श्रीरस्तु
श्रीगणपतये नमः
नाट्यशास्त्रम्
एकोनविंशोऽध्यायः(1)

[NZ]

इतिवृत्तं2 तु नाट्यस्य3 शरीरं परिकीर्तितम्4 BhNZ_19_001ab
पञ्चभिः सन्धिभिस्तस्य 5विभागः सम्प्रकल्पितः5 BhNZ_19_001cd
[ABh]

अभिनवभारती -- एकोनविंशोऽध्यायः
देहे ससन्ध्यङ्गणे समस्ते यत्स्थापनं स्पर्शनवृत्तिकारे ।
तदिन्द्रियं यस्य वपुर्नमामि तमान्तरस्पर्शमयं महेशम् ॥
``पुनरस्य शरीरविधाने''त्यादिना(18-127)(*) शरीरमितिवृत्तात्मकं विधानं च तस्य विधानरूपप्रकारात्मकं, सन्धयश्च मुखादयो विधयश्च सन्ध्यङ्गस्वभावा लक्षणीयत्वेन(1) प्रतिज्ञाताः, तत्र शरीरमादौ(2) लक्षयितव्यमिति दर्शयति इतिवृत्तं त्विति । तुशब्दो व्यतिरेके -- काव्यमात्रस्यानभिनेयस्य तावत् वृत्तमात्रं शरीरं, नटनीयस्य त्वभिनेयरूपस्युa इति एवंप्रकारतया यदुपस्कृतं वृत्तं, अत एवेतिवृत्तशब्दवाच्यं तद्वस्तु शरीरं, रसाः पुनरात्मा

(मू)

1. भ॰ अत्राध्यायविभागे नास्ति, ट॰ विंशोऽध्यायः ज॰आदिव॰अन्तेषु य॰संज्ञके च एकविंशतिः

2. द॰ हि

3. ड॰ काव्यस्य, ट॰ कार्यस्य

4. ड॰ इति कीर्त्यते

5. ड॰ विभागाः परिकीर्तिताः

6. न॰ परिकल्पितः, प॰ संप्रलक्षितः

(व्या)

* अष्टादशेऽध्यायेऽन्तिमश्लोकस्योत्तार्धमित्थं संस्करणीयम् -- ``पुनरस्य शरीरविधानसन्धिविधिलक्षणं वक्ष्ये'' इति ।

1. लब्धायत्तत्वेन

2. शरीरमेव

[page 1]




[NZ]

इतिवृत्तं द्विधा चैव1 बुधस्तु परिकल्पयेत् । BhNZ_19_002ab
आधिकरिकमेकं स्यात्2 प्रासङ्गिकमथापरम् ॥ BhNZ_19_002cd
[ABh]

शरीराविर्भावकाः, अत एवार्थनिर्मापकत्वात् अर्थतादात्म्यात् अर्थरूपताध्यासात् अर्थैकज्ञाननिवेशितत्वात् अर्थोपरञ्जकत्वात् अर्थनिमित्तत्वाद्वा, इतिवृत्तार्थैकयोगक्षेमत्वं वागात्मनां शब्दानामिति । तदाशयेन --
वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनुः स्मृता । (14-2)
इति पूर्वमुक्तम्, इह वृत्तं शरीरमिति दर्शितमित्यद्विरोधः । स तु कथं प्रकारवैशित्र्य इतिaaशंक्याह पञ्चभिः सन्धिभिरिति । एतदुक्तं भवति -- प्रकारवैचित्र्यकल्पनामया एव सन्धयः । तत्र पारम्परतया(3) पञ्चसंख्येति, तेन हीनसन्धित्वेऽपि न कश्चिदत्र विरोधः ।
अन्ये तु सर्वत्र पञ्चैव सन्धयः, अपूर्णाङ्गत्वात्तु कस्यचित्सन्धेर्हीनसन्धित्वमुच्यत इत्याहुः । एतच्च स्वस्थाने वितनिष्यामः ।
एवमितिवृत्तशब्दे इतिभागस्य योऽर्थः सोऽप्रसिद्ध इति कृत्वा द्वितीयार्धेन पञ्चभिरित्यादिना व्याख्यातः, न तु सन्धिनिरूपणमेतदुद्देशक्रमस्तस्यानेकविधत्वात् ।
एवं शरीरमभिधाय तस्य विधानशब्देनोद्दिष्टं प्रकारवैचित्र्यं दर्शयति इतिवृत्तं द्विधा चैवेति । इतिवृत्तं स्थितं सत्, बुधो विवेचकः कविर्द्विधैव परिकल्पयेत् । चकारात् प्रकरणादावितिवृत्तं च कल्पयेत् । तच्च द्विधा । एकमपरमत्यनेनेदमाह -- न निसर्गतः किञ्चिदाधिकारिकम्, अन्यद्वा । कविधिया यदेतदाधिकारिकं कृतं तदापरसय प्रासङ्गिकतास्तीति द्विधाशब्देन सूचितं, तदेवेदं दर्शितम् । ``अधिकरणविचाले च''(पा॰-5-3-43) इति

(मू)

1. प॰ ह्येव, च॰ द्विधाव्प्येव

2. च॰ तु, ट॰ आद्यं स्यात्, ज॰ आद्यं च, व॰ एवं स्यात्

(व्या)

3. पारम्पर्यता


[page 2]




[NZ]

यत्कार्यं हि1 फलप्राप्त्या 2सामर्थ्यात्परिकल्प्यते3 BhNZ_19_003ab
तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः4 BhNZ_19_003cd
5कारणात्फलयोगस्य वृत्तं स्यादाधिकारिकम् । BhNZ_19_004ab
[ABh]

धाप्रत्ययः । एकं राशिं द्विधा कुर्वति यथा तेनैकमेवेतिवृत्तं द्विशाखमिति यावत् ।
तत्प्रकारद्वयं क्रमेण दर्शयति यत्कार्यं हीति । प्रह्दानत्वेन सम्पाद्ये फले यो ज्ञानेच्छाप्रयत्नक्रियालक्षण आरम्भः तत्कार्यमिति वक्ष्ये `यदाधिकारिकं वस्तु'(19-26) इति, तथाभूतो य आरम्भो मुख्यफलप्राप्त्या परिकल्प्यते स आधिकारिकमितिवृत्तम् । हि यस्यात् तथैव ज्ञेयम् । निरुक्तेनाधिकारः सर्वत्रानुयायित्वं हृदयानुयायित्वं प्रयोजनमस्य । प्रासङ्गिके हि तदन्तर्लीनमेव । यथा -- आधिकारिके सहाप्तेनाचिख्यासासाधनैषाफलजिहीर्षानिष्पत्तौ यथा न शक्त्यन्तरव्यापारणं, तद्वत्प्रासङ्गिकेऽपि सर्वत्र शक्त्यन्तरव्यापाराभाव एव । शक्त्यन्तरेऽपि पृथग्व्यापार्यमाणे तस्याप्याधिकारिकत्वमेव स्यात् । प्रतिज्ञानिर्वहणं जगत्कण्टकरावणोद्धरणं शरणागतविभीषणरक्षणमित्याद्यपि हि प्रधानफले सीताप्रत्यायचतुष्टयतद्द्विकत्रिकादिभेदसम्पादननान्तरीयकोपनीतमेव । तापसवत्सराजे राज्यप्रत्यापत्तेः प्रधानफलत्वे वासवदत्तासङ्गमपद्मावतीप्राप्त्यादौ क्रियान्तरानुपयोग एव मन्तव्यः । यदि ह्यस्य वासवदत्ताप्राप्त्युपायत्वं पद्मावतीपरिणयस्य नोच्यत न वत्सराजस्तत्र प्रवर्तेत, तदप्रवृत्तौ कुतः प्रधानफलमिति सर्वप्रासाङ्गिकमेकरूपमेव । प्रसक्तिर्हि प्रसङ्गः तत आगतं प्रासङ्गिकं, प्रसज्यते वा प्रधानफलनिष्पत्तये इति प्रसङ्गस्तत आगतमिति । तेन शक्त्यन्तरयोगायोगाभ्यां च यत्प्रासङ्गिकस्यानेकविधत्वं टीकाकृद्भिरभ्यधायि न तदुपाध्यायाः संमन्यन्ते । अत एवाह -- कारणात्फलयोगस्येति । अयमर्थः -- आधिकारिकं नाम (अधिकारः)

(मू)

1. ट॰ तु

2. षु॰ समर्थं, म॰ सामर्थ्यं

3. ठ॰ परिकल्प्यते, ट॰ परिकल्पितम्

4. अयं श्लोकः च॰संज्ञके न विद्यते

5. अयं श्लोकः ``कवेः'' इति श्लोकानन्तरमेव ज॰आदिभ॰अन्तेष्वादर्शेषु पठितः

(व्या)

[page 3]




[NZ]

1तस्योपकरणार्थं तु कीर्त्यते 2ह्यानुषङ्गिकम् ॥ BhNZ_19_004cd
कवेः प्रयत्नान्नेतॄणां युक्तानां 3विध्युपाश्रयात् । BhNZ_19_005ab
[ABh]

यस्त्वितिवृत्तं फलसम्बन्धं करोति स कविना वर्णनोपायारोहमानीतः तत्समर्थाचरणेन प्रयुज्यते । एवमन्यत्स्यादितिवृत्तमिति पूर्वपक्षमाशंक्य तत्रोत्तरमवान्तरेणाह -- तस्योपकरणार्थं त्विति । हिरप्यर्थे भिन्नक्रमः आनुषङ्गिकमपि कीर्त्यत इति ।
ननु फलप्राप्तिलक्षणेन प्रयोजनेन सप्रयोजनत्वमाधिकारिकस्य लक्षणत्वमुक्तम्, फलप्राप्तिश्च प्रासङ्गिकेऽप्यस्ति सा प्रासङ्गिकीति चेत्, सिद्धे प्रासङ्गिकस्याधिकारिकाद् भेदे भवेदेतत्, तत एव तत्सिद्धौ चक्रकान्योन्याश्रयदोषः, तस्मात्फलप्राप्तिरेव विशिष्य वक्तव्येत्यभिप्रायेणाह कवेः प्रयत्नान्नेतॄणां युक्तानामिति । समुत्कर्षं प्राधान्यमवलम्ब्य फलप्राप्तिः कल्प्यते, प्रधानफलप्राप्तिप्रयोजनमाधिकारिकमित्यर्थः ।
ननु फलप्राप्तेः कथं प्राधान्यमाधिकारिकं, निर्वर्त्यत्वादिति चेत् स एव दोष इत्याशङ्क्याह -- कवेः प्रयत्नादिति । कविर्यत्पहलमुकर्षेण विवक्षति तत्प्रधानफलम् । ननु पुरुषेच्छा यद्यनियन्त्रिता, तदा पुनरपि स एव प्रय्तन(4) इत्याह । नेतॄणां युक्तानां विध्यपाश्रयाद् धीरोदात्तादिभेदानां नायकानां मध्ये यो यत्र नायको युक्त उचितः तस्य यो विधिः सम्पाद्यं वस्तु तदपाश्रयप्रयत्नाद्धेतोः कविफलं प्रधानमिति । यस्मिंश्च विधौ यो नायको युक्तः उचितस्तस्य मयैतत्कर्तव्यमित्यभिसन्धानाभावेऽपि तत्सन्निधौ फलं नायकत्वं विना कर्तव्यम्, यथा तापसवत्सराजे वत्सराजस्य राज्यप्रत्यापत्तिः कर्तव्यतायाममात्याभिसंहितायाम्, अत एव ह्यस्यासौ नेता फलस्य चाक्रष्टा अमात्यसम्पादिताभिसन्धिप्रत्युपायपरम्परार्जितस्यापि ।

(मू)

1. ड॰ परोप

2. ढ॰ अप्यानुषङ्गिकम्, ट॰ अस्यानु-

3. ट॰ विध्युपाश्रयात्

(व्या)

4. प्रश्नः

[page 4]




[NZ]

1कल्प्यते हि2 फलप्राप्तिः 3समुत्कर्षात्फलस्य45 BhNZ_19_005cd
[6लौकिकी7 सुखदुःखाख्या यथावस्था रसोद्भवा । BhNZ_19_006ab
दशधा मन्मथावस्था व्यवस्था त्रिविधा मता ॥ ] BhNZ_19_006cd
[ABh]

नन्वेवमपि रामस्य स्वदारप्रत्यानयनकण्टकोद्धरणभीताभयवितरणादौ सर्वत्र कर्तव्यतौचित्यमस्ति, तथापि न व्यवस्थितं लक्षणमित्याह -- फलस्य चेति । चकारेण समुत्कर्षादित्यस्यावृत्तिर्द्योत्यते । तेनायमर्थः -- यदेतत्फलं तावत्यंशे अधिकमुत्कर्षमवलम्बते तत्रैव तस्यौचित्यं कविना कल्पनीयम् । तथा हि -- रावणोच्छेदाद्यवधि सीताप्रत्यानयनमेव समुत्कृष्टं भवति, तस्यैव सम्पादनायेतरप्रवृत्तिः, सचिवायत्तसिद्धिस्तु यतो वत्सराजस्ततो यौगन्धरायणाद्यमात्यवर्गस्तावानसाविति तदामात्याद्यभिसंहितराज्यप्राप्तिफलस्यैव तत्रोत्कर्षः । स ह्येवं मन्यते -- राज्यभारचिन्ता एतैर्या कृता सा मयैवेति । एवमधिकाधिकं हृदयविपरिवर्तमानं तदा तस्य प्रधानफलत्वं, रामाभ्युदयादौ सीताप्रत्यानयनादेरिव, न हि तत्राश्वमेधयागादेर्नायकोचितस्य कविविवक्षितत्वमस्ति ।
नन्वेवमपि कविविवक्षैव पुaनरपि प्रधानीभूता तत्र चोक्तो नियमहेत्वभाव इति तत्राह -- विध्यपाश्रयादिति । विधीयत इति विधिः सव्युत्पत्तिः तस्यापाश्रयात् । एतदुक्तं भवति -- यादृशि पुरुषार्थे व्युत्पत्तिः कर्तव्या तदुचितनायकग्रहणेन कविः प्रवर्तमानो न स्वेच्छया प्रवृत्तो भवतीति । हिशब्देन समुच्चयाभिधायिनैतत्सूचितं -- विध्यपाश्रयाद्युक्ता ये नेतारस्तेषां यत्फलं तस्योत्कर्षाद्यः कवेः प्रयत्नः ततः फलप्राप्तिः समुत्कर्षावलम्बिनी पल्प्यत इति तात्पर्यम् ।

(मू)

1. ट॰ कल्प्यते, य॰ कल्पान्ते हि फलप्राप्तिः

2. ड॰ यत्

3. च॰ समुत्कर्षः

4. ट॰ फलाय

5. ड॰ तु

6. अयं ट॰, ड॰, ढ॰ मातृकासूपलभ्यते

7. ड॰ लौकिकं

(व्या)

[page 5]




[NZ]

संसाध्ये फलयोगे तु व्यापारः 1कारणस्य यः । BhNZ_19_007ab
तस्यानुपूर्व्या2 विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः3 BhNZ_19_007cd
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । BhNZ_19_008ab
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ BhNZ_19_008cd
औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते । BhNZ_19_009ab
महतः फलयोगस्य 6स फलारम्भ इष्यते ॥ BhNZ_19_009cd
[ABh]

अथ कविप्रयत्नेन साध्ये व्यापारपरिस्पन्दो यो वाङ्मनसगतस्तस्य या अवस्था आनुपूर्वेति उद्देशक्रमेणैव प्रयोक्तृभिः कविभिर्निबन्धनीयतया ज्ञातव्याः ता उद्दिशति प्रारम्भश्चेति । चकारैस्तथाशब्देन चावश्यंभाविक्रमत्वमासामुच्यते । न हि प्रेक्षापूर्वकारिणोऽवस्थान्तरासम्भावनायां प्रारम्भ उचितो भवति, तत्प्रारम्भश्चेदुत्तरावस्थाप्रसर एव । पञ्चम इत्यनेन क्रमो विवक्षित इति दर्शयति । एताः क्रमेण दर्शयितुमाह औत्सुक्यमात्रबन्धस्त्विति । महतः प्रधानभूतस्य फलस्य युज्यमानस्य तत्तन्नायकोचितस्य यद्बीजमुपायसम्पत् तस्य यदौत्सुक्यमात्रं तद्विषयस्मरणोत्कण्ठानुरूपं, अनेनोपायेनैतत् सिद्ध्यतीति, तस्य बन्धो हृदये निरूढिः प्रारम्भः, सा च नायकस्यामात्यस्य नायिकायाः प्रतिनायकस्य दैवस्य वा । तस्या हि तथैवानुमानाद् व्यवस्था । दैवसाध्यमपि च समुद्रदत्ताभिमतप्राप्त्यादिकं(*) पुण्योपार्जनं प्रयत्नबहुमानसिद्धये दैवसाहाय्यस्य पुरुषकारस्य फलवर्तिता

(मू)

1. य॰ कारकस्य, ड॰ साधकस्य

2. ड॰ पूर्व्यात्

3. एतदनन्तरं ट॰ड॰ढ॰मातृकासु दृश्यतेऽधिकः पाठः -- नाट्यप्रकरणाभावा ह्यवस्था(त्र्यवस्था ढ॰)स्ता मता इह । धर्मकामार्थसंबन्धः फलयोगस्तु कथ्यते ॥ इति ।

4. य॰ बन्धमात्रस्तु

5. ट॰ यो

6. ड॰ स खल्वारम्भ, सोऽत्र प्रारम्भः

(व्या)

* ब्रह्मयशस्सामिना कृते पुष्पदूषितके षष्ठेऽङ्के नन्दयन्तीसमुद्रदत्तयोः समागमः केवलं दैवसाधित एव न तु नीतिचक्षुषा पौरुषप्रभावेन ।

[page 6]




[NZ]

अपश्यतः फलप्राप्तिं 1व्यापारो यः फलं प्रति । BhNZ_19_010ab
2परं चौत्सुक्यगमनं 3स प्रयत्नः प्रकीर्तितः ॥ BhNZ_19_010cd
ईषत्प्राप्तिर्यदा4 काचित्फलस्य5 परिकल्पते6 BhNZ_19_011ab
भावमात्रेण 7तं प्राहुर्विधिज्ञाः 8प्राप्तिसम्भवम् ॥ BhNZ_19_011cd
नियतां तु9 फलप्राप्तिं यदा10 भावेन पश्यति । BhNZ_19_012ab
नियतां तां फलप्राप्तिं 11सगुणां परिचक्षते ॥ BhNZ_19_012cd
[ABh]

तद्व्युत्पत्तिलाभाय प्रदर्श्यत इति । एवमपश्यत इति तस्दुपायव्यतिरेकेण फलप्राप्तिमपश्यतः फलदर्शनमसंभाव्यमानं विवेचयतः फलमुद्दिश्य यो व्यापारः उपायविषयपरमौत्सुक्यगमनलक्षणं, तेन विनेदं फलं न भवति तस्मात् स एवोपायोऽन्वेष्यः इत्युपायविषयस्मरणेच्छासन्तानस्वभावः, स प्रयत्नः । ईषत्प्राप्तिरित्यादि । भवत्यस्मादिति भावः उपायः, तस्य सहकार्यन्तरयोगः प्रतिबन्धकवारणं च मात्रपदेनावधारितम् । तदयमार्थः -- उपायमात्रेण लब्धेन यदा कदाचिद् विशिष्टफलप्राप्तिरीषत् कल्प्यते संभावनामात्रेण स्थाप्यते न तु निश्चीयते तदा प्राप्तेः सम्भवः । संभावनायोग्यत्वमसंभावनाविशिष्टत्वं नाम तृतीया कर्तुरवस्था ।
नियतां तु फलप्राप्तिं यदेति । फलस्य प्रकर्षेणाप्तिर्यतः सहकारिवर्गः प्रतिबन्धकविध्वंसनसहितता च सामग्रीरूपतः, तां सामग्रीं, यदा तेन भावेन पूर्वोपात्ततया मुख्योपायेन नियतां नियन्त्रितां फलाव्यभिचारिणीं पश्यति तदा नियतफलप्राप्तिर्नामावस्था । ननु कर्तरीत्याशङ्क्याह -- सगुणामिति गौणी उपचरिता तस्येयमवस्था । नियतफलकर्तृविषयत्वेन नियतफलप्राप्तिशब्दो विषयविषयिणोरभेदोपचाराद्

(मू)

1. च॰ यो व्यापारः, न॰ फलप्राप्तं यो

2. ड॰ पदं

3. प॰ प्रयन्तः परिकीर्तितः, न॰ स प्रयत्न इति स्मृतः

4. ड॰ प्राप्तिश्च या

5. ड॰ अर्थश्च, ढ॰ अर्थस्य

6. ड॰ कल्पते, द॰ कीर्त्यते

7. ढ॰ स ज्ञेयो विधिज्ञैः प्राप्तिसंभवः

8. ट॰ प्राप्त

9. ड॰ च

10. ड॰ यत्र

11. ड॰ सगुणं तु विनिर्दिशेत्, च॰ सगुणाः, ट॰ स्वगुणात्

(व्या)

[page 7]




[NZ]

1अभिप्रेतं समग्रं च प्रतिरूपं2 क्रियाफलम् । BhNZ_19_013ab
3इतिवृत्ते भवेद्यस्मिन्4 फलयोगः प्रकीर्तितः5 BhNZ_19_013cd
6सर्वस्यैव हि कार्यस्य प्रारब्धस्य7 फलार्थिभिः । BhNZ_19_014ab
[ABh]

युक्त इति यावत् । अत एव पश्यतीत्यनेन दर्शनमेवावस्थेति दर्शितम् । यदि वा सहगुणेन दर्शनेन वर्तते, नियतफलप्राप्तिदर्शनं तन्नामावस्थेत्यर्थः । ये त्वकारप्रश्लेषादभावेन नियतां सन्देहमयीमिति व्याचक्षते ते नियता फलप्राप्तिः संदिग्धा चेत् कथमेतद्विरुद्धं संगच्छतामिति प्रष्टव्याः ।
अभिप्रेतं समग्रं चेति । यस्मिन्नितिवृत्ते कर्त्रवस्थात्मनि नायकस्याभिप्रेतं तादृशम्, अपि च नानुचितं, अपि तु प्रतिरूपमुचितं संभवात् पूर्णं क्रियाफलमिति समनन्तरफलं, न च विधिफलमिव स्वर्गादि कालान्तरापेक्षि वर्ण्यते, सावस्था नायकस्य फलयोगः फoतोत्पत्तिर्नाम । तत्र सचिवामात्यादेरपि यावस्था सा वस्तुनो नायकगामिन्येव भवतीति नाटकेषु नावश्यं सर्वा नायकस्य साक्षादेवोपनिबन्धनीयाः, अपि तु सचिवादिगतत्वेनापि फलयोगस्तु साक्षादेव यद्गत इत्यभिप्रेतमित्यनेन दर्शितम् । अवस्थानतराणि सचिवादिगतान्यपि पर्यवस्थन्ति नायकादेरेवेत्येतदेव सुकविना रत्नावल्यां ``प्रारम्भेऽस्मिन् स्वामिनः सिद्धिहेतौ'' (अ॰1) इति श्लोकेन प्रतिपदमुक्त्वा अस्मदभिप्रायः समुच्छ्रितेन दर्शितः ।
ननु मानुषव्यापारे नायकस्य तत्सचिवादेर्वा भवन्त्येता अवस्थाः, प्रतिनायकेऽप्येवं तत्र परमसदुपायापेक्षया । यत्र तु दैवायत्तं फलं वर्ण्यते तत्र कथं न च वर्ण्यं पुरुषकारमात्राभिमानिनां दैवमवजानानां चार्वाकादिमतमेयुषां, स दैवबहुमानव्युत्पत्तये हि पुरुषकारोऽप्यफलः, तदभावोऽपि सफलः प्रदर्शनीयः, अत एव दरिद्रचारुदत्तादिरूपकाणि तद्विषयाणि । तस्माद्दैवायत्तत्वे कथमेतदवस्थापञ्चकम्, तत्परिहर्तुमाह -- सर्वस्यैव हीति दैवादागच्छतोऽपीत्यर्थः ।

(मू)

1. द॰ श्लोकार्धं न वर्तते

2. ढ॰ रूप

3. ड॰ यद्दृश्यते निवृत्ते तु फलयोगः स दृश्यते (ट॰ उच्यते)

4. न॰ यत्र

5. द॰ स कीर्तितः

6. य॰ इतिवृत्तादिकाव्यस्य

7. द॰ प्रारम्भस्य

(व्या)

[page 8]




[NZ]

1एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ BhNZ_19_014cd
2आसां स्वभावभिन्नां परस्परसमागमात् । BhNZ_19_015ab
3विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ BhNZ_19_015cd
[ABh]

तत्रापि हि यद्यपि नायको न यतते तथापि यत्र फलं भवति तत्रावश्यमवस्थादिभिर्भाव्यम् । स एव च परं फलेन तदानीमर्थीभवति `यमर्थमधिकृत्य प्रवर्तत' इति हि प्रयोजनलक्षणं वदन्ति । तथा ह्गि सेवाद्यशेषोपायप्रारम्भं विनानन्दसंपादनहृदय एव, अपरथा परतः प्राप्तमपि फलं नाङ्गीकुर्यात्, अनङ्गीकरणेऽपि वास्य फलार्थित्वमेवाधिकफलान्तरसन्तोषमनु प्रसिद्ध्यादिफलान्तराभिसन्धानादिति युक्तमुक्तं मुनिना सर्वस्यैव पञ्चावस्था इति ।
नन्वासां तावत् स्वरूपभेदः कालभेदश्च कालाभिन्नानां चैककालत्वाभावात् `संसाधे फलयोगे तु व्यापारः कारणस्य' इति (19-7) यदुक्तं तत् कथम्, किं च फलयोगे साध्ये च तत्रावस्था कारणस्येति पञ्चेतीहावस्था फलयोग एव, न तु सा कदाचिदन्येत्याशङ्क्याह आसां स्वभावभिन्नानामिति स्वभावभेदे तु कालभेदोऽप्युपलक्ष्यते, स्वभावभेदे दिक्काले दण्डचक्रादिभिरेकफलसंपादना, तेन कालभिन्नानामपि, आसां परस्परमन्योन्यं संगत्या नान्तरीयकत्वेन यदागमनं तदवलम्ब्य यो विन्यासो यत्फलभेदः(4) तत आद्यन्तावहर्षणं निश्चितोत्तरोत्तरकार्याणां कारणकारणानामपि हेतुत्वानपायादिति भावः । उयच्चोक्तं फलयोगे कथं फलयोगान्तरमिति तत्राप्याह एकभावेन फलहेतुरिति । एकभावः संबन्धः । तेनायं भावः -- फलस्योत्पत्त्यवस्था एका नायकेन सह संबद्धा, द्वितीया येयं संसाध्ये फलयोग इत्यत्र निर्दिष्टा, पूर्वा त्ववस्था मध्यत्रयेण युज्यमाना योग्यफलोत्पत्तिदर्शना पञ्चम्यवस्थेत्यर्थः ।

(मू)

1. ड॰ यथानुक्रमशो ह्येताः, ढ॰ यथानुक्रममेतास्तु, च॰ एता अनु ।

2. य॰ तासां

3. ड॰ विन्यासः फलभावेन फलाय परिकल्प्यते

(व्या)

4. हेतुः

[page 9]




[NZ]

1इतिवृत्तं 2समाख्यातं 3प्रत्यगेवाधिकारिकम् । BhNZ_19_016ab
4तदारम्भादि कर्तव्यं फलान्तं च 5यथा भवेत् ॥ BhNZ_19_016cd
पूर्णसन्धि च6 कर्तव्यं7 हीनसनधय् अपि वा पुनः । BhNZ_19_017ab
नियमात्8 पूर्णसन्धि स्याद् धीनसन्ध्यथ9 कारणात् ॥ BhNZ_19_017cd
[ABh]

एवमवस्थापञ्चकं प्रदर्श्य तदनुयायित्वेनेतिवृत्तस्याधिकारिकत्वं समर्थयितुमाह -- इतिवृत्तं समाख्यातमिति । यद्यस्मात्तत् कर्तव्यं कार्यं वस्त्वारम्भादि फलान्तं च तदिति तस्मात्तदवस्थानुयायित्वेनाधिकृतत्वादाधिकारिकमुच्यते । चस्तुशब्दस्यार्थे, यथा तु तदितिवृत्तशब्दवाच्यं भवेत् तथा प्राक् सम्यगाख्यातमितिशब्दार्थमिति निरूपणेन `पञ्चभिः सन्धिभिस्तस्य विभागः' इत्यनेनैतच्च तद्गतवक्तव्यान्तरोपक्षेपाय पुनरभिहितम् ।
ननु किं सर्वत्र पञ्चैव सन्धय इत्याह पूर्णसन्धिं चेति । विकल्पः सर्वत्रेति कश्चिदाशङ्कते तं प्रत्याह -- नियमादिति । उत्सर्गेणेति केचित् । उपाध्यायास्त्वाहुः -- सर्वत्रेतिवृत्तं पञ्चसन्ध्येव, न हि कश्चिदपि व्यापारो प्रारम्भाद्यवस्थापञ्चकं विना सिद्ध्येत्, न शक्यमौनीकृत्यं वा । उक्तं च --
सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः ।
एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ इति (19-14)
अवस्थापञ्चकानुयायिना सन्धिपञ्चकेनापि भाव्यमेव, तेन सर्वं नियमात्पञ्चसन्धि, (1)हीनसन्धित्वं तु तत्र कारणादपूर्णाङ्गत्वलक्षणादुच्यते, अत एव पूर्णसन्धीति व्यपदिश्यते इत्यपिशब्देन चोक्तं `हीनसन्ध्यपि वा पुनः' इति ।

(मू)

1. य॰ यद्वृत्तं हि

2. ट॰ यथाख्यातं, ड॰ यदाख्यातं

3. ड॰ पुरस्तात्

4. ट॰ कविना तत्र कर्तव्यं फलान्तं च यथाक्रमम्

5. प॰ यदा

6. ड॰ अपि, य॰ तु

7. ड॰ यत्कार्यं, च॰ तत्कार्यं

8. न॰ पञ्च

9. ट॰ सन्धि तु, ड॰ सन्धिस्तु, न॰ अपि

(व्या)

1. विधुर

[page 10]




[NZ]

1एकलोपे चतुर्थस्य 2द्विलोपे त्रिचतुर्थयोः । BhNZ_19_018ab
3द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ BhNZ_19_018cd
प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् । BhNZ_19_019ab
यद्वृत्तं 4सम्भवेत्तत्र5 6तद्योज्यमविरोधतः ॥ BhNZ_19_019cd
[ABh]

`डिमः समवकारश्च चतुस्सन्धी' इति वक्ष्यते, तत्रावमर्शस्य लोपः । `व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ' इत्यत्र गर्भविमर्शयोर्लोपः । `द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च' तत्र प्रतिमुखगर्भावमर्शनां लोपः, त्रिशब्देन (द्वितीयत्रिचतुर्थानामित्यत्र) तृतीयो लक्ष्यते । तत्रोपक्रमोपसंहारौ तावत् सर्वत्रावश्यंभाविनौ । तत्र तु ये प्रेक्षापूर्वकारिणो विततं बहुफलं कर्तव्यमारभन्ते तेषां पञ्चैव सन्धयः । आर्तिसहिष्णुत्वेन शङ्क्यमानविरुद्धप्रत्ययस्यापाकारणे ``द्वौ प्रतिषेधौ विधिं द्रढयतः'' इति न्यायात् सुदृढो हि भवत्येषां फलयोगः । डिमादिनायकास्त्वत्युद्धतप्रायत्वान्नातीव विनिपातमाशङ्कन्ते । व्यायोगादिनायका अपि तारतम्येन फलयोगाङ्गीभावान्नाद्रियन्ते । प्रहसनादिनायकास्त्वधर्मप्रायत्वात्तदितिवृत्तस्य चर्वितशरीरत्वादुपक्रमोत्पसंहारमात्रे विश्राम्यन्तीत्यपूर्णा अवमर्शादयः ।
एवं पञ्चभिरितीतिवृत्तशब्दे यस्य हीतिशब्दो व्याख्यातः, सोऽनेन निर्वाहितार्थः, प्रासङ्गिके तु क इतिशब्दस्यार्थ इति दर्शयति प्रासङ्गिक इति । नियमो य उक्तो नियमात्पूर्णसन्धि स्यादित्यादि स तत्र न भवेत्, विभीषणप्रतिष्ठापनविषये रामस्य चेदौत्सुक्यबन्धादि योज्येत तर्हि तदेव यत्नसंपाद्यं भवेत् । परामृशति यद्वृत्तमिति तत्राधिकारिके यदविरुद्धमत्र प्रासङ्गिके सम्भवि वृत्तं प्रारम्भेष्वनियतमं च तदेव प्रासङ्गिके योजनार्हमिति ।
ननूक्तं `औत्सुक्यमात्रबन्धस्तु यद्बीजस्य' इत्यादि तत्र चोपायतत्सहकारिवर्गप्रतिबन्धत्वं तद्विध्वंसनं चोपक्षिप्तं तत्र तत्स्वरूपं न ज्ञातमित्युपायसामग्रीस्वरूपं

(मू)

1. भ॰ चतुर्थस्यैकलोपे तु, ढ॰ चतुर्थः स्यात्

2. च॰ लोपं

3. ढ॰ द्वितृतीय

4. ड॰ तु भवेत् किञ्चित्

5. ट॰ यत्र

6. ड॰ संयोज्यमविरोधि तत्

(व्या)

[page 11]




[NZ]

1इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । BhNZ_19_020ab
अर्थप्रकृतयः 2पञ्च 3तथा बीजादिका अपि ॥ BhNZ_19_020cd
बीजं बिन्दुः पताका च प्रकारी कार्यमेव च । BhNZ_19_021ab
4अर्थप्रकृतयः पञ्च 5ज्ञात्वा योज्या यथाविधि ॥ BhNZ_19_021cd
[ABh]

दर्शयितुमाह -- इतिवृत्ते यथावस्था इति, इतिवृत्तविषये यथा येन प्रकारेणाधिकारिकस्य खण्डन(1)लक्षणेन पञ्चावस्था तेनैव प्रकारेणार्थप्रकृतयोऽपि पञ्चैव पठ्यते । तदनभिधाने उपायादिस्वरूपापरिज्ञानात् प्रारम्भाद्यवस्थानां परमार्थतोऽसंवेदने आधिकारिकत्वमविदितं स्यात् । यत्रार्थः फलं तस्य प्रकृतय उपायाः फलहेतव इत्यर्थः । तत्र जडचेतनतया द्विधाकरणं, जडश्च मुख्यकारणभूतः, गूडतरो वा, आद्यं बीजं द्वितीयं कार्यं करणीयं प्रयोक्तव्यमित्यर्थे । चेतनोऽपि द्विधा मुख्य उपकरणभूतश्च, अन्त्योऽपि द्विधा स्वार्थसिद्धिसंहिततया परार्थसिद्ध्या युक्तः शुद्धयापि च(*), तत्राद्यो बिन्दुः द्वितीयः पताका तृतीयः प्रकरी । तदेतैः पञ्चभिरुपायैः पूर्णफलं निष्पाद्यते । अत एवाह -- ज्ञात्वा योज्या यथाविधि इति तासामौद्देशिकोक्तिवदुपनिबन्धक्रमनियम इत्यर्थः । अन्ये त्वाहुः -- अर्थस्य समस्तeरूपकवाच्यस्य प्रकृतयः प्रकरणान्यवयवार्थखण्डा इत्यर्थप्रकृतयः -- एतच्च व्याख्यानं नातीव प्रकृतं पोषयति । सन्ध्यादीनामपि चार्थप्रकृतित्वमत्र व्याखाने स्यात्, इतिवृत्तमेव च समुदायरूपम् । अर्थ इतिवृत्ते प्रकृतय इति वक्तव्येऽर्थग्रहणमतिरिक्तं स्यात्, इत्यवस्थाभिश्च तुल्यतावर्णनं वर्णनमात्रं स्यादिति किमनेन ।

(मू)

1. इदमर्धं ट॰प॰ड॰द॰न॰व॰य॰मातृकासु न वर्तते

2. ड॰ चासां पञ्च

3. द॰ प्रबन्धेषु प्रकीर्तितः, ट॰ अन्या बीजाद्या पञ्चनाटके । द्रष्टव्याः कविभिर्नित्यं लक्षणं निब्वोधत ॥

4. ट॰ इदमर्धं ट॰द॰य॰ब॰आदिष्वादर्शेषु न दृश्यते

5. ड॰ विनियोज्या

(व्या)

[page 12]




[NZ]

1स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति2 BhNZ_19_022ab
फलावसानं 3यच्चैव बीजं तत् परिकीर्तितम्4 BhNZ_19_022cd
प्रयोजनानां विच्छेदे यदविच्छेदकारणम्5 BhNZ_19_023ab
[ABh]

तदेतत्पञ्चकमुद्देशक्रमेण लक्षयति स्वल्पमात्रमिति । यद्वस्तु -- सागरिकान्तःपुरनिवासेन(वसन्तोत्सव) समये गम्भीरप्रयोजनसंवेदनाभावात् स्वल्पमात्रमकिञ्चित्करप्रायं शङ्क्यते संवादeनोत्सृष्टं प्रक्षिप्तं यथावश्यं फलान्तं, यतो बहुभिः प्रकारैर्विसर्पत्येव, सर्वथा प्रसरति यत्तत् सिद्धिस्तत्फलमपि यदि निरुध्य फलत्वेन प्रवर्तते प्रथमप्रक्षेपेणैव देशकालौचित्यापेक्षैर्स्तद्बीजवन्न्यस्यारघट्टपरिवर्तनन्यायेन बहुतरोपायपरम्परोपरि(1) कार्यमेव यस्यापेक्ष्यं तद्बीजम् । यद्यस्मात्परितः समन्तात्कीर्तितं प्रसिद्धम् । तच्च क्वचिदुपायमात्रं क्वचिदुभयमिति । तत्रापि क्वचिन्नायकोद्देशेन क्वचित्प्रतिनायकाश्रयेणेत्यादिभेदैर्बहुधा । तत्र चक्रवर्तिपुत्रलाभो मुनिजनाशीर्वचनद्वारेण फलस्वभावस्यैवाभिज्ञानशाकुन्तले ।
फलमपि च भविष्यदुपायाविनाभावाद् बीजमित्युच्यते । एवमन्यत्रापि यथायथमुदाहार्यम् । आनन्त्याद् ग्रन्थगौरवभयाच्च न प्रतिदिशं लिखितम् ।
अथ बिन्दुं लक्षयति प्रयोजनानां विच्छेद इति । प्रयुज्यते फलं यैरुपायानुष्ठानैः तेषामितिवृत्तवशादवश्यकर्तव्यतादिभिर्विच्छेदेऽपि सति यदनुसन्धानात्मकं प्रधाननायकगतं सन्धिद्रव्यज्ञानं बिन्दुः, ज्ञानविचारणं फललाभोपायत्वात् । यावदविच्छेदः प्रत्यनुसन्धानेन(न) कृतस्तावन्न किञ्चिदपि कार्यं निर्वहति ।

(मू)

1. ट॰ अल्पमात्रं समुद्दिष्टं, प॰ अल्पमात्रमुपक्षिप्तम्

2. ड॰ प्रसर्पति

3. न॰ यच्चैव, प॰ तच्च स्यात्तद् बीजमिति

4. ड॰ अभिधीयते

5. न॰ कारकम्

(व्या)

1. क॰ परसरापरि, ख॰ पुरस्सरापारि

[page 13]




[NZ]

यावत्समाप्तिर्बन्धस्य1 स बिन्दुः 2परिकीर्तितः ॥ BhNZ_19_023cd
[ABh]

ननु बीजं तावत् फलान्तमास्ते, बिन्दोस्तु कथं स्थितिरित्याह -- यावत्समापितिरिति । यावत्स्वस्य वध्यमानस्य फलस्य सम्यगाप्तिस्तावत् । एतदुक्तं भवति -- सकलोपायप्रतिजागरणनिमित्तं ह्यनुसन्धानं यावद्धि मुख्यनायकेन प्रत्यनुसन्धानेन(न) क्रियते तावद् जडाजडरूपः सर्वोऽप्युपायधर्मोऽनुपायकल्प एव । तथा ह्गि -- तापसवत्सराजे वासवदत्ताप्रेमानुसन्धानं राजमुखेन प्रत्यङ्कं दर्शितम् -- ``तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा''(*) इति यावत् षष्ठेऽङ्के --
त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःस्नेहता ।
आसन्नोऽवसरस्तवानुगमने जाता रतिः किं त्वयं खेदो यच्छतधागतं न हृदयं तस्मिन् क्षणे दारुणे ॥
तत्र प्रधानसिद्धिरायत्तसिद्धिरुभयसिद्धिः, प्रधानसिद्धावयं बिन्दुः, आयत्तसिद्धिस्तु राज्यप्राप्तिलक्षणा । तस्याममात्यवर्गकृतमेवानुसन्धानं बिन्दुः । उभयसिद्धौ तूभयकृतः येन यत्प्राधान्येनाभिसंहितं स एव तदनुसंधत्तो । इत्येवं प्रधानानुसन्धानचेतनव्यापारः कारणानुग्राही स्वयं च परमकारणस्वभावस्तैलबिन्दुवत् सर्वव्यापकात्वादपि बिन्दुः । बीजं च मुखसन्धेरेव प्रवर्त्यात्मानमुन्मेषयति बिन्दुस्तदनन्तरमिति विशेषोऽनयोः, द्वे अपि तु समस्तेतिवृत्तव्यापके ।

(मू)

1. ढ॰ कार्यस्य, न॰ समाप्तिमद्बन्धः

2. ड॰ इति संज्ञितः

(व्या)

*

तद्गोष्टयैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः ।

तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथवा प्रेमा समाप्तोत्सवः ॥ (1-15)

यावदिति । अत्र प्रत्यङ्कदर्शितप्रेमानुसन्धानं वृत्तिकारेण ध्वन्यालोकलोचने तृतीयोद्योत उदाहरणबाहुल्येन विशदीकृतमेव । अथवास्माभिः प्रकटीकृतस्य तापसवत्सराजस्योपोद्घाते तन्निरूपणं द्रष्टव्यम् ।

[page 14]




[NZ]

यद्वृत्तं1 तु 2परार्थं स्यात्प्रधानस्योपकारकम् । BhNZ_19_024ab
3प्रधानवच्च कल्प्येत सा पताकेति कीरित्ता ॥ BhNZ_19_024cd
फलं 4प्रकल्प्यते 5यस्याः 6परार्थायैव केवलम् । BhNZ_19_025ab
अनुबन्धविहीनत्वात्7 8प्रकरीति विनिर्दिशेत् ॥ BhNZ_19_025cd
यदाधिकारिकं 9वस्तु सम्यक् प्राज्ञैः प्रयुज्यते । BhNZ_19_026ab
10तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम्11 BhNZ_19_026cd
[ABh]

यद्वृत्तं तु परार्थं स्यादिति । यस्य सम्बन्धि वृत्तं संविदनुसन्धानं परस्य प्रयोजनसंपत्तये भवदपि स्वप्रयोजनं संपादयति । अत एवाह -- प्रधानवच्च कल्प्येतेति । सचेतनानुसन्धाना पताका सिद्धिप्रधानस्योपकारिणी । एवं सुग्रीवविभीषणप्रभृतिरपि रामादिनोपक्रियमाणे रामादेरात्मनश्चोपकाराय प्रभवमाने प्रसिद्धिप्राशस्त्ये संपादयतीति । एवमौचित्यानौचित्यज्ञानोपयोगिन्यानयात्र पताकावदुपयोगित्र्वादियं पताकेति चिरन्तनाः ।
फलं प्रकल्प्यते यस्या इति यतश्च ततः परार्थमेव केवलं सर्वमनुतिष्ठति सा प्रकरी । यथा कृत्यारावणे कुलपतिः, वेणीसंहारे भगवान्वासुदेवः । प्रकर्षेण स्वार्थानपेक्षया करोतीति । इक् सार्वधातुभ्यः संविदपेक्षया च, स्त्रीलिङ्गत्वे कृदिकारादिति ङीष् । फलमिति फलतीति कृत्योपायानुष्ठानमुच्यते ।
यदाधिकारिकमिति प्राज्ञैः प्रधाननायकपताकानायकप्रकरीनायकैश्चेतनरूपैः, यद्वस्तु फलरूपं प्रयुज्यते संपाद्यते संपाद्यत्वेनानुसन्धीयते तत्फलप्रयोजनो

(मू)

1. न॰ हि, प॰ यस्यावृत्तं

2. ट॰ परार्थस्य

3. द॰ प्रधानवच्चात्मनोऽपि, प॰ तत्संबन्धाच्च फलवत्, फ॰ प्रधानबन्धफलवत्

4. ढ॰ संकल्प्यते, ट॰ स, प॰ प्रकल्पते

5. ड॰ सद्भिः, द॰ यस्य

6. न॰ परार्थं केवलं बुधैः, ड॰ परार्थं यस्य केवलम्, फ॰ परार्थं केवलं बुधाः

7. प॰ विहीनां तां, फ॰ विहीना च, ड॰ बन्धेन हीनस्य, ढ॰ विहीनस्य

8. या॰ प्रकरीमिति नर्दि, ड॰ प्रकरीं तां

9. प॰ वृत्तं, य॰ कार्यं पूर्वमेव प्रकल्पितम् (द॰ कीर्तितम्)

10. प॰ यदर्थश्च, ट॰ तदर्थे यच्च संसाध्यं, फ॰ यदर्थस्तु

11. न॰ इति कीर्तितम्, ट॰ समुपाहृतम्, य॰ समुदाहृतम्

(व्या)

[page 15]




[NZ]

एतेषां यस्य येनार्थो यतश्च गुण इष्यते । BhNZ_19_027ab
1तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः2 परम् ॥ BhNZ_19_027cd
एको3ऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत्4 BhNZ_19_028ab
प्रधानार्थानु5यायित्वादनुसन्धिः प्रकीर्त्यते6 BhNZ_19_028cd
[ABh]

यः संपूर्णतया पूर्वपरिगृहीतस्य प्रधानस्य बीजाख्योपायस्य फलम्, आरभ्त इत्यारम्भशब्दवाच्यो द्रव्यक्रियागुणप्रभृतिः सर्वोऽर्थः (यस्य) सहकारी (तत्) कार्यमित्युच्यते, चेतनैः कार्यते फलमिति व्युत्पत्त्या । सम्यगिति प्रभुमन्त्रोत्साहशक्तित्रयसंपन्नैरित्यर्थः । तेन जनपदकोशदुर्गादिकव्यापारवैचित्र्यं सामाद्युपायवर्ग इत्येतत्सर्वं कार्येऽन्तर्भवति । तत्र परं प्रथमपरिगृहीतः प्रधानभूतो ऽभ्युपायो बीजत्वेनोक्तः ।
ननु प्रारम्भादिवदासमर्थप्रकृतीनां किं सर्वत्र सर्वासां सम्भवस्तथार्थप्रकृतिसन्ध्यवस्थाभिः सह किं यथासङ्ख्यं नियमस्तथा किं स्वात्मन्यासां कर्तृक्रम इति शङ्कात्रयम्पाकर्तुमाह एतेषामिति(1) पञ्चकवर्गत्रयं परामृश्यते एकैकस्य वर्गस्यैकशेषेण । तदयमर्थः -- न सर्वत्र प्रारम्भादिवत् सर्वा अर्थप्रकृतयोऽपि । अपि तु यस्य नायकस्य येनार्थप्रकृतिविशेषेण प्रयोजनसंपत्तिरधिका तदेव प्रधानम्, अन्यत्तु भवदपि गुणभूतमसत्कल्पम्, यथा स्वपराक्रमबहुमानशालिaनां पताकाप्रकर्ये विवक्षिते एव । बीजबिन्दुकार्याणि तु सर्वत्रानपायीनि । तत्रापि तु गुणप्रधानभावः तथा सन्ध्यवस्थार्थप्रकृतीनां यस्य येनोचितः संबन्धः प्रधानं नाटकादिकार्यमिति द्वितीयापि निरस्ता । यतश्च गुण उपकारो झटिति वाच्यते तदेवार्थप्रकृतिरूपं पञ्चानामन्यतमं प्रधानत्वेन बाहुल्येन निबन्धनीयम्, अन्यत् गुणभावेन प्रधानायत्तसिद्धौ च

(मू)

1. ड॰ प्रधानं तत्प्रकर्तव्यं

2. ट॰ भ्यूतमतः

3. ड॰ नैको

4. ड॰ च योजयेत्, ड॰ पताकायाश्च योजयेत्

5. द॰ अनुवादि

6. ढ॰ स कीर्त्यते, ट॰ सन्धिसती (?) भवेत्, ड॰ अनुबन्धः स कीर्तितः

(व्या)

1. एतासां

[page 16]




[NZ]

[ABh]

निबन्ध्यमाना यो यत्रांशेऽप्यधिकोपकारी स तत्र प्रधानीकर्तव्यः । यथा वासवदत्तालाभे (तापसवत्सराजे) बिन्दुः प्रधानं, कौशाम्बीराज्यलाभे तु प्रकरी पताका च प्रधाना, अमात्यस्य राज्यसिद्धौ स्वार्थसिद्धिरिति पताकात्वं केचिदाहुः । एवं सुसङ्गतासांकृत्यायनीं(*) बीजधर्मादिषु वाच्यम् । अपरे तु -- प्रथमतरमेव नायकस्य तावद्रूपत्वान्नैव प्रमाणं पृथङ्नायकत्वं, सुग्रीवादयस्तु पृथग्भूता एव, सांप्रतिके कार्ये केवलमाश्रिता इति, एवं प्रमाणमिव पताकादिरूपत्वम् । तेषां मते तापसवत्सराजे उभयत्रापि बिन्दुरेव प्रधानं, पञ्चानामप्यर्थप्रकृतीनामन्यतमस्य द्वयोस्तिसृणां चतसृणां सर्वासां वा प्राधान्यं यथास्वं बिभजनीयम् । पताकाप्रवृत्तस्य प्रधानवदतिदेशात् पञ्चसन्धीत्यासां(1) भवेत् पृथग्गणना । अस्त्वित्यसौ परार्थत्वादेव । अत एव च कुतः सन्धिः सूच्यते वाभ्यूह्यते वा निबध्यते वा । यथा मायापुष्पके --
वाली यथा विनिहितः प्रथितप्रभवो दग्धा यथैककपिना प्रसभं च लङ्का ।
तीर्णो यथा जलनिधिर्गिरिसेतुना च मन्ये तथा विलसितं चपलस्य धातुः ॥
पताकायां हि पूर्णवर्णने पताकान्तरं स्यादित्यनवस्था । तद्युक्तमुक्तमनुसन्धित्वान्न पृथग्गणनमस्येति ।
तथा लोल्लटाद्यास्तु मन्यन्ते परार्थे साधयितव्ये पताकानायकस्येतिवृत्तभागा अनुसन्धयः । यथा कृत्यारावणे --
धन्यास्ते ते कृतिनः श्लाघ्या तेषां च जन्मनो वृत्तिः ।
यैरुज्झितात्मकार्यैर्येषामर्थाः प्रसाध्यन्ते ॥
इति मुखानुसन्धिः, ``बाली यथे''ति प्रतिमुखस्यानुसन्धिः, शक्तिहते लक्ष्मणे ओषध्यानयने गर्भस्य, अङ्गददौत्ये मन्दोदर्याक्षेपेऽवमर्शस्य ``आ ! अशक्त, अनार्ये तिष्ठ तिष्ठ, अतिरथस्त्वं सा न'' इति निर्वहणस्य, इति । एतस्त्तु भवति सर्वस्यैव हि पञ्चावस्था भवन्तीत्युक्तम् । किं तस्यानुसन्धिद्वित्वाभिधाने प्रयोजनं न पश्यामः ।

(मू)

(व्या)

* सुसङ्गता रत्नावल्यां, सांकृत्यायनी तापसवत्सराजे । त्यास्यात्

[page 17]




[NZ]

आगर्भादाविमर्शाद्वा1 पताका विनिवर्तते । BhNZ_19_029ab
2कस्माद्यस्मा3न्निबन्धोऽस्याः 4परार्थः परिकीर्त्यते ॥ BhNZ_19_029cd
5यत्रार्थे चिन्तिते ऽन्यस्मिनस् तल्लिङ्गो ऽन्यः प्रयुज्यते । BhNZ_19_030ab
[ABh]

स्वफलसिद्धये यतमानस्य तत्र तत्रावश्यं पृथग्गणनाशङ्केति तत्प्रशमनप्रयोजनम्, अस्मत्पक्षे कस्मिंस्तर्हि प्रधानसन्धौ तस्यानुयायित्वमिति दर्शयितुमाह -- आगर्भादाविमर्शाद्वेति प्रतिमुखे गर्भे यदि वा । यमर्थं व्याप्य निर्वर्तते पताकेतिवृत्तं तावत्येव पताकानायकस्य स्वफलसिद्धिरुपनिबन्धनीया, सिद्धिफलस्त्वसौ प्रधानफल एव व्याप्रियमाण आसीनोऽपि भूतवूर्वगत्या पताकाशब्दवाच्यो न मुख्यत्वेन । अत्राह कस्माद्यस्मादिति । कस्म्नादस्याभिप्रायः, प्रधानवच्च कल्प्येतेत्युक्तत्वात् निर्वाहादपि किं तद्भवति, अत्रोत्तरं यस्मादिति निर्वहणपर्यन्ते तत्फले क्रियमाणे तुल्यकालयोरुपकार्योपकारकत्वाभावात् तेन प्रधानोपकारो(कारभावो?) न भवेत् । अभिविधावाङ् । ये तु मर्यादायां तं व्याचक्षते ते न सम्यगमंसत -- विनिपातप्रतीकारः प्रधानविमर्शसन्धौ प्रस्तुतोपयोगः पताकायाः, यतर कृतघ्नतादृष्टा तन्न नीत्योच्यते कृतज्ञस्तु प्राप्तफलो विनिपातान् प्रतिकुर्यादेवेति । तत्र पताकानायको यथास्वार्थे प्रवर्तते परार्थं च (संपद्यते), भृत्यस्यान्यस्य वा जडस्य वा स्थितिः -- स्वार्थेऽपि सति परार्थे संपद्यते । तत्पताकास्थानकं पताका तत्र जडस्य स्वार्थपरार्थप्रवृत्तौ तावदभिसन्धानाभावात् । अभिसन्धानवतः सुग्रीवादेः पताकानायकाद्भेदः, अजडस्यापि स्वार्थे यद्यप्यनुसन्धानमस्ति तत्रापि परार्थे नास्तीति विशेषः, प्रधानवच्च कल्प्येतेति पताकालक्षणेऽभिधानाद्बहुतरेतिवृत्ते व्यापकता नायकस्य, अस्य तु परिमितेतिवृत्तव्यापकत्वमित्यपि विशेषः ।
तस्य पताकास्थानकस्य वक्ष्यमाणभेदैर्भेदवत्त्वात् सामान्यलक्षणं तावदाह -- यत्रार्थे चिन्तितेऽन्यस्मिन्निति । अर्थः प्रयोजनं, उपायश्च, कर्मकरणव्युत्पत्त्या,

(मू)

1. ट॰ च

2. ड॰ तस्मात्, द॰ कस्मान्निबन्धो ह्येतस्याः

3. ड॰ तु बन्धो

4. ड॰ परार्थायोपकल्प्यते, ट॰ परार्थाय तु कल्प्यते

5. न॰ यत्रान्यस्मिन् चिन्त्यमाने कल्पितोऽन्यः, ढ॰ यत्रार्थश्चिन्त्यमानोऽपि तल्लिङ्गोऽर्थः

(व्या)

[page 18]




[NZ]

आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ BhNZ_19_030cd
सहसैवार्थसम्पत्ति1र्गुणवत्युपकारतः2 BhNZ_19_031ab
पताकास्थानकमिदं प्रथमं परिकीर्तितम्3 BhNZ_19_031cd
[ABh]

अन्यस्मिन्नुपाये प्रयोजने वा चिन्तिते अन्यः उपायान्तरप्रयोजनान्तरलक्षणः प्रकर्षेण युज्यते संबध्यते यत्रेति तत्पताकास्थानकम्, पताकाधारत्वादुपचारादितिवृत्तमपि पताकास्थानकम् । उपाध्यायास्त्वाहुः -- पताकायाः स्थानमितिवृत्तता, तत्र चार्थः क्रियमाणोऽपि पूर्वपदार्थमुपसंक्रामति, राजवाहन इवायमुद्धुरकन्धरस्तिष्ठतीति यथा, तेन पताकास्थानकमितिवृत्तमेवोच्यते । तर वर्ण्यमानं तु जडाजडरूपं पताकासदृशमित्यर्थादुक्तं भवति । स चान्योऽर्थस्तल्लिङ्गस्तन्मुख्यमर्थं लिङ्गयति विचित्रयतीति ।
ननु किं तत्र पताकासादृश्यमित्याह आगन्तुकेन भावेनेति । भावनं भावः कारणत्वम्, तच्च द्विविधं स्वरूपकृतं सहकारिकृतं च । सहकारिकृतमागन्तुकमुच्यते । तेन सहकारित्वसामान्यात् तत्समर्थाचरणलक्षणात् पताकासादृश्यमिति यावत् । अन्याभिसन्धाने ऽन्यसिद्धिश्चेत् भूषणभूतापि कैश्चिद्दूषणत्वेन गृहीता, तैरर्थशब्दः उपायवाच्योपाश्रितः । तल्लिङ्ग इति कारणत्वधर्माभावप्रवृत्तिनिमित्त उपायः । उदाहरणं सामान्यलक्षणस्य विशेषलक्षणव्याख्याने शक्ययोजनमिति तत्रैव दर्शयिष्यामः । तद्भेदान् क्रमेण लक्षयति सहसैवार्थसंपत्तिरिति । यत्रोपकारकमपेक्ष्य गुणवती उत्कृष्टा अर्थस्य फलस्य सहसैवाचिन्तितोपनतत्वेन भवति संपत्तिः तत् प्रथममिति साध्यफलयोगात्प्रधानं पताकास्थानम् । यथा रत्नावल्यां सागरिकायां पाशावलम्बनप्रवृत्तायां वासवदत्तेयमिति मन्यमानो यदा राजा पाशं मुञ्चति तदा तदुक्त्या सागरिकां प्रत्यभिज्ञाय ``हा कथं प्रिया मे सागस्रिका, अलमलमतिमात्र''मित्यादि । अत्रान्यत्प्रयोजनं चिन्तितं तद्वैचित्र्यकारि च प्रयोजनान्तरं संपन्नम् । तत्र च दैवयोगः तथाभूतदेशकालयोगो नायकः स्वात्मैवान्याभिसन्धिबलात् कल्पितभेदः, सागरिकैव वा मरणमेवोचितमित्यन्याभिसन्धानेन

(मू)

1. न॰ संपत्तौ

2. न॰ कारकः, ड॰ चारतः

3. न॰ स्थानमित्याद्यमलङ्कारार्थसंयुतम्, द॰ समुदाहृतम्, ढ॰ परिकीर्त्यते

(व्या)

[page 19]




[NZ]

1वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम्2 BhNZ_19_032ab
3पताकास्थानकमिदं द्वितीयं परिकीर्तितम्4 BhNZ_19_032cd
अर्थोपक्षेपणं यत्र5 लीनं 6सविनयं भवेत् । BhNZ_19_033ab
7श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ BhNZ_19_033cd
[ABh]

वदतीति पताकानायकसदृशत्वं भजते । अन्यस्मिन्नुपाये चिन्तिते सहसोपायान्तरप्राप्तिः यथा नागानन्दे जीमूतवाहनस्य शङ्खचूडाप्राप्तवध्यपटस्य कुञ्चुकिना वासोयुगलार्पणम् ।
अन्ये तु `चतुष्पताकापरम'मितिभाविसन्धिचतुष्टयाभिप्रायेण मन्यमानाः प्रथमद्वितीयादिशब्दान् मुखादिसन्धिविषयप्रयोगाभिप्रायेण व्याचक्षते । अत्र च युक्तिर्न लक्ष्यते, न वा चमत्कारं भजतीत्यसदेव । एतत्तुल्यतया गणनभूतेन्द्रियैः सह पताकापञ्चकगणनमप्यापादयेदिति च वदद्भिश्चिरन्तनैरेवायमुपहासपात्रीकृतः पक्ष इत्यास्ताम् ।
वचः सातिशयं श्लिष्टमिति । काव्यस्य प्रकृतस्य वर्णनीयस्य यो बन्धः, अतिशयोक्त्यादिना योजनं तन्निमित्तवशाद्यद्वचनं सातिशयश्लिष्टमप्रकृतं प्रत्युचितं जातं तद्वचनं तदर्थो वा तदुच्चारयिता वा यादृच्छिकं वा प्रकृतोपयोगित्वेन जातं तद्वचनं तदर्थो वा तदुच्चारयिता वा यादृच्छकं वा प्रकृतोपयोगित्वेन सहकारित्वेन गच्छद् द्वितीयं पताकास्थानमभिसन्धानापेक्षया । यथा रामाभ्युदये तृतीयेऽङ्के सीतां प्रति सुग्रीवस्य संदेशोक्तिः --
बहुनात्र किमुक्तेन पारेऽपि जलधेः स्थिताम् ।
उचितादेव देवि त्वामाहरिष्यति राघवः ॥
अत्रान्यप्रयोजनातिशक्त्याशयेन प्रयुक्तेऽपि वचसि पारे ऽपीत्त्यादि प्रकृतोपयोगातिशयात्पताकास्थानकम् ।
अर्थोपक्षेपणं यत्रेति । लीनमस्फुटरूपं उत्क्षिप्यमाणमर्थजातं, श्लिष्टेन संबन्धयोग्येनाभिप्रायान्तरप्रयुक्तेनापि प्रत्युत्तरेणोपेतं सद्यत्र, सविनयं विशेषेण नयनेन विशेषनिश्चयप्राप्त्या सहितं संपद्यते तत् तृतीयं पताकास्थानकम् ।

(मू)

1. ड॰ वचसातिशय

2. ट॰ रसाश्रयम्

3. ट॰ पताकं

4. य॰ कल्पितम्

5. द॰ क्षेपकं यत्तु, ड॰ यत्तु, भ॰ यत्तत्

6. ढ॰ संविनयं

7. भ॰ श्लिष्टं

(व्या)

[page 20]




[NZ]

1द्व्यर्थो वचनविन्यासः 2सुश्लिष्टः 3काव्ययोजितः । BhNZ_19_034ab
3उपन्याससुयुक्तश्च 5तच्चतुर्थमुदाहृतम् ॥ BhNZ_19_034cd
[ABh]

यथा मुद्राराक्षसे चाणक्यः -- ``अपि नाम राक्षसो दुरात्मा गृह्यत'' एवमस्फुटेऽर्थे उपक्षिप्ते, (प्रविश्य) सिद्धार्थकः -- ``अंअ गण्हिदो(*)'' । इउत्येतत्प्रत्युत्तरं सन्देशाशयेन प्रयुक्तमौचित्याद्विशेषनिश्चयं करोति । तथा च पुनश्चाणक्यः -- (सहर्षमात्मगतं) ``हन्त गृहीतो दुरात्मा राक्षसः'' इति । इदं च प्रकृतसाध्योपयोगाङ्गित्वात् पताकास्थानीयमिति वीथ्यङ्गाद् गण्डादस्य भेदः -- ``ऊरुयुग्मं च भग्नं'' तद्धि प्रयुत दुर्योधननाशादाशयश्च दुष्टः । कस्तस्योपयोगः, पाण्डवानुसारेण तु भवतु । इदं पताकास्थानकं भिन्नविषयत्वं कृतं ह्येतद्रूपं न क्षतमावहति ।
द्व्यर्थो वचनविन्यास इति यो वचनविन्यासः कथारूपं वा सालङ्कारत्वसंपत्त्याशयेन, शोभनः प्रसादयुक्तः, श्लेषवशात्, तच्चतुर्थम् । यथा -- ``प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते''(रत्नावली अ 1-23) इत्यत्र हि काव्यरूपताशयेन श्लेषः प्रयुक्तः प्रधानवस्त्वन्तरं सागरिकागतमुत्क्षिपति -- ``अयं सो राआ उदयणो जस्स अहं तादेण दिण्णा -- अयं स राजा उदयनो यस्याहं तातेन दत्ता''(रत्ना॰ अ 1) इति । ``उद्दामोत्कलिका(2)''

(मू)

1. भ॰, ढ॰ व्यर्थो

2. ढ॰ सं, भ॰ यत्र स्यात्

3. प॰ कार्य

4. ढ॰ उपमित्या संप्रयुक्तः, न॰ उपपत्त्या युतं यच्च, द॰ उपपत्त्या, च॰ उपन्याससंयुतश्च

5. ढ॰ चतुर्थमिति कीर्तितम्, द॰ चतुर्थं परिकीर्तितम्, फ॰ द्वार्थं न्यासं ... ष्टं ... तम्, युक्तं च ... तत्

* आर्य गृहीतः

(व्या)

1.

अस्ताaपास्तसम्नस्तासि नभसः पारं प्रथाते रवावास्थानीं समये समं नृपजनः सायन्तेन संपतन् ।

संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं ...

2.

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-दायासं श्वसनोद्गमैरविरतैरातन्वतीमात्मनः ।

अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युतिमुखं देव्याः करिष्याम्यहम् ॥

[page 21]




[NZ]

1[यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् । BhNZ_19_035ab
विनाशिदृष्टमन्ते च पताकार्धं तु तद् भवेत् ॥ ] BhNZ_19_035cd
चतुष्पताकापरमं नाटके 3कार्यमिष्यते । BhNZ_19_036ab
पञ्चभिः सन्धिभिर्युक्तं 4तांश्च वक्ष्याम्यतः परम् ॥ BhNZ_19_036cd
[ABh]

इति तु नोदाहरणं, द्व्यर्थताप्रतिपत्तावपि हि नात्रार्थेन सहकारिता कुत्रचिदाचरिता । तस्मादेतद्वीथ्यङ्गस्य व्याहारस्यैवोदाहरणं युक्तम्(1) ।
एषामुत्कर्षं दर्शयितुमाह चतुष्पताकापरममिति । चतुष्पताकाशब्देन समनन्तरं पताकास्थानकमुक्तं तैश्चतुर्भिः कृतैः परममुत्कृष्टं नाटके नाट्यविषये कार्यमिष्यते तस्मात्तथाकर्तव्यमित्यर्थः ।
पताकानायकेन हि यल्लेशतः कर्तव्यं तदेकेन क्रियते चतुष्टयेन वा । केचिदित्याहुः -- चतुर्षु सन्धिषु चत्वारः पताकानायकाः, तेषां यथाक्रमं सूचकानि पताकास्थानकानि, प्रथमं मुखसन्धौ यावच्चतुर्थमवमर्शसन्धाविति -- तच्चासत्, पताकाया इव प्रकरीकार्यबिन्दुबीजानामपि सूचकान्तराणि वक्तव्यानि स्युः चत्वारश्च नियमेन पताकानायका भवेयुः, आगर्भादिति च पक्षे चतुष्पताकापरममित्यसङ्गतं स्यात्, मुख्यनायके चेतिवृत्तसूचकं न लक्षणतः कथ्यते पताकानायके तु कथ्यत इत्यधरोत्तमाश्रितं स्यात्, न च मुख्यसंधावाद्यं द्वितीयं प्रतिमुखसन्धावित्यादिक्रमो न्याये लक्ष्ये वा साक्ष्यमाक्षिप्तति -- इत्यलमनेन ।
एवमितिवृत्तं व्याख्यातं, तस्य च भेदद्वयं निरूपितं, प्रसङ्गादाधिकारिकत्वसिद्धये अनुवृत्तिस्थानभूता अवस्थाः पञ्च दर्शिता अर्थप्रकृतयश्च, तत्सङ्गादेव पताकास्थानानि । अधुना त्वितिशब्दार्थं प्रयुक्तं पञ्चभिः सन्धिभिर्युक्तमिति । तत्र प्रतिज्ञां करोति तांश्च वक्ष्यामीति । अथ

(मू)

1. ढ॰ आदर्श एव

2. भ॰ पताकमेवं हि

3. न॰ काव्य

4. द॰ तान्प्रव, ढ॰ तत्प्रव

(व्या)

1. ``अन्ये तु कार्ययोजितः'' इति पाठं स्वीकृत्य उद्दामेत्याद्युदाहृत्यायं वचनविन्यास उपक्षेपणार्थेन समालिङ्गितः प्रसङ्गादिति व्याचक्षते ।

[page 22]




[NZ]

मुखं प्रतिमुखं चैव गर्भो विमर्श एव च1 BhNZ_19_037ab
तथा निर्वहणं चेति नाटके पञ्च सन्धयः2 BhNZ_19_037cd
3[पञ्चभिः सन्धिभिर्युक्तं प्रधानमनुकीर्त्यते । BhNZ_19_038ab
शेषाः प्रधानसन्धीनामनु4ग्राह्यनुसन्धयः ॥ ] BhNZ_19_038cd
यत्र बीज5समुत्पत्तिर्नानार्थरससम्भवा । BhNZ_19_039ab
5काव्ये शरीरानुगता तन् मुखं परिकीर्तितम् ॥ BhNZ_19_039cd
[ABh]

निर्णिनीषुरुद्देशं तावदाह -- मुखं प्रतिमुखं चैवेति । समुच्चयपदैः पञ्चानां सर्वत्रावश्यंभावित्वं द्योतितम् । नियमवाचिभिः क्रमनियमः । नाटक इत्यभिनेयरूपके इत्यर्थः । महावाक्यार्थरूपस्य रूपकार्थस्य पञ्चांशा अवस्थाभेदेन कल्प्यन्ते । तत्र मुखस्य स्वतन्त्रस्येतिवृत्ते समस्तप्रयोजनस्यात एव नायकस्य स्वमुखेन परद्वारेण वा या प्रारम्भावस्था प्रथमा व्याख्याता तदुपयोगी यावानर्थराशिः स मुखसन्धिः । तस्यार्थराशेरवान्तरभागान्युपक्षेपाद्यानि सन्ध्यङ्गानि । एवमन्येषु सन्धिषु वाच्यम् । तेनार्थावयवा सन्धीयमानाः परस्परमङ्गैश्च सन्धय इति समाख्या निरुक्ता । तदेषां सामान्यलक्षणम् । तत्रैषां क्रमेण विशेषलक्षणमाह -- यत्र बीजसमुत्पत्तिरिति । प्रागारम्भभावित्वान्मुखमिव मुखम्, यावत् क्रियावत्यर्थभागराशौ बीजस्य मुखोपायस्य सम्यगुत्पत्तिः शरीरेण प्रारम्भात्मना अनुगता भवति, नानाभुतोऽर्थवशात् प्रसङ्गायातो रससंभवो यः स्यात् । एतदुक्तं -- प्रारम्भोपयोगी यावानर्थराशिः प्रसक्तानुप्रसक्त्या विचित्रास्वाद आपतितः तावान् मुखसन्धिः, तदभिधायी

(मू)

1. प॰ गर्भो विमर्शश्च तथैव हि, भ॰ चैव गर्भोऽवमर्श एव च

2. ड॰ सन्धयो नाटके स्मृताः, ढ॰ नाटके सन्धयः स्मृताः, प॰ सन्धयः पञ्च नाटके

3. अयं श्लोको ड॰ न॰ य॰ म॰ भ॰ ढ॰ मातृकासु वर्तते

4. ढ॰ ग्राह्यानु, फ॰ ग्राह्यास्तु

5. द॰ समाप्तिस्तु

6. न॰ श्लिष्टा काव्यशरीरेण, द॰ शरीरकाव्यानुगमात्, भ॰ काव्यशिर्षानुगता मुखं तत्समुदाहृतम्, प॰ कथाशरीरानुगता

* विमर्शावमर्शशब्दयोरन्यतरस्वीकारेण बहूनां पाठानामश्राव्यता दृश्यते ।

(व्या)

[page 23]




[NZ]

बीजस्योद्घाटनं यत्र1 दृष्टनष्टमिव क्वचित् । BhNZ_19_040ab
[ABh]

च रूपकैकदेशः । यथा रत्नावल्यां प्रथोऽङ्कः, तथा हि, अमात्यस्य वीरो, वत्सराजस्य शृङ्गाराद्भुतौ ततः शृङ्गार इति इयानयं सागरिकाया राजदर्शनेऽमात्यप्रारम्भविषयीकृतेऽर्थराशिरुपयोगीति मुखसन्धयः । एवं प्रतिसन्धि वक्तव्यम् ।
बीजस्योद्घाटनं यत्रेति । कार्यतया दृष्टं कारणतया नष्टमिति केचित्, उपादेये दृष्टं हेये नष्टमित्यन्ये, नायकवृत्ते दृष्टं प्रतिनायकेतिवृत्ते नष्टमित्यपरे । न चैतत्समञ्जसम्, एकविषयमन्तरेण सन्धानायोगात्, नाशस्यापि च हेयादिविषयस्य प्रारम्भवशेन दृष्टतयैव संग्रहसंपत्तेः । तस्मादयमत्रार्थः -- बीजस्योद्घाटनं तावत् फलानुगुणो दशाविशेषः तद् दृष्टमपि विरोधिसंनिधेर्नष्टमिव, पांसुना पिहितस्येव बीजस्याङ्कुररूपमुद्घाटनम् । यथा वेणीसंहारे कञ्चुकिवचनम् --
आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने-स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो ब्नालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥(अ 2-2)
अत्र पाण्डवाभ्युदयस्य मुखोपक्षिप्तस्योद्घाटनं भीष्मवधाद् दृष्टमभिमन्युवधान्नष्टम् । अत्रापि वेदितमिति केचित् । तदा चार्थो(1) न संगमितः स्यात् । दृष्टतैव प्रतिमुख उपयोगिनी नष्टता त्ववमर्श एवेति केचिदुत्तरोत्तरविकासतारतम्यं दृष्टनष्टत्वमाहुः । पूर्वावस्था हि दृष्टाप्युत्तरदृष्टविकासापेक्षया नष्टा । एवं संमृष्टोपमविकास उत्तरापेक्षयेति मन्यते, अत्रापीवार्थो न संगच्छत एव, न कार्यजननं शक्त्या ।
तस्मादयमत्रार्थः -- दृष्टं नष्टमिव कृत्वा तावन्मुखे न्यस्तं भूमाविव बीजं, अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितं नष्टमिव(2)

(मू)

1. ड॰ उद्घटनं यत्तु

(व्या)

1. तदपार्थो

2. नष्टमेव

[page 24]




[NZ]

1मुखन्यस्तस्य सर्वत्र2 तद्वै प्रतिमुखं स्मृतम्3 BhNZ_19_040cd
उद्भेदस्तस्य4 बीजस्य प्राप्तिरप्राप्तिरेव वा । BhNZ_19_041ab
5पुनश्चान्वेषणं यत्र6 स गर्भ इति संज्ञितः ॥ BhNZ_19_041cd
[ABh]

सागरिकाचेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिरिव प्रत्युद्बोधकम् । तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्तस्य, अत एव कुङ्कुमबीजस्य यदुद्घाटनं(1) तत्कल्पं, यत्रोद्घाटनं सर्वत्रैव कथाभागसमूहे(2) तत्प्रतिमुखं(3), प्रतिराभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पनानिदर्शनम् । रत्नावल्यां -- परप्पेसत्तणदूसिदं वि मे सरीरं एदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्(परपेष्यत्वदूषितमपि मे शरीरमेतस्य दर्शनेनाद्य मे बहुमतं सम्पन्नम्) इत्यादिसागरिकोक्तेरनङ्गाङ्कात् (प्रथमाङ्कात्) सुसङ्गतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसन्धिः । उद्घाटितत्वाद् बीजस्य स्तोकमात्रं तु शङ्कुकादिभिरुदाहृतं यत्तदेकदेशलक्षणमिति द्रष्टव्यम् ।
उद्भेद इति । तस्येति उत्पत्त्युद्घाटनदशाद्वयाविष्टस्य बीजस्य यत्रोद्भेदः फलजननाभिमुख्यत्वं स गर्भः । उद्भेदमेवं विवृणोति प्राप्तिरित्यादिना । प्राप्तिर्नायकविषया, अप्राप्तिः प्रतिनायकचरिते पुनश्चान्वेषणमित्युभयसाधारणम् । अन्ये तु वीररौद्रविषय एवैतस्यार्थस्य भावादव्यापित्वदेवमाहुः । प्राप्तिः, अप्राप्तिरन्वेषणमित्येवं भूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिर्युक्तो गर्भसन्धिः, प्राप्तिसम्भवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात् । तथा हि -- रत्नावल्यां द्वितीयेऽङ्के सुसङ्गता -- अदक्खिणा दाणिं तुमं, जा एव्वं भट्टिणा इत्थेण गहीदा वि कोवं ण मुंचेसि (अदक्षिणा इदानीं त्वं या एवं भर्त्रा हस्तेन गृहीतापि कोपं न मुञ्चसि) इत्यादौ प्राप्तिः । पुनर्वासवदत्ताप्रवेशेऽप्राप्तिस्तृतीयेऽङ्के । ``तद्वृत्तान्वेषणाय गतश्चिरयति वसन्तकः''

(मू)

1. भ॰ उपक्षेपार्थसंयुक्तं

2. प॰ दृश्येत

3. ड॰ भवेत्

4. प॰ कार्यं, भ॰ उद्भेदो यत्र

5. ट॰ अतः

6. भ॰ तस्य, द॰ यत्तु, य॰ यच्च

(व्या)

1. यदुश्चाटनं

2. भावसमूहो

3. स प्रतिमुखं

[page 25]




[NZ]

1गर्भनिर्भिन्नबीजार्थो 2विलोभनकृतोऽथवा3 BhNZ_19_042ab
4क्रोधव्यसनजो वापि स विमर्श इति स्मृतः5 BhNZ_19_042cd
[ABh]

इत्यन्वेषणम् । विदूषकः -- ही ही भोः कोसंवीरज्जलंभेणावि ण तारिसो पिअवअस्सस्स परितोसो जारिसो मम सआसादो पिअवअणं सुणिअ भविस्सदि''(*) इत्यादौ प्राप्तिः । पुनः ``इह तदप्यस्त्येव बिम्बाधरे†'' इति, विदूषकस्य -- ``भो वयस्स, किं अवरं''‡ इत्यत्र वासवदत्ताप्रत्यभिज्ञानादप्राप्तिः । पुनः सागरिकायाः सङ्केतस्थानागमने अन्वेषणम् । पुनर्लतापाशकरणे प्राप्तिरित्येवं गर्भः । अप्राप्त्यंशश्चात्रावश्यंभावी, अन्यथा हि सम्भावनात्मा प्राप्तिसम्भवः कथं निश्चय एव हि स्यात् । अवमर्शे त्वप्राप्तेरेव प्रधानता प्राप्त्यंशस्य च न्यूनतेति विशेषः । (§)
गर्भनिर्भिनबीजार्थ इति । केचिद्विमर्श इति पठन्ति, अन्येऽवमर्श इति । तत्र सन्देहात्मको विमर्शः । ननु पूर्वः सम्भावनाप्रत्ययः, ततः संशय इति नेदमुचितम्, संशयनिर्णयान्तरालवर्तिनं हि तर्कं तार्किकाः प्राहुः । किं च विमर्शसन्धिर्नियतफलप्राप्त्यवस्थया व्याप्तः, तच्च नियतत्वं सन्देहश्चेति किमेतत् । अत्राहुः -- तर्कानन्तरमपि हेत्वन्तरवशाद् बाधच्छलरूपतापराकरणे

(मू)

1. ट॰ गर्भो, ढ॰ गर्भात्

2. ढ॰ विलोपन, प॰ विप्रलम्भकृतोऽपि वा

3. च॰ अपि वा

4. भ॰ किंचिदाश्लेषसंयुक्तोऽवमर्श इति संज्ञितः (ड॰ विमर्श इति स स्मृतः), प॰ विमर्श इति कीर्तितः, ट॰ सो ऽवमर्शः प्रकीर्तितः, द॰ विचारो विमर्शः स्मृतः

(व्या)

* ही ही भोः कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्य परितोषो यादृशो मत्सकाशात् प्रियवचनं श्रुत्वा भविष्यति ।


किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किं ।

वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥

भो वयस्य किमपरम्

§ . ``अवमर्शे तु प्राप्तेरेव प्रधानता, अप्राप्त्यंशस्य च न्यूनता'' इति पाठः स्यात् । यतः, गर्भसन्धावप्राप्त्यंशः प्रधानं फलसंभावनात्मकत्वात्, अन्यथा स फलनिश्चयात्मक एव स्यादित्युक्तं, तद्व्यतिरेकेऽवमर्शe प्राप्तेरेव प्रधानता ।

[page 26]




[NZ]

[ABh]

संशयो भवेत्, किं न भवति । इहापि च निमित्तबलात्कुतश्चित्संभावितमपि फलं यदा बलवता प्रत्यूह्यते कारणानि च बलवन्ति भवन्ति तदा जनकविघातकयोस्तुल्यबलत्वात् कथं न सन्देहः । तुल्यबलविरोधकविधीयमानवैधुर्यव्याधूननसन्धीयमानस्फारफलावलोकनायां च पुरुषकारः सुतरामुद्धुरकन्धरीभवतीति तर्कानन्तरमत्र संशयः ततो निर्णय इत्येतदेवोचिततरम् । तथा हि -- पुरुषकारशालिन एव श्लाघ्यन्ते, अद्भुतमद्भुतं प्राणसन्देहादप्यनेकात्मा समुत्तारितो यत्र संभावनाविनाभवति, यत एवात्र प्रयत्नतो विधुरप्रयत्नतो य उपनिपातः, तत एव पुरुषकारोद्योतः पुनर्नाशमपि बहुव्घ्नानीति पश्यता तदत्र मया विघ्नापसारणं कर्तव्यमिति साभिमानः स्वमुद्योगसूत्रं सहस्रगुणीकुरुते, तथा हि सागरिकाबन्धनेऽपि महामात्यप्रयुक्तमैन्द्रजालिकवृत्तं सुनिपुणमुपनिबद्धं तावत् ।
अन्ये त्ववमर्शो विघ्न इति विदन्ति । स च व्याख्याने बीजशब्देन तद्बीजफलं अर्थशब्देन निवृत्तिः पुनस्तत्रैव । संपादनं निष्प्रत्यूहप्राणतया फलप्रसूतिः, तच्छब्देन यत्रेत्याक्षिप्तम्, सा च निवृत्तिः क्रोधेन च निमित्तेन लोभेन वा व्यसनेन शापादिना वा । अपिशब्दाद् विघ्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां सङ्ग्रहः, स च देव्या वासवदत्तया सागरिकायाः कारानिक्षेपात्प्रभृति येयं तुरीये ऽङ्के राज्ञ उक्तिः --
कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥
अत्र विघ्ने वासवदत्ताक्रोधो निमित्तम् । लोभस्तु निमित्तं, यथा तापसवत्सराजे -- ``त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः''(*)(6-3) इति । तदपरे न सहन्ते -- न ह्यत्र वासवदत्ताप्राप्तिलोभः प्रकृते फले विघकारीति,

(मू)

(व्या)

*

त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निस्स्नेहता ।

आसन्नो ऽवसरस्तवानुगमने जाता धृतिः किं त्वियान् खेदो यच्छतधा गतं न हृदयं तस्मिन् क्षणे दारुणे ॥

अयं श्लोको भिन्नपाठत्वेन कुन्तकाभिनवगुप्तभट्टनायकहेमचन्द्रादिभिरुदाहृतम् ।

[page 27]




[NZ]

[ABh]

इदं तदोदाहरणं -- तत्रैव परिणीतायामपि पद्मावत्यां वासवदत्तामलभमानस्य राज्ञो मरणाध्यवसायो मुमूर्षोः, तदलोभे मन्त्रिणां सुतरां राज्यप्राप्तिदीर्घलाभो निमित्तमिति ।
तच्च व्यसनं त्वममर्षनिमित्तमिति अभिज्ञानशाकुन्तले दर्शितम् । एवमन्यदुत्प्रेक्ष्यम् । तथा हि -- सपत्न्यां विद्याप्रभावो निमित्तमवमर्शे, क्वचिद्दैवं, क्वचित्समयः -- यथा विक्रमोर्वश्यां पुत्रवदनावलोकनादुर्वश्याः स्वर्गगमनाaध्यवसाये ।
अन्ये त्वावृत्तिविमर्शशब्दं कल्पयन्त इत्थं व्याचक्षते -- गर्भान्निर्भिन्नो बीजार्थफलं यस्मिन्, विमर्शादिकारणत्वाद् विमर्शरूपे कथावयवे स विमर्शो नामेति । अत्र व्याख्याने मुख्यमस्य सन्धेर्यद्रूपं विदूरकारणसंपातात्मकत्वं नाम तदस्पृष्टमेव स्यात् ।
अन्ये तु लाभयोग्यत्वं, नाशावस्था, अन्वेषणावस्था च यथारुचिगर्भे यथारुचि निबन्धनीया, तत्र यदा लाभात्मिका प्राप्त्यवस्था प्रतिमुखेनैव बध्यते तदान्ये दव् गर्भे सन्धौ, यदाप्यवमर्शे नाशावस्था तदा गर्भेऽन्वेषणमेव, गर्भे यदा नाशान्वेषणे तदा चावमर्शे विचारो मया कृतं, उत प्राप्तियोग्यमेवैतन्न भवतीति, यदाहोद्भटः -- यासावन्वेषणभूमिरवमृष्टिरवमरश इति, तच्चेदं व्याख्यानं लक्ष्यविरुद्धं युक्त्या च पूर्वोदितप्रारम्भाद्यवस्थापञ्चकगतक्रमनियमसमर्थनप्रस्तावोक्तया विरुद्धमित्यास्ताम् ।
``अहमनेन विफलायां क्रियायां विलोभ्य प्रवर्तित इति यत्र कर्ता विमृशति स विलोभनकृत इति, क्रोधव्यसनादेस्तु व्यापद्यमाने फलव्यापत्तिविषयो यः कर्तुर्विचारः स क्रोधव्यसनजे विमर्श इत्येवं विमर्शनस्वभाव एव विमर्शः, कार्यविनिपातस्तूत्तरनिर्वहणसन्धिनिबध्यमानाद्भुतरसपरिपोषकत्वेन निबध्यते'' इति श्रीशङ्कुकः । तन्मते विचारस्य सर्वसन्ध्यनुयायित्वात् पृथग्विमर्शसत्त्वेनाभिधानं स्यात् ।
व्यापत्तिविषयो विचार इति केचित् । पुनरप्यस्य सरणिरेव(1), सा च न व्याख्यानेन क्रमेण दर्शिता । विलोभनकृतोदाहरणं तु न व्यापत्तिविमर्श इति सर्वं त्वसमञ्जसं यथारुय्चि परिकल्पितमित्यलमनेन ।

(मू)

(व्या)

1. अस्मत्सरणिरेव

[page 28]




[NZ]

1समानयनमर्थानां 2मुखाद्यानां सबीजिनाम्3 BhNZ_19_043ab
4नानाभावोत्तराणां 5यद्भवेन्निर्वहणं तु तत् ॥ BhNZ_19_043cd
[ABh]

समानयनमिति । मुख्याद्यानां चतुर्णां सन्धीनां येऽर्थाः प्रारम्भाद्याः तेषां सहबीजिभिः बीजविकारैः क्रमेणावस्थाचतुष्टयेन भवद्भिः उत्पत्त्युद्घाटनोद्भेदगर्भनिर्भेदलक्षणैः वर्तमानानां नानाविधैः सुखदुःखात्मकैः हासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वे जातोत्कर्षाणां यत्समाननयनं, यस्मिन्नर्थराशौ सस्मानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निर्वहणं(1) पलयोगाaवस्थया व्याप्तम् । अत्र केचिदसून् सर्वान् सन्धीनवस्थापञ्चकनिर्वहणे पृथग्वृत्त्या (2)योज्यमानानिच्छन्ति ।
अन्ये तु सन्धौ सन्ध्यन्तरानुप्रवेशमिच्छन्तोऽपि प्रागवस्थाया एकोत्तरावस्थापरिणामात्मकत्वे कारणं न पश्यन्त्यपि तु (ताः) कार्यीभवन्तीति सांख्यदर्शनतच्छायाश्रेणैकावस्थायाः फलसंबन्धसंगमनोपकरणभावप्राप्तं तदेकभावानामवस्थान्तराणां फलसंगमनमुचितमेवेति मन्यन्ते ।
अन्ये तु मुखसस्न्धौ ये अवलम्ब्यमानतया आद्याः प्रधानभूता अर्थाः उपायास्ते महौजसः फलसंपत्तौ साधकाः तेषां फलसंगत्या समाननयनमिति व्याचक्षते । ``महौजसां फलोपसंगतान्मां च'' इति पाठे(3) -- यदा च सुखप्राप्तेः फलवत्त्ग्वं तदा रतिहासादिबाहुल्यं प्रारम्भादीनां, दुःखहानेस्तु फलत्वे क्रोधशोकादिदुःखात्मकभावाद् बाहुल्यं, (उभयत्र) स्वोचितव्यभिचारिसहितं द्रष्टव्यम् । उदाहरणं रन्तावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्यासमाप्तेः । एषामवस्था सन्ध्यादीनां नायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनं न त्वेकमुखेनैवेति नियम इत्युक्तं पूर्वमेव ।

(मू)

1. प॰ यत्रानयन

2. ड॰ मुखार्थननां

3. भ॰ यथातथम्, प॰ महौजसाम्

4. ड॰ फलोपसङ्गतानां च, प॰ फलोपबृंहितानां स्याज्ज्ञेयं निर्वहणं च तत्

5. भ॰ च यत्र

(व्या)

1. क॰ निवर्हणं

2. योज्यमानमिच्छन्ति ।

3. भोजदेवोऽपि पठति -- `महौजसां फलोपसङ्गतानां' इति ।

[page 29]




[NZ]

एते तु1 सन्धयो ज्ञेया 2नाटकस्य प्रयोक्तृभिः । BhNZ_19_044ab
3तथा प्रकरणस्यापि शेषाणां च निबोधत ॥ BhNZ_19_044cd
डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ4 BhNZ_19_045ab
5न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ BhNZ_19_045cd
व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ6 BhNZ_19_046ab
7गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ BhNZ_19_046cd
द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च । BhNZ_19_047ab
मुखनिर्वहणे 8तत्र कर्तव्ये कविभिः सदा9 BhNZ_19_047cd
10[वीथी चैव हि भाणश्च तथा प्रहसनं पुनः । BhNZ_19_048ab
कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ॥ ] BhNZ_19_048cd
[ABh]

एतेषां विनियोगं विभजति -- एते त्वित्यादिना ``मुखनिर्वहणे तत्र कर्तव्ये कविभिः सदा'' इत्यन्तेन । एतच्च पूर्वमेव निर्णीतार्थं `एकलोपे चतुर्थस्ये'त्यादि(19-29) व्याख्यानावसरे ।
कस्मात्तौ (डिमसमवकारौ) चतुःसन्धी इत्याह न तयोरित्यादिना । तुर्हेतौ, यतस्तयोरवमर्शं निबद्धुमशक्यमिति । एवमुत्तरत्रापि हेतुग्रन्थान्तरत्वेनेदं

(मू)

1. ड॰ हि

2. ट॰ नाटकेषु

3. ढ॰ यथा

4. ट॰ चतुःसन्धिः प्रकीर्तितः, ड॰ प्रकीर्तितौ । गर्भावमर्शहीनौ(मञ्) तु कर्तव्यौ(व्यः) कविभिः सदा (*) ॥ कैशिकीवृत्ति हीनौ तु(नस्तु) कर्तव्यौ च(व्यश्च) त्रिवृत्तिकौ(व्यः) । भारत्या त्वथ सात्त्वत्या ह्यारभट्या तथैव च ॥

5. ट॰ विमर्शस्तु तयोर्न स्यान्न च वृत्तिस्तु कैशिकी, न॰ न तयोर्विमर्शस्तु स्यान्न च वृत्तिस्तु कैशिकी ।

6. भ॰ त्रिसन्धी संप्रकीर्तितौ (ड,, परि)

7. प॰ न गर्भो न विमर्शश्च न च वृत्तिश्च कैशिकी, द॰ गर्भो विमर्शो न स्यातां न च वृत्तिस्तु, ड॰ गर्भं चैवावमर्शं च त्यक्त्वा वृत्तिं च कैशिकीम्

8. भ॰ चैव, ब॰ तेषां, ट॰ तेषु, ड॰ स्यातां तेषां वृत्तिश्च भारती 9. भ॰ कैशिकीं विना, भ॰ द्विजाः

10. अयं श्लोकार्थः पूर्वाध्याये(18-12) उक्त एव, भ॰ मातृकायामिहैव दृश्यते

(व्या)

[page 30]




[NZ]

एवं 1हि सन्धयः कार्या 2दशरूपे प्रयोक्तृभिः । BhNZ_19_049ab
3पुनरेषां तु सन्धीनामङ्गकल्पं निबोधत4 BhNZ_19_049cd
सन्धीनां यानि वृत्तानि 5प्रदेशेष्वनुपूर्वशः । BhNZ_19_050ab
6स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत्7 BhNZ_19_050cd
[ABh]

नेदं योज्यम्, न तु लोपस्थानित्वेन, तस्यैको लोप इत्यादिना पूर्वमेवोक्तत्वात् ।
ननु सन्धिकञ्चकात्मक इतिवृत्तशरीरारम्भे कथं दशरूपकादिभेद इत्याशङ्क्याह -- एवं हीति । हिर्यस्मात्, एवमुक्तेन विनियोगप्रकारेण सन्धयो भवन्ति ततो दशरूपभेद इति केचिदाशङ्कापूर्वकं व्याचक्षते, तच्चासत्, (1)लक्ष्यभेदादेव दशरूपकभेदस्य दर्शितत्वात् । अवश्यं चेतत्, अन्यद्वा डिमसमवकारयोश्चतुःसन्धिताविशेषात् कथं भेदः स्यात्, नाटकादीनां वा, तस्मादुपसंहारग्रन्थोऽयमिति हीति । अङ्गानां कल्पं कल्पनाप्रकारो वा तेनैवंप्रायमन्यदपीतिवृत्तोपयोगि भवति ।
अङ्गानां सामान्यस्वरूपं प्रयोजनद्वारेण दर्शयितुं प्रथमेन स्वरूपं द्वाभ्यां प्रयोजनमेकेन द्वयं द्वयेन प्रकाशयन्नाह -- श्लोकषट्कं ``सन्धीनां यानि वृत्तानी''त्यादि ``शोभामेति न संशयः'' इत्यन्तम् ।
अर्थभागराशिः सन्धिरित्युक्तं, तत्र सन्धीनां संबन्धनीयानि वृत्तानि संविधानखण्डानि । अनुपूर्वश इति मुख्यप्रयोजनसंपादनबलोपनतेन क्रमेण, न तु लक्षणनिरूपणप्रसङ्गपरिकल्पितेन, `प्रदेशेष्वादिमध्यान्तभागेषु वर्तनेनाङ्गानि, कुत इत्याह स्वस्याङ्गिनः सधेर्या संपत्तेर्निष्पत्तिः तत्र गुणवत्त्वे शेषभावे यतो यतो युक्तान्युचितानि संबन्धसंपादकत्वादङ्गानीत्यर्थः ।

(मू)

1. भ॰ तु

2. भ॰ दशरूपेषु

3. ड॰ पुनःसन्ध्यन्तरं तेषां

4. ड॰ अतः परं ``साम भेदः'' इत्यादिश्लोकत्रयं वर्तते

5. च॰ प्रदेशश्च तु पूर्वतः, ढ॰ प्रवेशेषु

6. प॰ सु

7. म॰ अवधारयेत्

(व्या)

1. पक्षभेदादेव

[page 31]




[NZ]

इष्टस्यार्थस्य रचना1 वृत्तान्तस्यानुपुपक्षयः । BhNZ_19_051ab
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम्2 BhNZ_19_051cd
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । BhNZ_19_052ab
3अङ्गानां षड्विधं ह्येतद् 4दृष्टं शास्त्रे प्रयोजनम् ॥ BhNZ_19_052cd
अङ्गहीनो नरो 5यद्वन्नैवारम्भ6क्षमो भवेत् । BhNZ_19_053ab
अङ्गहीनं तथा 7काव्यं न प्रयोगक्षमं भवेत् ॥ BhNZ_19_053cd
[ABh]

अन्ये त्वाहुः -- स्वसंवेदो बीजोत्पत्त्युत्घाटनादिका गुणाश्च शब्दार्थवैचित्र्याणि, स्वसंपदां वा गुणाः तैरेव युक्तानीति ।
इष्टस्येत्यादिना प्रयोजनमाह । अभीष्टस्य प्रयोजनस्य रसास्वादकृतो रचना विस्तारणा । वृत्तान्तस्यानुपक्षयः क्रमेण स्फुटत्वादयः शलाकाकल्पत्वाभावः, एतत्प्रयोजनं सर्वसाधारणम् । प्रयोगस्येतिवृत्तस्य स्वयं परस्परस्यापि रागप्राप्तिः रञ्जनायोग्यत्वलाभः व्युत्पत्त्यवस्थायोगात्, यदि वा पौनरुक्त्याद्याभासे गुह्याः संछादनीया अर्थाः तेषां संछादनम् । पुनः पुनः श्रुतमपि यदभिख्यानं इतिवृत्तं तत एव नाश्चर्यकारि तदपि अङ्गयोजनायामपूर्वतामिव दधदद्भुततामेति, तदाह आश्चर्यवदिति । यच्च व्युत्पत्तौ सातिशयोपयोगि तत एव प्रकाश्यं तस्य प्रकाशनं विस्तारणम्, आद्यन्तु प्रयोजनं चमत्कारकृतं स्मृतिदृष्टमपि प्रत्यक्षविशेषसिद्धमेव, न तु सम्ध्योपासनादिवददृष्टं, नापि पूर्वरङ्गाङ्गवदुभयरूपमित्यर्थः । शास्त्र इति नाट्यात्मके वेद इत्यर्थः । एषां प्रयोजनानामङ्गलक्षणेषूदाहरणं वर्णयिष्यामः अत एव दृष्टान्तेन द्रढयति । अङ्गकर्तव्यसंपादनं प्रयोगक्षममिति । ततः प्रयोजनस्यासंपत्तेर्दृष्टस्य वा

(मू)

1. ड॰ वचनं, य॰ वचनात्

2. च॰ च निघनम्

3. इदमर्धं, च॰मातृकायां न दृश्यते

4. ड॰ उक्तं शास्त्र

5. ट॰ यावत्

6. ड॰ आरम्भे

7. ट॰ कार्यमप्रयोग

(व्या)

[page 32]




[NZ]

1उदात्तमपि यत्काव्यं2 3स्यादङ्गैः परिवर्जितम् । BhNZ_19_054ab
हीनत्वाद्धि4 प्रयोगस्य न सतां 5रञ्जयेन्मनः ॥ BhNZ_19_054cd
काव्यं 6यदपि हीनार्थं सम्यगङ्गैः समन्वितम् । BhNZ_19_055ab
7दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ BhNZ_19_055cd
[तस्मात् सन्धिप्रदेशेषु 8यथायोगं9 यथारसम् । BhNZ_19_056ab
10कविनाङ्गानि कार्याणि सम्यक् तानि निबोधत]11 BhNZ_19_056cd
[ABh]

प्रच्युतसंभावनात् । एतद् व्यतिरेकद्वारेण स्फुटयति उदात्तमपीति लक्षणगुणालङ्कृतियुक्तमित्यर्थः । प्रयोगस्येति अपादानमपि संबन्धित्वेन (षष्ठी), वृक्षस्य पर्णं पततीति यथात्र । तस्य प्रयोगस्य तस्य काव्यस्य यतो हीनत्वं यदयोग्यत्वं यस्मात्, सतां परोपकारप्रवृत्तानां कविनटानां साधुभूतानां वा सामाजिकानां मनो न रञ्जयतीति संभाव्यते । अन्वयद्वारेणोपसंहरति यदपि इति । हीनार्थमिति स्वल्पमपि प्रयोजनं प्रहसननिदर्शनकथाख्यायिकादि(*) । प्रयोगः प्रयुक्तिः तत्राङ्गं प्रयोजकं रञ्जनातिशयो व्युत्पत्त्यतिशयश्च तदुभयम्, तत्र काव्ये दीप्तं स्फुटमित्यर्थः ।

(मू)

1. अयं श्लोकः सर्वासु मातृकासु ``काव्यं यदपि'' इत्यादि श्लोकानन्तरमेव दृश्यते ।

2. च॰ कार्यं

3. ट॰ तदङ्गैः

4. ड॰ तत्

5. ट॰ सतो

6. न॰ पदविहीनार्थं

7. भ॰ दीप्ताङ्गत्वात्, व॰ दीप्तिं गत्वा प्रयोगश्च, ढ॰ दीप्ताङ्गस्य

8. च॰ प्रयोगेषु

9. ड॰ वेशं, प॰ काव्यं

10. भ॰ कार्याण्यङ्गानि तेषां तु प्रविभागः प्रदर्श्यते, व॰ कविता

11. अतः परं य॰ म॰ न॰ प॰ आदर्शेषु ``साम भेद'' इत्यादि श्लोकत्रयं च, तदनु -- ``एते विशेषाः सन्धीनां स्युः सन्धिष्वर्थयोगतः । एभ्योऽङ्गान्यर्थयोगेन सन्धितानि निबोधत'' इति श्लोको वर्तते

(व्या)

* प्रहसनानिदर्शितकथंचाधीक्यादि(?)

[page 33]




[NZ]

उपक्षेपः परिकरः परिन्यासो विलोभनम् । BhNZ_19_057ab
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ BhNZ_19_057cd
उद्भेदः करणं भेद 1एतान्यङ्गानि वै मुखे । BhNZ_19_058ab
तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः2 BhNZ_19_058cd
विलासः परिसर्पश्च विधूतं 3तापनं तथा । BhNZ_19_059ab
4नर्म नर्मद्युतिश्चैव तथा 5प्रगयणं पुनः ॥ BhNZ_19_059cd
निरोधश्चैव विज्ञेयः पर्युपासनमेव च । BhNZ_19_060ab
6पुष्पं वज्रमुपन्यासो वर्णसंहार एव च7 BhNZ_19_060cd
8एतानि वै प्रतिमुखे 9गर्भेऽङ्गानि निबोधत । BhNZ_19_061ab
अभूताहरणं मार्गो रूपोदाहरणे क्रमः10 BhNZ_19_061cd
संग्रहश्चानुमानं च 11प्रार्थनाक्षिप्तमेव च । BhNZ_19_062ab
तोटकाधिबले चैव 12ह्युद्वेगो विद्रवस्तथा ॥ BhNZ_19_062cd
[ABh]

अथाङ्गानामुद्देशमाह -- उपक्षेपः परिकर इत्य्तादिना एतान्यङ्गानि सन्धिषु (67) इत्यनेन । मुखे द्वादश, प्रतिमुखे गर्भे च त्रयोदेश, अवमर्शे द्वादश, निर्वहणे चतुर्दशेति मिलित्वा चतुःषष्टिः ।
केचिन्मन्यन्ते -- इह उपक्रम उपसंहारो मध्यमिति प्रत्यवस्थं स्थानभेदत्रयं, तत्र प्रत्येकं सूक्ष्मेणारम्भावस्थापञ्चकेन भाव्यमिति पञ्चदश्यो

(मू)

1. म॰ द्वादशाङ्गानि

2. ट॰ वक्ष्याम्यङ्गानि, ढ॰ वक्ष्याम्यङ्गान्यतः परम्, ड॰ अतः परम्

3. ड॰ शमनं

4. ट॰ नर्मद्युतिः प्रगमनं विरोधः पर्युपासनं (भ॰ शम, नि)

5. ढ॰ प्रसवणं, न॰ प्रगमनं, च॰ प्रशमनं

6. ड॰ वज्रं पुष्यं

7. अतःपरं, न॰म॰योः -- ``संपदार्थानि बीजस्य संप्रसिद्धिकराणि च'' इत्यर्धमप्युपलभ्यते

8. भ॰ एतान्येव

9. भ॰ गर्भाङ्गानि, य॰ गर्भे चैव

10. भ॰ रूपमाहरणं क्रमः, ढ॰ एतान्येव

9. भ॰ गर्भाङ्गनि, य॰ गर्भे चैव

10. भ॰ रूपमाहरणं क्रमः, ढ... हरणक्रमाः

11. च॰ प्रार्थनाक्षिप्तिरेव, भ॰ तोटकाधिबले तथा । उद्वेगसंभ्रमाक्षेपा गर्भाङ्गानीति योजयेत्

12. ट॰ चोद्भेदो विभ्रमः

(व्या)

[page 34]




[NZ]

1एतान्यङ्गानि वै गर्भे 2ह्यवमर्शे निबोधत । BhNZ_19_063ab
3अपवादश्च4 संफेटो5 विद्रवः 6शक्तिरेव च ॥ BhNZ_19_063cd
7व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् । BhNZ_19_064ab
विरोधनमथादानं छादनं8 च प्ररोचना ॥ BhNZ_19_064cd
9व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च । BhNZ_19_065ab
सन्धिर्निरोधो10 ग्रथनं निर्णयः परिभाषणम् ॥ BhNZ_19_065cd
11द्युतिः प्रसाद आनन्दः12 समयो 13ह्युपगूहनम् । BhNZ_19_066ab
14भाषणं पूर्ववाक्यं च 15काव्यसंहार एव च ॥ BhNZ_19_066cd
प्रशस्तिरिति 16संहारे ज्ञेयान्यङ्गानि नामतः17 BhNZ_19_067ab
चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ BhNZ_19_067cd
[ABh]

दशाः क्रमभाविन्यः, तत्राद्यास्तावद्दशानामङ्गत्वेन वर्ण्यन्ते । अङ्गिबुद्ध्युदयात् । तत्रेति चतुर्दश निर्वहणे फलयोगबलात् सर्वा एवोपपाद्यन्ते । अन्यत्र तु मुखादौ काश्चिल्लीनीक्रियन्ते, न द्वादशादिभेदानि तत्राङ्गानीति । तदेतदसत् ।

(मू)

1. भ॰ अवमर्शे तु वक्ष्यामि यथाङ्गानि भवन्ति हि, ड॰ अङ्गान्येतानि वै गर्भे विमर्शे च

2. ट॰ विमर्शे च

3. भ॰ अवपातोऽथ

4. म॰ अथ

5. प॰ संस्फोटो

6. भ॰ द्रव एव च । युक्तिर्द्युतिः प्रसङ्गश्च व्यवसायो विरोधनम् । प्ररोचनाविचलनमादानं च्छेदनं तथा । अवमर्शे समाख्यातान्येतान्यङ्गानि वै द्विजाः ॥

7. न॰ प्रसङ्गो व्यवसायश्च विरोधश्च प्रकीर्तितः । प्ररोचनातिबलनमादानं छलनं तथा । ड॰ एतान्यवमृशेऽङ्गानि भूयो निर्वहणे शृणु ॥

8. च॰ छन्दनं

9. य॰ व्याहारश्चैव

10. ड॰ विरोधो

11. भ॰ स्तुतिः, न॰ कृतिः

12. ड॰ प्रसादानन्दौ च

13. ड॰ पयुप-, य॰ -श्चोप-

14. य॰ संहारे सन्ध्यङ्गानि चतुर्दश

17. अतः परं य॰ढ॰योः ``सन्धौ निर्वहणाख्ये तु कर्तव्यानि प्रयोक्तृभिः । एतेषामर्थसंबन्धं पुनर्वक्ष्यामि लक्षणम् ।'' इत्यधिकः श्लोको विद्यते ।

(व्या)

[page 35]




[NZ]

[संपादनार्थं बीजस्य सम्यक्1 सिद्धिकराणि च । BhNZ_19_068ab
कार्याणय् एतानि कविभि2र्विभज्यार्थानि नाटके ॥ ] BhNZ_19_068cd
3पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् । BhNZ_19_069ab
[ABh]

एवं हि वक्ष्यमाणेषु तेनैव क्रमेण भाव्यम् । न चासावस्ति प्रयोजनशङ्काषट्कं ततश्चानुपपन्नं स्यात्, अनुपक्षय इत्येकमेव हि प्रयोजनं भवेत् । बीजकरणेऽपि च नियमनिदानानुपपत्तौ द्वयोर्द्वादश द्वयोस्त्रयोदशेति कुतस्त्यो विभाग इत्यास्तामदः ।
पुनरेषामिति पुनश्शब्दो विशेषद्योतकः, लक्षण एवायं क्रमो न निबन्धन इति यावत् । तेन यदुद्भटप्रभृतयोऽङ्गानां सन्धौ क्रमे च नियममाहुस्तद्युक्त्यागमविरुद्धमेव । तथा हि -- `संप्रधारणमर्थानां युक्तिरित्यभिधीयते' इति यन्मुखसन्धौ पञ्चममङ्गं वक्ष्यति तत्सर्वेषु सन्धिषु तावन्निबन्धनयोग्यं, न च तथा निवेश्यं बध्यमानमदृष्टकृतं विदध्यात् । न च लक्ष्येन दृश्यते । वेणीसंहारे हि तृतीयेऽङ्के गर्भसन्धौ दुर्योधनकर्णयोर्महति संप्रधारणे द्रोणवधे वृत्ते --
तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां तरति धृतायुधप्लावाभ्याम् ।
आचार्यः सुतनिधनं निशम्य संख्ये किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥
इत्यादि यावत् --
दत्त्वाभयं सोऽतिरथो हन्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत् कथमन्यथा ॥ इति ।
न चात्र प्रतीतिव्युत्पत्त्योः क्षतिः काचित् । यत्तु सन्धिनैयत्येनाभिधानं तत्र सन्धाववश्यंभावित्वख्यापनार्थं युक्तिर्मुखे भवत्येव । सन्ध्यन्तरालानि तु नेत्थमिति पृथक् तानि वर्णयिष्यन्ते । कानिचित्त्वङ्गानि स्वरूपबलादेव

(मू)

1. ड॰ सन्धिकराणि तु

2. ड॰ विस्पष्टार्थान्मि

3. च॰ एतेषां तु पुनर्वक्ष्ये

(व्या)

[page 36]




[NZ]

[ABh]

नियमभाञ्जि, यथोपक्षेपो मुखसन्धावेव प्रथमे । एवं च न ह्युपक्षिप्ते वस्तुनि किञ्चिदपि शक्यक्रियम् । यत्तूच्यते`(अ 19) चतुःषष्ट्यङ्गसंयुत'मिति तेन संभवमात्रेमेषामुक्तं, न तु नियमः । यथासन्धिकृतः कर्तव्यानीति वचनं प्रयुत सन्ध्यौचित्येनैषां निबन्धनमभिदधदस्मदभिहितनीतिपथोपदेश्येव, योग्यतार्थवृत्तिना हि यथाशब्देनायमव्यवीभावः ।
यत्तूक्तं शरीराङ्गनियमदर्शनात् कथमेतदिति, तत्रापि दृष्टान्ताद् व्यवस्थापि तु न संभवतः स चास्तीत्युक्तं, शाखादयश्च वृक्षावयवा मध्येऽपि ब्रध्नेऽप्यूर्ध्वेऽपि भवन्ति, न च शरीरे पादपादिवदुपक्षेपादिभिरवयवविकल्पः सन्धिरारभ्यते, यच्च प्रतिसन्ध्यभिधानं तद्बाहुल्येन तथा दर्शनात् । तथाप्युपक्षिप्तेऽर्थे विस्तारिते निश्चितगुणादभिलषिते संभावनीयमुपायादिविषयं संप्रधारणमित्युपक्षेपपरिकरपरिन्यासविलोभनहेतुत्वादन्यान्यभिधाय युक्तिरुक्ता, न तु तत्रैव सद्भावात् । आनन्तर्यनियमश्च मुनेरभिमतो लक्ष्यते । अन्यथा सन्ध्यन्तरालानि सामादीनि मदान्तान्येकविंशतिः, लास्याङ्गानि गेयपदादीनि दश यानि वक्ष्यन्ते, तेषां कुत्र निवेशः स्यात् । सन्धिपञ्चकमयं हि रूपकं क्रमनियतं, तदङ्गसंहारभावितश्च सन्धिरिति, न च क्रमेणेनैव ताaनि प्रयोज्यानीति वचनमस्ति । सदपि वा न्यायापेतमन्यथा योज्येत । न चोद्देशक्रमनूच्यते निबन्धं, (*)लक्षणालङ्कारगुणवीथ्यङ्गसन्ध्यन्तराणि लास्याङ्गवृत्तितदङ्गान्यपि तु असाधर्म्यदृष्टान्तः । तदेतत्प्रत्येकं लक्षणे स्फुटीभविष्यतीत्यास्तां तावत् ।
1 उपक्षेपः -- तत्र प्रस्तावना न तावद्रूपकाङ्कं नटवृत्तव्याप्ततयेतिवृत्ताननुप्रवेशात् । इति तदनन्तरं पूर्वं, काव्यार्थ इतिवृत्तशरीरलक्षणोऽभिधेयः प्रधानरसलक्षणं च प्रयोजनसंक्षेपेणोपक्षिप्यते । यथा वेणीसंहारे भीमः --
लाक्षागृहानलविषान्नगृहप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहत्य ।
आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ इति

(मू)

(व्या)

* `क्रम इत्युच्यते निबन्धः' इति स्यात्

[page 37]




[NZ]

1काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ BhNZ_19_069cd
[ABh]

1 परिकरः -- तत ईषट् विस्तार्यते(परिकरः) । यथा भीमः --
प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभिर्न तत्राaर्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासन्धस्योरस्तलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥(अ 1-10)
3 परिन्यासः -- ततोऽपि निश्चयापत्तिरूपतया परितो हृदये सोऽर्थो न्यस्यते(परिन्यासः) ।
यथा --
चञ्चद्भुजाभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्थानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचान्स्तव देवि भीमः ॥(1-21) इत्यादि ।
4 विलोभनम् -- ततस्तदेव गुणवदिति श्लाघ्यते, श्लाघैव विलोभनहेतुत्वाद्विलोभनम् । यथा -- द्रौपदी -- अणुगह्णन्तु मए एदं वअणं देवदाओ (अनुगृह्णन्तु मे एतद्वचनं देवताः)इत्यादि । यथा वा विक्रमोर्वश्यां --
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ इत्यादि ।
तदेतदुपक्षेपाद्यङ्गचतुष्कं प्रायशो मुखसन्धौ भवति । उक्ल्तेनैव न पौर्वापर्येण भवति । आनन्तर्यनियमस्तु नास्ति, न सन्ध्यन्तराणि सामादीनां मध्येऽनुप्रवेशात् । तदेतदाह -- मुनिः काव्यार्थस्य समुत्पत्तिरित्यादिना विलोभनमिति स्मृतिमित्यन्तेन तत्र वृत्तान्तेनोपक्षयः सर्वेषां प्रयोजनमित्युक्तम् । परिकरस्य प्रयोजनमिष्टार्थस्य रचनापि ।

(मू)

1. भ॰ काव्यस्यार्थ, ड॰ कार्यस्यार्थ

(व्या)

[page 38]




[NZ]

1यदुत्पन्नार्थबाहुल्यं2 ज्ञेयः परिकरस्तु सः । BhNZ_19_070ab
3तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ BhNZ_19_070cd
गुणनिर्वर्णनं चैव4 विलोभनमिति स्मृतम् । BhNZ_19_071ab
संप्रधारणमर्थानां युक्तिरित्यभिधीयते5 BhNZ_19_071cd
6सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता7 BhNZ_19_072ab
8बीजस्यार्थस्योपगमनं समाधानमिति स्मृतम् ॥ BhNZ_19_072cd
[ABh]

5 युक्तिर्यथा -- `सहदेवः -- आर्य, किंचन महाराजसन्देशोऽयं आर्येण व्युत्पन्न एवं गृहीतः' इत्यतः प्रभृति यावद्भीमवचनम् --
युष्मान् ह्वेपयते क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दाराणां सभायां केशकर्षणम् ॥(1-17) इति ।
अस्याः प्रयोजनं प्रकाश्यप्रकाशनमपि ।
6 प्राप्तिः -- सुखार्थस्याभिगमनं प्राप्तिरिति । सुखयतीति सुखं तादृशस्य वस्तुनः । यथा (वेण्याम्) -- ``एष खलु भगवान् वासुदेवः पाण्डवपक्षपातामर्षितेन सुयोधनेन संयमितुमारब्धः'' इत्यादि ``कुमारमविलम्बितं द्रष्टुमिच्छामी''ति । ``अयं ह्यर्थो भीमस्य चेतः सुखयती''ति सन्धेर्विघटनात् (प्राप्तिः) ।
7 समाधानम् -- बीजार्थस्योपगमनमिति । य्स्मिन् बीजं तदिदानीं

(मू)

1. भ॰ समुत्पन्न, ढ॰ यदल्पं नार्थ

2. भ॰ बाहुल्ये

3. ड॰ तन्निष्पत्त्या तु कथनं परिन्यासः प्रकीर्तितः, च॰ तन्निर्वृत्तिः, ट॰ तन्निष्पत्तिस्तु कथनं परिन्यासः प्रचक्ष्यते

4. ढ॰ निर्वहणं तज्ज्ञैः, ड॰ यत्तु, ट॰ निर्वर्णना यत्तत्

5. भ॰ संज्ञितम्

6. भ॰ मुख्यार्थस्योप, प॰ सुखार्थस्योप,

7. न॰ धीयते

8. भ॰ बीजस्यागमनं यत्तु तत्समाधानमिष्यते, ढ॰ बीजार्थस्याभि-, फ॰ बीजार्थागमनं यत्तु तत् ... उच्यते

(व्या)

[page 39]




[NZ]

1सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् । BhNZ_19_073ab
2कुतूहलोत्तरावेगो3 विज्ञेया 4परिभावना ॥ BhNZ_19_073cd
[ABh]

प्रधाननायकानुगतत्वेन सम्यगाहितं भवतीति (समाधानम्) । ``यौधिष्ठिर''मित्यनेन(*) समाधानं दर्शितम् ।
8 विधानम् -- सुखदुःखकृतो योऽर्थस्तद्विधानमिति । व्यामिश्रतया सुखदुःखे अभिधीयते यत्रेति (विधानम्) । यथा --
भीमः -- तत्पाञ्चालि गच्छामो वयमिदानीं कुरुकुललक्षयाय ।
द्रौपदी -- णाह जं असुरसमराहिमुहस्स हरिणो मङ्गलं तं तुंहाण होदु -- (नाथ, यदसुरसमराभिमुखस्य हरेर्मङ्गलं तत्तव भवतु) इत्यादि(अ 1) तथा -- ``मा अनवेक्खिदसरीरा संचरह, अप्पमत्त संचरिणिज्जाइं रिपुबलाइं -- (मा नपेक्षितशरीराः संचरथ, अप्रमत्तसंचरणीयानि रुपुवलानि)'' इति । अत्र द्रौपद्याः प्रहर्षो भयं च मिश्रतया विहितमिति विचित्रत्वाद् रसवत्ता भवति । तेनेष्टस्यार्थस्य रचना, तथा निगूह्यस्य नायिकाचित्तनिस्त्रिंशभावस्य निगूहनं प्रयोजनम् । एवमन्यत्रापि प्रयोजनमुत्प्रेक्ष्यम् । युक्तिवच्चेदमन्यत्रापि संभवत्येवेत्येवमन्यत्राप्यूह्यम् ।
9 परिभावना -- कुतूहलेति कौतुकेन जिज्ञासातिशयेन व्यामिश्रो य आवेगः सा परिभावना किमेतदिति । यथा -- संग्रामं संघटनया संशयमाना द्रौपदी तूर्यशब्दं श्रुत्वाह -- ``णाह किं दाणिं एसो पळअंतजळहरत्थणिदमंसळो

(मू)

1. भ॰ दुखतो दुःखतो योऽस्थस्तद्विधानमिहोच्यते

2. ड॰ कौतूहलोत्तरो वेध्जो भवेत्तु

3. भ॰ वेध्यो, न॰वेधो, ट॰ वेदो, च॰ वेध्या

4. प॰ प्रोक्ता तु, न॰ भवेत्तु

(व्या)

*

यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।

तद् द्यूतारणिसंभृतं नृपशुना केशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते ॥(1-25)

[page 40]




[NZ]

1बीजार्थस्य प्ररोहे यः स उद्भेद इति स्मृतः2 BhNZ_19_074ab
3प्रकृतार्थसमारम्भः करणं नाम तद् भवेत्4 BhNZ_19_074cd
5संघातभेदनार्थो यः स भेद इति कीर्तितः5 BhNZ_19_075ab
[ABh]

खणे खणे समरदुन्दुभी ताडीआदि -- (नाथ किमिदानीमेष प्रलयान्तजलधरस्तनितमांसलो क्षणे क्षणे समरदुन्दुभिस्ताड्यते)'' इति
10 उद्भेदः -- बीजार्थस्य प्ररोह इति । यथा --
द्रौपदी -- हा णाह पुणो वि तुए अहं समस्ससइदव्वा (हा नाथ, पुनरपि त्वयाहं समाश्वासयितव्या)
भीमः --
भूयः परिभवक्लान्तिलज्जाबन्धुरिताननम् ।
अनिश्शेषितकौरव्यं न पश्यसि वृकोदरम् ॥ इति ।
न चेदमुद्घाटनं विनापि प्ररोहमात्रमनुस्थानानुगुण्यात् भूमिसंश्लोष इव बीजस्य ।
11 करणम् -- प्रकृतार्थसमारम्भः करणमिति(*) । यथा --
सहदेवः -- गच्छामो वयमिदानीं कुरुराजानुज्ञाताः विक्रमानुरूपमाचरितुम्, इत्यादि(वेणी-1)
12 भेदः -- संघातभेदनार्थो यः स भेद इति । पात्रसंघातस्य यन्निजप्रयोजनोपक्षेपेण निष्क्रमणसिद्धये भेदनं प्रकरणमिव स भेदः । सर्वत्राङ्केऽन्तर्भावी वस्तूपायात्मा भेदः, स सन्ध्यन्तरैकविंशतौ वक्ष्यते । अस्योदाहरणं --

(मू)

1. भ॰ उद्भेदस्तद्विनिष्पत्तिर्विज्ञेयो द्विजसत्तमाः(व॰ उद्भेदस्य विनि)'', प॰ उद्भेदः स तु कीर्तितः

3. भ॰ अर्थानुस्मरणं चैव, प॰ प्रत्यक्षार्थ

4. ड॰ समारम्भं करणं परिचक्षते

5. च॰ संपात, भ॰ उत्साहजननं भेदो विज्ञेयस्तु प्रयोक्तृभिः, प॰ संघातरूपभेदो यः, ट॰ संभूत

6. ड॰ संज्ञितः

(व्या)

* अन्ये तु विपदां शमनं करणमाहुः

[page 41]




[NZ]

[एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः ॥ ]] BhNZ_19_075cd
1समीहा रतिभोगार्था विलास इति संज्ञितः2 BhNZ_19_076ab
[ABh]

(वेण्यां -- अ-1-भीमवाक्यम्) ``अन्योन्यास्फालभिन्न'' इत्यादियावत् ``पाण्दुपुत्राः''(*) इति ।
अथ प्रतिमुखोद्दिष्टानामङ्गानामुद्देशक्रमेण लक्षणमाह
13 विलासः -- समीहा रतिभोगार्था विलास इति । रतिलक्षणस्य भावस्य हेतुभूतो यो भोगो विषयः प्रमदा पुरुडो वा तदर्था या समीहा स विलासः । कामफलेषु रूपकेषु प्रतिमुख एव ह्यास्थाफलत्वेन रतिरूपेण भाव्यम् । यथाभिज्ञानशाकुन्तले --
तापसः -- कस्येदमुशीरानुलेपनमित्यादि । तथा राजा --
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ इत्यादि ।
वस्तु वेणीसंहारे भानुमत्या सह दुर्योधनस्य दर्शितो विलासः, स नायकस्य तादृश्रेऽवसरेऽत्यनुचित इति चिरन्तनैरेवोक्तम् । यथा सहृदयालोककारः --
सन्धिसन्ध्यङ्गघटनं रसबन्धव्यपेक्षया ।
न तु केवलशास्त्रार्थस्थितिसंपादनेच्छया ॥ (ध्वन्या॰ 3)
एतच्च विवरण एवास्माभिर्वितत्य दर्शितम् ।
इह च रतिग्रहणं पुमर्थोपयोगि रसगतस्थायिभावोपलक्षणं तेन वीरप्रधानेषु रूपकेषु प्रतिमुख एव ह्यास्था रतिरूपेण उत्साहः । सम्यग्विषया

(मू)

1. भ॰ संभोगरतिसंपन्नो

2. ड॰ कीर्तितः

(व्या)

*

अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ ।

स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥

[page 42]




[NZ]

दृष्टनष्टानुसरणं परिसर्प इति स्मृतः1 BhNZ_19_076cd
2कृतस्यानुनयस्यादौ विधूतं हय् अपरिग्रहः । BhNZ_19_077ab
3अपायदर्शनं यत्तु तापनं4 नाम तद्भवेत् ॥ BhNZ_19_077cd
[ABh]

समीहा चेष्टा विलास इति मन्तव्यम् । युक्तचैतन्य एव हि रसो मुख उपक्षिप्तः । तस्यैव स्वयं प्रतिमुखस्वोचितारम्भसंभावितः कर्तव्यः । लसश्लेषणेऽपि हि पठ्यते ।
14 परिसर्पः -- दृष्टनष्टानुसरणं परिसर्प इति । यथा (वेण्यां) कञ्चुकी -- ``आशस्त्रग्रहणादकुण्ठपरशोः''(*) इत्यादि दृष्टनष्टप्रायो हि कार्यान्तरव्यासङ्गात् । कुरुकुलक्षयो भीष्मवधेन स्थानपरितोषसूचितेन च दुर्योधनस्यायुक्तचेष्टितत्वेनानुसृत इति प्रकृतस्यार्थस्य परिसर्पणात् प्रसरणात् परिसर्पः । यथा चाभिज्ञानशाकुन्तले भवितव्यमात्रतया । तथा हि --
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते हि नवा ॥ (3-5) इति ।
15 विधृतम् -- (§)कृतस्यानुनयस्येति । आदौ प्रथमतः, कृतस्यानुनयस्य सामवचसो नाङ्गीकरणं विधूतं, पश्चात् पुनरङ्गीकरणमिति । आदिशब्दात्(इपरोधः), यथा -- तत्रैव -- शकुन्तला -- अइ किं अंतेउरविरहपय्युसिएण राएसिणा अवरुद्धेण -- इत्यादि ।
16 तापनम् -- ‡अपायदर्शनं यत्तु तापनमिति । यथा रत्नावल्याम् --

(मू)

1. स वर्ण्यते, प॰ श्चकथ्यते

2. भ॰ विधूतमरतिं प्राहुस्तथा च द्विजसत्तमः, ट॰ क्रुद्धस्य, न॰ कृतस्य विनयस्य

3. भ॰ विलापवचनं, म॰ तस्यापनयनं यत्र शमनं

4. ट॰ शमनं

(व्या)

* वेणीसंहारे(अ॰ 2-2)

§ . विधूतमरतिं प्राहुः केचित् । तत्रारतिरित्यभीष्टानवाप्तितो दुःखम्

केचित्तु तापनस्थाने शमनं पठन्ति, अरतेः शमनमथवानुनयग्रहणादरतेर्निग्रहः शमनम् ।

[page 43]




[NZ]

1क्रीडार्थं विहितं यत्तु हास्यं नर्मेति 2तत्स्मृतम् । BhNZ_19_078ab
3दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता4 BhNZ_19_078cd
[ABh]

दुल्लहजणाणुराओ लज्जागुरुई परवसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं णु वरमेक्कम् ॥(*) (2-7)
... 17 नर्म -- क्रीडार्थं विहितं यत्तु हास्यं नर्मेति । यथा (रत्नावल्यां द्वितीयेऽङ्के) विदूषकः --
भो मा पांडिच्चगव्वं उव्वह, अहं एदाआ मुहादो सुणिअ वक्खाणइस्सं -- (भो मा पाण्डित्यगर्वमुद्वह । अहं एतस्या मुखात् श्रुत्वा व्याख्यास्यामि) इत्यादि ।
18 नर्मद्युतिः -- देoषप्रच्छादनार्थं तु हास्यं नर्मद्युतिरिति । दोषो येनोक्तेन प्रच्छादयितुमिष्यते तस्यापि हास्यजननत्वेन नर्म च सुतरां द्योतितं भवतीति नर्मद्युतिः । यथा च (रत्नावल्यां द्वितीयेऽङ्के विदूषकः) -- चउव्वेई विअ बम्हणो रिअइं पट्ठिदुं पवुत्ता । (चतुर्वेदी ब्राह्मण इव ऋचः पठितुं प्रवृत्ता । ) इत्यभिहिते
राजा -- नावधारितं मया
ततो विदूषकः -- दुल्लहजणाणुराओ†
इति पठति । अत्र हि मौर्ख्यदोषं छादयितुं यद्विदूषकेणोच्यते तद्राज्ञो हास्यजननमिति नर्मैव द्योतितं भवति । तथा हि राजा -- महाब्राह्मण कोऽन्य एवमृचामभिज्ञः -- इति ।

(मू)

1. य॰ क्रीडाविलोभनार्थं तु, न॰ क्रीडाविनोदनार्थं तु, भ॰ हास्यप्रायं तु यद्वाक्यं तन्नर्म परिकीरित्तम्

2. च॰ संज्ञितम्, न॰ कीर्तितम्

3. भ॰ रतिर्नर्मकृता चैव द्युतिरित्यभिसंज्ञिता

4. न॰ नर्मद्युति स्मृतम्

(व्या)

*

दुर्लभजनानुरागः लज्जा गुर्वी परवश आत्मा ।

प्रियसखि विषमं प्रेम मरणं शरणं नु वरमेकम् ॥

पूर्णा गाथा छाया चास्मिन् पृष्ठे दत्ता

[page 44]




[NZ]

1उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं2 पुनः । BhNZ_19_079ab
या तु व्यसनसंप्राप्तिः स निरोधः प्रकीर्तितः3 BhNZ_19_079cd
क्रुद्धस्यानुनयो 4यस्तु भवेत्तत्पर्युपासनम् । BhNZ_19_080ab
[ABh]

19 प्रगयणम् -- उत्तरोत्तरवाक्यन्तु भवेत्प्रगयणमिति । (यथा -- रत्नावल्यां द्वितीयेऽङ्के) विदूषकः -- किं णु खु दाणिं गाहेयम् (किं नु खलु इदानीं गायेयम्)
राजा -- कयापि श्लाघ्यनवयौवनया प्रियतममनासादयन्त्या जीवितनिरपेक्षयेदमुक्तम् । विदूषकः -- भो किं एदe हिं णं ... ... (भोः किमेतैः न) इत्यादि । प्रगयणमिति रूढिशब्दः ।
अन्ये तु प्रजाशब्दात् विचि क्लिष्ययत्नशब्देन शता क्विना व्युत्पत्तिं कल्पयन्ति । प्रागयणमित्यन्ये पठन्ति -- प्रागिति पूर्ववचनं ततोऽयनं प्राप्तिः यस्योत्तरवचनस्येति ।(*)
20 विरोधः -- या तु व्यसनसंप्राप्तिः स निरोध† इति । (यथारत्नावल्यां द्वितीयेऽङ्के) राजा ``उच्चैर्हसता त्वयेयं त्रासिता''(इति), व्यसनमत्र खेदमात्रमभीष्टोपरोधान्निरोधः ।
21 पर्युपासनम् -- क्रुद्धस्यानुनयो यस्त्विति । यथा -- (तत्रैव) विदूषकः -- भो मा कुप्य एसा खु कदलीघरन्ते ... ... एहि ‡ इत्यादि । राजा अनुनीतः सन्नाह --

(मू)

1. च॰ अधरोत्तर, भ॰ विज्ञेयं तु प्रशमनं विषादशमनोद्भवम्

2. प॰ प्रगमणं, ड॰ प्रगमनं बुधाः

3. भ॰ विरोध इति संस्मृतः, ढ॰ विरोधः स तु संज्ञितः, प॰ मुखानां संनिवेशो यः स निरोधः इति स्मृतः

4. भ॰ यश्च तद्भवेत्

(व्या)

* अन्ये तु प्रगमनमिति प्रशमनमिति च पठन्ति

केचिद्विरोध इति अन्ये रोध इति च पठन्ति

भो मा कुप्य, एषा खलु कदलीगृहान्तरे (वर्तते) एहि

[page 45]




[NZ]

विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ BhNZ_19_080cd
1प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते । BhNZ_19_081ab
3उपपत्तिकृतो योऽर्थ उपन्यासश्च3 स स्मृतः ॥ BhNZ_19_081cd
[ABh]

दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् ।
तद्भूयः शुकशिशुसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ इत्यादि ।
22 पुष्पम् -- विशेषवचनं यत्तु पुष्पमिति । यथा (तत्रैव विदूषकः) -- एसो को वि चित्तफळहओ(एष कोऽपि चित्रफलकः) -- इत्यादि विदूषकोक्तेः प्रभृति यावत् ``परिच्युतस्तं कुचकुम्भमध्यात्'' इत्यादि(*) । यथा हि प्रेमविकासि पुष्पं भवत्येवमत्रापि राज्ञ उत्तरोत्तरानुरागविशेषसूचकं वचो विकासमस्यानुरागस्य दर्शयति । तथा हि सुसङ्गता -- सहि गरुआणुरागविक्खित्तहिअओ असंबद्धं भट्टा मन्तेदुं पवुत्तो (सखि गुर्वनुरागविक्षिप्तहृदयोऽसंबद्धं भर्ता मन्त्रितुं प्रवृत्तः) इत्यादि ।
23 वज्रम् -- प्रत्यक्षरूक्षं यद्वाक्यं वज्रमिति । यथा (तत्रैव) -- ``कथमिहस्थो ऽहं भवत्या ज्ञात'' इति राजन्युक्तवति सुसङ्गता -- ण केवलं तुमं, चित्त फलहेण । ता जाव गदुअ देवीए णिवेदेमि । (न केवलं त्वं, चित्रफलकेण । तद्यावद्गत्वा देव्यै निवेदयामि) ।
24 उपन्यासः -- उपपत्तिकृतो योऽर्थ उपन्यास इति । यथा (तत्रैव) विदूषकः (समाध्वसं) -- अदिमुहरा खु एसा गब्भदासी (अतिमुखरा खल्वेषा गर्भदासी) । अत्र मौखर्यात्मिकोपपत्तिरुपन्यस्ता । †

(मू)

1. च॰ प्रत्यक्षरूपं, भ॰ रूक्षप्रायं तु

2. भ॰ सोपायवचनं यत्तु स उपन्यास उच्यते

3. न॰ श्च संस्कृतः

(व्या)

*

परिच्युतस्तत्कुचकुम्भमध्यात् किं शोषमायासि मृणालहार ।

न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किं नु स्यात् ॥

केचिदुपन्यासः प्रसादनमित्याहुः । भोजने तूपन्यासाङ्गं परिहृतम् ।

[page 46]




[NZ]

1चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते2 BhNZ_19_082ab
3कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ BhNZ_19_082cd
4तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते । BhNZ_19_083ab
[ABh]

25 वर्णसंहारः -- चातुर्वर्ण्योपगमनं वर्णसंअहर इति । चातुर्वर्ण्यशब्देन पात्राण्युपलक्ष्यन्ते । तेन यत्र पात्राणि पृथक् स्थितान्यपि ढौक्यन्ते स वर्णसंहारः । उपाध्यायास्त्वाहुः -- इह वीरप्रधाने तावन्नायकप्रतिनायकौ तत्सचिवौ च प्रधानत्वेन वर्ण्यन्त इति वर्णाः, कामप्रधानेऽपि नायको नायिका तत्सचिवौ चेति । तथा हि रत्नावल्यां (द्वितीयेऽङ्के) सुसङ्गताया वचनात् -- ``अदी मे अअं गरुओ पसाओ (अतो ममायं गुरुः प्रसादः)'' इत्यारभ्य, राजा -- क्वासौ । सुसङ्गता -- इत्थे गेह्णअँ सहिं पसाएहि णं (हस्ते गृहीत्वा सखीं प्रसादयैनाम्) -- इत्यादि । अत्र चतुर्णामेकीभावः प्रयोगस्य, इष्टस्य रचना, प्रकाश्ये प्रकाशनमित्यपि प्रयोजनानि । यत्तु ब्राह्मणादिवर्णचतुष्टयमेलनमिति तदफलत्वादनादृत्यमेव ।
अथ गर्भाङ्गान्युद्देशक्रमेण लक्षयति ।
26 अभूताहरणम् -- कपटापाश्रयं वाक्यमभूताहरणमिति । यथा वासवदत्तया चित्रफलके दृष्टे विदूषकवचनं -- अप्पा किल दुक्खेण आलिहिदुत्ति मम वअणं सुणिअँ पिअवयस्सेण विण्णाणं दंसिअं (आत्मा किलदुःखेनालिखितुमिति मम वचनं श्रुत्वा प्रियवयस्येन विज्ञानं दर्शितम्) -- इत्यादि ।
27 मार्गः -- तत्त्वार्थवचनं मार्ग इति । (तत्रैव) ``भट्टिणि कदा विघुणक्खरं वि संभावीयदि (भर्त्रि कदापि घुणाक्षरमपि संभाव्यते)'' इति

(मू)

1. भ॰ चतुर्वर्णाभिगमनं, प॰ वर्णितार्थतिरस्कारो, प॰ उच्यते

2. भ॰ इतः परं -- ``एतानि तु प्रतिमुखे गर्भे चापि निबोधत'' इत्यर्धमधिकं वर्तते

3. य॰ अभूताहरणं तत्स्याद् वाक्यं यत्कपटाश्रयम्, भ॰ कपटाय तु यद्वाक्यमभूताहरणं तु तत्

4. च॰ सत्त्वार्थ

(व्या)

* वर्णितार्थतिरस्कारो वर्णसंहार इति पाठे उक्तार्थस्य विषयान्तरप्रसक्त्या प्रच्छादनम् ।

[page 47]




[NZ]

1चित्रार्थसमवाये तु वितर्को रूपमिष्यते ॥ BhNZ_19_083cd
2यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् । BhNZ_19_084ab
[ABh]

काञ्चनमालयोक्ते वासवदत्ता समयानुसारि परमार्थोचितं वचनमाह -- अइ उज्जुए वसन्दओ खु एसो (अयि ऋजुके वसन्तकः खल्वसौ) -- इत्यादिमार्गवच्च प्रसिद्धित्वात् परमार्थे मार्गे इति व्यपदेशः ।
28 रूपम् -- (*)चित्रार्थसमवायो तु वितर्को रूपमिति । यथा (रत्नावल्यां द्वितीयेऽङ्के) राजा -- प्रसीदेति ब्रूयामिदमसति कोपे न घटते † । इत्यादि विचित्रार्थानां समवाये संभावने सर्वविषय एव विरुद्धस्तर्कः, इदं नोचितमिदं नोचितमिति प्रतियुक्तपर्यन्तः । युक्तिस्तु नियतप्रतिपत्तिपर्यन्तेति विशेषः, रूपमिति चानियता आकृतिरुच्यते । तत्र विशेषप्रतिपत्तिरिहापि तथोपचाराद् व्यपदेशः ।
29 उदाहरणम् -- यत्सातिशयवद्वाक्यं तदुदाहरणमिति । लोकप्रसिद्धवस्त्वपेक्षया यत् सातिशयमुच्यते उत्कर्षमाहरतीत्युदाहरणम् । यथा (तत्रैव तृतीयेऽङ्के) --
मनः प्रकृत्यैव चलं दुर्लक्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥ इति ।

(मू)

1. भ॰ चित्रार्थे वाक्यसंयोगे रूपकं तु विनिर्दिशेत्, न॰ चिन्तार्थं, म॰ चिन्त्यार्थ, ढ॰ चित्रार्थसमवायो यस्तद्रूपमिति कीर्तितम्

2. य॰ यत्र सातिशयं वाक्यमुदाहरणमिष्यते, भ॰ यत्तु सातिशयं वाक्यं तदाहरणमिष्यते

(व्या)

* चित्रार्थो वाक्यसंयोगो रूपकमिति पाठे रूपकं संशयस्य तर्केण च्छेदनमिति केचित् । अन्ये तु चित्रार्थमेव वचो रूपकमिति मन्यन्ते ।


करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।

न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा

किमेतस्मिन् वक्तुं सममिति न वेद्मि प्रियतमे ॥

[page 48]




[NZ]

1भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते ॥ BhNZ_19_084cd
2सामदानादिसंपन्नः 3संग्रहः परिकीर्तितः । BhNZ_19_085ab
4रूपानुरूपगमनमनुमानमिति स्मृतम् ॥ BhNZ_19_085cd
[ABh]

तथा च --
बाणाः पञ्च मनोभवस्य नियतास्तेषामसंख्यो जनः प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् ।
दृष्टं तत्त्वायि विप्रतीपमधुना यस्मादसंख्यैरयं विद्धः कामिजनः शरैशरणो नीतस्त्वया पञ्चताम् ॥
इत्यादि ।
30 क्रमः -- भावतत्त्वोपलब्धिस्तु क्रम इति । भावस्य भाव्यमानस्य वस्तुनो भावनातिशये सत्यूहं प्रति भावनादिबलात् स्यात् या परमार्थोपलब्धिः सा क्रमः । बुद्धिर्हि तत्र क्रमते न प्रतिहन्यते । यथा (तत्रैव) --
ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरम् ॥ इत्यादि ।
31 संग्रहः -- सामदानादिसंपन्नः सङ्ग्रह इति । साम्ना सङ्केतादिवार्ताः श्रुत्वा (राज्ञा विदूषकाय) कटकस्य दानम् । एवमन्यदपि ।
32 अनुमानम् -- रूपानुरूपगमनमिति । रूप्यमानेन प्रत्यक्षाद्युपलभ्यमानेन रूपस्य व्यापकस्याविनाभाविनो गमनं ज्ञानमुपमानं निश्चयात्मकत्वादूहः, उपायायुक्तेरन्यत्वात् । यथा (तत्रैव) --

(मू)

1. भ॰ तत्त्वोपलब्धिर्वाक्यस्य, ढ॰ तत्त्वोपपत्तिर्भावस्य

2. भ॰ युक्तस्तु सामदानाभ्यां विज्ञेयः संग्रहो बुधैः, च॰ सामदानार्थं

3. ड॰ संयोगः संग्रहः स तु कीर्तितः, प॰ संयुक्तः

4. भ॰ रूपं तु गमनं लिङ्गादनुमान इति स्मृतः

(व्या)

[page 49]




[NZ]

1रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् । BhNZ_19_086ab
गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ 2 BhNZ_19_086cd
[ABh]

पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्दुवारः सान्द्रा वीथी तथेयं वकुलविटपिनां पाटलापङ्क्तिरेषा ।
आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन् व्यक्तिं पन्थाः प्रयाति द्विगुणतरतमोनिह्नुतोऽप्येष चिह्नैः ॥
इत्यादि । अत्र ह्याघ्रायाघ्राय गन्धमिति गन्धानि(त्?) कुसुमानि तेभ्यः पादपाः, तेभ्योऽपि मार्गमनुमापितमिति राज्ञा विदूषकस्योक्तेः ।
33 प्रार्थना -- रतिहर्षोत्सवानां तु प्रार्थना प्रार्थनेति । एतत् साध्यफलोचितभावलक्षणं, तत्र साध्यफले यः प्राधान्येन समुचितो भावस्थद्विषया याa प्रकर्षेणाभ्यर्थना सा प्रार्थनाख्यमङ्कम् । यथा (तत्रैव) -- संकेतस्थः प्रतिपालयन् राजा --
तीव्रः स्मरसन्तापो न तदादौ बाधते यथासन्ने ।
तपति प्रावृषि हि तरामध्यर्णजलागमो दिवसः ॥ इति ।
34 आक्षिप्तिः -- गर्भस्योद्भेदनाक्षिप्तिरिति । हृदयान्तःस्थितं(तस्य) पुनः प्रतिष्ठापितस्यापि यतः कुतश्चिन्निमित्तादुद्भेदनमनपह्नवनीया या स्फुटतापत्तिः स्ना आक्षिप्तिः, अभिप्रायस्य हि तत्राक्षेपो बहिः कर्षणम् । वासवदत्तायामेव सागरिकेति राज्ञा विदूषकेण च परिगृहीतायां तदुक्तिस्तु ``सागरिके, (*)शीतांशुर्मुखमुत्पले तव दृशौ'' इत्यादिषु ।

(मू)

1. म॰ कार्यानुनयपूर्वस्तु वियोगः, प॰ अभ्यर्थनापरं वाक्यं प्रार्थनेत्यभिधीयते, भ॰ मातृकायां प्रार्थनालक्षणं तोपलभ्यते, ट॰ अतिहर्षोत्सवार्थानां

2. भ॰ यत्तु तमाक्षेपं विदुर्बुधाः, ढ॰ उच्छेदनं यत्तु तदाक्षिप्तमिति स्मृतम्, म॰ उद्भेदनं यत्तु तदुपक्षिप्तमिष्यते

(व्या)

*

शीतांशुर्मुखमुत्पलं तव दृशौ पद्माकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ ।

इत्याह्रादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्ग मामङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥

[page 50]




[NZ]

संरम्भवचनं 1चैव तोटकं त्विति संज्ञितम् । BhNZ_19_087ab
2कपटेनातिसन्धानं ब्रुवतेऽधिबलं बुधाः ॥ BhNZ_19_087cd
भयं 3नृपारिदस्यूत्थम् उद्वेगः परिकीर्तितः । BhNZ_19_088ab
[ABh]

35 तोटकम् -- संरम्भवचनं चैव तोटकमिति । आवेगगर्भं यद्वचनं तत्तोटकम् । स चावेगो हर्षात्, क्रोधात्, अन्यतोऽपि वा । भिनत्ति यतो हृदयं ततस्तोटकम् । यथा (तत्रैव) विदूषकः -- अज्ज विदाव से देवीए णिच्चरुठ्ठाए वासवदताए वअणेहि कडुइदे कण्णे सुहावी अदु (अद्यापि तावत्तस्या देव्या नित्यरुष्टाया वासवदत्ताया वचनैः कटूकृते कर्णे सुखय) इत्यादि ।
36 अधिबलम् -- कपटेनातिसन्धानमधिबलमिति(1) । परस्परवचनप्रवृत्तयोर्यस्यैवाधिकं (कर्म) सहायबुद्ध्यादीनवलम्बयति स एव तमतिसन्धातुं वञ्चयितुं समर्थ इति तदिदं कर्माधिबलम्(2) । यथा -- सागरिकावेषं धारयन्ती वासवदत्ता विदूषकबुद्धिदौर्बल्याद्राजानमतिसंधत्ते `किं पद्मस्य रुचिं न हन्ति'† इत्यादि श्लोकान्तमधिभलम्(2) ।
37 उद्वेगः -- भयं नृपारिदस्यूत्थमुद्वेग इति । (3)अरिशब्दान्नाचिकादि । यथा (तत्रैव) राजा -- कथं देवी वासवदत्ता, वयस्य किमेतत् । विदूषकः -- णं अंहाणं जीविअसंशओ (ननु अस्माकं जीवितसंशयः) -- इत्यादि ।

(मू)

1. ढ॰ (वचन) प्रायं तोटकं त्विह, भ॰ यच्च तोटकं नाम तद्भवेत्

2. भ॰ कपटप्रवृत्तो योऽर्थो विज्ञेयोऽधिबलो हि सः, ढ॰ कपटेनाभिसन्धानं ज्ञेयं त्वधिबलं बुधैः (न॰ त्वति, ढ॰ चातिबलं), प॰ कपटस्यान्यथाभावं, य॰ अनुमानार्थसंयुक्तं विद्यादतिबलं तथा

3. भ॰ नृपारिसंयुक्तमुद्वेग इति कीर्त्यते, ट॰ नृपादि, प॰ नृपारिजनितं

(व्या)

1. अतिबलमिति

2. अतिबलम्

3. आदि

गर्भसन्धिलक्षणेऽयं श्लोक उदाहृतः ।

[page 51]




[NZ]

1शङ्का भयत्रासकृतो विद्रवः सुमुदाहृतः ॥ BhNZ_19_088cd
2दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः3 BhNZ_19_089ab
[ABh]

38 विद्रवः -- शङ्का भयत्रासकृतो विद्रव इति । भयत्रासकारिणो वस्तुनो या शङ्का यदाशङ्कनं स विद्रवः, विद्रवति विलीयते हृदयं येनेति । यथा (तत्रैव) --
(*)प्रिया मुञ्जत्यद्य ध्रुवमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥ इति ।
अन्ये तु शङ्काभयत्रासैः कृतो यः स विद्रव इति । तत्र च विशेष्यपदमन्वेष्यम्, समुदाय एव विशेष्य इति श्रीशङ्कुकः, उदाहरति च कृत्यारवणे षष्ठेऽङ्के गर्भसन्धौ, (नेपथ्ये) (मण्डोदरी) -- हा अय्यउत्त परित्ताआहि परित्ताआहि (हा आर्यपुत्र परित्रायस्व परित्रायस्व) । प्रतीहारी (श्रुत्वा आत्मगतं) -- अंहो भट्टिणी विअ आक्खंददि । (अंहो भर्त्रीवाक्रन्दति) (प्रकाशं) भट्टा भवदो अन्तेउरे महन्दो कलकळो सुणीअदि । (भर्तः भवतोऽन्तःपुरे महान् कलकलः श्रूयते)
राजा -- ज्ञायतां किमेतदिति ।
अत्र रावणस्याशङ्का प्रतिहार्यास्त्रासभये ।
अथावमर्शसन्धावङ्गानां लक्षणमाह --
39 अपवादः -- दोषप्रख्यापनं यत्तु सोऽपवाद इति । यथा (तत्रैव) सागरिकोक्तेरनन्तरं† राजा -- अयि मिथ्यावादिनी खल्वसि --

(मू)

1. भ॰ नृपारिभयसंयुक्तः संभ्रमस्त्वभिसंज्ञितः, ड॰ नृपाग्निभयसंयुक्तः संभ्रमो विद्रवः स्मृतः

2. इतः पूर्वं भढपादिषु -- ``गर्भाङ्गलक्षणं प्रोक्तं विमर्शे च निबोधत'' इति संदृश्यते, भ॰ विशेषवचनं यत्तु, ट॰ दोषप्रख्यापनं यत्स्यात्

3. न॰ यत् स्यादपवादस्तु स स्मृतः

(व्या)

* पूर्वार्धं --

समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।

सागरिका -- अय्यउत्त किं अळीअदक्खिणदाए जीविदादो वि वळळहदाराए देवीए अत्ताणअं अवराहिणं करोसि (आर्यपुत्त, किमलीकदक्षिणतया जीविताद्बल्लभाया देव्या आत्मानमपराधिनं करोषि) ।

[page 52]




[NZ]

1रोषग्रथितवाक्यं तु संफेटः2 परिकीर्तितः ॥ BhNZ_19_089cd
3गुरुव्यतिक्रमो यस्तु4 स द्रवः परिकीर्तितः । BhNZ_19_090ab
5विरोधिप्रशमो यश्च सा शक्तिः परिकीरितिता ॥ BhNZ_19_090cd
[ABh]

श्वासोत्कम्पिनि कम्पितं स्तनयुगे मौने प्रियं भाषितं वक्त्रेऽस्याः कुटिलीकृतभ्रुणि रुषा यातं मया पादयोः ।
इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः परं प्रेमाबद्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि ॥ इति
अत्र देवीगुणानां सातिशयकोपनत्वेनापवदनं कृतम् ।
40 संफेटः -- रोषग्रथितवाक्यन्तु संफेट इति । केचित्तु स्फोट अनादर इति धातुं मनस्कृत्य संफोट इति पठन्ति । यथा (तत्रैव) -- वासवदत्ता (सरोषं सहसोपसृत्य) अय्यउत्त, जुत्तं ...... सरिसं (आर्यपुत्र, युक्तं, सदृशम्) ...... इत्यादि ।
41 द्रव -- गुरुव्यतिक्रमो यस्तु स द्रव इति । यथा (तत्रैव) -- भर्तृसंनिधानेऽपि विदूषकस्य सागरिकायाश्च वासदत्तया बन्धनम् । यथा वा -- तापसवत्सराजे षष्ठेऽङ्के वासवदत्ताया यौगन्धरायणवचनातिक्रमेण मरणाध्यवसायः । द्रवणं चलनं मार्गादिति द्रवः ।
42 शक्तिः -- विरोधिप्रशमः शक्तिरिति । विरोधिनः कुपितस्य प्रशमः प्रसादनं शक्तिः बुद्धिविभवादिशक्तिकार्यत्वात् । यथा (तत्रैव) --
सव्याजैः शपथैः वचसा चित्तानुवृत्त्या भृशं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।
प्रत्यापत्तिमुपागता मम तथा देवी रुदत्या तथा प्रक्षाल्यैव तथैव बाष्पसलिलैः कोपोऽपनीतः स्वयम् ॥ इत्यादि ।

(मू)

1. ट॰ दोष

2. प॰ संस्फीट इति

3. भ॰ ताडनं वधबन्धो वा विद्रवः;् समुदाहृतः, भ॰ द्रवस्तत्रावबोद्धव्यो गुरूणां व्यतिक्रमः

4. च॰ विज्ञेयोऽभिद्रवस्तु स (ड॰ विद्रवः)

5. म॰ विरोध, ड॰ विरोधोपगमो यस्तु, न॰ निरोधशमनं युक्तिस्तर्जनाधर्षणं द्युतिः

(व्या)

[page 53]




[NZ]

व्यवसायश्च1 विज्ञेयः प्रतिज्ञाहेतुसंभवः2 BhNZ_19_091ab
प्रसङ्गश्चैव विज्ञेयो गुरूणां परिकीर्तनम्3 BhNZ_19_091cd
वाक्यमाधर्षसंयुक्तं4 द्युतिस्तज्ज्ञैरुदाहृता । BhNZ_19_092ab
मनश्चेष्टाविनिष्पन्नः5 श्रमः खेद उदाहृतः ॥ BhNZ_19_092cd
[ABh]

43 व्यवसायः -- व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभव इति । प्रतिज्ञातस्याङ्गीकृतस्यार्थस्य हेतवो ये तेषां संभवः प्राप्तिव्यवसायः । यथा (तत्रैव) -- ऐन्द्रजालिकप्रवेशादितो यावत् ``एक्को उण खेडओ अवस्सं पेक्खितव्वो'' इति तावत् यौगन्धरायणेन यत्कर्तुमङ्गीकृतं तस्यैव हेतुः (तस्य) प्राप्तिः ।
44 प्रसङ्गः -- प्रसङ्गश्चापि(श्चैव?) विज्ञेयो गुरूणां परिकीर्तनमिति । यथा (तत्रैव) वासवदत्ताः उज्जयणीदो आअदोत्ति अत्थि मे तस्सि इन्दआळिए पक्खवादो (उज्जयिन्या आगत इति अस्ति मे तस्मिन्निन्द्रजालिके पक्षपातः) -- इत्यादि । अत्र हि बन्धुकुलादागमोऽस्य बहुमानकारणम् ।
45 द्युतिः -- वाक्यमाधर्षसंयुक्तं द्युतिरिति । आधर्षो न्यक्कारः तेन संयुक्तं । यथा विदूषकः -- हा दासीए उत्त इन्दआलिअ (आः दास्याः पुत्र इन्द्रजालिक) -- इत्यादि ।
46 खेदः -- मदश्चेष्टाविनिष्पन्नः श्रमः खेद इति मानसः कायीयश्चेत्युभयोऽपि यावत् । आद्यो यथा -- सिंहलेश्वरस्य कुशलप्रश्ने यथा वसुभूतिर्निश्वस्य ``देव न जाते किं कथयामि'' इत्यत आरभ्य रत्नावल्याः समुद्रपतनाकर्णनोदितवासवदत्ताविलापपर्यन्तम् । शारीरस्तु खेदः (विक्रमोर्वशीयाम्) पुरूरवसा ``अहो श्रान्तोऽस्मि गिरिनद्यास्तीर'' इत्यादि ।

(मू)

1. ड॰ तु

2. ड॰ दोषसंभवः, य॰ संश्रयः

3. ट॰ नित्यं परिभवात्मकः, न॰ वाक्योमेषप्रयोजितः, भ॰ गुणागुणविवृद्धिस्तु प्रसङ्ग इति कीर्तितः, प॰ अप्रस्तुतार्थवचनं प्रसङ्गः परिकीर्तितः

4. ड॰ धर्षणयुतं

5. च॰ समुत्पन्नः

(व्या)

* एकं पुनः खेलनमवश्यं प्रेक्षितव्यम्

[page 54]




[NZ]

ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः1 BhNZ_19_093ab
2कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ BhNZ_19_093cd
बीजकार्योपगमन3मादानमिति संज्ञितम् । BhNZ_19_094ab
4अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ BhNZ_19_094cd
[ABh]

यद्यपि श्रमोद्वेगवितर्कलज्जाप्रभृतयो व्यभिचारिवर्गे पूर्वमुक्तास्तथाप्येते सत्यवसरेऽवश्यप्रयोज्याः प्रागुक्तप्रयोजनार्थसिद्धये, ते पृथक्प्रयोजनत्वात् सन्ध्यङ्गत्वेनोक्ता मन्तव्याः ।
47 प्रतिषेधः -- ईप्सितार्थप्रतीयातः प्रतिषेध इति । यथा रत्नावलीवृत्तान्तवर्णने ईप्सितार्थप्रतीघाते वाभ्रव्येण प्रस्तुते तस्य प्रतिघातेऽन्तःपुरदाहेन ।
48 निरोधनम् -- कार्यत्ययोपगमनं निरोधनमिति । यथा राजा -- ``कथमन्तःपुरेऽग्निः । हा हा धिक्कष्टं दग्धा देवी वासवदत्ता'' इत्यादि यावत् सागरिकोत्सादनपर्यन्तम् । अत्र हि कार्ये वासवदत्ता सागरिकाप्रेमविस्रम्भस्यात्ययो विनाशमुपगतः प्राप्तः ।
49 आदानम् -- बीजकार्योपगमनमादानमिति बीजफलस्य समीपताभवनमित्यर्थः । यथा सागरिका राजानं दृष्ट्वा (स्वगतं) `अय्यउत्त'' इत्यादि, अत्र हि बन्धुकुलादागमो यावद्राज्ञ उक्तिः --
व्यक्तं लग्नोऽपि भवतीं न धक्ष्यति हुताशनः ।
यतः सन्तापमेवायं स्पर्शस्ते हरति प्रिये ॥
इत्यन्तम् ।
50 छादनम् -- अपमानकृतं वाक्यं छादनमिति । वाक्यमिति तदर्थो लक्ष्यते । करोतिः बहुमाने वर्तने, तेन दुष्टोऽप्यर्थोऽपमानेन बहुमतीकृतः ।

(मू)

1. ड॰ निषेधः स तु कीर्तितः

2. भ॰ उत्तरोत्तरवाक्यं तु विरोध इति संज्ञितः, ड॰ विरोधनं तु संरम्भादुत्तरोत्तरभाषणम्, न॰य॰ उत्तरोत्तरवाक्यं च

3. भ॰ नयनं, य॰ शमनं

4. भ॰ अवमानार्थजनिता छलना परिकीर्तिता, ड॰ अवमानात्, य॰ अवमानादिजनितः समूहः छन्दनं भवेत् (स मोहः छलनं), ट॰ अवमानादिविभणनं

(व्या)

[page 55]




[NZ]

प्ररोचना च विज्ञेया संहारार्थप्रदर्शिनी1 BhNZ_19_095ab
(प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ BhNZ_19_095cd
सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता । BhNZ_19_096ab
ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुता) ॥ BhNZ_19_096cd
2(एतानय् अवमृशे ऽङ्गानि संहारे तु निबोधत) । BhNZ_19_097ab
[ABh]

तदपमानकलङ्कापचारणाच्छादनमिति । यथा सागरिका -- दिठ्ठिआ पज्जळदो भअवं हुदासणो, अज्ज करइस्सदि मे सअळदुक्खावसाणम् । (दिष्ट्या प्रज्वलितो भगवान् हुताशनः, अद्य करिष्यति मे सकलदुःखावसानम् ।) इति ।
51 प्ररोचना -- प्ररोचना च विज्ञेया संहारार्थप्रदर्शिनी इति । संह्रियमाणस्य निवाह्यमाणस्यार्थस्य दर्शिका प्रकर्षेण रोचत इति प्ररोचना । यथा --
क्वासौ ज्वलन् हुतवहस्तदवस्थमेत दन्तः पुरं कथमवन्तिनृपात्मजेयम् ।
वाभ्रव्य एष वसुभूतिरयं वयस्यः स्वमो मतिभ्ज्रममिति(*)
युक्तिरित्यन्ये इदमङ्गं व्यवहरन्ति । अत्रोद्देशक्रमत्यागे यत्केषांचिदङ्गानां लक्षणं तत्क्रमानियमसूचनार्थः । अनेन पाठविपर्यासेन यत्कैश्चिदुद्देशस्यान्यथापठनं तद्ग्रन्थकाराशयापरिज्ञानकृतम् । केचिदात्रान्यतममङ्गं नाधीयते, द्वादशाङ्गमेवैतत्सन्धिमाह । अन्ये तु त्रयोदशाङ्गत्वेऽप्यस्य निर्वहणसन्धावपि प्रसक्तेरितिवृत्तान्तर्भूतत्वेन गणनमन्याय्यमिति त्रयोदशाङ्गत्वात् चतुःषष्टिसंख्यां समर्थयन्ते ।

(मू)

1. भ॰ या कार्यार्थप्रदर्शिनी, भ॰ सत्कारस्य विदर्शिका, ड॰ प्रकाशिनी

2. भ॰ एतान्यङ्गान्यवमृशे, ट॰ विमर्श एतान्यङ्गानि ढ॰ विमर्शाङ्गानि चोक्तानि

(व्या)

* स्वप्नो मतिभ्रम इदं नु किमिन्द्रजालम् -- इति चतुर्थः पादाः । स्वप्ने मतिर्भ्रमति किं त्विदमिन्द्रजालम् -- इति पाठान्तरम्

[page 56]




[NZ]

मुखबीजोपगमनं1 सन्धिरित्यभिधीयते2 BhNZ_19_097cd
3कार्यस्यान्वेषणं युक्त्या4 निरोध5 इति कीर्तितः । BhNZ_19_098ab
6उपक्षेपस्तु कार्याणां 7ग्रथनं परिकीर्तितम् ॥ BhNZ_19_098cd
8अनुभूतार्थकथनं निर्णयः समुदाहृतः । BhNZ_19_099ab
[ABh]

अथ निर्वहणसन्धावुद्देशक्रमेणाङ्गानि लक्षयितुं प्रक्रमते ।
52 सन्धिः -- मुखबीजोपगमनं सन्धिरिति । यथा वसुभूतिः -- बाभ्रव्यः, सदृशीयं राजपुत्र्याः -- इत्यादि मुखे यदुक्तं तदिह निकटीभूतं सन्धानं सन्धिः ।
53 निरोधः -- कार्यस्यान्वेषणं युक्त्या निरोध इति यथा वसुभूतिः -- कुत इयं कन्यकेत्यादि ।
54 ग्रथनम् -- उपक्षेपस्तु कार्याणां ग्रथनमिति यथा (यौगन्धरायणः -- देव क्षम्यतां यन्मयानिवेद्य कृतम् -- इत्यादि । अत्र रत्नावलीलाभारूपकार्थस्योपेक्षपाद् ग्रथनम् ।)
55 निर्णयः -- अनुभूतार्थकथनं निर्णय इति । प्रमाणसिद्धस्य वस्तुनः कथनमित्यर्थः । यथा रत्नावल्यां चतुर्थेऽङ्के वसुभूतिः -- अपि रत्नावली, ननु त्वमीदृशीमवस्थां प्राप्तासि ।
सागरिका -- (सप्रत्यभिज्ञं) तुमं पि किं अमच्चवसुभूदी
वसु -- स एवाहं मन्दभाग्यः इति --
प्रभृति यावद् विदूषकवाक्यं ``सविहवो होदु'' इति ।

(मू)

1. भ॰ नयनं

2. भ॰ संज्ञितः

3. भ॰ अन्वेषणं तु कार्याणां निरोधसमुदाहृतः

4. न॰ यत्र ट॰ यत्तु निरोध इति संज्ञितःञ्

5. ड॰ विरोध

6. ट॰ अप

7. भ॰ प्रसवं नाम तद्भवेत्

8. ड॰ अनुभूतस्य, भ॰ अनुभाव्यस्तथा योऽर्था निर्णयः सोऽभिधीयते

(व्या)

[page 57]




[NZ]

1परिवादकृतं 2यत्स्यात्तदाहुः परिभाषितम् ॥ BhNZ_19_099cd
3लब्धस्यार्थस्य 4शमनं द्युतिमाचक्षते पुनः5 BhNZ_19_100ab
6समागमस्तथार्थानामानन्दः परिकीर्तितः7 BhNZ_19_100cd
[ABh]

56 परिभाषणम् -- परिवादकृतं यत् तत् परिभाषणमिति ।
यथा सागरिका -- किदापराहा खु अहं देवीए ता ण सक्खुणोमि मुहं दंसेदुं (कृतापराधा खल्वहं देव्या, तत् नशक्नोमि मुखं दर्शयितुम्) । वास वदत्ता (अपवार्य) -- अय्यउत्त लज्जामिखु अहं इमिणा णिसंसत्तणेण ता अवणेहि से बन्धणं ।(आर्यपुत्र, लज्जे खल्वहमनेन नृशसत्वेन, तदपनयास्या बन्धनम् ।)
एतदुभयोरप्यन्योन्यापराधोद्घट्टनं वचनं यौगन्धरायणोऽपि प्रविश्यैवमेवापराधमुद्घट्टयति तथा --
देव्या मद्वचनाद्यदाभ्युपगतः पत्युर्वियोगस्तदा ।
सा चाप्यन्यकलत्रसंघटनया दुःखं मया प्राप्तिaa(*) । इत्यादि ।

(मू)

1. ट॰ परिवादात्मकं

2. भ॰ यत्तु तद्भवेत्

3. प॰ ईर्ष्याकोपोपशमनं

4. भ॰ गमनं

5. ट॰ बुधाः, भ॰ कृतिरित्यभिधीयते, ड॰ द्युतिरित्यभिधीयते

6. ड॰ समागमस्तु योऽर्थानामानन्दः स तु कीर्तितः

7. भ॰ कीर्त्यते

(व्या)

*

तस्याः प्रीतिमयं करिष्यति, जगत्स्वामित्वलाभः प्रभोः

सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥

[page 58]




[NZ]

1दुःखस्यापगमो यस्तु सभयः स निगद्यते । BhNZ_19_101ab
शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते2 BhNZ_19_101cd
3अद्भुतस्य 4तु संप्राप्तिरुपगूहनमिष्यते । BhNZ_19_102ab
5सामदानादि6संपन्नं भाषणं समुदाहृतम्7 BhNZ_19_102cd
[ABh]

59 समयः -- दुःखस्यापगमो यस्तु समय इति । अपगमनमपगमः । यथा -- अय्यउत्त दूरे खु एदाए णादिउळं ता तह अणुचिठ्ठ जहा बन्धुजणं ण सुमरेति (वासवदत्ता -- आर्यपुत्र, दूरे खलु अस्या ज्ञातिकुलं, तत्तथानुतिष्ठ यथा बन्धुजनं न स्मरति )
60 प्रसादः -- शुश्रूषाद्युपसंपन्नः प्रसाद इति । यथा वासवदत्ता -- ``एत्तिअं दाव मम बहिणिआ अणुरूपं होदु'' इति स्वैराभास्णैरलङ्करोतीति । (एतावता तावन्मे भगिन्यनुरूपं भवतु) ।
केचिद् द्युतेरनन्तरमिदमङ्गं पठन्ति ।
61 उपगूहनम् -- अद्भुतस्य तु संप्राप्तिरुपगूहनमिति । यथा विदूषकः -- ही ही भो कहं कहं संपुण्णमणोरहा संउत्तह्म(इत्युत्थाय नृत्यति) (ही ही भोः कथं कथं संपूर्णमनोरथाः संवृत्ताः स्मः )
62 भाषणम् -- सामदानादिसंपन्नं भाषणमिति । यद्यपि तदार्थेऽपि संग्रहाख्यमिदमङ्गमुक्तं तथाप्यत्र स्थानेऽवश्यं प्रयोक्तव्यतां ख्यापयितुं पुनरुपादानं शब्दान्तरेण च । यथा वसुभूतिः -- देवि स्थाने देवीशब्दमुद्वहसि --

(मू)

1. भ॰ दुःखापनयनं चैव समयः परिकीर्तितः, प॰ दुःखस्योपशमो, न॰ दुःखोपशमनं यत्तु

2. भ॰ शुश्रूषावचनोपेतः प्रसाद इति संज्ञितः, च॰ उपसंपन्नः प्रसाद इति भण्यते, ट॰ सुप्रसन्नता

3. य॰ अत्यद्भुतस्य संप्राप्तिर्भवेत्तत्तदुपगूहनम्

4. न॰ च

5. म॰ दानमानविनिष्यन्नमाभाषणमुदाहृतम्, भ॰ भाषणं नाम तद्भवेत्

6. ड॰ संयुक्तं भाषणं तूच्यते बुधैः

7. प॰ ब्रुवते बुधाः

(व्या)

[page 59]




[NZ]

1पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम्2 BhNZ_19_103ab
3वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ॥ BhNZ_19_103cd
[ABh]

इति । सामदानं तु यथा भगवती जीमूतवाहनस्य वरं ददाति -- ``त्वां विद्याधरचक्रवर्तिनमहं प्रीत्या करोमि क्षणात्'' इत्यादि ।
अन्ये मन्यन्ते -- आदिशब्देन भेददण्डादेरुपायान्तरस्य संग्राह्यत्वं, तस्य वेग(चेह?) स्थाने स्पष्टेन यथानौचित्यात्, गर्भसन्धयुक्तसामाद्यपायानुवदनमात्रमत्र यत्क्रियते इत्थमिदं प्राप्तमित्येवंप्रयं तदिदं भाषणाख्यमङ्गमिति ।
63 पूर्ववाक्यं -- पूर्ववाक्यं यथोक्तार्थप्रकाशनमिति । यथा बाभ्रव्यः -- इदानीं सफलपरिश्रमो ऽस्मि संपन्नः -- इति ।
64 काव्यसंहारः -- वरप्रदानसंप्राप्तिः काव्यसंहार इति । यथा यौगन्धरायणः -- देव यदुच्यतां किं ते भ्यूयः प्रियमुपहरामीत्यादि यावत्, ``यातो विक्रमबाहुरात्मसमतां''† इत्यादि ।

(मू)

1. भ॰ पूर्वभावश्च विज्ञेयः कार्योपक्षेपदर्शकः, प॰ पुनर्वाक्यं ......यथोक्ताक्षेपदर्शनम्, न॰ पूर्वभाषस्तु विज्ञेयः सद्भिः कार्योपदर्शकः (ट॰ दर्शकः)

2. ड॰ प्रदर्शकम्

3. च॰ कर

(व्या)

*

हंसांसाहतहैमपङ्कजरजः संपर्कपङ्कोक्षितैरुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः ।

स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाभिषिच्य स्वयं त्वां ... ... ॥(नागानन्दे - अ 5)


यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया ।

देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोशलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् ॥

[page 60]




[NZ]

1नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । BhNZ_19_104ab
2यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ BhNZ_19_104cd
कविभिः 3काव्यकुशलै 4रसभावमपेक्ष्य तु । BhNZ_19_105ab
[ABh]

64 प्रशस्तिः -- नृपदेशप्रशान्तिश्च प्रशस्तिरिति । (यथा रत्नावल्यां) --
उर्वीमुद्दामसस्स्यां जनयतु विसृजन् वासवो वृष्टिमिष्टां इष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः ।
आकल्पान्तं क्रियायाः(*) क्रमसमुपचितं संगमं सज्जनानां निर्विश्लेषावकाशं पिशुनजनवचोवर्जनाद्वज्रलेपः ॥
यथासन्धि त्विति यो यस्मिन् सन्धौ योग्य इत्यर्थः । योग्यतां वा कविरेव जानाति, न च मुक्तककविः, किन्तु प्रबन्धयोजनासमर्थः । तदाह कविभिरित्यादि ।
ननु कवेः कीदृशं तत्प्रबन्धनिर्माणकौशलमित्याह रसभावमपेक्ष्येति, तदपेक्षा च कौशलमित्यर्थः । रस एव हि प्रीत्या व्युत्पत्तिप्रदं नाट्यात्मकं शास्त्रमित्युक्तम् । ततश्च यद्यस्यानुपयोगि तदरोचकिनो रुचितदधिशर्करापयःप्रभृतिरसान्तरमध्ययोजितं -- तद्द्वारेणान्तः प्रविष्टं सत् पुष्टिं व्याधिनिवृत्तिं च विधत्ते, तथैव पुमर्थोपायो हृदयमनुप्रवेष्टुमसमर्थ सुन्दरतदुचितरससङ्क्रमणया प्राप्तान्तःप्रच्वेशो विनेयजनस्य संपाद्ये वस्तुनि कल्पपादपकल्पनायै कल्पते । रससंक्रान्तिश्च विभावादिरूपतयैव नान्यथेत्युक्तं षष्ठे । एतानीति । तान्यङ्गानि

(मू)

1. भ॰ नृपराष्टप्रशान्तिश्च प्रशस्तिरिति संज्ञिता, च॰ नृपदेव, प॰ नृपदेवादिशान्तिः, ड॰ देवद्विजनृपादीनां प्रशस्ति स्यात्प्रशंसनम्, ड॰नृपदोष

2. ड॰ इत्येतानि यथासन्धि कार्याण्यङ्गानि रूपके

3. ड॰ कार्य, भ॰ नाट्यतत्त्वज्ञैः

4. भ॰ड॰ रसभावान्

(व्या)

* कृषीष्ट

[page 61]




[NZ]

1संमिश्राणि कदाचित्तु2 द्विव्त्रियोगेन वा पुनः ॥ BhNZ_19_105cd
[ABh]

लिखितानि विवक्षितरसभावादिसंपूर्णभावभाञ्जि भवन्ति यानि त्वेकरसावहितमनसो यत्रान्तरपेक्षतयैवाहमहमिकया समुचितभावेन बन्धशय्यामनुवर्तन्ते । इति वृत्ताविछोऽपि हि रसस्यैव पोषकः, अन्यथा विच्छेदे स्थाय्यादेस्त्रुटितत्त्वात् क्व रसवार्ता । तेन रसस्यैवायं विभावादिपरिकरो यदङ्गचक्रमिति । तथा हि (*)``लाक्षागृहानले''त्युपक्षेपो वीररौद्रयोर्विभावांशपूरकः, (*)``प्रवृद्धं यद्वरै''मिति क्रोधस्य वीरे व्यभिचारिणो रौद्रे स्थायिनः स्वरूपं प्रत्युज्जीवकः परिकरः, (*)``चञ्चद्भुज''इति च परिन्यासोऽनुभावांशं पुष्णाति, (*)``अणुगृह्णन्तु पदं विवसिदं देवदाओ''(द्रौपदी -- अनुगृह्णन्त्वेतद्व्यवसितं देवताः)(वेण्या -- अङ्क?)इत्यादि विलोभनम् । अतो निवृत्त्यौत्सुक्यहर्षमतिस्मृतिप्रभृति व्यभिचारि, स चायं सन्धानधुर्यः, एवमन्यदपि योज्यम् ।
ननु सन्धिपरतन्त्रैरङ्गैर्भवितव्यम्, तद्रसपारतन्त्र्यमेषां कुतस्त्यम्, उच्यते -- सन्धयो ह्यवस्थापरतन्त्राः प्ररम्भाभिधानदशाविशेषोपयोगिकथाखण्डलकं मुखसन्धिरित्युक्तम्, एवमन्यत्र । अवस्था अप्यन्यकृतिविशेषमनूच्यन्ते । नन्वतः किम्, इदमतो भवतीत्याह -- रसभावापेक्षया तु कार्यं स्थितं तस्यापेक्षया अवस्थानं ज्ञात्वेति, कार्यमपि रसप्रवाहजननपर्यन्तत्वेन कृतार्थतां संपद्यते इति यावत् ।
संमिश्राणीति सन्ध्यन्तरोक्तं सन्ध्यन्तरेऽपीत्यर्थः । यथा युक्तिर्मुखेऽप्युक्ता गर्भेऽप्युपनिबद्धा वितर्कव्यभिचार्यंशपोषकभावेन वेणीसंहारे, यथोदाहृतं प्राक् ``तेजस्वी रिपुहतबन्धुदुःखभार''मित्यादि । द्वित्रीति द्वित्वत्रित्वयोगेनेत्यर्थः । तेनैकमपि सन्ध्यङ्गं तत्रैव सन्धौ द्विस्त्रिर्या कर्तव्यम् । यथारत्नावल्यां प्रतिमुखे विलासाः सागरिकायां राज्ञि वासकृदुपनिबद्धः प्रधानं शृङ्गारं समुद्दीपयति । वेणीसंहारे संफेडविद्रवौ पुनः प्रदर्शितौ वीररौद्रोद्दीपगौ

(मू)

1. ड॰ सर्वाङ्गानि

2. भ॰ स्युः सर्वाण्येतानि वा पुनः

(व्या)

* वेणीसंहारे

[page 62]




[NZ]

1ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु । BhNZ_19_106ab
2एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ BhNZ_19_106cd
सन्ध्यन्तराणि3 4सन्धीनां विशेषास्त्वेकविंशतिः । BhNZ_19_107ab
साम भेदस्तथा दण्डः प्रदानं वध एव च ॥ BhNZ_19_107cd
प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च । BhNZ_19_108ab
साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ BhNZ_19_108cd
[ABh]

भवतः । अतिशयेन तु पौनःपुन्ये वैरस्यं स्यादिति द्वित्रिग्रहणम् । तथा द्वयोर्योगो द्वाभ्यामङ्गाभ्यां संपाद्यं तदेकेनैव चेद्घटते तत्किमपरेण । एवं त्रियोगः । द्वियोगो यथा प्रतिमानिरुद्धे भीमसूनोर्वसुनागस्य कृते -- उपक्षेपानन्तरमेवं न परिकरः, आद्येनैव कृते परिन्यासदर्शनम् ।एवं त्रियोगः, यथा भेज्जलविरचिते राधाविप्रलम्भे रासकाङ्के उपक्षेपेणैव हि ``लिअलीस्सा''(*)इत्यादिपरिकरपरिन्यासकार्यगुरुभूते पालिते एक्जोद्देशेन(?) विलोभननिरूपणं । एवं चतुरङ्गो यावत् सन्धिर्भवतीति ।
अथ सन्ध्यन्तराणि दर्शयितुमाह एतेषामेव चाङ्गानामित्यादि । तत्र केचिदाहुः -- अन्तरं छिद्रं सन्धिरिति । तदङ्गमात्रं -- तात्स्थ्याच्च तत्स्थान्यं तेन सन्ध्यङ्गच्छिद्रवर्तित्वात् सन्ध्यन्तराणि, अत एव चाङ्गानां संबद्धानि । ननु किं शेषमात्रेण, नेत्याह, किं त्वर्थस्य प्रयोजनस्य योगेन, अत एव सन्ध्यङ्गानां विशेषकाः, तदर्थविशेषसंबद्धं हि तदङ्गं भवति (इति) ।
अन्ये मन्यन्ते -- य एवोपक्षेपाद्या सामान्या उक्ताः तेषामेवैतद्विशेषा अवान्तरभेदाः । उपेक्षेपो हि सामादिविशेषभिन्नः, तथा हि ``लाक्षागृहानल''(वेणी-1)

(मू)

1. न॰ कार्यं कालमवरथां च ज्ञात्वा कार्याणि सन्धिषु (भ॰ काव्यं)

2. इदमर्धं च॰ म॰ य॰ मातृकास्वेवोपलभ्यते

3. एकविंशति सन्ध्यन्तराणि केषुचिदादर्शेषु चतुःषष्ट्यङ्गोद्देशग्रन्थपूर्वमेव पठितानि

4. न॰ म॰ य॰ वक्ष्यामि त्वर्थोपक्षेपकाणि च

5. न॰ धीः

(व्या)

* राधाप्रलम्बे ......``विहवस्सि''

[page 63]




[NZ]

ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम्1 BhNZ_19_109ab
दूतो लेखस् तथा स्वप्नश् चित्रं मद इति स्मृतम्2 BhNZ_19_109cd
‡[विष्कम्भश् चूलिका चैव तथा चैव प्रवेशकः । BhNZ_19_110ab
अङ्कावतारो ऽङ्कमुखम् अर्थोपक्षेपपञ्चकम् ॥ BhNZ_19_110cd
[ABh]

इति क्रोधात्मोपक्षेपः, रामाभ्युदये भयात्मोपक्षेपः, प्रतिमानिरुद्धे स्वप्नरूपः, उदात्तराघवे हेत्ववधारणात्मा । एवमन्यदनुसरणीयम् (इति) । एते च विभावानुभावव्यभिचारिरूपा एव । न तु तदतिरिक्तं जगति किंचिदस्ति प्रयोगे । प्रयोगोज्ज्वलत्वोपयोगाय तूपलक्षणत्वेनैकविंशतिरित्युक्तं कवेर्मार्गं प्रदर्शयितुम् ।
तत्र सामादयो वीरे उज्ज्वलत्वहेतवः, वधो रौद्रे प्रत्युत्पन्नमतित्वं मतिलक्षणं व्यभिचारिरूपं, सर्वत्र गोत्रस्खलनमीर्ष्याविप्रलम्भे, साहसं(शृङ्गारवीरादौ), चापलं हास्यादौ । एवमन्यत्र । ओज इति तेजः, सामान्याभिनये(अ-22) लक्षयिष्यते -- ``अधिक्षेपावमानादेः''(इत्यत्र), संवरणमवहित्थ, चित्रं विस्मयः शिल्पविशेषश्च । एते सर्वेषु नाटकादिरूपकेषु सुलभाः स्वयं च सुज्ञाना इति तदुदाहारणपरिवर्तनेन ग्रन्थो न विस्तारितः(*) ।

(मू)

1. न॰ अवधारणम्

2. म॰ द्विजा

अर्थोपक्षेपपञ्चकोद्देशलक्षणविधायिन एते सप्त श्लोकाः प्रक्षिप्ता एव, यतः पूर्वाध्यायेऽङ्कलक्षणावसरे यत्रार्थस्य समाप्तिरित्यत्र(16-26) तल्लक्षणानि सूचितानि मुनिना व्याख्यात्रा च कोहलमतानुसारेन वा संग्रहकारमतेन वा श्लोकाश्चैते कैश्चिद्विनिवेशिताः । एतेषां सप्तमः कोहलस्यैव, द्वितीयस्तु कोहलश्लोकाच्चतुर्थपादे भिद्यते, तृतीयपञ्चमौ भरतस्यैवाष्टादशाद्गृहीतौ ।

(व्या)

* सामादीनामुदाहरणानि ग्रन्थान्तेऽनुबन्धरूपेण दर्शयिष्यन्ते ।

[page 64]




[NZ]

मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः । BhNZ_19_111ab
विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ BhNZ_19_111cd
शुद्धः संकीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेयः । BhNZ_19_112ab
मध्यपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ BhNZ_19_112cd
अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा । BhNZ_19_113ab
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ BhNZ_19_113cd
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । BhNZ_19_114ab
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ BhNZ_19_114cd
अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य । BhNZ_19_115ab
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ BhNZ_19_115cd
विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा । BhNZ_19_116ab
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते] ॥ BhNZ_19_116cd
[ABh]

एवमितिवृत्तनिरूपणनान्तरीयकत्वेन सम्धयः सन्ध्यङ्गानि सन्ध्यन्तराणि चात्मभूतरसोपयोगीन्यपि प्राधान्येनेतिवृत्तात्मकं शरीरांशमभिनिविशमानानि, तत एव वृत्तिचतुष्कसाधारणे निदर्शितानि । अधुना तु यस्याः प्रसादेन शास्त्रेतिहासादिभ्योऽभ्युद्धरकन्धरीभूतं सर्वजनाहरणीयतास्पदत्वं तु नाट्यं, यामुद्दिश्य प्रथमेऽध्याये ``कैशिकीमपि योजय यच्च तस्याः क्षमं द्रव्यं'' इत्यादि बहुतरमुक्तं, तदाविर्भावकानि, अत एवात्मभूतरसभावभागाभिनिवेशशालीन्येव लास्याङ्गान्यपि कविप्रयोक्तृभिरभिनेतव्यकाव्यविषये

(मू)

(व्या)

[page 65]




[NZ]

(*)अन्यान्यपि1 लास्यविधाव् अङ्गानि तु नाटकोपयोगीनि । BhNZ_19_117ab
3अस्माद्विनिःसृतानि4 तु भाण इवैकप्रयोज्यानि ॥ BhNZ_19_117cd
[भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा5 BhNZ_19_118ab
प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम् ॥ ] BhNZ_19_118cd
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका6 BhNZ_19_119ab
प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ BhNZ_19_119cd
[ABh]

सर्वथैव योज्यानीति दर्शयितुमाह अन्यान्यपि लास्यविधावङ्गानीत्यादि । नाटकमित्यभिनेयमात्रम् । इतःपरमध्यायान्तमुक्तेभ्योऽङ्गेभ्यो लास्यविधौ यान्यङ्गानि वक्ष्यन्ते तानि नाटकोपयोगीन्यपि भवन्ति ।
नन्वेवमङ्गानामभेदादङ्गिनोऽपि लास्यस्य नाटके को भेद इत्याशङ्कां शमयति(अस्मादिति) । अस्मान्नाटकादनुकाराभिनेयलक्षणात् विनिस्सृतानि बहिर्भूतानि, एकपात्रहार्याणि । भाण इति इवशब्देन नाटकमाह, भाणे नाट्यरूपता समास्ति, न तु लास्ये कथंचिदपि तस्य नाट्यरूपवैलक्षण्यात् । तच्चोपपादितं वितत्य तुर्येऽध्याये ।
ननु कानि लास्याङ्गानि नाट्ये वक्ष्यन्त इत्याह गेयपदमित्यादि दशविधं ह्येतदङ्गनिर्देशलक्षणमित्यन्तम् । एतस्य अङ्गनिर्देशस्याङ्गोद्देशस्य दशविधं, यद्विशेषलक्षणं तालाध्याये(अ-31) लास्यनिरूपणावसरे वक्ष्यते, तथा चोपसंहरिष्यति ``एतेषां लास्यविधौ विज्ञेयं लक्षण''मिति (अ-19) । अत्रैव हि संपूर्णमङ्गानां रूपं, इह तर्हि कथमुपयोग इति नाट्योपयोगितां

(मू)

* लास्याङ्गलक्षणं भ॰ मातृकायां न दृश्यते, च॰ प॰ म॰ मातृकासु विना सर्वास्वन्यास्वष्टादशाध्याय एव पठितम्, लक्षणपाठोऽपि भिन्नमातृकासु बहुभेदतया विद्यते । भोजशारदातनयादिभिरपि तल्लक्षणे मात्रया भिन्नं मतमुपन्यस्तम् ।

(व्या)

1. उ॰ अन्यानि च

2. ड॰ उपयुक्तानि, य॰ योगीति

3. य॰ तस्मात्

4. फ॰ विनिर्गतानि

5. ढ॰ च

6. ड॰ पुष्पगन्धिका

[page 66]




[NZ]

1उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च । BhNZ_19_120ab
लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ BhNZ_19_120cd
2आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् । BhNZ_19_121ab
[ABh]

गमयितुं आसनेषूपविष्टैर्य इत्यादिग्रन्थः । तेनेदं तात्पर्यम् -- यानि लास्याङ्गानि वक्ष्यन्ते तेभ्यः कश्चिद्वैचित्र्यांशे लोकापरिदृष्टोऽपि रञ्जनावैचित्र्याय कविप्रयोक्तृभिर्नाट्ये निबन्धनीयः ।
अन्ये तु व्याचक्षते -- तथाविधलास्याङ्गयोजनैवात्र क्रियते, तथा हि गेयपदे निदर्शनं दर्शयति ``ततः प्रविशति वीणां वादयन्ती मलयवती चेटी च । मलयवती `उत्फुल्लकमलकेसर' इत्यादि गायति''(नागा-1) इति । तद्देदमसत् । अत्र ह्यन्यव्यापारवद् देवतापरितोषः, किंचिद्गेयं जप्यसहस्रतुल्यं तन्मिश्रं जप्यं कोटिफलसाधनमित्यादिपुराणवाक्यबलात्, कर्तव्यत्वेनाभिसंहितो मलयवत्याः । ``सा च प्रयोज्ये''ति न लास्यार्थोऽत्र किञ्चित्, न लास्याङ्गतापि । यत्रापि, ततः प्रविशतो गायन्त्यौ चेट्यौ, ``कुसुमाउहपिअदूअउपे''(रत्ना-2) इत्यादि तत्रापि परिभ्रमणादिवदेव लौकिकवृत्तं वसन्तोत्सवप्रमोदाभ्युदयावसरकृतं । प्रयोजने चेद्यावत् क्रियते तत्र यद्यप्यनुकार्यस्य तथापि नाट्याङ्गत्वे पृथगनुपदेश्यतापत्तिः, यथा (यदा) ह्यश्वमेधयागाद्यनुकारः कर्तव्यस्तदोपयुज्यते यज्ञाङ्गज्ञानमिति यज्ञाङ्गान्युपदेश्यानि भवेयुः । न हि तादृग्वस्तुमात्ग्रमप्यस्ति यन्नाठे नोपयुज्यते च । तस्माल्लास्ये यान्यङ्गानि तत उपजीव्ये लौकिक एवांशे रञ्जनोपयोगी लास्याङ्गत्वेन मुनेरिह विवक्षितः । अन्यथा ``आसनेषूपविष्टैर्य''दित्यादि किमिहोक्त्या, ``एतेषां लक्षणं व्याखयस्ये'' इत्येतदिहैव तु नैवोक्तमित्येतद् विशृङ्खलं स्यात्, ``ततश्च परिधानक''मित्यादि(31-350) (यत्पूर्वरङ्गविधौ(अ-31) लास्याङ्गलक्षणमुक्तं तदप्यत्राभिनेयभागे प्रयोक्तव्यं स्यात् ।)
ततो यावानंशो नाट्योपयोगी तं दर्शयितुमाह आसनेषूपविष्टैर्यदिति । यच्छब्दो निपातो यस्मिन्नित्यत्रार्थे, तेन यत्र काव्ये प्रयोगे वा शुष्कमित्यनुकरणीयतया

(मू)

1. ड॰ उत्तमोत्तमकं चैव विचित्रपदमेव च । उक्तप्रत्युक्तभावं च लास्याङ्गानि विदुर्बुधाः

2. ड॰ आसने चोपविष्टायां

(व्या)

[page 67]




[NZ]

गायनैर्गीयते शुष्कं तद्गेयपदमुच्यते1 BhNZ_19_121cd
[या नृत्यत्यासना नारी गेयं प्रियगुणावितम् । BhNZ_19_122ab
साङ्गोपाङ्गविधानेन तद् गेयपगमुच्यते ॥ ] BhNZ_19_122cd
प्राकृतं 2यद्वियुक्ता तु पठेदात्तरसं स्थिता3 BhNZ_19_123ab
मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ BhNZ_19_123cd
[ABh]

शून्यं गायनैरिति न तु पात्रैः, आसनोपविष्टैरिति स्वस्थैः, न तु नेपथ्ये गीयत इत्यादिवत्, कविप्रयोगायातमावेशविशेषं जृम्भद्भिर्गीयते यत् । तन्त्रीभाण्डान्वितमिति सर्वातोद्ययुतं, न तु भाव्यासीनपाठ्यवत्तद्विहीनं तद्गेयस्य पदं स्थानमिति कृत्वा गेयपदम्, तेन ध्रुवागानपञ्चकमन्तरालापस्वररहितं यत्र प्रयोगयोग्यं भवति स काव्यप्रयोगो गेयपदमित्युक्तं भवति, यत्र हि प्रयोगे तत्तत्राभिनिविष्टं सामाहिकरञ्जकं भवतीति यावानंशोऽसौ लास्याङ्गादिहोपजीवितः ।
यत्तु गायनैः पात्रैः शुष्कमित्यर्थात् छेकाश्रितं गेयं निर्गीतमपि वा, एतत् त्र्यश्रं चतुरश्रं वेत्येवंभूतं गीयमानं गेयानि पदानि यत्र गेयपदमिति व्याचक्षते, तत्पूर्वमेवापास्तम् ।
अथ स्थितप्रापि यल्लास्याङ्गं भविष्यति तदुपजीवितुमाह प्राकृतं यद्वियुक्ता त्विति । लास्येऽपि तावद् देवतानरपतिरञ्जनप्रधानं पाठ्यमस्ति । तच्चित्तग्रहणं हि तत्र तेनैव मध्ये वैचित्र्याय पाठ्येनापि क्रियते, तत्र स्थिते च पठत्यासीनेवेति पाठ्यगतं तदलौकिकं रञ्जनाङ्गं चित्रत्वं तस्मादङ्गादुपजीव्यते । तथा हि -- यद्वियुक्ता आतप्तापि सती प्राकृतभाषालक्षणयुक्तं तथात्तरसमिति रसोपयोगि स्थायिरसग्रहणपूर्वकं पठेत् । एतल्लौकिकं यल्लास्याङ्गादुपजीव्यमानं स्थितपाठ्यम्। एतच्चावेशोपलक्षणं तेन क्रोधाविष्टोऽपि संस्कृतेन पठतीत्यद्यापि मन्तव्यम् ।

(मू)

1 फ॰ गेयं पदमिष्यते, च॰ उत्तमम्

2. ड॰ या विमुक्ता तु

3. ड॰ आसनसंस्थिता, य॰ आन्तरसंस्थिता

(व्या)

[page 68]




[NZ]

[1बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् । BhNZ_19_124ab
चच्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ॥ ] BhNZ_19_124cd
2आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् । BhNZ_19_125ab
3अप्रसारितगात्रं च 4चिन्ताशोकसमन्वितम् ॥ BhNZ_19_125cd
5वृत्तानि विविधानि स्युर्गेयं 6गाने च संश्रितम् । BhNZ_19_126ab
7चेष्टाभिश्चाश्रयः पुंसां8 यत्र सा पुष्यगण्डिका9 BhNZ_19_126cd
[ABh]

अन्ये तु बहुचारीयुतेन चञ्चत्पुटेनोत्तरेण यत् स्थितपाठ्यमिति लक्षणं कुर्वन्ति, उदाहरन्ति, रत्नावल्यां द्वितीयेऽङ्के राजा -- ``उद्दामोत्कलिका''मित्यादीति, तत्पूर्वमेव निरस्तम् । न च पाठ्ये चावसरोऽत्र तालस्त्र्यश्रश्चतुरश्रो वा, यथा तु लास्याङ्गत्वे । तत्सर्वं तालाभ्याय एव वक्ष्यामः ।
अथासीनपाठ्यादुपजिवनीयमंशमाह आसीनमास्यते यत्रेति । अत्यन्तशोकावेशेऽभिनयादिशून्यत्वेन यत्र आस्ते सोऽंश उपरञ्जकगुणश्चतुर्विधातोद्यवर्जितोऽतिसुकुमारकाकलीप्रायप्रमदागीतमात्रावशेषो यश्चित्तग्राही(स लौकिकः) लौकिकादपि च तत्र हि साम्यमात्रार्थस्य तस्याश्रयमाणा च स्थितिः, तदासीनन्नामाङ्गं, आसीनपाठ्यादुपजीवितेनासनांशेन योगतश्च सर्वत्र करुणादौ रञ्जनोपयोगि । तदाह चिन्ताशोकसन्वितमिति । अधःशय(नध्यानाधोमुखाद्यनुभावयुतम् । सर्वेति ध्यानविलापादिचिन्ताशोकानुभावेषु ततादेरप्रयोज्यतया तद्राहित्यमुक्तम्,) निःशब्दमिति भावः । तदनु अप्रसारितगात्रमित्यभिनयशून्यमित्यर्थः । सुप्रसारितगात्रमित्यन्ये पठन्ति, तत्रापि (सोष्टवाङ्गप्रदर्शनपृथग्यत्नराहित्येन)स्रस्तगात्रतयाभिनयशून्यतैव ।
पुष्पगडिकाख्यलास्याङ्गादुपजीव्यांशमाह वृत्तानीति । गान इति) ततेन

(मू)

1. न॰ भूमि

2. न॰ आसीनमासनस्थस्य

3. ढ॰ अपसारित, फ॰ अवसारित, न॰ अप्रसाधितगात्रं तु, प॰ संप्रसारित(ड॰ सु)

4. ड॰ जिह्मदृष्टिनिरीक्षितम्, य॰ चिन्ताशोकान्वितं च यत्

5. प॰ नृत्तानि

5. प॰ चातोद्य, प॰ गानैश्च संस्मृतम्

7. प॰ चेष्टा च विविधा

8. च॰ पुंस

9. पुष्पगन्धिकेति च बहुष्वादर्शेषु दृश्यते

(व्या)

[page 69]




[NZ]

1[यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् । BhNZ_19_127ab
सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ BhNZ_19_127cd
2नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् । BhNZ_19_128ab
स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका ॥ ] BhNZ_19_128cd
प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः3 BhNZ_19_129ab
स्त्रियः प्रियेषु 4सज्जन्ते ह्यपि विप्रियकारिषु ॥ BhNZ_19_129cd
[ABh]

मध्ये सुषिरेण मध्येऽवनद्धेन मिश्रणाकृतो विचित्रभावः पात्राणां सुकुमारप्रयोगो ऽभिनेयेऽपि रञ्जक एव यद्यप्यलौकिकं यद्वैचित्र्यम् । मालासादृश्यात्पुष्पगण्डिका गाननृत्तगीतगतवैचित्र्ययोगात् (स्त्रीलिङ्गविवक्षया च स्त्रीपात्राणां पुष्पगण्डिकोक्ता । पुंसामिति) सा च चेष्टाश्रयशब्दाभ्यां पर्यायेण योज्या ।
अथ प्रच्छेदकाङ्गकृतं वैचित्र्यं योजयितुमाह (प्रच्छेदक इति लास्यविधाने (अ 31) वक्ष्यते ``ज्योत्स्नायां मदिरायां वा दर्पणे सलिलेऽथवा ।) छायासादृश्यकान्तस्य प्रहर्षार्थभूषित''मिति (31 अ) त्रिधाप्रच्छेदकस्य लक्षण(मुक्तम् । तत्र जलक्रीडायां जले प्रसाधने दर्पणे पानगोष्ठ्यां पान) ईषत्प्रतिफलिततत्तदाकृतिदर्शने सति कान्तायाः प्रहर्ष इति त्रिधा प्रच्छेदं प्रति विमल(फलन?)मिति पर्यायात् (काव्येषु कविभिः प्रतिबिम्बदर्शनजातहर्षस्य स्त्रीणां प्रणयकोपप्रसादनसामर्थ्यं वर्णितम् ।) यथा --
पणमह पणयप्पकुविअगोरीचलणग्गलग्गपडिबिंबं ।
तंसु णहदप्पणेसु अ एआअअ तनुअरं रुद्दं ॥
(पणमत पणअप्पकुपिअकोरीचळणक्कलक्कपटिपिंपम् ।
तंमु नखतप्पनेसुं एकातस तनुतरं रुत्तम् ॥(*))

(मू)

1. ड॰ ज॰ श॰ आदिषु अयं पाठः

2. न॰ य॰ म॰ आदिष्वयं पाठः

3. ठ॰ चन्द्राहतातपाः

4. न॰ रज्यन्त अपि

(व्या)

* इयं गुणाढ्यकृतबृहत्कथायां प्रथमा गाथा -- प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । तेषु नखदर्पणेषु एकादशतनुतरं रुद्रम् ॥ इति छाया

[page 70]




[NZ]

अनिष्ठुर1श्लक्षणपदं समवृत्तैरलङ्कृतम् । BhNZ_19_130ab
नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम्2 BhNZ_19_130cd
[ABh]

इत्यादि । तत्र च त्रिविधेऽपि ज्योत्स्नैवोपयोगिनी, ...... धानलीलानि स्वाधीनभर्तृकोचितसंभोगविशेषोपलम्भेन । एतदुक्तं भवति -- लोकवृत्ते तावन्न सर्वदा संपूर्णचन्द्रोदयो भवति प्रयोगे तु संभावनागर्भतया रसोपयोगी तथाविधः कालविशेषो गृहीतव्यः । तथा चव् रत्नावल्यां भूयसा चन्द्रोदयो वर्णितः, ``वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गत''(3-13) इति । एवं रसोपयोग्यलौकिककालविशेषग्रहणं प्रच्छेदकादुपजीवितम् । यदाहुरुपाध्यायपादाः --
यद्यत्रास्ति न तत्रास्य कविर्वर्णनमर्हति ।
यन्नासंभवि तत्रास्य तद्वर्ण्यं सौमनस्यदम् ॥
देशेऽद्रिदन्तुरो द्यौर्वा तटित्कुण्डलमण्डिता ।
ईदृक्स्यादथवा न स्यात् किं कदाचन कुत्रचित् ॥ इत्यादि ।
अत्र त्रिमूढलक्षणादुपयोगिनं भावं निरूपयितुमाह अनिष्ठुरश्लक्ष्णपदमित्यादि । त्रिमूढके तावल्लास्याङ्गे नायकस्य व्यलीकवशादेकस्या द्वेष्यतोऽभिनवायाः प्रथमप्रणयबद्धलज्जादिनेति मोहस्त्रयाणाम् । तत्र नायकस्यावश्यमनिष्ठुराण्येवोदयनविषयाणीव वचांसि भवन्ति । तत इह वचसि रसोपयोगी गुणालङ्कारांशः स्वीकर्तव्यः । न हि लोके यदृते माधुर्यौजःप्रभृतिगुणगणोऽस्ति सर्वो ह्येवमाविष्टो यत् किंचिद्वदति तत्काव्यमेव स्यात् । छायामात्रेण त्वंशतः स एवापूर्णत्वादनुपयोग्येव । तस्मादलौकिकमेवैतद्वैचित्र्यं रसोपयोगे सर्वं तद्गुणग्रामकृतम् । समवृत्तैरित्यनेन वृत्तकृतवैचित्र्यं, पुरुषभावाढ्यमित्यनेन पात्रकृतमपि हेलाभावादि, एवं विशेषकृतं वैचित्र्यं यत्र नाट्ये सौन्दर्यमस्तीति दर्शयन् गुणानामेवान्वयव्यतिरेकाभ्यां तत्र प्रभावं दर्शयति ।

(मू)

1. ड॰ स्वल्प

2. प॰ उदाहृतम्

(व्या)

[page 71]




[NZ]

1पात्रं विभ्रष्टसङ्केतं सव्यक्तकरणान्वितम्2 BhNZ_19_131ab
3प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ BhNZ_19_131cd
4[रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् । BhNZ_19_132ab
नाट्यं हि तत्तु विज्ञेयं सन्धवं नाट्यकोविदैः ॥ ] BhNZ_19_132cd
[ABh]

अथ सेन्धवकादुपजीव्यमंशं स्वीकर्तुमाह पात्रं विभ्रष्टसंकेतमिति
``सैन्धववीमाश्रिता भाषा ज्ञेयं तत्सैन्धवं बुधैः ।
रूपवाद्यादिसंयुक्तं''
इति च लास्याङ्गविधाने(अ 31) वक्ष्यते । तत्र यदा नान्यप्राकृतादिभाषोपकरणत्वेन सैन्धवीप्राया आश्रीयते तद्रसोपयोगि रञ्जनाधिक्यात्, अलौकिकोऽयमर्थो रञ्जनोपयोगी लास्याङ्गात् स्वीकृतो भवति । तथा हि शृङ्गाररसे सातिशयोपयोगिनी प्राकृतभाषेति सट्टकः कर्पूरमञ्जर्याख्यो राजशेखरेण तन्मय एव निबन्द्धः, भेज्जलेन राधाविप्रलम्भाख्यो रासकाङ्कः सैन्धवभाषाबाहुल्येन, चन्द्रकेन स्वानि रूपकाणि वीररौद्राधिकोपयोगीनि संस्कृतभाषयैव(*) । अत एव च तत्तद्रसोपयोगतारतम्यादेवाiकतमस्यातोऽन्यस्यात्र प्राधान्यं कल्प्यते ।
तदेतदाह पात्रमित्यादिना । जातावेकवचनं, तेन यत्र पात्राणि प्राकृतैर्वचनैर्युक्तानि, अत एव विभ्रष्टः संकेतविशेषः रसोचितः काक्वध्याये कथितपूर्वः, स एष भ्रष्ठात्मा भ्रंशं नीतः संकेतो यत्र(*), सुष्ठु व्यक्तिर्यतो रसस्य तेनैव करणेन वीणावाद्यादिक्रिययान्वितं पात्रं सैन्धवकमिति विषयतद्वतोरभेदोपचारात् । तेन दशरूपकस्य यद् भाषाकृतं वैचित्र्यं कोहलादिभिरुक्तं तदिह मुनिना सैन्धवाङ्गनिरूपणे स्वीकृतमेव ।

(मू)

1. ड॰ पात्रं विस्मृतम्, न॰ रूपवाद्यादिसंयुक्तम्

2. न॰ आश्रयम्

3. य॰ पाठ्यहीनं स्वभावोक्त्या

4. पा॰आदि मातृकासु पाठः

(व्या)

* भासकृतमिति मुद्रापितं भारतकथावस्तुकं पञ्चरात्रादिनाटकषट्कं चन्द्रकस्यैवेति मन्यामहे ।

दृशानितसौबकचक्र इति तालपत्रादर्शयोः ।

[page 72]




[NZ]

1मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् । BhNZ_19_133ab
2श्लिष्टभावरसोपेतं 3वैचित्र्यार्थं द्विमूढके ॥ BhNZ_19_133cd
[ABh]

करुणान्वितमिति त्वपपाठः । एवं `पाठ्यविहीनं सैन्धवक'मिति, `यथा रत्नावल्यां विदूषको नृत्यतीति प्रियाप्रतिनिधिप्रभ्रंश(1), इति मुनिमतोपेक्षयैव लक्षण उदाहृतं च कृतं चोक्तं युक्त्या तेन किंचिदित्यसदेव ।
द्विमूढकाद् वैचित्र्यांशं स्वीकरोति मुखप्रतिमुखमित्यादिना । यत्र काव्ये लास्यमित्याश्रये द्वयोर्नायकस्य नायिकायाश्च नायिकयोर्वा प्रतिमूढक एव मोहो व्यावर्ण्यते तत्र, तालनिरूपणायामेकस्तालश्चतुर्भिः पादैर्युक्तः सन्नावर्तत इति वक्ष्यते(1-31)
मुखप्रतिमुखोप्तेतं तथा चाचपुटाश्रयम् ।
यथाक्षरैः सन्निपोaaतैस्तथा द्वादशभिर्युतम् ॥ इति ।
तस्मादङ्गाङ्गपरिक्रमे यदेव तालानुसरणं चतुर्षु च मुखेषु गतिपरिसमापनं लोके गत्यादावपरिदृष्टमपि नटसामाजिकवर्गसविधाध्यासनेन(2) साम्याङ्गस्यानन्दस्वभावतया रसांशेतराङ्गत्वादतिशयेन रसोपयोगीति तत् स्वीकृतम् ।
मुखं यदग्रे सामाजिकाः प्रतिमुख्यस्ततोऽन्या दिशो लास्याङ्गं नेतुम्, मुखप्रतिमुखे गीतकाङ्गत्वेन हि । (चतुरश्रेति) चतुरश्रं कृत्वा क्रान्तदिक्चतुष्टयैः पदैः क्रमणं यत्रेति । किमेवं सति भवतीत्याह वैचित्र्यार्थं वैचित्र्यमत्र प्रयोजनमिति । तेनापि किमिति चेत्तत आह (श्लिष्टभावेति) श्लिष्टभावेन सर्वसाम्यलक्षणेन चित्तवृत्तिसंघट्टेन रसानामुपगतं स्फुटत्वं येनेति ।

(मू)

1. ड॰ शुभार्थगीताभिनयं

2. ड॰ स्पष्ट, य॰ अष्ट

3. न॰ नानार्थं तु विमूढकम्, च॰ विचित्रार्थं, प॰ चित्रार्थं तद्विमूढकम्, ड॰ व्याजचेष्टं द्विमूढकम्

(व्या)

1. प्रियातिथिप्रभृतिः -- इति लेखकदोषः स्यात्

2. सविधाव्यापादनेन

[page 73]




[NZ]

उत्तमोत्तमकं विद्यादनेकरससंश्रयम्1 BhNZ_19_134ab
2विचित्रैः श्लोकबन्धैश्च 3हेलाहावविचित्रितम् ॥ BhNZ_19_134cd
[ABh]

गीतकाङ्गाभ्यां मुखप्रतिमुखाभ्यामङ्गसौष्ठवेन रसभावैर्नायिकाद्वयरचनया च युतमिति श्रीशङ्कुकाद्याः, तच्च प्रागेव परीक्षितम् ।
मुखप्रतिमुखौ सन्धी इत्येतदपि न समीचीनं, अनुपयोगादस्यार्थस्येत्युपाद्यायमतमेवानवद्यमावेदितपूर्वं ग्राह्यम् ।
अथोत्तमोत्तमकमङ्गं नाट्य उपयोजयितुमाह उत्तमोत्तमकं विद्यादनेकरससंश्रयमित्यादि । ``उत्तमoत्तमके त्वादौ नर्कुटं संप्रयोजयेत्'' इत्यादिना ``हेलाहावविभूषित''मित्यन्तेन लास्याङ्गं लक्षयिष्यते (31 अ) । तत्र च चित्तवृत्तिपरिपोषो हेलाहावादिचेष्टालङ्कारमुखेन यः स्थितः सोऽत्र लौकिकः सन्नुपजीव्यते । न हि भगवदवतारस्य रामस्य कुलकलत्रमनुपेक्ष्यं, पराभवखलीकारश्च च सोढव्यः, क्षत्रियेण च लोककण्टकाभ्युद्धरणं कर्तव्यमिति यच्छास्त्रार्थपरिपालनं मुक्त्वा, रावणहृतसीतासमानयनाद्युचितं निमित्तं, परमार्थतो न तु यथा प्रतिरूपं ``मुहुर्व्याधूतास्तादृश''मित्यादि वर्ण्यते तथास्य तृतीयत्रेतावतीर्णस्य(रामस्य) संभाव्यते । रामायणेऽपि मुनिना तथा वर्णितमिति चेत् किमतो वेदेऽपि हि तथा वर्ण्यतां, न्म वयमतो बिभीमः । ततश्चान्यतररञ्जनोपक्रमविनेयहृदयसंवादिवैचित्र्यांशोऽसौ नाट्ये लास्याङ्गप्रसादोपनत एव ।
उत्तमानि तावल्लास्याङ्गानि, तेभ्योऽपीदमुत्तमं, सर्वं हि रसपर्यायीति दर्शितं प्राक् । ततः संज्ञायां कन् ।
अनेकस्यासाधारणस्य रसय संश्रयोऽस्मिन्न्ति, स्थायिनां बहुत्वनूतनत्वाद् घटनाविचित्रत्वमुक्तम् । श्लोके च बध्यत इति श्लोकबन्धः, (बन्धानां) विधास्तैः विविधैः(चित्रै)परमार्थताभूतैः क्वचित्कदाचित्संभवमात्रं

(मू)

1. न॰ करणान्वितम्

2. प॰ विचित्र

3. न॰ लीलाभावविभूषितम्

4. प॰ विभूषितम्

(व्या)

1. तच्च तच्च तास्वनिष्यं

[page 74]




[NZ]

कोपप्रसादजनितं1 2साधिक्षेपपदाश्रयम्3 BhNZ_19_135ab
उक्तप्रत्युक्तमेवं4 स्या5च्चित्रगीतार्थयोजितम् ॥ BhNZ_19_135cd
[ABh]

तथा वर्णितैर्युक्तम्, यथा (विक्रमोर्वश्यां) -- ``आ दुरात्मन् रक्षः, क्व नु खलु मे प्रियतमामादाय गच्छसि । (विभाव्य) नवजलधरः सन्न्धोऽयं''(*) इत्यादि पुरूरवस उक्तिश्चानुरागेणैव व्याख्यातेति किं पुनरुक्त्या ।
हेलाहावैर्विशेषेण दीप्ततागमनरूपेण भूषितमिति सात्त्विकाद्यनुभाववर्गस्य सर्वस्यादीप्ततोपलषिता --
तत्राक्षिभ्रूविकाराद्यः शृङ्गाराकारसंयुतः ।
सग्रीवारेचको ज्ञेयो भावस्थितसमुत्थितः ।
स एव हावः सा हेला ललिताभिनयात्मिका । (अ 22)
अथान्त्यमङ्गं नाट्योपयोगि कर्तुमाह -- कोपप्रसादजनितमित्यादि । प्रथमार्धेन भाविलक्षणमेकदेशद्वारेणानूद्यते, द्वितीयेन तत आकृष्य वैचित्र्यभागो नाट्योपयोगी कथ्यते । तदयमर्थः -- कोपप्रसादजनितं साधिक्षेपपदाश्रयं चेत्यादिरूपं यदुक्तं प्रत्युक्तं तथास्यगाने(अ 31) वक्ष्यते, नाट्ये एवमिति समनन्तरमेवं वक्ष्यमाणेन पथिना स्यात्, तमाह चित्रेति । चित्रं यद्गीतं ध्रुवागानकाव्यं तस्य योऽर्थस्तेन संयोजनं यस्मिन्नाट्यांशे उक्तप्रत्युक्ते हि

(मू)

1. न॰ बहुलं

2. च॰ सविक्षेप

3. प॰ अधिक्षेपसमाश्रयम्, य॰ पराश्रयम्

4. ढ॰ एव

5. ढ॰ किंचिद्, न॰ नृत्त

(व्या)

*

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।

अयमपि पटुर्धरासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥(4-3)

[page 75]




[NZ]

1यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् । BhNZ_19_136ab
मदनानल2तप्ताङ्गी तच्चित्रपदमुच्यते ॥ BhNZ_19_136cd
[ABh]

(वैचित्र्यम्) लास्याङ्गात् स्वीकृतम् । यथा ``बाले नाथ विमुञ्च मानिनि रुषम्(*)'' इत्यादौ भिन्नानां वाच्यखण्डलकानां समन्वयो रसावेशमहिम्नैव, न तु श्रुतिलिङ्गादिप्रमाणषट्कं तदन्यत्रावकाशं लभते ``क्वाकार्यं शशलक्ष्मणः क्वच कुलं‡'' इत्यादावियमेव वार्ता । एवं ``णळिनीदळणीसहमुत्तदेहिआ । अइदुल्लहपडिबंधाणुराइआ । (नलिनीदलनिस्सहमुक्तदेहा । अतिदुर्लभप्रतिबन्धानुरागा) ॥''
इत्यादेर्द्विपदिकागीतार्थस्याभिनये काव्यार्थस्य च ``हिअअ समास्सस'' (शाकु), इत्यादेरसावेशकृत एवाभिनयार्थसमावेशो लोकापरिदृष्ट उपरञ्जनाय सातिशयमुपयोगी रसावेशवैवश्यप्रसादादियुक्तप्रत्यक्ताल्लास्याङ्गादुपजीवितः ।
यद्यपि ``स्थाने ध्रुवास्वभिनयो यः क्रियते'' (32-47) इति नाट्यनिरूपणायां वक्ष्यते तथापि कविना तादृक्कार्यं प्रयोक्त्रा च तादृग्गीतं कर्तव्यमिति शिक्षणाय कुतश्चेदमङ्गमुपजीवितमिति शङ्काशमनाय रूपकाङ्गत्वेनेहास्याभिधानं, सामान्याभिनये त्वभिनयत्वेनास्य निरूपणं भविष्यति ``षडात्मकस्तु शरीर''(22-44) इत्यत्र । कोपप्रसादजनितत्वमित्यनेन चित्तवृत्त्यावेशस्थानमस्याङ्गस्य निवेशविषय इत्युक्तम् । यत उक्तप्रत्युक्तमहिम्ना चाकाशभाषितात्मकमप्यलौकिकरूपं स्वीकुर्वता तत्सहचरं स्वगतजनानित्कापवारितकाद्युपलक्षितम् । न च सर्वथा तन्नाशो लोके क्वचित् संभवन्नाट्येऽपीति गीयमानः स्यात्, अनेन श्रोतुः काकतालीयवशात् स्वचित्तवृत्त्यार्थ

(मू)

1. एतौ श्लोकौ प्रक्षिप्तावपि, न॰ य॰ प॰ ट॰ भ॰ मातृका विना सर्वास्वन्यासु दृश्येते, ड॰ यदि प्रतिकृतिं

2. ड॰ तप्तं तु विचित्रपदं

(व्या)

* अयं श्लोकः षोडशेऽध्याये आख्यानलक्षणस्य लक्ष्यतयोदाहृतः(सं 2- पृ310)

अयमपि षोडशेऽध्याय उपपत्तिलक्षण उदाहृतः (सं 2- पृ-318)

[page 76]




[NZ]

दृष्ट्वा स्वप्ने प्रियं यत्र1 मदनानलतालिता । BhNZ_19_137ab
करोति विविधान् भावां2स्तद् वै भाविकमुच्यते ॥ BhNZ_19_137cd
[ABh]

संवादो भवति । यथा हर्षचरिते भगवत्याः सरस्वत्याः (*)``तरलयसि दृशं समुत्सुका''मित्यपरवक्त्रं शृण्वन्त्याः । तत्सर्वं हि लोके यथा न स्यात् तर्हि प्रत्यक्षकल्पंण् कथमिव तत्र प्रतीतिरिति नाट्यरूपतैव भ्रंशेत ।
अन्ये तु चित्रपदं भाविकं चेत्यङ्गद्वयमाहुः पठन्ति च --
यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् ।
मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥
दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता ।
करोति विविधान् भावांस्तद्वै भाविकमुच्यते ॥
तच्चेदमसत्, ``लास्ये दशविधं''(19-120) इत्यत्रत्येन ग्रन्थेन, ``दशाङ्गं लास्य''मिति च तालाध्याये(31) पठिष्यमाणेन विरोधात्, न चास्योपयोगः कश्चित् । तथा ह्यलौकिककैशिक्युपयोगि रसांशे सर्वथोपकारि यद्वैचिर्त्यं तल्लास्याङ्गद्वारेणाह, स्वकार्यं तच्च सर्वं दशभिरेव संगृहीतम् । तथा हि -- प्रधाने चित्तवृत्त्यंशे† वा वैचित्र्यं विभावाद्यंशे वा उपरञ्जकभावे वा । तत्र (चित्तवृत्त्यंशे प्रच्छेदकाद्‡) विभावांशगतं तु वैचित्र्यं, सैन्धवकात् काक्वाद्यंशे, स्थितपाठ्याल्लक्षणगुणाद्यंशे, त्रिमूढकादनुवृत्तांशे, पुष्पगण्डिकात् आहार्ये उपरञ्जकगीतातोद्ययोजने च, सात्त्विके आसीनपाठ्यात्, उपरञ्जकभावेऽपि (निः)शब्दाद् ध्रुवागानभागे सर्वतोद्ययोगे च गेयपदात्, गीतार्थस्य पात्रे करुणार्थाभिनये उक्तप्रत्युक्ताद्वाचिकस्य, स्वरतालानुसरणाद्विमूढकात् तत एवाङ्गिकवैचित्र्यमपि, व्यभिचार्यंशे तु वैचित्र्यमुत्तमोत्तमकादेव ।

(मू)

1. न॰ यत्तु

2. च॰ स तु

(व्या)

*

तरलयसि दृशं किमुत्सुकामकलुषमानसवासललिते ।

अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम् ॥(उ-1)

चित्तवृत्त्यनुवृत्त्यंशे इति स्यात्

तन्नानुतम्मोत्तमकात्

[page 77]




[NZ]

1एतेषां लास्यविधौ 2विज्ञेयं लक्षणं प्रयोगज्ञैः । BhNZ_19_138ab
[ABh]

एवं तदतिरिक्तो नास्त्येवांश इति च दशैवाङ्गानि । वाग्भागस्तनुत्वेनोपरञ्जकभागः स्वरसात्मनि हि तद्वैचित्र्ये भूयसा मुनिना निरूपणं कृतम् । अत एव चालौकिको वैचिर्त्यंशः प्रत्युतरसे सातिशयोपयोग इति शब्दतो मुनेरनुकारो, रसात्मा नाट्यमिति (इति) नाभिप्रेतमिति लक्ष्यते । अलौकिकवैचित्र्यसारो हि रसः, तथा चोक्तं भट्टतौतेन --
लक्षणालङ्कृतिगुणा देषाः शब्दप्रवृत्तयः ।
वृत्तिसन्ध्यङ्गसंरम्भः संभारो यः कवेः किल ॥
अन्योन्यस्यानुकूल्येन संभूयैव समुत्थितैः ।
झटित्येव रसा यत्र व्यज्यन्ते ह्लादिभिगुणाः(णैः?) ॥
वृत्तैः सरलबन्धैर्यत् स्निग्धैश्चूर्णपदैरपि ।
अश्लिष्टहृद्यघटनं भाषया सुप्रसिद्धया ॥
यच्चेदृक्काव्यमात्रं सद्रसभावानुभावकम् ।
सामान्याभिनये प्रोक्तं वाच्याभिनयसंज्ञया (अ 22) ॥
एवंप्रकारं यत्किञ्चिद्वस्तुजातं (कथार्पितम्) ।
अनूनाधिकसामग्रीपरिणामोन्मिषद्रसम् ॥
(*)रसपोषाय तज्जाते नाट्यस्वयं स्वरो ...... ।
प्रतिभायाः प्रगल्भायाः सर्वमोडुप एष सः ॥
इति संभावनाप्राणनाया हि यल्लोके संभाव्यते परम् अथ(परमार्थं तत्? ।) वस्तुतो लोकोत्तरत्वेनैव संभारेण युक्ता कविवाणी हठादेव रसमयी भवति साधारणताप्राणत्वादिति तत्र तात्पर्यम् ।
ननु लास्याङ्गेभ्यो यो भागानुपजीवति स तावदिहोक्तः, तेषां तु स्वरूपं वक्तव्यमित्याशङ्क्याह एतेषां लास्यविधाविति । एतद् दशरूपकलक्षणं

(मू)

1. ड॰ एतद्वै

2. ड॰ लक्षणमुक्तं मयात्र विस्तारतः (ढ॰ सु)

*

रसपोषाय तज्जातं लोकान्नाट्यजगत्स्वयम् ।

प्रतिभायाः प्रगल्भायाः सर्वस्वं कविवेधसः ॥

इति भ्रष्टनष्टाक्षरप्रायस्यास्य श्लोकस्यायमभिप्रायः स्यात्

(व्या)

[page 78]




[NZ]

तदिहैव तु यन्नोक्तं प्रसङ्गविनिवृत्तहेतोस्तु1 BhNZ_19_138cd
2पञ्चसन्धि चतुर्वृत्ति चतुःषष्ठ्यङ्गसंयुतम् । BhNZ_19_139ab
षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूuषितम् ॥ BhNZ_19_139cd
महारसं महा3भोगमुदात्तवचनान्वितम् । BhNZ_19_140ab
महापुरुषसंचारं साध्वाचार4जनप्रियम् ॥ BhNZ_19_140cd
सुश्लिष्टसन्धिसंयोगं5 सुप्रयोगं सुखाश्रयम् । BhNZ_19_141ab
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ BhNZ_19_141cd
अवस्था या तु6 लोकस्य सुखदुःखसमुद्भवा । BhNZ_19_142ab
नानापुरुषसंचारा नाटकेऽसौ विधीयते7 BhNZ_19_142cd
[ABh]

कवीनां सुखग्रहणाय राशीकर्तुमाह पञ्चसन्धीत्यादि । नाटकमित्यभिनेयकाव्यमात्रम् । तत्र पञ्चसन्धीत्यदि संभवस्मात्रे मन्तव्यम् । महान्तो रसाः पुरुषार्थोपयोगिनः यत्र । महान् भोगो रञ्जनाप्रधानो रसो यत्र, आभोग इत्यन्ये । उदात्तवचनान्वितमिति गुणान् श्लेषप्रसादादीन् स्वीकुरुते । सुश्लिष्टसन्धिसंयोगमिति सन्ध्यन्तराणि (च), सुप्रयोगममिति लास्याङ्गानि, सुखाश्रयमिति छन्दोवृत्तवैचित्र्यं, मृदुशब्दैरभिधानं वर्णना विवक्षितस्यार्थस्य यत्रेति माधुर्यप्रसादार्थव्यक्तिगुणानां प्रकर्षणं सूचयति । एवं नाटकं कुर्यात् । यश्च नाटकं कुर्यात् स एव कविः । किं तेनेत्याaह अवस्था यात्विति

(मू)

1. न॰ हेत्य्वर्थम्

2. ज॰ आदि ब॰ अन्तेषु सामाद्येकविंशतिसन्ध्यन्तरानन्तरमर्थोपक्षेपकाः तेषामनन्तरं -- ``वृत्तिवृत्त्यङ्गसंपन्नं पताकार्थप्रतिक्रियम् (य॰ पदार्थप्रकृति, न॰ पञ्चार्थप्रकृति) । पञ्चावस्था समुत्पन्नं(न॰ विनिष्पन्नं) पञ्चभिः सन्धिभिर्युतम् । षट्त्रिंशल्लक्षणोपेतं ......'' इति वर्तते ।

3. भ॰ योगमुदात्तवचनोद्भवम्

4. ड॰ चारं

5. ड॰ योगं च

6. द॰ हि

7. ड॰ संभवेदिह, भ॰ नाटकेषु क्रिया भवेत्

(व्या)

[page 79]




[NZ]

न तज्ज्ञानं न तच् छिल्पं न सा विद्या न सा कला । BhNZ_19_143ab
न तत् कर्म न 1वा योगो नाट्येऽस्मिन् यन्न दृश्यते ॥ BhNZ_19_143cd
योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । BhNZ_19_144ab
2सोऽङ्गाद्यभिनयैर्युक्तो 3नाट्यमित्यभिधीयते ॥ BhNZ_19_144cd
देवतानामृषीणां च राज्ञां चोत्कqष्टमेधसाम्4 BhNZ_19_145ab
5पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत् ॥ BhNZ_19_145cd
यस्मात् स्वभावं संत्यज्य6 साङ्गोपाङ्गगतिक्रमैः । BhNZ_19_146ab
7प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम् ॥ BhNZ_19_146cd
सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः8 BhNZ_19_147ab
नानावस्थान्तरोपेतं9 नाटकं संविधीयते ॥ BhNZ_19_147cd
[ABh]

नानापुरुषेषु सञ्चार एको भावानुप्रवेशो रसात्मना यस्याः सा तादृशी यतो नाटके विधीयते संपाद्यते रसरूपतां नीयत इत्यर्थः । उक्तं चैतद्वितत्य ।
ननु सर्वे चात्र किमवस्थाना इत्याशङ्क्य प्रथमाध्यायोक्तमेव श्लोकद्वयं पठति न तद् ज्ञानमिति, योऽयं स्वभावो लोकस्येति । एतच्च तत्रैव व्याख्यातमिति किं पुनरुक्तेन । पूर्ववृत्तानुचरितं कथं नाटकशब्दस्यार्थ इत्याह यस्मात्स्वभावं संतत्येति नट नटाविति नमनं स्वभावत्यागेन प्रह्वीभावलक्षणं, ये त्वन्ये नट वृत्ताविति पठन्ति तन्मतेऽपीह नमनं, नटशब्दो जनिदाच्युसूत्रेण

(मू)

1. ड॰ युगोऽसौ

2. ड॰ सोऽङ्गाभिनयसंयुक्तो

3. न॰ नाटकं त्वभिधीयते, य॰ नाटके संविधीयते

4. ड॰ लोकस्य चैव हि, द॰ अथ कुटुम्बिनाम्

5. द॰ वृत्तानुकरणं नाट्यमेष(?) लोकस्य चैव यत्, भ्॰ कृतानुकरणं लोके नाट्यमित्यभिधीयते

6. ड॰ संहृत्य

7. ड॰ अभिनीयते गम्यते, भ्॰ अभिनीयते गम्यते

8. द॰ क्रियास्तु, भ॰ क्रियासु च

9. ड॰ उपेतैः

(व्या)

[page 80]




[NZ]

[1अनेकशिल्पजातानि 2नैककर्मक्रियाणि च । BhNZ_19_148ab
3तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ॥ ] BhNZ_19_148cd
लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् । BhNZ_19_149ab
संभोगं चैव युक्तिं च ततः कार्यं तु4 नाटकम् ॥ BhNZ_19_149cd
5भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । BhNZ_19_150ab
ये चापि हि भविष्यन्ति 6ते यत्नश्रुतबुद्धयः ॥ BhNZ_19_150cd
7कर्म शिल्पानि शास्त्राणि विचक्षणबलानि च । BhNZ_19_151ab
8सर्वाण्येतानि नश्यन्ति 9यदा लोकः प्रणश्यति ॥ BhNZ_19_151cd
10तदेवं लोकभाषाणां11 प्रसमीक्ष्य बलाबलम् ।12 BhNZ_19_152ab
मृदुशब्दं सुखार्थं च 13कविः कुर्यात्तु नाटकम् ॥ BhNZ_19_152cd
चेक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये । BhNZ_19_153ab
वेश्या इव न 14ते भान्ति कमण्डलुधरैर् द्विजैः ॥ BhNZ_19_153cd
[ABh]

(उणादि 4-115)व्युत्पादितो गृहीतव्य इति दर्शयति साङ्गोपाङ्गा ये पदक्रमा गतिवैचित्र्याणि । एतच्च समस्तं नाट्याङ्गोपलक्षणं प्रयुज्यत इति नटैर्ज्ञायते चेति सामाजिकैस्तेनोभयोरपि नमनमुक्तमिति संभावनाकृतमौचित्यम् । मृदुशब्देति

(मू)

1. ड॰ यान्येव, य॰ यान्येक

2. ड॰ ह्येककर्मकृतानि च (य॰ रूप)

3. ड॰ तानि शेषाणि

4. य॰ च

5. य॰ लोके प्रणश्यति, द॰ लोको हसिष्यति

6. भ॰ ते यत्नार्जित, ड॰ तेऽत्यल्प, द॰ तेऽप्यल्प

7. ड॰ बुद्धयः कर्मशिल्पानि वैचक्षण्यं फलासु च, य॰ कर्मशिल्पानि वैलक्ष्यं लक्षणं च बलानि च

8. ड॰ सर्वाणि पुंसां

9. न॰ सदा, भ॰ यथा

10. भ॰ एवं लोकस्य वै भावमभावं प्रसमीक्ष्य च

11. ड॰ भावानां

12. य॰ यथाकामम्

13. य॰ तज्ज्ञैः कार्यं तु

14. ड॰ शोभन्ते

(व्या)

[page 81]




[NZ]

1दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः । BhNZ_19_154ab
अतः परं2 प्रवक्ष्यामि वृत्तीनामिह3 लक्षणम् ॥ BhNZ_19_154cd


इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामाध्याय एकोनविंशः(5) ॥
[ABh]

यदुक्तं तस्य प्रयोजनमाह भविष्यति त्रेतायुगापेक्षया द्वापरे कलौ वेत्यर्थः । सुखार्थमित्यर्थव्यक्तिः स्वीकृतः । एतदुपसंहरन्नन्यदासूत्रयन्नध्यायमध्यायान्तरेण सङ्गमयति दशरूपविधानं चेति शिवम् ।
द्विजवरतोतनिरूपितसन्ध्यध्यायार्थतत्त्वघटनेयम् ।
अभिनवगुप्तेन कृता शिवचरणाभोजमधुपेन ॥
इति श्रीमद्माहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यामेकोनविंशः सन्ध्यध्यायः समाप्तः ॥(*)

(मू)

1. ड॰ इतिवृत्तं ससन्ध्यङ्गं, भ॰ अङ्गलक्षणमेतत्तु

2. भ॰ ऊर्ध्वं

3. भ॰ अपि

4. भ॰ वागभिनयेऽङ्गविकल्पो नामाध्यायोऽष्टादशः

5. ज॰आदि व॰अन्तेषु द॰टौ विना एकविंशः, ड॰ट॰ --विंशः

(व्या)

* क॰ संज्ञक आदर्शे ``विवृतिर्भरतस्येयं लिखिता भारती नवा । नारायणेन विदुषः शितिकण्ठद्विजन्मनः ॥'' इति लेखकनामोल्लिखितम् ।

[page 82]




श्रीः
नाट्यशास्त्रम्
विंशो ऽध्यायः(1)

[NZ]

समुत्थानं तु वृतीनां व्याख्यास्यामय् अनुपूर्वशः । BhNZ_20_001ab
यथा वस्तूद्भवं चैव काव्यानां च2 विकल्पनम् ॥ BhNZ_20_001cd
[ABh]

अभिनवभारती -- विंशोऽध्यायः
वृत्त्यध्यायः
निश्शेषशब्दव्यवहारवृत्ति(1)वैचित्र्यमभ्येति यतः प्रतिष्ठाम् ।
श्रोत्रात्मकं तत्परमेश्वरस्य वन्देतमां रूपमरूपधाम्नः ॥
वृत्तिभेदात्काव्यभेदा भवन्तीत्युक्तं दशरूपकारम्भे (18-5) । तत्र वृत्तयो न ज्ञाता इति तदवधारणार्थमाह समुत्थानं त्विति ।
यद्यपि कायवाङ्मनसां चेष्टा एव सह वैचित्र्येण वृत्तयः ताश्च समस्तजीवलोकव्यापिन्योऽनिदंप्रथमताप्रवृत्ताः प्रवाहेन वहन्ति, तथापि विशिष्टेन हृदयावेशेन युक्ता वृत्तयो नाट्योपकारिण्यः । आवेशश्च तारतम्यलक्षणो द्विधा लौकिकोऽन्यश्च । तत्र लौकिक आवेशः सुखदुःखतारतम्यकृतो न रसागमास्वाद्यो(2) ह्यसावित्युक्तं रसाध्याये(अ 6) । अलौकिकस्त्वनावेशोऽप्यावेशमयः कवेरिव सामाजिकस्येव । काप्यवसरे हृदयसंवादसरसस्यैव यो भासते स एव

(मू)

1. ज॰ आदि ब॰ आन्तेषु द्वाविंशोऽध्यायः, च॰य॰ट॰ एकविंशोऽध्यायः, भ॰ एकोनविंशो ऽध्यायः

2. ढ॰ तु

(व्या)

1. वृत्त

2. रसागमनास्वाद्यो

[page 83]




[NZ]

एकार्णवं जगत् कृत्वा भगवानच्युतो यदा1 BhNZ_20_002ab
शेते स्म 2नागपर्यङ्ग्के लोकान्3 संक्षिप्य4 मायया ॥ BhNZ_20_002cd
अथ वीय्र5बलोन्मत्ताव् असुरौ मधुकैटभौ । BhNZ_20_003ab
6तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया7 BhNZ_20_003cd
8निजबाहू विमृदन्तौ भूतभावनमक्षयम् । BhNZ_20_004ab
जानुभिर्मुष्टिभिश्चैव 9योधयामासतुः प्रभुम् । BhNZ_20_004cd
10बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम्11 BhNZ_20_005ab
12नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम्13 BhNZ_20_005cd
[ABh]

साधारणे चमत्कारगोचर(1)व्यापारविशेषो रसस्योपकरणीभवति । तादृशश्च प्रथमतः कृतयुगारम्भे भगवतो वासुदेवस्यैव । तस्य हि स्वफलसिद्धये न किञ्चित् कर्वत्यमस्ति लोकानुग्रहं मुक्त्वा(2) । यथा हि ``न मे पार्थास्ति(3) कर्वव्यं(गीता 3-22) इति तेन साधारणस्य भावेन प्रविष्टानावेशेऽप्यावेशमयो, भगवानेव प्रथमतो नान्यः, पूर्वसर्गगामिनो व्यापारस्य प्रलयमहारजनीप्रस्तावेन भ्रष्टसंसारत्वात् । अत एवाह --

(मू)

1. ढ॰ यथा

2. च॰ अस्य(?)

3. ड॰ लोकं

4. च॰ संक्षेप्य

5. ड॰ मदोन्मत्तौ

6. ढ॰ तर्कयामासतुः

7. न॰ युद्धकांक्षिणौ

8. ड॰ बाहू विमर्दमानौ तौ, न॰ निजबाहू विमृश्नन्तौ, भ॰ बाहूनि तर्जयन्तौ तावङ्गहारैस्तथा हरिम् । मुष्टिभिर्जानुभिश्चैव ताडयामासतुः प्रभुम् । च॰ निजबाहू विवृद्धन्तौ(?)

9. ढ॰ योजयामासतुः

10. ड॰ अभिद्रवन्तावन्योन्यं वाक्यैश्च परुषैस्तथा

11. च॰ स्पर्धयान्वितौ

12. च॰ नामविशेष, भ॰ नानाविक्षेप, भ॰ नानाविच्छेद

13. भ॰ अम्बुधिम्

(व्या)

1. क॰ चमत्कारकारी, ख॰ चमत्कार गोचरचारी

2. मत्वा

3. यथा ह्यनृतमेवार्थमस्ति

[page 84]




[NZ]

1तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा2 BhNZ_20_006ab
3श्रुत्वा त्वभिहतमना द्रहिणो वाक्यमब्रवीत् ॥ BhNZ_20_006cd
4किमिदं भारतीवृत्तिर्वाग्भिरेव प्रवर्तते5 BhNZ_20_007ab
उत्तरोत्तरसंबद्धा6 नन्विमौ निधनं नय ॥ BhNZ_20_007cd
पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः । BhNZ_20_008ab
[ABh]

त्रेतायुगे च नान्यं प्रपत्स्यति । यद्यपि चादिकविं वाल्मीकिरि(1)ति प्रवादस्तथापि प्रलयानन्तरं कृतयुगे भाविनि सन्ध्यवसरप्रतिबन्धदर्पदलनजनितविघ्नापसरण(2)पुरस्सरसृष्टिसम्पत्तौ चिरेण वाल्मीकिमुनेः प्रादुर्भावो भविष्यतीति साधारण्याशयेनैव च भगवानेव वृत्तीनां(3) स्रष्टोक्तः न तौ तु मधुकैटभौ, तयोरावेशेन लौकिकेन व्याप्तत्वात्,(4) उद्रिक्ततमतमस्सन्तानितस्वांतत्वेनाविद्यामयत्वात् । विद्यावकाशवशविकसितहृदयकमलपरिमलरूपत्वाच्च, आनन्दसारस्य रसोपयोगिनो व्यापारानावेशस्य भगवत्येव सम्भावनं न तु दैत्ययोः । अत एवाह किमिदं भारतीवृत्तिर्भगवन् वाग्भिरेव प्रवर्तते इति भगवतेत्यनेन ह्युक्तं, भगवानेव हि वृत्तीनां प्रवर्तयिता नटवदनावेशदर्शनात्, न तु मधुकैटभौ (तयोः) लौकिके चैव स्यादिति । द्रुहिणोऽभिहतमना वाक्यमब्रवीदित्यनेन प्रेक्षकत्वं ब्रह्मणः प्रदर्शयन् सामाहिकहृदये विश्रान्तिप्राधान्यं वृत्तीनामाह । तन्निष्ठत्वाद्रसचर्वणाया वाक्यग्रहणेन कार्यद्वारको वृत्तीनां नाट्योपयोग इति सूचयति वाग्भिरेवेति । वाचिकप्राधान्ये भारतीवृत्तिः । भारतीशब्देन हि वागुच्यत इति कार्यहेतोरित्युक्तं तत्कार्यं दर्शयति

(मू)

1. भ॰ तयोर्नैक, न॰ तयोरनेकरूपाणि

2. च॰ श्रुत्वा वाक्यानि तर्जतोः, भ॰ गदतोस्तदा

3. च॰ किञ्चिदाकम्पित, भ॰ श्रुत्वा त्वालम्पित, ज॰ किञ्चिदाकुञ्चित

4. न॰ किमयं

5. न॰ प्रवर्तिताम्, न॰ प्रतिष्ठिता, भ॰ एवं प्रवर्तते

6. न॰ सम्बन्धा

(व्या)

1. लब्ध

2. सरणं

3. क॰ ``वृतीनां'' इति नास्ति

4. व्यस्तत्वात्

[page 85]




[NZ]

1कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ BhNZ_20_008cd
2वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति । BhNZ_20_009ab
3तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ॥ BhNZ_20_009cd
4शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा5 भृशम् । BhNZ_20_010ab
योधयामासतुर्दैत्यौ 6युद्धमार्गविशारदौ ॥ BhNZ_20_010cd
भूमिसंयोगसंस्थानैः 7पदन्यासैर्हरेस्तदा8 BhNZ_20_011ab
अतिभारोऽभवद् भूमेर्भारती तत्र9 निर्मिता ॥ BhNZ_20_011cd
वल्गितैः 10शार्ङ्गधनुष11स्तीव्रैर् दीप्तैरथ । BhNZ_20_012ab
12सत्त्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता13 BhNZ_20_012cd
[ABh]

वदतामिति कवीनामिति यावत् । (1)शुद्धैरिति स्वोत्प्रेक्षितवैचित्र्यशून्यैः । अङ्गानां हारान्नयतामिति भृशं युद्धमार्गे विशारदाविति संबन्धः । भूमिसंयोगेन संस्थान उद्घटि(ट्टि!)तसङ्कुचितादिरूपं येषां, पदन्यासानां न्यस्यमानानां पदानाम् । अतिभार इत्यक्षरसाम्यादपि निर्वचनं दर्शयन् नटव्यापारयोगेऽपि आन्तरविकल्पात्मकाभिः(वाग्भिः)संजल्पबाहुल्ये भारत्येव वृत्तिरिति दर्शयति । सत्त्वाधिकैरिति मनोव्यापाराधिक्ये सात्त्वतीवृत्तिरित्याह सत् सत्त्वरूपं विद्यते येषां तत्त्वं तेषामयमिति । सत्त्वं च तत्र परच्छिद्रान्वेषणोपायमप्रतितानवैचित्र्योत्प्रेक्षणप्रकाशलाघवात्मकं,

(मू)

1. भ॰ बाढं नाट्यक्रियाहेतोः

2. भ॰ भाषतां, ड॰ भाषयोः

3. ड॰ अहमेतौ निहन्म्यद्य इत्युक्त्वा (न॰ अयमेतौ)

4. शून्यैरिति पाठः स्यात्

5. ड॰ तदा, भ॰ तथैव च

6. न॰ बाहुयुद्ध

7. ड॰ भूतिसंस्थानसंयोगैः (न॰ भूमि), भ॰ भूसंस्थानैः प्रयोगैश्च

8. ढ॰ सदा हरेः, च॰ हरेस्तातः

9. न॰ तेन

10. भ॰ शार्ङ्गपाणेस्तु

11. न॰ तीव्रदीप्ततरैः(ट॰ करैः, ढ॰ धरैः)

12. भ॰ सत्त्वाधिकाततभ्रान्तैः

13. ट॰ च विनिर्मिता

(व्या)

1. शून्यैरिति

[page 86]




[NZ]

1विचित्रैरङ्गहारैस्तु देवो 2लीलासमन्वितैः3 BhNZ_20_013ab
बबन्ध 4यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ BhNZ_20_013cd
संरम्भावेगबहुलैर्नानाचारी5समुत्थितैः । BhNZ_20_014ab
नियुद्धकरणैश्वित्रै6रुत्पन्नारभटी ततः ॥ BhNZ_20_014cd
यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम्7 BhNZ_20_015ab
[ABh]

अत एवाह विचित्रैरिति । स्वोत्प्रेक्षतेन हि वैचित्र्येण विना युद्धविशारदौ जय्यौ स्याताम्, द्वयोर्ह्येकागमानुसन्धानेन युध्यमानयोः सम्बुद्धिकयोः(1) कस्य जयः कस्य पराजयो वा भवेदिति, शिखापाशं पट्टबन्धम्, तुर्हेतौ शृङ्गारस्थानलक्ष्मीसम्भोगादिस्मरणात्, लीलया विलासेन अन्वयः शिखापाशमयेन आबध्योदासीनो वर्तत इति । चारीभिः प्रायेण निश्शङ्कं प्रवर्तमानौ दैत्यौ सुखं निपात्येते मय्येव परिश्रमापनयनं सम्पद्यत इति । देव इति लोकवदनाविष्टः । यां यामिति वीप्सया सर्वैव क्रिया वृत्तिचतुष्टयाप्तेत्याह । न हि(2) वाङ्मनश्चेष्टातोऽतिरिक्तकर्मास्ति(3) । न च क्रियाशून्यः कश्चिदप्यंशोऽस्ति । मूर्च्छामोहमरणादावपि सूक्ष्मप्राणपरिस्पन्दाद्यनुमेयसञ्चितपरिस्पन्दमम्भावना । मृतस्तु ताम्रपाषाणप्रख्यो न तस्य वृत्तिकथनेन किंचित्स्वपरम्, अन्यस्य शोकादिविभावनां प्रतिपाद्यमानः काव्याङ्गतामेति स च तदानीं करुणादिरसाक्रान्तः काव्ये व्यावर्णनीयो भवति । रसभावपर्यवसितो हि सर्वः कार्य(4)संदर्भः । रसभावाश्च चेतनेष्वेव, तेषु च न(5) व्यापारत्रयशून्यः(6) कश्चिदपि (7)काव्यांशोऽस्ति ।

(मू)

1. ट॰ विविधैः

2. म॰ हेलासमुत्थितैः

3. भ॰ समुद्भवैः

4. प॰ यः

5. भ॰ नानाधार

6. न॰ अङ्गैः, भ॰ स्पष्टैर्निर्मिता

7. न॰ वृत्तिसमुद्भवाम्, भ॰ बुद्धिसमुत्थिताम्

(व्या)

1. संबन्धिकयोः

2. तर्हि

3. चेष्टातोमुक्तकर्षास्ति

4. काव्य

5. तेषु वचन

6. कस्मिन्श्चित्

7. कामांशो, काaलांशो

[page 87]




[NZ]

तां तदर्थानुगै1र्जप्यैर्द्रुहिणः प्रत्यपूजयत् ॥ BhNZ_20_015cd
यदा हतौ तावसुरौ हरिणा मधुकैटभौ । BhNZ_20_016ab
2ततोऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् ॥ BhNZ_20_016cd
अहो3 विचित्रैर्विषमैः स्फुटैः सलिलतैरपि । BhNZ_20_017ab
अङ्गहारैः कृतं देव 4त्वया दानवनाशनम् ॥ BhNZ_20_017cd
तस्मादयं5 हि लोकस्य नियुद्धसमयक्रमः6 BhNZ_20_018ab
सर्वशस्त्रविमोक्षेषु7 न्यायसंज्ञो भविष्यति ॥ BhNZ_20_018cd
[ABh]

तेन पञ्च वृत्तयो द्वे वृत्ती इत्यादयोऽसंविदितभरताभिप्रायपण्डितसहृदयम्मन्यपरिकल्पितसद्भावाः प्रवादा निरस्ता भवन्ति । एतच्च पूर्वमेवास्माभिः प्रदर्शितम् ।
जप्यैरिति भक्त्यावेशमात्रवृत्तिं च दर्शयन् कवेर्मुख्यं रसाधिष्ठत्वमेव रूपं विस्तारणात्मकवर्णनाप्राधान्यं चेति दर्शयति । (विषमैः)(1) शस्त्रागममार्गात्मनागम्यप्रकारैः (अद्भु)तैरपि, तथा स्फुटैरपि सर्वलक्षणप्रसिद्धैरपि चित्रैः स्वार्थोत्प्रेक्षितवैचित्र्यवद्भिः, सललितैरिति लोचनगोचरवर्तित्वेनातिभ्रम्यैरित्यर्थः । अय(2)मिति भवदुपज्ञातवैचित्र्यबृंहित इत्यर्थः । नियुद्धसमयक्रम इति समयग्रहणेन वैचित्र्ययोगेऽपि शस्त्रागमापरित्यागमाह । क्रमः परिक्रमणं क्रमो वा शत्रुविक्रमणयोगे गतागतस्य निभृतं शस्त्रादिशून्यं युद्धं नियुद्धं मल्लयुद्धं, तद्गतमपि यदेतद्रूपं तदुत्प्रेक्ष्यवैचित्र्ययोगात्सर्वेषु शस्त्रास्त्रयुद्धेष्वप्युपयोगि भविष्यति । विमोक्षग्रहणात् क्षेप्तव्यकुन्तचक्रादिविषयत्वमेव केचिदाहुः ।

(मू)

1. ड॰ वाक्यैः

2. ड॰ उक्तवांस्तु तदा ब्रह्मा

3. ड॰ चित्रैः सललितैः स्फुटैः सुविशदैः, न॰ विचित्रैर्ललितैः, भ॰ अङ्गैः विचित्रललितैः

4. भ॰ दानवानां विनाशनम्

5. ड॰ सर्वलोके

6. भ॰ समयः शुभः

7. भ॰ विमोक्षश्च

(व्या)

1. संविदसौस्रागम

2. अहं

[page 88]




[NZ]

1न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः । BhNZ_20_019ab
यस्माद्युद्धानि वर्तन्ते2 तस्मान्न्यायाः प्रकीर्तिताः3 BhNZ_20_019cd
4[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः । BhNZ_20_020ab
न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना ॥ ] BhNZ_20_020cd
5[ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना । BhNZ_20_021ab
पुनरिष्वस्त्रजाते च नानाचारीसमाकुले6 BhNZ_20_021cd
पुनर्नाट्यप्रयोगेषु7 नानाभावसमन्विताः8 BhNZ_20_022ab
वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः9 ॥ ] BhNZ_20_022cd
[ABh]

तच्चासत्, क्षिपेः पातमात्रपर्यवसायिनः खड्गादियुद्देष्वप्यप्रतिहतार्थयुक्तत्वात् । न्यायशब्दनिर्वचनमाङ्गिकाभिनयनिरूपणायां कृतं स्मारयति न्यायाश्रितैरिति एतच्च तत्रैव व्याख्यातम् ।(*)
एवं वृत्तीनामुत्पत्तिर्व्याख्याता । आसामेव नाट्यं प्रत्यवतारणं कर्तुमाह चरितैर्यस्येति भगवद्विश्वचरितैर्गर्भाधेयभूतैः उपलक्षितं यत् पूर्वं ब्रह्मणा

(मू)

1. भ॰ न्यायकृतैः, न॰ न्यायात् समुत्थितैश्चित्रैरङ्गहारैर्विभूषितम्

2. च॰ अवर्तन्त, ट॰ युद्धकृतं त्वेभिः, ढ॰ युद्धं कृतं ताभ्यां, न॰ युद्धं कृतं ह्येतत्

3. ड॰ न्यायः प्रकीर्तितः

4. भ॰ संज्ञितादर्श एव वर्ततेऽयं श्लोकः

5. च॰ भ॰ म॰ येषु श्लोकद्वयं न विद्यते, न॰ ततो देवेषु

6. ज॰ समाश्रयं

7. प॰ प्रयोगे च

8. प॰ समाश्रया, ड॰ रसाश्रया

9. ड॰ संज्ञा ...... कृता ह्येषा ......समाश्रया

(व्या)

* अध्या 10-75 तत्तत्क्रियोचितानामङ्गानां युगपदेव प्रचारो नृत्तमातृका भवति । द्वे तिस्रश्चतस्रो वा मातृका अत्रुटितत्वेनैकक्रियावत्कृताः करणं भवेयुः, करणानामत्रुटितप्रयोगोऽङ्गहारः । तथैव युद्धादिष्वपि नृत्तमातृकास्थाने स्थानकादिक्रियाविशेषो न्यायसंज्ञः स्यात् । न्यायशबेनाङ्गोचितक्रियया परमञ्जनात्मरक्षणाख्यविधिना च अभिद्रवतोर्योधयोः मिथःक्रियाविशेषो न्याय इति संज्ञितः ।

[page 89]




[NZ]

1चरितैर्यस्य देवस्य जप्यं2 यद्यादृशं कृतम् । BhNZ_20_023ab
ऋषिभिस्तादृशी वृत्तिः कृता पाठ्यादिसंयुता3 BhNZ_20_023cd
नाट्यवेदसमुत्पन्ना वागङ्गाभिनयात्मिका । BhNZ_20_024ab
मया काव्यक्रियाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ BhNZ_20_024cd
4ऋग्वेदाद्भारती क्षिप्ता5 यजुर्वेदाच्च6 सात्त्वती । BhNZ_20_025ab
7कैशिकी सामवेदाच्च शेषा चाथर्वणादपि8 BhNZ_20_025cd
[ABh]

जप्यं स्तोत्रकाव्यरूपं कृतं, तादृशं भावादिचेष्टाप्रधानं, तादृश्येव वृत्तिः । ऋषिभिः ब्रह्मपुत्रैः पाठ्यादिभिः सम्यग्युक्ता(1) कृता अनुसृता । तद्यथा पाठ्यप्रधाना भारती, अभिनयप्रधाना सात्त्वती, अनुभावाद्यावेश[स]मयरसप्रधानारभटी, गीतावाद्योपरञ्जकप्रधाना कैशिकीति । अत एव वक्ष्यति ऋग्वेदाद्भारतीत्यादि नाट्यवेदोत्पत्तौ प्रथमाध्याये वाख्याता या सा । द्रुहिणाज्ञा कैशिकीमपि योजय(1-42) इत्यादिका या तया । काव्यस्य क्रिया काव्यरूपतापादनं, तदेव हेतुः, ततः । प्रकर्षेण क्षिप्ता येनाभिनेयानभिनेयकाव्यवैलक्षण्यमित्यर्थः ।
ननु भगवता वासुदेवेनाप्यंशावताररूपत्वात्संभाव्य(*) ...... ...... व्ययोदयमूर्तिना कुत इमा वृत्तय आनीता इत्याशङ्क्याह ऋग्वेदादित्यादि । छन्दोमयश्च परमेश्वरो नान्यत(2) इति भावः ।

(मू)

1. न॰ वल्गितैस्तस्य

2. ड॰ द्रव्यं, भ॰दिव्यम्

3. च॰ पाठ्याभिसंयुता, प॰ पाठ्याङ्गसम्भवा

4. प॰ ऋग्वेदे ...... यजुर्वेदे च ...... सामवेदे च ...... अर्थर्वण्यारभट्यपि ।

5. च॰ वृत्तिः

6. च॰ तु

7. ढ॰ अथर्वणस्त्वारभटी सामवेदाश्च कैशिकी

8. म॰ अथर्वादारभट्यपि, च॰ तथा

(व्या)

1. संयुक्ता

2. नाट्यतः

* `रूपत्वसंभाविताः काव्यक्रियोदये मुनिना' इति स्यात्

[page 90]




[NZ]

या वाक्प्रधाना 1पुरुषप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता । BhNZ_20_026ab
स्वनामधेयैर् भरतैः प्रयुक्ता सा भारती नाम भवेत् तु वृत्तिः2 BhNZ_20_026cd
भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः । BhNZ_20_027ab
[ABh]

अथासां परस्परसङ्कीर्णतया लक्ष्ये (बहुरूपतां) वहन्तीनां यत्र यत्प्राधान्येनान्यतमरूपावभासनं तत्प्रदर्शयितुमुत्तरो ग्रन्थः । (वाङ्मनःकायचेष्टांशेषु) न ह्येकोऽपि कश्चिच्चेष्टांशोऽस्ति । कायचेष्टा अपि हि मानसीभिः सूक्ष्माभिश्च वाचिकीभिश्चेष्टाभिर्व्याप्यन्त एव । ``न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते''(वाक्यपदीये 1-124) इति न्यायात्, मानस्यपि वाचिक्यपि(1) चेष्टा अवश्यं सूक्ष्मं काल(य?)परिस्पन्दमन्दप्राणव्यापाररूपं नाभि(ति?) वर्तते । तदुक्तम् --
अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः(2) ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ॥(सङ्ग्रहः(*))
(3)न च रसोपयोगिलालित्यभागशून्यः कोऽपि नाट्ये परिस्पन्द इत्यन्योन्यं संवलिता वृत्तयः केवलं क्वचित्किंचिदधिकमिति प्राधान्येन व्यपदेशः परिवर्तते ।
तत्र भारत्याः प्राधान्यं दर्शयति या वाक्प्रधानेति । स्त्रीवर्हितेति कैशिकीप्राधान्यावकाशं गमयति । भरतैरिति नटैः स्वतो वंशकरं नामधेयं येषां(तैः), भरतसंतानत्वात्तद्धिते भरताः । भेदा इति (4)अस्यामित्यर्थोऽत्र न तु प्रकाराः, त्रैलोक्यव्यापिन्या हि भारत्याः कश्चिदंशः प्ररोचनारूपः, ऐवमामुखस्वभाव इत्यादि । अत एवाह अङ्गत्वमिति अंशत्वं प्राप्ता इत्यर्थः,

(मू)

1. भ॰ नृवर

2. ट॰ तां भारतीं वृत्तिमुदाहरन्ति ।

(व्या)

1. वाचिक्येवापि च, वाचिक्येनापि

2. वेगिनम् ।

3. नव

4. आसां

* अयं श्लोको भगवता भर्तृहरिणा वाक्यपदीये स्ववृत्तौ(1-127) उदाहृतः, व्याडिसंग्रहात् स्यात् ।

[page 91]




[NZ]

प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ BhNZ_20_027cd
जयाभ्युदयिनी चैव मङ्गल्या विजयावहा । BhNZ_20_028ab
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ BhNZ_20_028cd
1[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । BhNZ_20_029ab
सिद्धेनामन्त्राणा या तु विज्ञेया सा प्ररोचना ॥ ] BhNZ_20_029cd
नटी विदूषको वापि पारिपार्श्वक एव वा3 BhNZ_20_030ab
सूत्रधारेण सहिताः संलापं 4यत्तु कुर्वते ॥ BhNZ_20_030cd
चित्रैर्वाक्यैः स्वकार्योत्थै5र्वीथ्यङ्गैरन्यथापि वा6 BhNZ_20_031ab
[ABh]

अन्यथा यदि रूपस्याङ्गत्वं प्राप्ता इत्युच्यते तदा वीथी प्रहसनं च रूपकभेदः, न तु रूपकस्याङ्गम् । तथा नाट्यस्याङ्गत्वं प्राप्तं(प्राप्ता?) नाट्यमिति समुदायः । यदि वा ऐकैकमपि काव्यं दशरूपमित्युक्तं प्राक् । पूर्वरङ्ग इति तद्विषये, प्ररोचना पूर्वमुक्ता तत्र च कृते या प्ररोचना सा भारत्यंश इत्यर्थः ।
नटीत्यादिना आमुखं लक्षयति । वाशब्देन व्यस्तानां नटीप्रभृतीनां सूत्रधारेण सङ्घातमाह । अपिशब्देनात्मना समस्तानां, द्वितीयो वा शब्दः समस्तव्यस्ततां विकल्पयति । एवशब्दः सूत्रधारस्यावश्यंभावं दर्शयति । चित्रैरिति भाविरूपकार्थानुकूलविषयानुसारिभिः, स्वं कार्यं नटव्यापारं, वीथ्यङ्गैरिति श्लिष्टवक्रोक्तिप्रत्युक्तिप्रायैरित्यर्थः, यथा ``पीताम्बरगुरुशक्त्या(1) हरत्युषां प्रसभमनिरुद्धः''(*) इत्यादि । अन्यथेति स्पष्टोक्तिप्रत्युक्तिभिः,

(मू)

1. अयं ढ॰ मातृकायामेव वर्तते

2. ढ॰ चापि

3. ढ॰ च

4. ढ॰ यत्र

5. न॰ काव्योत्थैः, ढ॰ वाक्यैश्च कार्योत्थैः

6. न॰ च

(व्या)

1. शर्मा

* प्रतिमानिरुद्धे

[page 92]




[NZ]

आमुखं तत्तु विज्ञेयं बुधैः1 प्रस्तावनापि वा ॥ BhNZ_20_031cd
2[लक्षणं पूर्वम् उक्तं तु वीथ्याः प्रहसनस्य च । BhNZ_20_032ab
आमुखाङ्गन्यतो वक्ष्ये यथावद् अनुपूर्वशः ॥ ] BhNZ_20_032cd
उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा । BhNZ_20_033ab
प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु3 BhNZ_20_033cd
[ABh]

यथा नागानन्दे ``नाटयितव्ये किमित्यकारणमेव रुद्यते'' इत्यादि । आमुखमिति मुखसन्धेर्निवर्तते यतः, आङ्मर्यादायाम्, यदि वात्रामुखं प्रारम्भमीषन्मुखं वा प्रस्ताव्यतेऽनयेति(प्रस्तावना) बाहुलकेन तच्छीलसंज्ञयोरिति ...... निकारो न भवति । तत्र कदाचित्कार्याभिमुखं नीयते पूर्वरङ्गविधिः, तदभिमुखं वा कार्यारम्भः तन्नीयते, सा द्विधेति(5-180) पूर्वरङ्गाध्याये दर्शितमस्माभिः । एवं च यदा स्थापकोऽपि सूत्रधारतुल्यगुणाकारो रामादिवदेव प्रयुज्यते तदेवं कविकृतमामुखं भवति ।
अन्ये त्वाहुः -- पूर्वरङ्गाध्यायेऽपि या प्रस्तावनोक्ता सापि भारतीभेद एवेति, किं द्वैविध्याभिधानप्रयासेन । यत्तु ``क्रुद्धो भीम इत एवाभिवर्तते तन्न युक्तमस्य पुरतोऽवस्थातुं'' इत्यादि, तत्तदीयसत्त्वावेशादेवास्त्य प्रकाशनाय सामाजिकानां साक्षात्कारकल्पाध्यवसायसम्पत्त्यर्थं सूत्रधारेणोच्यते, शिशुसन्त्रासाय कयाचिदाकृत्या कश्चिदत्रस्यन्नपि त्राससंरम्भगर्भमाह ``अयमागतो राक्षसः'' इति, यथोक्तं भावाध्याये(7) ``सत्त्वशुद्धा मूर्तव्याः''(*) इति, एतच्च तत्रैव निर्णीतम् । तस्यामुखस्य पञ्चाङ्गानि भेदा इत्यर्थः ।

(मू)

1. न॰ तज्ज्ञैः

2. भ॰ मातृकायामयं न वर्तते, श्लोकार्धमेव ट॰ न॰ ड॰ मातृकासु न विद्यते

3. च॰ आमुखाङ्गानि पञ्च वै

(व्या)

* सप्तमे ऽध्याये 147 वचनविशुद्धाः कार्या यथास्वरूपा भवन्ति'' इति भागस्य व्याख्यानावसरे

[page 93]




[NZ]

उद्घात्यकावलगितलक्षणं कथितं मया1 BhNZ_20_034ab
शेषाणां लक्षणं विप्रा2 व्याख्यास्याम्यनुपूर्वशः ॥ BhNZ_20_034cd
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्ह्तमेव वा । BhNZ_20_035ab
गृहीत्वा प्रविशेत्पात्रं3 कथोद्घातः स कीर्तितः4 BhNZ_20_035cd
[ABh]

ननु एवं सति पञ्चानां युगपत्प्रयोगे प्रस्तावना प्रयुक्ता स्यात्, न चैतन्मुनेरभिमतम् । तथा हि वक्ष्यति --
एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः ।
पात्रग्रन्थैरसम्बाधं प्रकुर्यादामुखं ततः ॥ (20-37)
इत्युद्देशे । यद्यपि पश्चादवलगितमुक्तं तथा तयोस्तुल्यं लक्षणस्य पूर्वोक्तत्वमित्याशयेनाह उद्घात्यकावलगितयोर्लक्षणं कथितमिति वीथ्यङ्गव्याख्याने, यद्यपि च प्रस्तावनायामन्यान्यपि वीथ्यङ्गानि भवन्ति, आमुखसामान्यलक्षणेऽप्युक्तं वीथ्यङ्गैरिति, तथाप्युद्घात्यकमवलगितं च भाविकाव्यार्थप्रस्तावनेति वालरङ्गं(प्रस्तावने प्रवलमङ्गं ? ), तथा तयोर्लक्षणम् --
पदानि त्वगतार्थानि ये नराः पुनरादरात् ।
योजयन्ति पदैरन्यैस्तदुद्घात्यकमुच्यते ॥
यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ।
तच्चावलगितं ॥ इति (18-116) ।
वाक्यमिति, यथा -- (रत्नावल्यां) ``द्वीपादन्यस्मात्'' इति । वाक्यार्थं यथा प्रतिमानिरुद्धे -- ``पीताम्बरगुरुशक्त्या(1) हरत्युषां'' इति । केवलमत्र वीथ्यङ्गनिबद्धम् । कथा काव्यार्थरूपा, ऊर्ध्वमेव हन्यते गम्यते तत्रेति कथोद्घातः ।

(मू)

1. भ॰ लगिते वीथ्यां संपरिभाषिते (म॰ कीर्तिते), ढ॰ लगिते वीथ्यां चैव प्रकीर्तिते

2. न॰ अहं

3. भ॰ यत्र

4. भ॰ प्रकीर्तितः

(व्या)

1. शर्मा

[page 94]




[NZ]

प्रयोगे तु प्रयोगं तु1 सूत्रधारः प्रयोजयेत्2 BhNZ_20_036ab
ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ BhNZ_20_036cd
3कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते4 BhNZ_20_037ab
तदाश्रयाच्च5 पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ॥ BhNZ_20_037cd
6एषामन्यतमं श्लिष्टं7 योजयित्वार्थयुक्तिभिः8 BhNZ_20_038ab
9[तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते ॥ ] BhNZ_20_038cd
[ABh]

प्रयोग इति प्रस्तावनात्मके, प्रयोगमिति नाट्यात्मकं भावितम् । एकस्तुशब्दो भेदान्तरेभ्यो व्यतिरेकमाह, द्वितीयोऽवधारणे । सूत्रधार एव यत्र प्रयोगे प्रयोगं समुद्रककवाटयुगलवद्योजयति स प्रयोगद्वयश्लेषणात्प्रयोगातिशयः । यथा विक्रमोर्वश्याम् -- अतह कुररीणामिवाकाशे शब्दः श्रूयते । आः ज्ञातम् --
ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री कैलासनाथमुपनृत्य निवर्तमाना ।
वन्दीकृता विबुधैरिभिरर्धमार्गे क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ॥ इति ।
यदा कालप्रवृत्तिं कांचिदवलम्ब्य यथा सूत्रधारेण किञ्चिद्वस्तु वर्ण्यते तदा[प्र]श्रयेण च पात्रस्य प्रवेशः तत्कालप्रवृत्त्या स्वार्थोक्तत्वात् प्रवृत्तकम्, यथा ``अस्यां शरदि --

(मू)

1. न॰ यत्, भ॰ वा

2. प॰ सूत्रभृद्यत्र योजयेत्

3. न॰ कालं प्रवृत्तं, भ॰ प्रवृत्तकालं, ट॰ प्रवृत्तं कार्यं

4. ढ॰ यत्र चैवोपवर्णयेत्, न॰ सूत्रभृद्यत्र वर्णयेत्

5. ढ॰ तदाश्रयस्य, म॰ तदाश्रयश्च

6. भ॰ कालमेषामन्यतमं

7. न॰ द्वेधा, य॰ वेधाः

8. न॰ युक्तितः

9. इदं श्लोकार्धं, ढ॰ मातृकायामेव

(व्या)

1. यथा

[page 95]




[NZ]

1पात्रग्रन्थैरसंबाधं प्रकुर्यादामुखं ततः2 BhNZ_20_039ab
एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ॥ BhNZ_20_039cd
3लक्षणं पूर्वमुक्तं तु वीथ्याः4 प्रहसनस्य च ॥ BhNZ_20_040ab
5[इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता6 BhNZ_20_040cd
7सात्त्वत्यास् तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ॥ 40॥ ] BhNZ_20_040ef
8या 9सात्त्वतेनेह गुणेन युक्ता 10न्यायेन वृत्तेन समन्विता च11 BhNZ_20_041ab
12हर्षोत्कटा 13संहृतशोकभावा सा सात्त्वती नाम भवेत्तु14 वृत्तिः ॥ BhNZ_20_041cd
[ABh]

प्रत्यक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।'' (वेणी 1)
इत्यादि पात्रग्रन्थैरसम्बाधमिति यत्र न भूयांसि पात्राणि अल्पपात्रेऽपि ग्रन्थबहुलत्वं तथारूपमामुखं कुर्यात् । विविधाश्रयमिति बहुभेदमित्यर्थः । पूर्वमुक्तमिति दशरूपकाध्याये ।
यद्यपि अभेदव्यतिरेकेणापि भारती(तो?)(न्यायो) न दृश्यते तथापि न्यायेनेति तत्प्रकारचतुष्कं निरूपितम्(10-72) । सात्त्वतो गुणः मानसो व्यापारः । सत्सत्त्वं प्रकाशः तद्विद्यते यत्र तत्सत्त्वं मनः, तस्मिन् भवः ।

(मू)

1. न॰ अल्पग्रन्थैः

2. च॰ बुधः

3. इदं श्लोकार्धं केषुचिदादर्शेषु पूर्वमेव पठितम्

4. भ॰मातृकायां वीथ्यङ्गान्यत्रैव पठितानि न तु वीथीलक्षणावसरे

5. अयं श्लोको ज॰आदि म॰अन्तेषु दृश्यते

6. भ॰ प्रोक्ता

7. भ॰ सात्त्वस्या अपि लक्षणमतः परं संप्रवक्ष्यामि

8. च॰ मातृकायामयमपि न विद्यते

9. भ॰ सात्त्विकेन

10. न॰ त्यागेन शौर्येण, भ॰ त्यागेन वृत्तेन च सन्धिता या

11. न॰ या

12. भ॰ हर्षोत्तरा

13. ढ॰ संभृत

14. प॰ सत्त्ववतीह

(व्या)

[page 96]




[NZ]

वागङ्गाभिनयवती सत्त्वोत्थान1वचनप्रकरणेषु । BhNZ_20_042ab
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः2 BhNZ_20_042cd
वीराद्भुतरौद्ररसा3 निरस्तशृङ्गारकरुणनिर्वेदा4 BhNZ_20_043ab
उद्धतपुरुषप्राया परस्पराधर्षणकृता च ॥ BhNZ_20_043cd
5उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः । BhNZ_20_044ab
[ABh]

सत्त्वोत्थानस्य सत्त्वाधारस्य, वचनं येषु प्रकारेषु काव्यखण्डेषु, तेषु वागङ्गाभिनययुक्ता सती, सत्त्वस्य सात्त्विकाभिनयस्याधिकारे आधिक्यक्रियया सात्त्वतीवृत्तिर्युक्ता भवतीति सम्बन्धः ।
शृङ्गारे विषयनिमग्नं मनः, करुणे कान्दिशीकं, निeवेदे मूढमिति तद्व्यापारो भवन्नपि क्रोधविस्मयोत्साहेष्विव न सातिशायं परिस्फुरतीति दर्शयति वीराद्भुतरौद्ररसेति । आधर्षणं वाचा न्यक्कारः । उत्थापयति यो मानसः परिस्पन्दः स तावदुत्थापकः तत्सूचको (1)व्यापारक्रम उपचारः, तथोक्तः । तथा वेणीसंहारे भीमः -- भो भोः शृण्वन्तु भवन्तः --
स्पृष्टा येन शिरोरुहेषु पशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां कुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ इति ।
परिवर्तको यथा तत्रैव भीमः -- सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामि ।
सहदेवः -- आर्य, नेदमायुधागारम्, पाञ्चाल्याश्चतुश्शालमिदम् ।
भीमः -- किं नामेदं (इत्यादि यावत्) अथवा मन्त्रयितव्यैव मया पाञ्चाली । इति

(मू)

1. भ॰ विविधवाक्यकरणेषु, च॰ वचनसु

2. न॰ नाम

3. ज॰ प्रायरसा

4. भ॰ विज्ञेया

5. भ॰ उत्थापनं च

(व्या)

1. व्याप्यक्रमः

[page 97]




[NZ]

चात्वारोऽस्या भेदा विज्ञेया नाट्यतत्त्वज्ञैः ॥ BhNZ_20_044cd
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् । BhNZ_20_045ab
इति 1संघर्षसमुत्थास्तज्ज्ञैरुत्थापको ज्ञेयः ॥ BhNZ_20_045cd
उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात्2 BhNZ_20_046ab
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ BhNZ_20_046cd
[3निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः । BhNZ_20_047ab
4संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः ॥ ] BhNZ_20_047cd
5साधर्षजो निराधर्षजोऽपि वा 6रागवचनसंयुक्तः । BhNZ_20_048ab
7साधिक्षेपालापो ज्ञेयः सल्लापकः सो ऽपि ॥ BhNZ_20_048cd
[ABh]

अस्त्रागारप्रवेशपरित्यागेन पाञ्चालीदर्शनात्मककार्यान्तरसम्पादको मानसो व्यापारः परिवर्तयति कार्यमिति, परिवर्तकवचनं तूपचारारूढम्(1) । एवमुत्तरत्रापि ।
सह(आ)धर्षणेन यद्वाक्यं(साधर्षं)तद्विहितं निराधर्षं, तेन खलीकारकाद्वचनादन्यतोऽपि वा सत्, अनन्तरमधिक्षेपं वचनमभिभावकं(2) मानसं कर्म तत्सल्लापकशशब्दवाच्यम् । यथा --
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा । (वेणी 3-11)
इत्यत्र सत्यवाचेति ।

(मू)

1. च॰ संघर्षसमाश्रयमुत्थितं, भ॰ संहरणसमुत्थं तज्ज्ञैरुत्थापनं ज्ञेयम्

2. भ॰ संयोगात्

3. अयं श्लोको य॰ म॰ ढ॰ आदिष्वेव वर्तते

4. ढ॰ संहर्ष

5. ढ॰ सामर्षजो निरमर्षजोऽपि वा विविधवचन

6. च॰ विविध

7. ढ॰ साविच्छेदालापः

(व्या)

1. रूढः

2. आविर्भाविकं

[page 98]




[NZ]

[1धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुत्कम् । BhNZ_20_049ab
साधिक्षेपं च वचो2 ज्ञेयः संलापको नाम ॥ ] BhNZ_20_049cd
3मन्त्रार्थ4वाक्यशक्त्या दैववशादात्मदोषयोगाद्वा5 BhNZ_20_050ab
संघातभेदजननस्तज्ञैः संघात्यको6 ज्ञेयः ॥ BhNZ_20_050cd
[7बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् । BhNZ_20_051ab
कूटानां संघातो 8विज्ञेयः कूटसंघात्यः9 ॥ ] BhNZ_20_051cd
इत्यष्टार्धविकल्पा वृत्तिरियं सात्वती मयाभिहिता । BhNZ_20_052ab
कैशिक्यास्त्वथ लक्षणमतः परं संप्रवक्ष्यामि ॥ BhNZ_20_052cd
[ABh]

(सङ्घातभेदजनन इति) सङ्घातस्य भेदं जनयति यो युधि स सङ्घात्यकः, सम्यक्घात्यः शत्रुवर्गो येन, सङ्घातकविषयाद्वा सङ्घात्यकः, सङ्घातभेदश्च परेण सामाद्युपायवलेन वा क्रियते । यथा भीमो युधिष्ठिरेण साम्ना भेदितः, अतः शिखण्डिनं पुरस्कृत्य योद्धव्यश्च । दैवात्संपद्यते, यथा द्रोणेनोक्तं सूते हते शस्त्रं त्यक्ष्यामीति । आत्मदोषे वा स्वकटक(1)लक्षणेन, यथा कर्णेन सह कलहायमानोऽश्वत्थामा शस्त्रत्यागं करोतीति । अत्र च सत्त्वाधिक्यमपराध्यति ``कथं नामाहमेवंभूत '' इति (वेण्यां तृतीये ऽङ्केऽन्ते) ।
अथेत्यनन्तरम् । अतःपरमित्येतेभ्यो लक्षणेभ्यः पृथग्भूतमित्यर्थः । श्लक्ष्णः सुकुमारः श्लिष्यति हृदय इति कृत्वा । नैपथ्यविशेषो वस्त्रमाल्यादिः

(मू)

1. अयं च॰ नादिषु न विद्यते

2. ढ॰ वचच्नं

3. भ॰ यत्र

4. ढ॰ कार्यं

5. ढ॰ योगदोषाद्वा

6. न॰ संघातकः

7. अयं श्लोकः च॰आदिमातृकासु न दृश्यते

8. ढ॰ ज्ञेयः स तु

9. ढ॰ संघातः

10. च॰ इह

(व्या)

1. `कपट' स्यात्

[page 99]




[NZ]

या श्लक्ष्णनैपथ्यविशेषचित्रा1 स्त्रीसंयुता या2 बहुनृत्तगीता । BhNZ_20_053ab
कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिम् उदाहरन्ति3 BhNZ_20_053cd
[4बहुवाद्य5नृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या । BhNZ_20_054ab
माल्यालङ्कारयुता प्रशस्तवेषा च कान्ता च ॥ BhNZ_20_054cd
चित्र6पदवाक्यबन्धैरलङ्कृता हसितरुदितरोषाद्यैः7 BhNZ_20_055ab
स्त्रीपुरुषकामयुक्ता8 विज्ञेया कैशिकीवृत्तिः ॥ ] BhNZ_20_055cd
9नर्म च नर्मस्फुञ्जो10 नर्मस्फोटोऽथ नर्मगर्भश् च । BhNZ_20_056ab
कैशिक्याश्चत्वारो भेदा हय् एते 11समाख्याताः ॥ BhNZ_20_056cd
12आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् । BhNZ_20_057ab
[ABh]

तेन चित्रा, बहु विपुलं गीतं नृत्तं च यस्याम्, कामोपभोगो रतिः ततःप्रभवो यः स शृङ्गारस्तद्बहुल उपचारो व्यवहारो यस्यां, सा तथोक्ता । (कैशिक्याश्चत्वार्यङ्गानि नर्माख्यं नर्मोपपदानि च तत्र नर्मणः शृङ्गारस्थापकत्वं) हासप्रधानता च

(मू)

1. ढ॰ विचित्रवेषा

2. ट॰ स्त्रीपुंसयुक्ता

3. भ॰ नाम वदन्ति वृत्तिम्

4. श्लोकद्वयं च॰ ट॰ ड॰ ढ॰ आदिषु न दृश्यते

5. ट॰ काव्य

6. न॰ पट

7. भ॰ रोषयुता, ज॰ घोषाद्यैः

8. ज॰ कालयुक्ता

9. न॰ नर्मो

10. न॰ स्फुटजो, ढ॰ स्फञ्जो, भ॰ स्पन्दो

11. भ॰ मया

12. ढ॰ स्थापितशृङ्गाररसं

(व्या)

[page 100]




[NZ]

हास्य1प्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ BhNZ_20_057cd
ईर्षाक्रोधप्रायं सोपालम्भकरणानुविद्धं च2 BhNZ_20_058ab
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ BhNZ_20_058cd
नवसङ्गमसम्भोगो रति3समुदयवेषवाक्यसंयुक्तः । BhNZ_20_059ab
ज्ञेयो नर्मस्फुञ्जो4 ह्यवसानभयात्मकश्चैव5 BhNZ_20_059cd
[ABh]

नता च तदेति सामान्यलक्षणम् । तत्र हास ईर्ष्या वा सूचयितुं परं वोपालब्धुं परहृदयं वाक्षेप्तुमिति त्रिधा (आत्मेति) आत्मनः परकीयस्य चित्तस्योपक्षेप आत्मसमीपकरणम् । उदाहरणम् -- वासवदत्ता (फलकमुद्दिश्य सहासं) (*)एसा वि अवरा तस्स समीवे जाआ लिहिदा । एर्दं वि अय्यवसन्तअस्स विण्णाणम् ।
द्वितीयस्योदाहरणं -- ``शीतांशुर्मुख''मित्यादि श्रुतवती वासवदत्ता यदा राज्ञोच्यते, ``प्रिये वासवदत्ते'' इति तद्वचसोपालम्भं सा सहासमाह -- ``अय्यउत्त मा एव्वं भण'' इत्यादि ।
तृतीयस्य सुसङ्गता(विहस्य)``जादिसो तुए कामदेवो आलिहिदो मए वि तारिसो रई आलिहिदा । ता असंभाविणी, कहेहि दाव वुत्तंत्तं ।''
एवं त्रिभेद नर्माख्यमाख्याय नर्मस्फुञ्ञं प्रकाशयितुमाह नवसङ्गमेति नवसङ्गममात्र एव सम्भोगो यत्र । कथं तस्य सङ्गमस्य सम्भोत्वमित्याह रतिसमुदयेति । रतेरन्योन्यास्थाबन्धरूपायाः समुदयः स्फुटत्वं, यस्तादृशेन वेषेण वाक्येन वा योगो यत्र । अवसाने च भयं पूर्वनायिकाकृतम् । यथा रत्नावल्यामुदयनस्य सागरिकायाश्च नर्मणः स्फुञ्जो विघ्न इत्यर्थः ।

(मू)

1. ढ॰ प्रपञ्च

2. भ॰ लम्भं च करुणविद्धं च, च॰ वचनाविरुद्धं च (वचनानुविद्धं च ?)

3. भ॰ समुदयवेश, ड॰ समुदयवाक्यवेष

4. न॰ स्फुटजो, भ॰ स्पन्दो, ढ॰ स्फक्षो

5. भ॰ भयानकश्चैव

(व्या)

* एषाप्यपरा तस्य समीपे जाया लिखिता । ततदप्यार्यवसन्तकस्य विज्ञानम्

[page 101]




[NZ]

विविधानां भावानां लवैर्लवैर्भूषितो बहुविशेषैः1 BhNZ_20_060ab
2असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ BhNZ_20_060cd
विज्ञाaनरूप3शोभाधनादिभिर्नायको गुणैर्यत्र । BhNZ_20_061ab
4प्रच्छन्नं व्यवहरते कार्यवशान्नर्मगर्भोऽसौ5 BhNZ_20_061cd
6[7पूर्वस्थितो विपद्येत नायको यत्र चापरस्तिष्ठेत्8 BhNZ_20_062ab
तमपीह नर्मगर्भं विद्यान् नाट्यप्रयोगेषु ॥ ] BhNZ_20_062cd
इत्यष्टार्धविकल्पा वृत्तिरियं कैशिकी मयाभिहिता9 BhNZ_20_063ab
अत ऊर्ध्वमुद्धतरसामारभटीं संप्रवक्ष्यामि ॥ BhNZ_20_063cd
[ABh]

विविधा भावाः भयहासहर्षत्रासरोषाद्याः लवैर्वैरित्यत एव भयादीनामंशेन भावात् स्थायित्वानुपगमात् भयानकहास्यरौद्रादिरसतापत्तिर्न सम्भवति । शृङ्गारस्तु पूर्व एव ``जस्स किदे तुमं एत्थ आअदा से एत्थ एव्व चिव्टादि'' इति सुसङ्गतोक्तौ(*) हासलवः, न हास्यो रसः ।
``सहि कस्सकिदे अहं एत्थ आअदा'' इत्यत्र सागरिकोक्तौ(रौद्र)लवो न तु रौद्रः । एवमन्यत्र । निर्मण इति तदुपलक्षितस्य शृग्गारस्य स्फोटो वैचित्र्यं चमत्कारोल्लासकृतस्फुटत्वं यत्रेति ।
शृङ्गारोपयोगिभिर्विज्ञानाद्यैः प्रच्छन्नं यत्र नायक आस्ते नवसमागमसिद्धये स नर्मगर्भः । नर्मोपयोगिनो विज्ञानाद्या गर्भीकृता इव प्रच्छन्नतया यत्रेति, यथा प्रच्छन्नरूपो नायकः सङ्केतस्थानं गच्छति ।

(मू)

न॰ विशेषः

2. व॰ समस्त

3. च॰ सम्भावनादिभिः, भ॰ ससम्भावितादिभिः

4. च॰ प्रच्छन्नैः

5. भ॰ गर्भः सः

6. अयं च॰मातृकायां न वर्तते

7. भ॰ पूर्वस्थितो ऽभिभूतो यत्र भवेन्नायको विषण्णः सः । तमपि ...... प्रयोगज्ञः ॥ ड॰ पूर्वस्थितो विपद्येत यत्र चान्यतमनायकस्तित्ष्ठेत् । तमपीह नर्मगर्भं वदन्ति नाट्यप्रयोगेऽस्मिन् ॥

8. ट॰ चापरे तिष्ठेत्

9. ट॰ प्रोक्ता

(व्या)

* रत्नावल्याम्

[page 102]




[NZ]

1आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता2 BhNZ_20_064ab
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया3 BhNZ_20_064cd
4[पुस्तावपात5प्लुतलङ्घितानि च्छेद्यानि मायाकृतमिन्द्रजालम् । BhNZ_20_065ab
चित्राणि युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥ BhNZ_20_065cd
6षाड्गुण्यसमारब्धा हठातिसन्धानविद्रवोपेता । BhNZ_20_066ab
लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी ॥ ] BhNZ_20_066cd
संक्षिप्तकावपातौ वस्तूत्थापनमथापि7 संफेटः । BhNZ_20_067ab
एते ह्यस्या भेदा लक्षणमेषाम् प्रवक्ष्यामि ॥ BhNZ_20_067cd
8अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः । BhNZ_20_068ab
[ABh]

(उद्धतेति) दीप्तरसा रौद्रादयः उद्धतः । (आरभटेति) आरभटानां ये गुणाः क्रोधावेगाद्यास्ते प्रायेण बाहुल्येन यत्र, बहुभिः कपटैः यद्वञ्चनं तेनोपेता । कपटत्रयं च समवकारलक्षणे(18-71)व्याख्यातम् । यत एवास्यां कपटयोगोऽत एव दम्भप्राधान्यमसत्यवचनसम्भवश्च । (संक्षिप्तकेति) संज्ञया क्षिप्तानि वस्तूनि विषयोऽस्येति संक्षिप्तकः । तानि वस्तूनि दर्शयति (अन्वरेथेति) । अर्थेन प्रयोजनेनानुगताः शिल्पयुक्ताः कुशलशिल्पिविरचिताः, अर्था यत्रेति । अत्रैव दिशं दर्शयति (बहुपुस्तेति) । बहु विपुलं, पुस्तस्योत्थानं प्रकटत्वं

(मू)

1. भ॰ आरभटी

2. भ॰ धर्षणापेता

3. भ॰ सा ज्ञेया

4. श्लोकद्वयं प्रक्षिप्तमिति न व्याख्यातम् । तयोः प्रथमः श्लोको भरतस्येति सुप्रसिद्धमुदाहृतः

5. भ॰ क्रम

6. ड॰ या षड्गुणसंरब्धा परतिसन्धान, ज॰ या षाड्गुण्यारब्धा पराति । अयं श्लोको भ॰मातृकायामपि न वर्तते

7. भ॰ अपीह

8. भ॰मातृकायां संक्षिप्तकेति स्त्रीलिङ्गशब्दप्रयोगात् ...... ``युक्ता, ...... नेपथ्या ...... विषया ...... ज्ञेया'' इति पाठः स्वीकृतः

(व्या)

[page 103]




[NZ]

संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको नाम ॥ BhNZ_20_068cd
भयहर्षसमुत्थाaनं 1विद्रवविनिपातसंभ्रमाचरणम् । BhNZ_20_069ab
क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ॥ BhNZ_20_069cd
2सर्वरससमासकृतं सविद्रवाविद्रवाश्रयं वापि । BhNZ_20_070ab
3नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ BhNZ_20_070cd
[ABh]

विचित्रं च नेपथ्यं खड्गचर्मवर्मादि यत्र पुस्तयोगे । यथा मायाशिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यम्, यथा (वा)श्वत्थाम्नः (वेण्याम्) ।
भयातिशयेन हर्षातिशयेन च क्षिप्रमेव प्रवेशनिर्गमौ यत्र पात्राणां, तथा, विद्रवो वाक्यादिकृतो विनिपातोऽवस्कन्दः ताभ्यां कृतं सम्भ्रमाचरणं आवेगप्रधाना चेष्टा यत्र, सोऽवपातः, अवपतन्त्यस्मिन् पात्राणीति । यथा कृत्यारावणे षष्ठेऽङ्के ``प्रविश्य खड्गहस्तः सप्रहारः पुरुष'' इत्यतः प्रभृति यावदसौ निष्क्रान्तः ।
(वतूत्थापनमिति) वस्तूनां बहूना(मर्थाना)मुत्थापनं प्रसङ्गागतनिबन्धनं यत्र कार्ये तत्तथोक्तम् । कानि वस्तूनीत्याह सर्वरसेति । रसशब्देन स्थायिनो व्यभिचारिणश्च तेषां संक्षेपेण कृतं करणं यत्र, विद्रवैरग्र्याद्युपप्लवैः सह, तैर्विहीनम्(च) । यथा, तत्रैव (कृत्यारावणे) अङ्गदादभिद्रूयमाणाया मन्दोदर्या भयं, अङ्गदस्योत्साहः, रावणं दृष्ट्वा तस्यैव हि ``एतेनापि सुरा जिता'' इत्यादि वदतो हासः, रावणस्यातिक्रोधः, ``यस्तातेन निगृह्य बालक इव प्रक्षिप्य कक्षान्तरे'' इति वदतोऽङ्गदस्य जुगुप्साहासविस्मयरसा, विध्वंसनं नाटयतीत्यत्र रावणस्य शोकः -- इत्येवं विद्रवाश्रयं वस्तूत्थापनम् । तद्विपरीतं तु तत्रैव(कृत्यारावणे) द्वितीयेऽङ्के ``नेपथ्ये कलकलः'' इत्यतः प्रभृति यावत्सीतां प्रति रावणस्योक्तिः -- ``आ लोकपालानाक्रन्दसि'' इत्यादि ।

(मू)

1. भ॰ विद्रुतविभ्रान्तविविधविषयं च, ड॰ विद्रुतसंभ्रान्तविविधवचनं च

2. य॰ वैकरसलेशयुक्तं सविद्रवं वाप्यविद्रवं वापि

3. य॰ पश्चात्, प॰ कार्यं

(व्या)

[page 104]




[NZ]

संरम्भसंयुक्तो1 बहुयुद्धनिय्युद्धकपटनिर्भेदः । BhNZ_20_071ab
शस्त्रप्रहारबहुलः 2सम्फेटो नाम विज्ञेयः ॥ BhNZ_20_071cd
एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रयाः3 BhNZ_20_072ab
रसप्रयोगमासां च 4कीर्त्यमानं निबोधत ॥ BhNZ_20_072cd
5हास्यशृङ्गारबहुला कैशिकी परिचक्षिता । BhNZ_20_073ab
6सात्त्वती चापि विज्ञेया वीराद्भुतशमाश्रया7 BhNZ_20_073cd
[ABh]

भाविनो वस्तुनः समुत्थापनादपीदं तथोक्तम् । तथा च तत्रैव(कृत्यारावणे द्वितीयेऽङ्के) ऋषीणामुक्तिः --
दुरात्मन्, नेयं सीता स्वनाशाय कृत्येयं ह्रियते त्वया । इति ।
सम्फेटस्योदाहरणं जटायुयुद्धादि सर्वम् (कृत्यारावणे)
अथासां वृत्तीनां संक्षिप्य स्वरूपमाह हास्यशृङ्गारबहुला कैशिकीति सात्त्वती चापि विज्ञेया वीराद्भुतशमाश्रया । इति । अत्र शमशब्दः शान्तरसपरिग्रह इति तद्वादिनो मन्यन्ते । समाश्रयेत्यन्ये पठन्ति

(मू)

1. ड॰ समायुक्तो

2. च॰ संस्फोटो

3. च॰ काव्यहेतवे, ट॰ नाट्यमातरः

4. च॰ गदतो मे

5. भ॰ हास्यशृङ्गारकरुणैर्वृत्तः स्यात्कैशिकी रसैः -- (*), न॰ शृङ्गारे चैव हास्ये च वृत्तिः स्यात् कैशिकी द्विजाः, ड॰ शृङ्गारं चैव हास्यं च वृत्तिः स्यात्कैशिकी श्रिता. ट॰ शृङ्गारे चाङ्गहास्ये च कैशिकी वृत्तिरिष्यते

6. न॰भ॰ सात्त्वती चैव विज्ञेया वीररौद्राद्भुताश्रया, ट॰ वीरे चाप्यद्भुते चैव वृत्तिः स्यात्सात्त्वती मता

7. ढ॰ समाश्रया ।

(व्या)

* भ॰ मातृकापाठः कोहलानुसारी । यथा -- वीराद्भुतप्रहसनैरिह भारती स्यात् सात्त्वत्यपीह गदिताद्भुतवीररौद्रैः । शृङ्गारहास्यकरुणैरपि कैशिकी स्यादिष्टा भयानकयुतारभटी सरौद्रः ॥ इति कोहलः ।

[page 105]




[NZ]

1रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । BhNZ_20_074ab
2बीभत्से करुणे चैव भारती संप्रकीर्तिता ॥ BhNZ_20_074cd
3[न ह्येकरसजं काव्यं किंचिद् अस्ति प्रयोगतः । BhNZ_20_075ab
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ BhNZ_20_075cd
सर्वेषां समवेतानां यस्य रूपं भवेद्बहु । BhNZ_20_076ab
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः ॥ ] BhNZ_20_076cd
4वृत्यन्त एषो ऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावत्5 BhNZ_20_077ab
[ABh]

अस्याध्यायस्याभिनयशेषभूततां ख्यापयन्नध्यायार्थमुपसंहरति भाविनश्चार्थमासूत्रयति वृत्त्यन्त एष इति । वृत्तिरभिनयस्य दशरूपकात्मा विषयोऽपि अन्त इत्यभिनयस्य वृत्तयोऽन्तरमेकदेश आहार्य इति शरीरव्यतिरिक्तं बाह्यमित्यर्थः । नटस्य हि सत्त्वात्मा वागभिनयो व्याहरणीय एव साक्षात्प्रयत्नकृतत्वात् । अत एव तुशब्देन ततो व्यतिरेकमाहार्यमेव विशिनष्टि । नेपथ्यकृतं त्वाहार्यं वक्ष्यामीति भूयः कृतं विस्तार्त्येति शिवम् ।

(मू)

1. भ॰ भयानके च बीभत्से रौद्रे चारभटी भवेत्, ट॰ रौद्रे भयरसे चापि वृत्तिरारभटी स्मृता

2. न॰ भारती चापि विज्ञेया करुणाद्भुतरूपयोः, (ज॰ संश्रया), भ॰ भारती चापि विज्ञेया वीरहास्याद्भुताश्रया, ट॰ सर्वेषु रसभावेषु भारती संप्रकीर्तिता ।

3. च॰ मातृकायां श्लोकद्वयं न विद्यते

4. भ॰ त्रिधा विभक्तोऽभिनयो मयोक्तो, च॰ प्रभवः समासात्

5. भ॰ नयप्रयोगं ।

(व्या)

[page 106]




आहार्यमेवाभिनयं प्रयोगे1 वक्ष्यामि नेपथ्यकृतं तु भूयः2 BhNZ_20_077cd


इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नामाध्यायो विंशः(3) ॥
[ABh]

नृसिंहगुप्तायतिनेत्थमत्र वृत्तिस्वरूपं प्रकटं व्यधायि ।
यस्य त्रिणेत्रेण हृदन्तरात्मवृत्तिस्वरूपं प्रकटं व्यधायि ॥
इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां भारतीयनाट्यवेदवृत्तावभिनवभारत्यां विंशो वृत्त्यध्यायः समाप्तमगमत् ।

(मू)

1. न॰ यथावत्, भ॰ तथैव

2. ज॰आदि ब॰ अन्तेषु द्वाविंशः, भ॰मातृकायामेकोनविंशः, ञ॰ट॰ एकविंशः

(व्या)

[page 107]




श्रीः
एकविंशो ऽध्यायः(1)* ।

आहार्याभिनयं2 विप्रा 3व्याख्यास्याम्यनुपूर्वशः । BhNZ_21_001ab
4यस्मासत् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ BhNZ_21_001cd
नानावस्थाः प्रकृतयः 5पूर्वं 6नैपथ्यसाधिताः7 BhNZ_21_002ab
अङ्गादिभिरभि8व्यक्तिमुपगच्छन्त्ययत्नतः ॥ BhNZ_21_002cd
[ABh]

अभिनवभारती -- एकविंशोऽध्यायः
आहार्याभिनयः
यस्य सङ्कल्पमात्रेण विश्वमाहार्यमद्भुतम् ।
तं मानसमहामूर्तिं वन्दे गिरिसुतामपि ॥
आहार्यस्य सर्वपश्चादभिधानं वागाद्यभिनयेभ्योऽस्य वहिरङ्गत्वादित्यानुपूर्व्यमिति केचित् । तच्चासत्, आवेदितपूर्वमाहार्यस्य प्राधान्यादेव त्वद्य सर्वानुग्राहकत्वं सर्वोपजीव्यताख्यापयाय पश्चादभिधानम् । तदेवानुपूर्वश इत्यनेनोक्तम् । तथा चाह यस्मात् प्रयोगः सर्वोऽयमिति वागङ्गसत्त्वात्मक इति ।
अत्रैवोपपत्तिमाह नानावस्था इत्यादि । नानाभूता या अवस्था रतिशोकाद्या

(मू)

1. ज॰आदिब॰अन्तेषु त्रयोविंशोऽध्यायः, भ॰ द्वाविंशोऽध्यायः

2. न॰ चैव

3. न॰ प्रवक्ष्यामि

4. भ॰ प्रयोगो योऽस्य, न॰ सर्व एवाप्रयोगोऽयं यतस्तस्मिन् प्रतिष्ठितः, च॰ प्रयोगो यत्र

5. न॰ पूर्व

6. च॰ नेपथ्य

7. ड॰ सूचिताः

8. भ॰ व्यक्तिरुपगच्छति

(व्या)

* अस्मिन्नध्याये भिन्नमातृकासु पाठक्रमो भिन्नतया दृश्यते । तत्र तत्र वाक्यार्थोऽपि भिद्यते । व्याख्याया विरलत्वात् म॰य॰मातृकयोः पाठानुसारी क्रमोऽनुसृतः ।

[page 108]




[NZ]

आहार्याभिनयो नाम ज्ञेयो 1नेपथ्यजो विधिः । BhNZ_21_003ab
तत्र कार्यः प्रयत्नस्तु 2नाट्यस्य शुभमिच्छता ॥ BhNZ_21_003cd
[तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । BhNZ_21_004ab
नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीरितम् ॥ ] BhNZ_21_004cd
चतुर्विधं तु नेपथ्यं3 पुस्तोऽलङ्कार एव च । BhNZ_21_005ab
4तथाङ्गरचना चैव ज्ञेयं 5सज्जीवनम् एव च ॥ BhNZ_21_005cd
पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । BhNZ_21_006ab
सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ BhNZ_21_006cd
[ABh]

शोकाद्या नानाश्रयभूताश्च याः प्रकृतयो धीरोदात्तादय उत्तमाधमप्रभृतयश्च ताः पूर्वं नैपथ्येन साधिताः प्रकाशिताः पश्चादङ्गादिभिर्विभागं(1) अनुभावविषयविभागं नामोपपत्तिं देशकालादिविभागं चार्पयद्भिः स्फुटमतामानीयन्ते । तेन समस्ताभिनयप्रयोगचित्रस्य भित्तिस्थानीयमाहार्यम् । तथा च समस्ताभिनयव्युपरमेऽपि नैपथ्यविशेषदर्शनाद्विशेषोऽवसीयत एव ।
यत्त्ववस्थान्तरयोगेऽभिनयान्तरवदाहार्यं न परिवर्तते तेन(2) प्रत्युत तथाभूतस्येयमवस्था प्राप्तेति स्थायिसूत्रानुस्मृतिसंपादनप्रावाण्याद्रसं प्रत्यन्तरङ्गत्वमाहार्यस्यावेद्यते, तथा चाश्वत्थाम्नो युद्धवीररससम्पदोपेतस्यायं शोक आयात इति तथा येन [यदि] (3)युद्धोचितोज्ज्वलधर्मपरिग्रहाद्यपासनं क्रियेतेत्यलं बहुना ।(*)
ज्ञेयो लोके । नैपथ्यस्य(वोधिः अलङ्कारः) स इहाहार्याभिनयः, नाट्यस्य तु शुभमिति सिद्धिम् । (सन्धिमः) सन्धानं सन्धा तया निर्वृत्तः, सदलादिरूपं क्रियते(इति) सन्धिमः । व्याजः सूत्रस्याकर्षादिरूपः क्षेपस्तेन निर्वृत्तो व्याजिमः ।

(मू)

1. भ॰ नैपथ्यजो

2. न॰ नाट्यशोभामिहेच्छता

3. ड॰ नैपथ्यं

4. च॰ नाट्याङ्ग

5. न॰ संजीवं

(व्या)

1. विभावं

2. केन

3. तथा हि यदि

[page 109]




[NZ]

1किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । BhNZ_21_007ab
सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंश्रयः ॥ BhNZ_21_007cd
व्याजिमो नाम विज्ञेयो यन्त्रेण क्रियते तु यः । BhNZ_21_008ab
वेष्ट्यते चैव2 यद्रूपं वेष्टिमः स तु संज्ञितः3 BhNZ_21_008cd
शैलयानविमानानि चर्मवर्मध्वजा नगाः4 BhNZ_21_009ab
5ये क्रियन्ते हि6 नाट्ये तु स पुस्त इति संज्ञितः ॥ BhNZ_21_009cd
7अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । BhNZ_21_010ab
नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ BhNZ_21_010cd
वेष्टिमं विततं चैव संघात्य ग्रन्थिमं8 तथा । BhNZ_21_011ab
9प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ BhNZ_21_011cd
[ABh]

उपरि जतुसिक्यकादिना वेष्टस्तेन निर्वृत्तो वेष्टिमः । भावप्रत्ययान्तन्निर्वृत्तार्थे इमपं स्मरन्ति(4-4-10 का) । किलिञ्जं भूर्जवेणुदलादि । रूपं क्रियत इति रूपतां नीयत इति यावत् । यन्त्रेणेति सूत्रादिप्रयोगेण सन्धिमादयः प्रकाराः । क्वोपयुज्यन्त इत्याह शैलेत्यादि ।
समायोग इति योजना;् स चाङ्गेषु शिरोहस्तादिषु उपाङ्गेषु च ललाटाङ्गुल्यादिषु निर्मितः । वेष्टिमं तृणवेष्टनया निर्मितं बहुमालावेष्टनकृतं वा । विततमित्यावेष्टितान्योन्यश्लिष्टमालासमूहात्मकं वस्त्रधारणभयेनोम्भितं वा । सङ्गात्यं वृत्तं वा आस्यच्छिद्रान्तःप्रक्षिप्तसूत्रं बहुपुष्पगुच्छोम्भितं वा । ग्रन्थिमं ग्रन्थिभिरुम्भितं वा । प्रालम्बितमिति जालादिपर्यन्तव्याप्तिकम् । आवेध्यादीनि

(मू)

1. भ॰ कैलिञ्जं चर्मजं वास्त्रं, व॰ कैलिञ्चं चार्मणं वस्त्रं, ड॰ किलिञ्जां, च॰ कैलिञ्जं, न॰ कलञ्ज

2. भ॰ तेन

3. च॰ वस्त्राद्येवेष्टिमः स तु, व॰ स ज्ञेयो वेष्टिमोद्भवः

4. भ॰ वस्त्रध्वजाश्च ये

5. च॰ यानि क्रियेत, भ॰ यानि क्रियन्ते

6. न॰ अत्र

7. न॰ अलंकारास्तु विज्ञेया मालाभरणसंज्ञकाः । नानावस्त्रकृताश्चैव नानावस्थान्तरात्मकाः

8. ढ॰ ग्रन्थिमत्

9. च॰ प्रलम्बितं

(व्या)

[page 110]




[NZ]

चतुर्विधं तु विज्ञेयं 1नाट्ये ह्याभ्रणं बुधैः । BhNZ_21_012ab
आवेध्यं बन्धनीयं च 2क्षेप्यमारोप्यमेव च ॥ BhNZ_21_012cd
आवेध्यं 3कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । BhNZ_21_013ab
आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ BhNZ_21_013cd
श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा4 BhNZ_21_014ab
प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च ॥ BhNZ_21_014cd
भूषणानां विकल्पं हि5 पुरुषस्त्रीसमाश्रयम्6 BhNZ_21_015ab
नानाविधं प्रवक्ष्यामि देशजातिसमुद्भवम्7 BhNZ_21_015cd
चूडामणिः 8समकुटः शिरसो भूषणं स्मृतम् । BhNZ_21_016ab
कुण्डलं9 मोचकं कीला कर्णाभरणमिष्यते ॥ BhNZ_21_016cd
मुक्तावली 10हर्षकं च 11सूत्रकं कण्ठभूषणम् । BhNZ_21_017ab
12वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिभूषणम् ॥ BhNZ_21_017cd
[ABh]

ध्यादीनि स्वयमेव व्याचष्टे आवेध्यं कुण्डलादीत्यादिना । विविधाश्रया इति लतासंख्यादिभेदेन बहुभेदा इत्यर्थः । चूडामणिः शिरोमध्ये । मकुटो ललाटोर्ध्वे । कुण्डलमधरपाल्यम् । मोचकं कर्णशष्कुल्या मध्यच्छिद्रे कृतम्, कीला ऊर्ध्वच्छिद्रे उत्तरकर्णिकेति प्रसिद्धा । हर्षकमिति समुद्गकं सर्पादिरूपतया प्रसिद्धम् । सूत्रकमिति गुच्छग्रीवासूत्रादितया प्रसिद्धम् । (1)वेतिकेति सूक्ष्मकटकरूपा अङ्गुलिमुद्रा पक्षिपद्माद्याकारेणोपेता ।

(मू)

1. ड॰ देहस्य

2. ड॰ प्रक्षेप्यारोप्यके तथा, भ॰ प्रक्षेप्यमृतुमेवच(?)

3. भ॰ कुण्डलानीह तथा श्रवणभूषणैः

4. न॰ निर्दिशेत्

5. न॰ च

6. भ॰ पुरुषस्य स्त्रियोऽथवा

7. भ॰ संज्ञान्तरसमाश्रयम्

8. ड॰ सुमकुटं, ड॰ समकरः

9. भ॰ मोचकः कीलं

10. भ॰ परिसरं

11. प॰ ससूत्रं

12. ड॰ कटका, ढ॰ खटका, प॰ वेटिका, म॰ केटकोऽङ्गुलि, च॰ वटिका

(व्या)

1. वेधिका

[page 111]




[NZ]

1हस्तली वलयं चैव बाहुनालीविभूषणम् । BhNZ_21_018ab
2रुचकश्चूलिका कार्या3 मणिबन्धभूषणम् ॥ BhNZ_21_018cd
4केयूरे अङ्गदे चैव कूर्परोपरिभूषणे5 BhNZ_21_019ab
6त्रिसरश्चैव हारश्च7 तथा वक्षोभूषणम् ॥ BhNZ_21_019cd
8व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । BhNZ_21_020ab
9तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ BhNZ_21_020cd
अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । BhNZ_21_021ab
देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम्10 BhNZ_21_021cd
[ABh]

रुचक इति करगोलके विततः तत ऊर्ध्वे चूलिकेति प्रसिद्धो निकुञ्चकोऽग्रबाहुस्थाने -- एतन्मणिबन्धविभूषणम्, केयूरः कूर्परस्योर्ध्वतः, तयोरूर्ध्वे त्वङ्गदे । त्रिसरः मुक्तालतात्रयेण । तलकं नाभेरधः, तस्याप्यधः सूत्रकम् । पुरुषनिर्योगः औचित्यमस्य । आभरणाश्रयः आभरणविधिरित्यर्थः ।
ननु सर्वः पुरुषो ऽनेन भूष्यत इत्याशङ्क्याह देवानां पार्थिवानां चेति । शिखाव्यालः नागः ग्रन्थिभिरुपनिबद्धो मध्ये कर्णिकास्थानीयः, तस्यैव दलसन्धानतया चित्ररचनानि वर्तुलानि पत्राणि पिण्डीपत्राणि । चूडामणिः शिरोमध्ये, ततो मकरपत्रं (मकरिका), ततो ललाटान्तमुक्ताजालिका तोरणं जालिकादिरूपेण प्रसिद्धा । सर्पस्यैव वा शिरस एकमेव सुवर्णमुक्तामणिचित्रितम् ।

(मू)

1. ज॰ हस्तती, ड॰ हस्तवी, ढ॰ हस्तपी

2. म॰ रुचकोच्चितिके कार्ये, ढ॰ रुचिकोञ्चितिके कार्ये

3. ड॰ चैव

4. ड॰ केयूरमङ्गदं, ढ॰ केयूरे साङ्गदे, च॰ केयूरावङ्गदे

5. ड॰ भूषणम्

6. भ॰ त्रिसरं

7. ड॰ भवेत्, न॰ चित्रं, प॰ भवेद्वक्षोज

8. ड॰ व्यालम्बिमौक्तिका हारा माल्याद्या देहभूषणम्, ढ॰ व्यालम्बमुक्ताहारादिमालादेहविभूषणम्

9. च॰ तरलं, घ॰ तदलं, र॰ तनुकं, ड॰ तलङ्कं

10. भ॰ अहं त्रयम्

(व्या)

[page 112]




[NZ]

शिखापाशं शिखाव्यालः1 पिण्डीपत्रं2 तथैव च । BhNZ_21_022ab
चूडामणिर्मकरिका3 मुक्ताजालगवाक्षिकम्4 BhNZ_21_022cd
शिरसो भूषणं 5चैव विचित्रं शीर्षजोलकम्6 BhNZ_21_023ab
7कण्डकं 8शिखपत्रं च वेणीपुच्छः9 सदोरकः ॥ BhNZ_21_023cd
ललाटतिलकं10 चैव नाना11शिल्पप्रयोजितम्12 BhNZ_21_024ab
13भ्रूगुच्छोपरिगुच्छश् च कुसुमानुकृतिस्तथा14 BhNZ_21_024cd
कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । BhNZ_21_025ab
15कुण्डलं कर्णमुद्रा च 16कर्णोत्कीलकमेव च ॥ BhNZ_21_025cd
नानारत्नविचित्राणि दन्तपत्राणि चैव हि17 BhNZ_21_026ab
कर्णयोर् भूषणं 18ह्येतत्कर्णपूरस्तथैव च ॥ BhNZ_21_026cd
[ABh]

खेला(डोला?) प्रायं शीर्षतः जोलकं भूषणं शिखिपत्रं मयूरपिञ्छाकारो विचित्रवर्णमणिरचितः कर्णावतंसकः । कर्णिकेत्यादिना विकल्पतः कर्णाभरणान्यपि तु स्थानान्तरभेदात्समुच्चयेनेत्याहुः ।

(मू)

1. च॰ जालं, न॰ व्यालं, भ॰ शिरोव्यालं

2. भ॰ पिण्डयन्त्रं, य॰ खण्डयन्त्रं, प॰ पिण्डपत्रं, ढ॰ खण्डपात्रं

3. भ॰ मकरको

4. न॰ गवाक्षिका, भ॰ गवाक्षिकः

5. भ॰ वापि चित्रकं शीर्षजालकम्

6. ड॰ जालकम्

7. ड॰ कुण्डलं

8. च॰ खन्डपत्रं, भ॰ गण्डपत्रं

9. न॰ गुच्छः, ड॰ कुञ्जः सरोचकः, ढ॰ कक्षः, भ॰ पुच्छमघोकरः

10. च॰ तिलकः

11. भ॰ नील, प॰ नाली, ड॰ भवेत्

12. च॰ प्रयोजितः

13. छ॰ भ्रूकच्छोपरि, ड॰ भ्रुवोश्चोपरि

14. ड॰ भवेत्

15. न॰ आवेष्टकं कर्णमुद्रा, ड॰ आवेष्टिकः कर्णमुद्रा

16. च॰ कर्णोत्पलकं, न॰ कर्णोत्फलकं, ढ॰ कर्णोत्कीलक एव च, भ॰ कर्णाक्षिपकः

17. भ॰ तथा संस्करणानि च

18. न॰ कार्यं

(व्या)

[page 113]




[NZ]

1तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । BhNZ_21_027ab
त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ BhNZ_21_027cd
नेत्रयोरञ्जनं 2ज्ञेयमधरस्य च रञ्जनम् । BhNZ_21_028ab
दन्तानां 3विविधो रागश्चतुर्णां शुक्लतापि वा ॥ BhNZ_21_028cd
रागान्तरविकल्पोऽथ4 शोभनेनाधिकोज्ज्वलः । BhNZ_21_029ab
5मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः6 BhNZ_21_029cd
7सुरक्ता वापि दन्ताः स्युः पद्मपल्लवरञ्जनाः । BhNZ_21_030ab
अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ BhNZ_21_030cd
विलासश्च भवेत्तासां सविभ्रमान्तनिरीक्षितम्8 BhNZ_21_031ab
मुक्तावली व्यालपङ्क्तिर् मञ्जरी रत्नमालिका ॥ BhNZ_21_031cd
रत्नावली 9सूत्रकं च ज्ञेयं 10कण्ठविभूषणम् । BhNZ_21_032ab
द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥ BhNZ_21_032cd
तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् । BhNZ_21_033ab
अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ BhNZ_21_033cd
नाना11शिल्पकृताश्चैव हारा 12वक्षोविभूषणम् । BhNZ_21_034ab
[ABh]

विलासः । तेनायमर्थः -- एवं भूतेन दन्ताधररागवैचित्र्ये सति, सविभ्रान्तनिरीक्षितं

(मू)

1. य॰ कीलकाः, न॰ तिलकः पत्रलेखश्च

2. ड॰ कार्यं

3. ड॰ विविधारागाः

4. भ॰ वो यः शोभेन

5. भ॰ मुख्यानां

6. भ॰ शोभितशोभिताः, ड॰ मुक्ताभाः सितशोभनाः

7. प॰ आरक्ता एव दन्ताः स्युस्तथा मालि च रञ्जनम् । स्वरागोज्ज्योतितश्च स्यात्

8. भ॰ विभ्रान्तं च विलक्षितम् (व॰ च)

9. ड॰ च सूत्रं च

10. भ॰ कण्ठे

11. भ॰ शिल्पीकृताः, च॰ रत्न

12. प॰ पक्षोज

(व्या)

[page 114]




[NZ]

मणिजालावनद्धं1 च भवेत् स्तनविभूषणम् ॥ BhNZ_21_034cd
खर्जूरकं सोच्छितिकं2 बाहुनालीविभूषणम् । BhNZ_21_035ab
3कलापी कटकं शङ्खो हस्तपत्रं 4सपूरकम् ॥ BhNZ_21_035cd
मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम्5 BhNZ_21_036ab
6मुक्ताजालाढ्यतलकं7 मेखला 8काञ्चिकापि वा ॥ BhNZ_21_036cd
रशना च कलापश्च 9भवेच्छ्रोणीविभूषणम् । BhNZ_21_037ab
एकयष्टिर् भवेत् काञ्ची मेखला तव् अष्टयष्टिका ॥ BhNZ_21_037cd
10द्विरष्टयष्टी रशना कलापः पञ्चविंशकः11 BhNZ_21_038ab
द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा12 BhNZ_21_038cd
मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । BhNZ_21_039ab
13नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥ BhNZ_21_039cd
[ABh]

यत् स्मितं तद्भवेदतीवहृद्यं(विलासः) संपाद्यत इति तावत् । तलकमिति कवाटद्वययोजितम् ।
यष्टिरिति लता । नूपुरो जान्वधः । किङ्किणीका घण्टिकालग्रे(ग्रा?) ।

(मू)

1. च॰ अनुबन्धं

2. भ॰ सोपवीतं, ड॰ वर्जूरं स्वेच्छितीकं च

3. च॰ शङ्खः कलापी कटकं तथा स्यात्पत्रपूरकम्, ड॰ कटकं कलकाशाखा(शाखा च ढ॰), भ॰ कलापी शाटकं

4. ढ॰ सु

5. न॰ च स्यादङ्गुल्याभरणं भवेत्

6. भ॰ काञ्ची मौक्तिककंजालाढ्या तलकं मेखला तथा (ढ॰ कुलकं मेखलं)

7. म॰ तिलकं

8. च॰ काञ्च्यथापि वा

9. च॰ ज्ञेयं

10. ड॰ रशना षोडश ज्ञेया

11. ड॰ विंशतिः

12. च॰ षोडशाष्टौ च चतुःषष्टिः शतं तथा

13. म॰ नूपुरं किङ्किणी चैव घण्टिकाजालमेव च(भ॰ रत्नजालकमेव च), प॰ नूपुरं किङ्किणी काञ्ची

(व्या)

[page 115]




[NZ]

1सघोषे कटके चैव गुल्फोपरिभूषणम् । BhNZ_21_040ab
2जङ्घयोः पादपत्रं स्याद3ङ्गुलीष्वङ्गुलीयकम् ॥ BhNZ_21_040cd
4अङ्गुष्ठतिलका5श्चैव पादयोश्च विभूषणम् । BhNZ_21_041ab
6तथालक्तकरागश्च नानाभक्तिनिवेशितः7 BhNZ_21_041cd
अशोकपल्लवच्छायः स्यात् स्वाभाविक एव च8 BhNZ_21_042ab
एतद्विभूषणं नार्या आकेशादानखादपि ॥ BhNZ_21_042cd
यथाभावरसावस्थं विज्ञेयं द्विजसत्तमाः9 BhNZ_21_043ab
आगमश्चैव प्रमाणं च10 रूपनिर्वर्णनं तथा ॥ BhNZ_21_043cd
विश्वकर्म11मतात्कार्यं12 सुबुद्ध्यापि प्रयोक्तृभिः । BhNZ_21_044ab
न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ BhNZ_21_044cd
13स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । BhNZ_21_045ab
14विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ BhNZ_21_045cd
[ABh]

रत्नजालकं (प्रपदा)च्छादकम् । सघोषे सशब्दे कटके । (अङ्गुष्ठ)तिलका इति विचित्ररचनाकृताः । आकेशादिति शिखापाशः शिखाव्याल इत्यतःप्रभृतीत्यर्थः । आनस्वादिति अलक्तकरागपर्यन्तमिति यावत् । आगम इत्युपादानकारणमिति यावत् । प्रमाणमिति अङ्गुल्यादिपरिमाण(संमितत्वम् । रूपनिर्वर्णन)मिति शुक्लादि निर्वर्तनं(यथास्वभावम्) । विश्वकर्मणा प्रोच्यते यादृङ्निर्दिष्टं तादृक्कार्यमित्यर्थः । सुबुद्ध्येति लोकप्रसिद्धापीत्यर्थः ।

(मू)

1. न॰ सघोष कटकं

2. भ॰ सरत्नं कर्णिकोद्योतं

3. ज॰ अङ्गुलौ

4. च॰ अङ्गुष्ठे च

5. ढ॰ तलकाः, न॰ तिलकं, प॰ तिलका च

6. ज॰ तथैवालक्त

7. भ॰ विभूषितः

8. भ॰ वा

9. ड॰ रसावस्यां विज्ञायैव प्रयोजयेत्

10. म॰ वै

11. भ॰ मते

12. ड॰ बुद्ध्यावापि प्रयोजयेत्

13. ड॰ स्वाधीनं चेप्सया चैव, च॰ स्वाधीनमतिरूढ्यैव

14. ड॰ विभावतो हि (ढ॰ अभि), य॰ विगाहता हि

(व्या)

[page 116]




[NZ]

यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । BhNZ_21_046ab
न तु नाट्यप्रयोगे तु1 कर्तव्यं भूषणं गुरु ॥ BhNZ_21_046cd
खेदं जनयते तद्धि सव्यायतविचेष्टनात् । BhNZ_21_047ab
गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते2 BhNZ_21_047cd
गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । BhNZ_21_048ab
3तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ BhNZ_21_048cd
4रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । BhNZ_21_049ab
स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते5 BhNZ_21_049cd
6यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । BhNZ_21_050ab
(*)[वेष्टितं विततं चैव सङ्घात्यं ग्रन्थिमं तथा ॥ BhNZ_21_050cd
लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । BhNZ_21_051ab
आच्छादनं बहुविधं नानापत्तनसंभवम् ॥ BhNZ_21_051cd
तज् ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम् ॥ ] BhNZ_21_052ab
दिव्यानां भूषणविधिर्य एष परिकीरितः ॥ BhNZ_21_052cd
[ABh]

पत्तनं देशः । शुद्धमिति शुक्लवर्णकम् । रक्तमिति कुसुम्भनील्याद्यन्यतमोपरक्तम् । विचित्रमिति बहुवर्णम् । विभक्तिः विभागः ।

(मू)

1. य॰ प्रयोगेषु

2. ड॰ प्रजायते

3. ड॰ तस्मान्न सम्यक् च

4. ड॰ जतुपूर्णाल्परत्नं तु

5. न॰ अपदिश्यते

6. ड॰ यदभावाद्विनिष्पन्नं

(व्या)

* एतौ श्लोकावग्रे श्मश्रुकर्मविधानानन्त्रमेव, ड., ढ॰प्रभृतिमातृकासु पठितौ कासुचित्तु वर्जितावेव , ड॰मातृकायां -- वेष्टयं तथैव संघात्यं ग्रथनीयं तथैव च । लम्बितं शोभितं चैव माल्यं पञ्चविधं स्मृतम् ॥ इति पठितम्

[page 117]




[NZ]

मानुषाणां च कर्तव्यो नानादेशसमाश्रयः । BhNZ_21_053ab
भूषणैश्चापि वेषैश्च1 नानावस्थासमाश्रयैः ॥ BhNZ_21_053cd
दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा2 BhNZ_21_054ab
विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ BhNZ_21_054cd
ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । BhNZ_21_055ab
तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ BhNZ_21_055cd
दिव्यानां नरनारीणां तथैव च शिखण्डकम्3 BhNZ_21_056ab
शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ BhNZ_21_056cd
विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः4(*) । BhNZ_21_057ab
5यक्षिण्यो ऽप्सरसश्चैव काया रत्नविभूषणाः6 BhNZ_21_057cd
7समस्तासां भवेद्वेषो यक्षीणां केवलं शिखा । BhNZ_21_058ab
8दिव्यानामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ BhNZ_21_058cd
मुक्तामणि9लताप्रायाः फणास्तासां तु केवलाः10 BhNZ_21_059ab
[ABh]

तासामिति (श्लो-59) नागयोषिताम् ।

(मू)

1. प॰ अपवेष्टैश्च

2. भ॰ स्वनिकायजा

3. ड॰ मानुषीणां तथैव च

4. च॰ कर्तव्यं चित्रवेषपरिच्छदम्

5. ड॰ यक्षिण्यप्सरसां चैव कार्यं रत्नैर्विभूषणम्

6. न॰ बहुविभूषणाः

7. न॰ समस्तानां

8. ड॰ दिव्यवत्संप्रकर्तव्यं नागीनां तु विभूषणम्

9. न॰ गणप्रायं

10. भ॰ केवलम्

(व्या)

* संग्रहे -- शिखाबद्धशिखण्डं च भूषां मौक्तिकभूयसीम् । वेषं शुद्धं प्रकुर्वीत विद्याधरमृगीदृशाम् ॥ इति संवादोऽस्ति

[page 118]




[NZ]

कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ BhNZ_21_059cd
न चापि1 भूषणविधिस्तासां वेषो वनोचितः । BhNZ_21_060ab
मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ BhNZ_21_060cd
तासां चैव तु कर्तव्यं पीतवस्त्रपरिच्छदम् । BhNZ_21_061ab
पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ BhNZ_21_061cd
2वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । BhNZ_21_062ab
इन्द्रनीलैस्तु कर्तव्यं राक्षसीनां विभूषणम् ॥ BhNZ_21_062cd
सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम्3 BhNZ_21_063ab
वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ BhNZ_21_063cd
शुकपिञ्छनिभैर्वस्त्रैः कार्यस्तासां परिच्छदः । BhNZ_21_064ab
पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः4 BhNZ_21_064cd
दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । BhNZ_21_065ab
एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः5 BhNZ_21_065cd
अवस्थान्तरमासाद्य शुद्धाः कार्या पुनस्तथा6 BhNZ_21_066ab
मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ BhNZ_21_066cd
[ABh]


(मू)

1. ड॰ भूषणं कार्यं तासामत्यर्थतो भवेत्

2. ड॰ वीणाहस्ताश्च कर्तव्याः कौसुम्भवसनास्तथा

3. न॰ परिच्छदः, म॰ परिच्छदा

4. ड॰ भूषितः

5. च॰ दिव्याङ्गनासु वा

6. भ॰ तथैव च

(व्या)

[page 119]




[NZ]

1वेषाभरणसंयोगान् गदतस्तान्निबोधत । BhNZ_21_067ab
2आवन्त्ययुवतीनां तु3 शिरस्सालककुन्तलम् ॥ BhNZ_21_067cd
गौडीनामलकप्रायं 4सशिखापाशवेणिकम् । BhNZ_21_068ab
आभीरयुवतीनाम् तु द्विवेणीधरम् 5एव तु ॥ BhNZ_21_068cd
शिरःपरिगमः कार्यो6 नीलप्रायमथाम्बरम् । BhNZ_21_069ab
तथा पूर्वोत्तरस्त्रीणां 7समुन्नद्धशिखण्डकम् ॥ BhNZ_21_069cd
8आकेशाच्छादनं तासां 9देशकर्मणि कीर्तितम् । BhNZ_21_070ab
10तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम्11 BhNZ_21_070cd
कुम्भी12बन्धकसंयुक्तं तथावर्तललाटिकम्13 BhNZ_21_071ab
[गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम् ॥ ] BhNZ_21_071cd
देशजातिविधानेन14 शेषाणामपि कारयेत् । BhNZ_21_072ab
वेषं तथा चाभरणं 15क्षुरकर्म परिच्छदम् ॥ BhNZ_21_072cd
[ABh]

(सालककुन्तलमिति) अलकाः स्थाने कुन्तलाः कुञ्चिताः केशा यत्र तत्तथोक्तम् । नीलप्रायं वस्त्रमित्याभीरीणामेव ।
हृदयं व्याप्नोति हृद्यत एवेति वेषः केशरचनादिः । आ समन्तात् भ्रियते पोष्यते कान्तिर्येन तदाभरणं शिखाव्यालादि । क्षुरकर्म अलकादियोजना । परिच्छदः विचित्रवस्त्रयोगः । एतद्वेषादि प्रलम्भेन ।

(मू)

1. च॰ वेषास्त्वाभरणोपेतास्तांश्च सम्यङ्निबोधत

2. ड॰ अवन्ति

3. प॰ हि

4. प॰ शिखाप्रायैकवेणिकम्

5. ढ॰ धरं

6. ढ॰ परिगतं कार्यं

7. च॰ समुद्धत, प॰ समुद्वद्ध

8. प॰ आकेशाधारणं, ड॰ आकेशं छादनं

9. ज॰ वेष

10. च॰ तथा च

11. च॰ सञ्ज्ञितम्

12. च॰ पथक, प॰ पतक, य॰ पताक, ज॰ पथव(?)

13. न॰ ललाटकम्

14. ड॰ विशेषेण

15. भ॰ नानावस्थान्तराश्रयम्

(व्या)

[page 120]




[NZ]

1[आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत् ।] BhNZ_21_073ab
2अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ BhNZ_21_073cd
मेखलोरसि बद्धा तु हास्यं समुपपादयेत्3 BhNZ_21_074ab
तथा प्रोषित4कान्तासु 5व्यसनाभिहतासु च ॥ BhNZ_21_074cd
वेषो 6वै मलिनः कार्य एकवेणीधरं शिरः7 BhNZ_21_075ab
विप्रलम्भे तु8 नार्यास्तु शुद्धो वेषो भवेदिह ॥ BhNZ_21_075cd
9नात्याभरणसंयुक्तो न चापि मृजयान्वितः10 BhNZ_21_076ab
एवं स्त्रीणां 11भवेद्वेषो देशावस्थासमुद्भवः ॥ BhNZ_21_076cd
पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः12 BhNZ_21_077ab
तत्राङ्गरचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ BhNZ_21_077cd
13ततःपरं प्रयोक्तव्या वेषा देशसमुद्भवाः । BhNZ_21_078ab
सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ BhNZ_21_078cd
एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । BhNZ_21_079ab
संयोगजाः पुनश्चान्ये14 उपवर्णा भवन्ति हि ॥ BhNZ_21_079cd
[ABh]

देशोऽवन्त्यादि, अवस्था रतिशोकाद्याः । तत्रेति पुरुषेष्वेव । अङ्गनानां रूपपरिवर्तनसंपादनात्मकवर्णवर्तना कर्तव्या न स्त्रीपात्रेष्विति यावत् । संयोगजा इति वर्णद्वयश्लेषेणोत्थापिताः, उपवर्णास्तु बहुवर्णमिश्रणेनेत्यर्थः ।

(मू)

1. ज॰ मातृकायामेव

2. ड॰ अदेशजो हि वेषस्तु

3. ड॰ बन्धे, च॰ (तु) हास्यायैवौपजायते (ज॰ बन्धात्तु हास्याय ......), म॰ बद्धा या हास्यं समुपपादयेत्

4. भ॰ कान्तानां व्यसनाभिहताश्च याः (ड॰ या)

5. च॰ मदन

6. ज॰ स्यान्मलिनस्तासां

7. च॰ शिरश्चाप्येकवेणिकम्

8. ड॰ हि

9. ड॰ नाना

10. न॰ हि मृदायुतः

11. च॰ प्रयोक्तव्या वेषा देशसमुद्भवाः (न॰ व्यो ...... षो ...... वः)

12. भ॰ अतःपरम्

13. च॰ अतः

14. न॰ पुनस्त्वन्य

(व्या)

[page 121]




[NZ]

तानहं संप्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । BhNZ_21_080ab
सितनीलसमायोगे1 2कारण्डव इति स्मृतः ॥ BhNZ_21_080cd
सितपीतसमायोगात्पाण्डुवर्णः प्रकीर्तितः3 BhNZ_21_081ab
सितरक्तसमायोगे पद्मवर्णः प्रकीर्तितः4 BhNZ_21_081cd
पीतनीलसमायोगाद्धरितो नाम जायते । BhNZ_21_082ab
नीलरक्तसमायोगात्कषायो नाम जायते ॥ BhNZ_21_082cd
रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः5 BhNZ_21_083ab
एते संयोगजा वर्णा ह्युपवर्णास्तथापरे6 BhNZ_21_083cd
त्रिचतुर्वर्णसंयुक्ता बहवः 7संप्रकीर्तिताः । BhNZ_21_084ab
बलस्थो यो भवेद्वर्णस्तस्य 8भोगो भवेत्ततः9 BhNZ_21_084cd
दुर्बलस्य च भागौ द्वौ 10नीलं मुक्त्वा प्रदापयेत् । BhNZ_21_085ab
नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके11 BhNZ_21_085cd
12बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । BhNZ_21_086ab
एवं वर्णविधिं ज्ञात्वा13 नानासंयोगसंश्रयम्14 BhNZ_21_086cd
[ABh]

कलस्थ इत्यभिभवनकारी, ततोऽन्यो वर्णो द्विगुण इति, अस्यापवादमाह नीलवर्णादृते इति । तत्र तु यो भागविधिस्तं दर्शयति नीलस्यैक इति

(मू)

1. न॰ योगात्

2. न॰ कापोत इति संज्ञितः, च॰ कापोतो नाम जायते, ग॰ काप्प्तक

3. न॰ इति स्मृतः

4. न॰ इति स्मृतः, भ॰ प्रकीर्त्यते

5. न॰ गौर इत्यभिधीयते

6. न॰ तथैव च

7. परि

8. न॰ भावो

9. भ॰ भावस्तस्य विधीयते

10. ज॰ नीलवर्णादृते भवेत्, न॰ नीलयुक्त्या

11. भ॰ अन्यस्त्वेकश्च निश्चितः, च॰ अन्यस्य तु स्मृताः

12. भ॰ वर्णस्य तु बलीयस्त्वं नीलस्यैव तु कीर्तितम् (च॰ हि कीर्त्यते)

13. च॰ मान

14. भ॰ संभोगसंभवम्

(व्या)

[page 122]




[NZ]

ततः 1कार्याद्यथायोगमङ्गानां वर्तनं बुधः । BhNZ_21_087ab
वर्तानाच्छादनं रूपं स्ववेषपरिवर्जितम्2 BhNZ_21_087cd
नाट्यधर्मप्रवृत्तं तु3 ज्ञेयं तत्प्रकृतिस्थितम् । BhNZ_21_088ab
स्ववर्णमात्मनश्छाद्यं4 वर्णकैर्वेषसंश्रयैः ॥ BhNZ_21_088cd
5आकृतिस्तस्य6 कर्तव्या 7यस्य प्रकृतिरास्थिता8 BhNZ_21_089ab
यथा 9जन्तुः स्वभावं 10स्वं परित्यज्यान्यदैहिकम्11 BhNZ_21_089cd
12तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । BhNZ_21_090ab
13वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ BhNZ_21_090cd
परभावं प्रकुरुते14 यस्य वेषं समाश्रितः15 BhNZ_21_091ab
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ BhNZ_21_091cd
[ABh]

वर्णके नीलस्य भाग इत्यर्थः । वर्तनाशब्दं पर्यायैर्व्याचष्टे वर्तना च्छादनमिति । प्रकृतिस्थितमिति देवमानुषादिस्वभावविभागेनावस्थितमित्यर्थः । वर्तनस्य प्रयोजनमाह यथा जन्तुः स्वभावं स्वमिति । जन्तुरिति जीवात्मेत्यर्थः स च शुद्धनिर्मलानन्तचिदानन्दप्रकाशः स्वातन्त्र्यरूपं स्वममनपायिनमपि स्वभावं परित्यज्यान्यद् व्यतिरिक्तमपि दैहिकं देहभवं शरीरकरणोचितं तत्स्वभावं भजते, यतो देहान्तरं तद्देहविशेष उपसमीपे आ समन्तात् श्रितः अतिनैकठ्येन तदात्मवृत्त्या प्रतिपन्न इत्यर्थः ।

(मू)

1. ड॰ तु वर्तना कार्या नानारूपसमाश्रया (न॰ वर्ण)

2. च॰ वर्तितम्

3. ड॰ धर्मीप्रवृत्तेन, न॰ प्रवृत्ते तु

4. ज॰ कर्णज्ञैः

5. झ॰ प्रकृतिर्यस्य

6. ज॰ यस्य

7. ज॰ तस्य

8. न॰ प्रकृतिमास्थिताः

9. ड॰ नरः, न॰ जीवः

10. न॰ स्थं

11. न॰ देहजम्

12. ज॰ परभावं प्रकुरुते भूतदेहसमाश्रितम् (न॰ देहं समाश्रितः), भ॰ अन्यत्स्वभावं लभते देहान्तरसमाश्रितः

13. ड॰ वेषैश्च

14. ज॰ प्रकुर्वीत

15. ज॰ उपाश्रितः

(व्या)

[page 123]




[NZ]

1प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश् च येऽपरे । BhNZ_21_092ab
[स्त्रीभावाः पर्वताः नद्याः समुद्रा वाहनानि च ॥ BhNZ_21_092cd
नानाशास्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया2] । BhNZ_21_093ab
शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ BhNZ_21_093cd
नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । BhNZ_21_094ab
अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ BhNZ_21_094cd
3वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । BhNZ_21_095ab
वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ BhNZ_21_095cd
4कुर्यादङ्गस्य रचनाम् देशजातिवयःश्रिताम्5 BhNZ_21_096ab
देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरसस्तथा ॥ BhNZ_21_096cd
[ABh]

एतदुक्तं भवति -- यथा परमात्मा स्वचैतन्यप्रकाशमत्यजन्नपि देहकञ्चुकोचितचित्तवृत्तिरूपितमिव स्वरूपमादर्शयति, तथा नटोऽपि आत्मावष्टम्भमत्यजन्नेव स्थाने लयतालाद्यनुसरणाद्यायोगाद् देहस्थानीयेन वर्तनादिवेषपरिवर्तने(न) तदुचितस्वभावालिङ्गितमिव स्वात्मानं सामाजिकान् प्रति दर्शयति, प्रेक्षकपक्षे न नटाभिमानस्तत्र हि रामाभिमान इति दर्शयति । एतदाशयेनैवास्माभिस्तत्र प्रतीतिरेव व्याख्याता रसाध्यायादौ ।
सजीवमाहार्यभेदं व्याचष्टे देवदानवगन्धर्वेत्यादिना, शैलप्रासादादीनि निर्जीवत्वे प्रस्तुतत्वेन परिगणितान्यपि अवस्थाविशेषेषु नाट्यधर्मेण सजीवत्वे ऽपीत्याह शैलेत्यादिना, अथवा कारणोपेता इत्यादिना च ।
अङ्गरचनानि विभजति वर्णानामिति गौरादीनाम् ।

(मू)

1. ड॰ ते प्राणिन इति प्रोक्ता(ज्ञेयाः) जीवबन्धाश्च ये त्विह, न॰ ते स्मृताः, (न॰ बद्धाश्च ते स्मृताः)

2. ढ॰ संश्रयाः, भ॰ ज्ञेयानि तु विचक्षणैः

3. भ॰ देशभाषाश्रयोपेतं

4. न॰ तस्मात्

5. न॰ समाश्रितम्

(व्या)

[page 124]




[NZ]

रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः1 BhNZ_21_097ab
सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः2 BhNZ_21_097cd
समुद्रहिमवद् गङ्गाः श्वेता हि स्युर्बलस्तथा3 BhNZ_21_098ab
रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ BhNZ_21_098cd
नारायणो नरश्चैव श्यामो नागश्च4 वासुकिः । BhNZ_21_099ab
दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ BhNZ_21_099cd
पिशाचा 5जलमाकाशमसितानि6 तु वर्णतः । BhNZ_21_100ab
7भवन्ति षट्सु द्वीपेषु 8पुरुषाश्चैव वर्णतः ॥ BhNZ_21_100cd
कर्तव्या नाट्ययोगेन9 निष्टप्तकनकप्रभाः । BhNZ_21_101ab
जम्बूद्वीपस्य 10वर्षे तु नानावर्णाश्रया नराः ॥ BhNZ_21_101cd
11उत्तरांस्तु कुरूंस्त्यक्त्वा12 ते चापि कनकप्रभाः । BhNZ_21_102ab
13भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा14 BhNZ_21_102cd
[ABh]

नगाः पर्वताः । जलमाकाशमिति तदधिष्ठात्री देवतेह विवक्षिता । जम्बूद्वीपस्य वर्ष इति भारते । ते चापीति उत्तरकुरवः ।

(मू)

1. ड॰ समप्रभाः

2. ज॰ वरुणोऽथ शिवस्तथा, न॰ वरुणोऽर्थेन्द्र एव च

3. भ॰ सिताः कार्यास्तु वर्णतः

4. ड॰ श्यामवर्णोऽथ

5. ड॰ यम आकाशं

6. ड॰ श्यामवर्णाः

7. च॰ वसन्ति

8. च॰ ये नराः वर्णतस्तु ते

9. न॰ तत्वज्ञैः

10. न॰ वर्षेषु, भ॰ सर्वस्य, ड॰वर्षे ये

11. भ॰ उत्तराः कुरवो ये च

12. भ॰ मुक्त्वा

13. न॰ भद्राश्वे

14. भ॰ ज्ञेयाः श्वेतास्ते वर्णतो बुधैः

(व्या)

[page 125]




[NZ]

केतु1माले नीला 2गौराः शेषेषु कीर्तिताः ॥ BhNZ_21_103ab
3नानावर्णाः स्मृता भूता 4गन्धर्वा यक्षपन्नगाः । BhNZ_21_103cd
विद्याधरास्तथा चैव पितरस्तु समा नराः5 BhNZ_21_104ab
पुनश्च भारते वर्षे6 तांस्तान्वर्णान्निबोधत । BhNZ_21_104cd
राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । BhNZ_21_105ab
ये चापि सुखिनो मर्त्या गौराः कार्यास्तु वै बुधैः ॥ BhNZ_21_105cd
कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । BhNZ_21_106ab
आयस्तकर्मिणश्चैव 7ह्यसिताश्च कुजातयः ॥ BhNZ_21_106cd
8ऋषयश्चैव कर्तव्या नित्यं 9तु बदरप्रभाः । BhNZ_21_107ab
10तपःस्थिताश्च ऋषयो नित्यमेवासिता बुधैः ॥ BhNZ_21_107cd
कारणव्यपदेशेन11 तथा चात्मेच्छया पुनः । BhNZ_21_108ab
[ABh]

पितरस्तु समा नरा इति तुः स्वार्थे पितरो नराश्च तुल्या इत्यर्थः । कुकर्मिण इति कुत्सितं निन्दितं कर्म येषाम् । आयस्तं शरीरक्लेशबहुलं कर्म येषाaमित्यर्थः । कुजातयो धीवरडोम्बाद्याः । बदरप्रभावत्त्वेऽप्यपवादमाह तपः स्थिता असिता इति । अनेन तु ऋषीणामपि तपोनिरतानामसितत्त्वमित्यपौनरुक्त्यम् ।
व्यापकं लक्षणमाह कारणव्यपदेशेनेति । कारणं यथा क्लेशबहुला क्रिया कृष्णत्वे । आत्मेच्छयेति कविबुद्ध्यनुसारेणेत्यर्थः ।

(मू)

1. ड॰ मालास्तथा श्वेता, भ॰ मालाः पुनर्नीलाः

2. ढ॰ श्वेता गौरा भवन्ति हि(प॰ वा)

3. भ॰ नानावर्णा इति श्लोकस्थाने ज॰आदि ब॰अन्तेष्वादर्शेषु पठितं -- ``नानावर्णाः स्मृताः भूता वामना विकृताननाः । वराहमेषमहिषमृगवक्त्रास्तथैव च''

4. भ॰ गन्धर्वाश्च सपन्नगाः

5. च॰, भ॰ समानवः

6. भ॰ सम्यक्

7. ड॰ कुजाताश्चासिताः स्मृताः (ढ॰ त्याः)

8. भ॰ ओषध्यश्चापि

9. न॰ बदरवर्णिनः

10. भ॰ तपस्विनश्च कर्तव्या

11. भ॰ तथाध्यात्मेच्छयापि च

(व्या)

[page 126]




[NZ]

वर्णस्तत्र प्रकर्तव्यो1 देशजातिवशानुगः2 BhNZ_21_108cd
देशं 3कर्म च जातिं च पृथिव्युद्देशसंश्रयम्4 BhNZ_21_109ab
विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः5 BhNZ_21_109cd
किरातबर्बरान्ध्राश्च द्रविडाः 6काशिकोसलाः7 BhNZ_21_110ab
पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः8 BhNZ_21_110cd
9शकाश्च यवनाश्चैव पह्लवा बाह्लिकाश्च ये10 BhNZ_21_111ab
प्रायेण गौराः कर्तव्या उत्तरां ये श्रिता दिशम् ॥ BhNZ_21_111cd
पाञ्चालाः 12शौरसेनाश्च 13माहिषाश्चौड्रमागधाः । BhNZ_21_112ab
अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ BhNZ_21_112cd
ब्राह्मणाः क्षत्रियाश्चैव 14गौराः कार्यास्तथैव हि15 BhNZ_21_113ab
वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ BhNZ_21_113cd
एवं कृत्वा यथान्यायं 16मुखाङ्गोपाङ्गवर्तनाम् । BhNZ_21_114ab
श्मश्रुकर्म प्रयुञ्जीत देश17कालवयोऽनुगम् ॥ BhNZ_21_114cd
शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । BhNZ_21_115ab
[ABh]

तत्रेति भारते । शुद्धमिति क्षुरेण, सर्वथा चास्तम्, श्यामं पूर्वं क्षुरकर्म योजितमपीदानीं निवारितं तद्योजनाङ्कम् । विचित्रमिति क्षुरकर्त्रिकाकर्मणोत्पादनकर्मणा च

(मू)

1. ड॰ त्वन्यः प्रयोक्तव्यो, न॰ त्वन्योऽपि कर्तव्यो

2. च॰ तपोऽनुगः(?), ज॰ वयः श्रितः, घ॰ वयोऽनुगः

3. ज॰ कालं, भ॰ जातिं दिशश्चैव

4. भ॰ संश्रयान्

5. न॰ वर्तनां कुर्यात्पुरुषाणां प्रयोगवित्

6. म॰ काञ्चि

7. न॰ कोशलाः

8. भ॰ प्रायशो वर्णतोऽसिताः

9. ढ॰ शाकाः

10. ढ॰ बह्लिकादयः, ब॰ बह्लिका वाह्लिकास्तथा

11. भ॰ विज्ञेया उत्तरां चाश्रिता

12. न॰ शूरसेनाश्च

13. भ॰ तथाचैव, न॰ महिषाश्च, ज॰ सखसाश्च

14. ड॰ रक्ताः

15. ज॰ सदैव हि

16. च॰ अङ्गोपाङ्गेषु

17. ड॰ कर्मक्रियानुगम्, न॰ जाति

(व्या)

[page 127]




[NZ]

भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम्1 BhNZ_21_115cd
शुद्धं 2तु लिङ्गिनां कार्यं 3तथामात्यपुरोधसाम्4 BhNZ_21_116ab
मध्यस्था 5ये च पुरुषो ये च दीक्षां समाश्रिताः ॥ BhNZ_21_116cd
दिव्या ये पुरुषाः 6केचित्सिद्धविद्याधरादयः7 BhNZ_21_117ab
8पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः9 BhNZ_21_117cd
शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च10 ये । BhNZ_21_118ab
तेषां विचित्रं कर्तव्यं श्मश्रु 11नाट्यप्रयोक्तृभिः ॥ BhNZ_21_118cd
अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । BhNZ_21_119ab
व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत्12 BhNZ_21_119cd
[ABh]

रचितविचित्रसंनिवेशम् । रोमशमैति यथोत्पन्नम् । लिङ्गिनामपि ब्रह्मचारिवानप्रस्थादीनाम् ।
``मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः''
इत्यर्धं
``शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम्''
इत्यर्धस्यानन्तरं योज्यम्, लेखकदोषात्तु स्थानान्तरे दृश्यते । मध्यस्थ इति नोत्तमानामधमानामित्यर्थः । यौवनोन्मादिन इति अमात्यपुरोधसोऽपीति भावः ।

(मू)

1. न॰ आश्रयम्

2. भ॰ च निखिलं

3. प॰ महामात्र

4. च॰ ``पुरोधसाम्'' इत्यनन्त्रं ``अनिस्तीर्ण प्रतिज्ञानां'' इति श्लोकः पठितः । तत्र ``शुद्धं श्यामं विचित्रं'' इत्युद्देशे पठितम् ।

5. न॰ चैव पुरुषाः स्थानीयाश्चैव ये पुनः

6. न॰ चैव

7. न॰ धराश्च ये

8. न॰ नृपतीनां कुमाराणां

9. न॰ सेविनः

10. भ॰ उन्मादिताश्च

11. भ॰ कर्म

12. न॰ भवेदथ

(व्या)

[page 128]




[NZ]

1ऋषीणां तापसानां च ये च दीर्घव्रता नराः । BhNZ_21_120ab
2तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ BhNZ_21_120cd
एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः3 BhNZ_21_121ab
अत ऊर्ध्वं प्रवक्ष्यामि 4वेषान्नानाप्रयोगजान्5 BhNZ_21_121cd
शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । BhNZ_21_122ab
तेषां 6नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ BhNZ_21_122cd
देवाभिगमने चैव मङ्गले नियमस्थिते । BhNZ_21_123ab
तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ BhNZ_21_123cd
धर्मप्रवृत्तं यत्कर्म स्त्रियो7 वा पुरुषस्य वा । BhNZ_21_124ab
वेषस्तेषां8 भवेच्छुद्धो ये च प्रायत्निका नराः(99 ॥ BhNZ_21_124cd
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । BhNZ_21_125ab
नृपाणां कर्कशानां10 च चित्रो वेष उदाहृतः11 BhNZ_21_125cd
12वृद्धानां ब्राह्मणानां च श्रेष्ट्यमात्यपुरोधसाम् । BhNZ_21_126ab
वणिजां काञ्चुकीयानां तथा तपस्विनाम् ॥ BhNZ_21_126cd
[ABh]

शुद्ध इति शुक्लवस्त्रादिः प्रायः । प्रायत्रिका इति प्रयत्ने भवा विनीता इत्यर्थः ।

(मू)

1. भ॰ मुनीनां

2. प॰ तथा च वैर, न॰ सिद्धविद्याधराणां च रोमशं च भवेदतः (ढ॰ तु ...... तु विधीयते, भ॰ संप्रयोजयेत्)

3. ड॰ कर्म प्रयोजयेत्

4. न॰ वेषं योगजम्

5. भ॰ नानाश्रयोद्भवान् ॥ अतः परं माल्याच्छादनश्लोकौ पठितौ केषुचिदादर्शेषु

6. ड॰ विशेषान् व्याख्यास्ये यथाकार्यं प्रयोक्तृभिः

7. ड॰ कार्यं स्त्रीणां, भ॰ किंचित् स्त्रियो

8. च॰ तत्र

9. भ॰ उदासीनाश्च ये नराः

10. प॰ कामुकानां

11. भ॰ विचित्रो ऽथ उदाहृतः

12. न॰ कञ्चुकिनाममात्यानां श्रेष्ठिनां सपौरोधसाम् (प॰ च) । सिद्धविद्याधराणां च वणिक्छस्त्रविदामपि(ड॰ शा)

(व्या)

[page 129]




[NZ]

विप्रक्षत्यिर्यवैश्यानां स्थानीया ये च मानवाः । BhNZ_21_127ab
शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ BhNZ_21_127cd
उन्मत्तानां प्रमत्तानामध्वगानां तथैव च1 BhNZ_21_128ab
व्यसनोपहतानां च मलिनो वेष उच्यते2 BhNZ_21_128cd
शुद्धरक्तविचित्राणि वासंस्यूर्ध्वाम्बराणि3 च । BhNZ_21_129ab
योजयेन् नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ BhNZ_21_129cd
कुर्याद्वेषे तु मलिने 4मलिनं तु विचक्षणः । BhNZ_21_130ab
5मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च6 BhNZ_21_130cd
व्रतानुगस्तु कर्तव्यो वेषो 7लोकस्वभावतः । BhNZ_21_131ab
चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ BhNZ_21_131cd
8परिव्राण्मुनिशाक्यानां वासः काषायमिष्यते । BhNZ_21_132ab
नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ BhNZ_21_132cd
कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । BhNZ_21_133ab
9अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ BhNZ_21_133cd
[ABh]

चीरमिति अवितता स्थूला च वृक्षत्वक्, बल्कलं तु तद्विपरीतम्, यथा भूर्जपत्रत्वक्, मृगादेश्चर्म ।

(मू)

1. भ॰ छन्नानामध्वगामिनाम्

2. ड॰ इष्यते

3. च॰ उच्चावचानि

4. च॰ मलिनानि

5. भ॰ मुनिनिग्रन्थशाक्यानां तथैव च तपस्विनाम् । यतिपाशुपतानां च वेषः कार्यो व्रतानुगः

6. ड॰ त्रिदण्डिश्रोत्रियेषु च

7. ड॰ लोकानुभावतः

8. न॰ परिव्राणमुनिमुख्येषु तापसेषु तथैव च । काषायवसन्तो वेषः कार्यस्त्वर्थवशेन वा

9. भ॰ राजान्तःपुरकक्ष्यासु नियुक्ता ये नरा नृपैः

(व्या)

[page 130]




[NZ]

काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि1 BhNZ_21_134ab
2अवस्थान्तरश्चैव 3नृणां वेषो भवेदथ4 BhNZ_21_134cd
5वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः । BhNZ_21_135ab
विचित्रशस्त्रकवचो बद्धतूणो6 धनुर्धरः ॥ BhNZ_21_135cd
7चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च8 BhNZ_21_136ab
केवलस् तु भवेच् छुद्धो नक्षत्रोत्पातमङ्गले9 BhNZ_21_136cd
एवमेष भवेद्वेषो देशजातिवयोऽनुगः10 BhNZ_21_137ab
उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ BhNZ_21_137cd
एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । BhNZ_21_138ab
नानावस्थां समासाद्य शुभाशुभ11कृतस्तथा ॥ BhNZ_21_138cd
12तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । BhNZ_21_139ab
दिव्यानां मानुषाणां च देशजातिवयःश्रितम्13 BhNZ_21_139cd
14पार्श्वगता मस्तकिनस्तथा चैव किरीटिनः । BhNZ_21_140ab
15त्रिविधो मकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ BhNZ_21_140cd
[ABh]

(नक्षत्रेति) नक्षत्रोत्पातप्रशमनार्थं यन्मङ्गलं, एतच्च नैमित्तिकस्य श्राद्धदेवार्चनादेरप्युपलक्षणम् ।

(मू)

1. भ॰ कर्तव्यास्ते प्रयोक्तृभिः । कार्याणि कुशचीराणि वल्कलानि तथैव च । व्रतिनां तापसानां तु ह्यन्यान्येवं विधानि तु ।

2. ज॰ अवस्थान्तरमासाद्य स्त्रीणां वेषो भवेत्तथा

3. न॰ सम्यक्

4. न॰ तथा

5. भ॰ सांग्रामिकस्तु वेषः स्याच्छूराणां संप्रकीर्तितः

6. भ॰ तूण, न॰ तूण

7. ज॰ विचित्रवेषः

8. च॰ हि

9. न॰ मङ्गलैः

10. न॰ वयोजातिगुणान्वितः

11. न॰ कृतं, ड॰ कृतस्त्वथ

12. भ॰ प्रतिशीर्षाणि च पुनर्नानारूपाणि योजयेत्

13. भ॰ यथावदनुपूर्वशः

14. भ॰ पार्श्वगता

15. न॰ त्रिविधा मकुटा ज्ञेया दिव्याः पार्थिवसंश्रयः

(व्या)

[page 131]




[NZ]

देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । BhNZ_21_141ab
1कर्तव्या नैकविहिता मुकुटाः पार्श्वमौलयः2 BhNZ_21_141cd
उत्तमा ये च 3दिव्यानां ते च कार्याः किरीटिनः । BhNZ_21_142ab
मध्यमा मौलिनश्चैव कनिष्ठाः 4शीर्षमौलिनः ॥ BhNZ_21_142cd
नराधिपानां कर्तव्या मस्तके मकुटा5 बुधैः । BhNZ_21_143ab
विद्याधराणां सिद्धानां चारणानां तथैव च ॥ BhNZ_21_143cd
6ग्रन्थिमत्केशमकुटाः कर्तव्यास्तु प्रयोक्तृभिः । BhNZ_21_144ab
7रक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि8 BhNZ_21_144cd
9हरिच्छ्मश्रूणि च तथा 10मकुटास्यानि कारयेत् । BhNZ_21_145ab
11उत्तमाश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ BhNZ_21_145cd
12कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्यपार्थिवे । BhNZ_21_146ab
केशानां13 छेदनं दृष्टं वेदवादे14 यथाश्रुति ॥ BhNZ_21_146cd
भद्रीकृतस्य वा यज्ञे शिरसश् छादनेच्छया । BhNZ_21_147ab
16केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ BhNZ_21_147cd
[ABh]

प्राकृतिरूपं शिरः प्रतिशिरः

(मू)

1. न॰ कार्या हि तैस्तु विहिता मकुटाः पार्श्ववर्तिनः

2. ड॰ मालिनः

3. न॰ दिव्यः स्युस्तेषां

4. प॰ पार्श्वः

5. भ॰ तथा मस्तकिनो

6. ड॰ ग्रन्थितं केशमुकुटं कर्तव्यं तु

7. भ॰ देवदानवयक्षाणां

8. न॰ कृतानि हि

9. भ॰ यथा श्मश्रूणि

10. प॰ नानारूपाणि

11. ड॰ उदात्ताः

12. ड॰ तस्मात्तु मकुटाः श्लिष्टाः

13. ड॰ छेदनं नेष्टं

14. ढ॰ पादे

15. ड॰ ईप्सया

16. ड॰ केशानां वाति

(व्या)

[page 132]




[NZ]

सेनापतेः पुनश्चापि1 युवराजस्य चैव हि । BhNZ_21_148ab
2योजयेद् अर्धमकुटं महामात्राश्च ये नराः ॥ BhNZ_21_148cd
3अमात्यानां कञ्चुकिनां तथा श्रेष्टिपुरोधसाम् । BhNZ_21_149ab
4वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ BhNZ_21_149cd
पिशाचोन्मत्तभूतानां 5साधकानां तपस्विनाम् । BhNZ_21_150ab
अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः6 BhNZ_21_150cd
शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राङ्दीक्षितेषु7 च । BhNZ_21_151ab
शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च8 BhNZ_21_151cd
तथा 9व्रतानुगं चैव शेषाणां लिङ्गिनां शिरः । BhNZ_21_152ab
मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ BhNZ_21_152cd
धूर्तानां 10चैव कर्तव्यं ये च 11रात्र्युपजीविनः । BhNZ_21_153ab
12शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ BhNZ_21_153cd
बालानाम् अपि कर्तव्यं त्रिशिखण्डविभूषितम्13 BhNZ_21_154ab
[ABh]

(वेष्टनेति) वेष्टनार्थमाबद्धं पट्टमुष्णीषप्रायं येषु । त्रिखण्डाश्चूलिकाः (त्रिशिखण्डम्) ।

(मू)

1. न॰ अमात्यस्य

2. भ॰ मस्तकेष्वर्धमकुटं प्रयोगे संप्रयोजयेत्

3. न॰ अमात्यकञ्चुकिश्रेष्ठिविदूषकपुरोधसाम्

4. ड॰ वेष्टनं बन्धपट्टादि

5. भ॰ तापसानां तथैव च

6. भ॰ केशशिरो भवेत्, ढ॰ केशं तु शीर्षकम्

7. प॰ मिक्षितेषु

8. न॰ तु

9. ढ॰ वृत्तानुषङ्गेण

10. ड॰ चापि, प॰ रात्रोप

12. ढ॰ ये च शृङ्गारिणस्तेषां शिरः कुञ्चितमूर्धजम्

13. च॰ शिरस्त्रिशिखभूषितम्

(व्या)

[page 133]




[NZ]

जटामकुटबद्धं1 च मुनीनां तु2 भवेच्छिरः ॥ BhNZ_21_154cd
चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । BhNZ_21_155ab
3विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ BhNZ_21_155cd
शेषाणाम् अर्थयोगेन देशजातिसमाश्रयम्4 BhNZ_21_156ab
शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तरसमाश्रयम्5 BhNZ_21_156cd
6भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधिः । BhNZ_21_157ab
एवं नानाप्रकारैस्तु7 बुद्ध्या वेषान्प्रकल्पयेत् ॥ BhNZ_21_157cd
पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् । BhNZ_21_158ab
स्त्रीणां वा पुरुषाणां वाप्यवस्थां8 प्राप्य तादृशीम् ॥ BhNZ_21_158cd
सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । BhNZ_21_159ab
तेषां चानिमिषत्वादि9 नैव कार्यं प्रयोक्तृभिः ॥ BhNZ_21_159cd
इह भावरसाश्चैव दृष्टिभिः संप्रतिष्ठिताः । BhNZ_21_160ab
दृष्ट्यैव 10स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ BhNZ_21_160cd
एवं ज्ञेयाङ्गरचना नानाप्रकृतिसंभवा । BhNZ_21_161ab
11सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ BhNZ_21_161cd
[ABh]

(काकपदमिति) काकपक्षवद्यत्र केशविच्छेदः ।

(मू)

1. ड॰ लम्बं

2. च॰ च

3. ड॰ विदूषकाणां कर्तव्यं खल्ली काकपदं तथा

4. न॰ वयःश्रितम्

5. ज॰ प्रयोगस्य वशानुगम्

6. ढ॰ अतस्तैर्भूषणैश्चित्रैर्वस्त्रैर्माल्यैरथापि च (ड॰ तथैव च) । अवस्थानुकृतिः स्थाप्या प्रयोगरससंभवा

7. प॰ प्रकारांस्तु

8. ढ॰ व्यवस्था

9. न॰ त्वं च

10. ड॰ आपितो, प॰ प्रापितो

11. ढ॰ संजीवः, प॰ सज्जीवः

(व्या)

[page 134]




[NZ]

यः प्राणिनां प्रवेशो वै 1सजीव इति संज्ञितः । BhNZ_21_162ab
चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः2 BhNZ_21_162cd
3उरगान् अपदान् विद्याद् द्विपदान्खगमानुषान् । BhNZ_21_163ab
4ग्राम्या अरण्याः पशवो 5विज्ञेयाः स्युश्चतुष्पदाः ॥ BhNZ_21_163cd
ये ते तु 6युद्धसंफेटैरुपरोधैस्तथैव च । BhNZ_21_164ab
नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः7 BhNZ_21_164cd
आयुधानि च कार्याणि8 9पुरुषाणां प्रमाणतः । BhNZ_21_165ab
तान्यहं 10वर्तयिष्यामि यथापुस्तप्रमाणतः11 BhNZ_21_165cd
12भिण्डिर् द्वादशतालः स्याद्दश कुन्तो भवेदथ13 BhNZ_21_166ab
अष्टौ शतघ्नी शूलं14 च तोमरः शक्त्रिरेव वा ॥ BhNZ_21_166cd
अष्टौ 15ताला धनुर्ज्ञेय16मायामोऽस्य द्विहस्तकः । BhNZ_21_167ab
[ABh]

प्रहरणोपेता इति युद्धोपयोगिन इत्यर्थः । तथा च नागास्त्रे दत्ते सर्पाकृतिः प्रदर्शनाया, एवं नृसिंहास्त्रे तदाकृतिरित्यादि । (आयुधानां प्रमाणं) दर्शयति (भिण्डिरिति । वज्रं ...... चतुस्तालम्) । चक्रमिति खड्गादियुद्धे ऽपवारणम् ।

(मू)

1. ढ॰ स संजीव इति स्मृतः

2. च॰ स्मृताः

3. ड॰ उरगाह्यपदो ज्ञेया द्विपदा खगमानुषाः

4. ज॰ ग्राम्यारण्याश्च च॰ ग्रामारण्याश्च, ढ॰ ग्राम्यमुण्डाश्च

5. प॰ ज्ञेयास्ते च चतुष्पदाः

6. भ॰ युद्धे संफेटे ह्यवरोधे

7. ढ॰ नाटकाश्रये

8. ढ॰ वर्माणि

9. ड॰ तज्ज्ञैः सम्यक्

10. च॰ संप्रवक्ष्यामि

11. च॰ यावदनुपूर्वशः, ज॰ यथायुक्तिप्रमाणतः

12. भ॰ भिण्डी

13. भ॰ विधीयते

14. ढ॰ शूलश्च

15. ज॰ तालं

16. न॰ आवापो, प॰ आमर्षोऽपि तथैव च

(व्या)

[page 135]




[NZ]

शरो गदा च 1वज्रा च चतुस्तालं विधीयते2 BhNZ_21_167cd
अङ्गुलानि त्वसिः कार्यश् चत्वारिंशत्प्रमाणतः । BhNZ_21_168ab
3द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ BhNZ_21_168cd
4प्रासवत्पट्टसं विद्या5द्दण्डश्चैव तु विंशतिः । BhNZ_21_169ab
6विंशतिः 7कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ BhNZ_21_169cd
षोडशाङ्गुलविस्तीर्णं 8सबलं संप्रघण्टिकम् । BhNZ_21_170ab
त्रिंशदङ्गुलमानेन कर्तव्यं खेटकं बुधैः ॥ BhNZ_21_170cd
जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । BhNZ_21_171ab
छत्रं च चामरं चैव 9ध्वजो भृङ्गार एव च ॥ BhNZ_21_171cd
यत्किंचिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम्10 BhNZ_21_172ab
11यच्चोपकरणं सर्वं नाट्ये तत्संप्रकीर्तितम् ॥ BhNZ_21_172cd
यद्यस्य विषयप्राप्तं 12तेनोह्यं तस्य लक्षणम् । BhNZ_21_173ab
13जर्जरे दण्डकाष्ठे च संप्रवक्ष्यामि लक्षणम् ॥ BhNZ_21_173cd
[ABh]

यद्यस्येति । यस्य शास्त्रस्य यद्विषयीभूतं पुरुषस्य वा तदनुसारेण तस्य वस्तुनो लक्षणमूह्यमुiति । ऊह्यशब्दे भेदमाह, परिपूर्णलक्षणमुपजीव्यम्,

(मू)

1. च॰ चक्रं

2. न॰ भवेदथ

3. भ॰ वक्रं च द्वादश ज्ञेयं

4. न॰ प्रासार्धं

5. न॰ दण्डकश्चैव विंशकः, प॰ दण्डकस्तस्य विंशकः

6. न॰ कणयश्च भवेद्विंशत्यङ्गुलैः परिमाणतः

7. प॰ कम्पणः

8. न॰ खप्पणं, भ॰ करवालः प्रघट्टितः, ढ॰ चर्मकार्यं द्विहस्तकम् । षोडशाङ्गुलविस्तीर्णं सबलं सप्रघण्टिकम्, म॰ सबलं संप्रकीर्तितम्

9. ढ॰ भट्टो

10. ड॰ प्रयोगजम्, च॰ प्रयोजयेत्

11. ढ॰ तत्सर्वं तूपकरणं नाट्येऽस्मिन्संविधीयते

12. न॰ तेनोक्तं, ढ॰ तेन प्रोक्तं तु

13. ज॰ जर्जरं

(व्या)

[page 136]




[NZ]

1माहेन्द्रा 2वै ध्वजाः प्रोक्ता लक्षणैर्विश्वकर्मणाa । BhNZ_21_174ab
3एषामन्यतमं4 कुर्याज्जर्जरं दारुकर्मतः5 BhNZ_21_174cd
अथवा 6वृक्षयोनिः स्यात् प्ररोहो वापि जर्जरः । BhNZ_21_175ab
वेणुरेव 7भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥ BhNZ_21_175cd
श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा । BhNZ_21_176ab
संग्राह्यो 8वै भवेद्वेणुर्जर्जरार्थे9 प्रयत्नतः ॥ BhNZ_21_176cd
10प्रमाणमङ्गुलानां तु शतमष्टोत्तरं भवेत् । BhNZ_21_177ab
पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ BhNZ_21_177cd
स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । BhNZ_21_178ab
11कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ BhNZ_21_178cd
12मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । BhNZ_21_179ab
उपास्य विधिवद्वेणुं 13गृह्णीयाज्जर्जरं प्रति ॥ BhNZ_21_179cd
[ABh]

(यथा) खड्गलक्षणेऽप्युपजीव्यमाने लोहादिनिर्मितत्वमप्यूह्यते । तच्च तस्मान्नाट्योपयोगरूपमूहापोहाभ्यां कर्तव्यमिति । लक्षणानीति (लक्षणैरिति ?)विश्वकर्ममते बहुभेदं महेन्द्रध्वजस्य लक्षणमुक्तमित्यर्थः । न हीनश्चेति अन्यवेणुसंघर्षेऽवयवतः स नेष्यत इत्यर्थः ।

(मू)

1. ज॰ माहेन्द्रे वै ध्वजे प्रोक्तं लक्षणं विश्वकर्मणा

2. ढ॰ ये ... लक्षणे

3. ड॰ तेषां

4. भ॰ एकतमं

5. भ॰ कर्मजम्

6. न॰ वृक्षजातस्य, म॰ वृक्षजातः स्यात्

7. भ॰ तु वै श्रेष्ठो वक्ष्यते ह्यस्य

8. ज॰ विधिना

9. ज॰ जर्जयार्थं

10. भ॰ प्रमाणतः

11. भ॰ क्षतः क्रिमिपार्श्वश्च

12. ज॰ अक्तं तु मधुसर्पिभ्यां

13. न॰ प्रकुर्यात्

(व्या)

[page 137]




[NZ]

1यो विधिर्यः क्रमश्चैव माहेन्द्रो तु ध्वजे स्मृतः । BhNZ_21_180ab
स जर्जरस्य2 कर्तव्यः 3पुष्यवेणुसमाश्रयः ॥ BhNZ_21_180cd
भवेद्यो 4दीर्घपर्वा तु तनुपत्रस्तथैव च । BhNZ_21_181ab
पर्वाग्र5तण्डुलश्चैव पुष्यवेणुः 6स कीर्तितः ॥ BhNZ_21_181cd
विधिरेष7 मया प्रोक्तो जर्जरस्य प्रमाणतः8 BhNZ_21_182ab
अत ऊर्ध्वं9 प्रवक्ष्यामि दण्डकाष्टस्य लक्षणम् ॥ BhNZ_21_182cd
10कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ11 BhNZ_21_183ab
12वक्रं चैव हि कर्तव्यं13 त्रिभागे लक्षणान्वितम् ॥ BhNZ_21_183cd
कीटैर्नोपहतं यच्च व्याधिना न च14 पीडितम् । BhNZ_21_184ab
मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत्15 BhNZ_21_184cd
यस् त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजजरम् । BhNZ_21_185ab
कारयेत्स त्वपचयं महान्तं प्राप्न्युयाद्ध्रुवम्16 BhNZ_21_185cd
17अथ शीर्षविभागार्थं 18घटी कार्या प्रयत्नतः19 BhNZ_21_186ab
[ABh]

पुष्यवेणुं व्याचष्टे भवेद्वेणुर्दीर्घपर्वेति लक्षणेन लेखा शीर्षविभागा इति यत्र द्विशिरास्त्रिशिरा इत्यादि दृश्यते, यत्र वा

(मू)

1. प॰ विधिः कार्यः क्रमेणैव

2. भ॰ जर्जरे तु

3. च॰ पुष्य, ढ॰ पुण्य

4. म॰ दीर्घपत्रस्तु, न॰ नित्यं हि पीतपत्रस्तु

5. ज॰ वर्तुलः, न॰ मण्डलः

6. न॰ प्र

7. प॰ एवं

8. च॰ महात्मनः, ज,, च लक्षणे

9. भ॰ परं

10. भ॰ दण्डकाष्ठं तु बैल्वं स्यात्कापित्थं वांश्यमेव वा

11. ढ सदा, ज॰ काष्ठविधिस्तथा

12. च॰ वक्रत्वेन

13. न॰ तु तत्कार्यं

14. च॰ नैव

15. च॰ तदुच्यते

16. भ॰ कारयेत्स तु नानन्दं कदाचित्प्राप्नुयान्नरः

17. न॰ तथा च प्रतिशीर्षस्य, न॰ तथाशीर्षविधानार्थं

18. भ॰ किटी

19. भ॰ स्वमानतः, ढ॰ तु मानतः

(व्या)

[page 138]




[NZ]

स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै1 BhNZ_21_186cd
बिल्वमध्येन2 कर्तव्या घटी 3सिरस्समाश्रया । BhNZ_21_187ab
स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता4 BhNZ_21_187cd
भस्मना वा तुषैर्वापि कारयेत् प्रतिशीर्षकम्5 BhNZ_21_188ab
5संछाद्य तु ततो वस्त्रैर्बिल्वदिग्धैर्घटाश्रयैः ॥ BhNZ_21_188cd
बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । BhNZ_21_189ab
न स्थूलां 7नानतां तन्वीं दीर्घां चैव न कारयेत् ॥ BhNZ_21_189cd
8तस्यामातपशुष्कायां सुशुष्कायामथापि वा । BhNZ_21_190ab
छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ BhNZ_21_190cd
सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । BhNZ_21_191ab
स्वप्रमाणविनिर्दिष्टं 9ललाटकृतकोणकम् ॥ BhNZ_21_191cd
अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । BhNZ_21_192ab
[ABh]

निजशिर एवाच्छाद्य शिरोऽन्तरं प्रदर्श्यते । प्रतिपादप्रतिहस्तादेष एव कल्पः । बिल्वस्य मध्यमज्जा सिरश्च वृक्षत्वगादिः । कथं सा कर्तव्येत्याह खिन्नेनेति भस्मना तुषचूर्णेन वा सुसमाहिता छादितच्छेद्रेत्यर्थः । न स्थूलामिति गुरुत्वभयात् । नानतामिति पेलवात्, छेद्यमित्यवयवच्छिद्रोत्पादनार्थम् ।

(मू)

1. ज॰ वा

2. ज॰ कल्केन

3. भ॰ चरि, न॰ शीर्षं, ज॰ चिर

4. भ॰ समाहिता, प॰ समन्वितम्

5. ज॰ प्रतिशीर्षाणि कारयेत्

6. भ॰ संस्राव्य तान्

7. ढ॰ न तनुं चैव न मृद्वी चैव कारयेत्, न॰ न च तां तन्वीं मृद्वीं नैव च (च॰ न), भ॰ न तनुं चैव दीर्घां

8. भ॰ सुशुष्कायां ततस्तस्यामनिलातपयोगतः । छेद्यं बुधाः प्रकुर्वीत लक्षणं कृतिनिर्मितम्, ढ॰ शुष्कायां तु ततस्तस्यामनिलातपयोगतः

9. ढ॰ ललाटाकृतिकोणजम्

(व्या)

[page 139]




[NZ]

अर्धार्धम् अङ्गुलं छेद्यं 1कटयोर्द्व्यङ्गुलं2 भवेत् ॥ BhNZ_21_192cd
कटान्ते कर्णनालस्य 3छेद्यं 4द्व्यधिकमङ्गुलम् । BhNZ_21_193ab
5त्र्यङ्गुलं कर्णविवरं6 7तथा स्याच्छेद्यमेव हि ॥ BhNZ_21_193cd
8ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । BhNZ_21_194ab
9घट्यां ह्येतत्सदा च्छेद्ये 10विधानं विहितं मया ॥ BhNZ_21_194cd
11तस्योपरिगताः12 कार्या मुकुटा बहुशिल्पजाः13 BhNZ_21_195ab
नानारत्नप्रतिच्छन्ना 14बहुरूपोपशोभिताः ॥ BhNZ_21_195cd
तथोपकरणानीह नाट्ययोगकृतानि वै15 BhNZ_21_196ab
16बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ BhNZ_21_196cd
यत्किंचिदस्मिन् लोके तु17 18चराचरसमन्विते । BhNZ_21_197ab
विहितं कर्म शिल्पं वा 19तत्तूपकरणं स्मृतम् ॥ BhNZ_21_197cd
यद्यस्य 20विषयं प्राप्तं तत्तदेवाभिगच्छति । BhNZ_21_198ab
नास्त्यन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ BhNZ_21_198cd
[ABh]

अवटुरिति कर्णशुष्कली ।

(मू)

1. न॰ कटे च

2. ज॰ त्र्यङ्गुलं

3. भ॰ तालस्य

4. च॰ च विधिमङ्गुलम्, न॰ त्वधिकं

5. च॰ अङ्गुलं

6. भ॰ विस्तारं

7. न॰ सदैव

8. भ॰ तस्य चैवावटः कार्यो समा वै द्वादशाङुला

9. भ॰ घटोच्छेद्यकृतं ह्येतद्विधानं परिकीर्तितम्

10. विधिसंविहितं मया

11. भ॰ तस्या उपरिगाः

12. ढ॰ ततः

13. भ॰ विविधाश्रयाः

14. भ॰ गुरु

15. न॰ युक्तिकृतानि च

16. भ॰ नानाविधान

17. छ॰ अथ

18. ज॰ सचराचरसंज्ञिते

19. प॰ तद्रूपकरणं भवेत्

20. भ॰ विषयं प्राप्तं तत्तस्मिन् तत्क्वचिद्भवेत् । ...... करणं प्रति, ढ॰ विषयप्राप्यं स तस्मिंस्त्वधिगच्छति । नान्यतः ...... करणाश्रयम् ॥, प॰ विषस्यं प्राप्तः स

(व्या)

[page 140]




[NZ]

यद्येनोत्पादितं कर्म शिल्पयोग1क्रियापि वा । BhNZ_21_199ab
2तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ BhNZ_21_199cd
या 3काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना4 BhNZ_21_200ab
5न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ BhNZ_21_200cd
यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम्6 BhNZ_21_201ab
तस्यानुकृतिसंस्थानं नाट्योपकरणं भवेत् ॥ BhNZ_21_201cd
प्रासाद7गृहयानानि नानाप्रहरणानि च । BhNZ_21_202ab
8न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ BhNZ_21_202cd
लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा9 BhNZ_21_203ab
10स्वभावो लोकधर्मी तु 11विभावो नाट्यमेव हि ॥ BhNZ_21_203cd
12आयसं तु न कर्तव्यं 13न च सारमयं तथा । BhNZ_21_204ab
नाट्योपकरणं तज्ज्ञैर्गुरुखेदकरं भवेत्14 BhNZ_21_204cd
15काष्ठचर्मसु वस्त्रेषु 16जतुवेणुदलेषु च । BhNZ_21_205ab
[ABh]

महात्मनेति विश्वकर्मणा । विभाव इति भावनामात्रमित्यर्थः ।

(मू)

1. च॰ योगः

2. भ॰ सा तस्यैव क्रिया कार्या

3. प॰ कार्णायसभूयिष्ठा कृता भूमिः, भ॰ काष्टा या च भूयिष्ठा कृता भूमिर्महत्तरा

4. ढ॰ महत्तरा

5. भ॰ नाट्ययोगे न सास्माकं

6. भ॰ संयुतम्

7. ढ॰ कृत

8. भ॰ किं, ढ॰ न शक्यानि तथा

9. भ॰ तथापि वा

10. ढ॰ प्रभावो, प॰ प्रभवो

11. प॰ विकारो नाट्यमेव हि

12. न॰ आयसं न च, भ॰ मृण्मयं न च, ढ॰ लोहादिभिर्न

13. ढ॰ नगसारमयं न च

14. ज॰ गुरुत्वात् स्वेदजं हि तत्

15. भ॰ जतुकाष्ठमयैर्भाण्डैश्चर्मवेणुदलैस्तथा, ढ॰ जतुकाष्ठचर्मवस्त्रभाण्डवेणुदलैस्तथा

16. छ॰ तन्तु(तनु?)

(व्या)

[page 141]




[NZ]

नाट्योपकरणानीह लघुकर्माणि1 कारयेत् ॥ BhNZ_21_205cd
चर्मवर्म2ध्वजाः शैलाः प्रासादा 3देवतागृहाः । BhNZ_21_206ab
हयवारणयानानि विमानानि गृहाणि च4 BhNZ_21_206cd
पूर्वं वेणुदलैः 5कृत्वाकृतीर्भावसमाश्रयाः । BhNZ_21_207ab
6ततः सुरङ्गैराच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ BhNZ_21_207cd
अथवा यदि 7वस्त्राणामसान्निध्यं भवेदिह8 BhNZ_21_208ab
9तालीयैर् वा किलिञ्जैर् वा श्लक्ष्णै10र्वस्त्रक्रिया भवेत् ॥ BhNZ_21_208cd
11तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । BhNZ_21_209ab
जतुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ BhNZ_21_209cd
12प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । BhNZ_21_210ab
तृणैः किलिञ्जैर् भाण्डैर्वा 13सारूप्याणि तु कारयेत् ॥ BhNZ_21_210cd
[ABh]

लघुकर्माणीति येषु क्रियमाणेषु लाघवेन क्रिया संपद्यते ।
तालीयैरिति तालपत्रैः । भाण्डैरिति अलाबुदलखड्गादिभिः ।

(मू)

1. ढ॰ कर्मणि

2. भ॰ विवर्जं च प्रासादशिबिकास्तथा

3. ढ॰ शिखरास्तथा

4. भ॰ वा

5. न॰ कृतिर्भावसमाश्रया, प॰ ह्याकृतिं स्वाङ्गसंश्रयाम्, ज॰ आकृतीर्भावसंश्रयाः, भ॰ वेषाकृतिसमाश्रयाः

6. च॰ नानावर्णैस्ततो वस्त्रैच्छादयेद्रूपकारणान्, ढ॰ ततः सुरक्तैः

7. ज॰ वर्णानां

8. ढ॰ तद्विधानमसंभवम्

9. ज॰ तालीमयैः, ढ॰ तालीयजैः कीलजैर्वा

10. ढ॰ वस्त्रैः, न॰ वस्तु

11. भ॰ चर्मकाष्ठकृतैर्वापि तृणवेणुदलैरपि । जतुभाण्डकृतैश्चैव नानारूपाणि कारयेत्

12. ढ॰ प्रतिपादौ प्रतिशिरः प्रतिहस्तौ प्रतित्वचम् । तृणजैः कीलजैर्भाण्डैः सरूपाणि तु (णीह -प॰) कारयेत्

13. भ॰ तद्रूपाणीह

(व्या)

[page 142]




[NZ]

1यद्यस्य सदृशं रूपं सारूप्युगुणसंभवम् । BhNZ_21_211ab
मृण्मयं 2तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥ BhNZ_21_211cd
(3*)भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । BhNZ_21_212ab
4नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ BhNZ_21_212cd
नानाकुसुमजातीश्च6 फलानि विविधानि च । BhNZ_21_213ab
भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥ BhNZ_21_213cd
भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । BhNZ_21_214ab
7सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ BhNZ_21_214cd
रञ्जितेनाभ्रपत्रेण 8मणीश्चैव प्रकारयेत् । BhNZ_21_215ab
9उपाश्रयम् अथाप्येषां शुल्बवङ्गेन10 कारयेत् ॥ BhNZ_21_215cd
विविधा मकुटा दिव्या11 पूर्वं ये गदिता मया । BhNZ_21_216ab
12तेऽभ्रपत्रोज्ज्वलाः कार्या 13मणिव्यालोपशोभिताः ॥ BhNZ_21_216cd
[ABh]

मधूच्छिष्टं सित्थकम् ।

(मू)

1. भ॰ यद्यस्य यादृशं कर्म तद्रूपं गुणसंयुतम् । मृण्मयं तमुपाकृत्य यद्रूपं तत्प्रकारयेत्

2. ज॰ तत्र

3. च॰ भेण्ड

4. ढ॰ नगाः

5. ढ॰ चर्मवर्मध्वजास्तथा

6. न॰ जात्यश्च

7. भ॰ नीलीरागेण चान्यैश्च सस्यशाकेन चैव हि, ढ॰ तत्सम्यङ्नीलरागेण

8. भ॰ भित्तयश्चैव कारयेत्

9. भ॰ अपाश्रयं तथा चैषां शुक्लभेण्डेन चैव हि

10. प॰ वङ्गैश्च

11. भ॰ दीर्घाः

12. भ॰ ताम्र

13. ड॰ माणिक्यालोक, भ॰ मणिप्रद्योत

(व्या)

* भाण्डः असारं लघु दारु, भेण्ड इति साधुशब्दः स्यात् । `वेण्डु' इति भाषासु प्रयोगः ।

[page 143]




[NZ]

न शास्त्रप्रभवं कर्म 1तेषां हि समुदाहृतम् । BhNZ_21_217ab
2आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम्3 BhNZ_21_217cd
4एष मर्त्यक्रिया5योगो 6भविष्यत्कल्पितो7 मया । BhNZ_21_218ab
8कस्मादल्पबलत्वं हि 9मनुष्येषु भविष्यति ॥ BhNZ_21_218cd
10मर्त्यानामपि नो शक्या विभावाः11 सर्वकाञ्चनाः । BhNZ_21_219ab
नेष्टाः सुवर्णरत्नैस्तु12 मुकुटा भूषणानि वा13 BhNZ_21_219cd
युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । BhNZ_21_220ab
गुरुभावावसन्नस्य 14स्वेदो मूर्छा च जायते ॥ BhNZ_21_220cd
15स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । BhNZ_21_221ab
प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया16 BhNZ_21_221cd
17तस्मात्ताम्रमयैः पत्रै18रभ्रकै रञ्जितैरपि । BhNZ_21_222ab
भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु19 BhNZ_21_222cd
एवं लोकोपचारेण स्वबुद्धिविभवेन च । BhNZ_21_223ab
नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ BhNZ_21_223cd
[ABh]


(मू)

1. भ॰ प्रोक्तमेषां विधानतः

2. ड॰ विचार्य

3. भ॰ साधितम्

4. न॰ एवं, च॰ एवमल्प

5. भ॰ कृतो

6. भ॰ भविष्यो यो मयोदितः

7. न॰ कथितो

8. ढ॰ यस्मात्, ज॰ तस्मात्

9. भ॰ मानृषेषु

10. भ॰ मर्त्यानामल्पशक्तित्वान्न च वागङ्गचेष्टितम्, ज॰ मर्त्यानामपशक्तीनां न चातीवाङ्गचेष्टितम् (ड॰ भवेद्)

11. न॰ विभवाः

12. भ॰ रत्नानि, प॰रत्नेषु

13. न॰ च

14. ज॰ न व्यायतविचेष्टना

15. च॰ मूर्च्छयाभिहते जन्तौ प्रयोगो न भविष्यति, ज॰ मूर्च्छास्वेदश्रमार्तस्य

16. ज॰ चेष्टनात्, च॰ चेष्टिते

17. भ॰ तस्माद्धि ताम्रपत्रेण मुकुटादि प्रकारयेत् । स्वच्छन्दनीलरागेण अभ्रपत्रेण चित्रितम्

18. न॰ अभ्रगैः

19. भ॰ च

(व्या)

[page 144]




[NZ]

1न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । BhNZ_21_224ab
रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ॥ BhNZ_21_224cd
2अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । BhNZ_21_225ab
शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ BhNZ_21_225cd
3एवं नानाप्रकारैस्तु आयुधाभरणानि च । BhNZ_21_226ab
नोक्तानि यानि च मया लोकाद्4 ग्राह्याणि तानय् अपि ॥ BhNZ_21_226cd
आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । BhNZ_21_227ab
अत ऊर्ध्वं5 प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ BhNZ_21_227cd
इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः6 e
[ABh]

सुधामकोक्ता विद्या हस्तलाघवादि माया चक्षुर्बन्धादिका । एनमध्यायमुपसंहर(न्नभिनये वक्तव्यशेषमा)सूत्रयति आहार्याभिनयो ह्येष इति शिवम् ।
आहार्याभिनयाध्याये वृत्तिरेषा यथाक्रमम् ।
कृताभिनवगुप्तेन ग्रन्थिस्थानेषु तत्त्वतः ॥
इति श्रीमाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यामाहार्याभिनयाध्याय एकविंशः ॥

(मू)

1. भ॰ भोक्तव्यं नायुधं रङ्गे न छेद्यं न च ताडनम् । प्रादेशमात्रं गृह्नीयात्संज्ञार्थं शस्त्रमेव च

2. भ॰ शिक्षायोगेन नाट्येऽस्मिन् विद्यायोग

3. भ॰ आयुधान्येवमेतानि प्रयोज्यानि प्रयोक्तृभिः

4. भ॰ लोके

5. भ॰ परं

6. भ॰ अध्यायो विंशः, ज॰ त्रयोविंशोऽध्यायः, य॰ द्वाविंशो ऽध्यायः

(व्या)

[page 145]




श्रीः
नाट्यशास्त्रम्
द्वाविंशो ऽध्यायः1 C
[NZ]

सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः । BhNZ_22_001ab
[ABh]

अभिनवभारती -- द्वाविंशोऽध्यायः
भेदेनात्माभिमुखतां नयन्तं भेदकारणम् ।
सामान्याभिनयाकारगर्वमूर्तिं शिवं नुमः ॥
इहान्यदित्युपरञ्जकं च अभिनयं चान्याभिनयं समं च तदिति तत्र भवः सामान्याभिनय इति परमार्थः । कोहलमतानुसारिभिर्वृद्धैः सामान्याभिनयस्तु षोढा भण्यते । तथाहि कोहलः --
शिष्टं कामं मिश्रं वक्रं संभूतमेकयुक्तत्वम् ।
सामान्याभिनये यत् षोढा विदुरेतदेव बुधाः ॥ इति ।
तत्र सामान्यमिति साधारणमुच्यते तेन सर्वेष्वभिनयेषु यद्रूपमवशिष्टं पूर्वं नोक्तमवश्ये वक्तव्यं च कविनटशिक्षार्थं तद्येनाध्यायेनाभिधीयते स सामान्याभिनयः, सोऽभिनयेषु सामान्यभूतः साधारणभूतोऽभिनयविषयत्वात् स्ववाच्याभिमुख्यनयनाद्वाभिनय इति व्युत्पत्त्या । तथा हि सात्त्विकस्य हावभावहेलादिना विशेषः पूर्वमनुक्तोऽभिधीयते । विषयश्चैवं `षडात्मकः शारीरः'(22-41) इत्यादिना `आलापश्च प्रलापश्च'(22-49) इत्यादिनाङ्गिकवाचिकयोः ।
ननु `अङ्गाद्यभिनयस्यैव यो विशेषः'(25-1) इत्यतः चित्राभिनयात् कोऽस्य विशेषः, उच्यते -- तत्र वागङ्गसत्त्वव्यामिश्रत्वेन चित्रता । इह तु

(मू)

1. भ॰ एकविंशः ज॰आदिषु चतुर्विंशः च॰य॰ त्रयोदशः

(व्या)

[page 146]




[NZ]

[ABh]

प्रत्येकनियतस्यानुक्तस्य विशेषान्तरस्याभिधानमिति । तथा हि तत्र चित्रशब्दं पठिष्यति `अनुक्त उचय्ते चित्रः' इति(25-2) तथा (चेह तु) सामान्याभिनयः कामोपचारः, स हि सकलप्राणिवर्गसाधारण आभिमुख्यं नयति च सर्वं जन्तुवर्गमिति वागङ्गसत्त्वलक्षणेन सकलेन सामान्यात्मना चाभिनयेन अभिनीयत इति । तत्कामोपचारः स्त्रीपुरुषस्वभावः तदवस्थाभेदेनेहाभिनीयत इति सामान्याभिनयोऽयमध्यायः । अत एवैतदध्यायशेषभूतकामोपचारप्रतिपादकमेवाध्यायं वैशिकोपचाराख्यं मन्तव्यम् । तथा सामान्यमिति समानानां कर्म सामान्यं च तदभिनयनं च । तत्तेनैकमेवाभिनयं गमयितुं यथासम्भवं बहूनामभिनयानां याभिनयक्रिया एकं तदेवाभिनयक्रियारूपं कर्म समानानां सताम् ।
नन्वेवमेकत्राभिनये किं बहुभिरभिनयैः । तत्र केचिदाहुः -- स्वोपस्थानेषु साध्येषूपस्कारांशो व्यापार इति । तच्चास्सत्, नहि नाटकादौ सूत्रेष्विवोपस्कारो युक्तः । स ह्यत्र दोषाय, यथाह -- ``काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवित्''(*) इत्यादिना । प्रविस्पष्टपराकरणं तत्र निमित्तं स्पष्टार्थेन वाक्यमात्रेण तत्प्रसिद्धेः ।
तत्रोक्तं श्रीशङ्कुकादिभिः -- इह लोकानुसारिनाट्यात् लोके सुखदुःखाद्यावेशविवशे वक्ता, तत एव स्तम्भस्वेदादिभिर्बृंहितं अवधानबन्धेऽपि गुणक्रियादिस्वरूपसाहचर्याभ्याससंस्कृतः(तं ?) शब्दप्रयोगः(गं ?) तदुचिताङ्गोपाङ्गविकारसंकीर्णमेव कुर्वाणो दृश्यते -- इति ।
(1) यत्र त्वसत्यतो वक्तव्यं तदस्य निरुक्तमष्टमेऽध्याये --
विभायति यस्माद्धि नानार्थार्थप्रयोगतः ।
शाखाङ्गोपाङ्गसंयुक्तं तस्मादभिनयः स्मृतः ॥
इत्येवमन्तं श्लोकं व्याचक्षाणैः । [न तथा] सामान्यस्य समानीकृतसकलाङ्गोपाङ्गकर्मणा सतोऽभिनयनं येनालातचक्रप्रतिमता प्रयोगस्य जायते । यथोक्तं `प्रयोगश्चास्य कीदृश' इति, यद्वक्ष्यते

(मू)

(व्या)

* भामहालङ्कारे, भट्टिकाव्ये च

[page 147]




[NZ]

[ABh]

`शिरोहस्तकटीवक्षोजङ्घोरुकरणेषु तु ।
समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥(अ 22) इति
(2)सामान्य इत्यनेनाशेषाभिनयविशेषा आङ्गिकादिगता उपलक्षिताः तत्कृतोऽभिनयः । यद्वक्ष्यति --
कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वे नतं तथा ।
तर्हनीं कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ इति (22-76)
(3)अत्र हि दृष्टिविशेषः शिरोविशेषो हस्तविशेषश्च संभूयैकमभिनयं प्रयेकोऽभिनयः संपद्यते । (4)एकैकेन तु शब्दाभिनयस्य कापि मात्रा निष्पद्यत, एवमेव तृतीयपक्षादस्य विशेषः । तत्र हि एकैकस्याप्यभिनयनेऽस्य (संभूतत्वेन) सामर्थ्यम् । (5)तथा विघ्नसंभावना(*)विहीनसकलसाधारणस्पष्टभावसाक्षात्कारकल्पाध्यवसायसंपत्तये सर्वेषां प्रयोग इत्युक्तम् । (6)तथाभिनय इति तद्विशेषो यत्र उचय्ते, स च साधारणरूपः सामान्याभिनयः । तथा हि -- प्रकटाक्षप्रेक्षणाद्यं यं यत्नं कुशलं प्रयोक्ता गृह्णाति तेनैव तदुचितशिरःकर्मान्तमस्य संपाद्यम्† इति षोढा गुरुभिर्निदर्शितः ।
वयं तु [न] मन्महे -- रसभावाध्याययोर्वागङ्गसत्त्वजास्त(त्त)द्रसभावेषु दर्शितास्ते कथं प्रयोज्या इत्ययमध्यायः । यथा हि किराटगृहाद् गन्धद्रव्याण्यानीय गान्धिकेन समानीक्रियते अस्येतान् भाग इदं पूर्वमिति, एवमत्राध्यायेऽभिनयः । तत्र शृङ्गारस्य प्राधान्यात् तत्रैवाभिनयानां भागयोगेन पौर्वापर्ययुक्त्या च समीकरणं सत्त्वातिरिक्त इति । तेनसामान्यानां कर्म समानीकरणं भावनप्रायमभिनयविषयं स्वयं चाभिनयरूपं सामान्याभिaनयं शृङ्गारमुखेन चान्यदुपनेयमिति । तदेतत्सर्वं हृदये कृत्वा मुनिराह सामान्याभिनयो नाम ज्ञेय इति । नाम्नैव ज्ञातुं शक्योऽन्वर्थत्वादस्येति भावः । तत्तु व्याख्यातम् ।
नन्वेवं तत्र न किञ्चिदवशिष्यते वक्तव्यमित्याशङ्क्यावृत्त्याह सामान्याभिनयो नाम ज्ञेय इति । नामशब्दः प्रसिद्धिद्योतकः । तदयमार्थः -- यद्यपि

(मू)

(व्या)

* षष्ठेऽध्याये रससूत्रव्याख्याने सप्तविघ्ना उक्ताः

इदमार्याया विकाररूपं स्यात् --

प्रकटाक्षवीक्षणाद्यं यत्नं कुशलप्रयोक्ता यम् ।

गृह्णाति तेन तु तदुचितशिरःकर्मान्तमस्य संपाद्यम् ॥ इति स्यात् ।

[page 148]




[NZ]

1तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ BhNZ_22_001cd
[ABh]

ज्ञेयः [स्थिर]विषये सामान्याभिनयः प्रसिद्धोऽपि वाक्यार्थबलात्, तथापि यो वागङ्गसत्त्वेभ्यो जातः तद्विषयः सामान्याभिनयो व्याख्यातः । तत्रेति विषये तन्निरूपणायामस्माकं प्रयासः कार्य एव । आहार्यो हि यद्यप्यभिनयान्तरेभ्यो न्यूनस्तथापि तस्य सिद्धस्वरूपत्वान्नात्रोपादानम् । आङ्गिकादिक्रियाणां हि पूर्वापरीभूतरूपतया सम्भावनीयवि(शेष)भावनादेकीकारात्मा सामान्याभिनयो एवासौ । अत एवाहार्येऽपि भविष्यति सामान्याभिनयचिन्ता । न तु सर्वथैवास्य तत्र त्यागः । तथा हि ``वागङ्गालङ्कारैः''(22-14) इति लीलायां, ``माल्याच्छादनविलेपनभूषणानां''(22-17) इति विच्छित्तौ, ``वागङ्गाहार्यसत्त्ववेगेन''(22-17) इति विभ्रमे, तस्य सातिशयनिरूपणं भविष्यति ।
अन्ये त्वाहुः -- आन्तरभावानपेक्ष एवाहार्यो दण्डकमण्डल्वक्षसूत्रादिर्व्रतविशेषादिमात्रं गमयति, न तु भावं कंचित् । उज्ज्वलो हि वेषो न रतिं गमयति नापि मलिनः शुचम् । तदभावेऽपि हि ते भवत एव । औचित्यमात्रं ह्येतद्रतावुज्ज्वलो वेषः, शुचि मलिन इति । ये त्वेते गुणद्रव्यादिबाह्याभिनयाः सुखदुःखादिभावानिश्चयाश्च ते चित्तवृत्तीनां बाह्यार्थानां च कार्यकारणभावस्य नियतव्यक्तित्वाद् भावापेक्षा इति । वागङ्गसत्त्वाभिनया अन्योन्यसहचर्यमाणाः, नत्वेवं तेष्वाहार्य इत्यस्यानुपादानक्रिया । एतच्च न मुनेर्मतमित्यावेदितमस्माभिरुपाङ्गाभिनयाहार्याभिनयाभ्याययो(8,22)रित्यास्ताम् ।
नन्वेवं त्रितयनिष्ठो यद्यपि यत्नस्तथाप्यभिहितत्वेन किमिह वक्तव्यमित्याह नाट्यं सत्त्व इति । तुशब्दः सत्त्वशब्दानन्तरं द्रष्टव्यः । सात्त्विके त्वभिनये नाट्यं प्रतिष्ठितम् । रसमयं हि नाट्यं रसे चान्तरङ्गः सात्त्विकस्तस्मात् स एवाभ्यर्हित इति तद्गतमेव वक्तव्यं पूर्वमभिधेयमित्याशयमशेषचिरन्तना आक्षेपपूर्वकं समादधति -- त्रिषूद्दिष्टेषु वक्तव्यं वागङ्गसत्त्वेषु नाट्यं प्रतिष्ठितमिति सोऽयमाक्षेपः । प्रतिसमाधानं तु यदि वागङ्गजमेव स्यात् प्रयत्नं विनापि

(मू)

1. ड॰ सत्त्वे

(व्या)

[page 149]




[NZ]

सत्त्वातिरिक्तो ऽभिनयो ज्येष्ठ इत्यभिधीयते । BhNZ_22_002ab
समसत्त्वो भवेन्मध्यः सत्त्वहीनोऽधमः स्मृतः ॥ BhNZ_22_002cd
अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम्1 BhNZ_22_003ab
यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः ॥ BhNZ_22_003cd
[ABh]

सिद्धिः स्यात्, वागङ्गसत्त्वजोऽसौ सत्त्वे च नाट्यं प्रतिष्ठितम्, सत्त्वं च मनस्समाधानम् । तस्माद्भूयसा प्रयत्नेन विना(न) सिद्ध्यतीति । एतत्तु चोद्यसममेवोत्तरं सत्त्वस्य हि प्रयत्नाधिक्यमुपयोगीति वागङ्गयोरुपादानमलमेवेति -- अलमनेति ।
ननु कोऽत्र हेतुः सत्त्वे नाट्यं प्रतिष्ठितमित्याशङ्क्याह -- सत्त्वातिरिक्तो ऽभिनय इति । सत्त्वमिति सात्त्विकोऽभिनयः, तेन वागङ्ग[सत्त्वा]भिनययोर्यत्रैकत्रैवाभिनये क्रमेण युगपद्वा प्रयुज्यते तत्र परे(रं?) सात्त्विकस्या(न्य)द्वयापेक्षयाधिक्यं भवति । तत्प्रशस्यतमाभिनयक्रिया(ज्येष्ठा) भवति । सुष्ठु सम्यगभिमुखीभावं सौष्ठवं नीतो भवति रसपर्यन्तत्वात्प्रीतेरिति भावः ।
अथ सात्त्विकोऽन्यतुल्य एव, तदभिनयनं प्रशस्यं संपद्यते परमिति यावत् । युदि त्वितरापेक्षया सात्त्विको न्यूनस्तर्हि अभिनयक्रिया स्वरूपेणापूर्णा संपद्यत इत्यर्थः । सात्त्विकाभावे ह्यभिनयक्रियानामपि नोन्मीलति । अभिनयनं हि चित्तवृत्तिसाधारणतापत्तिप्राणसाक्षात्कारकल्पाध्यवसायसंपादनमिति, अत एवोक्तं सत्त्वे नाट्यं पर्तिष्ठितमिति ।
अव्यक्तरूपमित्यादिकं प्रबन्धं श्रीशङ्कुकादय इत्थं नयन्ति -- कस्मात् पुनः सत्त्वं प्रयत्नातिशयमपेक्षते । उच्यते -- रामाद्यनुकार्यगतं भावसंश्रयं तद्भावनाप्रकर्षजं रोमाञ्जादिसंपादकं यदान्तरं नाट्यस्य सत्त्वं तदव्यक्तं अस्फुटं केवलं रोमाञ्चादिभिर्गमकत्वाद्गुणभूतैर्विज्ञेयं, अन्यथा हि सुखाद्यभावे कुत एषामुद्भव इत्यहेतुकं स्यात् । तत्र सत्त्वं भावस्य स्थाने यो मुख्यो रसस्तेनोपेतं, रसेनानुकार्ये च प्रकृष्टेन यत्नेन ज्ञेयं सुखादि तस्य ये रोमाञ्चादयः कार्यस्तत्तत्साध्यभावे

(मू)

1. च॰ ज्ञेयं भावरसाश्रयम्, भ॰ भावनाश्रयम्

(व्या)

[page 150]




[NZ]

[ABh]

यतः सत्त्वात्प्रवर्त्यन्ते तन्मयः प्रयोगः कथं प्रकृष्टयत्नमन्तरेण सिद्ध्येदिति तापर्यम् । न केवलं [प्रकृत]रोमाञ्चादावभिनये संपाद्ये नटस्य सत्त्वमुपयुज्यते यावदङ्गनानां येऽलङ्कारास्तेष्वपि । तथा हि तावत् कटककेयूरादिभ्योऽप्यभि विकारानयनेऽभिनयं(?) रूपलावण्यादिवत् स्तनकेशादिवच्च युवतिरियमिति प्रयीयते, न त्वभिनेयं तेषां किंचिदस्ति केवलमलङ्कारत्वमेषाम् । न च प्रयोगाभिनिविष्टत्वाद्युवतेरपि प्रयोज्यास्ते प्रयोक्तुं शक्या मनस्समाधानमन्तरेण । तत्र मनसो देहवृत्तित्वात् समाधानं सत्त्वमुपचाराद्देहात्मकम् । देहे हि मनस्समाधातव्यम्, तत ईषद्विकारो भावः स एव प्रौढतायां तदतिशये च हावो हेला च । तथा च भावः तत्र कटकादाविव हेमः स्थितः । तत्र तु मदनानपेक्षी विकारो भावः येनाकामयमानापि तरुणी कामयमानेव लक्ष्यते, तस्यैव तु मदनापेक्षत्वेन प्रौढतायां हेलात्वमेव, यौवने क्रमादुपचीयमाने स्वात्मेन्द्रियमनःस्वास्थ्ये हावः हेला शरीरविकारः धात्वादिवैषम्यात्तु तदवसादे प्रविलय इति हेलातो भावयुक्तो भावतै(जावतै?)वेति नानपेक्षितहेत्वन्तरा यौवनकृताः शरीरविकारा अपि प्राधान्येन वक्त्रगात्रगता गुणा इव भावा इव नाभिनेयाः ।
किं त्वीषद्भिद्यमानैर्वागाद्यभिनयैर्मुखरागेण च संभवत्तया प्रतीता अप्रतीता अलङ्कारा उचय्ते । तेदेतदुक्तमव्यक्तरूपमित्यादिना समाख्याताa बुधैर्हेला ललिताभिनयात्मिका(22-11) इत्यनेन । एतेभ्यस्त्वङ्गजेभ्योऽन्ये शीलकृता इति स्वाभाविका दश लीलाद्याः सत्त्वबलेनैव प्रयोज्याः । अन्ये तु निसर्गत्वेनायत्नजाः सप्त शोभाद्या उक्ताः(22-32) । तत्रैते शोभाद्याः स्त्रीगताः पुरुषगताश्चान्ये । सर्वे चैते अतत्स्वभावेनापि नटेन सत्त्वबलात्प्रयोक्तव्या इति बहुप्रद(र्शनविलसितं) व्याखयनं न ग्रन्थज्ञेभ्यो रोचते ।
तथा हि -- किमिदमनुकार्यं(र्यगतं) कवेः शिक्षार्थमुपादिश्यते, तथानुकर्तृगतं नटस्य (वा) । प्रथमस्तावद्यदि पक्षस्तदव्यक्तरूपं सत्त्वमिति सत्त्वस्य कथं प्रयोक्तरि स्थितिः, सत्त्वाद्भावः समुत्थित इति ह्युक्तम् । नटे च सत्त्वं, अनुकार्ये च भाव इति किं केन संगच्छते । स्वनुकार्ये च प्रस्तुते प्रागल्भ्यमाधुर्ये

(मू)

(व्या)

[page 151]




[NZ]

[ABh]

परत्र(पात्र?) गते उच्येते किमेतच्च, प्रतिलव(विलय?)क्रमेण भावहावहेलानां परस्परकार्यकरत्वं प्रथमं तावव्याख्यातम्, तदप्यसत् । न हि प्रतिसंहारे कारणता कार्यस्य व्यपदिश्यते । न हि पृथिव्यादिभूतानि प्रविलयतन्मात्राणां कारणानि, तानि चाहंकारस्य, सोऽपि च बुद्धेः, सा च प्रकृतेः, प्रकारो वा तदहङ्करणमिति व्यवहारः । प्रति(संहार इव) प्रकृतेः कार्यदशायामपि संभवान्न पूर्वः प्रादुर्भावः तत्कथं कार्यता तदहंकारादेः कारणत्वमेतदिति चेत् सामानमेतदिहापि । यदि हि भावो हावतां प्राप्तः सोऽपि हेलात्वं च ततो हेला विलीयते । आख्यास्था दोषात् तदा हावः स्थित एव, न हेलया हेला परं कार्यकारणभावव्यवहारस्यावकाशः । किं चैते देहविकाराः प्रयत्नेन निर्वर्त्या इति [साक्षिण इति] यदुच्यते तत्स्मिन्नाट्यस्य संसारे नाम तदस्ति यत्प्रयत्नेन निर्वर्त्या इति सात्त्विकाद्वैतम् । किं च विभावानुभावव्यभिचारिव्यतिरिक्तमपि यद्यत्रोपयोगि संभवति तद्वृथैव प्रतिज्ञातं तत्संयोगाद्रसनिष्पत्तिरिति, गीतातोद्यरङ्गादिबलेनेदं व्यवस्थितं सामान्याभिनय इत्याभिधानात् अनभिनयवत्त्वे चास्य सत्त्वनिर्वर्त्यस्यापि को नाट्ये उपयोगः, कथं च सामान्याभिनयेनेत्यपरामृष्टाभिधानात् । एतत्सर्वं मुनिमताननुप्रविष्टैः परं श्रद्धीयते नामेत्यास्तां तावत् ।
प्रकृतव्याख्यानमुच्यते -- इहोक्तं सत्त्वे नाट्यं प्रतिष्ठितं तेन सात्त्विकभावानुनयो वक्तव्यः तस्य च किंचिदुक्तमिति दर्शयति अव्यक्तरूपं सत्त्वं हि विज्ञेयमिति । इह चित्तवृत्तिरेव संवेदनभूमौ संक्रान्ता देहमपि व्याप्नोति । सैव च सत्त्वमित्युच्यते । तत्र चाव्यक्तं संवित्प्राणभूमिद्वयानिपतितं यत्सत्त्वं तद्भावाध्यायसंश्रयत्वेनैव विज्ञेयम् । तस्य च ये गुणा देहपर्यन्ततां प्राप्ता धर्मरोमाञ्चादयः तेऽपि तत्रैवोक्ताः किंचित् । यथास्थानमिति यस्य रसस्य यत् स्थानं, तद्यथा शृङ्गारस्य (उत्तमौ) स्त्रीपुंसौ, रौद्रस्य रक्षोदानवादिः, भयानकस्याधमप्रकृतिः, तदनतिक्रमेण रसेषूपेतं सम्बद्धं तत्सत्त्वम् । भावशब्देनात्र भावाध्यायः (उक्तः) ।

(मू)

(व्या)

[page 152]




[NZ]

अलङ्कारास्तु1 2नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः3 BhNZ_22_004ab
[ABh]

एतदुक्तं भवति -- चित्तवृत्तिरूपं यत्सत्त्वं तद्भूकायसंक्रान्तप्राणदेहधर्मतावशाद् भवदपि भावाध्याये रसाध्याये च वितत्य निरूपितमिति पुनः किं तदभिधानेन ।
किं तस्य भूसत्त्वस्य रूपं वक्तव्यमित्याह -- अलङ्कारस्तु नाट्यज्ञैरित्यादि । अयमभिप्रायः -- संवेदनरूपात्प्रसृतं यत्सत्त्वं तद्विचारितम् । अन्यत्तु देहधर्मत्वेनैव स्थितं सात्त्विकं, यतः सात्त्विकेष्वेवोत्तमेषु दृश्यते, तत्र स्त्रीणामुत्तमत्वं शृङ्गाररसपर्यन्तमेव, पुरुषाणां तु वीररसविश्रान्तम् । शान्तस्तु प्रधानत्वेन न प्रयोगार्ह इत्युक्तप्रायः । स्त्रीगतेन शृङ्गारेण पुरुषनिष्ठेन वीरेण च सार्वलौकिकः पुमर्थो व्याप्तः । न च सत्त्वमयमुत्तमस्त्रीरूपं विमुच्यान्यत्रामीचेष्टालङ्कारा विनिवेशं लभन्ते [न] सात्त्विकास्तावद्राजसतामसशारीरेष्वसंभवात् । चण्डालीनामपि रूपलावण्यसंपदो दृश्यन्ते, ननु चेष्टालङ्कारास्तासामपि भवन्त उत्तमतामेव सूचयन्ति स्ववर्गापेक्षया वा संपद्भ्रंशादिना । एतदुक्तं भट्टतोतेन -- न चालङ्कृतीनामत्र(*) लक्षणं महदाश्रयमिति -- ते च दृष्टाः सन्तः उत्तमेयं शृङ्गारसमुचितेति विभावादिसुविवेकविहीनं व्यभिचारिरूपदशान्तरसंस्पर्शशून्यं विशेषविरहितमेव सामान्यरूपं शृङ्गारमभिनयति(न्ति?), सामान्याभिनया न तु लावण्यादिवदनभिनेया एव(वं?) शरीरविकारा अनुभावा एव तेन विभावानुभावव्यभिचारिसंयोगादित्येवमेवैतत् । एवं पुरुषगता अपि शोभादय उत्साहप्रकृतिरयमित्येतावन्मात्रं गमयन्तः सामान्याभिनया एव । किं च यत्किंचिदङ्गनानां शृङ्गारोचितं चेष्टितमभिनीयते तत्रैव चेष्टालङ्कारा अवश्यमभिनेया इति सामान्यवत्सर्वावस्थानुयायित्वेनाभिनीयत इति (च) सामान्याभिनया एव प्रधानपुरुषस्य शोभादयः, तथैव वागङ्गसत्त्वाहार्याणिँ स्वभेदसहितानि यथासंभवं संभूयाभिप्रविष्टानि यथा किलकिञ्चिते विच्छित्तौ विभ्रमे चेति सामान्याभिनया वागङ्गहार्ययोगेऽपि च सत्त्वप्रधानतया सात्त्विका इत्युक्ताः ।

(मू)

1. च॰ च

2. च॰ सत्त्वस्था, भ॰ वृत्तज्ञ्जैः

3. क॰ समाश्रयाः

(व्या)

* न चेष्टालङ्कृतीनां तु -- इति स्यात्

[page 153]




[NZ]

यौवनेऽभ्यधिकाः1 स्त्रीणां विकारा वक्त्रगात्रजाः ॥ BhNZ_22_004cd
आदौ त्रयोऽङ्गजास्तेषां2 दश स्वाभाविका परे3 BhNZ_22_005ab
अयत्नजाः 4पुनः सप्त 5रसभावोपबृंहिताः ॥ BhNZ_22_005cd
[ABh]

एवं तैरेव सामान्याभिनयैः प्रधानप्रमदापुरुषद्वारेण विश्वमेव व्याप्तम् । ते चात्राध्याये वक्तव्याः, तदाह -- अलङ्कारास्त्विति तुर्व्यतिरेके, अन्ये भावाध्यय एवोक्ताः, एते तु वक्तव्याः ते तु तत्र नोत्काः । यत एते केवलमलङ्कारा देहमात्रनिष्ठाः, न तु चित्तवृत्तिरूपाः । भावसंश्रया इति रतिभावमात्रमभिनयन्तीत्यर्थः । ते हि यौवने उद्रिक्ता दृश्यन्ते बाल्ये त्वनुद्भिन्ना वार्धके तिरोभूताः । यदाह --
यावन्त एते तरुणीजनस्य भावाः समं कुट्टमितादयोऽपि ।
रात्रावदृश्यानिव तान्घटादीन्कामप्रदीपः प्रकटीकरोति ॥ इति ।
वक्त्रगात्रजा इति देहविकारमात्ररूपा एव परं न हि यथा बाष्पादीनामन्तःप्राणभुवि कण्ठरोधादिरूपं लक्ष्यते, तथा चेष्टालङ्काराणां गात्राणि(वक्षोनितम्बा)दीनि, वक्त्रं प्राधान्यात् पुनरुपात्तम् । तत्र देहविकाराः केचन क्रियात्मका अपि ते च प्राग्जन्याभ्यन्तरिता भावसंस्कारमात्रेण सत्त्वोद्बुद्धेन देहमात्रे सति भवन्ति, त एवाङ्गजा उच्यन्ते, तथा भावो हावो हेला च । अन्ये त्वद्यतनजन्मसमुचितविशिष्टविभावानुप्रवेशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति । ते स्वाभाविकाः स्वस्माद्रतिभावात् हृदयगोचरीभूताद् भवन्तीति । तथा कस्याश्चित् कशिच्देव स्वभावबलाद् भवति, अन्यस्या अन्यः, कस्याश्चित् द्वौ त्रय इत्यादि, अतोऽपि स्वाभाविकाः ।
भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकासूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमग्रजाः स्वाभाविकाश्च क्रियाजन्मानः, अन्ये तु गुणस्वभावाः शोभादयः ते चायत्रजाः । यत्नजाताः क्रियात्मका उच्यन्ते, (इच्छातो) यत्नस्ततो देहक्रियेति हि पदार्थविदः । ततोऽन्येऽयत्नजाताः । तदेतदाह -- आदौ त्रयोऽङ्गजा इति । तेषामलङ्काराणां मध्ये । आदाविति

(मू)

1. भ॰ ह्यधिकाः, न॰ अभ्यधिकं

2. भ॰ प्रोक्ताः

3. न॰ तथा

4. ड॰ तथा

5. न॰ प्रोक्ताभावोप

(व्या)

[page 154]




[NZ]

1देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । BhNZ_22_006ab
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता । BhNZ_22_006cd
2हेला हावश्च भावश्च परस्परसमुत्थिताः3 BhNZ_22_007ab
सत्त्वभेदे4 भवनतय् एते शरीरे प्रकृतिस्थिताः5 BhNZ_22_007cd
वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च । BhNZ_22_008ab
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ BhNZ_22_008cd
[ABh]

प्रच्यवासनानुविद्धदेहमात्रप्रभवित्वात् पूर्वमेव भवन्तीति यावत् । भावोपबृंहिता इत्युभयशेषः । स्वाभाविका अयत्नजा स्वरतिभावेन प्राणिता भवन्ति । [अनुमति] पुनरिति सत्त्वानां, पुस्तचित्रालेख्यलिखितानामेव नैते भवन्ति । तत्र त्रयाणां तावदुपक्षेपकर्तृ पीठबन्धमाह -- देहात्मकं भवेत्सत्त्वमिति । शरीरस्वभावं तावत्सत्त्वं संभाव्यते उत्तमशरीरतां प्राप्तमित्यर्थः । ततो भावः ततोऽपि हावः तस्मादपि हेला । एवं त्रीव्ररसत्त्वे देह एव । यदा तु तथाविद्धं सत्त्वं न भवति तदा प्राक्तनरतिवासनोत्थं अत्र सहकार्यन्तरमपेक्षणीयं वर्तत इति दर्शयति --
हेला हावश्च भावश्च परस्परसमुत्थिताः ।
सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ इति
एकश्चशब्दोऽपिशब्दार्थे, अपरः समुच्चये । प्रत्येकं हि समुच्चये द्योत्ये तृतीयोऽपि चः पठितव्यः स्यात् । तदयमर्थः -- प्र(कृ)तिस्थिताः देहस्वभावमात्रापेक्षा अप्येते परस्परसमुत्थिता भवन्ति । तथा हि -- कुमारीशरीरे प्रौढतमकुमार्यन्तरगतहेलावलोकने सति हावोद्भवो भावश्चेदुल्लासितपूर्वः, अन्यथा हि भावस्यौद्भवः । एवं हावेऽपि दृष्टे भावो हेला वा । यदा तु हावावस्थोद्भिन्ना पूर्वं परत्र च हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावाद्भावो भावाद्भाव इति च वाच्यम् । एवं परकीयभावादिश्रवणात् तथाविधेयाभिधेयरमणीयकाव्याकर्णनादेरपि

(मू)

1. अतः प्रभृति श्लोकपञ्चकस्य पाठक्रमो भिन्नमातृकासु भिन्नतया दृश्यते

2. च॰ भावो हावश्च हेला च, प॰ हावो भावश्च हेला च

3. भ॰ समुत्थितः

4. भ॰ सत्त्वभेदा

5. भ॰ प्रकृतिर्हि ताः

(व्या)

[page 155]




[NZ]

[1भावस्यातिकृतं सत्त्वं व्यतिरिक्तं 2स्वयोनिषु । BhNZ_22_009ab
नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्3 ॥ ] BhNZ_22_009cd
तत्राक्षिभ्रूविकाराढ्यः4 शृङ्गाराकारसूचकः5 BhNZ_22_010ab
सग्रीवारेचको ज्ञेयो हावः6 7स्थितसमुत्थितः ॥ BhNZ_22_010cd
[ABh]

हेलादीनां प्रबोधो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् ।
ननु यद्येते प्रकृतिस्थितास्तत एवाङ्गजास्तत्किमन्यापेक्षणेनेत्याह (वागङ्गेत्यादिना) । वागङ्गमुखरागेणेत्यादिपाठः परं भावाध्यायश्लोको नास्य तुल्योऽर्थस्त्वन्य एव, न तु श्रीशङ्कुकेनार्थं(र्धं?) एकार्थं मन्तव्यम् । एवं चित्तवृत्तिलक्षणं देहधर्मस्येति सर्वसंमतम् । तस्मादयमर्थः -- वागङ्गमुखरागैः सत्त्वेन च लक्षितो भावः वागङ्गसत्त्वविशेष एव वालिकाया भाव इत्युच्यत इत्यर्थः । किमपि विशेषो नेत्याह । किं त्वन्तर्गतं वासनात्मतया वर्तमानं रसाख्यं भावं भावयन्सूययन् किं सर्वस्य नेत्याह कवेः सूक्ष्मसूक्ष्मानपि योऽर्थान् पश्यति तस्य सहृदयस्येत्यर्थः ।
एतदुक्तं भवति -- उत्तमाधमरूपे कुमारीद्वितये व्यवहरति(एकायाः) वाक् स्पन्दते चक्षुरादिव्यापारः क्रीडनकावहारस्वेदजनितमुखवैवर्ण्यं बाष्पादि च पश्यतः हृदयस्य भवति तावद्विशेषोल्लासिनी अभिनयजनितेवानुमातृरूपा अपि तु विशेषाध्यवसायिनी मतिः, महतीयं काचिन्नायिका भविष्यतीति । तथाविधं यद्वागादेरान्तररतिवासनासद्भावसमुपनतं किंचिद्विशिष्टरूपत्वं स देहविकारविशेषो भावः । चशब्द एक इवशब्दार्थे, अभिनयतुल्यो वाaगादिभिर्लक्षितो भाव इत्यर्थः ।
तत्रेति तत्पुरुष एव(उत्तमाङ्गना)पात्रलक्षणेन चोद्भ्रूतारकचिबुकग्रीवादेः सातिशयो विकाररूपो धर्मः, अत एव शृङ्गारोचितमाकारं सहृदयासहृदयसर्वजनहृदयं सूचयतीति । हावः -- एष हि स्वचित्तवृत्तिं परत्र जुह्वतीं ददतीं तां कुमारीं हावयति । स्थितसमुत्थित इति स्थितः स्वयं समुत्थितः स्वेत्यु(स्वतः?)द्भिद्योद्भिद्य

(मू)

1. भ॰ मातृकायामयं श्लोको न लभ्यते

2. च॰ च

3. य॰ निर्विशेत्

4. भ॰ विकाराभ्यां

5. ड॰ रससूचकः, म॰ संयुतः

6. न॰ भावः

7. भ॰ सत्त्व

(व्या)

[page 156]




[NZ]

1यो वै हावः स एवैषा शृङ्गाररससंभवा । BhNZ_22_011ab
समाख्याता बुधैर्हेला ललिताभिनयात्मिका ॥ BhNZ_22_011cd
[ABh]

विश्राम्यन् हावः, स तु प्रसरणैकधर्मकः, तथा हि हेला स्यात्, अत एवायं सुकुमारपरिकरसब्रह्मचारीति दर्शितम् । हावावस्थायां यत्स्वयं रतेः प्रबोधनं न मन्यते केवलं तत्संस्कारबलात्तथाविकारान् करोति । यैर्दृष्टा तथा कल्पयति । यदा तु रतिवासनाप्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहान्निर्विषयतया स्फुटीभावं न प्रतिपद्यते तदा तज्जनितो देहविकारविशेषो हेला । `हिल भावकारण' इति (धातुपाठे) पठ्यते । भावस्य संबन्धादिति या प्रसरता वेगवाहित्वमित्यर्थः । वेगेन गच्छत् हेलतीत्युच्यते लोके । तदाह शृङ्गारेति । शृङ्गाररसो रतिः ततो हृदये स्थिता या हेला संभवतीत्यर्थः । तथा शृङ्गारस्य रस(स्य?)मानतायां यादृक्साधारणमिव रूपं तस्य संभवः संभावना या स्यात् सामाजिकशृङ्गाररसास्वादसदृशरूपैव संभावना चमत्कारमात्रप्राणा । तथा हि तस्या यावद्विषयार्जनं किंचिदवभाति विभावविशेषापरिस्फुरणादिति वरसुन्दर(रूपोत्कीर्ण)ग्रावकल्पशैशवदशोत्तीर्णतारुण्योन्मीलना अत एव ललिता चेष्टा अभिनयरूपतामिव अस्यां विकारावेशातिशयवशात् न प्रतिलभते । क्रमेणोदाहरणान्येषाम् --
उत्तालालकभञ्जनानि कबरीभारोऽथ शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रः ।
तिर्यग्लोचनवल्गितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलीक्रमः ॥(विद्ध?)
स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनयविलासोक्तिसरसः ।
गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥

(मू)

1. च॰ य एव, न॰ य एष, भ॰ यो वै भावः स एवैषां

(व्या)

[page 157]




[NZ]

लीला विलासो1 विच्छित्तिर्विभ्रमः किलिकिञ्चितम्2 BhNZ_22_012ab
मोट्टायितं कुट्टमितं3 विब्बोको4 ललितं5 तथा ॥ BhNZ_22_012cd
विहृतं चेति विज्ञेया6 दश स्त्रीणां7 स्वभावजाः । BhNZ_22_013ab
8पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् ॥ BhNZ_22_013cd
[ABh]

कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥
अत्र हि भावान्तर्गतरतिप्रबोधमात्रमुक्तम् । न त्वभिलाषः शृङ्गार इति मन्तव्यम् । तत्परं ब्राह्मणस्योपनयनमिव भविष्यत्समस्तपुरुषार्थसद्मपीठबन्धत्वेन योधितां परमो ह्युत्सवः लोकोत्तरोऽलङ्कारः सातिशयमानन्दस्थानं परं पवित्रमित्युपश्रूयते । यद्यपि चैते पुरुषस्यापि भवन्ति तथापि योषितां त एवालङ्कार इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्त्याa एव परमालङ्काराः, तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयः धीरललित इत्यादौ ।
एवं त्रीनङ्गजान् व्याख्याय स्वाभाविकान्दशोद्दिशति लीला विलास इत्यादिना । विशिष्टविभावलाभे रतौ सविशेषत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलादयः शक्याचार्यराहुलकादिभिर्यन्मतं विशेषसौक्ष्म्यादनुपलक्ष्य हेलाहावादीन् लीलादिमध्यव् एव पठद्भिश्चेष्टैवालङ्काराभूतेति, एतावन्मात्रे विश्रम्य सामान्येन चेष्टा अलङ्कारा इति, तदयुक्तम् ।

(मू)

1. च॰ विलासौ

2. न॰ किञ्चितः

3. न॰ कुट्टिमितं

4. ढ॰ बिम्बोको

5. ड॰ बिब्बोकललिते

6. भ॰ संप्रोक्ता, च॰ संयुक्ता

7. भ॰ स्त्रीषु

8. ज॰ अलङ्कारास्तथैतेषां लक्षणं शृणुताञ्चितम् (ड॰ शृणुत द्विजाः)

(व्या)

[page 158]




[NZ]

वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः । BhNZ_22_014ab
इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ BhNZ_22_014cd
स्थानासनगमनानां 1हस्तभ्रूनेत्रकर्मणां चैव । BhNZ_22_015ab
उत्पद्यते विशेषो यः श्लिष्टः 2स तु विलासः स्यात् ॥ BhNZ_22_015cd
माल्याच्छादनभूषण्3अविलेपनानामनादरन्यासः । BhNZ_22_016ab
स्वल्पोऽपि परां4 शोभां 5जनयति 6यस्मात्तु विच्छित्तिः ॥ BhNZ_22_016cd
[ABh]

अत्रैषां दशानां क्रमेण लक्षणान्याह वागङ्गालङ्कारैरिति । प्रियतमगतैः प्रीत्या तं प्रति बहुमानातिशयेन स्वात्मनि योजितैः मधुरैः सुकुमारैः न तु तदीयैरेवोद्धतैः मधुरैरपि विशिष्टैः न तु कल्पितत्वेनाभिमानैः अत एवानुकृतिनोद्घट्टकरूपेणाविकृतं(तः?) बहुमानः स्वात्मनि तत्स्वात्मीकरणेन । एते च दश प्राप्तसंभोगत्वेऽपि भावयन्त्येव । शोभादयस्तु सप्त भाविनोप्राप्तसंभोगतायामेव । एतान् लीलादीन् कवयो लोकवाचोट्र कीदृश साङ्कर्येण प्रयुञ्जते । यथा -- ``गतेषु लीलाङ्चितविभ्रमेषु''(कुमा 1-33) इति । `तत्रोपचारोऽन्वर्थत्वं लौकिकी प्रसिद्धिर्वा प्रमाणीकर्तव्या । तन्त्रज्ञैरेवं पठितव्यम् -- ``गतेषु लीलाञ्चितसुन्दरेषु'' इति, तदसदिति भट्टेन्दुराजशिष्याः, यतो ये लीलाविभ्रमप्रभृतयो भविष्यन्त्यस्तदुचिततया तदानीं शिक्ष्यत इव । व्याहृत्य नीयते स हि [अभिनय]प्रयोगकालो लीलादेरिति विनयस्य तु राजहंसकर्तृत्वमुत्प्रेक्ष्यते ।
स्थानासनेति स्थानमूर्ध्वता, आसनमुपविष्टता ।
स्थानकादावप्रयत्नशिक्षितमपि शृङ्गारबलादुपनीय तद्रूपं विलासः, श्लिष्ट इत्यनुल्बणम् । यथा --
बाले डअंणस्सु विमण्णमआसणु(?) -- इत्यादौ ।
स्वल्पोऽपि परामित्यल्पतयैव परां शोभां जनयति ससुभाग्यगर्वमहिमा ह्यसौ । यथा --

(मू)

1. च॰ नेत्रभ्रूवक्त्र

2. भ॰ विक्लिष्टः, म॰ यः क्लिष्टः

3. ड॰ विभूषा

4. ड॰ अधिकां

5. च॰ नयति हि यत्सा तु

6. भ॰ सा स्यात्तु, ड॰ सा सा तु

(व्या)

[page 159]




[NZ]

विविधानामर्थानां वागङ्गाहार्यसत्त्वयोगानाम्1 BhNZ_22_017ab
मदरागहर्षजनितो2 3व्यत्यासो विभ्रमो ज्ञेयः ॥ BhNZ_22_017cd
स्मितरुदितहसितभय4हर्षगर्वदुःखश्रमाभिलाषाणाम्5 BhNZ_22_018ab
6सङ्करकरणं हर्षाaदसकृत् किलिकिञ्चितं ज्ञेयम् ॥ BhNZ_22_018cd
[ABh]

कच उपरब्भउ सस्सर इसिणिअत्थ(?) -- इत्यादौ ।
यत्तु ``सरसिजमनुविद्धं शैवलेनापि रम्यं(शाकु) -- इत्युदाहृतं तदसत् । न ह्यत्रानादरन्यासः सौभाग्यगर्वकृतः, अपि तु तपस्विसमुचितवेषपरिग्रहणप्रायमित्यलम् ।
विविधानामिति योगो भेदः तेन वागादिभेदेन बहुभेदानां च बहूनां च (अर्थानां) योऽन्यथा निवेशः पूर्ववत्सौभाग्यगर्वकृतः (स) विभ्रमः, तद्यथा, वचनेऽन्यथावक्तव्येऽन्यथाभाषणम्, हस्तेनाaदातव्ये पादेनादानम्, रशनायाः कण्ठे न्यासः इत्यादिः । पद्येन कृतो रागः प्रियतमं प्रत्येव बहुमानो हर्षः । सौभाग्यगर्वो यथा --
चिरिअँ बन्धिअ निच्चिप्पटणिच्चिअ बद्धजम्म अदेसि सहि ।
सोहग्गमत्थि एकें चिअरिअ किप्पिण [वेण] णाहिणेवउ(?) ॥
स्मितरुदितहसितेति सङ्करेण संकीर्णतया हर्षाद्गर्वाद्यत्संकरणम् । यथा --
मह ......तिमळळमकळति हळहळन्ति सप्पदिओ
(व)ल्लवच्चर इव इ अणेकत्ति(?) इत्यादौ ।
अत्र हि गर्वश्रमदुःखस्मितरुदितहसितानि देशीपदैः क्रमेणोक्तानि ।

(मू)

1. प॰ वेगेन, य॰ युक्तानाम्

2. ज॰ जनितहेलो

3. च॰ योऽतिशयो विभ्रमः स मतः (ज॰ प्रोक्तः)

4. च॰ रोष, ड॰ रोषमोह, भ॰ हर्षदुःख

5. ड॰ षङ्गाणाम्

6. च॰ सङ्कट

(व्या)

[page 160]




[NZ]

इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि1 BhNZ_22_019ab
तद्भाव2भावनाकृतम् उक्तं मोट्टायितं नाम ॥ BhNZ_22_019cd
केशस्तनाधरादिग्रहणादति3हर्षसंभ्रमोत्पन्नम् । BhNZ_22_020ab
4कुट्टमितं 5विज्ञेयं सुखमपि दुःखोपचारेण ॥ BhNZ_22_020cd
इष्टानां भावानां प्राप्तावभिमान6गर्वसंभूतः । BhNZ_22_021ab
स्त्रीणामनादरकृतो 7बिब्बोको नाम विज्ञेयः ॥ BhNZ_22_021cd
8हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः । BhNZ_22_022ab
सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ॥ BhNZ_22_022cd
[ABh]

इष्टजनस्येति कथने दर्शने वा कान्तस्य यदुत्पद्यते योषितो लीलादि तद्भावभावनवशान्मदनाङ्गमर्दपर्यन्तं तदङ्गमोडनान्मोट्टायितम् । यथाह --
सिइऊणथणसक्कियहत्थऊरू । -- (*) इत्यादौ ।
केशस्तनाधरग्रहणादिति प्रियतमेनेति शिषः । यथा --
देशिखणंमि णअथणहिअइआपडि अपुणहे तिहिं अज्ज --
णहरग्गस उकि किं दुरपसमहणाहलहबंधाहिं । (*) इत्यादौ ।
इष्टानामिति वस्त्रालङ्कारादीनामिति अनादरकृतव् इति तद्विषय एव योऽनादरकृतस्तद्बहुलम् (बिब्बोकम्?) । यथा -- चन्दघसि नामकोप्पेस स तु किं दु आविळं उइआ को चण्ड । (*)इत्यादौ ॥
हस्तपादाङ्गविन्यास इति कर्तव्यवशादायत एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः । ललिते तु यत्र बाह्यव्यापारयोग एव न किंचिदस्ति नादातव्यबुद्धिः । अथ च सुकुमारकरव्यापारणं न दुष्टस्य किंचित्, अथ च

(मू)

1. भ॰ हेलालीलाभिदर्शने स्याताम्

2. भ॰ भावनकृते मोट्टायितमित्यभिख्यातम्

3. भ॰ आदिषु ग्रहणेष्ट्वति, ड॰ ग्रहणेष्वति

4. ड॰ कुट्टिमितं

5. भ॰ अनवदते सुखं तु

6. च॰ गर्भ, ज॰ गर्ह

7. भ॰ बिम्बोको

8. 22, 24 श्लोकौ भ॰मातृकायामेव दृश्यते

(व्या)

* प्राकृतभागोऽस्पष्टार्थः

[page 161]




[NZ]

[करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसंप्रयुक्तस्तु । BhNZ_22_023ab
सुकुमारविधानेन स्त्रीभिरितीदं स्मृतं ललितम् ॥ ]] BhNZ_22_023cd
वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् । BhNZ_22_024ab
व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ॥ BhNZ_22_024cd
[प्राप्तानामपि वचसाम् क्रियते यदभाषणं ह्रिया स्त्रीभिः । BhNZ_22_025ab
व्याजात्स्वभावतो वाप्येत1त्समुदाहृतं विहृतम् ॥ ] BhNZ_22_025cd
शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च । BhNZ_22_026ab
धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः ॥ BhNZ_22_026cd
रूपयौवनलावण्यैरुपभोगोपबृंहितैः । BhNZ_22_027ab
अलङ्करणमङ्गानां शोभेति परिकीर्तिता2 BhNZ_22_027cd
[ABh]

तारादिकर्मेति विशेषः । यथा --
कि अणिं लोपळळविअरुपकिसारे इवच्चा ए स बहुमजत्ति ...... भराबहुखिसिदुपणाखिळळविळूण अ अणळळहिखणु अ ॥(*) इत्यादि ।
अन्ये तु `लड विलास' इति (धातु)पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञं मन्यन्ते ।
वाक्यानां प्रीतियुक्तानामिति । प्राप्तानामित्यवसरलाभेन कथने योग्यानामित्यर्थः । स्वभावत इति मौग्ध्याद्बाल्यादन्यवित्तत्वाद्वा ।
व्याजादिति । व्याजादिभिर्मौग्ध्यादिभिः प्रख्यापनातिशयेनेत्यर्थः । तत्प्रख्यापनमपि कासांचित् स्वभाव एव । यथा कविभिस्तु ...... ळिळळिकरन्ति अ इच्छहि पुणच्छ मरणुकरन्ति अ(*) -- इत्यादौ ।
अथायत्नजा इति । शोभाकान्तिरित्यादि । एषां क्रमेण लक्षणानि । रूपयौवनलावण्यैरिति । तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छान्तरं

(मू)

1. ड॰ ह्येतत्

2. ड॰ यत् सा शोभेति भण्यते

(व्या)

* प्राकृतभागोऽस्पष्टार्थः

[page 162]




[NZ]

विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा । BhNZ_22_028ab
कान्तिरेवाति1विस्तीर्णा दीप्तिरित्यभिधीयते ॥ BhNZ_22_028cd
सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च2 BhNZ_22_029ab
अनुल्बणत्वं चेष्टाया3 माधुर्यमिति संज्ञितम् ॥ BhNZ_22_029cd
चापलेनानुपहता 4सर्वार्थेष्वविकत्थना5 BhNZ_22_030ab
स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते6 BhNZ_22_030cd
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । BhNZ_22_031ab
औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ BhNZ_22_031cd
[ABh]

श्रयन्ति । सा च्छाया मन्दमध्यतीव्रत्वं क्रमेण संभोगपरिशीलनादाश्रयति शोभां कान्तिं दीप्तिं चेत्यर्थः । आ समन्तात् पूर्णो मन्मथ इति कामोपभोगो हेतुर्यस्याः सा इत्यर्थः । अन्यस्तु (अ)पूर्णमन्मथेति व्याचक्षाणः कान्तिदीप्तिशोभानां क्रमेण सातिशयत्वमाह । तच्चोपक्रमविरुद्धमित्युपाध्यायाः ।
दीप्तेष्विति क्रोधादिषु । चशब्द इवार्थे ललितेषु रति क्रीडादिषु यथामासृण्यं चेष्टायास्तथा दीप्तेष्वपि यत्तन्माधुर्यम् ।
सर्वार्थेष्विव रूपयौवनादिषु वर्गत्वाच्चेयं क्रिया रूपेभ्यः पृथगेव धीरता पठिता । प्रयोग इति कामकलादौ चातुःषष्टिक(*) इत्यर्थः । यथाहुः --
अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिभवे प्रागल्भ्यं सुरतेष्विव ॥ इति ।
यत्त्वनुकर्तृविषयमेतदित्यन्यैर्व्याख्यातं तत्पूर्वमेव दूषितम् । सर्वास्वमर्षेर्ष्याक्रोधाद्यवस्थास्वपि यत्पुरुषवचनाद्यनुदीरणं तदौदार्यम् । चित्तवृत्तिस्वभावा अपि

(मू)

1. ज॰ अथ

2. भ॰ वा

3. भ॰ चेष्टायां

4. य॰ सर्वावस्थेष्वविकत्थना (``नवाक्षरपादो भुरिचि'')

5. च॰ अनुकत्थना

6. च॰ संज्ञितम्

(व्या)

* बाभ्रवीयोक्ता आलिङ्गनादिचतुःषष्टिकला वात्स्यायनेन सांप्रयोगिकेऽनूदिताः ।

[page 163]




[NZ]

[ABh]

केचिदेते विभावजन्यत्वाभावाद् भाववर्गे न पठिताः रसान् प्रति भावकत्वाभावाच्च (इत्याहुः) । तच्चैतदयुक्तम् । शोभाकान्तिदीप्तयः ता बाह्यरूपलावण्यगता एव विशेषाः आवेगचापलत्रासामर्षा भावा एव । माधुर्याद्या न चित्तवृत्तिस्वभावा इति क एषु भावत्वाशङ्कावकाशः इत्यभावोऽपि भावान्तरतया तद्विशेषणतया प्रतिभासगोचर इति अतो भावरूपतैवेति चेदस्तु नामैवम् । तथाप्यलङ्कारत्वात्, सामान्याभिनयरूपत्वात्, बाह्यशरीरनिष्ठतापर्यवसानात्, शृङ्गारैकमात्रविषयत्वाच्च, अशेषरसविषयत्वात्, व्यभिचारिवर्गात् पृथक्त्वेनैषामभिधानम् ।
[न च] एतावत एवैत इत्यत्र नियमो विवक्षितः । तेन मौग्ध्यमदभावविqतपरितपनादीनामपि शाक्याचार्यराहुलादिभिरभिधानं(*) विरुद्धमित्यलं बहुना ।

(मू)

(व्या)

* राहुलादिभिरिति, आदिशब्देन पद्मश्रीसागरनन्दिमातृगुप्तप्रभृतयो गृहीताः । तन्मते मौग्ध्यं यथा --

बाल्ये गते वचोभङ्गी रामाणां कान्तसन्निधौ ।

हारिमोक्तिमयी या तु तन्मौग्ध्यं परिकीर्तितम् ॥

मदो यथा --

तारुण्यातिशयोद्भूतः सुरापानविशेषितः ।

विकारबहुलो यस्तु तं वदन्ति मदं बुधाः ॥

भावो यथा --

कान्तस्य दृष्टिपथतस्तिरोधातुमिवेच्छति ।

लज्जयाधोमुखी मुग्धतिर्यग्विक्षिप्तलोचना ॥

प्रियं पश्यत्यतिशयजातरोमाञ्चकञ्चुका ।

तत्क्षणोद्भूतमदनाचार्यशिक्षोपदेशतः ॥

यत्तस्यां जायते चेष्टा स भावः शाक्यसंमतः ।

विकृतम् --

वचसा प्राप्तकालेऽपि प्रियया नाभिधीयते ।

क्रियया यदनुष्ठानं विकृतं तदुदाहृतम् ॥

परितपनम् --

क्षणमात्रमदृष्टे या प्रिये सन्तापसन्ततिः ।

विरहोत्थेव कामिन्याः परितापः स कथ्यते ॥

आदिशब्देन विक्षेपकेलिव्याजप्रतिभेदनादय ऊह्याः ।

[page 164]




[NZ]

सुकुमारे भवन्त्येते प्रयोगे ललितात्मके । BhNZ_22_032ab
विलासललिते हित्वा दीप्तेऽप्येते1 भवन्ति हि ॥ BhNZ_22_032cd
शोभा विलासो माधुर्यं2 स्थैर्यं गाम्भीर्यमेव च । BhNZ_22_033ab
ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषः ॥ BhNZ_22_033cd
दाक्ष्यं शौर्य3मथोत्साहो नीचार्थेषु जुगुप्सनम्4 BhNZ_22_034ab
उत्तमैश्च गुणैः 5स्पर्धा यतः शोभेति सा स्मृता ॥ BhNZ_22_034cd
6धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । BhNZ_22_035ab
7स्मितपूर्वमथालापो विलास इति कीर्तितः8 BhNZ_22_035cd
9अभ्यासात्करणानां तु श्लिष्टत्वं यत्र जायते । BhNZ_22_036ab
महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥ BhNZ_22_036cd
[ABh]

अथैषां सामान्याभिनयत्वमुपपादयितुमाह सुकुमारे भवन्त्येत इति । ललितात्मके प्रयोगे प्रयुज्यमाने शृङ्गारे यः सुकुमारोऽन्योन्योपसंभोगविप्रलम्भादिभेदः । तत्र सर्वतैते न भवन्ति । न ह्येतच्छून्यमङ्गानां चेष्टितं प्रयोगार्हम् । योऽपि तत्र शृङ्गारे ईर्ष्यामर्षदीप्तिप्रकारस्तत्रापि विलासं ललितं च वर्जयित्वा अवश्यमन्येषां क्रमयौगपद्यादिना संभव इति शृङ्गारभेदेषु साधारणभूतो योऽभिनयस्तेन सामान्याभिनयतास्य युक्तेति तात्पर्यम् ।
अथ पुरुषगतानुद्दिश्य लक्षयति शोभा विलास इत्यादि । यतः शरीरविकाराद् दाक्ष्यादि गम्यते सा शोभेति संबन्धः । गोवृषभः उत्तमा गौः ।
महत्स्वपि विकारेष्विति युद्धनियुद्धव्यायामादिष्वभ्यासकृतं, करणानां

(मू)

1. प॰ दीप्तेष्ट्वेते

2. ढ॰ धैर्यं

3. ड॰ तथा

4. च॰ जुगुप्सितम्

5. ड॰ सन्धा

6. ड॰ स्थिर, भ॰ वीर

7. ढ॰ स्मृतपूर्वं तथा वाचो, ज॰ स्मितपूर्वस्तथा, भ॰ मितं दन्तप्रमालक्ष्यं

8. भ॰ स स्मृतः

9. भ॰ स्वभावाश्चक्षुरादीनां लीनत्वं यत्र जायते

(व्या)

[page 165]




[NZ]

धर्मार्थसंयुक्ताच्छुभाशुभसमुत्थितात् । BhNZ_22_037ab
व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ॥ BhNZ_22_037cd
यस्य प्रभावादाकारा1 हर्षक्रोधभयादिषु । BhNZ_22_038ab
भावेषु नोपलक्ष्यन्ते2 तद्गाम्भीर्यमिति स्मृतम् ॥ BhNZ_22_038cd
अबुद्धिपूर्वकं3 यत्तु निर्विकारस्वभावजम्4 BhNZ_22_039ab
5शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम्6 BhNZ_22_039cd
दानमभ्युपपत्तिश्च7 तथा च प्रियभाषणम् । BhNZ_22_040ab
[ABh]

करचरणादिक्रियाणां श्लिष्टत्वं अनुल्वणत्वं यत्र शरीरविकारो स माधुर्यम् । नटगतमेतदिति त्वसत् प्रक्रमविरोधात्, प्रयोक्तृगुणानां च प्रकृत्यध्याये भूमिकाविकल्पाध्याये च (अ 35, 36) वक्ष्यमाणत्वात् ।
घर्मादयो यस्य फलं स तैः संयुक्त इत्युक्तम् । शुभाशुभसमुत्थितादिति । शुभसंकल्पजा अशुभसङ्कल्पजाश्च । अशुभादपि हि सङ्कल्पोऽस्थिरान्निवर्तते । यथैलचातुर्वर्ण्यस्य सर्वस्वहारादर्थफलाद्याशयात् ।
अन्ये तु वीरस्यैतदनुचितमिति मत्वान्यथा व्याचक्षते शुभाशुभयोः समुत्थित इति । तेन यच्छास्त्रोक्तमुचितं चारभ्यते । तत्र क्रियमाणे(शुभं) सुलभतयार्थलाभः, अशुभं क्षयव्यायादिरूपकमस्तु तथापि तद्विषयाध्यवसायादविचलनं स्थैर्यं देहविकाररूपमेव ।
आक्रियते चित्तवृत्तिरेभिरित्याकारः, मुखरागदृष्टिविकारादयः । तेष्वपि चासत्सु कारणसामग्र्यव्यभिचरितफलेति हर्षादिसंभवेऽपि यत्कृतस्तत्कृतमुखरागाद्यभावः स एव निस्तिमितदेहस्वभावो गाम्भीर्यम् ।
परजनविषयं दानादि चेष्टाविकाररूपमेवौदार्यम् । स्वग्रहणन्तु लोकोक्तिमनादररूपरूपान्तु भयं नोदाहार्य(नौदार्य),एव स्फुटयति । अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम् ।

(मू)

1. ड॰ आकारे रोषहर्षभयादिषु । भावेषु नोपलभ्यं यत्, ढ॰ आकारो

2. च॰ लभ्यन्ते

3. ज॰ पूर्वजं

4. भ॰ मण्डनं निर्विकारजम्, च॰ सुकुमारः स्वभावतः, ज॰ सुकुमारस्वभावजम्

5. भ॰ शृङ्गारसूचकं चैव

6. ज॰ प्रकीर्तितम्

7. ड॰ अवपत्तिः

(व्या)

[page 166]




[NZ]

1स्वजने च परे वापि तदौदार्यं प्रकीर्तितम्2 BhNZ_22_040cd
अधिक्षेपावमानादेः3 प्रयुक्तस्य परेण यत् । BhNZ_22_041ab
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ BhNZ_22_041cd
4सत्त्वजोऽभिनयः पूर्वं5 मया प्रोक्तो द्विजोत्तमाः । BhNZ_22_042ab
शारीरं चाप्यभिनयं व्याख्यास्याम्यनुपूर्वशः ॥ BhNZ_22_042cd
षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा । BhNZ_22_043ab
शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ॥ BhNZ_22_043cd
[ABh]

परेणेति शत्रुणा, न तु गुरुणा मित्रादिना वा । प्राणात्ययेऽपीति न तु नीत्यनुवर्तनेन कथंचित् देशकालाद्यनुवर्तनेन सहनपूर्वकं निर्यातनम् । तथा च ममैव श्लोकः --
मूर्ध्ना कंचन पार्थिवं धृतवता च्छिद्रैः प्रविश्यान्तरं स्वं रूपं विनिगूह्य तापमतुलं दत्त्वा चिराद् भ्रंशितः ।
युश्चङ्कुर्जडरूपतापरिचितो नीत्येव वह्ने त्वया तन्मन्येऽत्र कथासु तिष्ठति परं निर्वन्ध्यतेजस्विता ॥ इति ।
सात्त्विकः पूर्वमुक्त इत्यर्धस्यास्य केचिच्छङ्काशमनं प्रयोजनमाहुः -- एवं हि शङ्क्यते सात्त्विकप्रसङ्गेन कस्माद्रोमाञ्चादयो नोक्ता इति;् तद्वारणार्थमाह पूर्वमिति भावाध्याय एव ते निरूपिता -- इति । अयं च नार्षः, यतः सत्त्वे नाट्यं प्रतिष्ठितं, अतो वागङ्गसत्त्व इत्यत्र पश्चान्निर्दिष्टः सात्त्विकः सामान्याभिनयो यस्मात् पूर्वमिति आदौ प्रक्तः ततो हेतोर्यद्विलोमक्रमेण अनुपूर्वशः आनुपूर्व्यं क्रमप्राप्तं तेन क्रमेण शारीरं सामान्याभिनयं वक्ष्यते । सत्त्वानन्तरं हि विपरीततवृत्त्या आङ्गिकस्यानन्तर्यं वागङ्गसत्त्व इति । (शारीरमित्यादि) अत्र चशब्दो यस्मादर्थे, अपिशब्दस्तत इत्यत्रार्थे । तत्रोद्देशमाह -- षडात्मकस्त्विति ।

(मू)

1. भ॰ स्वे जने वापरे

2. ज॰ इति स्मृतम्

3. च॰ अपमानादेः, भ॰ अवमानाद्यैः

4. च॰ सत्त्वतोऽभिनयः

5. च॰ मयोक्ता(क्तो?) द्विजसत्तमाः

(व्या)

[page 167]




[NZ]

नाना1रसार्थयुक्तैर्वृत्तनिबन्धैः2 कृतः सचूर्णपदैः3 BhNZ_22_044ab
प्राकृतसंस्कृतपाठो4 वाक्याभिनयो बुधैर्ज्ञेयः ॥ BhNZ_22_044cd
[ABh]

यः पूर्वं शारीरोऽभिनयो बहुना प्रकारवैचित्र्येणोक्तः तस्यावान्तरसामान्याभिनयरूपा हि षड् भवन्तीति, स एव षडात्मकतयावान्तरजातियोगात् सात्त्विकवाचिकाभिनयैश्च संभूय क्रमतां प्राप्तैश्च व्यामिश्रतायां सामान्याभिनयः संपाद्यत इति तुशब्दस्यार्थः । (वाक्यमिति) वाक्यसहचरितः शारीरोऽभिनयो वाक्यम् । न हि शरीराभिनयमध्ये च निर्वितर्कानि गणितानीति चिरन्तनाः ।
शारीरस्वरा(1 28) इति यद्व्याहाराद्वा भावश्च शारीरत्वेन प्रसिद्धे वाक्यमेवाभिनयान्तरनिरपेक्षमिति, सद्वृत्तभाषागुणः स्फुटतमां स्वार्थप्रतीतिं यदा विधत्ते तत एव रसभावानुभावकं तदा तदेव वाक्याभिनय इति तु काव्यकौतुकग्रन्थः । अत्र तु पाठ्यरूपः सामान्याभिनयः कथमिति चिन्त्यम् । शरीरानुप्रवेशादितिचेत् त्वरितानपेक्ष(तदितरानपेक्ष?) एव । न चाभिaनयशून्याभिनेयकाव्ये वाक्यं किंचिद्भवति । न चाभिनेये वाक्याभिनयव्यवहार इत्युपाध्यायेनायमेकीयोऽभिप्रायो दर्शितः न त्वस्यायं स्वपक्ष इति भ्रमितव्यम् ।
तत्र वाक्याभिaन्यस्य लक्षणमाह --
नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः स चूर्णपदैः ।
प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ॥ इति ।
नानारसविशेषो वाक्यार्थः तेन युक्तानि वाक्यानि यानि तानि च वृत्तरचिताaनि चूर्णपदात्मकानि वा पुनरपि संस्कृतानि वा प्राकृतानि वा तैर्युक्तः सहचरितः शारीरो वाक्येन सहैव प्रयुज्यमानः शारीरो वाक्याभिनय इति यावत् । प्राकृतः संस्कृतश्च पाठोऽस्मिन्निति बहुव्रीहिः स चायं वाक्याभिनयश्चतुर्धा संस्कृतप्राकृतयोर्गद्यपद्यभेदात् ।
अत्र केचिदाहुः योऽर्थः सदैव हृदये वर्तते अत एव विमर्शानुबन्धनादिनिरपेक्ष एव स सततं स्फुरति । यथा भीमसेनस्य कुरुकुलविषयः

(मू)

1. च॰ भावरसार्थैर्वृत्तनिबद्धैः कृतस्य

2. य॰ निबद्धैः, ढ॰ नृत्तनिबद्धैः

3. भ॰ पदैः स चूर्णकृतैः

4. न॰ पाठ्यो, भ॰ पाठैः

(व्या)

[page 168]




[NZ]

वाक्यार्थो वाक्यं वा 1सत्त्वाङ्गैः सूच्यते यदा पूर्वम् । BhNZ_22_045ab
पश्चा2द्वाक्याभिनयः 3सूचेत्यसंज्ञिता सा तु ॥ BhNZ_22_045cd
[ABh]

क्रोधातिशयः तद्विषये वाक्ये ``चञ्चद्भुजाभ्रमित''(वेणी -- अ 1) इत्यादौ पाठसमकालं यो भ्रुकुट्यादिभयः शारीरोऽभिनय इति । एतच्चासत् । सूचायां विमर्शपूर्वकवस्तुविषयायामपि प्रवृत्तायां यद्वाक्यं बध्यते तत्सहचरितोऽपि शारीरः किमिति न वाक्याभिनयः तथापि चतुर्विधवाक्याभिनययोगात् सूचादीनां बहुभेदत्वं वक्ष्याम इत्यास्तां तावत् ।
वाक्यार्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् ।
पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु ॥ इति ।
यदा तु निपातः यदित्यत्रार्थे इह वर्तते । तेन यैः सात्त्विकाङ्गिकैः भाविवक्तव्यं सूच्यते, येषामन्तरोऽभिनयः प्रवर्तत एव सूचाभिनयः । ``आत्मबुद्ध्या समर्थ्यार्था''निति हि न्यायो वा प्रसरेत् । तत्रोत्तमानां बाहुल्येनाभिसंधानविचारपूर्वकं एवमिति चिरतरोऽसावभिसन्धिकालः तत्राविष्टस्यैवेहोपयोग इति -- विचार्यमाणं तथाभूतवस्तुविशेषावेशजनितेन शरीरविकारेणावश्यं भवितव्यं सममेव सूचाभिनयः । तत्र च द्वयी गतिर्विद्यते. स्थितेनैवाभिसन्धानेन यादृक्क्रम आक्षिप्तस्तादृशैव क्रमेण परतः शब्दोच्चारणम् । यथा `राज्यं निर्जितशत्रु योग्यसचिवन्यस्तः समस्तो भरः'(रत्ना--अ-4) इत्यादौ । तत्र हि पूर्वपूर्वावान्तरवाक्यांशाभिधेयभागप्रभावित एवोत्तरोत्तरावान्तरवाक्यार्थ इति यादृगभिसन्धानक्रमस्तादृगेव तत्र क्रमः । यत्र त्वन्यथाभिसन्धानमन्यथा च क्रमस्तत्र निर्विभागभेदकं सन्धानीयवाक्यार्थसंधानम् । यथा मायापुष्पके सुग्रीवस्य --
दुर्गं भूमिरमात्यभृत्यसुहृदो दाराः सख्येन किम् (सख्योन्नतिः ?) ।
यस्मात्सर्वमिदं प्रियाविरहितैस्तस्मादशक्ता(विरहिणस्तस्याद्यशक्ता?)वयं न स्वेच्छासुलभैः पथोऽपि घटने शैलाश्मखण्डैरपि ॥

(मू)

1. न॰ सर्वाङ्गैः

2. य॰ वचना, ड॰ वाच्या

3. ड॰ सा सूचा सूरिभिर्ज्ञेया

(व्या)

[page 169]




[NZ]

1हृदयस्थो निर्वचनैरङ्गाभिनयः2 कृतो3 निपुणसाध्यः । BhNZ_22_046ab
4सूचैवौत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ BhNZ_22_046cd
[ABh]

अत्र हि शरीरं दारा भूमिर्धनं भृत्या दुर्गं वैरिविमर्दमुखं रामस्य मित्रमितिप्रसिद्धिरित्यभिसन्धानक्रम उचितो, निकट(पद)परामर्शक्रमेण प्रकरणा(र्थवशादिदं लब्धं) दूरं प्रसृत्य क्रमेण यद्वा इदं तावदास्तां, इदमपि तत इति न्यायेनान्तः प्रवेशः, तथापि रामस्य मित्रमितिप्रसिद्धिरित्यादिना विलोमक्रमेण भाव्यम् । तत्र प्रथमे पक्षे वाक्यं सूच्यत इत्युक्तम्, क्रमो हि वाक्यमिति तद्विदो मन्यन्ते । `एको नववच ...... शब्दः क्रमो युध्यतः सुहृद्भि''(*)(?)रित्यादौ । द्वितीयपक्षे तूक्तं वाक्यार्थः सूच्यत इति ।
अन्यस्त्वाह -- यदा स्वयमेव विमृश्यते तदा वाक्यार्थः सूचितः, यदा तु परवचनमाकर्ण्यते, यथा `भो वयस्स पेक्खं पेक्ख'(रत्ना) इत्यादावुद्यानवर्णनं पूर्यते तदा तदुक्तोऽर्थः सूच्यते तस्य पश्चाद्वचनाभिनयो भविष्यति `वयस्य सम्यगुपलक्षित'मित्यादि, तत्र सूचाभिनये वाक्यं सूच्यत इति । तच्चासत् -- परवाक्यापेक्षया हि तत्र निवृत्त्यङ्कुराभिनयः भाविवाकयपेक्षया तु ततोऽन्यैव सूचा । अनभिनेय एवाभिनयनलक्ष्यं प्रत्यपरिचयोऽयमपराध्यति । किंचिद्वाक्यार्थप्रग्रहणेन किमयमर्थो न स्वीकर्तुं शक्यो येन पुनर्वाक्यशब्दोपादानं स्यात्, तस्मात्परोदीरितवाक्यार्थ एव ह्यसौ सूचितो न तु वाक्यमित्याद्ताम् ।
तदिदमुक्तपूर्वं गद्यपद्येतरचतुःप्रकारवाक्यं तदर्थसूचने भेदादष्टधा सूचाभिनयादनु षोडशधा युक्तम् । परवाक्यस्य न भिन्नाङ्गतेत्यधुनैवोपपादितम् ।
हृदयस्थो निर्वचनरिaङ्गाभिनयः कृतो निपुणसाध्यः ।
सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ इति
अन्यपरेऽपि वाक्ये यद्गर्भीभूतं वस्तु तन्निष्ठो योऽभिनयोऽङ्गविकारैर्वचनशून्यैः सम्पादितः सूचातुल्यःव् सोऽङ्कुरो नाम् शारीरः । यथा सागरिका --

(मू)

1. व॰ हृदयस्थैः

2. य॰ अङ्गविकारैः, भ॰ अभिनयैः

3. न॰ कृते

4. भ॰ सूच्यैवाघू(पू?)र्णकृतो, ढ॰ सूचेव

(व्या)

* एकेनैव वचा क्रमेण(?)

[page 170]




[NZ]

1यत्तु शिरो2मुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते । BhNZ_22_047ab
शाखादर्शन3मार्गः शाखाभिनयः स विज्ञेयः ॥ BhNZ_22_047cd
[ABh]

जाव अहं पि कुसुमाइं अवचाइअ कामदेवं पूअइस्सं -- इत्यभिधायैतद्वाक्ये गर्भीभूतं कुसुमापचयमङ्गविकारैर्दर्शयति । यच्चायमङ्कुरो निपुणैरेव प्रयोक्तृभिः सामाजिकैश्च साध्यः आपाद्यः चेतसा ध्यात उत्पत्त्या स्वबुद्धिकल्पनयापचितः । यद्यपि कविवाक्यान्येवात्रोपजीव्यानि, तथापि यादृक् कुसुमापचयकर्म सागरिकायाः सौभाग्यसौन्दर्यप्रेमसाध्वसादिगर्भं न तादृशं ताaपसस्य तदुभयविलक्षणं `याः ...... वेद्या(?)' इत्येवमादि तत्सर्वं वचनेभ्य एवाकृष्यते तथा विस्पष्ठेन च तथा वचनतो लभ्यमेतत् । अपि तु पर्यालोचनातिशयगम्यमिति निपुणसाध्यमित्युक्तम् ।
अन्ये तु सूचाया उत्पत्तिभागेन तुल्योऽङ्कुरस्तस्याः प्राग्भावे वचनशून्यत्वादिति । इदं त्वनुक्तसमासं (नं?) निर्वचनशब्देनोक्तत्वादर्थस्य ।
यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते ।
शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ॥
समस्तेन शाखाव्यापारेण वर्तनाप्रधानतया प्रयुक्तः शाखाभिनयः शिरोमुखजङ्घोरु चेत्यादिना कृतैकवद्भावेन द्वन्द्वपदसमूहेन पुनः (श्लोक)द्वन्द्वेन, नाट्यायितमित्यादि स्थान इत्यादि च ।
पूर्वप्रविष्टस्य पात्रस्यापरपात्रं प्रविश्य तद्रूपमुदीक्षमाणस्य प्रवेशोऽपि तद्ध्रुवागानतत्सूचापरिक्रमणादिकालेन किंचिन्नाट्यमस्तीति तत्काले पूर्वपात्रेण ये समुचिता उपचाराः क्रियन्ते नाट्यायितमित्याद्यार्यायस्तात्पर्यम् । पूर्वप्रविष्टेन पात्रेण सह सङ्गमं विधाय पश्चात्प्रविष्टस्य पात्रस्य पूर्वप्रविष्टपात्रपरिक्रमणादिकाले स्थानकेनैवासीनास्य तूष्णीं स्थितौ प्राप्तायामभिनयः तदपि नाट्यायितमित्यपरार्यायास्तात्पर्यमिति श्रीशङ्कुकाद्याः । तच्चायुक्तम् । अन्योन्यसङ्गमावधि यत्पात्रस्य चेष्टितं तदपरोदितवाक्यार्थसूचनोचितत्वं वा निर्वचनकादौचित्यमात्रादेवोपनतं वा, पूर्वत्र पक्षे निवृत्त्यङ्कुरः उत्तरत्राङ्कुरः इत्युभयं न नाट्यायितम् ।

(मू)

1. च॰ यस्तु, भ॰ यस्तु विशोजङ्घोरुपाणिपादादिभिर्विरचितो विधिवत् (!)

2. च॰ भुज

3. भ॰ देशित, च॰ दर्शित

(व्या)

[page 171]




[NZ]

नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया1 नाट्ये । BhNZ_22_048ab
काल2प्रकर्षहेतोः 3प्रवेशकैः संगमो यावत् ॥ BhNZ_22_048cd
[ABh]

तथा हि प्रयोगकुशला एवंविधे विषये धर्मी -- लिखति इति, प्रति पालयन्नास्ते (इति), यथापुष्पापचयं नाट्यतीति । नाट्यस्य सन्धानरूपत्वं च वाक्यं सूचादीनामपि संभवत्येव । न वा नाट्येन नाट्यं सन्धीयत इति नाट्यायितवाचोयुक्तिरपि कथम् । तस्मादित्थमेतद् व्याख्यातव्यम् -- इह यदा स्वप्नोऽप्येकघनो दृश्यते तन्मध्यत एव च किं दृश्यमानं परस्य स्वप्न एव जाग्रद्रूपतामापादिते स्वप्नोऽयं यथा दृष्ट इति वर्ण्यते, तदा जाग्रदपेक्षया स्वप्नव्यवहारः, न तत्र पारमार्थिक इत्यौपचारिकं तदपेक्षं तस्य स्वप्नत्वमिति स्वप्नव्यवहारः, न तत्र पारमार्थिक इत्यौपचारिकं तदपेक्षं तस्य स्वप्नत्वमिति तस्य स्वप्नायितव्यवहारो दृष्टः । एवमिहापि नाट्य एकघनस्वभावे हि स्थिते तत्रैवासत्यनाट्यानुप्रवेशान्नाट्यपात्रेषु सामाजिकीभूतेषु तदपेक्षया यदन्यं नाट्यं तस्य तदपेक्षया नाट्यरूपत्वं पारमार्थिकमिति नाट्यायितमुच्यते । तच्च द्विविधं नाट्यरूपकनिष्ठमेव वा कार्यान्तरनिष्ठं वा । तस्य क्रमेण लक्षणमार्याद्वितयेनोच्यते । नाट्ये यत्प्रवेशकैर्नाट्यान्तरगतैरिव पात्रैः अत एव ततः प्रविशतीत्युक्तैः सङ्गमः क्रियते तन्नाट्यायितम् । कीदृशैरभिनयद्वारेण यत्सूचनं तथोपचारैः परमार्थतयोपचर्यमाणैः । ननूभयमपि नाट्यं कस्मान्न भवति नत्वेकघनतेत्याशङ्क्याह कालप्रकर्षलक्षणाद्धेतोरन्योन्यभिन्नकालत्वात् कथं तत्रैकघनता युक्तेति भावः । यावदिति भूयस्तरं प्रबन्धं व्याप्नोतुं परिमितं वा सर्वं नाट्यायितमित्यर्थः । तथा यावदिति स्वप्ने स्वप्नान्तरं तत्राप्यन्यत् स्वप्नान्तरमित्यादिन्यायेन वा भवत्वेक(घन)स्वप्नायिततुल्यस्य नाट्यायितस्योदाहरणं महाकविसुबन्धुनिबद्धो वासवदत्तानाट्यधाराख्यः समस्त एव प्रयोगः । तत्र हि बिन्दुसारः प्रयोज्यवस्तुक उदयनचरिते सामाजिकीकृतः, असावप्युदयनो वासवदत्ताचेष्टिते । एष चार्थः -- स्वस्मिन् सूत्ररूपके दृष्टे सुज्ञानो भवति । अतिवैतत्यभयात्तु न प्रदर्शितःञ् । एकस्तु प्रदेश उदाह्रियते तत्र ह्युदनये सामाजिकीकृते सूत्रधारप्रयोगः -- ``तव सुचरितैरेव जयति'' इति, तत उदयनः `कुतो मम सुचरिता'नीति सास्रं विलपति --

(मू)

1. न॰ सूचना

2. ज॰ प्रहर्ष

3. ड॰ प्रवेशने सङ्गमं, भ॰ समागमे

(व्या)

[page 172]




[NZ]

स्थाने ध्रुवास्वभिनयो 1यः क्रियते हर्षशोकरोषाद्यैः2 BhNZ_22_049ab
भावरससंप्रयुक्तै3र्ज्ञेयं नाट्यायितं तदपि4 BhNZ_22_049cd
[ABh]

एह्यम्ब किं (*)कटकपिङ्गलपालकैस्तैर्मुक्तोऽहमप्युदयनः सुतलालनीयः ।
यौगन्धरायण ममानय राजपुत्रीं हा हर्षरक्षित गतस्त्वमप्रभावः ॥
तत्रैव बिन्दुसारः सामाजिकीभूतः परमार्थतामभिमन्यमानो ``धन्या खलु (ईदृशैर्भक्तस्य) प्रलोपः'' इत्युच्छ्वसति । प्रतीहारी आत्मगतं -- ``अअणिदपरमत्थकळणेहिं पिच्छइ खु देवो'' इत्यादि ।
परिमितव्यापिनो निर्गर्भस्य नाट्यायितस्योदाहरणं यथा बालरामायणे गर्भाङ्के सीतास्वयंवरे ।
एवं तावन्नाट्यरूपकनिष्ठं नाट्यायितं व्याख्यातम् । क्जार्यान्तरनिष्ठं तूच्यते । इह यदाभ्यन्तररसाविष्टता भवति तदा ध्रुवायोगाभिनयः स्वतुल्यतामापाद्यमानः परस्परमिलिताकारकतां काकतालीयेनोपनिपातात् (संभाव्यते) । यथा --
नऽलिनीदळए णीसहसुकदेहिं आतथा मुच्चइ ।
पळइ विअब्भइ विज्जइ हंसी णळिणीवणे वि णत्थिज्जइ ॥
इत्यादौ । तत्र हि प्रयोक्तुरेक्वमभिसन्धिध्रुवामभिनयेन दर्शयामीति । किं तु प्रासादिक्यध्रुवायां गीयमानायां, ``यत्र काव्येन(वाक्येन ?)नोक्तं स्यात् तत्तु गीतं प्रसाधयेत्''(अ 32) इति वचनात् ध्रुवार्थस्तत्रोचित आघातः, प्रयोगो हि बहुविधां मदनावस्थां नाटयतीति । एवं भूतोऽङ्कुरस्वभावः पौर्वापर्यपर्यालोचनवशात् तथाभूत एवोपनिपतित इति, अप्रयुज्यमानापि (ध्रुवा) काकतालीयेन प्रयोगमुपांशुरूपा नाट्यमपि नाट्यमिव शासत इति तथाविधनाट्यायितत्वापादकः शारीराभिनयो नाट्यायितमिति दर्शयति स्थाने ध्रुवास्वभिनयो यः क्रियत इति । भावैर्व्यभिचारिभिः रसैः स्वस्थायिभिः ये संप्रयुक्ता आविष्टाः तत्संपादनैकमनसः प्रयोक्तारस्तैर्यो ध्रुवास्विति ध्रुवार्थविषयो ऽभिनयः क्रियते । कथं, स्थाने प्रसङ्गे सति काकतालीयवशादित्यर्थः । योऽभिनयः शारीरो नाट्यायितम् । ननु किं प्रतिपदमभिनयता, नेत्याह हर्षादिभिरिति तत्सूचकैरङ्गोपाङ्गसत्त्वैरित्यर्थः । तदपीति न केवलं पूर्वं यावदिदमपीति ।

(मू)

1. च॰ यत्

2. ज॰ कोपाद्यैः

3. भ॰ संप्रयुक्तं, प॰ संप्रविष्टैः, ड॰ संप्रयुक्तो ज्ञेयो

4. न॰ तच्च

(व्या)

* कटकादय उदयनस्य भ्रातरः

[page 173]




[NZ]

1यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः । BhNZ_22_050ab
2तत्संबन्धार्थ3कथं भवेन्निवृत्त्यङ्कुरः सोऽथ ॥ BhNZ_22_050cd
3एतेषां तु भवेन्मार्गो यथाभावरसान्वितः । BhNZ_22_051ab
[ABh]

यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः ।
तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ ॥
अन्योक्तं वाक्यं कथमन्यसूचाभ्यिनये चित्तवृत्तिसूचकेनाङ्गोपाङ्गसत्त्वक्रमेण दर्शयेदित्याशङ्क्य हेतुमाह तत्संबन्धकथमिति बीजादेर्निवृत्तिं यथाङ्कुरः सूचयति, एवं निवृत्ते वाक्ये (तदङ्कुर)यति निवृत्त्यङ्कुर उक्तः । तथा हि विदूषकेण वत्सराजे ``अवि सुहयदि दे लोअणाणं'' इति पृष्टे सागरिका -- ``सच्चं जीविदमरणाणं अन्तरं वट्टामि'' इति, ततो राजा -- ``सुखयतीति किमुच्यते । कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं'' इत्यादि पठति । तस्मिन् क्रमेणाकर्ण्यमाने सागरिकाया यथाभूत(संशयोत्कण्ठारागोदयजनितो) व्यभिचारिसत्वयोजितः सत्त्वाङ्गोपाङ्गपरिस्पन्दो दृश्यमाणो निवृत्त्यङ्कुरः । (निवृत्त्यङ्कुरो) नाट्यायितं च वृत्तित्वात् सर्वत्र चाभिनेये प्रायशः सद्भावात् सामान्याभिनयत्वं तदर्थमेव च वितत्यैतत्स्वरूपाभिधानम्, यत्पूर्वमुक्तम् --
अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
त्रिविधं वस्त्वभिनयः ...... ...... ।
इति तेन सहास्य यथा न विरोधस्तथैवोपपादितमुपाङ्गाभिनय इति तत एवावधार्यम् । किं पुनरुक्ताभिधानेन ।
एवमाङ्गिकं सामान्याभिनयमुपपाद्य वाचकमुपपादयति एतेषां तु भवेन्मार्ग इति विषय इत्यर्थः । वाक्यभावे यद्यप्यात्मापि शरीरो निर्विषय एव तेन यदेके शाखाङ्कुरनाट्यायितानां च वाक्यविरहितत्वं मन्यमाना एतेषामिति

(मू)

1. ड॰ यस्तु, भ॰ यच्च

2. ब॰ तं, य॰ तत्संबद्ध

3. ड॰ कृतं निवृत्तमेवाङ्कुरं विद्यात्

4. च॰ एतेषां च स्मृता मार्गा ...... न्विता ...... निर्दिष्टाः ...... त्मकाः, ज॰ एते मार्गास्तु विज्ञेया ...... न्विताः ...... निर्दिष्टाः ...... त्मकाः

(व्या)

* नाट्यधारशब्दो नाट्यपार इति नाट्यसार इति च दृश्यते । नाट्यपार एव साधुः स्यात् ।

[page 174]




[NZ]

1काव्यवस्तुषु निर्दिष्टो2 द्वादशाभिनयात्मकः ॥ BhNZ_22_051cd
आलापश्च प्रलापश्च विलापः 3स्यात्तथैव च । BhNZ_22_052ab
अनुलापोऽथ संलाप4स्त्वपलापस्तथैव च ॥ BhNZ_22_052cd
सन्देशश्चातिदेशश्च निर्देशः स्यात्तथापरः5 BhNZ_22_053ab
उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः ॥ BhNZ_22_053cd
6आभाषणं तु यद्व्याक्यमालापो नाम स स्मृतः । BhNZ_22_054ab
अनर्थकं वचो यत्तु7 प्रलापः स तु कीर्तितः8 BhNZ_22_054cd
[ABh]

सर्वेषामित्यादि वाक्यसूचानिवृत्त्यङ्कुरमात्रविषयत्वेनैव संकोचयन्ति, ते न तत्त्वज्ञाः, सर्वोऽप्यभिनयो वाक्योपजीवनमन्तरेण नियमहेत्वभावादसमञ्जसतामभ्येति । केवलं तत्कालिकातत्कालिकादिमात्रेण वाक्यं भिद्यतां नाम । एतच्चोपाङ्गाभिनये वितत्योपपादितम् ।
काव्यवस्तुष्विति दशरूपकभेदेषु द्वादशरूपोऽभिनयात्मको वाचिकाभिनयस्य भाव इत्यर्थः । द्वादशप्रकारानुद्दिशति आलापश्चेत्यादिना तानेव क्रमेण लक्षयति आभाषणं त्वित्यादिना । युष्मदर्थविषयमुपदेशादिशून्यं यद्वचनं तदालाप इत्यर्थः । ``विभ्राजसे मकरकेतनमर्चयन्ती''(रत्ना-1), यथा वा ``जयतु भवान्'' इत्यादि । अनर्थकं वचो यत्तु स प्रलाप इति परस्परसम्बद्धं मौर्ख्यादिवशादित्यर्थः । यथा दरिद्रचारुदत्ते(*) शकारः -- ``शुणामि मल्लगन्धं, अन्धआळशच्चिदादो उण णीसआदो हिदुत्तं एळामि (शृणोमि माल्यगन्धम्, अन्धकारसंचितया पुनर्नासिकया (तदुक्तं) आलोकयामि) (मृच्छ-1) ।

(मू)

1. भ॰ काव्यवस्तुविनिर्दिष्टाः, म॰ काव्यबन्धेषु, न॰ कार्याः

2. ढ॰ निर्विष्टाः

3. ज॰ च, ड॰ अन्यः

4. ड॰ च तथैवच

6. य॰ आभाषणे

7. न॰ यच्च

8. च॰ स प्रलापश्च कीर्तितः, ड॰ संज्ञितः, भ॰ सप्रलापः प्रकीर्तितः

(व्या)

* दरिद्रचारुदत्तमिति मृच्छकट्यां प्रथमाङ्गस्य नाम

[page 175]




[NZ]

1करुणप्रभवो यस्तु विलापः स तु कीर्तितः2 BhNZ_22_055ab
वहुशो ऽभिहितं वाक्यम् अनुलाप इति स्मृतः3 BhNZ_22_055cd
4उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीरितितः । BhNZ_22_056ab
पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ॥ BhNZ_22_056cd
5तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते । BhNZ_22_057ab
6यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः ॥ BhNZ_22_057cd
[ABh]

करुणप्रभवो यस्तु स विलाप इति । करुणग्रहणं दुःखोपलक्षणम्, तेन विप्रलम्भोऽपि गृह्यते । तत्र करुणरससंबन्धं वचनं, (दुःखे) यथा -- क्वासि प्रयच्छ मे प्रतिवचनम्, विप्रलम्भे यथा -- बाणाः पञ्चमनोभवस्य (रत्ना-3) इत्यादि । एतत्प्रधानादेव कामावस्थाविशेषो विलापः (तासु षष्ट्यवस्था) इति वक्ष्यते । बहुशोऽभिहितं वाक्यमनुलाप इति । अनुवादार्थं तदेव पुनरुच्यमानमित्यर्थः । यथा -- ``द्वीपादन्यस्मादपि''(रत्ना1) इति सूत्रधारेणोक्ते नेपथ्ये यौगन्धरायणः -- एवमेत, दीपादन्यस्मादपीत्यनुवदति । उक्तिप्रत्युक्तिसंयुक्तः संलाप इति । यद्विधान्युदाहरणानि(*)(?) । पूर्वोक्तस्यान्यथा वादोऽप्यपलाप इति । यथा कृत्यारावणे गौतमीरूपच्छन्ना रामाक्रन्दितं लक्ष्मणे श्रावयितुकामा शूर्पणखा पूर्वमाह -- ``अवि सुदं ते''(अपि श्रुतं त्वया) । ततः सीता(ससंभ्रमम्) -- ``अये किंति'' (अये किमिति) । ततः सा -- ``अं वञ्चिते, सत्यं गौतमीमेव मामियं सीता जानात्वित्येवं ह्याह, ``णं मए णक्क हण्णिदं, अवि सुदं ते''(इति) । तदिदं वचनं ब्रूहीत्येष सन्देश इति । उदाहरणेन लक्षणमुन्नेयम् । ततः परमुखेनान्यस्य स्ववचोऽपणं सन्देश इति । अतिदेशस्त्वयोक्तं युक्तं मयोक्तमिति सिद्धेनासिद्धस्य तुल्यतापादनमतिदेश इत्यर्थः । अत्रोपदेशातिदेशयोरुपमानस्य च साहित्यविषये तार्किकमीमांसकविषये विशेषप्रतिपादनं यत् टीकाकारैः कृतं तत्सुकुमारमनोमोहनं वृथा

(मू)

1. च॰ दुःखशोकोद्भवं यत्तु, न॰ करुणप्रभवं यत्तु

2. ड॰ इति स स्मृतः

3. ड॰ प्रकीर्तितः

4. न॰ उक्तप्रत्युक्त

5. च॰ त्वमिदं

6. च॰ अतिदेशस्त्वयोक्तं यत्तन्मयोक्तमिति स्मृतः ।

(व्या)

[page 176]




[NZ]

1स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः । BhNZ_22_058ab
व्याजान्तरेण कथनं2 व्यपदेश इहोच्यते3 BhNZ_22_058cd
इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः4 BhNZ_22_059ab
अन्यार्थकथनं यत्स्यात्5 सोऽपदेशः प्रकीर्तितः5 BhNZ_22_059cd
एते मार्गास्तु7 विज्ञेयाः 8सर्वाभिनययोजकाः । BhNZ_22_060ab
सप्त9प्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम्10 BhNZ_22_060cd
प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः11 BhNZ_22_061ab
आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु12 BhNZ_22_061cd
[ABh]

भ्रमणिकामात्रं प्रकृतानुपयोगादिहोपेक्ष्यमेव । स एवैषोऽहं ब्रवीतीति निदेश इति लक्षणम् । व्याजान्तरेण कथनं व्यपदेश इति व्याजविशेषेणेत्यर्थः । यथा मुद्राराक्षसे क्षपणकस्य राक्षसदूषणार्थं तावन्नगरान्निवर्तासनं तत्र च चाणक्येन व्याजेन वचनं कृतम् -- ``अयं पापीयान् (जीवसिद्धिः) राक्षसप्रयुक्तविषकन्यया पर्वतेश्वरं घातितवान् ततो निर्वास्यते'' इति । इदं कुरु गृहाणेति ह्युपदेश इति नियोग इत्यर्थः । अन्यार्थकथनमपदेश इति स्वयं विवक्षितस्यान्य एव वक्तीत्यन्यकथनमित्यर्थः । यथा भीमं प्रति सहदेवः -- एवं गुरुणा सन्दिष्टं सुयोधनस्येiति (वेणी-1) । उपसंहरति एते मागास्त्विति सर्वेषु षट्स्वपि शारीरेष्वित्यर्थः । तथा अभिनीयन्त इत्यभिनया नाटकादिकाव्यविशेषाः तेषु, यतः सामान्येन भवन्त्यत एवैते सामान्याभिनया इति तात्पर्यम् ।

(मू)

1. ज॰ सो॰अयं ब्रवीमि यदहं निर्देशः स तु संज्ञितः (ड॰ स एकोऽहं ब्रवीमीति ......)

2. भ॰ करुणं

3. म॰ प्रकीर्तितः, ड॰ भवेत्तु सः

4. ड॰ इदमुपदेश इति स्मृतः

5. ज॰ तु

6. ज॰ इति स्मृतः

7. भ॰ हि

8. भ॰ वाक्य

9. च॰ प्रकारास्तेषां च पुनर्वक्ष्यामि तत्त्वतः

10. ज॰ कृताश्च यः

12. ज॰ चैव तु, भ॰ कीर्तिताः

(व्या)

[page 177]




[NZ]

1एष ब्रवीमि2 नाहं भो वदामीति च यद्वचः । BhNZ_22_062ab
प्रत्यक्षश्च परोक्षश्च3 वर्तमानश्च तद्भवेत् ॥ BhNZ_22_062cd
अहं करोमि गच्छामि वदामि वचनं तव । BhNZ_22_063ab
4आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ॥ BhNZ_22_063cd
करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः । BhNZ_22_064ab
आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च ॥ BhNZ_22_064cd
हता जिताश्च भग्नाश्च मया सर्वे द्विषद्गणाः । BhNZ_22_065ab
आत्मस्थश्च परोक्षश्च वृत्तकालश्च5 स स्मृतः ॥ BhNZ_22_065cd
[6त्वया हता जिताश्चेति यो वदेन्नाट्यकर्मणि । BhNZ_22_066ab
परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ॥ BhNZ_22_066cd
एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः । BhNZ_22_067ab
7परस्थो वर्तमानश्च (प्रत्यक्षश् च) भवेत्तथा ॥ BhNZ_22_067cd
[ABh]

अथात्रैव भेदान्तराण्याह आत्मस्थश्च परस्थश्चेत्यादि । अत्रोदाहरणदिशमाह अहं करोमीत्यादि ।

(मू)

1. एष इत्यादिश्लोकचतुष्टयस्य, भ॰मातृकायां पाठभेदः -- कृतं मया करिष्येऽहं करोमीति च यद्वचः । भूतं भवद् भविष्यच्च तदात्मस्थमुदाहृतम् । स करोति कृतं तेन करिष्यति च यद्वचः । भवद्भूतं भविष्यच्च परोक्षं सरसंस्थितम् । एष चक्रे करोत्येष करिष्यति च यद्वचः । भूतं भवद्भविष्यं च प्रत्यक्षं परिसंस्थितम्

2. ज॰ ब्रवीति

3. ज॰ परस्थः

4. च॰ प्रथक्षे आत्मसस्थश्च वर्तमानश्च

5. ड॰ परस्थश्च वृत्तकालस्तु

6. एतच्छ्लोकचतुष्टयं, च॰मातृकायामेव विद्यते

7. ड॰ आत्मस्थश्च परस्थश्च वर्तमानश्च स स्मृतः

(व्या)

[page 178]




[NZ]

स गच्छति करोतीति वचनं यदुताहृतम् । BhNZ_22_068ab
परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ॥ BhNZ_22_068cd
करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः । BhNZ_22_069ab
परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत् ॥ ]] BhNZ_22_069cd
हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि । BhNZ_22_070ab
1आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ॥ BhNZ_22_070cd
परेषामात्मानश्चैव कालस्य च विशेषणात्2 BhNZ_22_071ab
सप्तप्रकारस्यास्यैव3 भेदा ज्ञेया 4अनेकधा ॥ BhNZ_22_071cd
[ABh]

इदानीं विषयभेदकृतमात्मस्थस्यापि पारोक्ष्यं दर्शयति हस्तमन्तरतः कृत्वेत्यादि । स्वगतजनान्तिकापवारितकेषु वक्तुरात्मस्थं पात्रान्तराणां चाप्रत्यक्षं नाट्यधर्मीवशादित्यात्मस्थमपि तत्परोक्षम् । लोकधर्म्याप्यात्मस्थं परोक्षम् । यथा -- ``सुप्तो मत्तो न्वहं किल विललाप'' इति । यदाहोत्तमविषयेऽपि चित्तव्याक्षेपादिभ्यो (लिट् भवतीति । अन्य)भेदानां कार्येण (सम्भव)माह --
परेषामान्मनश्चैव कालस्य च विशेषणात् ।
सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ॥
एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः ।
एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् ॥
इह तावद्वाक्यं द्वादशधाभिन्नं तत्राप्यात्मस्थपरस्थयोः प्रत्यक्षत्वपरोक्षत्वाभ्यां चतुर्विधत्वं चतुर्णां कालत्रयेण गुणेन द्वादशभेदाः । भूतभविष्यतोरपि

(मू)

1. च॰मातृकायामयं श्लोकः ``परेषां'' इति श्लोकानन्तरं वर्तते

2. च॰ विपर्ययात्

3. च॰ प्रकारास्तस्यैव

4. य॰ ह्यनेकधा, भ॰ ह्यनेकशः

(व्या)

[page 179]




[NZ]

1एते 2प्रयोगा विज्ञेया 3मार्गाभिनययोजिताः । BhNZ_22_072ab
4एतेष्विह विनिष्पन्नो 5विविधोऽभिनयो भवेत्6 BhNZ_22_072cd
शिरो7हस्तकटीवक्षोजङ्घोरुकरणेषु तु । BhNZ_22_073ab
समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥ BhNZ_22_073cd
ललितैर्हस्तसंचारै8स्तथा मृद्वङ्गचेष्टितैः । BhNZ_22_074ab
अभिनेय9स्तु नाट्यज्ञै रसभावसमन्वितैः ॥ BhNZ_22_074cd
[ABh]

प्रत्यक्षत्वं योगिप्रत्यक्षादिदृशा न भवति । एवं द्वादशानां तावद्भिर्गुणने चतुश्चत्वारिंशस्दधिकं शतम् । संस्कृतेतरभेदेन त्रिविधत्वं यदुक्तं तेन गुणने द्विपञ्चाशदधिकानि नवशतानीति(!) वाक्याभिनयस्य भेदः । सूचाया वाक्यतदर्थभेदाद् द्वैगुण्यम् । तेन एकोनविंशतिशतानि चतुरधिकानि सूचाभेदाः । वाक्यतुल्या एवाङ्कुरभेदाः सूचाभेदैर्गुणनीयास्तैः, पुनः शाखाभेदास्तैरपि द्विविधनाट्यायितभेदस्तावद्भिर्निवृत्त्यङ्कुरभेदा इति कोटिशतान्यनेकानि भवन्ति । न तु यथा श्रीशङ्कुकेनोक्तं चत्वारिंशत्सहराणीत्यादि ।
एवं विशिष्टः सामान्येनाभिनीयमानः संभूयाभिनयैर्युक्तः सर्वाभिनयेषु सामान्यभूत इत्येवं यः सामान्याभिनय अस्या एकीभावनिबन्धनभूताया अलातचक्र[मण्डल]संनिभत्वसम्पादिकाया सामान्याभिनयक्रियायाः

(मू)

1. श्लोकार्धं च॰म॰मातृकयोर्न दृश्यते

2. ड॰ प्रयोक्तृभिः

3. ड॰ मार्गा ह्यभिनये स्मृताः, ड॰ मार्गाः ह्यभिनयाश्रयाः (न॰ त्मिकाः)

4. न॰ एभिरेव, ब॰ एभिर्मार्गो, भ॰ एभिर्मार्गैः

5. भ॰ विविधाभिनयो

6. ड॰ मतः

7. भ॰ वदनपाण्यूरुजङ्घोवरकटीगतः । समकर्मविपाको यः सामान्याभिनयः (ड॰ पाद ...... कृतः), च॰ वदनहस्तोरः कट्यूरुचरणाश्रयः । समः कर्मविभागे यो विविधाभिनयः

8. च॰ विन्यासैः

9. च॰ नेयं ...... समन्वितम् ।

(व्या)

[page 180]




[NZ]

1अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । BhNZ_22_075ab
लयतालकलापात2प्रमाणनियतात्मकम्3 BhNZ_22_075cd
सुविभक्तपदालापम् अनिष्ठुरम् अकाहलम्4 BhNZ_22_076ab
यदीदृशं भवेन्नाट्यं ज्ञेयम् आभ्यन्तरं5 तु तत् ॥ BhNZ_22_076cd
एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् । BhNZ_22_077ab
6अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ॥ BhNZ_22_077cd
7लक्षणाभ्यन्तरत्वाद्धि 8तदाभ्यन्तरमिष्यते । BhNZ_22_078ab
9शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते10 BhNZ_22_078cd
अनेन लक्ष्यते यस्मात्11 प्रयोगः कर्म चैव हि12 BhNZ_22_079ab
तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् संप्रयोजितम्13 BhNZ_22_079cd
[ABh]

प्राधान्यप्रदर्शनार्थमाह अनुद्धतमसंभ्रान्तमित्यादि । अनाविद्धशब्देनाङ्गिकविषयं सामान्यं दर्शयति । एतदभावं दृष्टव्यमिति दर्शयन् व्यतिरेकक्रमेणापि सामान्याभिनयस्यावश्योपादेयतामाह एतदेव विपर्यस्तमित्यादिना । आभ्यन्तरमिति (स्वयमेव विवृणोति) लक्षणाभ्यन्तरत्वादिति । ननु वागङ्गाभिनयोपेत इति लक्षणं तस्य बाह्योऽप्यस्तीत्याशङ्क्याह अनेन लक्ष्यते यस्मादिति सामान्याभिनयरूपमेव लक्षणमिति तात्पर्यम् । (संप्रयोजितमिति) नाट्यविषयाः प्रत्येकं तावत् क्रिया एकीभावं नेयाः, एकीभावगतश्च क्रियासमूहो ऽप्येकीभावं नेय इत्येतत् । कर्मप्रयोगशब्दाभ्यां नाट्य इति

(मू)

1. च॰ अनुद्भटं, भ॰ अनुद्भटमसंक्रान्तं

2. च॰ काल, ड॰ कलापादि

3. ड॰ नियमात्मकः, ढ॰ आत्मजात्, भ॰ कालायातप्रमाणनियमान्वितम्

4. ड॰ अनाकुलम्

5. ड॰ अभ्यन्तरं

6. म॰ अनुबद्ध, च॰ अति

7. च॰ लक्षणाभ्यन्त्रं यस्मात्तस्मादाभ्यन्तरं स्मृतम्

8. ड॰ तदभ्यन्तरं

9. च॰ शास्त्रार्थबाह्यभावा(त्तु) बाह्यमित्यभिधीयते

10. ड॰ संज्ञितम्, भ॰ विश्रुतम्

11. ब॰ यस्मिन्

12. भ॰ वा बुधैः

13. भ॰ समुदाहृतम् ।

(व्या)

[page 181]




[NZ]

अनाचार्योषिता1 ये च ये च शास्त्रबहिष्कृताः2 BhNZ_22_080ab
3बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ॥ BhNZ_22_080cd
शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च । BhNZ_22_081ab
4इन्द्रियाणीन्दियार्थांश्च 5भावैरभिनयेद्बुधः ॥ BhNZ_22_081cd
कृत्वा साचीकृतां दृष्टिं शिरः 6पार्श्वनतं तथा । BhNZ_22_082ab
7तर्जनीं कर्णदेशे च बुधः शब्दं विनिर्दिशेत्8 BhNZ_22_082cd
[ABh]

सप्तम्या कथयति -- अनेन विना स्फुटं नाट्यरूपत्वमेव साक्षात्काराध्यवसायरूपं रसानुप्राणितं तन्न संपद्यत इति । व्युत्पत्तिदूरीभावं त्वनधीयानां, भट्टपुत्रादौ तदभावात्तदाह अनाचार्योषिता ये चेत्यादिना ।
अथ संभूयाभिनयरूपत्वमेव सामान्याभिनयमाह शब्दं स्पर्शं चेत्यादि । इन्द्रियशब्दस्येन्द्रियार्थशब्देन स्पर्शादिविशेषणस्यासंभवम्(*), स्वविषयग्रहणावेशः स्वकरणग्राह्यतावेशश्च सर्वेषामिन्द्रियाणां विषयाणां च प्रदर्श्यते, अत एवैष सामान्याभिनयने येऽर्थद्वयेऽभिनयस्य साधारण्यम् । भावैरिति क्रियाविशेषैरित्यर्थः । तानाह कृत्वा साचीकृतां दृष्टिमित्यादि । अनेनादरवशात्समस्तो भरः श्रोत्रदेशमनुयाति, यथोक्तम् --
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ (रघु 7-12) इति
चकाराच्छ्रोत्रमपि शब्दग्रहणाविष्टमनेनाभिनीतं भवतीत्याह । एवमुत्तरत्र ।

(मू)

1. ड॰ उदिताः, भ॰ अनाचार्ये हिताः, ब॰ अनाचार्याहिताः

2. च॰ बहिर्गताः

3. च॰ बाह्यस्ते(न्ते)(?) तु प्रयोज्यन्ति क्रियामात्रैः प्रयोजिते, य॰ बाह्यं ते तु प्रयोक्ष्यन्ते क्रियामन्यैः प्रयोजिताम् (ढ॰ हेतु ......मन्त्रैः)

4. ज॰ इन्द्रियैः

5. भ॰ भावेन

6. य॰ पार्श्वानतं, प॰ पार्श्वे

7. ड॰ तरनी कर्णदेशे तु शब्दं त्वभिनयेद्बुधः

8. च॰ तु बुधः शब्दान् नियोजयेत्

(व्या)

* इन्द्रियस्येन्द्रियार्थेन शब्दस्पर्शादिविशेषेण स्यात् संभवः -- इति पाठः स्यात् ।

[page 182]




[NZ]

किंचिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च1 BhNZ_22_083ab
तथासगण्डयोः स्पर्शात् स्पर्शमेव विनिर्दिशेत् ॥ BhNZ_22_083cd
कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः2 BhNZ_22_084ab
निर्वर्णयन्त्या दृष्ट्या च3 रूपं तव् अभिनयेद् बुधः ॥ BhNZ_22_084cd
किंचिदाकुञ्चिते नेत्रे 4कृत्वोत्फुल्लां च नासिकाम्5 BhNZ_22_085ab
एकोच्छ्वासेन चेष्टौ तु 6रसगन्धौ विनिर्दिशेत् ॥ BhNZ_22_085cd
पञ्चानामिन्द्रियार्थानां7 भावा ह्येतेऽनुभाविनः । BhNZ_22_086ab
8श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ॥ BhNZ_22_086cd
9इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः10 BhNZ_22_087ab
न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम्11 BhNZ_22_087cd
12मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः13 BhNZ_22_088ab
[ABh]

एतदुपसंहरति पञ्चानामिन्द्रियार्थानामित्यादि । इद्न्रियार्थाः समनस इति यथाशब्दादिग्रहणक्रियाभिः शब्दः श्रोत्रे प्रतीयते, तन्मनोऽपि तदधिष्टातृक्रमेणाधिष्ठानं कुर्वदित्यतोऽपि सामान्याभिनयः । तदुक्तम् -- युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति(*) । मनसस्त्रिविधो भाव इति वैशेषिकादिदृशि मनस्संयोगजो य आत्मन इच्छाद्वेषमाध्यस्थ्यलक्षणो भावः स मनस इत्युक्तः ।

(मू)

1. ज॰ भ्रुवोरुत्क्षेपणेन च

2. ड॰ अङ्गुलिः

3. ड॰ तु

4. य॰ कृत्वा फुल्लां

5. भ॰ नाडिकाम

6. न॰ चेदिष्टौ, च॰ चोद्दिष्टौ, ड॰ वृष्टेष्टौ, भ॰ सहोच्छ्वासे चेष्टौ तु

7. ब॰ इन्द्रियाणां च

8. भ॰ त्वक्चक्षुर्घ्राणजिह्वानां श्रोत्रस्य तु तथैव च (च॰ च हि,) (म॰ जिह्वा जिंज्वा)

9. प॰ इन्द्रियार्थश्च मनसो भावयन्त्यनुभाविनः

10. भ॰ भवन्तीह विभाविनः

11. ड॰ पञ्चहेतुकम्, भ॰ भूतजम्

12. भ॰ मानसः

13. य॰ अभिनयो बुधैः, ड॰ नयं प्रति ।

(व्या)

* न्यायसू-1-1-16

[page 183]




[NZ]

1इष्टस्तथा ह्यनिष्टश्च2 मध्यस्थश्च तथैव हि ॥ BhNZ_22_088cd
3प्रह्लादनेन गात्रस्य तथा पुलकितेन च । BhNZ_22_089ab
4वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ॥ BhNZ_22_089cd
5इष्टे शब्दे तथा रूपे स्पर्शे 6गन्धे तथा रसे । BhNZ_22_090ab
इन्द्रियैर्मनसा7 प्राप्तैः8 9सौमुख्यं संप्रदर्शयेत् ॥ BhNZ_22_090cd
परावृत्तेन शिरसा10 नेत्रनासाविकर्षणैः11 BhNZ_22_091ab
चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ॥ BhNZ_22_091cd
12नातिहृष्टेन मनसा न 13चात्यर्थजुगुप्सया । BhNZ_22_092ab
मध्यस्थेनैव भावेन मध्यस्थमभिनिर्दिशेत्14 BhNZ_22_092cd
[ABh]

कापिलदृशि तु विन्ध्यवासिनो मनस एव, ईश्वरकृष्णादिमते मनःशब्देनात्र बुद्धिः । प्रह्लादनेन गात्रस्येत्यादिकं विषयग्रहणक्रियास्वभीष्ठविषये निदर्शयितव्यम् । अतोऽपि चास्य सामान्याभिनयत्वं द्रष्टव्यम् ।
एतदेव स्फुटयति दृष्टे(इष्टे ?)शब्द इत्यादिना । सुमुखत्वं प्रसादादियुक्तं वदनमित्यर्थः । चिकर्षणानि सङ्कोचनानि च । बहुवचनेन मध्ये ग्रहणसिद्धये विकासासंभिन्न इति दर्शयति ।

(मू)

1. च॰ इष्टोऽनिष्टश्च मध्यश्च तस्याभिनय उचय्ते, ड॰ इष्टो,ऽनिष्टस्तथा चैव मध्यस्थश्च तथैव हि

2. भ॰ वा

3. भ॰ गात्रप्रह्लादनेनेह

4. ज॰ नितान्तप्रक्रियाभिश्च सर्वमिष्टं निरूपयेत्, भ॰ नितान्तास्त(तास्य ?), ढ॰ आननप्रक्रियाभिश्च

5. च॰ दृष्टे(?)

6. च॰ घ्राणे

7. भ॰ मनसि

8. च॰ मनसि प्राप्ते

9. ब॰ सौख्यं संप्रति दर्शयेत्

10. भ॰ तथा यातेन चक्षुषः । नेत्रत्रासाञ्चिततया, ड॰ प्रदानेन च चक्षुषः । नेत्रत्रासाञ्चिततया

11. य॰ निकूणनैः ।

12. भ॰ न चातिमात्रं दृष्टेन न जुगुप्साकृतेन तु, ड॰ न चातिमात्रदृष्टस्तु न चात्यन्तजुगुप्सया

13. च॰ चात्यन्त

14. भ॰ मध्यस्याभिनयः स्मृतः

(व्या)

[page 184]




[NZ]

तेनेदं तस्य 1वापीदं स एवं प्रकरोति वा2 BhNZ_22_093ab
परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः ॥ BhNZ_22_093cd
3आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः । BhNZ_22_094ab
4परार्थवर्णना यत्र परस्थः स तु संज्ञितः ॥ BhNZ_22_094cd
प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते । BhNZ_22_095ab
5चेच्छागुणसम्पन्नो6 बहुधा परिकल्पितः ॥ BhNZ_22_095cd
[ABh]

अथात्रैव पूर्वोक्तप्रकारसंभवं दर्शयति तेनेदमित्यादि । कृतं कर्तव्यमिति वाक्यशेषे भूतता भविष्यत्ता च । आत्मनि सुखादयोऽर्थाः समवायिन इति सर्व एव ते आत्मस्थाः स्युः, रूपादीनां चान्यत्र समवायात् सदैव परस्थता स्यादित्याशङ्क्याह आत्मानुभावी योऽर्थः स्यादिति । परशब्दसन्निधानादात्मशब्दोऽत्राहंभावास्पदे प्रत्यगात्मनि वर्तते । तमात्मानमनुभावयति यदार्थः स आत्मस्थः । रूपादयोऽपि चैवं भवन्तीति कथं नात्मस्थाः परसुखादयश्च नैवमिति कथमात्मस्थाः ।
अथ कामोपचारस्य सामान्याभिनयत्वमुपपादयति प्रायेण सर्वभावानामिति । कामादिति इच्छातः । यद्यप्यनिच्छोः किञ्चिद्भवति तदपि प्राक्तनं च कर्माधिपत्यात् । कर्मस्थापूर्वकमिति प्रायग्रहणं व्याप्त्यर्थः कामदेव निष्पत्तिरित्यर्थः ।
ननु कोऽयं नामेत्याह स चेच्छेति । न चेच्छामात्रादेव कार्यविनिष्पत्तिरित्याह गुणेन कार्यप्रयत्नादिना कार्यव्यापारादिसहितेन सम्पन्नः सहकृतः सर्वकार्यकारी । नन्वेकैव चेदिच्छा कथमनेकं कार्यं प्रसूयत इत्याशङ्क्याह बहुधा परिकल्पितः भूयस्यः इच्छा इति यावन्तमुदाहरति धर्मकाम

(मू)

1. ज॰ च

2. च॰ च

3. इदमर्धं भ॰ मातृकायां न दृश्यते

4. च॰ परार्थवर्णना याच (ज॰ परस्य), ड॰ परस्य वर्णनीयं च, भ॰ परार्थवर्णने यश्च परस्थः सोऽभिधीयते

5. ज॰ चेप्सा ...... बहुधा काम इष्यते

6. भ॰ निष्पन्नो

(व्या)

[page 185]




[NZ]

धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च । BhNZ_22_096ab
1स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः2 BhNZ_22_096cd
3सर्वस्यैव 4हि लोकस्य 5सुखदुःखनिबर्हणः6 BhNZ_22_097ab
भूयिष्ठं दृश्यते कामः 7स सुखं व्यसनेषव् अपि ॥ BhNZ_22_097cd
8यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः । BhNZ_22_098ab
9स शृङ्गार इति ज्ञेय 10उपचारकृतः शुभः ॥ BhNZ_22_098cd
[ABh]

इत्यादि । धर्मः कामः अर्थो मोक्षे च । तत्र कामो नामेच्छा सा च सुखे तत्साधने वा भवति । तत्र धर्मार्थयोः स्वयं सुखरूपत्वं नास्ति सुखसाधनतापि च । साक्षाद्धर्मेण ह्यप्सरोनन्तादि(गतादि?)सुखसाधनमुपार्ज्यते । एवमर्थेऽपि मन्तव्यम् । मोक्षो यद्यप्यबहिस्साधनाधीनपरमानन्दविश्रान्तिलक्षणः सुखात्मैव, तथापि दुर्लभ इति न तत्र संमोहितं लोकस्य हृदयम् । स्त्रीपुरुषयोस्तु संयोगः साक्षादेव सुखसाधनमिति तस्यैवेच्छाविषयतेति निरुपपदेन कामशब्देन स एव वाच्यः । तेन च सर्वोऽर्थोऽनुरज्यते, यदाह -- स्त्रीति नामापि संह्रादीति(कामन्द-स 4-52) तथापि तत्स्पृष्टे लोकोत्तरेऽप्यर्थो लोकस्य हृदयसंवादादयत्नेनैव हृदयंगमत्वमभ्युपगच्छति । यथा --
मोहदुर्दिननिशाभिसारिका मानिनी समदना मदोद्धता ।
धीरियं प्रणयतस्त(स्त्व?)दुन्मुखी खण्डितां रमण मास्म तां कृथाः ॥ इति
अनेनैवाशयेन रहस्योऽप्यर्थो मया रहस्येषु(मुख्ययैव वृत्त्या) निबद्धः कैशिक्या ह्येतदर्थमेवादरेण विनिवेशः प्रतिपादितः । अत एह्यस ...... ।
कामोपचारस्य सामान्याभिनयत्वं बहुतरलक्ष्यव्यापकत्वात् तदेव दर्शयति यः स्त्रीपुरुषसंयोग इति । इच्छामात्रमपि तत्र सुखे(चोपचारकृत)मित्यत इच्छालक्षणं

(मू)

1. च॰ यत्तु स्त्रीपुंसयोर्योगः स वै(?) कामः

2. भ॰ संप्रयोगो यः कामः स तु संज्ञितः (ड॰ तु संयोगो)

3. अयं श्लोको ड॰ मातृकायां न विद्यते

4. भ॰ तु

5. ब॰ शोकदुःखनिबर्हणः

6. न॰ निबर्हणम्

7. भ॰ सुखदो

8. न॰ यश्चापि

9. भ॰ शृङ्गार इति स

10. ढ॰ उपकार

(व्या)

[page 186]




[NZ]

1भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा2 BhNZ_22_099ab
3सुखस्य हि स्त्रियो मूलं नाना4शीलाश्च ताः पुनः ॥ BhNZ_22_099cd
5देवदानवगन्धर्वरक्षोनागपतत्रिणाम् । BhNZ_22_100ab
पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ॥ BhNZ_22_100cd
मृगमीनोष्ट्रमकर6खरसूकरवाजिनाम् । BhNZ_22_101ab
7महिषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ॥ BhNZ_22_101cd
[ABh]

संभोगं करोतीत्याह । उपचारोऽन्योन्यहृदयग्रहणोचितैर्व्यापारैः परिपूर्णः । इह चोक्त(उत्तम)प्रकृतिर्यदि भवति तद्रसाध्यायोक्तदृशा शृङ्गार इत्युच्यते । एतमेवार्थमुपोद्बलयति भूयिष्ठमेव लोकोऽयं सुखमिच्छति दर्वदा इति । भूयिष्ठमिति प्राप्तादधिकमिति यावत् । अत एव परमानन्दलाभमन्तरेण न कुत्रचित् संयुष्यति लोकः । सर्वदेति दुःखाभावमपि सुखार्थमेवेच्छति, सर्वदुःखनिवृत्तिं हि कामयते सुखेन यथेच्छमश्नीयात्, तथाभीष्टं च रमणीमुपभुञ्जीयादिति । हारमपि त्यजति मृदुशीतलसमीरस्पर्शजनितसुखसिद्ध्यर्थमेव । अत एव शून्यरहस्यविदः कणादसुगतादिसंमतमिमं मोक्षं न रोचयन्ते प्रेक्षवतां तत्राप्रवृत्तिप्रसङ्गादिति दर्शितमित्यलं बहुना ।
उपचारकृतमित्युक्तम्, तत्रोपचारज्ञानाय स्त्रीणामाशयं दर्शयति, आशयग्रहणपूर्वकत्वादुचितस्योपचारस्य नानाशीलाः(इति) । शीलं सत्त्वं चैतन्यं बुद्धिपूर्वकं स्वभावो हेवाक इति पर्यायाः । देवदानवेत्यादिना तानि शीलान्युद्दिश्य यथोद्देशं लक्षयति । आदि ग्रहणेनान्यदपि शीलमस्तीत्याह ।

(मू)

1. य॰ प्रायेण सर्व ...... नित्यशः, च॰ सर्वः प्रायेण, ढ॰ इह प्रायेण लोकोऽयं शुभमिच्छति नित्यशः

2. भ॰ नित्यशः

3. भ॰ सुखमूलं स्त्रियश्चैव

4. च॰ शीलधराश्च ताः

5. य॰ देवतासुर, भ॰ देवगन्धर्वदैत्यानां सयक्षोरगरक्षसाम् ।

6. ढ॰ वन

7. ड॰ महिषाश्व, भ॰ महिषप्रभृतीनां च

(व्या)

[page 187]




[NZ]

1स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणी । BhNZ_22_102ab
अरोगा2 दीप्त्युपेता च 3दानसत्त्वार्जवान्विता ॥ BhNZ_22_102cd
4अल्पस्वेदा समरता स्वल्पभुक् सुरत5प्रिया । BhNZ_22_103ab
6गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ॥ BhNZ_22_103cd
अधर्मशाठ्याभिरता7 स्थिरक्रोधातिनिष्ठुरा । BhNZ_22_104ab
मद्यमांसप्रिया8 नित्यं कोपना चातिमानिनी ॥ BhNZ_22_104cd
9चपला चातिलुब्धा च परुषा कलहप्रिया । BhNZ_22_105ab
10ईर्षाशीला चलस्नेहा चासुरं 11शीलमाश्रिता ॥ BhNZ_22_105cd
12क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः । BhNZ_22_106ab
13स्वङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया ॥ BhNZ_22_106cd
14गीते वाद्ये च नृत्ते च 15रता हृष्टा मृजावती । BhNZ_22_107ab
[ABh]

समरतेति नातिमृड्वी नातिस्वरेत्यर्थः । स्वङ्गीति सुखसन्निवेशान्यङ्गानि तस्या इत्यर्थः ।

(मू)

1. ड॰ स्निग्धा चाङ्गैः ...... स्थिर, च॰ स्निग्धाङ्गोपाङ्गनयना, भ॰ स्निग्धस्वराङ्गोपाङ्गैश्च

2. भ॰ दीप्तियुक्ता च दानशील .......

3. च॰ सत्यार्जवदयान्विता, ज॰ दानशक्त्यार्जवान्विता

4. भ॰ उपस्वेदा

5. भ॰ सुरभि

6. ड॰ गान्धर्वाद्याभिरता हृद्या देवाङ्गना

7. भ॰ निरता, व॰ साध्यनिरता

8. प॰ नित्यः

9. भ॰ वाचाला

10. च॰ ईर्ष्याशीलाथ निस्नेहा शीलमासुरं

11. भ॰ सत्त्वं

12. भ॰ सुनेत्रा कामवशगैः, ज॰ सुनेत्रा कामभोगा च, ढ॰ अनेकारामभोग्या च

13. ड॰ स्मिताभिभाषिणी तन्वी मन्दाचारा, न॰ तन्वङ्गी स्मितभाषी, भ॰ तन्वङ्गी नित्यहृष्टा च मन्दापत्या मृजावती, ज॰ तन्वङ्गी स्मितभाषा च मन्दा गत्या सुदुस्तथा

14. भ॰ गीतनृत्ते सदासक्ता विदग्धा सुरभिप्रिया

15. ज॰ नित्यं

(व्या)

[page 188]




[NZ]

गन्धर्वसत्त्वा1 विज्ञेया स्निग्धत्वक्लेशलोचना ॥ BhNZ_22_107cd
2बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना । BhNZ_22_108ab
3खररोमा दिवास्वप्न4निरतात्युच्चभाषिणी ॥ BhNZ_22_108cd
नखदन्तक्षतकरी क्रोधेर्ष्या कलहप्रिया । BhNZ_22_109ab
5निशाविहारशीला च राक्षसं 6शीलमाश्रिता ॥ BhNZ_22_109cd
तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना । BhNZ_22_110ab
नीलोत्पलसवर्णा च7 स्वप्नशीलातिकोपना ॥ BhNZ_22_110cd
तिर्यग्गतिश् चलारम्भा8 बहुश्वासितमानिनी9 BhNZ_22_111ab
गन्धमाल्यासवरता10 नागसत्त्वाङ्गना स्मृता ॥ BhNZ_22_111cd
11अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया । BhNZ_22_112ab
सुरासवक्षीररता12 बह्वपत्या फलप्रिया ॥ BhNZ_22_112cd
नित्यं 13श्वसनशीला च 14तथोद्यान15वनप्रिया । BhNZ_22_113ab
16चपला बहुवाक् छीघ्रा 17शाकुनं सत्त्वमाश्रिता ॥ BhNZ_22_113cd
[ABh]

व्यावृत्तं विस्तीर्णमास्यमन्तर्मुखं यस्याम् । निष्कुटे गृहारामे चरतीति(निष्कुट-चारिणी)

(मू)

1. च॰ शीला

2. ड॰ वृद्धदायत

3. ड॰ भूरि, ढ॰ हरि

4. च॰ स्वभावा, ढ॰ निवृत, ड॰ निवृत्त, ज॰ नियत, भ॰ नित्यमत्युच्च

5. भ॰ निशापि चारशीलायाः

6. ब॰ सत्त्वं

7. भ॰ स्वल्पनिद्रा, ड॰ स्वप्नोद्वेगा

8. भ॰ चलरसा बहुसत्त्वाति(ब॰ अभि)

9. ड॰ बहुसत्त्वाभिनन्दिनी

10. ड॰ माल्यादिनिरता

11. च॰ अत्यर्थं व्यापृतास्या, भ॰ तन्वङ्गी दीर्घवदना

12. भ॰ क्रीतिरसा

13. भ॰ चासन

14. ड॰ सदा

15. च॰ रति

16. भ॰ चला बहुलपा शीघ्रा

17. ड॰ शीलं

(व्या)

[page 189]




[NZ]

1ऊनाधिकाङ्गुलिकरा2 3रात्रौ निष्कुटचारिणी । BhNZ_22_114ab
बालोद्वेजनशीला च पिशुना 4क्लिष्टभाषिणी ॥ BhNZ_22_114cd
5सुरते कुत्सिताचारा रोमाङ्गी महास्वना6 BhNZ_22_115ab
पिशाचसत्त्वा विज्ञेया मद्यमांस7बलिप्रिया ॥ BhNZ_22_115cd
8स्वप्नप्रस्वेदनाङ्गी च 9स्थिरशय्यासनप्रिया । BhNZ_22_116ab
मेधाविनी बुद्धिमती10 मद्यगन्धामिषप्रिया ॥ BhNZ_22_116cd
11चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा12 BhNZ_22_117ab
अदीर्घ13शायिनी चैव यक्षशीलाङ्गना स्मृता ॥ BhNZ_22_117cd
14तुल्यमानावमाना या परुषत्वक् खरस्वरा15 BhNZ_22_118ab
16शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक्17 BhNZ_22_118cd
आर्जवाभिरता नित्यं दक्षा क्षान्तिगुणान्विता । BhNZ_22_119ab
विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया18 BhNZ_22_119cd
धर्मकामार्थ19निरता हय् अहङ्कारविवर्जिता । BhNZ_22_120ab
[ABh]

तच्छीलेति । कुत्सिताचारेति औपरिष्टकादिप्रिया । (बुद्धिमतीति)

(मू)

1. ड॰ न्यून

2. च॰ क्रूरा

3. भ॰ रात्रिसंचरणप्रिया

4. भ॰ मृदु, च॰ श्लिष्ट, ड॰ दृप्त

5. ड॰ सुरतेषूज्झिताचारा

6. भ॰ सुनिष्ठुरा

7. च॰ रति, व॰ अशन, ड॰ आसव

8. भ॰ सुप्त

9. भ॰ प्रियशय्यासनस्थिरा

10. ड॰ तु मृद्वङ्गी

11. भ॰ नित्यदृष्टा कृतज्ञा च स्थूलाङ्गा प्रियदर्शना, ड॰ चिरदृष्टे तु

12. च॰ वा

13. भ॰ केशिनी चैव ज्ञेया यक्षाङ्गना हि सा, च॰ गमना चैव ज्ञेया यक्षान्वयाङ्गना

14. च॰ मानापमानयोस्तुल्या परुषत्वक्कटुकाक्षरा(ज॰ च कटुस्वना)

15. भ॰ परुषत्वात्पटुस्वना

16. च॰ शठाकृत, भ॰ शाट्ययुक्त

17. च॰ पिङ्गदृग्व्यालवेशजा, भ॰ अथ पिङ्गली

18. च॰ देवार्चने रता

19. च॰ नित्या च वश्याहंकारवर्जिता

(व्या)

[page 190]




[NZ]

सुहृत्प्रिया 1सुशीला च मानुषं सत्त्वमाश्रिता ॥ BhNZ_22_120cd
संहताल्पतनु2र्हृष्टा पिङ्गरोमा 3छलप्रिया । BhNZ_22_121ab
4प्रगल्भा चपला तीक्ष्णा वृक्षाराम5वनप्रिया ॥ BhNZ_22_121cd
स्वल्पमप्युपकारं तु नित्यं या6 बहुमन्यते । BhNZ_22_122ab
प्रसह्यरतिशीला च 7वानरं सत्त्वमाश्रिता ॥ BhNZ_22_122cd
महाहनुललाटा 89शरीरोपचयान्विता । BhNZ_22_123ab
पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासव10प्रिया ॥ BhNZ_22_123cd
कोपना स्थिरचित्ता1112जलोद्यानवनप्रिया । BhNZ_22_124ab
मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता13 BhNZ_22_124cd
स्वल्पोदरी 14भग्ननासा तनुजङ्घा 15वनप्रिया । BhNZ_22_125ab
16चलविस्तीर्णनयना चपला शीघ्रगामिनी ॥ BhNZ_22_125cd
17दिवात्रासपरा 18नित्यं गीतवाद्यरतिप्रिया19 BhNZ_22_126ab
20निवासस्थिरचित्ता च21 मृगसत्त्वा प्रकीर्तिता ॥ BhNZ_22_126cd
[ABh]

अशेषाविस्मरणं बुद्धिः प्रतिभा । प्रसह्येति कामुकमभियुज्येत्यर्थः । निवास इति

(मू)

1. भ॰ तथा चैव

2. भ॰ धृष्टा पिङ्गायतशिरोरुहा

3. च॰ फल

4. भ॰ चलचित्तास्थिराः ...... रतिप्रिया

5. ड॰ सरित्, च॰ रति

6. भ॰ उपकृतं तुर्या नित्यं

7. च॰ कपिसत्त्वं समाश्रिता

8. भ॰ या उत्सेध

9. ड॰ रतिप्रिया

14. च॰ मग्ननासा, प॰ भुग्न, भ॰ मन्द

15. भ॰ जन

16. ड॰ रक्त

17. भ॰ परि

18. च॰ भीरूरोमशा गीतलोभिनी

19. भ॰ वाद्यप्रिया तथा

20. च॰ कोपनायतसत्त्वा च मृगसत्त्वाङ्गना स्मृता(ड॰ स्थिर)

21. भ॰ भूमिनिरता

(व्या)

[page 191]




[NZ]

दीर्घपीनोन्न्तरोस्का 1चला नातिनिमेषिणी । BhNZ_22_127ab
2बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया ॥ BhNZ_22_127cd
लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी । BhNZ_22_128ab
कृशोदरी पुष्पफल3लवणाम्लकटुप्रिया ॥ BhNZ_22_128cd
4उद्बन्धकटिपार्श्वा च खर5निष्ठुरभाषिणी । BhNZ_22_129ab
5अत्युन्नतकटीग्रावा 7उष्ट्रसत्त्वाटवीप्रिया ॥ BhNZ_22_129cd
स्थूलशीर्षाञ्चित8ग्रीवा 9दारितास्या महास्वना । BhNZ_22_130ab
ज्ञेया मकरसत्त्वा च10 क्रूरा मत्स्यगुणैर् युता ॥ BhNZ_22_130cd
स्थूलजिह्वोष्ठदशना11 रूक्षत्वक्कटुभाषिणी । BhNZ_22_131ab
रतियुद्धकरी12 धृष्टा13 नखदन्तक्षतप्रिया ॥ BhNZ_22_131cd
14सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी । BhNZ_22_132ab
15सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ॥ BhNZ_22_132cd
16दीर्घपृष्ठोदरमुखी रोमशाङ्गी बलान्विता । BhNZ_22_133ab
17सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ॥ BhNZ_22_133cd
[ABh]

(रतियुद्धकरीति) रतौ युद्धमिव । (नखेति)नखदशनप्रकारादि

(मू)

1. भ॰ रमोमन्दा(?), च॰ चलनाति, ड॰ चपला निर्निमेषिणी

2. च॰ बहुभृता, भ॰ बह्वपत्या तथा चैव

3. भ॰ क्षारमूल

4. भ॰ उद्वद्ध

5. भ॰ प्राया प्रियाशना

6. ड॰ अभ्युन्नतखर

7. च॰ भवेदुष्ट्री वनप्रिया

8. ड॰ स्थिर, भ॰ शीलाञ्चित

9. भ॰ तीक्ष्णदंष्ट्रा

10. च॰ तु

11. ढ॰ रसना, च॰ वदना

12. च॰ रता

13. ड॰ हृष्टा

14. भ॰ सपक्ष

15. ड॰ सरोषा

16. भ॰ कृष्टदंष्ट्रोत्कटमुखी ह्रस्वजङ्घा तथैव च

17. भ॰ अयं श्लोकः भ॰मातृकायां न वर्तते

(व्या)

[page 192]




[NZ]

कृष्णा दंष्ट्रोत्कटमुखी 1ह्रस्वोदरशिरोरुहा । BhNZ_22_134ab
हीनाचारा बह्वपत्या 2सौकरं सत्त्वमाश्रिता ॥ BhNZ_22_134cd
3स्थिरा 4विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा । BhNZ_22_135ab
5सुभगा दानशीला च 4ऋजुस्थलशिरोरुहा ॥ BhNZ_22_135cd
7कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी । BhNZ_22_136ab
कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता10 BhNZ_22_136cd
स्थूलपृष्ठाक्षि9दशना तनुपार्श्वोदरा स्थिरा10 BhNZ_22_137ab
हरिरोमाञ्चिता11 रौद्री लोकद्विष्टा रतिप्रिया ॥ BhNZ_22_137cd
किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया । BhNZ_22_138ab
बृहल्ललाटा सुश्रोणी12 माहिषं 13सत्त्वम् आश्रिता ॥ BhNZ_22_138cd
कृशा त