
भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् । KRT_8_2475ab
संतानस्य विभूत्यर्थं कृत्वा कार्यं हि तेहरन् ॥ KRT_8_2475cd
गञ्जाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् । KRT_8_2476ab
एकेन सहजाख्येन सहायानां महार्घता ॥ KRT_8_2476cd
नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः । KRT_8_2477ab
स्वामिसूनोष्टिष्टनाम्नो बुद्ध्यै साहायकं व्यधात् ॥ KRT_8_2477cd
निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः । KRT_8_2478ab
धिक्परंपरया भृत्याः प्रावर्ध्यन्तेधिकाधिकम् ॥ KRT_8_2478cd
आसीदाचमनोपयोगि कलशे स्रष्टुर्जगल्लङ्घनक्लान्ताङ्घ्रिक्लमहार्यथासुररिपोस्त्रैस्रोतसं यत्पयः । KRT_8_2479ab
शंभुस्तन्निदधे स्वमूर्धनि जडेप्येकप्रयुक्तादृतौ स्युः सर्वेप्यवशा गतानुगतया गाढादराः स्वामिनः ॥ KRT_8_2479cd
सुज्जिनि1र्वासनप्राप्तप्ररोहो दुर्नयद्रुमः । KRT_8_2480ab
साज्जिजाद्धकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ KRT_8_2480cd
द्वित्राः समाः समन्युः स विड्डसीहस्ततोभवत् । KRT_8_2481ab
अकुण्ठराज्याद्युत्कण्ठं दूतैरकृत लोठनम् ॥ KRT_8_2481cd
दूरादख1ण्डितोत्थानः शूरमाश्रित्य भूपतिम् । KRT_8_2482ab
जीव2न्कृषिवणिज्यादिकर्मणा स सबान्धवः ॥ KRT_8_2482cd
दरदां मन्त्रिणां जातज्ञातेयैरभियोगभाक् । KRT_8_2483ab
चक्रेलंकारचक्राद्यैर्डामरैः सह चक्रिकाम् ॥ युग्मम्1 KRT_8_2483cd
सो1प्यद्रिदुर्गस्वाम्यस्य प्रथमप्रस्हितौ सुहृत् । KRT_8_2484ab
क्षुद्रो जनकभद्राख्यः पार्श्वं लिप्सोर्व्यपद्यत ॥ KRT_8_2484cd
कर्णाढकादावभवत्स्थाने स्थाने विलोक्य तम् । KRT_8_2485ab
प्रस्थितं कस्यचिद्द्रोहे बुद्धिः कस्यापि साधुता ॥ KRT_8_2485cd

2461.

--1) Emended; A सज्जे॰.

--2) A1 3.

2463.

--1) A ॰वालि॰.

--2) Thus A; perhaps read विशन्त्यन्त॰; C न शंसन्त्य॰.

2466.

--1) Emended; A apparently वैधेयान्बकप्रायान्कार्य॰, as read in R. C.

2467.

--1) Emended; A ॰न्योन्यं भेद॰.

2469.

--1) Emended; A सज्जौ.

2491.

--1) Emended with G (sec. manu); A निर्भरा.

2473.

--1) Emended with C; A ॰मात्यर्भका॰.

2480.

--1) Emended; A सुज्जिर्नि॰.

2482.

--1) A दूरा -- खण्डि॰.

--2) Emended; A जीवत्कृषि॰.

2483.

--1) A1 2.

2484.

--1) Doubtful emendation; A साप्यद्रि॰.

[page 257]




तं तथा विपुलारम्भमपि शाद्यादसंभ्रमम् । KRT_8_2486ab
प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः ॥ KRT_8_2486cd
पोषिते प्रेषितश्रीकैरुत्पिञ्जे विप्लवैषिभिः । KRT_8_2487ab
अथोदयद्रारपतिः प्रैषि विश्वंभराभुजा ॥ KRT_8_2487cd
संगृह्णता चमूस्तेन1 पुरे शंकरवर्मणः । KRT_8_2488ab
प्राप्तोलंकारचक्रस्य पार्श्वमश्रावि लोठनः ॥ KRT_8_2488cd
अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः । KRT_8_2489ab
भोजः सल्हण1जन्मा च श्रुतौ तेन सहागतौ2 KRT_8_2489cd
अथोपह -- -- त्था1न एव तेषां स सत्वरः । KRT_8_2490ab
मार्गं बहुदिनोल्लङ्घ्यमेकेनाह्ना व्यलङ्घयत् ॥ KRT_8_2490cd
सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् । KRT_8_2491ab
तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ KRT_8_2491cd
सिन्धोर्मधुमतीमुक्ताश्रिया अन्तः1स्थितं ततः । KRT_8_2492ab
शिरःशिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ KRT_8_2492cd
गहने ब्रुडितः कोट्टे स्थितः किं वा स इत्यसौ । KRT_8_2493ab
न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ KRT_8_2493cd
अथोपालब्धतस्द्दुर्गारोहणेस्मिन्नशङ्क्यत । KRT_8_2494ab
दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ KRT_8_2494cd
उत्थानोन्मुख्यतां सर्वेप्युत्पिञ्जे तत्र दस्यवः । KRT_8_2495ab
पाल्वलास्तिमयो वर्षपृथक्कृत इवाभजन्1 KRT_8_2495cd
तैस्त्रिल्लकादिभिर्गूढवैकृतैरथ लोठनः1 KRT_8_2496ab
पार्थ्वीहरिः2 पुनश्चक्रे मायाचतुरचाक्रिकः3 KRT_8_2496cd
पुरग्रामादिदग्धारमसाध्यमथ धावताम् । KRT_8_2497ab
पदे पदे कृच्छ्रगतं स्वपक्ष्यास्तमरक्षिषु ॥ KRT_8_2497cd
दिक्चक्रे नियतेर्भ्राम्यन्दृश्यादृश्यः स सर्वतः । KRT_8_2498ab
कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ KRT_8_2498cd
श्रान्तैरमात्यैर्निर्बन्धे संधौ कालानुरोधतः । KRT_8_2499ab
मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ KRT_8_2499cd
असंवृत्तप्रतीकारतयारोहत्सु वैरिषु । KRT_8_2500ab
तदन्तरेथ संमन्त्र्य धन्यं प्रास्थापयन्नृपः ॥ KRT_8_2500cd
तत्स्कन्धा1रोपिते कार्ये व्रीडां गच्छेत्तटस्थताम् । KRT_8_2501ab
विपर्यासमथ द्वाराधीश इत्यभ्यधाज्जनः ॥ KRT_8_2501cd
भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वयी । KRT_8_2502ab
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ KRT_8_2502cd
द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः । KRT_8_2503ab
सिद्धिं स्वस्याप्रसिद्ध्यापि वाञ्छन्हृद्योद्यमोभवत् ॥ KRT_8_2503cd
एकाकी यः किल न भजते मूढतां भर्तृकार्ये नौदासीन्यं श्रयति च रुषा वह्वधीने च तस्मिन् । KRT_8_2504ab
निर्हेवाकव्यवहृतितया साध्यसिद्धिं किलेच्छंस्तादृङ्मन्त्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ KRT_8_2504cd
पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने । KRT_8_2505ab
न्यधाद्यं षष्ठचन्द्राख्यं सोप्यारब्धै विनिर्ययौ ॥ KRT_8_2505cd
द्विबाहुकादयो मुख -- -- --1ः सह गायकैः । KRT_8_2506ab
धन्यमेवान्वयुर्बाह्याश्चान्ये राजोपजीविनः ॥ KRT_8_2506cd
धन्यादिषु तिलग्रामं कोटसिन्धुतटाश्रयम् । KRT_8_2507ab
अथ -- -- --1द्वारेशो द्रङ्गस्थः पृष्ठपद्धतीः ॥ KRT_8_2507cd
हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः । KRT_8_2508ab
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ KRT_8_2508cd
कुठारिकादिभिः कारुवृन्दैर्मन्दिरपद्धतीः । KRT_8_2509ab
धन्यो मधुमतीतीरे नगरस्पर्धिनीर्व्यधात् ॥ KRT_8_2509cd
निर्ध्वान्तं द्रुमसंबाधं सनिकेता वनस्थलीः । KRT_8_2510ab
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ KRT_8_2510cd
देशे भूरितुषारोग्रहिमर्तौ भाग्यसंपदा । KRT_8_2511ab
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ KRT_8_2511cd
भुवनाद्भुतसंभारप्रेषणं विजयैषिणः । KRT_8_2512ab
द्वैराज्यमीलिताज्ञेपि काले राज्ञो न खण्डितम् ॥ KRT_8_2512cd

2488.

--1) Emended; A च मूर्तेन.

2489.

--1) Emended; A सुल्हण॰.

--2) Emended with C; A ॰गता.

2490.

--1) Thus A; perhaps read अथोपहत्या उत्थान; cf. viii.2513; C अथोपचित उत्थान.

2492.

--1) Conjectural reading; A ॰श्रियरन्तस्थितं; G(sec. manu) ॰श्रिय अन्ते स्थितं.

2495.

--1) Doubtful emendation; A ॰भवन्.

2496.

--1) Comp. for this name viii. 2799.2912.3313.

--2) Emended; A पा -- हरिः; cf. viii. 2748. 2759. 2793. 2838.

--3) Emended; A ॰क्रिकैः.

2501.

--1) A तत्स्कन्दा॰.

2506.

--1) A does not indicate the lacuna; C मुख्याश्चारणैः.

2507.

--1) Thus A; perhaps read with C श्रयत्स्वगच्छद्वा॰.

[page 258]




उथान एवोपहतिं1 भये यास्यत्यगात्परम् । KRT_8_2513ab
भारोढिपीडितग्राम्याक्रन्दः क्षान्तिचरू2पमाम् ॥ KRT_8_2513cd
दीर्घप्रवासनिर्वेदाच्चलितान्द1र्शयन्नुषम् । KRT_8_2514ab
स्थास्नूंश्च तोषयन्दायैः स्थैर्यं निन्ये नृपश्चमूः ॥ KRT_8_2514cd
इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः । KRT_8_2515ab
नैवादातुमशक्यन्त कटकैः कोट्टसंशयाः1 KRT_8_2515cd
तेषां हि वीवधासारनिरोधादीनि दृप्यताम् । KRT_8_2516ab
अप्रियाणि न जातानि दैन्यदायीनि कानि चित् ॥ KRT_8_2516cd
चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् । KRT_8_2517ab
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ KRT_8_2517cd
कृषिं कृषीबलैर्वेदपाठमुत्सृज्य च द्विजैः । KRT_8_2518ab
उत्पिञ्जसज्जैर्ग्रामेषु सर्वतः शस्त्रमादधे ॥ KRT_8_2518cd
प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् । KRT_8_2519ab
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ KRT_8_2519cd
मिहि1कासंहतेः कालतूलतल्पाकृतेर्दधत् । KRT_8_2520ab
पातभीतिं जनो राजसेना शश्वदवेपत ॥ KRT_8_2520cd
इत्थं प्रत्यर्थिसामर्थ्यपरमार्थापरीक्षणात् । KRT_8_2521ab
क्ष्माभृन्मिथ्यैवमारेभे संदेहं च जयेभजत् ॥ KRT_8_2521cd
वैदग्ध्यदिग्धमनसामयमेक एव कोप्यस्ति वञ्चनविधेरुचितः प्रकारः । KRT_8_2522ab
येनात्मना किल विशङ्कितशक्तयस्ते मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ KRT_8_2522cd
प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः । KRT_8_2523ab
स्वयैव तस्य विघ्न्येत सिद्धिश्चिन्तान्धया धिया ॥ KRT_8_2523cd
विध्येदाशु शिलीमुखैः प्रवितरेत्पत्त्रैरवस्कन्दनं बध्नीयात्तदिदं गुणैः परिकरैर्मिथ्या प्रसिद्धैरिती । KRT_8_2524ab
स्याच्चेदम्बुरुहं द्विपस्य भयकृच्चिन्तासहैः साहसं प्रयूहेत ततो निजैरपघनैरप्येतदुन्मूलने ॥ KRT_8_2524cd
लोठनाद्यैर्हि कर्णाहा1न्निस्तीर्णैस्तैः कथंचन । KRT_8_2525ab
प्राप्तोलंकारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ KRT_8_2525cd
मिथैव ग्रथिता कन्था स्वयूथ्यैः कथमन्यथा । KRT_8_2526ab
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ KRT_8_2526cd
प्रत्यवस्थित्यसामर्थ्यात्ततः कोट्टं व्यसर्जयत् । KRT_8_2527ab
स राजबीजिनस्तांश्च परेद्युः स्वयमन्वगात् ॥ KRT_8_2527cd
कोट्टाद्रिः सलिलस्यान्तः कृशोधः1 पृष्ठदैर्घ्यभाक् । KRT_8_2528ab
स तैर्वैसारिण2ग्रासव्यग्रो बक इवैक्ष्यत ॥ KRT_8_2528cd
निःसामर्थ्यं तद्विलोक्य गजागारमिवागजम् । KRT_8_2529ab
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ KRT_8_2529cd
ततः शरैर्दृष1द्वैषैर्बाध्याश्चेतो विरोधिनः । KRT_8_2530ab
अर्णसो रक्षणमितो रक्ष्या यन्त्रोपला इतः ॥ KRT_8_2530cd
इत्थं स तैरभिदधद्धैर्यादा1दाय डामरः । KRT_8_2531ab
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ युग्मम्2 KRT_8_2531cd
ततः कन्दलितास्कन्दे तिलग्रामे द्विषद्बले । KRT_8_2532ab
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षामतां दधुः ॥ KRT_8_2532cd
विस्रवाविस्रुतप्रज्ञासौष्ठवो लोठनः पुनः । KRT_8_2533ab
डामरं कृत्यसंपूर्णमगूढं तमगर्हत ॥ KRT_8_2533cd
भोज1स्तूद्विजितं यन्नो द्रोहो रोहेदिति ब्रुवन् । KRT_8_2534ab
रुद्ध्वा पितृव्यं तं व्याजस्तुत्या नित्यमुपाचरत् ॥ KRT_8_2534cd
विमुखे लोठनेकुण्ठशाद्यस्तस्य तु सान्त्वनैः1 KRT_8_2535ab
मेने मन्त्रज्ञतां किंचित्सोवर्तिष्ट2 च संविदि ॥ KRT_8_2535cd
हन्यान्मां भूभृदित्येष यातेष्वेतेषु संत्यजेत् । KRT_8_2536ab
नास्मानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ KRT_8_2536cd
त्वय्यास्मासु च सर्वेषु वेष्टितेषूत्कटा द्विषः । KRT_8_2537ab
पृष्ठकोपमसंभाव्य कुतश्चिन्निश्चलोद्यमाः ॥ KRT_8_2537cd

2513.

--1) Doubtful emendation; A एवौपह -- एवोपहतभये.

--2) Emended; A ॰क्रन्दं क्षान्ति॰(the letter क्ष is of unusual shape and resembles श्श); C क्षान्तिचमू॰.

2514.

--1) Emended; A चलितां; another possible emendation would be चलिता दर्शयत्रुषम् । स्थास्नूश्च.

2515.

--1) Emended; A संशयाः.

2520.

--1) Emended with G (sec. manu); A हिमिका॰.

2525.

--1) Thus A; cf. कर्णाटका॰ viii. 2485.

2528.

--1) Emended; A कृषोधः.

--2) Emended with C; A तैर्वेसारण॰.

2530.

--1) Emended; A शरैर्द्विषद्व॰.

2531.

--1) Emended; A तैरभिदद्धैर्या॰; C तैरभिरुद्धैर्य्यावदा॰.

--2) A1. 2.

2534.

--1) Emended; A भोजं; R भोजो.

2535.

--1)Emended; A सान्त्वनेः; C सान्त्वने.

--2) Doubtful emendation; A ॰त्सवर्तिष्ट च; C ॰त्सनवर्तिष्ट सं॰.

[page 259]




यद्यद्विदध्युः सिद्ध्येत्तदेकं त्यज मामितः । KRT_8_2538ab
अन्यांल्लवन्यानानीय दरदो वा जवेन1 वः ॥ KRT_8_2538cd
बन्धनं त्वपनेष्यामि युक्तमित्युक्तवांश्च तम् । KRT_8_2539ab
डामरं विदधे किंचिदिव सांमत्यमाश्रितम् ॥ KRT_8_2539cd
विमोक्ष्यामि क्षपायां त्वामद्य श्वो1 वेति तं ब्रुवन् । KRT_8_2540ab
स त्वसंक्षी2णदाक्षिण्यो विप्रलेभे प्रतिक्षणम् ॥ KRT_8_2540cd
अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः । KRT_8_2541ab
बाह्यग्रामाहृतैरन्नैस्ते स्वहान्यत्यवाहयन् ॥ KRT_8_2541cd
दुरुदर्कमथाशङ्क्य समयं ते व्यजिज्ञपन् । KRT_8_2542ab
धन्यादयोहितैः संधिर्विधेय इति भूपतिम् ॥ KRT_8_2542cd
तैस्तैर्निमित्तैः संधानमविधेयं विदन्नृपः । KRT_8_2543ab
तानादिदेश कर्तव्यं कोट्टाट्टालकवेष्ठनम् ॥ KRT_8_2543cd
संदिदेश च दायादा वञ्चेरन्ख्यातिमागताः । KRT_8_2544ab
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ KRT_8_2544cd
भूत्वा कठोरे1प्यारम्भानिष्ठा निः2सौष्ठवा ध्रुवम् । KRT_8_2545ab
क्रियातिपत्त्युपालम्भैर्यास्यामोनुशयं3 विशाम् ॥ KRT_8_2545cd
नात्यक्षद्धर्षदेवश्चेत्सप्ताहान्युद्यमं ततः । KRT_8_2546ab
दुग्धप्रवाहं प्राप्स्यत्स1 श्रुत्वेत्यन्योपि तप्यते ॥ KRT_8_2546cd
प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः । KRT_8_2547ab
क्रियातिपत्तिर्लोकेत्र1 त्रैलोक्यं तु मुखेर्प्यते ॥ KRT_8_2547cd
पादेषु पक्षेषु च सत्सु नोर्व्यां न व्योम्नि वा पक्षपिपीलिकस्य । KRT_8_2548ab
पङ्खन्धवच्चङ्क्रमणं तु गर्ते1 किं संपदा स्यान्नियमे गतीनाम् ॥ KRT_8_2548cd
सहस्रपादस्य गत्रेनिमित्तमनूरुभावेप्यरुणः प्रजातः । KRT_8_2549ab
तस्याभविष्यद्यदि पादयुग्मं ततोधिकं तत्किमिवाकरिष्यत् ॥ KRT_8_2549cd
उपेक्ष्य साक्षितां तस्मात्कृत्स्नं कोट्टं विवेष्ट्यताम् । KRT_8_2550ab
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषाम् ॥ KRT_8_2550cd
अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तिं सातत्याद्दलयति कुलाद्रीनपि जलम् । KRT_8_2551ab
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ KRT_8_2551cd
क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः । KRT_8_2552ab
कोट्टप्रतोलीं कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ KRT_8_2552cd
कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् । KRT_8_2553ab
शरान्किरन्तः कोट्टस्था यावर्प्रैक्ष1न्त कौतुकात् ॥ KRT_8_2553cd
अधः सो1प्यूर्ध्वगान्युद्धरिनिष्पीड्य निविडैर्व्यधात् । KRT_8_2554ab
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ युग्मम्2 KRT_8_2554cd
अविश्रान्तैस्ततः संख्यैरसंख्येयश्चमूक्षयः । KRT_8_2555ab
प्रतिक्षणं प्रववृते सन्ययोरुभयोरपि ॥ KRT_8_2555cd
परेद्युः शारदां दृष्ट्वा संप्राप्तो गर्गनन्दनः । KRT_8_2556ab
संक्रन्दनपुरीपौरवृद्धिं योधैर्ह1तैर्व्यधात् ॥ KRT_8_2556cd
अलंकाराभिधो बाह्यराजस्थानाधिकारभाक् । KRT_8_2557ab
अधृष्योमानुषैर्युद्धैर्विरुद्धान्बहुधावधीत् ॥ KRT_8_2557cd
क्व भूधरचरैः स्पर्धा वसुधातलचारिणाम् । KRT_8_2558ab
तथापि पृतनायन्त्रानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ KRT_8_2558cd
अल्पीयांसः कोट्टनिष्ठा भूयिष्ठाः कटकाश्रयाः । KRT_8_2559ab
अतः पूर्वे बहून्घ्नन्तोप्यासन्कृत्याल्पया क्षताः ॥ KRT_8_2559cd
श्लिष्टद्वाराररिपटं द्वित्रैः पीडितमाहवैः । KRT_8_2560ab
मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ KRT_8_2560cd
गोप्तृभेदान्तरद्वैधमुखच्छिद्रानुसारिणः । KRT_8_2561ab
धन्यादीन्वीक्ष्य विश्वासं कोट्टस्था नोपलेभिरे ॥ KRT_8_2561cd
निद्राच्छेदार्थमन्योन्यं क्रोशन्तो नास्वपन्निशि । KRT_8_2562ab
स्वपन्तोह्नि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ KRT_8_2562cd

2538.

--1) Emended with G(sec. manu); A वा -- येन; C यवेन.

2540.

--1) Emended with C; A ह्यो.

--2) Emended with C; सत्त्वसङ्क्षी॰.

2545.

--1) A कठो -- प्या॰; C कठोरोऽप्या॰.

--2) Could be read in A also ॰निष्टान्नि॰.

--3) A ॰स्यामो -- शयं.

2548.

--1) Emended with G (sec. manu); A गर्भे.

2553.

--1) Emended; A ॰त्प्रैक्ष्यन्त.

2554.

--1) Thus A; perhaps read अधःस्थो.

--2) A1 2.

2556.

--1) Emended with G (sec. manu); A ॰पौरयोधैर्वृद्धिं हतै॰.

[page 260]




निशासु तत्तत्पृतना यामतूर्यरवैरपि । KRT_8_2563ab
चटकाः कोटरगता मेघशब्दैरिवात्रसन् ॥ KRT_8_2563cd
अहर्निशं भ्रमन्तीभिर्नौभिः संरुद्धपाथसः । KRT_8_2564ab
तान्समभ्र1मयन्सर्वप्रकारं राजसैनिकाः ॥ KRT_8_2564cd
ते रुद्धपाथसस्तर्षशोषं1 कंचिद्दिषेहिरे । KRT_8_2565ab
निःसंचारास्तु संक्षीणे भोक्तव्ये क्लैव्यमाययुः ॥ KRT_8_2565cd
बुभुक्षवः क्ष्मापयोग्यान्भोगान्भोग्येर्जितांस्ततः । KRT_8_2566ab
कदन्नरिनृपदायादा अशनाशंसनं1 व्यधुः ॥ KRT_8_2566cd
दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः । KRT_8_2567ab
भूर्भर्तुर्भोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ KRT_8_2567cd
व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् । KRT_8_2568ab
भोजं व्यधान्मध्यशृङ्गे दुर्गस्याथ स तं पृथक् ॥ KRT_8_2568cd
एकस्य वार्द्धकाद्वेश्यापुत्रत्वादपरस्य च । KRT_8_2569ab
जानन्नयोग्यतां मेने द्वैराज्यार्हं तमेव सः ॥ KRT_8_2569cd
विनामुं चानयोः सम्यक्संरम्भेरन्न वैरिणः । KRT_8_2570ab
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ KRT_8_2570cd
कान्तालंकारचक्रस्य काङ्क्षन्ती क्षयमित्वरी । KRT_8_2571ab
चक्षूरागात्षष्ठचन्द्रे सान्द्रस्नेहार्द्रतां गता ॥ KRT_8_2571cd
बहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ । KRT_8_2572ab
साल्हणेः कर्णसरणिं सर्वमन्विष्यतोन्वहम् ॥ युग्मम्1 KRT_8_2572cd
रागध्वान्तान्वितधियः प्रतिभेदभयेन सः । KRT_8_2573ab
तस्य प्रका1शयन्नेनां गन्तुं तु प्रार्थनां व्यधात् ॥ KRT_8_2573cd
क्षमावाञ्शिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् । KRT_8_2574ab
नागः सागस्यपि दधे बोधिसत्त्व इव क्रुधम् ॥ KRT_8_2574cd
प्रियामन्युः सरागेण मृथुहेतुर्महानपि । KRT_8_2575ab
हृदि विस्मर्यते पृष्ठे शरभेणेव वारणः ॥ KRT_8_2575cd
अथ प्रस्थापितो भोजः सुप्तारिशिबिरा1न्तरात् । KRT_8_2576ab
यातप्रायोप्यलंकारतनयेनानुयायिना ॥ KRT_8_2576cd
द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् । KRT_8_2577ab
व्यावृत्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥ युग्मम्1 KRT_8_2577cd
निर्भर्त्स्य1 पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् । KRT_8_2578ab
छन्नमस्थापयत्सोह्नि यात इत्यखिलान्वदन् ॥ KRT_8_2578cd
प्रोच्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः । KRT_8_2579ab
बोधितैरथ धन्याद्यैरजागार्यखिलैर्निशि ॥ KRT_8_2579cd
प्रस्थास्नुः स निशीथेथ कोट्टाट्टालाद्व्यलोकयत् । KRT_8_2580ab
जाग्रतः कटके सर्वान्परितो दीपितानले ॥ KRT_8_2580cd
प्रकाश्य वह्निना दुर्गं प्रतोलीनिर्गतो यथा । KRT_8_2581ab
पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां व्रजेत् ॥ KRT_8_2581cd
ज्वालाप्रकाशचा1ञ्चल्याद्विलोला इव रक्षिताः । KRT_8_2582ab
न्यषेधन्मूर्धकम्पेन साल्हणिं साहसाद्गृहाः ॥ KRT_8_2582cd
तद्गन्तुमक्षमं1 क्षिप्रं क्षपाप्राह्णे स डामरः । KRT_8_2583ab
अधोवातीतरच्छ्वभ्रमालिङ्गितवटाकरम् ॥ KRT_8_2583cd
क्षेमराजाभिधानेन डामरेशेन सोन्वितः । KRT_8_2584ab
शिलां वितर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ KRT_8_2584cd
आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः । KRT_8_2585ab
निर्निद्रौ पञ्चरात्रीस्तावत्यवाहयतामुभौ ॥ KRT_8_2585cd
निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः । KRT_8_2586ab
तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ KRT_8_2586cd
अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ । KRT_8_2587ab
वीक्ष्यारिकटके लक्ष्मीं पृष्ठाद्विस्मयमीयतुः ॥ KRT_8_2587cd
तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा । KRT_8_2588ab
जयसिंहप्रतापाग्निसंतापेनोपकारिता ॥ KRT_8_2588cd
षष्ठेह्नि तत्र निःशेषीभूतभोक्तव्ययोरथ । KRT_8_2589ab
क्षतक्षार इवारम्भि तुषारं वर्षितुं घनैः ॥ KRT_8_2589cd
अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा । KRT_8_2590ab
शीतासादितसादेन पाणि1पादेन सुप्तता ॥ KRT_8_2590cd

2534.

--1) Emended with C; A तान्ससम्भ्रम॰.

2565.

--1) The letter is indistinctly written; C ॰दोषं; R ॰रोषं.

2566.

--1) Emended; A ॰सनैर्व्यधुः.

2572.

--1) A1 2.

2573.

--1) Emended with C; A प्राका॰.

2576.

--1) A ॰शिविरा॰.

2577.

--1) A1 2.

2578.

--1) Emended with C; A निभर्त्स्य..

2582.

--1) Emended; A ॰प्रकाशं चाञ्च॰.

2583.

--1) Emended; A ॰क्षमः.

2590.

--1) Emended with C; A पादिपादेन.

[page 261]




तावचिन्तयतामद्य क्षुच्छीतामिहतौ ध्रुवम् । KRT_8_2591ab
पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ KRT_8_2591cd
कं पूत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् । KRT_8_2592ab
ततः पङ्कान्तरामग्नौ यूथपः कलभीविव ॥ KRT_8_2592cd
विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः । KRT_8_2593ab
आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ KRT_8_2593cd
कृतशीतप्रतीकारौ पलालानलसेवनैः । KRT_8_2594ab
दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ KRT_8_2594cd
ततोप्यभ्यधिका व्यापद्भेजे लोठनविग्रहौ । KRT_8_2595ab
अचक्षुष्यौ जनात्स्निग्धां गिरिमप्यापतुर्न यौ ॥ KRT_8_2595cd
यवकोद्रवपूपादि तयोः सतुषमश्नतोः । KRT_8_2596ab
गात्रैर्वस्त्रैश्च वैवर्ण्यं शुद्धिवन्ध्यतया दधे ॥ KRT_8_2596cd
धन्योलंकारचक्रस्य क्षीणभोज्य1स्य सर्वतः । KRT_8_2597ab
स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ KRT_8_2597cd
ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः । KRT_8_2598ab
बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ KRT_8_2598cd
दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् । KRT_8_2599ab
पापोपलिप्तच्चित्तमधर्माकीर्तिसाध्वसम् ॥ KRT_8_2599cd
भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् । KRT_8_2600ab
ख्यातिशुद्धै चिकीर्षुश्च कुशकाशावलम्बनम् ॥ KRT_8_2600cd
भृत्यस्योदयनाख्यस्य धिया प्रच्छादितं तथा । KRT_8_2601ab
ररक्ष साल्हणिं भोजं द्वौ तु दातुं स तत्वरे ॥ KRT_8_2601cd
तं विना च तयोर्भूपाद्दण्डं जानन्नसांप्रतम् । KRT_8_2602ab
अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ KRT_8_2602cd
भोज्याभा1वकृतां तस्य व्यापदं तच्च मन्त्रितम् । KRT_8_2603ab
तदा नाज्ञासिषुर्धन्यादयः संधिं विधित्सवः ॥ KRT_8_2603cd
मिषाच्चिचलिषा तेषां कस्माच्चिदभवत्ततः । KRT_8_2604ab
किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ KRT_8_2604cd
देयाविश्राणनानीकोत्थानादिपणसिद्धये । KRT_8_2605ab
भ्रातृव्यमनयद्धन्यः कल्याणमवकल्यताम् ॥ KRT_8_2605cd
प्रबन्धं निर्बध्नन्नरिमुपचरञ्छादितरुषं महाहिं संमृह्णन्नयकुटिलचेष्टं व्यवहरन् । KRT_8_2606ab
स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां भवेद्योनिर्व्यूढावपि सुदृढसंरम्भरभसः ॥ KRT_8_2606cd
दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः । KRT_8_2607ab
तदा संरम्भशैथिल्यं भूभृद्भृत्याः प्रपेदिरे ॥ KRT_8_2607cd
स सत्यं सचिवोप्राप्यः संग्रहीतुं प्रगल्भते । KRT_8_2608ab
कथाशरीरमिव योनिर्व्यूढौ कार्यमाकुलम् ॥ KRT_8_2608cd
संधिं निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः । KRT_8_2609ab
उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेवप्रतिस्थिरे ॥ KRT_8_2609cd
तद्विक्रीतमवाप्यान्नं लवन्यः कार्यमन्थरः । KRT_8_2610ab
धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रगतासवः ॥ KRT_8_2610cd
प्रतोलीकी1लितदृशः प्रार्थितागमनाशया । KRT_8_2611ab
तदहः सोभियोक्तॄंस्तानददत्तावतापयत् ॥ KRT_8_2611cd
रथाङ्गाक्रन्दिनी रात्रिस्तेषां कृच्छ्रेण धियः । KRT_8_2612ab
विना जीवितसंन्यासमन्यत्कार्यमपश्यताम् ॥ KRT_8_2612cd
प्रयत्नसंभृते कृत्ये नष्टे मन्दतया धियः । KRT_8_2613ab
अस्मत्संभावनादूरीकृतवाक्यादरं प्रभुम् ॥ KRT_8_2613cd
नष्टानुशोचनव्याजात्तत्तद्युक्त्युपहासिनः । KRT_8_2614ab
सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमन्त्रिणः ॥ KRT_8_2614cd
सद्यो यात्रातारतम्यात्ताभ्यन्तो नस्त्रपार्षणम् । KRT_8_2615ab
कार्यनिष्ठामपश्यन्तः1 कुर्युर्वेत्यपरेब्रुवन् ॥ KRT_8_2615cd
मायामेतां विहितवांस्तैः संमन्त्र्य नृपाहितैः । KRT_8_2616ab
सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ KRT_8_2616cd
अल्पेतरांस्तु संकल्पानेवं तेषां वितन्वताम् । KRT_8_2617ab
दत्तानन्ततनुज्यानिःप्रभाता सा विभावरी ॥ कुलकम्॥ KRT_8_2617cd
प्राह्णेथ राजस्थानीयोलंकारः साहसोत्सुकः । KRT_8_2618ab
डामरं कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ KRT_8_2618cd
एकाहं गमने सोढविलम्बस्तत्र वासरे । KRT_8_2619ab
लोठनं1 क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ KRT_8_2619cd

2595.

--1) Emended; A जनान्स्निग्धां.

2597.

--1) Emended; A ॰भोजस्य.

2603.

--1) Emended; A भोज्यभाव॰.

2612.

--1) Emended with G (sec. manu); A ॰केलित॰.

2615.

--1) Emended with C; A ॰पश्यन्त.

2619.

--1) Emended; A लोठने.

[page 262]




उपन्यास्यं1स्ततस्तस्य म्लानिप्रक्षालनक्षमम् । KRT_8_2620ab
मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ KRT_8_2620cd
कालः सोयं सकलजनतालोचनध्वान्तदायी नित्यालोकप्रकटनपटुः किंतु सत्क्षत्रियाणाम् । KRT_8_2621ab
अभ्रश्यामाद्भुतमसिलता स्वर्वधूसंगतापि व्यक्तं सक्तिं दिशति रभसान्मण्डलेनोष्णभानोः । KRT_8_2621cd
संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समरसीम्नि वपुस्तु हित्वा । KRT_8_2622ab
चण्डांशुमण्डलमथाभिमतानि कामं प्रेमार्द्रनिर्जरवधूक्रुचमण्डलानि ॥ KRT_8_2622cd
नास्मिन्संततवेष्टनोल्बणतलैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते । KRT_8_2623ab
क्रन्दद्बन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते नन्वेतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः ॥ KRT_8_2623cd
मार्गैः खड्गलतावितानगहनैर्यातः पिता ते दिवं भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः । KRT_8_2624ab
वंशक्षुण्णमिमं निषेव्य रभसादध्वानमुन्नद्धया वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥ KRT_8_2624cd
साम्राज्यं विधिनोपनीतमसकृत्क्लैव्येन यद्धारितं तत्रापि प्रशमोचिते वयसि यत्संचेष्टितं बालवत् । KRT_8_2625ab
प्रायश्चित्तममुष्य लब्धमधुना तद्वेधसापादितं मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्यमूकस्य ते ॥ KRT_8_2625cd
राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः कालः सर्वजनक्षयस्य विषये याता स्थितिर्हेतुताम् । KRT_8_2626ab
इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरक्ष्मापतेर्निर्व्यूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ KRT_8_2626cd
स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः । KRT_8_2627ab
न ज्वलत्यग्निसङ्गेपि निर्वीर्यं वानरेन्धनम् ॥ KRT_8_2627cd
शान्ताहंत1स्तु संवृत्तनिद्राभङ्ग इवार्भकः । KRT_8_2628ab
ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ KRT_8_2628cd
डामरेणार्पितं नेतुम् प्रवृत्तास्तं नृपाश्रिताः । KRT_8_2629ab
तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ KRT_8_2629cd
मा विषीद न देवस्य1 दयाचन्द्रोदयोज्ज्वले । KRT_8_2630ab
हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ KRT_8_2630cd
स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः । KRT_8_2631ab
स प्रपन्नार्तिसंतापच्छेदचन्दनपादपः ॥ KRT_8_2631cd
पुण्यां शुद्धां च संलक्ष्य शरदीव द्युवाहिनीम् । KRT_8_2632ab
मूर्तिं तस्योल्बणं चेतः समाधास्यत एव ते ॥ KRT_8_2632cd
निष्कलङ्कैर्वशपूर्वैर्निर्विशेषं सभाजयन् । KRT_8_2633ab
चारित्रं लाघवभुवो ह्रियस्त्वां सोपनेष्यति ॥ KRT_8_2633cd
अपकर्तॄन्विपन्मग्नान्दयमानः परानपि । KRT_8_2634ab
क्षमापरीक्षाहेतुत्वात्स वेत्ति ह्युपकारिणः ॥ KRT_8_2634cd
उक्त्वेति हृष्टस्तैर्लोलस्थूलकूर्चो गृहात्ततः । KRT_8_2635ab
व्यालम्बकम्बलो गोष्ठाद्वृद्धोक्ष इव निर्ययौ ॥ KRT_8_2635cd
निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् । KRT_8_2636ab
युग्याधिरूढमायान्तं धन्यो ह्रीनम्रतां दधे ॥ KRT_8_2636cd
दीर्घास्पन्देक्षणं रूक्षघनकूर्चास1विग्रहम् । KRT_8_2637ab
व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ KRT_8_2637cd
रेजे शैलश्चलद्भिस्तैः शिबिरो1द्दीपितानलः । KRT_8_2638ab
भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ KRT_8_2638cd
स्कन्धा1वारे गते वर्षत्तुषारं प्रसभं नभः । KRT_8_2639ab
अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ KRT_8_2639cd
प्राक्चेत्1पतेद्धिमं तावन्म्रियेरन्व्रुडिताः क्षणात् । KRT_8_2640ab
पिष्ठातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ KRT_8_2640cd
एवमेकान्नविंशेब्दे दशम्यां शुक्लफाल्गुने1 KRT_8_2641ab
न्यूनाब्दषष्टिदेशीयोव् निबद्धो लोठनः पुनः ॥ KRT_8_2641cd
दीर्घप्रवासादायातं सत्कर्तुं कटकं पुनः । KRT_8_2642ab
निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ KRT_8_2642cd

2620.

--1) Emended; A उपन्यस्यंस्त॰.

2628.

--1) A2 gloss शान्ता अहन्ता अहंभावो यस्य.

2630.

--1) Emended; A दैवस्य.

2637.

--1) Emended; A ॰कूर्चं स॰.

2638.

--1) A ॰शिविरो॰.

2639.

--1) A स्कन्दावारे.

2640.

--1) Emended with G

[page 263]




यथोचितं दानमानसंभाषणविलोकनैः । KRT_8_2643ab
संतोष्य व्यसृजत्सैन्यं धन्यादीन्प्रैक्षतागतान् ॥ KRT_8_2643cd
तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्रकरं भटैः । KRT_8_2644ab
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ KRT_8_2644cd
निर्भूषणश्रोत्रपालिप्रविष्टैः श्मश्रुलोमभिः । KRT_8_2645ab
1लक्षरूक्षैः प्रव्यक्तकार्श्यक्लेशं कपोलयोः ॥ KRT_8_2645cd
उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा । KRT_8_2646ab
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ KRT_8_2646cd
कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् । KRT_8_2647ab
वेपमानविनिद्राङ्गं मां शीतेनार्दितामिव ॥ KRT_8_2647cd
भ्रान्तामिव क्ष्मां पर्यस्तानिवाद्रीन्पतितामिव1 KRT_8_2648ab
विदन्तं च दिवं शोष -- -- -- --2रदच्छदम् ॥ KRT_8_2648cd
दैविको वान्त1रायोस्तु ध्वान्तं वोग्रं प्रवर्तताम् । KRT_8_2649ab
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ KRT_8_2649cd
सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् । KRT_8_2650ab
पदानि संनिरुन्धानं निर्ध्यायेति पदे पदे ॥ अन्तर्युगलम्॥ KRT_8_2650cd
बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत । KRT_8_2651ab
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ कुलकम्॥ KRT_8_2651cd
भ्रूसंज्ञया वितीर्णज्ञो राज्ञा तामारुरोह सः । KRT_8_2652ab
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ KRT_8_2652cd
दृष्ट्या निर्दिष्टपार्श्वोर्वीस्थितिः पृथ्वीभुजस्ततः । KRT_8_2653ab
अस्प्राक्षीत्क्षितिनिक्षिप्तजानुर्मूर्ध्नाङ्घ्रिपङ्कजे ॥ KRT_8_2653cd
हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् । KRT_8_2654ab
सम्राट्संभ्रमनम्रस्य तस्योदनमयच्छिरः ॥ KRT_8_2654cd
रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः । KRT_8_2655ab
दौर्भाग्यमहरद्देहाच्चा1स्य श्रीखण्डशीतलः ॥ KRT_8_2655cd
पुण्यानुभावात्कारुण्यभाजो भूभर्तुरञ्जसा । KRT_8_2656ab
विस्रम्भसंभावनया स क्षणात्पस्पृशे हृदि ॥ KRT_8_2656cd
मा भैषीरिति दृप्तोक्तिः सुखं संप्राप्स्यसीति वाक् । KRT_8_2657ab
अगाम्भीर्येण भग्नेव मन्युर्न त्वयि सोधुना1 KRT_8_2657cd
इत्युक्ते पूर्ववैराणां भवेदुद्घाटनं कृतम् । KRT_8_2658ab
बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ KRT_8_2658cd
क्लिष्टोसीति स्वप्रत्तापप्रभावाभाषणं भवेत् । KRT_8_2659ab
ध्यात्वेति भूभृद्दृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ तिलकम्॥ KRT_8_2659cd
अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः । KRT_8_2660ab
संस्पर्शं मौलिषु पुनर्विग्रहस्याङ्घ्रिणाकरोत् ॥ KRT_8_2660cd
का योग्यता सत्क्रियायां ममेति वदता बलात् । KRT_8_2661ab
अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ KRT_8_2661cd
नम्रं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् । KRT_8_2662ab
धन्यं षष्ठं च पस्पर्श प्रष्ठं सव्येन बाहुना ॥ KRT_8_2662cd
दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् । KRT_8_2663ab
भूभृद्गुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ KRT_8_2663cd
आदिश्य सान्त्वनं धन्यमु1खेनाथ त्रपानतम् । KRT_8_2664ab
पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णु विनयाञ्जलिः ॥ KRT_8_2664cd
अभियोगे य एवास्य नीतौ विन्यस्यतो दृशम् । KRT_8_2665ab
मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ KRT_8_2665cd
नायाति वाडवशिखिक्वथनेन तापं शैत्यं हिमाद्रिपयसा विशता न चाब्धिः । KRT_8_2666ab
कश्चिद्गभीरमनसां सततं विषादकाले प्रमोदसमये च समोनुभावः ॥ KRT_8_2666cd
प्रीतिस्थैर्यैर्ज्ञातियोग्यैश्चोपचारैरकृत्रिमैः1 KRT_8_2667ab
क्रमाद्राजाहरल्लज्जां पौरुषभ्रंशजीवयोः ॥ KRT_8_2667cd
दायादोष्टद्वयादेव राष्ट्रे कृष्टेपि मन्त्रवित् । KRT_8_2668ab
भोजेनो1त्पिञ्जसर्पस्य दन्तं सोन्तरचिन्तयत् ॥ KRT_8_2668cd
प्रवासायासभीत्या स्वैस्त्यक्तसंरम्भसंभ्रमैः । KRT_8_2669ab
जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ KRT_8_2669cd
साल्हणिः1 स तु निस्ती1र्णः श्वभ्राच्छून्यगृहे वसन् । KRT_8_2670ab
पितृव्यविग्रहोदन्तमुपलेभे न कंचन ॥ KRT_8_2670cd

2645.

--1) A वलक्ष॰.

2648.

--1) Emended with C; A ॰पतितानिव.

--2) Thus A; C supplements शोषबहुशुष्करद॰.

2649.

--1) Emended with C; A दैविकोन्तरा॰.

2655.

--1) Emended; A धन्यं मु॰.

2667.

--1) Emended; A ॰कृत्रिमः.

2668.

--1) Conjectural reading; A भोजनोत्पञ्ज॰.

2670.

--1) Emended; A विस्तीर्णः.

[page 264]




राजगृह्यम् त्वलंकारं डामरान्तिकमागतम् । KRT_8_2671ab
पृष्ठाद्वीक्ष्याभवद्रोहद्द्रोहसंभावनस्तदा ॥ KRT_8_2671cd
ददर्श च क्रमाद्दूरतया दुर्लक्ष्यविस्तृति1 KRT_8_2672ab
स्कन्धा2वारं बद्धमालं मार्गे नगरगामिनि ॥ KRT_8_2672cd
अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः । KRT_8_2673ab
युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ KRT_8_2673cd
अचिन्तयच्च को हेतुः कटकप्रस्थितेरितः । KRT_8_2674ab
युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ KRT_8_2674cd
पृष्टस्तेना1वदत्कश्चित्पामरोथ प्रमोदभाक् । KRT_8_2675ab
संधिर्निबद्धो नगरं गतौ लोठनविग्रहौ ॥ KRT_8_2675cd
संदेहौजहतद्रोहो1 भयमुन्मुखतां भजेत्2 KRT_8_2676ab
ज्जातिस्नेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ KRT_8_2676cd
सैन्ये गते शून्यतया मिलितैर्विहगैः सरित् । KRT_8_2677ab
रुवद्भिस्तेन तौ नीतौ क्रन्दन्तीव व्यकल्प्यत1 KRT_8_2677cd
लवन्य एव मे दध्याद्ध्यात्वेहस्थमवेत्य ते । KRT_8_2678ab
पुनर्नयेयुर्धन्याद्याः क्रमाद्दध्यावथेति सः ॥ KRT_8_2678cd
स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् । KRT_8_2679ab
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ KRT_8_2679cd
अथाजायत जीमूतवितीर्णतिमिरं जगत् । KRT_8_2680ab
वन्ध्यं मध्यंदिनेनेव निशीथव्यथितश्रिया ॥ KRT_8_2680cd
राधमासावधि दधुस्ततः प्रभृति वारिदाः । KRT_8_2681ab
दीक्षां क्षोण्यां तुषारौधसत्त्रासूत्रणकर्मणि ॥ KRT_8_2681cd
विस्रब्धघात्यभव्योहं निर्ब्रह्मण्यो ह्रियोज्झितः । KRT_8_2682ab
निन्दन्स्वमिति भोजाग्रे ततो दस्युरुपाविशत् ॥ KRT_8_2682cd
समयापेक्षयाक्षोभो मन्युं संस्तभ्य1 साल्हणिः । KRT_8_2683ab
सान्त्वयन्निव नास्त्यागस्तवात्रेति जगाद तम् ॥ KRT_8_2683cd
ऊचे च संश्रितापत्यज्ञात्याद्यापद्रतं त्वया । KRT_8_2684ab
त्रातुमेतत्कृतं तत्र गर्हा नार्हसि कस्यचित् ॥ KRT_8_2684cd
तत्र द्रोहस्पृहा स्याच्चेन्नानृशंस्यं भवेन्मयि । KRT_8_2685ab
परवत्ताभवत्तस्मादियं कालानुरोधतः ॥ KRT_8_2685cd
राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् । KRT_8_2686ab
उच्छेद्याः किं तु संयम्या राजधर्मानुरोधिनः । KRT_8_2686cd
स्वस्याख्यातिस्तयोर्बाधा राज्ञश्चामार्गगामिता । KRT_8_2687ab
शेषं मां1 रक्षता हन्त निषिद्धा धीमता त्वया ॥ KRT_8_2687cd
इत्युक्तवन्तं तं त्यक्तलज्जाभार इवावदत् । KRT_8_2688ab
साक्षी त्वमेवं1 सर्वत्र ममेति सततं स्तुवन् ॥ KRT_8_2688cd
क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् । KRT_8_2689ab
तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ KRT_8_2689cd
तवयि दस्युर्वि1पर्यस्येन्मन्युं जानन्नभोजनम् । KRT_8_2690ab
भोजस्तत्रेति केनापि कथितो व्यधिताशनम् ॥ KRT_8_2690cd
स्पृशंश्चान्नं चिरात्प्राप्तमिदं विक्रीय ताविति1 KRT_8_2691ab
ध्यायञ्ज्ञात्योर्देहमांसं तयोर्भुक्तममन्यत ॥ KRT_8_2691cd
दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेष्यामि निश्चयात् । KRT_8_2692ab
श्वो वाद्य वेति1 कथयन्द्वौ मासौ न मुमोच तम् ॥ KRT_8_2692cd
मां ज्ञात्वेह स्थितं राज्ञः1 कृतारब्धेर्हिमात्यये । KRT_8_2693ab
विक्रीणात्येष मत्वेति भोजोधाद्गमने त्वराम् ॥ KRT_8_2693cd
मिषं यं यं निषेधाय गमानायोदपादयत् । KRT_8_2694ab
दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ KRT_8_2694cd
ते1जोनाम्नो बलहरात्संजातो2 भाद्रमातुरः । KRT_8_2695ab
3अभ्यधाद्बाल्यमाशास्य लम्बकम्बलकावृतः ॥ KRT_8_2695cd
तेजोविस्फूर्जितां त1त्तद्वीरोत्कर्षकषोपले । KRT_8_2696ab
द्वैराज्ये सौस्सले सैन्ये पोङ्क्तिपावनतां गतः ॥ KRT_8_2696cd
पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् । KRT_8_2697ab
एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ KRT_8_2697cd

2671.

--1) Emended; A राजा गृहे त्वलङकरडामर॰; cf. viii. 2925. 2618.

2672.

--1) Emended; A ॰विस्मृति.

--2) A स्कन्दा॰.

2675.

--1) Emended; A पृष्ठसेना॰.

2676.

--1) Thus A; the text of this appears to be corrupt; perhaps read संदेहं जहतो द्रोहभयमु॰.

--2) भजेत् corr. by A1 from व्रजेत्.

2677.

--1) Emended; A व्यकल्पयत.

2683.

--1) Emended with C; A संस्तम्भ्य.

2687.

--1) Emended; A शेषं मां; C स्वां सभां.

2688.

--1) Emended with G; A तमेव.

2690.

--1) Emended; A दस्यून्विप॰.

2691.

--1) Conjectural reading; A विक्रीयतामिति; cf. for the context viii. 2598 fig.

2692.

--1) Emended with C; A देति.

2693.

--1) Emended; A राज्ञा.

2695.

--1) Emended; A ओजो॰; cf. viii. 2862 and the vv. ll. तेजो, ओजो viii. 1084.

--2) Emended; A ॰जातं.

--3) The text of this is corrupt.

2696.

--1) Emended with G; A ॰जिंतांस्तत्त॰.

[page 265]




विमुखे राज्ञि नागेन खूयाश्रमभुवा कृते । KRT_8_2698ab
तं राजवदनो नाम विजिघृक्षू ररक्ष तम् ॥ चक्कलकम्॥ KRT_8_2698cd
आनृशंस्थं भृत्यभावादलवन्यतयास्य च । KRT_8_2699ab
प्रत्यवस्थित्यसामर्थ्यं राज्ञि सर्वे शशङ्किरे ॥ KRT_8_2699cd
अतोलंकारचक्रेण कुर्वतो1त्यर्थमर्थनाम् । KRT_8_2700ab
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ युगलकम्॥ KRT_8_2700cd
नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् । KRT_8_2701ab
विमृष्टव्ति दध्रुक्षुस्त्यक्तुमेनं न सोशकत् ॥ KRT_8_2701cd
राज्ञा कर्तुं विनियमं भोजस्य प्रहितो धनैः । KRT_8_2702ab
प्राप1 द्रङ्गामलंकारो विषयाधिकृतस्ततः ॥ KRT_8_2702cd
तत्पार्श्वमुद्यतं गन्तुं मां समु1त्सृज्य यासि चेत् । KRT_8_2703ab
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ KRT_8_2703cd
श्वस्त्वां प्रभाते द्रक्ष्यामीत्येतावत्तत्र जल्पति । KRT_8_2704ab
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ KRT_8_2704cd
घनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् । KRT_8_2705ab
यावच्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ KRT_8_2705cd
असाध्यप्रतिषेधोथ तमह्न्यनुजगम सः । KRT_8_2706ab
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ KRT_8_2706cd
एकसार्थगतौ ज्ञाती विना तौ ज्ञातियोषिताम् । KRT_8_2707ab
दाक्षिण्यादक्षमः स्थातुमग्रे सागा भवन्निव ॥ KRT_8_2707cd
प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु । KRT_8_2708ab
युवाप्यकल्यः कौलीनमिति स्वस्य च चिन्तयन् ॥ KRT_8_2708cd
दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् । KRT_8_2709ab
संयुयुत्सुर्मधुमतीरोधसा मार्गमग्रहीत् ॥ तिलकम्॥ KRT_8_2709cd
क्वापि श्यानाश्मसूच्यश्रिमृत्युदंष्ट्राङ्कुरोत्कटान् । KRT_8_2710ab
क्वचिद्रुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ KRT_8_2710cd
प्रभ्रश्यद्धिमसंघातगजव्यूहोल्बणान्क्वचित् । KRT_8_2711ab
क्वापि निर्झरफूत्कारनाराचक्षतविग्रहान् ॥ KRT_8_2711cd
क्वचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान् । KRT_8_2712ab
क्वाप्यातपक्षतहिमज्योतिर्निहत1दृक्पथान् ॥ KRT_8_2712cd
दूरावरोहं1 प्रसृते स्फुटमप्रसृते विदन् । KRT_8_2713ab
ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतेः ॥ KRT_8_2713cd
तुषारकालविषमान्षट्सप्तान्पथि वासरान् । KRT_8_2714ab
उल्लङ्घ्य स दर्द्राष्ट्रसीमान्तग्राममासदत् ॥ कुलकम्॥ KRT_8_2714cd
मूढार्पितात्मसामग्रीहताकिंचन्यलाघवम् । KRT_8_2715ab
तं दुग्धघाट्ट1कोट्टेशः प्रणम्यानयदर्च्यताम् ॥ KRT_8_2715cd
दूरस्थितो विड्डसीहस्तद्दूतोक्ततदागमः1 KRT_8_2716ab
प्रक्रियां प्राहिणोच्छत्त्रवादित्राद्यां2 नृपोचिताम् ॥ KRT_8_2716cd
आदिष्टदिष्टवृद्धिश्च राष्ट्रे कोट्टाधिपेन सः । KRT_8_2717ab
अवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ KRT_8_2717cd
राजायमानो भोजोथ राजवासगतोर्चितुम्1 KRT_8_2718ab
आनिन्ये राजवदनापत्येनाभ्येत्य पस्क्ष्यताम् ॥ KRT_8_2718cd
स पित्रैकान्ततो राज्ञो भिन्नेन प्रहितोन्तिकम् । KRT_8_2719ab
तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ KRT_8_2719cd
कार्यगौरवविश्वासभावव्यतिकरोचितम् । KRT_8_2720ab
सस्ंदिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥ KRT_8_2720cd
किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति । KRT_8_2721ab
मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ KRT_8_2721cd
तस्य दार्ढ्यं दर्शयितुं गोत्रिवैरिमिषान्नृपे । KRT_8_2722ab
ब्रुवाणेथ विदोषत्वं नागाद्यैरग्रहीद्रणम्1 KRT_8_2722cd
सामग्र्यूनः1 शनैः स्थैर्यं ततः साम्यमथ क्रमात् । KRT_8_2723ab
आधिक्यं चादधे तेषां विग्रहैर्धैर्यनिष्ठुरः ॥ KRT_8_2723cd
तथा प्रतिष्ठां स माप तस्यापूर्वस्य भूमिजाः । KRT_8_2724ab
दास्यमेत्य यथा व्रीडां नागुर्नागस्य बान्धवाः ॥ KRT_8_2724cd
स हि त्यागक्षमास्तम्भालोभादिगुणभूषितः । KRT_8_2725ab
अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ KRT_8_2725cd

2700.

--1) Emended; A कुर्वतात्य॰.

2702.

--1) Emended; A प्राप्य.

2703.

--1) Conjectural reading; A गन्तुं मामुत्सृज्य; C मासमुत्सृज्य.

2712.

--1) Emended; A ॰रोहे.

2715.

--1) Emended; A ॰गतोचिनुम्; C `अतोचितं; G ॰गतोचिताम्.

2722.

--1) Emended; A ॰द्रोणे.

2723.

--1) Conjectural reading; A सामग्री नः.

[page 266]




स्थैर्यं पृथ्वीहरादीनां साश्रयाणां न कौतुकम् । KRT_8_2726ab
आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ KRT_8_2726cd
ग्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः । KRT_8_2727ab
क्रान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ KRT_8_2727cd
जहुरन्योन्यसंघर्षसेर्ष्यामात्यमतेन वा1 KRT_8_2728ab
ततो लुण्ठिप्रियत्वाद्वा नीतिमन्येपि डामराः ॥ KRT_8_2728cd
उद्घातध्वंसितां विलवेच्छा लोठनबन्धने । KRT_8_2729ab
योधात्तेषां तदानीं सा जगाम शतशाखताम् ॥ KRT_8_2729cd
त्रिल्लको जयराजश्च राज्ञा संवर्धितावपि । KRT_8_2730ab
अकार्ष्टां नैव तपसा विवशौ चक्रमीलनात् ॥ KRT_8_2730cd
यो घूकानामिव श्वभ्रमामयानामिव क्षयः । KRT_8_2731ab
दैत्यानामिव पातालं यादसामिव सागरः ॥ KRT_8_2731cd
आश्रयः सर्वदस्यूनां त्रिल्लोको माययोल्वणः । KRT_8_2732ab
स देवसरसाधीशं संबध्नन्विप्लवं व्यधात् ॥ युग्मम्॥ KRT_8_2732cd
काङ्क्षन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः । KRT_8_2733ab
प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ KRT_8_2733cd
अकालदस्युनिर्माथं जानतोभ्य1र्थनां न ते । KRT_8_2734ab
राज्ञोगृह्णंस्ततः सोभूद्दाक्षिण्यात्तत्सभानुगः ॥ KRT_8_2734cd
प्रस्थातुं पार्थिवे सज्जे ज्यायान्यो विप्लुतेष्वभूत् । KRT_8_2735ab
स जातोत्पातपिटको जयराजो व्यपद्यत ॥ KRT_8_2735cd
भाग्यवानेकतोजातदस्युवैविक्त्यमीशिता । KRT_8_2736ab
ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ KRT_8_2736cd
अमात्यदत्तवैमत्यैः स्वशाद्यम1ठरैरथ । KRT_8_2737ab
द्विजैर्निषिद्धोलंकारो मन्त्रैi राज्ञोज्झितोन्तिकात् ॥ KRT_8_2737cd
स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा । KRT_8_2738ab
सेर्ष्याणां प्रत्यभात्तेषां तद्दोषपरिपोषकः ॥ KRT_8_2738cd
त्रिल्लकोन्मूलनं कुर्यां कृत्वा द्वैराज्यभञ्जनम् । KRT_8_2739ab
प्रतिज्ञायेति नृपतिर्विप्रान्प्रायान्न्यवीवरत् ॥ KRT_8_2739cd
त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् । KRT_8_2740ab
अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ KRT_8_2740cd
जयराजानुजं राज्ञा यशोराजं निवेशितम् । KRT_8_2741ab
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ KRT_8_2741cd
त्रातुं तं देवसरसं दृप्तारात्याश्रितं गतः । KRT_8_2742ab
सञ्जपालोल्पसैन्यत्वात्संदिग्धविजयोभवत् ॥ KRT_8_2742cd
ज्ञातोदन्तस्ततोभ्येत्य रिल्हणो रणमुल्बणम् । KRT_8_2743ab
जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ KRT_8_2743cd
म्नन्दरेणाथ तेनारिवारिराशौ विलिडिते । KRT_8_2744ab
कल्योभूत्सञ्जपालाब्द1स्तुच्छारातिजलाहृतौ ॥ KRT_8_2744cd
जितेपि राजके स्वोर्व्यां विनानुग्राहकं क्षमः । KRT_8_2745ab
न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ KRT_8_2745cd
प्रतीक्ष1माणो द्वैराज्यपर्याप्तिं क्ष्माभुजेकरोत् । KRT_8_2746ab
त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ KRT_8_2746cd
यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् । KRT_8_2747ab
स्वपक्षसूचीविशिखान्दिक्षु श्वाविदाक्षिपत् ॥ KRT_8_2747cd
अथ पार्थीहरिर्योभूच्चतुष्को लोष्ट1कानुजः । KRT_8_2748ab
राज्ञा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ KRT_8_2748cd
स तेन निजजामात्रा रक्षितः स्वोपवेशने । KRT_8_2749ab
असंख्यडामरयुतः शमालां संप्रवेशितः ॥ युग्मम्॥ KRT_8_2749cd
आकर्ण्य कुररस्वेव1 निनादं तस्य भेजिरे । KRT_8_2750ab
व्यक्ततां दस्यवो गूढा ह्रदस्थाः शफरा इव ॥ KRT_8_2750cd
दृप्यन्तं राजवदनं षष्ठचन्द्रोथ गग्गजः1 KRT_8_2751ab
रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ KRT_8_2751cd
वर्धमानक्षीयमाणसंहती तौ त्यजायताम् । KRT_8_2752ab
घर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ KRT_8_2752cd
षस्ष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः । KRT_8_2753ab
दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ KRT_8_2753cd
ज्ञातनिवृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् । KRT_8_2754ab
प्रतीक्ष्यादग्रजाद्राज्ञः शङ्कितावशुभागमम् ॥ KRT_8_2754cd

2728.

--1) Emended; A वः.

2734.

--1) Emended; A जानते॰.

2727.

--1) Doubtful emendation; A स्वशाठ्यं मठ॰.

2744.

--1) Emended; A ॰पालाब्धिस्तुच्छा॰.

2746.

--1) Emended; A प्रतीक्ष्यमाणो.

2748.

--1) Emended; A ॰ष्कः कोष्ठका॰; comp. for the name of 's son, vii. 2912. 2799. 2496. 3313.

2750.

--1) A2 gloss कुररस्येति कुररः नद् दूर् इति भाषया कश्मीरेषु प्रसिद्धः.

2751.

--1) Thus corr. by A2 from गर्गजः.

[page 267]




कटकाद्विद्रुतौ राजवदनान्तिकमागतौ । KRT_8_2755ab
श्वशुर्यावपि भूभर्तुरागतौ प्रतियोगिताम्1 KRT_8_2755cd
शैलप्रस्थानपथिकैरसंख्यैरथ खाशकैः । KRT_8_2756ab
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ KRT_8_2756cd
तस्कराक्रान्त्यशरणं बलवन्निहताबलम् । KRT_8_2757ab
अराजकमिवाशेषं राष्ट्रं कष्टां दशामगात् ॥ KRT_8_2757cd
उदयं कम्पनाधीशं1 रिल्हणं च ततो नृपः । KRT_8_2758ab
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ KRT_8_2758cd
पार्थ्वीहरिस्तु दुःसाधो महाव्याधिरिवौषधैः । KRT_8_2759ab
स्तम्भितोभूत्तयोः सैन्यैः संहन्तुं न त्वशक्यत ॥ KRT_8_2759cd
कालापेक्षां स्वपक्ष्याणां दुर्बुद्धिं वानुरुन्धतः । KRT_8_2760ab
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ KRT_8_2760cd
विड्डसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् । KRT_8_2761ab
दूतानानेतुमुर्वीशान्सुवहूनुत्तरापथे ॥ KRT_8_2761cd
अपि वित्तेशवनितारहोवैयात्यवेदिभिः । KRT_8_2762ab
अपि किंमानुषपुरीगीतोद्गारिदरीगृहैः ॥ KRT_8_2762cd
अप्यौष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः । KRT_8_2763ab
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ KRT_8_2763cd
हिमाद्रिकच्छैर्म्लेच्छेशाः प्रधावन्तोधिशिश्रियुः । KRT_8_2764ab
दिशस्तुरंगै रुन्धन्तःस्कन्धा1वारं दरत्पतेः ॥ तिलकम्॥ KRT_8_2764cd
राज्ञां संघटनं यावद्व्यधादेवं दरन्नृपः । KRT_8_2765ab
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ KRT_8_2765cd
स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजात् । KRT_8_2766ab
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव ॥ KRT_8_2766cd
जयचन्द्रादयो राजवदनप्रहिता अपि । KRT_8_2767ab
कीराः काश्मीरका1ः पार्श्वमभजन्राजबीजिनः ॥ KRT_8_2767cd
अभ्यर्णस्थान्बलहरप्रमुखांश्च विदूरगान् । KRT_8_2768ab
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ KRT_8_2768cd
ततः सुजनितोत्पिञ्जतया निश्चेद्यचक्रिकः । KRT_8_2769ab
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ KRT_8_2769cd
तयोरकृतकर्तव्यविशेषेणेतरेतरम् । KRT_8_2770ab
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ KRT_8_2770cd
अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना । KRT_8_2771ab
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ KRT_8_2771cd
स्युश्चेत्सोढाग्रिमाटोपाः कटकस्यास्य नो द्विषः । KRT_8_2772ab
तत्साम्यमुन्मिषेद्यद्वा भङ्गो भूयोपि योगभित् ॥ KRT_8_2772cd
तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः । KRT_8_2773ab
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ KRT_8_2773cd
व्याजहारेपि यद्भोजस्तदेषोथ हसन्स्मयात् । KRT_8_2774ab
निन्ये तद्दारदं सैन्यमुपेक्ष्यागामिन1श्चिमूः ॥ तिलकम्॥ KRT_8_2774cd
संकटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् । KRT_8_2775ab
स राजबीजी शुश्राव दरद्राजमथागतम् ॥ KRT_8_2775cd
तत्संगमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः । KRT_8_2776ab
प्रावेशयद्बलहरो मातृग्रामं स तद्बलम् ॥ KRT_8_2776cd
विशस्ततो वीक्ष्य वाहैर्भ्रान्तवातमृगा इव । KRT_8_2777ab
निसर्गधीरधिर्गार्गिर्न धैर्यात्पर्यहीयत ॥ KRT_8_2777cd
तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः । KRT_8_2778ab
विपक्षैः सह बद्धैक्याः सैन्यान्दुध्रुक्षवो ययुः ॥ KRT_8_2778cd
स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः । KRT_8_2779ab
म्लानाननः प्रभुं द्रष्टुं न क्षमोस्मीत्यभाषत ॥ KRT_8_2779cd
स सूर्यवर्मचन्द्रस्य न जातः कश्चि1दन्वये । KRT_8_2780ab
उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ KRT_8_2780cd
भोजं सभाजयित्वाथ विड्डसीहः सपार्थिवः । KRT_8_2781ab
सारैः समं स्वसामन्तैर्विजयाय व्यसर्जयत् ॥ KRT_8_2781cd
ततो म्लेच्छगणाकीर्णा व्रजन्संवाहयंश्चमूः । KRT_8_2782ab
प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ KRT_8_2782cd
प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि । KRT_8_2783ab
उत्साहात्साल्हणिर्मेने कृत्स्नां हस्तगतां महीम् ॥ KRT_8_2783cd

2755.

--1) Emended; A प्रतियोग्यताम्.

2758.

--1) Emended; A कम्पनाधीशरि॰.

2764.

--1) A स्कन्दा॰.

2767.

--1) Emended; A काश्मीरिका.

2774.

--1) Emended; A ॰गमिनी॰.

2780.

--1) Emended; A कैश्चि॰

[page 268]




वाजिभिस्तर्जिते1 म्लेच्छराजैश्च बलमूर्जितम् । KRT_8_2784ab
स्थाने समुद्रधाराख्ये विबन्धाथ तत्पदम् ॥ KRT_8_2784cd
स राजवदनस्तादृग्दुर्जयाग्र्यबलोज्ज्वलः । KRT_8_2785ab
मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रममन्यत ॥ KRT_8_2785cd
ततः प्रावृट्प1योवाहकृतोदीपपरिप्लुता । KRT_8_2786ab
संजायते स्म वसुधा बलन्नीलोत्पलोपमाम् ॥ KRT_8_2786cd
धरित्रीपानपात्रेम्भःसीधु1पूर्णे दधुर्द्रुमाः । KRT_8_2787ab
मग्ना लक्ष्यशिखामात्रा बलन्नीलोत्पलोपमाम् ॥ KRT_8_2787cd
षष्ठस्य संकटं जानभूभृच्छेषैर्बलैः समम् । KRT_8_2788ab
अथोदयद्वारपतिं तं च धन्यं व्यसर्जयत् ॥ KRT_8_2788cd
वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः । KRT_8_2789ab
मार्गे धनंजयस्येव शैनेयपवनात्मजौ ॥ KRT_8_2789cd
लम्बाब्बुदेम्बेरे दूरं वारिपूर्णे च भूतले । KRT_8_2790ab
स्यूतेव विद्युद्ददृशे भिन्नद्योतननिःस्वना ॥ KRT_8_2790cd
शोभाभावोदितागर्हपरिवर्हावहिष्कृतः । KRT_8_2791ab
तत्राविभक्तकटकः पार्थिवः समजायत ॥ KRT_8_2791cd
अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा । KRT_8_2792ab
अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ KRT_8_2792cd
त्रिल्लकः संदिशन्दूतैर्वृद्धिं पार्थ्वीहरिं नयन् । KRT_8_2793ab
तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ युग्मम्॥ KRT_8_2793cd
अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् । KRT_8_2794ab
तादृग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ KRT_8_2794cd
विभक्ताशेषसैन्यस्य तत्र तत्रारिसंकटे । KRT_8_2795ab
ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः ॥ KRT_8_2795cd
अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् । KRT_8_2796ab
बहिर्दुर्धर्षमत्याक्षीद्द्वितीयमपि कण्टकम् ॥ तिलकम्॥ KRT_8_2796cd
ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः । KRT_8_2797ab
स्वपक्षभेदयोर्ज्ञातकर्णेजपमहोद्यमः ॥ KRT_8_2797cd
कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसंकटे । KRT_8_2798ab
अशान्तजागरोथर्थमनर्थपरिपोषकः ॥ KRT_8_2798cd
सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः । KRT_8_2799ab
तेन संपूरितः पृथ्वीहरजो प्रावृट्पूर्णस्य लक्ष्यताम् ॥ तिलकम् ॥ KRT_8_2799cd
तस्य संघटतः कन्यां प्रयातं वैकृतं चिरात् । KRT_8_2800ab
पालीभङ्गे तटस्येव प्रावृट्पूर्णस्य लक्ष्यताम् ॥ KRT_8_2800cd
निद्राणोपेन्द्रजठरप्रसादनिसृतं जगत् । KRT_8_2801ab
समेतमिव तत्सैन्यं प्रत्यभाज्जलदागमे ॥ KRT_8_2801cd
यावद्भिः पार्यते नेदृक्संख्यातुमपि तद्बलम् । KRT_8_2802ab
भर्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ KRT_8_2802cd
तावद्भिरनुगैः पिञ्चदेवद्रङ्गाधिपो युधि । KRT_8_2803ab
तद्योधान्याम्यहरितः1 सरितश्चातिथीन्व्यधात् ॥ युग्मम्॥ KRT_8_2803cd
तटोज्ज्वलैश्चिताचक्रैर्विम्बितैस्तटिनीजले । KRT_8_2804ab
मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ KRT_8_2804cd
इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् । KRT_8_2805ab
कथंचिदाप्तैरन्येद्युर्भग्नसारोपसारितः ॥ KRT_8_2805cd
पुरे स शून्ये सैन्यानि संगृह्णंस्तत्र सर्वतः । KRT_8_2806ab
द्वित्रैरहोभिर्नगरं सुखग्राह्यममन्यत ॥ KRT_8_2806cd
इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्ल्लोकनयत् । KRT_8_2807ab
पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ KRT_8_2807cd
न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसंमते । KRT_8_2808ab
विधेयान्यलवन्यस्य डामरे होलडौक1सि ॥ KRT_8_2808cd
द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः । KRT_8_2809ab
अनर्थो यादृगुत्तस्थौ तत्सुतस्य समन्ततः ॥ KRT_8_2809cd
चतुष्कमवधीर्याथ राञ्जा पादगदोपमम् । KRT_8_2810ab
रिल्हणः प्रैषि तं1 ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ KRT_8_2810cd
प्रस्थितस्तत्प्रमाथाय शमालैः सोन्वबध्यत । KRT_8_2811ab
व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ KRT_8_2811cd
अधावच्चाभ्यमित्रीणस्तान्व्यावृत्य निपातयन् । KRT_8_2812ab
पद्माकरोन्मुखः पृष्ठलग्नान्भृङ्गानिव द्विपः ॥ KRT_8_2812cd

2784.

--1) Doubtful emendation; A ॰स्तर्जितो.

2786.

--1) Emended with C; A प्रावृड्पयो॰.

2787.

--1) A ॰शीधु॰.

2799.

--1) Thus A; comp. for this name viii. 2496. 2748. 2912. 3313.

2803.

--1) Emended with C; A ॰हरित.

2808.

--1) A होलळौकसि.

2810.

--1) Emended with G; A रिल्हणप्रेषितं.

[page 269]




रणश्रान्तेन गमिता त्रियामा तेन रामशे1 KRT_8_2813ab
गर्जत्2कुल्यार्पितारातिपृतनानादसंस्क्रिये ॥ KRT_8_2813cd
तं1 कल्याणपुरं प्राह्णे विशन्तं सोग्रमागतः । KRT_8_2814ab
रुरोधाभ्येत्य भूयोपि बलैर्मरितदिङ्मुखः ॥ KRT_8_2814cd
आपतत्रेव चारातिपदातीन्संमुखागतान् । KRT_8_2815ab
दृष्टनष्टान्व्यधाच्छागानिवाग्रेजगलो गिलन् ॥ KRT_8_2815cd
उद्वृत्तमारुतस्येव तस्यापाते पदातिभिः । KRT_8_2816ab
तत्यजे रिल्हणः पर्णैर्हेमन्त इव पादपः ॥ KRT_8_2816cd
पश्यतस्तस्य ते विद्रवन्तो जिह्मा न जिह्रियुः । KRT_8_2817ab
देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ KRT_8_2817cd
आप्तैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् । KRT_8_2818ab
नयन्प्रजासृजा साम्यं1 स्वामिभक्तिस्मृतेः स्मितम् ॥ KRT_8_2818cd
ही1 -- -- वाविशेषेपि जन्तोर्जन्तोर्यदीशिता । KRT_8_2819ab
भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ KRT_8_2819cd
जातं वक्त्रसरः श्मश्रुराजिनीलाब्जभा1जनम् । KRT_8_2820ab
जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ KRT_8_2820cd
म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् । KRT_8_2821ab
कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ युग्मम्॥ KRT_8_2821cd
एषा कापुरुषासेव्या धीराणां नैव पद्धतिः । KRT_8_2822ab
यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ KRT_8_2822cd
वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः स्नाने ह्लादसुकोपलब्धिरसभब्रह्मानुभावोपमा । KRT_8_2823ab
वैह्वल्यं1 समरे वपुर्विजहतामेवं किलोपक्रमे कैव2ल्याख्यसुखोपलम्भपरमा पश्चात्पुनर्निर्वृतिः ॥ KRT_8_2823cd
एवमुक्त्वा परानीकमेकाकी स व्यगाहत । KRT_8_2824ab
गृह्णञ्शरान्हरिप्रोथश्वाससंदिग्धशूत्कृतान् ॥ KRT_8_2824cd
स्वर्णत्सरुप्रभा1जालहरितालोज्ज्वलोभजत् । KRT_8_2825ab
खड्गप्रट्टनटस्तस्य रणरङ्गोत्तरङ्गताम् ॥ KRT_8_2825cd
तत्खड्गस्य घ्नतः खड्गाञ्जीवैर्जालच्छलाद्भुवम् । KRT_8_2826ab
उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ KRT_8_2826cd
आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः । KRT_8_2827ab
तिर्यञ्चोलक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ KRT_8_2827cd
संप्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गैः स निर्गतः । KRT_8_2828ab
तिमेः संमीलितास्यस्य श्रोत्ररन्ध्रैरिवोदकम् ॥ KRT_8_2828cd
शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः । KRT_8_2829ab
प्रक्षीणभूयिष्ठबलो लब्धोत्सेको रिपावभूत् ॥ KRT_8_2829cd
पृष्ठतोथ पपाताथ चतुष्कः पुष्कलैर्बलैः । KRT_8_2830ab
साहायकागतं प्राक्स यं स्वं कंचिदमन्वत ॥ KRT_8_2830cd
तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् । KRT_8_2831ab
न संरम्भः1 शिखण्डीव परं ताण्डवितोभवत् ॥ KRT_8_2831cd
तौ व्यूहावश्च पर्यायैर्मुखपृष्टं प्रदर्शयन् । KRT_8_2832ab
सोक्षिणोद्युधि मन्थाद्रिर्मथनेब्धितटाविव ॥ KRT_8_2832cd
कीलनिश्चलयोर्भ्राम्यन्नसकृद्वान्तरे द्वयोः । KRT_8_2833ab
कुविन्द इव -- -- --1 तुरंगमत्वरा2न्वितः ॥ KRT_8_2833cd
भासः प्रत्यग्रहीत्तस्य तमेकपृतनारयम्1 KRT_8_2834ab
एकतोम्भोभरं द्वीपस्येव कूलविलोद्गमः ॥ KRT_8_2834cd
तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला । KRT_8_2835ab
क्रीडता चण्डवेगेन पुरुषायितुमक्षमा ॥ KRT_8_2835cd
त्रासपाण्डून्द्विषां वक्त्रकुम्भान्स्वेदाम्भसाचितान् । KRT_8_2836ab
स कुर्वन्भूभुजं1 जाने भूयो राज्येभ्यषेचयत् ॥ KRT_8_2836cd
स च पार्थ्वीहरिश्चास्तामन्योन्यस्य क्षपाक्षणे । KRT_8_2837ab
सज्जौ मान्त्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ KRT_8_2837cd
साहायकागतान्साक्षीकृत्य1 क्ष्मापतिसैनिकान् । KRT_8_2838ab
अन्येद्युः सोकरोच्छत्रुं वनमार्गावगाहिनम् ॥ KRT_8_2838cd
पर्यस्तशौचान्संचिन्त्य त्रिल्लकादीनथाययौ । KRT_8_2839ab
सञ्जपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ KRT_8_2839cd

2813.

--1) Should probablry be रामुषे; cf. ii. 55.

--2) Emended; A गर्जन्कुल्या॰.

2814.

--1) Emended; A तत्कल्या॰.

2818.

--1) Thus A; perhaps read with G (sec. manu) प्रजासृजश्चास्यं.

2819.

--1) Thus A; C ह्रीप्रभावाविशेषे.

2820.

--1) Emended; A ॰भोजनम्.

2823.

--1) Thus corr. by a later hand from A1 वैह्वल्ये.

--2) Conjectural reading; A वैकल्या॰.

2825.

--1) Emended with C; A ॰प्रजाजाल॰.

2832.

--1) Emended; A संरम्भे.

2833.

--1) Thus A; C supplements पुरण्योस्तुरंग॰.

--2) Emended with C; A ॰गमतुरान्वितः.

2838.

--1) Emended with C; A पूतनादयम्.

2836.

--1) Emended with C; A ॰भुजाम्.

2838.

--1) Emended; A साक्षीकृतक्ष्मा॰.

[page 270]




नृपप्रतापग्रपितः स ताभ्यां पर्यशोष्यत । KRT_8_2840ab
वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ KRT_8_2840cd
चितानल इवासारैर्युद्धैः शममनाश्रितः । KRT_8_2841ab
उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ KRT_8_2841cd
दारदं -- बलं1 दृप्यद्धे2मसंनाहवाहिभिः । KRT_8_2842ab
हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ KRT_8_2842cd
तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः । KRT_8_2843ab
शङ्कमानैर्जनैर्ज्ञाता कृत्स्ना म्लेच्छावृतेव भूः ॥ KRT_8_2843cd
प्रयाणमात्रान्तरिते धन्ये द्वारपत्रावपि । KRT_8_2844ab
साहसं निःसहायस्य त1त्खड्गैरग्रतोभवत् ॥ KRT_8_2844cd
ज्वलत्कनकसंनाहं तत्सैन्यं स द्विषोरुधत् । KRT_8_2845ab
कचज्ज्वालावलिं दावं सनिर्झर इवाचलः ॥ KRT_8_2845cd
विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः । KRT_8_2846ab
बलबाहुल्यदृप्तास्ते व्यगाहन्ताद्दवावनिम् ॥ KRT_8_2846cd
तेषां हयसहस्राणि त्रिम्शद्विंशत्तुरंगमैः । KRT_8_2847ab
रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ KRT_8_2847cd
तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् । KRT_8_2848ab
एकैकस्याग्रतो यत्स वैश्वरूप्यमिवादधे ॥ KRT_8_2848cd
अश्ववङ्काग्रविन्यस्तवक्त्रास्ते विद्रुताः क्षणात् । KRT_8_2849ab
जगाहिरे कापुरुषा गिरीन्किंपुरुषा इव ॥ KRT_8_2849cd
अभूमिज्ञतया शाद्याच्चैष जातः पराभवः । KRT_8_2850ab
श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ KRT_8_2850cd
इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि । KRT_8_2851ab
तथेति मिथ्याकथयन्दारदा विद्रवोन्मुखाः ॥ युग्मम्॥ KRT_8_2851cd
प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली । KRT_8_2852ab
ऐच्छत्सन्नभिसंधातुं रुद्ध्वा पाश्चात्यपद्धतीः ॥ KRT_8_2852cd
स्कन्धा1वारेण सार्धं च दरदां राजबीजिनम्2 KRT_8_2853ab
विधातुं विदधे बुद्धिं तं ततस्तारमूलके ॥ KRT_8_2853cd
चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु । KRT_8_2854ab
उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चित्य1 निर्जितम् ॥ KRT_8_2854cd
जयाभावेप्यनन्तेदृक्सामन्तसहितस्त1तः । KRT_8_2855ab
भव्योस्मि भवितेत्येवं विचिन्त्योत्सिषचे च सः ॥ KRT_8_2855cd
पद्मोन्माथाद्द्विरदनैरप्रियैः पद्मबन्धोरिन्दौ स्पर्धिन्युदयति वपुः खण्डशः स्वं म्रियेत । KRT_8_2856ab
तापस्त्यज्येत च रुचिरता1भागिभिः सूर्यकान्तैर्भद्राभद्रं व्यसनसमये संभवेदप्रतर्क्यम् ॥ KRT_8_2856cd
यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् । KRT_8_2857ab
टिक्कादीनां च कौटुम्ब्याद्भूभर्तुर्द्रोग्धृमूर्धनि ॥ KRT_8_2857cd
अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् । KRT_8_2858ab
ततः कृच्छ्रोपयोगाच्च विश्वासस्येव मूर्धनि ॥ KRT_8_2858cd
तौ नागराजवदनौ व्यसनावसरे तदा । KRT_8_2859ab
चित्रं स्वकार्यतात्पर्याद्भुतादरतां गतौ ॥ तिलकम्॥ KRT_8_2859cd
स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् । KRT_8_2860ab
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ KRT_8_2860cd
क्ष्माभृद्विपक्षं स्वं पक्षीकर्तुं कॢप्ताननं ततः । KRT_8_2861ab
संत्यज्य2 राजवदनं मां भजस्वेत्यभाषत ॥ KRT_8_2861cd
संप्राप्तं वः प्रतीक्षध्वं1 तेजोब2लहरात्मजम् । KRT_8_2862ab
युग्याधिरूढं किं नरी3सेवतां यामिको यथा ॥ KRT_8_2862cd
इति ते संदिशनतं च व्यसजन्स विहाय तम् । KRT_8_2863ab
काम्धेनुसमं नागं छागाश्लेषाद्विधि-- यत्1 KRT_8_2863cd
सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये । KRT_8_2864ab
स्नेहवैरेन्यदीये तु न किंचिदधिगच्छति ॥ KRT_8_2864cd
ज्योतिस्तर्जितकान्ति दन्तयुगलं वाच्यं सुधादीधितेर्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः । KRT_8_2865ab
वासस्वैuष1 विरोधभाक्सरसिजस्येत्यत्र नेन्दो रतिस्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विषः ॥ KRT_8_2865cd

2842.

--1) Thus A; C तद्बलं.

--2) Emended with C; A दृप्येद्धेम॰.

2844.

--1) Doubtful emendation of C; A तत्स्याळ् गेरग्र॰.

2853.

--1) A स्कन्दा॰.

--2) Emended; A रुचिरमाभा॰.

2861.

--1) Emended with C; A सात्याज्य.

2862.

--1) Emended with C; A प्रतीक्ष्यध्वं.

--2) Cf. भोजोनाम्नो बलहरात्संजातो viii. 2695 and note.

--2) Thus A; perhapts read नाडीसे॰.

2863.

--1) The text of this verse is evidently corrupt; A as above. C reads व्यहसन् संदिहाय सं । कामधेनुसमं छागाश्रेषो विधिर्न यत्.

2865.

--1) Doubtful; A वा -- स्यैष; C सूरस्यैष.

[page 271]




प्रतिष्ठालोठनं कर्तुं ततो बलहरस्य सः । KRT_8_2866ab
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ KRT_8_2866cd
स तथा दारदान्भग्नानभिन्नो भूभुजैष वः । KRT_8_2867ab
सभोजान्राजाजवदनो हन्यादित्यभ्यधान्निजैः ॥ KRT_8_2867cd
दरद्राजानकानीतनेतारौ कम्पनापती । KRT_8_2868ab
प्रख्यातक्षेमवदनमत्ता -- --1भिधावुभौ ॥ KRT_8_2868cd
त्रस्यन्नोजसनामा च कोट्टेशो मन्त्रितं रहः । KRT_8_2869ab
ब्रुवाणास्तद्व्यहस्यन्त भोजेनान्तरवेदिना ॥ KRT_8_2869cd
स्फाटिकेनेव सैन्येन तेनाग्रे रुद्धमप्यथ । KRT_8_2870ab
सिधक्षु1 राजार्कमहो विड्डसीहेन्ध2नेपतत् ॥ KRT_8_2870cd
पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः । KRT_8_2871ab
स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ KRT_8_2871cd
रोगग्रस्ते रणप्रष्ठे पृष्ठगोप्तरि भर्तरि । KRT_8_2872ab
तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ KRT_8_2872cd
आहारस्थं बलहरं विहाय निखिलास्ततः । KRT_8_2873ab
पलायिषत1 तेन्येद्युर्विगाह्य हरिभिर्गिरीन् ॥ युग्मम्॥ KRT_8_2873cd
दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् । KRT_8_2874ab
कथयित्वेति संप्रार्थ्य साल्हणिं सह तेनयन् ॥ KRT_8_2874cd
प्राक्पीतकोशो1 वैवश्यात्स तेषामनुगोभवत् । KRT_8_2875ab
भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मज्जन्निवादधे ॥ KRT_8_2875cd
मुहुः सर्वशिरोद्रिक्त1रक्तपूर्णमिव ज्वलत्2 KRT_8_2876ab
अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ KRT_8_2876cd
ज्ञातेन पतितेनेव मुहुर्व्योम्ना महीसमम् । KRT_8_2877ab
व्रजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ KRT_8_2877cd
दध्यौ च धिङ्नो ये शश्वत्प्रबहवं वयमीदृशम् । KRT_8_2878ab
राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ KRT_8_2878cd
प्रतिभाप्रौढनिर्भाततत्त्वानां नान्यथा शिरः । KRT_8_2879ab
महाकवीनामेतादृक्प्रतापानलवर्णने ॥ KRT_8_2879cd
राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् । KRT_8_2880ab
तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ KRT_8_2880cd
अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे । KRT_8_2881ab
शोषाः प्रादुष्कृतो न स्यात्तज्ज्वालासंज्वरं विना ॥ KRT_8_2881cd
किमन्तरेण तद्धूममालान्ध्यं प्रोन्मिषदृशः । KRT_8_2882ab
मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ KRT_8_2882cd
मधुमत्यास्तटेन्यस्मिन्विवर्ज्य दरदः स्थितान् । KRT_8_2883ab
वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ KRT_8_2883cd
क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरा1न्तरम् । KRT_8_2884ab
तत्रैष्यतेति संधातुं रोहद्द्रोहस्पृ2हातुरैः ॥ KRT_8_2884cd
नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् । KRT_8_2885ab
उपजीवितुमिच्छाभूत्तद्रक्षणवणिज्यया ॥ KRT_8_2885cd
नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः । KRT_8_2886ab
मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ KRT_8_2886cd
कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना । KRT_8_2887ab
त्वान्तर्निदध्मो बलिनस्त्रिल्लकस्योपवेशने ॥ KRT_8_2887cd
राजानं राजवदनः श्रितस्तैरित्यसावतः । KRT_8_2888ab
उक्त्वैष्यत स्वराष्ट्रान्तर्युक्त्या बन्द्धुं नराधमैः ॥ तिलकम् ॥ KRT_8_2888cd
अपि राजपुरीयाणां कौटिल्यं तैर्हि जीयते । KRT_8_2889ab
दैर्घ्यं निदाघघस्रा1णां वियोगदिवसैरिव ॥ KRT_8_2889cd
तथा यातमुपालेभे दूतैर्बलहरोथ तम् । KRT_8_2890ab
प्रहौ निहितवांस्त्वस्मीति त्रोटितवटाकरः ॥ KRT_8_2890cd
उत्साहादाहवस्थोपि स तथा गार्गिम1ग्निमम् । KRT_8_2891ab
आयान्तं च नृपानीकमुसाहाम्न2 व्यचिन्तयत् ॥ KRT_8_2891cd
अकस्माद्विद्रुतदरद्राजभोजादिवार्तया । KRT_8_2892ab
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ KRT_8_2892cd
आडम्बरालम्बनस्य भेदेप्यच्छिन्नविग्रहः । KRT_8_2893ab
यदयुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ KRT_8_2893cd

2868.

--1) Thus A; the akshara before the lacuna could be read also शु; C ॰वदनमधुभद्राभिधा॰.

2870.

--1) Emended with C; A दिदक्षु.

--2) Emended; A विड्डसूहेन्धने॰.

2873.

--1) Emended; A पलायिततेन्ये॰.

2875.

--1) A ॰कोषो.

2876.

--1) Doubtful emendation; A सर्वशिरोदृक्त॰.

--2) Emended; A ॰ज्वलन्.

2884.

--1) A स्वशिविरा॰.

--2) Emended; A रोहद्दोहः स्पृहा॰.

2889.

--1) Emended; A ॰दस्राणां.

2891.

--1) Emended with C; A गर्गिम॰.

--2) Doubtful emendation; A ॰कमु -- जान्न; C ॰नीकं दृष्ट्वापि नव्य॰.

[page 272]




कालानुरोधात्संधितुसू धन्यद्वाराधिपावथ । KRT_8_2894ab
सोयोजयद्विलम्बेन भोजप्रत्यागमाशया ॥ KRT_8_2894cd
ततोलंकारचक्रः स नेतुं साल्हणिमाययौ । KRT_8_2895ab
ज्ञातेयाद्दारदाने1त्य प्रार्थिता परिपन्थिनी ॥ KRT_8_2895cd
बुद्ध्वा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः । KRT_8_2896ab
अग्रहीन्मार्गसेत्वग्रे निधनाद्व्यवसायिताम् ॥ KRT_8_2896cd
भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् । KRT_8_2897ab
दरातुरं दरद्राजसैन्यं तद्दैन्यमाययौ ॥ KRT_8_2897cd
व्यपोहन्ती बलहरी बाहुभिः कलहं सरित् । KRT_8_2898ab
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्बलम् ॥ KRT_8_2898cd
ह्रेषितः स्वावरोधैश्च सेर्ष्यैश्च म्लेच्छपार्थिवैः । KRT_8_2899ab
सैन्यैः कदनभीतैश्च विड्डसेहोथ तं जहौ ॥ KRT_8_2899cd
पुरःसरैर्भग्नसेतुपालैः पारं परं ततः । KRT_8_2900ab
विद्राव्य तानि1 स प्राप भिन्दंस्तूर्यरवैर्दिशः ॥ KRT_8_2900cd
असामर्थ्ये वरूथिन्याः1 स्वस्य चार्थितसंधिना । KRT_8_2901ab
आनीतो विड्डसीहेन दूतः प्रोक्तोथ भूपतेः ॥ KRT_8_2901cd
अमानुषानुभावेन तावत्त्वत्स्वा1मिना भवेत् । KRT_8_2902ab
प्रातिसीमिकसामन्तबुद्ध्या स्पर्धासु धीवरः ॥ KRT_8_2902cd
अश्रद्धेयानुसंधान एव यान्तौ1 यमान्तिकम् । KRT_8_2903ab
जयराजोस्मि वामुष्य प्रभावावेदकौ दिवि ॥ KRT_8_2903cd
तेन दिव्यानुभावेन निर्जयोपि जयो मम । KRT_8_2904ab
पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ KRT_8_2904cd
अथाग्रतः पुरे स्थित्वा कंचित्कालं निजेविशत् । KRT_8_2905ab
यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम्1 KRT_8_2905cd
अबुद्ध्वा भोजमायान्तं संधिं तत्रैव वासरे । KRT_8_2906ab
सार्धं द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ KRT_8_2906cd
अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् । KRT_8_2907ab
आदाय तावथा1भ्यर्णं प्राविक्षातां क्षमापतेः ॥ KRT_8_2907cd
अहंकाराद्विमोहाद्वाविमर्शेन1 बहिष्कृतौ । KRT_8_2908ab
उपेक्षामक्षते भोजेभजता2 राजबीजिनि ॥ KRT_8_2908cd
आहूतस्तु हठोत्कण्ठाभाजापि प्रभुणासकृत् । KRT_8_2909ab
अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ KRT_8_2909cd
प्रभोः पुरस्तात्कार्यन्ते तेन स्थातुमशक्यत । KRT_8_2910ab
प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं न हि क्वचित् ॥ KRT_8_2910cd
द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी । KRT_8_2911ab
मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ KRT_8_2911cd
मातृकुक्षिमिव स्वोर्वीं तेनाजौ लोष्ठकः1 कृतः । KRT_8_2912ab
खाण्डवे खन्डितः सर्प इव गाण्डीविनाविशत् ॥ KRT_8_2912cd
भजं1श्चतुष्कः संकोचं दुर्भेदं त्रिल्लकालयम् । KRT_8_2913ab
स्वकायकर्परं दर्पोज्झितः कूर्म इवाविशत् ॥ KRT_8_2913cd
निःशेषीकृतकार्यः स शौर्येणैव महीपतेः । KRT_8_2914ab
पार्श्वं पादनखज्योतिःपट्टबन्धाप्तये ययौ ॥ KRT_8_2914cd
प्रतापैर्नृपतेरित्थं विप्लवः शोषितोप्यभूत् । KRT_8_2915ab
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्कुरः ॥ KRT_8_2915cd
दण्डार्हो राजवदनो दानेनाप्यायितो यतः । KRT_8_2916ab
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ KRT_8_2916cd
उत्कोचपरिणामात्तं सोथ स्थापयति स्म तम् । KRT_8_2917ab
दिन्नाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ KRT_8_2917cd
इत्येनमब्रवीच्छ्वश्चेदायास्यो नानुगामिनः । KRT_8_2918ab
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ KRT_8_2918cd
सोत्कम्पः साहसस्रोतःपा1तेनीयत नौरिव । KRT_8_2919ab
त्रिल्लकेनापि स स्थैर्यं नीतिरज्जुप्रसारणात् ॥ KRT_8_2919cd
व्यसनोल्लासवैवश्यं विशां पत्युर्व्यचिन्तयत् । KRT_8_2920ab
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ KRT_8_2920cd
अलंकारादिभिः स्वास्थ्ये स्थाप्यमानोपि मन्त्रिभिः । KRT_8_2921ab
अत्यजन्नैव1 कौटिल्यमजितात्मेव1 दुर्ग्रहम् ॥ KRT_8_2921cd

2895.

--1) Emended; A ॰हारादावेत्य; the text is corrupt.

2900.

--1) Emended; A विद्रावितानि.

2901.

--1) Emended; A वरूथिन्या.

2902.

--1) Emended; A ताव -- त्स्वामिना.

2903.

--1) Emended with C; A यान्तो.

2905.

--1) Emended; A ॰मालिकाम्.

2907.

--1) The later corresponding to cannot be read with certainty in A; C तावताभ्यर्णं.

2908.

--1) A ॰विमर्षेण.

--2) Emended; A भजते.

2912.

--1) Comp. note to लोठन: viii. 2496.

2913.

--1) Emended with C; A भजंञ्च॰.

2919.

--1) Emended with C; A ॰स्रोतपाते॰.

2921.

--1) Emended; A अत्यजन्नेव and ॰जितात्मैव.

[page 273]




गदं वैद्य इवापाकं तमवज्ञाय पार्थिवः । KRT_8_2922ab
पक्वगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ KRT_8_2922cd
आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् । KRT_8_2923ab
भोजमुक्त्वेत्यलंकारचक्रोगा1द्विप्लवोद्यतः ॥ KRT_8_2923cd
तं जयानन्दवाडा1ख्यो दस्युरानन्दवाडनः1 KRT_8_2924ab
अन्वयुर्विक्रमोदग्राः परेपि क्रमराज्यजाः ॥ KRT_8_2924cd
अग्रस्थितो राजगृह्योलंकारः स्वल्पसैनिकः । KRT_8_2925ab
वालुकासेतुकल्पस्तैर्ज1ज्ञे सिन्धुरथैरिव ॥ KRT_8_2925cd
स तु रामचरा1द्याजिक्षोभसंभावनां विशाम् । KRT_8_2926ab
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ KRT_8_2926cd
आपानरभसक्षुभ्यद्रक्षःसंभ्रमदक्षिणम् । KRT_8_2927ab
रणं जगाम गञ्जात्वमञ्जसास्नपरिस्रुतः ॥ KRT_8_2927cd
स तूलकूटमिव तत्कटकं विकटं द्विषाम् । KRT_8_2928ab
किमन्यत्प्रैरयत्क्वापि प्रभञ्जन इवाञ्जसा ॥ KRT_8_2928cd
ग्रासाय गृध्रकङ्कादिपत्त्रि1व्रातस्य तत्यजे । KRT_8_2929ab
आनन्दवाड1सूनुः स हत्वा तेनेषुणा रणे ॥ KRT_8_2929cd
भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तत् । KRT_8_2930ab
पङ्कप्रधावत्क्रकरव्याधन्यायो व्यवर्धत ॥ KRT_8_2930cd
अनड्डयनसामर्थ्यः श्राम्यति क्रकरो यथा । KRT_8_2931ab
धावन्पङ्के प्तन्व्याधोप्यनुधावत्यथान्वहम् ॥ KRT_8_2931cd
प्रसङ्गे साहसस्यैवं भोजः क्लैव्यमगात्सदा । KRT_8_2932ab
तं प्राप्तु1मिच्छुर्भूपोपि मतिमोहं मुहुर्मुहुः ॥ युग्मम्॥ KRT_8_2932cd
दिन्नाग्रामस्थिते भोजे स राजवदनोप्यगात् । KRT_8_2933ab
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ KRT_8_2933cd
डामरा भग्नसंघाता भूयः पूर्वाधिकां ततः । KRT_8_2934ab
कन्यां ते ग्रन्थयामासुर्मुहुर्यां शौर्यशालिनः ॥ KRT_8_2934cd
ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् । KRT_8_2935ab
अशक्यैराहवैर्यावत्तात्पर्यादुदवेजयन् ॥ KRT_8_2935cd
तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ । KRT_8_2936ab
कृष्टोलंकारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ KRT_8_2936cd
तेषां परेद्युः पार्श्वं स यियासुरसकृद्यदा । KRT_8_2937ab
हायाश्रमं श्रान्तसैन्यो द्वारेशोबुद्ध तं तदा ॥ KRT_8_2937cd
अजानन्निव तेषां स व्याजसंधिं निबद्धवान् । KRT_8_2938ab
मिषात्कुतोप्यगात्तिर्यक्स्थितं सत्ता1रमूलकम् ॥ KRT_8_2938cd
तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् । KRT_8_2939ab
श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ KRT_8_2939cd
निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् । KRT_8_2940ab
व्यरंसीत्संभ्रमान्नासौ चक्रे सज्जांस्तु वाजिनः ॥ KRT_8_2940cd
त्रस्तोलंकारचक्रोथ दशग्राम्यग्रतो द्रुतम् । KRT_8_2941ab
क्व राजपुत्र इत्येवं कथयित्वा पलायितः ॥ KRT_8_2941cd
उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् । KRT_8_2942ab
आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ KRT_8_2942cd
अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् । KRT_8_2943ab
श्वः कर्तव्येष्वलंकारचक्रो युद्धाय संदधे ॥ KRT_8_2943cd
दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् । KRT_8_2944ab
ध्वान्तध्वस्तात्मनां1 तेषां तदाभूदपकारकः ॥ KRT_8_2944cd
द्वाराधिपस्य क्षाम्यन्तः1 संधिं भोजप्रतीक्षया । KRT_8_2945ab
श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ KRT_8_2945cd
असंत्यजन्नपत्यादिबन्धं धीरोच्चलाश्रयात् । KRT_8_2946ab
आजिं स भोजोलंकारचक्रेणामङ्गलावहम् ॥ KRT_8_2946cd
................................................1 KRT_8_2947ab
भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ KRT_8_2947cd
बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः पाथोनिधेः प्रमथने वडवाग्निजन्मा । KRT_8_2948ab
आसाद्य मन्दरनगेन समागमं हि न कापि पन्नगपतेः सुखसख्यमासीत् ॥ KRT_8_2948cd

2923.

--1) Emended with C; A ॰चक्रेगाद्वि॰.

2924.

--1) A ॰वाळ्हाख्यो and वाळ्हजः.

2925.

--1) Emended with G (sec. manu); A ॰कल्पस्तं जज्ञे.

2926.

--1) Conjectural reading; A राम -- राद्या॰; C शत्रुभिराद्या॰.

2929.

--1) Emended; A ॰पतिव्रातस्य; C ॰पातित्रा॰.

--2) A आनन्दावाळ्ह॰.

2932.

--1) Emended; A तत्प्रामु॰.

2938.

--1) Emended; A सन्ता॰. lost here; A does not indicate the lacuna; C supplements संरम्भात्कर्त्तुमारेभे सामर्थ्यान्न च चक्षमे.

[page 274]




क्षुत्पिपासश्रमं हन्तुम् प्राप्तः स्वविषयावनौ । KRT_8_2949ab
अलंकारात्मजैर्भूयो बन्द्धुं भोजोभ्यलष्यत ॥ KRT_8_2949cd
पितुर्मतेन बुद्ध्या वा स्वया तत्तद्विधित्सतः । KRT_8_2950ab
सोभिसंधाय निर्यातः प्रापाथ विषयान्तरम् ॥ KRT_8_2950cd
ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् । KRT_8_2951ab
अनास्थोन्यलवन्येषु दिन्नाग्रामं पुनर्ययौ ॥ KRT_8_2951cd
द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरेक्षमः । KRT_8_2952ab
चक्षूरोगेण भग्नाभियोगोकस्माद्व्यधीयत ॥ KRT_8_2952cd
भोजाय दातुमैच्छद्यो डामरस्ते सुते ददौ । KRT_8_2953ab
पर्माण्डये गुल्हणाय राजजाय च निर्जितः ॥ KRT_8_2953cd
रोगोच्छण्डतया दण्डप्रयोगावसरे कृते । KRT_8_2954ab
तत्र साम प्रयुज्यैव द्वारेशो विवशोविशत् ॥ KRT_8_2954cd
अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् । KRT_8_2955ab
द्रुनामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ KRT_8_2955cd
तत्रामयाविन्येवात्तोद्रेकौ तदनुजौ निजौ1 KRT_8_2956ab
चक्राते वसुधां दुःस्थानास्कन्दाद्यैरुपद्रवैः ॥ KRT_8_2956cd
त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् । KRT_8_2957ab
नाग्रहीद्विग्रहैकाग्रः सान्त्वनामपि भूपतेः ॥ KRT_8_2957cd
षष्ठे निष्ठां गते रोगमग्रे द्वारपतावपि । KRT_8_2958ab
नियुक्तः क्ष्माभुजा धन्यो1 निरगात्तारमूलकम् ॥ KRT_8_2958cd
भोजश्च्युतोमुतोन्येषां बलिनां गोचरे पतेत् । KRT_8_2959ab
प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां व्रजेत् ॥ KRT_8_2959cd
इति संचिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा । KRT_8_2960ab
क्ष्माभुजामन्दसंरम्भो विदधे सोभियोगभाक् ॥ युग्मम्॥ KRT_8_2960cd
अज्ञातोर्कवैषम्या दुर्नीतिः सा महीभुजम्1 KRT_8_2961ab
व्यावृत्याबाधताच्छिन्नपुच्छाकृष्टेव पन्नगी ॥ KRT_8_2961cd
बलिनं राजवदनं नृपं चावेत्य निर्बलम् । KRT_8_2962ab
आभ्यन्तराश्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥ KRT_8_2962cd
छिद्रान्तराणि सुलभानि सदैव हन्त पातालरन्ध्रसरणेरिव दण्डनीतेः । KRT_8_2963ab
बह्वीभवन्प्रसरमन्तरसंप्रविष्टो यात्यप्रतर्क्यनियमात्पतनं भजेद्वा ॥ KRT_8_2963cd
भोजत्यागोर्थिनो राज्ञा क्षीणार्थोसौ व्रजेदितः । KRT_8_2964ab
उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ KRT_8_2964cd
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । KRT_8_2965ab
युक्त्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ KRT_8_2965cd
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । KRT_8_2966ab
कुर्ग्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ KRT_8_2966cd
शश्वद्व्या1वर्तमानस्य राजकार्यस्य नावधिम् । KRT_8_2967ab
अरघट्टघटीयन्त्रगुणस्येवाससाद सः ॥ KRT_8_2967cd
तस्य चक्र इवोद्भ्रान्ते कर्तव्ये तैक्ष्ण्यभागपि । KRT_8_2968ab
भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ KRT_8_2968cd
नीतराजद्वयो व्यग्रः शेषस्यैकस्य विग्रहे । KRT_8_2969ab
चतुरङ्ग इव क्रीडन्विवशोभूद्विशां पतिः ॥ KRT_8_2969cd
बद्धलक्ष्यः प्रदानार्थं ततश्च छद्मना परान् । KRT_8_2970ab
भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ KRT_8_2970cd
दस्युषु स्यूत1सङ्गेषु शीतापायप्रतीक्षिषु । KRT_8_2971ab
नागाद्बलहरः स्वेषामुन्मूलनमशङ्कत ॥ KRT_8_2971cd
सामर्थ्याशिथिलामित्रभावे सूत्रितविप्रिये । KRT_8_2972ab
तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ KRT_8_2972cd
संमन्त्र्य सार्धं भोजेन धन्यं समदिशत्ततः । KRT_8_2973ab
बद्ध्वार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ KRT_8_2973cd
भूरिकार्यकृतं स्वस्य बन्धनार्थावहां1 रिपोः । KRT_8_2974ab
धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ KRT_8_2974cd
पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया । KRT_8_2975ab
धियाविशुद्धं यत्किंचित्कुर्वन्तीति न नूतनम् ॥ KRT_8_2975cd
काकुत्स्थो1पि प्रियाप्रार्थी व्यग्रः सुग्रीवसंग्रहे । KRT_8_2976ab
वीरोविधेयं स्वार्थान्ध्याद्वधं व्यधित बालिनः ॥ KRT_8_2976cd

2942.

--1) A बन्धुं.

2956.

--1) Emended; A तमनुजं निजम्; cf. षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ viii 2753.

2958.

--1) Emended; A धन्ये.

2962.

--1) Emended; A ॰भुजाम्.

2969.

--1) Emended; A द्व्यवर्त॰.

1972.

--1) A1 has written first द्यूतसङ्गेषु and subsequently indicated the reading स्यूत॰.

2974.

--1) Emended; A ॰वहं.

2976.

--1) Emended with C; A काकुस्थोपि.

[page 275]




संहृत्य सत्यनित्यत्वं राज्यगर्वाशुद्धधीः । KRT_8_2977ab
आचार्यं पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ KRT_8_2977cd
आ भिक्षुविग्रहान्नित्यद्रोग्धुर्नागस्य विग्रहः । KRT_8_2978ab
स्वार्थापेक्षी तटस्यास्य तत्कालं न विगर्हितः ॥ KRT_8_2978cd
अगृहीत्वा तु भूभर्त्रा कंचिद्भोजार्पणे पणम् । KRT_8_2979ab
सोवाष्ट1म्भीत्यभूत्तस्मिन्मन्युर्मतिमतां मनाक् ॥ KRT_8_2979cd
यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् । KRT_8_2980ab
विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ KRT_8_2980cd
विभिन्न इव भोजस्तु नागं समदिशद्यथा । KRT_8_2981ab
दित्सुर्बलहरो1 राज्ञे त्वदर्पणपणेन माम् ॥ KRT_8_2981cd
बन्धमश्रद्दधानोस्य राज्ञस्त्रासादसौ श्रयेत् । KRT_8_2982ab
स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ KRT_8_2982cd
षष्ठचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः । KRT_8_2983ab
संगृहीतेन तं नागं पार्श्वं प्रावेशयत्ततः ॥ KRT_8_2983cd
पक्षीखृतः क्ष्माभुजायं हन्यादस्मान्भयादिति । KRT_8_2984ab
चलन्तमपि तं भोजस्तन्मन्त्रिणम1बोधयत् ॥ KRT_8_2984cd
तथेति जानन्नपि तं कृष्टोस्म्येतैर1नीशताम् । KRT_8_2985ab
यातः किमपि हन्तेति दूतैर्नागोप्यभाषत ॥ KRT_8_2985cd
नियतं नियतिस्रोतोगर्भे जन्तोर्निमज्जतः । KRT_8_2986ab
कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ KRT_8_2986cd
नागे बद्धे तत्कुटुम्बैर्भीतैरेत्य समाश्रितः । KRT_8_2987ab
मायाशाली बलहरो दुर्दर्शः समपद्यत ॥ KRT_8_2987cd
भोजनिष्1क्रयविक्रेयं तमादाय ययौ ततः । KRT_8_2988ab
रिल्हणेन समं धन्यो धावन्बलहरा2न्तिकम्() ॥ KRT_8_2988cd
सान्तर्हासोमोहयत्तौ1 प्राङ्नागं दत्त मे ततः । KRT_8_2989ab
भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ KRT_8_2989cd
बद्धमूलतया दूरं दुर्धर्षो योद्धुमागतम् । KRT_8_2990ab
सर्वं तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ॥ KRT_8_2990cd
वर्षयुद्धापकर्षादि -- खि1न्नौ तौ ततोभ्यधात्2 KRT_8_2991ab
इतोपसृतयोः कुर्यां युवयोर्मतमित्यसौ । KRT_8_2991cd
एकप्रयुaaणान्तरिते स्थितयोः पथि चाकरोत् ॥ KRT_8_2992ab
कार्यान्तःपातवैवश्ये तयोर्मतिविमोहनम् । KRT_8_2992cd
काचिद्बलहरस्यासीत्पर्याप्तिर्धैर्यसत्त्वयोः । KRT_8_2993ab
निश्चोद्याद्यतने काले वीराणां विरलैव या ॥ KRT_8_2993cd
तथा हारितमार्गाय साहसात्पार्श्वमीयुषे । KRT_8_2994ab
द्रुह्यति स्म न धन्याय लोभाद्भोजाय नापि यः ॥ KRT_8_2994cd
मतिमोहेन1 नागं चेद्दद्युर्मे सचिवास्ततः । KRT_8_2995ab
कुर्यां तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ KRT_8_2995cd
नागासांनिध्यलब्धर्द्धिदार्ढ्यार्थं गूढवैकृतः । KRT_8_2996ab
भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्ठकाभिधः ॥ KRT_8_2996cd
सचिवैर्निहते नागे निर्हेत्वहितमोहितैः । KRT_8_2997ab
दुर्मन्त्रितं नरपतेः स्वैः परैश्च व्यगर्ह्यत ॥ KRT_8_2997cd
स्वजातीयवधक्रोधाद्विरुद्धैः सर्वडामरैः । KRT_8_2998ab
नागानुगैश्चाश्रितोभूत्ततो बलहरो बली ॥ KRT_8_2998cd
देहिनो व्यसनापातवैवश्याद्भमतोपथि । KRT_8_2999ab
अकार्यं कुर्वतः कार्यं सिद्धः संसाधयेद्विधिः ॥ KRT_8_2999cd
उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्युन्मार्गभ्रमणेवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः । KRT_8_3000ab
अन्योपाहितकोशपृष्ठलुठनात्संदर्शिताङ्गक्षतेर्जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः ॥ KRT_8_3000cd
तथा निरनुसंधानं नागं धीसचिवैर्हतम् । KRT_8_3001ab
नाबुद्ध भोजः संजातत्रासस्त्वेवं व्यकल्पयत् ॥ KRT_8_3001cd
लब्धवर्णस्य नावर्णावहं कर्मेदमीशितुः । KRT_8_3002ab
अलब्धपणबन्धस्य वाञ्छिताप्त्यै विशङ्क्यते ॥ KRT_8_3002cd
1यश्च युद्धमिति व्यग्रं2 हर्षादाद्यामवापि यः । KRT_8_3003ab
भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ KRT_8_3003cd

2979.

--1) Emended; A सोवष्टम्भी॰.

2982.

--1) Emended; A ॰एबलहरे.

2984.

--1) Thus A; perhaps read ॰न्मन्त्रितमबो॰.

<2985>.

--1) Emended; A ॰स्मीत्येतैर॰.

2988.

--1) Emended with C; A भोजोनि॰.

--2) Emended with C; A ॰न्बलहरोन्तिकम्.

2989.

--1) Emended; A मोहयन्तौ.

2991.

--1) Thus corr. by A1 from ॰व्यधात्.

2995.

--1) A1 has written मतिमोहे; supplied apparently by A2.

3003.

--1) The text of this verse is evidently corrupt; emendation doubtful.

--2) Perhaps read युद्धमतिव्यघ्रं.

[page 276]




उक्त्वेति मोहयन्धन्यमुख्या -- -- स्मि1 संदिशेत्2 KRT_8_3004ab
इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ युग्मम्॥ KRT_8_3004cd
आ भिक्षुविप्लवाद्द्रोहसुभिक्षस्यानुबन्धिनः । KRT_8_3005ab
किं राजवदनोप्येष लोभात्संभाव्यते न भूः ॥ KRT_8_3005cd
अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः । KRT_8_3006ab
रक्तार्द्रकृत्तिस्रस्ताङ्घ्रि कोशपानं प्रचक्रिरे ॥ KRT_8_3006cd
प्रादुष्कृतभियः क्षिप्ररक्षिणोमुष्य तिष्ठतः । KRT_8_3007ab
विश्वासार्थं बलहरो विरलः पार्श्वमाययौ ॥ KRT_8_3007cd
अमात्यातिजाड्येन नष्टे कृत्येथ कृत्यवित् । KRT_8_3008ab
स्वयमुत्तम्भने नीतः संरेभेसंभ्रमो नृपः ॥ KRT_8_3008cd
चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् । KRT_8_3009ab
ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः कर्तव्यस्य च सिंहदेवनृपतिर्म्लानौ न तत्त्वावहः ॥ KRT_8_3009cd
प्रवाहेणेव कृत्यस्य हठेन हरतोन्तरे । KRT_8_3010ab
प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ KRT_8_3010cd
अतो धूर्तो नृपो मुग्ध इति ज्ञातोरिभिर्मुधा । KRT_8_3011ab
मौग्ध्यं रदर्शयंस्तेषां यततेस्माभिसंधये ॥ KRT_8_3011cd
स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् । KRT_8_3012ab
तस्याशिश्वासपात्रत्वं मन्त्रस्तस्याभितोनयत् ॥ KRT_8_3012cd
गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना । KRT_8_3013ab
प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ KRT_8_3013cd
नीडस्यान्तः सरन्ध्रस्य सर्वतो हि भयं स्पृशन् । KRT_8_3014ab
जाले द्वाराग्रबद्धे च निर्गमे पतनं विदन् ॥ KRT_8_3014cd
ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् । KRT_8_3015ab
बहिर्भूपेन रुद्ध्वाध्वा प्रस्थानेप्यभजद्भयम् ॥ युग्मम्॥ KRT_8_3015cd
तदा स दौस्थ्यातिथितां प्राप्तः प्रैक्षत न क्षणम् । KRT_8_3016ab
मनोविनोदनं किंचित्कृत्यं लोकद्वयोचितम् ॥ KRT_8_3016cd
उग्राभिषङ्गमनुषङ्गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावम् । KRT_8_3017ab
बद्धः सरोजकुहरे विरहार्तनादैश्चक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ KRT_8_3017cd
रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः । KRT_8_3018ab
फेणोद्गार्याननः क्रन्दंस्तेनैकः प्रेक्ष्यत द्विजः ॥ KRT_8_3018cd
स पृष्टो विप्लुतैर्नी1तं सर्वस्वं तथा । KRT_8_3019ab
स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ KRT_8_3019cd
स्वदौस्थ्यार्तमनास्तस्य दुःखेन व्यथ्तोन्वहम् । KRT_8_3020ab
घट्टितार्द्रव्रण इव प्राह स्मेति स सान्त्वयन् ॥ KRT_8_3020cd
गर्हार्होस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः । KRT_8_3021ab
विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ KRT_8_3021cd
दुर्ग्रहेणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते । KRT_8_3022ab
सारासार1विदो यूनः कूले जातस्य मानिनः ॥ KRT_8_3022cd
प्राणान्सस्ंदेहमारोप्य प्रणम्य प्राकृताशयान् । KRT_8_3023ab
पीडयित्वा विशः क्लेशैः कार्यं किमिव पश्यसि ॥ KRT_8_3023cd
यश्च ते प्रतिभात्येव जेतव्यो विदितो न किम् । KRT_8_3024ab
अग्निशौचः स सारङ्गः परशौर्याग्निमज्जने ॥ KRT_8_3024cd
यत्र शस्त्रशलाकापि विकला तद्विधीयते । KRT_8_3025ab
इन्दीवरदलद्रोण्या घटनं स्फाटिकाश्मनः ॥ KRT_8_3025cd
पृथ्वीहरावतारादिप्रत्यनीकिजितः परे । KRT_8_3026ab
के नामास्य न संघर्षे क्षुद्रप्राया दरिद्रति ॥ KRT_8_3026cd
किं दृप्या1 एव बुद्ध्वापि कृत्यं द्वैराज्यजीविनाम् । KRT_8_3027ab
भृत्याशयाः फणिग्राहिगृहीता इव भोगिनः ॥ KRT_8_3027cd
जातैः क्ष्मावलयोद्वहे फणिकुले धिग्भो1गिडिम्बैर्मुदा2 व्यालग्राहिविकासितास्यकुहरैर्ग्रासस्य3 हा गृह्यते । KRT_8_3028ab
एतान्भिक्षयितुं न तु प्रथयितुं ते जीविकायै जनत्रासार्थं ननु कारयन्ति हि दृतेर्निर्मज्जनोन्मज्जनम् ॥ KRT_8_3028cd
इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् । KRT_8_3029ab
तदैव1 चाशु व्याकोशविवेकः समपद्यत ॥ KRT_8_3029cd

3004.

--1) Thus A; C ॰मुख्यान्मुग्धोऽस्मि सन्दिशेत्.

--2) Perhaps read संदिशन्.

3019.

--1) Emended with C; A ॰नीतः.

3022.

--1) सारसा no longer legible in A; found in R G C.

3027.

--1) Emended; A दृप्य.

3028.

--1) Emended with G (sec. manu); A ॰कलैर्धिर्भोगि.

--2) Emended with G (sec. manu); A ॰कासितस्य कुहरैर्ग्रामस्य.

3029.

--1) Emended; A तदेव.

[page 277]




भव्यात्मत्वं प्रशममहिमोल्लासते हन्त हेतुर्भावानां तु ध्रुवमपरथा मार्दवं क्रूरता वा । KRT_8_3030ab
स्पृष्टं1 पादैरमृतमहसः स्यात्कठोरं हिमांशोर्याति ग्रावाप्यहह रभसादार्द्रतां चन्द्रेaकान्तः ॥ KRT_8_3030cd
राजन्याभिजने जातोप्यलज्जत्वमशिक्षितः । KRT_8_3031ab
सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ KRT_8_3031cd
गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः । KRT_8_3032ab
पूर्वेप्युर्वीभुजः खर्वाः क्षुद्राः स्पर्धासु के वयम् ॥ KRT_8_3032cd
तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला । KRT_8_3033ab
शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ KRT_8_3033cd
क्ष्वेडाग्नितापनिविडोरगसंगमेपि तुङ्गस्य चन्दनतरोरपि शीतलत्वम् । KRT_8_3034ab
काले हिमर्तुपरिपिञ्जरसंज्वरेपि निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ KRT_8_3034cd
कुतोपि पर्ययात्कार्यं सुप्तं नृपममुं विना । KRT_8_3035ab
प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितम्1 KRT_8_3035cd
भ्रष्टं निर्झरवारि शुभ्रमचलैः स्त्रीयेन भूयः क्वचिल्लभ्यं लभ्यमथाभ्रतः कलुषतादृष्टं प्रकृष्टं न तत् । KRT_8_3036ab
निर्यन्निर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दधत्प्रालेयत्वमुपेत्य शुद्धिमधिकां नाद्रेर्हिमाद्रेर्नगैः ॥ KRT_8_3036cd
तदर्थमेव ग्रथितो योनर्थोग्रथितात्मनः । KRT_8_3037ab
स तेन स्वस्थतां नेतुमर्थितो न स्पृशेद्रुषम् ॥ KRT_8_3037cd
प्लोषाय योस्य दववह्निमदादमुष्मिन्स्वस्थे स तेन शिखिना ग्लपितः समीपम् । KRT_8_3038ab
अभ्येति चन्दनतरोर्दववह्निदाहशान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ KRT_8_3038cd
समग्र1दुर्गतावर्हदपकर्तेव भूपतिम् । KRT_8_3039ab
लोकनाथं तमुद्धर्तुं धीरं धन्यः पुनः पुनः ॥ KRT_8_3039cd
राजप्रसादनोपायान्वेषी बलहरान्तिकम् । KRT_8_3040ab
राजदूतमथायान्तमेकदै1कं व्यलोकयत् ॥ KRT_8_3040cd
दरद्देशं व्रजन्दृष्टवान्प्राक्प्रज्ञातम1न्तिकम् । KRT_8_3041ab
स नमन्तं तमानीय ततः स्मेर इवाब्रवीत् ॥ KRT_8_3041cd
राज्ञः किमन्यसंधानैः संधिं बध्ना1त्वसौ मया । KRT_8_3042ab
प्राज्ञ्जैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ KRT_8_3042cd
ततस्याश्रद्दधानस्य नर्मस्मेरस्य जानतः । KRT_8_3043ab
प्रत्ययोत्पादनं तैस्तैरालापैः किंचन व्यधात् ॥ KRT_8_3043cd
निर्दम्भभाषितैरूढविस्रम्भः स कथान्तरे । KRT_8_3044ab
अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ KRT_8_3044cd
राजपुत्राभिजातस्य पादच्छायास्य लभ्यते । KRT_8_3045ab
स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ KRT_8_3045cd
अनुवृत्त्यातिमृद्व्यापि तस्यापोह्येत1 वैकृतम् । KRT_8_3046ab
ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ KRT_8_3046cd
अपि स्मरसि चार1त्वे नियुक्तोस्मि महीभुजा । KRT_8_3047ab
विशतस्ते दरद्देशमभूवं पुरतः पुरा ॥ KRT_8_3047cd
ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् । KRT_8_3048ab
कालं क्षेप्तुं कथां1 दैर्घ्यं नयन्मध्ये तमभ्यधाम्2 KRT_8_3048cd
क्षुत्तृड1ध्वक्लमश्रान्तान्देव त्वामवलोक्य माम् । KRT_8_3049ab
निन्दतः स्वानुगान्भोजो2 निर्भर्त्स्यैवं तदाब्रवीत् ॥ KRT_8_3049cd
स दैवतमिवास्माकं कुलालंकरणं प्रभोः । KRT_8_3050ab
वयं त्वसुकृतो यस्य नाप्नुमः पादसेवनम् ॥ KRT_8_3050cd
गण्याः पर्यन्तनिःसारास्तत्संबन्धादिमे वयम् । KRT_8_3051ab
चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ KRT_8_3051cd
तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः । KRT_8_3052ab
पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ KRT_8_3052cd
तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः । KRT_8_3053ab
सोन्तर्बाष्पोप्य2पश्यत्तं सान्त्वयन्तमिवाग्रतः ॥ KRT_8_3053cd

3030.

--1) Emended with C; A स्पष्टं.

3035.

--1) Emended; A चाधितुम्.

3039.

--1) Emended with G (sec. manu); A समग्रोदु॰.

3040.

--1) Emended with G (sec. manu); A ॰मेकमेकं.

3041.

--1) Emended; A ॰न्दृष्टवाक्प्रज्ञान्तम्॰; C ॰वाक्प्रज्ञातुम॰.

3042.

--1) Emended with C; A सन्धिबन्धात्त्वसौ.

3046.

--1) Emended; A ॰पोह्यत.

3047.

--1) Emended; A चारुत्वे.

3048.

--1) Emended; A कथादैर्घ्यं.

--2) Emended; A तमभ्यधात्.

3049.

--1) Doubtful emendation of C; A क्षुन्दन्नध्व॰.

--3) Emended; A भोजं.

3053.

--1) प्य omitted in A; supplied with C.

[page 278]




सुव्यक्तमात्रासंबोधमुग्धत्वेन विहीयते । KRT_8_3054ab
तत्त्ववित्कारणाज्ञा1नादन्तःकरणवेदनम् ॥ KRT_8_3054cd
अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः । KRT_8_3055ab
प्रतिदूतीकृते तस्मिन्धन्यो न प्रत्ययं दधे ॥ KRT_8_3055cd
दोविताभूद्यथा नागवृत्तान्ते न भवेत्तथा । KRT_8_3056ab
महीभुजं मोहयितुं मायया दीव्यते मया ॥ KRT_8_3056cd
मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः । KRT_8_3057ab
व्याजार्जवेन भोजस्तु संधिबन्धाय तत्वरे ॥ युग्मम्॥ KRT_8_3057cd
तत्कालयोग्यसाचिव्यश्चक्रिकाचतुरस्तथा । KRT_8_3058ab
तेनाशु दौशिकापत्यमेको दूत्ये न्ययोज्यत ॥ KRT_8_3058cd
स बालकतया नित्यस्वतन्त्रश्चक्रिकां स्वयम् । KRT_8_3059ab
आचरेदिति नाशङ्कां भोजे बलहरोभजत् ॥ KRT_8_3059cd
पार्थिवः प्रार्थितः संधिदूतमाप्तं प्रतीक्षते । KRT_8_3060ab
प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ KRT_8_3060cd
तत्रासंनिहितान्याप्तः स्त्रीत्वादप्रतिभामपि । KRT_8_3061ab
धात्रीं नोनाभिधानां स्वां राज्ञोभ्यर्णं व्यसर्जयत् ॥ KRT_8_3061cd
मृतेन पित्रा मात्रा च हीनं1 तमनुयातया । KRT_8_3062ab
मातृकृत्यं ययात्रासीछैशवे माननीयया ॥ KRT_8_3062cd
पत्युः प्रीत्यै विसंधानध्वंसाकल्पादिकल्पनात् । KRT_8_3063ab
सखीकृत्यं सपत्नीनां यया शान्तेर्ष्यया कृतम् ॥ KRT_8_3063cd
ह्रासोल्लासे1 हि कार्याणां योग्यकृत्याप्तनिश्चयात् । KRT_8_3064ab
न यां सुक्षत्रियां क्ष्माभृत्संभ्रान्तां जातु वीक्षते ॥ KRT_8_3064cd
श्वशुरेण प्रजाभिश्च कृतं राज्ञोभिषेचने । KRT_8_3065ab
आशास्यं या1 महादेवीपट्टबन्धं समादधे ॥ KRT_8_3065cd
अपत्यप्रियताभोगलोभभर्तृप्रसादनैः । KRT_8_3066ab
प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ KRT_8_3066cd
स्वत्रान्यत्र च संधाने जाते भर्तुरभिन्नधीः । KRT_8_3067ab
भाग्योदयेष्वनुत्सिक्ता या चाखण्डितसद्व्रता ॥ KRT_8_3067cd
आ बाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा । KRT_8_3068ab
कार्यमध्यं विगाहेन मानाभिजनरक्षिणी ॥ KRT_8_3068cd
इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् । KRT_8_3069ab
प्रस्थानपदयात्रां सा सीमा1न्तप्रापणावधिः ॥ कुलकम्॥ KRT_8_3069cd
गुप्त्यै लग्नकवित्तादि परार्ध्यं मध्यपातिनाम्1 KRT_8_3070ab
पाथेयार्थं पृथुस्वर्णभाजि कोशादि चात्मनः ॥ KRT_8_3070cd
प्रापया1मास किं चाष्टौ प्रकृष्टाभिजनोद्भवान् । KRT_8_3071ab
पालनार्थं राजपुत्रान्देवी यत्2सर्वसंविदम् ॥ युगलकम्॥ KRT_8_3071cd
वाचकं तद्गृहीत्वा तामागमत्पार्थिवेन सः । KRT_8_3072ab
धात्रीं स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥ KRT_8_3072cd
विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः । KRT_8_3073ab
राजधर्मस्य च वसन्नासीद्दोलाकुलाशयः ॥ KRT_8_3073cd
स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया । KRT_8_3074ab
संकटान्मोचितव्योसौ1 यायात्कालेन विक्रियाम् ॥ KRT_8_3074cd
अनिःशेषितजीमूतजालमाविर्भवन्रविः । KRT_8_3075ab
अनूनक्लेशशेषं च विवेको न स्फुरेच्चिरम् ॥ KRT_8_3075cd
मुग्धान्नि1रनुसंधाननागबाधादवेत्य नः । KRT_8_3076ab
स्वार्थस्य सिद्धये माया तेनेयं निरमायि वा ॥ KRT_8_3076cd
लब्धलक्षेपरिक्षीणे शक्ते1 यूनि गणाश्रिते । KRT_8_3077ab
क्षत्रधर्मस्थिते नेदृग्विवेकः क्वापि लक्ष्यते ॥ KRT_8_3077cd
अवल्लि कुङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् । KRT_8_3078ab
अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ KRT_8_3078cd
न त्याज्यो राजपुत्रोसावेवं मायानिधिर्यदि । KRT_8_3079ab
एवंविवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ KRT_8_3079cd
राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः । KRT_8_3080ab
ऋजुप्रभावात्सुस्पष्टमन्यत्कार्यं न मन्यते ॥ KRT_8_3080cd
अटन्ती1 कुटिलं स्पष्टं सरित्स1र्वैर्न लक्ष्यते । KRT_8_3081ab
कान्ताकुन्तलविष्यन्दी तोयबिन्दुरिव क्रमः ॥ KRT_8_3081cd

3054.

--1) Emended with G (sec. manu); A ॰कारणज्ञा॰.

3062.

--1) Emended; A हीने.

3064.

--1) Emended; A ॰ल्लासो.

3065.

--1) Emended; A वा.

3069.

--1) Emended; A सीमन्ताप्रा॰.

3070.

--1) Emended; A ॰पातिनम्.

3071.

--1) Emended with C; A प्राप्नुयामास.

--2) Emended with G (sec. manu); A ॰न्देवीवत्स॰.

3074.

--1) Doubtful emendation; A ॰तव्यासौ.

3076.

--1) Emended; A मुiग्धानिर॰.

3077.

--1) Emended; A शक्तो.

3081.

--1) Emended with C; A1 has first written -- लं and then supplied टि over the lacuna.

--2) Emended with C; A शरत्स॰.

[page 279]




इति ध्यात्वा राजधर्मं सत्यप्रज्ञोचितं व्यधात् । KRT_8_3082ab
धन्यरिल्हणयोः कार्यं श्रुतावन्यान्विसर्जयन् ॥ KRT_8_3082cd
स्वस्यैवार्थस्य दार्ढ्याय साल्हणि1स्त्वां दिदृक्षते । KRT_8_3083ab
समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ KRT_8_3083cd
मा भैषीदेष संधित्सुः1 सैन्यादिति मितानुगः । KRT_8_3084ab
अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ KRT_8_3084cd
सरित्सा जानुदघ्नाम्भा भूत्वा घर्मद्रुते हिमे । KRT_8_3085ab
गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ KRT_8_3085cd
अवाप्ता चेर्ष्ययालङ्घ्यभावं यान्त्यपि दन्तिनाम् । KRT_8_3086ab
रुद्धः सिन्ध्वाभवत्सोथ द्विषां रन्ध्रैषिणां वशे ॥ KRT_8_3086cd
सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे । KRT_8_3087ab
ते दिण्डीरोपमां1 प्रापुः पिण्डिताः पाण्डुवाससः ॥ KRT_8_3087cd
खाश1कानां सहस्राणि भोजस्य पतितं2 बले । KRT_8_3088ab
स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयन्3 KRT_8_3088cd
दृग्भ्यां संभ्रमदीनाभ्यामघशान्तये स्पृशन्निव । KRT_8_3089ab
कर्णे सल्हणसूनुस्तान्संतर्ज्यावृजिनो1ब्रवीत् ॥ KRT_8_3089cd
निर्दम्भस्य विस्रम्भाद्धावतो विहिते वधे1 KRT_8_3090ab
निरत्ययो निपातः स्यान्नियतं निरये पुनः ॥ KRT_8_3090cd
हतेस्मिन्बहुभृत्यस्य न च शक्तिश्चयः प्रभोः । KRT_8_3091ab
नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ KRT_8_3091cd
अपि वा वाच्यता राजामेवं विस्रब्धबाध1नात् । KRT_8_3092ab
तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ KRT_8_3092cd
यथायं वृत्तयेनन्यकर्मा भूपं1 निषेवते । KRT_8_3093ab
तथा ममापि यत्नोयं तत्सेवासादने यतः ॥ KRT_8_3093cd
युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः । KRT_8_3094ab
ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ KRT_8_3094cd
रात्रौ तथैवादरिद्राश्छिद्रं तद्रक्षितुं ततः । KRT_8_3095ab
कारिताः कोशपानं ते तमर्थं सोपि बोधितः ॥ KRT_8_3095cd
तेनावेदितनिर्व्याजतया धीरो महीपतिः । KRT_8_3096ab
अनुध्यायाथ संदिग्धं संधिसिद्धिममुन्धधीः ॥ KRT_8_3096cd
अज्ञातनिश्चयः सिद्धेर्विनान्तःकरणं परैः । KRT_8_3097ab
अथ प्रास्थापयद्देवीं सामात्यां1 तारमूलकम् ॥ KRT_8_3097cd
राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी । KRT_8_3098ab
प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ KRT_8_3098cd
असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् । KRT_8_3099ab
आर्यपुत्र विचार्योस्ति1 विस्रम्भः किं विरोधिनाम् ॥ KRT_8_3099cd
यद्वा निर्मानुषोन्मेषं1 शेमुषीत्वं विगाहितुम् । KRT_8_3100ab
प्रथते नु कथंकारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ KRT_8_3100cd
देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते । KRT_8_3101ab
सतीधर्मस्तु सहते राजधर्मस्य नोचितम् ॥ KRT_8_3101cd
व्यञ्जितास्यसदाचारं कलिकृत्यं द्विषि त्वयि । KRT_8_3102ab
प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ KRT_8_3102cd
न गृह्णाति शमं वेत्ति स्वस्यान्यस्य न चान्तरम् । KRT_8_3103ab
निर्व्यूढमददोषोद्य प्रायेण प्राकृतो जनः ॥ KRT_8_3103cd
पुत्रमन्त्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति । KRT_8_3104ab
साध्वाचारोपि भूपालः क्रुध्यन्वि1स्रब्धबाधने ॥ KRT_8_3104cd
समयालङ्घनामोघगिरा देवेन पीयते । KRT_8_3105ab
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ KRT_8_3105cd
त्रातव्यसंक्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः । KRT_8_3106ab
ममैवास्वादयन्त्यादादात्मंभरिपुरास्थितिः1 KRT_8_3106cd
इत्युक्त्वा विरतां सत्यसंधः साध्वीं धरापतिः । KRT_8_3107ab
शान्तशङ्कामकृत्वा तां समामन्त्र्य1 न्ययोजयत् ॥ KRT_8_3107cd
भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेतनं नृपः । KRT_8_3108ab
संरम्भे किमयं ध्यायत्यन्तः सर्वेप्यचिन्तयत् ॥ KRT_8_3108cd

3083.

--1) Emended; A ॰णिस्तां.

3084.

--1) Emended; A भैषीरेष सन्धित्स्व.

3087.

--1) Emended with C; A ॰रोपमतां.

3088.

--1) Emended; A खश॰.

--2) Emended; A पतिते.

--3) Emended; A ॰चिन्तयत्.

3089.

--1) Emended; A ॰तर्ज्य वृजिनो॰.

3090.

--1) Emended; A विधेः.

3092.

--1) Emended; A ॰बोधनात्.

3093.

--1) Emended; A रूपं.

3097.

--1) The akshara त्यां could also be read न्यां; thus C.

3099.

--1) Doubtful emendation; A विचार्योसि.

3100.

--1) Conjectural emendation.

3107.

--1) Conjectural reanding; A has written originally -- -- -- -- न्ययो॰ and subsequently filled up the lacuna with माता मन्त्र्या; G (sec. manu) सोनामन्त्र्य.

[page 280]




उपायेषु प्रयुक्तेषु देवीसंप्रेषणावधि । KRT_8_3109ab
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ KRT_8_3109cd
सवपक्षभेदाद्भूभर्तुः सबलत्वाबलत्वयोः । KRT_8_3110ab
परीक्षकत्व्वाद्ये केचिन्माध्यस्थ्येनावसन्क्वचित् ॥ KRT_8_3110cd
तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः । KRT_8_3111ab
भोजगृह्यैः सहाबध्नन्कन्थां सर्वेपि डामराः ॥ KRT_8_3111cd
ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येस्माभिरीदृशः । KRT_8_3112ab
भोजः संजात इत्याशु माध्यस्थ्यं परिजह्रिरे ॥ KRT_8_3112cd
त्रिल्लको भोजसविधं तनूजं प्राहिणोद्द्रुतम् । KRT_8_3113ab
प्रावेशयच्छमालां च चतुष्कं पुष्कलैर्बलैः ॥ KRT_8_3113cd
ये भिक्षुविप्लवेप्यासन्नाजदाक्षिण्यरक्षिणः । KRT_8_3114ab
विरोधिसविधं प्रापुस्तेपि नीलाश्वडामराः । KRT_8_3114cd
लहराद्देवसरसाद्धोलडात1श्च डामराः । KRT_8_3115ab
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत ॥ KRT_8_3115cd
न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेर्बले1 KRT_8_3116ab
पतत्प्रावृट्प्रमत्तौ1घघोषोम्भोधाविवोद्गतः ॥ KRT_8_3116cd
भोजस्तु देवीमायान्तीं1 श्रुत्वा बलहरं ततः2 KRT_8_3117ab
ध्रुवं संधित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ KRT_8_3117cd
एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् । KRT_8_3118ab
संबन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥ KRT_8_3118cd
कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते । KRT_8_3119ab
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ KRT_8_3119cd
यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः । KRT_8_3120ab
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ KRT_8_3120cd
मा च भूद्विजयाशा वः समेता निखिला इति । KRT_8_3121ab
अद्राक्ष्म चेदृशान्व्यूहानवारुक्षाम1 वोन्नतेः ॥ KRT_8_3121cd
युक्तियुक्तमिदं चान्यच्चोक्तवान्बहु निश्चयात् । KRT_8_3122ab
नाशक्यतान्यथा कर्तुं भोजो बलहरादिभिः ॥ KRT_8_3122cd
द्वित्राहान्तरितेमित्रप्रमाथेपरथा कथम् । KRT_8_3123ab
फलकालेसि संवृत्तमिति तं चावदन्नृपाः ॥ KRT_8_3123cd
तारमूलस्थितौ1 राज्ञ्यां ससैन्यौ धन्य2रिल्हणौ । KRT_8_3124ab
राजपुत्रैः सह ततः पाञ्चिग्रामवापतुः ॥ KRT_8_3124cd
प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती । KRT_8_3125ab
परस्मिन्कूलगहने भोजोप्येतावुपाविशत् ॥ KRT_8_3125cd
अश्रान्तं विशतो दिङ्मुखेभ्यस्तत्कटकं भटान् । KRT_8_3126ab
पश्यन्तः केपि संधिं न श्रद्दधुर्नृपतेर्बले ॥ KRT_8_3126cd
हठप्रविष्टान्निर्यातुमक्षमानल्पसैनिकान् । KRT_8_3127ab
धन्यादीन्राजवदनो हन्तुं शश्वदचिन्तयत् ॥ KRT_8_3127cd
छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः । KRT_8_3128ab
महापद्मसरोनौषु निभृतं केचनावसन् ॥ KRT_8_3128cd
अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः । KRT_8_3129ab
स्वैः स्वैर्मार्गैस्तत्र तत्र तस्थुर्भूभृदसंमताः ॥ KRT_8_3129cd
आस्कन्दं भाङ्गिलेयाद्याः पुरे शंकरवर्मणः । KRT_8_3130ab
शमाला1क्षिप्तिकावाप्तिं डामराः समचिन्तयन् ॥ KRT_8_3130cd
प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत । KRT_8_3131ab
नीलाश्वडामरैर्वीशा1 कार्या च नगरान्तरे ॥ KRT_8_3131cd
किमन्यद्राजगृह्ग्याणां समं सर्वे जिघांसवः । KRT_8_3132ab
कारण्डवानां योयान्तर्वेष्टितानामिवाभवन्1 KRT_8_3132cd
संदिग्धशिक्षितं कार्यं सर्वतः समतां तदा । KRT_8_3133ab
प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ KRT_8_3133cd
पदे पदे राजचमूपथायोत्थानमिच्छतः । KRT_8_3134ab
छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ KRT_8_3134cd
क्षणे क्षणे विसंधानध्यायिना तेन कश्चन । KRT_8_3135ab
बध्यमानास्वन्त1रायः संविधासु वयधीयत ॥ KRT_8_3135cd
घटनामुद्ययौ यो यो विरोधः कटकद्वयात् । KRT_8_3136ab
सत्त्वैकाग्रः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ KRT_8_3136cd

3115.

--1) A ॰द्धोलळ्हातश्च.

3116.

--1) Emended; A साल्हणे बले.

--2) Emended with C; A ॰प्रमत्तोघ॰.

3117.

--1) Doubtful emendation; A दीदीमायान्तौ.

--2) Emended A ॰हरस्ततः.

3121.

--1) Doubtful emendation; A चेदृशां व्यूहानवरुक्ष्याम; C चेदृशं व्यूहमवरोक्ष्यामि.

3124.

--1) Doubtful emendation; A ॰स्थिते राज्ञ्यां; C ॰स्थिते राज्ञि.

--2) Emended with C; A धैन्य॰.

3130.

--1) A1 gloss श्वाल्.

3139.

--1) Thus A; C ॰रैरीर्ष्या.

3132.

--1) Emended with C; A ॰भवत्.

3135.

--1) Emended; A बध्यमानस्वान्त॰.

[page 281]




दूत्ये च कल्यकत्वे वा येरुवन्राजरञ्जकः । KRT_8_3137ab
भयेन प्रययुस्ते यद्वैकल्यं कार्यसंकटे ॥ KRT_8_3137cd
1कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया2 वदन्ति करुणं3 यस्मात्त्रपावान्भवेत्4 KRT_8_3138ab
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न5 मर्मान्त6कृद्ये केचिन्ननु7 शाद्यमौग्ध्यनिधयस्ते भूभुजो रञ्जकाः ॥ KRT_8_3138cd
भण्डस्ताण्डवमण्डपे कटुकथावीथी1षु कन्थाकविर्गोष्ठश्वा स्व्गृहाङ्गने शिखरिभूगर्ते2 खटाकुः स्फुटम् । KRT_8_3139ab
पिण्ंडीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ KRT_8_3139cd
शूरोद्रेकविपर्यसाच्छान्तोष्मक्ष्माभृतस्ततः । KRT_8_3140ab
वासरः शरणीचक्रे तुङ्ग1स्योत्तुङ्ङमञ्जसा ॥ KRT_8_3140cd
भानुर्दत्तपदोनूरोर्भ्रातुर्गोवलयान्तरे । KRT_8_3141ab
क्ष्माभृच्छिरोर्पितकरो रक्तमण्डलतां दधे ॥ KRT_8_3141cd
अहस्त्रियामामुखयो -- --1 मध्यस्थया दधे । KRT_8_3142ab
संध्यया वन्दनीयत्वं जनस्य2 व्यञ्जिताञ्जलेः ॥ KRT_8_3142cd
कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तैः सिरोद्गमः । KRT_8_3143ab
श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे ॥ KRT_8_3143cd
सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः । KRT_8_3144ab
कवाटिनां घटेष्वेव षट्पदैर्घटितं पदम् ॥ KRT_8_3144cd
अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः । KRT_8_3145ab
सरित्तटे सकटकाः पर्यतप्यन्त मन्त्रिणः ॥ KRT_8_3145cd
न किंचित्प्रत्यभात्स1र्वं लघु भ्रान्तं च जानताम् । KRT_8_3146ab
ओघेन ह्रियमाणानामिवैषामवलम्बनम् ॥ KRT_8_3146cd
तीरे परस्मिन्सरितो वसन्बलहरः पुनः । KRT_8_3147ab
रुद्धः कन्दलितास्कन्दबुद्धिः1 साल्हणिना2सकृत् ॥ KRT_8_3147cd
कार्यातिपातादायातं मन्त्रिणां तन्मितं बलम् । KRT_8_3148ab
तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ KRT_8_3148cd
तितस्तासिन्धुसंभेदयात्रायां नगरे यथा । KRT_8_3149ab
तथा तथापतन्रा1त्रौ लोकोश्रान्तो व्यवर्तत ॥ KRT_8_3149cd
लेखैर्डामरसंहारखण्डनाय विसर्जितैः । KRT_8_3150ab
सान्यैरग्रथिता बाह्यैर्नानाग्रैः राजवीजिनः ॥ KRT_8_3150cd
शाद्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि । KRT_8_3151ab
धीरो धैर्यान्निश्रयाद्वा स्वैः स क्रष्टुं न पारितः ॥ KRT_8_3151cd
सामन्तानामागतानामविस्रम्भादसंभ्रमम् । KRT_8_3152ab
न्यक्कृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ KRT_8_3152cd
कृते च कदनोंकारेनेन -- --1समुन्मिषेत् । KRT_8_3153ab
द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ KRT_8_3153cd
इति निर्धाय दुध्रु1क्षुरिव भोजः क्षपात्यये । KRT_8_3154ab
कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ तिलकम्॥ KRT_8_3154cd
एषां मदर्थाया1तानां सामन्तानां सभोजनः2 KRT_8_3155ab
दाक्षिण्यादिति नाभोजि तेनाप्यभिजनस्पृशा ॥ KRT_8_3155cd
तथा स्वमत्या1वैमत्यं तमज्ञात्वा तु मन्त्रिणः । KRT_8_3156ab
निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ KRT_8_3156cd
पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात् । KRT_8_3157ab
तेषामासविधास्कन्दः1 प्रधावदहितभ्रमम् ॥ KRT_8_3157cd
कूले परस्मिन्कूलिल्न्याः स्वाभिसंधाननिर्वृतैः । KRT_8_3158ab
समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ KRT_8_3158cd
मरुत्काकुत्स्थ1दूतस्य कपेस्तीर्णाम्बुधेः पिता । KRT_8_3159ab
ततान तेषां दूतानां सरित्पारगतौ -- --2 KRT_8_3159cd

3138.

--1) This verse and the following are found in Vallabhadeva's , 462-463 (ed. Peterson and ).

--2) न्नम्राङ्गतया supplied by A3 in space left by A1.

--3) Thus corr. by A1 from करुणां.

--4) Thus corr. by A3 from A1 त्रपावाभ॰.

--5) Thus in ; A प्युग्रेण.

--6) Thus corr. by A3 from A1 कर्मा.

--7) न्ननु supplied by A5 in space left by A1.

3139.

--1) Emended; A कटुकथावीचीषु; . चटुकथावीथीषु.

--2) Thus A1 in margin and ; A1 in text भूगर्भे.

3140.

--1) तुङ्ग supplied by A3 in space left by A1.

3142.

--1) Thus A1; C supplements ॰योरपि.

--2) Emended with C; A जनयन्व्यञ्जि॰.

3146.

--1) Emended; A ॰भात्स्वं.

3147.

--1) Emended with C; A ॰स्कन्दोबुद्धिः.

--2) Emended with C; A साल्हणना॰.

3149.

--1) Emended A ॰पतद्रात्रौ.

3183.

--1) नेन supplied by A3; A1 indicated originally a lacuna of four akshara; C supplements सर्वं.

3154.

--1) A दुद्रु॰.

3155.

--1) Doubtful emendation; A समत्यावै॰.

3157.

--1) Emended; A ॰स्कन्दप्र॰.

3159.

--1) Emended with C; A काकुस्थ॰.

--3) Thus A; C fills up the lacuna with बलम्.

[page 282]




कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् । KRT_8_3160ab
आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ KRT_8_3160cd
क्षपान्ते क्ष्माधरोत्तंसहेमतामरसभ्रमम् । KRT_8_3161ab
उद्गच्छतो रवेर्यावच्चिच्छिदुर्न करच्छटाः ॥ KRT_8_3161cd
चक्राह्वविरहालोकसशोकानामिवागलत् । KRT_8_3162ab
कुट्मलाक्षिपुटाद्यावन्नैशं नाम्भश्च वीरुधाम् ॥ KRT_8_3162cd
मितपत्तियुत्तस्तावत्तरुकच्छाद्विनिर्गतः । KRT_8_3163ab
-- -- --1स्त्वरयन्युद्ध2वाहान्मूर्ध्न्यङ्घ्रिणा स्पृशन्3 KRT_8_3163cd
रोद्धुकामाण्डामरीयान्वीरान्दृष्टेर्विलोकितैः । KRT_8_3164ab
सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ KRT_8_3164cd
पारश्वधी चारुवेषो युवा संमुखमापतन् । KRT_8_3165ab
युग्याधिरूढस्तैः प्रैक्षि संप्राप्तः सरितस्तटम् ॥ कुलकम्॥ KRT_8_3165cd
अदृष्टपूर्वं तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् । KRT_8_3166ab
कुड्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ KRT_8_3166cd
अतिवाह्य निशां राजवदनं तं विमोहयन् । KRT_8_3167ab
प्रातश्च तरसामन्त्र्य स तथा संमुखोह्यभूत् ॥ KRT_8_3167cd
प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः । KRT_8_3168ab
धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ KRT_8_3168cd
उदभूत्तुमुलः शब्दस्ततः कटकयोर्द्वयोः । KRT_8_3169ab
एकत्राक्रन्द1मुखरः परत्रानन्दनिर्भरः ॥ KRT_8_3169cd
नादमाकर्ण्य संग्रामबुद्ध्या दिग्भ्यः प्रधावितैः । KRT_8_3170ab
तं परैर्मि1लितं वीक्ष्य मूर्ध्नताद्धत डामरैः ॥ KRT_8_3170cd
तस्याभिनन्दनालापप्रमुखा 1प्रक्रियाभवत् । KRT_8_3171ab
अदैन्यशुद्धधान्यादिष्वनुज्झितनिजक्रमा ॥ KRT_8_3171cd
प्लवमानं पवित्रेयं पृथिवी स्थैर्यशालिना । KRT_8_3172ab
अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ KRT_8_3172cd
राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना । KRT_8_3173ab
त्वया स्तुवता तत्तत्सस् धन्येनाभ्यधीयत ॥ KRT_8_3173cd
गवां जयति सर्वासां निर्विकारतया वसन् । KRT_8_3174ab
विक्रियोपहतं गौस्ते क्षीरं --1 क्षीरवारिधेः ॥ KRT_8_3174cd
कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः । KRT_8_3175ab
निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ KRT_8_3175cd
सदाचारस्य भवता प्रथमं प्रहते पथि । KRT_8_3176ab
न तच्चित्रं संचरामश्चरमं चेत्ततोधिकम् ॥ KRT_8_3176cd
इत्यादिप्रसृतालापदत्तोल्लापदत्तोल्लापोधिरोह्य1 सः । KRT_8_3177ab
जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ KRT_8_3177cd
लवन्याः कतिचित्क्रोशन्वि1क्रोशन्तस्तदा ययुः । KRT_8_3178ab
स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ KRT_8_3178cd
स एवमेकविंशेब्दे ज्यैष्ठस्य1 दशमेहनि । KRT_8_3179ab
त्रयस्त्रिंशद्वर्षदेश्यः समगृह्यत भूभुजा ॥ KRT_8_3179cd
राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् । KRT_8_3180ab
अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ KRT_8_3180cd
इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् । KRT_8_3181ab
प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ KRT_8_3181cd
गुणैरशाद्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः । KRT_8_3182ab
तस्य विशदशीलं स क्षमापतिममन्यत ॥ KRT_8_3182cd
मुखरा1गो मनोवृत्तेर्द्वारौज्ज्वल्यं गृहश्रियः । KRT_8_3183ab
भर्तृस्वभावस्याचारो योषितामनुमापकः ॥ KRT_8_3183cd
दिनक्षयव्यञ्जिताध्वक्लमं1 प्रस्थातुमुत्सुकम् । KRT_8_3184ab
राज्ञोभ्यर्णं विशेत्येनं2 दाक्षिण्यात्कोपि नाब्रवीत् ॥ KRT_8_3184cd
कथंचिद्रुद्धमाध्यस्थवैमत्यैः सचिवैरथ । KRT_8_3185ab
स त्वादिक्षन्नरपतिराशान्तेर्ष्योभ्यधीयत1 KRT_8_3185cd
राज्ञोभ्यर्णं विशे1त्युक्तेरुपोद्घातोपमं वचः । KRT_8_3186ab
तत्तस्य श्रोत्रशुष्कुल्यां -- --1 शङ्कुक्रियां व्यधात् ॥ KRT_8_3186cd

3163.

--1) Thus A; C स वीरस्त्वर॰.

--2) Emended with C; A ॰न्य्युद्ध्यवा॰.

--3) The latter न् cannot be read with certainty; C ॰स्पृशत्.

3169.

--1) Emended; A ॰क्रान्ति॰.

3170.

--1) Thus corr. by A1 from डामरैर्नि॰.

3171.

--1) Emended with G (sec. manu); A ॰मुखापक्रि॰.

3172.

--1) Emended with C; A ॰स्तम्भ्य.

3174.

--1) Thus A; C supplements तं.

3177.

--1) Emended; A ॰दन्तोल्लापोधिरोह.

3178.

--1) Emended; A ॰त्क्रोशाद्वि॰.

3179.

--1) Emended with C; A ज्येष्ठस्य.

3181.

--1) Emended; A इन्द्रवंशा॰.

3183.

--1) Emended; A मुखरागमनो॰.

3184.

--1) Emended with C; A ॰क्लमां.

--3) Emended; A इन्द्रवंशा॰.

3183.

--1) Emended; A मुखरागमनो॰.

3184.

--1) Emended with C; A ॰क्लमां.

--2) Emended; A विशत्येनं.

3185.

--1) Doubtful emendation; A स त्वादिक्षुर्नरपतिराशान्तेभ्योभ्य॰.

3186.

--1) Emended; A विशत्यु॰.

--2) Thus A; C supplements तदा.

[page 283]




चिरात्ताडितमर्मेव समाश्वास्यैक्षताथ सः । KRT_8_3187ab
मध्यस्थानां स्थितं स्थैर्यं1 दाक्षिण्यादोष्ठयोः परम् ॥ KRT_8_3187cd
प्राणान्मुमुक्षोस्ते रूक्षभाषिणस्तस्य सान्त्वनैः । KRT_8_3188ab
मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ KRT_8_3188cd
आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् । KRT_8_3189ab
न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ॥ KRT_8_3189cd
अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव । KRT_8_3190ab
दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ KRT_8_3190cd
पद्धतिं राजधर्माणां सदाचारे स्थितां च ते । KRT_8_3191ab
जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ KRT_8_3191cd
किं संधिः सोभिधीयेत यत्र संधेयदर्शनम् । KRT_8_3192ab
अकृत्वा गम्यत इति प्राङ्नो कथमजीगणः ॥ KRT_8_3192cd
अनद्यतनभूभर्तृसुलभं1 भूभुजं2 तव । KRT_8_3193ab
ज्ञात्वा सत्त्वोज्ज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ KRT_8_3193cd
नास्य दम्भस्मयस्तम्भापी1तिस्थैर्यखलोक्तयः । KRT_8_3194ab
आदरादर्शवैशद्ये निःश्वासस्यापि काः श्रियः ॥ KRT_8_3194cd
अस्योपजीवनाद्या श्रीः साम्राज्यासादनान्न सा1 KRT_8_3195ab
प्रकाशो बिम्बितो2 योर्काद्दीपात्स्याज्ज्वलतः स किम् ॥ KRT_8_3195cd
निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् । KRT_8_3196ab
तत्पर्षद्यस्य राजर्षेः -- --1न्वृन्दानुबन्धिनः ॥ KRT_8_3196cd
एवं स्वगृहसंप्राप्यप्रायोनिःश्रेयसस्य ते । KRT_8_3197ab
स्थानैः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ KRT_8_3197cd
मुग्धा न केचन परे गणिताः फणिभ्यः कालानुकूलनिजकुण्डजलत्यजो1 ये । KRT_8_3198ab
श्लिष्यन्ति चन्दनरूञ्शिशिरान्निदाघे माघेप्यशीतमनवं2 विवरं विशन्ति ॥ KRT_8_3198cd
प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च ये । KRT_8_3199ab
तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ KRT_8_3199cd
त्यक्तोष्मवैकृतं पाथ इव कथितशीतलम् । KRT_8_3200ab
अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ KRT_8_3200cd
तथा समर्थां सामर्थ्याद1प्रत्याख्याय भारतीम् । KRT_8_3201ab
कुण्ठशाद्यलवस्तस्थौ प्रस्थानार्थं स मन्थरः ॥ KRT_8_3201cd
पथि संग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः । KRT_8_3202ab
अजायताथ संरूढकृत्यसाधुत्वदार्ढ्ग्यधीः ॥ KRT_8_3202cd
पदातिचरणक्षुण्णरेणुव्याजाददृश्यत । KRT_8_3203ab
वसुंधरातलं बद्धसंधीव नभसा समम् ॥ KRT_8_3203cd
दध्यौ -- -- -- --1 भोजः कच्चित्संप्राप्नुयां नृपम् । KRT_8_3204ab
कच्चिदमुष्य विघ्न्येत दर्शनं विप्रलम्बकैः ॥ KRT_8_3204cd
आराधान -- -- 1 धाम्नि नान्तरान्तरितो विटैः । KRT_8_3205ab
स्वामिनां क इवाप्नोति गुणाविष्करणक्षणम् ॥ KRT_8_3205cd
शीतोपचारकरणाद्दयितो भवेयमौर्वार्दितस्य जलधेः प्रसृतं धियेति । KRT_8_3206ab
स्रोतो हिमाद्रिपयसो विनिपात एव ग्रासीकृतं तिमिभिराहत -- -- --1 स्यात् ॥ KRT_8_3206cd
इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् । KRT_8_3207ab
सैन्यस्य रुद्धाश्वतयाबुद्धासन्नं1 नृपास्पदम् ॥ KRT_8_3207cd
नातिप्रांशुं नातिकृशं सूर्यांशुश्यामलाननम् । KRT_8_3208ab
सरोजकर्णिकागौरं शिथिलश्लथविग्रहम् ॥ KRT_8_3208cd
ककुद्मत्ककुदोत्सेधिस्कन्धमायतवक्षसम् । KRT_8_3209ab
श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ KRT_8_3209cd
उन्नसं पक्वबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् । KRT_8_3210ab
तिर्यग्विप्रेक्ष्य -- -- --1 धीरमन्थरगामिनम् ॥ KRT_8_3210cd
समाहितांशुकोष्णीष -- --1 श्रीखण्डव -- --2म् । KRT_8_3211ab
सीमन्त -- --3 चुम्बिन्या रेखया चन्द्रगौरया ॥ KRT_8_3211cd

3187.

--1) Emended with C; A स्थौर्यं.

3193.

--1) Emended; A सुलभे.

--2) Emended; A भूभुजां.

3194.

--1) Emended with G (sec. manu); A ॰स्तम्भप्री॰.

3195.

--1) Emended with C; A सः.

--2) Emended with C; A बिम्बतो.

3196.

--1) Thus A; parhaps read राजर्षेर्विद्वद्वृन्दा॰; C र्षेर्ज्जनान् वृन्दा॰.

3198.

--1) Emended with C; A ॰जल -- जो.

--2) Emended with C; A ॰शीतम -- वं.

3201.

--1) Doubtful emendation; A समर्थासमर्थ्या -- प्रत्या॰; C ॰सामथ्यान्न प्रत्या॰.

3204.

--1) Thus A; C supplements विज्ञतरो.

3205.

--1) Thus A; C आराधयन् प्रभुं धाम्नि.

3206.

--1) Thus A; C ॰हतमेव तत् स्यात्.

3207.

--1) Emended; A ॰सन्ननृपास्पदम्.

3210.

--1) Thus A; C ॰प्रेक्ष्यमाणास्यं.

3211.

--1) Thus A; C ॰ष्णीषमौलिं.

--2) Thus A; C श्रीखण्डवर्द्धनं.

--2) Thus A; C सीमन्तस्थानचु॰.

[page 284]




अश्वारूड्ःअं हर्म्यस्थसचिवैः परिवारितः1 KRT_8_3212ab
-- -- -- -- --2मायान्तं तमवैक्षत पार्थिवः3 ॥ कुलकम्॥ KRT_8_3212cd
प्रीतिविस्फारितदृशा राज्ञा पृष्ठस्ततः सभाम् । KRT_8_3213ab
सोध्यारुरोह संबाधां कौतुकोत्कन्धरैर्जनैः ॥ KRT_8_3213cd
स्पृष्ट्वा पादौ निषण्णोग्रे नृपस्यानीय पाणिना । KRT_8_3214ab
खड्गधेनुं पाणिबद्धामासनाग्रे समार्पयत्1 KRT_8_3214cd
पाणिं सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् । KRT_8_3215ab
ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ KRT_8_3215cd
न विगृह्य गृहीतोसि नाधुनापि निब1ध्यसे । KRT_8_3216ab
तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ KRT_8_3216cd
व्यजिज्ञपत्स भूपालं देव शस्त्रस्य धारणम् । KRT_8_3217ab
स्वामिसंरक्षणं स्वस्य परित्राणस्य कारणम् ॥ KRT_8_3217cd
देवे निजप्रतापाग्निगुप्तसप्तसरित्पतौ । KRT_8_3218ab
सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ KRT_8_3218cd
लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः । KRT_8_3219ab
तत्रात्र लोके किं कार्यं त्राणोपकरणैः परैः ॥ KRT_8_3219cd
राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् । KRT_8_3220ab
निर्व्यूढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ KRT_8_3220cd
भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः । KRT_8_3221ab
दृष्टादृते मया किंचिन्नोपचारार्थमुच्यते ॥ KRT_8_3221cd
किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् । KRT_8_3222ab
यदसिद्धं न तद्व्यक्तिमगादित्यवधार्यताम् ॥ KRT_8_3222cd
किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् । KRT_8_3223ab
विद्मः स्मा1नन्यकुल्यं प्राग्यं वयं चर्मचक्षुषः ॥ KRT_8_3223cd
यदा यदा देव वाञ्छामकार्ष्म भवदप्रिये । KRT_8_3224ab
भूमिस्तदा तदा भूम्ना भूप -- -- --1 भूयसः ॥ KRT_8_3224cd
यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः । KRT_8_3225ab
देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ KRT_8_3225cd
न शेखरे न प्रदरे न दरेप्युज्झितो1 मया । KRT_8_3226ab
प्रालेये भूभृतः कुञ्जे संज्वरस्त्वत्प्रतापजः ॥ KRT_8_3226cd
ततः प्रभृत्यवनतिप्रणयः शरणैषिणः । KRT_8_3227ab
सिद्धः संध्यादि1वन्ध्यत्वाद्देव दूरस्थितेर्न मे2 KRT_8_3227cd
अथाभेदाभिलाषेण पापाद्य1त्किल चेष्टितम् । KRT_8_3228ab
स्फुरत्तामात्रकव्यक्त्यै न तु तद्विग्रहाग्रहात् ॥ KRT_8_3228cd
त्वत्संबन्धादिमे दिक्षु प्रतीक्ष्याः क्ष्माभुजां1 वयम् । KRT_8_3229ab
सङ्गाद्गङ्गाम्भसः काचकुम्भसंभावना भुवि ॥ KRT_8_3229cd
अद्यापि द्योतते शाहेरा1ह्वयेन दिगन्तरे । KRT_8_3230ab
तत्संतानभवोनन्तः समूहः क्षत्रजन्मनाम् ॥ KRT_8_3230cd
त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादि1 नः । KRT_8_3231ab
कदन्नाशनदु -- -- मुखैः2 खेदोन्मुखैरभूत् ॥ KRT_8_3231cd
इतीदृ1शीभिः -- -- --2 प्रमाणमथ वा प्रभुः । KRT_8_3232ab
इत्युक्त्वा भूपतेर्मूर्ध्ना सोगृह्णाच्चरणौ पुनः ॥ KRT_8_3232cd
प्रणामसंभ्रमस्रस्तोष्णीषशीर्षं ततो नृपः । KRT_8_3233ab
तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ KRT_8_3233cd
स्वां तां च शस्त्रीं तन्न्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् । KRT_8_3234ab
तस्यासंक्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ KRT_8_3234cd
दत्ते1 मया विभृहि वा त्वमेते पूजयाथ वा । KRT_8_3235ab
न शस्त्रग्रहवैमुख्यं कार्यं मच्छासनं त्वया ॥ KRT_8_3235cd
अवन्ध्यशासने -- --1 त्यनुबध्नति2 ते व्यधात् । KRT_8_3236ab
शस्त्र्यौ3 राजानुगत्यैव वन्दित्वाङ्के स कालवित् ॥ KRT_8_3236cd
ततो निर्यन्त्रणत्वस्य निर्मणः सान्त्वनस्य च । KRT_8_3237ab
चिरसेवीव तत्कालं राज्ञोजायत भाजनम् ॥ KRT_8_3237cd

3212.

--1) Emended; A ॰रितम्.

--2) Thus A; C अनङ्गतुल्यमायान्तं.

--3) Emended with C; A पार्थिवम्.

3214.

--1) Emended with C; A समर्पयत्.

3216.

--1) Emended; A न बध्यसे.

3223.

--1) Emended with C; A विद्म स्मा॰.

3224.

--1) Thus A; C तदा भूता पात्रं कम्पस्य भूयसः; perhaps read भूम्ना भूः प्रकम्पस्य भूयसः.

3226.

--1) Emended; A ॰ज्झिते.

3227.

--1) Emended; A संध्यायिव॰.

--2) Emended; A दूरस्थिते न.

3228.

--1) Emended with C; A पा -- द्यत्किल.

3229.

--1) Emended; A क्ष्माभुजा.

3230.

--1) Emended; A शाहेवाह्व॰.

3231.

--1) Thus A; doubtful.

--2) Thus A; C कदन्नाशनदुर्भोगासुस्थैः खे॰.

3232.

--1) Emended with C; A इदीदृ॰.

--2) Thus A; C supplements स्तुतिभिः.

3235.

--1) Emended; A दत्तं.

3236.

--1) Emended; A ॰शासनो --; perhaps read अवन्ध्यशासने राज्ञीत्यनु॰; C ॰शासनोमानीत्य॰.

--2) Emended; A ॰त्यनुबति ते; the lacuna not indicated.

--2) Emended; शस्त्रौ.

[page 285]




अन्यत्प्रविष्टो धन्योथ स्वार्चाम -- --1यन्कृती । KRT_8_3238ab
कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ KRT_8_3238cd
न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः । KRT_8_3239ab
सत्क्रिया स्वामिनोप्यर्थे1 तस्मात्पार्थिव चिन्त्यताम् ॥ KRT_8_3239cd
तथापि कथ्यमानं तन्न स्यात्संभावनाभुवि । KRT_8_3240ab
यदस्मिं1श्चिन्त्यतेस्माभिरिति भूपो व्यभाषत ॥ KRT_8_3240cd
क्षणमुच्चावचां चर्चां विरचय्य विशां पतिः । KRT_8_3241ab
भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ KRT_8_3241cd
कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्ज्वलम् । KRT_8_3242ab
स राजपारिजातं तं मेने कल्पलतायुतम् ॥ KRT_8_3242cd
मान्योयं देवि सौजन्यज्ञातेयाभ्यामिहागतः । KRT_8_3243ab
विशिष्यतेसौ पुत्रेषु क्ष्माभृद्योषेत्य1भाषत ॥ KRT_8_3243cd
सभाजनाय सौजन्यनिधिर्भोजान्वितस्ततः । KRT_8_3244ab
उदूढकार्यभाराणां दाराणामप्यगाद्गुहान् ॥ KRT_8_3244cd
अभाणीन्निपुणा राज्ञी भोजं राज्ञा सहागतम् । KRT_8_3245ab
अधुनैव नृपस्याप्तः संवृत्तोसीति1 सस्मितम् ॥ KRT_8_3245cd
लज्जास्मितमुखी पत्युः प्रणत्या स्वागतोक्तिषु । KRT_8_3246ab
ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ KRT_8_3246cd
आर्यपुत्र न विस्मार्यं प्रत्याख्याताप्तमन्त्रितम् । KRT_8_3247ab
मानैकशरणस्यास्य ज्ञातिप्रीतिप्रवर्तनम् ॥ KRT_8_3247cd
पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् । KRT_8_3248ab
पद्मान्स्वकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ KRT_8_3248cd
कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना । KRT_8_3249ab
सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ KRT_8_3249cd
उदीपे1 रक्षतस्तीरं शरीराश्रयिणी भवेत् । KRT_8_3250ab
ध्रुवं वनस्पतेर्वीरुत्त2न्निपातानुपातिनी ॥ KRT_8_3250cd
पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् । KRT_8_3251ab
तथा कार्यं यथा न स्यात्त्रातव्यस्यान्यथात्मनः ॥ KRT_8_3251cd
राजा जगाद तां देवि सर्वकर्तव्यसाक्षिणी । KRT_8_3252ab
अन्यथाप्रतिपत्त्वं1 मे त्वमप्यस्य2 न मन्यते ॥ KRT_8_3252cd
निगृहीतवतो दुष्टो सुज्जिमल्लार्जुनावपि । KRT_8_3253ab
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ KRT_8_3253cd
अथ राजार्थितः स्थातुं परार्ध्ये धाम्नि सानुगः । KRT_8_3254ab
भोजो नामन्यतान्यत्र राजधन्यः1 स्थिरां स्थितिम् ॥ KRT_8_3254cd
विदूराश्रयनिर्गोप्तृभावाप्रचुरदर्शनैः । KRT_8_3255ab
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ KRT_8_3255cd
रक्षितॄनग्रहीत्क्ष्मापात्स्थि1रं च समकल्पयत् । KRT_8_3256ab
1अनया -- नृपं कार्या न सुराराधनागमे ॥ KRT_8_3256cd
विज्ञाय भावं प्रीतेन राज्ञा दत्तं1 ततो गृहम् । KRT_8_3257ab
सर्वोपकरणापूर्णं राजधान्यन्तरेभजत् ॥ KRT_8_3257cd
राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा । KRT_8_3258ab
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ KRT_8_3258cd
भोगवेलोचिताश्चर्यदर्शनादौ नृपोपि तम् । KRT_8_3259ab
प्रियं पुत्रमिवास्मार्षीद्दूतैः पार्श्वं निनाय च ॥ KRT_8_3259cd
जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् । KRT_8_3260ab
स्पर्शास्वा1दितभोज्यादिदाने नैव व्यवर्ज4त् ॥ KRT_8_3260cd
अकृत्रिमं तथा स्नेहमुवा1ह -- -- --2 यथा । KRT_8_3261ab
लडितं ज्ञा1तिवत्तस्मिंस्तद्बा2लापत्यकैः समम् ॥ KRT_8_3261cd
तामेवालम्बत व्यक्तां1 सोपि वृत्तिं यथा यथा । KRT_8_3262ab
राजा सपरिवर्होपि विस्रम्भमविगर्हितम् ॥ KRT_8_3262cd
आसन्नाभ्यन्तरा भिन्ना ये द्वैधे तानदर्शयत् । KRT_8_3263ab
राजा1 विरक्तिं स्वस्यारिबाहुल्यं च व्यसर्जयत् ॥ KRT_8_3263cd

3238.

--1) Thus A; C स्वार्चाममलयन्कृती.

3239.

--1) Emended with C; A स्वामिनो -- र्थे.

3240.

--1) Emended; A यदस्मि॰.

3243.

--1) Emended with C; A क्ष्माभृद्योपैत्य॰.

3245.

--1) Emended; A संवृत्तोर्मीति; C संवृत्तोऽस्मीति.

3250.

--1) A1 gloss उदीपः अतिवृष्ट्या अत्युद्रिक्तजलागमः.

--2) Emended with C; A ॰वीरुस्तन्नि॰.

3252.

--1) Emended; A प्रतिपत्त्य.

--2) Emended with C; A त्वमप्य --.

3254.

--1) Emended; A ॰धन्यां.

3256.

--1) Emended; A ॰क्ष्मापान्स्थिरं.

--2) Thus A; the text is here evidently corrupt; C अनयात्तं नृपं; G(sec. manu) अनुयान्तं नृपं कार्यान्नृसुराराधनागमे.

3257.

--1) Emended with C; A दातुं.

3260.

--1) Written by A5 on new paper.

3261.

--1) Written by A5 on new paper.

--2) Thus A; C supplements जनको.

--3) Emended; A ॰स्तब्दलापत्यकैः.

3262.

--1) Conjectural reading; A तमेवालम्बत व्यक्तिं.

3263.

--1) Emended; A राज्ञां.

[page 286]




अकृत्रिमात्समाधानात्करणानां सभान्तरे । KRT_8_3264ab
न प्रत्यभाज्जडो नापि धृष्टो नापि बकव्रतः ॥ KRT_8_3264cd
प्रमादस्खलिते हीनातिरिक्तत्वे च भूपतेः । KRT_8_3265ab
कार्ये नावदधे कवितेव महाकवेः ॥ KRT_8_3265cd
न विक्रमकथासत्त्र -- -- -- --1व्यकत्थत । KRT_8_3266ab
प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ KRT_8_3266cd
वि-- --कात्1प्रभोः साम्यसकुल्यत्वादिचाटुभिः । KRT_8_3267ab
धीरादृष्टैर्वृष्टिपातैरपुनर्भाषिणो भ्यधात् ॥ KRT_8_3267cd
तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् । KRT_8_3268ab
न शेकुस्तं यथा जाल्मनर्मवित्पिशुनादयः ॥ KRT_8_3268cd
क्षणेष्ववसितालोकक्षोभादिविशरारुषु । KRT_8_3269ab
प्रा -- --1वसथं गच्छञ्शङ्कां2 कामपि नातनोत् ॥ KRT_8_3269cd
यथा यथास्य विस्रम्भाद्भूपोभूच्छिथिलाग्रहः । KRT_8_3270ab
तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ KRT_8_3270cd
सदैवाग्रेसरोन्यत्र पश्चाद्रुद्धपदोभवत् । KRT_8_3271ab
अनिषिद्धोपि शुद्धान्तमन्त्रागारावगा1हने ॥ KRT_8_3271cd
विज्ञप्यौपयिकावाप्तिप्रार्थनमादरात्1स्वयम् । KRT_8_3272ab
दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ KRT_8_3272cd
अना -- -- -- समये तस्या -- -- --1 रक्षिणः । KRT_8_3273ab
न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ KRT_8_3273cd
मन्त्र्यान्तःपु1रिकादीनां परस्परविगर्हणम्1 KRT_8_3274ab
नावर्णयद्विस्मृतिं च दुष्ट1स्वप्रमिवानयत्1 KRT_8_3274cd
सचेतनोपि दुर्नर्मगोष्टीष्वनुरणन्वचः । KRT_8_3275ab
अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ KRT_8_3275cd
एवं शुद्धानुभावस्य तस्य कृत्येन कृतवित् । KRT_8_3276ab
पुत्रेभ्योप्यधिकां प्रीतिं स्निह्यन्भेजे1 क्रमान्नृपः ॥ KRT_8_3276cd
कलिकालमहीपालदुस्तरः सिंहभूभुजा । KRT_8_3277ab
सोयं गोत्रपरित्राणे नवः सेतुः प्रवर्तितः ॥ KRT_8_3277cd
इत्थं विद्राविताशेषोपद्रवस्त्रिल्लकस्ततः । KRT_8_3278ab
अग्नि -- --1 मपि स्वास्थ्य -- --2 भूभृदचिन्तयत् ॥ KRT_8_3278cd
असौ हि निर्हिमोर्वीभृन्मार्गे काले पलायनम् । KRT_8_3279ab
शाठ्यं सत्त्वस्य दुःसाध्यं बद्धं ध्यायन्व्यलम्बत ॥ KRT_8_3279cd
अतः सुमेधा यात्रायां यावत्क्षणमपैक्षत । KRT_8_3280ab
सञ्जपालेनाविचारात्तावत्प्रारम्भि धावनम् ॥ KRT_8_3280cd
अल्पाधिष्ठानसुभटः स देवसरसोद्भटैः । KRT_8_3281ab
बहुभिः सहितः सैन्यैर्मार्ताण्डे विदधे पदम् ॥ KRT_8_3281cd
निर्निरोधप्रवेशः स प्रदेशः परिपन्थिनाम् । KRT_8_3282ab
बाह्याश्च योधा निःसारा दर्पान्नेति विवेद सः ॥ KRT_8_3282cd
त्रिल्लकानुचरा युद्धमसनिहितसायकाः । KRT_8_3283ab
तेन सार्धं विदधिरे न चाहीयन्त पौरुषम् ॥ KRT_8_3283cd
निःसीम1सैन्यसहितो लवन्योन्यत्र डामरे । KRT_8_3284ab
तत्र सर्वाभिसारेण धावतो युयुधे क्रुधा ॥ KRT_8_3284cd
लुण्ठितद्रविणापूर्णास्ते देवसरसौकसः । KRT_8_3285ab
सर्वे ततः सञ्जपालं विद्रुताः परिजह्रिरे1 KRT_8_3285cd
द्विषत्संवर्तवर्षार्त्या सर्वत्र ब्रुडितेभवन् । KRT_8_3286ab
अधिष्ठानभ1टा एव कुलशैला इवो2द्धताः ॥ KRT_8_3286cd
ते तीक्ष्णतीक्ष्णतरणौ सोढारातिरुषश्चिरम् । KRT_8_3287ab
बहून्नि1हतवन्तोन्यांस्तत्र तत्राहवे हताः ॥ KRT_8_3287cd
1क्षतेषु युधि सर्वेषु विन्दानैर्मण्ड1लं निजैः । KRT_8_3288ab
शूरेषु तत्र1 मार्ताण्डोप्यासीदविरलव्रणः 1 KRT_8_3288cd
रराजाजौ साञ्ज1पालिर्गया2पालो हतेषु यः । KRT_8_3289ab
त्रिषु वाजिषु3 चातुर्यात्पदातिर्नोपलक्षितः ॥ KRT_8_3289cd

3263.

--1) Thus A; C supplements ॰सत्त्रादानाद्यैः स्वं व्य॰.

3267.

--1) Thus A; possible emendations would be विडम्बकान्प्रभोः or विगर्हकान्प्रभोः; C विचारकात्प्रभोः.

3269.

--1) Thus A; C प्राप्तोऽस्याव॰.

--2) Emended; A गच्छच्छ -- ङ्कां.

3273.

--1) Thus A; C अनाप्तसमये तस्य न ययुः पथि रक्षिणः.

3274.

--1) Written by A5 on new paper.

3276.

--1) Emended with C; A भोजे.

3278.

--1) Thus A; C अग्निप्रोषमपि स्वास्थ्यहेतुंभू॰.

3284.

--1) Emended with C; A निःसीमः सै॰.

3285.

--1) Emended; A ॰जग्रिरे.

3286.

--1) Thus corr. by a later hand from A2 अधिष्ठाने भटा.

--2) Emended with C; A इवोद्धताः.

3287.

--1) Emended with C; A बहूनिह॰.

3288.

--1) Written by A5 on new paper.

3289.

--1) Emended; A सञ्जपालि॰.

--2) Emended; A गयपालः; cf. viii. 3322.

--3) Emended; A वाजिष्मचा॰; C वाजिष्वचा॰.

[page 287]




तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः । KRT_8_3290ab
निनाय विस्मयं वीरान्दृष्टा1संख्यमहाहवान् ॥ KRT_8_3290cd
दक्षिणं दोर्न तच्चक्रे यद्वामं कम्पनापतेः । KRT_8_3291ab
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ KRT_8_3291cd
स धावन्वाजिनाराजदेकदोःस्फुरितायुधः । KRT_8_3292ab
सधूमदण्डो1 दावाग्निः सपक्षेद्राविव2 स्थितः ॥ KRT_8_3292cd
तं वैरितुमुले बाणव्रणभङ्गेष्वसौ पुनः । KRT_8_3293ab
पृष्ठादलोटयद्वाजी -- -- न्ना1बद्धपद्धतिः ॥ KRT_8_3293cd
वर्मगौरवभूपृष्ठकाठिन्याघातपीडितः । KRT_8_3294ab
स विसंज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हृतः ॥ KRT_8_3294cd
कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे । KRT_8_3295ab
विरोध्यसाक्षि क्षिप्त्या तं तावपासरतां ततः ॥ KRT_8_3295cd
तत्रस्थं -- --1 ना क्ष्माभृत्प्रस्थितः पृठुलैर्बलैः । KRT_8_3296ab
तावद्भिः प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥ KRT_8_3296cd
क्ष्मापाले विजयक्षेत्रं प्राप्ते त्रोटितवेष्टनः । KRT_8_3297ab
सञ्जपालो लवन्यस्य वसतीर्निरदाहयत् ॥ KRT_8_3297cd
स तादृगपि भूपाले क्रुद्धे1 वक्रीकृतभ्रुवि । KRT_8_3298ab
अदरिद्रो गिरिद्रोणीश्रेणिभूसु2लभाशनः ॥ KRT_8_3298cd
संवृत्तो निःसस्हायश्च परिग्रहबहिष्कृतः । KRT_8_3299ab
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम् ॥ KRT_8_3299cd
निकृत्तकरशाखोथ क्ष्मापकोपकपेर्व्यधात् । KRT_8_3300ab
निरालम्भतया -- --1 स स्वशीर्षफलार्थनाम् ॥ KRT_8_3300cd
रड्डादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् । KRT_8_3301ab
श्रीमांल्लो1हरराज्येथ क्ष्मावृ2षा सोभ्यषेचयत्2 KRT_8_3301cd
षट्1सप्तयायनो1 राजतनयः स वयोधिकान्1 KRT_8_3302ab
चूताङ्कुरो जीर्णतरूनिवेशानज1यद्गुणैः ॥ KRT_8_3302cd
अभिषेक्तुं सुतं देव्या यातायाः क्ष्माभुजो व्यधुः । KRT_8_3303ab
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ KRT_8_3303cd
तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् । KRT_8_3304ab
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ KRT_8_3304cd
भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः । KRT_8_3305ab
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ KRT_8_3305cd
नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः । KRT_8_3306ab
पश्चात्सर्पिणीः सेनाः सोवधीत्संकटेध्वनि ॥ KRT_8_3306cd
गार्गिः परिभवम्लानाननं तिष्ठन्दिनैस्ततः । KRT_8_3307ab
नागभ्राaतृसुताग्रण्य1मवध्नाल्लोष्ठकं2 मृधे ॥ KRT_8_3307cd
दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च । KRT_8_3308ab
दग्ध्वा च1 दिन्नाग्रामं स निरगाल्लघुविक्रमः ॥ KRT_8_3308cd
तथापि राजवदनो न शौर्यात्पर्यहीयत । KRT_8_3309ab
न संदधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ KRT_8_3309cd
अहन्यहनि हीनाभिः सेनाभिर्न्यपतन्नृपे । KRT_8_3310ab
जयचन्द्रमुखाच्छश्वदसुखान्यवधीभवत्1 KRT_8_3310cd
क्ष्मानायकोथ निःसीमनखबाहुप्रसारणः । KRT_8_3311ab
रणान्तरेव तं तीक्ष्णैर्गूढन्यस्तैरघातयत् ॥ KRT_8_3311cd
तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः । KRT_8_3312ab
झटिति त्रुटितः स्वास्थ्यविटप्य1ङ्कुरणोन्मुखः ॥ KRT_8_3312cd
पृथ्वीहरकुलाच्छेदस्वच्छद्मा मेदिनीपतिः1 KRT_8_3313ab
अवधील्लोठनम1पि छन्न3दण्डयुक्तिभिः ॥ KRT_8_3313cd
एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः । KRT_8_3314ab
भूमिभृन्नीतिपाशस्य निपातेनाभ्यवर्तत1 KRT_8_3314cd
मल्लोकाष्ठक्षुरजय्यसड्ड1चन्द्रादयोभवन् । KRT_8_3315ab
जीवन्मृताश्च शान्ताश्च दारिद्र्योपप्लवार्दिताः ॥ KRT_8_3315cd

3290.

--1) Emended with C; A ॰न्दृष्टसङ्ख्य॰.

3292.

--1) Emended with C; A ॰दण्डं.

--2) Emended with C; A ॰द्रादिव.

3293.

--1) Thus A; C तदन्वाबद्ध॰.

3296.

--1) Thus A; C कम्पनाक्ष्मा॰.

3298.

--1) Emended with C; A क्रुद्धो.

--2) Wirtten by A5 on new paper.

3302.

--1) Written by A5 on new paper.

3307.

--1) Emended with C; A ॰सुताग्रव्यामब॰.

--2) Comp. viii. 2996.

3308.

--1) Emended with A .

\_ 3310.

--1) Doubtful; thus C; A ...खान्यववधीनवत्.

3312.

--1) Conjectural reading; A ॰विचार्यास्यङ्कुरो॰; C ॰वियास्यंकुरणेणो॰.

3313.

--1) Emended with C; A ॰पतेः.

--2) Comp. regarding this name the note to viii. 2406.

--3) Emended; A च्छत्त्रद॰.

3314.

--1) Emended with C; A ॰भ्यवर्तिता.

3315.

--1) Thus A; misread ॰मड्डुचन्द्रा॰ in R C; cf. सड्डचन्द्रस्य viii.643.

[page 288]




1विचिन्त्योच्चलक्षोणिभृतः1 प्राणान्विनश्वरान् । KRT_8_3316ab
ऐश्वर्यरू2ढिमूढत्वादनिर्व्यूढव्यवस्थितौ ॥ KRT_8_3316cd
मठेनुमितकोशत्वं तत्तद्राजाश्र1याद्गते । KRT_8_3317ab
कुलोद्वहो विहितवा1न्सिंहदेवो व्यवस्थितम्2 ॥ युग्मम्॥ KRT_8_3317cd
सु1ल्ला2विहारं पैतृव्यं3 पितु1र्देवगृहत्रयम् । KRT_8_3318ab
तच्चार्धसिद्धप्रासादं परिपूर्णं व्यधान्नृ4पः ॥ KRT_8_3318cd
स एव ग्रामान्सा1मग्रीमहापणसमर्पणैः । KRT_8_3319ab
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीर्व्यधात् ॥ KRT_8_3319cd
अवरोधेन्दुवदनां1 मृतामुद्दिश्य चन्दलाम्2 KRT_8_3320ab
प्रत्यष्ठापि मठोनूनश्रीर्द्वारेवारितातिथिः ॥ KRT_8_3320cd
स्पृष्टो नगरनिर्दाहैः1 सोपि सूर्यमतीमठः । KRT_8_3321ab
पूर्वाधिकोपगर्वेण तेनैव निरमैiयत ॥ KRT_8_3321cd
संजाते सञ्जपालस्य ततो लोकान्तराश्रये । KRT_8_3322ab
कम्पने निदधे राज्ञा गयापालस्तदात्मजः ॥ KRT_8_3322cd
विपाकसुकुमारोपि दुःसहः सूनुनाभ्जवत् । KRT_8_3323ab
विस्मारितः स सौम्येन1 शरद्भानुरिवेन्दुना ॥ KRT_8_3323cd
ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्तेर्मेघोदये तटतरोस्तटिनीप्रवाहः । KRT_8_3324ab
पश्यन्नकाण्डतडिदापतनेन नाशं नाशंसति स्वसलिलस्य विभूतिलाभम् । KRT_8_3324cd
आ भिक्षुक्षपणाद्भोजभञ्जनादपि भूभुजः । KRT_8_3325ab
विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ KRT_8_3325cd
तस्य तस्मिन्नृपरते क्षीणप्रक्षीणकण्टके । KRT_8_3326ab
स धन्योनन्यसा1मान्यप्रेमा प्रमयमाययौ ॥ KRT_8_3326cd
ताम्बूलमायात्रिकतां नीत्वामू1नामयानिव । KRT_8_3327ab
आपि2पन्मधुरावट्टं जीवं यस्य निजः सुतः ॥ KRT_8_3327cd
स जगज्जीवितेनापि रक्षणीयः क्षमापतिः । KRT_8_3328ab
पदे पदे विपन्मग्नः प्रजोद्धरणदीरधीः ॥ KRT_8_3328cd
व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छु1भिः । KRT_8_3329ab
नान्तक्षने तस्य पा1र्श्वात्कृतज्ञोवाचलन्नृपः ॥ KRT_8_3329cd
प्रियप्रजस्या1मात्यस्य स्वरूप1विपरीतता । KRT_8_3330ab
तस्य कंचित्क्षणं जाता जन1जीवितदा भवे1 KRT_8_3330cd
भूभुजामपि मान्धातृमुखानां निधनेन याः । KRT_8_3331ab
दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ KRT_8_3331cd
द्वैराज्योपप्लुते राष्ट्रे नवस्य नृपतेरभूत् । KRT_8_3332ab
अव्याहतं1 यत्साचिव्यं तस्य सस्र्वाभिषङ्गभित् ॥ KRT_8_3332cd
कालो बली व्यवहृतेर्ननु तद्वशेन पूर्वापराचरणविस्मरणे न कस्य । KRT_8_3333ab
शक्तिः क्षितेर्वहनकर्मणि योग्यतायां निर्दा1रणे मुरजितस्तु वराहतायाम् ॥ KRT_8_3333cd
नगराधिकृतो भूत्वा सूज्जेर्निर्वापिते पुरा । KRT_8_3334ab
चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ KRT_8_3334cd
भ्रष्टः क्रयेषु दीन्नारव्यवहारोव्यवस्थया । KRT_8_3335ab
निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तितः1 KRT_8_3335cd
परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् । KRT_8_3336ab
दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ KRT_8_3336cd
एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् । KRT_8_3337ab
नगराधिक्रियां लब्ध्वा स एव परिपीडनम्1 KRT_8_3337cd
बद्धाभिर्नर्त1कीभिश्च परिणीत3गृहस्थितौ । KRT_8_3338ab
संप्रयुक्तान्कथ्यमानान्हठेनादण्डयद्बहून् ॥ KRT_8_3338cd

3316.

--1)

--2) Written by A5 on new paper.

--2) Emended with C; A ऐश्वर्यं रू॰.

3317.

--1) Written by A5 on new paper.

--2) Emended; A ॰स्थितम्.

3318.

--1)

--1) Written by A5 on new paper.

--2) Emended with C; A स्वल्ला॰; cf. viii. 248.

--3) Emended with C; A पैत्रृव्य.

--4) Emended with C; A -- -- न्नृपः.

3319.

--1) Emended with G ( sec. manu); A ग्रामसा॰.

3320.

--1) Emended with C; A ॰वदनं.

--2) Thus A1 R; A5 दन्दलाम्; C चन्द्रलाम्.

3321.

--1) Emended with G (sec. manu); A धन्यो नान्यसा॰.

3327.

--1) Thus A; perhaps read नीत्वासूना॰.

--2) Emended with C; A आर्पिपामधु॰.

3329.

--1) Written by A5 on new paper.

3330.

--1)

--1) Written by A5 on new paper.

3332.

--1) Emended with C; A अप्याहतं.

3333.

--1) Emended with G (sec. manu); A निर्मारणे.

3335.

--1) Doubtful emendation; A प्रवर्तत; C प्रवर्त्तते.

3337.

--1) Emended; A पीडयन्.

3338.

--1) Emended with C; A ॰बद्धानि-- -- कीभिश्च.

--2) Conjectural reading; A परि -- तगृ॰; C परिवीतगृ॰.

[page 289]




किंवो -- -- --1लेशानां तुषाणामिव चिन्तनैः । KRT_8_3339ab
अद्रोहालोभयोर्भूमिर्न तादृगपरोभवत् ॥ KRT_8_3339cd
भिक्षु1मल्लार्जुनौ कालानुवृ2त्त्याश्रित3वानपि । KRT_8_3340ab
नालौ ज2हौ स्वामिहितं4 न तौ -- -- --5 नावधीत् ॥ KRT_8_3340cd
अक्षीणत्यागहीनस्य विभूतिसमयेप्यभूत् । KRT_8_3341ab
संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ KRT_8_3341cd
कृतज्ञतायां राज्ञोन्यत्पर्याप्तं किमुदीर्यताम् । KRT_8_3342ab
यो जीवित इवानीतान्संविभेजेनुजीविनः ॥ KRT_8_3342cd
लोकान्तरातिथिं बिज्जाभिधामुद्दिश्य बल्लभाम् । KRT_8_3343ab
धन्यस्य बिज्जनामाढ्य1विहाराम्भकारिणः ॥ KRT_8_3343cd
परलोकं प्रयातस्य निर्माण1प्रतिपूरणम् । KRT_8_3344ab
स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ युगमम्॥ KRT_8_3344cd
भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवासवैः । KRT_8_3345ab
युद्धैकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ KRT_8_3345cd
विपक्षाणां सुभिक्षेण तुरुष्कविष1याश्रयात् । KRT_8_3346ab
जन्मभूमेर्वृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ KRT_8_3346cd
ये1पि वृत्तिं विरोध्या1जिव्यग्रे सुस्सलभूभुजि । KRT_8_3347ab
कलहा1वसरेष्वेव1 कश्मीरेषु प्रपेदिरे ॥ KRT_8_3347cd
गोत्रे तेषां क्षत्रिया1णां जातः कम1लियानुजः । KRT_8_3348ab
राजबीजी सङ्गि1याख्यः प्रतिष्ठां1 स्वाख्ययाकरोत् ॥ KRT_8_3348cd
वितस्तापुलिने बाणलिङ्गे तेन निवेशिते । KRT_8_3349ab
जायते स्वर्धुनीरोधःसंप्रसूढविमुक्तधीः ॥ KRT_8_3349cd
तदीयं च मठं चैव तपोधनविभूषितम् । KRT_8_3350ab
वृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ KRT_8_3350cd
लोटनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे । KRT_8_3351ab
न तेनाद्यतने काले संरब्धं1 शुद्धबुद्धिना ॥ KRT_8_3351cd
उअदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः । KRT_8_3352ab
पुलिनोर्वीं वितस्ताया विहारेण व्यभूषयत् ॥ KRT_8_3352cd
प्रासादपञ्चकव्याजात्तद्विहारस्थितः करः । KRT_8_3353ab
उदस्त इव धर्मेण प्रोत्तुङ्गाङुलिपञ्चकः ॥ KRT_8_3353cd
सांधिविग्रहिको मङ्खकाख्योलंकारसोदरः । KRT_8_3354ab
समठस्याभवत्प्रष्ठः श्रीकण्टस्य प्रतिष्ठया ॥ KRT_8_3354cd
मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः । KRT_8_3355ab
अनुजः1 सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ KRT_8_3355cd
भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपाययत्1 KRT_8_3356ab
तोयं कनकवाहिन्या वितस्तायाश्च यः पितॄन् ॥ KRT_8_3356cd
प्रदेशे1 कश्यपागाराभिधाने नीलभूः सरित् । KRT_8_3357ab
जीगीषयेव जाह्नव्या यत्र पूर्वीं दिशं गता2 KRT_8_3357cd
उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् । KRT_8_3358ab
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ KRT_8_3358cd
नगरेपि स्वनामाङ्कवृषाङ्कागारकारिणा । KRT_8_3359ab
मठो येन कृतोभ्रष्टजटाधरघटाश्रयः ॥ KRT_8_3359cd
मम्मेश्वरं स सौवर्णामलसारं1 चकार यः । KRT_8_3360ab
सोमतीर्थं तथा तोयोद्यानादु2द्योतितान्तिकम् ॥ KRT_8_3360cd
अत्र क्षमाभुजो वंशे वंशौन्नत्यधनादिषु । KRT_8_3361ab
सासूयत्वादमा2त्यानां धनप्राणादिहा3रिणः ॥ KRT_8_3361cd
क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा । KRT_8_3362ab
प्राभ्रंशयद्दिवो देवो1 मान्धातारं धराभुजम् ॥ KRT_8_3362cd
अविप्लुतमतिर्भृत्यान्कृत्यौन्नत्यवतोन्वहम् । KRT_8_3363ab
दृष्ट्वा धातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ KRT_8_3363cd
कलशक्ष्मापतेः1 प्राज्ञोपज्ञं2 भृत्योस्य रिल्हणः । KRT_8_3364ab
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ KRT_8_3364cd

3339.

--1) Thus A; C वो भवेद्बलेशानां.

3340.

--1) Thus R C; A5 भिल्लमल्ला॰.

--2)

--2) Written by A5 on new paper.

--3) Thus A5; C ॰वृत्त्या श्रुत॰.

--4) Emended; A स्वामिहतं.

--5) Thus A; C supplements तादपि.

3343.

--1) Doubtful emendation; A ॰नामाख्य॰.

3344.

--1) Emended with G (sec. manu); A निर्वाण॰.

3346.

--1) Emended with C; A तुरुष्कामिषया॰.

3347.

--1)

--1) Written by A5 on new paper.


3348.

--1)

--1) Written by A5 on new paper.

3351.

--1) Emended; A संरब्धे.

3355.

--1) Emended; A अनुज्ञा.

3356.

--1) Emended; A त्रिग्राम्यमप्यपातयत्॰; cf. वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु v. 97.

3357.

--1) Emended; A प्रदेश्य.

--2) These two and the following three verses are written by A5 on new paper.

3360.

--1) Emended with C; A5 R ॰मलशारं.

--2) Emended; A5 R ॰द्यानामुद्योति॰.

3361.

--1) Doubtful emandation; A क्ष्माभूभुजौ.

--2) Emended; A ॰त्वमामात्यानां.

--3) Emended; ॰धिहारिणः.

3362.

--1) Emended with C; A देवीं.

3364.

--1) Thus corr. by A1 from ॰पतिः.

--2) Thus A; cf. vii. 528 ffg.

[page 290]




स्वर्णपत्त्रं1 रुर्रेश्वर्यां शिवयोः समवेतयोः । KRT_8_3365ab
सदीपारात्रिकामत्रमैत्रीमेति सघण्टिकम् ॥ KRT_8_3365cd
बन्धोर्हिमाद्रेर्दयितः सुताजामातरौ शिवौ । KRT_8_3366ab
स्वर्णच्छत्त्रच्छलान्मेरुर्मूर्ध्न्याव्रातुमुपागतः ॥ KRT_8_3366cd
उद्दिश्य यद्विदधदुद्यममात्मयोनिर्दग्धो मयाङ्गघटनं दयितेन गौर्याः । KRT_8_3367ab
सिद्धं तदत्र -- -- --1मुमयेति हेमच्छत्त्रच्छलाद्धरदृशश्चलितोग्निरूध्वम् ॥ KRT_8_3367cd
छत्त्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणीप्रेयोमन्दिरामूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते । KRT_8_3368ab
क्षैब्येन क्षतजावपानजनुषा नष्टं ततः स्वामिना प्राप्तं चक्रमवेक्षि1तुं स्वरुचिरं भास्वानिवाभ्यागतः ॥ KRT_8_3368cd
तीर्थे मन्मथजित्खगध्वजदृढाजर्योर्जिताचार्यके साधाराभरणं क्रियापरिणति स्वर्णातपत्रं प्रभोः । KRT_8_3369ab
भात्येकस्य शिखाहिफूत्कृतिवलद्गङ्गाब्जरेणूपगं1 केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥ KRT_8_3369cd
सौवर्णद्रुहिणाण्डकर्परपुरे संचूत्रिता छत्त्रकव्याकोशस्य समुद्रकप्रतिकृतौ दीर्घार्घिता --2 घने । KRT_8_3370ab
सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालंक्रिया सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ KRT_8_3370cd
तं लोहरमहीपालमन्वजायन्त भूभुजः । KRT_8_3371ab
रड्डादेव्या गुणोदाराश्चत्वारश्चतुराः1 सुताः ॥ KRT_8_3371cd
गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः । KRT_8_3372ab
अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ KRT_8_3372cd
ललितादित्य1देवेन जयापीडो हि दारकः । KRT_8_3373ab
भरतेनेव शत्रुघ्नः पाल्य2मानः प्रवर्तते ॥ KRT_8_3373cd
पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः । KRT_8_3374ab
1ञ्चमः क्षितिभृद्धर्म्यो बालातप इवोदितः ॥ KRT_8_3374cd
चपलैः शैशवाच्छ्रद्धानुबहवत्वात्समौष्टवैः । KRT_8_3375ab
लडितैर्ललितादित्यो भित्तीरप्यार्द्रयत्यहो ॥ KRT_8_3375cd
दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् । KRT_8_3376ab
सबालातपभृङ्गाङ्कस्व1र्णपङ्केरुहायते ॥ KRT_8_3376cd
आलापास्तस्य माहात्म्यगर्भा बाल्या1स्फुटा अपि । KRT_8_3377ab
अमृतार्द्रा इवोच्चारा मथ्यमानस्य वारिधेः ॥ KRT_8_3377cd
महाभिजनसंजातो राजसूनुः स शैशवे । KRT_8_3378ab
अभिधत्तेनुभावेन भव्येनागामि जृम्भितम् ॥ KRT_8_3378cd
अत्यक्तमण्डनशिखण्डिशिखोपि तोयस्पर्शासहाञ्चितकलापिकलापभङ्ग्या । KRT_8_3379ab
वापीं निपीतसलिलो वलितं प्रयाति चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ KRT_8_3379cd
चतस्रो मेनिला1 राजलक्ष्मीः पद्मश्रिया समम् । KRT_8_3380ab
संजाताः2 कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ KRT_8_3380cd
विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः । KRT_8_3381ab
विद्योतितेन1वद्यौ तौ प्रावृट्पुष्पाकराविव ॥ KRT_8_3381cd
तीर्थायतनपूतेस्मिन्मण्डलेखण्डितैर्व्ययैः । KRT_8_3382ab
रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ KRT_8_3382cd
कृतानुयात्रा सा दैवयात्रासु1 क्षितिपाङ्गना । KRT_8_3383ab
2राजलक्ष्मीरिवाभाति राजसामन्तमन्त्रिभिः ॥ KRT_8_3383cd
सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमज्जने । KRT_8_3384ab
स्नानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ KRT_8_3384cd
चित्रे कालेत्र यात्रासु द्रष्टुं वृष्ट्युत्तरौ सदा । KRT_8_3385ab
यत्प्रावृडिव -- --1यं जीमूतैरनुगम्यते ॥ KRT_8_3385cd

3365.

--1) Emended; A ॰पत्त्रां.

3367.

--1) Thus A; C करुणामुनयेति॰.

--2) The last and the following verse written by A5.

3368.

--1) Emended with C; A5 R चक्रमिवे॰.

3369.

--1) Thus A; C ॰पमं.

3370.

--1) Thus A; C ॰र्धितार्घे घने.

3371.

--1) Emended with C; A ॰श्चतुरस्सुताः.

3373.

--1) Emended with C; A ललितालित्य॰.

--2) Emended with C; A पालमानः.

3374.

--1) The last two and the following verse written by A5 on new paper.

3376.

--1) Emended with C; A ॰भुजङ्गाङ्कास्वर्ण॰.

3377.

--1) Emended; A बालास्फुटा.

3380.

--1) Emended with C; A मैनिला; cf. viii. 3394. 3397.

--2) Emended; A संजाता.

3381.

--1) Doubtful emendation; A विद्योतयान्नवद्यौ; C द्योतितावनवद्यौ.

3383.

--1) Emended with C; A यात्रास्वक्षि॰.

--2) These two and the first of the following verse are written by A5 on new paper.

3385.

--1) Thus A; C supplements तैश्चेयं.

[page 291]




सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता1 ध्रुवम् । KRT_8_3386ab
दिव्यैर्वर्षमिषात्तीर्थैः प्रादृश्येत तदीर्ष्यया ॥ KRT_8_3386cd
अभ्रंलिहान्न च गिरीन्न च कूलंकषा नदी । KRT_8_3387ab
मृद्वङ्गी दुर्गमा मार्गे तीर्थौत्सुक्येन वेत्त्यसौ ॥ KRT_8_3387cd
सुबह्वीभिः प्रतिष्ठाभिर्जीर्णोद्धारैश्च धीरया । KRT_8_3388ab
तया चित्रं चतुरया पङ्गुर्दिद्दा विलङ्घिता ॥ KRT_8_3388cd
अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्च्छलात् । KRT_8_3389ab
यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ KRT_8_3389cd
उपमन्योरुदन्याया दारिद्र्योपद्रवापहः । KRT_8_3390ab
रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ KRT_8_3390cd
जगत्सौन्दर्यसारं स सस्वर्णामलसारकः । KRT_8_3391ab
शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ KRT_8_3391cd
सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे । KRT_8_3392ab
उदन्वतीव शरणं1 सिन्धुर्हैमवतीव सा2 KRT_8_3392cd
स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् । KRT_8_3393ab
भूभुजामपि संवृत्तावविच्छिन्नौ त1दिच्छया ॥ KRT_8_3393cd
सोमपालात्मजो भूभृद्भूपालः प्रापितस्तया । KRT_8_3394ab
मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ KRT_8_3394cd
उत्पत्ति1भूमिसुलभानुभवो न भूम्ना कस्याप्यहो व्यभिचरत्यनुभावभावः । KRT_8_3395ab
तेजस्तमोविलुठनव्रतमुष्णभानोश्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ KRT_8_3395cd
भुवनाद्भुतसाम्राज्यमार्जने1 भूभुजाभवत् । KRT_8_3396ab
प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ KRT_8_3396cd
ऊढायां मेनिलादेव्यां परिणेतुरभूदपि । KRT_8_3397ab
पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ KRT_8_3397cd
राज्ञः प्राजिधरस्याजौ तरसा भूभुजोनुजः । KRT_8_3398ab
वैरिभिर्निहतस्याग्रे वैरसंशोधनोद्यतः ॥ KRT_8_3398cd
रड्डां शरणमेत्योच्चमानौत्क1ट्यो घटोत्कचः । KRT_8_3399ab
भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ कुलकम्॥ KRT_8_3399cd
कृतसहायकोमात्यै राज्ञः सप्रज्जिमङ्गदम् । KRT_8_3400ab
राज्यात्प्राभ्रंश1यद्भ्रातृद्रुहं पञ्चवटं2 नृपम् ॥ KRT_8_3400cd
अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् । KRT_8_3401ab
सरितं खड्गवल्लीं च कृ1ष्णां विद्वेषिगोचराम् ॥ KRT_8_3401cd
द्वितीयस्योरशाभर्तुरकीर्तिं निज1यासृजत् । KRT_8_3402ab
देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ KRT_8_3402cd
शीतोष्णवारणशशिद्योतकल्लोलितास्ततः । KRT_8_3403ab
बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ KRT_8_3403cd
समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गता । KRT_8_3404ab
तावत्येवाप्तराज्यस्य पञ्चविंशति1वत्सरे ॥ KRT_8_3404cd
इयद्दृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः । KRT_8_3405ab
परिपाकमनोज्ञत्वं स्थेयाः कल्पातिगाः समाः ॥ KRT_8_3405cd
अम्भोपि प्रवहत्स्वभावशनैराश्यानमश्मायते ग्रावाम्भः1 स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः । KRT_8_3406ab
कालस्यास्खलितप्रभावरबह्सं भाति प्रभुत्वेद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥ KRT_8_3406cd
प्रयाते त्र्यधिकेप्यर्धसमाषट्कशते कलेः । KRT_8_3407ab
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः ॥ KRT_8_3407cd
सूनुर्दामोदरो1स्याथ तस्य पत्नी यशोमती2 KRT_8_3408ab
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन्3 KRT_8_3408cd
पञ्चत्रिंशतमज्ञातानुग्रहाभिजनाभिधाम् । KRT_8_3409ab
राजाभवल्लवो1 नाम सूनुस्तस्य कुशस्ततः ॥ KRT_8_3409cd

3386.

--1) Emended; A प्रस्थितं.

3392.

--1) Emended with C; A सरणं.

--2) The last and the following two verses written by A5 on new paper.

3393.

--1) Emended; A ॰मार्जनो.

3392.

--1) Emended; A ॰त्योच्चं मानोत्क॰.

3400.

--1) Emended; A राज्यं प्रा॰.

--2) Doubtful emendation; A ॰बटो.

3401.

--1) The last and following verse written by A5 on new paper.

3402.

--1) Doubtful emendation of G (sec. manu); A ॰कीर्तिर्निज॰.

3404.

--1) Emended with C; A ॰विंशतु व॰.

3406.

--1) Emended with C; A ग्रावोम्भः.

3408

--1) Emended with C; A दामोदरस्याथ.

--2) Comp. यशोवर्ती i. 70.

--3) Emended with C; A ॰पती.

3409.

--1) Emended with C; A राजा वल्लभको; cf. अथाभवल्लवो नाम i. 84.

[page 292]




द्वौ खगेन्द्रसुरेन्द्रख्यौ पु1त्रपौत्रावमुष्य तु । KRT_8_3410ab
गोधरोथान्यकुलजः सुवर्णाख्यस्त2दात्मजः ॥ KRT_8_3410cd
तज्जन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः । KRT_8_3411ab
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रतितृव्यजः ॥ KRT_8_3411cd
तज्जो जलौकाः संदिग्धवंशो1 दामोदरस्ततः । KRT_8_3412ab
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ KRT_8_3412cd
अभिमन्युस्तृतीयोथ गोनन्दोस्य विभीषणः । KRT_8_3413ab
राजेन्द्रजिद्रावणश्च -- --द्यः क्रमशोभवत्1 KRT_8_3413cd
अन्यो विभीषणः1 सिद्ध उत्पलाक्ष2श्च तदनु3 KRT_8_3414ab
पश्चात्ततो हिरण्याक्षहिरण्यकुलयोर4भूत् ॥ KRT_8_3414cd
राजा वसुकुलस्तस्य सूनुः ख्यातिस्त्रिकोटिहा1 KRT_8_3415ab
क्षितिनन्दो बकात्तज्जाद्व2सुनन्दस्तदात्मजः ॥ KRT_8_3415cd
नरोन्योक्षस्ततस्तस्माद्गोप्ता गोकर्णको नृपात् । KRT_8_3416ab
तस्मान्नरेन्द्रादित्योभूत्सूनुरन्धयुधिष्ठिरः ॥ KRT_8_3416cd
तस्य प्राभ्रंशितो भृत्यैरन्याभिजनसंभवः । KRT_8_3417ab
भूपः प्रतापादित्योभूज्जलौकोपि तदात्मजः ॥ KRT_8_3417cd
तुञ्ञीने1 निःसुते तज्जे विजयोन्यकुलोद्भवः । KRT_8_3418ab
जयेन्द्रेस्य सुतेपुत्रे2 सचिवः संधिमानभूत् ॥ KRT_8_3418cd
युधिष्ठिरस्य पौत्रेण भूपादित्या1त्मजन्मना । KRT_8_3419ab
श्रीमेघवाहनेनाथ गौनन्दे2भ्युदितं कुले3 KRT_8_3419cd
................................................... । KRT_8_XXXXab
................................................... ॥ KRT_8_XXXX0cd
ततः प्रवरसेनोन्यस्तोरमाणात्म1जः क्षितिम् । KRT_8_3420ab
लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः2 KRT_8_3420cd
ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः । KRT_8_3421ab
क्रमादभूतां तत्पुत्रो विक्रमादित्यभूपतिः1 KRT_8_3421cd
बालादित्यश्चोदभवद्र1णादित्यस्य2 नन्दनः । KRT_8_3422ab
बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ KRT_8_3422cd
सूनुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः । KRT_8_3423ab
तारापीडोनुजन्मा च मुक्तापीडोस्य1 चानुजः ॥ KRT_8_3423cd
भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च । KRT_8_3424ab
वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ KRT_8_3424cd
पृथिव्यापीडसंग्रामापीडावनु नृपोभवत् । KRT_8_3425ab
जयापीडोस्य मन्त्री च जज्जः1 पुत्रावपि क्रमात् ॥ KRT_8_3425cd
ललितापीडसंग्रामापीडौ1 ज्येष्ठात्मजस्ततः । KRT_8_3426ab
श्रीचिप्पटजयापीडः कल्यपाल्युद्भवोभवत् ॥ KRT_8_3426cd
अभिचारेण तं हत्वा सांमत्या1दितरेतरम् । KRT_8_3427ab
उत्पलाद्यैरसंप्राप्तराज्यैस्तन्मातुलैः कृतः ॥ KRT_8_3427cd
भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे । KRT_8_3428ab
अनङ्गापीडनामा च संग्रामापीडजस्ततः ॥ KRT_8_3428cd
तमुत्पाट्योत्पलापीडोस्याजितापीडनन्दनः । KRT_8_3429ab
अवन्तिवर्मा शू1रेण तं निवार्याथ मन्त्रिणा ॥ KRT_8_3429cd

3410.

--1) The last three and the following verse are no longer founf in A as the upper portion of fol. 327 has broken off; the text is given from R G.

--2) Emended with C; R G (prima manu) सुiवर्णाकृत्तदा॰; cf. i. 97.

3412.

--1) Emended; R C ॰वंशे; the upper strokes of the latters are not legible in A.

3413.

--1) Thus A; C पितापुत्री क्रमान्नृपौ.

3414.

--1) Here the name of Nara is omitted.

--2) Emended; A उत्पलाख्यश्च.

--3) Thus A; doubtful.

--4) Emended; A हिरण्याख्येहिरण्यकुशयोर॰.

3415.

--1) C inserts here two श्रीमिहिरकुलो राजा बकाख्यस्तदनन्तरं.

--2) Emended; A क्षितिनन्दो बलात्मजाद्वसु॰.

3418.

--1) Emended; A तुञ्जने; cf. ii.11.

--2) Emended; A जयेन्द्रस्य -- -- पुत्रे; C जयेन्द्रत्तत्सुतोऽपुत्रः.

3419.

--1) Thus A; but compare ii. 145.11g.

--2) Emended with C; A गोनन्दाभ्युदितं.

--3) After this verse(: inserts the following: ततः प्रवरसेनोभूद्भूपः काश्मीरमण्डले ॥ तत्सूनुश्च हिरण्योऽभूत् पालयन् क्षितिमण्डलं । मातृगुप्तो ऽभवदत्तराज्यस्तेन शकारिणा ॥. One verse containing the names of I., and appears to have been omitted here by A.

3420.

--1) The remaining portion of this verse, the followiong verse and the first of verse 3422 are no longer found in A, as the upper portion of fol. 327 has broken off; the text is given from R G.

--2) Thus C; R पुत्रो -- धिष्ठिरात्, corr. sec. manu as above; G पुत्राद्युधिष्ठिरात्.

3421.

--1) Thus C R; G तद्वच्च विक्रमादित्य उर्वरीम्.

3422.

--1) Thus C R; G ॰त्यश्चोदवहद्रणा॰.

--2) Emended with R G; A ॰दित्यश्च नं॰.

3423.

--1) Thus C; R G ॰पीडस्य; in A three aksharas after मुक्ता have become illegible.

3425.

--1) Emended with C; A जज्जपुत्रावपि.

3426.

--1) Emended with C; A ॰पीडज्येष्ठा॰.

3427.

--1) Emended with C; A सम्मत्या॰.

3429.

--1) Here ends the text of A at the foot of fol. 327 rev., the last of the MS. being lost. The text of the remaining verses is given from R G.

[page 293]




नप्तोपलस्य विदधे साम्राज्ये सुखवर्मजः । KRT_8_3430ab
शूरः शंकरवर्मा स गोपालस्तस्य चात्मजः1 KRT_8_3430cd
रथ्यागृहीतः प्राभूच्च तद्भ्राता संकटाभिधः । KRT_8_3431ab
सुगन्धाख्यः तयोर्माता तां विनाश्या1थ भूभुजम् ॥ KRT_8_3431cd
शूरवर्मप्रणप्तारं पार्थं तन्त्रिपदातयः । KRT_8_3432ab
चक्रुर्निर्जितवर्माणं ततस्तस्य1 च तत्क्रमात् ॥ KRT_8_3432cd
चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः । KRT_8_3433ab
1विहिता बहुशो राज्ये तस्तम्भे2 शंभुवर्धनः ॥ KRT_8_3433cd
तदन्तरे लब्धराज्ये मन्त्री व्यापाद्य तं नृपम् । KRT_8_3434ab
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ KRT_8_3434cd
उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि । KRT_8_3435ab
राज्याद्भ्रष्टे द्विजैश्चक्रे राज्ये मन्त्री यशस्करः ॥ KRT_8_3435cd
प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् । KRT_8_3436ab
राज्ये वक्राङ्घिसंग्रामस्तस्थौ निष्पाट्य तं ततः ॥ KRT_8_3436cd
अनात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् । KRT_8_3437ab
क्षेम1गुप्तः सुतोस्यासीदभिमन्यौ तदात्मजे ॥ KRT_8_3437cd
शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते । KRT_8_3438ab
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ KRT_8_3438cd
पौत्रे तयैव निहते1 स्वयं दिद्दाख्यया कृतम् । KRT_8_3439ab
राज्यं2 संग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ KRT_8_3439cd
हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः । KRT_8_3440ab
कलशोनन्ततनयः क्रमाद्भूपौ तदात्मजौ ॥ KRT_8_3440cd
उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् । KRT_8_3441ab
हर्षदेवं तमुद्दामक्रमाद्भूपौ तदात्मजौ ॥ KRT_8_3441cd
भ्रातुः पुत्रस्य दिद्दाया जस्सराजस्य नप्तृतः । KRT_8_3442ab
मल्लाभिधानादुद्भूतो भूपतामुच्चलोभजत् ॥ KRT_8_3442cb
द्रोहेण तं हतवतां भृत्यानामग्रतस्ततः । KRT_8_3443ab
शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ KRT_8_3443cb
गर्गेण निहते तस्मिन्सल्हो1 द्वैमातुरोप्यभूत् । KRT_8_3444ab
तस्योच्चलमहीभर्तुर्भ्राता निर्वध्य तं बली ॥ KRT_8_3444cb
सुस्सलाख्योग्रहीद्राज्यं माल्लिरुच्चलसोदरः । KRT_8_3445ab
विरक्तैः पाटिते तस्मिन्राज्याद्भृत्यैर्नृपः कृतः ॥ KRT_8_3445cb
षण्मासान्हर्षभूभर्तृनप्ता भिक्षाचराभिधः । KRT_8_3446ab
पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ KRT_8_3446cb
क्रमाल्लवन्यैर्विश्वस्तैर्द्वैराज्येजिते हते । KRT_8_3447ab
लवन्यान्निखिलांस्तं च1 हत्वा भिक्षाचरं नृपम् ॥ KRT_8_3447cb
सुतः सुस्सलभूभर्तुः संप्रत्यप्रतिमक्षमः । KRT_8_3448ab
नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ KRT_8_3448cb
गोदावरी सरिदिवोत्तुमुलैस्तरङ्गैर्वक्त्रैः स्फुटं सपदि सप्तभिरापतन्ती । KRT_8_3449ab
श्रीकान्ति1राजविपुलाभिजनाब्धिमध्यं विश्रान्तये विशति राजतरङ्गिणीयम् ॥ KRT_8_3449cb


इति श्रीमहाकविश्रीकल्हणकृतायां राजतरङ्गिण्यामष्टमस्तरङ्गः(1) ॥ समाप्तोयं राजतरङ्गिनी कृतिः श्रीमहामात्यचप्पकप्रभुसूनोर्महाकवेः कल्हणस्य ॥

3430.

--1) The last two are found in the above form in C; in R G they are added sec. manu, being probably copied from C.

3431.

--1) Emended with C; R G निनाश्य॰.

3432.

--1) Thus R G; cf. v. 287 ffg; C ततः पाथस्ततः क्रमात्.

3433.

--1) These two and the first half of the following verse are omitted in C.

--2) Thus R; G -- -- म्भे.

3437.

--1) Thus C R (sec. manu); G R (prima manu) सोमगुप्तः.

3439.

--1) Emended; R G CX निहिते.

--2) Emended; R G राज्ये; C कृते । राज्ये.

3444.

--1) Emended; R G C मल्लो; R (sec. manu) सल्लो.

3447.

--1) Thus R; G ॰लांस्ते च; C ॰लांस्तांश्च.

3449.

--1) Emended; R G C श्रीकान्त॰; comp. vii. 1285.

Colophon.

--1)

--1) This part of the Colophon in not founf in G.

[page 294]