श्रीः
नाट्यशास्त्रम्
अष्टमो ऽध्यायः।

[NZ]

ऋषय ऊचुः(1)
भावानां च रसानां च समुत्थानं यथाक्रमम् । BhNZ_08_001ab
त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः2 BhNZ_08_001cd
नाट्ये कतिविधः कार्य3स्तज्ज्ञैरभिनयक्रमः । BhNZ_08_002ab
कथं वाभिनयो4 ह्येष 5कतिभेदश्च कीर्तितः ॥ BhNZ_08_002cd
सर्वमेतद्यथातत्त्वं6 कथयस्व महामुने ।7 BhNZ_08_003ab
8यो यथाभिनयो यस्मिन्योक्तव्यः सिद्धिमिच्छता ॥ BhNZ_08_003cd
तेषां तद्वचनं9 श्रुत्वा मुनीनां भरतो मुनिः । BhNZ_08_004ab
प्रत्युवाच पुनर्वाक्यं चतुरो ऽभिनयान्प्रति ॥ BhNZ_08_004cd
अहं वः10 कथयिष्यामि 11निखिलेन तपोधनाः । BhNZ_08_005ab
यस्मादभिनयो ह्येष 12विधिवत्समुदाहृतः ॥ BhNZ_08_005cd
13यदुक्तं चत्वारो ऽभिनया इति तान् वर्णयिष्यामः1415अत्राह -- 16अभिनय इति कस्मात् । अत्रोच्यते17 -- BhNZ_08_006
[ABh]


[(मू)]

1. ठ॰ ढ॰ योर्नास्ति

2. द॰ त्विमम्

3. क॰ तर्कैः

4. च॰ चाभिनयो

5. ठ॰ कति भेदस्तु, प॰ करिभेदाश्च कीर्तिताः

6. प॰ वृत्तं

7. ड॰ भगवन्वक्तमर्हसि, द॰ कथय त्वं महामते

8. ड॰ को

9. ड॰ तु वचनं

10. प॰ हि

11. द॰ निश्चयेन

12. द॰ विविधः

13. प॰ यत्तु

14. द॰ वर्णयिष्यामः

15. द॰ कस्मात् । उच्यते

16. प॰ अभिनयेति कस्मात्

17. च॰ उच्यते ।

[(व्या)]

[page 1]




[NZ]

अभीत्युपसर्गः(1) । णीञित्ययं धातुः प्रापणार्थः(2) । (3)अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय (4)इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यम्(5) । अत्र श्लोकौ(6) --
7अभिपूर्वस्तु णीञ्धातुराभिमुख्यार्थनिर्णये । BhNZ_08_007ab
यस्मात्प्रयोगं8 नयति तस्मादभिनयः स्मृतः ॥ BhNZ_08_007cd
9विभावयति यस्माच्च नानार्थान्हि प्रयोगतः । BhNZ_08_008ab
शाखाङ्गोपाङ्ग11संयुक्तस्तस्मादभिनयः स्मृतः ॥ BhNZ_08_008cd
चतुर्विधश्चैष12 भवेन्नाट्यस्याभिनयो द्विजाः । BhNZ_08_009ab
अनेकभेदबहुलं 13नाट्यमस्मिन्प्रतिष्ठितम् ॥ BhNZ_08_009cd
आङ्गिको वाचिकश्चैव 14ह्याहार्यः सात्त्विकस्तथा । BhNZ_08_010ab
ज्ञेयस्त्वभिनयो विप्राश्चतुर्धा परिकीर्तितः15 BhNZ_08_010cd
सात्त्विकः पूर्वमुक्तस्तु भावैश्च16 सहितो मया । BhNZ_08_011ab
अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ BhNZ_08_011cd
[ABh]


[(मू)]

1. द॰ अभि इत्युपसर्गः

2. न॰ नीञ् प्रापणे धातुः. द॰ णीञ्प्रापणार्थो धातुः, प॰ णीञ् प्रापणे अर्थे धातुः, ड॰ प्रापणार्थको धातुः

3. द॰ अस्य च अभि नी इति पर्यवसितस्य अभिनय इति सिद्धम्, प॰ तस्य अभिर् इत्येवं व्यवस्थितस्य च अच् प्रत्ययान्तस्य, ड॰ अस्याभिनीत्येवं व्यवस्थितस्याच्प्रत्ययान्तस्य, न॰ अज्प्रत्ययान्तस्य

4. ड॰ इत्येवं, द॰ इति सिद्धम्

5. द॰ वचनेनोपधार्यम्, ड॰ धात्वनुवचनेनावधार्यम्, न॰ एतच्चार्थवचनेनावधार्यम्

6. भवति चात्र श्लोकः, प॰ भवतय् अत्र श्लोकः, द॰ अत्र श्लोकः

7. प॰ अभिपूर्वंतु

8. ड॰ पदार्थान्

9. द॰ आदर्शे नास्ति, प॰ विभावयन्ति

10. ड॰ नानार्थानि प्रयोगतः, ढ॰ नानार्थाद् क्षिप्रप्रयोगतः, फ॰ नानार्थाभिनयो यतः

11. न॰ संयुक्तान्

12. द॰ चैव, प॰ चैषभावो

13. बाहुल्यं नाट्यं ह्यस्मिन् प्रकीर्तितम्, ब॰ बाहुल्यात्, न॰ विततं नाट्यं यस्मिन्

14. द॰ आहार्यः

15. म॰ संप्रकीर्तितः, न॰ परिकल्पितः

16. म॰ भावैस्तु

[(व्या)]

[page 2]




[NZ]

1त्रिविधस्त्वाङ्गिको ज्ञेयः2 शारीरो मुखजस्तथा3 BhNZ_08_012ab
तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः4 BhNZ_08_012cd
शिरो5हस्तकटीवक्षःपार्श्वपादसमन्वितः । BhNZ_08_013ab
अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः6 BhNZ_08_013cd
7तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । BhNZ_08_014ab
नेत्रभ्रूनासाधर8कपोलचिबुकान्युपाङ्गानि ॥ BhNZ_08_014cd
9अस्य शाखा च 10नृत्तं च तथैवाङ्कुर एव च । BhNZ_08_015ab
वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ BhNZ_08_015cd
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः 11सूचना भवेत् । BhNZ_08_016ab
अङ्गहारविनिष्पन्नं 12नृत्तं तु करणाश्रयम् ॥ BhNZ_08_016cd
मुखजे ऽभिनये विप्रा नानाभावरसाश्रये13 BhNZ_08_017ab
शिरसः प्रथमं कर्म 14गदतो मे निबोधत ॥ BhNZ_08_017cd
आकम्पितं कम्पितं च धुतं विधुतमेव च । BhNZ_08_018ab
15परिवाहितमाधूतमवधूतं तथाञ्जितम्16 BhNZ_08_018cd
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम्17 BhNZ_08_019ab
लोलितं 18चेति विज्ञेयं त्रयोदशाविधं शिरः ॥ BhNZ_08_019cd
[ABh]


[(मू)]

1. न॰ त्रिविधश्चाङ्गिको

2. ड॰ दृष्टः

3. ष॰ स्मृतः

4. द॰ संभवः

5. द॰ हस्तकटीगुह्य, न॰ वृक्षः कटीहस्त

6. द॰ नृत्यसंभवः

7. म॰ अस्य

8. द॰ नासोष्ठ

9. ड॰ तस्य

10. द॰ नृत्यञ्च

11. न॰ सूचनात्, द॰ शाखा अङ्कुरः

12. द॰ नृत्यं

13. प॰ समाश्रये, न॰ रसस्माश्रये

14. न॰ वदतो

15. प॰ परिवाहितोद्वाहितक

16. द॰ धूतमथाञ्चितम्, छ॰ परिवाहितमन्यत्स्यादुद्वाहितमथापरम् । अवधूतं शिरो न्यस्तं तथैवाञ्चितमेव च

17. ष॰ चाप्ययोगतः

18. ड॰ चैव, द॰ प्राकृतं चैव चतुर्दशाविधं शिरः ।

[(व्या)]

[page 3]




[NZ]

शनैराकम्पनादूर्ध्वमधश्चाकम्पितं1 भवेत् । BhNZ_08_020ab
द्रुतं तदेव बहुशःकम्पितं कम्पितं शिरः ॥ BhNZ_08_020cd
[ऋजुस्थितस्य चोर्ध्वाधःक्षेपादाकम्पितं भवेत् । BhNZ_08_021ab
बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ ] BhNZ_08_021cd
2संज्ञोपलम्भप्रश्नेषु स्वभावाभाषणे तथा । BhNZ_08_022ab
3निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ BhNZ_08_022cd
रोषे वितर्के विज्ञाने प्रतिज्ञाने ऽथ तर्जने4 BhNZ_08_023ab
5प्रश्नातिशयवाक्येषु शिरःकम्पितमिष्यते ॥ BhNZ_08_023cd
शिरसो 6रेचनं सम्यक्छनैस्तद्धुतमित्यिष्यते7 BhNZ_08_024ab
8द्रुतमारेचनादेतद्विधुतं9 तु भवेच्छिरः ॥ BhNZ_08_024cd
अनीप्सिते विषादे च विस्मये प्रत्यये तथा । BhNZ_08_025ab
10पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ BhNZ_08_025cd
11शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । BhNZ_08_026ab
पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः12 BhNZ_08_026cd
13पर्यायशः पार्श्वगतं शिरः स्यात्परिवाहितम् । BhNZ_08_027ab
[ABh]


[(मू)]

1. अधस्तात्पम्पितं, ड॰ अतश्चाकम्पितं

2. च॰ संज्ञोपदेशपृच्छासु, द॰ संज्ञोपदेशपृष्टान्य. ठ॰ संज्ञोपदेशे पृच्छासु

3. निर्देशे वाहने, द॰ निर्देशापादने

4. ड॰ प्रतिज्ञाते ऽथ तर्जने, प॰ प्रतिज्ञाते तथार्जने, च॰ गर्जने

5. द॰ पृच्छातिशय, ड॰ व्याध्यमर्षणयोश्चैव, प॰ साध्यामर्षादयश्चैव

6. ड॰ रेचनं यत्तु, ठ॰ भ्रमणं यत्तु, द॰ भ्रमणञ्चैव

7. न॰ उच्यते

8. म॰ तदेवहि प्रयुक्तं तु द्रुतं विधुतमिष्यते

9. द॰ द्रुतमारेचितं तत्त्वं विधुतं, न॰ आरेचनादेव विधुतं

10. ध॰ प्रतिषेधेऽथवानेन धुतमेतं प्रयोजयेत्

11. द॰ शीते त्रस्ते तथार्तेच

12. म॰ सम्प्रयोजयेत्

13. प॰ पर्यायतः, छ॰ मण्डलभ्रमणाच्चापि परिवाहितमिष्यते, ब॰ मण्डलभ्रमणे चैव भवेत्तु परिवाहितम् ।

[(व्या)]

[page 4]




[NZ]

1आधूतमुच्यते तिर्यक्सकृदुद्वाहितं तु2 यत् ॥ BhNZ_08_027cd
साधने विस्मये हर्षे 3स्मृते चामर्षिते तथा । BhNZ_08_028ab
विचारे 4विहृते चैव लीलायां परिवाहितम् ॥ BhNZ_08_028cd
5गर्वेच्छादर्शने चैव पार्वस्थोर्ध्वनिरीक्षणे6 BhNZ_08_029ab
आधूतं तु शिरो ज्ञेयमात्मसंभावनादिषु ॥ BhNZ_08_029cd
7यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । BhNZ_08_030ab
8संदेशावाहनालोपसंज्ञादिषु तदिष्यते ॥ BhNZ_08_030cd
किञ्चित्पार्श्व9नतग्रीवं शिरो विज्ञेयमञ्चितम् । BhNZ_08_031ab
व्याधिते मूर्छिते मत्ते 10चिन्तायां हनुधारणे11 BhNZ_08_031cd
12उत्क्षिप्तांसावसक्तं यत्कुञ्चितभ्रूलतं मनाक् । BhNZ_08_032ab
निहञ्चितं 13तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत्14 BhNZ_08_032cd
गर्वे 15माने विलासे च 16बिब्बोके किलिकिञ्चिते । BhNZ_08_033ab
[ABh]


[(मू)]

1. ड॰ सकृदुद्वाहितं चोर्ध्वमुद्वाहितमिति स्मृतम्, ब॰ सकृदुद्वाहितं सोर्ध्वमुद्वाहितमिहोच्यते । गर्वोच्छ्रयादिषु धुतं तथा चोर्ध्वनिरीक्षणे । उद्वाहितं तु कर्तव्यमात्मसंभावनादिषु । साधने ....

2. च॰ च

3. प॰ स्मिते, द॰ स्थिते, च॰ स्मृते वामर्षिते, व॰ विकृते चाद्भुते तथा । परिवाहितं तु विज्ञेयं लीलायां च विधारणे ।

4. च॰ निह्नुते, छ॰ च विवृत्ते च, द॰ विकृते

5. प॰ गर्वेच्छादर्शने चैव तथा चोर्ध्वनिरीक्षणे । उद्वाहितं तु कर्तव्यमात्मसंभावनादिषु । द॰ सर्वाङ्गदर्शने चैव पार्श्वस्याथ निरीक्षणे आधूतं च॰, च॰ गर्वात्मदर्शने

6. तथा चार्धनिरीक्षणैः

7. प॰ यदधः सतथाक्षिप्तः, म॰ आक्षिप्तस्रंसकृद्यत्स्यादवधूतमिहोच्यते

8. म॰ संदेशेत्वथ संज्ञायामालापे चैव तद्भवेत्, द॰ बान्धवावाहनालापसंज्ञादिषु भविष्यति ।

9. द॰ गत, न॰ नतग्रीवशिरो

10. प॰ सचिन्ते दुःखिते भवेत्

11. व॰ चैव शंकिते दुःखिते च तत्, म॰ दुःखिते च तत्

12. ड॰ उत्क्षिप्तबाहुशिरसस्तथाञ्चितशिरोधरम्, द॰ उत्क्षिप्तं चाङ्गशीर्षञ्च निकुञ्चितशिरोधरम्, ग॰ उत्क्षिप्तबाहशिखरं निकुञ्चितशिरोधरम्

13. च॰ शिरो ज्ञेयं, द॰ शिरो ज्ञेयं स्त्रीणामेतत्तु योजयेत् ।

14. ब॰ प्रयोजनम्

15. म॰ पान विलासे च, न॰ बिंबोके, ब॰ मानेविलासे च कम्पेच

16. द॰ विलासे बिब्बोके ललिते किलकिञ्चिते

[(व्या)]

[page 5]




[NZ]

1मोट्टायिते कुट्टमिते स्तम्भे माने निहञ्चितम् ॥ BhNZ_08_033cd
परावृत्तानुकरणात्परावृत्तमिहोच्यते2 BhNZ_08_034ab
3तत्स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु4 BhNZ_08_034cd
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । BhNZ_08_035ab
प्रांशुदिव्यार्थयोगेषु 5स्यादुत्क्षिप्तं प्रयोगतः ॥ BhNZ_08_035cd
6अवाङ्मुखस्थितञ्चापि बुधाः प्राहुरधोगतम् । BhNZ_08_036ab
लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः7 BhNZ_08_036cd
सर्वतोभ्रमणाच्चैव शिरो लोलितमुच्यते8 BhNZ_08_037ab
9मूर्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥ BhNZ_08_037cd
[ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । BhNZ_08_038ab
मङ्गल्याध्ययनध्यानस्वाभावजयकर्मसु ॥ ] BhNZ_08_038cd
10एभ्यो ऽन्ये बहवो भेदा लोकाभिनयसंश्रयाः11 BhNZ_08_039ab
ते च लोकस्वभावेन प्रयोक्तव्याः प्रयोक्तृभिः ॥ BhNZ_08_039cd
12त्रयोदशविधं ह्येतच् छिरःकर्म मयोदितम्13 BhNZ_08_040ab
अतः परं प्रवक्ष्यामि 14दृष्टीनामपि लक्षणम् ॥ BhNZ_08_040cd
[ABh]


[(मू)]

1. न॰ तथाकुट्टिमिते चैव निहञ्चितमिति स्मृतम्, न॰ कुट्टिमिते

2. प॰ शिरः स्मृतम्, न॰ वृत्तं तु तच्छिरः

3. प॰ तस्योन्मुखावहरणे, म॰ परावृत्तं तु कर्तव्यं, छ॰ तत्स्यान्मुख्यापहरणे

4. च॰ पृच्छतः प्रेक्षणादिषु, द॰ पृष्ठतः क्षेपणादिषु

5. प॰ दिव्यास्त्रयोगेषु, द॰ दिव्यार्थयोगेषु स्यादाक्षिप्तम्

6. प॰ अधोमुखं स्थितञ्चापि शिरः, च॰ अधोमुखस्थितं चापि शिरः

7. प॰ स्तंभे चाधोगतं भवेत्, ड॰ दुस्तंभे ऽधोगतं भवेत्, च॰ वाधोगतं भवेत्

8. लोलनाच्चैव शिरः स्यात्परिलोलितम्, ड॰ लोलनाच्चापि शिरः स्यात्परिलोकितम्

9. म॰ व्याधिते मूर्च्छिते मत्ते कर्तव्यं लोलितं बुधैः, ड॰ मूर्च्छाव्याधिमदावेग, द॰ मूर्च्छाव्याधिमदावेशे

10. ड॰ एतेऽन्ये

11. प॰ संश्रिताः, न॰ संज्ञया

12. द॰ चतुदश

13. प॰ प्रयोजितम्

14. दृष्टीनामिह

[(व्या)]

[page 6]




[NZ]

कान्ता भयानका हास्या 1करुणा चाद्भुता तथा । BhNZ_08_041ab
रौद्री वीरा च 2बीभत्सा विज्ञेया रसदृष्टयः ॥ BhNZ_08_041cd
स्निग्धा 3हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता4 BhNZ_08_042ab
5जुगुप्सिता विस्मिता च स्थायिभावेषु6 दृष्टयः ॥ BhNZ_08_042cd
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । BhNZ_08_043ab
ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ BhNZ_08_043cd
कुञ्चिता 7चाभितप्ता च जिह्मा सललिता तथा । BhNZ_08_044ab
वितर्कितार्धमुकुला विभ्रान्ता8 विलुप्ता तथा ॥ BhNZ_08_044cd
आकेकरा 9विकोशा च त्रस्ता च मदिरा तथा । BhNZ_08_045ab
षट्त्रिंशद्दृष्टयो ह्येतास्तासु नाट्यं प्रतिष्ठितम्10 BhNZ_08_045cd
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । BhNZ_08_046ab
लक्षणं संप्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ BhNZ_08_046cd
हर्षप्रसादजनिता 11कान्तात्यर्थं समन्मथा । BhNZ_08_047ab
12सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ BhNZ_08_047cd
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । BhNZ_08_048ab
दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके13 BhNZ_08_048cd
क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका14 BhNZ_08_049ab
[ABh]


[(मू)]

1. द॰ कराला

2. द॰ वीराथ

3. द॰ कृष्णा

4. द॰ भयात्मिका, प॰ भयासिता, च॰ दम्भाभयान्विता

5. प॰ जुगुप्सा विस्मिता चैव

6. प॰ भावे ऽपि

7. क॰ साभिमाना

8. द॰ विक्रान्ता विप्लुता, न॰ वीप्सिता

9. च॰ विशंका, द॰ विशोका च स्रस्ता

10. नामतो ऽभिहिता मया

11. क॰ कोपामर्ष

12. म॰ सुभ्रूक्षेप, प॰ भ्रूविक्षेप

13. प॰ भयानकेत्यर्थं हीना ज्ञेया भयानका

14. ढ॰ विभ्रान्ताकुलतारका ।

[(व्या)]

[page 7]




[NZ]

1हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ BhNZ_08_049cd
2पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । BhNZ_08_050ab
नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ BhNZ_08_050cd
3या त्वाकुञ्चितपक्ष्माग्रा 4साश्चर्योद्वृत्ततारका । BhNZ_08_051ab
सौम्या विकसितान्ता5 च साद्भुता दृष्टिरद्भुते ॥ BhNZ_08_051cd
क्रूरा रूक्षारुणोद्वृत्ता 6निष्टब्धपुटतारका । BhNZ_08_052ab
भ्रुकुटीकुटिला दृष्टिः रौद्री रौद्ररसे स्मृता7 BhNZ_08_052cd
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । BhNZ_08_053ab
उत्फुल्लमध्या दृष्टिस्तु8 वीरा वीररसाश्रया ॥ BhNZ_08_053cd
निकुञ्चितपुटापाङ्गा 9घूर्णोपप्लुततारका । BhNZ_08_054ab
10संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ BhNZ_08_054cd
[नासाग्रसक्ता निमिषा तथाधोभागचारिणी । BhNZ_08_055ab
आकेकरपुटा चैव शान्ता दृष्टिर्भवेदसौ ॥ ] BhNZ_08_055cd
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विताः । BhNZ_08_056ab
अतः परं लक्षयिष्ये स्थायिभावसमाश्रयाः11 BhNZ_08_056cd
12व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । BhNZ_08_057ab
13सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं14 रतिभावजा ॥ BhNZ_08_057cd
[ABh]


[(मू)]

1. प॰ हास्य

2. म॰ चकितोर्ध्व, प॰ प्रतीतोर्ध्व

3. क॰ या चाकुञ्चित

4. ध॰ किञ्चिदुद्वृत्त

5. ड॰ विकसितार्धान्ता

6. ड॰ उद्वृत्तनिष्टब्ध

7. च॰ रौद्रे प्रकीर्तिता

8. प॰ मध्यदृष्टिस्तु

9. छ॰ घृणोप्लुततारका, प॰ घूर्णावप्लुत

10. प॰ संश्लिष्टस्मित, ड॰ संश्लिष्टस्थित, ब॰ संसृष्टस्थित

11. प॰ भावान्रसाश्रयान्

12. न॰ व्याकोशमध्यमधुरा स्मेर

13. ड॰ सानन्दाश्रुकृता, प॰ सानन्दं भ्रूकृता

14. प॰ स्निग्धे या ।

[(व्या)]

[page 8]




[NZ]

चला हसितगर्भा च विशत्तारानिमेषिणी । BhNZ_08_055_2ab
किञ्चिदाकुञ्चिता 1हृष्टा दृष्टिर्हासे प्रकीर्तिता ॥ BhNZ_08_055_2cd
2अवस्रस्तोत्तरपुटा रुद्धतारा जलाविला । BhNZ_08_056_2ab
मन्दसञ्चारिणी दीना सा शोके 4दृष्टिरुच्यते ॥ BhNZ_08_056_2cd
रूक्षा स्थिरोद्वृत्तपुटा5 निष्टब्धोद्धृत्ततारका । BhNZ_08_057_2ab
6कुटिलभ्रुकुटी दृष्टिः क्रुद्धा क्रोधे विधीयते7 BhNZ_08_057_2cd
संस्थिते तारके यस्याः 8स्थिरा विकसिता तथा । BhNZ_08_058ab
सत्त्वमुद्गिरती दृप्ता 9दृष्टिरुत्साहसंभवा ॥ BhNZ_08_058cd
10विष्फारितोभयपुटा 11भयकम्पिततारका । BhNZ_08_059ab
निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ BhNZ_08_059cd
संकोचितपुटाध्यामा12 दृष्टिर्मीलिततारका । BhNZ_08_060ab
13लक्ष्मोद्देशात्समुद्विग्ना जुगुप्सायां 14जुगुप्सिता ॥ BhNZ_08_060cd
15भृशमुद्वृत्ततारात्र 16नष्टोभयपुटान्विता । BhNZ_08_061ab
17समा विकसितादृष्टिर्विस्मिता विस्मये 18स्मृता ॥ BhNZ_08_061cd
स्थायिभावाश्रया ह्येता विज्ञेया दृष्टयो बुधैः19 BhNZ_08_062ab
सञ्चारिणीनां दृष्टीनां संप्रवक्ष्यामि लक्षणम् ॥ BhNZ_08_062cd
[ABh]


[(मू)]

1. प॰ दृष्टिर्हृष्टा हासे

2. प॰ ईषत्स्रस्तोत्तर, न॰ अर्ध

3. प॰ किञ्चित्संरब्धतारका, ट॰ यस्यास्ताराजलाविला

4. च॰ शोका

5. प॰ स्थितोद्वृत्तपुटा

6. ड॰ कुटिलाभ्रुकुटी

7. च॰ अभिधीयते

8. प॰ स्थिता

9. ड॰ दृष्टा

10. न॰ विष्फारितोत्तमपुटा

11. प॰ भये

12. ड॰ व्यासा, छ॰ पुटश्यामा दृष्टिर्मलिनतारका, प॰ पुटाख्यास्रा, घ॰ पुटावासा

13. प॰ पक्ष्मोद्देशात्, न॰ लक्ष्योद्देशात्

14. प॰ जुगुप्सा सा

15. प॰ विमलोद्वृत्ततारा च हृष्टो भय, घ॰ विस्मयोद्वृत्ततारा च हृष्टो भय

16. न॰ ताराया

17. ड॰ समाधिकसिता

18. ड॰ विस्मिते

19. ड॰ लक्षिता दृष्टयो मया

[(व्या)]

[page 9]




[NZ]

समतारा समपुटा निष्कम्पा 1शून्यदर्शना । BhNZ_08_063ab
2बाह्यार्थाग्राहिणी ध्यामा3 शून्या दृष्टिः प्रकीर्तिता ॥ BhNZ_08_063cd
प्रस्पन्दमानपक्ष्मा या4 नात्यर्थमुकुलैः पुटैः । BhNZ_08_064ab
मलिनान्ता च मलिना दृष्टिर्विभ्रान्ततारका5 BhNZ_08_064cd
6श्रमात्प्रम्लापितपुटा क्षामान्ताञ्चितलोचना । BhNZ_08_065ab
सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ BhNZ_08_065cd
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया7 BhNZ_08_066ab
त्रपाधोगततारा8 च दृष्टिर्लज्जान्विता तु सा ॥ BhNZ_08_066cd
9म्लानभ्रूपुटपक्ष्मा या शिथिला मन्दचारिणी । BhNZ_08_067ab
10क्रमप्रविष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता11 BhNZ_08_067cd
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता12 BhNZ_08_068ab
13मूढाचकिततारा च शङ्किता दृष्टिरिष्यते ॥ BhNZ_08_068cd
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । BhNZ_08_069ab
किञ्चिन्निष्टब्धतारा च कार्या दृष्टिर्विषादिणी ॥ BhNZ_08_069cd
14स्फुरदाश्लिष्टपक्ष्मार्धा मुकुलोर्ध्वपुटाञ्चिता । BhNZ_08_070ab
15सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते ॥ BhNZ_08_070cd
16आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । BhNZ_08_071ab
[ABh]


[(मू)]

1. छ॰ निश्शङ्का

2. ड॰ बाह्यार्थग्राहिणी क्षामा

3. छ॰ श्यामा

4. प॰ पक्ष्मान्ता, छ॰ पक्ष्माग्रा

5. प॰ विस्मिततारका, च॰ विहततारका, न॰ विकृततारका, ध॰ विस्तृततारका

6. प॰ श्रमप्रम्लापित, छ॰ श्रमप्रम्लायित

7. छ॰ पुटक्रिया

8. ङ॰ मुखतारा

9. ड॰ ग्लान

10. प॰ क्लमप्रहृष्ट

11. च॰ सदोद्धता

12. प॰ उत्तुङ्गाकिञ्चिदायता, च॰ उन्नता तिर्यगायता

13. ड॰ गूढा

14. प॰ स्फुरिताश्लिष्टपक्ष्मार्धा

15. च॰ सुखामीलित

16. प॰ या

[(व्या)]

[page 10]




[NZ]

1सन्ना कुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ BhNZ_08_071cd
मन्दायमानतारा या2 पुटैः प्रचलितैस्तथा । BhNZ_08_072ab
3सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ BhNZ_08_072cd
लम्बिता कुञ्चितपुटा शनैस्तिर्यङ्निरीक्षणैः4 BhNZ_08_073ab
5निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ BhNZ_08_073cd
मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता6 BhNZ_08_074ab
समन्मथविकारा 7च दृष्टिः सा ललिता स्मृता ॥ BhNZ_08_074cd
वितर्कोद्वर्तितपुटा 8तथैवोत्फुल्लतारका । BhNZ_08_075ab
9अधोमुखविकारा च दृष्टिरेषा 10वितर्किता ॥ BhNZ_08_075cd
अर्धव्याकोशपक्ष्मा 11च ह्लादार्धमुकुलैः पुटैः । BhNZ_08_076ab
12स्मृतार्धमुकुला दृष्टिः किञ्चिल्लुलिततारका13 BhNZ_08_076cd
14अनवस्थिततारा च विभ्रान्ताकुलदर्शना । BhNZ_08_077ab
विस्तीर्णोत्फुल्लनेत्रा 15च विभ्रान्ता दृष्टिरिष्यते16 BhNZ_08_077cd
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । BhNZ_08_078ab
विप्लुतोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ BhNZ_08_078cd
आकुञ्चितपुटापाङ्गा17 सङ्गतार्धनिमेषिणी । BhNZ_08_079ab
[ABh]


[(मू)]

1. च॰ सन्निकुञ्चित, प॰ सन्नापतित

2. म॰ मानातारा

3. न॰ सञ्चारोप

4. च॰ निरीक्षणा

5. ध॰ गूढा चकिततरा च

6. च॰ क्षेपाथ सस्मिता, छ॰ सस्मिता च विकासिनी

7. च॰ विकासा

8. छ॰ तथैवोद्वृत्त

9. प॰ अधोगत, न॰ अधोभागविचारा, ड॰ अधोगतविचारा

10. प॰ दृष्टिरिष्टा

11. प॰ तारा च

12. छ॰ स्मितार्ध

13. ध -ललिततारका

14. ड॰ विभ्रान्ततारका या तु विभ्रान्तपुटदर्शना, छ॰ अनवस्थितनेत्रा या तथा विभ्रान्ततारका

15. छ॰ नयना, प॰ मध्या च

16. ड॰ उच्यते

17. प॰ पुटापाङ्ग ।

[(व्या)]

[page 11]




[NZ]

मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा1 स्मृता ॥ BhNZ_08_079cd
2विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी3 BhNZ_08_080ab
अनवस्थिततारा च विकोशा दृष्टिरिष्यते4 BhNZ_08_080cd
त्रासोद्वृत्तपुटा या तु5 तथोत्कम्पिततारका । BhNZ_08_081ab
6संत्रासोत्फुल्लमध्या च 7त्रस्ता दृष्टिरुदाहृता ॥ BhNZ_08_081cd
8आघूर्णमानमध्या या क्षामान्ताञ्चितलोचना । BhNZ_08_082ab
दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ BhNZ_08_082cd
किञ्चिदाकुञ्चितपुटा 9किञ्चिल्लुलिततारका । BhNZ_08_083ab
10अनवस्थितसञ्चारा दृष्टिर्मध्यमदे 11भवेत् ॥ BhNZ_08_083cd
12सनिमेषानिमेषा च किञ्चिद्दर्शिततारका । BhNZ_08_084ab
अधोभागचरी दृष्टिर् अधमे तु मदे स्मृता13 BhNZ_08_084cd
इत्येवं लक्षिता ह्येषाः 14षट्त्रिंशद्दृष्टयो मया । BhNZ_08_085ab
15सहजा भावजाश्चासां विनियोगं निबोधत ॥ BhNZ_08_085cd
16रसजास्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । BhNZ_08_086ab
17शृणुत व्यभिचारिण्यः सञ्चारारिषु यथास्थिताः18 BhNZ_08_086cd
[ABh]


[(मू)]

1. न॰ दृष्टिर्वै केकरा

2. छ॰ विकासितोभय, च॰ विकोशितभय

3. प॰ च निमेषिणी

4. ड॰ विशोका दृष्टिरुच्यते

5. प॰ त्रासोत्कम्पित

6. प॰ त्रासादुत्फुल्ल

7. ड॰ स्रस्ता, न॰ सुप्ता

8. ड॰ व्याघूर्णमान

9. ड॰, न॰ ह्यनवस्थिततारका

10. ड॰ तथा चलितपक्ष्मा च, न॰ तथा लुलितपक्ष्मा च

11. छ॰ मध्ये मदे

12. ड॰ सनिमेषोन्निमेषा, ध॰ सन्निमेषोन्निमेषा

13. न॰ अधमे तु प्रकीर्तिता

14. ड॰ ह्येताः

15. म॰ सहजा

16. ड॰ रसजा स्वरसेष्वेव, प॰ रसास्पदा

17. ड॰ शृणुध्वं

18. ड॰ हि ताः ।

[(व्या)]

[page 12]




[NZ]

शून्या दृष्टिस्तु चिन्तायामभितप्तापि कीर्तिता1 BhNZ_08_087ab
निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ BhNZ_08_087cd
श्रान्ता श्रमार्ते स्वेदे च लज्जायां ललिता 2तथा । BhNZ_08_088ab
अपस्मारे तथा 3व्याधौ ग्लान्यां ग्लाना4 विधीयते ॥ BhNZ_08_088cd
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । BhNZ_08_089ab
निद्रास्वप्नसुखार्थेषु5 मुकुला दृष्टिरिष्यते ॥ BhNZ_08_089cd
6कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथासु च । BhNZ_08_090ab
अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः7 BhNZ_08_090cd
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । BhNZ_08_091ab
8धृतौ हर्षे सललिता स्मृतौ तर्के वितर्किता9 BhNZ_08_091cd
10आह्लादिष्वर्धमुकुला11 गन्धस्पर्शसुखादिषु । BhNZ_08_092ab
विभ्रान्ता दृष्टिरावेगे संभ्रमे विभ्रमे तथा ॥ BhNZ_08_092cd
12विप्लुता चपलोन्माददुःखार्तिमरणादिषु । BhNZ_08_093ab
आकेकरा दुरालोके13 विच्छेदप्रेक्षितेषु च14 BhNZ_08_093cd
15विबोधगर्वामर्षौग्र्यमतिषु स्याद्विकोशिता । BhNZ_08_094ab
त्रस्ता त्रासे भवेद्दृष्टिर्मदिरा च मदेष्विति16 BhNZ_08_094cd
[ABh]


[(मू)]

1. च॰ च कीर्तिता, प॰ स्तम्भे चापि प्रकीर्तिता

2. प॰ लज्जिता

3. छ॰ चाधो

4. प॰ ग्लाना ग्लाने

5. ड॰ सुखार्तेषु

6. न॰ कुञ्चितं सूति या दृष्टा, प॰ कुञितासूचीतानिष्टनिष्प्रेक्षा

7. ड॰ ह्यभियातातितापयोः

8. प॰ ललिताललितार्थेषु स्मृता तर्के च

9. ष॰ स्मृता तर्के च तर्किका

10. ड॰ आहादेष्वर्घ

11. ध॰ गण्ड

12. छ॰ विधुरा चपलोन्माद, ड॰ विप्लुता चापलोन्माद, प॰ विप्लुता च चलोन्माद

13. ड॰ विच्छेदे

14. प्रोषितेषु च

15. प॰ विवाधामर्षगर्वौग्र्य, ङ॰ निबोधामर्षगर्वौग्र्य, ध॰ निबोधामर्षगर्वौग्र्य

16. छ॰ मदेष्वपि

[(व्या)]

[page 13]




[NZ]

षट्त्रिंशद्दृष्टयो ह्येते यथावत्समुदाहृताः1 BhNZ_08_095ab
रसजानां तु दृष्टीनां भावजानां तथैव च ॥ BhNZ_08_095cd
तारापुटभ्रुवां कर्म गदतो मे निबोधत । BhNZ_08_096ab
भ्रमणं वलनं2 पातश्चलनं संप्रवेशनम् ॥ BhNZ_08_096cd
विवर्तनं समुद्वृत्तनिष्क्रामः प्राकृतं तथा । BhNZ_08_097ab
[एतानि नवकर्माणि ताराकर्म द्विजोत्तमाः ॥ BhNZ_08_097cd
शृणुध्वं लक्षणं तावत्सांप्रतं प्रीतितः स्फुटम् ।] BhNZ_08_098ab
3पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ BhNZ_08_098cd
वलनं गमनं त्र्यश्रं पातनं स्रस्तता तथा । BhNZ_08_099ab
चलनं कम्पनं 4ज्ञेयः प्रवेशो ऽन्तः प्रवेशनम् ॥ BhNZ_08_099cd
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । BhNZ_08_100ab
निष्कामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम्5 BhNZ_08_100cd
6अथैषां रसभावेषु7 विनियोगं निबोधत8 ॥ 101॥ BhNZ_08_101ab
भ्रमणं वलनोद्वृत्ते निष्क्रामो 9वीररौद्रयोः । BhNZ_08_102ab
निष्क्रामणं सचलनं10 कर्तव्यं हि 11भयानके ॥ BhNZ_08_102cd
हास्यबीभत्सयोश्चापि प्रवेशनम् इहेष्यते । BhNZ_08_103ab
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते ॥ BhNZ_08_103cd
प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम्12 BhNZ_08_104ab
[NZ]

[ABh]


[(मू)]

1. ड॰ प्रतिपादिताः

2. न॰ पातं

3. प॰ पर्यस्तमण्डला वृत्ति, ड॰ पर्यस्तं

4. प॰ ज्ञेयात्प्रवेशान्तः

5. प॰ प्राकृतस्तु स्वभावजः

6. प॰ तथैषां

7. ड॰ रसभावानां

8. प॰ शृङ्गारे च विवर्धनम् ।

9. ड॰ वलनोद्वृत्तं कर्तव्यं

10. ड॰ सचलनं, ध॰ खवलनं, च॰ संवलनं

11. प॰ तु

12. ध॰ विवर्तनम् ।

[(व्या)]

[page 14]




[NZ]

स्वभावसिद्धमेवैतत्कर्म लोकक्रियाश्रयम्1 BhNZ_08_104cd
एवं रसेषु भावेषु 2ताराकर्माणि योजयेत् । BhNZ_08_105ab
3अथात्रैव प्रवक्ष्यामि प्रकारान् 4दर्शनस्य तु ॥ BhNZ_08_105cd
समं साच्यनुवृत्ते 5च ह्यालोकितविलोकिते । BhNZ_08_106ab
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च ॥ BhNZ_08_106cd
समतारञ्च सौम्यञ्च यद्दृष्टं तत्समं स्मृतम् । BhNZ_08_107ab
6पक्ष्मान्तर्गततारं यत्7त्र्यश्रं 8साचीकृतं तु तत् ॥ BhNZ_08_107cd
रूपनिर्वर्णनायुक्तमनुवृत्तमिति स्मृतम्9 BhNZ_08_108ab
सहसा दर्शनं यत्स्यात्तदालोकितमित्युच्यते ॥ BhNZ_08_108cd
विलोकितं पृष्ठतस्तु पार्श्वाभ्यां तु प्रलोकितम् । BhNZ_08_109ab
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः ॥ BhNZ_08_109cd
10इत्येष दर्शनविधिः सर्वभावरसाश्रयः । BhNZ_08_110ab
11तारागतो ऽस्यानुगतं पुटकर्म निबोधत ॥ BhNZ_08_110cd
उन्मेषश्च निमेषश्च प्रसृतं12 कुञ्चितं समम् । BhNZ_08_111ab
विवर्तितं स स्फुरितं13 पिहितं सविताडितम्14 BhNZ_08_111cd
विश्लेषः पुटयोर्यस्तु 15स उन्मेषः प्रकीर्तितः । BhNZ_08_112ab
16समागमो निमेषः स्यादायामः प्रसृतं भवेत्17 BhNZ_08_112cd
[NZ]

[ABh]


[(मू)]

1. प॰ नाट्यक्रियाश्रितम्

2. च॰ ताराकर्म नियोजयेत्, ध॰ तारकर्मणि

3. ड॰ तथा तत्रैव वक्ष्यामः

4. न॰ प्रकारं

5. ड॰ तु आलोकित

6. छ॰ पक्ष्मानुगतारं

7. प॰ च

8. म॰ साचिकृतं

9. ड॰ स्फुटम्

10. प॰ इत्यष्टौ

11. प॰ तारागतस्यानु

12. न॰ प्रकृतं

13. ड॰ प्रस्फुरितं

14. प॰ सवितालिकम्, ड॰ सवितालितम्, च॰ सविलासितम्

15. प॰ समुन्मेषः, ड॰ स तून्मेषः

16. ड॰ समागतो

17. ड॰ आयाम्मस्तु प्रसारितम् ।

[(व्या)]

[page 15]




[NZ]

आकुञ्चितं कुञ्चितं स्यात्समं स्वाभाविकं स्मृतम् । BhNZ_08_113ab
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा ॥ BhNZ_08_113cd
स्थगितं पिहितं प्रोक्तमाहतं तु वितालितम्1 BhNZ_08_114ab
अथैषां रसभावेषु विनियोगं निबोधत ॥ BhNZ_08_114cd
क्रोधे 2विवर्तितं कार्यं निमेषोन्मेषणैः सह3 BhNZ_08_115ab
4विस्मयार्थे च हर्षे च वीरे च प्रसृतं स्मृतम् ॥ BhNZ_08_115cd
अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् । BhNZ_08_116ab
शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा5 BhNZ_08_116cd
सुप्तमूर्छितवातोष्णधूमवर्षाञ्जनार्तिषु6 BhNZ_08_117ab
नेत्ररोगे च पिहितमभिघाते7 वितालितम् ॥ BhNZ_08_117cd
8इत्येषु रसभावेषु तारकापुटयोर्विधिः । BhNZ_08_118ab
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत ॥ BhNZ_08_118cd
9उत्क्षेपः पातनं चैव भ्रुकुटी चतुरं तथा11 BhNZ_08_119ab
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा ॥ BhNZ_08_119cd
12भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशो ऽपि वा । BhNZ_08_120ab
13अनेनैव क्रमेणैव पातनं स्यादधोमुखम् ॥ BhNZ_08_120cd
[NZ]

[ABh]


[(मू)]

1. च॰ विलासितम्

2. म॰ विवर्तकं

3. प॰ निमेषोन्मेषणं तथा

4. ड॰ विस्मयार्थेषु हर्षेषु धीरे चैव प्रसारितम्

5. ड॰ भवेत्

6. ड॰ वर्षाशनार्थिषु, न॰ वर्षाञ्जनादिषु, छ॰ धूम्ररूक्षाञ्जनार्तिषु

7. ड॰ अभियाते, च॰ विलासितं

8. ड॰ इत्येवं

9. ड॰ उत्क्षेपं

10. प॰ पातितं

11. ड॰ भ्रुवोः, च॰ भ्रुवोरुद्गति

12. प॰ एकस्य पार्श्वयोश्चापि पातनं स्यादधोगतं, ड॰ एकस्य वा द्वयोर्वापि पातनं स्यादधोमुखम्, ब॰ तथैव पातनमधो भ्रुवोर्यत्स्यात्तु पातनम्, न॰ तथैव पातनमधो भ्रुवोरस्यातु पातनम्(?)

[(व्या)]

[page 16]




NZ
1भ्रुवोर्मूलसमुत्क्षेपाद् भ्रुकुटी परिकीर्तिता2 BhNZ_08_121ab
चतुरं किञ्चिदुच्छ्वासान्मधुरायतता भ्रुवोः3 BhNZ_08_121cd
4एकस्या हि द्वयोर्वापि मृदुभङ्गस्तु कुञ्चितम्5 BhNZ_08_122ab
एकस्या एव 6ललितादुत्क्षेपाद्रेचितं भ्रुवः ॥ BhNZ_08_122cd
सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् । BhNZ_08_123ab
अथैषां संप्रवक्ष्यामि रसभावप्रयोजनम् ॥ BhNZ_08_123cd
7कोपे वितर्के हेलायां लीलादौ8 सहजे तथा । BhNZ_08_124ab
दर्शने श्रवणे चैव भ्रुवमेकां समुत्क्षिपेत् ॥ BhNZ_08_124cd
उत्क्षेपो विस्मये हर्षे रोषे चैव द्वयोरपि । BhNZ_08_125ab
असूयिते जुगुप्सायां हास्ये 10घ्राणे च पातनम् ॥ BhNZ_08_125cd
क्रोधस्थानेषु दीप्तेषु योजयेद् भ्रुकुटीं बुधः । BhNZ_08_126ab
शृङ्गारे ललिते सौम्ये सुखस्पर्शे प्रबोधने11 BhNZ_08_126cd
एवंविधेषु भावेषु चतुरं तु प्रयोजयेत् । BhNZ_08_127ab
[स्त्रीपुरुषयोश्च सल्लापे नानावस्थान्तरात्मके ॥ ] BhNZ_08_127cd
मोट्टायिते कुट्टमिते तथा च12 किलिकिञ्चिते । BhNZ_08_128ab
13निकुञ्चितं च कर्तव्यं 14नृत्ते योज्यं तु रेचितम् ॥ BhNZ_08_128cd
[ABh]


[(मू)]

1. न॰ द्वयोः

2. न॰ परिवर्तिता

3. ड॰ मधुरायतयोर्भ्रुवोः

4. म॰ एकस्या वा द्वयोर्वापि, प॰ एकस्यास्तूभ्ययोर्वापि

5. प॰ भागेन कुञ्चितम्, ड॰ भङ्गेन कुञ्चितम्, च॰ -भङ्गो निकुञ्चितम्

6. प॰ वलनात्, ब॰ एकस्या ललितोत्क्षेपाद्भ्रमणं रेचितं स्मृतम् ।

7. म॰ लोपे वितर्के लीलायां लीलासौ

8. न॰ लीलायां हेलादौ

9. ड॰ श्रवणे दर्शने

10. ड॰ हास्ये

11. ड॰ स्पर्शे च चतुरं भवेत्

12. न॰ विलासे, त॰ विलापे

13. ड॰ विकुञ्चितं

14. ड॰ नृत्तयोज्यं

[(व्या)]

[page 17]




[NZ]

अनाविद्धेषु भावेषु कुर्यात्स्वाभाविकं तथा1 BhNZ_08_129ab
2इत्येवं तु भ्रुवोः प्रोक्तं नासाकर्म निबोधत ॥ BhNZ_08_129cd
नता मन्दा विकृष्टा3 च सोच्छ्वासाथ विकूणिता4 BhNZ_08_130ab
5स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता6 BhNZ_08_130cd
नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता । BhNZ_08_131ab
7विकृष्टा फुल्लितपुटा सोच्छ्वासाकृष्टमारुता ॥ BhNZ_08_131cd
विकूणिता संकुचिता समा स्वाभाविकी स्मृता । BhNZ_08_132ab
नासिकालक्षणं ह्येतद्विनियोगं निबोधत ॥ BhNZ_08_132cd
8मदोत्कम्पसमायुक्ते नारीणाम् अनुरोधने । BhNZ_08_133ab
निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः ॥ BhNZ_08_133cd
निर्वेदौत्सुक्यचिन्तासु मन्दां शोके च योजयेत्9 BhNZ_08_134ab
10तीव्रगन्धे विकृष्टां तां रौद्रे वीरे तथैव च ॥ BhNZ_08_134cd
11इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वसां प्रयोजयेत् । BhNZ_08_135ab
12विकूणिता च कर्तव्या जुगुप्सासूयितादिषु ॥ BhNZ_08_135cd
13कार्या शेषेषु भावेषु तज्ज्ञैः स्वाभाविका तथा । BhNZ_08_136ab
[ABh]


[(मू)]

1. त॰ विद्यात्स्वाभाविकं बुधः

2. छ॰ सप्त भ्रुकुट्यः प्रोक्ताः, ध॰ इत्येवं, ढ॰ भ्रुवोः कर्म

3. न॰ मन्दावकृष्टा

4. न॰ सोच्छ्वासा सविकूणिता, प॰ विघूर्णिता, च॰ सोच्छ्वासा तु विकूणिता

5. च॰ स्वाभाविकी

6. च॰ मता

7. ड॰ विकृष्टोत्फुल्लत

8. ड॰ विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता

9. ड॰ मन्दा शोके तु कीर्तिता, न॰ मन्दा शोके च कीर्तिता

10. प॰ विप्रकृष्टा तीव्रगन्धे श्वासरोषभयादिषु, ड॰ विकृष्टा तीव्रगन्धे च श्वासरोषभयार्तिषु, च॰ विकृष्टा तीव्रगन्धाध्वश्वासरोषभयादिषु

11. प॰ सोच्छ्वासे मधुरे गन्धे दीर्घोच्छ्वासकृतेषु च

12. प॰ विघूर्णितोक्ता हास्येषु जुगुप्सायामसूयिते

13. प॰ स्वाभाविकं शेषभावेष्वित्येवं नासिका स्मृता

[(व्या)]

[page 18]




[NZ]

क्षामं फुल्लं च 1घूर्णं च कम्पितं कुञ्चितं समम्2 BhNZ_08_136cd
षड्विधं गण्डमुद्दिष्टमस्य3 लक्षणम् उच्यते । BhNZ_08_137ab
4क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ BhNZ_08_137cd
विततं 5घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । BhNZ_08_138ab
स्यात्कुञ्चितं संकुचितं समं प्राकृतमुच्यते ॥ BhNZ_08_138cd
गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । BhNZ_08_139ab
क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च6 BhNZ_08_139cd
7घूर्णमुत्साहगर्वेषु रोषहर्षेषु कम्पितम् । BhNZ_08_140ab
कुञ्चितं च सरोमाञ्चं8 स्पर्शे शीते भये ज्वरे ॥ BhNZ_08_140cd
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति9 BhNZ_08_141ab
विवर्तनं 10कम्पनं च विसर्गो विनिगूहनम् ॥ BhNZ_08_141cd
11संदष्टकं समुद्गतं च षट्कर्माण्यधरस्य तु । BhNZ_08_142ab
[ABh]


[(मू)]

1. ड॰ पूर्णं

2. व॰ तथैव च विकम्पितम्

3. प॰ तस्य

4. म॰

-क्षामं फुल्लं च घूर्णं च तथैव च विकम्पितम् ।

सरोमाञ्चं कुञ्चितं च गण्डं स्यात्पाकृतं तथा ॥

कृशं क्षामं च विज्ञेयं फुल्लं विकसितं तथा ।

घूर्णं सोच्छ्वासमिच्छन्ति वेपितं स्याद्विकम्पितम् ॥

सरोमाञ्चं पुलकितं सकृन्निम्नं निकुञ्चितम् ।

प्राकृतं च स्वभावस्थमथ भावेषु योजयेत् ॥

क्षामं दुःखेषु कर्तव्यं फुल्लं हर्षेषु योजयेत् ।

घूर्णमुत्साहगर्वेषु रोमहर्षे विकम्पितम् ।

कुञ्चितं वेदनायां तु हर्षे चैव विकम्पितम् ।

स्पर्शस्य ग्रहणे कार्यं गण्डं रोमाञ्चसंयुतम् ।

स्वाभाविकं स्वभावे तु नासाकर्मोच्यते ऽधुना ॥

5. प॰ पूर्णमात्रोक्तं. न॰ घूर्णमत्रोक्तं

6. प॰ प्रहर्षोत्फुल्लमिष्यते, ड॰ प्रहर्षे फुल्लमिष्यते

7. ध॰ पूर्णं

8. म॰ सरोमाञ्च, ड॰ सरोमाञ्चे

9. न॰ भवेदिह

10. न॰ कम्पितं

11. न॰ संदृष्टकं

[(व्या)]

[page 19]




[NZ]

विकूणनं विवर्तस्तु वेपनं1 कम्पनं स्मृतम् ॥ BhNZ_08_142cd
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । BhNZ_08_143ab
2संदष्टकं द्विजैर्दष्टं समुद्गः सहजोन्नतिः3 BhNZ_08_143cd
4इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । BhNZ_08_144ab
असूयावेदनावज्ञाहास्यादिषु5 विवर्तनम् ॥ BhNZ_08_144cd
कम्पनं वेदनाशीतभयरोषजवादिषु6 BhNZ_08_145ab
स्त्रीणां विलासे बिब्बोके7 विसर्गो रञ्जने तथा8 BhNZ_08_145cd
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । BhNZ_08_146ab
समुद्गतस्त्वनुकम्पायां चुम्बने9 चाभिनन्दने ॥ BhNZ_08_146cd
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । BhNZ_08_147ab
कुट्टनं 10खण्डनं छिन्नं चुक्कितं लेहितं समम्11 BhNZ_08_147cd
दष्टञ्च दन्तक्रियया चिबुकं त्विह लक्ष्यते । BhNZ_08_148ab
कुट्टनं दन्तसंघर्षः संफोटः खण्डनं 12मुहुः ॥ BhNZ_08_148cd
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः13 BhNZ_08_149ab
लेहनं जिह्वाया लेहः 14किञ्चिच्छ्लेषः समं भवेत् ॥ BhNZ_08_149cd
दन्तैर्दष्टे ऽधरे दष्टमित्येषां विनियोजनम् । BhNZ_08_150ab
[ABh]


[(मू)]

1. म॰

संक्रान्तवक्रीकरणं विवर्तनमिति स्मृतम् ।

वेपनं चापि विज्ञेयमधरस्य तु कम्पनम् ॥

2. ड॰ संदष्टको

3. च॰ समुद्वृत्तं समुद्गकः, ड॰ समुद्रः सहिता गतिः, ध॰ समुद्रः सहितोद्गतिः

4. प॰ इत्येषु

5. ड॰ लज्जाहास्यास्यादिषु, च॰ अवज्ञालस्यादिषु, छ॰ अवज्ञालज्जादिषु

6. च॰ कोपशीतार्तिभययोगजपादिषु, प॰ वेपनं शीतभयरोग, ड॰ वेपनं शीतज्वररोषजवादिषु

7. म॰ बिम्बोके

8. च॰ विसर्गः सुरते स्मृतः

9. च॰ समुद्रस्त्वतिकम्पाङ्गधूननेचाभिनन्दने, छ॰ समुद्रः स्तनकम्पायां चुम्बने

10. प॰ खञ्जनं, प॰ त्वक्षितं, ड॰ चुक्षितं लेहनं, न॰ चुकितं लेहनं

11. प॰ तथा

12. प॰ खञ्जनं, ब॰ संभेदः खण्डनं

13. च॰ चिकितं दूरमुद्यतं, ड॰ चुक्षितं दूरविच्युतिः, प॰ त्वक्षितं दूरविप्लुतं

14. च॰ किञ्चिञ्चेष्टः ।


[(व्या)]

[page 20]




[NZ]

भयशीतज्वरक्रोध1ग्रस्तानां कुट्टनं भवेत् ॥ BhNZ_08_150cd
2जपाध्ययनसल्लापभक्ष्ययोगे च3 खण्डनम् । BhNZ_08_151ab
4छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते5 BhNZ_08_151cd
जृम्भणे चुक्कितं कार्यं तथा लौल्ये च6 लेहनम् । BhNZ_08_152ab
समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ BhNZ_08_152cd
इति दन्तoष्ठजिह्वाणां करणे चिबुकक्रिया7 BhNZ_08_153ab
8विनिवृत्तं च विधुतं निर्भुग्नं9 भुग्नमेव च ॥ BhNZ_08_153cd
10विवृतञ्च तथोद्वाहि कर्माणय् अत्रास्यजानि तु । BhNZ_08_154ab
11व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम् ॥ BhNZ_08_154cd
12अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । BhNZ_08_155ab
विश्लिष्ठोष्ठं च13 विवृतमुद्वाह्याक्षिप्तम् एव च14 BhNZ_08_155cd
विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च15 BhNZ_08_156ab
अवज्ञाविहृतादौ च स्त्रीणां कार्यं प्रयोक्तृभिः ॥ BhNZ_08_156cd
विधुतं वारणे चैव नैवमित्यादिषु । BhNZ_08_157ab
निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ BhNZ_08_157cd
भुग्नं लजान्विते योज्यं यतीनां तु स्वभावतः16 BhNZ_08_158ab
निर्वेदौत्सुक्यचिन्तासु तथा विनयमन्त्रणे17 BhNZ_08_158cd
[ABh]


[(मू)]

1. ड॰ जराव्याधि, न॰ ज्वरव्याधि

2. ड॰ जप्याध्ययन

3. च॰ योगेषु

4. प॰ चिन्ता

5. ड॰ रुषितेक्षिते, न॰ रुषिते मृते, प॰ रुषिते द्रुमे, च॰ कूजिते मृते, ध॰ रुषिते द्रुते

6. प॰ लेह्ये तु

7. प॰ करणाञ्चिबुकक्रिया

8. च॰, छ॰, ब॰ आदर्शेष्वष्टौ श्लोका न सन्ति

9. ड॰, प॰ निभुग्नं

10. ड॰ निवृत्तं

11. प॰ स्याद्वृत्तं

12. ड॰ अवाङ्मुखञ्च

13. म॰ विहृत

14. ड॰ उद्वाह्युत्क्षिप्तमेव तु

15. ड॰ ईर्ष्याक्रोधकृतेन च

16. ढ॰ स्वभावजम्

17. प॰ च विनिमन्त्रेण

[(व्या)]

[page 21]




[NZ]

1विवृतं वापि विज्ञेयं हास्यशोकभयादिषु । BhNZ_08_159ab
स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥ BhNZ_08_159cd
एवं नामेति कार्यञ्च कोपवाक्ये विचक्षणैः । BhNZ_08_160ab
समसाचीकृताद्युक्तं 2यच्च दृष्टिविकल्पनम्3 BhNZ_08_160cd
4तज्ञैस्तदनुसारेण कार्यं तदनुगं मुखम् । BhNZ_08_161ab
अथातो मुखरागस्तु5 चतुर्धा संप्रकीर्तितः6 BhNZ_08_161cd
स्वाभाविकः प्रसन्नश्च रक्तः श्यामो ऽर्थसंश्रयः7 BhNZ_08_162ab
स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ BhNZ_08_162cd
मध्यस्थादिषु भावेषु8 मुखरागः प्रकीर्तितः9 BhNZ_08_163ab
प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ BhNZ_08_163cd
वीररौद्रमदाद्येषु10 रक्तः स्यात् करुणे तथा । BhNZ_08_164ab
भयानके सबीभत्से श्यामं संजायते मुखम् ॥ BhNZ_08_164cd
एवं भावरसार्थेषु11 मुखरागं प्रयोजयेत् । BhNZ_08_165ab
शाखाङ्गापाङ्गसंयुक्तः कृतो ऽप्यभिनयः शुभः ॥ BhNZ_08_165cd
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । BhNZ_08_166ab
12शारीराभिनयो ऽल्पो ऽपि मुखरागसमन्वितः ॥ BhNZ_08_166cd
13द्विगुणां लभते शोभां रात्राविव निशाकरः । BhNZ_08_167ab
14नयनाभिनयो ऽपि स्यान्नानाभावरसस्फुटः ॥ BhNZ_08_167cd
[ABh]


[(मू)]

1. ड॰ विवृत्तं चाप्रि

2. ड॰ कृताद्युक्ता

3. न॰ विकल्पने, ड॰ विकल्पितम्

4. ड॰ तज्ज्ञैस्तेनानुसारेण

5. प॰ मुखरागश्च

6. ड॰ परिकीर्तितः, च॰ स च कीर्तितः

7. प॰ अर्कसंश्रयः

8. प॰ रागेषु

9. न॰ प्रयोक्तृभिः

10. ड॰ भयाद्येषु

11. प॰ रसास्तेषु

12. न॰ शरीराभिनयो

13. ड॰ द्विगुणं

14. न॰ नयनाभिनयो ऽल्पो ऽपि नानाभावरसान्वितः

[(व्या)]

[page 22]




[NZ]

मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । BhNZ_08_168ab
1यथा नेत्रं प्रसर्पेत मुखभ्रूदृष्टिसंयुतम् ॥ BhNZ_08_168cd
तथा भावरसोपेतं मुखरागं प्रयोजयेत् । BhNZ_08_169ab
2इत्येष मुखरागस्तु प्रोक्तो भावरसाश्रयः3 BhNZ_08_169cd
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः4 BhNZ_08_170ab
समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ BhNZ_08_170cd
वलिता च5 विवृत्ता च ग्रीवा नवविधार्थतः6 BhNZ_08_171ab
समा स्वाभाविकी ध्यानस्वभावजपकर्मसु7 BhNZ_08_171cd
नता8 नताख्यो ऽलङ्कारे बद्धे कण्ठावलम्बने । BhNZ_08_172ab
9उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वादिदर्शने10 BhNZ_08_172cd
त्र्यश्रा पार्श्वगता ज्ञेया11 स्कन्धभारे च12 दुःखिते । BhNZ_08_173ab
13रेचिता 14विधुता भ्रान्ता हावे मथननृत्तयोः15 BhNZ_08_173cd
कुञ्चिताकुञ्चिता मूर्ध्नि 16भारिते 17गलरक्षणे । BhNZ_08_174ab
अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने18 BhNZ_08_174cd
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभङ्गे 19च वीक्षणे । BhNZ_08_175ab
20विवृत्ताभिमुखीभूता 21स्वस्थानाभिमुखादिषु ॥ BhNZ_08_175cd
[ABh]


[(मू)]

1. ध॰ यस्मान्नेत्रं प्रसर्पेत्तु

2. ड॰ इत्येवं

3. प॰ मुखरागास्तु प्रोक्ता भावरसाश्रयाः

4. ध॰ द्विजकर्म द्विजोत्तमाः

5. ड॰ निवृत्ता

6. प॰ नवविधा स्मृता

7. प॰ सभारञ्जनकर्मसु

8. न॰ नतास्ये ऽलङ्कारे, च॰ नतास्यालङ्कारबन्धे

9. न॰ उन्नता ह्युन्नत

10. प॰ ग्रैवेये ऽध्वादिदर्शने, न॰ चोर्ध्वनिदर्शने, ड॰

11. च॰ चैव

12. प॰ तु, ड॰ अथ

13. प॰ विचिता

14. च॰ विधुत, ड॰ विबुधा

15. न॰ भावोन्मथननृत्तयोः, प॰ कथननृत्तयोः

16. च॰ मूर्ध्नो, ड॰ कुञ्चिते मूर्ध्नि

17. प॰ धारिते

18. ड॰ कर्षोच्चदर्शने, छ॰ कर्षे च दर्शने

19. प॰ तु

20. ड॰ निवृत्ता

21. ध॰ सुस्थानाभि

[(व्या)]

[page 23]




[NZ]

इत्यादिलोकभावार्था 1ग्रीवा भेदैरनेकधा । BhNZ_08_176ab
ग्रीवाकर्माणि सर्वाणि शिरःकर्मानुगानि हि2 BhNZ_08_176cd
शिरसः कर्मणा कर्म ग्रीवायाः सम्प्रवर्तते । BhNZ_08_177ab
इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् ॥ BhNZ_08_177cd
अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ 188॥ BhNZ_08_178ab


इति भारतीये नाट्यशास्त्रे उत्तमाङ्गाभिनयो(3) नामाष्टमो ऽध्यायः ।
[ABh]


[(मू)]

1. ड॰ भङ्गैः, प॰ भावैः

2. ङ॰ च

3. प॰ -उपाङ्गविधानं, ड॰ उपाङ्गाभिनये

[(व्या)]

[page 24]




श्रीः
नाट्यशास्त्रम्
नवमो ऽध्यायः ।

[NZ]

1एवमेतच्छिरोनेत्रभ्रूनासोष्ठकपोलजम्2 BhNZ_09_001ab
3कर्म लक्षणसंयुक्तमुपाङ्गानां4 मयोदितम् ॥ BhNZ_09_001cd
5हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम्6 BhNZ_09_002ab
यथा येनाभिनेयं च गदतो मे निबोधत7 BhNZ_09_002cd
हस्तोरःपार्श्वजठरकटीजङ्घोरुपादतः8 BhNZ_09_003ab
लक्षणं सम्प्रवक्ष्यामि 9विनियोगं च तत्त्वतः ॥ BhNZ_09_003cd
[ABh]

अलङ्क्रियन्ते गात्राणि यत्स्पर्शविवशस्थिते ।
स्पर्शतन्मात्रवपुषं संस्तुमः परमेश्वरम् ॥
शिष्याणामनुसन्धानवृद्धये प्राक्तनार्थोपसंहारपूर्वकं वक्त्रन्तरमासूत्रयन्नाह एवमेतदित्यादि(1) । क्रियत इति कर्म अभिनेयमित्यर्थः । हस्तादीनामिति पादान्तानामनेनाध्यायेन लक्षणं वक्ष्यामि । (2)विनियुज्यते ऽनेनेति (विनियोगः) तद्यथा --- `पयोद्रीन्द्रवर्षधारानिरूपण(3)(9-20)'मित्यादि, तत्र चेतिकर्तव्यता --- तद्यत्या --- `प्रविरलचरिताङुलि'(9-21)रित्यादि । तत्त्वत(4) इति । अभिनयस्य द्विविधा (5)इतिकर्तव्यता लोकधर्मी नाट्यधर्मी च । आद्या द्विविधा --- (6)चित्तवृत्त्यर्पकत्वेनानुभावस्य,

[(मू)]

1. म॰ इत्येतच्छिरसो नेत्र

2. क॰ कपोलकम्

3. ड॰ कर्मरक्षण

4. च॰ अपाङ्गानाम्

5. म॰ -हस्तानां तु, द॰ हस्तानां च, ब॰, भ॰ योर्नास्ति ।

6. न॰ प्रयोगजम्

7. ड॰ तन्मे न्गदतः शृणु ।

8. झ॰ पादतेः । ज॰ पादकः

9. ब॰ कर्मनाट्यप्रयोगजम् । यथा येनाभिनेयं च तन्मे निगदतः शृणु

[(व्या)]

1. एवमेनमित्यादि

2. विनियुज्यते ऽस्मिन्निति च

3. निरूपमिति

4. तत इति ।

5. चेति

6. चित्तवृत्त्यात्मकेनाशुभावस्य

[page 25]




[NZ]

पताकस्त्रिपताकश्च 1तथा वै कर्तरीमुखः । BhNZ_09_004ab
अर्धचन्द्रो ह्यरालश्च 2शुकतुण्डस्तथैव च ॥ BhNZ_09_004cd
3मुष्टिश्च शिखराख्यश्च कपित्थः 4खटकामुखः । BhNZ_09_005ab
सूच्यास्यः पद्मकोशः सर्पशिरा मृगशीर्षकः5 BhNZ_09_005cd
6काङ्गूलको ऽलपद्मश्च चतुरो भ्रमरस्तथा । BhNZ_09_006ab
हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा ॥ BhNZ_09_006cd
[ABh]

यथा --- `गर्वे ऽप्यहमिति तज्जैर्ललाटदेशोच्छ्रित'(9-19) इति । केवलबाह्यावयवरूपा वा, यथा --- पद्मकोशस्य कमपि निरूपणे । नाट्यधर्म्यपि द्विधा --- नाट्योपयोगमूलभूतकैशिकीसम्पादनोचितालौकिकशोभाहेतुः यथा --- आवेष्टितादिचतुर्विधकरणरूपा । काचित्त्वंशेन लोकमुपजीवति(1), यथा --- वर्णातुरेण हस्तेन तत्र व्यवहितेन लोक उपजीव्यति । लोको ह्यनिर्देश्यताशेषं वस्तु निर्दिदिक्षुरीदृशं तादृशमित्थम्भूतमित्यवसरे प्रयुक्तमेव चतुरैः । एवं जनान्तिकादौ वाच्यम् । नटसमयमात्ररूपा नाट्यधर्मी, समयस्याकिञ्चित्करस्य कल्पने प्रयोजनाभावात् ।
हस्तानुपदिशति पताक इत्यादिना । तथा चशब्देन त्रिपताकः प्रकारस्तस्यैव कर्तरीमुख इति दर्शनात्तनिष्पत्तये संहिताकार्यदृष्टादध्ययनपरशब्दगतध्यानं शब्दवद्धस्तान्तरत्वे ऽपि दृश्यमानेन तद्बुद्धिं विधेयेन दर्शयति । एवमन्ये ऽपि त्रिपताका(दयो)व्याख्येयाः । क्वचित्तु हस्तसदृशहस्तान्तरस्वीकाराय हंसपक्षश्च सन्दंश इति सन्दंशशब्दान्तरं चकारेण अङ्गुष्ठमध्यमाग्रनिष्पीडिताग्र(2)मर्मतर्जनीलक्षणो ऽपि शून्यभास्वरविद्युदाद्यभिनयविषये नृत्ताचार्यप्रवाहसिद्धः कोहललिखितो ऽपि हस्तः सङ्गतो भवतीति हस्तान्तराण्युत्प्रेक्ष्याणि । ते त्वसंयुता अपि भवन्ति । संयुतकरणं कार्य इति वक्ष्यते, यतः

[(मू)]

1. ज॰ तत्र वै

2. च॰ शुक्वमुद्रः(?)

3. ड॰ मुष्टिकश्च

4. ड॰ कटकामुखः

5. ड॰ तथा वै सर्पशीर्षकः । मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः, च॰ सर्पशिरो हि मृगशीर्षकः, ज॰ सर्पगोमृगशीर्षकः, न॰ सर्पशिरा मृगशीर्षः

6. प॰ लाङ्गूल, ड॰ लाङ्गूलोत्पलपद्मश्च, ढ॰ लाङ्गलो ह्यल

[(व्या)]

1. जीवन्ती

2. निपीडिताग्र

[page 26]




[NZ]


1ऊर्णनाभस्ताम्रचूडश्चतुर्विंशतिरीरिताः2 BhNZ_09_007ab
असंयुताः संयुताश्च3 गदतो मे निबोधत ॥ BhNZ_09_007cd
अञ्जलिश्च कपोतश्च कर्कटः 4स्वस्तिकस्तथा । BhNZ_09_008ab
5खटकावर्धमानश्च6 ह्युत्सङ्गो7 निषधस्तथा ॥ BhNZ_09_008cd
दोलः8 पुष्पपुटश्चैव तथा मकर एव च । BhNZ_09_009ab
गजदन्तो ऽवहित्थश्च9 10वर्धमानस्तथैव च ॥ BhNZ_09_009cd
11एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश । BhNZ_09_010ab
नृत्तहस्तानतश्चोर्ध्वं12 गदतो मे निबोधत ॥ BhNZ_09_010cd
[ABh]

यत्राप्येतन्नास्ति तत्रापि प्रयोगयुक्त्या हस्तद्वयप्रयोगो भवत्येव, यथा परेण हारे नीयमाने भयात्पताकाद्वयस्यांसादिक्षेत्रे पराङ्मुखस्य प्रयोगः । एवं प्रतापनादावपि । एवमन्यत्रोत्प्रेक्षणीयम् । किञ्च पताकादीनामपि द्विशो युगपत्प्रयोगे युतत्वमभिनेयविशेषे । तद्यथा कपित्थस्याधस्तादधस्तलः पताकः छेदाभिनये ``कुणिच्छ अह, अस्तमच्छरजहिसीसहिच्छजत्तंति''(?) । चित्राभिनये चैतत् । एते तु संयुता एव । नत्वेत एव, पताकादीनामपि प्रयोगे क्वचित्संयुतत्वात् । एते च त्रयोदश संयुतताव्यतिरेकेण न स्वार्थस्य गमकाः । एतेषां त्वभिनयहस्तानां छिद्रच्छादनेनैकवर्तनानुप्रवेशादलातचक्रप्रतिमतां दर्शयितुं, मसृणोद्धतवर्तनात्मकतया चैकवाक्यार्थविश्रान्ततां प्रथयितुं, नृत्तस्य च वस्तुभूतत्वेनोक्तस्य स्वरूपमभिधातुं, नृत्यन्त्यौ चेट्याविति नृत्तादिविषये च सूचाङ्कुरादावुपयोगमपि तु दर्शयितुं नृत्तशब्देन विशेष्यं निर्दिशति नृत्तहस्ता नित्यादिना । संयुतासंयुतरूपोपजीविन एत इत्येकाकिनो ऽपि प्रयुज्यन्ते [नाशंसन्त इति अन्ये ऽपि न न शंसन्ति ... दर्शयन्ति] नन्विदं

[(मू)]

1. ऊर्ध्वनाल

2. च॰ चतुर्विंशति कीर्तिताः, न॰ चतुर्विंशदिमे कराः

3. च॰ संयुतास्तु

4. ड॰ स्वस्तिकं तथा

5. ड॰ कटका

6. ब॰ वर्तकश्चैव

7. ड॰ उत्सङ्गो

8. म॰ दोला

9. ट॰ अवहित्थं च

10. म॰ वर्तमानश्च

11. म॰ एते संयुतहस्ताश्च

12. म॰ अतस्तूर्ध्वं, न॰, ड॰ ह्जस्तान् ततश्चोर्ध्वम्

[(व्या)]

[page 27]




[NZ]

1चतुरश्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ । BhNZ_09_011ab
स्वस्तिकौ विप्रकीर्णौ 2चाप्यरालखटकामुखौ ॥ BhNZ_09_011cd
3आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ । BhNZ_09_012ab
उत्तानवञ्चितौ चैव4 पल्लवौ च तथा करौ ॥ BhNZ_09_012cd
5नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च । BhNZ_09_013ab
6लताख्यौ च तथा प्रोक्तौ करिहस्तौ तथैच च ॥ BhNZ_09_013cd
7पक्षवञ्चितकौ चैव 8पक्षप्रद्योतकौ तथा । BhNZ_09_014ab
9ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम्10 BhNZ_09_014cd
ऊर्ध्वमण्डलिनौ चैव11 पार्श्वमण्डलिनौ तथा । BhNZ_09_015ab
उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ ॥ BhNZ_09_015cd
12मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ । BhNZ_09_016ab
13अलपल्लवोल्बणौ च ललितौ वलितौ तथा ॥ BhNZ_09_016cd
चतुष्षष्टिकरा ह्येते नामतो ऽभिहिता मया । BhNZ_09_017ab
14यथा लक्षणमेतेषां कर्माणि च निबोधत ॥ BhNZ_09_017cd
[ABh]

यथा लक्षणं यथा च कर्मण्यभिधेयतेति तथा निबोधतेति सम्बन्धः । अथ यथोद्देशं पताकादीनां लक्षणमाह प्रसारिताः समा इति । समा इति प्रकृतिस्था इत्यर्थः । प्रसारिताग्रा वा इति पाठः । प्रसारिताः प्रधाना इत्यर्थः । सहिता अविरलाः । कुञ्चितत्वं पादस्य वक्ष्यते तल्लक्षणोपजीवनेनाङ्गुष्ठसन्निवेशः कार्य इत्यर्थः । पताकाकारत्वात्पताकः । अत एव पताकाप्यनेनैवाभिनेया ।

[(मू)]

1. च॰ चतुरस्रौ

2. न॰ वाप्यरालकटका

3. प॰ आविद्धपक्ष्मौ

4. म॰ वापि

5. प॰ नितम्बौ चापि

6. न॰ चैव संप्रोक्तौ, ड॰ सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च

7. म॰ कक्षवञ्चितकौ

8. म॰ कक्षप्रद्योतकौ तथा

9. न॰ तथा गरुडपक्षौ

10. न॰ हंसप्रक्षौ तथैव च । ड॰ दण्डपक्षौ तथैव च ।

11. द॰ ह्युरः

12. छ॰ मुष्टिका

13. ड॰ अलपद्मोल्वणौ चापि, म॰ अलपल्लवकौ हस्तावृल्बणौ ललितौ तथा

14. ड॰ अथ लक्षण

[(व्या)]

[page 28]




[NZ]

1प्रसारिताः समाः सर्वाः 2यस्याङ्गुल्यो भवन्ति हि । BhNZ_09_018ab
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ BhNZ_09_018cd
एष प्रहारपाते 3प्रतापने 4नोदने प्रहर्षे च । BhNZ_09_019ab
5गर्वे ऽप्यहमिति तज्ज्ञैर्ललाटदेशोत्थितः6 कार्यः ॥ BhNZ_09_019cd
एषो ऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । BhNZ_09_020ab
संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ BhNZ_09_020cd
स्वस्तिकविच्युति7करणा8त्पल्वलपुष्पोपहारशष्पाणि9 BhNZ_09_021ab
[ABh]

एवमन्येष्वपि हस्तेषु नामनिर्वचनानुसारेण विनियोगः प्रदर्शनीयः । प्रविरलचलिताङ्गुलित्वादियोगे ऽपि एकदेशविकारे तत्त्वप्रत्यभिज्ञानात्पूर्वापरकोठ्योश्च मूलसन्निवेशाश्रयणात्पताकात्वमेव । एवमन्यत्रापि । प्रहारस्य पातने कर्तव्ये, परेण च क्रियमाणे । (1)प्रतापने शीतशमनायाग्नि(2)स्पर्शग्रहणे, राज्ञां च प्रतापे । शत्रुहृदयम्लान(3)निमित्तभूतप्रसिद्धिविशेषात्मनि तथा प्रकृष्टे चोद्धतादपि(4) तथोपहरणाय ``हस्तच्छत्रनिरुद्धचन्द्रमहस''(विद्धसा-)इत्यादौ । तथा अन्यस्य प्रेरणे अन्येन वा प्रेरणे तद्वारणाय । एषु च यथालोकप्रसिद्धिः यथा नाट्याचार्यप्रवाहश्च ऊर्ध्वपार्श्वगाधोमुखसम्मुखपराङ्मुखोत्तानत्र्यश्रचञ्चलाचञ्चलत्वादिविभाग उत्प्रेक्षणीयः । प्रहारे हृदयलग्नतल ईषत्कम्पमानः, प्रहर्षे च रोमाञ्चसम्मुख उद्गतः । अपिशब्दार्थसहितो (अहं) यथा अस्मदर्थो भवति अहमपि ममापि मयापि मय्यपीत्यादौ गर्वगर्भे प्रयोगे पार्श्वान्तरात्स्वपार्श्वमागच्छंल्लाटाभिमुख ऊर्ध्वः कर्तव्यः । एष इति एतस्मिन्नर्थे अभिनेता स्या(दिति चे)द्विभक्तिरतन्त्रा, एतदर्थनिरूपण इत्यर्थः । अग्नेः धारा जालाः पुष्पवृष्टिग्रहणमप्रसिद्धपांसुरक्तादिवृष्ट्यन्तरोपलक्षणम् । संयुतकरण इति हस्तद्वयमीदृशं कर्तव्यमित्यर्थः । संयुतासंयुतसम्बन्धा लोकोचिताचललक्षणा

[(मू)]

1. म॰ प्रसारिताग्रास्सहिता

2. म॰ यस्याङ्गुल्यौ

3. ड॰ प्रकोपने

4. छ॰ नादने, छ॰ अथ यापने प्रहर्षे च

5. ब॰ गर्वेष्वह

6. ड॰ देशस्थितः

7. म॰ पल्लवपुष्पोपहारशय्यादि

8. प॰ करणात्पल्वलः

9. च॰ शिष्याणि

[(व्या)]

1. पतापदेशीन

2. शमनायादि

3. ग्लान

4. चोद्धतापि

[page 29]




[NZ]

1विरचितमुर्वीसंस्थं यद्द्रव्यं तच्च निर्देश्यम् ॥ BhNZ_09_021cd
स्वस्तिकविच्युतिकरणात्पुनरेवाधोमुखेन कर्तव्यम् । BhNZ_09_022ab
संवृतविवृतं पाल्यं2 छन्नं निबिडं च गोप्यं च ॥ BhNZ_09_022cd
अस्यैव चाङ्गुलीभिस्त्वधोमुख3प्रस्थितोत्थितचलाभिः । BhNZ_09_023ab
वायूर्मिवेगवेलाक्षोभश् चौघश्च कर्तव्यः4 BhNZ_09_023cd
[ABh]

क्रिया यस्य तेनाग्निज्वालासूर्ध्वगमनं, जलधारासु अधोगमनमङ्गुलीनामूर्ध्वमुखहस्तस्य पुष्पवृष्टौ शिरोदेशे अधोमुखस्य स्थितस्य क्रमाच्चलाङ्गुलेरधोगमनमिति सङ्गृहीतम् । तेनैकाकिनो ऽपि यत्प्रयोगदर्शनं तदवरुद्धम् । अ(प्र?)विरलास्सत्यश्चलिताः अ(प्र?)विरलं कृत्वा चलिता अङ्गुल्यो यत्रेति समासः संयुतहस्तलक्षणात् स्वस्तिकमुपजीव्यं नृत्तहस्तलक्षणाद्वा । तेन(1) संमुखौ पताकौ मणिबन्धभुवि न्यस्तौ कृत्वा बाहुपरिभ्रमणयुक्त्या स्वपार्श्वसमं(2) विच्युतिः(3), तत्क्रियायाः पल्वलं स्वल्पोदकं सरः पुष्पप्रकरं हृद्यं च (4)तृणं, यच्च भूमौ पिच्छिलं(5) बलितण्डुलवैचित्र्यन्यायेन(6) स्थापितं तदभिनयेदिति लोकांशोपजीविनी नाट्यधर्मी । पुनरेवेति वचनात् स्वस्तिकस्तद्विच्युतिः विच्युतिपूर्वकः स्वस्तिक इति क्रमः । तत्रा(धो)मुखेन स्वस्तिकेन तद्विच्युत्या च संवृतविवृतमर्धं संवृतमर्धं च विवृतम् । यथा --- ``घट्योद्धाट(7)कवाटघट्टितजवेन''(8) इति । पाल्यं पतमानाद्रक्षणीयं विच्युतिपूर्वकं शीघ्रं स्वस्तिककरणात्, छन्नं निबिडं स्पष्टं, तथैव गोप्यं, अन्यो मा द्राक्षीदिति, तज्जातं करणं स्वस्तिककरणात् । चकारेण अपाल्ये, अप्रच्छन्ने, अनतिनिबिडे अगाप्ये चाभिनयः । स च स्वस्तिकवियुतिरूप इति दर्शयति । रेचयति स्वसन्निवेशाद्यापयति स्वक्षेत्राद्वा या क्रिया तद्रेचककरणम् । तथा यथायोगं तत्र परस्योत्साहनं प्रेरणं(10) उत्साहजननं सत्पुरुषाभिनयनं च विरलाङ्गुलिक्षेपेणालपल्लवाकारवत् प्रधानं

[(मू)]

1. च॰ विरचितमहीतलस्थं, म॰ विरचितमहातलगतं

2. ब॰ काल्यं

3. म॰ अधोगत

4. द॰ क्षोभाश्चौघश्च कर्तव्या

[(व्या)]

1. केन

2. सुपार्श्व

3. विच्छति

4. तृणयश्च भूमौ

5. भूमौ पिच्छिला

6. वैचित्र्यभावेन

7. घट्येद्घाट

8. घट्टित इव

9. छन्नं निबद्धं

10. उत्साहसंप्रेरणम्

[page 30]




[NZ]

उत्साहनं 1बहु तथा महाजनप्रांशुपुष्करप्रहतम्2 BhNZ_09_024ab
पक्षोत्क्षेपाभिनयं रेचककरणेन कुर्वीत3 BhNZ_09_024cd
4परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च5 BhNZ_09_025ab
पुनरेव शैलधारणमुद्घाटनमेव6 चाभिनयेत् ॥ BhNZ_09_025cd
[दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । BhNZ_09_026ab
पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ ] BhNZ_09_026cd
एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । BhNZ_09_027ab
[ABh]

वस्तु अक्रमकरणेन निजपार्श्वगमनेन पार्श्वान्तरात् । प्रांशून्नतमूर्ध्वगतात्, पुष्करप्रहणने अधः पातनं(1), पक्षं पतत्रिणां मुहुरूर्ध्वं कटिक्षेत्र उत्साहनवत् उत्क्षेपं कृतमथोर्ध्वगमनेन । अभिनयशब्दवत्पाल्यं च । (अभिनयशब्दस्य वैचि)त्र्यं पश्यन्तः उपाध्याया व्याचक्षते --- अभिशब्देनाभिमुख्यं, नशब्देन निषेधो, यशब्देन यदर्थो लक्ष्यते, तेन स्वपार्श्वोन्मुखदेशागमनेनाभिमुख्यमभिमुखत्वं पार्श्वक्षेत्रे तु रेचनपूर्वमधोमुखोत्तानपरिवर्तनेन च यच्छब्दार्थमभिनयेदिति । परिशब्दः शैघ्र्यात्पार्श्वतो ऽर्थे उभयतो वातो समन्तादर्थे च, तेन परिघृष्टं यत्तलं तत् द्वितीयपताकहस्तेन पताकाकारेण क्षालनं मर्दनं मार्जनं पेषणं तद्विशिष्टमपि द्रव्यमभिनयेत् । यथाक्रमं च परिशब्दार्थे योज्यः पुनश्शब्दः । पर्वतोद्धारणशैलशिलादेश्चोद्धा(त्पा?)टनम् । चकाराद्वरदानमभ्ययदानमित्येवमाद्यभिनयेत् । (2)परिघृष्टेतीतिकर्तव्यतां प्रसक्तां वारायुतुमेवकारः, ``(3)एनतुपुणापरिअञ्चिइतिं कोणें जिजिआळिह''(?) इत्यादौ, यथा पुनरेवशब्दार्थे(4) द्योतकस्तथाङ्गिके ऽपि पताकादिस्तथा व्यवहारदर्शनात् । न चैतावानेवास्य विषय इति दर्शयितुमाह एवमनेन प्रकारेण स्वबुद्ध्या तां तामितिकर्तव्यतामुत्प्रेक्ष्य प्रयोक्तव्यः । स्त्रीपुंसयोरुभयोरपि अभिनेत्रोरभिनेययोर्वा । अन्ये तु नपुंसकलिङ्गस्य

[(मू)]

1. म॰ बहु महन्महाजनं, प॰ बहुमतं

2. च॰ प्रहतिम्

3. म॰ करणैः प्रयुञ्जीत

4. ड॰ परिमृष्ट

5. म॰ पिष्टं च, ब॰ तलस्थेन चूर्णितघातपिष्टघृष्टमृदितानि, म॰ स्त्रीणां पुंसां यथा तथा

6. न॰ उत्पाटमेव ।

[(व्या)]

1. पतनं

2. सृष्टेति

3. एतु पुणायिरि अच्चतक्काणेजि आळिहि

4. समर्थे

[page 31]




[NZ]

अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ BhNZ_09_027cd
पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत्1 BhNZ_09_028ab
त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ BhNZ_09_028cd
आवाहनमवतरणं विसर्जनं वारणं2 प्रवेशश्च3 BhNZ_09_029ab
उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ BhNZ_09_029cd
4मङ्गल्यद्रव्याणां स्पर्शः शिरसो ऽथ सन्निवेशश्च । BhNZ_09_030ab
उष्णीष5मकुटधारणनासास्यश्रोत्रसंवरणम् ॥ BhNZ_09_030cd
[ABh]

स्त्रीपुंसाभ्यामेव स्वीकारात् समस्ते शब्दार्थे ऽभिनेतव्ये विशिष्टेतिकर्तव्यतायुक्तस्यार्थस्य प्रयोग इत्याहुः ।
अथ त्रिपताकमाह पताकेत्वित्यादि । अनामिका वक्रा कनीयसी (तर्जनीयमध्यमानां) तिसृणां पताकवदवयवस्थानात् त्रिपताकः त्रित्वस्याभिनेयाद्वा । कर्मेत्यभिनेयम् । (आवाहनं)पराङ्मुखीनतर्जनीमध्यमाकुञ्चनात्, ``आर्ये इतस्ताव''दित्यादौ । अवतरणमुत्तरेण पार्श्वान्तरं गच्छता ``अवतरत्वायुष्मा''नित्यादौ रथादेः । विसर्जनमनादरकृतमधस्तलकृतेन बहिरङ्गुलिद्वयक्षेपात् । वारणं ``मा कार्षी''रिति प्राङ्मुखेणाङुलिद्वयचलनात् । प्रवेशनं पार्श्वतलेनाग्रगमनात् ``यावत्प्रविशा''मीति । यथोन्नामनं चिबुकादौ लोलनेनोत्तानेनाङ्गुलिद्वयेन । प्रणमनं शिरोगतेन पार्श्वगतेन प्रणयनं समर्पणम् । प्र(नि)दर्शनमुपमानोपमेयभावमीषद्विरलेनाङ्गुलिद्वयेन । विविधं विचित्रमिदं वा स्यादिदं वेत्यादि अङ्गुलियुगनामोन्नामात् । वचनं भाषणं मुखक्षेत्रे उत्तानस्याग्रगमनात् । मङ्गल्यद्रव्याणां पूर्णकुम्भादीनामधोमुखेनाङ्गुलिद्वयेन । स्पर्शः द्रव्यादीनां, शिरसः स्पर्शः निवेशनं निवेशः सम्बन्धो ऽनामिकया शिरसो वा सन्निवेशनं तत्क्षेत्रे सम्मुखमण्डलगतेनोष्णीषधारणं शिरस्यधोमुखेन भ्रमता मकुटधारणं तूर्ध्वक्षेत्रे । (संवरणं) अनिष्ठे गन्धे वचने च शब्दे ऽपि नासादौ अङ्गुलीद्वयेनाच्छादनम् ।

[(मू)]

1. ट॰ अङ्गुलीभवेत्

2. न॰ रणं

3. न॰ प्रवेशं च

4. प॰ माङ्गल्य

5. न॰ मुकुटकरण

[(व्या)]

[page 32]




[NZ]

अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । BhNZ_09_031ab
1लघुखगपतनस्रोतोभुजगभ्रमरादिकान्कुर्यात्2 BhNZ_09_031cd
अश्रुप्रमार्जनं तिलकविरचनं 3रोचनालभनकं च4 BhNZ_09_032ab
त्रिपताकानामिकयोः5 स्पर्शनमलकस्य कर्तव्यम्6 BhNZ_09_032cd
[7स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने8 BhNZ_09_033ab
परस्पराग्रसंश्लिष्टौ कार्यावुद्वाहदर्शने ॥ BhNZ_09_033cd
विच्युतौ चलितावस्थौ कर्तव्यौ नृपदर्शने । BhNZ_09_034ab
तिर्यक्स्वस्तिकसंबद्धौ स्यातां तौ ग्रहदर्शने ॥ BhNZ_09_034cd
[ABh]

अस्यैव चेति । अतश्च मुकुटादिदर्शनेन त्द्धेतोः राजादेरप्यभिनयः, तेन येन हस्तेनाभिनेयं यत्राभिचारित्वेन बहुशो निर्दिष्टं(1) तदनिर्दिष्टमपि तेनैवाभिनेयम् । यथा मुकुटधारणाभिनयेन राजांशः रेचितपताकायोगेन गर्वितः । अङ्गुल्यौ ये नित्यश्लिष्टे इत्येवकारः, तेन च त्रिपताकन्यस्त इत्यस्य ग्रहणात् । चकारेणान्वाचयकृतमङ्गुल्यन्तरस्य अधोमुखादि(2)रूषत्वमनुजानाति । अधोमुखे च द्वे प्रस्थानोत्थानयोः चले चेति समासः । लघून्पक्षिणश्चटकादीन्, कटीक्षेत्रे लघुचालं । (3)लघु च स्रोतः क्रमेणोर्ध्वमधस्तिर्यग्गत्या(4) लघुसर्पानग्रगत्याभिनयेत् । भ्रमरमक्षिकादीनां पुनरुपपादनं पक्षित्वेनाप्रसिद्धेः, तेन कटीक्षेत्रत्यागेन यथेष्टमेषां क्षेत्रमित्युक्तं भवति । अश्रुणस्तत्प्रमार्जनस्य चानामिकया स्वक्षेत्रगतयाधो गच्छन्त्याभिनयः । तिलकस्याभिनयो रोचनाचन्दनादिना तद्विरचनस्य च । एतेन क्रियाफलयोस्तुल्याभिनयो ऽन्यत्रापीति सूचयति । तेन पतनवत्पतितो ऽपि कर्तरीमुख इत्याद्यूह्यम् । रोचनाचन्दनस्य मङ्गल्यतिलकादिना स्वीकारादिकं व्याचक्षते । रोचनया अरुणरुचिर्लक्ष्यते, तत्रानामिकाद्वयसङ्घट्टेनाभिaनयः । यथा ---

[(मू)]

1. प॰ लघुमुखपचन, ब॰ लघुवटपवन

2. न॰ प्रमार्जन

3. प॰ विरोचना

4. ड॰ लोचनालभौकश्च, छ॰ लभनकरणम्

5. म॰ अनामिकया

6. न॰ दर्शनमलिकस्य कार्यं च

7. ड॰, म॰ योरादर्शयोः 32-36.1।2 श्लोकाः न सन्ति

8. न॰ पादवन्दनम्

[(व्या)]

1. दृष्टं

2. रूपतामनु

3. लघूचापः

4. तिर्यग्जन्या

[page 33]




[NZ]

तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ ।1 BhNZ_09_035ab
परस्पराभिमुखौ कार्यौ द्वारदर्शने ॥ BhNZ_09_035cd
2उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । BhNZ_09_036ab
बडबानलसङ्ग्रामे मकराणां च3 दर्शने ॥ BhNZ_09_036cd
अभिनेयास्त्वनेनैव वानरप्लवनोर्मयः । BhNZ_09_037ab
4पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ BhNZ_09_037cd
संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । BhNZ_09_038ab
पराङ्मुखस्तु कर्तव्यो याने नॄणां प्रयोक्तृभिः ॥ ] BhNZ_09_038cd
त्रिपताके यदा हस्ते6 भवेत्पृष्ठावलोकिनी । BhNZ_09_039ab
तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ BhNZ_09_039cd
7पथि चरणरचनरञ्जनरङ्गण8करणान्यधोमुखेनैव9 BhNZ_09_040ab
[ABh]

कोउद्दळणाइं तथा तथा च केन समाणिवश्शक्रः ।
सुकरं भर्जमुखं च दुःखं च ॥(?)
आलम्भनं शरीरस्पर्शनं द्रोहिकाचमनम्, तस्मात् संज्ञायामपि कन् । संज्ञैवेयमिति लभेरत्रासंभवात् नञ्समासः, स्वल्पत्पं च, अत्रातिगौरवातिस्नेहादिना तथानामिकयैव स्पर्शनात् ``गामी अवा उच्चं अमीहउतोरउ''(?) इति । स्पर्शनमलकस्य रचनार्थं स्थानान्तरनयनं, यथा रत्नावल्यामुदयनेन सुसङ्गताया । अलिकस्य ललाटस्य दर्शनमलकभञ्जनेनोत्तालालकभञ्जनानीत्यादावित्यन्ये ।
कर्तरीमुखं लक्षयति त्रिपताक इति चकारेण परो नीयते । अवलोकिनीति असंश्लिष्ट इति यावत् । कर्तर्या ईदृशमेव रूपं साध्यते तथाभिनीयते । पथीति पृथक्पदं इतइत इत्यादौ मार्गप्रदर्शने, तेनात्राधोमुखेनेति संबध्यते । चरणस्य रचनं कस्तूरिकादिना पत्रभङ्गादिक्रिया, रञ्जनमलक्तकेन । रज्यत्यस्मिन् हृदयमिति रङ्गः कुङ्कुमादिकृतश्चतुष्कोष्ठे भङ्गस्तिलकादिः तं करोति रङ्गयति ।

[(मू)]

1. प॰ ऊर्ध्वावुत्तानसम्मुखौ

2. प॰ उत्तानाधोमुखावग्रे अधो वक्त्रस्य संश्रयौ

3. न॰ नक्राणामपि

4. प॰ पततश्च

5. न॰ सुमुख

6. ड॰ हस्तो

7. न॰ पथिकचर, प॰ पथितचरण

8. प॰ रिङ्गिण, ब॰ गमन

9. न॰ मुखेनैतत् ।

[(व्या)]

[page 34]




[NZ]

ऊर्ध्वमुखेन तु कुर्याद्दष्टं शृङ्गं च लेखं च1 BhNZ_09_040cd
2पतनमरणव्यतिक्रमपरिवृत्तवितर्कितं3 तथा न्यस्तम् । BhNZ_09_041ab
भिन्नवलितेन कुर्यात्कर्तर्याख्याङ्गुलिमुखेन4 BhNZ_09_041cd
[5संयुतकरणो वा स्यादसंयुतो वा प्रयुज्यते तज्ञैः । BhNZ_09_042ab
6रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु7 ॥ ] BhNZ_09_042cd
8यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत्9 BhNZ_09_043ab
सो ऽर्धचन्द्र इति ख्यातः 8करः कर्मास्य वक्ष्यते ॥ BhNZ_09_043cd
[ABh]

एवकारेण (1)तर्जनीमुखलक्षणमुखस्याधोगमनानन्तरमेव पृष्ठावलोकित्वं पुनरधोगमनं पुनः पृष्ठावलोकनमिति चलनमाह । दष्टमिति दंशनं तत्तुल्यं च (2)कर्तनादि नासिकाक्षेत्रात् कर्णान्तं गच्छता, शृङ्गं स्वङ्गक्षेत्रे हस्तद्वयेन, लेखं पत्रकाविष्टस्य वाचनम् । व्यतिक्रमो ऽपराधः(3) । परिवृत्तं पराङ्मुखीभूतं विपर्यस्तं च । वितर्कितमूहनम् । न्यस्तं निक्षेपणम् । (4)भेदनं वैपरीत्यं मध्ययोस्तर्जनीपृष्ठगत्वं चलनं पुनः स्वरूपाप्तिस्तयोः समाहारे द्वन्द्वः । एतेन यथा योगं सङ्घातविगृहीतविपर्यस्तप्रयोगो द्विस्त्रिश्चेत्याद्यूह्यम् । कर्तर्यास्यस्य कर्तरीमुखस्य यदङ्गलीरूपं मुखं प्रधानं तेन भेदनवलनसहितेनेति सङ्गतिः ।
अर्धचन्द्रमाह सहाङ्गुष्ठेनेति । अङ्गुष्ठो ऽपि विनतः चापवदिति श्लिष्टाह्रस्वत्वं निषेधति । ख्यात इति नाम्नैव लब्धरूपः । बालतरवश्चोर्ध्वं गच्छता, उपर्युत्तानेन

[(मू)]

1. न॰ लेख्यं च

2. छ॰ पवन

3. ड॰ परिवृत्तविवर्तितं, प॰ परिवर्ति वितर्कितं, व॰ परिवर्तविवर्तितान्यनित्यं च, ड॰ वलिते च

4. न॰ आस्याङ्गुलीव युगलेन, म॰ पुटेन

5. च॰ आदर्शे नास्ति

6. म॰ रुरुचमरमहिषनगगिरिवृष, प॰ रुरुचमरमहिषसुरगिरिवृष, म॰ संयुतकरणं चैव स्यात्

7. म॰ आदर्शे ``रुरुचमर'' इति पूर्वार्धः, ``संयुतकरण'' इत्युत्तराधः

8. म॰

वस्याङ्गुल्यो धनुर्वक्राः सहाङ्गुष्ठेन कुञ्चिताः ।

अर्धचन्द्रं तु तं विद्यात्कर्म चास्य निबोधत ॥

द॰

वस्याङ्गुल्यो धनुर्वक्राः सहाङ्गुष्ठेन संहताः ।

अरधचन्द्रः स विज्ञेयः कर्म चास्य प्रचक्ष्यते ॥

9. ड॰चापरम्

10. ड॰ चन्द्रो हि विज्ञेयः ।

[(व्या)]

1. तर्जनीलक्षण

2. कर्तृकर्त्रादिनामिका

3. अपरोधः

4. मेदेन ।

[page 35]




[NZ]

एतेन बालतरवः शशिलेखा कम्बुकलशवलयानि । BhNZ_09_044ab
1निर्घाटनमायस्तं मध्यौपम्यं च पीतं च2 BhNZ_09_044cd
3रशनाजघनकटीना4माननतलपत्रकुण्डलादीनाम् । BhNZ_09_045ab
कर्तव्यो नारीणामभिनययोगो ऽर्धचन्द्रेण5 BhNZ_09_045cd
आद्या धनुर्नता कार्या कुञ्चितो ऽङ्गुष्ठकस्तथा6 BhNZ_09_046ab
शेषा भिन्नोर्ध्ववलिता ह्यराले ऽङ्गुलयः करे7 BhNZ_09_046cd
एतेन सत्त्वशौण्डीर्य8वीर्यकान्ति9धृतिदिव्य10गाम्भीर्यम् । BhNZ_09_047ab
[ABh]

अर्धेन्द्रुरित्यन्वर्थबलाल्लब्धम् । तेन शशिलेखेत्यनेन लेखामात्रमभिनेयं (1)विश्लिष्टतर्जनीकेनेत्युक्तं भवति । कम्बुरिति शङ्ख एवानेनाभिनेयः, तद्ग्रहणं तु कर्कटे वक्ष्यते । प्रकोष्ठान्तरसंमुखेन वलयः । निर्घाटनं बलान्निष्कासनमिति । तस्यायस्तमटवीघोषणमित्यसत्, आयस्तं खेदं पराङ्मुखेन गण्डभ्रू(2)विभ्रमात्तमभिनयेत् । मध्ये(3) उदरादौ, उपमीयत इत्युपमा ततः ष्यञ्, तेनायमर्थो मध्यस्य तदुपादीयमानत्वं कार्श्यं तदभिनयेत् । पीनं च पीवरं, अर्धान्मध्यमेव । चकारादर्धचन्द्रद्वयेनाभिनयेत् । अन्ये तु पानं चषकादि व्याचक्षते पानमिति पठन्तः । जघनो नितम्बस्याग्रभागः, पार्श्वभागश्च कटी । आननतले च पत्राणि भङ्गाः । तलपत्रमाभरणविशेषः । पत्रं दन्तपत्रं नलिनीदलं वा । आदिशब्दान्मृणालादि । एतच्च तत्तत्क्षेत्रगेन यथायागं पार्श्वद्वययोगं पार्श्वद्वयान्तावधोवर्तितलेनैकैकेनान्यसहितेन वाभिनयेत् ।
अरालमाह आद्या धनुर्नतेति । आद्यस्तर्जनी मध्यमादयः कनिष्ठान्ताः पूर्वस्याः पृष्ठेष्वदूरे तिष्ठन्तीति । अयं हस्तस्त्वरालः कुटिलत्वात् । अरालपक्ष्मण इत्यादौ वक्रार्थे ऽरालशब्दः । सत्त्वं स्थैर्यम्, शौण्डीर्यं गर्वः, वीर्यमुत्साहः, कान्तिश्शोभा, दिव्यं गगनस्थं, गांभीर्यं ---

[(मू)]

1. म॰ निर्धमनं चायस्तं, प॰ निघटन, न॰ निर्घाटन, द॰ निर्वाटन

2. प॰ चापि पीनं च, ड॰ चापि पानं च

3. द॰ रसना

4. म॰ आननदल, प॰ आननतल

5. म॰ चन्द्रस्य

6. प॰ कुञ्चिताङ्गुष्ठकं तथा

7. ड॰ स्मृताः, न॰ ह्यराले ऽङ्गितया स्मृताः

8. न॰ शौठीर्य

9. ड॰ वीर्यधृतिकान्ति

10. प॰ दिव्य

[(व्या)]

1. विशिष्टतर्जनी

2. विभ्रमतामभि

3. सव्ये ।

[page 36]




[NZ]

आशीर्वादाश्च तथा1 भावा हितसंज्ञकाः कार्याः2 BhNZ_09_047cd
एतेन पुनः स्त्रीणां केशानां सङ्ग्रहस्तथोत्कर्षः3 BhNZ_09_048ab
सार्वाङ्गिकं 4तथैव च निर्वर्णनमात्मनः कार्यम्5 BhNZ_09_048cd
कौतुकविवाहयोगः 6प्रदक्षिणेनैव सम्प्रयोगं च7 BhNZ_09_049ab
8अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ BhNZ_09_049cd
प्रादक्षिण्यं परिमण्डलं च कुर्यान्महाजनं चैव9 BhNZ_09_050ab
10यच्च महीतलरचितं द्रव्यं तच्च्वाभिनेयं स्यात् ॥ BhNZ_09_050cd
[ABh]

यस्य प्रभावादाकारः क्रोधहर्षभयादिषु ।
भावेषु नोपलक्ष्यन्ते गाम्भीर्यमिति तत्स्मृतम् ॥(22-36)
आशीर्वादाः स्वस्ति भद्रं पुण्याहमित्यादयः । हितसंज्ञकाः सुखभावाः । तत्र हृदि पार्श्वे ऽग्रतः स्थैर्येण चलत्वेन भ्रमणागमनं यथायोगं प्रयोगः । एतावत्यंशे ऽप्यभिनेयमरालेन । सङ्ग्रहो बन्धनं केशानाम् । उत्कर्षो विकीर्णतापादनं । पुनर्ग्रहणाद्द्विस्त्रिरन्तरालस्य गमनभ्रमणादि लभ्यते । तथैव चेति यथा सर्वाङ्गनिर्वर्णनं भवति तथा कार्यमिति । तेन द्वितीयपार्श्वात्स्वपार्श्वगमनं लभ्यते । कौतुकं (1)विवाहात्पूर्वभावी वधूवरयोराचारः अन्तर्विवाहः प्रसिद्धः । विवाहो ऽग्नौ साक्षिणि । अङ्गुल्यग्राणां हस्तद्वयगतानां स्वस्तिकाकारेण यद्योजनं तेनोपलक्षितेन परिमण्डलं प्रदक्षिणदिक्कमेव भ्राम्यता कौतुकविवाहयोगो ऽभिनेयः । चशब्दस्तुशब्दस्यार्थे । एवकारो भिन्नक्रमः । सम्प्रयोगः संश्लेषमात्रस्तु अङ्गुल्यग्रस्वस्तिकयोगादेव केवलात् । देवताविषयं प्रदक्षिणक्रमम्,

[(मू)]

1. ड॰ भावाभिनय, च॰ भावाभिहित, म॰ भावानिह

2. म॰ संज्ञयाकुर्यात्, द॰ तथाह्यावाहनमेव कार्यं च

3. प॰ संग्रहोत्कर्षौ, म॰ संग्रहं तथोत्कर्षम्, द॰ संग्रहोत्कर्षणानि, न॰ संग्रहोत्कर्षः

4. म॰, च॰ कुर्यान्निर्वहणमात्मनश्चैव

5. द॰ निर्वर्तनमात्मनः कार्यम्, ड॰ निर्वर्हणमात्रात्मनः कार्यम्, ब॰ निर्वाहणमात्मनः कुर्यात्

6. द॰ प्रादक्षिण्येन संप्रयोगं च

7. न॰ संप्रयोगश्च

8. द॰ अग्रस्वस्तिकयोगात्कुर्यात्परिमण्डलेनैव

9. द॰ जनैश्चैव, म॰ मण्डलं कुर्यान्महाजनं चापि

10. न॰ यत्र महीतलनिहितं ।

[(व्या)]

1. विभागात्पूर्व ।

[page 37]




[NZ]

1आह्वानं च निवारणनिर्माणे चाप्यनेकवचः । BhNZ_09_051ab
स्वेदस्य चापनयने2 गन्धाघ्राणे शुभः शुभे चैष3 BhNZ_09_051cd
त्रिपताकहस्तजानि तु4 पूर्वं यान्यभिहितानि कर्माणि । BhNZ_09_052ab
5तानि त्वरालयोगात्स्त्रीभिः सम्यक्प्रयोज्यानि ॥ BhNZ_09_052cd
अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत्6 BhNZ_09_053ab
शुखतुण्डस्तु स करः कर्म चास्य निबोधत ॥ BhNZ_09_053cd
[ABh]

परिमण्डलं वर्तुलं, महाजनं जनसमूहं । विरचितं पुष्पप्रकरादि । एतेनैव परिमण्डलेन पार्श्वान्तरात्स्वपार्श्वं गच्छताभिनयेत् । आह्वाने पतदङ्गुलि निवारणे बहिःक्षिप्ताङ्गुलि । निर्माणं अपूर्व उदयः उदितो(1) ``भअवं मि अळंछक(2)'' इत्यादौ, निश्शेषेण वा मानं परिच्छेदो वर्तनं वा, यथा ``जळणिहिअळंवेमा(3)''(?) इति । निर्दानं तृणाद्युत्पाटनमित्यन्ये । अभूता सृष्टिर्वीप्सा निर्दानमित्यन्ये(4) । अनेकं पृथग्भूतं संबन्धाभावरूपं (5)यत्रोच्यते तत्र वह्निः पुनः क्षिप्ताङ्गुलेः प्रयोगः । यथा ``कहिं ह कहिं ह'' इत्यादौ । गन्धस्य सुरभित्वादाघ्राणं । शुभः शुभे चैष इति पाठः । एष हस्त इत्यर्थः । चैवेत्यन्ये पठन्ति अध्याहारं कल्पयन्तः, एवकारेण तत्क्षेत्रगत्वं हस्तस्येत्याहुः । त्रिपताकस्य यान्यावाहनमवतरणमित्यादीन्यभिनेयानि तान्यरालस्य (6)यत्प्रयोगाङ्गयुक्त्या सम्पत्तिर्भवति तत्तेनापि प्रयोज्यानि स्त्रीभिः(7) । न तु तासां त्रिपताको निषिध्यते, पुंसस्त्रिपताकस्थाने ऽरालो निषिध्यते ।
शुकतुण्डमाहारालस्येति । तुः पूर्वस्माद्विशेषमाह । द्वितीयो ऽपिशब्दार्थे, तर्जन्या अपि वक्रिमाणमनुजानाति तदाकारत्वात् । शुकतुण्ड इति शब्देन

[(मू)]

1. द॰ आवाहने निवारणनिदर्शने चाप्यनेकवचने च, प॰ आवाहननिर्वाहन ... वचः, न॰ आवहने निवापे निन्दाक्षेपाद्यनेकवचने च, म॰ आवाहने निवारणे सेवाद्यनेक वर्णे च, ढ॰ आवाहनेनिवापे निन्दास्ये व्याध्यनेकवचने च, ज॰ आवाहने च तरणे

2. ड॰ चाभिनयने

3. ड॰ शुभाचैव, म॰ शुभः शुभेचैव

4. ड॰ हि

5. म॰ तान्यप्यरालयोगे, प॰ तानि त्वराल

6. न॰ वक्रा तर्जनीत्वङ्गुलिर्भवेत्, म॰ वक्रा सहाङ्गुष्ठेन तर्जनी, ड॰ वक्रात्वनामिकाङ्गुलिर्भवेत् ।

[(व्या)]

1. उदयन्

2. भयर्वी ळचिरेण

3. ळंचेमा

4. वित्यादावित्यन्ये

5. यत्राचते

6. त्रिप्रयोगाङ्ग

7. त्रिभिः

[page 38]




[NZ]

एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति1 चार्थे । BhNZ_09_054ab
आवाहने विसर्गे धिगिति वचने च सावज्ञम्2 BhNZ_09_054cd
अङ्गुल्यो यस्य हस्तस्य तलमध्ये ऽग्रसंस्थिताः3 BhNZ_09_055ab
तासामुपरि चाङ्गुष्ठः स मुष्टिरिति संज्ञितः4 BhNZ_09_055cd
एष प्रहारे व्यायामे निर्गमे पीडने तथा5 BhNZ_09_056ab
संवाहने ऽसियष्टीनां दण्डकुन्तग्रहे तथा6 BhNZ_09_056cd
[ABh]

प्रत्येकमेक एव ह्ययं वाक्यार्थः । नाहं न त्वं न कृत्यमिति न च सर्वथा निषेधे अयमभिनयः;् अपि तु अर्थे अर्थनायां सत्यामीर्ष्याप्रणयकलहादाविति यावत्, अर्थनमर्थः, एरच्(पा 3-3-56) । सावङ्गं यदाह्वानं विसर्गश्च पञ्चभिरङ्गुलिक्षेपात्स्पृश्य इतिकर्तव्यता, सकृत् द्विस्त्रिर्वा प्रयोगयुक्त्या । धिगित्यनेन निन्दार्थेनानुपादेयं लक्ष्यते, ``किन्तेन वालवधपातकदूषितेन'' इत्यादावयमभिनय इत्यर्थः ।
मुष्टिमाह अङ्गुल्यो यस्येति । तलमध्य इति अङ्गुष्ठमूलाशङ्कां शमयति । अग्रे सम्यक्स्थिता इति अग्रगोपनविरलत्वं च परिहरति । उपरीति मध्यमाङ्गुलिदेशं सम्पीडयन्नित्यर्थः । संज्ञितः लोके ह्यत्रेव मुष्टिशब्दः प्रसिद्ध इत्यर्थः । व्यायाम इति युद्धे प्रतिमल्लप्रकोष्ठग्रहणे खड्गयुद्धे च । (1)सकल(असि?)ग्रहणात् छुरिकायुद्धदण्डधारण इत्यादि योज्यम् । निर्गमस्यार्द्रकसुरसादेः । पीडने स्तनपीडने महिष्यादिदोहने । संवाहने मृत्पीडने । असियष्टीनाम्, तथेति संवाहने वारणे मार्जने ।

[(मू)]

1. न॰ नेयं स्यान्नाहं न त्वं नकृत्यमिति ।

2. प॰ धिगिति च वचने सावज्ञम् ।

3. न॰ मध्याग्रसंस्थिताः

4. म॰ स तु मुष्टिरिति स्मृतः

5. न॰ निगमे हस्तपीडने, म॰ निर्गमे स्तनपीडने

6. द॰ यष्ट्यादिकुन्तदण्डग्रहेषु च, न॰ असियष्ट्यादिकुन्तगण्डग्रहे तथा

[(व्या)]

1. सकलग्रहणे

[page 39]




[NZ]

अस्यैव च यदा मुष्टेरूर्ध्वो ऽङ्गुष्ठः प्रयुज्यते1 BhNZ_09_057ab
हस्तः स शिखरो नाम 2तदा ज्ञेयः प्रयोक्तृभिः ॥ BhNZ_09_057cd
3रश्मिकुशाङ्कुशधनुषां4 तोमरशक्तिप्रमोक्षणे5 चैव । BhNZ_09_058ab
अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणे चैव6 BhNZ_09_058cd
अस्यैव शिखराख्यस्य 7द्व्यङ्गुष्ठकनिपीडिता । BhNZ_09_059ab
8यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ BhNZ_09_059cd
असिचापचक्रतोमरकुन्तगदाशक्तिवज्रवर्गाणि9 BhNZ_09_060ab
शस्त्राण्यभिनेयानि तु कार्यं पथ्यं च सत्यं च10 BhNZ_09_060cd
उत्क्षिप्तवक्रा11 तु यदानामिका सकनीयसी । BhNZ_09_060_2ab
[ABh]

शिखरमाह अस्यैव चेति । पुनर्मुष्टिग्रहणं मुष्टिकर्तॄणामधिकारे(1) शिखरेणाभिनेये द्वये तत्कर्मणां च दृढपीडनादौ मुष्टिमाह, अत एवोक्तं प्रयोक्तृभिरिति । रश्मिः प्रग्रहः किरणो वा तेषां संवाहनं ग्रहणमिति सम्बन्धः अत्र च द्वयोरेकस्य वा प्रयोगः उत्तानाधोमुखपार्श्वगोर्ध्वादिभिश्च । प्रयोगानुसारेणालकस्योत्क्षेपणं गण्डतलादेरुत्पीडनं वा कुटिलीकरणार्थम् ।
कपित्थमाह अस्यैवेति नामोच्चारणं पूर्ववत् प्रयोजनं, कपित्थाकारे ऽस्मिन् अङ्गुष्ठतर्जन्यावङ्गुली । शस्त्राणीति शराकर्षणानीत्यर्थः । कार्यं सुकृतम्, अत्र छोटिकाप्रयोगः ।
अथ खटकामुखमाह उत्क्षिप्तवक्रेति । उत्क्षिप्ता सती वक्रा अनामिका कनीयसी । पुनर्नामोच्चारणात् शराकर्षणकार्यसत्यपथ्यादावस्य प्रयोगः ।

[(मू)]

1. म॰ मुष्ट्योरूर्ध्वाङ्गुष्ठः प्रयुज्यते

2. प॰ तदा

3. म॰ रश्मिकशाङ्कुश

4. ढ॰ धनुषा

5. प॰ मोक्षणं

6. म॰ अलक्तकोत्पीडने चैव, प॰ अधरस्योत्क्षेपणे चैव

7. न॰ अङ्गुष्ठवः, प॰ मुखेङ्गुष्ठ

8. म॰ प्रदेशिनी च वक्रास्यादिति हस्तः कपित्थकः

9. द॰ वज्रवर्जानि, न॰ वज्र वर्ज्यानि, ड॰ वज्रबाणानि

10. म॰ यत्कार्यं स्यात्तथैव सत्यं च, न॰ पथ्यं च तथ्यं च, ड॰ सत्यं च पथ्यं च

11. प॰ चक्रा

[(व्या)]

1. मुष्टिकर्मणामनधिकारे

[page 40]




[NZ]

अस्यैव तु कपित्थस्य तदासौ 1खटकामुखः ॥ BhNZ_09_060_2cd
2होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकं च3 BhNZ_09_061ab
आदर्शधारणं खण्डनं तथा पेषणं चैव4 BhNZ_09_061cd
5आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव6 BhNZ_09_062ab
7स्रग्दामपुष्पमालावस्त्रान्तालम्बनं चैव ॥ BhNZ_09_062cd
8मन्थनशरावकर्षणपुष्पापचयप्रतोदकार्याणि9 BhNZ_09_063ab
अङ्कुशरज्ज्वाकर्षस्त्रीदर्शनमेव कार्यं च10 BhNZ_09_063cd
खटकाख्ये यदा हस्ते तर्जनी संप्रसारिता11 BhNZ_09_064ab
हस्तस्सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ BhNZ_09_064cd
[ABh]

तुरेकः पूर्वस्माद्विशेषे, तुर्द्वितीयो ऽवधारणे । विरलत्वं मनाक् अनामिका कनिष्ठिकयोर्भवति सहशब्दात् विश्लेषाशङ्का न स्यात् । खटकाङ्क्षायामित्यस्य क्षुत्तृट्पिपासार्तयोरिति वुन् । खटको विटभोग्रधूः(?)तस्य आमुखे यतो ऽयं वक्ष्यते ऽतः खटकामुखः । होत्रं स्रुगादि उत्तानेन । हव्यमाज्याद्यामुखेन प्रग्रहस्य वल्गादेः परिकर्षणं गतिरोधनाय, व्यजनं तालवृन्तादिकं चलता । आदर्शधारणं संमुखेन, आदर्शो ज्ञातो येनैव गौरीवाहाकारिकामनेनाभिनयन्ति(?) । खण्डनं तालवृन्तादेर्व्यजनव्यापारो वा । पेषणं कुङ्कमस्य मृगमदचन्द्रादेः हस्तद्वयेन भागद्वये दीर्घवृत्तचक्रक्रमणाक्षैः, ``परिवृत्तपाद'' इत्यादौ । आयतदण्डकाष्ठादीनां ग्रहणं, मुक्ताप्रालम्बानामादौ बाहुद्वयमुभयान्तग्रहणसूचकम् । वस्त्रान्तालम्बनं

[(मू)]

1. प॰ कटकामुखः

2. म॰ होत्रच्छत्रग्रहणं, ड॰ होतॄन् हव्यं छत्र

3. द॰ प्रग्रहाकर्षणं व्यजनकं च, प॰ प्रग्रहपरिकर्षणं व्यञ्जनं च, म॰ तथा व्यजनम्, न॰ प्रग्रहमाकर्षणं व्यजनकं च

4. द॰ धारणं तथा कण्डनं पेषणं चैव, म॰ धारणं वा कण्डूयनं तथान्वेषणं चैव, प॰ तथान्वेषणं चैव, ड॰ धारणं चावनतं तथा वेषं चैव, न॰ धारणं कण्डनं तथा पेषणं चैव

5. द॰ आदर्शे श्लोको ऽर्धः ``अङ्कुश'' इत्यनन्तरमस्ति, प॰ अङ्कुश

6. न॰ कुशकेशकलापसंग्रहं चैव, म॰ कुशाङ्कुशकलापसंग्रहं चैव

7. ढ॰ स्रग्दामधारणं खलु

8. म॰ मन्थानशराकर्षण

9. प॰ कान्यानि, ढ॰ काद्यानि

10. ड॰ एव कान्तं च, न॰ एककार्यं च

11. म॰ स्यात्प्रसारिता ।

[(व्या)]

[page 41]




[NZ]

1अस्य विविधान्प्रयोगान्वक्ष्यामि समासतः प्रदेशिन्याः । BhNZ_09_065ab
2ऊर्ध्वनतलोल3कम्पितविजृम्भितोद्वाहितचलायाः4 BhNZ_09_065cd
5चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव6 BhNZ_09_066ab
कुटिलगतयश्च सर्वे निर्देश्यास्साधुवादाश्च ॥ BhNZ_09_066cd
बालोरग7बल्यवधूमदीपवल्लीलताशिखण्डाश्च8 BhNZ_09_067ab
परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया9 BhNZ_09_067cd
भूयश्चोर्ध्वविरचिता तारा10घोणैकदण्डयष्टिषु च । BhNZ_09_068ab
[ABh]

विवाहे च वधूनां प्रणयकोपादौ च पथानुसारेण । आकर्षणस्य केलिवशेन केशादेरयमभिनयः । उत्तरीयालम्बनं स्वभावायोगात् स्त्रीप्रदर्शने ऽयमभिनयः, स्वक्षेत्रे चातुरश्र्यार्थं तत्कूर्परावधि द्वितीयस्य निवेशं कुर्वन्ति ।
सूचीमुखमाह खटकाख्य इति । सूच्याकारमेवास्य मुखम् । नताधोमुखा, लोला पार्श्वान्तरं यान्ती, कम्पिता तत्रैव स्पन्दमाना, विजृम्भिता कुञ्चिता प्रसारिता, उद्वाहिता ऊर्ध्वं गच्छन्ती, चला अभिनयत्वेन व्रजन्ती । (चक्रं) आयुधे कर्मोपकरणे रथाङ्गे च राष्ट्रजने च । चक्रे ऊर्ध्वमुखं पार्श्वगतं पार्श्वान्तरं भ्रमन्ती कार्या, विद्युत्यूर्ध्वमुखा गतागता । एवमन्यत्रोत्प्रेक्ष्यम् । मञ्जर्यो लताः;् कर्णचूलिका कर्णपूरः, कुटिलगतयो मीनाद्याः, साधुवादाः भद्रं शोभनमित्याद्याः, बालसर्पाणां पृथगुपादानं गतिवैलक्षण्यान्मीनेभ्यः । वल्लीलतामञ्जरीणामवान्तरभेद उत्प्रेक्ष्यः, तद्यथा --- अलाबूप्रभृतयो बल्ल्यः द्राक्षाप्रभृतयो लताः, चूतादीनां मञ्जर्यः । शिखण्डः कुमारकाणां काकपक्षः । परिपतनं पातः, वक्रं वक्रत्वं, मण्डलं वर्तुलत्वं, समाहारे द्वन्द्वः । भूयो बहुतरमित्यस्मिन्नर्थे चायमभिनयः । ऊर्ध्वलोलितत्वोक्तिः प्रयोगवृत्त्या वैचित्र्येण विभजनीया । तारा नक्षत्राणि । घोणा नासिका । (एकः) एकत्वसङ्ख्या । दण्डः

[(मू)]

1. ड॰ अस्या विविधान्योगान्

2. म॰ ऊर्ध्वानत

3. प॰ लोक

4. द॰ तलायाः

5. द॰ वक्त्रं, ड॰ चक्र, ढ॰ चक्रतटित्पाताका

6. द॰ कर्णदूतिकाश्चैव, म॰ चूलिका गण्डाः, प॰ चूलिकाश्चैष

7. प॰पल्लवधूम, ड॰ पल्लवधूप, म॰ पल्लवपुष्पदीप

8. द॰ वल्लीशिखण्डाश्च

9. ड॰ वक्त्रमण्डलमभिनेयं चोर्ध्वलोलितया, न॰ नतान्यूर्ध्वलोलितया, द॰ नेतान्यूर्ध्वतो ऽभिनयाः

10. ड॰ कार, न॰ घोषैक ।

[(व्या)]

[page 42]




[NZ]


विनता च 1तथा कार्या दंष्ट्रिषु च तथास्ययोगेन2 BhNZ_09_068cd
पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य3 BhNZ_09_069ab
4प्रणतोन्नते च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ BhNZ_09_069cd
5वदनाभ्याशे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या6 BhNZ_09_070ab
[श्रवणाभ्याशे वक्रा विजृम्भणे वाक्यरूपणावसरे ।] BhNZ_09_070cd
7मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना । BhNZ_09_071ab
[ABh]

परं प्रति तर्जनं । यष्टिः लगुडः पृथुर्वा, नक्षत्रे तर्जन्यूर्ध्वा । दंष्ट्रिषु चकाराद्दंष्ट्रित्वेनाप्रसिद्धेष्वपि राक्षसादिषु । आस्य योगो भागः सृक्किलक्षणस्तेन सम्बद्धा नता सती । तथेति तेन दंष्ट्राकारेण कार्या सम्मुखतला कार्येत्यर्थः । पुनरपीत्यूर्ध्वाधोमुखत्वप्रसृतमवधार्यते । ग्रहणमिति, भावप्रधानः सर्वशब्दः, कार्त्स्न्येन ग्रहणमित्यर्थः । लोकस्य प्रत्यक्षेणावलोक्यमानस्य वा स्मर्यमाणस्य वा । तथैवेति अयमिति पुरोनिर्देशेन, स इति च कर्णक्षेत्रे परावृत्तिनिर्देशेन, ग्रहणस्य लोकतः स्मरणात्मकमभिनयः । एकशब्देन प्रथमत्वात् आद्यो मुख्यो ह्रस्वश्च, वीप्सापेक्षया तत्र तत्र प्रणता, ऊर्ध्वा यान्ती दीर्घे तून्नता, विपरीता दिवसे एकतो ऽधस्तलप्रणता अन्यतः प्रोक्तानतलोन्नता परस्परश्लिष्टा संयुतकरणत्वेन पार्श्वात्पार्श्वसंवरणादुदयास्तमयसूचिका । पूर्वं कुञ्चिता ततो विजृम्भिता प्रसारिता वक्रान्तिके कार्यविचारे यदा(?)याप्युत्सारिताभिनीयते । ``श्रवणाभ्याशे वक्राधिका जृम्भणा रक्ता(वाक्य?)रूपणावसरे'' इति वा पाठः । मेति वारणार्थे प्रसारिता, वदेति अत्रार्थे उत्कम्पितोत्ताना कुञ्चितप्रसारितेत्यर्थः । रोषस्य दर्शने स्वेदमार्जने च प्रसारितैव ललाटपट्टादौ स्वेदं हरन्ती । कुन्तलाः केशाः, गण्डाश्रया पत्रभङ्गादयः;् तद्विषये ऽभिनये

[(मू)]

1. प॰ पुनः, द॰ ततः

2. म॰ दंष्ट्रासु यथार्हयोगेन, न॰ तथार्थयोगेन, प॰ दंष्ट्राषु तथास्ययोः कार्या

3. द॰ लाभश्च

4. न॰ प्रणतीकृता च कार्या ध्यायेदर्थे च दिवसे च, म॰ उन्नतनता च कार्या ह्याद्ये दीर्घे च

5. द॰ वचनाभ्यासे

6. म॰ विजृम्भिते वाक्यरूपणे कुर्यात्, न॰ वाक्यरूपेण, ड॰ वाक्यरूपणे च मखे

7. द॰ स इति पदे च, न॰ स इति वदिति नियोज्या, प॰ स इति तदिति ।

[(व्या)]

[page 43]




[NZ]

कार्या प्रकम्पिता 1रोषदर्शने स्वेदरूपणे2 चैव ॥ BhNZ_09_071cd
कुन्तलककुण्डलाङ्गदगण्डाश्रयसंश्रये ऽभिनये3 BhNZ_09_072ab
4गर्वे ऽहमिति ललाटे रिपुनिर्देशे तथैव च क्रोधे ॥ BhNZ_09_072cd
को ऽसाव् इति 5निर्देशे च कर्णकण्डूयने चैव । BhNZ_09_073ab
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च ॥ BhNZ_09_073cd
कलहे स्वस्तिकयुक्ता परस्परोत्पीडिता बन्धे । BhNZ_09_074ab
द्वाभ्यां तु वामपार्श्वे6 दक्षिणतो 7दिननिशावसानानि ॥ BhNZ_09_074cd
अभिमुखपराङ्मुखीभ्यां8 विश्लिष्टाभ्यां प्रयुञ्जीत9 BhNZ_09_075ab
[द्वाभ्यां10 प्रदर्शयेन् नित्यं सम्पूर्णं चन्द्रमण्डलम् ॥ BhNZ_09_075cd
श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया11 ।] BhNZ_09_076ab
[ABh]

कर्तव्ये तत्क्षेत्रगा । गर्वे यो ऽहङ्कारः तत्राभिनये ललाटगता । रिपोः प्रत्यक्षस्य निर्देशे अग्रनता, परोक्षस्य रणपूर्वसंरभस्तु विशेषः अनुसन्धाने त्रितयात्मिका ``स चायं दुष्टात्मा'' इति । क्रोध इति संरम्भपूर्वः कोपः पूर्वकृत इति । किमर्थात्मा प्रश्नः, तत्रासाविति च दूरगतवस्तुनिर्देशे । (1)कर्णकण्डूयनं प्रसिद्धम्(2), कटुकवचनमपि च । संयुक्तेति अधस्तलयोः पार्श्वनैरन्तर्यादित्यर्थः । तद्विभागात्तु भुवि विश्लेषिताभ्यां (3)द्वाभ्यामभिमुख [परिमुखे] पराङ्मुखाभ्यां वामपार्श्वं गच्छन्तीभ्यां दिनावसानमभिनयेत्(4) । वामो हि सोमस्य दक्षिणस्तु सूर्यस्याग्रभागः दक्षिणपार्श्वं गच्छन्तीभ्यां निशावसानं । विश्लिष्टाभ्यामिति तालमात्रान्तराभ्यामिति दीर्घह्रस्वतांशत्वादौचित्यौपचारिकाभ्यां द्वाभ्यां त्वित्यङ्गुष्ठप्रसारणे

[(मू)]

1. न॰ रोमदर्शने

2. म॰ स्वेदमार्जने, न॰ स्वेदरूपेणैव

3. द॰ श्रयसंयथाभिनये, म॰ श्रयमण्डनाभिनये

4. द॰ सर्वे ऽहमिति

5. म॰ निर्देशे ऽथ कर्णे, द॰ निर्देशे कर्ण

6. प॰ वामगमनं

7. ड॰ दिशि

8. न॰ मुखाभ्यां

9. द॰ वियुञ्जीत

10. प॰ संदर्शयेत्, ढ॰ तु दर्शयेत्

11. ढ॰ कार्याभ्युत्थान संश्रिता, द॰ संस्थिता, ड॰ कार्योत्थानं सुसंश्रितम्, म॰ कार्याभ्युत्थानसंस्थिता ।

[(व्या)]

1. कण्डूयनः

2. प्रसिद्धः

3. द्वाभ्यामन्योन्यपरिमुखे

4. अभिनेयम् ।

[page 44]




[NZ]

1परिमण्डलं भ्रमितया मण्डलमादर्शयेच्च चन्द्रस्य । BhNZ_09_076cd
हरनयने च ललाटे शक्रस्य च तिर्यगुत्ताना । BhNZ_09_077ab
[पुनरपि च 2भ्रमिताग्रा रूपशिलावर्तयन्त्रशैलेषु3 BhNZ_09_077cd
परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम्4 BhNZ_09_078ab
5श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे 6कार्या ॥ BhNZ_09_078cd
शक्रस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ।] BhNZ_09_079ab
यस्याङ्गुल्यस्तु विरलाः सहाङ्गुष्ठेन कुञ्चिताः ॥ BhNZ_09_079cd
7ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत्पद्मकोशकः । BhNZ_09_080ab
बिल्वकपित्थफलानां ग्रहणं कुचदर्शनं च नारीणाम्8 BhNZ_09_080cd
ग्रहणे हय् आमिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु9 BhNZ_09_081ab
[बहुजातिबीजपूरकम् आमिषखण्डं च निर्देश्यम् ।]10 BhNZ_09_081cd
[ABh]

सति आकुञ्चनादित्यर्थः । परिमण्डलं भ्रमितया मण्डलमादर्शयेच्च चन्द्रस्येति । चशब्दो विकल्पार्थः । हरस्य भगवतस्तृतीयनयने प्रदर्शिते सति यदभिनयनं तत्र कर्तव्ये सति ललाटे ऊर्ध्वा वा कार्या । एवं शक्रस्याभिनयने ललाट एवोत्ताना तिरश्चीना च, अङ्गुल्या एवात्र प्राधान्यात् । खटकामुखमध्यमया यल्लोके महेश्वरशक्राभिनयनं दृश्यते तत्रालाक्षणिकं मन्तव्यम् ।
अथ पद्मकोशं लक्षयति यस्याङ्गुल्यस्तु विरला इति । ऊर्ध्वा इति चतुर्वेदवचना(?) इति यावत् । पद्मस्येव कोशे ऽभ्यन्तरं विनतं यस्येति तथा । ग्रहणमिति गृह्यते ऽनेनेति ग्रहणमभिनय इत्यर्थः । एवं कुचौ दृश्येते अनेनेति कुचदर्शनं पद्मकोश इति पूर्वेण संबन्धः । बिल्वादीनां तु ग्रहणे ता एवाङ्गुल्यो ऽग्रपर्वण्यतिकुञ्चिताश्च

[(मू)]

1. ड॰ आदर्शे नास्ति

2. न॰ भूमिकाग्राकूपशिला

3. म॰ शिखरेषु

4. प॰ नित्या

5. म॰ श्लिष्टे

6. प शम्भुरूपेण

7. न॰ ऊर्ध्वाभ्युत्संगताग्रा च

8. म॰ ग्रहणे युवतिस्तनाभिनयने च, द॰ स्तनाभिनयनं च वालनारीणाम्

9. म॰ कुञ्चितास्तास्तु

10. द॰ पूरकनिदर्शनं चापि कर्तव्यम् ।

[(व्या)]

[page 45]




[NZ]

देवार्चनबलिहरणे समुद्गके1 साग्रपिण्डदाने च । BhNZ_09_082ab
कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन2 BhNZ_09_082cd
3मणिबन्धनविश्लिष्टप्रविरलचलिताङ्गुलिकराभ्याम्4 BhNZ_09_083ab
कार्यो 5विवर्तिताभ्यां विकसितकमलोत्पलाभिनयः ॥ BhNZ_09_083cd
अङ्गुल्यः 6संहतास्सर्वाः 7सहाङ्गुष्ठेन यस्य च । BhNZ_09_084ab
तथा निम्नतलश् चैव स तु सर्पशिराः 8करः ॥ BhNZ_09_084cd
एष सलिलप्रदाने भुजगगतौ तोयसेचने चैव । BhNZ_09_085ab
9आस्फोटने च योज्यः 10करिकुम्भास्फालनाद्येषु11 BhNZ_09_085cd
अधोमुखीनां सर्वासाम् अङ्गुलीनां समागमः12 BhNZ_09_086ab
कनिष्ठाङ्गुष्ठकावूर्ध्वौ 13स भवेन्मृगशीर्षकः ॥ BhNZ_09_086cd
[ABh]

भवन्ति । क्रव्यादानामामिषलाभे आमिषग्रहणे च । लभिरत्र ग्रहणे । आमिषलाभे सति यद्ग्रहणं तत्रेति केचित् । बलेर्हरणं दानं, वैचित्र्यप्रापणं वा । अग्रपिण्डो गवादेः, भोजनाय, मृतस्य वा, यत्र यत्रोत्सवादौ नान्दीमुखश्राद्धादावपसव्यता न कार्या पर्यग्रं पिण्डदानम् । पुष्पप्रकरश्चेति द्विस्त्रिर्विकीर्णाग्रेण ।
सर्पशिरसमाह अङ्गुल्यस्संहता इति । संहताः श्लिष्टाः सहाङ्गुष्ठेनेति कुञ्चितो ऽङ्गुष्ठ इत्यर्थः । निम्नं तलं मध्यस्याभिमुखस्य, सर्पशिरस्तुल्यत्वाद्वा तस्येदं नाम । सलिलप्रदाने देवेभ्यः, सलिले च प्रतिग्रहार्थं प्रदीयमाने प्रतिग्रहीतुरभिनयो

[(मू)]

1. म॰ समुद्गते, ढ॰ समग्रके, ड॰ संहूते चाग्र

2. म॰ पुष्पप्रकर्यः पुष्पप्रकरश्च पद्मकोशेन

3. प॰ मणिबन्धश्लिष्टाभयां

4. न॰ चतुराङ्गुलीकराभ्यां तु, प॰ चलिताङ्गुलीयुतकराभ्याम्, म॰ चलिताङ्गुलिभ्यां कराभ्याम्

5. ड॰ कार्योपवर्तिताभ्यां, न॰ कार्यो विचिन्तिताभ्यां

6. म॰ संगताश्चोर्ध्वाः सताङ्गुष्ठेन यस्य तु, ढ॰ संहता

7. ड॰ सर्वाङ्गुष्ठेन यस्य तु

8. ड॰ शिरः

9. न॰ आस्फोटनेषु

10. द॰ योध

11. द॰ स्फालने चैव

12. न॰ समागतः, द॰ समासतः

13. द॰ तदासौ ।

[(व्या)]

1. गङ्गादेः ।

[page 46]




[NZ]

इह साम्प्रतमस्त्यद्य 1च शक्तेश्चोल्लासने ऽक्षपाते च । BhNZ_09_087ab
स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु2 भवेत् ॥ BhNZ_09_087cd
3त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका यदा4 BhNZ_09_088ab
5काङ्गुले ऽनामिका वक्रा तथा चोर्ध्वा कनीयसी ॥ BhNZ_09_088cd
एतेन तरुणफलरूपणानि6 नानाविधानि च 7लघूनि । BhNZ_09_089ab
[ABh]

येन । सर्पगतावधोमुखः । तोयोपसेचनं कुङ्कुमचन्दनादौ । आस्फोटनं मल्लयुद्ध ऊरुवाह्वादिषु ।
मृगशीर्षकमाह मृगस्येव शिरस्स्थे शृङ्गे यस्य । शीर्षशब्दः प्रकृत्यन्तरम् । इहेति प्रत्यक्षाधिकरणनिर्देशः । साम्प्रतमिति वर्तमानकालनिर्देशे । अस्तीत्यभ्युपगमाभिनये संभवाभिनये च । अद्येति वर्तमाननिर्देशेन गतार्थत्वे ऽपि साभिनयेन सूचीमुखेन बाधा माभूदिति पुनरुपात्तम् । एतावत्यधोमुखो ऽयं । शक्तेरुल्लासने ऽक्षपाते चोर्ध्वमुखः । गण्डादौ स्वेदमार्जने तदाभिमुखतल ऊर्ध्वमुखः । कुट्टमितं हर्षवशात्सह दुःखोपचारेण स्त्रीणां चेष्टालङ्कारः, तत्राभिमुखतलो बाह्ये विकीर्णाङ्गुलिः(1) ।
काङ्गुलमाह त्रेताग्निसंस्थता इति । त्रेतारूपा अग्नयः आहवनीयादयः, तद्वत्संस्थानमासामिति । विरलयोः श्लिष्ट एवाग्रगो ऽङ्गुष्ठ इत्यर्थः । (2)कङ्गुः प्रियङ्गुः तां लातीति तस्यायमर्थः । कङ्गूच्चयने कीदृशः करो भवति । काङ्गुलो वृश्चिक इति तु केचित् । एतेन तरुणानि फलानि तेषामुद्योते, मुक्ताफलवदराणि गत्या लघूनीति परिमितानि मृत्पिण्डग्रासानीत्यर्थः । अङ्गुल्यः अङ्गुष्ठस्तर्जनीमध्ये च तासां वहिःक्षेपः ।

[(मू)]

1. प॰ शक्योचेल्लालनेक्षुपाते च, ड॰ शक्याचेल्लालने ऽक्ष, म॰ च शक्याश्चोल्लालो ऽक्षपाते च । उत्कर्षे वस्त्रस्य च रशनायां चैव विनियोज्यः ।

2. प॰ प्रचलितं तु

3. प॰ प्रेताग्नि

4. प॰ तर्जन्यङ्गुष्ठकास्तथा

5. प॰ लाङ्गुले, द॰ अङ्गुली

6. न॰ फलरूपाणि, ड॰ फलानि, म॰ फलनिरूपणानि रत्नानि, द॰ फलरूपणानि नानाविधानि योगेन

7. ड॰ लघूनि कार्याणि

[(व्या)]

1. विस्तीर्णाङ्गुलिः

2. हेङ्गुष्ठ

3. कङ्गूः प्रियङ्गूः ।

[page 47]




[NZ]

कार्याणि 1रोषजानि स्त्रीवचनान्यङ्गुलिक्षेपैः2 BhNZ_09_089cd
(3मरकतवैडूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । BhNZ_09_090ab
ग्राह्यं बिडालपदमिति तज्ज्ञैरेवं प्रयोगेषु ॥ ) BhNZ_09_090cd
4आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । BhNZ_09_091ab
5पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः6 BhNZ_09_091cd
प्रतिषेधकृते योज्यः कस्यत्वंनास्तिशून्यवचनेषु7 BhNZ_09_092ab
पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ BhNZ_09_092cd
तिस्रः 8प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । BhNZ_09_093ab
तासां 9मध्ये स्थितो ऽङ्गुष्ठः स करश्चतुरः 10स्मृतः ॥ BhNZ_09_093cd
[ABh]

अलपल्लवमाह आवर्तिता इति । कनिष्ठादिक्रमेण वर्तना परिवर्तनं वा कुर्वन्त्यः । इयतीत्यपरः चलः चलत्पल्लवाकारत्वादलपल्लवः । अलपद्मक इति (च) तन्नाम । प्रतिषेधस्य कृते अभिनयकरणाय । कस्य त्वमिति, नास्तीति च मिथ्याधिक्षेपार्थे च । शून्यवचनानि `तच्छास्त्रमसत्प्रयुक्त'मित्यादीनि । पुनरर्थे अहमर्थे उपन्यासे च विस्मये अभिनयः स्त्रीणामुपन्यस्यते पुनःपुनरभिनीयते विस्मयापादकत्वादित्युपन्यासः ।
चतुरमाह तिस्रः प्रसारिता यत्रेति । मध्य इति मध्यमाया मध्य एव । चत्वारो ऽङ्गुल्यङ्गुष्ठश्लिष्टत्वेन सन्त्यस्मिन्निति, अच्प्रत्ययाकारान्तश्चतुरशब्दः । चत्वार्यभिनयनाद्वा चतुरः । सत्त्वकैतवादिषु मुखरागभेदाद्भेदः । विवृतं प्रकारमेकेन, अनावेशे तु द्वाभ्यां, नयनयोरभिनेययोः उपमानोपमेयभावे पद्मदलादिके

[(मू)]

1. म॰ रोषजनि तु, न॰ रोषजानि च

2. द॰ द्व्यङ्गुलिक्षेपैः

3. म॰ अयं श्लोकः, क॰, म॰ योर् एवास्ति

4. न॰ आवर्तिन्यः

5. ड॰ पार्श्वागता

6. म॰ सो ऽलपद्म इति स्मृतः, द॰ अलपद्मः स कीर्तितः, ड॰ स भवेदलपद्मकः

7. न॰ वचने च

8. न॰ प्रसारिताङ्गुल्यः, म॰ प्रसारिता यस्य, द॰ प्रसारिताङ्गुल्यस्तथा

9. प॰ मध्यस्तथाङ्गुष्ठः

10. ड॰ करश्चतुरकः ।

[(व्या)]

1. लीलाद्यं तेन

2. आनुरूप्यं ।

[page 48]




[NZ]

1नयविनयनियमसुनिपुणबालातुरसत्त्वकैतवार्थेषु2 BhNZ_09_094ab
3वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ BhNZ_09_094cd
4एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन5 BhNZ_09_095ab
6विवृतविचारितचरितं 7वितर्कितं लज्जितं चैव ॥ BhNZ_09_095cd
8नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः9 BhNZ_09_096ab
10संयुतकरणेनैव तु चतुरेणैतानि कुर्वीत11 BhNZ_09_096cd
12लीलारती रुचिं च 13स्मृतिबुद्धिविभावनाः क्षमां पुष्टिम्14 BhNZ_09_097ab
संज्ञामात्रां प्रणयं15 विचारणं16 सङ्गतं शौचम् ॥ BhNZ_09_097cd
चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम्17 BhNZ_09_098ab
प्रश्नं वार्तायुक्तिं18 वेषं19 मृदु शाद्वलं स्तोकम्20 BhNZ_09_098cd
[ABh]

चैकाकितां निषेद्धुमेवकारः । परगतं लीलाद्यनेनाभिनियत इति । रुचिं दीप्तिम् । विभावनां ऊहापोहरूपां प्रकर्षं वा । दृष्टिव्यापारे तु कर्तरीमुख एव । सङ्गतं मैत्रीमन्योन्यमग्रश्लेषात्, माधुर्यं हृद्यं, शकारादिवचनादिषु, दाक्षिण्यमानुकूल्यं, मार्दवं मृदुत्वम् अङ्गुष्ठमध्यादर्शनेन । शीलं स्वभावं, वेषं नेपथ्यं वेशं वा गणिकास्थानं, विभवं पार्श्वात्पार्श्वं गच्छता, अभि(वि?)भवमभिगच्छता

[(मू)]

1. ड॰ नयननिपुणसमसुनिपुणवालातुरशाठ्यकैतवार्थेषु, द॰ नयविनयमुनिप्रणिपुणवालान्तरसत्यकैतवार्थेषु, न॰ नयविनयनियमसुनिपुणरचितवितर्कितं लज्जितं चैव

2. म॰ नियमसुनिपुणबालातुरसत्यकैतवार्थेषु

3. प॰ वाक्ये मध्ये पुत्रे पद्ये प्रशमे, द॰ वाक्ये युक्ते पथ्ये मध्ये

4. ढ॰ एतेन

5. प॰ मण्डलितहस्तदण्डेन, म॰ मण्डलगतेन हस्तेन

6. प॰ विधृतविचरितचरितं, म॰ विहृतविवारितचरितं

7. ड॰ विवर्तितं

8. द॰ नयनौपम्ये

9. प॰ कण्ठनिर्देशम्, म॰ कर्णनिर्देशाः

10. द॰ संवृत, न॰ संयुतकरेणैव

11. म॰ युञ्जीत

12. ड॰ लीलान्तरतिरुचिं, म॰ लीलारतिं, द॰ लीलां रतिं, प॰ लीलां रतिं कुचं च

13. म॰ स्मृतिबुद्धी विभावनां

14. ड॰ क्षमं पुष्टिम्, न॰ क्षमं तुष्टिम्

15. प॰ पुष्टिं

16. द॰ विधारणं

17. द॰ सुखं स्मृतिं शीलम्

18. ड॰ वार्तां युक्तिं

19. न॰ वेदं, म॰ वेशं, प॰ देशं

20. म॰ शाद्वलस्तोकम् ।

[(व्या)]

[page 49]




[NZ]

1विभवाविभवौ सुरतं गुणागुणौ यौवनं गृहं2दारान् । BhNZ_09_099ab
नानावर्णांश्च तथा चतुरेणैवं3 प्रयुञ्जीत ॥ BhNZ_09_099cd
[सितमूर्ध्वेन तु कुर्याद्रक्तं पीतं4 च मण्डलकृतेन । BhNZ_09_100ab
परिमृदितेन 5तु नीलं6 वर्णांश्चतुरेण हस्तेन7 ॥ ] BhNZ_09_100cd
मध्यमाङ्गुष्ठसन्दंशो8 वक्रा चैव प्रदेशिनी । BhNZ_09_101ab
ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ9 भ्रमरे करे ॥ BhNZ_09_101cd
पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम्10 BhNZ_09_102ab
पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपूरश्च ॥ BhNZ_09_102cd
[11विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु । BhNZ_09_103ab
12बालालापे च शीघ्रे च 13ताले विश्वासने तथा ॥ ] BhNZ_09_103cd
तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः14 BhNZ_09_104ab
[ABh]

चाभिनयेदित्येवमन्यदुत्प्रेक्ष्यम् । दारान् संयुताभ्यां(1) संमुखस्वस्तिकेन दर्शयेदिति । एवं वक्षःप्रभृतिशिरो ऽन्तं(2) क्षेत्रविशेषः संयुतासंयुतत्वे चञ्चलत्वस्थिरत्वे संमुखपराङ्मुखोत्तानाधोमुखत्र्यश्रत्वादिकं च यतायोगमुत्प्रेक्ष्य अभिनयविशेषं कुर्यात् ।
भ्रमरं दर्शयति मध्यमाङ्गुष्ठेति । सन्दंशो ऽग्रसंयोगः । तदाकृतित्वाद्भ्रमरो हस्तः ।
हंसवक्रमाह तर्जनीमध्यमाङ्गुष्ठा इति । निरन्तरा इति विरलत्वं निषेधति । श्लक्ष्णादयः श्लक्ष्णत्वादौ वर्तते । प्रस्पन्दनमर्दनमथनविधूननक्षेपणाभ्यावर्तापसारणादि रूपं यथायोगं युक्त्या योज्यम् ।

[(मू)]

1. प॰ विभवाभिभवौ

2. द॰ गृहान्

3. ड॰ चतुरेणैव

4. द॰ पातं

5. न॰ च

6. म॰ लीनां

7. न॰ वर्णं चतुरं च युञ्जीत

8. प॰ मध्यमाङ्गुष्ठकं देशे, ब॰ संदंशौ

9. ड॰ अङ्गुल्यो

10. म॰ दीर्घविवृतानाम्

11. प॰ विद्युतश्च सहजश्च

12. प॰ बलालापे

13. प॰ ताल, फ॰ वाल

14. म॰ निरन्तरम् ।

[(व्या)]

1. संयुक्ताभ्यां[

2. पक्षःप्रभृतिशिखरान्तं ।

[page 50]




[NZ]

भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ BhNZ_09_104cd
1श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगे च2 BhNZ_09_105ab
कार्यो ऽभिनयविशेषः किञ्चित्प्रस्पन्दिताग्रेण3 BhNZ_09_105cd
4समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । BhNZ_09_106ab
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ BhNZ_09_106cd
5एष च निवापसलिले दातव्ये गण्डसंश्रये6 चैव । BhNZ_09_107ab
कार्यः प्रतिग्रहाचमन7भोजनार्थेषु विप्राणाम् ॥ BhNZ_09_107cd
आलिङ्गने महास्तम्भदर्शने8 रोमहर्षणे चैव । BhNZ_09_108ab
9स्पर्शे ऽनुलेपनार्थे योज्यः10 संवाहने चैव ॥ BhNZ_09_108cd
पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः11 BhNZ_09_109ab
कार्या यथारसं स्युर्दुःखे12 हनुधारणे चैव ॥ BhNZ_09_109cd
[ABh]

हंसपक्षमाह समाः प्रसारिता इति कनीयस्या ऊर्ध्वम् । तथेति परिश्लिष्टा मूलविनताः कार्या इति यावत् । निवापसलिले तस्योदके दातव्ये धर्मार्थं चोदकदाने । पराङ्मुखाङ्गुलिपृष्ठेन च चिन्तया (1)गण्डसंश्रयणे केचित् । तदसत्, हनुधरिणं ह्येतत्, कस्माद्गण्डसंश्रयं पत्रभङ्गादि । आलिङ्गने महास्तम्भे चाभिनेये संयुतकरणत्वं मन्तव्यं, बाहुद्वयमण्डलीकरणेन रोमहर्षणाद्द्वितीयस्कन्धात् स्कन्धान्तरगमनं, परोक्षे प्रियजनस्पर्शे द्वितीयहस्तस्वस्तिकेन । अनुलेपेन अङ्गसमालम्भने । यथारसमिति शृङ्गारहास्याद्भुतादौ करुणादावपि व्यभिचारिविशेषयोगात्(2) संभाव्यत एवायम् । दुःखे च सति

[(मू)]

1. म॰ श्लक्ष्णाङ्ग

2. ड॰ निस्सारार्थामृदुतत्त्वयोगेषु, द॰ निस्सारार्थं मृदुतत्त्वयोगेषु

3. म॰ प्रसारिताग्रेण

4. द॰ तिस्रः प्रसारिताङ्गुल्यः, न॰ समाः प्रसारिताङ्गुल्यः

5. प॰ एष विधिनिवाप, द॰ एष हि

6. ड॰ गन्धसंश्रये

7. द॰ ग्रहाशन

8. न॰ तरुस्तम्भदर्शने, ब॰ आलिङ्गनातरुस्तम्भदर्शने

9. ढ॰ स्पर्शे तु

10. म॰ कार्यः

11. न॰ स्तनान्तरसूचनविभ्रमविषादाः

12. प॰ स्याद्दुःखे

[(व्या)]

1. गन्धसंश्रये

2. भेदात्

[page 51]




[NZ]

तर्जन्यङ्गुष्ठसन्दंशस्त्वरालस्य1 यदा भवेत् । BhNZ_09_110ab
आभुग्नतलमध्यस्थः2 स सन्दंश इति स्मृतः ॥ BhNZ_09_110cd
सन्दंशस्त्रिविधो ज्ञेयस्त्वग्रजो मुखजस्तथा । BhNZ_09_111ab
तथा पार्श्वगतश्चैव3 रसभावोपबृंहितः ॥ BhNZ_09_111cd
पुष्पापचयग्रन्थने ग्रहणे तृणपर्णकेशसूत्राणाम् । BhNZ_09_112ab
4शल्यावयवग्रहणे प्रकर्षणे चाग्रसन्दंशः ॥ BhNZ_09_112cd
वृन्तात्पुष्पोद्धरणं 5वर्तिशलाकादिपूरणं चैव । BhNZ_09_113ab
धिगिति च वचनं रोषे6 मुखसन्दंशस्य कर्माणि ॥ BhNZ_09_113cd
यज्ञोपवीत7धारणवेधन8गुणसूक्ष्मबाणलक्ष्येषु9 BhNZ_09_114ab
10योगे ध्याने स्तोके 11संयुतकरणस्तु कर्तव्यः ॥ BhNZ_09_114cd
[ABh]

हनुधारणं यत्तदत्र रसेषु ये भावाः अनुभावा दृष्टिविशेषरोमाञ्चादयः तैरुपबृंहितः स्फुटीकृत(श्लो-111)इति सर्वहस्तविशेषाय मन्तव्यं मध्ये परिभाषणात् ।
सन्दंशमाह तर्जन्यङ्गुष्टसन्दंश इति स्पष्टार्थः । पुष्पाणां सूक्ष्माणामपचये अग्रसन्दंशः शल्यानां कण्टकादीनां ग्रहणे । वृन्तमाकृष्य पुष्पस्योद्धरणं यदा कुङ्कुमपुष्पादिः । वर्तिशलाकया अञ्जननाडिकावर्तिकया (1)न्यूनादीनां पूरणम् । वेधने मुक्तादीनां, यो गुणो धनुराकृते(ष्टे?)स्तत्र संयुतकरणत्वं च न संश्लेषणस्यैव, अपि तु हस्तद्वयाधारमात्रम्वेव । तच्च पार्श्वद्वयगतत्वेन उपर्युपरिभावेनोत्प्रेक्ष्यम् ।

[(मू)]

1. ड॰ संदंशो ह्यरालस्य

2. ड॰ मध्यश्च

3. प॰ पार्श्वकृतश्चैव

4. ठ॰ शिल्पायवयग्रहणे, ड॰ शल्याकर्षग्रहणापकर्षणे, ढ॰ शल्यावयवग्रहणापकर्षणे, प॰ शिल्पाकर्षग्रहणप्रकर्षणे, न॰ शल्यावयवग्रहणावकर्षणे

5. प॰ वर्त

6. प॰ धिगिति वचने च रोषे, च॰ भाषणमीषत्, न॰ वचने रोषात्

7. न॰ निर्धन, ड॰ निधन

8. छ॰ वर्धन

9. ड॰ बाणलक्षेषु, न॰ बाललक्ष्येषु

10. प॰ योगस्थाने, ड॰ योगध्याने

11. ड॰ संयुक्तकरस्तु, न॰ संयुतकरणाः प्रकर्तव्याः ।

[(व्या)]

1. न्यूनादिना ।

[page 52]




[NZ]

1पेलवकुत्सासूयासदोषवचने2 च वामहस्तेन । BhNZ_09_115ab
किञ्चिद्विवर्तिताग्रः3 प्रयुज्यते पार्श्वसन्दंशः ॥ BhNZ_09_115cd
आलेख्यनेत्ररञ्जनवितर्कवृन्त4प्रवालरचनं च5 BhNZ_09_116ab
6निष्पीडनं तथालक्तकस्य कार्यं च नारीभिः ॥ BhNZ_09_116cd
7समागताग्रास्सहिता यस्याङ्गुल्यो भवन्ति हि । BhNZ_09_117ab
8ऊर्ध्वा 9हंसमुखस्यैव स भवेन्मुकुलः करः ॥ BhNZ_09_117cd
10देवार्चनबलिकरणे11 पद्मोत्पलमुकुलरूपणे12 चैव । BhNZ_09_118ab
विटचुम्बने च कार्यो विकुत्सिते13 विप्रकीर्णश्च14 BhNZ_09_118cd
[ABh]

वेलवमसारम् । प्रवालस्य रचनं गण्डतलबाहुशिखरादौ पत्रभङ्गकरणमित्यर्थः । यदि वा पल्लवस्यैव पत्रच्छेद्यालङ्कृतस्य ललाटादौ निवेशितस्य तत्रापसंश्लेषणार्थमस्य हस्तस्य प्रयोगः । नारीभिरिति परिमितालक्तकपीडनमनेनेति दर्शयति ।
मुकुलमाह समागताग्रा इति । मुकुलाकारत्वान्मुकुलः । देवार्चनादिप्रारम्भे मुकुलव्यापारावेशे तु पद्मकोशवदिति(1) पठता पिटकस्य चुम्बन इति केचित् । शपिटेति (विटेति?) पाठः । स्वाभिप्रायमाविष्कर्तुं(2) प्रमदासन्निधौ स्वहस्तमेवमुकुलितं विटाश्चुम्बन्तीति विटचुम्बनम् । यदि वा विटैर्नारीणां कुचचिबुकादिस्थानेषु अङ्गुलिपञ्चकेन समं सशब्दं नखस्पर्शने कामसूत्रेष्वाच्छुरितकमिति

[(मू)]

1. प॰ एवं कुत्सा

2. न॰ सदूषवचने

3. ड॰ किञ्चिद्वर्तिकराग्रः, न॰ किञ्चिद्विवर्तितो ऽग्रः

4. प॰ वृत्त, छ॰ वचनं

5. ड॰ रचनेषु

6. ड॰ निष्पीडितं

7. प॰ समागताग्रसहिता

8. न॰ ऊर्ध्वं

9. प॰ हंसमुखस्येव

10. प॰ देवार्चने

11. म॰ हरणे

12. छ॰ कुमुदरूपणे

13. छ॰ विकुत्सितो

14. च॰ विप्रकीर्णस्य, प॰ विप्रकीर्णे च ।

[(व्या)]

1. पद्मकोशमिति

2. आविष्कृतं ।

[page 53]




[NZ]

1भोजनहिरण्यगणनामुख2सङ्कोचप्रदानशीघ्रेषु । BhNZ_09_119ab
मुकुलितकुसुमेषु तथा तज्ज्ञैरेष प्रयोक्तव्यः3 BhNZ_09_119cd
पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः4 कुञ्चिता यदा5 BhNZ_09_120ab
ऊर्णनाभः सः विज्ञेयः6 केशचौर्यग्रहादिषु ॥ BhNZ_09_120cd
शिरःकण्डूयने चैव 7कुष्ठव्याधिनिरूपणे । BhNZ_09_121ab
सिंहव्याघ्रेष्वभिनयः 8प्रस्तरग्रहणे9 तथा ॥ BhNZ_09_121cd
मध्यमाङ्गुष्ठसन्दंशो10 वक्रा11 चैव प्रदेशिनी । BhNZ_09_122ab
शेषे तलस्थे कर्तव्ये 12ताम्रचूडकरे ऽङ्गुली13 BhNZ_09_122cd
14विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु । BhNZ_09_123ab
15ताले विश्वासने चैव 16शीघ्रार्थे संज्ञितेषु च17 BhNZ_09_123cd
[ABh]

तद्विटचुम्बनम् । हिरण्यं कङ्कणद्वारेणाभिनीयते ऽङ्गुलीयकादीनां तु मोचने । गणना पञ्चसङ्ख्या । तज्ज्ञैरित्युचितामितिकर्तव्यतामनुसन्धापयति ।
ऊर्णनाभमाह पद्मकोशस्येति । ऊर्णनाभिर्जालकारः क्रिमिः । तस्य यतो मक्षिकादिग्रहणे ईदृक्करणानां सन्निवेशो भवत्यतो मत्वर्थीयो ऽत्राच्प्रत्ययः । केशानां ग्रहणे चौर्येण परदर्शनशङ्कया(1) लाघवाद्यद्ग्रहः । यत्र सिंहव्याघ्रादिस्वास्तिकेन चिबुकक्षेत्रगतेनाभिनयेत् । ते हि स्थिताः स्वस्तिकेन, आसने कररुहवन्तश्च । प्रस्तरः पाषाणः, निकषपाषाण इत्यन्ये । (2)दर्भच्छटा इत्येके ।
ताम्रचूडमाह मध्यमाङ्गुष्ठसन्दंश इति । चूडामुक्तकुक्कुटाकारत्वात्ताम्रचूडः । तालेष्विति ? (ताल इति ?)कालमानो यथा क्वचित्तालभुवि सहिज्ज्यु(?)इत्यादौ ।

[(मू)]

1. प॰ आदर्शे नास्ति

2. न॰ गणतासुख

3. न॰ तज्ञैरेवं प्रयोक्तव्यम्

4. म॰ त्वङ्गुल्यः, ड॰ अङ्गुल्यः

5. न॰ कुञ्चितास्तथा

5. प॰ चौर्यकेश

6. प॰ कुष्ठस्याधि

7. प॰ व्याघ्राद्यभिनयः, न॰ व्याघ्राद्यभिनये, म॰ व्याघ्राभिनये

8. छ॰ प्रशस्तग्रहणे

9. प॰ ग्रथने

10. छ॰ सन्दंशौ

11. ढ॰ वक्त्रा

12. छ॰ ताम्रचूडे

13. न॰ कराङ्गुली

14. प॰ विच्युतिश्च, क॰ व्युत्पन्नश्च, च॰ व्युच्युतश्च

15. प॰ तालेष्विष्वसिते, म॰ जालविश्वासने, न॰ बालविश्वासने

16. ड॰ शीघ्राक्षे

17. प॰ शङ्कितेषु च ।

[(व्या)]

1. पश्चात्सङ्ख्या

2. दर्भजटा

[page 54]




[NZ]

[तथा कलासु काष्ठासु निमेषे तु1 क्षणे तथा । BhNZ_09_124ab
एष एव करः कार्यो बालालापनिमन्त्रणे2 ॥ ] BhNZ_09_124cd
(3)अथवा ---
अङ्गुल्यस्संयुता4 वक्रा उपर्यङ्गुष्ठपीडिताः । BhNZ_09_125ab
प्रसारिता कनिष्ठा च 5ताम्रचूडकरः स्मृतः ॥ BhNZ_09_125cd
6शतं सहस्रं 7लक्षं च कनकं चापि8 दर्शयेत्9 BhNZ_09_126ab
क्षिप्रमुक्ताङ्गुलीभिस्तु10 स्फुलिङ्गान्विप्रुषस्तथा11 BhNZ_09_126cd
इति ।
असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । BhNZ_09_127ab
(12)[अथ संयुतहस्ताः]
13अतश्च संयुतान्हस्तान् गदतो14 मे निबोधत ॥ BhNZ_09_127cd
[ABh]

संज्ञितं बालादेराह्वानम् । अन्ये तु लक्षणान्तरमस्य पठन्ति, ``अङ्गुल्यः संयुता'' इत्यादि । सृष्टिरेव प्रसारितकनिष्ठ इत्यर्थः । क्षिप्रं कृत्वा मुक्ताभिरङ्गुलीभिरिति ।
अंसयुता इति । अंसयुतास्तावदेते भवन्ति । न त्वेते ऽंसयुता एव । नाप्येत एव कोहलादिभिरन्येषां दर्शनात् । अतश्चेति । एभ्य एवानुसंयुतेभ्यः अन्यश्लेषाद्ये संयुता उत्पद्यन्ते तान् स्वयं निबोधत मदीयं वचनमनादृत्योत्प्रेक्षध्वम् । तथाहि (1)कूर्पराधीतत्रिपताकेन पार्श्वे खटकामुखेन स्त्रीणामभिनयः, खटकेन कर्णान्तमागच्छता वामेन च कपित्थमुष्ट्यन्यतरेण वाणमोक्षस्य । एतच्चित्राभिनये प्रतिजागरिष्याम इत्यास्तां तावत् । चकारादन्यानि च वक्ष्यमाणानि निबोधनेति सम्बन्धः ।

[(मू)]

1. म॰ निमेषेषु

2. म॰ बालालापाभिमन्त्रणे

3. ढ॰, प॰ योर्नास्ति (द्वौ श्लोकौ च)

4. ड॰ सहिता, द॰ संहताः, न॰ संयुता वक्रा तूपर्यङ्ङुष्ठपीडिता

5. ड॰ ताम्रचूडः करः स्मृतः

6. म॰ नतं

7. म॰ लक्षादि

8. म॰ वापि

9. ड॰ करेणैकेन योजयेत्, ढ॰ करणं तेन योजयेत्

10. प॰ अङ्गुलीभिश्च

11. ड॰ लिङ्गविष्फलषास्तथा, ढ॰ लिङ्गविष्फुरुषस्तथा, म॰ स्फुलिङ्गविप्रुषस्तथा

12. छ॰ आदर्श एव

13. ड॰ पुनश्च, म॰ यतश्च

14. क॰ आदितो ।

[(व्या)]

1. कूर्पराधिक ।

[page 55]




[NZ]

पताकाभ्यां1 तु हस्ताभ्यां संश्लेषादञ्जलिः2 स्मृतः । BhNZ_09_128ab
देवतानां गुरूणां च मित्राणां3 चाभिवादने ॥ BhNZ_09_128cd
[4स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा ।] BhNZ_09_129ab
देवातानां शिरस्स्थस्तु गुरूणामास्यसंस्थितः ॥ BhNZ_09_129cd
वक्षःस्थश्चैव मित्राणां5 स्त्रीणामनियतो भवेत्6 BhNZ_09_130ab
उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् ॥ BhNZ_09_130cd
हस्तः 7कपोतको नाम कर्म चास्य निबोधत । BhNZ_09_131ab
[ABh]

तेषामञ्जलिं तावल्लक्षयति पताकाभ्यां त्विति । अन्यस्य श्लोषे ऽपि न नामान्तरम् । यथा सूचीमुखयोः सम्बन्धान्यभिनयन्ते । अत्र तु नामान्तरमिति तुशब्दः । स्मृत इति लोके ऽपि ``प्राञ्चलिः पुष्पकेतुः''(कुमा 2-63) इत्यादौ प्रसिद्ध इत्यर्थः । सम्यग्ग्रहणेन संमुखं सर्वासामङ्गुलीनामयं श्लेषो लक्ष्यते । (1)उक्तमेव विनियोगं विभजति देवतानामिति तिस्रो ऽभिवन्दनापेक्षया कर्मणि षष्ठीः (2)स्त्रीणामिति कर्तरि षष्ठी ।
कपोतमाह उभाभ्यामिति, सङ्ख्यापदोपादानं यथारुचि आधाराधेयभावप्रतिपत्त्यर्थम् । कम्पत इति कपोतो भीरुः पक्षी तत्प्रकृतिरन्यो ऽपि कपोतस्तस्य यतो ऽयं भवत्यतो नाम्नैव भीतविषयतास्य । तथा हि --- रामाभ्युदये प्रथमे ऽङ्के वटोः । कुचाभिनये ऽयमेव प्रधानः । वक्षस्य इति सर्वत्र संबध्यते । भीताभिनये तु कम्पिते ऽपि । स्त्रीभिरित्यधमोपलक्षणम्, विनयग्रहणादौ कुट्टनादेरपि अयमेव च कूर्माकारत्वात् कूर्मक इति लोके प्रसिद्धः । अङ्गुलिपरिघृष्यमाणावयवत्वात् अङ्गुलिघृष्यमाणस्समुखः । खेदश्चिन्ता ।

[(मू)]

1. प॰ च

2. म॰ संश्लेषात्सो ऽञ्जलिः

3. प॰ मिश्राणां, म॰ विप्रणां

4. छ॰ आदर्श एव, म॰ विप्राणां

6. ड॰ शेषे त्वनियमो भवेत्, म॰ स्त्रीणां कार्यं यथेष्टतः, च॰ स्त्रीणां कार्यो यथेप्सितः, न॰ क्रोधेष्वनियमो भवत्

7. प॰ कपोतनामा स्यात्कर्म चास्याभिधीयते ।

[(व्या)]

1. रक्तमेव

2. तिसृणां ।

[page 56]




[NZ]

1एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च संभाषे2 BhNZ_09_131cd
शीते भये च कार्यो वक्षस्स्थः कम्पितः स्त्रीभिः3 BhNZ_09_132ab
4अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु4 BhNZ_09_132cd
एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे6 BhNZ_09_133ab
अङ्गुल्यो यस्य हस्तस्य 7ह्यन्योन्यान्तरनिस्सृताः 8 BhNZ_09_133cd
स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते9 BhNZ_09_134ab
एष मदनाङ्गमर्दे सुप्तोत्थितजृम्भणे10 बृहद्देहे ॥ BhNZ_09_134cd
11हनुधारणे च योज्यः शङ्खग्रहणे ऽर्थतत्त्वज्ञैः12 BhNZ_09_135ab
[ABh]

कर्कटकमाह अङ्गुल्यो यस्येति । अन्योन्यस्य चान्तराणि मध्यानि तैर्निस्सृताः(1) । अन्योन्यसंमुखकर्कटदंष्ट्राद्वयाकारेण अङ्गुलीनामत्रावस्थानात् कर्कटः । मदने ऽङ्गकृते अङ्गमोटने, अग्रतः पार्श्वतः ऊर्ध्वं वा भुजयुगलात्पराङ्मुखाङ्गुलिः ।सुप्तोत्थितपदमुपलक्षणम् ।(2)सर्वदा हि जृम्भणे ऽस्य प्रयोगः । बृहद्देहाभिनये तूदरक्षेत्रे सम्मुखतलो ऽयं हस्तः । हनुधारणे ऽङ्गुलिपृष्ठप्रतिष्ठापितहनुदेशः । शङ्खग्रहणे किञ्चित्सङ्कुचितो ऽन्योन्याभिमुखाङ्गुलिः । एतदेवाह अर्थेति --- अभिनेयस्यार्थस्य यत्तत्त्वं परमार्थः तद्ये जानन्त्यभिनये ऽनुसन्धातुं शक्नुवन्ति तैः ।

[(मू)]

1. क॰ एषो ऽभिनयाभिगमे, ड॰ द्विषद्ध्याप्युपगमे

2. न॰ संभवे

3. प॰ कल्पितः स्त्रीभिः, न॰ कम्पितः स्त्रीणाम्

4. म॰ एषो ऽङुलिविच्यवनात्प्रशिथिलमोक्षाच्च मन्दवाक्येषु

5. प॰ भिन्नवाक्येषु, च॰ विन्नवाक्येषु

6. क॰ मेदाङ्गीकृत्यमिति वार्थे

7. प॰ अन्योन्य, म॰ त्वन्योन्य

8. फ॰ हस्तस्यान्योन्याभ्यन्तरनिस्सृताः

9. प॰ लक्ष्यते, फ॰ कर्मास्य कथ्यते, म॰ कर्म चास्य निबोधत

10. ड॰ सुप्तोत्थितविजृम्भणे

11. च॰ अनुधारणे

12. ड॰ ग्रहणे च तत्त्वज्ञैः ।

[(व्या)]

1. तैर्निस्सृता

2. सर्वदा वि ।

[page 57]




[NZ]

मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ1 BhNZ_09_135cd
उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ BhNZ_09_136ab
स्वस्तिकविच्युति2करणाद्दिशो घनाः 3खं वनं समुद्राश्च4 BhNZ_09_136cd
ऋतवो मही 5तथौघं विस्तीर्णं वाभिनेयं स्यात्6 BhNZ_09_137ab
7खटकः खटके न्यस्तः खटकावर्धमानकः । BhNZ_09_137cd
8शृङ्गारार्थेषु योक्तव्यः9 प्रणामकरणे तथा10 BhNZ_09_138ab
[ABh]

अथ स्वस्तिकमाह मणिबन्धनविन्यस्ताविति । यत्र शुद्धमेव स्वस्तिकपदमुपादीयते तत्रेदृश एव सन्निवेशः प्रदेशेषु मन्तव्यः, यथा --- चित्राभिनयादावर्थप्रकरणादिवशात्त्वन्यत्रापि प्रवर्त्येत । यथा --- स्वस्तिकविच्युतिकरणादित्यादौ(9-20)पताकयोगे ऽपि तथापि मणिबन्धनविन्यस्तत्वं नामानुयाय्येव रूपम् । अत एव केचिदेतावतास्य लक्षणं परिशिष्टं तूदाहरणदिगर्थमिति प्रतिपन्नाः । स्त्रीप्रयोजिताविति । पताकस्वस्तिककर्माणि स्त्रीभिरमुनैव कार्याणीत्यर्थः । स्वस्तिकार्थलक्षणसमाकृतित्वात्स्वस्तिकः ।
खटकावर्धमानमाह खटक इति लभ्यते । अन्ये त्वन्योन्याभिमुखं खटकद्वयमस्य रूपमित्याहुः । खटकस्य आ समन्तात् बहिर्योगादिदं नाम । शृङ्गारार्थेषु शृङ्गारप्रयोजनेषु ताम्बूलग्रहणादिषु । तथा हि वक्ष्यते ---
``खटकावर्धमानं तु कृत्वा विटगतिं व्रजेत्'' इति । (अ 12-110)
तथेति प्रयोजन एव प्रायेणेश्वरीप्रसादनादौ प्रणाम इत्यर्थः ।
``कुमुदोत्पलकुन्देषु कर्तव्यः शङ्खधारणे''
इति वा पाठः ।

[(मू)]

1. न॰ वर्धमानकौ

2. न॰ विच्युत

3. च॰ करणादिशोच्चनाः, ड॰ घनः

4. ड॰ खं समुद्राश्च

5. च तथोधं, ड॰ तथोच्यं

6. म॰ अभिनेतव्यम्, न॰ चाभिनेयं स्यात्

7. ड॰ कटकः कटकैर्न्यस्तः कटको, क॰ खटकः खेटके

8. म॰

प्रतोदरश्मिग्रहणे चन्द्रसूर्योदये तथा ।

कर्तव्यः स प्रणामे च शृङ्गारार्थे विधीयते ॥

9. ढ॰ शृङ्गारार्थे प्रयोक्तव्यः

10. ड॰ प्रमाणकरणे तथा, न॰ प्रमाणकरणेषु च ।

[(व्या)]

[page 58]




[NZ]

[अन्ये ---
कुमुदोत्पलवृन्तेषु कर्तव्य1श्छत्रधारणे ॥ इति ।] BhNZ_09_138cd
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ2 BhNZ_09_139ab
उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ 3 BhNZ_09_139cd
4सनिष्पेषकृते चैव5 रोषामर्षकृते ऽपि च6 BhNZ_09_140ab
7निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ BhNZ_09_140cd
[ABh]

उस्सङ्गमाह अरालौ त्विति । विपर्यस्ताविति स्वस्तिकरूपौ । उत्तानाविति स्वसम्मुखौ, वर्धमानकाविति विनतौ तेन दक्षिणो वामस्कन्धक्षेत्र इति यावत्(1) । अत एव च प्रकोष्ठस्वस्तिकत्वं लक्ष्यते । स्वस्तिक एव दक्षिणपार्श्वस्थ इति विपर्यस्तत्वमिति केचित् । अधोनखत्वमित्यन्ये । स्वस्तिकाकारौ कूर्परौ कृत्वा कक्षक्षेत्रात् प्रवेशमुक्ताद्बाह्ये ऽङ्गुल्यो यदा भवन्ति पृष्ठं च हस्तयोर्बहिर्मुखं तदा विपर्यस्तत्वमिति तु युक्ततरम् । उत्सङ्गग्रहणयोग्यत्वकरणादुत्सङ्गः । स्पर्शस्य परोक्षस्य ग्रहणे ऽभिनये । निष्पेषः पीडनम्, तेन सह यद्यत्क्रियते अतिप्रयत्नेन साध्य इत्यर्थः । रोषकरणे यथा --- `एषो ऽस्मि ते दृढपीडनबाहुयन्त्रे'त्यादौ । अमर्षकरणे यथा --- विदूषकादेरीर्ष्याकरणे प्रसादनानङ्गीकरणे पर्यायात्सकृत्प्रक्षेपात्(2) । सिंहावलोकित इत्यन्ये पठन्ति । कर्तरि कर्मणि वा षष्ठीति व्याचक्षते ।

[(मू)]

1. च॰ कर्तव्यौ

2. ड॰ उत्तानावूर्ध्वमानकौ, प॰ उत्तानावूर्ध्वमानतौ

3. क॰ कार्यः सिंहावलोकिते

4. क॰ आदर्शे द्वौ श्लोकौ न स्तः

5. ड॰ करश्चैव, च॰ कृतं चैव

6. न॰ रोषामर्षकृतेषु च, ड॰ रोषामर्षे कृते ऽपि च

7. म॰ निपीडितः, न॰ निष्पीडितस्तथा चैव ।

[(व्या)]

1. धार्यत

2. पर्यायादुपकूर्परक्षेपात् ।

[page 59]




[NZ]

1मुकुलं तु यदा हस्तं कपित्थः परिवेष्टयेत् । BhNZ_09_141ab
स मन्तव्यस्तदा हस्तो निषधो2 नाम नामतः ॥ BhNZ_09_141cd
संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । BhNZ_09_142ab
सङ्क्षेपः सङ्क्षिप्तं निपीडितेनाभिनेतव्यम् ॥ BhNZ_09_142cd
[3शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः । BhNZ_09_143ab
निषधो नाम विज्ञेयः स भयर्ते विधीयते ॥ BhNZ_09_143cd
4गृहीत्वा वामहस्तेन कूर्पराभ्यन्तरे भुजम् । BhNZ_09_144ab
दक्षिणं चापि वामस्य कूर्पराभ्यन्तरे न्यसेत् ॥ BhNZ_09_144cd
स चापि दक्षिणो हस्तः सम्यङ्मुष्टिकृतो भवेत् । BhNZ_09_145ab
इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ BhNZ_09_145cd
एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । BhNZ_09_146ab
अभिमानावष्टम्भस्तम्भस्थैर्यादयः कार्याः ॥ BhNZ_09_146cd
(5)अथ वा ---
ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्मुखौ । BhNZ_09_147ab
जालवातायनादीनां प्रयोक्तव्यो ऽभिघट्टने ॥ ] BhNZ_09_147cd
[ABh]

निषधमाह मुकुलन्त्विति । कपित्थहस्तेन परिवेष्ट्यमानमुकुलं तदभ्यन्तरे निषण्णमास्त इत्यतो निषधः । (सङ्ग्रहः) सम्यग्ग्रहणं शास्त्रार्थादेः, परिग्रहः स्वीकारः, धारणमत्यजनम्, समयो नियमः, सत्यवचनं तथ्यमिति, सङ्क्षेपस्तात्पर्यम्, समस्तमनेनैव संक्षिप्यमाणमपि । स्वीकृताभिनयेन हि तद्वति द्रव्ये ऽभिनय इत्युक्तम् । संक्षिप्तं तु सम्यक् क्षिप्तं क्वचित्स्थापितमित्यर्थः ।

[(मू)]

1. क॰, ख॰, ग॰, घ॰, च॰, छ॰ आदर्शेष्वेवास्ति

2. क॰ निषेधो

3. भ॰ आदर्श एवास्ति

4. ज॰ प्रभृति म॰ अन्तादर्शेषु श्लोकास्त्रयः सन्ति । ते कीर्तिधराचार्यपाठानुसारिण इति ज्ञायते ।

5. अयं श्लोको ड॰ ढ॰ योर् एवास्ति । एतद्वर्धमानस्य लक्षणमिति व्याख्यात्र अनादृतम् ।

[(व्या)]

[page 60]




[NZ]

अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ1 BhNZ_09_148ab
यदा भवेतां करणे स दोल2 इति संज्ञितः ॥ BhNZ_09_148cd
3सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चावेगे । BhNZ_09_149ab
व्याधिप्लुते च शस्त्रक्षते4 च कार्यो ऽभिनययोगः5 BhNZ_09_149cd
यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः6 BhNZ_09_150ab
द्वितीयः पार्श्वसंश्लिष्टः स तु7 पुष्पपुटः स्मृतः ॥ BhNZ_09_150cd
8धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि9 BhNZ_09_151ab
ग्राह्याण्युपनेयानि10 च तोयानयनापनयने11 च ॥ BhNZ_09_151cd
[ABh]

दोलं लक्षयति अंसाविति । हस्तयोः प्रकर्षेण लम्बमानत्वादेव स्कन्धयोः शैथिल्यमदृढत्वं भवति । पताकाङ्गुलीनामवष्टम्भान्युद्धारणाय वा करणाक्रियायामङ्गुलिशैथिल्यलक्षणायां सत्यामित्यर्थः । दोलाकारत्वेन दोला । अभिनयनव्यापारे योगो यस्य स तथाविधो ऽयं हस्तः । कार्य इत्यनेन तत्र तत्राभिनेये पार्श्वात्पार्श्वान्तरगमनं निपतनं स्तब्धत्वमित्यादिकां तावदितिकर्तव्यतां सूचयति । अभितो ऽग्न्यादिव्यसनजो दोषः (अभिघातः) ।
पुष्पपुटमाह यस्तु सर्पशिरा इति । अङ्गुलिस्थाने निरन्तरं बाढमपि । संमुखत्वं माभूदित्याह पार्श्वेति । द्वितीय इति सर्पशिराश्च हस्तः । हस्तपुटेनेदृशेन पुष्पग्रहणमिति । पुष्पपुट इतरः ।

[(मू)]

1. ड॰ पताकौ च प्रलम्बितौ

2. ड॰ डोल

3. न॰ सश्रम

4. न॰ शत्रुक्षते

5. प॰ योगस्तु

6. प॰ निरन्तरा, ड॰ निरन्तरम्

7. ड॰ द्वितीयपार्श्वसुश्लिष्टा सा तु, ढ॰ द्वितीयपार्श्वसंश्लिष्टः स च, न॰ द्वितीयपार्श्वसंस्पृष्टः स तु

8. प॰ धान्यजल, ड॰ धान्यपुष्पभक्ष्यान्यनेकनानाविधानि युक्तेन, फ॰ धान्यजलपुष्पसदृशान्येते न

9. प॰ संयुक्तेन

10. प॰ गेयानि

11. ड॰ तोयापनयापनयने, ज॰ तोयापनयापनये ।

[(व्या)]

[page 61]




[NZ]

पताकौ तु1 यदा 2हस्तावूर्ध्वाङ्गुष्ठावधोमुखौ । BhNZ_09_152ab
उपरय् उपरि विन्यस्तौ 3तदासौ मकरः स्मृतः ॥ BhNZ_09_152cd
सिंहव्यालद्वीपिदर्शनं4 नक्रमकरमत्स्यानाम् । BhNZ_09_153ab
ये चान्ये क्रव्यादा 5अभिनेयास्ते ऽर्थयोगेन ॥ BhNZ_09_153cd
कूर्परांसोचितौ6 हस्तौ यदास्तां सर्पशीर्षकौ । BhNZ_09_154ab
गजदन्तः स 7तु करः कर्म चास्य निबोधत ॥ BhNZ_09_154cd
8एष च वधूवराणामुद्वाहे चातिभारयोगे च9 BhNZ_09_155ab
स्तम्भग्रहणे च तथा10 शैलशिलोत्पाटने चैव ॥ BhNZ_09_155cd
[ABh]

मकरमाह पताकौ त्विति । अङ्गुष्ठयोर्मकरकर्णद्वयवदवस्थानान्मकरः । द्वीपिनश्चित्रकायाः । मत्स्यानामिति प्रदर्शनमिति सम्बन्धः । अर्थयोगेनेति अग्रपार्श्वादिषु (1)स्थितचलनादिनार्थवशात्प्रयोज्य इत्यर्थः ।
जगदन्तमाह कूर्परांसोचिताविति । कूर्परांसशब्देनोभयसामीप्यं तयोरन्तरालं गृह्यते पूर्वदक्षिणे तु यथा तत्राकुञ्चितौ तत्स्थानसंवेष्टनपरौ । तद्यथा वामे बाहौ दक्षिणो दक्षिणे वामहस्तः स्तम्भाकारवेष्टितदन्ताकृतियोगाद्गजदन्तः । वधूनां वराणां च विवाहस्थाननयने शिलोत्पाटने गतागतत्वं मन्तव्यम् ।

[(मू)]

1. ज॰ च

2. ड॰ हस्तौ मुखाङ्गुष्ठौ, न॰ हस्तौ मुक्ताङ्गुष्ठौ

3. म॰ हस्तः स मकरः स्मृतः, ड॰ तदासौ मकरः करः, च॰ तदा स मकरः करः

4. प॰ द्विपदर्शनं, ड॰ द्विपदर्शने, ढ॰ द्विपददर्शने

5. ड॰ ह्यभिनेयास्तेन हस्तेन

6. न॰ कूर्परांसाञ्चितौ, ड॰ कोर्परांसाञ्चितौ, प॰ कूर्परे सन्धितौ

7. ड॰ विज्ञेयः, फ॰ स विज्ञेयः करः कर्मास्य वक्ष्यते

8. प॰ यानवधूग्रहणे वत्सोत्सङ्गादिभार, न॰ वरयानवधूग्रहणे वत्सोत्सङ्गादिभार, म॰ वरयानवधूग्रहणे बालग्रहणे ऽतिभारयोगे च, च॰ भूधरवधूवरणां, ज॰ पुत्रवधूभाराणामुद्वहने चापि भारयोगे च

9. च॰ योगेन

10. म॰ शौलस्योत्पाटने ।

[(व्या)]

1. स्थिरचरत्वादिना ।

[page 62]




[NZ]

शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ । BhNZ_09_156ab
1शनैरधोमुखाविद्धौ सो ऽवहित्थ इति स्मृतः ॥ BhNZ_09_156cd
दौबल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । BhNZ_09_157ab
उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः2 BhNZ_09_157cd
3ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ । BhNZ_09_158ab
जालवातायनादीनां प्रयोक्तव्यो विघाटने4 BhNZ_09_158cd
[सङ्ग्रहपरिग्रहोद्धारणं च समयं च सत्यवचनं च । BhNZ_09_159ab
5सङ्क्षेपः 6संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ ] BhNZ_09_159cd
7उक्ता ह्येते द्विविधास्त्वसंयुताः8 संयुताश्च सङ्क्षेपात् । BhNZ_09_160ab
9अभिनयकरास्तु ये त्विह ते ऽन्यत्राप्यर्थतः साध्याः ॥ BhNZ_09_160cd
[ABh]

अवहित्थकमाह शुकतुण्डाविति । अभिमुखौ पूर्वाननावञ्चितौ वर्तनया अधोमुखौ सन्तावाविद्धावधोगमितौ । अवहित्थसूचकत्वादवहित्थः । एवं हि कुर्वन्नाशयमात्मीयं नो भिनत्ति ।
वर्धमानमाह --- ज्ञेयो वै वर्धमानश्च हंसपक्षौ पराङ्मुखाविति । अन्योन्यं स्वस्तिकवदवस्थितौ लक्ष्ये तु अन्योन्यनिकटौ दृश्येते । स्वस्तिकताहीनावेव केवलं पराङ्मुखौ परस्परचलनेन विस्तारयोगाद्वर्धमानत्वम् । आदिशब्देन वक्षःकवाटादि ।
उपसंहरन् सूचयति उक्ता ह्येत इति । उक्ता ह्येते यस्मादेते उक्ताः सङ्क्षेपमाश्रित्याभिनेयविषये निरूपिताः । तुरिति तस्मादन्यत्राप्युक्तात् अभिनेयात् अर्थादभिनया अर्थान्तरे ऽपि साधयितुं शक्याश्चार्हाश्च । तुर्हेतौ, यस्मादाभिमुख्यतया, नार्थमनेकरीति त्वदृष्टार्थमर्थे ऽर्थतः ।

[(मू)]

1. म॰ शनैरभिमुखाविद्धाववहित्थस्तु स स्मृतः

2. च॰ योगश्च कर्तव्यः, फ॰ योगः प्रयोक्तव्यः

3. ड॰

मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः ।

वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥(कीर्तिधरस्य पाठः)

4. म॰ विघट्टने

5. प॰ संक्षेपतस्तु

6. ढ॰ संक्षिप्तनिपीडितेन

7. च॰ उक्ताश्चैते

8. च॰ ह्यसंयुताः

9. ड॰ अभिनयकरा ये त्विह ते । कीर्तिधरपाठानुसारी विनियोगः ।

[(व्या)]

[page 63]




[NZ]

[अन्यैरप्युक्तम्(1) ---
2आकृत्या3 चेष्टया चिह्नैर्जात्या विज्ञाय वस्तुतः4 BhNZ_09_161ab
स्वयं 5वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ इति ।] BhNZ_09_161cd
नास्ति कश्चिदहस्तस्तु6 नाट्ये ऽर्थे ऽभिनयं 7प्रति । BhNZ_09_162ab
8यस्य यद्दृश्यते रूपं बहुशस्तन्मयोदितम् ॥ BhNZ_09_162cd
अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह9 BhNZ_09_163ab
10छन्दतस्ते प्रयोक्तव्या रसभावविचेष्टितैः ॥ BhNZ_09_163cd
देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च11 BhNZ_09_164ab
हस्ता ह्येते प्रयोक्तव्या नॄणां स्त्रीणां विशेषतः12 BhNZ_09_164cd
[ABh]

एवमभिनयमभिधायाभिनयान्तरमप्यस्तीति दर्शयति नास्ति कश्चिदिति । नाट्यमिह तदुपयोगिनो विभागादयः । अत्र हेतुः यस्य यद्दृश्यत इति ।
एवमुक्तानामेवाभिनयानां साङ्कर्येण प्रयोगमनुज्ञायानुक्तमपि सङ्ग्रहीतुमाह अन्ये चापीति । अर्थो ऽभिनयसामर्थ्यं शोभातिशयः । छन्दत इति नाट्याचार्येच्छाप्रवाहानुसारिण्यामित्यर्थः । रसाः स्थायिनः । भावाः सञ्चारिणः तत्सूचकानि यानि विचित्राणि चेष्टितानि सात्त्विकोपाङ्गानि तैः सह । एवं लोकधर्मीप्रदर्शने प्रसिद्धोदाहरणमात्रमभिनेयानां परिगणनमित्याख्येयम् । देशः क्षेत्रविशेषः प्रयोगः सुकुमारोद्धतरूपकविशेषः । अर्थस्य युक्तिरुपपत्तिः मुख्यगौणलाक्षणिकव्यङ्ग्यादिभेदेन । अवेक्ष्येति विचार्येत्यर्थः । प्रयोक्तव्या इति

[(मू)]

क॰ ख॰ ग॰ घ॰ च॰ आदर्शेष्वेवास्ति

2. द॰ म॰ योर् नास्ति

3. ड॰ प्रकृत्या

4. प॰ तत्पुनः

5. ड॰ वितर्कात्

6. म॰ अहस्तो हि

7. च॰ नाट्याभिनयनं, म॰ नाट्ये ह्यभिनयं प्रति, प॰ हस्ताभिनयनं, ज॰ नाट्यार्थाभिनयं प्रति, ड॰ नाट्ये ऽभिनयनं प्रति, प॰ हस्ताभिनयनं, ज॰ नाट्यार्थाभिनयनं प्रति, ड॰ नाट्ये ऽभिनयनं प्रति

8. म॰ दृश्यते बहुरूपन्तु येषां ते गदिता मया

9. म॰ ये दृष्टा लौकिकाः कराः, द॰ लौकिकात्मकरास्त्विह

10. न॰ छन्दतस्ते ऽपकर्तव्या रसभाव, म॰ छन्दतस्ते ऽभिनेतव्या नानाभाव, ड॰ छन्दतस्ते नियोक्तव्या, द॰ छन्दतस्ते ऽपि योक्तव्या

11. च॰ अथमुक्तिमवेक्ष्य च, द॰ वाप्यर्थयुक्तमपेक्षते

12. ड॰ प्रयोक्तव्याः स्त्रीणां नॄणां विशेषतः, म॰ स्त्रीणां नॄणामथापि च ।

[(व्या)]

[page 64]




[NZ]


सर्वेषामेव हस्तानां यानि कर्माणि सन्ति वै1 BhNZ_09_165ab
2तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु3 BhNZ_09_165cd
उत्कर्षणं विकर्षणं तथा व्याकर्षणं पुनः4 BhNZ_09_166ab
परिग्रहो निग्रहश्चाह्वानं तोदनमेव च5 BhNZ_09_166cd
6संश्लेषश्च विनियोगश्च रक्षणं मोक्षणं तथा । BhNZ_09_167ab
7विक्षेपधूनने चैव 8विसर्गस्तर्जनं तथा ॥ BhNZ_09_167cd
9छेदनं भेदनं चैव स्फोटनं मोटनं तथा10 BhNZ_09_168ab
11ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान्प्रति ॥ BhNZ_09_168cd
[12उत्तानः पार्श्वगैश्चैव तथाधोमुख एव च । BhNZ_09_169ab
हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ ] BhNZ_09_169cd
[ABh]

शक्यार्थे कृत्यः । विशेषत इति । पुरुषाणां तदपेक्षया सामान्यानामाचारा भवन्ति । अत एवोत्तमानामतिस्वल्पप्रचारो हस्ताभिनयः । रसभावकृतानीति । स्थायिसञ्चारिभेदेन तत्तद्विभावभेदवशादित्यर्थः । तथा हि, केशानां विदूषकं प्रत्याकर्षणं खटकामुखेन, प्रियां प्रत्यरालेन, क्रीडायां कलहे मुष्टिनेत्याद्युत्प्रेक्ष्यम् । ऊर्ध्वाधोदूरगमनादन्यथाकरणमुत्कर्षणादि । परिग्रहो मण्डलेन ग्रहणम् । निग्रहो विनाशनं, तोदनं ताडनं, विक्षेपस्त्यागः सावज्ञं, धूननं कम्पनम् । विसर्गः सादरं त्यागः, स्फोटनं विकासनं, मोटनं सङ्कोचनं, इति प्रकारे । एवंप्रकारा अन्ये ऽपि । रसभावकृतानीति यदुक्तं तत्स्पष्टयितुमाह सर्वे नेत्रभ्रूमुखरागाद्यैर्व्यञ्जिताः कार्या इति । प्रचार ऊर्ध्वोद्वर्तनपार्श्वाधोमुखादिः । परोक्षाभिनयने दृष्ट्यादयो हस्तानामनुगताः, प्रत्यक्षे तु विपर्ययः ।

[(मू)]

1. ड॰ सन्तिहि, म॰ ज्ञेयं कर्म यथाक्रमम्

2. भ॰ तदहं

3. म॰ भावक्रियात्मकम्

4. ज॰ चाकर्षणं पुनः, ड॰ चैवापकर्षणम्

5. ड॰ परिग्रहो निग्रहश्च आह्वानं नोदनं तथा, द॰ परिग्रहो निग्रहश्चाह्वानं नोदनमेव च, छ॰ परिग्रहो निगूहश्च आह्वानं तोदनं तथा

6. म॰ संश्लेषो ऽथ, ड॰ संक्षेपश्च

7. प॰ विक्षेपो धूनने, ड॰ विक्षेपो धूननं

8. द॰ निसर्गस्तर्दनं, न॰ विसर्गस्तर्जनं

9. प॰ तोटनं मोटनं चैव ताडनं मोदनं तथा

10. ड॰ स्फोटनं मोहनं तथा, च॰ छिद्रविस्फोटनं तथा, ज॰ घोटनं मोटनं तथा

11. प॰ स्पोटनं चैव

12. च॰ छ॰ द॰ आदर्शेषु नास्ति ।

[(व्या)]

[page 65]




[NZ]

सर्वे हस्तप्रचाराश्च1 प्रयोगेषु यथाविधि । BhNZ_09_170ab
नेत्रभ्रूमुखरागाद्यैः2 3कर्तव्या व्यञ्जिता बुधैः4 BhNZ_09_170cd
5करणं कर्म स्थानं 6प्रचारयुक्तिं क्रियां च समवेक्ष्य7 BhNZ_09_171ab
हस्ताभिनयः 8कार्यस्तज्ज्ञैर्लोकोपचारेण9 BhNZ_09_171cd
10उत्तमानां कराः कार्या ललाटक्षेत्रचारिणः । BhNZ_09_172ab
11वक्षस्स्थाश्चैव मध्यानामधमानामधोगताः ॥ BhNZ_09_172cd
[ABh]

एतत्सर्वमुपसंहरति करणमिति । करणमावेष्टितादि, कर्म विधेयं, स्थानं, ललाटादिक्षेत्रं उत्तानादिसन्निवेशस्थितिश्च, प्रचारः स्वल्पादिः । युक्तिर्मुख्यगौणाद्युपपत्तिः, न हि गौरयं ब्राह्मण इत्यत्र मृगार्थो हरिणाभिनयेन कर्तरीमुखमृगशीर्षक प्रायेणाभिनीयते । अपि तु मौर्ख्याभिनये, चतुरशुकतुण्डशिखरनिषधप्रायेण । युक्तिश्च विशेषणविशेष्यभावादिविचारः । तद्यथा तद्गुणसंविज्ञाने बहुव्रीहौ वृत्तिपदार्थान्यपदार्थाः अभिनेयाः, ``सपुलकस्वेदोद्गमोत्कम्पये''ति(रत्ना 1-1) उपलक्षणविमुक्ते त्वन्यपदार्थमात्रं, तत्राप्युपलक्षणताप्रतिपत्त्यै वृत्तिपदार्थो ऽप्यभिनेयः । स त्वनावेश इति तूपाध्यायाः । क्रिया त्रिधा विधिनिषेधानुभयरूपा । गच्छ मागच्छेत्यादौ विधौ हि प्रत्ययार्थस्यैव, निषेधे चार्थस्यैव, अनुभयरूपे प्रकृत्यर्थस्यैव, अवतरत्वार्य इत्यादौ तु न विधिः, अपि तु प्रकृत्यर्थमात्रं प्रदर्शयितव्यम् । लोटा तु स्वाभिप्रायमात्रं प्रकाश्यमानमप्रधानमिति प्रकृत्यर्थ एवाभिनेयः । अत्र व्यापकं हेतुमाह लोकोपचारेणेति ।
करणं कृत्वे(कर्मे?)त्यत्र स्थानमुक्तम् । तद्विभजत्युत्तमानामिति । उत्तमे सुवर्णादिद्रव्ये सन्निकृष्टाः मध्यमे मध्यमाः अधमे विप्रकृष्टाः । ललाटादिशब्दानामुपलक्षणार्थत्वादिति केचित् । एतेषु क्षेत्रेषु वर्तनानिवेशपूर्वकमुत्तमादयो

[(मू)]

1. न॰ प्रकारास्तु, म॰ सर्वहस्तप्रचारास्तु

2. ड॰ रागैश्च

3. ड॰ कर्तव्यं जीवितं, म॰ कर्तव्या रञ्जिता

4. ज॰ व्यञ्जितमुखैः

5. म॰

करणं कर्मसंस्थानं प्रयोगं युक्तितः क्रियाम् ।

संलक्ष्य हस्ताभिनयः कार्यो लोकोपचारतः ॥

6. ड॰ प्रकार

7. ड॰ संप्रेक्ष्य

8. न॰ तज्ज्ञैः कार्यो

9. ड॰ कारेण

10. म॰ कार्या कराह्युत्तमानां

11. प॰ मध्यानामखिलानां च वक्षो नाभिगतास्तथा ।

[(व्या)]

[page 66]




[NZ]

1ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये2 कुर्वीत मध्यमैः3 BhNZ_09_173ab
4अधमेषु प्रकीर्णाश्च5 हस्ताः कार्याः प्रयोक्तृभिः ॥ BhNZ_09_173cd
[ABh]

राजामात्यविदूषकादयो ऽभिनयान् यथोचित एवाभिनयस्थाने कुर्युरित्यनेनोत्तमा देवतागुरुनृपादयो यदा निर्दिश्यन्ते तदा ललाटक्षेत्रचारिभिः अञ्जल्यादिहस्तैः, मध्यमास्तु चतुरादिभिर्वक्षक्षेत्रचरैः, अधमाः शुकतुण्डाद्यैरधः क्षेत्रचरैः । तेन चन्द्रतारादिदर्शने ऽधमस्यापि ललाटक्षेत्रचरा हस्ता इत्यादि न विरुद्धमिति । इदं च युक्ततरमित्युपाध्यायाः --- ये चतुरारालाद्यैः सत्यानृतगाम्भीर्यशौण्डीर्यादिविरुद्धविषया उक्तास्तेषां विभागार्थमिदं वचनम् । ये धान्यादय उत्तमा अर्थास्तेषामभिनये ललाटक्षेत्रगतत्वमित्यादिक्रमेण ।
अभिनयगतं विशेषान्तरमप्याह ज्येष्ठे स्वल्पप्रचाराः स्युरित्यादि । प्रयोगे ज्येष्ठे नाटकादौ चतुर्वर्गोपायोपदेशिनि प्रत्यक्षताप्राधान्यादल्पो हस्ताभिनयो, मध्यमे तु रञ्जनाफले भाणकादौ मध्यमः प्रत्यक्षे हि तत्राकाशभाषितप्राधान्यात्, अधमे तु नृत्तकाव्ये षिद्गकादौ च काल --- इति केचित् । एतत्त्वव्यवस्थितत्वादयुक्तम् । नाटके ऽपि भूयस्त्वमस्य । परस्थस्याभिनयत्वे उत्तमपात्रेण तु प्रधान एवाभिनयः कार्यो न विशेषणात्, अस्मिन्नाट्ये गृहीतविशेषणा विशेषधीरिति मन्यमाना एतदमृष्यन्तो ऽन्ये त्वाहुः --- यत्र पदार्थसमुदायो ह्येकेनाभिनयेन शक्यप्रतिपत्तिरनेकेन वा चलत्वात् । तद्यथा --- ``या स्रष्टुः सृष्टिराद्या''(शाकु 1-1) इत्यत्र । तत्रैक एव जलहुताशनाभिनय उत्तमेन प्रयोज्यः । अधमेन त्वनेकश्च चलस्वभावत्वात् । मध्यमेन मधयम इति प्रचारो वर्तना योत्तमे ऽल्पेति वा । एतत्तु शोभाविच्युतिकारित्वात्, ``अथ नयनसमुत्थं''(रघु 2-75) इत्यादौ प्रयत्नोपहृतस्य (उपमानद्वयस्य)पदार्थे वाक्यवचनमित्यस्य प्रौढत्वस्याभिनये नानुसरणप्रसङ्गान्नाद्रियते । ये परिमितमभिनेयं गमयन्ति ते स्फुटमेवार्थस्य गमकाः, अर्थप्रकरणादेस्तत्र सुखेन सहायत्वात् । अनन्तार्थजातव्यवच्छेदकत्वं हि क्लेशः । तादृशा उत्तमप्रकृतिषु हस्ताः । अधमास्तु यथावचनं श्लिष्टमाहुस्त(था प्रकीर्ण)भूयस्त्वमभिनेये सन्दिह्यमानस्याभिनयायत्तमुत्कर्षणं विकर्षणमित्यादि ---

[(मू)]

1. द॰ ज्येष्ठेष्वल्प, म॰ आदर्शे श्लोको नास्ति

2. ढ॰ स्तु मध्ये

3. प॰ मध्यविचारिणः

4. क॰ आदर्शे श्लोको नास्ति

5. ड॰ प्रकीर्णास्तु

[(व्या)]

1. विधावपि

2. विशेषणादस्मिन्नाट्ये ।

[page 67]




[NZ]

लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । BhNZ_09_174ab
1लोकक्रियास्वभावेन 2नीचैरप्यर्थसंश्रयाः ॥ BhNZ_09_174cd
अथवान्यादृशं प्राप्य प्रयोगं कालमेव च3 BhNZ_09_175ab
4विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा5 BhNZ_09_175cd
विषण्णे 6मूर्छिते ह्रीते7 जुगुप्साशोकपीडिते । BhNZ_09_176ab
ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे8 BhNZ_09_176cd
[ABh]

एवं केचित् । अपरे त्वाहुः --- प्रचारस्त्रिधा पञ्चधा च वक्ष्यते ।
तत्रोत्तमस्य च फलत्वादेकरस एवोत्तानादिकः प्रचारः, अधमस्य त्वतिसङ्कीर्ण इति । इदन्त्वत्र युक्ततमम् --- ज्येष्ठे ऽभिनये प्रत्यक्षवर्तमानात्मज्ञस्थविषये हस्तव्यापारो ऽल्पः । ``हिअअ समस्सस''(शाकु अ 8) इत्यादौ । तथा ``तन्वी मेघजलार्द्रवल्कलतया''(विक्र 4-38) इत्यादौ । अत्र हि सात्त्विकभूयस्त्वात् ज्येष्ठत्वम् । अप्रत्यक्षभाविभूतपरस्थरूपे तु सात्त्विकावकाशाभावो ऽनावेशादिति तत्राधमो ऽभिनयः, ``सत्त्वहीनो ऽधमः (22-2) स्मृतः'' इति वचनात् । तत्र विप्रकीर्णा विक्षिप्ता वहुलतमा हस्ताः । यथा (*)कुञ्जरक‡सुन्दरकादीनां परस्थवृत्तयुद्धवर्णने । एतद्वस्त्वतिरिक्ते तु मध्यमो हस्तप्रयोगः । यथा विदूषकेण प्रत्यक्षं दृश्यमानेनावस्थावेशकारिणि उद्यानादिवर्णने ।
लक्षणं सौष्ठवं लक्ष्यते ।
सौष्ठवं लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् (10-77) ॥ इति ।
तद्धीना अधमानाम् । (अथवेत्यादि) । अन्ये त्वाहुः --- यादृग्वेषां लक्षणमुक्तं तेन्यथा परिपूर्णाश्लिष्टाकृतयो ऽभिनयाद्धीनानां श्लिष्टवर्णोच्चारणवदिति । (विपरीतेति) भयजुगुप्सादिप्रयोगे शीतकालादियोगे च सौष्ठवमस्फुटाकृतित्वं, अवहित्थादौ चासौष्ठवयोगे ऽपि सौष्ठवमित्यादि वैपरीत्यम् । विहस्तो हस्तवैकल्याधानं, मत्तो मद्येन, प्रमत्तः प्रमादात्, उन्मत्तो ऽपस्मारी । किं सर्व एवात्र हस्ताभिनय इत्याशङ्क्य प्रतिप्रसवार्थमाह

[(मू)]

1. छ॰ नीचक्रिया, द॰ लोकक्रियाश्च

2. म॰ नीचैरेवार्थ

3. द॰ वा

4. क॰ विपरीतक्रिया

5. ड॰ नरैः

6. द॰ ंस्तभिते

7. ड॰ भीते, क॰ हीने

8. द॰ जने

[(व्या)]

* तापसवत्सराजे

वेणीसंहारे ।

[page 68]




[NZ]

व्याधिग्रस्ते 1जरार्ते च भयार्ते शीतविप्लुते । BhNZ_09_177ab
2मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ BhNZ_09_177cd
3हिमवर्षहते 4बद्धे 5वारिणाप्लवसंश्रिते । BhNZ_09_178ab
6स्वप्नायते च सम्भ्रान्ते नतसंस्फोटने तथा ॥ BhNZ_09_178cd
न हस्ताभिनयः कार्यः7 कार्यः8 सत्त्वसमाश्रयः9 BhNZ_09_179ab
[10तथा काकुविशेषश्च नानार्थरसभावकः11 ॥ ] BhNZ_09_179cd
12यत्र व्यग्रावुभौ हस्तौ 13तत्तद्दृष्टिविलोकनैः14 BhNZ_09_180ab
15वाचिकाभिनयं कुर्याद्विरामैरर्थदर्शकैः ॥ BhNZ_09_180cd
16उत्तानः पार्श्वश्चैव तथाधोमुख एव च । BhNZ_09_181ab
प्रचारस्त्रिविधो ऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ BhNZ_09_181cd
[ABh]

कार्य इति । ये हस्ता आन्तरीं चित्तवृत्तिं सूचयन्ति कपोतक इव भयं, कर्कटक इव मदनविजृम्भां, दोल इव शोकं, शुकतुण्ड इवेर्ष्यां ते कार्या एव, सात्त्विकवदनुभावस्य भावत्वात्तेषां सात्त्विकश्च कार्य एवेत्यावृत्त्या ये तु बाह्यद्रव्यगुणादिगमकास्ते न कर्तव्या इति । यत्र तु सर्व एव न कर्तव्यास्तं विषयमाह यत्र व्यग्राविति यथा सारथेः प्रतोदरश्मिव्यग्रहस्तायां। (विलोकनैरिति) विलोक्यते चित्तवृत्तिरनेनेति मुखरागादि, कुर्यादिति स्फुटयेदित्यर्थः । अर्थदर्शकैरिति । अनुवृत्तिलक्षणोपरोधकृतैरित्यर्थः ।

[(मू)]

1. म॰ ज्वरार्ते च तपश्श्रान्ते भयान्विते

2. म॰ मत्तोन्मत्तप्रमत्तेषु शोकार्ते शीतविप्लुते

3. द॰ च॰ योः श्लोको नास्ति, न॰ हिमवर्षगते

4. ड॰ बन्धे

5. ढ॰ भारिणि, ड॰ हारिणप्लव, न॰ चारिणी, म॰ वारिणि, प॰ चारिणा

6. न॰ स्वप्नायिते स, म॰ स्वप्नायिते ऽथ

7. न॰ नभसः पतिते ऽद्भुते, म॰ नभसः पातिते ऽद्भुते

8. म॰ योज्यः

9. प॰ सत्त्वस्य संग्रहः, म॰ समुद्भवः, छ॰ सत्त्वस्यसंभवः

10. द॰ तथैवाङ्ग, ड॰ तथाकार, ज॰ तथाकारु

11. ड॰ भावरसान्वितः, द॰ भावरसाश्रयः

12. म॰ द॰ योः श्लोको नास्ति

13. प॰ पत्र

14. ड॰ विलोकितैः

15. प॰ आदर्शे सार्धं श्लोको न दृश्यते ।

16. ड॰

उत्तलो ऽधस्तलस्तिर्यगूर्ध्वाधोमुख एव च ।

हस्तप्रचारा विज्ञेया नाट्ये नृत्ते च पञ्चधा ॥

म॰

उत्तानो ऽधस्तलस्त्र्यश्र ऊर्ध्वाधोमुख एव च ।

हस्तप्रचारस्त्रिविधो नाट्यनृत्तसमाश्रयः ॥

[(व्या)]

[page 69]




[NZ]

(1)अन्ये तु ---
2उत्तानो वर्तुलस्त्र्यश्रः स्थितो ऽधोमुख एव च । BhNZ_09_182ab
3पञ्च प्रचारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ 4इति । BhNZ_09_182cd
एवं ज्ञेयाः करा ह्येते नानाभिनयसंश्रयाः5 BhNZ_09_183ab
अत ऊर्ध्वं प्रवक्ष्यामि करान्नृत्तसमाश्रयान्6 BhNZ_09_183cd
[ABh]

हस्तानां दिग्भेदावस्थानकृतं प्रचारमाह उत्तान इत्यादि । उतानो यथा --- `विरचितमुर्वीसंस्थ'मित्यभिनये(9-22)पताकः, यथा वा जिह्वाभिनये आस्यक्षेत्रगो ऽग्रगस्त्रिपताकः । पार्श्वगो यथा धनुरभिनये मुष्टिः । अधोमुखो यथा समुद्राभिनये ललाटक्षेत्रगः । स्वस्तिकपताको, यथा ``संवृतविवृतं पाल्य''मित्यत्र त्रिपताकः ``उत्तानो ऽधस्तलस्त्र्यश्रो ऽग्रगो ऽधोमुख एव च । पञ्च प्रचारा हस्त''स्येति (1)भट्टोद्भटः पठति । तत्राधस्तले ऽधोमुखो ऽन्तर्भूतः उत्ताने ऽग्रगः, त्र्यश्रः त्रिपार्श्वग एव । अत्रापि तु समविषमत्र्यश्रिताद्यवान्तरभेद उत्तानादेर्भवति । इत्थं त्रैविध्यमेव युक्तम् । तत्र रसनिष्पादनमभिनयस्य वस्त्वित्युक्तं तच्च करणानुभावात्मकं, तत्राङ्गहाराः करणसञ्चयाः, करणस्य च लक्षणमुक्तम् । ``यानि स्थानानि याश्चार्थो नृत्तहस्ताः''(4-59) इत्यादि । तत्र स्थानकचार्यः स्वक्षेत्रे(अ-13) लक्षयिष्यन्ते ।
हस्तप्रसङ्गान्नृत्तहस्ता वक्तव्याः । किञ्चाभिनयकृताप्येषां क्वचिद्व्याकर्तुं, यथा लताहस्तौ प्रतिपद्येते नृत्ताभिनयनं प्रति(9-100), यथा वा करिहस्तस्य हस्त्यभिनयनम् । एवं चतुरश्रादीनामपि प्रयोगवशात् द्रष्टव्यमित्याशयेनाह अत ऊर्ध्वमिति । नृत्तस्य करणात्मकस्याश्रयाद्धेतुता । एभ्यो ऽभिनयहस्तेभ्य ऊर्ध्वमित्येतद्गणना पृष्ठे ऽभिनयनहस्तत्वेनापि गणनायोग्यादित्यर्थः । तत्र

[(मू)]

1. एष श्लोकश्च क॰ ग॰ न॰ आदर्शेष्वस्ति

2. न॰ उत्तानो ऽधस्तलस्त्र्यश्र ऊर्ध्वाधोमुख एव च, ड॰ उत्तलो ऽधस्तलस्तिर्यगूर्ध्वाधोमुख एव च, म॰ आदर्शे नास्ति

3. ड॰ हस्तप्रचारा विज्ञेया नाट्ये नृत्ते च पञ्चधा, न॰ हस्तप्रचारास्त्रिविधा नाट्यनृत्तसमाश्रिताः, द॰ हस्तप्रचारस्त्रिविधो नाट्यनृत्तसमाश्रयः

4. प॰ नृत्तहस्तसमाश्रयाः

5. म॰ नानर्थरससम्भवा, ड॰ संश्रिताः, प॰ संज्ञिकाः

6. ड॰ हस्तान् नृत्तसमाश्रयान्, म॰ समुद्भवान्, छ॰ श्रितान् ।

[(व्या)]

1. भट्टलोल्लटः ।

[page 70]




[NZ]

1वक्षसो ऽष्टाङ्गुलस्थौ 2तु प्राङ्मुखौ(*) खटकामुखौ3 BhNZ_09_184ab
समानकूर्परांसौ तु चतुरश्रौ प्रकीर्तितौ4 BhNZ_09_184cd
हंसपक्षकृतौ हस्तौ व्यावृत्तौ तालवृन्तवत् । BhNZ_09_185ab
उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ BhNZ_09_185cd
चतुरश्रस्थितौ हस्तौ हंसपक्षकृतौ तथा5 BhNZ_09_186ab
6तिर्यक्स्थितौ 7चाभिमुखौ ज्ञेयौ तलमुखाविति ॥ BhNZ_09_186cd
[ABh]

चातुरश्र्यमूलं नृत्ते ऽङ्गस्य जीवितमिति तन्निमित्तभुवौ चतुरश्रौ तावदाह वक्षस इति । वक्षो ऽतिक्रम्य यो ऽष्टाङ्गुलो देशः तत्रस्थौ । परस्परं त्वष्टाङ्गुलान्तरत्वात् प्रत्युत चातुरश्र्यं भवतीत्युत्प्रेक्ष्यमेव । प्राङ्मुखाविति यत्संमुखः प्रयोक्ता तत्संमुखावेव, न तु प्रयोक्तृसंमुखौ । कूर्परयोरंसयोश्च तुलाधारणवत्समत्वमवैषम्यम् । अङ्गचातुरश्र्यदानाच्चतुरश्रौ । आकर्षणविशेष एवायमभिनयो ऽपि द्विवचनादपवादविहीनत्वे द्वयोरेव प्रयोग उपपादनीयो हेतुर्हस्तान्तरस्य द्वितीयप्रकारयोगे ऽपि केवलस्यैव चतुरश्रतापदेश एव, तुल्यरूपत्वाच्च न चौष्षष्टिताव्याहतिरिति । एवं सर्वत्र ।
अथोद्वृत्तौ(1) --- हंसपक्षकृताविति । आदौ चतुरश्रौ तत उद्वेष्ठितवर्तनया हंसपक्ष(कृत) इति, कृतशब्देनाह विधिम् । एको विवर्तते उत्तानः स तु, परस्त्वधोमुखः सन्नावर्तते वक्षस्स्थानमित्यर्थः । एतदेवाह तालवृन्तवदिति । आवर्तनकाल ऊर्ध्वं वर्तमानत्वादुद्वृत्तौ(1) । नामान्तरेण तालवृन्तविषयत्वमभिनेयत्वं ब्रूते ।
अथ तलमुखौ --- चतुरश्रस्थिताविति । तथेति व्यावृत्तोद्वृत्तपूर्वकत्वमस्याह । तेन परिसमाप्तिकाले स्वस्वपार्श्वस्थाङ्गौ त्र्यश्रस्थितौ हंसपक्षावेव । अन्योन्यसंमुखतलत्वात्तलमुखौ । ``मंडलमहुरिजिमवज्जइ''(मर्दलं मधुरं वादयति) इत्यादिविषये चायमभिनये ऽपि ।

[(मू)]

1. ड॰ वक्षःस्था

2. छ॰ च

3. प॰ कटकामुखौ

4. म॰ चतुरश्रावितिस्मृतौ

5. न॰ यदा

6. म॰ तिर्यङ्मुखोर्ध्वाभिमुखौ, द॰ तिर्यङ्मुखौ चाभिमुखौ

7. च॰ वाभिमुखौ, *पराङ्मुकाविति सोमेश्वरः, संमुखाविति भोजः ।

[(व्या)]

1. उद्धतौ ।

[page 71]




[NZ]

तावेव मणिबन्धान्ते 1स्वस्तिकाकृतिसंस्थितौ । BhNZ_09_187ab
स्वस्तिकाविति विख्यातौ विच्युतौ2 विप्रकीर्णकौ ॥ BhNZ_09_187cd
अलपल्लवसंस्थानावूर्ध्वास्यौ3 पद्मकोशकौ । BhNZ_09_188ab
4अरालखटकाख्यौ 5चाप्यरालखटकामुखौ ॥ BhNZ_09_188cd
(6)अन्ये तु ---
7तथैव मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । BhNZ_09_189ab
ज्ञेयौ प्रयोक्तृभिर्नित्यमरालखटकाविति ॥ इति । BhNZ_09_189cd
भुजांसाकूर्पाराग्रैस्तु कुटिलावर्तितौ करौ8 BhNZ_09_190ab
9पराङ्मुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ10 BhNZ_09_190cd
[ABh]

अथ स्वस्तिकौ विप्रकीर्णौ च --- तावेवेति । तलमुखावेवेत्यर्थः । अन्तस्समीपः । स्वस्तिको नाम लक्षणविशेषः । (विच्युताविति) विशेषेण सहसा व्युतावित्यर्थः । एवं पूर्ववृत्तनृत्तकरचतुष्टयस्वरूपोपजीवित्वं (स्वस्तिक)विप्रकीर्णयोः ।
अरालखटकामुखौ --- अरालखटकामुखावाह अलपल्लवसंस्थानाविति । स्वस्तिकवत्पताकौ कृत्वा अलपल्लवोपलक्षितया व्यावर्तितकरणवर्तनया परिवर्तनान्तया तावेवोर्ध्वमुखौ पद्मकोशौ विधाय समनन्तरमेव भाविनलिनीपद्मकोशाभ्यामरालवर्तनया एकमरालं द्वितीयं खटकामुखं चातुरश्र्यसंस्थानेन कुर्यात् । स्वस्तिकेनेति त्वपरे । अरालौ ततः खटकावित्येके ।

[(मू)]

1. ड॰ स्वस्तिकाविति ।

2. म॰ विख्यातावरालौ

3. छ॰ संस्थानोपद्धास्यौ

4. म॰ ज्ञेयावभिमुखौ तज्ज्ञैरराल

5. प॰ वाप्यरालकरकामुखौ

6 , 7. क॰ ग॰ च॰ आदर्शेष्वेव

8. म॰ कुटिलावर्तिभिस्तथा, न॰ कुटिलावर्णितौ करौ, द॰ कुटिलावर्तितैः करैः

9. म॰ अधोमुख, प॰ पराङ्मुखतया

10. प॰ वक्रगौ, म॰ आविद्धाविति संज्ञितौ ।

[(व्या)]

[page 72]




[NZ]

1हस्तौ तु सर्पशिरसौ2 3मध्यमाङ्गुष्ठकौ यदा । BhNZ_09_191ab
तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ4 BhNZ_09_191cd
(5)अन्ये ---
6सर्पशीर्षौ यदा हस्तौ भवेतां7 स्वस्तिकस्थितौ । BhNZ_09_192ab
मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा8 BhNZ_09_192cd
रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ9 BhNZ_09_193ab
प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ10 BhNZ_09_193cd
[ABh]

अथाविद्धवक्रौ --- भुजांसकूर्पराग्रैरिति । वृत्तानुरोधादेवं पठितम् । अयं त्वर्थ;् अंसाभ्यां कूर्पराग्राभ्यां भुजाग्राभ्यां च क्रमेणोपलक्षितं यत्कुटिलं सविलासं((*)पताकौ) कृत्वा आवर्तनं व्यावर्तितकरणं कनिष्ठादि तद्युक्तावाविद्धौ हलधारिणौ सन्तावधोमुखतलौ यदा भवतस्तथेदं नाम ।
अथ सूचीमुखौ --- हस्तौ तु सर्पशिरसाविति । चतुरश्रस्थानगौ सर्पशिरसौ मध्यमाङ्गुलिनिविष्टाङ्गुष्ठौ कृतौ यदा तिर्यक्प्रसारितं पार्श्वगमनेन सह विकाशितं मुखं तर्जन्यग्ररूपं द्वयोस्तादृशौ बाहु(बहिः ?)प्रसारणेन पर्यायशः क्रियते तदा सूचीमुखौ सूचिवद्बाहु(द्बहिः?)प्रसारणात् । तत्र तुशब्दः पर्यायं द्योतयति ।
सूचीमुखौ ---
मध्यप्रसारिताङ्गुष्ठौ स्वस्तिकौ सर्पशीर्षकौ ।
†इत्येकेषां पाठः
अथ रेचितौ --- अर्धरेचितौ चापीति । केचित् रेच्चितावित्यस्य पौनरुक्त्यपरिजिहीर्षवो द्वे लक्षणे इत्याहुः । तेन द्रुतौ भ्रान्तावविकृतावेव हंसपक्षौ रेचितौ,

[(मू)]

1. म॰ श्लोको नास्ति

2. द॰ शिरसो

3. ड॰ मध्यस्याङ्गष्टकौ

4. भ॰ सूच्यग्राविति तौ स्मृतौ

5. क॰ अन्यैः क॰ च॰ छ॰ आदर्शेष्वेव

6. क॰ च॰ छ॰ म॰ आदर्शेष्वेव

7. छ॰ भवतः

8. म॰ तदा सूचीमुखौ स्मृतौ

9. क॰ हंसपक्षोद्धृतभ्रमौ, द॰ भ्रमद्रुतौ, म॰ भ्रमस्थितौ, भ॰ भ्रमक्रमौ

10. प॰ रेचितावेव संज्ञितौ, ड॰ रेचितावेव संस्थितौ ।

[(व्या)]

व्यावृत्तिपरिवृत्तिभ्यां चतुरश्रगौ पताकौ प्रथमं कृत्वा पश्चात्सर्पशिरसौ रेचितस्वस्तिकौ सूच्यास्याविति मतान्तरम् ।

* अरालाविति सोमेश्वरः ।

[page 73]




[NZ]

चतुरश्रो भवेद्वामः सव्यहस्तश्च रेचितः । BhNZ_09_194ab
विज्ञेयौ 1नृत्ततत्त्वज्ञैरर्धरेचितसंज्ञितौ2 BhNZ_09_194cd
अञ्चितौ कूपरांसौ तु त्रिपताकौ करौ कृतौ3 BhNZ_09_195ab
किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तानवञ्चितौ ॥ BhNZ_09_195cd
मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ । BhNZ_09_196ab
4बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ5 BhNZ_09_196cd
[ABh]

तथा प्रसारितोत्तानतलत्वेन विकृतावपि रेचिताविति । अन्ये त्वेकमेव वाक्यमित्याहुः । रेचितौ सन्तौ यौ द्रुतभ्रमो तौ रेचितसंज्ञाविति । न पौनरुक्त्यम् । संज्ञयैवार्धरेचिते लब्धे पुनर्वचनमविशेषेण चातुरश्र्यस्य स्थितिं सूचयन् नृत्तहस्तान्तरेष्वपि अङ्गपर्यायेण प्रयोगं सूचयति ।
अथोत्तानावञ्चितौ(1) --- अञ्चिताविति । त्रिपताकौ हस्तावंसकपोलललाटानामन्यतमक्षेत्रे कृतौ अञ्चनक्रियया युक्तौ, अन्योन्याभिमुखावर्धतिरश्चीनौ, तथांसयोः कूर्परयोश्चाञ्जनं किञ्चिच्चलनं भवति । अञ्चनसमये उत्तानत्वप्राप्तेः पुनरप्यञ्चनेनोद्गमनक्रियायोगान्मृदूत्तानावञ्चितौ(1) ।
अथ पल्लवौ --- मणिबन्धनमुक्तौ त्विति । ऊर्ध्वव्यावर्तितकरणेन बाहू प्रसार्य परिवर्तितक्रियया स्वस्तिकाकृती पताकौ । पल्लवाकारत्वात् तथोक्तौ । शिथिलौ पल्लवावित्यन्ये पठन्तः त्रिपताकावित्यनुवर्तयन्ति ।
अथ नितम्बौ --- बाहुशीर्षादिति । पताकाविति वर्तते । स्कन्धक्षेत्राद्विचित्रत्वेनोत्तानत्वाधोमुखत्वपर्यायत्वेन निष्क्रान्तौ पताकौ, नाम्ना क्षेत्रस्याक्षेपात् नितम्बक्षेत्रे तथैव पर्यायेण वर्तमानौ नितम्बौ ।(*)

[(मू)]

1. म॰ नाट्य

2. द॰ ऊर्ध्वरेचितसंज्ञितौ, प॰ संज्ञकौ

3. प॰ त्रिपताककृतौ करौ

4. म॰ बाहुश्रीर्षविनिष्क्रान्तौ, द॰ बाहुशीर्षादि

5. प॰ परिपार्श्वस्थिते यदा, म॰ संज्ञितौ ।

[(व्या)]

1. उत्तानवञ्चितौ ।

* त्रिपताकावन्ये पताकस्थाने वर्तयन्ति ।

[page 74]




[NZ]

1केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा2 BhNZ_09_197ab
विज्ञेयौ केशबन्धौ तु3 करावाचार्यसंमतौ ॥ BhNZ_09_197cd
तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । BhNZ_09_198ab
4लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति5 BhNZ_09_198cd
समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः6 BhNZ_09_199ab
7त्रिपताको ऽपरः कर्णे करिहस्तः प्रकीर्तितः8 BhNZ_09_199cd
[ABh]

अथ केशबन्धौ --- केशदेशादिति । आदौ पार्श्वक्षेत्रात् तत्पार्श्वपरिवर्तनपूर्वकमुत्थितौ(*) शिरःक्षेत्रं प्राप्तौ, अत एव केशदेशान्नितम्बहस्तोक्तवदेव विचित्रहस्तत्वेन निष्क्रान्तौ तथा तेनैव प्रकारेण पुनः केशदेश एव पर्यायशो गतागतत्वेन प्रत्यावर्तमानौ । केशसंबन्धात्केशबन्धौ । आचार्यसंमतौ च शोभातिशयकरणात् ।
अथ लताहस्तौ --- तिर्यक्प्रसारितौ चेति । पताकाविति वर्तते । अन्ये तु नितम्बादिषु त्रिपताकावित्यनुवर्तयन्ति लताहस्तान्तेषु ।
अथ करिहस्तः --- समुन्नत इत्यादि । संश्लेषक्रमेण य उन्नतः । विलोलित इति दोलावन्नीतः । अपरग्रहणात्त्रिपताक एव ललाटाख्य इति केचित् । खटकाख्योऽपर इत्यन्ये पठन्ति । सजातीयतयानारम्भो ऽस्य चतुरश्रवत्, विजातीयारम्भो ऽपि नृत्ताभ्यासस्य व्यपदेशादरालखटकामुखवत् । अतो न

[(मू)]

1. भ॰ अंसदेशविनिष्क्रान्तौ, न॰ एकदेशविनिष्क्रान्तौ, द॰ केशदेशान्निवृत्तौ तु

2. ड॰ पार्श्वस्थितौ यदा, द॰ पार्श्वक्षितौ यदा

3. प॰ बन्धाख्यौ

4. भ॰ चतुरश्रौ तु, द॰ लताख्यौ तु

5. न॰ आदर्शे श्लोको ऽयमधिको ऽस्ति `हस्तः पञ्चविधः कार्यो नाट्यनृत्तसमाश्रयः । उत्तानो ऽधस्तलस्त्यश्र ऊर्ध्वाधोमुख एव च ॥

6. ड॰ पार्श्वविलोकितः, द॰ पार्श्वविलोडनः

7. म॰ द्वितीयः कटकाख्यश्च करिहस्तौ प्रकीर्तितौ

8. ड॰ करिहस्तौ प्रकीर्तितौ ।

[(व्या)]

* पताकाविति वर्तते । अन्ये त्रिपताकाविति, केचित्पल्लवाविति च वर्तयन्ति ।

[page 75]




[NZ]

1कटिशीर्षनिविष्टौ द्वौ त्रिपताकौ यदा करौ । BhNZ_09_200ab
पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः2 BhNZ_09_200cd
तावेव तु परावृत्तौ पक्षप्रद्योतकौ3 स्मृतौ । BhNZ_09_201ab
4अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ BhNZ_09_201cd
हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । BhNZ_09_202ab
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ BhNZ_09_202cd
[ABh]

द्विवचनं । एकैकस्य पृथक्प्रयोगे करिहस्तत्वाभावादित्येकवचनमेव । तदाकारत्वाच्चेदं नाम(*) ।
अथ पक्षवञ्चितौ पक्षप्रद्योतौ च --- कटिशीर्षेति पाठः । वृत्तौ पक्षावञ्चितौ गतौ, तत्संमुखौ तु तं द्योतयतीति तथोक्तौ । एवकारेणानयोः व्यामिश्रितया प्रयोगशोभा भवतीत्याह ।
अथ गरुडपक्षौ --- अधोमुखेति । अधोमुखौ नितम्बक्षेत्रे भूत्वा तलेनाविद्धौ ऊर्ध्वगमनं झटिति कुर्वाणौ । तार्क्ष्यभुजाकाराक्षेपात् लिङ्गवाक्यप्रामाणत्वात्सुकरणं प्राप्तं त्रिपताकबाधेन पताकावुपलभ्येते ।
अथ दण्डपक्षौ --- हंसपक्षकृताविति । एकस्य हंसपक्षस्य व्यावर्तने विलासेन पार्श्वाद्वक्षःक्षेत्रस्य निकटस्य वर्तनं तत्समकालमेव द्वितीयस्य स्वदेहपरिवर्तनेन वर्तनं भुजप्रसारणपर्यन्तं पुनरपरेणाङ्गेनेति द्वावपि प्रसारितभुजौ व्यावर्तितपरिवर्तितौ च भवत इति पक्षे पार्श्वतो दण्डवद्भुज इति दण्डपक्षौ । युगपदेव द्वयोरपि प्रसारणं व्यावर्तनपरिवर्तने तु क्रमेणेत्यन्ते ।

[(मू)]

1. प॰ करिहस्तनिविष्टाग्रौ

2. म॰ विज्ञेयौ नाट्यकोविदैः

3. भ॰ पक्षोद्द्योतकरौ

4. म॰ चतुरश्रमुरःकृत्वा

[(व्या)]

1. तत्संमुखौ कृतम् ।

* यत्कीर्तिधराचार्येण त्वर्धरेचिताविति नामसाम्येन करिहस्ताविति द्विवचनान्तपाठ एव गृहीतः साधीयानिति समर्थितश्च तन्मतस्य खण्डनमेतद्वाक्यम् । अयं भावः --- चतुरश्रावित्यादौ सजातीयकरद्वन्द्वेन वा, अरालखटकामुखादौ विजातीयतया वा द्विवचनं संभाव्यते । न तु करिहस्ते यत्राकृतित्वाच्च, द्वितीयहस्तप्रयोगगौणत्वाच्च, एकहस्तप्रयोग एव द्योत्यते ।

[page 76]




[NZ]

ऊर्ध्वमण्डलिनौ 1हस्तावूर्ध्वदेशविवर्तनात् । BhNZ_09_203ab
तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ2 BhNZ_09_203cd
उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः3 BhNZ_09_204ab
4भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ BhNZ_09_204cd
5अलपल्लवकारालावुरोऽर्धभ्रमणक्रमात् । BhNZ_09_205ab
[ABh]

अथोर्ध्वमण्डलौँ --- ऊर्ध्वमण्डलिनाविति । वक्षोदेशाद्व्यावर्तितकरणेन ललाटक्षेत्रेण पार्श्वगमनं विधाय ततो ऽपि मण्डलवद्भ्रमणेन प्रसारितावूर्ध्वमण्डलिनौ । प्रसारितभुजाविति वर्तते । ललाटप्राप्तिपर्यन्तेनैवानयोर्लक्षणं शिष्टं तु पार्श्वमण्डलिनोरिति केचित् । तावेव पार्श्वविन्यस्ताविति वचनान्नृत्तप्रसिद्ध(चक्र)वर्तनात्मकावूर्ध्वमण्डलावित्यन्ये(*) ।
अथ पार्श्वमण्डलौ --- तावेवेति । ऊर्ध्वमण्डलावेव पार्श्वगतौ पताकाकृती परस्परसम्मुखौ । (*)अन्ये तु निर्वचनसमर्थनाशयेन स्वपार्श्व एवाविद्धभुजभ्रमणवर्तनात्मकनयो रूपमाहुः ।
अथोरोमण्डलिनौ --- उद्वेष्टित इति । चकारसंनियोगेन यौगपद्यमाह । उरस इति पञ्चमी । तत आरभ्य पार्श्वक्षेत्रे भ्रमितावेकस्यागमनस्य परस्य गमनमिति वर्तनया । षष्ठीत्यन्ये वदन्तः तत्रैव स्थानमित्याहुः । ऊर्ध्वपार्श्वोरोमण्डलिषु हंसपक्षावित्यपरे वर्तयन्ति ।
अथोरःपार्श्वार्धमण्डलौ --- अलपल्लवकारालाविति । वक्षोदेशत उत्तानो हस्तः संस्तम्भो ऽलपल्लवसंस्थानदायिना व्यावर्तितकरणेन निष्कृष्यते ।

[(मू)]

1. भ॰ ज्ञेयौ पुरो, प॰ हस्तावुरो

2. म॰ करौ, भ॰ विज्ञेयौ मण्डलौ करौ

3. प॰ द्वितीयश्च विवेष्ठितः

4. ढ॰ भ्रमितौ, म॰ तद्भ्रामितावुरःस्थाने ह्युरो

5. म॰ अलपल्लवसंस्थानादूर्ध्वाग्रौ पद्मकोशकौ, ड॰ अलपल्लवकारालावुरोर्ध्व, न॰ अलपल्लवकारालावधोर्ध्वं ।

[(व्या)]

* अन्ये --- कीर्तिधराचार्यादयः । ते पार्श्वमण्डलिनोः कक्षवर्तनेत्याहुः ।

[page 77]




[NZ]

1पार्श्वावर्तश्च विज्ञेयावुरःपार्श्वार्धमण्डलौ2 BhNZ_09_205cd
हस्तौ तु मणिबन्धान्ते कुञ्चितावञ्चितौ यदा3 BhNZ_09_206ab
4खटकाख्यौ कृतौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ BhNZ_09_206cd
5पद्मकोशौ यदा हस्तौ 6व्यावृत्तपरिवर्तितौ । BhNZ_09_207ab
नलिनीपद्मकोशौ तु 7तदा ज्ञेयौ प्रयोक्तृभिः ॥ BhNZ_09_207cd
[ABh]

तत्समकालं च पार्श्वप्रसारितभुजो द्वितीयो हस्तस्तर्जन्याद्युद्वेष्टितसन्निवेशेनारालरूपदायिना वक्षोदेशमानीयते । पुनरेवमिति । उरसि अर्धमेको हस्तः पार्श्वे च द्वितीयो मण्डलवद्गतागतक्रमेण कुरुत इति तथोक्तौ ।
अथ मुष्टिकस्वस्तिकौ --- हस्तौ तु मणिबन्धान्त इति । एकः कुञ्चितो ऽरालवर्तनया अपरो ऽञ्चितो ऽलपल्लववर्तनया पुनरङ्गपर्याय(1) इत्येवं वर्तनानन्तरं खटकामुखाभ्यां स्वस्तिक इति पारम्पर्येण मुष्टिप्रभवत्वात्खटकस्य मुष्टिकस्वस्तिकव्यपदेशो मुष्टिशिखरकपित्थखटकानामन्यतमप्रयोगानुज्ञानार्थमिति तद्विदः(*) ।
अथ नलिन्याख्यौ पद्मकोशौ --- पद्मकोशाविति । पद्मकोशौ सम्मुखौ श्लिष्टमणिबन्धौ । ततो ऽप्येकस्य कनीयसः संमुखुममपरस्याङ्गुष्ठं मुखं क्रियया परिवर्तनमिति केचित् । इदं त्वत्र युक्तम् --- व्यावृत्तेन परिवृत्तौ यदा पद्मकोशाविति सङ्गतिः । अस्मिन् मुष्टावेव स्वस्तिकक्षेत्रे करौ कृत्वा द्वयोरपि यदा व्यावर्तितकरणेन कनिष्ठादिना परिवर्तनमन्योन्यपराङ्मुखता तदनन्तरं च पद्मकोशद्वयं तदा । नलिन्यामनेककमलसंभवादिदं नाम । †

[(मू)]

1. ड॰ पार्श्वार्धतश्च, म॰ पार्श्वोर्ध्वतश्च

2. म॰ पार्श्वोर्ध्वमण्डलौ

3. द॰ कुञ्चितावकुञ्चितौ

4. ड॰ खटकाख्यौ तु तौ, ढ॰ खटकास्यौ तु तौ, भ॰ तदामुष्टयागतौ ज्ञेयौ संमुखौ तु परस्परम्

5. म॰ पद्मकोशकृतौ

6. ड॰ व्यावर्त, भ॰ न्यस्तौ तु स्वस्तिकौ यदा

7. म॰ च॰ तौ नाम्नौ संप्रकीर्तितौ ।

[(व्या)]

1. व्यवायः ।

* एकः कुञ्चितो मुष्टिरपरो ऽञ्चितः खटक इत्युक्त्वा तावेव खड्गवर्तनेत्याह कीर्तिधराचार्यः ।

कीर्तिधराचार्यस्तु पद्मकोशौ स्कन्धस्तनजानुष्वन्यतमक्षेत्रे विवर्तिताविति लक्षयति । तावेव पद्मवर्तनेति चाह ।

[page 78]




[NZ]

करावुद्वेष्टिताग्रौ च1 2प्रविधायालपल्लवौ । BhNZ_09_208ab
3ऊर्ध्वप्रसारिताविद्धौ 4कर्तव्यावुल्बणाविति ॥ BhNZ_09_208cd
पल्लवौ 5च शिरोदेशं6 संप्राप्तौ 7ललितौ स्मृतौ8 BhNZ_09_209ab
कूर्परस्वस्तिकगतौ9 लताख्यौ वलिताविति10 BhNZ_09_209cd
11[करणे तु प्रयोक्तव्या नृत्तहस्ता विशेषतः । BhNZ_09_210ab
तथार्थाभिनये चैव पताकाद्याः प्रयोक्तृभिः ॥ BhNZ_09_210cd
सङ्करो ऽपि भवेत् तेषां प्रयोगो ऽर्थवशात्पुनः । BhNZ_09_211ab
प्राधान्येन पुनस्संज्ञा नाट्ये नृत्ते करेष्विह ॥ BhNZ_09_211cd
[ABh]

अथोल्बणौ ललितौ च । करावुद्वेष्टिताग्राविति । वक्षःक्षेत्रादुद्वेष्टितप्रधानौ हस्तौ विधायोर्ध्वस्कन्धक्षेत्रे प्रसारितावाविद्धौ च स्कन्धाभिमुखचलदङ्गुलीकावलपल्लवौ भवतस्तदोल्बणौ । हर्षपरवशां चित्तवृत्तिं सूचयतः इत्युल्बणौ ।
अथ ललितौ --- अलपल्लवावेव तु शिरःक्षेत्रप्राप्तौ चलिनौ ललितौ चातुरश्र्येणाङ्गलालित्योपादानात् ।
अथ वलिनौ --- कूर्परस्वस्तिकगताविति । कूर्परस्थाने स्वस्तिकौ लताहस्तौ बाह्वेर्वलनाद्वलितौ इति । शब्द एवंप्रकारवर्तनान्तरसूचकः ।
करणसंश्रयान्करान्वक्ष्यामीति । करणासक्तत्वाद्विशेषणभागस्यैव संश्रियमाणस्य करणस्य प्रवचनं फलतः । यथा लोहितोष्णीषा ऋत्विजः प्रचरन्तीति वचनानन्तरादृत्विजां प्रचारलाभात् द्वाविति(?)विभक्तिरुपपदार्थविधानपरेति करणं करणानि वा इति ह्यर्थे पाठः । (करणं) क्रियते सम्पाद्यते बलादेवाभिनयविशेषो, येनाङ्गुलितुलनक्रियाविशेषेण स्वसमाप्तौ निराकाङ्क्षायां स करणं, यथा कनिष्ठाद्यावर्तनेनालपल्लवः, विपरीतवर्तनायां तु परिसमाप्त्यभावे वर्तनायाः क्रियान्तराकाङ्क्षा । तद्वेवेदमङ्गतत्त्वविदस्त्रोटनमङ्गस्येति

[(मू)]

1. च॰ तु

2. म॰ विच्युतावलपल्लवौ

3. ढ॰ ऊर्ध्वं

4. प॰ विज्ञेयौ

5. द॰ तु

6. ड॰ देशे

7. प॰ वलितौ

8. द॰ लता

9. म॰ न्यस्तौ

10. द॰ लताख्यवलिताविति, म॰ वलितौ स्मृतौ

11. द्वौ श्लोकौ न॰ म॰ योरेव ।

[(व्या)]

[page 79]




[NZ]

1वियुतास्संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः2 ।] BhNZ_09_212ab
3अतः परं प्रवक्ष्यामि करान्करणसंश्रयान्4 BhNZ_09_212cd
सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः5 BhNZ_09_213ab
6विज्ञातव्यं प्रयत्नेन करणं तु चतुर्विधम् ॥ BhNZ_09_213cd
7अथावेष्टितमेकं स्यादुद्वेष्टितमथापरम् । BhNZ_09_214ab
व्यावर्तितं तृतीयं 8तु चतुर्थं परिवर्तितम् ॥ BhNZ_09_214cd
9आवेष्ट्यन्ते यदाङ्गुल्यस्तर्जन्याद्या यथाक्रमम् । BhNZ_09_215ab
10अभ्यन्तरेण करणं तदावेष्टितमुच्यते11 BhNZ_09_215cd
12उद्वेष्ट्यन्ते यदाङ्गुल्यस्तर्जन्याद्या बहिर्मुखम्13 BhNZ_09_216ab
क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ BhNZ_09_216cd
14आवर्त्यन्ते कनिष्ठाद्या 15अङ्गुल्यो ऽभ्यन्तरेण तु । BhNZ_09_217ab
16यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥ BhNZ_09_217cd
[ABh]

व्यवहरन्ति । तेन येषु हस्तेषु तर्जन्यादेः कुञ्चनं तेष्वरालवत्क्रिया, यथा शुकतुण्डचतुरमृगशीर्षकादिषु । एवमन्यदुत्प्रेक्ष्यम् । पताकस्य तु सर्ववर्तनासु कार्यकरणतया साधारण्यं सर्वप्रकृतित्वम् । तत एव प्राधान्यात् पताकव्यपदेशः । नाट्यशब्देनाभिनयनहस्ताः नृत्तशब्देन नृत्तहस्ताः सूचिताः । अभ्यनतरेण

[(मू)]

1. म॰ असंयुताः संयुताश्च

2. न॰ हस्ताश्च कीतिताः

3. म॰ वक्ष्याम्यतः परमहं

4. प॰ करणं हस्तसंश्रयम्

5. म॰ नृत्तप्रवेदिभिः, ज॰ नृत्तप्रदर्शिभिः, ढ॰ नृत्तप्रदेशिभिः, भ॰ ज्ञेयं कर्म चतुर्विधम्

6. भ॰ आदर्शे श्लोकार्धो नास्ति

7. ज॰ अपवेष्टित, भ॰ उद्वेष्टितमपवेष्टितमावर्तविवेष्टितं चैव

8. द॰ च

9. म॰ उद्वेष्ट्यन्ते

10. म॰ उद्वेष्टितं तु करणं तज्ज्ञेयं हस्तसंश्रयम्, ज॰ भवेत्तदपवेष्टितम्, छ॰ आवेष्टितं तु करणं तदा ज्ञेयं प्रयोक्तृभिः

12. म॰ आवेष्ट्यन्ते

13. ड॰ मुखाः, म॰ कनिष्ठाद्याः पुनः पुनः । तदावेष्टितमित्याहुः करणं हस्तसंश्रयम् । यदाङ्गुल्यो ऽपवेष्ट्यन्ते कनिष्ठाद्याः पुनः पुनः । अपवेष्टितमित्याहुः करणः हस्तसंश्रयम् । कुञ्चितौ मणिबन्धान्ते व्यावृत्तपरिवेष्टितौ । शुकतुण्डे यदाहस्तं स्मृतं त्वावर्तितं तत् ॥

14. न॰ आवेष्ट्यन्ते, द॰ आवर्त्यन्ते, म॰ आदर्शे द्वौ श्लोकौ न स्तः

15. ह्यङ्गुल्यो

16. ड॰ यत्तु, न॰ यत्र ।

[(व्या)]

[page 80]




[NZ]

1उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः2 क्रमशो यदा । BhNZ_09_218ab
अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ BhNZ_09_218cd
3नृत्ते ऽभिनययोगे च4 पाणिभिर्वर्तनाश्रयैः । BhNZ_09_219ab
मुखभ्रूनेत्रयुक्तानि करणानि प्रयोजयेत्5 BhNZ_09_219cd
6तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितो ऽपविद्धस्तु । BhNZ_09_220ab
मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारी च ॥ BhNZ_09_220cd
[ABh]

तलसंमुखत्वेन बाह्यपार्श्वात् देहं प्रति वक्षःक्षेत्रपर्यन्तप्राप्त्या । अतो वैतरीत्येन बहिर्मुखत्वं कनिष्ठाद्यावर्तत इति तलसंमुखमेवाभ्यन्तरत्वं वक्षःक्षेत्रात्तु बहिर्निर्गमनम् । एतद्विपर्यासेन बाह्यता ।
ननु किमेतैरावेष्टिताद्यैरित्याशङ्क्य एतेषां साधकतमत्वं दर्शयति नृत्ते ऽभिनययोगे चेति । नृत्ते नाट्ये च करणानि प्रकर्षेण योजयेत् । केन हेतुनेत्याह पाणिभिरिति, यतो वर्तना जाता जन्यजनकाश्च पूर्वपश्चाद्भावित्वेन । पाणयो नृत्तनाट्यहस्ताः । कथं प्रयोजयेदित्याह मुखभूनेत्रयुक्तानीति । यतो हि वर्तना धावन्ति तत एव मुखा(दी)नीति तात्पर्यम् । नेत्रभ्रूमुखरागाः यैर्व्यञ्जिता इति त्वियमभिनयेषु पूरणार्था प्रक्रिया । इयं तु वर्तनास्वित्यपौनरुक्त्यम् ।
बाहुलग्नत्वादङ्गुलिक्रियायास्तद्भेदानाह तिर्यक्तथोर्ध्वसंस्थ इत्यादि । तिर्यगिति पार्श्वगत्या, ऊर्ध्वः शिरसो ऽप्युपरि गच्छन्, अधोमुखो भुवमाश्लिष्यन्, अञ्चितो वक्षोदेशान्निष्क्रम्य शिरःक्षेत्रमेव प्रत्यागतः, अपविद्धो, मण्डलगतेः

[(मू)]

1. द॰ आवर्त्यन्ते, छ॰ उद्वेष्ट्यन्ते

2. द॰ बाह्यशः

3. म॰ नृत्ते चाभिनये चापि हस्तैरेतानि नित्यशः

4. ड॰ तु

5. म॰ करणानि तु कारयेत् ।

6. ड॰ न॰ म॰ प॰ न॰ प्रभृतिष्वादर्शेषु ---

तिर्यगूर्ध्वगतश्चैव तथाधोमुख एव च ।

आविद्धश्चाप(पि-म॰)विद्धश्च मण्डलः स्वस्तिकस्तथा ।

अञ्चितः कुञ्चितश्चैव पृष्ठगश्चेति चोदितः (ताः -म॰)॥

बाहुप्रकारो(शो -- ड॰, श -- द॰)दशधा नाट्यनृत्तसमाश्रयः (प्रयोक्तृभिः -- ड॰)

[(व्या)]

[page 81]




[NZ]


उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । BhNZ_09_221ab
बाह्वोरिति करणगता 1विज्ञेया नर्तकैर्नित्यम् ॥ BhNZ_09_221cd
हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । BhNZ_09_222ab
अत ऊर्ध्वं व्याख्यास्ये 2हृदयोदरपार्श्वकर्मणि3 BhNZ_09_222cd
4आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । BhNZ_09_223ab
उद्वाहितं समं चैव ह्युरः5 पञ्चविधं स्मृतम् ॥ BhNZ_09_223cd
6निम्नमुन्नतपृष्ठं च 7व्याभुग्नांसं श्लथं क्वचित् । BhNZ_09_224ab
आभुग्नं 5तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ BhNZ_09_224cd
[ABh]

सर्वतो भ्रमन् । पृष्ठं स्वकायस्यानुसरतीति पृष्ठानुसारी । उद्वेष्टितो मणिबन्धनवर्तनया निष्क्रामणप्रसारितस्य तु स्पष्टमेवाग्रमनुधावन् । एतेषु करणेषु चतुर्षु द्रुतमध्यविलम्बितादिवैचित्र्येण बाहुपर्यायेण च समस्तानि योजनया यदा नियुज्यन्ते तदा घातवर्तनादिशतसहस्राण्यत्रैवान्तर्भूतानीति यदेके चत्वारिंशतमन्ये शतमाहुस्तन्मिथ्यैव । तदाह करणगता विशेषा अवश्यं ज्ञातव्या इति । नित्यमेतद्व्यतिरिक्तप्रयोजनाभावात् ।
अथोरसः कर्माण्याह आभुग्नमित्यादि । निम्नमिति ससङ्कोचम् । क्वचिदिति मध्ये मध्ये, श्लथं शिथिलं निरवष्टम्भं कृत्वा व्याभुग्नावधः पतन्ताविवांसौ ।

[(मू)]

1. छ॰ विशेषा

2. प॰ हृदयोरः

3. ज॰ प्रभृति, म॰ पर्यन्तं सर्वासु मातृकासु ``इति भारतीये नाट्यशास्त्रे हस्ताभिनयो नाम नवमो ऽध्यायः, म॰ हस्ताध्यायः, द॰ नवमः [[[?]]](188 आदितः 1688 श्लो)

4. च॰ आभुग्नमप्यनिर्भुग्नं

5. ड॰ -उरः

6. म॰

निम्नमध्यं भवेद्यत्त व्याभग्नांसं तथैव च ।

आभुग्नमिति तत्प्रोक्तं कर्माण्यस्य निबोधत ॥

7. न॰ आभुग्नांसं, ड॰ व्याभुग्नं संश्लथं

8. द॰ च उरो

[(व्या)]

[page 82]




[NZ]

1सम्भ्रमविषादमूर्च्छशोकभयव्याधिहृदयशल्येषु2 BhNZ_09_225ab
कार्यं 3शीतस्पर्शे वर्षे 4लज्जान्विते ऽर्थवशात् ॥ BhNZ_09_225cd
5स्तब्धं च निम्नपृष्टं च निर्भुग्नांसं समुन्नतम् । BhNZ_09_226ab
उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ BhNZ_09_226cd
स्तम्भे 6मानग्रहणे विस्मयदृष्टे च7 सत्यवचने 8च । BhNZ_09_227ab
अहमिति च 9दर्पवचने 10गर्वोत्सेके च कर्तव्यम् ॥ BhNZ_09_227cd
[(11)अत्र केचित् --- क्षेपको ऽयम् ---
दीर्घनिःश्वसिते चैव जृम्भणे मोटने तथा । BhNZ_09_228ab
12बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ॥ ] BhNZ_09_228cd
13ऊर्ध्वक्षेपैरुरो यत्र निरन्तरकृतैः कृतम्14 BhNZ_09_229ab
15प्रकम्पितं च 16तज्ज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ BhNZ_09_229cd
17हसितरुदितेषु कार्यं श्रमे भये श्वासकासयोश्चैव । BhNZ_09_230ab
18हिक्के दुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ BhNZ_09_230cd
[ABh]

यत्र शीतेनापि विना दुर्दिने । एवमेव मार्गे भ्रमणमिति वर्ष इत्युक्तम् । सम्यगुत्थितं कृत्वा निष्क्रान्तौ शुद्धा(भुग्ना?)वंसौ यत्र । हिक्का स्पष्टम् ।

[(मू)]

1. भ॰

शस्त्रच्छेदे विषादे च हृच्छोके मूर्छिते भवेत् ।

खेदे कार्यं वर्षे शीतस्पर्शे लज्जान्विते ऽपि च ॥

2. ड॰ शिल्पेषु

3. ड॰ तेन स्पर्शे, न॰ शीते, द॰ शीते वर्षे स्पर्शे

4. ड॰ लज्जाः यिते

5. म॰ स्तब्धं समुन्नतं चैव निम्नं पृष्ठं तथैव च

6. ड॰ मानप्रग्रहणे, न॰ माने ग्रहणे

7. ड॰ तु

8. द॰ दृष्टे च, छ॰ विस्मयहर्षे च सत्त्वदृष्टे च

9. न॰ जल्प

10. ड॰ गर्वोत्साहे, न॰ गर्वे शोके, भ॰ गर्वोद्वृत्ते विषादे च

11. अयं श्लोकः क॰ ख॰ ग॰ च॰ आदर्शेष्वेवास्ति

12. क॰ विद्वेषे

13. ड॰ ऊर्ध्वोत्क्षेपै, द॰ उरोक्षेपैः, ढ॰ ऊर्ध्वोत्क्षेपैरुरसो

14. म॰ कृतैर्युतम्

15. न॰ आकम्पितं तु कर्तव्यं कर्म चास्य निबोधत

16. ड॰ तु विज्ञेयं, म॰ तु तज्ज्ञेयं कर्म चास्य निबोधत

17. न॰ हसिते रुदिते कार्यं, द॰ ड॰ हसितरुदितादि, (द॰ --ति) संभ्रमभयश्रमव्याधिपीडितार्थेषु

18. न॰ हिल्के, च॰ हिक्का, द॰, ड॰ नानाभावोपगतं कार्यमुरो नाट्ययोगेषु

[(व्या)]

[page 83]




[NZ]

1उद्वाहितं तूर्ध्वकृतमुरो ज्ञेयं प्रयोक्तृभिः । BhNZ_09_231ab
2दीर्घोच्छ्वासोन्नतालोके जृम्भणादिषु चेष्यते ॥ BhNZ_09_231cd
3सर्वैरेवाङ्गविन्यासैश्चतुरश्रकृतैः कृतम्4 BhNZ_09_232ab
5उरः समं तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ BhNZ_09_232cd
एतदुक्तं मया सम्यगुरसस्तु विकल्पनम्6 BhNZ_09_233ab
7अतः परं प्रवक्ष्यामि पार्श्वयोरिह8 लक्षणम् ॥ BhNZ_09_233cd
नतं समुन्नतं चैव प्रसारितविवर्तिते9 BhNZ_09_234ab
10तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ BhNZ_09_234cd
11कटी भवेत् तु व्याभुग्ना पार्श्वमाभुग्नमेव च12 BhNZ_09_235ab
13तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम्14 BhNZ_09_235cd
15नतस्यैवापरं पार्श्वं विपरीतं तु युक्तितः16 BhNZ_09_236ab
17कटिपार्श्वभुजांसैश्चाभ्युन्नतैरूनतं भवेत्18 BhNZ_09_236cd
19आयामनादुभयतः पार्श्वयोः स्यात्प्रसारितम् । BhNZ_09_237ab
[ABh]


[(मू)]

1. म॰ उद्वाहितमूर्ध्वगतं यदुरस्तु स्वभावतः । दीर्घे निःश्वसिते कार्ये जृम्भणे च तथैव च, न॰ उद्वाहितमूलकृतं, ड॰ उद्वाहितमूर्ध्वमुरो ज्ञेयं प्रयोगतः

2. ड॰ दीर्घोच्छ्वासनतालोके, ड॰ -दीर्घोच्छ्वासोन्नतालोके, न॰ दीर्घनिःश्वसितं कार्यं, द॰ दीर्घोच्छ्वासायताघ्राणा

3. ड॰ सर्वैः ससौष्ठवैरङ्गैः

4. न॰ कृतैस्तु यत्, द॰ कृतैश्च यत्

5. म॰ समं तच्चैव विज्ञेयमुरः सौष्ठवसम्भवम्, द॰ उरः सममिदं ज्ञेयं स्वभावाभिनयात्मकम्

6. द॰ उरःशास्त्रविकल्पनम्

7. ड॰ अत ऊर्ध्वं

8. म॰ पार्श्वयोरपि

9. ढ॰ विवर्तने

10. ड॰ तथा प्रसृतमेतत्तु, म॰ तथापसृतमेवं स्यात्

11. ड॰ कटिर्भवेत्तु, द॰ कटी भवेत्तथा भुग्ना, म॰ कटिर्भवेत्तु निर्मग्ना

12. द॰ तु

13. ढ॰ तथैवोपसृतांसं तु

14. म॰ भवेत्

15. म॰ अन्यत्पार्श्वनतादस्माद्विपरीतं प्रयोगतः, ड॰ तस्यैव चापरं

16. द॰ यत्कृतः

17. म॰ कटीपार्श्वभुजांसानामुन्नतैः, द॰ कटिपार्श्वभुजांसं वाभ्युन्नतैः

18. म॰ स्मृतम्

19. म॰ प्रसारणात्

[(व्या)]

[page 84]




[NZ]


1परिवर्तात्त्रिकस्यापि विवर्तितमिहेष्यते2 BhNZ_09_237cd
3निवर्तनापनयनाद्भवेदपसृतं पुनः4 BhNZ_09_238ab
5पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ BhNZ_09_238cd
6उपसर्पे नतं कार्यमुन्नतं चापसर्पणे7 BhNZ_09_239ab
प्रसारितं 8प्रहर्षादौ परिवृत्ते विवर्तितम् ॥ BhNZ_09_239cd
विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । BhNZ_09_240ab
एतानि पार्श्वकर्माणि जठरस्य निबोधत9 BhNZ_09_240cd
क्षामं खल्वं10 च पूर्णं च सम्प्रोक्तमुदरं त्रिधा11 BhNZ_09_241ab
तनु क्षामं नतं 12खल्वं 13पूर्णमाध्मातमुच्यते ॥ BhNZ_09_241cd
क्षामं14 हास्ये ऽथ रुदिते निःश्वासे जृम्भणे भवेत् । BhNZ_09_242ab
व्याधिते तपसि15 श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ BhNZ_09_242cd
16पूर्णमुच्छ्वासिते स्थूले व्याधितात्यशनादिषु । BhNZ_09_243ab
(17)अन्ये तु ---
क्षामं खल्लं समं पूर्णमुदरं स्याच्चतुर्विधम् ॥ ] BhNZ_09_243cd
[ABh]


[(मू)]

1. झ॰ परिवर्तः, ड॰ परिवतितकस्यपि, म॰ परिवर्तं त्रिकस्याथ, न॰ परिवर्तनात्त्रिकस्यापि

2. म॰ अथोच्यते

3. म॰ तस्यैव चापगमनात्

4. म॰ सृतं तु तत्

5. भ॰ प्रयोगमेषां वक्ष्यामि पुनस्तन्मे नत ... ।

6. न॰ उपसर्पणे नतं कार्यं, ज॰ द्वौ श्लोकौ न स्तः

7. ढ॰ चापसर्पणम्

8. द॰ स्यादायामे परावृत्ते, ढ॰ प्रकर्षादौ परिवृत्तौ, ड॰ प्रकार्षोदौ परावृत्त्या, भ॰ प्रहर्षादौ त्रासे चापसृतं भवेत् । विवर्तनं निवर्ते च करणे पार्श्वमिष्यते

9. भ॰ यथायोगं प्रयोजयेत्

10. भ॰ खल्लं

11. भ॰ बुधैः

12. द॰ खल्लं

13. ड॰ पूर्णमानत, ढ॰ पूर्णमायात, छ॰ पूर्णमाध्यात, झ॰ पूर्णमाध्नात

14. ड॰ हासे च, भ॰ तु हसिते कार्यं तथा चैव प्रजृम्भण

15. म॰ तपसा

16. भ॰ पूर्णं निःश्वसिते कार्यं भुक्ते पीते च योक्तृभिः, न॰ पूर्णमुच्छासिते स्थूल, ड॰ पूर्णमुच्चलिते स्थूलव्याधितन्द्र्यशनादिषु, द॰ पूर्णमुच्छ्वासितारोग्य, 17. ज॰ आदि म॰ अन्तेष्वादर्शेषु नास्ति ।

[(व्या)]

[page 85]




[NZ]

1इत्येतदुदरस्योक्तं कर्म कट्या निबोधत । BhNZ_09_244ab
2छिन्ना चैव निवृत्ता च रेचिता कम्पिता तथा3 BhNZ_09_244cd
उद्वाहिता 4चेति कटी नाट्ये नृत्ते च पञ्चधा5 BhNZ_09_245ab
6कटी मध्यस्य वलनाच्छिन्ना सम्परिकीर्तिता7 BhNZ_09_245cd
8पराङ्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता9 BhNZ_09_246ab
सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी10 BhNZ_09_246cd
11तिर्यग्गतागता क्षिप्रं 12कटी ज्ञेया प्रकम्पिता । BhNZ_09_247ab
13नितम्बपार्श्वोद्वहनाच्छनैरुद्वाहिता कटी ॥ BhNZ_09_247cd
14पुनश्चासां प्रवक्ष्यामि विनियोगप्रयोजनम्15 BhNZ_09_248ab
16छिन्ना व्यायामसम्भ्रान्तव्यावृत्त17प्रेक्षणादिषु ॥ BhNZ_09_248cd
18निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु19 BhNZ_09_249ab
20कुब्जवामननीचानां गतौ कार्या प्रकम्पिता ॥ BhNZ_09_249cd
स्थूलेषूद्वाहिता योज्या स्त्रीणां लीलागतेषु च । BhNZ_09_250ab
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा ॥ BhNZ_09_250cd
[ABh]


[(मू)]

1. ड॰ इत्येतदुदरं प्रोक्तं कट्याः कर्म

2. म॰ च्छिन्ना प्रकम्पिता चैव विवृत्ता रेचिता तथा

3. ज॰ भवेत्

4. ड॰ चैव कटी

5. म॰ नृत्ते पञ्चविधास्स्मृता

6. भ॰ मध्यस्य वलनात्तत्र कटी च्छिन्नेति कीर्तिता, ढ॰ सा परिकीर्तिता

7. द॰ आदर्शे श्लोकार्धो नास्ति

8. म॰ विवृत्ता परिकीर्तिता

9. म॰ भ्रमणाच्चैव रेचिता त्वभिसंहिता

10. म॰ आदर्शे च्छिन्नालक्षणानन्तरमस्ति

11. ड॰ क्षिप्ता

12. म॰ विज्ञेया सा प्रकम्पिता

13. म॰ नितम्बोद्वाहनाच्चैव क्रमेणोद्वाहिता स्मृता

14. ज॰ ड॰ कटिकर्म मया प्रोक्तं विनियोगं निबोधत

15. न॰ योगं प्रयोगजम्, भ॰ योगं प्रसादनम्

16. भ॰ छिन्ना कार्या कटी भ्रान्ते विवृता वर्तनेषु च

17. द॰ पृष्ठतः

18. भ॰ रेचिता रेचितेषु स्यादन्या लीलागते स्त्रियः

19. ड॰ भ्रमणेषु च

20. . म॰ वृद्धवामनकुब्जानां गतौ कार्या प्रकम्पिता । व्यायामे त्वथ संभ्रान्ते विवृत्ता प्रेक्षितेषु च । निवृत्ता ...

[(व्या)]

[page 86]




[NZ]

1विवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत्2 BhNZ_09_251ab
3नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् ॥ BhNZ_09_251cd
4गच्छेदभ्यन्तरं जानु यत्तु तद्वलनं स्मृतम् । BhNZ_09_252ab
5स्तम्भनं चात्र विज्ञेयमपविद्ध6क्रियात्मकम् ॥ BhNZ_09_252cd
वलिताविद्धकरणादुद्वर्तनम् इतीरितम्7 BhNZ_09_253ab
पार्ष्णिरभ्रन्तरं गच्छेद्यत्र तत्तु निवर्तनम्8 BhNZ_09_253cd
9गतिष्वधमपात्राणां भये चापि हि कम्पनम्10 BhNZ_09_254ab
वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ॥ BhNZ_09_254cd
11साध्वसे च विषादे च स्तम्भनं सम्प्रयोजयेत्12 BhNZ_09_255ab
व्यायामे ताण्डवे चैव कार्यम् उद्वर्तनं बुधैः13 BhNZ_09_255cd
14विवर्तनं च कर्तव्यं सम्भ्रमादिपरिक्रमे15 BhNZ_09_256ab
[ABh]

शिष्टकटीत्रिकस्कन्धकर्माणि पार्श्वकर्माणीति । गतेषु तदुक्तमपविद्धक्रियात्मकमिति निष्क्रयत्वमिति यावत् ।

[(मू)]

1. ड॰ निर्वतनं

2. न॰ योजयेत्

3. म॰ नमनोन्नमनं पार्ष्ण्योर्महीपृष्टे द्रुतभ्रमम् । स्थित्वा पादतलाग्रेण तदूर्ध्वं कम्पनं स्मृतम् ।

4. न॰ गच्छेच्चाभ्यन्तरा, द॰ गच्छेदभ्यन्तरे, ड॰ गच्छेदभ्यन्तराज्जानु, म॰ गच्छेदभ्यन्तराज्जातु शनैर्यद्वलनं तु तत् । क्रियायाश्चाप्रवृत्तिर्या स्तम्भनं तदुदाहृतम् ।

5. म॰ आदर्शे नास्ति

6. न॰ अपवृत्तम्

7. भ॰ भावो यस्तदुद्वर्तनमिष्यते, ड॰ करणादूर्वोरुद्वर्तनं स्मृतम्

8. ड॰ तत्र निवर्तनम्

9. द॰ आदर्शे त्रयो विनियोगश्लोका न सन्ति

10. क॰ भवेच्चापि हि कम्पनम्, म॰ कम्पनं संप्रयोजयेत्, झ॰ भयतो ऽपि हि कम्पनम्, न॰ प्रकम्पनम्

11. म॰ ह्रीसाध्वसविषादेषु

12. ड॰ तु प्रयोजयेत्

13. न॰ तथा

14. न॰ निवर्तनं

15. ड॰ परिभ्रमे

[(व्या)]

[page 87]




[NZ]

1यथादर्शनमन्यच्च लोकाद्ग्राह्यं प्रयोक्तृभिः ॥ BhNZ_09_256cd
इत्यूर्वोर्लक्षणं प्रोक्तं जङ्घयोस्तु2 निबोधत । BhNZ_09_257ab
3आवर्तितं नतं 4क्षिप्तमुद्वाहितमथापि वा5 BhNZ_09_257cd
परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा6 BhNZ_09_258ab
7वामो दक्षिणपार्श्वेन दक्षिणाच्चापि वामतः ॥ BhNZ_09_258cd
8पादो यत्र व्रजेद्विप्रास्तदावार्तितमुच्यते9 BhNZ_09_259ab
[जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् ॥ ] BhNZ_09_259cd
जानुनः कुञ्चनाच्चैव10 नतं ज्ञेयं प्रयोक्तृभिः । BhNZ_09_260ab
विक्षेपाच्चापि11 जङ्घायाः क्षिप्तमित्यभिधीयते ॥ BhNZ_09_260cd
[नतं स्याज्जानुनमनात्क्षिप्तं विक्षेपणाद्बहिः ।] BhNZ_09_261ab
उद्वाहितं च 12विज्ञेयमूर्ध्वमुद्वाहनादिह13 BhNZ_09_261cd
14प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते15 BhNZ_09_262ab
आवर्तितं प्रयोक्तव्यं 16विदूषकपरिक्रमे ॥ BhNZ_09_262cd
17नतं चापि हि कर्तव्यं स्थानासनगतादिषु । BhNZ_09_263ab
क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते18 BhNZ_09_263cd
तथा चोद्वाहितं 19कार्यमाविद्धगमनादिषु । BhNZ_09_264ab
ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ॥ BhNZ_09_264cd
[ABh]


[(मू)]

1. ड॰ तथा

2. ड॰ जङ्गायास्तु, न॰ जङ्घयोश्च

3. न॰ आवर्तनं, झ॰ आवर्तितं तु तं

4. द॰ क्षिप्र

5. ड॰ च

6. भ॰ कारयेत्, द॰ पञ्चवै

7. द॰ जङ्घास्वस्तिकयोगेन क्रमादावर्तितं भवेत् । नतं स्वाङ्गानुगमनाद्विक्षिप्तं क्षेपणाद्बहिः ।

8. झ॰ पादो यत्राग्रतो विप्राः

9. म॰ तदावर्तनमिष्यते

10. ड॰ कुञ्चनं वापि

11. म॰ विक्षेपाच्चैव

12. म॰ तु

13. ड॰ उद्वाहनादपि, म॰ उद्वाहनाद्बुधैः, द॰ ऊद्वाहनादथ

14. भ॰ प्रपात, द॰ प्रतीपगमनं

15. म॰ तदिष्यते

16. ड॰ संभ्रमाति

17. द॰ विनियोगश्लोकाः न सन्ति

18. म॰ प्रयोजयेत्

19. ड॰ कुर्यात्

[(व्या)]

[page 88]




[NZ]

1इत्येवं जङ्घयोः कर्म पादयोस्तु2 निबोधत । BhNZ_09_265ab
3उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः ॥ BhNZ_09_265cd
अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः । BhNZ_09_266ab
4स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ5 निपात्यते6 BhNZ_09_266cd
यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः7 BhNZ_09_267ab
8अयमुद्वेष्टितकरणेष्वनुकरणार्थं प्रयोगमासाद्य ॥ BhNZ_09_267cd
9द्रुतमध्यमप्रचारः सकृदसकृद्वा प्रयोक्तव्यः10 BhNZ_09_268ab
स्वभावरचितो11 भूमौ समस्थानश्च यो भवेत्12 BhNZ_09_268cd
13समपादः स विज्ञेयः स्वभावाभिनयाश्रयः । BhNZ_09_269ab
स्थिरः स्वभावाभिनये नानाकरणसंश्रये ॥ BhNZ_09_269cd
14चलितश्च पुनः कार्यो 15विधिज्ञैः पादरेचिते16 BhNZ_09_270ab
[ABh]

बहिः पार्ष्णिक्षेपाच्च पतनमाविद्धमूरोः वर्तना करण इति क्रियायां सत्यामित्यनेन पुनःपुनः पादतलाग्रात्तु स्थानं च कर्तव्यमिति दर्शयति । ऊर्ध्वविकृतस्य घट्टनानुद्घट्टितः उद्वेष्टितरूपं यत्करणमुद्वेष्ट्यन्ते यदाङ्गुल्य इत्यादि तदेव बाहुकर्मभेदाद्बहुधा । तत्रास्य प्रयोग इति वर्तनाश्रयो विनियोगः । केचित्तु प्रयोगमासाद्यानुकरणार्थमप्यस्य प्रयोग इत्यूचुः । यथा विक्रमोर्वश्यादौ पुरूरवःप्रभृतेः । एतेन नाट्यविषयो विनियोग उक्तः ।

[(मू)]

1. झ॰ इस्येतत्, म॰ एतत्तु

2. झ॰ पादयोश्च

3. झ॰ उद्घट्टितं समं चैव, द॰ उद्घाटितः समस्त्र्यश्रः ... ... पादःषोढा प्रकीर्तितः

4. द॰ स्थित्वाग्रतलपादेन, प॰ स्थित्वा पादान्तलग्नेन

5. झ॰ पार्ष्णिभूमौ

6. भ॰ निवेशयेत्

7. द॰ अयमुद्घाटित

8. ड॰ अयमुद्घट्टित, द॰ अयमुद्घाटित

9. म॰ द॰ ललितमधुरप्रचारः

10. द॰ वापि कार्यस्तु, ड॰ समकृद्वा प्रयोक्तव्यः

11. द॰ रचितौ

12. द॰ समस्थानं च योजयेत्

13. म॰ समो मतः स पादस्तु

14. ड॰ वलिता च पुनः कार्या, म॰ वलितश्च

15. च॰ विक्षेपः

16. म॰ रेचके

[(व्या)]

[page 89]




[NZ]

[1समस्यैव यदा पार्ष्णि पादस्याभ्यन्तरे भवेत् ॥ BhNZ_09_270cd
बहिः पार्श्वस्थितो ऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः । BhNZ_09_271ab
त्यक्त्वा(कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च ॥ BhNZ_09_271cd
स्याद्विक्लबादिष्वर्थेषु त्र्यश्रः पादो यथाविधि ।] BhNZ_09_272ab
[2अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् ॥ BhNZ_09_272cd
त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ।] BhNZ_09_273ab
उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतो ऽङ्गुष्ठकस्तथा3 BhNZ_09_273cd
4अङ्गुल्यश्चाञ्चिताः सर्वाः पादे ऽग्रतलसञ्चरे5 BhNZ_09_274ab
6तोदननिकुट्टने7 स्थितनिशुम्भने भूमिताडने भ्रमणे8 BhNZ_09_274cd
9विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन10 BhNZ_09_275ab
11पार्ष्णिर्यस्य स्थिता भूमौ पादमग्रतलं12 तथा ॥ BhNZ_09_275cd
[ABh]

अग्रेण नतेन च न त्वरत इति । तथा तोदनं प्रेरणं, निकुट्टनं तदवग्रहणं स्थितं स्थानकादि, शुम्भनं पीडनं (ताडनं) हननं, विक्षेपो भूतस्यापसारणं

[(मू)]

1. द॰ आदर्श एव

2. ज॰ द॰ न॰ आदर्शेष्वेव

3. न॰ पार्ष्णिरञ्चितो ऽङ्गुष्ठतस्तथा, ज॰ पार्ष्णिरञ्चितो ऽङ्गुठकस्तथा

4. क॰ अङ्गुल्यग्राञ्चिताः

5. ड॰ पादो ऽग्रतलसञ्चरे, झ॰ पादो ऽग्रतलसंचरञ्, म॰ पादे च तलसंचरे

6. म॰ नोदन

7. ड॰ निकुट्टिते, द॰ निकुट्टनस्थितस्तम्भने

8. म॰ स्थितिनिसुम्भिते भूमिताडने चैव, ड॰ निशुम्भिते भूमिताडनभ्रमणे

9. म॰ विक्षिप्त, छ॰ विक्षेपविधिरेचकपाणिकृतगमन

10. ड॰ क्षताग्रगमनमेतेन, न॰ कृतं गमनमेतेन, झ॰ क्षणगमनमेतेन, ज॰ क्षतगमनमेतेन

11. छ॰ पार्ष्णिर्यस्य, म॰

ऊर्ध्वमग्रतलं यस्य पार्ष्णिभूमौ स्थिता तदा ।

अञ्चितः स स्मृतः पादः कर्म चास्य निबोधत ॥

12. ड॰ यस्याञ्चिता भूमावूर्ध्वमग्रतलं, द॰ भूमावुज्जमग्रतलं

[(व्या)]

[page 90]




[NZ]

अङ्गुल्यश्चाञ्चिताः 1सर्वाः स पादो ऽञ्चित उच्यते2 BhNZ_09_276ab
3पादाग्रस्थितसञ्चारे वर्तितोद्वर्तिते4 तथा ॥ BhNZ_09_276cd
5एष पादाहते कार्यो नानाभ्रमरकेषु च । BhNZ_09_277ab
उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा ॥ BhNZ_09_277cd
6तथाकुञ्चितमध्यश्च स पादः कुञ्चितः स्मृतः । BhNZ_09_278ab
7उदात्तगमने चैव वर्तितोद्वर्तिते8 तथा ॥ BhNZ_09_278cd
अतिक्रान्तक्रमे चैव पादमेतं9 प्रयोजयेत् । BhNZ_09_279ab
10[उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः11 BhNZ_09_279cd
वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । BhNZ_09_280ab
12नृत्ते नूपुरकरणं प्रयोगस्तस्य कीर्तितः13 ॥ ] BhNZ_09_280cd
14पादजङ्घोरुकरणं समं कार्यं प्रयोक्तृभिः । BhNZ_09_281ab
पादस्य करणे सर्वं जङ्घोरुकृतमिष्यते15 BhNZ_09_281cd
[ABh]

भ्रान्तकं मनसः, विविधरेचकः करपादरेचकः । अञ्चिता इति प्रसृताः । अञ्चितमुद्वर्तितं विदूषकादिगतौ । भरमरी चारी, येषु प्रयोगेषु ते भ्रमरकाः । सूचीं षष्ठं पादमन्ये पठन्ति । नूपरस्य पादभूषणस्य करणे बन्धने । कट्यूरुजङ्घापादकर्माण्येव परव्यामिश्रीभूततावैचित्र्येण समुदिततया प्रयुज्यमानानि चारीत्युच्यन्ते । तत्समुदायस्य मण्डलभेदेन गतिर्निष्पद्यत इति कठ्यादिपादान्तकर्मणैव चार्य उक्ताः । अत एव तासां विनियोगः पृथङ्नोक्तः ।
समनन्तरं त्वध्यायत्रयं तद्वैचित्र्योदाहरणप्रदर्शनार्थमित्येतत्सर्वं मनसि कृत्वाहं पादजङ्घोरुकरणमित्यादि । सममिति सह । अत्र हेतुः पादस्येति नाभिजङ्घोरुकरणमित्यादिर्कर्मस्वन्यं पादकर्मेत्यर्थः ।

[(मू)]

1. ढ॰ चालिताः

2. द॰ पादस्त्वरितः स्मृतः, ड॰ पादस्त्वञ्चितः स्मृतः

3. ड॰ पादाग्रतल, न॰ पादाग्रक्षत, ढ॰ पादाग्रकृत, झ॰ पादाग्रहत

4. म॰ ऊद्वर्तने

5. म॰ नानाभ्रमरके चैव योज्यः पादो ऽयमञ्चितः

6. म॰ कुञ्चितश्च तथा मध्यः

7. च॰ उपान्ते, द॰ तदानुगमने

8. म॰ वर्तनोद्वर्तने

9. म॰ पादमेनं

10. ज॰ द॰ न॰ आदर्शेषु नास्ति

11. म॰ संस्थितिः, ढ॰ सष्ंस्थितम्

12. च॰ नृत्ते ऽन्तःपुर

13. ड॰ कीर्त्यते

14. म॰ ऊरुजङ्घाङ्घ्रिकरणं

15. म॰ करणे चोक्तमूरुजङ्घाकृतं तथा

[(व्या)]

[page 91]




[NZ]

यथा पादः प्रवर्तेत तथैवोरुः1 प्रवर्तते । BhNZ_09_282ab
तयोः समानकरणात्पादचारीं2 प्रयोजयेत् ॥ BhNZ_09_282cd
इत्येतदङ्गजं प्रोक्तं लक्षणं चैव कर्म हि3 BhNZ_09_283ab
4अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ BhNZ_09_283cd


इति श्रीभारतीये नाट्यशास्त्रे (5)अङ्गाभिनयो नाम (6)नवमो ऽध्यायः ॥
[ABh]

एतदेव स्फुटयति यथा पाद इति । तयोरिति मध्ये जङ्घापि स्वीकृता । अत्रैवं सर्वमाङ्गिकमियतेवोक्तमिति दर्शयति इत्येतदिति । अनन्तरवक्तव्यस्यासूत्रयति अतःपरमिति । चारीव्यायामा लक्ष्यन्ते उपलक्ष्यन्ते उदाहरणतया येनेति शिवम् ॥
शिशिरतरकिरणकलिकालङ्कारविभक्तिभक्तभङ्गुरतापः ।
अभिनवगुप्तो नवमाभ्याये सन्देहतापमपनुदतति स्म ।
इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेद(*)विवृतावभिनवभारत्यां आङ्गिकाध्यायो नवमः ॥

[(मू)]

1. म॰ तथोर्वादि

2. द॰ करणां पादचारीं

3. म॰ कर्मलक्षणमेव च, द॰ इत्येतल्लक्षणं प्रोक्तमङ्गजं कर्म चैव हि, न॰ कर्म चैव च । झ॰ चैव कर्मभिः

4. म॰ अत ऊर्ध्वं

5. ड॰ शरीराभिनयो, न॰ शारीराभिनयो

6. ज॰ प्रभृति म॰ पर्यन्तेष्वादर्शेषु भ॰ संज्ञके विना दशमो ऽध्यायः । भ॰सञ्ज्ञके अध्यायविभाग एव नास्ति, द॰ संज्ञके दशमोऽध्यायः 49 ॥ आदितः 1737 ॥ इति च ।

[(व्या)]

* वृत्तौ

[page 92]




श्रीः
नाट्यशास्त्रम्
दशमो ऽध्यायः(1)

[NZ]

[2एवं पादस्य जङ्घाया 3ऊरो कट्यास्तथैव च । BhNZ_10_001ab
समानकरणे चेष्टा4 चारीति परिकीर्तिता5 ॥ ] BhNZ_10_001cd
विधानोपगताश्चार्यो 6व्यायच्छन्ते परस्परम् । BhNZ_10_002ab
यस्मादङ्ग7समायुक्तास्तस्माद् व्यायाम उच्यते8 BhNZ_10_002cd
[ABh]

निश्चलस्थितिमद्व्योमभूचारीसद्गतिप्रदः ।
सर्वदा ध्वनिमात्राम्ता शम्भुर्विजयतात् प्रभुः ॥
चारीव्यायामलक्षणमित्युक्तम् । तत्र समासे सन्देहः व्यायामशब्दार्थे च, चरेर्हि(इञ्)करणे भावे वा औणादिक इति `कृदिकारादक्तिन ङीष्' इति च चारीशब्दः प्रसिद्धार्थ इत्यभिप्रायेण सन्देहद्वयमपाकर्तुमाह --- विधानोपगता इति । अन्योन्ययोजनापतिताश्चार्यो व्यायामशब्दस्यार्थ इति तात्पर्यम् । चार्य एव व्यायाम इति कर्मधारय इत्यर्थः । अन्वर्थस्तु व्यायच्छन्ते इति परस्परतया आपतन्ति । कुत्र नियम इत्याह --- परस्परं पूर्वा चारी परत्र नियता (न तु) पूर्वस्यामिति, तेनाकर्मकत्वादात्मनेपदं परस्परोपपदाच्चेति कर्मव्यतिहारजमात्मनेपदं निषेधति, न तु `आङोयमहन'इति । ननु किं तन्नियमनमित्याह । विधानोपगता इति प्रधानेनैकस्या यतह्ः अपरा उपगता वलादेवागता । नन्वेवमन्योन्याश्रयम् ? न, अङ्गेन प्रधानभूतेन केनचित्, सम्यगायुक्ताः प्रयुक्ताः प्रवर्तिता

[(मू)]

1. भ॰ आदर्शे नात्राध्यायविभागः कृतः । नवमाध्यायमध्य एव दशमस्य प्रारम्भो ऽस्ति । ज॰ आदि भ॰ आन्तादर्शेषु सर्वेष्वयमेकादश इत्येव गण्यते ।

2. अयं श्लोकः क॰ ख॰ ग॰ घ॰ च॰ भ॰ आदर्शेषु न वर्तते

3. छ॰ -ऊर्ध्वे, म॰ ऊरु

4. छ॰ करणाचेष्टा, ड॰ करणाच्चेष्टा, न॰ करणे चेष्टा

5. ड॰ सा चारीत्यभिधीयते, ज॰ सा चारीत्यभिसंज्ञिता

6. म॰ व्यायच्छन्ति, झ॰ व्याश्रयन्ति

7. ड॰ समायुक्तः

8. ड॰ व्यायाममुच्यते ।

[(व्या)]

[page 93]




[NZ]

एकपादप्रचारो यः सा चारीतय् अभिसंज्ञिता1 BhNZ_10_003ab
2द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ BhNZ_10_003cd
करणानां समायोगः खण्डः इत्यभिधीयते । BhNZ_10_004ab
खण्डैस्त्रिभिश्चतुर्भिर्वा 4संयुक्तैर्मण्डलं भवेत् ॥ BhNZ_10_004cd
चारीभिः 5प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । BhNZ_10_005ab
चारीभिः शस्त्रमोक्षश्च6 चार्यो युद्धे च कीर्तिताः7 BhNZ_10_005cd
[ABh]

यत्रायत्रापेक्षया बहुवचनम् । एतदुक्तं भवति --- किंचिदङ्गं प्रधानं यत् संभवति यथा हस्तो वा अभिनये, पादो वा गतौ, तदा तदुपयोगिनी चारी प्रधानं, तच्चारीसंपत्त्युचिता च पूर्वा आश्रीयते परयाचेति परस्परनियमवत्यश्चार्योव्यायाम इति । तत्र व्यायामस्य संक्षिप्तमध्यमविस्तीर्णतया भेदान्निरूपयति । एकपादप्रचारो एकः एकाकिपादेन, श्रोण्यादिप्रचारो व्याक्षिप्तः । द्विपादेति पादशब्देन तत्प्रचारः । नामेति तुर्व्यायामप्रसिद्धादन्यदेवेदं संज्ञात्वेनाधुनैव नियम्यत इत्यर्थः । एष संक्षिप्तो व्यायामः अभिनयान्तरादौ । करणानामिति बहुवचनात् त्रीन् (त्रीणि?)`कपिञ्जलानालभे'तेति यथा । अन्यथा बहुत्वानियमे खण्डानां मण्डलेभ्यः क्व प्रविभागः । एष मध्यमो व्यायामः उपवृत्त्येधमानौ । त्रिभिश्चतुर्भिरित्येतच्चतुरश्रतालाभिप्रायेण, वाग्रहणान्मिश्रणमपि सूचयन् सङ्ख्यान्तरमपि गृह्णीते । तथा हि चतुर्थे सूचीविद्धाख्ये (11-12) मण्डले तु याश्चारीर्वक्ष्यति `सूचीमाद्यं पदं दध्या'दित्यादि ।(11-13)सप्तमे त्वलाताभिख्ये --- `भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । षट्सङ्ख्यं सप्तसङ्ख्यं वा' इति (11-22) द्वादशे ऽद्ध्यर्धिका इति । एवमन्यत्र । तत्र लौकिकत्वं तावच्चारीणां दर्शयति चारीभिरिति नृत्तं वाङ्गहारात्मकत्वं च तच्चारीभिः प्रसृतं च व्याप्तमिति प्रत्येकं चेष्टितं गतिः । शस्त्रमोक्ष इति चक्रकुन्तादियुद्धं युद्धमिति, खड्गहननादियुधं नियुद्धं च प्रकृते ऽप्युपयोजयति ---

[(मू)]

1. द॰ चारित्याभिधीयते, न॰ सा चारीत्यभिसंज्ञिता

2. द॰ पादाभ्यां चरणं यत्तु करणं चेह तत्स्मृतम् ।

3. ड॰ समायोगात् खण्डमित्यभिधीयते ।

4. ड॰ संयुक्तं

5. द॰ संस्कृतं नृत्यं, म॰ प्रस्तुतं

6. न॰ मोक्षञ्च

7. प॰ प्रकीर्तिताः

[(व्या)]

[page 94]




[NZ]

1यदेतत्प्रस्तुतं2 नाट्यं तच्चारीष्वेव संस्थितम्3 BhNZ_10_006ab
4न हि चार्या विना किंचिन्नाट्ये ऽङ्गं संप्रवर्तते5 BhNZ_10_006cd
तस्माच्चारीविधानस्य6 संप्रवक्ष्यामि लक्षणम्7 BhNZ_10_007ab
या यस्मिंस्तु 8यथा योज्या नृत्ते युद्धे गतौ तथा9 BhNZ_10_007cd
10समपादा स्थितावर्ता शकटास्या तथैव च । BhNZ_10_008ab
11अध्यर्धिका 12चाषगतिर्विच्यवा च तथापरा18 BhNZ_10_008cd
14एडकाक्रीडिता बद्धा 15ऊरूद्वृत्ता तथाड्डिता16 BhNZ_10_009ab
17उत्स्यन्दिताथ जनिता स्यन्दिता चापस्यन्दिता18 BhNZ_10_009cd
[ABh]

यदेतदिति । यच्छब्देन व्याख्यातधर्मपूर्वकं, एतच्छब्देन व्याख्यास्यमानधर्मयोगं परामृश्यत इति वितततां नाट्यस्याह । किंचिदङ्गमिति शिरोहस्तादि, किंचिद्धि, चार्या सह किंचित्पूर्वापरभावेन । संप्रवर्तत इति संवर्तते खलत्वेन प्रवर्तते क्रियया, सम्यक् प्रवर्तते वा, अनित्येनेति वैकल्पिको ऽप्युपसर्गार्थयोगः तथाङ्गे ऽपि स्वीकारतत्त्वं(?) नीरूप्यत इति भर्तृमित्राचार्यः । प्रकृताधिकारिखेदावहत्वाच्च न पदवाक्यवित्परिचितताप्रकटनमात्रलालसात्मकमतिरिति विरमति(म्यते?) । लक्षणमिति उदाहरणम् । नृत्त इति करणाङ्गहारादौ । यस्मिन्निति । `नपुंसक'मित्येकशेषः, तथेति उक्तं, वक्ष्यते चेति

[(मू)]

1. सार्धः श्लोके द॰ आदर्शे न वर्तते पतितः स्यात्

2. प॰ प्रायशो

3. म॰ तच्चारीषु व्यवस्थितम्, ड॰ संज्ञितम्

4. न॰ न चारीभिर्विना

5. ड॰ नाट्ये ह्यङ्गं प्रवर्तते, म॰ नाट्येष्वङ्गं प्रवर्तते, न॰ नाट्याङ्गं संप्रवर्तते

6. म॰ विधानं, ड॰ विधानश्च

7. म॰ तत्त्वतः

8. ड॰ तथा

9. म॰ गतेषु च

10. म॰ न॰ आदर्शयोः ``समपादस्थिता, आवर्ता'' इति पाठानुसरी छेदः कृतः

11. न॰ अभ्यर्धिता, म॰ एलकाक्रीडिता च स्यादूरुवृत्ता, द॰ एलिका

15. प॰ ह्यरुद्वृत्ता

16. झ॰ तथाधिता, च॰ तथांडिता

17. म॰

विच्यवा जनिता चैव विज्ञेयास्कन्दिता तथा ।

तथावस्कन्दिता चैव मत्तली च तथापरा ।

समोत्सारितमत्तलीत्येता भौम्यस्तु कीर्तिता ॥

ड॰ उत्सन्दिताच, द॰ तत्सन्दिताथ, झ॰ उत्स्यन्दि

18. ड॰ चापस्पन्दिता, न॰ स्पनिता, द॰ चापसन्दिते

[(व्या)]

[page 95]




[NZ]

1समोत्सारितमत्तल्ली मत्तल्ली चेति षोडश । BhNZ_10_010ab
2एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः3 BhNZ_10_010cd
अतिक्रान्ता ह्यपक्रान्ता4 पार्श्वक्रान्ता5 तथैव च । BhNZ_10_011ab
ऊर्ध्वजानुश्च सूची च5 तथा नूपुरपादिका ॥ BhNZ_10_011cd
डोलापादा तथाक्षिप्ता 7आविद्धोद्वृत्तसंज्ञिते । BhNZ_10_012ab
विद्युद्भ्रान्ता ह्यलाता च8 भुजङ्गत्रासिता तथा ॥ BhNZ_10_012cd
9मृगप्लुता च दण्डा च 10भ्रमरी चेति षोडश । BhNZ_10_013ab
आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ BhNZ_10_013cd
पदैर्निरन्तरकृतैस्तथा समनखैरपि । BhNZ_10_014ab
[ABh]

शेषः । तत्र नृत्ते उक्तं, युद्धे वक्ष्यते न्यायेषूह्यमिति शेषः, गतौ च द्वादशाध्याये वक्ष्यते --- इत्यध्यायत्रयस्यार्थ इह सूचितः । तत्रोद्देशमाह --- सभावेति (भौभ्य इति ?) भूमौ भवा भौम्यः, एवमाकाशिक्यः उपरिचरताम् । स्मृता इति वेदोदाहरणे ऽत्र यावत्स्मर्यते तावद्व्युत्पादनार्थं, शिष्टानि । तैर्वक्तव्यम् तेनैतन्नाशङ्कनीयम् । यदि नेदं परिगणनं कियता भेदेनोक्तेति न तत्र स्पष्टम् । यल्लक्षणमनन्वर्थं च, तद्व्याक्रियते ।

[(मू)]

1. न॰ समासादित, ड॰ समोत्सारित, द॰ समोसरित, च॰ समासरित

2. म॰ आदर्शे श्लोकार्धो न वर्तते

3. न॰ आकाशिका पुनः, ढ॰ आकाशकीः पुनः

4. द॰ अपक्रान्ता, म॰ त्वपक्रान्ता

5. द॰ पार्श्वाक्रान्ता

6. म॰ ऊर्ध्वजानुस्तथा चैव

7. ड॰ व्याविद्धोद्वृत्त, म॰ ह्याविद्धोद्वृत्त, ढ॰ ह्यावृत्तोद्वृत्त, च॰ आविद्धोद्वृत्तसंज्ञका

8. म॰ तथालता, द॰ ह्यताना च

9. म॰

उत्कीर्णा दण्डपादा च भ्रमरी हरिनप्लुता (भ -- बद्ध) ।

आकाशगास्त्विमाश्चार्थो नियुद्धकरुणाश्रयाः ॥

द्वात्रिंशदेता निर्दिष्टा मया चार्थो द्विजोत्तमाः ।

पुनरासां प्रवक्ष्यामि लक्षणं कर्मणा सह ॥

10. झ॰ भ्रमरा ।

[(व्या)]

[page 96]




[NZ]

समपादा तु सा1 चारी विज्ञेया स्थानसंश्रया2 BhNZ_10_014cd
भूमिघृष्टेन3 पादेन कृत्वाभ्यन्तरमण्डलम् । BhNZ_10_015ab
4पुनरुत्सारयेदन्यं स्थितावर्ता5 तु सा स्मृता ॥ BhNZ_10_015cd
निषण्णाङ्गस्तु चरणं6 प्रसार्य तलसञ्चरम् । BhNZ_10_016ab
उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ BhNZ_10_016cd
7सव्यस्य पृष्ठतो वामश्चरणस्तु8 यदा भवेत् । BhNZ_10_017ab
9तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः10 BhNZ_10_017cd
[ABh]

अथ समपादा --- ननु समपादा कथं वा चारीत्याह --- स्थानसंश्रयेति यदा समपाद एव स्थानान्तरं गच्छति तदा चरणश्चारी भवेत्येव योग्यतया तथा व्यपदेशादिति भावः ।
अथ स्थितावर्ता --- भूमिघृष्टेनेति, अग्रतलसञ्चरेणाभ्यन्तरमण्डलं द्वितीयपार्श्व जानुस्वस्तिकान्तं, पुनश्शब्दो विशेषं द्योतयन् सन्नि(वेश)योगमाह । तेन स चेत् स्वस्तिकत्वेन श्लिष्टस्ततो द्वितीयमुत्सारयेत् स्वपार्श्वं कर्षयेदेकस्य स्थानमपरस्यामिति तथा ॥
अथ शकटास्या --- निषण्णाङ्गस्त्विति प्रयत्नधृतपूर्वकाय इत्यर्थः । शकटमसनीयं क्षेप्यं यया । एकस्मिन्नु पादे समे ऽङ्गुल्यञ्चितं पक्षेतरं कृत्वा जानुनः कुञ्चने जङ्घाप्रसरणे च स्वपार्श्वे च त्र्यश्रिततलसञ्चरस्थापनं नु निरोधन(रेचन?)मिवेति केचिदेनामाहुः । एतच्च लक्षणं लक्ष्यार्थासङ्गतमेव ।
अथाध्यर्धिका --- सव्यस्येति दक्षिणस्य । पृष्ठत इति पार्ष्णिदेशे । तस्येति दक्षिणस्योपसर्पणे स्वपार्श्वार्धत्र्यश्रिततया स्थितिः । अव्यतिरेकेति अध्यर्धतालान्तरत्वादयो मन्तव्याः । एकस्य पूर्णता गतिरन्यस्य पादस्य पूर्णार्धकेत्यन्ये । करणप्राधान्याच्चैवमुक्तं वामस्यापि पृष्ठसङ्गतमेव ।

[(मू)]

1. ड॰ स्मृता, म॰ समपादस्थिता, झ॰ सृता

2 , म॰ संश्रिता

3. च॰ कृष्टेन

4. म॰ वाममुत्सारयेत्पादमावर्तां चारिमादिशेत् । ड॰ पुनरुत्सादयेदन्यं, न॰ पुनरुत्सारयेत्पादं

5. ड॰ स्थिरावर्ता, झ॰ स्थिरावृत्ता

6. म॰ निषण्णगात्रश्चरणं, ड॰ सदृशं

7. झ॰ सव्यस्तु

8. न॰ चरणस्य

9. म॰ वामापसर्पणाच्चैव विज्ञेयाधर्धिका बुधैः । , न॰ तस्यापसर्पणश्चैव, ड॰ तस्योपसर्पणं

10. द॰ तथा, च॰ साध्यधिका बुधैः ।

[(व्या)]

[page 97]




[NZ]

पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः1 BhNZ_10_018ab
वामः 2सव्यापसर्पी वा चाषगत्यां3 विधीयते ॥ BhNZ_10_018cd
4विच्यवात्समपादाया 5विच्यवां संप्रयोजयेत् । BhNZ_10_019ab
निकुट्टयंस्तलाग्रेण6 पादस्य धरणीतलम् ॥ BhNZ_10_019cd
7तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । BhNZ_10_020ab
8पर्यायशश्च क्रियते9 10एडकाक्रीडिता तु सा ॥ BhNZ_10_020cd
[ABh]

अथ चाषगतिः --- सव्येति दक्षिणस्य पृष्ठत इति, सव्यो ऽपसर्पत्येव सर्वत्र । प्रसारित इति तालमात्रमग्रतः पुनः स एवापसर्पितो द्वितालमात्रं पश्चान्नीतः, वामः सव्येन सहापसर्पति । किंचिदुत्प्लुत्य सव्यवामावसर्पतः श्लिष्यतश्चेति सत्रासमपसर्पणादौ चाषस्येष गतिः चाषगतिः । सव्योपसर्पि चेत्यन्ये पठन्ति, तत्र श्लिष्टत्वं शब्दो (सव्यो?)क्तत्वमपसर्पणं चार्थः ॥
अथ विच्यवा --- पादस्येति पादयोरित्यर्थः ।
अथैलकाक्रीडिता --- उत्प्लुत्या किंचिदेकः सक्थिगुल्फदेशेभ्यः पुनरुत्प्लुतिः अङ्गान्तरेणैवमिति पर्यायशः पतनं यत्र चार्या सा अजिकागतितुल्यत्वादेडकाक्रीडिता ॥

[(मू)]

1. न॰ पुनश्चैवोपसर्पितः

2. न॰ सव्यापसर्पी च, द॰ सव्योपसर्पी वाकाशमित्यभिधीयते

3. ड॰ चाषगत्या

4. म॰ आदर्शे त्वधिको ऽयं श्लोकः ---

अन्योन्यजङ्घासंवेधात्स्वस्तिका सा तु कीर्तिता ।

ऊरुभ्यां वलनं यत्तु सा स्मृतोद्वर्तिका बुधैः ॥

विच्यवेति श्लोको ऽड्डितालक्षणात्परमस्ति ।, च॰ एवं वा, झ॰ विच्यवां समपादायां, द॰ विच्यवन्तं समादाय, ढ॰ वीच्यवाक्समपादाया

5. ढ॰ वीच्यवां, ज॰ विवृतं, न॰ विच्यवा, ड॰ विश्लेषं, झ॰ वीचिवत्

6. ड॰ तथाग्रेण

7. झ॰ तलसंचार, द॰ नव, म॰ पादयोस्तलसंचारादुत्क्षिप्य पतनं तु यत् ।

8. ड॰ पर्यायतश्च

9. ढ॰ क्रियतः

10. म॰ सैडकाक्रीडिता स्मृता

11. झ॰ तथा ।

[(व्या)]

[page 98]




[NZ]

1अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः2 BhNZ_10_021ab
ऊरुभ्यां वलनं 3यस्मात्सा बद्धा चार्युदाहृता4 BhNZ_10_021cd
तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा5 BhNZ_10_022ab
जङ्घाञ्चिता 6तथोद्वृत्ता ऊरूद्वृत्तेति सा स्मृता7 BhNZ_10_022cd
अग्रतः पृष्ठतो वापि 8पादो ऽग्रतलसञ्चरः । BhNZ_10_023ab
द्वितीयपादनिर्घृष्टो9 यस्यां स्यादड्डिता तु सा10 BhNZ_10_023cd
[ABh]

अथ बद्धा --- केवलयोरेवोर्वोर्वलनं स्थित एव जङ्घास्वस्तिक इति बद्धांकेचिदाहुः । अन्ये तु स्वस्तिकापसरणेन पादतलाग्रयोर्मण्डलभ्रमणपूर्वकं स्वस्वपार्श्वगमनमिति यदूरुबन्धनमाहुः । जङ्घयोः संबन्धात् अनु बद्धा ॥
अथोरूद्वृत्ता --- अग्रतलसञ्चरस्य पादस्य संबन्धिनी पार्ष्णिर्द्वितीयपादपृष्ठभागौन्मुख्यं यदा भवति, जङ्घा च जानुनमनादाकुञ्चिता उद्वृत्ताद्वितीयजङ्घा सम्मुखं बलनात् तथा । ऊरोरूर्ध्वविवर्तनात् लज्जेर्ष्यादिविषया ऊरूद्वृत्ता । अन्ये तु पार्ष्णिद्वितीयस्य तलसञ्चारबाह्योन्मुखीत्याहुः ॥
अथाड्डिता --- अग्रत इति । अपिस्समुच्चये, वा पर्याये । तेन समस्थितस्यैकस्य द्वितीयस्तलसञ्चारः क्रमादग्रे पृष्ठे च निर्घृष्टः श्लिष्टः कार्य इति अड्डिता,

[(मू)]

1. म॰ आदर्शे पूर्वमेव निवेशितो ऽयम्

2. झ॰ तु तत्, द॰ यत्स्यात्

3. क॰ चार्युदीरिता

4. म॰ पार्ष्णिश्चेदुन्मुखी भवेत्, द॰ बाह्योन्मुखी स्थिता

5. ढ॰ ततोद्वृत्ता

6. म॰ सोरूवृत्ता तथेष्यते

7. ड॰ पादस्तु तलसंचरः

8. झ॰ पादो निर्घृष्टो, न॰ द्वितीयं पादनिर्घृष्टो

9. म॰ यत्र सा त्वड्डिता भवेत् । झ॰ यत्र स्यादड्डिता तथा ।

10. भ॰ म॰ आदर्शयोरत्रैव विच्यवाजनितालक्षणमस्ति । `शनै'रित्याद्युत्स्पन्दितालक्षणं तु जनिताया अनन्तरमेव दृश्यते । यथा ---

विच्यवात्समपादाया विच्यवा सा तु कीर्तिता ।(भ॰ -- दस्य)

पुनर्निकुट्टनं चैव पादस्याग्रेण योजयेत् ॥

पादः स्यात्तलसंचारः करश्चैव प्रलम्बितः ।

मुष्टिहस्तश्च वक्षःस्थो जनिता सा विधीयते ॥

शनैः पादविवर्तो यो बाह्येनाभ्यन्तरेण वा ।

रेचकस्यानुचरणाज्ज्ञेया चास्कन्दिता बुधैः ॥

[(व्या)]

[page 99]




[NZ]

1शनैः पादो निवर्तेत2 बाह्येनाभ्यन्तरेण च । BhNZ_10_024ab
यद्रेचकानुसारेण3 सा चार्युत्स्पन्दिता4 स्मृता ॥ BhNZ_10_024cd
5मुष्टिहस्तश्च वक्षस्स्थः करो ऽन्यश्च प्रवर्तितः6 BhNZ_10_025ab
7तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ BhNZ_10_025cd
8पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां9 न्यसेत् । BhNZ_10_026ab
द्वितीयेन तु पादेन10 तथापस्यन्दितामपि ॥ BhNZ_10_026cd
[ABh]

पादस्य स्वस्थानातिक्रमणात् । अड्डु अतिक्रमहिंसयोरिति पठन्ति, सत्त्वे च रूपम् ॥(*)
अथोत्स्पन्दिता --- बाह्येन कनिष्ठाङ्गुलिभागेन अभ्यन्तराङ्गुष्ठभागेन निवर्तते चेदु(भयोः पादयोः) गमागमं कुरुते । किमवधीत्याह पादरेचितस्यापसारेण शोभापेक्षयोत्क्रान्तमस्या । यन्नद्याः प्रत्यावर्तनरूपस्पन्दितकृत् तत्तुल्यत्वादियमुत्स्पन्दिता । रेचकं नृत्तहस्तमत्र केचिदाहुः ॥
अथ जनिता --- तलसञ्चारपादः प्रवर्तित इति । एतदेवास्याः स्वरूपं मुष्टेर्वक्षोगामित्वं हस्तान्तरस्य च प्रवर्तनमितिकर्तव्यतामात्रम् । समस्तगतीनामियं जननं करोति प्रारम्भरूपत्वादिति जनिता ॥†
अथ स्यन्दितापस्यन्दिते --- क्रमसमो निषण्णोरुः पादो दक्षिणस्तु पञ्चतालात् प्रसारितः । तालः स्मृतः मध्यमया'' इति । सा स्यन्दिता प्रसारणधर्मत्वात् । एतद्विपर्ययादस्या अपि सव्येन स्यन्दितेनेति अङ्गपर्यायाच्च लब्धाप्येषा प्रयोगे साहचर्यनियमख्यापनार्थं पुनर्निरूपिता । आलीढप्रत्यालीढयोस्तु पादद्वयमपि त्र्यश्रितसंस्थानं मण्डलस्थानतो जीवित्वं यद्वक्ष्यते `अस्यैव दक्षिणं

[(मू)]

1. न॰ विवर्तेत

2. द॰ कारेण

3. द॰ सा चास्रच्छन्दिता

4. च॰ चार्युत्सन्दिता

5. द॰ स्वस्तिहस्तस्तु

6. च॰ करो ऽन्यश्च प्रकीर्तितः, न॰ करो ऽन्यश्चापवर्तितः, प॰ करो ऽन्यः परिवर्तितः ।

7. द॰ तलाग्रसंस्थितः पादो जनितायामुदाहृता

8. म॰

पञ्चतालान्तरं पादं प्रसार्य तलसंचरम् ।

द्वितीयं च नयेत्पार्श्वं सावस्कन्देति चोच्यते ॥

द॰ यश्च

9. ड॰ स्पन्दितां

10. न॰ पार्श्वेन ।

[(व्या)]

* अग्रत एव प्रसिद्धेति कीर्तिधरः ।

जनिता चारी मुसलघाटिकाख्यवर्तनैवेति कीर्तिधरः ।

[page 100]




[NZ]

1तलसञ्चरपादाभ्यां 2घूर्णमानोपसर्पणैः । BhNZ_10_027ab
3समोत्सरितमत्तल्ली व्यायामो समुदाहृता ॥ BhNZ_10_027cd
उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । BhNZ_10_028ab
उद्वेष्टितापविद्धैश्च 4हस्तैर्मत्तल्ल्युदाहृता ॥ BhNZ_10_028cd
एता 5भौम्यः स्मृताश्चार्यो 6नियुद्धकरणाश्रयाः । BhNZ_10_029ab
7आकाशिकीनां चारिणां संप्रवक्ष्यामि लक्षणम् ॥ BhNZ_10_029cd
[ABh]

पादं पञ्चतालान्' इत्यादि स्यन्दितायास्तु नैवमिति शेषः । स्थानस्य स्थितिप्रधानता चार्यास्तु गतिप्रधानतेत्यपि विशेषः ।
अथ समोत्सरितमत्तल्ली --- तलसञ्चरजङ्घास्वस्तिकेनाभ्यन्तरे यदान्यस्य तदेव च द्वितीयतलसञ्चरं करोति ततो घूर्णमानयोस्तयोः उपसर्पणमित्यन्ये । समः अविकलः(अ) अवनं रक्षणं उत तदर्थं सरितः गतिaमान् मदनं मत् मदं तनोतीति मत्तत् तस्य लयो गमनं यस्यामिति समोत्सरितमत्तली । सरितशब्दो रि गतौ विन्यस्यते सहेन समासे च मदनं मुत्क्षिपः लयनं लीः । सरिशब्दस्य प्रातिपदिकात् तृचि वा सरितशब्दः । सं आ उत् सरित इत्यन्ये पठन्ति(*) । मदेन यो न विकलीभूतः रक्षार्थं चान्यतरः पलायते तस्य वै द्विधा गतिरिति मध्यमदविषयेयं चारी सम्पद्यते ।
अथ मत्तल्ली --- पादाभ्यामिति भूमिश्लिष्टाशेषतालाख्यामिति जङ्घास्वस्तिकयोगेनार्धत्र्यश्रिभागाभ्यां घूर्णमानत्वेनापसर्पणाद्वा, अगाढमदविषया मत्तल्ली ।
नियुद्धकरणाश्रया इति नियुद्धे ऽनादिसिद्धा एताः करणाङ्गहारेषु च ततो नाट्ये । स्मृता इत्यनेनोपवेदसंबन्धत्वेन वेदो ऽत्र प्रमाणमिति दर्शितं, विनियोगदिक्प्रदर्शनं चेदं मन्तव्यम् ।

[(मू)]

1. भ॰ म॰ आदर्शयोः प्रतिज्ञापाठानुसारेण मत्तल्ल्या अनन्तरमेव समोसरितमत्तल्लीलक्षणम् वर्तते । यथा ---

अञ्चितेन तु पादेन घूर्णमानोपसर्पणैः ।

उद्वेष्टितापविद्धत्वान्मत्तल्ली करयोर्मता ॥

उभयोः पदयोश्चापि घूर्णमानापसर्पणैः ।

समोत्सारितारितमत्तल्ली व्यायामे सा विधीयते ॥

2. ड॰ घूर्णमानापसर्पणैः

3. प॰ समोसरित

4. छ॰ करैः

5. ड॰ भूम्यः, म॰ भूमिगताः

6. ड॰ नियुक्त

7. म॰ शस्त्रमोक्षाङ्गहारेषु वक्ष्याम्याकाशगाः पुनः । न॰ आकाशिकानां

[(व्या)]

* `ओसरिअ' इत्यपसरणार्थकप्राकृतरूपस्य संस्कृतीकरणमिति केचित् । तत्रापशब्ददोषं परिजिहीर्षुणाचार्येण भङ्गीभेदेन निरुक्तिरनुगृहीतेति मन्यामहे ।

[page 101]




[NZ]

कुञ्चितं पादमुत्क्षिप्य पुरतः संप्रसारयेत्1 BhNZ_10_030ab
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु2 सा स्मृता ॥ BhNZ_10_030cd
3ऊरुभ्यां वलनं कृत्वा कुञ्चितं 4पादमुद्धरेत् । BhNZ_10_031ab
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता5 BhNZ_10_031cd
कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत्6 BhNZ_10_032ab
7उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते8 BhNZ_10_032cd
कुञ्चितं पादम् उत्क्षिप्य 9जानुस्तनसमं न्यसेत्10 BhNZ_10_033ab
द्वितीयं च 11क्रमस्तब्धमूर्ध्वजानुः प्रकीर्तिता12 BhNZ_10_033cd
[ABh]

अथातिक्रान्ता --- उत्क्षिप्ता यस्य पार्ष्णिरिति(9-277) कुञ्चितं तद्द्वितीयगुल्फक्षेत्रे कृत्वा किंचित् पुरतः प्रसार्य प्रकृतिभेदेन चतुस्तालाद्यन्तरमुत्क्षिप्याग्रेण भूमौ निपात्यत इति गन्तव्यातिक्रमादतिक्रान्ता । (1)
अथापक्रान्ता --- ऊरू च स्तनोपलक्षितां पूर्वं (बद्धां) कृत्वा ततः पादमुद्धृत्य पार्श्वे क्षिपेदित्यपक्रमणादपक्रान्ता(2) ।
अथ पार्श्वक्रान्ता --- कुञ्चितं पादं स्वपार्श्वेनोपरि नीत्वा भूमौ पार्ष्ण्या पातयेदिति पूर्वं कुञ्चनाद्वलादेवोद्घाटितत्वं भवति, तस्य हि लक्षणं ``स्थित्वा पादतलाग्रेण पार्ष्णीभूमौ निपात्यत'' इति (9-166)इयमेव पार्ष्णिचण्डधातेति प्रसिद्धा । अन्ये तु द्वितीयोरुक्षेत्रं यावदुत्क्षिप्योद्घाटितेन पातयेदित्याहुः ॥
अथोर्ध्वजानुः --- क्रमस्तब्धमिति यथा तस्योत्क्षेपस्तथास्य स्तब्धतेत्यर्थः ।

[(मू)]

1. म॰ संप्रयोजयेत्, न॰ संप्रकारयेत्

2. म॰ पातयेच्चैकमति क्रान्तेति ।

3. भ॰ ऊर्ध्वावलितकं, द॰ ऊर्वोर्वलितकं, म॰ ऊरुभ्यां वलितं

4. ड॰ तु समुद्धरेत्

5. म॰ प्रकीर्तिता

6. न॰ जानूर्ध्वं संप्रसारयेत्, ड॰ पार्श्वोत्थानoद्गतिर्भवेत्, द॰ पार्श्वोत्थानोत्थितं न्यसेत्, म॰ पार्श्वेनोत्पतनं तथा

7. द॰ उद्वाहितेन

8. म॰ पार्श्वक्रान्ता भवेदियम्, द॰ पार्श्वाक्रान्ताभिधीयते

9. ड॰ जानु

10. म॰ तथा

11. ड॰ क्रमात्स्तब्धं

12. म॰ ऊर्ध्वजानुरसौ स्मृता ।

[(व्या)]

1. पार्श्व एव पातयेदिति सैव पार्ष्णिचण्डघातेति च कीर्तिधरः ।

2. एषैव विक्षेपवलितमिति कीर्तिधरः ।

[page 102]




[NZ]

1कुञ्चितं पादम् उत्क्षिप्य जानूर्ध्वं संप्रसारयेत्2 BhNZ_10_034ab
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ BhNZ_10_034cd
3पृष्टतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु4 BhNZ_10_035ab
द्रुतं 5निपातयेद्भूमौ चारी नूपुरपादिका ॥ BhNZ_10_035cd
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वन्तु6 दोलयेत् । BhNZ_10_036ab
7पातयेदञ्चितं चैव दोलपादा प्रकीर्तिता8 BhNZ_10_036cd
9कुञ्चितं पादमुत्क्षिप्य 10आक्षिप्य त्वञ्चितं न्यसेत् । BhNZ_10_037ab
जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता 11नाम सा स्मृता12 BhNZ_10_037cd
[ABh]

अथ सूची --- जानूर्ध्वं जानुपर्यन्तां जङ्घां प्रसारयेत्, यदि वा जानुनोरूर्ध्वमूरुपर्यन्तां जङ्घां सकलां प्रसार्याग्रयोगेनापातयेदिति । सूच्याकारत्वात् सूची ॥
अथ नूपुरपादिका --- पृष्ठत इति ``पार्ष्णिर्यस्य स्थिता भूमौ'' इत्यञ्चितं(9-275) कृत्वा तं पृष्ठतः स्फिक्पार्ष्णिश्लेषपर्यन्तं नीत्वा स्वपार्श्वे ऽग्रतलेनाञ्चितं जङ्घां पातयेदिति । नूपुराणां झणज्झणिति शब्दजननात् स्वरितार्थत्वमनया भवति नूपुरयोजनं चेति तथोक्ता ।
अथ डोलपादा --- उत्क्षिप्येति दक्षिणक्षेत्रान्तं स्वपार्श्वं निनीय ततो ऽपि स्वपार्श्वं दोलयेदिति दोलाकारेण नयेत्, ततः स्वपार्श्वे पार्ष्ण्या निपातयेत् ।
अथाक्षिप्ता --- आक्षिप्येति । अग्रतस्त्रितलोत्क्षेपादर्धमण्डलवत् पार्श्वान्तरं नीत्वा स्वस्तिकेन पार्ष्ण्या भुवि पातयेत् ।

[(मू)]

1. भ॰ म॰ योः प्रतिज्ञापाठानुसारेण सूचीलक्षणं न दीयते । तत्स्थाने तूत्कीर्णा वक्ष्यते

2. छ॰ जानुमूर्ध्वं प्रसारयेत्

3. च॰ छ॰ योः नूपुरपादिकानन्तरमेव सूची लक्ष्यते, द॰ पृष्ठतो ह्यञ्चितं, म॰ पृष्ठतस्त्वञ्जितं

4. म॰ च

5. म॰ भूमिनिपातेन

6. ड॰ पार्श्वं पार्श्वं तु, छ॰ पश्चात्पार्श्वं तु

7. म॰ अञ्चितेन द्वितीयेन डोलापादा तु सा भवेत्

8. ड॰ तु सा स्मृता ।

9. द॰ आदर्शे आक्षिप्तालक्षणं न दृश्यते प्रमादादेव, म॰

उत्क्षिप्य कुञ्चितं पादमञ्चितं तु निपातयेत् ।

अग्रस्वस्तिकसंयुक्ता साक्षिप्ता चार्युदाहृता ॥

10. ड॰ आक्षिप्यं चाञ्चितं

11. न॰ आक्षिप्ता, छ॰ संयुक्तमाक्षिप्ता

12. ड॰ भवेत्

[(व्या)]

[page 103]




[NZ]

स्वस्तिकस्याग्रतः पादः कुञ्चितश्च1 प्रसारितः । BhNZ_10_038ab
2निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता ॥ BhNZ_10_038cd
3पादमाविद्धमावेष्ट्य4 समुत्प्लुत्य5 निपातयेत् । BhNZ_10_039ab
6परिवृत्य द्वितीयं च सोद्वृत्ता चार्युदाहृता7 BhNZ_10_039cd
पृष्ठतो वलितं पादं शिरोघृष्टं8 प्रसारयेत् । BhNZ_10_040ab
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ BhNZ_10_040cd
9पृष्ठप्रसारितः पादो वलितो ऽभ्यन्तरीकृतः । BhNZ_10_041ab
10पार्ष्णिप्रपतितश्चैव 11ह्यलाता संप्रकीर्तिता ॥ BhNZ_10_041cd
[ABh]

अथाविद्धा --- विश्लिष्टजङ्घस्यैव स्वस्तिकस्य संबन्धी कुञ्चितः पादः प्रसारितः तत आविद्धस्सन् स्वपार्श्वे द्वितीयपार्ष्णेः क्षेत्रे पार्ष्ण्या पातितः कार्यः ।
अथोद्वृत्ता --- आविद्धमिति आविद्धचारीसंबन्धिनं कुञ्चितमित्यनेन आविद्धाशेषभूतेयमिति दर्शयति । आवेष्टनं द्वितीयोरुक्षेत्रगपार्ष्णित्वं । तमेव पादमुत्प्लुत्य भ्रमरकं कृत्वा पातयेत् । ततो द्वितीयमित्यूर्ध्वं वतमानत्वादुद्धृत्ता ।
अथ विद्युद्भ्रान्ता --- पृष्ठत ऊरुमूलादिति केचित् । उपाध्यायस्तु पृष्ठतः पार्श्वात् पश्चाद्भागे वलितं कृत्वा शिरःसंश्लेषात् तद्द्वारेण सर्वत ऊर्ध्वाधःपार्श्वेषु मण्डलवद्भ्रमितं प्रसारयेदिति विद्युद्भ्रान्ता (इति) ।
अथालाता --- पूर्वं पश्चाद्भागे प्रसारितस्ततो वलनेनाभ्यन्तरीकृतो द्वितीयोरुदेशादभिमुखतलं च नीतः, ततः स्वपार्श्वपार्ष्ण्या पातित इति अलातचक्राकृतिरलाता ।

[(मू)]

1. म॰ कुञ्चितः स्यात्. ज॰ कुञ्चितस् तु

2. ज॰ पातयेदञ्चिताविद्ध, म॰ पातयेदञ्चितं चैव ह्याविद्धा चारिरिष्यते ।

3. म॰

पादमाविद्धकरणं परिवृत्य निर्वर्तितम् ।

प्रसारयेत्पृष्ठतश्च सोद्धृता चारिरिष्यते ॥

4. द॰ आविश्य, झ॰ पादमविध्य चावेष्ट्य

5. ड॰ समुत्क्षिप्य

6. झ॰ परिवृत्तद्वितीयं तु

7. द॰ सा वित्ता समुदाहृता

8. न॰ शिरोद्धृष्टं, द॰ शिरोत्स्पृष्टं

9. द॰ पृष्ठे, म॰ पृष्ठप्रसारितः

10. च॰ पार्ष्णिप्रपतितः, म॰ पार्ष्णिः प्रस्फुरिता चासावलाता परिकीर्तिता

11. ड॰ आलाता सा ।

[(व्या)]

[page 104]




[NZ]

1कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत्2 BhNZ_10_042ab
कटीजानुविवर्ताच्च3 भुजङ्गत्रासिता भवेत् ॥ BhNZ_10_042cd
4अतिक्रान्तक्रमं कृत्वा 5चोत्प्लुत्य विनिपातयेत् । BhNZ_10_043ab
6जङ्घाञ्चिता परिक्षिप्ता सा ज्ञेया हरिणप्लुता7 BhNZ_10_043cd
8नूपुरं चरणं कृत्वा पुरतः संप्रसारयेत् । BhNZ_10_044ab
9क्षिप्रमाविद्धकरणं 10दण्डपादा तु सा स्मृता ॥ BhNZ_10_044cd
[ABh]

अथ भुजङ्गत्रासिता --- द्वितीयोरुमूलक्षेत्रान्तं कुञ्चितमुत्क्षेप्य कटिजानुनिवर्तनेन नितम्बसम्मुखपार्ष्णित्र्यश्रमूरुं विवर्तयेत् । स्वपार्श्वगजानुकमुत्तानपदतलं कुर्यादिति पादोपान्तभुजगभयभावितगतिसादृश्याद्भुजङ्गत्रासिता ।
अथ हरिणप्लुता --- अतिक्रान्तचार्युक्तकुञ्चितं पादमुत्क्षिप्योत्प्लुत्य च तमेव पातयेत्, तदनन्तरं द्वितीया जङ्घा अञ्चितपदा सती पृष्ठभागे पश्चाद्देशे क्षिप्ता कार्येति मृगप्लुततुल्या, ``सव्घि होदु''इत्यादौ विदूषकादेर्दृश्यते ।
अथ दण्डपादा --- नूपुरपादोक्तं कुञ्चितं पादं द्वितीयपार्ष्णिगं कृत्वाग्रतः प्रसारयेत्;् कथं, क्षिप्रं कृत्वा तथा आविद्धकरणं, आविद्धस्वदेहक्षेत्रसस्म्मुखीकृतजान्वग्रात् क्रिया यत्र । ऊरुजानुजङ्घस्य स्तब्धत्वेन दण्डाकारत्वाद्दण्डपादा ।

[(मू)]

1. म॰ उत्क्षिप्य कुञ्चितं पादं

2. म॰ निवर्तयेत्, ड॰ प्रवर्तयेत्, भ॰ सममूरु निवर्तयेत्

3. ड॰ विवर्तेन, प॰ निवर्ताच्च, म॰ विवर्तं च

4. भ॰ म॰ योः भुजङ्गत्रासितानन्तरं तत्पाठक्रमेणोत्कीर्णालक्षणं वर्तते । यथा

कुञ्चितं पादमुत्क्षिप्य जानु चोर्ध्वं प्रसारयेत् ।

पादपृष्ठेन चोत्कीर्णा सोत्कीर्णा चारिरिष्यते ॥

द॰ अतिक्रान्तं क्रमं

5. छ॰ त्रिकं तु परिवर्तयेत्, ड॰ समुत्प्लुत्य

6. च॰ जङ्घाञ्चितो परि

7. भ॰ म॰ आदर्शयोः भ्रमर्यनन्तरमेव हरिणप्लुतालक्षणं वर्तते ---

कृत्वा क्रान्तमपाक्रान्तमुत्प्लुत्य च निपातयेत् ।

जङ्घाञ्चितपरिक्षिप्ता सा भवेद्धरिणप्लुता ॥

8. भ॰ म॰ योः उत्कीर्णालक्षणानन्तरमेव दण्डपादायाः । तत्र स्थित्त्वा नूपुरपादेन पादमूर्ध्वं प्रसारयेत् । इति पूर्वार्धः । उत्तरार्धः समान एव

9. च॰ क्षिप्तं

10. ड॰ दण्डपाता

[(व्या)]

[page 105]




[NZ]

1अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । BhNZ_10_045ab
द्वितीयपादभ्रमणात् तलेन भ्रमरी 2स्मृता ॥ BhNZ_10_045cd
3आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मिकाः । BhNZ_10_046ab
4धनुर्वज्रासिशस्त्राणां 5प्रयोक्तव्या विमोक्षणे ॥ BhNZ_10_046cd
6अग्रगौ पृष्ठगौ वापि7 ह्यनुगौ वापि8 योगतः । BhNZ_10_047ab
पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ BhNZ_10_047cd
[ABh]

अथ भ्रमरी --- अतिक्रान्तचर्युक्तं कुञ्चितं पादमुत्क्षिप्य भुजङ्गत्रासितवत् त्र्यश्रुमूरुं विवर्त्य द्वितीयपादतलभ्रमणे त्रिकं परिवर्तयेदिति सर्वशरीरपरिवर्तनद्वारेण नेमिभ्रमणाद्भ्रमरी ।
इतिकर्तव्यताशेषं विनियोगादिकं चासां दर्शयति --- ललिताङ्गक्रियात्मिका इति धनुवज्रेत्यादि । अथ कायशोभा निरूपयन् व्यापकविनियोगं चारीणां दर्शयति --- अग्रगावित्यादि । इदं तात्पर्यं --- इह कदाचिद्गतेः प्राधान्यं, कदाचिद्धस्तव्यापारस्य, कदाचिद्द्वयोः, आद्ये पक्षे पादविक्षेपस्यानुगौ तदनुसारिणौ तत्पश्चाद्भाविनौ च हस्तौ, द्वितीये हस्तव्यापारस्यानुसारेण पश्चाद्भावेन च पादौ, तृतीये द्वयोरपि । तुल्यकालताविनियोगपारतन्त्र्येण च प्रवृत्तिः । योग औचित्यम् । कायशोभायोजनायेह चात्राध्यायाग्रे चार्यः प्रस्तुताः

[(मू)]

1. म॰ आक्षिप्तकरणं, द॰ आक्षिप्तचरणं

2. च॰ तलने भ्रमरी, द॰ भ्रमरा

3. भ॰ म॰ योः श्लोकद्वयस्थाने ---

एतास्त्वाकाशगाश्चार्यो ललिताश्चरणाश्रयाः ।

धनुर्वज्रादिशस्त्राणां कर्तव्यास्तु विमोक्षणे ॥ (म॰)

(धनुश्शस्त्रप्रहरणे कर्तव्यास्तु विचक्षणैः) --- (भ॰)

सर्वासामेव चारीणां पृष्ठतस्त्वग्रतो ऽपि वा ।

आकीर्णपतनं यत्स्याच्चारीविद्धं तु तद्भवेत् ॥

अग्रगौ समगौ वापि पुनश्चाप्यनुगौ तथा । (पुनश्चाप्यन्यथा हि तौ --- भ॰)

पादयोर्नर्तकैर्हस्तौ प्रयोक्तव्यौ सुसंगतौ ॥(चारीणां --- भ॰)

4. च॰ धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या शस्त्रमोक्षणे ।

5. न॰ प्रयोक्तव्यास्तु, ड॰ प्रयोक्तव्या प्रयोक्तृभिः

6. द॰ अग्रगौ वापि समगावनुगौ चापि योगतः ।

7. न॰ वापि

8. ज॰ चापि


[(व्या)]

[page 106]




[NZ]

यतः पादस्ततो हस्तो 1यतो हस्तस्ततस्त्रिकम् । BhNZ_10_048ab
पादस्य निर्गमं कृत्वा2 तथोपाङ्गानि योजयेत्3 BhNZ_10_048cd
4पादचार्यां यथा पादो धरणीमेव गच्छति । BhNZ_10_049ab
एवं हस्तश्चरित्वा तु कटीदेशं समाश्रयेत् ॥ BhNZ_10_049cd
एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मिकाः5 BhNZ_10_050ab
6स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ BhNZ_10_050cd
वैष्णवं समपादं च वैशाखं मण्डलं तथा । BhNZ_10_051ab
7प्रत्यालीढं तथालीढं स्थानान्येतानि षण्णृणाम्8 BhNZ_10_051cd
[ABh]

(10-73) इति तत्प्राधान्यं यदा भवति तदा प्रयोजना कीदृशी कार्येति स्पष्टयितुमाह --- यतो हस्त इति । तथेति तेनैव प्रकारेण, उपाङ्गानि भ्रूनेत्रादीनि । ननु पादस्य क्रियायां यदि हस्तस्य गतिक्रिया तर्हि तद्विश्रान्तौ हस्तस्य को वृत्तान्त इत्याशङ्क्याह --- पादचार्यामिति समाप्तायामिति शेषः । एवकारो ऽप्यसंभावनां निरस्यते । हस्त इति । अर्धचन्द्रो नृत्ते नाट्ये, नृत्ते तु पक्षप्रद्योतौ पक्षवञ्चितावपि पादस्य धरणीप्रापतौ कीदृक् कायसन्निवेश इत्याशयेन स्थानकान्यभिधित्सुः पूर्वोपसंहारपूर्वकं प्रतिजानीते --- एताश्चार्य इति । ललितस्वमङ्गस्य यत इयतीभिरेवेमा उत्तानत्वे तावानेव गतिप्रकार इति यावत् । स्थानानि भावे करणे ऽधिकरणे वा व्युत्पत्त्या कायसन्निवेशाश्च या उच्यते । सर्वशस्त्रविमोक्षण इति साधारणो विनियोग उक्तः । आसामपि चारीणां गतिरूपत्वं गतेश्च पूर्वं पश्चाद्भाविनी स्थितिरिति भावः । नृणामिति स्थानकानि

[(मू)]

1. द॰ यतः पादस्ततः

2. ड॰ ज्ञात्वा, च॰ निर्गतिं कृत्वा, छ॰ पादस्य तु गतिं ज्ञात्वा

3. न॰ ततो वाङ्गानि योजयेत्, ड॰ तत्रोपाङ्गानि, म॰ तत्राङ्गानि प्रयोजनयेत् ।

4. ड॰ पादचार्या, द॰ पादचार्यो, म॰ कृत्वा चारीं यथा पादो

5. द॰ क्रियाश्रयाः, म॰ समाश्रयाः

6. ड॰ स्थानानि संप्रवक्ष्यामि

7. ड॰ प्रत्यालीढमथालीढं

8. म॰ नर्तॄणां स्थानकानि षट् ।

[(व्या)]

[page 107]




[NZ]

1द्वौ तालावर्धतालाश्च पादयोरन्तरं भवेत् । BhNZ_10_052ab
तयोस्समुत्थितस्त्वेकस्त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhNZ_10_052cd
किंचिदञ्चितजङ्घं च2 सौष्ठवाङ्गपुरस्कृतम्3 BhNZ_10_053ab
वैष्णवस्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ BhNZ_10_053cd
स्थानेनानेन कर्तव्यः संलापस्तु स्वभावजः4 BhNZ_10_054ab
5नानाकार्यान्तरोपेतैर्नृभिरुत्तममध्यैः ॥ BhNZ_10_054cd
[6चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा7 BhNZ_10_055ab
8धैर्योदात्ताङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ BhNZ_10_055cd
[ABh]

तु निरूपयिष्यन्त इत्यर्थः । पक्षस्थित इति पार्श्वाभिमुखाङ्गुलिः । त्र्यश्र इति किंचिदग्राभिमुख्यमस्पृशत् । अञ्चिता कुटिला जानुनमनाज्जङ्घा यत्र । सौष्ठवे यदङ्गं वक्ष्यते तेन पुरस्कृतं पूजितं, सौष्ठवं अप्रधाने वा अङ्गपुरस्कृतं प्रधानम् । हि यस्मात् विष्णुरत्राधिदैवतम्, तस्माद्वैष्णवम् । तेन तस्य तादृशस्य वास्त्रीप्रधानस्य सूत्रधारादेः प्रयोगे स्थानकमिदम् । एवमुत्तरत्र मन्तव्यम् । एतदेवाह ---

[(मू)]

1. भ॰ म॰ योर् वैष्णवलक्षणं तु

स्वभावसंस्थितस्त्वेकस्त्र्यश्रः पक्षस्थितो ऽपरः ।

किञ्चित्तथाञ्चिता जङ्घा समुन्नतमुरस्तथा ॥

हनुशीर्षे समे चैव कर्णादष्टाङ्गले स्थिते ।

उरःस्थानाच्च चिबुकं चतुरङ्गलसंस्थितम् ॥

कटकस्त्रिपताको वा दक्षिणो नाभिसंस्थितः ।

त्रिपाताको ऽर्धचन्द्रो वा वामः कटितटाश्रितः ॥

पादयोरन्तरं यत्तत्तलद्वयमितं भवेत् ।

ज्ञेयं तद्वैष्णवं स्थानं कार्यमुत्तममध्ययoः ॥ (विष्णुरत्राधिदैवतम् --- म॰)

स्थानेनानेन कर्तव्यः सल्लापस्तु स्वभावजः ।

शेषं कार्यमनेनैव यदवस्थेन कर्मणा ॥

2. ड॰ जङ्घो ऽसौ, द॰ जङ्घश्च

3. न॰ समन्वितम्, ढ॰ ड॰ समन्वितः

4. न॰ प्रभावतः

5. न॰ नानाकार्यन्तरोपेतो

6. न॰ द॰ आदर्शयोः ``चक्रस्य'' आदि ``योजितम्'' इति पर्यन्तो भागो न वर्तते ।

7. च॰ धनुषि स्थिते

8. ज॰ झ॰ योस्त्रयः श्लोका न सन्ति, ड॰ धैर्यदानाङ्ग, ढ॰ धैर्यादानाङ्ग

9. च॰ तथोद्वाह्यः ।

[(व्या)]

[page 108]




[NZ]

इदमेव विपर्यस्तं प्रणयक्रोध1 इष्यते । BhNZ_10_056ab
उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा2 BhNZ_10_056cd
शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । BhNZ_10_057ab
दैन्ये 3चपलतायां च गर्वाभीष्ठेषु शक्तिषु ॥ BhNZ_10_057cd
शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् ।] BhNZ_10_058ab
4समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ BhNZ_10_058cd
स्वभावसौष्ठवोपेतौ5 ब्रह्मा चात्राधिदैवतम् । BhNZ_10_059ab
अनेन कार्यं 6स्थानेन 7विप्रमङ्गलधारणम्8 BhNZ_10_059cd
9रूपणं पक्षिणां चैव 10वरं कौतुकमेव च । BhNZ_10_060ab
11खस्थानां स्यन्दस्थानां विमानस्थायिनामपि ॥ BhNZ_10_060cd
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत्12 BhNZ_10_061ab
13तालास्त्रयो ऽर्धतालश्च पादयोरन्तरं भवेत् ॥ BhNZ_10_061cd
[ABh]

स्थानेनानेनेति, स्वभावजः अनावेशितः । (विप्रमङ्गलेति) विप्रैः क्रियमाणं यन्मङ्गलाशीर्वचनादि तस्य धारणं प्रतीप्सन् । स्वस्थादीनामिदं स्थानकम् । लिङ्गस्थाः शैवाद्याः व्रतस्था ऊर्ध्वकायादिप्रज्ञाङ्गाः(?) । निषण्णावचलौ विश्रान्तौ तु (ऊरू) यत्र सूच्यपेक्षया । कियत्याकाशदेश इत्याह --- तालास्त्रयो ऽर्धतालाश्चेति

[(मू)]

1. च॰ प्रणयः कोपः

2. ड॰ प्रकर्षाधिबलस्तथा

3. ढ॰ चपलतायोगे

4. भ॰ म॰ योः पद्भ्यां तालान्तरस्थाभ्यां समपादं प्रकीर्तितम्, च॰ समपादसमौ

5. म॰ सौष्ठवोपेतं

6. म॰ कार्या

7. द॰ क्षिप्र

8. म॰ सत्क्रिया, ड॰ कारणम्

9. म॰ कर्तव्यं स्यादनेनैव वरकौतुकमङ्गलम्

10. ड॰ परं, झ॰ पर

11. प॰ स्वस्थानां

12. म॰ समपादं प्रयोजयेत्

13. छ॰ तालाश्चत(स्त्र?)यो ऽर्धतालं च निषण्णोरु प्रकल्पयेत् म॰

द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।

तालास्त्रयो ऽर्धतालश्च निषण्णोरु प्रवर्तयेत् (निषण्णार्धस्तथैव च --- भ॰)

जङ्घे चैषाञ्चिते यत्र पादौ पक्षस्थितौ पुनः ।

[(व्या)]

[page 109]




[NZ]

तालांस्त्रीनर्धतालांश्च1 निषण्णोरुं2 प्रकल्पयेत् । BhNZ_10_062ab
3त्र्यश्रौ पक्षस्थितौ चैव 4तत्र पादौ प्रयोजयेत् ॥ BhNZ_10_062cd
वैशाखस्थानमेतद्धि5 स्कन्दश्चात्राधिदैवतम्6 BhNZ_10_063ab
स्थानेनानेन 7कर्तव्यमश्वानां वाहनं बुधैः ॥ BhNZ_10_063cd
8व्यायामो निर्गमश्चैव स्थलपक्षिनिरूपणम्9 BhNZ_10_064ab
10शरासनसमुत्कर्षे व्यायामकृतमेव च ॥ BhNZ_10_064cd
रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । BhNZ_10_065ab
11ऐन्द्रे तु मण्डले पादौ 12चतुस्तालान्तरस्थितौ ॥ BhNZ_10_065cd
13त्र्यश्रौ पक्षस्थितौ चैव कटिजानू समौ तथा14 BhNZ_10_066ab
15धनुर्वज्राणि शस्त्राणि मण्डलेन प्रयोजयेत् ॥ BhNZ_10_066cd
वाहनं कुञ्जराणां तु16 स्थूलपक्षिनिरूपणम्17 BhNZ_10_067ab
[ABh]

सार्धतालत्रयादधो नभोदेश इत्यर्थः । विशाखः स्कन्दः । व्याप्याङ्गानामेव युद्धादौ निर्गमनात् तेषामेव वेदागानपार्ष्णिचोदनाक्रमेण । ऐन्द्रे त्विति शेषं द्योतयन् सार्धतालद्वयान्तर्नभोदेशनिषण्णोरुत्वमत्रापि सूचयन्निति । मण्डलेश्वरविषयत्वान्मण्डलम् । अश्वानां वाहने वैशाखं, इदं तु हस्तिनां तेभ्यस्स्थूलानामिति प्रक्रमात् [स्थूलतमात्] पक्षिणो ऽत्र गरुडादयो मन्तव्याः ।

[(मू)]

1. ढ॰ तालं च

2. प॰ निषण्णोरु

3. झ॰

त्र्यश्रौ पक्षस्थितौ चैव कटिजानुसमौ तथा ।

धनुर्वज्रादिशस्त्राणां तत्र पादौ प्रयोजयेत् ॥

4. द॰ पादावत्र

5. म॰ वैशाखं नाम तत्स्थानं

6. म॰ तस्याधिदैवतम्

7. म॰ कर्तव्यं हयानां

8. ड॰ व्यायामनिर्गमं, ड॰ व्यायामनिर्गमश्चैव

9. म॰ प्रयोगो धनुषस्तथा

10. द॰ ज॰ झ॰ न्॰ प॰ भ॰ म॰ आदर्शेष्वयं श्लोको न वर्तते, ड॰ शराणां च समुत्क्षेपं

11. झ॰ ऐन्द्रन्तु मण्डलं

12. द॰ चतुस्तालान्तरं

13. म॰ कटी जानुसमा चैव करौ पक्षस्थितौ तथा

14. द॰ जानुसमास्थिता

15. ड॰ धनुर्वज्रादि, म॰ धनुर्वज्रं प्रहरणं मण्डलेन तु योजयेत्

16. म॰ च

17. म॰ पक्षतिरूपणम्, ढ॰ पक्षनिरूपणम् ।

[(व्या)]

[page 110]




[NZ]

अस्यैव दक्षिणं पादं पञ्चतालान्1 प्रसार्य तु ॥ BhNZ_10_067cd
2आलीढं स्थानकं कुर्याद्रुद्रश्चास्याधिदैवतम् । BhNZ_10_068ab
अनेन कार्यं स्थानेन 3वीररौद्रकृतं तु यत् ॥ BhNZ_10_068cd
उत्तरोत्तरसंजल्पो रोषामर्षकृतश्च यः4 BhNZ_10_069ab
मल्लानां चैव 5संफेटः शत्रूणां च निरूपणम् ॥ BhNZ_10_069cd
6तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । BhNZ_10_070ab
7कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसार्य च ॥ BhNZ_10_070cd
आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम्8 BhNZ_10_071ab
आलीढसंहितं 9शस्त्रं प्रत्यालीढेन मोक्षयेत्10 BhNZ_10_071cd
नानाशस्त्रविमोक्षो हि कार्यो ऽनेन प्रयोक्तृभिः11 BhNZ_10_072ab
12न्यायश्चैवात्र विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ BhNZ_10_072cd
भारतः सात्वतश्चैव वार्षगण्यो ऽथ कैशिकः13 BhNZ_10_073ab
[ABh]

अस्यैवेति निषण्णोरुत्वं तथा त्र्यश्रत्वं द्वयोः सूचयति । आसमन्ताल्लीढा स्पृष्टा भूमिर्येनेत्यालीढम् । संफेटः सङ्घर्षः ।
आलीढपरिवर्त इतीयदेव लक्षस्णं पूर्वमुक्तं त्वितिकर्तव्यतास्पष्टकरणार्थम् । कुञ्चितमिति प्रसारणविपरीतं भूय उत्तानाकुञ्चितो ऽत्र पादः । ननु प्रयोक्तृभिः शस्त्रविमोक्षः कार्य इत्युक्तम् । तस्य प्रयोक्तृभिः न्यायानामित्यादि

[(मू)]

1. ड॰ तालं

2. भ॰ आलीढस्थानमेतत्तु विज्ञेयं नाट्यकर्मणि

3. म॰ रौद्रवीर

4. म॰ समुद्भवः, न॰ कृताश्रयः

5. न॰ संस्फोटः

6. न॰ तथाहिद्रवणं, ज॰ तथा विद्रावणं, म॰ तथा विद्रवणं चैव शास्त्राणां च विमोक्षणम्

7. ज॰ झ॰ योः अञ्चितं, प॰ वामं पादं

8. म॰ परिवर्ते यः प्रत्यालीढं तु तत् स्मृतम्, द॰ प्रत्यालीढ इति स्मृतः

9. न॰ आलीढे सन्धितं. म॰ आलीढसन्धितं, ढ॰ आलीढसहितं

10. म॰ मोचयेत्

11. म॰ कार्यो व्यायामयोगतः

12. च॰ न्यायश्चैव प्रयोक्तव्या, ड॰ न्यायाश्चैव हि

13. द॰ कौशिकः, म॰ वार्षगण्यः सकैशिकः ।

[(व्या)]

[page 111]




[NZ]

भारते तु1 कटिच्छेद्यं2 3पादच्छेद्यं तु सात्वते ॥ BhNZ_10_073cd
4वक्षसो वार्षगण्ये तु शिरश्छेद्यं तु कैशिके । BhNZ_10_074ab
एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः5 BhNZ_10_074cd
6प्रविचाराः 7प्रयोक्तव्या नानाशास्त्रविमोक्षणे । BhNZ_10_075ab
8न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ BhNZ_10_075cd
9यस्माद्युद्धानि वर्तन्ते तस्मान्न्यायाः प्रवर्तिताः । BhNZ_10_076ab
वामहस्ते विनिक्षिप्य10 खेटकं दक्षिणेन च ॥ BhNZ_10_076cd
शस्त्रमादाय हस्तेन प्रविचारमथाचरेत्11 BhNZ_10_077ab
12प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि13 BhNZ_10_077cd
खेटकं भ्रामये14त्पश्चात्पार्श्वात्पार्श्वमथापि च । BhNZ_10_078ab
शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ BhNZ_10_078cd
15कपोलस्यान्तरे वापि शस्त्रस्योद्घट्टनं तथा17 BhNZ_10_079ab
[ABh]

व्यायामाच्चेति नामानुसारादेषां वृत्तिविभागे परिशेषता । आरभट्या वार्षगण्यः । कटिच्छेद्यमिति भावे कृत्यं । कटीस्थानादिषु परस्य हन्तव्येष्वतिक्रमेण चत्वारः । एभिरिति एभिर्न्यायैरुपलक्षिताः शस्त्रमोक्षणविषयाः प्रविचाराः प्रकृष्टाः विचित्रा गतिविशेषाः परिश्रान्तिशब्दाश्चारीव्यायामखण्डमण्डलात्मकाः कार्याः । न्यायशब्दस्यार्थं दर्शयति न्यायेनाङ्गौचित्येन यान्यङ्गोदाहरणादि

[(मू)]

1. छ॰ च

2. ढ॰ कटिच्छेदं

3. ड॰ पादे

4. म॰ वार्षगण्ये ह्युरश्छेद्यं

5. द॰ न्याये नानाचारीसमन्विते ।

6. म॰ प्रविचारः, ड॰ प्रविचार्य, न॰ प्रविचार

7. म॰ प्रयोक्तव्यः सर्व, ड॰ प्रयोक्तव्यो, न॰ प्रयोक्तव्यो नानाशस्त्रप्रमोक्षणे

8. म॰ न्याय्याश्रितैरङ्गहारैर्न्याय्याच्चैव, ड॰ न्यायश्रितेः

9. न॰ तस्मात्, म॰ न्याय्याः प्रकीर्तिता, ड॰ वामहस्तेन

10. द॰

वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ।

दक्षिणे च करे शस्त्रं प्रविचारमथाचरेत् ॥

11. म॰ प्रविचारं प्रयोजयेत्, न॰ प्रविचारमथारभेत्

12. द॰ करौ प्रसारितौ कृत्वा झ॰ प्रचार्य

13. म॰ आक्षिप्य तदनन्तरम्

14. प॰ वामपार्श्वं

15. च॰ कपोलां

16. ड॰ चापि, म॰ चैव

17. म॰ भवेत्

[(व्या)]

[page 112]




[NZ]

1पुनश्च 2खड्गहस्तेन ललितोद्वेष्टितेन च । BhNZ_10_079cd
खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । BhNZ_10_080ab
एवं 3विचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ BhNZ_10_080cd
4सात्वते च5 पवक्ष्यामि प्रविचारं यथाविधि । BhNZ_10_081ab
6स एवं प्रविचारस्तु शस्त्रखेटकयोः स्मृतः ॥ BhNZ_10_081cd
केवलं पृष्ठतः 7शस्त्रं 8कर्तव्यं खलु सात्वते । BhNZ_10_082ab
गतिश्च वार्षगण्ये ऽपि9 सात्वतेन क्रमेण तु10 BhNZ_10_082cd
11शस्त्रखेटकयोश्चापि12 भ्रमणं संविधीयते13 BhNZ_10_083ab
14शिरःपरिगमस्तद्वच्छस्त्रस्येह भवेत्तथा15 BhNZ_10_083cd
उरस्युद्वेष्टनं कार्यं शस्त्रस्यांसे ऽथवा पुनः16 BhNZ_10_084ab
भारते प्रविचारो यः17 कर्तव्यस्स तु18 कैशिके ॥ BhNZ_10_084cd
19विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । BhNZ_10_085ab
[ABh]

न्यायादेव च परबन्धनस्वभाविताप्तिरूपात् प्रवर्तितानि तैः यत एतयोः क्रिया अतो न्यायाख्याः । अथापि चेत्यनन्तरं चेत्यर्थः । परिवेष्टनेन गमनं नयनं परिगमः । मणिबन्धोद्वेष्टनेन शस्त्रस्योद्वेष्टनं उद्वेल्लितेनेत्युद्वेष्टितेन । पृष्ठत इति कायस्य पश्चाद्भागे । युद्धप्रसङ्गेन सर्वं प्रयोज्यमापततीत्याशङ्क्याह ---

[(मू)]

1. म॰ तथा शृङ्गारहस्तेन

2. द॰ शृङ्ग, झ॰ खण्ड

3. ड॰ प्रचारः, भ॰ कार्यः प्रविचारो

4. भ॰ सात्त्वते तु प्रविचारं व्याख्यास्याम्यनुपूर्वशः

5. ड्॰ न॰ तु

6. म॰ य एवं, द॰ एवमेव, न॰ स एव

7. ड॰ खड्ग

8. म॰ नेतव्यं तत्र

9. द॰ वार्षगण्ये हि

10. द॰ च

11. च॰ खड्ग

12. द॰ म॰ कार्यं

13. म॰ द्विजसत्तमाः, झ॰ संनिधीयते

14. ड॰ शिरः परिगमादस्मिंस्तस्य शस्त्रस्य केवलम्

15. भ॰ भवेदिह

16. न॰ अंशेन चात्मनः, ड॰ अङ्गेन वा पुनः, द॰ शस्त्रस्यादिषु वा पुनः

17. ड॰ चारो. अयं

18. द॰ हि

19. भ॰ म॰ योः सार्धश्लोकस्य पाठान्तरम् ---

केवलं विभ्रमय्यास्त्रं शिरोदेशे प्रयोजयेत् ।

एवमेते प्रविचाराः प्रयोज्यास्त्वङ्गलीलया ।

शस्त्रे धनुषि वज्रे च नानाविधविमोक्षणे ।

[(व्या)]

[page 113]




[NZ]

प्रविचाराः प्रयोक्तव्या1 ह्येवमेते ऽङ्गलीलया2 BhNZ_10_085cd
3धनुर्वज्रासिशस्त्राणां पयोक्तव्या विमोक्षणे । BhNZ_10_086ab
न भेद्यं 4नापि च च्छेद्यं न चापि रुधिरस्रुतिः5 BhNZ_10_086cd
रङ्गे 6प्रहरणे कार्यो7 न चापि व्यक्तघातनम्8 BhNZ_10_087ab
संज्ञामात्रेण कर्तव्यं9 शस्त्राणां मोक्षणं बुधैः ॥ BhNZ_10_087cd
10अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः12 BhNZ_10_088ab
11अङ्गसौष्ठवसम्पन्नैरङ्गहारैर्विभूषितम् ॥ BhNZ_10_088cd
व्यायामं कारयेत्सम्यग्लयतालसमन्वितम्12 BhNZ_10_089ab
13सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामवेदिभिः14 BhNZ_10_089cd
15सौष्ठवं लक्षणं 16प्रोक्तं वर्तनाक्रमयोजितम् । BhNZ_10_090ab
शोभा सर्वैव नित्यं हि17 सौष्ठवं समुपाश्रिता ॥ BhNZ_10_090cd
न हि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः18 BhNZ_10_091ab
[ABh]

न भेद्यमिति भावे प्रत्ययः । संविज्ञामात्रेणेति यथा परो जानाति युध्येते इमाविति एवं त्विमावित्यादिविषयं निधाय नाटकादौ संज्ञामात्रेणापि तेन नानुचितमिति दर्शयति । अथवेति व्यवस्थितविकल्पः । अङ्गसौष्ठवं यदुक्तं तस्य सिद्धये परिकरमाह व्यायाममिति । व्यायामो ऽङ्गशिक्षाभ्यामङ्गयोग्यकालमेव

[(मू)]

1. ड॰ च कर्तव्याः, द॰ प्रकर्तव्या

2. द॰ अङ्गनालये

3. ड॰ धनुर्वज्रादि

4. म॰ नैव, ड॰ नापि तु

5. न॰ म॰ द॰ स्रवः

6. म॰ प्रहरणैः

7. न॰ कार्ये, म॰ कार्यं

8. न॰ पातनम्

9. द॰ योक्तव्यं, म॰ मात्रे प्रयोक्तव्यं

10. न॰ अथ त्वभिनयोपेतं, ड॰ अथवाभिनयोपेतं

11. म॰ अङ्गसौष्ठवसंयुक्तं, ड॰ अङ्गैः सौष्ठवसंयुतैः

12. ड॰ समन्वितः

13. ड॰ सौष्ठवे तु, न॰ सौष्ठवे ऽतिप्रयत्नस्तु, म॰ प्रयत्नः सौष्ठवे कार्यो धुधैर्व्यायामयोगतः

14. ड॰ सेविभिः

15. अयं श्लोकः ज॰ झ॰ ड॰ ढ॰ न॰ प॰ भ॰ आदिष्वादर्शेषु नास्ति, च॰ म॰ सौष्ठवे

16. च॰ प्रोक्तवर्त्मना

17. म॰ च

18. म॰ नाटके शोभते नरः ।

[(व्या)]

[page 114]




[NZ]

अचञ्चलमकुब्जं1 च सन्नगात्रं तथैव च2 BhNZ_10_091cd
3नात्युच्चं चलपादं च 4सौष्ठवाङ्गं प्रयोजयेत् । BhNZ_10_092ab
5कटी कर्णसमा यत्र कूर्परांसशिरस्तथा ॥ BhNZ_10_092cd
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । BhNZ_10_093ab
6अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ BhNZ_10_093cd
नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् । BhNZ_10_094ab
7कटीनाभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ BhNZ_10_094cd
8वैष्णवं स्थानमित्यङ्गं9 चतुरश्रमुदाहृतम् । BhNZ_10_095ab
10परिमार्जनमादानं 11सन्धानं मोक्षणं तथा ॥ BhNZ_10_095cd
12धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । BhNZ_10_096ab
13प्रमार्जनं14 परामर्श आदानं ग्रहणक्रिया ॥ BhNZ_10_096cd
[ABh]

एवं द्रुतादेः चञ्चतुपुटादेश्चानुसन्धेरङ्गमात्मीकृतन्तालाख्यं पठ्यते । सन्नं स्वविश्रान्तिपरिणतं गात्रं यस्य । कूर्पराण्सशिर इति प्राण्यङ्गत्वादेकवद्भावः । तथेति साम्येनेत्यर्थः । अधमानामत्र स्वातन्त्र्यं दर्शयति मध्यमोत्तमैरिति । सौष्ठवं यदर्थं तत्सर्वसामान्यभूतं चातुरश्र्यमाह --- कटिनाभिचराविति क्रमेण यौगपद्येन च । खड्गयुद्धे यथान्यायास्तथा धनुर्युद्धे ऽपि कर्माणि सन्तीति दर्शयति । प्रमार्जनमिति प्रथमं धनुषो मार्जनं ततो ऽपि बाणेन ग्रहस्ततो ऽपि शरस्य सन्धानं ततो मोक्षः । व्यायामे प्रस्तुते तदुपयोगि सौष्ठवं तत्प्रसङ्गागतं च धनुःकर्माभिधाय

[(मू)]

1. द॰ आकुञ्जं

2. ड॰ अथापि च

3. न॰ नात्युच्चं न निपातं च, प॰ नात्युच्चतलपातं, ड॰ नात्युच्चं च निपातं च

4. म॰ सोष्ठवे ऽङ्गं झ॰ सौष्ठवे तं

5. म॰ कटीकर्णसमौ यत्र कूर्परावंसके शिरः ।

6. च॰ आदर्श एव दृश्यते

7. म॰ कटिँवक्षश्चरौ, ड॰ द॰ कटिनाभिचरौ

8. म॰ वैष्णवं च तथा स्थानमङ्गैस्तु चतुरं भवेत् ।

9. च॰ इत्यङ्गचतुरश्रं

10. द॰ परिमार्जनमातानं

11. ड॰ बन्धनं

12. म॰ धनुषः संविधातव्यं, ड॰ धनुषस्तु प्रकर्तव्यं

13. अयं श्लोकः क॰ च॰ द॰ भ॰ आदर्शेषु न वर्तते

14. ड॰ संमार्जनं ।

[(व्या)]

[page 115]




[NZ]

1संधानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । BhNZ_10_097ab
तैलाभ्यक्तेन गात्रेण 2यवागूमृदितेन च ॥ BhNZ_10_097cd
व्यायामं कारयेद्धीमान् भित्तावाकाशिके तथा । BhNZ_10_098ab
4योग्यायां मातृका भित्तिस्तस्माद्भित्तिं5 समाश्रयेत् ॥ BhNZ_10_098cd
6भित्तौ प्रसारिताङ्गं तु व्यायामं कारयेन्नरम् । BhNZ_10_099ab
7बलार्थं च निषेवेते नस्यं वस्तिविधिं8 तथा ॥ BhNZ_10_099cd
9स्निग्धान्यन्नानि च तथा रसकं पानकं तथा10 BhNZ_10_100ab
11आहाराधिष्ठिताः प्राणाः 12प्राणे योग्याः प्रतिष्ठिताः ॥ BhNZ_10_100cd
तस्माद्योग्या13प्रसिद्ध्यर्थमाहारे यत्नवान् भवेत् । BhNZ_10_101ab
अशुद्धकायं14 प्रक्लान्तमतीव क्षुत्पिपासितम् ॥ BhNZ_10_101cd
[ABh]

प्रयोगमेव व्यायाममाह --- तैलाभ्यक्तेनेति । तैलमत्र तिलतैलम् । यवागूर्यवान्नम् । योगाय विद्याविशेषसंबन्धाय प्रभवतीति योग्या गुणनिका । तस्य वस्तिविधिश्च तैलघृतादिभिः यथादेशकालप्रकृतीति मन्तव्यमायुर्वेदात् । रसकमिति मांसरसं सेवेतेति संबन्धः । पानकानि च स्निग्धानीति संबन्धः । योग्या वा किमनेनेत्याशङ्क्याह --- आहाराधिष्ठिता इति । अशुद्धकार्यमित्यनेन वमनविरेचनविशुद्धगात्रस्य व्यायामे ऽधिaकार इति दर्शयति । अशुद्धगात्रत्वं

[(मू)]

1. झ॰ बन्धनं

2. ड॰ यवाश्चाखेदितेन, ड॰ यवाग्वास्वेदितेन, म॰ यवागूत्स्वेदितेन, न॰ यवागूखदितेन

3. म॰ आकाशिके ऽपि वा, ड॰ हितावाकाशिके तथा द॰ आकाशके तथा

4. ड॰ योग्यतायां, य॰ योग्याय

5. द॰ भित्यां

6. छ॰ भित्तिप्रसारिताङ्गस्तु, म॰ भित्त्यामृजुकृताङ्गस्तु व्यायामे शोभते नरः, ड॰ भित्तौ प्रसरिताङ्गस्तु

7. ड॰ कारयेद्बुधः, द॰ कारयेन्नरम्

8. म॰ बलार्थस्तु

9. न॰ वर्तिविधिं, ड॰ च त्रिविधं, द॰ वस्तिविधिस्तथा

10. न॰ स्निग्धान्यन्नान्यभीष्ठानि, ड॰ स्निग्धान्यन्यान्यश्नानि, द॰ अम॰ पानकानि च

11. ढ॰ आहारे

12. न॰ प्राणयोग्यान्

13. द॰ प्रतिष्ठार्थं

14. द॰ प्रश्रान्तं

[(व्या)]

[page 116]




[NZ]

1अतिपातं तथा भुक्तं 2व्यायामं नैव कारयेत् । BhNZ_10_102ab
अचलैर्मधुरैर्गात्रैश्चतुरश्रेण वक्षसा ॥ BhNZ_10_102cd
व्यायामं कारयेद्धीमान्नरमङ्गक्रियार्थिनम्3 BhNZ_10_103ab
एवं व्यायामसंयोगे4 कार्यश्चारीकृतो5 विधिः ॥ BhNZ_10_103cd
अत ऊर्ध्वं6 प्रवक्ष्यामि मण्डलानां विकल्पनम्7 BhNZ_10_104ab


इति (8)भारतीये नाट्यशास्त्रे चारीविधानो(9) नाम (10)दशमो ऽध्यायः ॥
[ABh]

चाजीर्णयोगे ऽपि । प्रक्लान्तमिति अध्वश्रमादिना । अचलैरिति यत्र यत्र क्रियायां योज्यते तत्र तत्रैव प्राप्तपरिणतिभिरित्यर्थः । अमधुरैरिति ललितैः । अङ्गक्रिया अङ्गसिद्धिः । एवमित्युपसंहरन्नध्यायान्तरमासूत्रयति । (विकल्पनं) विचित्रतया कलयन्ते येन प्रकारेण तं वक्ष्यामीति सूत्रयन्नङ्गानुसारायातचारीपरम्परात्मनां मण्डलात्मनामसङ्ख्येयत्वं सूत्रयन्नुदाहरणमात्रार्थमध्यायान्तरमिति निरूपयतीति शिवम् ।
इत्थं दशममध्यायं व्याचष्टे च समासतः ।
शिवस्मृतिकृतार्थो ऽपि परार्थं (1)दुःखलात्मजः ॥
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां (2)नाट्यवेदविवृतावभिनवभारत्यां चारीविकल्पो नाम दशमो ऽध्यायः ॥
॥श्रीः॥

[(मू)]

1. न॰ अति भुक्तं तथा पीतं

2. ड॰ व्यायामे

3. ड॰ क्रियात्मकम्

4. म॰ संपत्तौ

5. म॰ गतौ

6. म॰ परं

7. भ॰ खण्डमण्डललक्षणम्

8. द॰ श्रीभारतीये

9. ड॰ चारीविधानं, द॰ चारीविकल्पनं नामैकादशो ऽध्यायः (श्लो --- 92 --- आदितः 1829) भ॰ म॰ अध्यायो दशमः

10. ज॰ आदि ब॰ अन्तेष्वादर्शेषु ``एकादशो ऽध्यायः''

[(व्या)]

1 , दुस्सलात्मजः

2. नाट्यवेदवृत्तौ

[page 117]




[NZ]

श्रीः
नाट्यशास्त्रम्
एकादशो ऽध्यायः ।

एताश्चार्यो 1मया प्रोक्ता यथावच्छस्त्रमोक्षणे । BhNZ_11_001ab
चारीसंयोगजानीह2 मण्डलानि निबोधत ॥ BhNZ_11_001cd
अतिक्रान्तं विचित्रं च तथा ललितसंचरम् । BhNZ_11_002ab
सूचीविद्धं दण्डपादं विहृतालातके तथा3 BhNZ_11_002cd
वामविद्धं4 सललितं क्रान्तं चाकाशगानि तु5 BhNZ_11_003ab
[6मण्डलानि द्विजश्रेष्ठा भूमिगानि निबोधत ॥ ] BhNZ_11_003cd
7भ्रमरास्कन्दिते स्यातामावर्तं च 8ततः परम् । BhNZ_11_004ab
9समोत्सरितमप्याहुरेडकाक्रीडितं10 तथा ॥ BhNZ_11_004cd
[ABh]

गतिमण्डलवैचित्र्यमासूत्रयति या सदा ।
तथा (1)नेदिष्ठनिर्मात्रीं शक्तिं वन्दे महेशितुः ॥
स्वल्पे ऽपि पाठ्ये न त्याज्यः को ऽप्यध्यायो मया यतः ।
विभोर्विश्वात्मनः स्तोत्रं मुख्यमन्यत्प्रसङ्गतः ॥
शस्त्रमोक्षणे मण्डलानीति संबन्धः । इहेत्यस्मिन्नध्याये श्रुते श्रुतितद्दिशान्यान्यपि निबोधय, एषामियात् सामान्यलक्षणं चारीसंयोगजानीति । आकाशगतनां

[(मू)]

1. द॰ म॰ यथान्यायं मयोक्ताः

2. द॰ संयोजनानीह

3. म॰ विहृतालातसंज्ञिते

4. ड॰ वामबन्धं, म॰ वावबन्धं च

5. न॰ आकाशगानिह, ड॰ च

6. भ॰ म॰ योरेव

7. न॰ भ्रमरास्पन्दिते

8. ड॰ तथा

9. च॰ समोसरित, ड॰ समाक्रन्दित, न॰ समोत्सारितमित्याहुः

10. ड॰ एलकाक्रीडितं, ढ॰ एलकाक्रीडिते ।

[(व्या)]

1. नेदिपतिर्मात्रीं ।

[page 118]




[NZ]

अड्डितं शकटास्यं च तथाध्यर्धकमेव च1 BhNZ_11_005ab
2पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ BhNZ_11_005cd
3एतान्यपि दशोक्तानि भूमिगानीह नामतः । BhNZ_11_006ab
4अतःपरं प्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ BhNZ_11_006cd
5आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् । BhNZ_11_007ab
6अलातं वामकं चैव 7पार्श्वक्रान्तं च दक्षिणम् ॥ BhNZ_11_007cd
[(*)सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् । BhNZ_11_008ab
8सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ॥ ] BhNZ_11_008cd
सूचीं वामं पुनश्चैव त्रिकं च परिवर्तयेत् । BhNZ_11_009ab
तथा दक्षिणमुद्वृत्तमलातं चैव वामकम् ॥ BhNZ_11_009cd
परिच्छिन्नं तु9 कर्तव्यं बाह्यभ्रमरकेण हि10 BhNZ_11_010ab
अतिक्रान्तं पुनर्वामं 11दण्डपादं च दक्षिणम् ॥ BhNZ_11_010cd
विज्ञेयमेतद्व्यायामे त्वतिक्रान्तं12 तु मण्डलम् । BhNZ_11_011ab
[ABh]

युद्धपरिक्रमेषु प्राधान्यात्पूर्वमुद्देशः आकाशभूचारीप्राचुर्यान्मण्डलेषु तथात्वम् । आद्यमिति दक्षिणम् । उद्वाहितमिति लक्षणैकदेशेन शकटास्यां सूचयति । एवमन्यत्र । त्रिकन्त्विति भ्रमरीमाह । बाह्यभ्रमरकं वामपदेन

[(मू)]

1. द॰ अध्यर्धमिति स्मृतम्, म॰ अध्यर्धिकमेव च

2. न॰ म॰ पृष्ठकुट्टं

3. ड॰ भूमिका मण्डलाह्येते (न्येते?) लक्षणं च निबोधत

4. भ॰ म॰ योरेव

5. ड॰ आद्यपादं तु तं कृत्वा उद्वाहितमथाचरेत्

6. द॰ आत्मानं

7. म॰ पार्श्वक्रान्तं तु

8. छ॰ सूचीवामपदं

9. छ॰ च

10. न॰ तु

11. न॰ मन्दपादं

12. न॰ व्यायामेष्वतिक्रान्तं. झ॰ व्यतिक्रान्तं ।

* न प्रक्षिप्तो ऽयं श्लोकः किं तु मतान्तरानुसार्येव । मण्डलगतानां चारीणामभ्यावृत्तौ न्यूनाधिकता न दोषाय ।

[(व्या)]

[page 119]




[NZ]

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम्1 BhNZ_11_011cd
2आस्पन्दितं तु3 वामेन 4पार्श्वक्रान्तं च दक्षिणम् । BhNZ_11_012ab
5वामं सूचीपदं दद्यादपक्रान्तं च दक्षिणम् ॥ BhNZ_11_012cd
भुजङ्गत्रासितं6 वाममतिक्रान्तं च दक्षिणम् । BhNZ_11_013ab
7उद्वृत्तं दक्षिणं चैव ह्यलातं चैव वामकम् ॥ BhNZ_11_013cd
8पार्श्वक्रान्तं पुनः सव्यं सूची वामक्रमं तथा । BhNZ_11_014ab
विक्षेपो दक्षिणस्य9 स्यादपक्रान्तश्च वामकः10 BhNZ_11_014cd
[बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ।] BhNZ_11_015ab
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् ॥ BhNZ_11_015cd
कृत्वोर्ध्वजानु11 चरणमाद्यं सूचीं12 प्रयोजयेत् । BhNZ_11_016ab
13अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् ॥ BhNZ_11_016cd
14वामं सूचीं पुनर्दद्यात्त्रिकं च परिवर्तयेत् । BhNZ_11_017ab
15पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् ॥ BhNZ_11_017cd
16सूचीमाद्यक्रमं 17कृत्वा ह्यपक्रान्तं च वामकम् । BhNZ_11_018ab
18पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् ॥ BhNZ_11_018cd
[ABh]


[(मू)]

1. ढ॰ निकुट्टकम्

2. ज॰ आदि म॰ अन्तेषु आस्कन्दितं(आस्पन्दितस्थाने), न॰ आस्कन्दिकं

3. म॰ च

4. म॰ पार्श्वाक्रान्तं

5. छ॰ भ॰ म॰ एव वर्तते

6. ढ॰ सव्यं

7. म॰ उद्वृत्तो दक्षिणश्चैव अलातश्चैव वामकः

8. म॰ पार्श्वाक्रान्तं

9. ड॰ दक्षिणश्च

10. म॰ वामतः

11. च॰ वाम

12. म॰ सूचीमाद्यं

13. म॰ अपक्रान्तं पुनर्वाममाद्यं पार्श्वगतं तथा, ड॰ अपक्रान्तं पुनर्वाममाद्यं

14. ड॰ वामसूचीं, ढ॰ वामः सूचीं

15. म॰ पार्श्वाक्रान्तः पुनश्चाद्यस्त्वभिक्रान्तश्च वामकः

16. न॰ आदर्शे श्लोकार्धो न वर्तते

17. दद्यादतिक्रान्तं

18. म॰ पार्श्वक्रान्तं

* श्लोकार्धो ऽयं प्रक्षितः, च॰, छ॰, द॰, भ॰ आदर्शेषु न वर्तते । शास्त्रकारैरपि वामचरणस्य भ्रमरीविक्षेपौ नात्र सूचितौ ।

[(व्या)]

[page 120]




[NZ]

1परिच्छिन्नं च कर्तव्यं 2बाह्यभ्रमरकेण च3 BhNZ_11_019ab
एष चारीप्रयोगस्तु कार्यो ललितसञ्चरे ॥ BhNZ_11_019cd
4सूचीं वामपदं दद्यात्त्रिकं च परिवर्तयेत् । BhNZ_11_020ab
5पार्श्वक्रान्तः पुनश्चाद्यो6 वामो ऽतिक्रान्त एव च ॥ BhNZ_11_020cd
सूचीमाद्यं7 पुनर्दद्यादपक्रान्तं च वामकम् । BhNZ_11_021ab
8पार्श्वक्रान्तं पुनश्चाद्यं9 सूचीविद्धे तु मण्डले ॥ BhNZ_11_021cd
10आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् । BhNZ_11_022ab
11वामं सूचीं पुनर्दद्यात्त्रिकं च12 परिवर्तयेत् ॥ BhNZ_11_022cd
13उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः14 BhNZ_11_023ab
15पार्श्वक्रान्तः 16पुनश्चाद्यो भुजङ्गत्रासितस्तथा ॥ BhNZ_11_023cd
अतिक्रान्तः पुनर्वामो दण्डपादस्तु दक्षिणः । BhNZ_11_024ab
18वामः सूचीत्रिकावर्तो19 दण्डपादे 20तु मण्डले ॥ BhNZ_11_024cd
[ABh]

आस्पन्दितमिति स्पन्दितां चारीमाह, तामेवान्ये अस्कन्दितेत्याहुः । दण्डक्रम इति दण्डपादा चारी त्रिकावर्तादि अन्ते पठित्वात् परिसमाप्तिस्थानगतामेव

[(मू)]

1. म॰ पार्श्वाक्रान्तं, ड॰ पार्श्वक्रान्तः पुनश्चान्यो वामो ऽतिक्रान्त एव च, प॰ सूचीमाद्यक्रमं कृत्वा

2. म॰ द॰ बाहु

3. म॰ तु, ड॰ हि

4. ड॰ सूचीवामपदं विद्यात् विद्यात्, प॰ सूचीमाद्यक्रमं

5. द॰ पार्श्वाक्रान्तः, म॰ पादाक्रान्तः

6. ड॰ पुनश्चान्यो, झ॰ पार्श्वक्रान्तं पुनश्चाद्यं

7. छ॰ सूची वामं

8. म॰ पार्श्वाक्रान्तं

9. ड॰ पुनश्चान्यं

10. न॰ आद्यं तु जनितं कृत्वा, म॰ आद्यं तु जनितं कुर्यात्ततो दण्डक्रमं बुधः

11. म॰ द॰ वामसूची

12. द॰ तु

13. ड॰ उद्वर्त्तो

14. झ॰ अलातं चैव वामकम्

15. म॰ पार्श्वाक्रान्तः

16. ड॰ पुनश्चान्यो

17. म॰ भुजङ्गत्रासितं

18. ड॰ वामसूची

19. झ॰ त्रिकावृत्तो

20. . ड॰ दण्डपाते ।

[(व्या)]

[page 121]




[NZ]

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम्1 BhNZ_11_025ab
2आस्कन्दितं च वामेन 3ह्युद्वृत्तं दक्षिणेन च4 BhNZ_11_025cd
5अलातं वामकं पादं6 सूचीं दद्यात्तु7 दक्षिणम् । BhNZ_11_026ab
8पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ BhNZ_11_026cd
9समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् । BhNZ_11_027ab
10सूचीं वामपदं दद्यात्त्रिकं 11तु परिवर्तयेत्12 BhNZ_11_027cd
भुजङ्गत्रासितश्चाद्यो13 वामो ऽतिक्रान्त एव च । BhNZ_11_028ab
एष 14चारीप्रयोगस्तु 15विहृते मण्डले भवेत् ॥ BhNZ_11_028cd
16सूचीमाद्यक्रमं दद्यादपक्रान्तं च वामकम् । BhNZ_11_029ab
17पार्श्वक्रान्तः 18पुनश्चाद्यो ह्यलातश्चैव वामकः ॥ BhNZ_11_029cd
19भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । BhNZ_11_030ab
षट्संख्यं 20सप्तसंख्यं वा ललितैः पादविक्रमैः21 BhNZ_11_030cd
[ABh]

भ्रमरीमाश्रित्य यन्मण्डलं दण्डपादाख्यं तत्रेति संबन्धः । निकुट्टकमित्यनेन तलसञ्चरपादो लक्ष्यते । उद्वृत्तमूरूद्वृत्तादिकां चारीम् । समावर्तनं सम्यगावर्तनं सव्यापसव्यभ्रमरकद्वयेन । एताभिश्चारीभिः पर्यायेण षट्कृत्वः सप्तकृत्वो वा प्रयुक्ताभिः परिमण्डले चतुर्दिक्वं भ्रान्त्वान्तरालिकैः पादक्षेपैरिदमिदं

[(मू)]

1. ड॰ निकुट्टनम्

2. प॰ आस्पन्दितं, म॰ वामेनास्कन्दितं कुर्यादुद्वृत्तं

3. ज॰ उद्वृत्तं

4. द॰ तु

5. अलाते

6. म॰ वामपादं च

7. न॰ सूची पादं तु, म॰ दद्याच्च

8. म॰ पार्श्वाक्रान्तः, ड॰ पार्श्वक्रान्तः पुनर्वामं

9. म॰ परिवर्तत्रिकं पश्चाद्दण्डपादं, न॰, झ॰ परिवृत्तत्रिकञ्चैव मन्दपादं, ड॰, ज॰, प॰, त॰, ढ॰ परिवृत्य

10. ड॰ सूची

11. न॰ च

12. न॰ परिवर्जयेत्

13. ज॰ अन्यो

14. म॰ चारीप्रचारस्तु

15. च॰ विवृत्ते, छ॰ विहिते

16. ढ॰ सूचीमाद्यं क्रमं कृत्वा अपक्रान्तं, प॰ सूचीमाद्यक्रमं कृत्वा ह्यति क्रान्तं

17. न॰ श्लोकार्धो न वर्तते, द॰ पार्श्वक्रान्तं

18. ड॰ ततश्चान्योप्यलातः, म॰ ततश्चाद्यस्त्वलातः

19. म॰ एताभिश्चारिभिर्भ्रान्त्वा

20. न॰ पञ्चसंख्यं

21. द॰ विभ्रमैः

[(व्या)]

[page 122]




[NZ]

[1आद्यं कुर्यादपक्रान्तमतिक्रान्तं च वामकम् ।] BhNZ_11_031ab
2अपक्रान्तः पुनश्चाद्यो वामो ऽतिक्रान्त एव च ॥ BhNZ_11_031cd
3पादभ्रमरक्रमं स्यादलाते 4खलु मण्डले । BhNZ_11_032ab
सूचीमाद्यक्रमं कृत्वा 5ह्यपक्रान्तं च वामकम् ॥ BhNZ_11_032cd
आद्यो दण्डक्रमश्चैव सूची कार्यस्तु6 वामकः । BhNZ_11_033ab
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः ॥ BhNZ_11_033cd
आक्षिप्तं वामकं कुर्याद्दण्डपादं तु7 दक्षिणम् । BhNZ_11_034ab
ऊरूद्वृत्तं 8च तेनैव कर्तव्यं दक्षिणेन तु9 BhNZ_11_034cd
सूचीवामक्रमं कृत्वा10 त्रिकं च परिवर्तयेत् । BhNZ_11_035ab
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च11 दक्षिणः ॥ BhNZ_11_035cd
अतिक्रान्तः पुनर्वामो 12वामबन्धे तु मण्डले । BhNZ_11_036ab
सूचीमाद्यक्रमं 13दद्यादपक्रान्तं च वामकम् ॥ BhNZ_11_036cd
पार्श्वक्रान्तः14 पुनश्चाद्यो15 भुजङ्गत्रासितः स च16 BhNZ_11_037ab
(*)अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ BhNZ_11_037cd
17अतिक्रान्तः पुनर्वाम ऊरूद्वृत्तस् तथैव च18 BhNZ_11_038ab
[ABh]


[(मू)]

1. भ॰ म॰ योरेव

2. द॰ अतिक्रान्तः

3. न॰ वामो भ्रमरकश्च, द॰ पादो

4. म॰ चारी

5. न॰ ह्यतिक्रान्तश्च वामकः

6. ड॰ पादस्तु

7. न॰ च

8. झ॰ तु

9. झ॰ च

10. ड॰ वामकरं चैव, न॰ क्रमं चैव

11. म॰ पार्श्वाक्रान्तस्तु

12. म॰ वामविद्धे

13. ड॰ कृत्वा अपक्रान्तं

14. म॰ द॰ पार्श्वक्रान्तः

15. ड॰ अन्यो

16. ड॰ तथा

17. झ॰ अतिक्रान्तं पुनर्वामं

18. ढ॰ ऊरूद्वत्तः स एव च, झ॰ स एव तु

* मतान्तरानुसारेण

अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ।

अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः ।

अतिक्रान्तः पुनर्वाम ऊरूद्वृत्तस्तथैव च ।

इति चारीचरणव्यतिक्रमो द्रष्टव्यः ।

[(व्या)]

[page 123]




[NZ]

अलातश्च 1पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः ॥ BhNZ_11_038cd
2सूचीवामं पुनर्दद्यादपक्रान्तश्च दक्षिणः । BhNZ_11_039ab
3अतिक्रान्तः पुनर्वामः कार्यो ललितसंचरः4 BhNZ_11_039cd
एष पादप्रचारस्तु5 ललिते मण्डले भवेत् । BhNZ_11_040ab
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । BhNZ_11_040cd
पार्श्वक्रान्तं पुनश्चाद्यं6 7वामं पार्श्वक्रमं तथा । BhNZ_11_041ab
8भ्रान्त्वा चारीभिरेताभिः पर्यारेणाथ मण्डलम्9 BhNZ_11_041cd
10वामं सूचीं ततो 11दद्यादपक्रान्तं च दक्षिणम् । BhNZ_11_042ab
स्वभावगमने ह्येतन्मण्डलं संविधीयते ॥ BhNZ_11_042cd
क्रान्तमेतत्तु12 विज्ञेयं नामतो13 नाट्ययोक्तृभिः । BhNZ_11_043ab
एतान्याकाशगानीह14 ज्ञेयान्येवं दशैव तु15 BhNZ_11_043cd
अतः परं प्रवक्ष्यामि भौमानामपि 16लक्षणम् । BhNZ_11_044ab
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो 17भवेत् ॥ BhNZ_11_044cd
शकटास्यः पुनश्चाद्यो18 वामश्चापि19 प्रसारितः । BhNZ_11_045ab
[ABh]

कुर्यादिति सङ्गतिः । संख्याशब्देनाभ्यावृत्तिर्लक्ष्यते । अतिक्रान्तस्यैव विशेषणं ललितं सञ्चरतीत्यत एव मण्डलस्येदमेव नाम । स चेति । स एवेत्यर्थः ।

[(मू)]

1. झ॰ भवेद्वामः

2. कादि चान्तेषु न दृश्यते । ग्रन्थपातः स्यात्

3. झ॰ अपक्रान्तः

4. ड॰ संज्ञकः

5. ड॰ प्रसारस्तु

6. ड॰ अन्यं

7. ड॰ वामपार्श्वक्रमं, द॰ वामपार्श्वाक्रमस्तथा

8. न॰ एताभिश्चारिभिर्भ्रान्त्वा, म॰ एताभिः पादचारीभिः

9. म॰ पर्यायान्मण्डलं तथा

10. ड॰ वामसूचीं

11. न॰ विद्यात्

12. च॰ क्रान्तमेव च

13. म॰ मण्डलं

14. च॰ आकाशगामीनि

15. म॰ दश ज्ञेयानि योक्तृभिः

16. ड॰ इह

17. ड॰ आस्कन्दितो

18. ड॰ अन्यो

19. वामश्चैव

* पार्श्वक्रम इति पार्श्वक्रान्तचरणः

[(व्या)]

[page 124]




[NZ]

आद्यो भ्रमरकः कार्यस्त्रिकं च1 परिवर्तयेत् ॥ BhNZ_11_045cd
आस्पन्दितः2 पुनर्वामः शकटास्यश्च दक्षिणः । BhNZ_11_046ab
वामः 3पृष्ठापसर्पी च दद्याद्भ्रमरकं तथा4 BhNZ_11_046cd
स एवास्पन्दितः5 कार्यस्त्वेतद्भ्रमरमण्डलम् । BhNZ_11_047ab
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् ॥ BhNZ_11_047cd
कार्यस्त्रिकविवर्तश्च शकटास्यश्च दक्षिणः । BhNZ_11_048ab
ऊरूद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः ॥ BhNZ_11_048cd
कार्यस्त्रिकविवर्तश्च दक्षिणः स्पन्दितो6 भवेत् । BhNZ_11_049ab
शकटास्यो भवेद्वामस्तदेवास्फोटनं 7भवेत् ॥ BhNZ_11_049cd
एतदास्पन्दितं8 नाम व्यायामे युद्धमण्डलम् । BhNZ_11_050ab
9आद्यन्तु जनितं कृत्वा वामेन तु निकुट्टकम्10 BhNZ_11_050cd
शकटास्यः पुनश्चाद्य11 ऊरूद्वृत्त स एव तु12 BhNZ_11_051ab
13पृष्ठापसर्पी वामश्च स च चाषगतिर् भवेत्14 BhNZ_11_051cd
14आस्पन्दितः पुनः सव्यः शकटाख्यश्च वामकः16 BhNZ_11_052ab
आद्यो भ्रमरकश्चैव17 त्रिकं तु18 परिवर्तयेत् ॥ BhNZ_11_052cd
[ABh]


[(मू)]

1. म॰ तु

2. म॰ आस्कन्दितः

3. न॰ पृष्ठावसर्पी

4. म॰ कार्यो भ्रमरकस्तथा

5. ड॰ आस्कन्दितः

6. ड॰ स्कन्दितो

7. ड॰ तेनैवास्फोटनं

8. ड॰ आस्कन्दितं

9. म॰ आद्यस्तु जनितः

10. ज॰ वामंचैव निकुट्टकम्, ड॰ निकुट्टनम्

11. ड॰ श्रान्यः, ढ॰ शकटास्यं पुनश्चान्यं

12. ड॰ च

13. न॰ पृष्ठावसर्पी

14. झ॰ गतिस्तु वा

15. ड॰ आस्कन्दितः

16. न॰ शकटास्यं च वामकम्

17. म॰ भ्रमरकः कायैः

18. ड॰ च ।

[(व्या)]

[page 125]




[NZ]

1पृष्ठापसर्पी 2वामश्चेत्यावर्ते मण्डले भवेत् । BhNZ_11_053ab
3कृत्वादौ समपादं तु स्थानं हस्तौ प्रसारयेत्4 BhNZ_11_053cd
5निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्त्य चैव हि6 BhNZ_11_054ab
कटीतटे विनिक्षिप्य 7चाद्यमावर्तयेत्क्रमात्8 BhNZ_11_054cd
9यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् । BhNZ_11_055ab
चार्यानया च10 भ्रान्त्वा तु पर्यायेणाथ मण्डलम्11 BhNZ_11_055cd
12समोसरितमेतच्च 13ज्ञेयं व्यायाममण्डलम् । BhNZ_11_056ab
पादैस्तु भूमिसंयुक्तैः 14सूचीविद्धैर्स्तथैव च ॥ BhNZ_11_056cd
एलकाक्रीडितैश्चैव 15चूर्णैस्त्रिकविवर्तनैः16 BhNZ_11_057ab
सूचीविद्धापविद्धैश्च क्रमेणावृत्य मण्डलम्17 BhNZ_11_057cd
एलकाक्रीडितं 18विद्यात्खण्डमण्डलसंज्ञितम्19 BhNZ_11_058ab
सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत्20 BhNZ_11_058cd
तेनैवास्कन्दितः कार्यः 21शकटास्यश्च वामकः । BhNZ_11_059ab
आद्यः पृष्ठापसर्पी च 22स च चाषगतिर्भवेत् ॥ BhNZ_11_059cd
अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः । BhNZ_11_060ab
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् ॥ BhNZ_11_060cd
[ABh]


[(मू)]

1. झ॰ पृष्ठापसर्पि

2. द॰ वामश्च आवर्ते, म॰ वामश्च आवर्ताख्ये तु मण्डले

3. ड॰ समपादं बुधः कृत्वा, झ॰ समपादं पुनः कृत्वा

4. द॰ प्रयोजयेत्

5. झ॰ निरन्तरादूर्ध्वतलैः, द॰ निरन्तरादूर्ध्वतलात्, ढ॰ निरन्तरानूर्ध्वतलैः

6. म॰ तौ पुनः

7. ड॰ आद्यं

8. न॰ क्रमम्

9. ड॰ तथाक्रमं

10. न॰ तु, द॰ अथ

11. म॰ पर्यायान्मण्डलं भ्रमेत्

12. ड॰ समोत्सरितमेतत्तु, न॰ समोत्सारितं

13. ड॰ कार्यं

14. द॰ सूच्याविद्धैः

15. ड॰ पूर्णैः, प॰ तूर्णैः

16. ड॰ विवर्जितैः, न॰ तु द॰ अथ

17. म॰ पर्यायान्मण्डलं भ्रमेत्

18. म॰ नाम, ड॰ दद्यात्

19. म॰ मण्डलमुच्यते

20. म॰ आदिशेत्

21. म॰ आस्कन्दितं कुर्यात्

22. प॰ सम

[(व्या)]

[page 126]




[NZ]

तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् । BhNZ_11_061ab
आद्यं तु जनितं कृत्वा 1तेनैव च निकुट्टकम्2 BhNZ_11_061cd
स एव शकटास्यश्च वामश्चास्कन्दितो3 भवेत् । BhNZ_11_062ab
4पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ BhNZ_11_062cd
5विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । BhNZ_11_063ab
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो6 भवेत् ॥ BhNZ_11_063cd
7अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः । BhNZ_11_064ab
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम्8 BhNZ_11_064cd
अध्यर्धमेतद्विज्ञेयं 9नियुद्धे 10चापि मण्डलम् । BhNZ_11_065ab
11सूचीमाद्यक्रमं कृत्वा 12ह्यपक्रान्तं च वामकम् ॥ BhNZ_11_065cd
13भुजङ्गत्रासितश्चाद्य एवमेव च वामकः14 BhNZ_11_066ab
15भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् ॥ BhNZ_11_066cd
16पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः17 BhNZ_11_067ab
सर्वैश्चाषगतैः पादैः परिक्रम्य च मण्डलम्18 BhNZ_11_067cd
एतच्चाषगतं विद्यान्नियुद्धे 19चापि मण्डलम् । BhNZ_11_068ab
[ABh]

आस्फोटनमिति पादतलेन भूमिताडनं युद्धेष्वास्फालनमिति प्रसिद्धम् । चशब्दो ऽप्यर्थे । अतः परमपि मण्डलानि योजयेत् । कथमित्याहुः । समाः

[(मू)]

1. न॰ तथैव

2. ज॰ निकुट्टनम्

3. प॰ आस्पन्दितो

4. म॰ शकटास्यस्थितैः पादैः भ्रमेत्पर्यायशः पुनः

5. म॰ शकटास्यं च विज्ञेयं

6. प॰ आस्पन्दितो

7. ड॰ अवसर्पी

8. म॰ पर्यायान्मण्डलं भ्रमेत्

9. द॰ व्यायामे चारिमण्डलम्

10. ड॰ चारिमण्डलम्

11. द॰ धीरमाद्यक्रमं

12. ढ॰, ज॰, झ॰ व्यपक्रान्तं

13. द॰ आदर्शे श्लोकार्धो न वर्तते

14. ड॰ एष एव तु वामकः

15. म॰ भुजङ्गत्रासितैः पादैर्भ्रमेदपि च मण्डलम्

16. प॰ पृष्ठकुट्टं च

17. ड॰ नियुद्धे चारिमण्डलम्

18. म॰ मण्डलं तु परिभ्रमेत्

19. ड॰ चारिमण्डलम्

[(व्या)]

[page 127]




[NZ]

नानाचारीसमुत्थानि मण्डलानि समासतः ॥ BhNZ_11_068cd
उक्तान्यतः परं चैव 1समचारीं नियोजयेत् । BhNZ_11_069ab
समचारीप्रयोगे 2यस्तत्समं नाम मण्डलम् ॥ 69॥ BhNZ_11_069cd
आचार्यबुद्ध्या 3तानीह कर्तव्यानि प्रयोक्तृभिः4 BhNZ_11_069ef
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च5 परिक्रमे च6 BhNZ_11_070ab
लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि 7वाद्यानुगतानि तज्ज्ञैः ॥ BhNZ_11_070cd


इति श्रीभारतीयेब् नाट्यशास्त्रे मण्डलविकल्पनं(8) नामैकादशो ऽध्यायः(9) ॥
[ABh]

परस्परे योजनोचिताश्चार्यो यत्र तत्रोहने ऽप्युदाहरणं दर्शयति समचारीप्रयोग इति । समानां भौमत्वेनाकाशीयत्वेन च चारीणां प्रयोगो यत्र ।
एवमनया दिशा बहूनि कल्पयेदित्याह आचार्यबुद्ध्योपलभ्यो भागः प्रयोगयोग्यो भवतीति । खण्डानां प्राधान्यमपि दर्शयति खण्डानीति । वाद्येनानुगतानीति ``गत्या वाद्यानुसारिण्या''(अ 4-282) इति नृत्तविषयतुर्याध्यायाद्धि वैपरीत्येन नाट्ये गतौ प्राधान्यमाहेति शिवम् ॥
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां मण्डलाध्याय एकादशः समाप्तः ॥

[(मू)]

1. म॰ समां चारीं

2. म॰ प्रचारो

3. ड॰ कर्तव्यानीह तानि

4. ढ॰ प्रयोगतः

5. म॰ तु

6. च॰ परिचंक्रमे च

7. झ॰ बाह्यानुगतानि

8. ड॰ मण्डलविधानं, न॰ मण्डलविधानो

9. जादिबान्तेषु द्वादशो ऽध्यायः, द॰ श्लोकाः 38 -आहत्य 1939 ।

[(व्या)]

[page 128]




[NZ]

श्रीः
नाट्यशास्त्रम्
द्वादशो ऽध्यायः ।

एवं व्यायामसंयोगे1 कार्यं मण्डलकल्पनम् । BhNZ_12_001ab
अतः परं प्रवक्ष्यामि 2गतीस्तु प्रकृतिस्थिताः ॥ BhNZ_12_001cd
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । BhNZ_12_002ab
[ABh]

श्रुत्यन्तविश्रान्तविधिर्या गतिः परमात्मनः ।
तां महानन्दसन्दोहतत्त्वमूर्तिं(1) स्तुमः सदा ॥
प्रकरणसंगतये (2)प्रकृतानुपूर्वकं निरूपयिष्यमाणं प्रतिजानीते एवमिति । व्यायामानामन्योन्यं(3)संमीलनयोग्यानां चारीणां (4)संहत्या योगे मिश्रीभावे सति मण्डलानां कल्पनमनुक्तमपि कर्तुं शक्यं बुद्ध्येति तत उपरम्यते । (5)तत्राङ्गिकस्य रसभावयोर्विनियोगशो (विभागशो ?) विनियोगस्य कृतत्वाद्यद्यपि तन्मिश्रणे ऽपि पृथग्विनियोगेन वक्तव्यं, तथापि शिष्यहितप्रतिपन्नो मुनिर्दिशं दर्शयितुं शिरःप्रभृतिपादान्ते (यानि) (6)अङ्गसंधेयानि कर्माण्युक्तानि तन्मेलनबलेन यो (7)देहसंनिवेशो गतौ वा स्थितौ (8)प्रकाराभावात्तस्य विनियोगं (9)प्रकटयिष्यन् चारीमण्डल(10)प्रसंगस्याचित्तवृत्तित्वाद्गतिविनियोगमेव प्रतिजानीते । गतिश्च प्रकृतिं रसमवस्था देशं कालं चापेक्ष्य वक्तव्या । प्रतिपुरुषमभिधानात् । तत्र प्रक्रिया पूर्वमुच्यते, (11)तदेतत्तुशब्देन यावच्छब्दपर्यायवाचिना क्रमार्थेन काकाक्षिवदुभयतो धावता द्योतितम् । तत्राप्रविष्टस्य का गतिरिति (12)प्रयोगोपक्रमं सूचयति तत्रापवहनमिति । (13)तदङ्गानुसारालाप

[(मू)]

1. म॰ संजातं

2. प॰ गतिं तु प्रकृतिस्थिताम्

[(व्या)]

1. संदोहि सत्त्वमूर्ति

2. वर्णितानुपूर्वकं

3. संकलन

4. संगत्या

5. तत्राङ्गिकसाभागयोर्विनियोगशो

6. अङ्गकर्मसंयोगानि

7. भेदसंनिवेशो

8. प्रकारमावात्

9. प्रकटयिष्यामः

10. प्रसङ्गस्याचित्रवृत्तित्वात्

11. तदेतादृक्छब्देन यादृक्छन्दपर्याय, क॰ तदेतद्दिक्छब्देन

12. प्रवेशोपक्रमं

13. यद्रङ्गानुसरालाप ।

[page 129]




[NZ]

यथामार्गरसोपेतं1 प्रकृतीनां प्रवेशने2 BhNZ_12_002cd
ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते3 BhNZ_12_003ab
कार्यः प्रवेशः पात्राणां नानार्थरससंभवः ॥ BhNZ_12_003cd
[ABh]

इति (1)प्रसिद्धं तमालापं कृत्वा (2)ध्रुवायां प्रवृत्तायां, कथम् ?, भाण्डवाद्यपुरस्कृतत्वादि(3)रूपत्रययुक्तं कृत्वेति, (5)त्रीण्यपि क्रियाविशेषणानि । तन्त्रीभाण्डं वाद्यमानं पुष्करवाद्यम् । मार्गो देशः, रसः स्थायिचित्तवृत्तिः, वीप्सायामव्ययीभावः । यो यः कश्चिद्गृहोद्याननिर्देशः, `रत्यादिश्चित्तवृत्तिविशेषः, तेनोपेतं कृत्वा, (7)या ध्रुवा तथा उत्तमादिप्रकृतीनाण् यस्यावेशनं बुद्धौ प्रवेशो यत्र तथा कृत्वा । एतदुक्तं भवति --- हंसाद्युपमानमुखेन प्रकृतिविशेषः, चित्तवृत्तिविशेषः, उद्यानादिविशेषश्चावश्यं ध्रुवासूपनिबन्धनीयः । एवं ध्रुवायां प्रवृत्तायामेवं सत्यां। पटे ऽपकर्षिते यवनिकायामपसारितायां(8) तदा सामाजिकानां नेपथ्यगृहादयमागत इति नटी निवर्त्यते । चकारात्काले पुनरुपोहनम्(9) । ध्रुवाप्रवेशो (10)लये मध्ये(11) (12)वलितया --- (13)वलनिकेति कोहलेन प्रयोगवलनाद्व्यपदिष्टं --- शुष्काक्षरगानं कृत्वा, प्रवेश एव तथा समुचितस्थानकदृष्टिमुखरागादियुक्तः कर्तव्यो (14)यथा सामाजिकानां झडित्येवान्विताभिधाननयेन (15)मुख्यरसव्याप्तिरुदयते । प्रगीतं गीयमानग्रामरागाग्रगतैकगमकाकर्णने समग्रग्रामतत्त्वसंवेदनवशः ।
अन्ये तु यथामार्गकलोपेतमिति पठन्ति । उभयतः शेषत्वेन व्याचक्षते --- मार्गेषु चित्रादिषु याः कला द्विमात्राचतुर्मात्राष्टमात्रेति ग्रामेषूच्यन्ते चालिप्तकादिषु कला वाद्याक्षराणीति । यद्यपि पात्राणामध्रुवा अपि प्रवेशा

[(मू)]

1. प॰ मार्गकलोपेतं

2. ड॰ प्रवेशनम्

3. ड॰ अवघट्टिते, ढ॰ अवघर्षिते, न॰ अवकर्षिते, प॰ अपघट्टिते. 4. कार्यमुत्तमे ।

[(व्या)]

1. प्रसिद्धः क्रमालापं

2. ध्रुवादिभ्यः

3. पुरस्कृतादि

4. उक्तं

5. नित्यविक्रिया

6. रत्यादे

7. यद्वद्ब्रूह्यं

8. प्रसारितायां

9. उपोहनात्

10. प्रदेशः

11. क॰ पयोन्मध्ये, ख॰ पलयेन्मध्ये

12. चलितया

13. वलितेति

14. यः

15. मुख्यःसव्याधिरुदयते ।

[page 130]




[NZ]

स्थानं तु वैष्णवं 1कृत्वा ह्युत्तमे मध्यमे तथा । BhNZ_12_004ab
समुन्नतं समं चैव चतुरश्रमुरस्तथा ॥ BhNZ_12_004cd
बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च2 कारयेत् । BhNZ_12_005ab
ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ BhNZ_12_005cd
3कर्णादष्टाङ्गुलस्थे च4 बाहुशीर्षे प्रयोजयेत् । BhNZ_12_006ab
5उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम्6 BhNZ_12_006cd
हस्तौ तथैव कर्तव्यौ कटिनाभितटस्थितौ7 BhNZ_12_007ab
दक्षिणो नाभिसंस्थस्तु वामः कटितटे स्थितः ॥ BhNZ_12_007cd
पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । BhNZ_12_008ab
8पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ BhNZ_12_008cd
[ABh]

वक्ष्यन्ते तथापि संभवमात्राभिधान(1)मेतदुत्तममध्यमयोर्वा प्रस्तावादेवमुक्तम् । तयोर्हि ता ध्रुवाः प्रवेशास्ते ऽपि वा चकारेण संगृहीता एव । एकः समो ऽन्यः पक्षः । स्थानमिति त्र्यश्रे ऽर्थाद्विकतालभागिति वैष्णवं स्वप्रवेश एव सन्ने अचले प्रसन्ने, (2)नात्युक्षिप्ते (3)अधो वा अधोगामित्वं (4)यत्नेन परिहार्यमिति श्लोकार्थमेव शिक्षयितुं स्फुटमुपायमाह ग्रीवाप्रदेश इत्यादिना सार्धेन श्लोकद्वयेन । स्वस्थमयूरवदञ्चितं सुरूपं शिरो यत्र । नाभिसंस्थ इति चातुरश्र्यप्रस्तावः खटकामुखः, वाम इत्यर्धचन्द्रः । न चेदमुपविष्टस्थानकमपि तु गत्यानन्तर्यौचित्यात्तु स्थितस्थानकमेवेति दर्शयितुमाह पादयोरन्तरमिति । ``द्वौतालावर्धं च पादयोरन्तर''मिति (110-52) यत्स्थानकलक्षणं सूचितं तदेव कार्यं नान्यदुपवेशनादित्यर्थः । तत्र स्थानकानन्तरं गतिमुपक्षिपति(5) पादोत्क्षेप इति स युक्तस्तेन

[(मू)]

1. म॰ कार्यमुत्तमे

2. म॰ न

3. म॰ कर्णाभ्यां बाहुशिरसी स्यातामष्टाङ्गुलस्थिते ।

4. ड॰ अङ्गुलिस्थैव

5. भ॰ उरसश्चापि देशाच्च चिबुकं चतुरङ्गुलम्

6. द॰ संमितम्

7. म॰ कटिं नाभिं तु संस्थितौ

8. ढ॰ पादोत्क्षपश्च ।

[(व्या)]

1. मात्राविधानं

2. तान्युत्क्षिप्ते

3. इत्येतो

4. यत्तेन

5. आक्षिपति ।

[page 131]




[NZ]

चतुस्तालो 1द्वितालश्चाप्येकतालस्तथैव च2 BhNZ_12_009ab
चतुस्तालस्तु देवानां पार्थिवानां तथैवच ॥ BhNZ_12_009cd
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम्3 BhNZ_12_010ab
चतुष्कलो ऽथ द्विकलस्तथा ह्येककलः पुनः ॥ BhNZ_12_010cd
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । BhNZ_12_011ab
तथा चैककलः पातो नीचानां संप्रकीतितः ॥ BhNZ_12_011cd
[ABh]

भाविलक्षणेन देशकालपरिच्छेदेन च(1) कर्तव्यः । स्वकरमानेन च तालः पात्रस्येत्यर्थः ।
तत्र देशपरिच्छेदं तावदाह एकताल इति । तालः प्रसारितमध्यमाङ्गुष्ठान्तरं ``तालः स्मृतो मध्यमया'' इति । संख्याक्रमेणाभिधाय स्थायिस्थानभूतोत्तमप्रकृतिविश्रान्तत्वात्प्रयोगजातस्य तदुपक्रमं विनियोगमाह चतुस्तालस्त्विति । तुशब्दो ऽप्यर्थे कदाचिदन्यथापि भावात् । तथाशब्दो राज्ञां देवसदृशगत्यसंभवसंभावनापसारणद्योतकः । स्त्रीणां नीचानां साहचर्यादधमानामिति मन्तव्यम् । तेषां हि लिङ्गत्वादधमत्वं किञ्चिन्न संभावयेत् । यथाशोभमिति नाट्यधर्मीकाममित्यर्थः ।
देशनियममुक्त्वा कालनियममप्यौत्सर्गिकं तावदाह चतुष्कलो हीति । तथा चेति तेनोत्क्षेपेण यत्पादस्य पतनं तदुत्तमानां चतसृभिः कलाभिः यस्मात्तदर्धार्धक्रमेण मध्यमाधमयोः परिभाषित इत्युत्सर्गतयेति भावः ।

[(मू)]

1. द॰ द्वितीयश्च

2. म॰ तथा स्यादेकतालकः

3. द॰ स्त्रीणां च लिङ्गिनाम् इतःप्रभृत्यध्यायान्तं --- भ॰ म॰ संज्ञकादर्शयोः श्लोकानां पोर्वापर्यविपर्ययाद्विषयस्यापि न्यूनाधिकतया च पाठक्रम एव महान्व्युत्क्रमो दृश्यते । पाठभेदानां बहुलतया विशीर्णतया पाठभेदसूचनात्परं लघीयो ऽध्यायमेव समग्रं तत्पाठक्रमानुसारि दर्शयितुमिति तथैवास्याध्यायस्यान्ते योगितम् ।

[(व्या)]

1. परिच्छेदेनैव ।

[page 132]




[NZ]

1स्थितं मध्यं 2द्रुतं चैव समवेक्ष्य लयं बुधः3 BhNZ_12_012ab
यथाप्रकृति नाट्यज्ञो गतिमेवं4 प्रयोजयेत् ॥ BhNZ_12_012cd
[ABh]

तत्र गीतिचतुष्ठयं मागध्यादि वक्ष्यते यत्तत्रार्धमागध्यादौ क्रमेण चित्रादित्रयविनियोगात्(1) । ``निमेषाः पञ्च मात्रा स्यात्'' इति कलासामान्यलक्षणलब्ध औत्सर्गिकः सर्वत्र ध्रुवकमार्गो मन्तव्यः । विशेषादभिधाने तेन ध्रुवकमानेन चतुष्कलः पादपातः, तेषां चोत्तमपरिग्रहे (2)द्विपदी कोहलेनोक्ता ---
``स्यादुत्तमानां द्विपदी चतुर्गुरुसमन्विता ।
तत्रोत्क्षेपनिपाताभ्यां यस्मात्पादद्वयं भवेत् ॥'' इति
(3)लक्ष्यश्च इत्थमेव धिक्डिधं इति द्विपदीभागेन पादेन पादपातः । अत्र ध्रुवके चतस्रः कला भवन्ति धिगडधिङ् इत्यस्य हि कालः(4) कखगघङ, नहि व्यञ्जनकालः स्वरकालात्पृथक्, तानि गुरोश्च(5) प्रचलत्वं (6)खडतलचडस्तद्विद्भिस्त्रिपुटमेवावधार्यते(?) । तत्र हि (7)तागडुधिं --- इत्येवंरूपं (8)लघुकला तस्यास्तिस्रो मात्राश्चतुर्थे गर्वक्षरे (द्वे)मात्रे इति (9)च मात्राः । सर्वत्र (10)चैवं प्रकारः समनन्तरग्रहणे विश्रान्त्यभावेन दुष्करः प्रयोग इति स्थानचेष्टाविश्रान्तिप्रकॢप्तये मध्यगता विरामरूपैका(11) मात्रा लक्ष्यविद्धिः (12)प्रकल्पिता, तद्वशादुक्ता तादृशां चतुर्भिर्वा द्रुताः कलायां प्रतिभासन्त इत्यास्तां तावत् । इह चित्रमार्गेण चतुष्कलपादपतनमिति न्याय(नायं?) लक्ष्यलक्षणशोभाबाह्यत्वादपेक्ष्यते च(13) ।
अथ लयकालनियमशेषमाह(14) स्थितमिति विलम्बितम् । समवेक्ष्येति प्रकृत्यादि भेदविभागेनेत्याह तमेव दर्शयति धैर्यस्थैर्यविलम्बितलयमध्यसंमतं संवेदनं यथार्थमिथ्यागोन(गौण?)गतधैर्यगाम्भीर्यादिकृतं मन्तव्यम् । (यथाप्रकृतीति)

[(मू)]

1. भ॰ स्थिरं

2. द॰ समं

3. ड॰ लयत्रयम्

4. ड॰ गतिमेव ।

[(व्या)]

1. विनियोगम्

2. द्विचारी

3. लक्ष्यते. अर्थमेव दलति हि द्विपादीभागेन

4. इत्यस्य कालः

5. पृथक्ता त्रिगुरोश्च

6. क॰ खहतलचेडलः, ख॰ खडकलयेद्धः

7. भडा गिडुद्धीम्

8. रूपा लघुकला

9. प॰

10. चैषां

11. मध्यगतापि समरूपैका

12. प्रकल्पिततद्वशात्

13. अपेक्ष्यत्वमेव

14. शेषमेवाह

[page 133]




[NZ]

1धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंमतानाम्2 BhNZ_12_013ab
द्रुता गतिश्च 3प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ BhNZ_12_013cd
एष एव तु विज्ञेयः कलाताललये विधिः । BhNZ_12_014ab
4पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः ॥ BhNZ_12_014cd
[ABh]

(1)न तु जातिकालादिकृतं विदूषकस्य द्विजत्वे ऽपि (2)अविमलात्केवलमुत्तमघोषणायैव रचितं जात्यादि योजनीयम् । उत्तमस्याप्यन्यथाभावे कथंचिदुत्तमं(3) सदप्यविद्यमानाया इति प्रचुरेति लोकप्रसिद्धमेवेदमुक्तमित्यर्थः । न केवलं प्रकृतितो ऽवयवभेदो यावच्चित्तवृत्तिभेदेनाभिप्रेत्याह सत्त्वबलेन च लयत्रयं योज्यम् । सत्त्वं चित्तवृत्तिः तेन (4)संग्रामादावुत्तमस्यापि द्रुतं, शोकादावधमस्यापि विलम्बितम् । अथैतदनुसारिणो गत्युपयोगिन्यां(5) ध्रुवायां विधिरिति दर्शयति एष एव त्विति । अत्र गत्यनुसारी तालविधिः(6), अन्ये त्वन्यथेत्युक्तं ताले । यस्ताललयः कलासहितः स कलाताललयः इति मध्यमपदलोपी समासः । तेनायमर्थः --- ध्रुवाताले ऽपि गत्यनुसार्येव कलाविधिर्लयविधिश्च । अत एवैतदनुसारेण भट्टलोल्लटगोपालादिभिर्भङ्गोपभङ्गविभङ्गविषये तालादीपिकादौ च्रन्तनसंमतो ध्रुवातालानां विनियोगः प्रपञ्चतो दूषितः । तत्तु ध्रुवाध्याये(*) विचारयिष्याम इत्यास्ताम् ।
एवं देशकालनियममुक्तं प्रकृते योजयति पुनर्गतिप्रचारस्येति गतिषु प्रचारो वैचित्र्यं प्रयोगं पुनः शृणुतेति सम्बन्धः । संघटना ह्यनुक्तेति भावः ।

[(मू)]

1. प॰ स्थैर्योपपन्न

2. प॰ संस्थितानाम्

3. न॰ प्रकृताधमानां

[(व्या)]

1. न भुजानि कुटिलानि

2. अवमलात्

3. उक्तं

4. संभ्रमादौ

5. योगिभ्यां

6. नट्यनुसारितालविधिः

6. भङ्गसर्वभङ्गसव्ये

7. देशकालादिनियमं ।

(*)द्वात्रिंशे ऽध्याये

[page 134]




[NZ]

1स्वभावे तूत्तमगतौ 2कार्यं जानु कटीसमम् । BhNZ_12_015ab
3युद्धचारीप्रयोगेषु 4पुनः स्तनसमं न्यसेत् ॥ BhNZ_12_015cd
पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । BhNZ_12_016ab
रङ्गकोणोन्मुखं5 गच्छेत्सम्यक्पञ्चपदानि तु ॥ BhNZ_12_016cd
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च6 BhNZ_12_017ab
परिवृत्य द्वितीयं तु7 गच्छेत्कोणं ततः परम् ॥ BhNZ_12_017cd
तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च8 BhNZ_12_018ab
ततो भाण्डोन्मुखो गच्छेत्तान्येव तु पदानि च9 BhNZ_12_018cd
एवं गतागतैर्गत्वा पदानामेकविंशतिम्10 BhNZ_12_019ab
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च11 BhNZ_12_019cd
[ABh]

स्वभावे त्विति । (1)तुना विशेषद्योतकेन मन्थरगतौ चतुस्तालत्वमुक्तम्, स्वभावगतौ तु त्रितालत्वं, दीप्तगतौ तु पञ्चतालत्वमपि कार्यमिति दर्शयति । तां गतिप्रचारघटनामाह पार्श्वक्रान्तैरित्यादि ।
``कुञ्चितं पादमुत्क्षिप्य पार्श्वोत्थानोत्थितं न्यसेत् ।
उद्घट्टितेन पादेन पार्श्वक्रान्ता''"(10-32)
इति पार्श्वक्रान्ता चारी । रङ्गकोणं पूर्वोत्तरं द्वितीयकोणमित्युत्तरपश्चिममेवमिति । अन्यस्मिन्निति कोणद्वये ऽतिदिशति । पूर्वरङ्गे चैषा पञ्चपदी व्याख्याता(अ 5-73) । वेधः पार्ष्णिक्षेत्रे सूचीपादनिपातः । वामवेधमिति (2)अन्तराविद्धमुखं (तत्) प्राप्तिसिद्धौ कोणैर्गत्वा ब्रह्मस्थानस्थानुल्लंघ्यतामाह । एतच्च

[(मू)]

1. ड॰ स्वभावैरुत्तम, प॰ स्वभावे चोत्तम

2. न॰ कार्या

3. क॰ युद्धवीर

4. ड॰ जानु

5. ड॰ उन्मुखो

6. ड॰ तु

7. ढ॰ च

8. ड॰ दक्षिण्यस्य च

9. न॰ तु

10. न॰ एकविंशतिः

11. ढ॰ दक्षिणेन च ।

[(व्या)]

1. कृतात्

2. पुनरपिसंमुखं ।

[page 135]




[NZ]

रङ्गे विकृष्टे भरतेन कार्यो गतागतः पादगतिप्रचारः । BhNZ_12_020ab
त्र्यश्रस्त्रिकोणे चतुरश्ररङ्गे गतिप्रचारश्चतुरश्र एव ॥ BhNZ_12_020cd
यः समैः सहितो गच्छेत्तत्र कार्यो लयाश्रयः । BhNZ_12_021ab
चतुष्कलो ऽथ द्विकलस्तथैवैककलः1 पुनः ॥ BhNZ_12_021cd
अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः2 BhNZ_12_022ab
3चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ BhNZ_12_022cd
4दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । BhNZ_12_023ab
चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ BhNZ_12_023cd
दिवौकसां तु सर्वेषां5 मध्यमा गतिरिष्यते । BhNZ_12_024ab
तत्रापि चोद्धता ये तु6 तेषां देवैः समा गतिः ॥ BhNZ_12_024cd
[ABh]

पञ्चपदीगमनं सर्वत्रौत्सर्गिकम् । विशेषमप्याह रङ्गे विकृष्ट इति । भरतशब्देन उपचारतस्तद्विद्यायोनिसंबन्धः सूच्यते । गतागैरिति परिमितायां दिशि पञ्चपदी गतागतेन (1)नियमः एकत्रैव स्थाने द्वौ (2)पादविक्षेपाविति मन्तव्यम् । विकृष्टायां च भूयो भूयः पञ्चपदी ।
अत्रैव विषये विविधप्रमाणा पातरीतिः, (3)तद्द्विलयद्विभङ्गचतुर्भङ्गादयः प्राधान्येन । व्यामिश्रगतेरपि विशेषं व्याचिख्यासुः समगतिमुपसंहरति यः समैरिति । तथैवेति साम्येनेत्यर्थः । मिश्रगतिमाह अथेति । परिवारित इत्युत्तमत्वेन विवक्षित इत्यर्थः । तेन (4)देवादि साध्वाश्रीयमानमुत्तमप्रकृतावपि(?)नायं विधिरन्यस्यैव तत्र प्राधान्यात् । तदोत्तमपादपाते मध्यमस्य द्वौ नीचादे(रेकः, उत्तम)स्य चत्वारः । अत्रैव च चतुस्तालादिविभागे निश्चयार्थं प्रश्नमुत्थापयितुमुपसंहारमुत्तम(5)विशेषाभिधानसहितमाह दैत्यदानवेत्यादि । सर्वेषामिति देवदूतादीनाम् । उद्धता ये त्विति मातलिप्रभृतयः ।

[(मू)]

1. ड॰ भवेदेककलः

2. प॰ गच्छेत्संपरिवारितः

3. ढ॰ चतुष्कलमथोर्ध्वं च

4. ड॰ देव

5. प॰ शेषाणां

6. ड॰ चोर्ध्वपाले तु, ज॰ ढ॰ चोर्ध्वतालेतु ।

[(व्या)]

1. निर्वमा

2. पादौ

3. निशी(3)

4. क॰ दैवादिसाध्यानियमानां, ख॰ देवादिसाध्वसाध्वाश्रीयमानां

5. उक्तविशेष ।

[page 136]




[NZ]

ऋषय ऊचुः(1)
यदा मनुष्या राजानस्तेषां देवगतिः2 कथम् । BhNZ_12_025ab
अत्रोच्यते कथं नैषा गती3 राज्ञां भविष्यति ॥ BhNZ_12_025cd
अथ दिव्याः प्रकृतयो दिव्यमानुष्य4 एव च । BhNZ_12_026ab
मानुष्य5 इति विज्ञेया6 नाट्यवृत्तिक्रियां7 प्रति ॥ BhNZ_12_026cd
8देवानां प्रकृतिर्दिव्या 9राज्ञां वै दिव्यमानुषी । BhNZ_12_027ab
10या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ BhNZ_12_027cd
देवांशजास्तु राजानो वेदाध्यात्मसु कीरिताः11 BhNZ_12_028ab
एवं देवानुकरणे12 दोषो ह्यत्र न विद्यते ॥ BhNZ_12_028cd
अयं विधिस्तु13 कर्तव्यः स्वच्छन्दगमनं प्रति । BhNZ_12_029ab
संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ BhNZ_12_029cd
सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । BhNZ_12_030ab
14उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ BhNZ_12_030cd
[ABh]

देवांशजा इति लोकपालांशविनिर्माणा राजानः । वेदेषु तथाध्यात्मशास्त्रेषु वेदान्तेषु, येषामनेन प्राधान्यमुक्तम् । (अनुकरणं)देवादीनां वर्णनात्, उक्तं च विराजविद्धराजगुह्यमिति(?) देवानुकरणे नाल्पत्वमित्यर्थः । अयमिति चतुष्कल इत्यादिः । स्वच्छन्दगमनं स्वस्था गतिः । संभरम आवेगः उत्पातो ऽत्रोन्मादादिः । [उक्त]प्रमाणमिति उक्तरूपमित्यर्थः । एतदेवास्य दूषयति (1)चतुरर्धं द्वे उत्तमस्य, एका मध्यमस्य, अर्धं नीचस्य;् अवस्थान्तरबलात् सर्वासां

[(मू)]

1. ड॰ अत्राह

2. ढ॰ तया दैवगतिः

3. न॰ गते

4. ड॰ दिव्यामानुष

5. ड॰ मानुषा

6. ड॰ विज्ञेयो

7. ज॰ नाट्यस्य प्रक्रियां, ड॰ नाट्यनृत्तक्रियां

8. प॰ दैवी, ब॰ देवा हि

9. प॰ राजानो वै

10. छ॰ यात्वन्यलोक

11. ड॰ प्रकीर्तिता

12. ड॰ देवानुसरणे

13. ड॰ विधेयः

14. प॰ मध्योत्तमाधमानाम् ।

[(व्या)]

1. चतुरर्थत्वे

[page 137]




[NZ]

1चतुरर्धकलं वा 2स्यात्तदर्धकलमेव च । BhNZ_12_031ab
3अवस्थान्तरमासाद्य कुर्याद्गतिविचेष्टितम् ॥ BhNZ_12_031cd
4ज्येष्ठे चतुष्कलं यत्र मध्यमे द्विकालं भवेत् । BhNZ_12_032ab
5द्विकला चोत्तमे यत्र 6मध्ये त्वेककला भवेत् ॥ BhNZ_12_032cd
7कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । BhNZ_12_033ab
एवमर्धार्धहीनं तु जडानां संप्रयोजयेत् ॥ BhNZ_12_033cd
ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । BhNZ_12_034ab
8विस्मये चावहित्थे च तथौत्सुक्यसमन्विते ॥ BhNZ_12_034cd
शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । BhNZ_12_035ab
9गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ BhNZ_12_035cd
[ABh]

(प्रकृतीनां, गतिरिति कलालयतालाश्रिता) । सर्वमेतदिति तु युत्कम् । (नीचेष्वर्धकलं भवेदिति) अनेन कलातुर्यभागो भरतमुनिना सूचितो ऽयं लक्षणविदो वृत्ताकारं द्रुतमाहुः, यद्यथा पञ्चमांश उक्तनीत्या श्वासादिविश्रान्तिपूर्वक इति चतुर्धा स एव द्रुतो युक्तः । चतुष्कलादप्याधिक्यमस्तीति दर्शयति । ज्वरार्त इत्यादि । भयेन यो ऽन्वितो जातोरुस्तम्भः, अन्यथा ह्यस्य त्वरिततरा गतिर्वक्ष्यते । विस्मय इति तत्कृतस्तम्भ इत्यर्थः । अवहित्थ इति कृतकधैर्याणां कृतकं हि नः सुश्लिष्टं कर्तुं पार्यत इति । तत्राधिक्यमेव भवति तत एव हि कुशलाः कृतकतां विदुः । अत्यादरवदौत्सुक्येन सम्यगन्वितो य एव । शृङ्गारभेदस्तत्रैव विप्रलम्भ इति यावत् । स्वच्छन्दगमन इति कार्येण विना क्रीडाचङ्क्रमणे(1) । अधिकले इत्यधिशब्दो ऽधिकार्थः । अधिकलामिति केचित् । आधिक्यं प्रकर्षेण(2) चतुःस्वरूपेण चैतत्(3) प्लुतस्य विरामस्य च स्वरूपाधिक्ये

[(मू)]

1. ड॰ चतुर्थैककलं, ढ॰ चतुर्द्व्येकक

2. ड॰ स्यात्तथापिकलं

3. ड॰ अथवान्तरं

4. च॰ छ॰ योर्द्वौ श्लोकौ न विद्येते

5. ड॰ विकला

6. न॰ मध्यमे कलिकं

7. श्लोकार्धं भ॰ म॰ योरेव वर्तते

8. ड॰ विक्षते

9. च॰ छ॰ योरेव ।

[(व्या)]

1. चंक्रमेण

2. प्रकर्षौ

3. क॰ चेतनप्लुतस्य, ख॰ चैतदप्लुतस्य ।

[page 138]




[NZ]

1पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । BhNZ_12_036ab
2अस्वस्थकामिते चैव 2भये वित्रासिते तथा ॥ BhNZ_12_036cd
आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम्4 BhNZ_12_037ab
अनिष्टश्रवणे चैव 5क्षेपे चाद्भुतदर्शने ॥ BhNZ_12_037cd
अपि चात्ययिके कार्ये दुःखिते शत्रुमार्गणे । BhNZ_12_038ab
6अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ BhNZ_12_038cd
[ABh]

तालबोधः संख्याधिक्येन षडष्टकलादेर्विकृष्टमधिकृतं कलान्तरं परिमाणं यथा तथाभूतः पादपातो यस्याम् । अत एवैतदापानप्रसङ्गविचारणाद्वक्ष्यति --
षट्कलन्तु न कर्तव्यं तथाष्टकलमेव च ।
पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत् स्त्रियाः ॥ (12-172) इति ।
चतुरर्धैककलमिति वचसा सप्तकस्य च निषेधेन च त्रिकलपञ्चकलादीनामभावं सूचयति । विषमाणां सपरिमाणोत्क्षेपणनिपातनात् योगात्तालविदां हि साम्यमुपनिषद्भूतं पञ्चात्र स्फुटयति ।
एवमेतेषु षट्कलादप्यधिकं मानं, यथा च तपःशान्तानां परिक्रमे यत्तूल्ल(स)नाख्योलयः कोहलादिभिरुक्तो (2)यस्यातिविलम्बितः कालावधौ । एवं कलाधिक्यमभिधाय न्यूनत्वमप्यस्तीत्याह अस्वस्थकामितमित्यादि । अस्वस्थे प्रच्छन्नकामिते हि त्वरातिशयः, अनिष्टं यदा बान्धवादेः श्रुतं तदा (3)तदन्तिकं द्रुतगमनं, अद्भुतदर्शनविषये यदा क्षेपः प्रक्षिप्तता(4), पुनरेतन्न दुष्यत इति । अत्ययो ऽतिक्रमणं शीघ्रसंपादनं प्रयोजनस्य । यन्नाभिरुचितमवश्यकर्तव्यं च तत्त्वरया क्रियते, त्वरयान्वितं सुकार्यं अभिरुचितमेवेति विशेषः त्वरान्वितमिति ।

[(मू)]

1. च॰ छ॰ योर्न विद्यते ऽर्धश्लोकः

2. न॰ अस्वस्थे

3. ड॰ भया, ढ॰ भश्च

4. ड॰ यच्चतुरान्विते

5. ड॰ कोपेर्ष्याद्भुतदर्शने

6. प॰ अवरुद्धानुकरणे, न॰ अपराद्धानुकरणे ।

[(व्या)]

1. षट्कलस्तु

2. यस्यातिविलम्बिताकालापधामाधिक्यं विधाय

3. तदत्रिकं

4. क्षिपता

5. अभिकुपितम् ।

[page 139]




[NZ]

1एतेष्वेवं गतिं प्राज्ञो 2विकलां संप्रयोजयेत् । BhNZ_12_039ab
3उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ BhNZ_12_039cd
4या गतिर्मध्यमानां तु न तां नीचेषु योजयेत्5 BhNZ_12_040ab
[ABh]

इयता यद्यपि सर्वं लभ्यते तथापि कविनटव्युत्पादनाय प्रपञ्चः । अपराधो ऽभिनेयः शत्रोरन्य एव, यद्वा यस्यापराधः कृतो गुर्वादेस्ततश्च रुषा गतः सो ऽपराद्धः । एतेष्विति एवंप्रकारेष्वन्येषु मदादिष्वपीत्यर्थः । विकलामिति विकलः कलापरिमाणं यस्याः कला अर्धकला तुर्या सा यद्यपि तत्र नादरणीयं तन्त्रिभागषड्भागादिरपि तत्र भवति । अत एव संभ्रमोत्पातरोधेषु चतुरर्धकलमित्यनेन पौनरुक्तं तस्याविषयत्वादस्य तु विषमभागविषयत्वात् । तथाहि मत्तगतौ शेखरकस्य खण्डकप्रयोगे हि `गहिदुं धि'' इत्येवंरूपे मात्रा तृतीये तृतीयस्य नामात्र धं धग् इत्येकः पातः, त्सुक इति द्वितीयो, धि इति तृतीतो नचैषां साम्यम् । एतेन च कलानां साम्यं न्यूनाधिकतानिरूपणेन समविषमकलाभाग(*)भङ्गाभिधानेन गुरुलघुद्रुतप्लुतानां स्वीकारात्तद्वैचित्र्यम् । इयमपि (भङ्गोपभङ्गविभङ्ग)प्रकारप्रस्तारसंगृहीता लक्ष्यसिद्धा भङ्गलयव्यवस्था प्रतिपाद्याक्षरतदर्थादिरूपा च धाराबन्धादिविषयाघातमार्गशब्देन प्रसिद्धाव्यवस्था स्फुटमेव दर्शिता । माभूदेवं कालप्रमाण(कलापरिभाण ?)नियमाभिधानं गजस्नानीभूतमित्याह उत्तमानां गतिर्या त्विति । तुरेवार्थे (1)अन्यक्रममनेनैवेत्यर्थः । एतदुक्तं भवति --- अनियमेन निदर्शितेन नियमो विप्लुतः, तथापि कलाधिक्ये षट्कलतोत्तमस्य तत्र मध्यमस्य चतुष्कलता, अधमस्य द्विकलता ।

[(मू)]

1. न॰ एतेष्वेव

2. ड॰ द्विकलां

3. अयं श्लोको ज॰ आदि ब॰ अन्तेषु ``ज्वरार्ते'' इति श्लोकात्पूर्वमेव वर्तते

4. ड॰ मध्यमानां गतिर्या तु

5. न॰ कारयेत् ।

[(व्या)]

1. अन्यक्रमेणैवेति

* भङ्गा द्वादश चञ्चत्पुटः, चाचपुटः, षट्पितापुत्रकः, संपक्वेष्ठकः, हेला, त्रिगता, नर्कुटः, नर्कुटी, खञ्जकः, खञ्जिका, आक्रीडिता, विलम्बिता च । उपभङ्गाः षट् --- कुटिला, आक्षिप्तका, त्र्यश्रा, चतुरश्रा, चटुला, संयुक्तिका च । विभङ्गाः विशेषः, माला, सुभद्रं, संगतं च । लयतालानां भङ्गप्रस्तारद्वारेण यद्यवधिर्न स्यात्, तेषां ध्रुवातालेतिप्रसिद्धाश्चत्वारिंशत् कोहलोक्ता गतिपरिक्रमे विनियुज्यन्ते । ध्रुवातालानामुदाहरणानि विक्रमोर्वश्यादौ द्रष्टव्यानि, तुम्बुरुदत्तानि तालाध्यायमुद्रणावसरे सूचयिष्यामः ।

[page 140]




[NZ]

गतिः शृङ्गारिणी कार्या 1स्वस्थकामितसंभवा ॥ BhNZ_12_040cd
दूतीदर्शनमार्गस्तु2 प्रविशेद्रङ्गमण्डलम् । BhNZ_12_041ab
3सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम्4 BhNZ_12_041cd
5हृद्यैर्वस्त्रैस्तथा गन्धैर्धूपैश्चूर्णैश्च भूषितः5 BhNZ_12_042ab
नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ BhNZ_12_042cd
गच्छेत्सललितैः पादैरतिक्रान्तस्थितैस्तथा7 BhNZ_12_043ab
तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः8 BhNZ_12_043cd
पादयोरनुगौ 9चापि हस्तौ कार्यौ प्रयोक्तृभिः । BhNZ_12_044ab
[10उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ ] BhNZ_12_044cd
[ABh]

यत्र न्यूनकलमुक्तं तत्राप्युत्तमस्य कला, मध्यमस्यार्धकला, अधमस्य कलातुर्यभाग इति कथं विप्लवः ।
एवं (1)प्रकृतिभेदेन गतिमभिधाय रसविषयेण दर्शयितुं प्रथमं पुरुषार्थोपयोगिरसविषयाणि निरूपयन् प्राधान्याच्च शृङ्गारे तावदाह गतिः शृङ्गारिणीत्यादि । स्वस्थमामितमप्रच्छन्नम् । अर्थसमाश्रये(2) सिद्धे सूचायाः पुनर्वचनं, हृद्यस्य पदार्थस्य पर्यालोचनं सातिशयं चमत्कारकारीति निरूपयितुं तत्र चर्चितचर्वणवत्पुनः पुनः कंचिदपि भागमत्यजन् सूचां(3) शृङ्गारे कुर्यादिति दर्शयति । (4)युद्धवीरादौ हि प्रधानानुसंधानमेवोचितं(5) तन्मध्यपतितानां कार्यान्तराणामपर्यालोचनीयत्वात्(6), पर्यालोचने आचार्यं मातुलान् भ्रातॄन् स्वजनमित्याद्युपात्तेः, ये ऽपि चान्तरमार्गा इत्यत्रत्यान् (7)नृत्ते सूच्यान् परिहर्तुमित्यर्थसमाश्रयमित्यसत् ।

[(मू)]

1 ज॰ स्वस्थाकामित, प॰ स्वस्थकामित्व

2. प॰ मार्गेण

3. छ॰ सूचया चाभिनयनं, प॰ सूचया चाभिगमनं

4. न॰ अर्थस्य संश्रयम्, ढ॰ समाश्रयाम्

5. ड॰ हृद्यैर्गन्धैस्तथा वस्त्रैरलंकारैश्च भूषितः

6. ढ॰ भूषितम्, प॰ योजितः

7. क॰ अतिक्रान्तैः स्थितैस्तथा, न॰ उत्थितैरथ

8. ज॰ समन्वितैः

9. ड॰ हस्तौ नित्यं कार्यं, ढ॰ हस्तौ नित्यं कार्यौ

10. ड॰ उत्क्षिप्तः सह पादेन पतनेन विपर्ययः

[(व्या)]

1. प्रकृतेर्भेदेन

2. अर्धसमाश्रयत्वे

3. सूच्या

4. अर्धवीशदौ

5. मोहोचितं

6. अपर्यालोचितत्वात्

7. नृत्तसूचाम् ।

[page 141]




[NZ]

प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । BhNZ_12_045ab
1विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ BhNZ_12_045cd
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः2 BhNZ_12_046ab
वेलासदृशवस्त्रैश्च3 सह4 दूत्या शनैस्तथा5 BhNZ_12_046cd
व्रजेत्प्रच्छन्नकामस्तु पादैर्निःशब्दमन्दगैः । BhNZ_12_047ab
6शब्दशङ्क्युत्सुकश्च स्यादवलोकनतत्परः ॥ BhNZ_12_047cd
वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुहुः । BhNZ_12_048ab
[ABh]

सापि हि निरर्थिका सूचैव हि कथं स्यात् । सूचातो ऽपि चानन्तरमस्य प्रकृतां गतिमाह । नृत्तक्यादि शोभनो ग्रन्थः सुगन्धः नानापुष्पैः सहायानामिति समासान्ताभावः । सललितैः सविलासैः । सौष्ठवेनाङ्गचातुरश्र्येण युक्तैः, लयो विलम्बितं तालं चतुरश्रादि भूयः पुनः सामान्येन युक्ताप्युत्तमगतिः पुनर्विशेषतां निरूप्यत इति भावः । प्रच्छन्नं कृत्वा कामितं यत्र शृङ्गारे सागरिकादाविव वत्सराजादेः, तदन्यो वा सीतादाविव पौलस्त्यप्रभृतेस्तु, वेपमानदेहः । स्खलन्नित्यादिकलातुर्यांशानुत्सुक इत्यादिना कार्ये निर्वाणदीपः शब्दाशङ्कीत्यादिना खण्दितां कलां मिश्रप्रयोगं गतिमत्राह । अथैवंविधकामिविषयमेव (*)सुभद्राभिधानं ध्रुवातालमाहुः कोहलाद्याः । तस्य हि प्रस्तारो द्रुतलघुमिश्रः । वेलातुल्यवस्त्रा इति तथा चन्द्रालोके सितवस्त्रावगुण्ठितो घनसारपरागपुञ्जमञ्जुगात्रो मुक्ताप्रायप्रचुराभरणो वस्त्राद्युपलक्षणम् । विप्रलम्भे तु शृङ्गारिण्येव करुणव्यामिश्रा गतिर्व्यभिसंवादिन्यभिप्रेत्य

[(मू)]

1. ज॰ विसर्जितगतिस्तत्र तथा दूतसहायवान्

2. ज॰ विभूषितैः

3. ड॰ वस्त्रं च

4. ज॰ तथा

5. ढ॰ सहायवान्

6. ड शब्दशक्त्युत्सुकश्च

[(व्या)]

* सुभद्रमित्युपभङ्गविशेषः । तल्लक्षणं तु कोहलमते ``नवमः पञ्चमश्चैव षष्ठः पुनरिहेष्यते । शेषास्तु गुरवः सप्त सुभद्रं रौद्रवीरयोः । त्रिमात्रान्ते प्रभावत्यां टक्करागस्य भाषया'' ॥ इति त्रिमात्रान्तविरामं प्रभावतीनामकद्विपदीच्छब्दः प्रयुक्तं च सुभद्रम् ।

[page 142]




[NZ]

रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ BhNZ_12_048cd
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । BhNZ_12_049ab
नेपथ्यरौद्रो विज्ञेयस् त्वङ्गरौद्रस्तथैव च ॥ BhNZ_12_049cd
तथा 1स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः2 BhNZ_12_050ab
रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ BhNZ_12_050cd
तथा पिशितहस्तश्च 3रौद्रो नेपथ्यजस्तु सः । BhNZ_12_051ab
बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ BhNZ_12_051cd
स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । BhNZ_12_052ab
रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ BhNZ_12_052cd
रूक्षो निर्भर्त्सनपरो रौद्रे सो ऽथ स्वभावजः । BhNZ_12_053ab
चतुस्तालान्तरोत्क्षिप्तैः 4पादैस्त्वन्तरपातितैः ॥ BhNZ_12_053cd
[ABh]

चारिसंवादिन्यभिप्रेत्य पृथङ्नोक्ता । एवं विषयाभिलाषे प्राणे शृङ्गारे ऽभिधाय तद्रूप एव रौद्रे गतिं निरूपयति रौद्रे रसे त्विति । दैत्यादिप्रयुक्तं यदुक्तं तत्केनाशयेनेति शङ्काशमनायाह एक एवेति । ननु किं तेषां क्रोधेन विनापि रौद्रता, ओमिति ब्रूमः । कथमिति चेत् रसाध्यायोक्तन्यायेनानु रसयितुमाह नेपथ्यरौद्र इत्यादि स्वभाव इत्यन्तम् । एवमेक एव रसस्तेषामिति कथितं, रसाध्याये चैतत्प्रपञ्चितम् । चतुस्तालान्तरोत्क्षिप्तैरिति तालान्तरपातित्वं द्वितीयतालान्तरालापेक्षयेति केचित् । उपाध्यायास्तु --- तालशब्देनात्र कालमानमुक्तं न तु देशमानं, तेन यावता कालेनोत्क्षेपस्ततो न्यूनेन पतनं --- इति । एतदनु

[(मू)]

1. छ॰ स्वभावतः, प॰ स्वभावजश्चेति ।

2. ड॰ प्रकीर्तितः

3. ड॰ रौद्रनेपथ्यजस्तु

4. न॰ पादैस्त्र्यन्तरपातितैः ।

[(व्या)]

[page 143]




[NZ]

गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः ॥ 54॥ BhNZ_12_054ab
1अहृद्या तु मही यत्र श्मशानरणकश्मला । BhNZ_12_055ab
गतिं तत्र प्रयुञ्जीत 2बीभत्साभिनयं प्रति ॥ BhNZ_12_055cd
क्वचिद् आसन्नपतितै3र्विकृष्टपतितैः क्वचित् । BhNZ_12_056ab
एलकाक्रीडितैः पादैरुपर्युपरिपातितैः ॥ BhNZ_12_056cd
तेषामेवानुगैर्हस्तैर्बीभत्से गतिरुच्यते4 BhNZ_12_057ab
अथ वीरे च कर्तव्या5 6पादविक्षेपसंयुता ॥ BhNZ_12_057cd
[ABh]

प्रकृतिसन्धिसंरम्भत्वं चाभिदधता विषमगतित्वमेषामनुज्ञातम् । तथा च कोहलमुखाः कलातदर्थद्वयलक्षणेन (*)नर्तनकोत्फुल्लकादिना रौद्रादौ परिक्रममाहुः । तद्विधा इति भीमसेनादयः अनेन युद्धवीरे ऽप्येषैव गतिरिति सूचयति ।
अथ रौद्रप्राणौग्र्यविवक्षामध्ये(1) पुरुषार्थप्राणायातबीभत्साश्रयां गतिमाह अहृद्यात्विति । श्मशानरूपा युद्धपतितकबन्धप्रभृतिविरचिता(2) अत एव रणेन कश्मला जुगुप्सिता । आसन्नपतितत्वेन कलार्धतुर्यांशत्वादि, विकृष्टपतितत्वेन कलासार्धकलादि सूचयति ।
अथ वीरगतिमाह अथ वीरे चेति । विस्तारेण क्षेप इति स्यन्दितापस्यन्दितादेर्ग्रहणम् । तत्र च कलयार्त्धकलादि च प्रयोगः । तत एवोल्लासनिकाख्यं(§)

[(मू)]

1. न॰ आहीर्णा

2. ढ॰ बीभत्सानुनयं

3. न॰ चकितैः

4. ड॰ इष्यते

5. ड॰ प्रकर्तव्या

6. ड॰ पद ।

[(व्या)]

1. विवक्षयमर्थे

2. बन्धविहृतिपरिचिता

* नर्तनकस्य लक्षणं तिस्रो ऽथ यतयः कार्या विरामो ऽन्ते द्रुतैस्त्रिभिः । लयो नर्तनकः प्रोक्तः सौम्यात्र द्विपदी भवेत् । विजयारम्भहर्षेषु मत्तोन्मत्तप्रमत्तके । नर्तनकः प्रयोक्तव्यप्ष्टक्करागस्य भाषया इति । उत्फुल्लस्य तु द्वौ द्रुतौ लघुरेकश्च चतस्रो यतयः स्मृताः । छिन्नकस्य विरामो ऽन्ते लयमुत्फुल्लकं विदुः । उत्तमाधममध्यानां कामोन्मादविलासयोः । परिक्रमे पञ्चमेन तोटकं सचतुष्टयम् । मध्यमोत्तमपात्राणां प्रफुल्लकमिहेष्यते । छन्दश्चतुष्पदा चात्र गुरुमध्यविवर्जिता ॥

§ . उल्लसनाख्यलयतालस्य लक्षणं कोहलमते --- तोटकस्यैव यः पादः द्रुतद्वयलयत्रयः । मालिनी द्विपदा चात्र टक्करागस्य भाषया । अन्योन्यकार्य संसर्गे मदे गर्वे प्रहर्षिते । उल्लसना प्रयोक्तव्या सर्वदा लयवेदिभिः ॥

[page 144]




[NZ]

1द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला । BhNZ_12_057_2ab
पार्श्वक्रान्तैर्द्रुताविद्धैः सूचीविद्धैस्तथैव च ॥ BhNZ_12_057_2cd
कलाकालगतैः पादैरावेगे योजयेद्गतिम् । BhNZ_12_058ab
उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः ॥ BhNZ_12_058cd
मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः । BhNZ_12_059ab
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमा ॥ BhNZ_12_059cd
आसाद्य तु रसं हास्यमेतच्चान्यं च2 योजयेत् । BhNZ_12_060ab
[ABh]

तालमत्राहुर्लक्ष्याविदः । द्रुतेन प्रचारेणाधिष्ठानं गन्तव्ये देशे यस्यामिति । मल्लघटीत्र्यश्रादि विकृष्टपतितत्वे कलासार्धलघुद्रुतप्रचारं सूचितमनेन वीरे रौद्रे वा प्रवेगस्य स्पर्शभावत्वात् । तत्र गतिमाह कलाकालगतैरिति । पादैरिति बहुवचनेन त्रयः पादपाता गृह्यन्ते(1) । तेन कलया कालेन च सन्निधानात् तालगतैवगतिरिति लघुपातनं येषां, अथ वैको लघुपातो द्वावन्योन्यद्रुतपातौ कलामात्रं च विराममित्येवम् । उत्फुल्लकपरिक्रमः स चोभयोर्वीररौद्रयोः क्रमः । उत्तमानामिति । (2)ननु बीभत्सस्यैवोत्तमविषयतैवं ? केनैतदुपदिष्टं भवतः ? । पुरुषार्थसाधनो बीभत्सः उत्तमेष्वेवैतदभिहितरसविषयव्यभिचारियोगे तु(3) । मध्यमानां गतिमाह विस्मये चेति । चकारादावेगादौ व्यभिचार्यन्तरेष्वपि । विक्षिप्तः इतस्ततो गतो व्याकुलप्रायो लघुद्रुतबहुलः परिक्रमो यस्य । तथा विस्मय एव व्यभिचारिरूपे स्थायिनि अद्भुतरसरूपे मध्यमानाम् । पुनरेवमिति पुनर्ग्रहणादुत्तमानामद्भुते ऽपि स्वच्छन्दगतिरेव पूर्वोक्तेति दर्शयति । केवलं तत्र (4)विस्मयो वदन उत्पाद्यो मुखरागे(5) । एतच्चेति परं हास्यं स्मिताद्यतिहसितपर्यन्तं, यदोत्तमानां स्वस्थगतिरेव तदा मध्याधमानान्तु अपहसितातिहसितयोर्विक्षिप्तगतित्वमेव ।

[(मू)]

1. ड॰ द्रता प्रहरणाविद्धा

2. ज॰ एताश्चान्याश्च ।

[(व्या)]

1. दृश्यन्ते

2. न तु बीभत्सस्य नोत्तम

3. योगिगत

4. विस्मयोचितं

5. मुख्यानि

[page 145]




[NZ]

पुनश्च करुणे कार्या गतिः 1स्थितपदैरथ ॥ BhNZ_12_060cd
2बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च । BhNZ_12_061ab
उत्क्षिप्तपातितकरस्तथा 3सस्वनरोदनः ॥ BhNZ_12_061cd
गच्छेत्तथाध्यर्धिकया4 5प्रत्यग्राप्रियसंश्रये । BhNZ_12_062ab
एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च ॥ BhNZ_12_062cd
उत्तमानां तु कर्तव्या 6सधैर्या बाष्पसंगता । BhNZ_12_063ab
निःश्वासैरायतोत्सृष्टै7स्तथैवोर्ध्वनिरीक्षितैः ॥ BhNZ_12_063cd
न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् । BhNZ_12_064ab
8मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः ॥ BhNZ_12_064cd
9उरःपातहतोत्साहः शोकव्यामूढचेतनः10 BhNZ_12_065ab
[ABh]

अन्यच्चेति तावद्विदूषकगतौवक्ष्यमाणम्, एवं प्रसङ्गाद् द्रुतहास्ययोग्यगतिरभिहिता(1) । करुणे तूच्यते पुनश्च करुण इति । ``(2)ज्वरार्ते चे''त्यादिश्लोकेन (3)यद्यपिस्तोकगतिरुक्ता तथापि यद्वक्ष्यत इति पुनश्शब्दार्थः । स्थितपदैः विलम्बितैः । आयतं दीर्घं कृत्वा उत्सृष्टैस्त्यक्तैः । ऊर्ध्वनिरीक्षणैःदेवोपालम्भसूचकैः । न प्रमाणं तथाविधमिति नात्र सर्वथा प्रमाणाभावः अपि त्वनियन्त्रितमेव पातात्मकं प्रमाणम् । अत एवात्र विलम्बितलयेन लघुत्रयेण द्रुतलयेन गुरुप्लुतमात्रेण च विरामेण जम्भटिकाख्यो(*) लयः कोहलेन दर्श्तितः । उरसः पात आभुग्नत्वात् ।

[(मू)]

1. ड॰ स्थिरपदैः

2. ज॰ बाष्पाम्बुनद्ध

3. ड॰ सस्वर

4. ड॰ तथाविद्धः कया

5. ड॰ प्रत्यग्रगति, न॰ प्रत्यग्रप्रिय

6. ड॰ सधैर्यं

7. ड॰ उत्कृष्टैः

8. न॰ ड॰ ज॰ झ॰ आदर्शेषु श्लोकार्धं न वर्तते

9. ज॰ नतः पाद, ड॰ उरःपाद

10. ज॰ शोकव्याकुलचेतसः, ड,, शोकव्याकुलचेतसः

[(व्या)]

1. धृटहास्यत्रिभिरभिहिता

2. राजार्केति

3. यद्यस्तोक

* जम्भटिकालक्षणमुक्तं तुम्बुरुणा --- आदावृजुद्वयं कृत्वा द्विद्रुतान्तविरामिकम् । पुनरप्येवमेव स्याज्जम्भटी नाम कीर्तिता । करुणारसपात्रेषु जम्भटीं संप्रयोजयेत् ॥ तदेव कोहलमते --- ``लघुद्वयं विधायाथ द्वौ द्रुतौ सविरामकौ । पुनरप्येवमेव स्याज्जम्भटीपात इष्यते । मरणे पतने चैवाप्रियस्य श्रवणे तथा । जम्भेटिका सदा कार्या ह्युत्तमाधममध्यमैः । गुरुद्वया चतुर्मात्रा गुरुरन्ते व्यवस्थितः । ककुभेन प्रयोक्तव्या जम्भटी लयकोविदैः ॥'' जम्भटी, जम्भेटी, जम्भटिका, जम्भेटिका च पर्यायवाचकाः

[page 146]




[NZ]

नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने ॥ BhNZ_12_065cd
गाढप्रहारे 1कार्या च 2शिथिलाङ्गभुजाश्रया । BhNZ_12_066ab
विघूर्णितशरीरा च गतिश्चूर्णपदैरथ ॥ BhNZ_12_066cd
शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च3 BhNZ_12_067ab
गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ ॥ BhNZ_12_067cd
पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् । BhNZ_12_068ab
करौ वक्षसि निक्षिप्य 4कुब्जीभूतस्तथैव च ॥ BhNZ_12_068cd
दन्तोष्ठस्फुरणं चैव चिबुकस्य 5प्रकम्पनम् । BhNZ_12_069ab
कार्यं शनैश्च6 कर्तव्यं शीताभिनयने गतौ ॥ BhNZ_12_069cd
तथा भयानके चैव गतिः कार्या विचक्षणैः । BhNZ_12_070ab
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः ॥ BhNZ_12_070cd
[ABh]

करुणप्रसङ्गात्प्रहारे गतिमाह । चूर्णानि परिमितोत्क्षिप्तानि अधिकपतितानि पादानि, (1)तेनाध्यर्धिकातो ऽल्यान्तरंस्यात् । करुणे रसे दारिद्र्यमभिभवस्त्वत्र (2)शीतः वर्षभवः संभाव्यत इति । नावगतिमाह शीतेन चेति । अथेत्यनेन मध्यमोत्तमानामनुभावन्यूनभावेन (3)शीतादिगतिं सूचयति । तेषामिति पिण्डी कृतानां गात्राणां, चकारेण कम्पनं सङ्कोचनं समुच्चीयते । एवकारेण सौष्ठवचातुरश्र्यादि निरस्यते । कराविति कटिपातरूपावित्यर्थः । गात्राणि पिण्डीकृत्य करौ वक्षसि च कृत्वा या गतिः लोके तस्याभिगमने (4)यो ऽयं शीताभिनयस्तत्र कर्तव्यः । प्रयोक्तृभिर्गातकम्पनं(5) कुब्जीभूतो देह इत्यादि कार्यमिति पदसङ्गतिः । एवंकरुणे तत्प्रसङ्गेन चान्यत्रापि गतिमभिधाय भयानके कथयति येचान्य इति । येषामुत्तमत्वं (6)कुलाद्यौचित्यात् । अथ सत्त्वहीनाः ।

[(मू)]

1. ड॰ कार्ये

2. ड॰ शिथिलांस

3. ड॰ गतिर्घूर्णपदैः

4. ड॰ अभिहतस्य

5. ढ॰ कुञ्चीभूतः

6. ड॰ तु कम्पनम्, न॰ च कम्पनम्

7. न॰ शनैस्तु

[(व्या)]

1. तेनाध्यड्डिकातो

2. शीतभावः

3. गीतादि

4. यो भावः क्रियते शीताभिनयः

5. नात्र कम्पनम्

6. क॰ कलाद्यौचित्यात्, ख॰ कुलायौचित्यात्

[page 147]




[NZ]

विस्फारिते चले नेत्रे विधुतं च शिरस्तथा । BhNZ_12_071ab
भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकितैः ॥ BhNZ_12_071cd
द्रुतैश्चूर्णपदैश्चैव बध्वा हस्तं कपोतकम् । BhNZ_12_072ab
प्रवेपितशरीरश्च शुष्कोष्ठः स्खलितं व्रजेत् ॥ BhNZ_12_072cd
एषानुसरणे कार्या तर्जने त्रासने तथा । BhNZ_12_073ab
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं रवम् ॥ BhNZ_12_073cd
एषा स्त्रीणां प्रयोक्तव्या नृणामाक्षिप्तविक्रमा । BhNZ_12_074ab
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ॥ BhNZ_12_074cd
एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । BhNZ_12_075ab
एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् ॥ BhNZ_12_075cd
वाणिजां सचिवानां च गतिः कार्या स्वभावजा । BhNZ_12_076ab
[ABh]

(1)तद्यथा --- विराटपुत्र उत्तरः । द्रुतैरित्यनेन (*)धारालयादिः कोहलोक्तः सूचितः । अनुसरण इति शत्रोः पृष्ठतः आगमनमित्यर्थः । नृणां पुनराक्षिप्तविक्रमं यत्तनोपाहृतं मध्येमध्ये कृतधैर्यं यस्यामित्यर्थः । तेन मध्ये गुरुलघुपादपाता अपि । तदाह --- क्वचिदासन्नपतितैरित्यादिः ।
अथ शान्तरसेगतिर्वकव्या । स च प्राधान्येन तथा प्रयोगसौन्दर्यमावहति, अतो ऽन्तस्संस्काररूपता येषां वणिक्प्रभृतीनामस्ति ``वीरप्रशान्ता वणिज'' इति वचनाद्यतिप्रभृतयो ऽपि च शान्तरसप्रधानाः ये नटकादौ प्रसङ्गाः भवन्ति तेषामुभयेषामपि गतिमाह वणिजामित्यादिना । सचिवाः अमात्याः । स्वभावशेब्देन तत्र तत्रानाविष्टमेव रूपमाह । नैष्ठिकानामिति

[(मू)]

1. ड॰ विधानं

2. ड॰ विल्कनैः

3. घूर्णपदैश्चैव

4. ड॰ अनुकरणे

5. ढ॰ विकृतस्वरम्, न॰ विकृतं रवम्

6. ड॰ प्रकर्तव्या

7. नृणांच

[(व्या)]

1. ख॰ सत्त्ववादिना

2. क॰ अनाविष्टं भावाविष्टमेव ।

* धारालक्षणं कोहलमते आदावष्टौ द्रुता ज्ञेया अन्ते चापि द्रुताष्टकम् । विरामरहिता धारा अधमेषु द्रुते लये ।

[page 148]




[NZ]

[कृत्वा नाभितटे 1हस्तमुत्तानं खटकामुखम् ॥ BhNZ_12_076cd
आद्यं चारालमुत्तानं कुर्यात्पार्श्वं 3स्तनान्तरे । BhNZ_12_077ab
न निषण्णं न च स्तब्धं न चापि 4परिवाहितम् ॥ BhNZ_12_077cd
कृत्वा गात्रं 5तथा गच्छेत्तेन चैव क्रमेण तु ।] BhNZ_12_078ab
अतिक्रान्तैः पदैर्विप्रा द्वितालान्तरगामिभिः ॥ BhNZ_12_078cd
यतीनां6 श्रमणानां च ये चान्ये तपसि स्थिताः । BhNZ_12_079ab
तेषां कार्या गतिर्ये तु नैष्ठितं व्रतमास्थिताः ॥ BhNZ_12_079cd
7अलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः8 BhNZ_12_080ab
9उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च ॥ BhNZ_12_080cd
अचञ्चलमनाश्चैव 10यथावल्लिङ्गमाश्रितः । BhNZ_12_081ab
विनीतवेषश्च भवेत्काषायवसनस्तथा ॥ BhNZ_12_081cd
प्रथमं समपादेन स्थित्वा 11स्थानेन वै बुधः12 BhNZ_12_082ab
हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत्13 BhNZ_12_082cd
14प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगम्15 BhNZ_12_083ab
16अनिषण्णेन गात्रेण गतिं गच्छेद्व्यतिक्रमात्17 BhNZ_12_083cd
[ABh]

ब्रह्मचर्यादेव प्रवर्तिता इत्यर्थः । युगं (1)चतुरहस्तम् । उअप्स्थिता झटिति संस्कारप्रबोधप्रभवा स्मृतिर्यस्य । शान्तत्वादेव हि हृदयं नियम्यमेषां(2) वणिगमात्ययतिप्रभृतीनां(3) निर्जने विषयेति सन्धिबन्धमेव नित्यनिरूपणपरं यस्य ।

[(मू)]

1. ड॰ हस्तमुक्ताङ्गे

2. ड॰ मुक्तानां

3. ड॰ तथान्तरे

4. न॰ चैव

5. न॰ ततो

6. ढ॰ श्रवणानां, न॰ श्रमणानां, ज॰ श्रमणीनां

7. ढ॰ आलोल

8. न॰ मात्रावलोकनः

9. च॰ उपस्थितगतिः

10. ड॰ तथालिङ्गसमाश्रितः

11. ड॰ कृत्वा

12. ड॰ बुधैः

13. ड॰ प्रयोजनम्

14. न॰ प्रसन्नवदनं

15. ढ॰ वशानुगः

16. न॰ सुनिषण्णेन

17. ड॰ गच्छेदतिक्रमात् ।

[(व्या)]

1. क॰ चतुर्हस्तं

2. क॰ निर्गमवेलायां

3. क॰ निर्गम ।

[page 149]




[NZ]

उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः । BhNZ_12_084ab
एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् ॥ BhNZ_12_084cd
तथा1 व्रतानुगावस्था अन्येषां लिङ्गिनामपि । BhNZ_12_085ab
विभ्रान्ता चाप्युदात्ता वा विभ्रान्ता निभृतापि वा ॥ BhNZ_12_085cd
शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च । BhNZ_12_086ab
कार्या पाशुपतानां च गतिरुद्धतगामिनी ॥ BhNZ_12_086cd
अन्धकारे ऽथ याने च2 गतिः कार्या प्रयोक्तृभिः । BhNZ_12_087ab
भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः ॥ BhNZ_12_087cd
[ABh]

लिङ्गं जयभस्मकौपीनादि । अन्येष्विति नाममात्रवृत्तिषु तत्र तु विपर्यासो यथोचितं द्रष्टव्यः । तद्यथा, लोलं चक्षुः मनश्च, लिङ्गं पुनर्जटादि भवति, एवमन्यदुत्प्रेक्ष्यम् । व्रतानुगत्वं स्फुटयति विभान्ता चेति । (1)उन्मत्तादिव्रतं हि श्रूयते आगमेषु (2)तत्तदुचितैरित्येवमेव गतिरित्यर्थः । (3)क्रमादुत्क्रान्तं कृत्वा गतिः पाशुपतानां परमेश्वरव्रतधारिणां गतिरुदात्तेत्यर्थः । यदि वा परमयोग्यवस्थायां (4)नाकुलदर्शनप्रतिपन्नानामुन्मत्तव्रतमप्यस्ति, तद्विषयमेवोद्भ्रान्तत्वं गतो । एवं रसान्तरसङ्गतिरुक्ता । (5)यच्चान्यैः रौद्रानन्तरं शान्तरसाभिप्रायेण पठितं ।
(6)``रूपादित्वनिराशंसः परोपायविचिन्तकः ।
चतुष्कलैर्द्विपातैश्च पादैर्भ्रान्तगतिं व्रजेत्'' इति ।
(7)तदनर्थमेव, एतद्ग्रन्थे(8) पुनरुक्तमपुष्कलार्थं, पुस्तके कथं दृष्टमिति स्वकल्पितमेवेत्युपेक्ष्यम्(9) ॥
एवं रसानुसारेण गतिमुक्त्वा देशानुसारेणाप्याह । अन्धकार इति अन्धत्वेन गमन इति(1) । विसर्पितैरपक्षेपणशून्यैः । मार्गप्रदर्शिभिः मार्गान्वेषणपरैरित्यर्थः ।

[(मू)]

1. ड॰ व्रतानुगा च स्यादन्येषां लिङ्गिनां गतिः

2. ड॰ श्रन्धयायेन

[(व्या)]

1. क॰ उत्तमादि

2. क॰ तत्र तदुचितैरेवं

3. क॰ भ्रमणात्

4. क॰ ख॰ नाकुटिल

5. क॰ यस्त्वन्यैर्वीररौद्रान्तरं

6. क॰ रूपाद्रिसत्त्व

7. ख॰ तदानवमेन

8. क॰ तद्ग्रन्थस्य

9. ख॰ उत्प्रेक्ष्यम्

10. ड॰ इत्यर्थः ।

[page 150]




[NZ]

1रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ । BhNZ_12_088ab
समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् ॥ BhNZ_12_088cd
धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् । BhNZ_12_089ab
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः2 BhNZ_12_089cd
वाहनानि विचित्राणि कर्तव्यानि विभागशः । BhNZ_12_090ab
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले3 BhNZ_12_090cd
विमानस्थस्य कर्तव्या ह्येषैव स्यन्दनी गतिः । BhNZ_12_091ab
4आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्थितम्5 BhNZ_12_091cd
अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् । BhNZ_12_092ab
[ABh]

परैरित्यर्थः । कर्तव्या गतिरिति च्छेदः (1)तदाह चूर्णपदैः । समपादेन स्थानकेन (2)रथेन गतिः यस्मिन् देशे तं व्रजेत्, रथविशिष्टा वा गतिः, सामान्यके अकर्मकरभासिका शास्त्र इतिवत् । चूर्णपदैरित्यनेन (*)खण्डधारालयं द्रुतबहुलं गुर्वन्तं कोहलोक्तं सूचयति । कूबरं युगन्धरं, प्रतोदः प्रतोदः प्रेषणकः, प्रग्रहो बल्गा, रथ्यानि वाहनानि तानि, प्रकृतिविभागौचित्येन विचित्राणि तुरगबलीवर्दखरोष्ट्रकानि चित्राणि लिखितानि अस्य सूतस्यैव कर्तव्यानि तच्चित्रपटं सूतस्यैव हस्ते वर्जयेदिति यावत् । चूर्णपादानां लयविशेषनिरूपणाय पुनर्ग्रहणं द्रुतैरिति(3) । रङ्गमण्डल इत्यनेनेदमाह --- भवस्तुतो ऽसौ(4) रथ्यामण्डल एव गतिक्रियां करोति तथात्र सर्वं तच्चित्रं(5) तद्रथाकृति कर्तव्यं तत्त्वनुगतपदमात्रमेव, येन रथो यातीति प्रतीयते । एवं सर्वत्र, अत एवाह विमानस्थस्यापीति । दिव्यस्याकाशगामिनो ऽपि पुष्पकादेरित्यर्थः । अथ रथप्रसङ्गादुद्धृतं क्रियान्तरमप्याह आरोहुमिति । उद्वहेदूर्ध्वं प्रापयेत् । वैपरीत्येन अधोमुखत्वेन गात्राधोनयनेन

[(मू)]

1. ड॰ अधस्स्थस्यापि

2. ड॰ प्रग्रहाकुलम्

3. न॰ रङ्गमण्डलम्

4. ड॰ आरूढं

5. ड॰ स्थितः ।

[(व्या)]

1. क॰ तामाह

2. ख॰ अधमेन

3. ख॰ पुनर्ग्रहधूरिति

4. ख॰ रभ्या

5. ख॰ तच्छत्रम् ।

* खण्डधाराया लक्षणं --- ``वेदखत्रिदाः खण्डधारा''

[page 151]




[NZ]

अधोऽवलोकनैश्चैव मण्डलावर्तनेन च ॥ BhNZ_12_092cd
आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः । BhNZ_12_093ab
स्थानेन समपादेन तथा चूर्णपदैरपि ॥ BhNZ_12_093cd
व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेद्गतिम् । BhNZ_12_094ab
ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ ॥ BhNZ_12_094cd
भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः । BhNZ_12_095ab
विकीर्णवसना1 चैव तथा भूगतलोचना ॥ BhNZ_12_095cd
प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च । BhNZ_12_096ab
आरोहणावतरणं कार्यमर्थवशात्तथा2 BhNZ_12_096cd
प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ । BhNZ_12_097ab
उद्वाह्य गात्रं पादं च न्यसेत्सोपानपङ्क्तिषु3 BhNZ_12_097cd
4तथावतरणं चैव गात्रमस्यैव कारयेत्5 BhNZ_12_098ab
प्रासादे 6यन्मया प्रोक्तः प्रतारः केवलो भवेत् ॥ BhNZ_12_098cd
[ABh]

चेत्यर्थः । अथाकाशगतिं विमानप्रसङ्गादाह --- अधो ऽवलोकनेनेति । मण्डलावर्तं --- परिवर्तुलगतिरिति केचित् । आकाशीयानां चारीमण्डलानां पुनःपुनरावर्तनेनेति तूपाध्यायाः । एतामिति वक्ष्यमाणां कारयेन्नाट्याचार्यो नटैः । ऋजुभिः सरलललितजङ्घैः । अत एवायतैरुत्क्षिप्तपातितैः, कुटिलया गत्या आवर्तितैः भ्रमितैः । उन्नातनतैरित्यन्ये पठन्ति, उत्क्षेपकाले उन्नतैः पातनकाले तु नतैरिति व्याचक्षते । (2)भ्रश्यत इत्यबुद्धिपूर्वकं पतत इत्यर्थः । अपविद्धौ त्वरितडोलाकारपातौ भुजौ यस्याम् । अर्थवशादिति स्फुटयति प्रतार इति । तटादवतीर्य ततः शरीरं

[(मू)]

1. ढ॰ वदना

2. ड॰ वशाद्बुधैः

3. ड॰ सोपाने निक्षिपेन्नरः

4. ड॰ अथावतरणं

5. न॰ गात्रमानम्य रेचयेत्

6. ड॰ या मया प्रोक्ता प्रतारे केवलं भवेत् ।

[(व्या)]

1. ख॰ नाट्याचार्यो ... ... सरल

2. ख॰ दृश्यतः ।

[page 152]




[NZ]

जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । BhNZ_12_099ab
तोये ऽल्पे वसनोत्कर्षः1 प्राज्ये पाणिविकर्षणैः ॥ BhNZ_12_099cd
किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते । BhNZ_12_100ab
प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः2 BhNZ_12_100cd
तिर्यक्प्रसारिता चैव ह्रियमाणा च वारिणा3 BhNZ_12_101ab
अशेषाङ्गाकुला4धूतवदना गतिरिष्यते ॥ BhNZ_12_101cd
नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः5 BhNZ_12_102ab
अतिक्रान्तेन पादेन द्वितीयोनञ्चितेन च ॥ BhNZ_12_102cd
प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् । BhNZ_12_103ab
केवलं 6तच्च विक्षेपमद्रिष्वङ्गं7 भवेदथ ॥ BhNZ_12_103cd
द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः8 पदैः । BhNZ_12_104ab
[ABh]

प्रयोगेन तारयेत् । प्रतारणमिति (1)एतत्प्रकारं व्याचष्टे । जलप्रमाणापेक्षा त्विति । एतत्स्फुटयति तोये ऽल्प इति । उत्कर्षः ऊर्ध्वं नयनं, प्राज्ये भूयसि जले यः प्रचारस्तत्र पाणिविचित्रकर्षणेन पताकसर्पशीर्षकादिनोपलक्षितगतिरिति संबन्धः । अबुद्धिपूर्वकन्तु जलेन तीयमानस्युa गतिमाह प्रसार्येति । एकैकमिति पर्यायेणेत्यर्थः । अशेषे ऽङ्गं आकुलत्वं यस्यां गतौ तथा आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तुलयत्, अस्वतन्त्रत्वाच्चैवं भवति । कैश्चित्तु प्रयायशः पार्श्वत्वमुक्तं, तदसत् । परिवाहितं ह्येतत् बुद्धिपूर्वके च जलप्रतरणे तत्स्यात्, नीत्वह । जलप्रसङ्गात् नौगतिमाह --- नौस्थस्यैति । एवं प्रसङ्गान्नौगतिमुक्त्वा प्रकृतमेवारोहणमनुसन्धत्ते । प्रासादारोहणमिति । ननु वृक्षप्रासादादि तत्र किं रङ्गमण्डले

[(मू)]

1. न,, उत्कर्षैः

2. ड॰ बाहुविकर्षणैः

3. ढ॰ वारिणः

4. ड॰ पूर

5. च॰ द्रुतैस्तूर्णैः पदैर्गतैः

6. ड॰ तूर्ध्व

7. न॰ अङ्गे

8. ड॰ अतिक्रान्तोत्थितैः ।

[(व्या)]

1. ख॰ परवप्रकारं, क॰ एरचप्रचार ।

[page 153]




[NZ]

सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च ॥ BhNZ_12_104cd
एतदेवावतरणं सरित्स्वपि1 नियोज्ययेत् ।(*) BhNZ_12_105ab
अनेनैन विधानेन कर्तव्यं गतिचेष्ठितम् ॥ BhNZ_12_105cd
संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् । BhNZ_12_106ab
2कस्मान्मृत इति प्रोक्ते किं मर्तव्यं प्रयोक्तृभिः ॥ BhNZ_12_106cd
अङ्कुशग्रहणान्नागं खलीनग्रहणाद्घयम् । BhNZ_12_107ab
3प्रग्रहणाद्यानमेवमेवापरेष्वपि ॥ BhNZ_12_107cd
4अश्वयाने गतिः कार्या वैशाखस्थानकेन तु । BhNZ_12_108ab
तथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः ॥ BhNZ_12_108cd
5पन्नगानां गतिः कार्या पादैः स्वस्तिकसंयुतैः6 BhNZ_12_109ab
पार्श्वक्रान्तपदं कृत्वा7 स्वस्तिकं रेचयेदिह8 BhNZ_12_109cd
[ABh]

रथचित्रपटादिन्यायेन दर्शनीयं, नेत्याह संज्ञामात्रेणेति । संज्ञा उक्तरूपारोहणाद्यभिनयः ।
प्रसङ्गादन्यत्राप्यभिनयं दर्शयति । अङ्कुशग्रहणादित्यादि । तेन चित्रपटादिवियोगे ऽपि रथगमनाद्यभिनयनं न युत्कम् । सौकर्यात्तु तत्करणमपि बह्वत्विति भावः । स्वस्तिकसंयुतैरित्युक्तमेव विभजति पार्श्वक्रान्तमिति । एवं देशापेक्षया गतिरुक्ता । नागादिप्रसङ्गात्तु सर्पगतिरपि ।

[(मू)]

1. न॰ सरस्त्वपि

*``अतिक्रान्तेन ... ... नियोजयेत्'' (102-4) इति त्रयः श्लोकाः ज॰आदिब॰अन्तेष्वादर्शेषु ``तथावतरणं चैव''(97) इति श्लोकार्धस्य पश्चात् ``प्रासादे यन्मया'' इति श्लोकार्धस्य पूर्वं वर्तन्ते ।

2. च॰ तस्मान्मृत इति

3. न॰ प्रतोदग्रहणाद्यानं

4. द॰ आदर्शे ऽयं श्लोको न विद्यते ।

5. द॰ अन्तस्थानां

6. च॰ संज्ञितैः

7. ड॰ कुर्यात्

8. न॰ योजयेदिह ।

[(व्या)]

[page 154]




[NZ]

विटस्यापि च कर्तव्या गतिर्ललितविभ्रमा1 BhNZ_12_110ab
पादैराकुञ्चितैः2 3किंचित्तालाभ्यन्तरपातितैः ॥ BhNZ_12_110cd
स्वसौष्ठवसमायुक्तौ4 तथा 5हस्तौ पदानुगौ । BhNZ_12_111ab
खटकावर्धमानौ तु6 कृत्वा विटगतिं व्रजेत् ॥ BhNZ_12_111cd
कञ्चुकीयस्य कर्तव्या वयोऽवस्थाविशेषतः । BhNZ_12_112ab
7अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् ॥ BhNZ_12_112cd
अर्धतालोत्थितैः पादैर्विष्कम्भैरृजुभिस्तथा । BhNZ_12_113ab
8समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत्9 BhNZ_12_113cd
अथ वृद्धस्य कर्तव्या 10गतिः कम्पितदेहिका11 BhNZ_12_114ab
12विष्कम्भनकृतप्राणा13 मन्दोत्क्षिप्तपदक्रमा ॥ BhNZ_12_114cd
[ABh]

अथावस्थाभेदेन गतिं निरूपयन् विटावस्थानां तावदाह विटस्यापि चेति । स्वं प्रकृत्युचितं यत्सौष्ठवम् । कञ्चुकमिति तन्नेपथ्योचिता वृत्तिः तदिच्छत्यात्मन इति ``क्यचि च'' कञ्चुकीयः । वयो ऽवस्थाविशेषत इति यदुक्तं तद्विभजत्येवमिति वक्ष्यमाणक्रमेण । विष्कम्भः स्थैर्यं तद्येषामिति मत्वर्थीयो ऽकारः । समुद्वहन्निति यत्नेनाकर्षन् ।
एतदेव दृष्टान्तेन शिक्षयति पङ्कलग्न इवेति । अत एव (*)खञ्जकहेलाविलम्बितलघुमयस्य कोहलोक्तस्य सङ्ग्रहः । विष्कंभने यष्ट्यादिके कृतं समन्वितं

[(मू)]

1. ड॰ विक्रमा

2. न॰ आकुञ्चिता

3. ड॰ केचित्, ढ॰ कैश्चित्

4. ड॰ पदायुक्तौ

5. न॰ हस्त

6. द॰ च

7. ढ॰ आवृद्धस्य

8. ड॰ समुद्वहन्स्तथाङ्गानि, न॰ समुद्वहंश्च गात्राणि

9. ढ॰ व्रजन्

10. न॰ हतः

11. न॰ देहिता

12. ड॰ विष्टम्भन

13. ढ॰ कृताप्राण ।

[(व्या)]

* खञ्जकस्य लक्षणं तुम्बुरुणोक्तं यथा --- प्रथमं कुटिलं कृत्वा घनमेकं द्रुतद्वयम् --- मुर्वन्तं खञ्जकं नाम शम्यातालो निरन्तरः ॥ हैलायास्तु तेनेव --- चत्वारो ऽथ नखाः पूर्वं द्विवक्रं तदनन्तरम् । पुनरप्येवमेव स्याच्छम्यातालो निरन्तरः । पाटैर्द्वादशाभिर्युक्तः । कार्याः शेषाश्चतुर्गुणम् । चञ्चत्पुटस्य भेदो ऽयं हेलाया विधिरुच्यते । वेश्याद्विजवधूनः च क्रीडारम्यकुडुम्बिनाम् । भवनप्रतिहाराणां योजयेत्तत्परिक्रमे ॥ कोहलमते तु तस्याः [पृ॰ 156]``चत्वारो लघवः पूर्वमन्तो च गुरुणी तथा । पुनरप्येवमेव स्यान्मात्रा ह्यधमजातिषु । प्रयोक्तव्याध्रव हेला तालश्चञ्चत्पुटस्य च ॥ उद्यानभवनक्रीडादीपिलालोकने तथा । भविष्यन्नायके चैव कन्यायां टक्करागतः । मालववेसरिकाख्यो रागो ऽत्र विहितः सदा ॥ इति । विलम्बितालक्षणं तु कोहलेन --- ``लघुनी गुरुणीचैव लघू आद्यन्तयोगुरू विलम्बिता ध्रुवा ज्ञेया षट्पितापुत्रभङ्गकृत् सर्वासामेव नारीणामाभिसारपरिक्रमे । सौम्या तु द्विपदीचात्र गेया मालवकैशिके ॥'' इति ।

[page 155]




[NZ]

1कृशस्यापि हि कर्तव्या गतिर्मन्दपरिक्रमा । BhNZ_12_115ab
2व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते ॥ BhNZ_12_115cd
3विष्कम्भनकृतप्राणः4 कृशः क्षामोदरस्तथा । BhNZ_12_116ab
5क्षामस्वरकपोलश्च दीननेत्रस्तथैव च ॥ BhNZ_12_116cd
शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः । BhNZ_12_117ab
कम्पनं चैव गात्राणां 6क्लेशनं च तथैव हि7 BhNZ_12_117cd
6दूराध्वानं गतस्यापि गतिर्मन्दपरिक्रमा । BhNZ_12_118ab
विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् ॥ BhNZ_12_118cd
स्थूलस्यापि हि9 कर्तव्या गतिर्देहानुकर्षिणी । BhNZ_12_119ab
समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा ॥ BhNZ_12_119cd
10विष्कम्भगामी च भवेन्निश्वासबहुलस्तथा । BhNZ_12_120ab
श्रमस्वेदाभिमतश्च व्रजेच्चूर्णपदैस्तथा ॥ BhNZ_12_120cd
मत्तानां तु गतिः कार्या मदे11 तरुणमध्यमे । BhNZ_12_121ab
[ABh]

प्राणो बलं येन । विकूणनं सङ्कोचनं विमर्दनमिति मिश्रपरिहारार्थम् । स्थूलस्येति महाकायस्य श्रमकृत्स्वेदः ।

[(मू)]

1. प॰ कृशस्याप्यभिनेयावै

2. द॰ व्याधिस्रस्तस्य च तथा तपःशान्तस्य वैवहि

3. द॰ विष्टम्भन

4. न॰ कृतःप्राण

5. क्षामस्वरश्चैव भेवेत्

6. द॰ क्लेशेन च

7. ड॰ च

8. द॰ दूताध्वगस्यापि गतिः शनैः

9. ड॰ तु

10. द॰ विष्टम्भ

11. द॰ पदे, ड॰ मन्दे ।

[(व्या)]

[page 156]




[NZ]

वामदक्षिणपादाभ्यां 1घूर्णमानापसर्पणैः ॥ BhNZ_12_121cd
2अवकृष्टे मदे चैव ह्यनवस्थितपादिका । BhNZ_12_122ab
विघूर्णितशरीरा च 3करैः 4प्रस्खलितैस्तथा5 BhNZ_12_122cd
उन्मत्तस्यापि कर्तव्या 6गतिस्त्वनियतक्रमा । BhNZ_12_123ab
7बहुचारीसमायुक्ता 8लोकानुकरणाश्रया ॥ BhNZ_12_123cd
9रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा । BhNZ_12_124ab
अनिमित्तप्रकथनो बहुभाषी विकारवान् ॥ BhNZ_12_124cd
गायत्यकस्माद्घसति 10सङ्गे चापि न सज्जते11 BhNZ_12_125ab
नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः ॥ BhNZ_12_125cd
कदाचिद्धावति जवात्कदाचिदवतिष्ठते12 BhNZ_12_126ab
कदाचिदुपविष्टस्तु13 14शयानः स्यात्कदाचन ॥ BhNZ_12_126cd
नानाचीरधरश्चैव रथ्यास्वनियतालयः । BhNZ_12_127ab
उन्मत्तो भवति ह्येवं15 तस्यैतां16 कारयेद्गतिम् ॥ BhNZ_12_127cd
स्थित्वा नूपुरपदेन दण्डपादं प्रसारयेत् । BhNZ_12_128ab
17बद्धां चारीं तथा चैवं कृत्वा स्वस्तिकमेव च ॥ BhNZ_12_128cd
अनेन चारीयोगेन 18परिभ्राम्य तु मण्डलम् । BhNZ_12_129ab
बाह्यभ्रमरकं चैव 19रङ्गकोणे प्रसारयेत् ॥ BhNZ_12_129cd
[ABh]


[(मू)]

1. ड॰ घूर्णमानो ऽपसर्पणैः

2. ड॰ अपकृष्टे

3. ड॰ पदैः

4. द॰ प्रचलितैः

5. द॰ अथ

6. न॰ गतिस्तु नियत, ड॰ गतिश्च नियत, द॰ गतिस्त्वभिनयक्रमा

7. द॰ बाहु

8. द॰ लोकार्थं

9. न॰ रूक्षस्फन्दित, ड॰ रूक्षस्फटिक, प॰ रूक्षस्फुरित

10. न॰ रुदतीह तथा पुनः

11. द॰ संहते

12. ड॰ अवतिष्ठति

13. प॰ उपतिष्ठति

14. ड॰ शयितः स्यात्

15. ड॰ एष

16. प॰ तस्य तां

17. ज॰ वध्वा

18. ड॰ परिक्रम्य चतुर्दिशम्

19. द॰ रङ्गकोणं तु योजयेत् ।

[(व्या)]

[page 157]




[NZ]

त्रिकं सुवलितं कृत्वा लताख्यं हस्तमेव च । BhNZ_12_130ab
विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् ॥ BhNZ_12_130cd
1त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः । BhNZ_12_131ab
विकलाङ्गप्रयोगेण 2कुहकाभिनयं प्रति ॥ BhNZ_12_131cd
3एकः खञ्जगतौ 4नित्यं स्तब्धो वै चरणो भवेत् । BhNZ_12_132ab
तथा द्वितीयः कार्यस्तु पादो ऽग्रतलसंचरः ॥ BhNZ_12_132cd
5स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणे न तु । BhNZ_12_133ab
6गमनेन निषण्णः 7स्यादन्येन चरणेन तु ॥ BhNZ_12_133cd
इतरेण 8निषीदेच्च क्रमेणानेन वै व्रजेत् । BhNZ_12_134ab
एषा 9खञ्जगतिः कार्या तलशल्यक्षतेषु10 च ॥ BhNZ_12_134cd
11पादेनाग्रतलस्थेन गतिः कार्याञ्चितेन तु12 BhNZ_12_135ab
निषण्णदेहा पङ्गोस्तु13 14नतजङ्घा तथैव च15 BhNZ_12_135cd
[ABh]

पद्भ्यां सह विपर्ययगतैरिति पादचेष्टा तथा करकर्मण्यनुवर्तनीयेति । कुहकाः अधमा लिङ्गिन इति केचित् । कुहकशब्देन हास्यरस इत्येतत् । तले पादतले (1)शल्यादिक्षतमस्य तस्मिन् गतिमाह पादेनाग्रतलस्थेनेति (*)नर्कुटः ।

[(मू)]

1. ड॰ विविधानुगतिः

2. द॰ कुहना

3. ड॰ एतत्

4. द॰ नित्यस्तब्धो

5. न॰ स्तब्धेनोद्वाहनं, द॰ स्वयैनोत्थापनं(?)

6. द॰ आदर्शे --- श्लोकार्धं न दृश्यते

7. ड॰ विषण्णः

8. ड॰ विषीदेत्

9. न॰ खण्डप्रयोगेषु

10. न॰ कृतेषु

11. न॰ पुनरग्रतले गम्ये

12. ड॰ अञ्चितेन व्रजेत्तथा

13. न॰ कार्या तु, प॰ कर्तव्या

14. द॰ नते जङ्घे

15. ढ॰ तु ।

[(व्या)]

1. कस्यादि

* नर्कुटस्य लक्षणं यथा --- ``गुरुणी लघुनी गद्विद्विरभ्यस्ते प्रयोजयेत् । तद्ध्रुवा नर्कुटं प्रोक्तमेतदर्धेन नर्कुटी । शकारेण प्रयोक्तव्यं हास्ये विटविदूषकैः । नर्कुटं नर्कुटे वृत्ते हिन्दोलस्य तु भाषया ॥'' इति । तुम्बुरुणापि ``वेश्याचेटविटप्रेष्यस्त्रीविधानां नियोजयेत्'' इति नर्कुटीनर्कुटयोर्विनियोग उक्तः ॥

[page 158]




[NZ]

सर्वसंकुचिताङ्गा च 1वामने गतिरिष्यते । BhNZ_12_136ab
न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च ॥ BhNZ_12_136cd
सोद्वाहिता चूर्णपदे सा कार्या कुहकात्मिका । BhNZ_12_137ab
विदूषकस्यापि गतिर्हास्यत्रयविभूषिता2 BhNZ_12_137cd
अङ्गकाव्यकृतं 3हास्यं हास्यं नेपथ्यजं4 स्मृतम् । BhNZ_12_138ab
दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः ॥ BhNZ_12_138cd
5यदीदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत्6 BhNZ_12_139ab
7यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः ॥ BhNZ_12_139cd
8अत्यायतपदत्वाच्च अङ्गहास्यो भवेत्तु सः । BhNZ_12_140ab
काव्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणैः9 BhNZ_12_140cd
अनर्थकैर्विकारैश्च तथा चाश्लीलभाषणैः । BhNZ_12_141ab
10चीरचर्ममषीभस्मगैरिकाद्यैस्तु मण्डितः11 BhNZ_12_141cd
यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः । BhNZ_12_142ab
तस्मात्तु 12प्रकृतिं ज्ञात्वा भावं कार्यं च तत्त्वतः ॥ BhNZ_12_142cd
13गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् । BhNZ_12_143ab
[ABh]

(1)प्रवेश इति यद्यस्मादीदृशः प्रवेश्यमानः पात्रविशेषः रङ्गे भवति ततो ऽङ्गहास्यमिति । प्रवेशपदेन नाट्य एव रसो न लोक इति दर्शयति । असंबद्धं निरर्थमनुचितं च, तद्व्याचष्टे अनर्थकैरश्लीलैश्चेति, अश्रियमशोभां रातीति रेफस्य लत्वम् । तस्मादिति त्रिप्रकारं हास्यमाश्रित्य क्वचिदेकः प्रकारः क्वचित् द्वौ

[(मू)]

1. ढ॰ वामेन

2. ड॰ समन्विता

3. ड॰ वाक्यकृतं

4. ड नैपथ्यजं

5. ड॰ य ईदृशः, न॰ यदीदृशो भवेद्विप्राः अङ्गहास्यं तु तत्स्मृतम्

6. ढ॰ तत्सृतम्

7. द॰ अयं श्लोकः ``काव्यहास्य''मिति श्लोकस्यानन्तरं नेपथ्यहास्यलक्षणमिति दृश्यते लेखकप्रमादात् ।

8. द॰ आयतत्वाश्वतत्वाञ्च(?) हास्यं नेपथ्यजं तु तत्

9. ड॰ असंबन्धप्रभाषणात्

10. द॰ आदर्शे अयं श्लोको न वर्तते

11. प॰ गौरिकादिविभूषणैः

12. ड॰ प्रकृतीर्ज्ञात्वा

13. प॰ गतिं ।

[(व्या)]

1. पङ्क इतीयमन्वस्मात् ।

[page 159]




[NZ]

1स्वभावजायां विन्यस्य कुटिलं वामके करे ॥ BhNZ_12_143cd
तथा दक्षिणहस्ते च2 कुर्याच्चतुरकं पुनः3 BhNZ_12_144ab
पार्श्वमेकं शिरश्चैव हस्तो ऽथ चरणस्तथा ॥ BhNZ_12_144cd
4पर्यायशः 5संनमयेल्लयतालवशानुगः । BhNZ_12_145ab
6स्वभावजा तु तस्यैषा गतिरन्या विकारजा ॥ BhNZ_12_145cd
7अलाभलाभाद्भुक्तस्य8 स्तब्धा तस्य गतिर्भवेत् । BhNZ_12_146ab
9कार्या चैव हि नीचानां चेटादीनां परिक्रमात् ॥ BhNZ_12_146cd
अधमा इति ये ख्याता नानाशीलाश्च ते पुनः । BhNZ_12_147ab
पार्श्वमेकं शिरश्चैव करः सचरणस्तथा ॥ BhNZ_12_147cd
10शाकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । BhNZ_12_148ab
[ABh]

क्वचित्सर्व इत्यनेन क्रमेण विदूषकः स्वामिनः प्रकृतिं राजामात्यश्रेष्ठि(1)प्रकृतिभावं चित्तवृत्तिं करणीयं ज्ञात्वा विभागः कार्यः । (2)न च राजनि संनिवृत्ते ऽश्लीलभाषणं समुचितम् । एवं सर्वत्रोह्यम् ।
गत्युपयोगिनं वृत्तान्तमस्याभिधाय गतिमाह --- स्वभावजायामिति । अनावेशे सति (5)बकवद्गमनस्योक्तत्वात् । लयो विलम्बितः, तालः प्लुतलघुगुरुप्राय इह स्वीकृतः । (4)अन्या द्रुतलयत्वेन प्लुतकालमानाद्बाहुल्येन (5)शोकादिः स्वभावजा । गर्वात्मको ऽपि विकारो भवतीत्याशयेनाह अलाभलाभादिति । अलाभः लाभपूर्वकाल्लाभात् । भुक्तं वस्त्राद्युपलक्षयति । भयादौ तु (6)परित एवास्य

[(मू)]

1. ड॰ सभावजाया

2. ड॰ हस्तं च, ढ॰ हस्तं तु, ड॰ ततः, ढ॰ तथा

4. ड॰ पर्यायतः

5. न॰ संनमेत्तत्, ड॰ संनमेत, प॰ स्वभावजाता

7. ड॰ अलभ्य

4. ड॰ भक्षस्य, द॰ उत्कस्य

9. द॰ मातृकायामयं श्लोको न वर्तते

10. ड॰ इदं श्लोकार्धं, न॰ संज्ञकादर्शे ऽत्रैव वर्तते । प॰ मातृकायां तु ``अलाभलाभा''दिति श्लोकार्धानन्तरमेव । ज॰ झ॰ ढ॰ ड॰ त॰ मातृकासु तु न विद्यते ।

[(व्या)]

1. प्रभृति

2. स हि

3. वक्रत्वं गमनस्य

4. न्यायतरं चरत्वेन प्लुतकालः

5. अद्यशोकादिः, क॰ अन्यरोकादिः

6. प्रोक्तं न प्राक्

[page 160]




[NZ]

गतौ नमेत चेटानां दृष्टिश्चार्थविचारिणी1 BhNZ_12_148cd
2वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । BhNZ_12_149ab
3गात्रैर्विकारविक्षिप्तैर्लम्बवस्त्रस्रजा तथा ॥ BhNZ_12_149cd
4सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । BhNZ_12_150ab
5जात्या नीचेषु योक्तव्या6 विलोकनपरा गतिः ॥ BhNZ_12_150cd
[ABh]

क्रमः । (शकारस्यापीति) शकारबहुला यस्य भाषा स शकारः । शकारोपलक्षितशकादिजनपदवाचीत्यन्ये;् यद्वक्ष्यते `शकाराभीरचण्डाल' (अध्या 17-60) इत्यादि । हीनाशय उत्तमपदे ऽभिरोपितः शकार इत्यन्ये । (1)अध्वहारस्य श्लोकः ---
प्राकृते ऽपि शकारस्य विभूतिर्न प्रसिद्धये ।
तद्विभूतिरपभ्रंशे तापस्येव प्रकाशिता(2) (?) ॥
ममापि चात्रार्थे श्लोकः ---
लब्धापशब्दघटना विधुतश्च धर्मः स्वार्थप्रतीतिकलनां प्रति का कथैव ।
(3)मूर्धन्यतां गमयता भवता शकारः शक्नोति यत्र न विधे हृदि किं न्यधायि ॥
तथा
सकलजनतालभ्यः सो ऽयं शकार इति स्फुटं विरचयति यन्मूर्धन्यत्वं विभुर्हतलक्षणा ।
हततनुरियं लोके जातापशब्दपरम्परा परिचयमयी वार्ता कीर्तिं निकृत्य निकर्तनी ॥ इति
प्रतिज्ञाचाणक्ये तन्महाकविना भीमेन राजापि विन्ध्यकेतुः शकार इति भूयसा व्यवहृतः । वस्त्राभरणसंस्पर्शालोकनगर्वयोगो ऽत्र पक्षे क्लिष्टतरः

[(मू)]

1. न॰ अर्धनिमेषिणी

2. न॰ वज्राभरणसंस्पर्शे

3. द॰ मातृकायां श्लोकार्धं नास्ति

4. ड॰ गर्विता चूर्णपादस्य

5. श्लोको ऽयं द॰ मातृकायां न वर्तते

6. ज॰ कर्तव्या ।

[(व्या)]

1. अथ हासस्य

2. प्रकाशिका

3. मूर्धन्यतो ऽङ्गममता ।

[page 161]




[NZ]

असंस्पर्शाच्च लोकस्य 1स्वाङ्गानि विनिगूह्य च । BhNZ_12_151ab
म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः2 BhNZ_12_151cd
तेषां देशानुरूपेण2 कार्यं गतिविचेष्टितम्4 BhNZ_12_152ab
पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ BhNZ_12_152cd
स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत्5 BhNZ_12_153ab
सिंहर्क्षवानराणां च गतिः कार्या पर्योक्तृभिः ॥ BhNZ_12_153cd
या कृता नरसिंहेन विष्णुना प्रभविष्णुना । BhNZ_12_154ab
6आलीढं स्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ BhNZ_12_154cd
जानूपरि करं ह्येकमपरं 8वक्षसि स्थितम् । BhNZ_12_155ab
9अवलोक्य दिशः10 सर्वाश्चिबुकं बाहुमस्तके ॥ BhNZ_12_155cd
गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । BhNZ_12_156ab
11नियुद्धसमये चैव रङ्गावतरणे तथा ॥ BhNZ_12_156cd
सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । BhNZ_12_157ab
शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ BhNZ_12_157cd
[ABh]

न चार्यदेशजातिः शकारः कश्चित्प्रसिद्धः, म्लेच्छजातीनां पृथगेव निर्वक्ष्यते ``म्लेच्छानां जतयो यास्तु'' इत्यादिना, तस्मादिहायमीदृश एव शकार इति युक्तम् ।
प्रभविष्णुनेति वचनादिदं सूचयत्यसाववतरणप्राधान्येन, ये ऋक्षवानरादयो जाम्बवत्सुग्रीवाङ्गदहनूमत्प्रायाः, तेषामेवेयं गतिः । अन्येषां तु स्वजात्यानुरूप्येणैव । तस्यैवेत्यालीढस्यानुगतं गात्रं वामभागगमनमित्यर्थः ।

[(मू)]

1. ड॰ अङ्गानि

2. द पुलिन्दाद्या द्विजोत्तमाः

3. ड॰ गतिविचारेण

4. द॰ विचेष्टितैः

5. द॰ प्रतियोजयेत्

6. ड॰ आलीढस्थानकं

7. ड॰ चैकं

8. न॰ चोपरि, द॰ चैव स्वस्थितम्

9. द॰ विलोलितं शिरः कृत्वा, न॰ विलोकितं शिरः कृत्वा

10. ड॰ दृशः

11. श्लोकोऽयं द॰ संज्ञके नास्ति ।

[(व्या)]

[page 162]




[NZ]

वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । BhNZ_12_158ab
एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ BhNZ_12_158cd
1नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च2 लोकतः । BhNZ_12_159ab
3अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ BhNZ_12_159cd
स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च4 BhNZ_12_160ab
आयतं चावहित्थं च अश्वक्रान्तमथापि च5 BhNZ_12_160cd
6[स्थानान्येतानि नारीणामथ लक्षणमुच्यते ।] BhNZ_12_161ab
7वामः स्वभावतो यत्र पादो विरचितः समः ॥ BhNZ_12_161cd
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितो ऽपरः । BhNZ_12_162ab
प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ BhNZ_12_162cd
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम्(*) । BhNZ_12_163ab
[दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhNZ_12_163cd
वामः समुन्नतकटिश्चायते स्थानके भवेत् । BhNZ_12_164ab
आवाहने विसर्गे च तथा निर्वर्णेषु च8 BhNZ_12_164cd
चिन्तायां चावहित्थे च स्थानमेतत्प्रयोजयेत् ।] BhNZ_12_165ab
9रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ BhNZ_12_165cd
[ABh]


[(मू)]

1. ड॰ अनोक्ताश्च

2. ड॰ ताश्चापि

3. द॰ आदर्शे श्लोकस्यार्धं न वर्तते

4. ड॰ आभरणेषु च

5. द॰ वा

6. द॰ आदर्श एव दृश्यते

7. ढ॰ स्थानकत्रयलक्षणविनियोगपाठः क॰ ख॰ ग॰ घ॰ च॰ भ॰ म॰ आदर्शेषु समान एव । कुण्डलीकृतस्तु पाठो तदन्येष्वादर्शेषु दृश्यते । जायसेनापतिशार्ङ्गदेवकुम्भकर्णेः पूर्वः पाठ एव गृहीतः, भोजदेवेन त्वपर इति ज्ञायते ।

8. ढ॰ निर्वहणेषु च, द॰ निर्बलेषु च

9. द॰ आदर्शे श्लोकद्वयं न वर्तते । ड॰ आदर्शे वर्तते

[(व्या)]

* आयतं स्त्रीणामेव स्थानकमिति केचित्, रङ्गावतरणारम्भे पुरुषाणामपीति परे ॥

[page 163]




[NZ]

मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । BhNZ_12_166ab
निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ BhNZ_12_166cd
स्थाने ऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । BhNZ_12_167ab
[1समो यत्र स्थितो वामस् त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhNZ_12_167cd
समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् ।] BhNZ_12_168ab
2पुरो विचलितस्त्र्यश्रस्तदन्यो ऽपसृतः समः ॥ BhNZ_12_168cd
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । BhNZ_12_169ab
पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ BhNZ_12_169cd
अवहित्थं समाख्यातं स्थानमागमभूषणैः । BhNZ_12_170ab
3विलासलीलाबिब्बोक4शृङ्गारात्मनिरूपणे5 BhNZ_12_170cd
स्थानमेतत्प्रयोक्तव्यं 6भर्तृमार्गावलोकने । BhNZ_12_171ab
[स्त्रीणामेतत्स्मृतं7 स्थानं संलापे तु स्वभावजे ॥ BhNZ_12_171cd
निश्चये परितोषे च वितर्के 8लज्जिते तथा ।] BhNZ_12_172ab
पादः 9समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ BhNZ_12_172cd
सूचीविद्धमविद्धं वा 10तदश्वक्रान्तमुच्यते । BhNZ_12_173ab
11स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ BhNZ_12_173cd
कुसुमस्तबकादानं परिरक्षणमेव च । BhNZ_12_174ab
वित्रासनं सललितं तरुशाखावलम्बनम् ॥ BhNZ_12_174cd
[ABh]


[(मू)]

1. द॰ समस्थितो वामपादस्त्र्यश्रस्तालान्तरो ऽपरः

2. ड॰ श्लोकद्वयं --- क॰ आदि च॰ अन्तेषु भ॰ म॰ योश्च वर्तते, नान्येषु ।

3. ड॰ अयं क॰ ख॰ ग॰ घ॰ च॰ छ॰ ड॰ भ॰ म॰ आदर्शेष्वेव ड॰ विवाहलीलालावण्ये

4. ड॰ शृङ्गारादि

5. क॰ निरूपणैः

6. ड॰ तथा

7. द॰ स्थितं

8. ड॰ चिन्तने

9. ड॰ समुत्थितः, द॰ समस्थितस्त्वकः

10. द॰ ह्यश्वक्रान्तं तदुच्यते

11. द॰ न॰ ज॰ झ॰ ठ॰ प॰ मातृकासु श्लोकद्वयं न दृश्यते ।

[(व्या)]

[page 164]




[NZ]

स्थाने ऽस्मिन्संविधानीयं स्त्रीणामेतत् प्रयोक्तृभिः । BhNZ_12_175ab
2[शाखावलम्बने कार्यं स्तबकग्रहणे1 तथा ॥ BhNZ_12_175cd
विश्रामेष्वथ नीचानां3 नराणां चार्थयोगतः4 ।] BhNZ_12_176ab
5स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ BhNZ_12_176cd
6भग्नं च स्थानं नृत्ते चारी चेत्समुपस्थिता । BhNZ_12_177ab
एवं स्थानविधिः कार्यः स्त्रीणां नॄणामथापि च ॥ BhNZ_12_177cd
7पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । BhNZ_12_178ab
कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम्5 BhNZ_12_178cd
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । BhNZ_12_179ab
ततः सललितं पादं तालमात्रसमुत्थितम्9 BhNZ_12_179cd
दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । BhNZ_12_180ab
तेनैव समकालं च 10लताख्यं वामकं भुजम्11 BhNZ_12_180cd
दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः12 BhNZ_12_181ab
नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ BhNZ_12_181cd
[ABh]

स्खलितमिति पदम् । (1)तथा विशेषेण च्युत इत्यर्थः । प्रकृतिसंस्थितामित्यविशेषोक्ता प्राधान्यात्प्राथम्यात् (2)तदस्ति(?)गतिरित्युच्यते । (3)कृत्वावहित्थमित्यादि । वामश्चेति । (4)लताख्यं बाह्यपार्श्वे कनिष्ठाङ्गुलिदेशे ।

[(मू)]

1. न॰ ग्रहणं

2. श्लोको ऽयं क॰ आदि च॰ अन्तासु मातृकासु न वर्तते

3. ड॰ देवानां

4. द॰ नराणामर्थयोगतः

5. श्लोको ऽयं क॰ आदि छ॰ अन्तेष्वेव वर्तते

6. छ॰ भग्ने ऽवस्थानके

7. श्लोकार्धमिदं क॰ ख॰ ग॰ च॰ छेषु न वर्तते

8. ड॰ करम्

9. द॰ तालमात्रं समुत्क्षिप्तेत्

10. ढ॰ तालाख्यं

11. द॰ वामपादकम्

12. द॰ पुनः ।

[(व्या)]

1. क॰ पदं

2. क॰ तमस्ति

3. क॰ कुलावहित्थामिति, ख॰ तूलावहित्थमिति

4. ख॰ लतास्यं ।

[page 165]




[NZ]

ततो वामपदं दद्याल्लताहस्तं1 च दक्षिणम् । BhNZ_12_182ab
लीलयोद्वाहितेनाथ 2शिरसानुगतेन च ॥ BhNZ_12_182cd
3किंचिन्नतेन4 गात्रेण गच्छेत्पञ्चपदीं ततः । BhNZ_12_183ab
यो विधिः पुरुषाणां तु5 रङ्गपीठपरिक्रमे ॥ BhNZ_12_183cd
स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । BhNZ_12_184ab
षट्कलं तु न कर्तव्यं6 तथाष्टकलमेव च ॥ BhNZ_12_184cd
पादस्य पतनं तज्ज्ञैः खेदनं7 तद्भवेत्स्त्रियाः । BhNZ_12_185ab
सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ BhNZ_12_185cd
8स्थानीया याः स्त्रियस्तासां संप्रवक्ष्याम्यहं गतिम् । BhNZ_12_186ab
कृत्वावहित्थं स्थानं तु वामं न्यस्य कटीतटे ॥ BhNZ_12_186cd
आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । BhNZ_12_187ab
न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ BhNZ_12_187cd
[ABh]

यो विधिरिति वामवेधं ततः कुर्यादिति । अतिदेशेन चेदं दर्शयति यावती काचिद्रसप्रकृतिदेशकालापेक्षा नॄणां गतिरुक्ता सा सर्वैवेक्तविलासरूपप्रकारानुविद्धा(1) स्त्रीणामापि विवक्षिता । (2)दिक्कलापरिमाणत्वं यत्र शोभोदात्तं तत्र विशेषमाह । एतत्प्रागेव व्याख्यातं चतुष्कलादभ्यधिको न स्त्रीणां मानविधिरिति । अष्टकलग्रहणं तदप्यधिकं मानं पुरुषेष्वपि नास्तीति सूचयति । अन्यथा षट्कले निषिद्धे (3)काष्टकलस्य संगतिस्तन्निषेधेन । स्थानीया मध्यमवयसः, अत एव मध्यमप्रकृतित्वमनूद्यम् । (4)आद्यं दक्षिणम् । परिवाहितमिति

[(मू)]

1. ड॰ पादं

2. ड॰ शिरसो ऽनुगतेन, द॰ शिरसात्र

3. सार्ध एकः श्लोकः क॰ ख॰ ड॰ ढ॰ मातृकास्वेव

4. द॰ नमेत

5. द॰ हि

6. द॰ षट्कलं तत्तु कर्तव्यं, न॰ न. प्रयोक्तव्यं

7. द॰ खेदने

8. ड॰ स्थवीयसीनामेतासां ।

[(व्या)]

1. ख॰ रूपानुविद्धा

2. क॰ दिक्तालपरिमाणत्वं, ख॰ दिक्काल

3. क॰ काष्ठकलास एकत्रिकः, ख॰ काष्ठकलासंकेतिकं तन्निषेधेन

4. ख॰ अथ ।

[page 166]




[NZ]

कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । BhNZ_12_188ab
प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिणी ॥ BhNZ_12_188cd
1किंचिदुन्नमितैर्गात्रैराविद्ध भुजविक्रमा । BhNZ_12_189ab
स्थानं कृत्वावहित्थं च2 वामं चाधोमुखं भुजम् ॥ BhNZ_12_189cd
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । BhNZ_12_190ab
अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ BhNZ_12_190cd
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । BhNZ_12_191ab
या पूर्वमेवाभिहिता 3ह्युत्तमानां गतिर्मया ॥ BhNZ_12_191cd
स्त्रीणां कापुरुषाणां च 4ततो ऽर्धार्धं तु5 योजयेत् । BhNZ_12_192ab
मध्यमोत्तमनीचानां नॄणां यद्गतिचेष्टितम् ॥ BhNZ_12_192cd
स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः । BhNZ_12_193ab
[ABh]

सविभागमधमानां गतिमाह प्रेष्याणामित्यादि । उद्भ्रान्तगामिनीति समदविकारा, आविद्धो वर्तनाबहुलो बाहुजानां (1)विक्रमस्य नार्या अर्धमिति नपुंसकलक्षणा तृतीयप्रकृतिरुच्यते, (2)समप्रविभागविवक्षया चार्धनपुंसकमिति समासः (3)उदात्तत्वं पुरुषाणां लालित्यं योषितां गतौ । गतिरिति चतुस्ताला चतुष्कला च, अनुत्तमस्त्रीणां द्विताला द्विकलेति ततो ऽप्यर्धा कापुरुषाणां, तत्कर्मकराणामेकताला (4)एककला चेति । किमुत्तमानामेवेयं स्थाने दर्शयति मध्यमोत्तमानां नृणां (5)अपुंसां यद्गतिचेष्टितं तदेव तदोदात्तमध्यमोत्तमनीचानां स्त्रीणां तथा तत्कर्मकराणां कुर्यादित्युत्तमग्रहणम् ।

[(मू)]

1. ड॰ क्वचित्

2. च॰ तु

3. द॰ पूर्वमेव विहिता

4. द॰ तदर्धेन तु

5. ड॰ च ।

[(व्या)]

1. क॰ विक्रमः स्यात्

2. क॰ संप्रति विभाग

3. क॰ उदारत्वं

4. क॰ द्विकला

5. ख॰ अयं सा ।

[page 167]




[NZ]

बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा1 BhNZ_12_193cd
न तस्यां2 सौष्ठवं कार्यं प्रमाणं न प्रयोक्तृभिः । BhNZ_12_194ab
3[तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ BhNZ_12_194cd
नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् ।] BhNZ_12_195ab
विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसकैः4 BhNZ_12_195cd
स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । BhNZ_12_196ab
5व्याजेन क्रीडया वापि तथाभूयश्च वञ्चनात् ॥ BhNZ_12_196cd
स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषो ऽपि च । BhNZ_12_197ab
6धैर्यौदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ BhNZ_12_197cd
7स्त्री पुमांसं त्वभिनयेद्वेष8वाक्यविचेष्टितैः । BhNZ_12_198ab
[ABh]

सर्वग्राहकं दर्शयितुं यत्रोत्तमादिविभागो नोद्भिन्नः तत्र गतिमाह बालानामपीति । तद्भावगमनादिति । यदेव रूपं यो गृह्णाति तदीयैव तस्य गतिः । विपर्ययपरिग्रहे च विशिष्टार्थं (1)कारणमाह व्याजेनेति । व्याजः कस्यचित्कायस्य साधनाय, यथा विदूषकस्य संकेतस्थाने चेटिकावस्त्रधारणम् । क्रीडा यथा इष्टजनस्याकृतौ नायिकानाम् । वञ्चनादिति यथा विदूषकं वञ्चयितुं चेटकस्य स्त्रीवेषकरणम् ।
अपिचेति ग्रहणात् स्त्रीपुंसयोर्नपुंसकेन सह तस्य च ताभ्यां सह विपर्ययं दर्शयति । अत्रैव विपर्यये गतिविपर्ययप्रसङ्गेन व्यभिचारिभावसात्त्विकोपाङ्गाद्यभिनयविपर्ययमप्याह धैर्यौदार्येणेति । (2)धैर्यौदार्ये सामान्याभिनयोक्ते । ताभ्यां भावा उपलक्ष्यन्ते । बुद्ध्येति स्थायित्वम्, सत्त्वेनेति सात्त्विकाः, कर्मणेति स्थानकादिविषयः, वेषेति आहार्यप्रकाराः, वाक्येति वाचिकगतसंस्कृतादिप्रयोगः, चेष्टितैरिति अन्तरालस्थाने त्रिपताकादयः ।

[(मू)]

1. ड॰ गतिविक्रमा

2. द॰ तस्य, ड॰ तस्याः

3. अयं श्लोकः, क॰आदि छ॰अन्तेष्वादर्शेषु न वर्तते

4. ढ॰ नपुंसके

5. न॰ व्यायामेन क्रीडयापि

6. ड॰ धैर्योदारेण

7. ड॰ न स्त्रीपुंस

8. प॰ एष

9. छ॰ एव

[(व्या)]

1. ख॰ करणं

2. ख॰ धैर्यौदार्या

3. क॰ सात्त्विकादि

[page 168]




[NZ]

स्त्रीवेषभाषितैर्युक्तः 1प्रेक्षिताप्रेक्षितैस्तथा ॥ BhNZ_12_198cd
2मृदुसन्नगतिश्चैव पुमान्स्त्रीभावमाचरेत् । BhNZ_12_199ab
[3जातिहीनाश्च4 या नार्यः पुलिन्दशबरा नाः । BhNZ_12_199cd
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । BhNZ_12_200ab
व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः5 BhNZ_12_200cd
खस्थानां चैव नारीणां समपादं प्रयोजयेत् । BhNZ_12_201ab
उद्धता ये ऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा ॥ BhNZ_12_201cd
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् ।] BhNZ_12_202ab
6तथासनविधिः कार्यः स्त्रीणां नॄणामथापि च7 BhNZ_12_202cd
नानाभावसमायुक्तस्तथैव8 शयनाश्रयः । BhNZ_12_203ab
विष्कम्भिताञ्चितौ पादौ 9त्रिकं किंचित्समुन्नतम् ॥ BhNZ_12_203cd
10हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । BhNZ_12_204ab
[ABh]

यथास्थानकगतैः पूर्वपश्चाद्भावि तथोपवेशनात्मकमासनमपीति तद्विधमाह तथासनविधिरिति । तथैवेति गतौ (1)हि शयनमपि पूर्वपश्चाद्भावि शयनाश्रय इति शेषः, विष्कम्भेन वैशाखस्थानकोचितेन विस्तारेणाञ्चितौ विस्तीर्णान्तरौ सुन्दरौ पादौ, न त्वत्राञ्चितपादलक्षणयोगः । स्वस्थे पुंसि यदुपवेशनमासनपीठिकादौ तत्र त्रिकमुन्नतं स्यादिति संबन्धः । ``इति शब्देन वाक्यार्थः, स्यादित्यत्र कर्तव्याख्येय'' इति स्यादिति । हस्ताविति कर्कटरूपौ

[(मू)]

1. ड॰ प्रेषिताप्रेषितैः

2. ड॰ मृदुमन्द, द॰ मृदुसत्त्व

3. श्लोकत्रयं क॰आदि छ॰अन्तेषु न दृश्यते

4. ड॰ विजातीयास्तु

5. ड॰ तथैव च न॰ तथापरः

6. छ॰ आदिसकलादर्शेषु अथासनविधिः

7. ड॰ नॄणां स्त्रीणां विशेषतः द॰ वा

8. ड॰ तथा च

9. ब॰ वक्षः

10. स्वस्थाद्यासनलक्षणविनियोगश्लोकाः न॰ म॰ मातृकयोः पाठभेदतया दृश्यन्ते । न॰मातृकापाठस्तु भ॰म॰पाठक्रम एव दीयते संवादबाहुल्यात्

[(व्या)]

1. क॰ गते, क॰ गतो

[page 169]




[NZ]

पादः प्रसारितः किंचिदेकश्चैवासनाश्रयः ॥ BhNZ_12_204cd
शिरः 1पार्श्वानतं चैव सचिन्त उपवेशने । BhNZ_12_205ab
चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ BhNZ_12_205cd
संप्रणष्टेन्द्रियमना भवेच्छोकोपवेशने2 BhNZ_12_206ab
प्रसार्य बाहू शिथिलौ तथा 3चापाश्रयाश्रितः ॥ BhNZ_12_206cd
4मूर्छामदश्रमग्लानिविषादेषूपवेशयेत् । BhNZ_12_207ab
सर्वपिण्डीकृताङ्गस्तु संयुक्तैः5 पादजानुभिः ॥ BhNZ_12_207cd
6व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । BhNZ_12_208ab
तथाचोत्कटिकं स्थानं7 स्फिक्पार्ष्णीनां समागमः ॥ BhNZ_12_208cd
पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमने ऽपि8 च । BhNZ_12_209ab
विष्कम्भितं पुनश्चैव 9जानु भूमौ निपातयेत् ॥ BhNZ_12_209cd
[ABh]

समाहारद्वन्द्वे । संप्रणमृष्टशब्देनेन्द्रियमात्र(1) इति पाठः मन इति पाठे प्रोच्यत्वे कृते त्वध्याहृत्य संगतिः कार्या । अपाश्रयन्तीत्यादिकमाश्रितम् । उपवेशयेदिति स्वार्थे णिच आचार्ये वा कृतृभूतमात्रम्, आचार्यास्तु बाहू प्रसार्यैवासने उपवेशयेत् विश्रामयेदित्याहुः । पिण्डितत्वमङ्गानां जानुविश्लेषादूर्ध्वकायं कुटिलीकरोतीत्युत्कटं (2)संज्ञायां कुटतेः(3) । अत्र च विरलत्वं जानुनोः स्फिग्भ्यां भूमेः परामर्शः(4), पूर्वत्र तु नैतदुभयमपीति विशेषः । पित्र्य इति श्राद्धादौ, निवापसलिल इति पितृतर्पणे प्रतिग्रहार्थं परस्य सलिलदाने तत्प्रतिग्रहे च । सन्ध्याशब्देन तदवसरोचितं जपध्यानादि । विष्कम्भितमिति विस्तारितमेकं

[(मू)]

1. ड॰ पार्श्वगतं, छ॰ पार्श्वोन्नतं

2. ड॰ शोकौत्सुक्योपवेशने

3. न॰ चोपाश्रयाश्रितः

4. प॰ मोहमूर्छामदग्लानि

5. ढ॰ संयुक्तः

6. द॰ व्रीडावहित्थास्वाध्याने

7. छ॰ उत्कटकस्थान, ढ॰ उत्कुटिकस्थानं

4. च॰ आचमनेषु

9. ढ॰प॰ जानुं

[(व्या)]

1. क॰ शब्देन विशेषणेन संप्रणष्टेन्द्रियमात्र

2. क॰पुंसंज्ञायां

3. क॰ कुटेः

4. क॰परस्पर्शः ।

[page 170]




[NZ]

1प्रियाप्रसादने कार्यं होमादिकरणेषु च । BhNZ_12_210ab
2महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ BhNZ_12_210cd
देवाभिगमने कार्यं रुषितानां प्रसादने4 BhNZ_12_211ab
शोके 5चाक्रन्दने तीव्रे 6मृतानां चैव दर्शने ॥ BhNZ_12_211cd
त्रासने च कुसत्त्वानां नीचानां चैव याचने7 BhNZ_12_212ab
8होमयज्ञक्रियायां च 9प्रेष्याणां चैव कारयेत् ॥ BhNZ_12_212cd
मुनीनां नियमेष्वेव भवेदासनजो विधिः । BhNZ_12_213ab
(*)तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ BhNZ_12_213cd
स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । BhNZ_12_214ab
[आब्भ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ ] BhNZ_12_214cd
देवानां नृपतीनां च दद्यात् सिंहासनं द्विजाः । BhNZ_12_215ab
10पुरोधसाममात्यानां 11भवेद्वेत्रासनं तथा ॥ BhNZ_12_215cd
[ABh]

भूमौ जानु द्वितीयं यथास्थितं, यन्त्रनिकटढौकगमनशंक्यं सन्तापादिभयात् । तत्र च कार्यं मन्त्रं तदुपलक्षणम् । होमादिकरणेष्विति । अभिगमनं वन्दनम् । शोके चेति नीचानामिति सर्वत्रात्र संबध्यते । नीचानां शोकजनितो यस्तीव्राक्रन्दस्तत्रैव, नीचा यदा मृतमवलोकयन्ति, संबन्धमात्रे षष्ठीत्युभयप्राप्त्यभावान्न नियमः । कुसत्त्वाः शिवादयः यदा नीचानां त्रासयन्ति तदा । नीचा यदा किंचिद्याचन्ते जानुद्वयक्षेपो भूमौ ।
अथासनात्मककालसंनिवेशप्रसङ्गेन तदधिकरणेषु विधिमाह तथासनविधिरिति । बाह्यः सर्वजनविषयः आभ्यन्तरो राजोचितः ।

[(मू)]

1. द॰ च॰ प्रिय

2. द॰ महीमुखाभ्यां

3. ड॰ चैव

4. च॰ च सांत्वने, द॰ च याचने

5. द॰ चाक्रन्दकामेन

6. ढ॰ भूतानां

7. ढ॰ दर्शने

8. द॰ शेष, छ॰ सोम

9. छ॰ प्रेक्षाणां चैव योजयेत्

10. न॰ पुरोधः श्रेष्ठ्यमात्यानां

11. द॰ भवेदर्धासनं

* सकलेष्वादर्शेषु ``अथास्रनविधिः'' इति ।

[(व्या)]

[page 171]




[NZ]

मुण्डासनं तु1 दातव्यं सेनानीयुवराजयोः । BhNZ_12_216ab
काष्ठासनं ब्राह्मणानां2 3कुमाराणां कुथासनम् ॥ BhNZ_12_216cd
एवं राजसभां प्राप्य 4कार्यस्त्वासनजो विधिः । BhNZ_12_217ab
स्त्रीणां 5चैवासनविधिं संप्रवक्ष्याम्यहं पुनः ॥ BhNZ_12_217cd
सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । BhNZ_12_218ab
6पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ BhNZ_12_218cd
भोगिनीनां 7तथा चैव वस्त्रं चर्म कुथापि वा । BhNZ_12_219ab
8ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ BhNZ_12_219cd
9वेश्यानामपि कर्तव्यमासनम् हि10 मसूरकम्11 BhNZ_12_220ab
शेषाणां प्रमदानां च भवेद्भूम्यासनं द्विजाः ॥ BhNZ_12_220cd
एवमभ्यन्तरो12 ज्ञेयो 13बाह्यश्चासनजो विधिः । BhNZ_12_221ab
तथा स्वगृहवार्तासु छन्देनासनमिष्यते ॥ BhNZ_12_221cd
[ABh]

(1)मण्डासनं चातुरी, (2)मसूरकं वस्त्रुशून्यं, काष्ठासनं (3)पीठकं, वेत्रलताकृतं वेत्रासनं वेत्रासनादन्य एव रूढो वर्णकम्बलखण्डः विस्तारिकेत्यन्ये । राज्ञी राजवंश्या देवी, सेनापतिप्रभृतिपुत्र्यो राज्ञा परिणीता भोगिन्यः (4)संगृहीतकन्याः । भूमिरेवासनं भूम्यासनं । एवमिति नरपतिसंनिधौ । अन्यदात्मस्वेच्छयेति दर्शयति तथा स्वगृहेति । वार्ताशब्देन सेनापतेरमात्यगृहगमन इत्यादि सूचयति ।

[(मू)]

1. ड॰ च

2. ड॰ द्विजातीनां, न॰ द्विजानां च

3. ढ॰ कुमाराणां, द॰ कुमाराणामथाशुभम् (?)

4. द॰ कार्य आसनजो

5. ड॰ चाप्यासन

6. द॰ पुरोधसां तपस्वीनां भवेत्

7. द॰ पुनश्चैव कृत्वा चर्म कथा(कुथा?) तथा

8. ड॰ ब्राह्मणीनां यतीनां च, द॰ आदर्शे ऽयं श्लोको न दृश्यते

9. न॰ वेश्यानां च प्रदातव्यं

10. ड॰ च

11. ड॰ मयूरकम्

12. ढ॰ अन्तःपुरे

13. द॰ बाह्यश्चासने

[(व्या)]

1. ख॰ दण्डासनं

2. क॰ पसूरकं

3. ख॰ पीठनं

4. ख॰ संगीतकन्या

5. क॰ एष विधिः, ख॰ एष्विति ।

[page 172]




[NZ]

1नियमस्थो मुनीनां च भवेदासनजो विधिः । BhNZ_12_222ab
2लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ BhNZ_12_222cd
3ब्रुसीमुण्डासनप्रायं वेत्रासनमथापि वा4 BhNZ_12_223ab
5होमे यज्ञक्रियायां च पित्र्यर्थे च प्रयोजयेत् ॥ BhNZ_12_223cd
स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । BhNZ_12_224ab
तेषामासनसत्कारः 6कर्तव्य इह पार्थिवैः ॥ BhNZ_12_224cd
समे समासनं दद्यान्मध्यमे मध्यमासनम् । BhNZ_12_225ab
अतिरिक्ते ऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ BhNZ_12_225cd
उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो7 बुधैः । BhNZ_12_226ab
भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ BhNZ_12_226cd
नौनागरथयानेषु भूमिकाष्ठासनेषु च । BhNZ_12_227ab
सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः8 BhNZ_12_227cd
[ABh]

नियमस्थ इति कस्यचिदङ्गविष्टरो ऽन्यस्य मृगाजिनम् । लिङ्गनामिति । यथा शाक्यानां ब्रुसी, शैवानां मुण्डासनं, क्षपणकानां वेत्रवल्कलडिम्बकम् । तदेवाह ब्रुसीत्यादि । स्थानाय हिता वृद्धाः तन्निकटे व्यवस्थादृष्टादृष्टोपयोगिवृद्धा ये भवन्ति अत एवाह कुलविद्येति । आसनसत्कार इहास्यतामिति ।
(1)तत्र विभागमाह सम इति तत्तुल्यजाति(2)विद्यः । सममिति त्रित्वाच्चासनापेक्षया मध्य इति किंचिदूनेन, मध्यममिति स्वासनात्प्रमाणतो ऽप्यूनं हीन इति स्वापेक्षया भूम्या सह भूमिरेव इहास्यतामिति निर्देश्या स एव तस्यासनसत्कारः । काष्ठमिति एकमेव दीर्घं भरसहं पर्यङ्कं दर्शयितुं काष्ठमित्युक्तं न तु काष्टमयमिति ।

[(मू)]

1. ढ॰ नियमस्यं, ड॰ न्मिमस्य, द॰ नियमस्ये

2. द॰ लिङ्गिनां चासनविधिः

3. ड॰ दण्डमुण्डब्रुसीप्रायं

4. ड॰ च

5. श्लोकार्धं द॰ संज्ञके नास्ति

6. न॰ कर्तव्यो गुरुपार्थिवैः

7. ड॰ गुरूणामग्रतो

8. द,, उपाध्याये गुरौ नृपे ।

[(व्या)]

1. ख॰ तन्त्रविभागं

2. ख॰ विन्याससममिति ।

[page 173]




[NZ]

आकुञ्चितं समं चैव प्रसारितविवर्तने1 BhNZ_12_228ab
उद्वाहितं 2नतं चैव शयने कर्म कीर्त्यते ॥ BhNZ_12_228cd
3[सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । BhNZ_12_229ab
स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ BhNZ_12_229cd
उत्तानितमुखं चैव 4प्रत्यङ्मुक्तकरं तथा । BhNZ_12_230ab
समं नाम प्रसुप्तस्य5 स्थानकं संविधीयते ॥ BhNZ_12_230cd
एकं भुजमुपाधाय संप्रसारितजानुकम् । BhNZ_12_231ab
स्थानं प्रसारितं नाम 6सुखसुप्तस्य कारयेत् ॥ BhNZ_12_231cd
अधोमुखस्थितं चैव 7विवर्तमिति स्मृतम् । BhNZ_12_232ab
शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ BhNZ_12_232cd
8अंसोपरि शिरः कृत्वा कूर्परक्षोभमेव च । BhNZ_12_233ab
उद्वाहितं तु विज्ञेयं लीलायां वचने9 प्रभोः ॥ BhNZ_12_233cd
ईषत्प्रसारिते जङ्घे यत्र 10सृष्टौ करावुभौ । BhNZ_12_234ab
आलस्यश्रमखेदेषु नतं स्थानं विधीयते ।] BhNZ_12_234cd
[ABh]

अथ शयनसंनिवेशनमाहाकुञ्चित(मिति) दिक् या निजशरीरस्य कुटिलीकरणात्सा स्यात् । बाहुमध्यमपसरेण विक्षेपयोगात् पार्श्वे संनिवेशनवशात्(1) पूर्वकायस्यापरकायस्योर्ध्वनयनं(2) नान्यशयनसंनिवेशात् ।

[(मू)]

1. न॰ विवर्तिते

2. न॰ नतं षोढा शय्यास्थानानि निर्दिशेत्, द॰ तथा चैव

3. श्लोकाः षट् आकुञ्चितादिलक्षणविनियोग निरूपकाः क॰ ख॰ ग॰ घ॰ च॰ द॰ मातृकासु न वर्तन्ते

4. ड॰ स्रस्तमुक्तकरं

5. ड॰ तु सुप्तस्य

6. ड॰ खलु

7. ड॰ विवर्तन

8. न॰ हस्तोपरि

9. ज॰ वेशने

10. ज॰ स्रस्त ।

[(व्या)]

1. ख॰ सन्निवेशनात्

2. ख॰ शयनम्

[page 174]




[NZ]

गतिप्रचारस्तु मयोदितो ऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः1 BhNZ_12_235ab
2अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यान्तरसंविधानम्3 BhNZ_12_235cd
इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशो ऽध्यायः4 e
[ABh]

अर्थवशेनेति लौकिकेनेत्यर्थः । अथैतदुपसंहृताध्यायानन्तरावकाशं संगतिप्रदर्शनपूर्वकमाह अतःपरमिति । रङ्गे यत्परिक्रमात् परिक्रमणवृत्ते गत्यध्याये निरूपितं तदुपयोगः कक्ष्याविशेषविभाग इति शिवम् ।
यावद्गतिभेद(विधि)प्रकटनमध्यायमिह विवृणुते ।
स्मरमथनचरणसरसिजपरागभूतो ऽभिनवगुप्तः ॥
इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां गत्यध्यायो द्वादशः समाप्तः ।

[(मू)]

1. द॰ शास्त्रतः

2. द॰ ज्ञेयं

3. ज॰ कक्ष्यादिविभागयुक्तम्

4. ज॰ आदि ब॰ अन्तेष्वादर्शेषु त्रयोदशो ऽध्यायः । द॰ मातृकायामस्मिन्नध्याये श्लोकसंख्या 209 इति, आदितः 2149 इति च लिखितम् ।

[(व्या)]

[page 175]




भ॰ म॰ मातृकाभिन्नपाठक्रमो द्वादशो ऽध्यायः गतिप्रचारः

एवं व्यायामसंजातं कार्यं मण्डलकल्पनम् । BhNZ_12a_001ab
अत ऊर्ध्वं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ BhNZ_12a_001cd
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । BhNZ_12a_002ab
यथामार्गरसोपेतं प्रकृतीनां प्रवेशनम् ॥ BhNZ_12a_002cd
ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते । BhNZ_12a_003ab
कार्यः प्रवेशः पात्राणां नानार्थसंभवः ॥ BhNZ_12a_003cd
स्थानं तु वैष्णवं कार्यमुत्तमे मध्यमे तथा । BhNZ_12a_004ab
समुन्नतं समं चैव चतुरश्रमुरस्तथा ॥ BhNZ_12a_004cd
बाहुश्रीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । BhNZ_12a_005ab
ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ BhNZ_12a_005cd
कर्णाभ्यां बाहुशिरसी स्यातामष्टाङ्गुलसंस्थिते । BhNZ_12a_006ab
1उरसश्चापि चिबुकं चतुरङुलसंस्थितम् ॥ BhNZ_12a_006cd
हस्तौ तथैव कर्तव्यौ कटीं नाभिं तु संस्थितौ । BhNZ_12a_007ab
दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ BhNZ_12a_007cd
2पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । BhNZ_12a_008ab
पादोत्क्षेपश्च कर्तव्यः स्वप्रमाणविनिर्मितः ॥ BhNZ_12a_008cd
चतुस्तालो द्वितालश्च तथा स्यादेकतालकः । BhNZ_12a_009ab
चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ BhNZ_12a_009cd
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । BhNZ_12a_010ab
[3चतुष्कलो ऽथ द्विकलस्तथा ह्येककलः पुनः । BhNZ_12a_010cd
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् ॥ BhNZ_12a_010ef
[ABh]


[(मू)]

1. भ॰ ऊरुदेशाचच्

2. श्लोकार्धं भ॰मातृकायां न दृश्यते ।

3. भ॰ मातृकायां न वर्तते । म॰ संज्ञके तु सार्धं श्लोकद्वयं कुण्डलीकृतम् ।

[(व्या)]

[page 177]




[NZ]

तथा चैककलः पातो नीचानां संप्रकीर्तितः । BhNZ_12a_010gh
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् ॥ BhNZ_12a_010ij
यथाप्रकृति नाट्यज्ञो गतिमेवं प्रयोजयेत् ] । BhNZ_12a_010kl
स्वभावेनोत्तमगतौ जानुं कुर्यात्कटीसमम् ॥ 10॥ BhNZ_12a_010mn
युद्धचारीप्रचारेषु जानु स्तनसमं भवेत् । BhNZ_12a_011ab
अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति ॥ BhNZ_12a_011cd
संभ्रमोत्थानरोषेषु प्रमाणं न विधीयते । BhNZ_12a_012ab
दृप्तानां दैत्ययक्षाणां तथा पन्नगरक्षसाम् ॥ BhNZ_12a_012cd
चतुस्तालप्रमाणेन कर्तव्या तु गतिर्बुधैः । BhNZ_12a_013ab
दिवौकसां तु शेषाणां मध्यमा गतिरुच्यते ॥ BhNZ_12a_013cd
तत्रापि चोत्तमा ये तु तेषां देवैः समा गतिः । BhNZ_12a_014ab
पुलिन्दाः शबराश्चैव शेषा ये म्लेच्छजातयः ॥ BhNZ_12a_014cd
तेषां देशानुरूपेण कार्यं गतिविचेष्टितम् । BhNZ_12a_015ab
जलाशयमृगव्यालपशुश्वापदपक्षिणाम् ॥ BhNZ_12a_015cd
देशजातिसमुत्थेन गतिं भावेन योजयेत् । BhNZ_12a_016ab
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयं बुधैः ॥ BhNZ_12a_016cd
पादयोः पतनं सम्यक्प्रकुर्वीत यथाक्रमम् । BhNZ_12a_017ab
स्थैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंस्थितानाम् । BhNZ_12a_017cd
द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववेशेन योज्यम् ॥ BhNZ_12a_017ef
चतुष्कलं तूत्तमानां मध्यानां द्विकलं भवेत् । BhNZ_12a_018ab
तथा चैककलं पातं नीचानां संप्रयोजयेत् ॥ BhNZ_12a_018cd
यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । BhNZ_12a_019ab
चतुष्कलश्च द्विकलस्तथा चैककलः पुनः ॥ BhNZ_12a_019cd
अथ मध्यमनीचैस्तु गच्छेत्संपरिवारितः । BhNZ_12a_020ab
चतुष्कलस्तथार्धं च तथा चैककलो भवेत् ॥ BhNZ_12a_020cd
एवमेष तु विज्ञेयः कलानां गमने विधिः । BhNZ_12a_021ab
पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः ॥ BhNZ_12a_021cd
[ABh]


[(मू)]

[(व्या)]

[page 177]




[NZ]

पार्श्वाक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । BhNZ_12a_022ab
1रङ्गकोणोन्मुखो गच्छेत्सम्यक्पञ्चपदानि तु ॥ BhNZ_12a_022cd
एवं गतागतैर्गत्वा पदानामेकविशतिम् । BhNZ_12a_023ab
वामबन्धं ततः कुर्याद्विक्षेपं दक्षिणस्य च ॥ BhNZ_12a_023cd
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । BhNZ_12a_024ab
त्र्यश्रस्त्रिकोणे चतुरश्ररङ्गे गतिप्रचारश्चतुरश्र एव ॥ BhNZ_12a_024cd
द्रुता गतिस्तु कर्तव्या द्विकलापादपातने । BhNZ_12a_025ab
ज्येष्ठे चतुष्कला कार्या द्विकला तत्र मध्यमे ॥ BhNZ_12a_025cd
द्विकला चोत्तमे यत्र मध्ये त्वेककला भवते । BhNZ_12a_026ab
कलाप्रमाणं मभ्ये च नीचे त्वर्धकला ततः ॥ BhNZ_12a_026cd
एवमर्धार्धहानिं तु कलानां संप्रयोजयेत् । BhNZ_12a_027ab
उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ BhNZ_12a_027cd
या गतिश्चैव मध्यानां न तां नीचेषु योजयेत् । BhNZ_12a_028ab
उत्तमानां मयोक्ता तु गतिर्विप्रा यथायथम् ॥ BhNZ_12a_028cd
मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः । BhNZ_12a_029ab
वणिजां मन्त्रिणां चैव गतिः कार्या स्वभावजा ॥ BhNZ_12a_029cd
अतिक्रान्तपदैः सा तु द्वितालान्तरगामिभिः । BhNZ_12a_030ab
कृत्वा नाभितटे हस्तमुत्थानं कटकामुखम् ॥ BhNZ_12a_030cd
आद्यं चारालमुत्तानं कुर्यात्पार्श्वस्तनान्तरे । BhNZ_12a_031ab
न निषण्णं न च स्तब्धं न चैव परिवाहितम् ॥ BhNZ_12a_031cd
कृत्वा गात्रं तथा गच्छेत्तेनै(न)वाद्यक्रमेण तु । BhNZ_12a_032ab
हासे त्वथ गतिः कार्या तथा खञ्जनवामने ॥ BhNZ_12a_032cd
द्विकलार्धप्रयोगेषु कुहकाभिनयं प्रति । BhNZ_12a_033ab
खञ्जे गतिस्तु कर्तव्या स्तब्धैकचरणाश्रा ॥ BhNZ_12a_033cd
तथा द्वितीयः कार्यस्तु पादो ऽग्रतलसंचरः । BhNZ_12a_034ab
स्तब्धोन्नमनं कार्यमङ्गस्य चरणेन तु ॥ BhNZ_12a_034cd
[ABh]


[(मू)]

1. सार्धं श्लोकद्वयं भ॰ संज्ञके न विद्यते ।

[(व्या)]

[page 178]




[NZ]

गमने च निषण्णः स्यात्तथान्यचरणाश्रये । BhNZ_12a_035ab
एष खञ्जप्रयोगेषु तलशल्यक्षते यथा ॥ BhNZ_12a_035cd
पादेनाग्रतलेनाथ गतिः कार्याञ्चितेन तु । BhNZ_12a_036ab
निषण्णदेहा कर्तव्या नतजङ्घा तथैव तु ॥ BhNZ_12a_036cd
सर्वसंकोचिताङ्गी च वामने गतिरिष्यते । BhNZ_12a_037ab
न तस्यातिक्रमः कार्यो विक्षेपश्चरणस्य तु ॥ BhNZ_12a_037cd
उद्वाहिता चूर्णपदैः सा कार्या कुहकात्मिका । BhNZ_12a_038ab
विदूषकस्यापि गतिर्हास्यत्रयविभूषिता ॥ BhNZ_12a_038cd
अङ्गहास्यं कार्यहास्यं हास्यं नेपथ्यजं तथा । BhNZ_12a_039ab
कुब्जः खञ्जो ऽथ खलतिर्दन्तुरो विकृताननः ॥ BhNZ_12a_039cd
यत्तादृशो भवेद्विप्रा अङ्गहास्यं तु तद्भवेत् । BhNZ_12a_040ab
1यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः ॥ BhNZ_12a_040cd
अत्यायतपदत्वाच्चाप्यङ्गहास्यो भवेत्तु सः । BhNZ_12a_041ab
चीरचर्ममषीभस्मगैरिकादिविभूषणैः ॥ BhNZ_12a_041cd
यत्तादृशो भवेद्विप्रा हास्यं नेपथ्यजं तु तत् । BhNZ_12a_042ab
काव्यहास्यं तु विज्ञेयसंबद्धप्रभाषणैः ॥ BhNZ_12a_042cd
अनर्थवाक्यैर्विविधैस्तथा चाश्लीलभाषणैः । BhNZ_12a_043ab
तस्य तु प्रकृतिं ज्ञात्वा तथा भावं विचक्षणः ॥ BhNZ_12a_043cd
गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् । BhNZ_12a_044ab
स्वभावजायां विन्यस्य कुटिलं वामके करे ॥ BhNZ_12a_044cd
दक्षिणं चैव हस्तं तु कुर्याच्चतुरकं तथा । BhNZ_12a_045ab
पार्श्वमेकं शिरश्चापि हस्तं चरणमेव च ॥ BhNZ_12a_045cd
पर्यायतः सन्नमयेल्लयतालवशानुगम् । BhNZ_12a_046ab
स्वभावजाता तस्यैषा गतिरन्या विकारजा ॥ BhNZ_12a_046cd
लाभे तथा च भुक्तस्य तुष्टे चापि गतिर्भवेत् । BhNZ_12a_047ab
शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका ॥ BhNZ_12a_047cd
[ABh]


[(मू)]

1. अयं श्लोको भ॰ मातृकायां न वर्तते ।

[(व्या)]

[page 179]




[NZ]

वस्त्राभरणसंस्पर्शं सम्यक्पञ्चपदानि तु । BhNZ_12a_048ab
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च ॥ BhNZ_12a_048cd
परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् । BhNZ_12a_049ab
तत्रापि वामवेधं तु विक्षेपो दक्षिणेन च ॥ BhNZ_12a_049cd
ततो भाण्डोन्मुखो गच्छेदेतान्येव पदानि तु । BhNZ_12a_050ab
एवं गतागतैर्गत्वा पदानि त्वेकविंशति ॥ BhNZ_12a_050cd
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च । BhNZ_12a_051ab
एषा स्वभावगमने गतिः कार्या प्रयोक्तृभिः ॥ BhNZ_12a_051cd
अवस्थान्तरयोगे तु गतिं समनुबोधत । BhNZ_12a_052ab
अस्वस्थकाञ्चिते(?) चैव भयवित्रासयोस्तथा ॥ BhNZ_12a_052cd
आवेगे च तथा हर्षे तथानिष्टश्रुतावपि । BhNZ_12a_053ab
कालातिक्रमणे चैव क्षेपे चाद्भुतदर्शने ॥ BhNZ_12a_053cd
कार्य आत्ययिके चैव दुःखिते चारिमार्गणे । BhNZ_12a_054ab
अवरुद्धानुकरणे श्वापदानुगतौ तथा ॥ BhNZ_12a_054cd
गतिमेतेषु भावेषु द्विकलां संप्रयोजयेत् । BhNZ_12a_055ab
दिव्यानां नृपतीनां च गतिरेवं विधीयते ॥ BhNZ_12a_055cd
अत्रोच्यते कथं देवैः समा राज्ञां गतिर्भवेत् । BhNZ_12a_056ab
दिव्या तु प्रकृतिर्ज्ञेया तथान्या दिव्यमानुषी ॥ BhNZ_12a_056cd
मानुषी चैव मन्तव्या नाट्यवृत्तिक्रियां प्रति । BhNZ_12a_057ab
दिव्या तु देवप्रकृती राज्ञां स्याद्दिव्यमानुषी ॥ BhNZ_12a_057cd
अन्या या लोकसंस्था तु मानुषी सा प्रकीर्तिता । BhNZ_12a_058ab
तस्माद्देवानुकरणे दोषस्तत्र न विद्यते ॥ BhNZ_12a_058cd
गतिः शृङ्गारिणी कार्या स्वस्थकामितसंभवा । BhNZ_12a_059ab
चतुष्कलाप्रमाणेन सविलासा तथैव च ॥ BhNZ_12a_059cd
दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । BhNZ_12a_060ab
सूच्या चैवाप्यभिनयं प्रकुर्यादर्थसंश्रयम् ॥ BhNZ_12a_060cd
[ABh]


[(मू)]

[(व्या)]

[page 180]




[NZ]

हृद्यैर्वस्त्रैस्तथागन्धैर्धूपैश्चूर्णैश्च योजितैः । BhNZ_12a_061ab
सुगन्धिभिश्च मालाभिर्विचित्राभिरलंकृतः ॥ BhNZ_12a_061cd
गच्छेत्सललितैः पादैरतिक्रान्तोत्थितैरथ । BhNZ_12a_062ab
सौष्ठवेन समायुक्तैरतिक्रान्तोत्थितैरथ ॥ BhNZ_12a_062cd
पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः । BhNZ_12a_063ab
प्रच्छन्नकामिते चैव गतिं भूयो निबोधत ॥ BhNZ_12a_063cd
विसर्जितजनस्तत्र तथा दूतीसमन्वितः । BhNZ_12a_064ab
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः ॥ BhNZ_12a_064cd
वेलासदृशशवस्त्रश्च निवृत्तस्तु शनैः शनैः । BhNZ_12a_065ab
शब्दशंक्युत्सुकश्चापि पश्चाल्लोकनतत्परः ॥ BhNZ_12a_065cd
वेपमानशरीरश्च प्रस्खलंस्तु मुहुर्मुहुः । BhNZ_12a_066ab
शङ्कितः पुरुषो गच्छेद्दिदृक्षुर्वल्लभं जनम् ॥ BhNZ_12a_066cd
उत्तमानामियं कार्या पुरुषाणां गतिर्बुधैः । BhNZ_12a_067ab
मध्यमानां गतिं चैव संप्रवक्ष्याम्यहं पुनः ॥ BhNZ_12a_067cd
ज्वरार्ते च रुजार्ते च तपःश्रान्ते भयान्विते । BhNZ_12a_068ab
विक्षते च्छन्नगमने त्ववहित्थे तथैव च ॥ BhNZ_12a_068cd
चिन्तान्विते तथा स्वस्थ औत्सुक्ये संहते तथा । BhNZ_12a_069ab
गतिः स्थिरलया कार्या करणाश्रयभाविनी ॥ BhNZ_12a_069cd
भये वित्रासिते चैव प्रमत्ते शङ्किते तथा । BhNZ_12a_070ab
व्याधिते हर्षिते क्रोधे कार्यं तु चतुराञ्चितम् ॥ BhNZ_12a_070cd
संभ्रमाद्भुतसंदर्शे मुहुर्मुहुरवेक्षणैः । BhNZ_12a_071ab
कम्पनेन च गात्राणां वस्त्रस्याकर्षणेन च ॥ BhNZ_12a_071cd
सुसन्धिता चूर्णपदा शकारस्य गतिर्भवेत् । BhNZ_12a_072ab
स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ BhNZ_12a_072cd
समुद्वाहितगात्रा च विलम्बितपदक्रमा । BhNZ_12a_073ab
विष्कम्भगमिनी चैव निश्वासबहुला तथा ॥ BhNZ_12a_073cd
अतिक्रान्ता च कर्तव्या तथा चूर्णपदैः सदा । BhNZ_12a_074ab
कार्या चैव तु हीनानां चेट्यादीनां द्विजोत्तमाः ॥ BhNZ_12a_074cd
[ABh]


[(मू)]

[(व्या)]

[page 181]




[NZ]

अधमा इति ये ख्याता नानाशीलाः कुवृत्तयः । BhNZ_12a_075ab
पार्श्वमेकं शिरश्चैव करं चरणमेव च ॥ BhNZ_12a_075cd
नामयेत्तद्गतौ किंचित्कुजन्मा चेटसंज्ञितः । BhNZ_12a_076ab
जातिनीचेषु कर्तव्या विलोकनपरा गतिः ॥ BhNZ_12a_076cd
विकला बकसंचारा गात्रं सर्वं नियम्य च । BhNZ_12a_077ab
स्वजातिसदृशी चैव तथा देहानुकर्षिणी ॥ BhNZ_12a_077cd
संभ्रमे चैव हर्षे च विक्षिप्तपदविक्रमा । BhNZ_12a_078ab
आसाद्य हास्यं तरसमेताश्चान्याश्च योजयेत् ॥ BhNZ_12a_078cd
पुनश्च करुणे कार्या गतिः स्थिरपदक्रमा । BhNZ_12a_079ab
सबाष्पः साश्रुनयनः सन्नगात्रस्तथैव च ॥ BhNZ_12a_079cd
उत्क्षिप्तपातितकरः तथा सस्वनरोदनैः । BhNZ_12a_080ab
गच्छेदथाध्यर्धिकया प्रत्यग्राप्रियसंश्रयात् ॥ BhNZ_12a_080cd
एषा स्त्रीषु प्रयोक्तव्या नीचसत्त्वेषु चैव हि । BhNZ_12a_081ab
उत्तमानां तु कर्तव्या सबाष्पा धैर्यसंयुता ॥ BhNZ_12a_081cd
निश्वासैरायतोत्पृष्टैस्तथा चोर्ध्वनिरीक्षणैः । BhNZ_12a_082ab
न तत्र सौष्ठवं कार्यं न प्रमाणं यथोदितम् ॥ BhNZ_12a_082cd
नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने । BhNZ_12a_083ab
गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ BhNZ_12a_083cd
विघूर्णितशरीरा च गतिश्चूर्णपदैरथ । BhNZ_12a_084ab
गतिः काञ्चुकिनी प्रोक्ता वयो ऽवस्था विशेषतः ॥ BhNZ_12a_084cd
वृद्धे वा मध्यमे वापि तथा चैव कनीयसि । BhNZ_12a_085ab
अर्धतालोत्थितैः पादैर्विष्कम्भैरृजुभिस्तदा ॥ BhNZ_12a_085cd
उद्वहन्निव गात्राणि पङ्कमग्न इव व्रजेत् । BhNZ_12a_086ab
अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ BhNZ_12a_086cd
विष्कम्भितगतिप्राणा मन्दोक्षिप्तपदा तथा । BhNZ_12a_087ab
शीतेन चाभिभूतस्य वर्षेणाभिहतस्य च ॥ BhNZ_12a_087cd
गतिं प्रयोक्तृभिः कुर्यात्स्त्रीनीचप्रकृतैः सदा । BhNZ_12a_088ab
पिण्डीकृत्य च गात्राणि तेषां चैव प्रकम्पनात् ॥ BhNZ_12a_088cd
[ABh]


[(मू)]

[(व्या)]

[page 182]




[NZ]

करौ वक्षसि निक्षिप्य कुब्जदेहा तथैव च । BhNZ_12a_089ab
दन्तोष्ठस्फुरणाच्चैव चिबुकस्य प्रकम्पनात् ॥ BhNZ_12a_089cd
शनैः शनैः कर्तव्या शीतार्ताभिनये गतिः । BhNZ_12a_090ab
उष्णे चापि प्रयोक्तव्या गतिर्दाहसमाकुला ॥ BhNZ_12a_090cd
नेत्रसंकोचनस्वेदगात्रसंहरणान्विता । BhNZ_12a_091ab
अतिक्रान्तैरपक्रान्तैरेलकाक्रीडितैस्तथा ॥ BhNZ_12a_091cd
क्रमैरभिनयैर्युक्ता तथा चूर्णपदैरपि । BhNZ_12a_092ab
एतानन्यांश्च युञ्जीत नाट्यज्ञैः करुणे रसे ॥ BhNZ_12a_092cd
रौद्रे रसे प्रवक्ष्यामि दैत्यरक्षोगणान्प्रति । BhNZ_12a_093ab
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः ॥ BhNZ_12a_093cd
नेपथ्यरौद्रो विज्ञेयः स्वाङ्गरौद्रस्तथैव च । BhNZ_12a_094ab
अथ स्वभावजश्चैव त्रिधा रौद्रः प्रकीर्तितः ॥ BhNZ_12a_094cd
रुधिरक्लिन्नदेहो यो रौद्राभिविकृताननैः । BhNZ_12a_095ab
तथा पिशितहस्तश्च रौद्रो नैपथ्यजस्तु सः ॥ BhNZ_12a_095cd
बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः । BhNZ_12a_096ab
स्थूलकायस्त्वतिप्रांशुरङ्गरौद्रस्तु स स्मृतः ॥ BhNZ_12a_096cd
रक्ताक्षः पिङ्गकेशश्च कृष्णाङ्गो विकृतस्वरः । BhNZ_12a_097ab
रौद्रनिर्भर्त्सनकथो रौद्रो ऽयं स्यात्स्वभावजः ॥ BhNZ_12a_097cd
चतुस्तालोत्तरोत्क्षिप्तैः पादैस्त्र्यन्तरपातितैः । BhNZ_12a_098ab
गतिरेवं प्रकर्तव्या शेषा ये चापि तद्विधाः ॥ BhNZ_12a_098cd
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । BhNZ_12a_099ab
विग्रहः प्रहसश्चैव तथा शृङ्गार इष्यते ॥ BhNZ_12a_099cd
तथा भयानके चापि गतिः कार्या विचक्षणैः । BhNZ_12a_100ab
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः ॥ BhNZ_12a_100cd
विष्फारितचलन्नेत्रो विधून्वन् स्वशिरस्तथा । BhNZ_12a_101ab
भयाकुलितचित्तत्वात्पार्श्वानि च विलोकयन् ॥ BhNZ_12a_101cd
द्रुतैश्चूर्णपदैश्चैव कृत्वा हस्तं कपोतकम् । BhNZ_12a_102ab
प्रलेपितशरीरस्तु शुष्कोष्ठश्च स्खलन्व्रजेत् ॥ BhNZ_12a_102cd
[ABh]


[(मू)]

[(व्या)]

[page 183]




[NZ]

एषानुकरणे कार्या तर्जने कलहे तथा । BhNZ_12a_103ab
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतस्वरम् ॥ BhNZ_12a_103cd
एषा स्त्रीणां प्रयोक्तव्या स्त्रीणां चाक्षिप्तविक्रमा । BhNZ_12a_104ab
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ॥ BhNZ_12a_104cd
एलकाक्रीडितैः पादैरुपर्युपरिपातितैः । BhNZ_12a_105ab
एषामेवानुगैर्हस्तैर्गतिर्भीतेषु योजयेत् ॥ BhNZ_12a_105cd
अहृद्या तु मही यत्र श्मशानरणकश्मला । BhNZ_12a_106ab
गतिस्तत्र प्रकुर्वीत बीभत्साभिनयं प्रति ॥ BhNZ_12a_106cd
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । BhNZ_12a_107ab
अतिक्रान्तैः पदैर्गच्छेज्जुगुप्सितगतिं प्रति ॥ BhNZ_12a_107cd
तथा वीरे च कर्तव्या पादविक्षेपसंयुता । BhNZ_12a_108ab
द्रुतप्रचारणाविद्धा नानाचारीसमाकुला ॥ BhNZ_12a_108cd
पार्श्वाक्रान्तैर्द्रुताविद्धैः सूचीविद्धैस्तथैव च । BhNZ_12a_109ab
कलातालगतैः पादैरावेगे योजयेद्गतिम् ॥ BhNZ_12a_109cd
विटस्यापि तु कर्तव्या गतीर्ललितविक्रमाः । BhNZ_12a_110ab
किंचिदाकुञ्चितैः पादैस्तालाभ्यन्तरपातितैः ॥ BhNZ_12a_110cd
रङ्गसौष्ठवसंयुक्तं तथा हस्तौ कटिस्थितौ । BhNZ_12a_111ab
खटकावर्धमानौ च कृत्वा कार्या विटे गतिः ॥ BhNZ_12a_111cd
कृशाङ्गानां तु कर्तव्या गतिर्मन्दपरिक्रमा । BhNZ_12a_112ab
व्याधिग्रस्तो ज्वरार्तश्च तपश्श्रान्तः क्षुधान्वितः ॥ BhNZ_12a_112cd
विष्टम्भनगतप्राणस्तथा क्षामोदरः सदा । BhNZ_12a_113ab
क्षामस्वरकपोलश्च सन्नगात्रस्तथैव च ॥ BhNZ_12a_113cd
हस्तपादसमुत्क्षेपं शनैस्तत्र प्रयोजयेत् । BhNZ_12a_114ab
कम्पनं चैव गात्राणां श्लथनं चैव योजयेत् ॥ BhNZ_12a_114cd
प्रकर्तव्याध्वगस्यापि गतिर्मन्दपदक्रमा । BhNZ_12a_115ab
विकूणनेन वक्त्रस्य जानुनोश्च विमर्शनान् ॥ BhNZ_12a_115cd
नीचानां मध्यमानां च गतिः कार्या सदा बुधैः । BhNZ_12a_116ab
तालमात्रोत्थितैः पादैस्तथा व्याकुञ्चिताञ्चितैः ॥ BhNZ_12a_116cd
[ABh]


[(मू)]

[(व्या)]

[page 184]




[NZ]

यतिनश्चाश्रमस्था ये ये चान्ये तपसि स्थिताः । BhNZ_12a_117ab
ऋषयस्तापसाश्चैव वैष्ठिकं व्रतमास्थिताः ॥ BhNZ_12a_117cd
आलोलचक्षुः स्याच्चैव युगमात्रनिरीक्षणे । BhNZ_12a_118ab
उपस्थितस्मृतिश्चैव गात्रं सर्वं नियम्य च ॥ BhNZ_12a_118cd
अचञ्चलमनाश्चैव गच्छेल्लिङ्गसमाश्रितः । BhNZ_12a_119ab
विनीतवेषश्च तथा काषायवसनो ऽपि च ॥ BhNZ_12a_119cd
प्रथमं समपादेन स्थित्वा स्थानेन नाट्यवित् । BhNZ_12a_120ab
हस्तं चतुरकं कृत्वा तथा चैतत्प्रसारयेत् ॥ BhNZ_12a_120cd
प्रसन्नवदनं कृत्वा प्रयोगस्य वशानुगम् । BhNZ_12a_121ab
सुनिषण्णेन गात्रेण गतिं कुर्याद्यतेस्तथा ॥ BhNZ_12a_121cd
उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः । BhNZ_12a_122ab
एभिरेव विपर्यस्तैर्गुणैरन्येषु लिङ्गिषु ॥ BhNZ_12a_122cd
तथा व्रतानुगा च स्यादन्येषाम् लिङ्गिनां गतिः । BhNZ_12a_123ab
हस्तौ तदनुगौ चापि यथायोगं प्रयोजयेत् ॥ BhNZ_12a_123cd
1विभ्रान्ता वा ह्युदात्ता च विक्रान्ता विहृता तथा । BhNZ_12a_124ab
शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ BhNZ_12a_124cd
कार्या पाशुपतानां च गतिरुद्भ्रान्तगामिनी । BhNZ_12a_125ab
2एवं लिङ्गस्थितानां हि प्रेयोज्यैव गतिर्बुधैः ॥ BhNZ_12a_125cd
अन्धस्येव गतिं कुर्यादन्धकारेषु योगवित् । BhNZ_12a_126ab
भूमौ विसर्पितैः पादैर्हस्तदर्शितमार्गकैः ॥ BhNZ_12a_126cd
रथस्थस्यापि कर्तव्या गतिश्चूर्णपदक्रमा । BhNZ_12a_127ab
समपादन्तथा स्थानं कृत्वा रथगतिं व्रजेत् ॥ BhNZ_12a_127cd
धनुरेकेन हस्तेन गृहीत्वान्येन सायकम् । BhNZ_12a_128ab
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः ॥ BhNZ_12a_128cd
करणानि विचित्राणि कर्तव्यानि विभागतः । BhNZ_12a_129ab
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डलम् ॥ BhNZ_12a_129cd
[ABh]


[(मू)]

1. श्लोकार्धं भ॰ संज्ञके नास्ति

2. श्लोकार्धं भ॰आदर्शे न वर्तते ।

[(व्या)]

[page 185]




[NZ]

विमानस्थस्य कर्तव्या गती रथगतोपमा । BhNZ_12a_130ab
आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्तथा ॥ BhNZ_12a_130cd
अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् । BhNZ_12a_131ab
अधो ऽवलोकनेनैव मण्डलावर्तनेन च ॥ BhNZ_12a_131cd
आकाशगमने चैव कर्तव्यं गतिचेष्टितम् । BhNZ_12a_132ab
स्थानेन समपादेन तथा चूर्णपदैरथ ॥ BhNZ_12a_132cd
व्योम्नस्त्ववतरेद्यस्तु तस्येमां कारयेद्गतिम् । BhNZ_12a_133ab
ऋज्वायतोन्नतनतैः कुटिलावर्तितैस्तथा ॥ BhNZ_12a_133cd
भ्रममाणस्य चाकाशादपरुद्धभुजागतिः । BhNZ_12a_134ab
विकीर्णवसना चैव तथा भूगतलोचना ॥ BhNZ_12a_134cd
द्रुमप्रासादशैलेषु नदीनिम्नोन्नतेषु च । BhNZ_12a_135ab
आरोहणावतरणं कार्यमर्थवशाद्बुधैः ॥ BhNZ_12a_135cd
प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ । BhNZ_12a_136ab
1उद्वाह्य गात्रं पादं च सोपानं निक्षिपेद्बुधः ॥ BhNZ_12a_136cd
तथावतरणे चैव गात्रमानम्य रेचयेत् । BhNZ_12a_137ab
अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च ॥ BhNZ_12a_137cd
प्रासादारोहणं यत्तु तद्देवादिषु कारयेत् ॥ BhNZ_12a_138ab
केवलं तूर्ध्वविक्षेपमद्रिष्वङ्गं भवेदथ ॥ BhNZ_12a_138cd
द्रुमे चारोहणं कार्यमतिक्रान्तोत्थितैः पदैः । BhNZ_12a_139ab
सूचीविद्धैरपक्रान्तैः पार्श्वकान्तैस्तथैव च ॥ BhNZ_12a_139cd
एवं देवावतरणं प्रयोज्यं सरिदादिषु । BhNZ_12a_140ab
प्रासादेषु तथा प्रोक्तं तथैवोत्तरणं भवेत् ॥ BhNZ_12a_140cd
द्रुमप्रासादशैलेभ्यः संज्ञामात्रेण दर्शयेत् । BhNZ_12a_141ab
1जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् ॥ BhNZ_12a_141cd
तोये ऽल्पे वसनोत्कर्षैः प्राज्ये पाणिविकर्षणैः । BhNZ_12a_142ab
किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ BhNZ_12a_142cd
[ABh]


[(मू)]

1. श्लोकत्रयं भ॰ संज्ञके न दृश्यते ।

[(व्या)]

[page 186]




[NZ]

प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः । BhNZ_12a_143ab
तिर्यक्प्रसारिता चैव ह्रियमाणा स्ववारिणा ॥ BhNZ_12a_143cd
अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । BhNZ_12a_144ab
नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ BhNZ_12a_144cd
अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । BhNZ_12a_145ab
(संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् )॥ BhNZ_12a_145cd
अङ्कुशग्रहणान्नागं प्रग्रहग्रहणाद्रथम् । BhNZ_12a_146ab
खलीनग्रहणादश्वं नावं चैवावरोहणात् ॥ BhNZ_12a_146cd
अश्वयाने गतिः कार्या वैशाखस्थानकेन तु । BhNZ_12a_147ab
तथा चूर्णपदैश्चैव ह्युपर्युपरिपातितैः ॥ BhNZ_12a_147cd
पन्नगानां मतिः कार्या पादैः स्वस्तिकसंस्थितैः । BhNZ_12a_148ab
पार्श्वाक्रान्तक्रमं कृत्वा स्वस्तिकं योजयेत्तथा ॥ BhNZ_12a_148cd
मत्तानां तु गतिः कार्या तरुणे मध्यमे मदे । BhNZ_12a_149ab
वामदक्षिणपादाभ्यां घूर्णमानापसर्पणात् ॥ BhNZ_12a_149cd
2आकाशस्खलितैः प्रायः पादैश्चाप्यनवस्थितैः । BhNZ_12a_150ab
विघूर्णितशरीरा च करैः प्रचलितैस्तथा ॥ BhNZ_12a_150cd
उन्मत्तस्यापि कर्तव्या गतिस्त्वनियमक्रमा । BhNZ_12a_151ab
बहुचारीसमायुक्ता लोकानुकरणाश्रया ॥ BhNZ_12a_151cd
रूक्षस्फुरितकेशस्तु रेणुध्वस्ततनुस्तथा । BhNZ_12a_152ab
अनिमित्तकथनो बहुभाषी विकारवाक् ॥ BhNZ_12a_152cd
प्रगीतहसितश्चापि नानाविकृतभूषणः । BhNZ_12a_153ab
नृत्ते गीते च वाद्ये च भाषणे च सदारतः ॥ BhNZ_12a_153cd
कदाचिद्धावति जवात्कदाचिदवतिष्ठते । BhNZ_12a_154ab
कदाचिदुपविष्टस्तु शयानश्च कदाचन ॥ BhNZ_12a_154cd
नानाचीरधरश्चैव रथ्यास्वनियतालयः । BhNZ_12a_155ab
उन्मत्ताभिनयस्त्वेवं तस्येमां कारयेद्गतिम् ॥ BhNZ_12a_155cd
[ABh]


[(मू)]

1. सार्धं श्लोकचतुष्टयं भ॰संज्ञके न वर्तते

2. म॰ अपकृष्टमदे चैव ।

[(व्या)]

[page 187]




[NZ]

स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् । BhNZ_12a_156ab
कृत्वा चारीं तथोद्बद्धामथ स्वस्तिकमेव च ॥ BhNZ_12a_156cd
अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् । BhNZ_12a_157ab
वक्रं तु भ्रमणं चैव रङ्गकोणेषु योजयेत् ॥ BhNZ_12a_157cd
त्रिकं सललितं कृत्वा लताख्यं हस्तमेव च । BhNZ_12a_158ab
विपर्ययगतैर्हस्तैः पादैर्हंसगतिं व्रजेत् ॥ BhNZ_12a_158cd
सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः । BhNZ_12a_159ab
1या कृता नरसिंहेन विष्णुना प्रभविष्णुना ॥ BhNZ_12a_159cd
आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् । BhNZ_12a_160ab
ऊर्ध्वजानु च विक्षिप्य करमेकं च संस्थितम् ॥ BhNZ_12a_160cd
विलोलितं शिरः कृत्वा चिबुकं बाहुमस्तके । BhNZ_12a_161ab
गन्तव्यं विक्रमैश्चैव पञ्चतालान्तरस्थितैः ॥ BhNZ_12a_161cd
2नियुद्धे संशये चैव रङ्गावतरणे तथा । BhNZ_12a_162ab
सिंहादीनां च योक्तव्या गतिरेषा प्रयोक्तृभिः ॥ BhNZ_12a_162cd
शेषाणामर्थयोगेन स्थानान्यपि तु कारयेत् । BhNZ_12a_163ab
गजवाजिरथादींस्तु चिह्नमात्रेण कारयेत् ॥ BhNZ_12a_163cd
वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । BhNZ_12a_164ab
एवमेताः प्रयोक्तव्या नॄणां तु गतयो बुधैः ॥ BhNZ_12a_164cd
अत्र नाभिहिता यास्तु विज्ञेयाः शास्त्रलोकतः । BhNZ_12a_165ab
3अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ BhNZ_12a_165cd
स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च । BhNZ_12a_166ab
आयतं चावहित्थं च तथाश्वकान्तमेव च ॥ BhNZ_12a_166cd
दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितो ऽपरः । BhNZ_12a_167ab
वामो नतः कटीपार्श्वमायतस्थानके भवेत् ॥ BhNZ_12a_167cd
[ABh]


[(मू)]

1. भ॰ या पुरा च कृतासम्यक्

2. भ॰ संज्ञके नास्ति

3. श्लोकार्धं भ॰संज्ञके न वर्तते ।

[(व्या)]

[page 188]




[NZ]

अथवा ---
1वामः स्वाभाविको यत्र पादो विरचितस्ततः । BhNZ_12a_168ab
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhNZ_12a_168cd
प्रसन्नमाननमुरस्समं यत्र समुन्नतम् । BhNZ_12a_169ab
लतानितम्बगौ हस्तौ ज्ञेयं स्थानं तदायतम् ॥ BhNZ_12a_169cd
रङ्गावतरणारम्भं पुष्पाञ्ज्चलिविसर्जनम् । BhNZ_12a_170ab
मन्मथेर्ष्योद्भवः कोपस्तर्जनाङ्गुलिमोटनम् ॥ BhNZ_12a_170cd
निषेधगर्वगाम्भीर्यमौनमायावलम्बनम् । BhNZ_12a_171ab
स्थाने ऽस्मिन् सन्निधानीयं दिगन्तरनिरूपणम् ॥ BhNZ_12a_171cd
आवाहने विसर्गे च तथा निर्वर्णनेषु च । BhNZ_12a_172ab
चिन्तायामवहित्थे च स्थानमेतत्प्रयोजयेत् ॥ BhNZ_12a_172cd
समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितो ऽपरः । BhNZ_12a_173ab
वामोन्नतं त्रिकं यस्मिन्नवहित्थं तदुच्यते ॥ BhNZ_12a_173cd
स्थानमेतत्तु नारीणां सल्लापे तु स्वभावजे । BhNZ_12a_174ab
निश्चये परितोषे च वितर्के लज्जिते तथा ॥ BhNZ_12a_174cd
एकः समस्थितः पाद एकस्त्वत्र तलाञ्चितः । BhNZ_12a_175ab
सूचीबद्धमविद्धं वा तदश्वकान्तमुच्यते ॥ BhNZ_12a_175cd
2स्खलिते घूर्णिते चैव स्खलिताम्बरधारणे । BhNZ_12a_176ab
चित्रासने सललिते स्थानमेतत्तु रक्षणे ॥ BhNZ_12a_176cd
शाखावलम्बने कार्या स्तबकग्रहणे तथा । BhNZ_12a_177ab
विश्रान्तिषु तथैव स्यात्पादताडन एव च ॥ BhNZ_12a_177cd
3स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते । BhNZ_12a_178ab
भग्नं च स्थानकं नृत्ते (नृत्त)चारीसमन्विताः ॥ BhNZ_12a_178cd
एवं स्थानविधिः कार्यः स्त्रीणां सम्यग्द्विजोत्तमाः । BhNZ_12a_179ab
पुनरासां प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ BhNZ_12a_179cd
[ABh]


[(मू)]

1. श्लोकाश्चत्वारो भ॰ संज्ञकादर्शे न विद्यन्ते

2. भ॰ संज्ञके श्लोको नास्ति

3. अयं श्लोको भ॰ संज्ञके न दृश्यते ।

[(व्या)]

[page 189]




[NZ]

कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् । BhNZ_12a_180ab
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ॥ BhNZ_12a_180cd
ततः सललितं पादं तालमात्रं समुत्थितम् । BhNZ_12a_181ab
दक्षिणं वामपादस्य बाह्ये पार्श्वे विनिक्षिपेत् ॥ BhNZ_12a_181cd
तेनैव समकालं च लताख्यं वामकं भुजम् । BhNZ_12a_182ab
दक्षिणं च नयेत्पार्श्वं न्यसेन्नाभितटे ततः ॥ BhNZ_12a_182cd
नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्या वामकम् । BhNZ_12a_183ab
सतो वामपदं दद्याल्लताहस्तं च दक्षिणम् ॥ BhNZ_12a_183cd
लीलयोद्वाहितेनाथ शिरसानुगतेन च । BhNZ_12a_184ab
किञ्चिन्नतेन चाङ्गेन गच्छेत्पञ्चपदीं ततः ॥ BhNZ_12a_184cd
यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे । BhNZ_12a_185ab
स एव प्रमदानां तु कर्तव्यो नाट्ययोक्तृभिः ॥ BhNZ_12a_185cd
षट्कलं न प्रयोक्तव्यं तथाष्टकलमेव च । BhNZ_12a_186ab
पादस्य पतनं तज्ज्ञैः खेदजं तद्भवेस्त्रियाः ॥ BhNZ_12a_186cd
सयौवनानां नारीणां कार्या त्वेवं गतिर्बुधैः । BhNZ_12a_187ab
स्थानीया या स्त्रियस्तासां संप्रवक्ष्याम्यहं गतीः ॥ BhNZ_12a_187cd
कृत्वावहित्थं स्थानं तु वामं न्यस्य कटीतटे । BhNZ_12a_188ab
आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे ॥ BhNZ_12a_188cd
न निषण्णं न च स्तब्धं न चैव परिवाहितम् । BhNZ_12a_189ab
कृत्वा गात्रं ततो गच्छेत्तेनैवाद्यक्रमेण तु ॥ BhNZ_12a_189cd
प्रेष्याणामपि कर्तव्या गतिर्विभ्रान्तगामिनी । BhNZ_12a_190ab
किंचिदुन्नमितैर्गात्रैराविद्धपदविक्रमा ॥ BhNZ_12a_190cd
स्थानं कृत्वावहित्थं तु वामं चाधोमुखं भुजम् । BhNZ_12a_191ab
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ॥ BhNZ_12a_191cd
अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता । BhNZ_12a_192ab
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः ॥ BhNZ_12a_192cd
या मयाभिहिता पूर्वमुत्तमानां गतिर्बुधाः । BhNZ_12a_193ab
स्त्रीणां कापुरुषाणां च ततो ऽर्धार्धं च कारयेत् ॥ BhNZ_12a_193cd
[ABh]


[(मू)]

[(व्या)]

[page 190]




[NZ]

उत्तमाधममध्यमानां नॄणां यद्गतिचेष्टितम् । BhNZ_12a_194ab
स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः ॥ BhNZ_12a_194cd
बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा । BhNZ_12a_195ab
न तस्यां सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ BhNZ_12a_195cd
1तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसके । BhNZ_12a_196ab
नरस्वभावमुत्सृत्ज्य स्त्रीगतिं तत्र योजयेत् ॥ BhNZ_12a_196cd
विपर्यस्तप्रयोगस्तु पुरुषस्त्रीनपुंसके । BhNZ_12a_197ab
स्वभावमात्मनस्त्यक्त्वा परभावेन योजयेत् ॥ BhNZ_12a_197cd
निजां प्रकृतिमुत्सृज्य क्रीडया वञ्चनेन वा । BhNZ_12a_198ab
स्त्री पुंसः प्रकृतिं कुर्यात्स्त्रीभावं पुरुषो ऽपि वा ॥ BhNZ_12a_198cd
सौष्ठवेनाथ सत्त्वेन बुद्ध्या तद्वच्च कर्मणा । BhNZ_12a_199ab
स्त्री पुमांसं ह्यभिनयेद्वेषवाक्यविचेष्टितैः ॥ BhNZ_12a_199cd
स्त्रीवेषभाषितैर्युक्तं प्रेक्षिताप्रेक्षितस्मितैः । BhNZ_12a_200ab
मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् ॥ BhNZ_12a_200cd
2जातिहीनास्तु या नार्यः पुलिन्द शबराङ्गनाः । BhNZ_12a_201ab
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः ॥ BhNZ_12a_201cd
व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः । BhNZ_12a_202ab
स्वस्थानां चैव नारीणां समपादं प्रयोजयेत् ॥ BhNZ_12a_202cd
उद्धता ये ऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा । BhNZ_12a_203ab
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् ॥ BhNZ_12a_203cd
अथासनविधिः कार्यः स्त्रीणां नॄणां तथैव च । BhNZ_12a_204ab
नानाभावसमायुक्तं तथविa शयनाश्रयः ॥ BhNZ_12a_204cd
3स्वस्थं मन्दालसं क्लान्तं4 स्रस्तालसमथापि च । BhNZ_12a_205ab
5विष्कम्भकमुत्कटिकं मुक्तजानु तथासनम् ॥ BhNZ_12a_205cd
जानूगतं विमुक्तं च स्थानकान्युपवेशने । BhNZ_12a_206ab
लक्षणं पुनरेतेषां विनियोगं च वक्ष्यते ॥ BhNZ_12a_206cd
[ABh]


[(मू)]

1. एकः श्लोकः भ॰मातृकायां न वर्तते

2. श्लोकत्रयं भ॰ संज्ञके न विद्यते

3. श्लोकद्वयं भ॰ मातृकायां नास्ति

4. न॰ कान्तं

5. न॰ विष्कंभितमुत्कृटिकम् ।

[(व्या)]

[page 191]




[NZ]

विष्कम्भेनाञ्चितौ पादौ किञ्चिद्वक्षः समुन्नतम् । BhNZ_12a_207ab
हस्तौ कट्यूरुविन्यस्तौ 1स्वस्थे स्यादुपवेशने ॥ BhNZ_12a_207cd
स्वभावाभिनये चैव तथा स्वस्थोपवेशने । BhNZ_12a_208ab
2आविष्कृतेषु सर्वेषु भावेष्वेतत्प्रयोजयेत् ॥ BhNZ_12a_208cd
3एकः प्रसारितः किंचित्पादो ऽन्यस्त्वासस्नाश्रितः । BhNZ_12a_209ab
4शिरः 5पार्श्वगतं चैव स्थानं मन्दालसं तु तत् ॥ BhNZ_12a_209cd
चिन्तायां च तदौत्सुक्ये निर्वेदे विरहे तथा । BhNZ_12a_210ab
विवादादिषु चाधेयं स्थानमेतत्प्रयोक्तृभिः ॥ BhNZ_12a_210cd
चिबुकापाश्रयौ हस्तौ बाहुश्रीर्षाश्रयं शिरः । BhNZ_12a_211ab
6संप्रनष्टेन्द्रियमना विज्ञेयं 7क्लान्तमासनम् ॥ BhNZ_12a_211cd
8बलेन विगृहीतस्य रिपुणा खण्डितस्य च । BhNZ_12a_212ab
शोकग्लानस्य चौत्सुक्ये स्थानमेतद्विनिर्दिशेत् ॥ BhNZ_12a_212cd
स्रस्तौ हस्तौ विमुक्तौ च शरीरमलसं तथा । BhNZ_12a_213ab
खेदालसं तथा चक्षुर्यत्र स्रस्तालसं तु तत् ॥ BhNZ_12a_213cd
श्रमग्लानौ मदे चैव मूर्च्छायां व्याधितेषु च । BhNZ_12a_214ab
मोहे प्राणभये चैव विषादे चैव तद्भवेत्9 BhNZ_12a_214cd
[ABh]


[(मू)]

1. भ॰ स्वभावापि प्रवेशने (मध्ये लुप्तः स्यात्)

2. म॰ अविकृतेषु

3. न॰ एकः प्रसारितः पादस्त्वन्यश्चैवासनाश्रितः

4. भ॰ ``शिरः पार्श्वगतं चैव चिन्तायुक्तोपवेशने'' --- इति सार्धश्लोकद्वयस्थाने

5. न॰ पार्श्वाननं कार्यं

6.

संप्रनष्टेन्द्रियमना भवेच्छोकोपवेशने ।

प्रसार्य बाहू शिथिलौ तथाचापाश्रयाश्रितः ॥

श्रमग्लानिविषादेषु मदे चोपविशेद्बुधः ।

सर्वैः पिण्डीकृतैरङ्गैः स्रस्ताङ्घ्रिकरजानुकम् ॥

व्याधावार्तौ च निद्रायां ध्याने चोपविशेन्नरः ।

तथा चोत्कटिकं स्थानं पुनः पार्ष्णिसमागमः ॥

पित्रोर्निवापजप्ये च सन्ध्यास्वाचमनेषु च ।

आकुञ्चितः पुनश्चैव जानु भूमौ निपातयेत् ॥

प्रियप्रसादने कार्यं होमादिकरणेषु च ।

इति सार्धश्लोकाष्टकस्थाने भ॰संज्ञके वर्तते ।

7. न॰ कान्तं

8. न॰ छलेनापि

9. न॰ विषादेषूपवेशयेत् ।

[(व्या)]

[page 192]




[NZ]

विष्कम्भादञ्चितौ पादावूरू विष्कम्भितौ भुजौ । BhNZ_12a_215ab
निमीलितं तथा चक्षुः स्थाने विष्कम्भनामनि1 BhNZ_12a_215cd
स्ववक्षोगतया दृष्ट्या योगध्याने विलीयते । BhNZ_12a_216ab
स्वभावसंस्थया चैव नटानामुपगम्यते2 BhNZ_12a_216cd
समौ पादौ समाधाय समं यदुपविश्यते । BhNZ_12a_217ab
अस्पृष्टभूतलं चैव ज्ञेयमुत्कटिकासनम् ॥ BhNZ_12a_217cd
पित्र्ये समाधिजप्ये च होमादिकरणेषु च । BhNZ_12a_218ab
एतत्स्थानं विधातव्यं तथाचमनकर्मणि ॥ BhNZ_12a_218cd
एकं जानु यदास्यैव महीपृष्ठे निधीयते । BhNZ_12a_219ab
मुक्तजानुकमेतद्धि विज्ञेयं ह्यासनं बुधैः ॥ BhNZ_12a_219cd
एतत्कृतव्यलीकानां प्रियाणां संप्रसादने । BhNZ_12a_220ab
मार्जनं कुट्टिमानां च तथाभूम्यनुलेपने ॥ BhNZ_12a_220cd
3महीगताभ्यां जानुभ्यां स्थानं जानूगतं भवेत् । BhNZ_12a_221ab
4देवाभिवन्दने कार्यं रुष्टानां च प्रसादने ॥ BhNZ_12a_221cd
शोके चाक्रन्दने त्रीव्रे 5मृतानां चैव दर्शने । BhNZ_12a_222ab
6संत्रासने कुसत्त्वानां नीचानां चैव याचने ॥ BhNZ_12a_222cd
7भूमौ यदूर्ध्वपतनं तद्विमुक्तमिति स्मृतम् । BhNZ_12a_223ab
प्रहारे तत्प्रयोक्तव्यमावेगे क्रन्दिते तथा ॥ BhNZ_12a_223cd
तथासनविधिः कार्यो विधिवन्नाटकाश्रयः । BhNZ_12a_224ab
स्त्रीणां च पुरुषाणां च बाह्यो ऽथाभ्यन्तरस्तथा ॥ BhNZ_12a_224cd
देवानां नृपतीनां च योज्यं सिंहासनं तथा । BhNZ_12a_225ab
पुरोधःश्रेष्ठ्यमात्यानां भवेद्वेत्रासनं तथा ॥ BhNZ_12a_225cd
मुण्डासनं तु कर्तव्यं सेनानीयुवराजयोः । BhNZ_12a_226ab
काष्ठासनं ब्राह्मणानां कुमाराणां कुथासनम् ॥ BhNZ_12a_226cd
स्थानीया ये तु पुरुषाः कुलविद्याप्रकाशिताः । BhNZ_12a_227ab
तेषामासनसत्कारः कर्तव्यो गुरुपार्थिवैः ॥ BhNZ_12a_227cd
[ABh]


[(मू)]

1. न॰ गामिनि

2. न॰ जटानामुपवेशने

3. भ॰ महीगताभ्यां पादाभ्यामधोमुखमवस्थितम् ।

4. न॰ देवपूजाभिगमने कुपितप्रिययाचने

5. न॰ भूतानां

6. न॰ त्रासने च

7. श्लोको ऽयं भ॰संज्ञके न विद्यते

8. न॰ अथासनविधिः ।

[(व्या)]

[page 193]




[NZ]

समे समासनं चैव मध्ये मध्यं तथासनम् । BhNZ_12a_228ab
अतिरिक्ते ऽतिरिक्तं च हीने भूम्यासनं तथा ॥ BhNZ_12a_228cd
उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो बुधैः । BhNZ_12a_229ab
भूम्यासनं तथा कार्यं काष्ठासनमथापि वा ॥ BhNZ_12a_229cd
नौनागरथभूमीषु तथा काष्ठासनेषु च । BhNZ_12a_230ab
सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ BhNZ_12a_230cd
एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । BhNZ_12a_231ab
प्रकृतीनां तु सर्वासां तथा ज्ञानसमुत्थितम् ॥ BhNZ_12a_231cd
पुरुषाणां भवेदेव विधिरासनसंश्रयः । BhNZ_12a_232ab
स्त्रीणां चैवासनविधिं संप्रवक्ष्याम्यतः परम् ॥ BhNZ_12a_232cd
सिंहासनं महादेव्या राज्ञीनां मुण्डमासनम् । BhNZ_12a_233ab
पुरोधो ऽमात्यपत्नीनां भवेद्वेत्रासनं तथा ॥ BhNZ_12a_233cd
भगिनीनां तु कर्तव्यं वस्त्रचर्मकुथापि वा । BhNZ_12a_234ab
1ब्राह्मणीनां तापसीनां पट्टासनमथापि च ॥ BhNZ_12a_234cd
वेश्यानामपि कर्तव्यमासनं हि मसूरकम् । BhNZ_12a_235ab
शेषाणां प्रमदानां तु भवेद्भूम्यासनं बुधाः ॥ BhNZ_12a_235cd
एवमन्तःपुरे ज्ञेयो बाह्यश्चासनतो विधिः । BhNZ_12a_236ab
तथा स्वगृहवार्तासु छन्देनासनमिष्यते ॥ BhNZ_12a_236cd
नियमस्थो मुनीनां तु भवेदासनतो विधिः । BhNZ_12a_237ab
लिङ्गिनां चासनविधिः कार्यो व्रतसमाश्रयः ॥ BhNZ_12a_237cd
2ब्रुसीमुण्डासनप्रायं वेत्रासनमथापि च । BhNZ_12a_238ab
होमयज्ञक्रियायां च पित्र्यर्थे च प्रयोजयेत् ॥ BhNZ_12a_238cd
आकुञ्चितं समं चैव प्रसारितविविवर्तिते । BhNZ_12a_239ab
उद्वाहितं नतं षोढा शय्यास्थानानि निर्दिशेत् ॥ BhNZ_12a_239cd
2सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । BhNZ_12a_240ab
स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ BhNZ_12a_240cd
[ABh]


[(मू)]

1. भ॰ एकः श्लोको भ॰संज्ञके नास्ति

2. श्लोकाः षट् भ॰ संज्ञायां मातृकायां न वर्तन्ते ।

[(व्या)]

[page 194]




[NZ]

उत्तानितमुखं चैव प्रत्यङ्युक्तकरं तथा । BhNZ_12a_241ab
समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ BhNZ_12a_241cd
एकं भुजमुपाधाय संप्रसारितजानुकम् । BhNZ_12a_242ab
स्थानं प्रसारितं नाम सुखमुप्तस्य कारयेत् ॥ BhNZ_12a_242cd
अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । BhNZ_12a_243ab
शस्त्रक्षतभृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ BhNZ_12a_243cd
हस्तोपरि शिरः कृत्वा कूर्पारक्षोभमेव च । BhNZ_12a_244ab
उद्वाहितं तु विज्ञेयं लीलयाविशने विभोः ॥ BhNZ_12a_244cd
ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ कारावुभौ । BhNZ_12a_245ab
आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ BhNZ_12a_245cd
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । BhNZ_12a_246ab
त्र्यश्रे त्रिकोणश्चतुरश्रके वा समैर्गतैरर्थवशेन नित्यम् ॥ BhNZ_12a_246cd
वयो ऽनुरूपः प्रथमस्तु वेषो वेषानुरूपेण गतिप्रचारः । BhNZ_12a_247ab
गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपो ऽभिनयश्च कार्यः ॥ BhNZ_12a_247cd
गतिप्रचारस्तु मयोदितो ऽयं नोक्तस्तु यः सो ऽर्थवशेन साध्यः । BhNZ_12a_248ab
अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यानुगतं विभागम् ॥ BhNZ_12a_248cd


इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशो ऽध्यायः ।
[ABh]


[(मू)]

[(व्या)]

[page 195]




[NZ]

श्रीः
नाट्यशास्त्रम्
त्रयोदशो ऽध्यायः †

ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । BhNZ_13_001ab
तेषां विभागं विज्ञाय ततः (*)कक्ष्यां प्रयोजयेत् ॥ BhNZ_13_001cd
[ABh]

देहस्तु(स्य?) बाह्यान्तरभेदिकक्ष्याविभागधर्मीविविधां प्रवृत्तिम् ।
आसूत्रयन्दोषविशुद्धिदक्ष‡क्रमोऽर्कदृष्टिर्जयताद्वृषाङ्कः ॥
इहाभिनयानन्तरं यद्यपि सर्वा वृत्तिप्रवृत्तय उद्दिष्टाः सर्वान्ते च रङ्गे (36) सूचिता कक्ष्या(1), तच्चतुर्विधाभिनयाभिधानानन्तरमेतदध्यायार्थो वक्तव्यः । तथापि प्रत्यभिनयमियतीतिकर्तव्यतोपयुज्यते । तदभिधानं विना-(ना-)ङ्गिकमेवोक्तं(2) स्यादिति वक्तव्यम् । (3)तदुद्देशे तु सामान्यशब्दत्वान्नास्ति प्रत्येकमुद्देशने (4)गतिः । तथोद्देशने ऽपि च गौरवं स्यात् । अत एवंवादिना(5) कक्ष्यादेरपृथग्भावे यो हेतुरुक्तः (6)क्रमोल्लङ्घनादिति तस्यासिद्धत्वं विरुद्धता च, प्रत्युत प्रत्येकप्रसङ्गत्वलाभात् क्रमस्यापदार्थत्वान्नार्थप्रमाणकत्वान्मुख्यश्रौतपदार्थबाधकत्वमयुक्तं, श्रुत्या वाक्यप्रमाणस्य बाधनादिति तु भट्टलोल्लटोक्तं प्रकृते सिध्यति विरोधाभावात्, क्रमस्य च मध्यत्वात् गतिरूपप्रयोगहेतुत्वात्,

[(मू)]

ख॰ ख॰ च॰ भ॰ म॰ संज्ञेषु विना सर्वेष्वादर्शेषु `चतुर्दशो ऽध्यायः' इति वरतते । कक्षाशब्दः

* क॰ ख॰ च॰ द॰ संज्ञेषु मात्र एव लिखितो ऽपि, कक्ष्येति यान्तेषु विश्वप्रकाशामरहैमादिषु पठितत्वात् तद्रूपमेव गृहीतम् । अभिनवभारत्यादर्शयोरपि तदेव भाति ॥

क्रमशब्देन पादः स्थानकभेदश्च सूचितः । पादस्तु षट्त्रिंशत्त्वमध्ये त्रयोदशतत्त्वम् । स्थानकं तु गतिप्रधानत्वात्कक्ष्यायां विनियुक्तम् ।*. षष्ठे ऽध्याये दशमश्लोके उपादेयांशा उद्दिष्टाः तत्र कक्ष्या न दृश्यते ।

[(व्या)]

1. क॰ सूचिताकक्ष्या, ख॰ सूचिताः कार्याः

2. ख॰ उक्ता

3. क॰ ख॰ तद्देशे

4. ख॰ हतिः

5. क॰ एव वादिना, ख॰ एवोपादिना

6. क॰ योगेत्युक्तः ।

[page 196]




[NZ]

1ये 2नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते3 BhNZ_13_002ab
4तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ BhNZ_13_002cd
5कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । BhNZ_13_003ab
[ABh]

अतस्तदवसर एवाभिधानं युक्तम् । (1)तद्द्वारेणाभिनयाङ्गतामगात् । (2)तद्देशत्रयं (3)वक्तृत्रयं वक्तव्यम् । तत्र प्रथमं कक्ष्याभिधाने ऽयमभिप्रायः इह(4) गतिर्गन्तव्यदेशाश्रयात्, देशश्च(5) जलस्थलादि(6)बहुतरसमविषमादिस्वभेदसहितं काव्यार्थतामात्रेणैवेह संभवन्नपि प्रयोगस्थाने न संभवत्येवेति, तस्य परिहारार्थं (7)कक्ष्यानिरूपणं कर्तव्यम् । अत एव पूर्वाध्यायान्त उक्तं परिक्रमे गतावुपयोगिनं स्थानविशेषाणां सम्यग्विभागं वक्ष्यामीति । सेयमध्यायसंगतिस्तां दर्श(8)यितुमाह ये तु पूर्वमिति । तुशब्दाद्दूरत्वं पर्वतायाः सूचयन् द्वितीयाध्यायार्थं स्मारयति तेषामिति प्रत्येकमित्यभिप्रायः । मण्डपस्य यो विशिष्टो भागे ऽन्तरङ्गपीठात्मकस्तं विज्ञाय विभागतो ज्ञात्वा कक्ष्यागत्युपयोगिनं स्थानविशेषं प्रयोजयेत्, विभागेन संबन्धं नयेत् । नाट्यदेशानुसारेण (9)प्रकोष्ठे त्यक्ते यो देशो ऽवशेष्यते तत्रैव चातुरश्रीयम् । अत एव वामदक्षिणभागयोः कुतपविन्यासः शिष्टे(10) कक्ष्याविभागः ।
रङ्गस्य (11)को विभाग इत्याह ये नेपथ्यगृहद्वार इत्यादि । (पूर्वमिति)द्वितीयाध्याये प्रकीर्तिते भाण्डस्य (12)ततातोद्यसहितस्य त्रिपुष्करस्य । ततः किमित्याह कक्ष्याविभाग इति । तेन भाण्डेन(13) यत्परित आक्रान्तं तद्विवर्ज्य(14) शेषे रङ्गपीठदेशे निष्क्रमणप्रवेशगत्याद्युपयोगी स्थानविभागो निर्देश्यः प्रेक्षकावधिः

[(मू)]

1. भ॰म॰ नैपथ्यरङ्गभूमौ तु यौ विभागौ प्रकीर्तितौ

2. ढ॰ नैपथ्य

3. न॰ प्रकीर्तिताः

4. न॰ तेषां

5. भ॰ म॰ कक्ष्याविभागौ निर्देश्यौ रङ्गपीठपरिक्रमैः ।

[(व्या)]

1. ख॰ तद्द्वारे ऽभिनयाङ्ग

2. क॰ तद्देह

3. ख॰ वस्तु

4. क॰ अतिप्रायन्तु वा

5. क॰ देशाश्रयात्मदेशश्च

6. क॰ स्थलानि

7. क॰ कक्ष्यादिरूपणं

8. क॰ संगतिम्

9. क॰ च दोषे त्यक्तो वा विशिष्यते

10. क॰ श्लिष्टे

11. क॰ कोऽपि

12. क॰ ने पक्षातोन्य

13. क॰ दण्डेन

14. क॰ विभज्य ।

[page 197]




[NZ]

1परिक्रमेण रङ्गस्य 2ह्यन्या कक्ष्या भवेदिह ॥ BhNZ_13_003cd
कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च3 BhNZ_13_004ab
उद्यानाराम4सरितस्त्वाश्रमा 5अटवी तथा ॥ BhNZ_13_004cd
6पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । BhNZ_13_005ab
7वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा8 BhNZ_13_005cd
9अलोकश्चैव लोकश्च रसातलमथापि च । BhNZ_13_006ab
10दैत्यनागालयाश्चैव गृहाणि11 भवनानि च12 BhNZ_13_006cd
[ABh]

संक्रमयितन्यः । ननु (1)कः स्थानविभागः आह --- परिक्रमेणेति । परिक्रामन्त्यनेनेति परिक्रामः चार्यादिसंनिवेशः तद्वशादेकस्यापि रङ्गदेशस्य स्थानभेदनापत्यागः(2), यथा --- ``आरोढुमुद्वहेद्गात्रं'', ``अतिक्रान्तेन पादेन''(12-102) इत्यादिना विशेषे तु प्रासादपर्वतादिरूपत्वमस्यैव । ननु भाण्डवाद्यविनिर्मुक्ते रङ्गपीठदेशे क्रमविशेषस्थनभेद कॢप्तिः । (3)तन्नेत्याह कक्ष्याविभाग इत्यादिविशिष्टे शिष्टे देशे स्थानान्तराणि कल्पनीयानि तानि कविजनस्मरणार्थमुपलक्षणत्वेन पठन्ति । (4)गृहादीनि पृथिवीस्वर्गपातालभेदात्पुनरुदाहृतानि सर्वसंग्रहाय त्रैलोक्यमित्युक्ते ऽपि स्मरणार्थं (5)वर्णनोद्देशः ।
ननु सर्वत्र प्रयोगे सर्वे त्रैलोक्यवर्तिनः स्थानभेदात्किं संभाविनः(6), नेति दर्शयति नगरे वेत्यादि । निपातैरनुक्ता अटव्यादयः साक्षात्(7) । तथा

[(मू)]

1. ट॰ परिक्रमे च

2. ड॰ कक्ष्या ह्यन्या विधीयते, द॰ अन्यकक्ष्या भवेद्यतः, भ॰म॰ कक्ष्यान्या त्वभिधीयते

3. म॰ नगराणि गृहाणि च

4. ड॰ सहितो देशो ग्रामो ऽटवी तथा, ट॰ सरित आश्रमा वलभीस्तथा

5. म॰भ॰ वलभीः

6. भ॰म॰योरस्य श्लोकस्य पूर्वोत्तरार्धे विपर्यस्ते । पाठस्तु --- सागरा च पृथिवी तथा त्रैलोक्यमेव च । द्वीपाः सप्ताथ वर्षाणि

7. प॰ द्वीपाश्च सप्तवर्षाणि

8. द॰ चतुर्थश्लोकानन्तरं ``परिक्रमेण रङ्गस्य तथैवार्थवशेन च'' इति श्लोकार्धं दृश्यते

9. द॰ सार्धं श्लोकद्वयं न वर्तते

10. ड॰ दैत्यानामालयश्चैव

11. ड॰ भुवनानि

12. भ॰म॰योः --- भवनानि च । परिक्रमेण रङ्गस्य तथैवार्थवशेन च । बाह्यं वा --- इत्यादि ।

[(व्या)]

1. क॰ क्रमस्थान

2. क॰ भेदं नापस्यागसह

3. क॰ तानेत्याह

4. क॰ गृह्यादीनि

5. ख॰ स्मरणोद्देशः, क॰ वचनेनोद्देशः

6. क॰ स्वभाविनः

7. क॰ अटव्यानयसाक्तात् ।

[page 198]




[NZ]

1नगरे वा वने वापि वर्षे वा 2पर्वते ऽपि वा3 BhNZ_13_007ab
यत्र वार्ता प्रवर्तेत4 तत्र कक्ष्यां प्रयोजयेत् ॥ BhNZ_13_007cd
5बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । BhNZ_13_008ab
दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत्6 BhNZ_13_008cd
7पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्ते ऽभ्यन्तरा बुधैः8 BhNZ_13_009ab
पश्चात्प्रविष्टा विज्ञेया9 कक्ष्याभागे तु बाह्यतः10 BhNZ_13_009cd
तेषां तु दर्शनेच्छुर्यः11 प्रविशेद्रङ्गमण्डलम् । BhNZ_13_010ab
दक्षिणाभिमुखः 12सो ऽथ कुर्यादात्मनिवेदनम् ॥ BhNZ_13_010cd
[ABh]

वीप्साद्योते । यत्र यत्र वार्ता वृत्तान्त इतिवृत्तबलायातः प्रकर्षेण वर्तेत तत्र मध्ये यो देशविभागस्तमेव प्रवर्तयेत् रङ्गपीठे दर्शयेत् न सर्वमित्यर्थः, विशिष्टे देश इत्युक्तं न रङ्गपीठस्य । विशेषं दर्शयति बाह्येचेत्यादि । भागत्रितये सति कस्मिंश्चिद्भागे देशादि कल्पयित्वा तत्रैव दूरादिभेदं परिकल्पयेत्, भूयस्त्वाल्पत्वादिभिन्नेन परिक्रमेण कल्पयेदित्यर्थः । बाह्यादिभेदं निरूपयति पूर्वप्रविष्टा इति पूर्वभूताः प्रधानभूताः सन्तः पूर्वं ये प्रविष्टास्ते, अभ्यन्तरा इति अधिष्ठितो देशविशेषो ऽभ्यन्तरकक्ष्या प्रधानभूतस्तु पूर्वप्रविष्टो ऽपि प्रधाने प्रविशति स्वकक्ष्यान्त्य इत्येव । पश्चात्प्रविष्टानां तु स्थानं बाह्यकक्ष्या । ते तु येन स्थानविशेषेण प्राक्प्रविष्टमुपसर्पयन्ति सदेशो मध्यमा कक्ष्या । एतदुक्तं भवति पूर्वप्रविष्टस्य स्वस्थान एवेतिवृत्तोचितगृहोद्यानादिविभागः पश्चात्प्रविष्टस्यापि पूर्वप्रविष्टेन सह (1)यावन्न च संमिलनं तावत्प्रेक्षायामेव मध्यमकक्ष्यायां तु गतिपरिक्रमादिः तत्संमेलनार्थं संमिलितानां तु कक्ष्याविभागो विच्छिद्यत इति संमेलनं इतिकर्तव्यतामाह तेषां त्विति पूर्वप्रविष्टां, कर्मणि षष्ठी ।

[(मू)]

1. ड॰ तथा सप्तसमुद्राश्च वर्षावै पर्वतास्तथा

2. ट॰ वै

3. ट॰ तथा

4. ढ॰ वार्ताः प्रवर्तन्ते

5. प॰ बाह्यं च । इदं श्लोकार्धं भ॰मातृकायां नास्ति

6. भ॰ समुपपादयेत्, द॰ समुपलक्षयेत्

7. द॰न॰योः सप्त श्लोकाः ``एवं तु भारते वर्षे'' इति श्लोकात्पूर्वमेव निवेशिताः

8. न॰ ते ऽभ्यन्तरस्थिताः

9. द॰ ज्ञेयाश्च

10. च॰ मध्यतः

11. द॰ दर्शनस्पर्शे

12. न॰ सो वै ।

[(व्या)]

1. यानं संमीलनम् ।

[page 199]




[NZ]

1यतो मुखं भवेद्भाण्डद्वारं नेपथ्यकस्य च2 BhNZ_13_011ab
3सा मन्तव्या तु दिक्पूर्वा नाट्ययोगेन4 नित्यशः ॥ BhNZ_13_011cd
5निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । BhNZ_13_012ab
यतस्तस्य 6कृतं तेन पुरुषेण निवेदनम् ॥ BhNZ_13_012cd
1[निष्क्रान्तो ऽर्थवशाच्चापि8 9प्रविशेद्यदि तद्गृहम् । BhNZ_13_013ab
10यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत्11 BhNZ_13_013cd
12अथवार्थवशाच्चापि तेनैव सह गच्छति । BhNZ_13_014ab
तथैव प्रविशेद्रङ्ग13मेकाकी सहितो ऽपि वा ॥ BhNZ_13_014cd
[ABh]

पूर्वप्रविष्टस्य यो दक्षिणो भागस्तं वीक्ष्यमाणः स्थितो यथा प्रेक्षकस्य यः पराङ्मुखीभवतीत्यर्थः एषां प्रवृत्तये दाक्षिणात्यादिके क्रमः एतद्विपरीतमन्यत्र । प्रवृत्त्यवयवोद्भाविनं क्रममथशब्देन सूचयति । तेनेदमाह (प्रा)धान्येनोत्तराभिमुख्यं दक्षिणस्यामात्मनिवेदनं यथावदितिवृत्तवशात्तादृङ्निबन्ध्यते । यः पूर्वप्रविष्टैः सह संमिलितस्य सर्वबाह्यकक्ष्यायामेवेति तु शब्दस्यार्थः । का खल्विह दक्षिणा दिगित्याह यतोमुखमिति समासः यदपेक्षं भाण्डस्य मुखं सा दिक् पूर्वा । ननु भाण्डस्य मुखं दुर्मानमित्याह द्वारमिति । नेपथ्यग्रहणे गृहस्य यन्मुखद्वारं, भाण्डोपादानं तु तस्य प्रतियोजने पूर्वतां प्रकटयति प्राधान्यज्ञापनेन । तेनैवेति पूर्वप्रविष्टपात्रान्तर(1)योगेनेत्यर्थः ।

[(मू)]

1. अयं श्लोको ऽग्रे सुकुमाराविद्धगतिलक्षणानन्तरमेव ज॰आदिब॰अन्तेषु, भ॰ म॰ योरध्यायान्ते च वर्तते ।

2. ट॰ तु म॰ नेपथ्यमेव

3. भ॰ पूर्वादिदिक्षु विज्ञेयं प्रयोगे नाट्यसंश्रये । एवं कक्ष्याविभाग इत्यादि ।

4. ज॰ योगेषु, ट॰ योगे तु

5. ड॰ निष्क्रामेच्चापि यस्तत्र नरः कार्येण केनचित् । सनिष्क्रामेत्तु तेनैव कृतं येन निवेशनम्

6. द॰ कृते तेन पुरुषेण

7. पञ्चश्लोकाः क॰आदिच॰अन्तेष्वेव न विद्यन्ते प्रक्षिप्ता अपि तदन्येषु बहुपाठविपर्ययेण दृश्यन्ते ।

8. न॰ वशाद्वापि

9. न॰ न विशेत्, द॰ निवेशेदत्र तद्गृहम्, ट॰ न विशेद्यदि तं गृहम्

10. ज॰ प्राप्तः स पुरुषो येन

11. न॰ स तेनैव यथा व्रजेत्

12. ट॰ यदप्यर्थवशाच्चैव

13. ट॰ विशेद्गेहं

14. न॰ तयोश्चैव

15. न॰ काष्ठाम्

[(व्या)]

1. भोगेन ।

[page 200]




[NZ]

1तयोश्चापि प्रविशतोः 2कक्ष्यामन्यां विनिर्दिशेत् । BhNZ_13_015ab
परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ BhNZ_13_015cd
समैश्च सहितो गच्छेन्नीचैश्च परिवारितः । BhNZ_13_016ab
अथ 3प्रेषणिकाश्चापि निर्देश्या ह्यग्रतो गतौ4 ॥ ] BhNZ_13_016cd
सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः5 BhNZ_13_017ab
6मध्या वा संनिकृष्टा वा तेषामेवं विकल्पयेत्7 BhNZ_13_017cd
नगरे वा वने वापि पर्वते सागरे ऽपि वा । BhNZ_13_018ab
दिव्यानां गमनं कार्यं वर्षे द्वीपे ऽपि वा पुनः8 BhNZ_13_018cd
आकाशेन विमानेन माययाप्यथवा पुनः । BhNZ_13_019ab
विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः9 BhNZ_13_019cd
नाटके च्छन्नवेषाणां दिव्यानां भूमिसंचरः । BhNZ_13_020ab
[ABh]

एवं बाह्ये वा मध्यमे वापि तथैवाभ्यन्तर इति (1)विकृष्टं दूरमित्यादि विभजति सैव भूमिरिति विकल्पानां (2)मध्याल्पत्वरचनादिश्च न केवलमल्पत्वबहुत्वकृतमेव । परिक्रमवैचित्र्यं यावदन्यदपीति दर्शयति नगरे वेत्यादिना प्रयोगत इत्यन्तेन । प्रयोगो नाट्ये । दिव्यानां देवयोनीनां पिशाचादिब्रह्मान्तानां यन्नगरादिद्वीपादिविषयागमनं तदाकाशेनैव विमानगामिना विमानेन मायया वा अदर्शरूपया अन्याभिर्वा बलादाहरणादिक्रियाभिर्विविधप्रयोजनाभिः कार्यमिति संबन्धः । न च दिव्यनामेष एव प्रकारः किं तु अन्यो ऽप्यस्तीत्याह नाटक इति । (4)वेषशब्देन न चापादभूतलं वपुर्लक्ष्यते । तेन वरप्रदानाद्यनुग्रहनिमित्ताच्छन्नस्वरूपाणां देवानां मानुषैर्दर्शनं भवति, तदा

[(मू)]

1. न तयोश्चैव

2. न॰ काष्ठां

3. ड॰ प्रेक्षाणिकाः, द॰ प्रेषणकाः, न॰ प्रेषिणिकाः

4. भ॰ बहुभिर्गतैरन्याभिधीयते

5. इदं श्लोकार्धं भ॰म॰योर्न दृश्यते

6. च॰ विकल्पनात्

7. न॰ द्वीपवर्षेषु वा पुनः, प॰ वर्षाद्वीपेषु वा पुनः

8. न॰ प्रयोक्तृभिः ।

[(व्या)]

1. क॰ विभदूर

2. क॰ अत्यल्प

3. ख॰ प्रयोगः

4. क॰ विशेष ।

[page 201]




[NZ]

1मानुषैः कारणादेषां2 यदा भवति दर्शनम् ॥ BhNZ_13_020cd
[3भारते ऽप्यथ हैमे वा हरिवर्ष इलावृते । BhNZ_13_021ab
4रम्ये किंपुरुषे वापि कुरुषूत्तरकेषु वा ॥ ] BhNZ_13_021cd
दिव्यानां छन्दगमनं 5सर्ववर्षेषु कीर्तितम्6 BhNZ_13_022ab
भारते मानुषाणां तु7 गमनं संविधीयते ॥ BhNZ_13_022cd
[8विकृष्टं यस्तु 9गच्छेद्धि देशं कार्यवशान्नरः । BhNZ_13_023ab
10अङ्कच्छेदे तमन्यस्मिन्निर्दिशेद्धि प्रवेशके ॥ BhNZ_13_023cd
11अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेत् । BhNZ_13_024ab
12तथालाभे तु कार्ये ऽस्या अङ्कच्छेदो विधीयते ॥ BhNZ_13_024cd
क्षणो मुहूर्तो यामो वा दिवसो वापि नाटके13 BhNZ_13_025ab
14एकाङ्के संविधातव्यो बीजस्यार्थवशानुगः15 BhNZ_13_025cd
16अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । BhNZ_13_026ab
[ABh]

नाटके प्रयोगे तेषामपि भूमिसंचरः, संचरत्यस्मिन् भूमिरेव सञ्चरः । अयं तु देवेषु सामान्यकल्प इत्याह दिव्यानामिति । पुराणेषु त्वयं सामान्यविधिरित्याह भारत इति न त्विलावृत्तादावित्यर्थः । वर्षं प्रचारार्थमाह

[(मू)]

1. द॰ श्लोकार्धं न विद्यते

2. न॰ कारणैरेषां

3. ड॰ भारते त्वथ

4. भ॰ नीले, न॰ मातृकायां सार्धश्लोको न वर्तते

5. ड॰ वर्षेष्वेतेषु कारयेत्

6. ट॰ कारयेत्

7. ट॰ च

8. पञ्च श्लोकाः क॰आदि च॰ अन्तेषु विना सर्वेषु दृश्यन्ते चैषां संवादिन्यः कारिका दशरूपाध्याये व्याख्याता वृत्तिकारेण

9. ड॰ गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः, ढ॰ गच्छेद्यदि विकृष्टं तु देशं कालवशान्नरः

10. ज॰ अङ्कच्छेदेन चान्यस्मिन्निर्दिशेत्तं प्रवेशके, ड॰ अङ्कच्छेदेन चान्यस्मिन्

11. ड॰ अध्वप्रमाणं, ज॰ अङ्कप्रमाणं

12. न॰ तथा लाभेषु कार्यं स्यात्, म॰ तथालाभे तु कार्यं स्यात्, ज॰ तथालाभे तु कार्यस्य अङ्क

13. ज॰ मध्याह्ना दिवसो ऽपि वा

14. ज॰ अङ्के ऽङ्के

15. म॰ त्वर्थवजिवशानुगः

16. ज॰ अङ्कच्छेदं पुनर्वृत्तम् ।

[(व्या)]

[page 202]




[NZ]

नोर्ध्वं 1वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ BhNZ_13_026cd
एवं तु भारते वर्षे 2कक्ष्याः कार्याः प्रयोगतः । BhNZ_13_027ab
मानुषाणां 3गतिर्या तु दिव्यानां तु4 निबोधत ॥ ] BhNZ_13_027cd
हिमवत्पृष्ठसंस्थे तु5 कैलासे पर्वतोत्तमे6 BhNZ_13_028ab
यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ BhNZ_13_028cd
7रक्षोभूतपिशाचाश् च सर्वे हैमवताः 8स्मृताः । BhNZ_13_029ab
हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः9 BhNZ_13_029cd
सर्वे नागाश्च10 निषधे 11शेषवासुकितक्षकाः । BhNZ_13_030ab
12महामेरौ त्रयस्त्रिंशज्ज्ञेया देवगणा 13बुधैः ॥ BhNZ_13_030cd
नीले तु वैडूर्यमये सिद्धा 14ब्रह्मर्षयस्तथा । BhNZ_13_031ab
दैत्यानां दानवानां च श्वेतपर्वत उच्यते15 BhNZ_13_031cd
पितरश् चापि विज्ञेयाः 16शृङ्गवन्तं समाश्रिताः । BhNZ_13_032ab
इत्येते 17पर्वताः श्रेष्ठा 18दिव्यावासा भवन्ति हि ॥ BhNZ_13_032cd
[ABh]

हैमवता इति हिमवति बाहुल्येनैषां गतिरित्यर्थः, एवं सर्वत्र । नील इति अद्रिविशेषे, तस्यैव विशेषणं वैडूर्यमये, एतच्च कवेः (1)शिक्षार्थम् । दिव्यानां पिशाचादिब्रह्मान्तानामावासः ।

[(मू)]

1. ज॰ वर्षात्तु

2. ड॰ कक्ष्या कार्या प्रयोक्तृभिः

3. ड॰ गतौ येषां, ज॰ गतिर्ह्येषां, द॰ गतार्थांस्तु, ट॰ गतिर्ज्ञेया

4. न॰ तां

5. न॰ पार्श्वे तु

6. प॰ पर्वतोत्तरे

7. ट॰ रक्षःपिशाचा भूताश्च, ज॰ रक्षःपिशाचभूताश्च

8. ज॰ हैमवते

9. ट॰ विज्ञेयाप्सरसांगणाः

10. ट॰ नागास्तु

11. म॰ शेषप्रभृतयः स्मृताः

12. म॰ तथा मेरौ

13. ट॰ द्विजाः

14. ज देवर्षयः

15. ड॰ इष्यते

16. म॰ शृङ्गवद्गिरिवासिनः

17. ड॰ पर्वत

18. म॰ दिव्यवासाः प्रकीर्तिताः ।

[(व्या)]

1. क॰ दीक्षार्थम् ।

[page 203]




[NZ]

तेषां कक्ष्याविभागश्च1 जम्बूद्वीपे भवेदयम् । BhNZ_13_033ab
2तेषां न चेष्ठितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ BhNZ_13_033cd
3परिच्छेदविशेषस्तु तेषां मानुषलोकवत् । BhNZ_13_034ab
4सर्वे भावास्तु देवानां कार्या मानुषसंश्रयाः ॥ BhNZ_13_034cd
5तेषां त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । BhNZ_13_035ab
इह6 भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः ॥ BhNZ_13_035cd
दृष्ट्या हि सूचितो भावः7 पश्चादङ्गैर्विभाव्यते8 BhNZ_13_036ab
[ABh]

ननु (1)वर्षान्तरेषु दिव्यपर्वतेषु यदुचितं गमनं तत्कर्तुं शक्यमित्याह तेषामिति । चकार इहार्थे जम्बूद्वीप इव दिव्यानामपि कक्ष्याविभागस्थानविशेषोपलक्षिता गतिरित्यर्थः । एतत् स्फुटयति न तेषामिति । परिच्छेदविशेषश्च तदीयः परिचारः स्वाभितो न कार्य इत्यर्थः, परिच्छेदो वा ज्ञानं तद्दूरव्यवहितादिविषयं न प्रदर्शनीयम् । कथं तर्हि, आह, मानुषगत एवैषां सर्वे भावः कार्यः, कथं, मानुषलोकवत् यथामानुषलोके अंशावतरणे नायकानां रामादीनां किंचिदुत्कृष्टं सातिशयं मानुषोचितमेव चरितं तथैव दिव्यभावबहुवृत्तीनामपीत्यर्थः । न निमेषतीत्यनिमिषं रूपं तेषां नैव कार्यम् । तुरवधारणे । अत्र हेतुरिहेति । भावा व्यभिचारिणो, रसाः स्थायिनो दृष्टावेवेति स्पष्टयति दृष्ट्यामिति । सूचितः सूचाभिनय एव विभाव्यते विभावादिशेषयुक्तत्वे स्फुटीभवतीत्यर्थः । अत एव न तेषां चेष्टितमित्यनेन साध्यो ऽप्ययमर्थः पुनरुपात्तः प्राधान्यात् ।

[(मू)]

1. प॰ विभागस्तु

2. ट॰ एतेषां, ज॰ तेषां तु, न॰ तेषां च

3. ड॰ परिच्छेद

4. ड॰ सर्वे भावाश्च , म॰ सर्वो भावश्च दिव्यानां कार्यो मानुषसंश्रयः

5. भ॰ अनिमेषस्तु यस्तेषां स न कार्यः

6. ड॰ भावरसाश्चैव दृष्टावेव

7. ड॰ पुनः

8. अतः परं, भ॰मातृकायां धर्मीलक्षणमुक्तं तदनन्तरमेव प्रवृत्तीनाम् । एष क्रम एव षष्टाध्यायोक्त(6-20) संग्रहश्लोकानुसारीति कीर्तिधराप्रभृतिभिः स्वीकृतः ।

[(व्या)]

1. क॰ द्वीपान्तरेषु ।

[page 204]




[NZ]

[एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः । BhNZ_13_036cd
पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनां तु लक्षणम् ॥ 36॥ ] BhNZ_13_036ef
चतुर्विधाः प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोक्तृभिः1 BhNZ_13_037ab
आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी2 BhNZ_13_037cd
(3)अत्राह --- प्रवृत्तिर् इति कस्मात् ? (4)उच्यते --- (5)पृथिव्यां नाना(6)देशवेषभाषाचारा वार्ताः ख्यापयतीति(7) वृत्तिः प्रवृत्तिश्च निवेदने(8) । अत्राह --- यथा पृथिव्यां (9)नानादेशाः
[ABh]

एवं सर्वोपकारित्वादुद्देशस्य संग्रहे सर्वं पश्चादभिधानं तेनैवं न यद्यपि कक्ष्याविभागः सूचितस्तथापि चारीपरिक्रमप्रसङ्गेन गत्यध्यायानन्तरं दर्शितः । इदानीं त्वाङ्गिकोपयोगिधर्म्यादित्रयमुद्दिष्टं, तत्र वृत्तीनामग्रतो निरूपणं भविष्यति, तत्र च हेतुः वृत्त्यध्याय (अ 20) एव वक्ष्यामः । यद्यपि धर्मः पूर्वमुद्दिष्टस्तथापि `यत्र वार्ता प्रवर्तत' इत्यनेन कक्षाविभागकल्पितदेशभेदाभिधानप्रसङ्गेन च देशविभागप्रतिपन्नाः प्रवृत्तय आक्षिप्ताः किं च पात्रस्य सति प्रवेशे कक्ष्याविभाग उत्तरद्वारेण दाक्षिणात्यावन्त्योः प्रवेशो, अन्ययोस्तु सव्येनेत्येवं प्रवृत्तिविभागं प्रवेशकभेदमाक्षिपति । सोऽपि तत्स्थानेनेदमिति तदुपयोगित्वेनापि समनन्तरं प्रवृत्तयो वक्तव्या इति मनसि कृत्वाह चतुर्विधेति । प्रवृत्तिः तस्मादित्यर्थः । प्रश्ना इति कस्मादिति चतुष्क्रमप्रश्नः अर्थं तावदाह पृथिव्यामिति प्रवृत्तिः देशविशेषगता वेषभाषासमाचारवैचित्र्यप्रसिद्धिरुच्यते । तत्रैवं योजना --- देशे देशे येष्वेव वेषादयो नैपथ्यं भाषा वा आचारो लोकशास्त्रव्यवहारः वार्ता कृषिपाशुपाल्यादिजीविका इति तान् प्रख्यापयन्ति, पृथिव्यादिसर्वलोकविद्याप्रसिद्धिं करोति प्रवृत्तिर्बाह्यार्थे यस्मान्निवेदने

[(मू)]

1. म॰ विज्ञेया नाट्यकोविदैः, न॰ प्रयोज्या नाट्ययोक्तृभिः, ड॰ प्रयोगतः, द॰ समाश्रया

2. ढ॰ सोढ्रमागधी, प॰ चान्ध्रमागधी, ड॰ चैव मागधी

3. ड॰ `अत्राह' --- इति न दृश्यते

4. ड॰ अत्रोच्यते

5. ड॰ यथा पृथिव्या

6. न॰ देशकृतान् वेषकृतान्

7. ड॰ वार्ताः प्रख्यापयन्तीति, म॰ आख्यापयतीति

8. म॰ निवेदनम्

9. म॰ बहवो ।

[(व्या)]

[page 205]




[NZ]

सन्ति (1)कथमासां चतुर्विधत्वमुपपन्नं(2), समानलक्षणश्चासां(3) प्रयोगः ? (4)उच्यते --- (5)तत्तु सत्यम्, आसां समानलक्षणप्रयोगः । किं तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य(6) नाट्यस्य मया (7)चतुर्विधत्वमभिहितं (8)भारत्यारभटी सात्त्वती कैशिकी चेति ।
[ABh]

वेदने निश्शेषेण वेदने ज्ञाने प्रवृत्तिशब्दः । ``अस्त्येषा(1) भुवने प्रवृत्तिरभवद्रामेण रामस्य यत्'' इत्यादौ ।
अथ संख्याप्रश्ने स्वाभिप्रायमाह यदेति । देशा इति । तत्कृत्वापि चतुष्टयी प्रवृत्तिरित्युक्तं न चत्वार एव देशाः । स्यादेतदेव तावत्यस्तावदुक्ता अभ्यधिकास्तु त्यक्ता इत्याशङ्क्याह समानलक्षणत्वात्प्रयोग इत्युच्यते महद्भिरिति शेषः । प्रयोग इति नाट्यम् । चतसृणामेव समानलक्षणानामेतत्प्रवृत्तिचतुष्टयसाधारणस्वभावः सर्वप्रयोगे युष्मन्मते न त्वन्यो व्यवहारः कश्चिद्दर्शितः । (2)तथा च लोभक्रोधमोहैस्तु साधारीकृतजगच्चिन्ताद्याशु प्रदेशः पराक्रियते तथा प्रकृते ऽपि ।
ननु चतुस्साधारणप्रयोगो नत्वन्यो ऽत्र प्रविशति व्यवहार इत्येतदुक्तम् । विस्मरणशीलो भवान् न स्मर्यते । उक्तं पूर्वरङ्गान्ते (अध्या-5) ``इत्येषो ऽन्वितपाञ्चालदाक्षिणात्योढ्रमागधैः । कर्तव्यः पूर्वरङ्ग''स्त्विति पूर्वरङ्गस्य प्रयोगस्य गर्भाधानीयस्थानीय इत्युक्तम् । तत्रैवाभ्युपगमपूर्वकमुत्तरमाह । (3)तत्तु सत्यमित्यादिना वेषादीनामित्यन्तेन अभ्युपगमदेशादिशब्देन प्रवृत्तिमभिदधता । आसामिति व्याख्यातम् । (4)किंत्वित्यादिनोत्तरमाह । एतदुक्तं भवति --- वृत्तिसंश्रितं वृत्तीराश्रितमेतच्चतुर्विधम् । ननु का वृत्तिः

[(मू)]

1. भ॰ तदा कथं, ढ॰ तथा कथमेषां

2. प॰ समुपपन्नम्

3. ट॰ लक्षणं चासां

4. म॰ अत्रोच्यते एवमेतत्

5. प॰ सत्यमेतत्, ट॰ एवमेते

6. म॰ वृत्तिं समाश्रितस्य प्रयोगस्य, ट॰ संश्रितमस्य मया, ड॰ लोकानुमते ऽनुवृत्तिसंश्रितस्य

7. म॰ चतुष्टयमुपपादितं

8. म॰ भारतीसात्वत्यारभटीकैशिकीवृत्तिसंश्रितेषु प्रयोगेषु देशा अभिरताः, ड॰ भारतीसात्वती कैशिक्यारभटी वृत्तिसंश्रितेष्वमीषु प्रयोगेष्वभिरता देशाः ।

[(व्या)]

1. क॰ अस्यैषा

2. क॰ यथा

3. क॰ तत्र

4. क॰ किंचिदादिना ।

[page 206]




[NZ]

वृत्तिसंश्रितैश्च (1)प्रयोगैरभिहिता देशाः, (2)यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः(3) । तत्र (4)दाक्षिणात्यास्तावद्बहुनृत्तगीतवाद्याः कैशिकीप्रायाः (5)चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा(6) ---
[नास्ति] BhNZ_13_038ab
[नास्ति] BhNZ_13_038cd
माहेन्द्रो मलयः सह्यो 7मेकलः पालमञ्जरः8 BhNZ_13_039ab
[ABh]

प्रत्येकं तत्रैवाभ्युपगमः प्रवृत्तिः, नेत्याह लोकानुगुणानुसारेण । लोको हि दक्षिणापथः पूर्वदेशः पश्चिमदेशः उत्तरभूमिरिति (1)चतुर्धा विभागो ऽस्ति, न चैष निबन्धनः सादृश्यसंभवात् । तथाहि दाक्षिणात्येषु शृङ्गारप्रचुरतया कैशिक्याः संभवः । पश्चिमेष्वावन्त्येव संगृहीतेषु सापि सति धर्मप्राधान्य इति सात्त्वत्यस्ति । प्राच्येषु तु घटाटोपवाक्याडम्बन्रप्राधान्यो भारत्यारभटीयोगः । उत्तरभूमिः प्राधान्यात्तु भारत्यरभटीयोगे ऽपि कैशिकीलेशात्तु प्रवेशसहिष्णवो यद्वक्ष्यते ``प्रयोगस्त्वल्पगीतार्थ''(13-51) इति । अर्थशब्देन तत्प्रयोजनं नृत्तवाद्यादि । इत्येवं चित्तवृत्तिभेदसादृश्याल्लोको यश्चतुर्धाविभागः स एवास्मिन्नुक्तः ।
ननु किमित्ययं संक्षेप आदृतः, आह यस्माल्लोको बहुविधभाषाचारादियुक्तः कस्तं प्रतिपदं वक्तुं शक्नुयात् शिक्षितुमभ्यसितुं वा प्रयोक्तुं द्रष्टुं वा, चित्तवृत्तिप्रधानं चेदं नाट्यमिति तदेव वक्तुम् न्याय्यम् । एतदेव स्पष्टीकुर्वन्नाह भारतीत्यादिना । प्रयोगे वागङ्गचेष्टासु अभिनिर्वृत्तं लोकप्रसिद्धमित्यर्थः ।

[(मू)]

1. ट॰ प्रयोगोचिता, द॰ प्रयोगैरभिमता

2. द॰ यतो वृत्ति, भ॰ यतस्ततः प्रवृत्तेश्चतुष्टयमिति निर्वृत्तं

3. द॰ भ॰ मातृकयोर्दाक्षिणात्यालक्षणात्पूर्वमेवावन्तीलक्षणमुक्तं यथा

आनर्मदाया आसिन्धोरापूर्वावर्तिनस्तथा ।

आपश्चिमात्समुद्राच्च तथा सौवीरराष्ट्रतः ॥

आहिमाद्रेस्तथा देशा विदेशैश्चान्तरेण ये (वैदिशाच्चान्तरेण -- भ॰) ।

सात्वतीकैशिकीयुक्ता तेषामावन्तिकी स्मृता ॥

4. म॰ दाक्षिणात्या ... ... वाद्या ... ... प्राया ... ... नया यथा

5. ड॰ चतुरललित

6. ट॰ यथा

7. ड॰ मेखलः, न॰ मेलकः

8. ड॰ कालपञ्जरः, म॰ मेलकः पालमर्जरः, प॰ पलपञ्जरः (`पालमञ्जर' इति राजशेखरः), न॰ पालमञ्जकः ।

[(व्या)]

1. क॰ चेडा ।

[page 207]




[NZ]

एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः1 BhNZ_13_039cd
2कोसलास्तोसलाश्चैव कलिङ्गा यवनाः खसाः3 BhNZ_13_040ab
4द्रमिडान्ध्रमहाराष्ट्रा वैण्णा5 वै वानवासजाः6 BhNZ_13_040cd
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे7 BhNZ_13_041ab
ये देशास्तेषु युञ्जीत8 दाक्षिणात्यां तु नित्यशः9 BhNZ_13_041cd
10आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । BhNZ_13_042ab
सैन्धवास्त्वथ सौवीरा आनर्ताः सार्बुदेयकाः11 BhNZ_13_042cd
दाशार्णास्त्रैपुराश्चैव तथा वै मार्त्तिकावताः12(*) । BhNZ_13_043ab
कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ BhNZ_13_043cd
[ABh]

चकारेण तत इत्याकृष्यते । तल्लोकप्रसिद्धचतुष्टयमवलम्ब्य ब्रह्मणा प्रयोग उत्पादितः । अयं ग्रन्थश्चिरन्तनैर्वृत्तीनां चतुर्ष्वेव दृष्टान्ततामाश्रित्य व्याख्यातः, तत्र च वैषम्येण दूषणमुक्तम्‡, वृत्तीनां हि सनिमित्तं चतुर्धादेः प्रवृत्तीनां तस्माच्चतुष्ट्वमात्रेण दृष्टान्तो ऽयमिति व्याख्यानेषु गजस्नानीयमानयनेनालूनविशीर्णः कृत इत्यास्तां तावत् (1) ।
कैशिकी प्रायेणास्यामिति बहुव्रीहिः । असामानाधिकरण्यात्सामानाधिकण्ये ऽपि वा समानायामाकृतौ भाषितपुंस्त्वाभावान्न पुंवद्भावः । कैशैर्निर्वृत्तात्तेषु भवेदित्यादिर्व्युत्पत्तिर्निमित्तमात्रम् । एतच्च वक्ष्यामः संक्षेपेण (अध्या --- 20) । दक्षिणसमुद्रस्य विन्ध्यस्य च मध्ये ये देशास्तेषु दाक्षिणात्या । एतेनैव सिद्धे सति देशभेदानां प्रतिपाठस्तदन्तरालानां पर्वतकच्छादिम्लेच्छानां

[(मू)]

1. न॰ स ज्ञेयो दक्षिणापथः

2. ड॰ केशलास्तोशलाः

3. म॰ यवनौसलाः, च॰ एव मोसलाः

4. द॰ द्रमिलाश्च

5. द॰ भिल्ला (``वैण्णा'' इति कृष्णापिनाकिनी तीरवासिनः)

6. प॰ वानवासिकाः

7. द॰ चोत्तरे

8. ड॰ संश्रितास्तेषु

9. द॰ तेष्वियं कैशिकी स्मृता, म॰ ये देशा दाक्षिणात्यास्तु वृत्तिमारभटीं श्रिताः

10. प॰ आनर्तकाः

11. द॰ सार्वदेशकाः

12. ज॰ वैमानिकावताः, ड॰ वैवर्तिक्कावताः

* मृत्तिकावतीपुरवासिनः ।

चिरन्तनैरिति राहुलकादिभिः । उक्तमित्युद्भटेन ।

[(व्या)]

[page 208]




[NZ]

सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिताः1 BhNZ_13_044ab
भवेत्प्रयोगो नान्यत्र2 स तु3 कार्यः प्रयोक्तृभिः ॥ BhNZ_13_044cd
अङ्गा वङ्गा कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । BhNZ_13_045ab
4पौण्ड्रनेपालकाश्चैव 5अन्तर्गिरबहिर्गिराः ॥ BhNZ_13_045cd
तथा 6प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः7 BhNZ_13_046ab
ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ BhNZ_13_046cd
प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्तामलिप्तकाः8 BhNZ_13_047ab
9प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम्10 BhNZ_13_047cd
11अन्ये ऽपि देशाः प्राच्या ये पुराणे संप्रकीर्तिताः । BhNZ_13_048ab
तेषु प्रयुज्यन्ते ह्येषा12 प्रवृत्तिश्चोढ्रमागधी13 BhNZ_13_048cd
पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः । BhNZ_13_049ab
बाह्लीकाः 14शाकलाश्चैव मद्रकौशीनरास्तथा ॥ BhNZ_13_049cd
हिमवत्संश्रिता ये तु15 गङ्गायाश्चोत्तरां दिशम्16 BhNZ_13_050ab
[ABh]

कच्छादिम्लेच्छानां निषेधेन प्रसिद्ध्या देशोपसंग्रहणार्थः कवीनाम् । एवमुत्तरत्र । नित्यानित्यमिति । अनादिरयं देशभेदेन चित्तवृत्तिक्रमः । दृष्टो हि वस्त्राभरणात्मना देशभेदोचितः स्वभावभेदः । बाहुल्येनेति नात्र भविष्यति प्रमाणाभावादित्यादिना शुष्कतर्केणासूचितव्यमिति भावः । एषेति अवन्तिप्राग्ज्योतिषकामरूपीया । पुराण इत्यागमपूर्वकत्वमाह । तुरुष्काश्चारट्टकदरकखसप्रभृतयः

[(मू)]

1. म॰ वृत्तिमेते समाश्रिताः, द॰ एषां समाश्रयः

2. ड॰ नाट्ये च

3. न॰ च

4. ड॰ पौण्ड्रा

5. म॰ ह्यन्तगिरि

6. ढ॰ प्रवङ्गमाहेन्द्र

7. म॰ मल्लवर्तिकाः, ढ॰ मलवर्तकाः

8. ड॰ ताम्रलिप्तकाः

9. ड॰ प्रांशुप्रवृत्तयः, द॰ प्रांशुप्रावृत्तयः, न॰ प्राङ्गाः प्राभृतयः, ट॰ प्राङ्गाः प्रवृत्तयः

10. न॰ ह्यौढ्रमागधीम्

11. अयं श्लोको भ॰म॰योर्न विद्यते

12. ड॰ त्वेषा, ट॰ अप्येषा

13. प॰ चान्ध्रमागधी

14. ड॰ शाल्यकाः, ड॰ शाककाः, ढ॰ शल्यकाः

15. ट॰ च

16. न॰ तथा चाप्य प्रदक्षिणम् ।

[(व्या)]

[page 209]




[NZ]

1ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमा ॥ BhNZ_13_050cd
पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता2 BhNZ_13_051ab
प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ BhNZ_13_051cd
द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । BhNZ_13_052ab
प्रदक्षिणप्रवेशा च तथा चैवाप्रदक्षिणा ॥ BhNZ_13_052cd
आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । BhNZ_13_053ab
अपसव्यप्रवेशा तु पाञ्चाली चोढ्रमागधी3 BhNZ_13_053cd
आवन्त्यां दाक्षिणात्यायां 4पार्श्वद्वारमथोत्तरम् । BhNZ_13_054ab
5पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ BhNZ_13_054cd
[ABh]

मध्यमायामेव प्रविष्टाः, ते च व्यवहारबहिष्कृतत्वात् स्वकण्ठेन न पठिताः । अल्पगीतार्थ इति लेशतः कैशिकीमनुजानाति । तत्र प्राग्देशानां सीमात्वेन दक्षिणत उढ्राः समुद्रनिकटे, उत्तरतो मागधाः, तदुभयमध्यवर्तित्वादौढ्रमागधी(1), (2)अत एवोढ्रकलिङ्गानामुभयोपजीवित्वाभिप्रायेण वृत्तिद्वयमध्ये गणनम् । गिरीणामन्तर्ये भवास्ते ऽन्तर्गिराः, `गिरेश्च सेनक'स्येति समासान्ते मत्वर्थीये वाचि रूपम् । दक्षिणोत्तरव्यतिरेकेण परिक्रमणस्थानाभावात् वैकट्याद् द्वे प्रवृत्ती एकीकृत्य प्रयोगाभिधानम् । तत्र दाक्षिणात्य उत्तरेण द्वारेण प्रविश्य (3)पश्चिमायां दिशि परिक्रम्य ततो ऽपि दक्षिणस्यां ततः पूर्वस्यां ततः उत्तरस्यां परिक्रमेत् । परिक्रम्य च तस्यामेव दिश्यात्मनिवेदनं कुर्यात् । (4)तदुक्तं दक्षिणाभिमुखः इति । तत उत्तरस्यां पूर्वां ततो ऽपि दक्षिणां ततः पश्चिमां प्राप्योत्तरद्वारेणैव निष्क्रामेत् । एवं सात्त्वत्यादौ, तद्विपर्ययेण पाञ्चाली ।

[(मू)]

1. न॰ गे चाश्रिता

2. न॰ श्रिता, द॰ भृतः

3. न॰ ह्यौढ्रमागधी, द॰ सोढ्रमागधी

4. ड॰ योज्यम्

5. प॰ पाञ्चालमध्यामागध्योः ।

[(व्या)]

1. क॰ आन्ध्रमागधी

2. क॰ अत एवान्ध्रकलिङ्गानां

3. ख॰ मध्यमं, क॰ पश्चिमं

4. ख॰ तदुत्तरम् ।

[page 210]




[NZ]

एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । BhNZ_13_055ab
1पर्षदं देशकालौ चाप्यर्थयुक्तिमवेक्ष्य च2 BhNZ_13_055cd
येषु देशेषु या कार्या3 प्रवृत्तिः परिकीर्तिता । BhNZ_13_056ab
तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ BhNZ_13_056cd
4एकीभूताः 5पुनस्त्वेताः 6नाटकादौ भवन्ति हि । BhNZ_13_057ab
अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत्7 BhNZ_13_057cd
[ABh]

तदस्या दक्षिणद्वारेण प्रवेशो निष्क्रमणं च प्रदक्षिणेन दक्षिणदिशा प्रवेशो ऽभ्यन्तरकक्ष्याव्यवस्थितपात्रनिकट एवेति स्यात् । एवमपसव्यप्रवेश इति ।
विशेषान्तरमाह एकीभूता इति । (पार्षदमिति) परिषदि स्वामित्वकृतं वा प्राधान्यं देशकृतं कालकृतं प्रयोजनकृतं बहुतरपात्रपरीक्षायातोचितं यद्वैचित्र्यकृतमिदमवेक्ष्य सङ्करो ऽपि कर्तव्यः, तदाह एकीभूता इति प्रधानानुयायिन्य एवेत्यर्थः ।
एवं प्रयोक्तरि परिक्रमोपयोगः । प्रवृत्तीनां प्रत्येकविषये ऽपि तं दर्शयन्नाह येषु देशेष्वित्यादि(या)प्रवृत्तिरित्यर्थः, सा वृत्तिर्येषु रूपकेषु । तेन तेन काश्मीरकनायकदेशे नाटिकानुचिता, (?)तस्यां कैशिकीप्राधान्येन दाक्षिणात्योचितत्वात् । देशादौचित्ये तच्चेष्टितव्यावर्तनेन प्रतीतिविघाताद्रसमयत्वाभावः । रसाश्च नाट्यस्य प्राणाः व्युत्पत्तिरपि वा परेव भवेत्, असत्यताशङ्का च समूलघातं विहन्यादेव प्रयोगमित्यनेनाभिप्रायेणाह तद्वृत्तिकानीति । येषु देशेषु यो वृत्तिप्रकार उक्तः स येषु रूपकेषु नाटकादीनामन्यतमेषु भवति, तानि रूपाणि तेष्विति तद्देशगतनायकप्राधान्येन कर्तव्यं कविना नाटकेन च नाट्यशब्दवाच्यस्य प्रयोगस्याश्रयः । नाटकशब्दो ऽत्र न रूपकविशेषे, अपि तु नाट्य एव । यथा ---

[(मू)]

1. म॰ देशं कालमवस्थां च काव्ययुक्तिमवेक्ष्य च

2. द॰ अवेक्षते

3. ड॰ पूर्वं

4. अयं श्लोको द॰च॰ज॰झ॰ढ॰न॰मातृकासु न दृश्यते

5. म॰ यदा त्वेताः

6. ड॰ गानकादौ

7. ड॰ तत्तत्कर्माचरेत्सदा, म॰ तद्धर्मीमाचरेत्तथा ।

[(व्या)]

[page 211]




[NZ]

[1सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । BhNZ_13_058ab
2येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तथा ।] BhNZ_13_058cd
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः3 BhNZ_13_059ab
सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ BhNZ_13_059cd
4यत्त्वाविद्धाङ्गहारं तु छेद्यभेद्याहवात्मकम्5 BhNZ_13_060ab
मायेन्द्रजालबहुलं6 पुस्तनैपथ्यसंयुतम्7 BhNZ_13_060cd
8पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । BhNZ_13_061ab
सात्त्वत्यारभटीप्रायं नाट्यमाविद्धमेव तत्9 BhNZ_13_061cd
डिमः समवकारश्च व्यायोगेहामृगौ तथा । BhNZ_13_062ab
10एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ BhNZ_13_062cd
[ABh]

``हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके'' । (अ-22) इत्यत्र नाटक उन्नयति(1) प्रेक्षकान् संवेशेन व्युत्पत्त्या च तथा तद्भावानुप्रवेशेन प्रयोक्तॄनिति । नाटकं कृताविति पाठे गात्राणि विक्षिप्यन्ते अभिनयप्रयोगायास्मादिति संज्ञाकाले । अन्ये तु नटशब्दं कठादिवच्चरणादिच्छन्तो नटानां कर्मश्लाघ्यमिति गोत्रचरणाच्च श्लाघादिविशेषणत्वाद् वुञित्याहुः(पा-5-1-134) लौकिकं च लिङ्गमिति नैवं शङ्कितव्यमेतद् वुञ् तस्यैकान्तिकं स्त्रीत्वमिति । आविद्ध उत्कटः, अङ्गाना हारो हरणं यत्र । छेदेन भेदेन प्रधानः आहवः संग्रामः, आह्वयन्ते परस्परं वीरा यत्रेति । मायामन्त्रौषधादिकृतं रूपपरिवर्तनादि, (इन्द्र)जालः हस्तलाघवसादृश्यादिकृतं, पुस्तं द्रुमृण्मयाकृत्यादि । तथैव च नाविद्धं (आविद्धं?) स्त्रीकर्मरूपाणां स्वरूपं स्वक्षेत्र एव वक्ष्यामः । शौर्यमभीरुत्वं,

[(मू)]

1. अयं श्लोको ड॰ढ॰मातृकयोरेव वर्तते

2. ढ॰ यस्यामन्ये ऽस्य

3. म॰ नाटकाश्रितः

4. द॰ तत्राविद्ध, म॰ सत्त्वाविद्धाङ्गहारस्तु

5. म॰ आत्मकः

6. म॰ बहुलो

7. म॰ संयुतः

8. म॰ प्रयोगः पुरुषप्रायस्तथाल्पस्त्रीक एव च

9. म॰ आरभटीयुक्तो ज्ञेय आविद्धसंज्ञितः

10. म॰ आविद्धसंज्ञाविज्ञेयाः प्रयोगस्य यशानुगाः ।

[(व्या)]

1. क॰ नाटकलनमयति ।

[page 212]




[NZ]

एषां प्रायोगः कर्तव्यो 1देवदानवराक्षसैः । BhNZ_13_063ab
2उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः3 BhNZ_13_063cd
नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च4 BhNZ_13_064ab
सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि तु5 BhNZ_13_064cd
6अथ बाह्यप्रयोगे तु प्रेक्षागृहविवर्जिते । BhNZ_13_065ab
विदिक्ष्वपि भवेद्रङ्गं कदाचिद्भर्तुराज्ञया ॥ BhNZ_13_065cd
पृष्ठे कृत्वा कुतपं नाट्यं युक्ते यतो मुखं भरतः । BhNZ_13_066ab
सा पूर्वा मन्तव्या प्रयोगकालेन नाट्यज्ञैः ॥ BhNZ_13_066cd
द्वाराणि षट् चैव भवन्ति चात्र रङ्गस्य दिग्भाण्डविनिश्चितानि । BhNZ_13_067ab
नाट्यप्रयोगेन खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ BhNZ_13_067cd
[ABh]

वीर्यमुत्साहः, बलं कायधर्मः पराक्रमः । मानुषेष्विति बाहुल्यापेक्षमेतत् । एवं चत्वारि भिन्नानि डिमाद्युद्धतानि वर्गसुकुमाराणि नाटकादीनि ।
एवमन्तरङ्गोपकारित्वात्कक्ष्यामाधारमुक्त्वा तदाक्षिप्तं च वृत्तिभेदमभिधाय धर्मा निरूप्यन्ते । तथा हि लोकस्वभावमेवानुवर्तमानं धर्मीद्वयं । लोको नाम जनपदवासी जनः, स च प्रवृत्तिक्रमेण प्रपञ्चितः । तत्प्रसङ्गेनैव तावद्धर्म्यायता । सा चाङ्गिकशेषतया वक्तव्या । प्रसङ्गाच्च वाचिकाहार्यादिविषयाण्युच्यन्ते तुल्यलक्षणत्वादिति । सा च द्वेधा । यद्यपि लौकिकधर्मव्यतिरेकेण नाट्ये न कश्चिद्धर्मो ऽस्ति, तथापि स यत्र लोकागतप्रक्रियाक्रमो रञ्जनाधिक्यप्राधान्यमधिरोहयितुं कविनटव्यापारे वैचित्र्यं स्वीकुर्वन् नाट्यधर्मीत्युच्यते ।

[(मू)]

1. ड॰ दैत्य

2. ढ॰ उद्धताश्चैव

3. ट॰ समन्विताः, म॰ शौर्यधैर्यदयान्विता

4. ड॰ नाटिके, द॰ एव तु

5. म॰ योज्यान्येतानि मानुषैः

6. ``यतो मुखमितिश्लोकः तदनन्तरं `अथादि ... ... कार्यः' इति अन्तं षट्श्लोकाः क॰आदि च॰अन्तेषु विना सर्वेष्वादर्शेषु निवेशिताः, ते प्रक्षिप्ततया न व्याख्याताः ।

[(व्या)]

[page 213]




[NZ]

विधानमुत्क्रम्य यथात्र रङ्गे विना प्रमाणाद् विदिशः प्रयोगे1 BhNZ_13_068ab
द्वारं तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाध्यवस्येत्2 BhNZ_13_068cd
वयो ऽनुरूपः प्रथमं तु वेषो वेषानुरूपश्च गतिप्रचारः । BhNZ_13_069ab
गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपो ऽभिनयश्च कार्यः ॥ ] BhNZ_13_069cd
धर्मी या 3द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः4 BhNZ_13_070ab
लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ BhNZ_13_070cd
5स्वभावभावोपगतं शुद्धं तु विकृतं तथा6 BhNZ_13_071ab
लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम्7 BhNZ_13_071cd
स्वभावाभिनयोपेतं8 नानास्त्रीपुरुषाश्रयम् । BhNZ_13_072ab
यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ BhNZ_13_072cd
[ABh]

तदेतदाह धर्मी या द्विविधेति । प्रोक्ता उद्दिष्टेत्यर्थः । पूर्वमिति `रसा भावा' इत्यादिसंग्रहविभागावसरे (अ 6-10) लौकिकस्य धर्मस्य मूलभूतत्वान्नाट्यधर्मं वैचित्र्योल्लेख्यभित्तिस्थानत्वादिति लोकधर्मीमेव लक्षयति स्वभावभावोपगतमित्यादि । काचित्तद्विषया धर्मी, काचिन्नटविषया । यो यस्य स्वभावतो भावः स्यात् स्थायिव्यभिचार्यादिः तेनोपेतम् । कथमधिकृतत्वादित्याह (शुद्धमिति) । शुद्धत्वात् स्वविकल्पितेन व्यामिश्रत्वात् तथेति शुद्धं कृत्वा । लोकवार्ता लोकप्रसिद्धिः तस्यां या क्रिया व्यवहारो वृत्तान्तस्तया शुद्धमेव कृत्वा युक्तं यन्नाट्यं नटनीयं कार्यं सा लोकधर्मी धर्मास्तद्वतश्चाभेदोपचारात्सामानाधिकरण्यम् । अङ्गलीलया वर्तनादिकया वर्जितं कृत्वा । स्वभावबलपतनप्रहारनादावसरविवादादाविव पताकादिना योऽभिन्यस्तेनोपेतम् ।

[(मू)]

1. म॰ कृतः कथंचिद्विदिशप्रयोगः

2. प॰ व्यवस्त्येत्

3. द॰ तु

4. द॰ प्रयोगे नाट्यकारिता

5. म॰ स्वभावकर्मोपगतं

6. म॰ च विकृतं च यत्, न॰ नार्थं तु विकृतं तथा (?), प॰ त्वकृतं तथा

7. म॰ नानाभावरसान्वितम्

8. म॰ नयस्थानम् ।

[(व्या)]

[page 214]




[NZ]

1अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम्2 BhNZ_13_073ab
लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम्3 BhNZ_13_073cd
4स्वरालङ्कारसंयुक्त5मस्वस्थपुरुषाश्रयम् । BhNZ_13_074ab
[ABh]

नानात्वेन च स्त्रीपुंसोः स्त्रियां प्रयोज्यायां योषिदेव प्रयोक्त्री पुरुषे तु पुरुष इत्येवंभूतं यन्नाभ्यस्तचेष्टितं सा लोकधर्मी तद्धर्मव्यपदेशात् यदि वा समुदायरूपस्य काव्यं ताभ्यां मनसो एकदेशभूता धर्मी ।
एतदुक्तं भवति --- यदा कविर्यथावृत्तवस्तुमात्रं वर्णयति नटश्च प्रयुङ्क्ते, न तु स्वबुद्धिकृतं रञ्जनावैचित्र्यं, तत्रानुप्रवेशयंस्तदा तावान् स काव्यभागः प्रयोगभागश्च लोकधर्ममाश्रयः तत्र धर्मी । अर्थाभिनये सहकारिरूपा इति कर्तव्यतारूपा वेति दशशततमादितरत्र प्रवेशानाह शून्यतायाम्(?) । काव्यनाट्ययोर्हि लोकानुसारित्वं वा वैचित्र्ययोगित्वं वा धर्मः । तत्र किमेतद्भावमुद्भावमुच्यते तदास्तामेतत् ।
अथ नाट्यधर्मी लक्षयति अतिवाक्यक्रियोपेतमिति । इतिहासादिवाक्यमतिक्रम्य या उचितरञ्जकेतिवृत्तकल्पनात्मिका क्रिया । राजशेखरेण रामनिर्वासना दशरथवेषराक्षसविरचिततत्त्वकल्पना, तया यदुपेतं भावसत्त्वं स्वभावचित्तवृत्तिमतिक्रम्य यत्स्थितं कविकल्पितचित्तवृत्त्यन्तरयुक्तमित्यर्थः । यथा स्वभावचपलविदूषकचित्तवृत्त्यतिक्रमात् यथा वत्सराजेन मन्त्रिसमुचितगाम्भीर्यावहित्थयोजनं वसन्तकस्य तथा, स्वभावभाषितमतिक्रम्य यत्स्थितं यथाराज्ञ्याः संस्कृतम्(*) । एवंभूतं काव्यं काव्यगतनाट्यधर्मी नटगता तु नाट्यलक्षणलक्षितं कृत्वा लीलया शोभाप्रधानतया अङ्गहाराणि मनोहराणि तत्प्रधानैरभिनयैः उपेतं तथापाठे स्वरालङ्कारसंयोजनया युक्तं यत्र च पुरुषो न स्वरूपे तिष्ठति, अपि तु स्त्रीबलमाश्रयति, प्रयोज्यः पुरुषो यत्र न स्वरूपस्थः

[(मू)]

1 , अयं भ॰ मातृकायां न वर्तते, ट॰ गितवाद्यक्रियोपेतं, ड॰ अतिसत्त्वं

2. द॰ भाविकम्, म॰ भावजम्, ड॰ भाषितम्, ट॰ सत्त्वभावसमन्वितम्

3. नाट्यताललयान्वितम्

4. द॰ सर्वालङ्कार

5. द॰ अश्वस्थ, ट॰ नाट्यस्थ ।

[(व्या)]

* तापसवत्सराजे ।

[page 215]




[NZ]

यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ BhNZ_13_074cd
1लोके यदभियोज्यं च पदमत्रोपयुज्यते । BhNZ_13_075ab
2मूर्तिमत्साभिलाषं3 च नाट्यधर्मी तु सा स्मृता ॥ BhNZ_13_075cd
आसन्नोक्तं च यद्वाक्यं4 न शृण्वन्ति परस्परम् । BhNZ_13_076ab
अनुक्तं श्रूयते यच्च नाट्यधर्मी तु सा स्मृता5 BhNZ_13_076cd
शैलयानविमानानि चर्मवर्मायुधध्वजाः । BhNZ_13_077ab
मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ BhNZ_13_077cd
[य एकां भूमिकां कृत्वा कुर्वीतैकान्तरे ऽपराम्6 BhNZ_13_078ab
7कौशल्यादेककत्वाद्वा नाट्यधर्मीति8 सा स्मृता ॥ BhNZ_13_078cd
[ABh]

अपि तु स्त्रिया प्रयुज्यते तन्नाट्यधर्मी । भवेदित्यनेन संभावनामाचक्षाण इदमाह नैवेदं समयमात्रं निष्ठमिति वक्तव्यं अपि तु संभाव्यमानमेव । सद्रञ्जनोपयोगि वस्तूपयोगि च न ह्यासन्नवचनस्यापि अश्रवणमन्यैरप्यश्रूयमाणस्य च श्रवणं लोके ऽपि कदाचन न भवति । केवलं तन्त्रे तत्सौन्द्रर्यार्थमानीयते । यथोक्तमुपाध्यायैः ---
यदत्रास्ति न तत्रास्य कवेर्वर्णनमर्हति ।
यन्नासंभवि तत्र स्यात्सम्भव्यत्र तु धर्मतः ॥
अत्र नियमहेतुः सौमनस्यं तत्र नाट्यधर्मव्यापकत्वं बहुतरोदाहरणनिदर्शनदिशा दर्शयितुमाह लोके यदिति अभियोज्यं क्रियासु पदं मूर्तत्वात् केवलं साभिलाषं लोके ऽपि कलाशिल्पकल्पनाकलितमतस्तदपि मूर्तिसंपादनेन प्रयुज्यते प्रयोगः क्रियते । यथा मायापुष्पके ``ततः प्रविशति ब्रह्मशाप'' इति । शृण्वन्ति जनान्तिकापवारितकयोः । अनुक्तं श्रूयते, आकाशभाषितं च, गतादावाकाशादौ । मूर्तिमन्त इति प्रक्रिया तु कर्म कायत्वप्रयुज्यन्त इत्यर्थः । तद्यथा --- ``अग्रे पर्वत एष कथमत्र गन्तव्यम्'' इत्यादि । चर्म खेटकं वसुनन्दादि

[(मू)]

1. ड॰ लोकप्रसिद्धद्रव्यं तु यदा नाट्ये प्रयुज्यते, म॰ लोके ऽप्रयुज्यं यद्द्रव्यं समं नाट्ये प्रयुज्यते

2. प॰ वृत्तमत्

3. ट॰ साभिभाषं च

4. म॰ तु

5. ट॰ नाट्यधर्मीकृतं तु तत्

6. द॰ पुनरन्यां प्रयोजयेत्

7. ट॰ कोशलादेककृत्यत्वात् ।

[(व्या)]

[page 216]




[NZ]

या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते1 BhNZ_13_079ab
गम्या भूमिष्वगम्या वा नाट्यधर्मी तु2 सा स्मृता ॥ BhNZ_13_079cd
3ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । BhNZ_13_080ab
नृत्यते गम्यते 4चापि नाट्यधर्मी तु सा स्मृता ॥ BhNZ_13_080cd
5यो ऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । BhNZ_13_081ab
सो ऽङ्गाभिनयसंयुक्तो नाठ्यधर्मी प्रकीर्तिता6 BhNZ_13_081cd
7यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः8 BhNZ_13_082ab
9दिव्यमानुषरत्यर्थं10 नाट्यधर्मी तु सा स्मृता ॥ BhNZ_13_082cd
यश्च कक्ष्याविभागो ऽयं नानाविधिसमाश्रितः11 BhNZ_13_083ab
रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ BhNZ_13_083cd
नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । BhNZ_13_084ab
[ABh]

अपूर्णरूपं दारुवस्तुचित्रादिरूaप्तया प्रयुज्यते । ललितैरिति आवेष्टितादिचतुर्विधकरणोपगृहीतवर्तनाप्रवर्तितैः । उत्क्षिप्तानि चतुस्तालादिना (अ॰9-273-289) यानि पदानि तेषां क्रमात्कालविभागाश्चतुष्कलत्वादयः । चशब्द इवशब्दार्थः । नृत्यत इव यद्गम्यते नृत्तसदृशी विशाखा सा या गतिरित्यर्थः, तद्भावे लटौ । एतत्प्राणितमेव नाट्यमित्याह योऽयं स्वभाव इति । अङ्गैरातोद्यादिभिरभिनयैश्च यदुपेतत्वं लोकस्वभावस्य नाट्यधर्मी, लोकस्वभावत्वानुभावविलासोपेतत्वं विधायकस्य नाट्यधर्मीत्वं विधानमिति प्रथमाध्याये(1-118) श्लोकाद्भिन्नार्थ एवायं, तत्र नाट्यलक्षणपरो वाक्यार्थ इति विवृतं चैतत्तत्रैवाध्याये । प्रसङ्गोपयोगेन सर्वाभिनयप्रकारसारा नाट्यधर्म्यभिहिता तां दर्शयति यश्चेति । चकारः प्रसङ्गं द्योतयति । प्रोक्त इति समनन्तरमेव । व्यापकत्वमेव नाट्यधर्म्या उपसंहरति (नाट्याधर्मीत्यादिना) उपदेशद्वारेण नाट्यधर्मीप्रवृत्ता गतिः । अत्र

[(मू)]

1. न॰ योज्यते

2. प॰ च

3. ट॰ यश्चाङ्गहारविन्यासैः

4 , म॰ चैव, ड॰ यच्च

5. ज॰ यो यः, म॰ यश्च स्वभावो

6. प॰ धर्मी तु सा स्मृता

7. म॰ यत्सेतिहासो वेदार्थो

8. ट॰ काव्यसंमतः, म॰ काव्यधर्मतः

9. म॰ देव

10. ढ॰ रत्यर्थो

11. न॰ देशसमाश्रयः ।

[(व्या)]

[page 217]




[NZ]

न ह्यङ्गाभिनयात्किञ्चिदृते1 रागः2 प्रवर्तते ॥ BhNZ_13_084cd
सर्वस्य सहजो भावः सर्वो ह्यभिनयो ऽर्थतः3 BhNZ_13_085ab
अङ्गालङ्कारचेष्टा तु नाट्यधर्मी प्रकीर्तिता4 BhNZ_13_085cd
एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च5 BhNZ_13_086ab
6विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ BhNZ_13_086cd
उक्तो मयेहाभिनयो यथावच्छाखाकृतो यस्तु कृतो ऽङ्गहारैः । BhNZ_13_087ab
[ABh]

हेतुः न ह्यङ्गाभिनयादिति । अङ्गानि च गीतातोद्यादीन्यभिनयाश्चेति द्वन्द्वसमाहारः(1) । राग इति सामाजिकप्रीतिः । नाट्यधर्म्या यदि व्यापकत्वाल्लोकस्वभावभाविन्या न प्रयोजनमुक्तयेत्याशंक्याह सर्वस्य सहज इति । हिशब्दो हेतुमद्भावं द्योतयति । तदयमर्थः --- यस्मात्कविगता नाट्यगता वागङ्गालङ्कारनिष्ठा नाट्यधर्मीरूपा सर्वप्राणवती, अर्थत इति अर्थमपेक्ष्य प्रवर्तते अभिनयश्च उक्तो भित्तिस्थानीयत्वेन नाट्यधर्म्या सहजसंवादिकर्मणः । अङ्गं वर्तनारूपं गुणलक्षणानि च अलङ्कारश्चेष्टा अलङ्कारा उपमादयश्च ।
अध्यायार्थमुपसंहरति एवं कक्ष्याविभागस्त्विति । धर्मी ह्येकवचनं नाट्यधर्म्या अत्र प्राधान्यादन्यस्यास्तत्रैव मग्नत्वात् । युक्तय इति प्रवृत्तयः अथोपसंहारे च प्रयोजनं धर्म्यादयो उपकरणभूताः, तेषामल्पबाहुल्यविरचितक्रमाभिधानं योजयित्वेति प्रतिपादनमध्यायार्थप्रकरणप्रस्तावे च प्रथमेन योजयति । अन्येन च भाविप्रकरणार्थमासूत्रयति उक्तो मयेहाभिनय इति स मयेत्यात्मज्ञानोत्कर्षणं व्युत्पत्तिं शिष्याणामुत्पादयति । यद्यप्यस्य शाखानृत्तं (करवर्तना) चाङ्गहारश्च वस्तुनीत्युक्तं, तथापि भावाध्याये सात्त्विकप्रसङ्गेन (7-142) अङ्कुरहारश्च वस्तुनीत्युक्तं, तथापि भावाध्याये सात्त्विकप्रसङ्गेन (7-143) अङ्कुरस्याभिहितत्वात्, सामान्याभिनये च (अ 22-41) तदुक्तं वक्तव्यशेषस्य वक्ष्यमाणत्वादाङ्गिकाभिनयोपसंहारादेवोपसंहरति । वाक्यमेवाभिनयः

[(मू)]

1. म॰ किंचिद्विना

2. ड॰ नाट्यं

3. ड॰ अर्थजः

4. म॰ धर्मीति संज्ञिता

5. म॰ धर्मीयुक्तस्तथैव च, ड॰ युक्ताः प्रकीर्तिताः

6. सह प्रवृत्तिभिर्योज्यो नाट्यशैरर्थयोगतः, ट॰ विज्ञेयो नाट्यतत्त्वज्ञैः प्रयोक्तव्यश्च ।

[(व्या)]

[page 218]




[NZ]

1पुनश्च वाक्याभिनयं 2यथावद् वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ BhNZ_13_087cd


इति भारतीये नाट्यशास्त्रे (3)कक्षाप्रवृत्तिधर्मीव्यञ्जको नाम त्रयोदशो ऽध्यायः(4) ।
[ABh]

तत्त्वतश्च धर्मी, अभिनयो वाक्यं हास्यादौ यद्यपि वाक्याभिनय उक्तस्तथापि सत्युक्तस्वरूपमभिनेयमिति तथाह यथावदिति, अत एव पुनरुक्तम् । स्वराः अचः व्यञ्जनानि हलः वर्णा अज्झल्समुदाया इति शिवम् ॥
शीतांशुमण्डलकशेखरपादपद्मकिञ्जल्कपूगपरिपूतशिरोरुहेण ।
वृत्तिः कृताभिनवगुप्तपदाभिधेन (1)कक्ष्याङ्कचित्रतललक्षणवर्नने ऽस्मिन् ॥
इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां (2)नाट्यवेदविवृतावभिनवभारत्यां कक्ष्यावृत्तिधर्म्यभिधानं नाम त्रयोदशो ऽध्यायः ।

[(मू)]

1. म॰ वक्ष्यामि

2. म॰ स्वशक्त्या भूयःस्वर

3. म॰ नाट्यधर्मीप्रवृत्तिव्यञ्जनो नाम

4. क॰ख॰ग॰घ॰च॰ भ॰एषु विना सर्वेषु चतुदशो ऽध्यायः । द॰मातृकायां श्लोकसंख्या 73 । आदितः 2253 ।

[(व्या)]

1. क॰ कक्ष्याङ्कवित्रितल

2. ख॰ नाट्यवेदवृत्तौ ।

[page 219]




श्रीः
नाट्यशास्त्रम्
चतुर्दशो ऽध्यायः(वागभिनये छन्दोविधानम्) ।

[NZ]

यो वागभिनयः 1पूर्वं मया प्रोक्तो द्विजोत्तमाः । BhNZ_14_001ab
लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसंभवम् ॥ BhNZ_14_001cd
वाचि 2यत्नस्तु कर्तव्यो नाट्यस्यैषा3 तनुः स्मृता । BhNZ_14_002ab
4अङ्गनैपथ्यसत्त्वानि 5वाक्यार्थं व्यञ्जयन्ति हि ॥ BhNZ_14_002cd
[ABh]

अथ चतुर्दशो ऽध्यायः
द्विधास्थितं स्सद्म सदाविभक्तं विश्वान्पदार्थान्(1) समुपाददानम् ।
पाणीन्द्रितं (2)संव्यवहारहेतु यस्येश्वरं तं वरदं नमामः ॥
आङ्गिकाभिनयानन्तरं वाचिकस्य भेदं(3) नाट्यानुप्राणकतया पूर्वोद्दिष्टाङ्गिकस्य विषयसमर्पणप्राणत्वाच्च वाचिके लक्षणीय इत्येवंभूतामध्यायसङ्गतिं करोति यो वागभिनय इति । वागेवाभिनयः वाचिकाभिनयः । पूर्वमिति षष्ठे ऽध्याये (4)स निरूप्यते, (5)तत्त्वेन चास्याभिधानप्राधान्यात् । अत्र हेतुमाह वाचि यत्नस्तु कर्तव्य इति कविना निर्माणकाले नटेन प्रयोगकाले । कुत इत्याह (नाट्यस्यैषेति) एषा हि तनुर्नाट्यस्य सकलप्रयोगभित्तिभूतत्वेनातोद्यगीताभिनयानुग्राहकत्वात्

[(मू)]

1. ड॰ प्रोक्तो मया पूर्वं

2. भ॰ यत्नो विधातव्यः

3. प॰ नाट्यस्येयं

4. ड॰ अङ्गनेपथ्यतत्त्वानि

5. भ॰ वागर्थम् ।

[(व्या)]

1. ख॰ विश्वात्पदार्थात्

2. ख॰ सव्यवहार

3. ख॰ वाचिकस्येदं

4. ख॰ तन्निरूप्यते

5. क॰ तेन ।

* पञ्चदशाध्याय इति ज॰ आदि ब॰ अन्तेष्वादर्शेषु दृश्यते । अस्याध्यायस्य पाठो ऽपि भिन्नमातृकासु भिन्नक्रम एव, कासुचित्केचिद्भागा अपि लुप्ता, अन्यासु त्वधिका वा पाठविपर्ययो वा विद्यते । उज्जयिन्यादर्शे तु पूर्वार्धमध्यायस्यैकपत्रहीनमष्टादशाध्यायमध्ये वर्तते । तथैव पूर्वं मुद्रितमासीत्काव्यमालायाम् । व्याख्यानानुसारी पाठो गृहीतो ऽस्माभिः ।

[page 220]




[NZ]

[ABh]

स्वयमभिनयरूपत्वाच्च । प्रदर्शितं चैतददस्माभिरुपाङ्गाभिनयारम्भ एव (अध्या-8) ।
(1)यत्तु कैश्चिदभिधीयते चित्तवृत्तिं प्रति शब्दानां बहिरङ्गत्वं(2) तदसत् । तथा हि यदुच्यते व्यतिरेकाभावान्न रसादयः शब्दवाच्या इति, तत्र सर्वैः शब्दैर्व्यतिरेकाभावो ऽसिद्धः,(3) अभिनयचतुष्टयसामान्यं बहिः सर्वत्र प्रतीतिस्फुटायां व्याप्रियत इत्यवोचाम सप्तमे ऽध्याये ।
अथ शृङ्गारादिशब्दानां(4) वाचिकानामभावे ऽपि तत्प्रतिपत्तिः ।
परिणतशरकाण्डापाण्डुरा गण्डपाली हिमसमयनिमीलत्पुण्डरीकायमाणम्(5) ।
नयनमधरबिम्बं श्वासविश्रान्तितान्तं तव सतनु तनोति प्राणितं मन्मथस्य ॥
इत्यादावयमेव च व्यतिरेकाभावः । तदप्यसत् । एतावतापि हि वृश्चिकादिवत् निमित्तान्तरमपि तत्प्रतीतौ सुवचम् । वृश्चिको ऽन्यो गोमयजो ऽन्य एव वृश्चिकप्रभव इति चेदिहापि तत्समानम् । न हि शृङ्गार(6)शब्दे यादृशी प्रतीतिस्तादृश्येवान्यतः, न च(7) न भवति शृङ्गारशब्दात्तत्प्रतीतिः शृङ्गारहास्येति (6-16) श्लोकस्य काकवाशितदेशीयतापत्तेः । यथासंकेतं हि (8)शब्दात्प्रवर्तमानात्मसिद्धं साध्यं (9)चाभिधातुं केन प्रतिहन्यत इति (10)साध्यनामकापि विभीषिका । किंचेदमपि शृङ्गारायते हसति करुणायते इत्यादि साध्यशब्दशब्दनीयत्वं प्रति किं वक्तव्यं स्यात्, अवश्यं चैतत्, अन्यथा ``याते द्वारवती'' (*)इत्यादौ

[(मू)]

[(व्या)]

1. क॰ यस्तु

2. ख॰ बहिरङ्गत्वं धर्मः

3. क॰ भावः सिद्धः

4. क॰ वाचिकानां

5. क॰ चञ्चरीकायमाणः

6. क॰ शब्दे

7. क॰ तादृश्येवाद्यतना च

8. क॰ शब्दाः प्रवर्तमानाः

9. क॰ च तत्

10. ख॰ साध्यमानता ।

*

याते द्वारवतीं तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया ।

तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥

मागधान् पराजित्य मथुरातो द्वारवतीं याते कृष्णे तत्प्रत्यागमनप्रत्याशाशून्यया राधयेति प्रकरणमूह्यम् ।

[page 221]




[NZ]

[ABh]

सोत्कण्ठयेति, उत्कमिति चानुवादो विफल एव स्यात्, तद्रूपस्पर्शे (1)तदनुभावसमाकर्षणस्याप्ययोगात् । स्थायिव्यभिचारिणां च भेदप्रतीतौ ---
यान्त्या तया वलितकन्धरमानतं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥(मालती 1-32)
इत्यादावनुभावप्रत्ययो ऽपि(2) दुर्लभीभवेत्, का कथा रसस्य वलितावृत्तदिग्धनिखातादीनां कटाक्षशब्दे जीवभूतानां क्रियासु प्रतिपत्तेरभावात् ।†``लीनेव प्रतिबिम्बितेव लिखितेव'' इत्यादावेषैव वार्ता ।
(*)`तथा सहासरभसव्यावृत्तकण्ठग्रहं(1)'', ``वपुरलसलसद्बाहु लक्ष्म्याः(2)'' ``कतिचिदहानि वपुरभूत्केवलमलसेक्षणं तस्याः(3)'' ॥
रम्याणि वीक्ष्य मधुराणि निशम्य शब्दान् (3)पर्युत्सुको भवति यत्सुखितो ऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ शाकु (5-2)

[(मू)]

[(व्या)]

1. क॰ तदनुभव

2. क॰ भाववहोपप्रत्ययो ऽपि

3. ख॰ पर्युत्सुकी ।


लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।

सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ (माल 5-10)

1.

एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।

दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासलभसव्यावृत्तकण्ठग्रहम् ॥ (अमरुककाव्ये)

2.

उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।

भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसद्बाहु लक्ष्म्याः पुनातु ॥ (वेण्याम्)

3.

आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।

कतिचिदहानि वपुरभूत्केवलमलसेक्षणं तस्याः ॥ (विक्रमो 5-7)

[page 222]




[NZ]

[ABh]

``निद्रानिमीतदृशो मदमन्थरायाः(1अ)'', ``विवृण्वती शैलसुतापि भावभङ्गैः(2अ)'' इत्यादिकाव्येषु सहृदयहृदयसागरसमुच्चलद्राकामृगाङ्गप्रतिबिम्बेषु(1) जीवितभूतानां हासालस्यौत्सुक्यनिद्रामदागमाभिलाषागमादीनां (2)शब्दास्पृष्टत्वेन विभावानुत्साध्यस्वभावे (3)वीतरागतेव बककाकक्रीडाकल्पनैव स्यात् । सिद्धस्वभावानमेव पदैरभिधीयते, तत्र भवनमिति तदनुभवतीति तत्साध्यस्वभावतेति चेत्, अन्यतरधर्ममुखेन क्रियारूपस्य धर्मिणो (4)द्वाभ्यामपि यथासङ्केतस्पर्शाद् द्वितीय(5)धर्मास्पर्शस्योभयोरपि तुल्यत्वात् साध्यतार्थं क्रियाया जीवितमिति चेत् धर्मद्वयवति धर्मिणि क्व एषो ऽन्यतरधर्मपक्षपातः, न च सिद्धता धर्मो ऽस्या नास्ति तथात्वे वा कदाचिदपि कूलदर्शनं न स्यात् । भवनमिति (6)वारोपितगौणीप्रतिपत्तिः स्यात् ।
सापि (7)बलादारोपस्थानस्य चानीतस्यैव केनापि शब्देनास्पृष्टत्वात्, तस्मात्सिद्धाभिधायिना वा शृङ्गारादिशब्देन स्पृश्यत एव तदर्थः । न तु सर्वो(8) वक्ता कविरित्यतिप्रसङ्गलक्ष्यमाणप्रबन्धबन्धुरं काव्यनिर्मातृत्वं हि कवित्वं, न चित्तवृत्ति प्रतिपादकत्वम् ।
यत्तु शृङ्गारादिशब्दाद्यवधिर्न (10)प्रतीतिरित्युच्यते तत्र सङ्केत(11)स्मृतिं मुक्त्वा नान्यद्व्यवधानं (12)विद्मः विततलक्षणपौर्वापर्यं विपाको ऽयमिति सङ्केतग्रहणे किं तथा प्रतीतिः । एतेनान्वयाभावः प्रत्युक्तः । विभावादिभ्यो ऽपि पूर्णकाव्यप्रक्रिया(13)परिगतमन्तरेण न रसादयः । (यथा)
उद्याने तु स्थितावेतावन्योन्यं ददतौ दृशम् ।
मध्येभुवं लिखन्तौ च प्राप्य सङ्गमसङ्गतौ ॥ इति
तस्मादपूर्णत्वे(14) तुल्यो ऽन्वयाभावः । तासां तु --- सिद्ध एव । तत्तूपाध्यायैः काव्यकौतुके रसोद्देशपरश्लोके --- इत्यादिनिरूपितं तदुक्तान्यार्थतयैव न गृहीतव्यम् ।

[(मू)]

[(व्या)]

1. क॰ प्रतिमेषु

2. ख॰ शब्दस्पृष्टत्वे तान् विभावान्

3. क॰ चदीतरगतेव

4. क॰ बाह्यानामपि

5. क॰ धर्मस्पर्शस्य

6. क॰ वारोपिता

7. क॰ बालाभावेदारोप

8. क॰ त्वसर्वो

9. ख॰ निर्माणत्वं

10. क॰ नाप्रतीतिः

11. क॰ स्मृतिमुक्त्वा

12. क॰ विद्यापितत

13. क॰ परगमं

14. ख॰ अपूर्वत्वे ।

1 अ.

निद्रानिमीलितदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निरर्थकानि ।

अद्यापि मे मृगदृशोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥

2 अ.

विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः ।

साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥(कुमा 3-67)

[page 223]




[NZ]

1वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । BhNZ_14_003ab
तस्माद्वाचः परं नास्ति 2वाग्घि सर्वस्य कारणम् ॥ BhNZ_14_003cd
3नामाख्यातनिपातोपसर्गतद्धितसमासनिर्वर्त्यः । BhNZ_14_004ab
सन्धिविभक्तिनियुक्तो4 विज्ञेयो वाचिकाभिनयः5† ॥ BhNZ_14_004cd
[ABh]

नन्वेवं रससूत्रे शब्दो ऽप्युपादातव्यः ? । तदिदमायत्तं --- उत्सङ्गसङ्गिनिबलके तदन्वेषणमिति । अत्र भावोपादाने हि किं न संगृहीतम् (*)``यदयमनुभावयति वागङ्गसत्त्वकृत'' इति (7-7) । (1)आवृत्या च वागित्यत्रैव छेदः । तद्यदि (1)वाग्भवति तदेतान्यर्धं व्यञ्जयन्ति वाक्सहितानि (6)स्वार्थं व्यञ्जयन्ति एकतस्त्र्यात्मकतश्च वागिति समासयोगेनाह । सैवेयमुपयोगिनी किंतु चतुर्थगोपायभूता परमपुरुषार्थस्वभावा विश्व(4)कारणभूता भगवती भारतीत्याह वाङ्मयानीति वाचि फलरूपायां निष्ठा येषाम् । कुत इत्याह वागिति । इह भावानां सत्तासंबन्धनिजलक्षणार्थक्रियाकारित्वादिकृतं यत्सत्त्वं तत्प्रधानकबोधत्वभूतं शपथशरणं, तस्य बोधस्य पारमैश्वर्यं स्वातन्त्र्यं प्रत्यवमर्शात्मकमेव जडवैलक्षण्यदायीति विभक्तमस्मत्परमगुरुपादैः प्रत्यभिज्ञादौ, अस्माभिश्च तद्विवरणे भेदवादविदारणादौ च । एवं वागेवावभासिका सैव च निर्वाहिकी, अवभासनैव हि परमार्थतो निर्वाणम् । तदाह वाग्घि सर्वस्येति वागेव विश्वाभुवनानीति श्रुतेः शब्दविवर्तादिरूपं च प्रसाधितं तत्र भवद्भिर्भर्तृहरिप्रभृतिभिरिति (%द्दग्) तदिहानुसरणीयम् । सर्वाकारत्वे च वाचः इतिवृत्तमपि

[(मू)]

1. भ॰ वाङ्मयानि तु

2. न॰ वाग्भिः

3. प॰ आगमनामाख्यातोपसर्ग, ड॰ नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः

4. ड॰ विभक्तिषु युक्तो, प॰ समेतो

5. ब॰ वाचिको ऽभिनयः ।


आगमनामाख्यातोपसर्गतद्धितनिपातसन्धियुतः ।

सवचनविभक्त्युपग्रहनिर्वर्त्यो वाचिकाभिनयः ॥ इति व्याख्यातृपाठः स्यात्

[(व्या)]

1. ख॰ आकृतः

2. क॰ वा भवति

3. ख॰ सार्थं

4. ख॰ करण ।

* अयं पाठः क॰ आदि च॰ अन्तेष्वादर्शेष्वेव लभ्यते, तदन्येषु भिन्नतया दृश्यते ।

वाक्यपदीये आगमकाण्डे ``शब्दस्य परिणामः'' इत्यारभ्य षट्सुकारिकासु वाचः सर्वस्वकारणत्वं प्रतिपादितं भर्तृहरिणा स्ववृत्तौ प्रपञ्चितं च ।

[page 224]




[NZ]

द्विविधं हि1 स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा2 BhNZ_14_005ab
3तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ BhNZ_14_005cd
व्यञ्जनानि स्वराश्चैव4 सन्धयो ऽथ विभक्तयः । BhNZ_14_006ab
नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ BhNZ_14_006cd
5एतैरङ्गैः समासैश्च नानाधातुगवेक्षितम्6 BhNZ_14_007ab
विज्ञेयं संस्कृतं पाठ्यं प्रयोगं च निबोधत7 BhNZ_14_007cd
[ABh]

यच्छरीरं नाट्यस्येति (अ 22-1) यद्वक्ष्यते तन्न विरुद्धं, तस्यापि वाङ्मयत्वादिति तत्रैव निर्णेष्यते ।
तत्र शास्त्रान्तरप्रसिद्धानपि रसाङ्गत्वेन कविशिक्षार्थं नटस्य च तत्र तत्राभिधेये विश्रान्तिकरान् कर्तव्यतयेत्युपदेशार्थमागमानिति निर्दिशति आगमेत्यादि । अर्थद्वारेण रूपसौन्दर्येण चैषामुभयथा च योगः, क्षुभितं मह्यमिदं मे लुब्धमिति मन्थेः प्रतीतिः स्यात् । अर्थभेदे ऽपि स्वरूपसौन्दर्यं सार्वत्रिकं, विषयभेदेन च `अस्यन्दिष्यन्त सिन्धवः' इति हि कर्तव्ये `अस्पन्दिष्यन् सर्वे सिन्धवः' इति दुर्भणम्, अश्रवं च `मक्ष्यं माक्षति वक्षसः क्षतभवान्वेपक्षतं क्लीबितम्'(?) इति --- अत्र रौद्रे मोक्ष्यतीति हृद्यम् । अत्र `कदा संमार्जिष्यति' इति लोचने न तु कदा संमार्क्ष्यतीति, एवं वैकल्पिके ऽपि आगमे सौन्दर्यात्, अभावपक्षो(1) वा `आछिद्य प्रियतः(*)' इति सुव्यक्तमेव । एकान्त्संप्रतीतिनश्चेति (2)धुटो ऽसत्त्वपक्ष एव । आगमेनादेशो ऽप्युपलक्ष्यते । मुग्धाशब्दस्थाने न मूढाशब्दः प्रयोगार्हः ।

[(मू)]

1. ब॰ तु

2. च॰ यथा

3. न॰ अङ्गानि वक्ष्याम्यनयोः

4. ड॰ स्वरश्चैव

5. भ॰ तथा समासा इत्येवं, ड॰ एतैरङ्गविधानैस्तु

6. ड॰ समाश्रयम्, न॰ गवाक्षिकम्, भ॰ समन्वितम्

7. ड॰ तद्वक्ष्यामि समासतः

[(व्या)]

1. क॰ लक्षो

2. क॰ युटो ।

*

आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्रामङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।

हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम् ॥

[page 225]




[NZ]

[ABh]

नाम यथा मदनरिपुरिति भगवत्पर्यायश्चेति तदीयशृङ्गारवर्णने न प्रयोज्यम् । आख्यातमपि यद्वैचित्र्यमावहति, ``स्मरसि स्मर मेखलागुणैः''(*) इति वर्तमानप्रत्ययेन (1)तत्साक्षात्करणमुपालम्भविषयता, त्वमेवात्र साक्षी अनृतं न प्रकटितं, अन्यथा स्मृतवानिति मेखलागुणैरिति स्यात् । उपसर्गात्प्रकृतार्थयोगिनो यथा --- निर्मित इत्यर्थे न मितिः । अधिकद्योतको यथा --- ``मुहुरुपचितैर्दृष्टिरालप्यते''† इति । उपसर्गैः कर्मप्रवचनीया अप्युपलक्ष्यन्ते (यथा) ``किं स्यादर्जुनतः प्रति'' इति, ``विचितं नास्तीति'' प्रतीतिः पुनरेव स्यात्, अर्जुनकृते विचितमिति । तद्धितप्रत्ययोपलक्षणम् ।
मीमांसते हृदयमातमन एव बाला नाम्नापि मानकलनां सहते न जातु
न तु चित्तं विचारयत्यात्मन एवेति । एवं सुब्धातुप्रत्ययपदं न तल्सु कृत्सु वाच्यं गौरवभयात्तु नोदाहृतम् ।
स्त्रीप्रत्ययो यथा --- `अध्यासीनः सवैदग्धी' (2)कर्म तया कृती न तु वैदग्धीमिति स्त्रीप्रत्ययेन सौभाग्यातिशयप्रतीतेः ।
अतद्धितो यथा --- ``शात्रवं च पपुर्यशः'' इति न तु शत्रूणां चेति, तद्धितवृत्त्या ह्येकार्थीभावान्वयात् तद्ग्रासीकृतमपि यशस्ते स्वयंग्राहीचक्रुरित्यर्थः । निपातो यथा --- ``हहा हा देवि धीरा भव''(§) सूः (आः ?) किमत्र किरातैर्यत्र

[(मू)]

[(व्या)]

1. क॰ तत्साक्षात्कारेणोपालम्भ

2. क॰ कर्मनया

*

स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।

च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ (कुमा 4-8)


त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।

अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते ते क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ (मेघ॰ उ-44)


ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।

नारिकेरासवं योधाः शात्रवं च पपुर्यशः ॥ (रघु 4-42)

§ .

स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीतरिणः पयोदसुहृदामानन्दकेकाः कलाः ।

कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥

[page 226]




[NZ]

1अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । BhNZ_14_008ab
2हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ BhNZ_14_008cd
अत्र स्वराश्चतुर्दश (3)कादीनि व्यञ्जनानि यथा --- अआ इई उऊ ऋॠ ऌॡ ए ऐ ओ औ स्वरा ज्ञेयाः । कखगघङचछजझञटठडढणतथदधनपफबभमयरलवशषसहाः इति व्यञ्जनवर्गाः ॥9॥
[नास्ति] BhNZ_14_009ab
[नास्ति] BhNZ_14_009cd
[ABh]

वान्ति वर्षानिला विशेषेण निरङ्कुश इति, ... ... एकार्थीभावो यत्र सति वृत्तं ... ... । समासो यथा ``मध्येगङ्गायमुनमनु नेति, न तु मध्ये गङ्गायमुनयोरिति(1) । एवं समासान्तरेषु वाच्यम् । शुद्धेषु सङ्कीर्णेषु चागमादयो (2)निवृत्तान्ता विद्यन्ते यत्रेति मत्वर्थीये च ।
सन्धिर्द्विधा नेरन्तर्यं रूपश्लेषश्च --- भवतोयेति विपर्ययेण(3) नैरन्तर्ये असिद्धता(4), तत्रास्थिता इति रूपश्लेषे बीभत्साश्लीलने । सूत्रं ब्राह्ममिति पृथगपि द्विश्रुतिः सङ्गः पदयोः नैकपदवत्ता, ब्रह्मसूत्रमित्यनुस्वानस्योत्तरसंक्रान्तिव्यतिरेकेण (5)चात्मनि विश्रावयितुमशक्यत्वादेकपदवद्भावः ।
विभक्तयः सुप्तिङ्वचनानि, तैः कारकशक्तयो लिडाद्युपग्रहाश्चोपलक्ष्यन्ते । यथा ``पाण्डिम्नि मग्नं वपुः'' इति वपुष्येव (6)मज्जनकर्तृकत्वं तदायत्तां पाण्डिम्नश्चाधारतां गदस्थानीयतां द्योतयन्नतीव रञ्जयति, न तु पाण्डुस्वभावं वपुरिति । एवं कारकान्तरेषु वाच्यम् ।

[(मू)]

1. न॰ अकारादि, द॰ मातृकायां श्लोको न वर्तते

2. भ॰ ककारादीनि हान्तानि

3. ड॰ मातृकायां दृश्यते `स्वरा ज्ञेया' इत्यनन्तरम्

[(व्या)]

1. क॰ गङ्गारचितनयनयोरिति

2. क॰ अनिच्छन्ना

3. क॰ विपर्ययौ

4. क॰ असिलता

5. क॰ भस्मनि

6. क॰ संछन्न

*

दाहोम्भः प्रसृतिंपचः प्रचयवान् बाष्पप्रणालोचितः श्वासाः कम्पितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः ।

किंचान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ (विद्ध 2.21)

[page 227]




[NZ]

1अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । BhNZ_14_010ab
जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च ॥ BhNZ_14_010cd
अकुहविसर्जनीयाः कण्ठ्याः;् इचुयशास्तालव्याः;् ऋटुरषा मूर्धन्याः;् ऌतुलसा दन्त्याः;् उपूपध्मनीया ओष्ठ्याः;् (*) इतय् उपध्मानीयः (*) इति जिह्वामूलीयः एऐ कण्ठतालव्यौ ओऔ कण्ठौष्ठ्यौ, वकारो दन्त्यौष्ठ्यः ङञणनमा अनुनासिकाः, विसर्जनीयस्यौरस्य इत्येके । सर्वमुखस्थानम् अवर्णमित्यपरे ।
द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयो ऽपरे । BhNZ_14_011ab
2अघोषा घोषवन्तस्तु ततौ ऽन्ये परिकीर्तिताः ॥ BhNZ_14_011cd
वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । BhNZ_14_012ab
अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः ॥ BhNZ_14_012cd
3एते घोषाघोषाः कण्ठ्यौष्ठ्या दन्त्यजिह्वनासिक्याः4 BhNZ_14_013ab
ऊष्माणस्तालव्या विसर्जनीयाश्च बोद्धव्याः ॥ BhNZ_14_013cd
गघङजझञडढदधनबभमयरलवा मता घोषाः । BhNZ_14_014ab
कखचछटठतथपफशषसा इति वर्गेष्वघोषाः स्युः ॥ BhNZ_14_014cd
कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । BhNZ_14_015ab
टठडढणा मूर्धन्याः तथदधनाश्चैव दन्तस्थाः ॥ BhNZ_14_015cd
[ABh]


[(मू)]

1. भ॰ म॰ योर्विना सर्वासु मातृकासु

2. न॰ अघोषवन्तो येचान्ये सघोषाः परिकीर्तिताः, छ॰ अघोषाविति येत्वन्ये सघोषाः संप्रकीर्तिताः

3. न॰ एषां, ड॰ जिह्व्यनुसासिकाः, प॰ जिह्व्यनुनासिक्याः ।

[(व्या)]

[page 228]




[NZ]

[ABh]

वचनं यथा --- ``पाण्डवा यस्य दासाः''(*) सर्वे च पृथक्चेत्यर्थः । तथा वैचित्र्येण ``त्वं हि रामस्य दाराः'' किं यथा कीर्तिस्तव श्वेतेति, न तु श्वेतं यशस्तवेति । उपग्रहः --- ``कुर्वाणो भुजशालिनो'' न तु कुर्वते, भुजशालित्वं लिङ्गम् । ``परिमृदितमृणालीकोमलान्यङ्गकानि'' । आसमन्तादितिवैचित्र्यं यथा --- ``आपाते ऽपि विकारकारणमहो वक्राम्बुजन्मा स वः'' ‡ । नियुज्यते क्रियायामिति धातुः, तस्य वैचित्र्यं (यथा) ``(1)ग्रस्तं कुलान्ते (2)जगतः'' न तु भुक्तम् । ग्रसिति स्वदनमात्रे परिभाषिते ऽपि ग्रासातिशयसंरम्भः कुले तत्र वर्तते, पूर्ववदत्रापि द्वन्द्वान्मत्वर्थीयः । एतदेवोपजीव्यानन्दवर्धनाचार्येणोक्तं `सुप्तिङ्वचने'त्यादि(¶) । अन्यैरपि सुबादिवक्रतेति ।
इत्येवं दशभिरङ्गैरुक्तो कवितावाचिकशब्दनिष्ठो व्यवहारः विभज्य स्थानकरणादिज्ञानं च कवेर्गाढशिथिलमसृणपरुषादिगुम्फविशेषविभागायोपदिष्टं न तस्य च सम्यगुच्चारणापदेशाय वर्गश उपादानं, सावर्ण्येन प्रबन्धसौन्दर्यज्ञानार्थम्, तथा --- ``(3)दत्तानन्दो घनिनमनुसर्ता वृतिधन'' इत्यादौ । घोष इति अनुप्रदानविशेषः । नासिका तद्व्यापारो ऽन्ते यस्य तथाभूतो धर्मो ऽनुस्वारः । तत्र घोषबाहुल्याद्गाढता, तथा ---

[(मू)]

[(व्या)]

1. क॰ त्रस्तं, ख॰ सूत्रं

2. ख॰ गजतः

3. ख॰ दर्भानन्दो धसिति ।

*

कर्ता द्यूतच्छलानां जतुमयशरणादीपनः सो ऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।

राजा दौश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥ (वेण्यां)


अलसललितमुग्धान्यध्वसंतापखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि ।

परिमृदितमृणालीकोमलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ (उत्त 1-24)


केलीकन्दलितस्य विभ्रममधो धुर्यं वपुस्ते दृशौ भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः ।

आपातो ऽपि विकारकारणमहो वक्राम्बुजन्मासवः सत्यं सुन्दरी वेधसस्त्रिजगतीसारं त्वमैकाकृतिः ॥

.

सुप्तिङ्वचनसंबन्धैस्तथाकारकशक्तिभिः ।

कृत्तद्धितसमासैश्च द्योत्यो लक्ष्यक्रमः क्वचित् ॥ (ध्वन्या॰ 3-16)

[page 229]




[NZ]

पफबभमास्त्वोष्ठ्याः स्युर्दन्त्या ऌलसा (1)अहौ च कण्ठस्थौ(2) तालव्या इचुयशाः स्युः ऋटुरषा (3)मूर्ध्नि स्थिता ज्ञेयाः ॥
ऌॡ दन्त्यौ ओऔ कण्टोष्ट्यौ एऐकारौ च कण्ठतालव्यौ (4)कण्ट्यो विसर्जनीयो जिह्वामूलोद्भवौ कखयोः(5) ॥16॥
[नास्ति] BhNZ_14_016ab
[नास्ति] BhNZ_14_016cd
पफयोरोष्ठस्थानो भवेदुकारस्तथा स्वरो विवृतः6 BhNZ_14_017ab
स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ BhNZ_14_017cd
अन्तःस्थाः संवृतजा ङञणनमा नासिकोद्भवा ज्ञेयाः । BhNZ_14_018ab
ऊष्माणश्च शषसहा यवरलवर्णास्तथैव चान्तःस्थाः ॥ BhNZ_14_018cd
जिह्वामूलीयः कः प उपध्मानीय संज्ञया ज्ञेयः7 BhNZ_14_019ab
कचटतपाः स्वरिताः स्युः खछठथफाः स्युस्तथा कण्ठ्याः8 BhNZ_14_019cd
9कण्ठोरस्यान् विद्यात् 10गजडदबान् पाठ्यसंप्रयोगे तु । BhNZ_14_020ab
वेद्यो विसर्जनीयो जिह्वास्थाने11 स्थितो वर्णः ॥ BhNZ_14_020cd
एते व्यञ्जनवर्गाः समासतः संज्ञया कथिताः । BhNZ_14_021ab
12शब्दप्रयोगविषये स्वरांस्तु भूयः प्रवक्ष्यामि ॥ BhNZ_14_021cd
[ABh]

अङ्गं दधन्निबिडचन्दनमङ्गनानां नैदाघवातसदनं न तु मन्मथस्य ।''
अत्राकारतकारावेवाघोषौ । एतदर्थ एव च स्थानादिविभाग उपन्यस्तः । एतत्स्वरलक्षस्णाध्याये (अ-17) स्फुटयिष्यामः । क॰ प॰योर् उच्चारणाय ककारपकारौ जिह्वाशब्देन स्थानकरणौ ।

[(मू)]

1. छ॰ गहौ

2. प॰ कण्ठोष्ठ्यौ

3. ड॰ मूर्ध

4. न॰ कण्ठ्यौ विसर्जनीयौ जिह्वामूल्योद्भवौ कखयोः

5. ड॰ कपयोः

6. ढ॰ स्थानं भवेद्रकारः स्वराविद्धः ।

7. ड॰ ज्ञेयौ, न॰ ज्ञेयः

8. फ॰ तथाक्रम्याः

9. द॰ कण्ठोरस्स्थान्

10. ड॰ घझढधभान्

11. द॰ मूल

12. ड॰ शब्दविषयप्रयोगे ।

[(व्या)]

[page 130]




[NZ]

1यस्मिन् स्थानेषु समो विज्ञेयो यः सवर्णसंज्ञो ऽसौ । BhNZ_14_022ab
2य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः ॥ BhNZ_14_022cd
पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः3 BhNZ_14_023ab
4इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः ॥ BhNZ_14_023cd
काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गैस्तु । BhNZ_14_024ab
5उद्दिष्टं शब्दानां लक्षणमेतत्समासयोगेन ॥ BhNZ_14_024cd
प्रकरणवशाद्धि तदहं विस्तरतः संप्रवक्ष्यामि । BhNZ_14_025ab
तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् ॥ BhNZ_14_025cd
[ABh]

(सवर्णसंज्ञ इति) ये यत्र तुल्ये तत्सवर्णभूमयः । पुनर्ह्रस्वदीर्घादिरूपतया समानसंज्ञाद्भेदे ऽप्यनुप्रासादावभेदादव्यञ्जनभेदे(?) ... स्वरा ... ... ... भावादेकवचनादि भूतकालयुक्तं नामेति --- सम्बन्धः । करिष्यमाणं क्रियमाणं क्रियाकृतमिति यथाभूतादियुक्तं गमनागमनाभ्यां पूर्वापरीभूताध्यक्षापरोक्षभूताभ्यां

[(मू)]

1. इदं श्लोकार्धं क॰ च॰ योरेव वर्तते ।

2. अतः परं भ॰ म॰ योः पाठभेदो यथा ---

य इमे स्वराश्चतुर्दश तत्रादौ दश समानसंज्ञास्तु ।

पूर्वो ह्रस्वस्तेषां परश्च दीर्घो ऽवगन्तव्यः ॥11॥

पूर्वाचार्यैरुक्तं विस्तरतो लक्षणं तु शब्दानाम् ।

संक्षेपादहमेषां लक्षणमर्थं च वक्ष्यामि ॥12॥

अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् ।

द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥13॥

नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते ।

पृथक्तत्रोपसर्गेभ्यो निपाता नियमे च्युते ॥14॥

3. न॰ परस्तु दीर्घो विनिर्देश्यः ।

4. न॰

एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गविनिपातैः ।

तद्धितसन्धिविभक्तिरधिष्ठितः शब्द इत्युक्तः ॥

5. एतत्स्थाने ड॰आदिषु --

पूर्वाचार्यैरुक्तं शब्दानां लक्षणं तु विस्तरतः ।

पुनरेव संहृतार्थं लक्षणतः संप्रवक्ष्यामि ॥

[(व्या)]

[page 231]




[NZ]

[निर्देशसंप्रदानोपादानप्रभृतिसंज्ञाभिः । BhNZ_14_026ab
संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् ॥ BhNZ_14_026cd
1वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् । BhNZ_14_027ab
2पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि ॥ BhNZ_14_027cd
3स्वाद्याद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । BhNZ_14_028ab
प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम्4 BhNZ_14_028cd
आख्यातं 5पाठ्यकृतं ज्ञेयं 6नानाश्रयविशेषम् ।] BhNZ_14_029ab
7वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ BhNZ_14_029cd
प्रातिपदिकार्थ8युक्तान् धात्वर्थानुपसृजन्ति ये स्वार्थे9 BhNZ_14_030ab
उपसर्गा ह्युद्दिष्टास्तस्मात्संस्कारतस्तस्मिन्10 BhNZ_14_030cd
[ABh]

युक्तमाख्यातं प्रथितः साध्यो ऽर्थो वाच्यत्वेन यस्य । पुरुषैरुत्तममध्यमप्रथमैर्विभक्तम् । धात्वर्थानुपसृज्यन्ति उपरागेणान्यादृशान् कुर्वन्ति तेनोपकारेण प्रातिपादिकार्थस्य युक्तसंबन्धेन प्रकरोतीति हि शब्दः । प्रकर्षप्रातिपदिकार्थोपरागेण वा धात्वर्थं करोति यद्वा तु स्वार्थे धात्वार्थानुपसृजन्ति अतः उपसर्गान् प्रातिपदिकार्थे च युक्त्या उपसर्गाः यथा प्राचार्यः प्रान्तेवासी, प्रातिपदिकार्थयुक्त्या वृद्धश्च धटश्च धातुयुक्त्या पचति पठति च पाक(पाठ)योरेव हि समुच्चयशब्दौ युक्तौ अयुक्त्याश्रयात्तु पादपूरणार्थमुच्यते यत्र द्योतनेन विना न खण्डना द्योतनेन च सति वाक्यमलंकृतं भवति । तद्यथा --- ``मिलति न खलु यस्याः'' इति खलुशब्दः प्रयासस्याकृतार्थत्वं द्योतयति । तच्च तेनापि विना स्फुटमेव वाक्यार्थत एव लाभात् । ``अहरहरनुरागात्''

[(मू)]

1. ब॰ वचनानागत, ड॰ वचनानामिति

2. ट॰ ठ॰ ढ॰ क॰ च॰ भ॰ म॰ आदिमातृकासु न वर्तते श्लोकः

3. अयं श्लोकः क॰ आदि च॰ अन्तेषु न॰ भ॰ म॰ संज्ञेषु च न दृश्यते । ढ॰ स्वाद्यात्यधिकार

4. ड॰ विभूषिता न्यासाः

5. ड॰ पाठ्यमिद

6. द॰ नामाश्रय, ड॰ नानार्थाश्रय, प॰ नामार्थसंश्रय

7. श्लोकार्धं क॰ आदि च॰ अन्तेष्वेव दृश्यते

8. ढ॰ युक्तं, न॰ युक्ताद्

9. ड॰ उत्सqजन्ति ये स्वार्थैः, द॰ ये ऽन्यार्थैः

10. ड॰ संस्कारशास्त्रे ऽस्मिन् ।

[(व्या)]

[page 232]




[NZ]

प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । BhNZ_14_031ab
यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ BhNZ_14_031cd
1प्रत्ययविभागजनिताः प्रकर्षसंयोग2सत्त्ववचनैश्च । BhNZ_14_032ab
3यस्मात्पूरयते ऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ BhNZ_14_032cd
4लोके प्रकृतिप्रत्ययविभागसंयोगसत्त्ववचनेषु5 BhNZ_14_033ab
5तांस्तान् पूर्यन्ते ऽर्थां7स्तेषु हि तद्धितस्तस्मात् ॥ BhNZ_14_033cd
एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । BhNZ_14_034ab
8यस्माद्विभजन्त्यर्थान्विभक्तयः कीर्तितास्तस्मात्9 BhNZ_14_034cd
विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । BhNZ_14_035ab
सन्धीयते पदे यस्मात्तस्मात्सन्धिः प्रकीर्तितः ॥ BhNZ_14_035cd
[वर्णपदक्रमसिद्धः10 11पदैकयोगाच्च वर्णयोगाच्च । BhNZ_14_036ab
सन्धीयते 12तु यस्मात्तस्मादुपदिश्यते सन्धिः13 BhNZ_14_036cd
[ABh]

इति निर्भज्य वचनं द्योतितस्यापि स्फुटीकरणम्, तद्युक्ता । ``अहो बतासि स्पृहणीयवीर्यः (*)'' प्रातिपदिकार्थानेतैरर्थैरुपनिपतितैर्ज्ञापयति । तद्धितः --- तस्मै प्रातिपदिकार्थाय हितस्तत्प्रातिपदिकार्थं च यस्य वा स्वात्मीकुरुते यतः प्रत्ययादिविभागावयवः काव्ये तन्मतं संप्रयोगप्रयोजनमैन्द्रे ऽभिहितः संयोगस्येति संबन्धः । चान्द्री ज्योत्स्ना, सत्त्वं तद्भावः (सूक्तं) सौक्त्यं, वचनं प्रवचनं, काठकमादित्यश्रुत्या, तुर्यपञ्चमाध्यायविहिता निर्देश्यन्ते ।

[(मू)]

1. अयं श्लोकः ट॰ठ॰ड॰ ढ॰न॰त॰थ.प॰ ब॰ आदर्शेष्वेव दृश्यते

2. न॰ तत्त्व

3. प॰ तांस्तान्

4. ड॰ लोप

5. ड॰ तत्त्ववचनैस्तु

6. च॰ ते ते पूर्यन्येर्थाः

7. न॰ अर्थाद् हितो यतः

8. ड॰ विभजन्त्यर्थान्विभक्तयस्तेन ते प्रोक्ताः, ढ॰ विभजन्त्यर्थं यस्मिन्

9. न॰ तेन ताः प्रोक्ताः

10. ब॰ वर्णक्रमसंसिद्धः, ड॰ वर्णक्रमसंबन्धः

11. ड॰ पदैकयोगो ऽन्य, ब॰ पदैकयोगान्य, ढ॰ पदैकयोगे ऽन्य

12. ड॰ च, न॰ हि

13. सन्धिः समुद्दिष्टः ।

[(व्या)]

[page 233]




[NZ]

1लुप्तविभिकिर्नाम्नामेकार्थं संहरन्समासो ऽपि । BhNZ_14_037ab
2तत्पुरुषादिस्तज्ज्ञैर्निर्दिष्टष् षडविधो विप्राः ॥ ] BhNZ_14_037cd
एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थ3संयुक्तैः । BhNZ_14_038ab
पदबन्धाः कर्तव्या 4निबद्धबन्धास्तु चूर्णा वा ॥ BhNZ_14_038cd
5विभक्त्यन्तं पदं ज्ञेयं 6निबद्धं चूर्णमेव च । BhNZ_14_039ab
तत्र चूर्णपदस्येह संविबोधत लक्षणम् ॥ BhNZ_14_039cd
अनिबद्धपदं छन्दस्तथाचानियताक्षरम्7 BhNZ_14_040ab
8अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ BhNZ_14_040cd
निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । BhNZ_14_041ab
निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम्10 BhNZ_14_041cd
एवं नानार्थसंयुक्तैः 11पादैर्वर्णविभूषितैः । BhNZ_14_042ab
[ABh]

एकस्य पदस्य बहूनां वा पदानां समाप्तिं प्राप्तानाम् । वाशब्दाद् द्वयोरपि येनार्थो विभज्यते विभक्त्याख्यः प्रत्ययः, तेषां च पदानां द्वैविध्यं धातोर्वा संबन्धि यदुत्पन्नं लिङ्गस्य वा अर्थवल्लिङ्गमिति संज्ञायां सम्बन्धि व्युत्पन्नं यदि वा लिङ्गस्य संबन्धिन्यो विभक्तयः सुपः धातोस्तिङः । पद इत्येकपदे नास्त्यतिसंहितेत्याह । निबद्धो भाविच्छन्दोविधिना बद्धः संघट्टना यथा । पदबन्धा इत्युक्ते पदं निरूपयति तत्रेति परिमितवक्तव्यत्वादित्यत्राशयः । यतिर्विरामः च्छन्दो ऽक्षरसंख्यानियमः अक्षरनियमो गुरुलघुनिवेशनियमः एतद्विहीनं चूर्णपदमर्थशृङ्गारवीराद्यपेक्ष्यक्षराणि परिमितानि भूयांसि वा यत्रेति असमाससंघट्टनात्मकमुक्तमिति । इदं तु केवलं पठनकर्मत्वाद्गद्यमित्युच्यते ।

[(मू)]

1. अयं श्लोकः क॰ च॰ द॰ आदिषु न वर्तते, ढ॰ लुप्तविभक्तिर्नाम्ना एकार्थान् संहरन्ति संक्षेपात् ।

2. ड॰ तत्पुरुषादिकसंज्ञैः निविष्टः षड्विधः सो ऽपि

3. ड॰ व्यञ्जनत्व

4. ड॰ वृत्तनिबन्धास्तु

5. भ॰ म॰ चतुर्विधं पदं तच्च

6. न॰ निबन्धम्

7. भ॰ छन्दो यथेष्टगुरुलाघवम्

8. न॰ अर्थापेक्षाक्षरपदं

9. ड॰ युतं

10. ड॰ नियताक्षरम्

11. भ॰ पदवर्ण, ड॰ पदैः ।

[(व्या)]

[page 234]




[NZ]

चतुर्भिस्तु भवेद्युक्तं1 छन्दो वृत्ताभिधानवत्2 BhNZ_14_042cd
षड्विंशतिः स्मृतान्येभिः3 पादैश्छन्दांसि संख्यया । BhNZ_14_043ab
सममर्धसमं चैव तथा विषममेव च ॥ BhNZ_14_043cd
छन्दो ज्ञेयं समासेन 4त्रिविधं वृत्तमिष्यते । BhNZ_14_044ab
नानावृत्तविनिष्पन्ना शब्दस्यैषा तनुः स्मृता5 BhNZ_14_044cd
छन्दोहीनो न शब्दो ऽस्ति न च्छन्दश्शब्दवर्जितम् । BhNZ_14_045ab
6एवं तूभ्यसंयोगो नाट्यस्योद्द्योतकः स्मृतः7 BhNZ_14_045cd
एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । BhNZ_14_046ab
8मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ BhNZ_14_046cd
सुप्रतिष्ठा भवेत्पञ्च षड्गायत्री भवेदिह9 BhNZ_14_047ab
10सप्ताक्षरा भवेदुष्णिगष्टौ चानुष्टुबिष्यते11 BhNZ_14_047cd
नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । BhNZ_14_048ab
12एकादशाक्षरा त्रिष्टुब्जगती द्वादशाक्षरा ॥ BhNZ_14_048cd
[ABh]

वर्णा गुरुलघुत्वच्छेदः पादसंख्या सामान्यलक्षणमाह प्रमाणेन श्रोत्रेन्द्रियेण नियत आत्मा यत्र श्रव्यमित्यर्थः । इदं तत्पद्यं पादेषु भवति, गद्यमिति निगदनीयत्वे ऽपि विशेषसंज्ञया व्यपदेशः ।

[(मू)]

1. ड॰ भवेद्वृत्त, भ॰ भवेत्पादैः

2. भ॰ छन्दोवृत्तसमाश्रयम्, न॰ छन्दोवृत्त्यभिधानवत्

3. ड॰ स्मृतानीह, न॰ स्मृतान्यपि

4. ड॰ निबद्धं

5. म॰ विनिष्पन्नं शब्दमूलं तु तत्स्मृतम् । न शब्दश्छन्दसां हीनो

6. ड॰ तस्मात्तूभयसंयुक्ते, न॰ उभेतूभयसंयुक्ते, म॰ एवं तूभयसंयोगात् न नाट्यद्योतनं

7. ड॰न॰ उद्योतके स्मृते

8. म॰ मध्यमं त्र्यक्षरं प्रोक्तं

9. म॰ तथैव च

10. म॰ उष्णिक् सप्ताक्षरकृतात्वष्टानुष्टुप् प्रकीर्तिता

11. ड॰ उच्यते

12. म॰ त्रष्टुबेकादशा ज्ञेया ।

[(व्या)]

[page 235]




[NZ]

त्रयोदशातिजगती शक्वरी तु 1चतुर्दश । BhNZ_14_049ab
दशपञ्चातिशक्वर्या2 अष्टिः स्यात् षोडशाक्षरा ॥ BhNZ_14_049cd
3तथा सप्तदशात्यष्टिः धृतिरष्टादशाक्षरा । BhNZ_14_050ab
4एकोनविंशातिधृतिः कृतिर्विंशतिरेव च ॥ BhNZ_14_050cd
5प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा6 BhNZ_14_051ab
7विकृतिः स्यात् त्रयोविंशा 8चतुर्विंशापि संकृतिः ॥ BhNZ_14_051cd
पञ्चविंशत्यभिकृतिः षड्विंशत्यक्षरोत्कृतिः9 BhNZ_14_052ab
अतो ऽधिकाक्षरं छन्दो10 मालावृत्तमिति स्मृतम्11 BhNZ_14_052cd
छन्दसां तु 12तथाह्येते भेदाः प्रस्तारयोगतः । BhNZ_14_053ab
असंख्येय13प्रमाणानि वृत्तान्याहुरतो बुधाः ॥ BhNZ_14_053cd
[ABh]

अथ तस्य लक्षणं कर्तुं छन्दःस्वरूपं तावदित्याह एवमित्यादि विविध(वर्ण)भूषणैः सालंकारैः पादैश्चतुर्भिरपि संबन्धः षड्विंशकमिति तावत्परिमाणमेकाक्षरात्प्रभृति षड्विंशत्यक्षराणि तदुक्तादीन्युत्कृत्यन्तानि छन्दांसीत्यर्थः । पादचतुष्टये तुल्यलक्षणं समं, अतुल्यलक्षणं विषमं (अर्थसमं) प्रथमस्तृतीययोर्द्वितीयचतुर्थयोः । संज्ञाभिश्छन्दोभेदा आश्रिताः ।
कथं ते भेदा इत्याह प्रस्तारयोगत इति प्रस्तारो योगो युक्तिः तेन तत्र युक्तिर्वक्ष्यते ---
``प्रकीर्य सर्वं गुरु तत्र पूर्वगुरोरधो लं परपूर्य तत्त्वम् ।
स्यात्पूर्वपूर्वं गुरुणेति यावत्सर्वत्र लः प्रस्तरणे तदेव ॥''

[(मू)]

1. ब॰ च

2. ड॰ अतिशक्वरी पञ्चदश षोडशाष्टिः प्रकीर्तिता (न - प्रकीर्त्यते)

3. ड॰ अत्यष्टिः स्यात्सप्तदश

4. द॰ एकाधिका चातिधृतिः, ब॰ अतिधृत्येकोनविंशा

5. ब॰ प्रकृतिस्त्वेक

6. म॰ विंशत्या यथाकृतिः

7. विकृतिश्च त्रयो

8. ड॰ चतुर्विंशा च

9. ड॰ षड्विंशत्युत्कृतिर्भवेत्, म॰ षड्विंशा चोत्कृतिर्भवेत्

10. ब॰ यत्स्यात्, ड॰ यत्तु

11. ड॰ तदिष्यते

12. च॰ यथान्येषां, ड॰ छन्दसां च भवेदेषां भेदो नैकविधः पृथक्

13. च॰ परीमाणा वृत्तसंख्या समाश्रिता, ड॰ असंख्या परिमाणानि ।

[(व्या)]

[page 236]




[NZ]

गायत्रीप्रभृति त्वेषां1 प्रमाणं संप्रवक्ष्यते2 BhNZ_14_054ab
प्रयोगजानि सर्वाणि 3प्रायशो न भवन्ति हि ॥ BhNZ_14_054cd
4वृत्तानि च चतुःषष्टि गायत्र्यां कीर्तितानि तु ।64 BhNZ_14_055ab
शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते5128 BhNZ_14_055cd
षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि6256 BhNZ_14_056ab
शतानि पञ्च वृत्तानां 7बृहत्यां द्वादशैव तु ॥ 512 BhNZ_14_056cd
8पंक्त्या सहस्रं वृत्तानां चतुर्विंशतिरेव तु91024 BhNZ_14_057ab
10त्रैष्टभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ 2048 BhNZ_14_057cd
सहस्राण्यथ चत्वारि नवतिश्च षडुत्तरा । BhNZ_14_058ab
जगत्यां 11समवर्णानां वृत्तानामिह सर्वशः ॥ 4096 BhNZ_14_058cd
शतमष्टौ सहस्राणि द्व्यधिका नवतिः पुनः । BhNZ_14_059ab
जगत्यामतिपूर्वायां वृत्तानां सर्वशो भवेत्128192 BhNZ_14_059cd
[ABh]

एतद्यथा भेदाः । अक्षरस्याष्टौ गायत्रीप्रभृतीनि, तत एवारभ्य प्रयोगार्हतेति सूचयति उक्त्यादीनामश्रवत्वात् । तदाह प्रयोगजानीति (1)लक्ष्यतो स्थितानि, अपि तु देववद् दृश्यन्त इति भावः । वृत्तानि च चतुःषष्टिरित्यादिना स्वकण्ठेन संख्या पठति यावत् ।

[(मू)]

1. च॰ प्रभृतिश्चैषां

2. म॰ संप्रवर्तते, ड॰ संविधीयते

3. ड॰ प्रायस्तानि

4. ड॰ वृत्तानां हि चतुष्षष्टिर्गायत्री परिकीर्तिता

5. म॰ उष्णिक्तथैव च, ड॰ उष्णिगथोच्यते

6. ढ॰ अनुष्टुभः

7. ढ॰ वृहत्या

8. ड॰ पङ्क्तेः

9. ड॰ च

10. ड॰ त्रिष्टुभो द्वि

11. म॰ सनपादानां

12. ड॰ परिमाणतः

[(व्या)]

1. क॰ वक्ष्यन्तो ऽर्थितामपि तु ।

[page 237]




[NZ]

शतानि त्रीण्यशीतिश्च सहस्राण्यपि1 षोडश । BhNZ_14_060ab
वृत्तानि चैव चत्वारि 2शक्वर्याः परिसंख्यया ॥ 16384 BhNZ_14_060cd
3द्वात्रिंशत्तु सहराणि सप्त चैव शतानि च । BhNZ_14_061ab
अष्टौ षष्टिश्च 4वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ 32768 BhNZ_14_061cd
पञ्चशष्टि सहस्राणि सहस्रार्धं 5तु संख्यया । BhNZ_14_062ab
षट्त्रिंशच्चैव वृत्तानि 6तथाष्ट्यां गदितानि तु ॥ 65536 BhNZ_14_062cd
एकत्रिंशत्सहस्राणि वृत्तानां च द्विसप्ततिः । BhNZ_14_063ab
तथा शतसहस्रं च7 छन्दस्यत्यष्टिसंज्ञिते ॥ 131072 BhNZ_14_063cd
धृत्यामपि हि8 पिण्डेन वृत्तान्याकल्पितानि तु9 BhNZ_14_064ab
10तज्ज्ञैः शतसहस्रे द्वे 11शतमेकं तथैव च ॥ BhNZ_14_064cd
[ABh]

षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः ।
अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च ।
चतुःषष्टिस्तु वृत्तानि ह्युत्कृतावपि संख्यया ॥इति(67108864)
(1)प्रमाणम् । अभिकृत्यन्तानां संख्यां प्रमाणीकृत्याह तिस्रः कोट्य इत्यादिना । तदङ्कं पूर्वेण पिण्डयित्वा सर्वसंख्याज्ञानं क्रमवशात् ।

[(मू)]

1. न॰ अथ

2. न॰ शक्वार्थां

3. ड॰ द्वात्रिंशच्च

4. म॰ वृत्तानां संश्रयन्त्यतिशक्वरीम्

5. म॰ च

6. म॰ तथाष्टौ, ब॰ अष्टौ निगदितानि च

7. म॰ स्यादत्यष्टौ परिसंख्यया

8. ड॰ च

9. ड॰ वृत्तमाकलितं मया

10. द॰ यथा, ड॰ तथा

11. म॰ द्विषष्टि च तथैव च । सहस्राणि विभागेन चत्वारिंशश्च तानि च

[(व्या)]

1. क॰ पुराणाम्

[page 238]




[NZ]

द्विषष्टिश्च सहराणि चत्वारिंशच्च योगतः1 BhNZ_14_065ab
चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ 262144 BhNZ_14_065cd
अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च2 BhNZ_14_066ab
तथा शतसहस्राणि पञ्चवृत्तशतद्वयम् ॥ BhNZ_14_066cd
अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि तु3524288 BhNZ_14_067ab
कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ॥ BhNZ_14_067cd
चत्वारिंशत्तथाष्टौ च सहस्राणि शतानि च । BhNZ_14_068ab
पञ्च षट्सप्ततिश्चैव वृत्तानां परिमाणतः41048576 BhNZ_14_068cd
तथा शतसहस्राणां 5प्रकृतौ विंशतिर्भवेत्6 BhNZ_14_069ab
सप्त वै गदितान्यत्र नवतिश्चैव संख्यया ॥ BhNZ_14_069cd
सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । BhNZ_14_070ab
वृत्तानि परिमाणेन7 वृत्तज्ञैर्गदितानि तु ॥ 2097152 BhNZ_14_070cd
8चत्वारिंशत्तथैकं च सहस्राणां शतानि तु । BhNZ_14_071ab
तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ BhNZ_14_071cd
शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् ।4194304 BhNZ_14_072ab
[ABh]


[(मू)]

1. द॰ चत्वारिंशत् प्रयोगतः

2. द॰ तु

3. ड॰ च

4 , म॰ प्रविभागशः

5. म॰ सहस्राणि

6. म॰ कलितानि तु । विंशतिर्नवतिश्चैव सप्त चैव हि संख्यया

7. म॰ प्रविभागेन

8. बुधैः शतसहस्राणि चत्वारिंशत्ततःपरम् । नवतिश्चैव चत्वारि सहस्राणि शतत्रयम् । चत्वारि चैव वृत्तानि कथितान्याकृतौ बुधैः ॥

[(व्या)]

[page 239]




[NZ]

1ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ BhNZ_14_072cd
अष्टाशीति सहस्राणि वृत्तानां षट्छतानि च । BhNZ_14_073ab
अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ 8388608 BhNZ_14_073cd
2तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । BhNZ_14_074ab
सप्त चैव सहस्राणि षोडश द्वे शते तथा ॥ BhNZ_14_074cd
कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै ।16777316 BhNZ_14_075ab
3तथा शतसहस्राणि पञ्चत्रिंशच्च संख्यया ॥ BhNZ_14_075cd
तिस्रः कोट्यः सहस्राणि चतुष्पञ्चाशदेव च । BhNZ_14_076ab
शतानि चत्वारि तथा द्वात्रिंशत्प्रविभागतः ॥ BhNZ_14_076cd
वृत्तान्यभिकृतौ चैव छन्दोज्ञैः कथितानि वै ।33554432 BhNZ_14_077ab
4षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः ॥ BhNZ_14_077cd
अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च । BhNZ_14_078ab
चतुष्षष्टिस्तु वृत्तानि ह्युत्कृतावपि संख्यया ॥ 67108864 BhNZ_14_078cd
[ABh]

1. म॰ तथाशतसहस्राणामशीतित्रिकसंयुता । अष्टाशीति सहस्राणि षडष्टौ च शतानि च । वृत्तानि विकृतौ छन्दस्युद्दिष्टानीह संख्यया ॥
2. न॰ कोटिष्षडधिका नित्यं सप्तसप्ताधिaका पुनः । सप्त चैव सहस्राणि वृत्तानां च शतद्वयम् । षोडशोत्तरमाख्यातं संकृत्यां परिमाणतः
3. ब॰ कोटित्रयं चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् । पञ्चाशद्भिः सहस्रैस्तु चतुर्भिरधिकैस्तथा । चतुष्टयं शतानां च द्वात्रिंशद्भिः समन्वितम्
4. न॰ षट्कोट्यस्तथोत्कृथां लक्षाणामेकसप्ततिः । चतुष्षष्टि शतान्यष्टौ सहस्राण्यष्ट एव तु ।

[(मू)]

[(व्या)]

[page 240]




[NZ]

1उक्ताद्युत्कृतिजातानि वृत्तसंख्याविचक्षणैः । BhNZ_14_079ab
एतेन च विकल्पेन वृत्तान्येतानि निर्दिशेत् ॥ BhNZ_14_079cd
सर्वेषां छन्दसामेवं 2वृत्तानि कथितानि वै । BhNZ_14_080ab
3तिस्रः कोट्यो दश तथा सहस्राणां शतानि तु ॥ BhNZ_14_080cd
चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । BhNZ_14_081ab
सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ 134217726 BhNZ_14_081cd
षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । BhNZ_14_082ab
समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ BhNZ_14_082cd
4सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । BhNZ_14_083ab
ज्ञेया ह्यष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमक्षरम् ॥ BhNZ_14_083cd
त्रीण्यक्षराणि विज्ञेयस्त्रिको ऽंशः परिकल्पितः । BhNZ_14_084ab
गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ BhNZ_14_084cd
गुरुपूर्वो भकारः स्यान्मकारस्य गुरुत्रयम्5 BhNZ_14_085ab
जकारो गुरुमध्यस्तु6 सकारो ऽन्तगुरुस्तथा ॥ BhNZ_14_085cd
[ABh]


[(मू)]

1. ड॰ सर्वेषां छन्दसां पिण्डं कोटयो ऽत्र त्रयोदश । शतानि सप्तसप्तैव सहस्राणि दशैव च । तथा शतसहस्राणां द्विचत्वारिंशदत्र हि । षड्विंशतिश्च वृत्तानामित्थं चानन्तमुच्यते (न-मिदं नाट्यं तदुच्यते )

2. ड॰ वृत्तांशं कथितं मया, ब॰ वृत्तान्तं कथितं यथा

3. म॰ कोट्यस्त्रयोदश तथा चत्वारिंशद्वयं तथा । ज्ञेयं शतसहस्राणां ततो दश च सप्त च । सहस्राणि ततः सप्तशतानि प्रविभागशः । षड्विंशति च वृत्तानि वृत्तसंख्याविचक्षणैः

4. न॰ एतेषां तु पुनर्ज्ञेयं त्रिकैर्वृत्तप्रवर्तनम् । एकं वा विंशतिं वापि सहस्रं कोटिरेव वा । सर्वेषां छन्दसामेवं वृत्तानां वा द्विजोत्तमाः । ज्ञेयाश्चाष्टौ त्रिकास्तत्र स्वसंज्ञाभिः पृथक्पृथक्

5. म॰ मकारो गुरुकत्रयम, ड॰ मकारस्तु गुरुत्रिकम्, न॰ मकारः स्याद्गुरुत्रयम्

6. ड॰ मध्यस्थः ।

[(व्या)]

[page 241]




[NZ]

1लघुमध्यस्तु रेफः स्यात्तकारो ऽन्तलघुस्तथा2 BhNZ_14_086ab
लघुपूर्वो यकारस्तु नकारस्तु3 लघुत्रयम् ॥ BhNZ_14_086cd
एते ह्यष्टौ त्रिका 4नाम्ना विज्ञेया ब्रह्मसंभवाः । BhNZ_14_087ab
लाघवार्थं पुनरमी छन्दोमानमवेक्ष्य5 च ॥ BhNZ_14_087cd
6एभ्यो विनिर्गताश्चान्या जातयो ऽथ समादयः । BhNZ_14_088ab
अस्वराः सस्वराश्चापि7 प्रोच्यन्ते वृत्तलक्षणैः8 BhNZ_14_088cd
गुर्वेकं 9ग् इति विज्ञेयं तथा लघु ल् इति स्मृतम् । BhNZ_14_089ab
नियतः पदविच्छेदो यतिरित्यभिसंज्ञिता10 BhNZ_14_089cd
गुरु दीर्घं प्लुतं चैव संयोगपरमेव च । BhNZ_14_090ab
सानुस्वारविसर्गं च तथान्त्यं11 च लघु क्वचित् ॥ BhNZ_14_090cd
[12गायत्री प्रभृति त्वेषां प्रमाणं संप्रवर्तते । BhNZ_14_091ab
प्रयोगजानि पूर्वाणि प्रायशो न भवन्ति हि ॥ BhNZ_14_091cd
13गायत्र्यां द्वौ त्रिकौ ज्ञेयावुष्णिगेकाक्षराधिका14 BhNZ_14_092ab
अनुष्टुब्द्व्यधिका ज्ञेया15 16बृहत्यां तु त्रिकास्त्रयः ॥ BhNZ_14_092cd
एकाधिकाक्षरा पङ्क्तिस्त्रिष्टुप्च द्व्यधिकाक्षरा । BhNZ_14_093ab
चतुस्त्रिका तु जगती सैकातिजगती ततः17 BhNZ_14_093cd
शक्वरी द्व्यधिका 18पञ्चत्रिका ज्ञेयातिशक्वरी । BhNZ_14_094ab
[ABh]


[(मू)]

1. न॰ लघुमध्यस्थितो रेफः

2. ड॰ परः

3. न॰ नकारश्च

4. न॰ ज्ञेया बोद्धव्या, ड॰ प्राज्ञैर्विज्ञेया

5. द॰ अपेक्ष्य

6. इदं श्लोकार्धं, ब॰ मातृकायामेव वर्तते

7. ड॰ चैव

8. द॰ लक्षणम्, ड॰ लक्षणे

9. ब॰ गिति

10. ड॰ अभिधीयते

11. म॰ तथान्ते

12. अयं श्लोको म॰संज्ञके ऽत्रैव निवेशितः

13. म॰ अभिगायत्री. सार्धं श्लोकपञ्चकं क॰आदिच॰अन्तेषु न दृश्यते

14. ब॰ एकाधिकाक्षरा

15. ब॰ चैव

16. ड॰ बृहती तु, न॰ वृहती च

17. ड॰ पुनः

18. म॰ तस्यास्त्रिकाः पञ्चातिशक्वरी ।

[(व्या)]

[page 242]




[NZ]

एकाधिका तथाष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ BhNZ_14_094cd
1षट्त्रिका धृतिरुद्दिष्टा ह्यतिपूर्वाधिकाक्षरा2 BhNZ_14_095ab
कृतिश्च द्व्यधिका प्रोक्ता 3प्रकृत्यां सप्त वै त्रिकाः ॥ BhNZ_14_095cd
आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । BhNZ_14_096ab
4संकृत्यां तु त्रिका ह्यष्टौ सैका त्वभिकृतिर्भवेत्5 BhNZ_14_096cd
उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः6 ।] BhNZ_14_097ab
[7गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ ॥ BhNZ_14_097cd
लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ । BhNZ_14_098ab
द्व्यक्षरादधिकौ पादावन्यौ हीनाक्षरावपि ॥ BhNZ_14_098cd
स्वराडिति समाख्याता विराडिति हि सूरिभिः । BhNZ_14_099ab
पादो यस्या ऋचश्चैव भवेदेकाधिकाक्षरः । BhNZ_14_099cd
समास्त्वन्ये त्रयः पादाः सा भुरुक् संप्रकीर्तिता । BhNZ_14_100ab
एकाक्षरोनः पादश्चेदेको यस्या ऋचो भवेत् ॥ BhNZ_14_100cd
समाः पादास्त्रयश्चान्ये सा निवृत्संप्रकीर्तिता ॥ ] BhNZ_14_101ab
[8सम्पदाद्यधुना चैषां छन्दसां सम्यगुच्यते ॥ ] BhNZ_14_101cd
सम्पद्विरामपादश्च9 देवतास्थानमक्षरम् । BhNZ_14_102ab
10वर्णः स्वरा विधिर्वृत्तमिति छन्दोगतो विधिः ॥ BhNZ_14_102cd
[ABh]


[(मू)]

1. ब॰ षट्त्रिकास्तु धृतिः प्रोक्ता

2. न॰ सैका चातिधृतिः स्मृता

3. म॰ प्रकृतिः

4. ब॰ अष्टौ त्रिकाः संकृतिह् स्यात्, म॰ संकृतिस्तु त्रिका ह्यष्टौ

5. न॰ सैका चातिकृतिर्मता

6. म॰ विज्ञेया वृत्तदर्शने

7. एते चत्वारः श्लोका भ॰म॰योरेव दृश्यन्ते

8. इदं श्लोकार्धं द॰संज्ञित एव वर्तते

9. न॰ पादश्च

10. वर्णस्वराधिकैः, ड॰ वर्णाः ।

[(व्या)]

[page 243]




[NZ]

1नैवातिरिक्तं हीनं वा यत्र संपद्यते ऽक्षरम्2 BhNZ_14_103ab
3विधाने छन्दसामेषा संपदित्यभिसंज्ञिता4 BhNZ_14_103cd
यत्रार्थस्य समाप्तिः 5स्यात्सा विराम इति स्मृतः । BhNZ_14_104ab
[ABh]

एकादिकक्रमवशाद् द्विगुणादिपिण्ड्याच्छन्दः प्रमाणकलितानथ पिण्डयोत्तान् ।
एकं क्षिपेत्तदुपरीति समम्तवृत्तसंख्याप्रकाशनाविधौ लघुरभ्युपायः ॥
यथा त्र्यक्षरे तत्पिण्डयित्वा एकाक्षेपादेकसंख्यावत् । षड्विंशत्यक्षरे --- ``द्व्यंश उक्तप्रमेणेह द्वैगुण्यं यावदुत्कृतेः'' ॥ इति । एकाक्षरे द्वौ, चत्वारः, त्र्यक्षरे .ष्टौ, चतुरक्षरे षोडशेत्यादिसंक्षेपः । अनेनैवोपायेन विचार्य ग्रन्थे पाठो निश्चेयः । सर्वेषां वृत्तानामित्यादावर्थः समासेन जयदेवो ऽभ्यधात् --- ``सर्वादिमध्यान्तग्लौ त्रिकौ म्नौ भ्यौ ज्रौ स्तौ'' इति (अ॰ 1-2) त्रिकैरुपलक्षिते ऽपि वृत्ते त्रिकसंख्यानतया छन्दो न पूर्यते, यथोष्णिक् अत्रैकमधिकमक्षरमधिकत्वेनोक्तं, अनुष्ठुभि द्वे, तत्र त्रिकबीजानि गुरुलघुरूपाण्येव कर्तव्यानि । तथा चैकं गुरुलघु वा द्वे गुरुणी लघुनी लघुगुरुणी गुरु लभुनी वा तदाह यदेकमधिकमिति । ग्लावित्यादिश्लोकेन व्याचष्टे नैवातिरिक्तमिति । सम्पदिति स्वराट् भुरिक् निवृत् श्रुतावेव संभवो न काव्य इति तात्पर्यम् । (*)

[(मू)]

1. भ॰ हीनं नैवातिरिक्तं च यत्तु स्यात्पादयोगतः । विधाने छन्दसामस्मिन् सा हि संपदुदाहृता ।

2. ड॰ क्रमः

3. ड॰ विविधा

4. न॰ अभिधीयते

5. भ॰ तु

[(व्या)]

* स्वराडादयः काव्येष्वपि दृश्यन्त इति जनाश्रयीकारः । यथा विराड् ---

शूरः सुमुखः सदयः शान्तो धीरस्त्यागी गुणवान् भक्तः ।

कुलजो ऽस्माकं नित्यं मित्रं भवतु श्लाघ्यम् ॥

निवृत् ---

अम्भोदानामसितानां श्रुत्वा शब्दं सन्ततबर्हः ।

अम्भोभारान्मन्दगतीनामुद्ग्रीवो ऽयं रौति मयूरः ॥

खराट् ---

अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषीदतुः ।

मृदुभिर्मृदुमारुतेरितैरुपगूढाविव बालपल्लवैः ॥

भुरिक् ---

मनोज्ञमपि सिन्दुवारतः कुन्दकुसुमाग्र्यं च षट्पदः ।

न सर्पति तुषारशङ्कितश्चन्द्रालोकविशेषशीतलम् ॥

[page 244]




[NZ]

1पादश्च पद्यतेर्धातोश्चतुर्भागः प्रकीर्तितः2 BhNZ_14_104cd
3अग्न्यादि दैवतं प्रोक्तं स्थानं द्विविधमुच्यते । BhNZ_14_105ab
शरीराश्रयसंभूतं4 5दिगाश्रयमथापि वा ॥ BhNZ_14_105cd
6[शरीरं मन्त्रसंभूतं छन्दोगायत्रसंज्ञितम् । BhNZ_14_106ab
क्रुष्टे मध्यन्दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ BhNZ_14_106cd
तृतीयसवनं चापि शीर्षण्यं जागतं हि यत् ।] BhNZ_14_107ab
7ह्रस्वं दीर्घं प्लुतं चैव त्रिविधं चाक्षरं8 स्मृतम् ॥ BhNZ_14_107cd
[ABh]

एतन्निरूपणं तु उपयुज्यते यत्र वेदवाक्यसदृश वाक्यं निर्णीयते, यथा अभिज्ञानशाकुन्तले । अर्थस्यावान्तररूपस्य समाप्तिर्लक्षणतो यतिः ``मीलति सति राज्ञो'' यथा ``आयान्त्या तुल्यकालं'' इति, न तु ``जम्भारातीभकुम्भोद्भवं'' इति उच्छब्दो ऽर्थसमाप्त्यभावात् । चतुर्भाग इति पादान्ते छेदः कर्तव्यः, न तु ``ताम्बूलवल्लीपरिणद्धपूगास्वेला'' †इति । प्रयोगी प्रतिपादमङ्कुरीकृत्य पठन्मधे विश्राम्यति । विश्रान्तौ चात्र वृत्तभङ्गो ऽर्थभङ्गो ,ऽभिनेयो ऽत्र श्राव्यत्वाद्भट्टशङ्करादिभिरुपगतमेतत् ``क्वचिदुपान्त्यो वा'' इति । अधिष्ठात्री देवता वह्न्यादयः । शरीराश्रयेत्यादि । यथोक्तं कात्यायनेन ---

[(मू)]

1. च॰ पादस्य

2. भ॰ गत्यर्थात्संप्रकीर्तितः, ड॰ इति स्मृतः

3. भ॰ देवाह्यग्न्यादयः प्रोक्ताः

4. भ॰ भूतं च

5. भ॰ ऋक्सामाश्रयमेव च, ड॰ जिह्वाश्रय, द॰ दिशाश्रय

6. सार्धः श्लोको ज॰आदि भ॰ अन्तेष्वेव दृश्यते

7. भ॰ प्लुतं दीर्घं च, ड॰ ह्रस्वदीर्घप्लुताश्चैव

8. म॰ ह्यक्षरम् ।

[(व्या)]

* गायत्रीप्रभृति जगतीपर्यन्तानां दैवतानि --- अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणौ शक्रो विश्वेदेवाः ।

*

जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्ताः सिक्ता इवाघैरुदयगिरितटीधातुधाराद्रवस्य ।

आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा मानवो भानवीयाः ॥


ताम्बूलवल्लीपरिनद्धपूगास्वेलालतालिङ्गितचन्दनासु ।

तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ (रघु- 6-64)

[page 245]




[NZ]

(*)श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । BhNZ_14_108ab
तारश्चैव हि मन्द्रश्च मध्यमश्च त्रिधा स्वरः1 BhNZ_14_108cd
ध्रुवाविधाने चैवास्य2 संप्रवक्ष्यामि लक्षणम् । BhNZ_14_109ab
विधिर्गणकृतश्चैव तथा चार्थकृतो ऽपि च3 BhNZ_14_109cd
[वृत्तमर्धसमं चैव समं विषममेव च4 BhNZ_14_110ab
छन्दसो यस्य पादे5 स्याद्धीनं वाधिकमेव वा ॥ BhNZ_14_110cd
6अक्षरं तन्निवृत्प्रोक्तं भुरुक्चेति द्विजातिभिः7 BhNZ_14_111ab
अक्षराभ्यां 8यदा द्वाभ्यामधिकं हीनमेव वा ॥ BhNZ_14_111cd
तच्छन्दो 9नामतो ज्ञेयं 10स्वराडथ विराडपि ।] BhNZ_14_112ab
सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रिकाः ॥ BhNZ_14_112cd
[ABh]

वीरसय भुजगदण्डानां वर्णने स्रग्धरा भवेत् ।
नायिकावर्णने कार्यं वसन्ततिलकादिकम् ॥
प्लुतस्याप्यत्र प्रयोगो भवत्येव । यथा --- ``यतो ऽपि मानेन स एष मूढो द्रोणारिरेयातिपद्यत्रिलग्नो(?)'' स तु पाठो दीर्घवत्पठितव्यः प्रयोक्ता त्रिमात्र एव । श्वेतादय इति प्रातिशाख्यादौ छन्दांसि (छन्दसि ?) विविधवर्णं(1) कृतं तदनुपयोगान्नास्माभिर्लिखितम् । भगवते कृत इति केषांचिद्दोदकतृतोदकादीनां गीयमानतया शोभातिशयो भवति श्लोकः, स्रग्धरादीनां तु

[(मू)]

1. ड॰ मध्यश्च त्रिविधः स्वरः, ड॰ स्मृतः, भ॰ द्विविधः स्वर उच्यते

2. भ॰ चैतेषां

3. म॰ कालकृतश्चापि तथा चैवार्थतो भवेत्

4. ड॰ विषमं सममेव वा

5. म॰ पादः

6. ड॰ वृत्तं निवृदिति प्रोक्तं

7. भ॰ द्विजोत्तमाः

8. ड॰ सदा

9. न॰ नाम तत्

10. ड॰ स्वराडिति ।

[(व्या)]

1. क॰ वर्णनम् ।

* गायत्री प्रभृतिजगतीपर्यन्तानां छन्दसां --- सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः ।

[page 246]




[NZ]

दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च । BhNZ_14_113ab
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ BhNZ_14_113cd
त्रिष्टुप्च जगती चैव 1दिव्यो ऽयं प्रथमो गणः । BhNZ_14_114ab
2तथातिजगती चैव शक्वरी ह्यतिशक्वरी ॥ BhNZ_14_114cd
अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः । BhNZ_14_115ab
कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा ॥ BhNZ_14_115cd
संकृत्यभिकृती चैव ह्युत्कृतिर्दिव्यमानुषः । BhNZ_14_116ab
3एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् ॥ BhNZ_14_116cd
लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च4 BhNZ_14_117ab
प्रस्तारो ऽक्षरनिर्दिष्टः मात्रोक्तश्च तथैव हि5 BhNZ_14_117cd
[ABh]

पाठेन । इति शब्देन प्रकारार्थेन व्याचष्टे दिव्य इति । प्रथम इति स्तोत्रशास्त्रेषु सप्तानामेव छन्दसां बाहुल्येन दर्शनम् । देवस्तुत्यादौ देवेषु वक्तृष्वयं गण इत्यर्थः । गण इति द्वितीयो दिव्यनिवृत्तौ गण इत्यर्थः तेन मानुषेषु वक्तृष्वयं प्रायेण । तृतीयस्तु दिव्यमानुषेषु च रामादिषु नरपतिषु च ।
प्रस्तारस्तत्र संख्यादि सर्वमिति संश्रयशब्देनाह, तद्गुणसंविज्ञानाच्च, प्रस्तारो ऽप्युच्यते । प्रस्तरणं विताननं । लक्षणमङ्कसंख्येत्यर्थः । गतं नष्टमिति स्वरूपेणैव न ज्ञातं, उद्दिष्टं तु स्वरूपेण ज्ञातं न संख्यया । तज्ज्ञानोपायेन नष्टादयः (1)शुद्धाः (सिद्धाः ?) ।

[(मू)]

1. भ॰ दिव्यस्तु

2. भ॰ मानुषश्चातिजगती शक्वरी चाति

3. ड॰ एवं तु छन्दसामेषां

4. ड॰ नष्टोद्दिष्टं तथैव च

5. ब॰ समानोक्तं तथैव च न॰ समात्रोक्तस्तथैव च, द॰ समाः प्रोक्तास्तथैव च ।

[(व्या)]

ख॰ शब्दाः ।

[page 247]




[NZ]

द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ1 BhNZ_14_118ab
2गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् ॥ BhNZ_14_118cd
अग्रतस्तु समादेया गुरवः पृष्टतस्तथा । BhNZ_14_119ab
प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् ॥ BhNZ_14_119cd
वृत्तं तु सर्वच्छन्दस्सु3 प्रस्तारविधिरेव तु । BhNZ_14_120ab
गुर्वधस्ताल्लघुं न्यस्य ततो द्विद्वि यथोदितम् ॥ BhNZ_14_120cd
न्यसेत् प्रस्तारमार्गो ऽयमक्षरोक्तस्तु नित्यशः । BhNZ_14_121ab
मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः ॥ BhNZ_14_121cd
मिश्रौ ग्लाविति विज्ञेयौ पृथग्लक्ष्यविभागतः4 BhNZ_14_122ab
5मात्रागणो गुरुश्चैव 6लघुनी चैव लक्षितः7 BhNZ_14_122cd
[ABh]

तत्र वर्णगतो मात्रागतश्चेति प्रस्तारो द्विधा तमुदाहरति । द्विकौ ग्लाविति वर्णसंख्यादि नियमेन यौ गुरुलघू । द्विकौ संख्यापरिमाणौ तौ मात्रिकौ मात्रागणनेषूक्तौ । अन्येनाधिकृतत्वादेकेन भेदेन मिश्रौ भवतः ।
अत्र प्रस्तारे ऽप्युपायमाह गुर्वधस्तादिति । आद्यस्यैव गुरोरधो लघुः सर्वो न्यसनीयः । यत्र द्वौ भागौ मिश्रौ विषमसंख्यायां तदा द्विरिति भूयो भूयो मात्राप्रस्तारो निरूप्यते । मात्रापरिकल्पतै यस्त्रिमात्रचतुर्मात्रादिः समूहो गणमात्रसंख्याया लघ्वक्षरसंख्यया तत्र प्रथमं प्रस्तार इत्याह पृथग्लक्षणीयो ऽपि भागो ऽत्र संख्यायास्तत्र गुरुः सर्वतो न्यसनीयः । यत्र तु द्वौ भागौ मिश्रौ, विषमसंख्यायां तत्राद्यो लघुरन्यो गुरुः शेषं वर्णप्रस्तारेण तुल्यम् । केवलमात्रासंख्येति वचनाद्गुणनान्यासे पूर्वत्र मात्रा देया । यत्र वर्णप्रस्तारः विषममात्राप्रस्तोराप्युदाहृत एव । द्वितीयस्तु तदाह गुरुरिति जातावेकवचनं गुरू इत्यर्थः । लघुनी चकाराद्गुरू तथाशब्दादन्यद्भेदत्रयं, चतुर्मात्रा आर्याणां

[(मू)]

1. ब॰ मातृका

2. द्वौ श्लोकौ च॰भ॰योर्न दृश्येते

3. ब॰ छन्दस्य

4. भ॰ विभागशः

5. भ॰ मात्रे द्वे गुरु विज्ञेयं लघ्वेका तु प्रकीर्तिता

6. प॰ लघुनीति च

7. प॰ विलक्षितैः ।

[(व्या)]

[page 248]




[NZ]

आर्याणां 1तु चतुर्मात्राप्रस्तारः परिकल्पितः । BhNZ_14_122_2ab
2गीतकप्रभृतीनां तु पञ्चमात्रस्तथेष्यते3 BhNZ_14_122_2cd
वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च । BhNZ_14_123ab
4त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः5 BhNZ_14_123cd
मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः । BhNZ_14_124ab
6अन्त्याद् द्विगुणिताद्रूपाद् 7द्विद्विरेकं गुरोर्हरेत्8 BhNZ_14_124cd
द्विगुणं च लघोः कृत्वा संख्यां पिण्डेन निर्दिशेत्9 BhNZ_14_125ab
आद्यं सर्वगुरु ज्ञेयं वृत्तं तु समसंज्ञितम्10 BhNZ_14_125cd
11कोशं तु सर्वलघ्वन्तं मिश्रैः शेषाणि सर्वतः । BhNZ_14_126ab
वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् । BhNZ_14_126cd
राश्यूनमर्धविषमां समासादभिनिर्दिशेत्12 BhNZ_14_127ab
[ABh]

प्रस्तारे गणभेदः पञ्चदश इत्यर्थः, पञ्चमात्रो ऽष्टधा, एवं षष्ठो ऽत्र प्रस्तार्यातीत इति वर्णवृत्तेष्वेव च कृत इत्यर्थः । अन्यत्र तु मात्राकृतो गणविभागः तदoपेक्षया गुरुलघुव्यवस्थानात्स्वातन्त्र्येण ।
तत्रोद्दिष्टमाह द्विगुणितादिति वर्णवृत्तेष्वेव चेदं सर्वं मन्तव्यम् । भेदं पश्यैकमेकमङ्कं द्विगुणितं च दत्त्वा द्विद्विरिति भूयो द्विगुणितादपि द्विगुणितं कृत्वान्त्यं परिसमाप्य गुरु संबन्धिनो ऽङ्गान् हरेत् पुंसयेत् (प्रस्तरेत् ?) । लघोः संबन्धिनो ऽङ्कान् पिण्डीकृत्य तेन पिण्डेनातिक्रान्तेनैतावदयं भेद इति संख्यां निर्दिशेत्, यथा चतुरक्षरस्येदृशं क्रियाभेदं यच्च लघ्वङ्कगणनातिक्रान्तौ ।

[(मू)]

1. न॰ स चतुर्मात्रः प्रस्तारे, म॰ स चतुर्मात्रः प्रस्तारे गण इष्यते

2. भ॰ गीतिका

3. ड॰ पञ्चमात्रो गणः स्मृतः

4. न॰ त्र्यक्षरस्तु

5. न॰ आश्रयाः

6. भ॰ आद्यात्

7. भ॰ ऊर्ध्वं

8. ड॰ भवेत्

9. ड॰ योजयेत्

10. . ड॰ संश्रितम्

11. ड॰ कोशे, भ॰ लघ्वन्तमपि चैवं तु कोशस्थस्य हि संख्यया

12. भ॰ समासादपि निर्दिशेत्, ड॰ समासाविति निर्दिशेत् ।

[(व्या)]

[page 249]




[NZ]

1समानां विषमाणां च संगणय्य तथा स्फुटम्2 BhNZ_14_127cd
राश्यूनमभिजानीया3द्विषमाणां समासतः । BhNZ_14_128ab
एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु1 BhNZ_14_128cd
यावत्पूर्वं तु पूर्वेण पूरयेदुत्तरं गणम्5 BhNZ_14_129ab
एवं 6कृत्वा तु सर्वेषां परेषां पूर्वपूरणम्7 BhNZ_14_129cd
8नैधनादेकमेकं तु प्रातिलोम्यक्रियात्मकम्9 BhNZ_14_130ab
सर्वेषां छन्दसां न्यस्य10 लघ्वक्षरविनिश्चयम् ॥ BhNZ_14_130cd
जानीत समवृत्तानां संख्यां संक्षेपतस्तथा11 BhNZ_14_131ab
[ABh]

अथैकादिलघुज्ञानार्थं पीठं रचयति आद्यं सर्वगुर्वित्यादि । कोश इत्याद्यन्तयोर्मध्यगो भेदगणः । सो ऽस्य लघोः संख्यया निश्चयं कुर्यात् । तद्ययथा चतुरक्षरौ प्रथमान्तौ सर्वगुरुः सर्वलघुश्च, एकद्वित्रिलघवस्तु चतुः षट्चतुः प्रकाराः संक्षेपत इति एतदङ्कव्यामिश्रेण संख्या लभ्यते षोडशभेदाश्चतुरश्चतुरश्चेति ।
संख्यास्थान उपायान्तरमाह एकादिकामिति । छन्दो ऽक्षरोपरि एकद्विचत्वारीत्यादीनि निक्षिपेत् । तत्र पूर्वेणोत्तरस्य पूर्वेण मिश्रणं कुयात् यावत्पर्यन्तं गणपिण्डस्तां चैकादिकामेकेन मिश्रितं कुर्यादित्येवं समवृत्तानां संख्या । लघूनामित्थं षोडशाभिर्गुणयेत् । ततो गुणराशेः षोडशसंख्यामवपातयेत् । तेन चतुरक्षरे विंशत्यधिकं शतमर्धसमवृत्तानां तामपि संख्यां गुणयित्वा गुणराशिं पातयेत् । तेन च सहस्राणीति शतान्यशीतिश्चेति चतुरक्षरे विषमवृत्तानि ।

[(मू)]

1. न॰ समार्ध, भ॰ तां चार्धविषमाणां तु

2. न॰ संख्यां कृत्वा तु तावतीम्, ढ॰ संख्यां संयोज्य तावतीम्

3. न॰ अभिजानीत, ढ॰ अभिजानीते

4. ड॰ च

5. द॰ तावतो ऽन्तरम्

6. ड॰ कुर्यात्तु सर्वेषां

7. ड॰ पूर्वपूर्वस्य पूरणम्

8. ड॰ क्रमान्नैधनं

9. भ॰ प्रतिलोम क्रियान्वितम्, ड॰ प्रतिलोमं विसर्जयेत् (न॰ विवर्जयेत्)

10. ड॰ वक्ष्ये, न॰ एवं

11. द॰ संख्या चाङ्गं समासतः, भ॰ व्याससंक्षेपतस्तथा ।

[(व्या)]

[page 250]




[NZ]

1वृत्तार्धपरिमाणं तु छित्वार्धेन यथाक्रमम् ॥ BhNZ_14_131cd
न्यसेल्लघु तथा सैकमक्षरं गुरु चाप्यथ2 BhNZ_14_132ab
एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः ॥ BhNZ_14_132cd
3लघ्वादीनि गुरूण्यस्मिन्नक्षराणि विनिवेशयेत् । BhNZ_14_133ab
[4इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । BhNZ_14_133cd
वृत्तान्येतेषु5 नाट्ये ऽस्मिन् प्रयोज्यानि निबोधत ॥ ] BhNZ_14_133ef


इति भारतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशो ऽध्यायः(6) ॥
[ABh]

अथ नष्टमाह वृत्तार्धपरिमाणं त्विति संख्यामर्धेन छिन्द्यात् यत्र विषमाङ्कं न पूर्यते तत्र पूरणार्थमेकमधिकं कुयात् । तदाह यथाक्रममिति । तत्र गुरुः । सैककरणात्प्रयत्नगौरवाल्लघुरन्यथा च्छेदनात् । एवं पुनः पुनर्यावदक्षराणि पूर्णानि यथावच्चतुरक्षरे पञ्चमो भेदः कीदृगिति --- पूर्वं पञ्चाङ्कस्य सैकच्छेदात् गुरु, पुनरपि त्र्यङ्कस्य सैकच्छेदात् गुरु, द्वयोश्च समच्छेदाल्लघु एकस्य सैकच्छेदाद्गुरु, एतेनेदृशः पञ्चमो भेदः ।
एतदुपसंहरन्नध्यायान्तरमासूत्रयति एवमिति । व्याकृतेन विभागेन लघुप्रधानानि वा लक्ष्ये निवेशयेत् कविरुपबध्नीयादिति शिवम् ॥
पार्वतीवदनाम्भोजभृङ्गनेत्रत्रयीभुवः ।
दासो ऽभिनवगुप्ताख्यश्छन्दोध्यायमपप्रथत् ॥
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां नाट्यवेदविवृतौ(3) छन्दो ऽध्यायश्चतुर्दशः समाप्तिमगमत् ।

[(मू)]

1. भ॰ वृत्ताख्या, द॰ वृत्ताक्षरनिर्माणं, ड॰ वृत्ताङ्ग

2. ड॰ छित्वार्धेन गुरुं न्यसेत्

3. ड॰ गुरुलघ्वक्षरानिह सर्वं छन्दस्सु दर्शयेत् (न॰ प्राग्वत्संख्यां विनिर्दिशेत्)

4. ब॰ छन्दांस्येतान्यथोक्तानि मयैवं तु द्विजोत्तमाः

5. न॰ एतानि

6. ज॰ आदि व॰ अन्तेषु पञ्चदशो ऽध्यायः, द॰ श्लोकसंख्या आदितः 2372 ॥

[(व्या)]

1. ख॰ करणात्

2. ख॰ छेदात्

3. ख॰ वृत्तौ ।

[page 251]




श्रीः
नाट्यशास्त्रम्
पञ्चदशो ऽध्यायः(वागभिनये वृत्तलक्षणम्) ।

[NZ]

1छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । BhNZ_15_001ab
वृत्तानि तेषु2 नाट्ये ऽस्मिन्प्रयोज्यानि निबोधत ॥ BhNZ_15_001cd
आद्ये पुनरन्त्ये द्वे द्वे3 गुरुणी चेत् । BhNZ_15_002ab
4सा स्यात् तनुमध्या गायत्रसमुत्था5 BhNZ_15_002cd
[ABh]

समस्तवृत्तानि विना न येन पटूद्भवश्रोत्ररसायनस्य (?) ।
छन्दांसि यस्मात्प्रभवन्ति वन्दे तं वाङ्मयं रूपमिहाष्टमूर्तेः ॥
यदुक्तमक्षराणि निवेशयेदिति (14-133) तत्र श्रव्यताकृतं प्रविभागमाख्यातुमुपचक्रमे छन्दांस्येवमिति । एषां छन्दसां नाट्यप्रयोगयोग्यानि वृत्तानि निबोधतेति संबन्धः । गुरुलघुनियमेन श्रव्यता वर्तते येषु तानि वृत्तानि श्राव्यार्थत्वात्, अधिकरणे क्तः । गायत्रीति आरभ्य प्रयोगार्हतेति पूर्वाध्याये निरूपितत्वात् तदुपक्रममेवाह आद्ये पुनरिति †मह्ये तु लघुन्यर्थात् । गायत्र्यैव गायत्रम् । तत्रेहाध्याये भरतमुनिकृतमिति त्रिकैर्मकारादिभिः कैश्चित्कंचिल्लक्षणं

[(मू)]

1. अयं श्लोको ज॰ आदि ब॰ अन्तेष्वादर्शेषु पूर्वाध्यायान्त्ये वर्तते । क॰ आदि च॰ अन्तेषु पाठस्तु --- ``इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः'' इत्यध्यायादौ दृश्यते । भ॰ म॰ योरेव व्याख्यातृपाठो विद्यते ।

2. न॰ एतानि, भ॰ एतेषु

3. भ॰ पादे

4. भ॰ वृत्तं

5. प॰ मध्ये लघुनी चेत् वृत्तं तनुमध्या ॥

[(व्या)]

ज॰ आदि ब॰ अन्तेष्वादर्शेषु षोडशो ऽध्यायः । अस्मिन्नध्याये वृत्तलक्षणं कासुचिन्मातृकासु मकारादित्रिकैरेवोक्तं, अन्यासु गुरुलघुनिममेन । पाठद्वयस्यापि पाठान्तरभूयिष्ठत्वात् केवलं सौकर्यायोभयपाठो ऽपि मूलरूपेणैव मुद्रितः । पिङ्गलात्पूर्वं छन्दोलक्षणं गुरुलघुसंख्यानेनैव व्यवहृतमिति द्योत्यते, न तु त्रिकैरिति । अपिचास्मिन्नध्याये क्वचित् वृत्तजात्यै लक्षणमुक्तं, क्वचिच्चानुष्टुभा । अयं विशेषो ध्रुवाध्याये ऽपि दृश्यते ।

[page 252]




[NZ]

यथा ---
संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा । BhNZ_15_003ab
हस्तार्पितगण्डा1 किं त्वं तनुमध्या2 BhNZ_15_003cd
लघुगण आदौ3 भवति चतुष्कः । BhNZ_15_004ab
गुरुयुगमन्त्ये 4मकरकशीर्षा ॥ BhNZ_15_004cd
यथा ---
5स्वयमुपयान्तं भजसि न कान्तम् । BhNZ_15_005ab
भयकरि किं त्वं मकरकशीर्षा ॥ BhNZ_15_005cd
एकमात्रं षट्के स्याद्द्वितीयं पादे । BhNZ_15_006ab
ख्यातरूपा वृत्ते मालिनी सा नाम्ना ॥ BhNZ_15_006cd
[षडक्षरकृते पादे लघु यत्र द्वितीयकम् । BhNZ_15_007ab
शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ] BhNZ_15_007cd
स्नानगन्धाधिक्यैर्वस्त्र6भूषायोगैः । BhNZ_15_008ab
व्यक्तमेवासौ7 त्वं मालिनी प्रख्याता ॥ BhNZ_15_008cd
6द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । BhNZ_15_009ab
शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ BhNZ_15_009cd
शोभते बद्धया षट्पदाविद्धया9 BhNZ_15_010ab
मालतीमालया मानिनी10 लीलया । BhNZ_15_010cd
द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । BhNZ_15_011ab
[ABh]

स्वीकृतमिति द्विविधः पुस्तकपाठो द्विविधः दृश्यते मध्ये च चिन्तनाय पुस्तकेषूभयमपि पठ्यत इति । एतन्नाम्ना प्रस्तिसिद्धा, ख्यातरूपा श्लाघनीयेत्यर्थः ।

[(मू)]

1. द॰ वक्त्रा

2. द॰ तनुमध्ये

3. न॰ आद्यो

4. प॰ मधुरकशीर्षा

5. भ॰ कमलनिभास्ये परिजनमध्ये । वरतनु किं त्वं मकरकशीर्षा ॥

6. न॰ व्यक्तभूषायोग्यैः

7. ढ॰ एवैषां, ड॰ एवैषा, प॰ एष्वेषा

8. मालतीलक्षणोदाहरणे न॰ ब॰ भ॰ ष्वेव विद्यते ।

9. ब॰ आबद्धया

10. ब॰ मालिनी

[(व्या)]

[page 253]




[NZ]

यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ BhNZ_15_011cd
[र्सौ त्रिकौ यदि पादे अक्षरश्च गकारः । BhNZ_15_012ab
उष्णिगुत्थितपादा उद्धता खलु नाम्ना1 ॥ ] BhNZ_15_012cd
दन्तकुन्तकृतास्त्रं2 व्याकुलालकशोभम्3 BhNZ_15_013ab
शंसतीव तवास्यं 4निर्दयं रतयुद्धम् ॥ BhNZ_15_013cd
आदौ द्वौ निधने चैव गुरुणी यत्र वै सदा । BhNZ_15_014ab
पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ BhNZ_15_014cd
[पादे यदि निविष्टौ सम्यग्विरचितौ त्सौ । BhNZ_15_015ab
अन्त्ये यदि गकारः 5सा तु भ्रमरमाला ॥ ] BhNZ_15_015cd
यथा ---
नानाकुसुमचित्रे प्राप्ते सुरभिमासे6 BhNZ_15_016ab
7एषा भ्रमति मत्ता कान्ते8 भ्रमरमाला ॥ BhNZ_15_016cd
आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । BhNZ_15_017ab
गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ BhNZ_15_017cd
[जातु यस्य गौ च पादे संस्थितौ समस्तरूपौ9 BhNZ_15_018ab
तामनुष्टुभाश्रयस्थां 10वावदन्ति सिंहलेखाम्11 ॥ ] BhNZ_15_018cd
यत्त्वया 12ह्यनेकभावैश्चेष्टितं रहः13 सुगात्रि । BhNZ_15_019ab
तन्मनो मम प्रविष्टं14 वृत्तमत्र सिंहलेखम्15 BhNZ_15_019cd
[ABh]

त्वया यन्मदीयं मनःप्रविष्टं व्याप्तमाक्रान्तं तत्सिंहवन्नखाविलेखनं `त्वं तादृशं वृत्तं तद्यथाक्रान्तं जातमिति यावत् ।

[(मू)]

1. न॰ सा स्यात्

2. ड॰ घातकृताङ्कं, द॰ नखाग्रं

3. द॰ केशसंलुलिताग्रम् । शंसते तव वक्त्रं युद्धौद्धतवेषम् ।

4. न॰ निर्भरं

5. न॰ स्यात्सा

6. भ॰ काले मदनभोग्ये ।

7. ड॰ पुष्पे मत्ता

8. भ॰ कुञ्जेषु मधुमत्ता रौति भ्रमरमाला

9. ड॰ समौ कृतौ चेत्

10. ड॰ ज्ञापयन्ति

11. न॰ सिंहलीलम्

12. प॰ हि नैक

13. चेष्टितौ

14. प॰ प्रदिष्टं

15. सिंहलीलम् ।

[(व्या)]

[page 254]




[NZ]

चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । BhNZ_15_020ab
गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ BhNZ_15_020cd
[यदा तु जात् परौ रलौ गकार एव च स्थितः । BhNZ_15_021ab
अनुष्टुबुद्भवं तदा 1वदन्ति मत्तचेष्टितम् ॥ ] BhNZ_15_021cd
यथा ---
2चरावघूर्णितेक्षणं विलम्बिताकुलालकम्3 BhNZ_15_022ab
असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ BhNZ_15_022cd
अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । BhNZ_15_023ab
गुरूणि यस्मिन्सा नाम्ना 4विद्युन्मालेति कीर्तिता ॥ BhNZ_15_023cd
[मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । BhNZ_15_024ab
सा चानुष्टुप् छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ ] BhNZ_15_024cd
5साम्भोभारैरानर्दद्भिः श्यामाम्भोदैर् व्याप्ते व्योम्नि । BhNZ_15_025ab
आदित्यांशुस्पर्धिन्येषा6 दिक्षु भ्रान्ता विद्युन्माला ॥ BhNZ_15_025cd
7पञ्चमं सप्तमं चान्त्यं गुरु पादे ऽष्टके तथा । BhNZ_15_026ab
छन्दोज्ञैर्ज्ञेयमेतत् तु वृत्तं चित्तविलासितम् ॥ BhNZ_15_026cd
स्मितवशविप्रकाशैर्दशनपदैरमीभिः । BhNZ_15_027ab
वरतनुपूर्णचन्द्रं तव मुखमावृणोति ॥ BhNZ_15_027cd
नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च8 BhNZ_15_028ab
गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ BhNZ_15_028cd
[ABh]


[(मू)]

1. द॰ भवेत्तु

2. ड॰ विघूर्णितेक्षणा सदा

3. भ॰ प्रलम्बिलोहिताम्बरा

4. च॰ विद्युल्लेखेति संज्ञिता

5. भ॰ साम्भोम्भोदैव्याप्तैर्व्योम्ना गम्भीरोधैर्नाननादैः । आदित्यांशुप्रख्याह्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ ड॰ सान्द्राम्भोभिर्नानानादैः श्यामाकारैर्व्याप्तैर्व्याम्नि ।

6. स्पर्शिन्येषा

7. एतद्वृत्तलक्षणं सलक्ष्यं न॰भ॰म॰वादर्शेष्वेवोपलभ्यते ।

8. भ॰ तु ।

[(व्या)]

[page 255]




[NZ]

[षडिह यदि लघूनि स्युर्निधनगतमकरश्चेत् । BhNZ_15_029ab
बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ ] BhNZ_15_029cd
1कुसुमितमभिपश्यन्ती विविध2तरुगणैश्छन्नम् । BhNZ_15_030ab
3वनमतिशयगन्धारूढ्यं 4भ्रमति मधुकरी हृष्टा ॥ BhNZ_15_030cd
दशाक्षरकृते पादे त्रीण्यादौ नैधने5 BhNZ_15_031ab
यस्य गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका6 BhNZ_15_031cd
[त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । BhNZ_15_032ab
पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या7 ॥ ] BhNZ_15_032cd
यथा ---
अस्मिंस्ते 8शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये । BhNZ_15_033ab
शोभा स्वां न वहन्ति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ BhNZ_15_033cd
द्वितीयं च चतुर्थं च षष्ठमष्टममेव च । BhNZ_15_034ab
ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ BhNZ_15_034cd
[ABh]

शोभां स्वां स्वभाववर्तने ये भेदाः । वैडूर्यच्छायानि यानि दलानि तत्तत्स्फुरत्सुवर्णतुल्यानि वर्णानि तदभ्यन्तरकेसराणि ।

[(मू)]

1. भ॰ कुसुमितमपि पश्यन्ती शुभविहगगणैच्छन्नम् ।

2. ड॰ न॰ग॰

3. ड॰ वनमनलिलसु, च॰ नवनलिनसु

4. भ॰ सुतनु

5. द॰ नैधनानि तु

6. द॰ मालिनी

7. ड॰ माला सा

8. ड॰ भ्रमरनिभे कान्ते नानारत्नरचितभूषाढ्ये । शोभामावहति शुभां मूर्ध्नि प्रोत्फुल्ला कुवलयमालेयम् ।

[(व्या)]

[page 256]




[NZ]

[र्जौ त्रिकौ हि पादगौ तु यस्या र्गौ च संश्रितौ तथा समस्तौ । BhNZ_15_035ab
पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ ] BhNZ_15_035cd
यथा ---
नैव ते ऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । BhNZ_15_036ab
2गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम्2 BhNZ_15_036cd
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । BhNZ_15_037ab
गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ BhNZ_15_037cd
[भौ तु भगाविति यस्य गणाः स्युः 4स्याच्च यतिस्त्रिचतुर्भिरथः । BhNZ_15_038ab
त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ ] BhNZ_15_038cd
यथा ---
5प्रस्खलिताग्रप्रदप्रविचारं मत्तविघूर्णितगात्रविलासम्6 BhNZ_15_039ab
पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयम् 7प्रकरोति ॥ BhNZ_15_039cd
[ABh]

मयूरवद्व्याकोचमस्याः, मयूरीभिर्वा(सारी) गतिविशेषो भवतीत्याहुः । मन्दं मन्दं दोधकेन गीयमानं वृत्तं दोधकवृत्तम् । (एष इति) यावन्मुरजघाततुल्यं गर्जितं श्रुत्वा ।

[(मू)]

1. ब॰ संस्थितौ

2. ब॰ गर्भिणीति, द॰ गर्भिणी च, भ॰ गर्भिणी च जायसे

3. ड॰ त्वमेव

4. द॰ पाठवशाच्च गतिस्स्खलिता स्यात्

5. भ॰ प्रस्खलमानगतिप्रविचारो ... ... विलासः । पश्य ... कुञ्जर एषो ... वृत्तगतिं प्रकरोति ।

6. ड॰ विनम्रम्

7. ड॰ वृत्तगतिं ।

[(व्या)]

[page 257]




[NZ]

1आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा2 BhNZ_15_040ab
गुरूण्येकादशे पादे यत्र तन्मोटकं यथा ॥ BhNZ_15_040cd
एषो ऽम्बुदनिस्वनतुल्यरवः 3क्षीबः स्खलमानविलम्बगतिः । BhNZ_15_041ab
श्रुत्वा 4घनगर्जितमद्रितटे वृक्षान् 5प्रतिमोटयति द्विरदः ॥ BhNZ_15_041cd
नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु6 BhNZ_15_042ab
एकादशाक्षरे पाद इन्द्रवज्रेति सा यथा7 BhNZ_15_042cd
8त्वं दुर्णिरीक्ष्य 9दुरतिप्रसादा 10दुःखैकसाध्या कठिनैकभावा11 BhNZ_15_043ab
सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा12 BhNZ_15_043cd
एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । BhNZ_15_044ab
उपेन्द्रवज्रा विज्ञेया लघ्वादाविह13 केवलम् ॥ BhNZ_15_044cd
[ABh]

उपेन्द्रवज्यो अस्या उपमानत्वेन सा तथा मत्वर्थीयो उपेन्द्र वज्रन्तु इन्द्रधनुषा उपमितमुपेन्द्रवज्रमुपमितसमासः, द्विगुप्राप्ते परवल्लिङ्गनिषेधः । स्मितेन कान्त्येति इन्द्रधनुषो ऽपि वर्णवैचित्र्यं च भवति । (श्लो-45)

[(मू)]

1. भ॰ द्वे आद्ये

2. भ॰ गुरु एकोदशाक्षरे

3. ड॰ क्षीणः

4. भ॰ घननिस्वनं

5. ढ॰ प्रतितोटयते, ड॰ मोटयते

6. ब॰ लघून्यथ

7. द॰ स्मृता

8. भ॰ दुष्प्रेक्षणीया विगतप्रसादा दुःखेन साध्या कठिनाभिघाता ।

9. ड॰ दुरितस्वभावा

10. द॰ दुःखेन

11. न कठिनस्वभावा

12. ड॰ वज्रे

13. . भ॰ आदावथ, प॰ आद्ये त्वथ ।

[(व्या)]

[page 258]




[NZ]

1प्रिये श्रिया वर्णविशेषणेन 2स्मितेन कान्त्या सुकुमारभावात् । BhNZ_15_045ab
अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ BhNZ_15_045cd
आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । BhNZ_15_046ab
3गुरूण्येकादश पादे यत्र सा तु रथोद्धता ॥ BhNZ_15_046cd
यथा ---
किं त्वया4 सुभट दूरवर्जितं5 नात्मनो न 6सुहृदां प्रियं कृतम् । BhNZ_15_047ab
यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ BhNZ_15_047cd
[7किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । BhNZ_15_048ab
यद्गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ।] BhNZ_15_048cd
आद्यं तृतीयमन्त्यं च सप्तमं दशमं 8गुरु । BhNZ_15_049ab
यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ BhNZ_15_049cd
[ABh]

आत्मनो सुहृदे दूरवर्जितं प्रियं दूरत्यक्तं किं त्वया न कृतं दूरत्यक्तमित्यर्थः । कुत इत्याह यत्पलायनेति । मदनसंश्रयो भावो यस्य कामफलमिति यावत् ।

[(मू)]

1. ड॰ श्रिया च वर्णेन विशेषणेन, च॰ प्रेम्णा

2. भ॰ यथा च कान्त्या सुकुमारयुक्त्या

3. भ॰ गुर्वेकादशके

4. ड॰ सुभग

5. ब॰ वर्जितात्मना

6. ब॰ सुहृदः

7. एतदुदाहरणं भ॰म॰युoरेव

8. न॰ तथा गुरूणि त्रैष्टभे पादे यत्र सा स्वागता यथा ।

[(व्या)]

[page 259]




[NZ]

यथा ---
अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम्1 BhNZ_15_050ab
आगतासि 2भवनं मम 3यस्मात्स्वागतं तव वरोरु निषीद ॥ BhNZ_15_050cd
षष्ठं च नवमं चैव 4लघुनी त्रैष्टुभे यदि । BhNZ_15_051ab
5गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ BhNZ_15_051cd
6दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । BhNZ_15_052ab
7तस्माच्छीलं साधुहेतोः सवृत्तं 8माधुर्यात्स्यात् सर्वथा शालिनी त्वं9 BhNZ_15_052cd
तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । BhNZ_15_053ab
गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ BhNZ_15_053cd
[यदि सो ऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । BhNZ_15_054ab
सततं जगतीविहितं हि ततो गदितं खलु तोटकवृत्तमिदम्10 ॥ ] BhNZ_15_054cd
[ABh]

(किमिदमिति) तोटकस्य छेदकस्य वृत्तं वेष्टितम् ।

[(मू)]

1. भ॰ भावात्, प॰ संश्रितभावम्

2. ड॰ सदनं

3. भ॰ यत्वं

4. ड॰ लघु स्यात्

5. चतुर्भिराद्यैर्विच्छेदः

6. ड॰ शीलभ्रष्टे निर्गुणे पापकेवा (व्याप्तकोपे ढ॰) लोके ज्ञात्वा ह्यप्रितं

7. ब॰ आर्यं, ड॰ आर्यं शीलं साध्वि ते तेनावृत्तं, प॰ आर्यं शीलं साध्वहो ते सुवृत्तं

8. ड॰ माधुर्याढ्या सर्वदा

9. च॰ शालिनीव

10. ब॰ इति ।

[(व्या)]

[page 260]




[NZ]

यथा ---
किमिदं कपटाश्रयदुर्विषहं 1बहुशाट्यमथोल्बणरूक्षकथम्2 BhNZ_15_055ab
3स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ BhNZ_15_055cd
4आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । BhNZ_15_056ab
तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ BhNZ_15_056cd
[र्यौ त्रिकौ तथान्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । BhNZ_15_057ab
नित्यसंनिविष्टा जगति विधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ ] BhNZ_15_057cd
यथा ---
5मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । BhNZ_15_058ab
निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ BhNZ_15_058cd
[ABh]

(मन्मथेनेति ) नृत्तगीतयुक्ता न भवसीति सम्बन्धः ।

[(मू)]

1. न॰ बहुगण्डं, ड॰ बहुगर्जमिव

2. ढ॰ कृतम्, च॰ पथम्

3. भ॰ सुजन, ड॰ स्वजनप्रियदुर्जन

4. कुमुदनिभालक्षणं सोदाहरणं समतान्तरं च॰मातृकायां न वर्तते

5. ब॰ कामबाणविद्धा किमसि नतभ्रु शीतपाददग्धा नवनलिनीव (मृदुकमलिनीव- ड॰) पाण्डुवक्त्रे शोभा कथमसि जाता (कथमपि न॰) अग्रतः सखीनां कुमुदनिभा त्वम् ।

[(व्या)]

[page 261]




[NZ]

मतान्तरे ---
1यदि खलु पादे न्यौ त्रिकौ यथा र्यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । BhNZ_15_059ab
जगति विधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ BhNZ_15_059cd
यथा ---
कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । BhNZ_15_060ab
मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ BhNZ_15_060cd
2द्वादशाक्षरके पादे सप्तमं दशमं लघु । BhNZ_15_061ab
3आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ BhNZ_15_061cd
वक्त्रं सौम्यं ते पद्मपत्रायताक्षं 4कामस्यावासं सुनासोच्चप्रहासम् । BhNZ_15_062ab
कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि6 BhNZ_15_062cd
तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । BhNZ_15_063ab
द्वादशाक्षरके पादे 7यत्र सा प्रमिताक्षरा ॥ BhNZ_15_063cd
[ABh]


[(मू)]

1. मतान्तर लक्षणंलक्ष्यं च ट॰मातृकायामेव वर्तते

2. चन्द्रलेखालक्षणं सोदाहरणं च॰मातृकायां नास्ति

3. भ॰ यत्रान्यानि च दीर्घाणि

4. न॰ ईषत्पाण्ड्वाभं

5. ड॰ स्वभ्रुवोश्चावभासम्

6. भ॰ का त्वम्

7. ड॰ तदा स्यात्, प॰ यदा स्यात्, ढ॰ तथा स्यात् ।

[(व्या)]

[page 262]




[NZ]

यथा ---
1स्मितभाषिणी ह्यचपला परुषा 2निभृतापवादविमुखी सततम्3 BhNZ_15_064ab
अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा सा हि पुमान्जयति4 BhNZ_15_064cd
द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे । BhNZ_15_065ab
गुरूणि द्वादशे पादे वंशस्था जगती तु सा5 BhNZ_15_065cd
[यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च (ज्राव)वसानसंस्थितौ । BhNZ_15_066ab
तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ ] BhNZ_15_066cd
न मे 6प्रिया त्वं बहुमानवर्जितं प्रियं प्रिया ते परुषाभिभाषिणी । BhNZ_15_067ab
तथा च पश्याम्यहमद्य विग्रहं7 8ध्रुवं हि वंशस्थगतिम् करिष्यति9 BhNZ_15_067cd
चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । BhNZ_15_068ab
10भवेद्धि जागते पादे 11तदा स्याद्धरिणप्लुता ॥ BhNZ_15_068cd
[ABh]

(स्मितेति) प्रमिताक्षरा भण्यते सा यस्यां स्मितभाषित्वादिगुणा युक्ता सा तादृशी सुसुखी युवतिरपि कस्यचिद्भवेदिति शेषः ।

[(मू)]

1. ड॰ स्मितहासिनी, भ॰ स्मितभाषिनी

2. भ॰ वशवर्तिनी मधुरवाङ् निभृता

3. ब॰ सुमुखी

4. ब॰ जगति, भ॰ भवति या तु सदा

5. भ॰ गदिता तु सा

6. ढ॰ प्रियं यद्बहुमानवर्जिता कृता प्रिये तु परुषातिभाषणैः । यथा

7. ड॰ विक्रमं, भ॰ अद्य सा ध्रुवं

8. भ॰ क्षणेन

9. प॰ इदं करिष्यसि

10. भ॰

11. यस्यास्तु, भ॰ सा ज्ञेया ।

[(व्या)]

[page 263]




[NZ]

यथा ---
परुषवाक्य1कशाभिहता त्वया भयविलोकनपार्श्वनिरीक्षणा2 BhNZ_15_069ab
वरतनुः प्रततप्लुतसर्पणै3रनुकरोति गतैर्हरिणप्लुतम् ॥ BhNZ_15_069cd
सप्तमं नवमं 4चान्त्यमुपान्त्यं च यदा गुरु । BhNZ_15_070ab
द्वादशाक्षरके पादे 5कामदत्तेति सा यथा ॥ BhNZ_15_070cd
करजपदविभूषिता यथा त्वं 6सुदति दशनविक्षताधरा च । BhNZ_15_071ab
गतिरपि चरणावलग्नमन्दा7 8त्वमसि मृगनिभाक्षि 9कामदत्ता10 BhNZ_15_071cd
आद्यं चतुर्थं दशमं सप्तमं च यदा लघु11 BhNZ_15_072ab
12पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ BhNZ_15_072cd
न ते काचिदन्या समा दृश्यते स्त्री 13नृलोके विशिष्टा गुणैरद्वितीयैः । BhNZ_15_073ab
[ABh]

(परुषेत्यादि) भवत्पारुष्यं वाक्यं तदीयया कशया अभिहता वरतनुर्हरिणप्लुतमिव करोति ।

[(मू)]

1. च॰ कथा

2. भ॰ निरीक्षणपार्श्वविलोकनैः ।

3. भ॰ प्रकुरुते प्रगतं हरिणप्लुता

4. भ॰ चैव ह्यन्त्योपान्त्ये गुरूण्यथ । यत्र स्युर्जागते पादे कामदत्ता तु सा मता

5. च॰ काममत्ता

6. भ॰ सुतनु

7. न॰ सन्नमन्दा

8. भ॰ तदसि

9. ढ॰ समाक्षि

10. च॰ काममत्ता

11. भ॰ लघून्यथ

12. ड॰ द्वादशाक्षरके पादे

13. ड॰ गुणैर्याद्वितीया तृतीयापि चास्मिन् । ममेयं मतिर्लोकमालोक्य सर्वं ... ... सृष्टा । (चास्मिंश्च कान्ते --- न॰)

[(व्या)]

[page 264]




[NZ]

त्रिलोक्यां गुणाग्र्यान् समाहृत्य सर्वान् जगत्यप्रमेयासि दृष्टा विधात्रा ॥ BhNZ_15_073cd
द्वितीयं पञ्चमं चैव ह्यष्टमैकादशे तथा । BhNZ_15_074ab
पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ BhNZ_15_074cd
[रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः । BhNZ_15_075ab
सन्निविष्टा जगत्यास्ततस्सा बुधैर्नामतश्चापि संकीर्यते पद्मिनी ॥ ] BhNZ_15_075cd
देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता1 BhNZ_15_076ab
केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ BhNZ_15_076cd
[2फल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । BhNZ_15_077ab
पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ ] BhNZ_15_077cd
आदौ षट्दशमं चैव पादे यत्र लघून्यथ । BhNZ_15_078ab
शेषाणि तु गुरूणि स्युर्जागते 3पुटसंज्ञिता ॥ BhNZ_15_078cd
[यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः । BhNZ_15_079ab
[ABh]


[(मू)]

1. ड॰ हंसैः सिता

2. अयं श्लोको भ॰मातृकायामेव

3. भ॰ पटु ।

[(व्या)]

[page 265]




[NZ]

भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस् तु ॥ ] BhNZ_15_079cd
यथा ---
(*)उपवनसलिलानां बालपद्मै1र्भ्रमरपरभृतानां2 कण्ठनादैः3 BhNZ_15_080ab
4मदनमदविलासैः5 कामिनीनां 6कथयति 7पुटवृत्तं पुष्पमासः ॥ BhNZ_15_080cd
द्वितीयान्त्ये चतुर्थं च नवमैकादेशे गुरु । BhNZ_15_081ab
8विच्छेदो ऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ BhNZ_15_081cd
यथा ---
9कथं न्विदं कमलविशाललोचने गृहं धनैः 10पिहितकरे दिवाकरे । BhNZ_15_082ab
11अचिन्तयन्त्यभिनववर्षविद्युत12स्त्वमागता सुतनु यथा प्रभावती ॥ BhNZ_15_082cd
त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । BhNZ_15_083ab
13गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ BhNZ_15_083cd
[ABh]

(उपवनेति) पुटस्य युगलस्य वृत्तं तथा चोपवनं सलिलं चेति युग्मं, एवमन्यत् ।

[(मू)]

1. न॰ पत्रैः, च॰ पद्मे

2. मधुकराणां ... ... अङ्गनानां जनयति चतुरत्वं पुष्पमासः --- इति जनाश्रयीकारपाठः

3. च॰ कण्ठनादे

4. ड॰ समदगति, भ॰ मदनपर

5. च॰ विलासे

6. ड॰ कथयसि

7. भ॰ पटुवृत्तं

8. भ॰ पादे तु जगतीसंस्थे यत्र सा तु

9. भ॰ अदः कथं

10. भ॰ गता

11. भ॰ न मानसे भयमतिवृष्टिसंभवं पराक्रमैस्त्वमसि

12. प॰ समागता

13. भ॰ गुरूणि पादे ह्यत्रैव यस्याः सा वै प्रहर्षिणी ।

* अयं श्लोको जनाश्रय्यामुदाहृतः ।

[(व्या)]

[page 266]




[NZ]

यथा ---
भावस्थैर्मधुरकथैः 1सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च । BhNZ_15_084ab
2शोभाढ्यैर्हरसि मनांसि कामुकानां3 सुव्यक्तं ह्यतिजगती प्रहर्षिणी च4 BhNZ_15_084cd
षष्टं च सप्तमं चैव दशमैकादशे 5लघु । BhNZ_15_085ab
त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ BhNZ_15_085cd
यथा ---
विद्युन्नद्धा 6सेन्द्रधनूरञ्जितदेहा वातोद्धूताः श्वेतबलाकाकृतशोभाः7 BhNZ_15_086ab
एते मेधा गर्जितनादोज्ज्वलचिह्नाः8 प्रावृट्कालं मत्तमयूरं 9कथयन्ति ॥ BhNZ_15_086cd
आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे गुरु । BhNZ_15_087ab
अन्त्योपान्त्ये च शक्वर्यां वसन्ततिलका(*) यथा ॥ BhNZ_15_087cd
चित्रैर्वसन्तकुसुमैः 10कृतकेशहस्ता स्रग्दाममाल्यरचनासुविभूषिताङ्गी । BhNZ_15_088ab
[ABh]

(चित्रैरिति) वसन्तस्य यस्तिलकस्तस्यास्ति उपमानं त्वनेनेति

[(मू)]

1. ब॰ मधुरसकैः, द॰ तरैः

2. ब॰ मानाद्यैः, ड॰ नानाङ्गैः

3. भ॰ मानवानां

4. भ॰ त्वम्, ड॰ इव

5. भ॰ तथा । लघूनि यस्य पादे तु गच्छेन्मत्तमयूरताम्

6. भ॰ इन्द्रधनुर्द्योतितदेहा

7. भ॰ कृतचिह्नाः

8. भ॰ गर्जितगम्भीरनिनादैः

9. मत्तमयूराः

10. भ॰ हृत, ढ॰ वृत

* वसन्ततिलका, उद्भाषिणीति सैतवाचार्येण सिंहोन्नतेति काश्यपेन, मधुमाधवीति गोमानसेन, चेतोहितेति रामकीर्तिना लक्षिता ``इन्दुमुखी सैतवस्य'' इति जनाश्रय्यामुक्तं । ``उद्घर्षिणी सैतवस्य'' इति पिङ्गलः

[(व्या)]

[page 267]




[NZ]

1नानावतंसकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ BhNZ_15_088cd
2पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । BhNZ_15_089ab
पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा ॥ BhNZ_15_089cd
मानी लोकज्ञः श्रुतबलकुलशीलाढ्यो यस्मिन्सम्मानं3 न सदृशमनुपश्येद्धि4 BhNZ_15_090ab
गच्छेत्तं त्यक्त्वा तं द्रुतगतिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा ॥ BhNZ_15_090cd
5चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । BhNZ_15_091ab
अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ BhNZ_15_091cd
एषा कान्ता व्रजति ललितं वेपमाना 6गुल्मैश्छन्नं वनमभिनवैः संप्रविद्धम्7 BhNZ_15_092ab
5हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं 8कान्ते शरभललिता त्वं करोषि ॥ BhNZ_15_092cd
आदौ षट् दशमं चेव 10लघु चैव त्रयोदशम् । BhNZ_15_093ab
यत्रातिशाक्वरे पादे ज्ञेया 11नान्दीमुखी(*) तु सा ॥ BhNZ_15_093cd
[ABh]

साक्षादिति छन्दानुवर्तिनीत्यर्थः ।

[(मू)]

1. ड॰ नागावतंसकविभूषितगण्डपाली, भ॰ नानावतंसकविलम्बितकर्णपूरा, ब॰ नानावतंसकशिरोधृतमुण्डमाला

2. भ॰ चतुर्दशाक्षरे पादे पञ्चादौ त्रीणि नैधने । यस्या गुरूण्यसंबोधानाम्नाज्ञया तु सा बुधैः

3. भ॰ सामान्यं

4. भ॰ पश्येत गल्मच्छन्नं वनमुरुनगैः

7. न॰ प्रवृद्धम्

8. आहो कष्टं किमिदमिति संविग्नचेष्टा

9. ड॰ क्रोधाच्छरभललितं कर्तुकामा, ढ॰ क्रोडाच्छरभललितं हर्तुकामा

10. ड॰ लघूनि स्युस्त्रयोदशम् । यत्र पञ्चदशे

11. भ॰ नान्दीमुखा

(*)मालनीत्यस्या नामान्तरं नान्दीमुखीति प्राकृतच्छन्दसि प्रसिद्धम् ।

[(व्या)]

[page 268]




[NZ]

यथा ---
न खलु 1तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं2 दृष्टपूर्वं 3मयास्यम् । BhNZ_15_094ab
किमिह बहुभिरुक्तैर्या 4ममेच्छा हृदिस्था त्वमसि बहुभिरुक्तैर् या 4ममेच्छा हृदिस्था त्वमसि मधुरवाक्या 5देवि नान्दीसुखीव ॥ BhNZ_15_094cd
आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु7 BhNZ_15_095ab
षोडशाक्षरके पादे 8यत्रेभललितं तु तत् ॥ BhNZ_15_095cd
(भ्रौ यदि नाश्च नित्यमिह विरचितचरणाः9 गश्च तथा च वै भवति निधनमुपगतः । BhNZ_15_096ab
स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ ) BhNZ_15_096cd
यथा ---
तोयधरैः सुधीरघनपटुपटहरवैः10 सर्जकदम्बनीकुटचकुसुमसुरभिः । BhNZ_15_097ab
कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम्11 BhNZ_15_097cd
आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशम् । BhNZ_15_098ab
12अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ BhNZ_15_098cd
[ABh]

(नान्दीमुखीति) नान्द्यां मङ्गलदुन्धुभिरेव मुखं यस्याः ।

[(मू)]

1. ड॰ वद

2. भ॰ पुटतरङ्ग

3. ड॰ तवास्यम्

4. ड॰ ममैषा

5. न॰ वेद्मि नान्दीमुखा त्वम् ।

6. च॰ च

7. च॰ गुरूण्यथ

8. च॰ गजं विलसितं

9. ढ॰ चरणविरचिताः

10. भ॰ पटिविशदनिनदितैः

11. भ॰ मत्तगजविलसितकमसौ

12. च॰ अन्त्ये द्वे यत्र दीर्घाणि प्रवरं ललितम् ।

[(व्या)]

[page 269]




[NZ]

(यदा य्मौ पादस्थौ भवत इह चेत्न्सौ तथा र्गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । BhNZ_15_099ab
तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ ) BhNZ_15_099cd
यथा ---
नखालीढं गात्रं दशनखचितं 1चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलित2केशालकान्तम् । BhNZ_15_100ab
गतिः खिन्ना चेयं3 वदनमपि संभ्रान्तनेत्रं4 अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम्5 BhNZ_15_100cd
आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । BhNZ_15_101ab
अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च6 BhNZ_15_101cd
[चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैर्यदा लौ गश्चान्ते भवति चरणे ऽत्यष्टिगदिते । BhNZ_15_102ab
यदा षड्भिश्छेदो भवति यदि मार्गेण विहितस्तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ ] BhNZ_15_102cd
यथा ---
महानद्या भोगं7 पुलिनमिव ते भाति जघनं तथास्यं नेत्राभ्यां8 भ्रमरसहितं पङ्कजमिव । BhNZ_15_103ab
[ABh]

असाविति (तोयधरैरिति) गज एव वा गजोचितं विलासं करोति इदमिदं वीक्ष्य ।

[(मू)]

1. न॰ विहितं, ढ॰ विहतं, ड॰ निहितं, च॰ विकचदशनं, प॰ विहतदशनछादगण्डं

2. भ॰ केशाग्रकान्तम्

3. न॰ मन्दायामा, ड॰ मन्दा चैवं

4. न॰ यद्भ्रान्तनेत्रं, भ॰ तु ग्लाननेत्रं

5. ड॰ कामवेषम्

6. भ॰ गुरु स्मृतम्

7. ड॰ भोगे

8. ब॰ नेत्राढ्यं ।

[(व्या)]

[page 270]




[NZ]

1तनुस्पर्शच्छायं सुतनु सुकुमारो न परुषः स्तनाभ्यां 2तुङ्गाभ्यां शिखरिणि 3निभाभासि वनिते ॥ BhNZ_15_103cd
यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । BhNZ_15_104ab
षोडशैकादेशे चैव तत्स्याद्वृषभचेष्टितम् ॥ BhNZ_15_104cd
(यदि हि चरणे न्सौ म्रौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैस्तथा दशभिः पुनः । BhNZ_15_105ab
यदि च विहितं स्यादत्यष्टिप्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ ) BhNZ_15_105cd
यथा ---
4जलधररवं श्रुत्वा 5श्रुत्वा मदोच्छ्रयदर्पितो विलिखति महीं 6शृङ्गाक्षेपैर् वृषः प्रतिनर्द्य च । BhNZ_15_106ab
स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ BhNZ_15_106cd
चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशम् । BhNZ_15_107ab
चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ BhNZ_15_107cd
यदा सप्तदशे पादे शेषाणि च लघून्यथ । BhNZ_15_108ab
भवन्ति 7यस्मिन्सा ज्ञेया श्रीधरा नामतो यथा ॥ BhNZ_15_108cd
(मो भ्नौ च स्युश्चरणरचितास् तौ गुरू च प्रविष्टाश्छेदःश्लिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । BhNZ_15_109ab
[ABh]


[(मू)]

1. भ॰ गतिर्मन्दा चेयं सुतनु तव सुललिता

2. भ॰ पीनाभ्यां

3. भ॰ सदा, ब॰ ममाभासि दयिते

4. ड॰ जलदनिनदं

5. च॰ दीप्तस्मरोत्सवलालितो, ड॰ गर्जन्मदोञ्चय, ढ॰ गर्जन्मदोत्सव

6. ड॰ दर्पाच्छृङ्गैर्मृगः प्रतिनन्द्य च, न॰ शृङ्गाग्राभ्यां मुहुः

7. म॰ यत्र ।

[(व्या)]

[page 271]




[NZ]

अत्यष्तौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरा नामतस्तु ॥ ) BhNZ_15_109cd
स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः1 पुष्पैश्चान्यैः2 शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । BhNZ_15_110ab
नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थैर्व्यक्तं कान्ते कमलनिलया श्रीधरेवातिभासि3 BhNZ_15_110cd
आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । BhNZ_15_111ab
4तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ BhNZ_15_111cd
यथा ---
एष गजो ऽद्रिमस्तकतटे 5कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते । BhNZ_15_112ab
मेघरवं निशम्य मुदितः पवनजवसमः6 सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ BhNZ_15_112cd
द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । BhNZ_15_113ab
चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ BhNZ_15_113cd
भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । BhNZ_15_114ab
विलम्बितगतिः सा तु7 विज्ञेय नामतो यथा ॥ BhNZ_15_114cd
(यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितो यो लगौ8 BhNZ_15_115ab
[ABh]


[(मू)]

1. भ॰ वाहैः सधूपैः, ब॰ गण्डवासैः सुधूपैः, ढ॰ गण्दलेपैः, प॰ गन्धलेपैः सुधूपैः

2. च॰ माल्यैः

3. ब॰ श्रीधरा त्वं विभासि, प॰ श्रीधरेवावभासि

4. भ॰ यत्र सप्तदशो पादे वंशपत्राह्वयं तु तत् ॥

5. भ॰ युवति

6. ड॰ पवनजववशात्, भ॰ प्रतिजगरुवितः

7. च॰ तत्र

8. ढ॰ ग्लौ सगौ ।

[(व्या)]

[page 272]




[NZ]

तदाष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ ) BhNZ_15_115cd
1विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा2 BhNZ_15_116ab
न मे प्रियमिदं जनस्य बहुमानरागेण यन्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ BhNZ_15_116cd
पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु3 BhNZ_15_117ab
चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता4 BhNZ_15_117cd
यथा ---
नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थैर्नानागन्धाढ्यैर्मदनजननैरङ्गरागैश्च हृद्यैः5 BhNZ_15_118ab
केशैः स्नानाढ्यैः6 कुसुमभरितैर्वस्त्ररागैश्च7 तैस्तैः 8कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव9 भासि ॥ BhNZ_15_118cd
अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । BhNZ_15_119ab
10त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ BhNZ_15_119cd
त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके11 BhNZ_15_120ab
पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ BhNZ_15_120cd
(म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेयापरा सप्तभिः । BhNZ_15_121ab
[ABh]


[(मू)]

1. भ॰

विघूर्णितविलोचना प्रसृतहारमालाधरा प्रलम्बवसना चलत्स्खलितगात्रपादक्रमा ।

न मे प्रियप्रसज्जनेति बहुमानरागेण ते मदेन तु विलम्बितागतिकृता कदाचित्प्रिये ॥

2. ड॰ क्रमा, न॰ मन्दपादक्लमा

3. भ॰ धृतौ

4. भ॰ चित्रमाला गुरूणि तु, ड॰ बुधैः स्मृता

5. ड॰ विचित्रैः

6. ड॰ स्नानार्द्रैः

7. ढ॰ रचितैर्वक्त्रागैश्च

8. ड॰ कान्तैः

9. भ॰ चित्रमालेव

10. च॰ द्वादशं सानुगं चैव

11. च॰ यस्मिन्स्त्वेकोनविंशतिके ।


[(व्या)]

[page 273]




[NZ]

नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूरविक्रीडितम् ॥ ) BhNZ_15_121cd
यथा ---
नानाशास्त्रशताघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना1 निर्णाशिताः शत्रवः । BhNZ_15_122ab
धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैर्वृत्तं ते रिपुघाति भाति समरे शार्दूरविक्रीडितम् ॥ BhNZ_15_122cd
2(तावत् त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गावहम् । BhNZ_15_123ab
यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूरविक्रीडितम् ॥ ) BhNZ_15_123cd
चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । BhNZ_15_124ab
तथा पञ्चदशं चैव षोडशं नैधनं तथा ॥ BhNZ_15_124cd
एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । BhNZ_15_125ab
पादे यत्र 3कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ BhNZ_15_125cd
(म्रौ भ्नौ य्भौ ल्गौ च सम्यग् यदि च विरविता पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । BhNZ_15_126ab
यद्येषा संश्रिता स्यात्कृतमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ ) BhNZ_15_126cd
[ABh]


[(मू)]

1. ब॰ वक्रवदना, च॰ हस्तवदना

2. भ॰ मातृकायामेवायं विद्यते

3. भ॰ तु सा ज्ञेया नाम्ना सुवदना यथा ।

[(व्या)]

[page 274]




[NZ]

यथा ---
नेत्रे 1लीलालसान्ते कमलदलनिभे भ्रूचापवनिते2 गण्डोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । BhNZ_15_127ab
3कर्णावतंसप्रलम्बौ चिबुकमपि नतं4 घोणा सुरुचिरा 5व्यक्तं त्वं मर्त्यलोके वरतनु विहितासय् एका 6सुवदना ॥ BhNZ_15_127cd
चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । BhNZ_15_128ab
अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ BhNZ_15_128cd
7अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । BhNZ_15_129ab
एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ BhNZ_15_129cd
(म्रौ भ्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । BhNZ_15_130ab
वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्त्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ ) BhNZ_15_130cd
चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः 8किंशुकैः सातिमुक्तैः । BhNZ_15_131ab
एतैर्नानाप्रकारैः कुसुमसुरभिभिर्विप्रकीर्णैश्च तैस्तैर्वासन्तैः पुष्पबृन्दैर्नरवरवसुधा स्रग्धरेवाद्य भाति9 ॥ ) BhNZ_15_131cd
[ABh]


[(मू)]

1. ढ॰ पर्यन्तताम्रे, भ॰ नीलालकान्ते

2. ड॰ रुचिरे

3. ड॰ कर्णौ ह्रस्वप्रलम्बौ

4. भ॰ चिबुकतटनता

5. च॰ सर्वस्वं

6. न॰ ह्येका

7. भ॰ अन्यं च विंशकं चैव गुरुसंज्ञानि यत्र तु

8. च॰ कुरवकैः

9. न॰ अवभाति ।

[(व्या)]

[page 275]




[NZ]

चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । BhNZ_15_132ab
षोडशाष्टादशे चैव नैधनं च गुरून्यथ ॥ BhNZ_15_132cd
द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । BhNZ_15_133ab
भवन्ति यत्र तज्ज्ञेयं मद्रकं नामतो यथा ॥ BhNZ_15_133cd
(भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशाद् अथाकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । BhNZ_15_134ab
तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं मद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ ) BhNZ_15_134cd
उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं1 वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं2 बहुविधम्3 BhNZ_15_135ab
मद्रकमेतदद्य सुभगे4 विदग्धगतिचेष्टितैः सुललितै5र्नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि6 BhNZ_15_135cd
अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशं । BhNZ_15_136ab
एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ BhNZ_15_136cd
शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः7 BhNZ_15_137ab
वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ BhNZ_15_137cd
(यदि च नकार आदिरचितः पदे विरचितोऽन्त एव च लगौ यदि च जभौ त्रिधा च निहितौ क्रमेण खलु मध्यमावपि तथा । BhNZ_15_138ab
[ABh]


[(मू)]

1. ब॰ स्येकं सुविततं, ड॰ सललितं

2. ड॰ करणान्वितं

3. भ॰ सुचरितम्

4. ड॰ एवमद्यसुभगैः

5. ड॰ नित्यसुविभ्रमाकुलपदं वरोरु ललिताङ्गचेष्टितयुतम्

6. न॰ ललितक्रियं समभवत् ।

7. च॰ विकृतौ चरणेषु च ।

[(व्या)]

[page 276]




[NZ]

यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैस्तत इह कीतितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ ) BhNZ_15_138cd
1विविधतुरङ्गनागरथयौधसंकुलमलं बलं समुदितं2 शरशतशक्तिकुन्तपरिधासियष्टिविततं3 बहुप्रहरणम् । BhNZ_15_139ab
रिपुशतमुक्तशस्त्ररवभीत4शङ्कितभटं भयाकुलदिशं5 कृतमभिवीक्ष्य6 संयुगमुखे समर्पितगुणं 7त्वयाश्वललितम् ॥ BhNZ_15_139cd
षडादावष्टमं चैव ह्येकादशचतुर्दशे । BhNZ_15_140ab
विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ BhNZ_15_140cd
एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । BhNZ_15_141ab
8चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ BhNZ_15_141cd
(यदि खलु चरणस्थितौ नौ त्रिकौ कृत्तिकाख्यास्तथा राः स्युः क्रमाद् भवति यदि यतिस्तथा सप्तभिः सप्तभिस्त्रिष्वतो ऽन्या यतिः पञ्च विद्यात्तथा । BhNZ_15_142ab
[ABh]


[(मू)]

1. ड॰

रथहयनागयौधपुरुषैः सुसंकुलमलं समुद्रितशरासनशरपङ्क्तिकुन्तपरिघासियष्टिविवृतं बहुप्रकरणम् ।

वसुगणमस्यभिन्नहतशत्रुनाशितशिरः प्रमथ्य तरसा(?) कृतमभिवीक्ष्य संयुगमुखे समीक्षितगुणं त्वयाश्वललितम् ।

2. म॰ सुविदितं

3. ब॰ निशितं

4. च॰ भिन्न

5. म॰ भयानकरसं

6. म॰ अभिगाह्य

7. ब॰ तदश्वललैतम्

8. च॰ चतुर्विंशाक्षरे ।

[(व्या)]

[page 277]




[NZ]

सततमभिनिविष्टदेहा तथा संकृतौ सूरिभिः सर्वदा दृश्यते तत इह परिभाषिता शास्त्रविद्भिस्त्वियं मेघमाला यथा दण्डकः ॥ ) BhNZ_15_142cd
पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला1 क्षितिधरसदृशोच्चरूपा2 महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा3 BhNZ_15_143ab
सुरपरिधनुरुज्ज्वलाबद्धकक्ष्या4 तडिद्द्योतसन्नाहपट्टोज्वला गगनतलविसारिणी5 6प्रावृषेण्या दृढं 7मेघमालाधिकं शोभते ॥ BhNZ_15_143cd
आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । BhNZ_15_144ab
नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ BhNZ_15_144cd
पञ्चविंशतिके पादे शेषाणि च लघून्यथ । BhNZ_15_145ab
8वृत्ताज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ BhNZ_15_145cd
(भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । BhNZ_15_146ab
पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ BhNZ_15_146cd
[ABh]


[(मू)]

1. ड॰ तीव्रनादा बलाकावलीमेखलाशोभिता

2. व॰ शोभिता, म॰ भूषिता

3. न॰ ऊर्ध्वरूपा

4. ड॰ गर्भोद्ब्वहा, म॰ गर्भलसा

5. च॰ शोभा

6. ब॰ विचारिणी

7. ब॰ प्रावृषिप्रोन्नता, म॰ मेघमालावली

8. भ॰ भवन्ति तज्ज्ञैः साज्ञेया क्रौञ्चमालेति नामतः ।

[(व्या)]

[page 278]




[NZ]

यथा ---
यः किल दाक्षं 1विद्रुतसोमं2 क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिध3मपशुकचरुकम् । BhNZ_15_147ab
कार्मुकमुक्तेनाशु चकार व्यपगतसुरगण4पितृगणमिषुणा 5नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ BhNZ_15_147cd
[6या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिता दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । BhNZ_15_148ab
आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधि सुखमभिलषता ॥ ] BhNZ_15_148cd
अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशतिकम् । BhNZ_15_149ab
एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ BhNZ_15_149cd
7एतानि गुरुसंख्यानि शेषाणि च लघून्यथ । BhNZ_15_150ab
[ABh]


[(मू)]

ब॰ दाक्ष्यं

2. म॰ विद्रुमसोमं

3. न॰ अपशुकमहितम्

4. ब॰ मुनिगणं

5. भ॰ सत्वतिमायो दैत्यगणारिस्तव नृप मुखमिव दहतु रिपुगणम् ।

6. ट॰ड॰ढ॰मातृकास्वेवायं श्लोको वर्तते । अयं तु हलायुधेन पैङ्गलवृत्तावुदाहृतः

7. च॰ एतानि गुरुसंज्ञानि पादे षड्विंशकाक्षरे । यत्र नाम्ना तथा ज्ञेयं तद्भुजङ्गविजृम्भितम् ॥

[(व्या)]

[page 279]




[NZ]

षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ BhNZ_15_150cd
[यस्मिन्मौतोनाः र्सौ नित्यं प्रतिचरणमथगदितास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टभिः । BhNZ_15_151ab
पश्चादन्त्यौ ग्लौ संयोज्यौ यदि भवति मनुजदयिता समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदनविकसनपरं भुजङ्गविजृम्भितम् ॥ BhNZ_15_151cd
यथा ---
1रूपोपेतां देवः सृष्टां समदगजविलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात् प्राप्तां द्रष्टुं बहुवदनमचलनयनं शिरः कृतवान्हरिः2 BhNZ_15_152ab
दीर्घं निश्वस्यान्तर्गूढं स्तनवदनजघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणिकनकवलयं भुजङ्गविजृम्भितम् ॥ BhNZ_15_152cd
[ABh]

(रूपोपेतामिति) भुजङ्गविजृम्भितं कृत्वा भगवतो हस्ते न्यस्तम् ।

[(मू)]

1. भ॰ रूपे ऽनिन्द्यां

2. ड॰ वदननयनसहितं तिरस्कृतवान् हरः

3. भ॰ मुदा

3. भ॰ ब्रह्मादीर्घं निश्वस्त्यान्तःस्तन

[(व्या)]

[page 280]




[NZ]

[1दण्डकं नामविज्ञेयमुत्कृतेरधिकाक्षरम् । BhNZ_15_153ab
मेघमालादिकं तत् स्यान्नौ चादौ कागुहार्त्रिकाः ॥ BhNZ_15_153cd
यथा ---
मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति2 द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । BhNZ_15_154ab
स्फुटित3कलशशुक्तिनिर्गीर्णमुक्ताफलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः संप्रकीर्णामलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ ] BhNZ_15_154cd
एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । BhNZ_15_155ab
5विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ BhNZ_15_155cd
यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । BhNZ_15_156ab
ग्रथिताः पादयोगेन तद्वृत्तं विषमं स्मृतम् ॥ BhNZ_15_156cd
[ABh]

नानावृत्तसमुद्भवा इत्यनेन तुल्यच्छन्दसां वृत्तानां लक्षणं पृथक्पृथक्पादे विरच्य स्वयं विषमा ऊह्या इत्याह ।

[(मू)]

1. एतौ श्लोकौ प्रक्षिप्तौ ट॰ड॰ढ॰मातृकास्वेवोपलभेते । उदाहरणं तु जनाश्रय्यां विद्यते । तद्ग्रन्थकारेण रुद्रस्वामिना कुत उद्धारितमिति निर्णेतुं न शक्यते । अयं दण्डकश्चण्डवृष्टिप्रयोग इति नाम्ना भासते ।

2. ड॰ समभ्यर्च्यते

3. `विमल'इति जनाश्रय्याम्

4. `कीर्तयिष्यन्ति वर्ण' इति तत्रैव

5. भ॰ युग्मौजविषमाणां च संप्रवक्ष्यामि ।

[(व्या)]

[page 281]




[NZ]

1द्वौ समौ द्वौ च विषमौ वृत्ते ऽर्धविषमे तथा । BhNZ_15_157ab
सर्वपादैश्च2 विषमैर्वृत्तं विषममुच्यते ॥ BhNZ_15_157cd
3ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । BhNZ_15_158ab
युग्मौजविषमैः पादैर्वृत्तमर्धसमं भवेत् ॥ BhNZ_15_158cd
पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । BhNZ_15_159ab
4द्वयोरर्धसमं विद्यादेष छेदस्तु पादशः ॥ BhNZ_15_159cd
5छेदतस्तु मया प्रोक्तं समवृत्तविकल्पनम् । BhNZ_15_160ab
त्रिकैर्विषमवृत्तानां संप्रवक्ष्यामि लक्षणम् ॥ BhNZ_15_160cd
[6नैधने ऽन्यतरस्यां वै प्रथमे पाद इष्यते । BhNZ_15_161ab
द्वितीये चरणे च स्यादित्यनुष्टुप्समासतः ॥ ] BhNZ_15_161cd
सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके7 BhNZ_15_162ab
8युग्मे ऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ BhNZ_15_162cd
यथा ---
प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा । BhNZ_15_163ab
प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ BhNZ_15_163cd
[ABh]

द्वौ समाविति प्रथमतृतीयौ द्वितीयचतुर्थौ । द्वौ विषमाविति प्रथमद्वितीयौ तृतीयचतुर्थौ, वीप्सागर्भमेतत् । द्वाविति सिद्ध इति लक्षिते । सार्वपादैकमिति लक्षणीयमितिशेषः द्वयोरित्यत्रापि । छेद इति पादेषु विभाग इत्यर्थः । (समवृत्तविकल्पनं) समवृत्तेषु विकल्पिता ये चित्राश्छेदाः ते प्रोक्ताः ।

[(मू)]

1. ड॰ समावेकान्तरौ पादौ द्वौ द्वावर्धसमौ स्मृतौ

2. ब॰ तु

3. भ॰ ह्रस्वाद्यं नैधनाद्यं वा

4. भ॰ द्वयोश्च पादयोरोज एष च्छेदस्तु वृत्तजः, ब॰ पादद्वयस्य संसिद्धौ सिद्धमर्धसमं पुनः ।

5. प॰ भेदकस्तु, च॰ छेदास्तु, प॰ छेदे तु , ढ॰ छेदको ऽयं मया प्रोक्तः

6. अयं श्लोकः क॰ आदि च॰ अन्तेषु च भ॰ संज्ञके च न दृश्यते

7. भ॰ यत्र तथापरे

8. ब॰ एवं युग्मौजयोर्ज्ञेयं पथ्यावृत्ते त्रिकौ यथा ।

[(व्या)]

[page 282]




[NZ]

म्रौ गौ तु प्रथमपादे1 यूसौ ल्गौ च द्वितीयके । BhNZ_15_164ab
पादे र्भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ2 BhNZ_15_164cd
यथा ---
3नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया । BhNZ_15_165ab
सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ BhNZ_15_165cd
4अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । BhNZ_15_166ab
पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ BhNZ_15_166cd
कृतेन रमणस्य किं सखि रोषेण ते ऽप्यर्थम् । BhNZ_15_167ab
5विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ BhNZ_15_167cd
चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । BhNZ_15_168ab
अनुष्टुप्चपला(*) सा तु विज्ञेया नामतो यथा ॥ BhNZ_15_168cd
यथा ---
न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । BhNZ_15_169ab
नारदस्य प्रतिकृतिः कथ्यते चपला हीयम्6 BhNZ_15_169cd
[ABh]


[(मू)]

1. ब॰ खलुभवेत्पूर्वं

2. ब॰ पथ्यात्तौ ग्लौ चतुर्थके (लक्षणविरुद्धःपाठः)

3. एतदुदाहरणं ज॰आदि ब॰ आन्तेषु न विद्यते

5. ज॰ आदि ब॰ अन्तेषु युग्मयोः

4. ब॰ त्वं जडे केन मोहिता विपरीता न पथ्यासि ।

6. भ॰ म॰ योर्विना श्रूयते विपुला हीयम् ।

* भ॰म॰योर्विना सर्वेष्वादर्शेषु `विपुला' इति पाठः, स तु मतान्तरेण युज्यते । पिङ्गलादयस्तु ``चपला युजोन्'' इत्याहुः । रुद्रस्वामी ``चपला'' इति सूत्रयित्वा ``अस्मिन्नेव वक्त्रनियमे ऽयुजोः'' इत्याहुः । रुद्रस्वामी ``चपला'' इति सूत्रयित्वा ``अस्मिन्नेव वक्त्रनियमे अयुजोः पादयोरन्त्यात्पूर्वं क॰कारो भवति चेत् चपला नाम भवति । यथा --- भात्यशोकः किसलयः कुसुमस्तबकै रम्यैः । श्रियं हस्ताधारगतां लज्जयन्निव च स्त्रीणाम् ॥'' इत्युदाहरणेन विवृतवान् ॥ ईशानदेवो ऽपि छन्दःस्तुतौ चपलावक्त्रस्य ``रौक्ममैन्द्रमभिनवं मण्डपं हृद्गतं ध्यायेत् । हैमवप्रं तु परितश्चपलावक्त्रशोभाढ्यम्'' इत्याह । सैतवाचार्थमते इयं नकारविपुला । ``चपलावक्त्रमयुजोः समुद्रान्नगणो यदि'' इति मन्दारमरन्दे च । अत एव भ॰म॰योः पाठ एव गृहीतः ।

[(व्या)]

[page 283]




[NZ]

विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । BhNZ_15_170ab
सर्वत्र सप्तमस्यैव(*) केषांचिद्विपुला यथा1 BhNZ_15_170cd
संक्षिप्ता वज्रवन्मध्ये हेमकुम्भनिभस्तनी BhNZ_15_171ab
विपुलासि प्रिये2 श्रोण्यां पूर्णचन्द्रनिभानने ॥ BhNZ_15_171cd
यथा ---
गङ्गेव मेघोपगमे आप्लवितवसुन्धरा । BhNZ_15_172ab
कूलवृक्षानारुजन्ती स्रवन्ती विपुलाचलात् ॥ BhNZ_15_172cd
[3आगता मेघसमये भीरुभीरुकुलोद्गते । BhNZ_15_173ab
एकरात्रौ परगृहं चोरि बन्धनमर्हसि ॥ ] BhNZ_15_173cd
एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । BhNZ_15_174ab
युग्मौजविषमैः पादैः शेषैरन्यैस्त्रिकैरथ ॥ BhNZ_15_174cd
4सगुर्वन्तः सर्वलघुस्त्रिको नित्यं हि नेष्यते । BhNZ_15_175ab
प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ BhNZ_15_175cd
पथ्यापादं समास्थाय त्रीण्यन्ते तु गुरूण्यथ । BhNZ_15_176ab
भवन्ति पादे सततं बुधैस्तद्वक्त्रमुच्यते ॥ BhNZ_15_176cd
यथा ---
दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रान्तम्6 BhNZ_15_177ab
7रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ BhNZ_15_177cd
[ABh]

(सगुर्वन्त इति) गुर्वन्तः सः, सर्वलघुः नः त्रिकौ नेष्येते । प्रथमादक्षरादनन्तरः चतुर्थादक्षरादूर्ध्वं तु प्राक्लघुः यकारं तु न प्रयोज्यानि

[(मू)]

1. ब॰ विपुरैरनु

2. ब॰ कट्यां सरच्चन्द्र

3. अयं श्लोको भ॰मातृकायामेव वर्तते

4. ब॰ गुर्वन्तकः

5. भ॰ समान्यत्र

6. ब॰ नेत्रं च

7. ड॰ प्रागसंभोगः ।

* सैतवाचार्यादीनां मते रकारतकारभकारमकारनकारविपुलाः प्रसिद्धाः ॥

[(व्या)]

[page 284]




[NZ]

[1इत्येषा सर्वविषमा नामतो ऽनुष्टुबुच्यते । BhNZ_15_178ab
तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ ] BhNZ_15_178cd
पादे षोडशमात्रस्तु गाथांशकविकल्पिताः2 BhNZ_15_179ab
चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ BhNZ_15_179cd
असंस्थितपदा 3सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । BhNZ_15_180ab
क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ BhNZ_15_180cd
स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । BhNZ_15_181ab
केतुमत्यां गणाः प्रोक्ता भ्रौ न्गौ गश्च सदा बुधैः ॥ BhNZ_15_181cd
यथा ---
स्फुरिताधरं 4चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । BhNZ_15_182ab
किमिदं रुषापहृतशोभं 5केतुमतीसमं वद मुखं ते ॥ BhNZ_15_182cd
6वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । BhNZ_15_183ab
नजौ जरौ द्वितीये च शेषाग्रं पुनरेव तु7 BhNZ_15_183cd
(8प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । BhNZ_15_184ab
गणाश्चापरवक्त्रे तु नजौ जौ द्विचतुर्थयोः ॥ BhNZ_15_184cd
यथा ---
सुतनुजलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । BhNZ_15_185ab
किमिदमपरवक्त्रमेव ते शशिवदने ऽद्य मुखं पराङ्मुखम् ॥ BhNZ_15_185cd
[ABh]


[(मू)]

1. श्लोको ऽयं ब॰मातृकायामेव दृश्यते

2. भ॰ यस्यां नित्यं भवन्ति हि

3. ब॰ सविह्वलाङ्गी

4. ड॰ चलितनेत्रं

5. ब॰ केतुमतीमुखाकृतिमुखं

6. च॰ अपरवक्त्रस्यादौ तु म्लौगिति त्रिकं त्रिकम् । नजौ जरौ द्वितीये तु चतुर्थे पुनरेव तु

7. भ॰ प्राग्वदेव तु

8. अयं लक्षणश्लोकः ज॰ आदि, ब॰ अन्तेषु दृश्यते ।

[(व्या)]

[page 285]




[NZ]

नौ र्यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । BhNZ_15_186ab
यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत्1 BhNZ_15_186cd
यथा ---
2पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । BhNZ_15_187ab
मधुकरपरिगीयमानशब्दं3 वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ BhNZ_15_187cd
स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । BhNZ_15_188ab
स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ BhNZ_15_188cd
यथा ---
तव रोमराजिरतिभाति सतनु मदनस्य मञ्जरी । BhNZ_15_189ab
नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ BhNZ_15_189cd
स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । BhNZ_15_190ab
स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ BhNZ_15_190cd
यथा ---
ललिताकुलभ्रमितचारुवसनकरचारुपल्लवा4 BhNZ_15_191ab
5प्रविकसितकमलकान्तिमुखी प्रविभासि देवि सुरतश्रमातुरा ॥ BhNZ_15_191cd
एवमेतानि वृत्तानि समानि विषमाणि च । BhNZ_15_192ab
[ABh]


[(मू)]

1. ब॰ यथैतावपरौ तथा

2. ड॰ पवनरथ

3. न॰ शोभं, ड॰ वृक्षं

4. ड॰ वसनकरपल्लवा हि मे

5. भ॰ ललितावलि भ्रमरजासु वदनकरचारुपल्लवा । ललितासुतासुतनुवदते ऽद्यलोचने वलिता लतेव चलबालपल्लवा ।

[(व्या)]

[page 286]




[NZ]

नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ BhNZ_15_192cd
सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः1 BhNZ_15_193ab
न च तानि प्रयोज्यानि हतशोभानि तानि हि2 BhNZ_15_193cd
3यान्यत्र प्रतिषिद्धानि गीतके तानि योजयेत् । BhNZ_15_194ab
4ध्रुवायोगे तु वक्ष्यामि तेषामेव विकल्पनम् ॥ BhNZ_15_194cd
वृत्तलक्षणमेवं तु5 समासेन मयोदितम् । BhNZ_15_195ab
अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ BhNZ_15_195cd
पथ्या च विपुला चैव चपला मुखतो ऽपरा । BhNZ_15_196ab
जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ BhNZ_15_196cd
[6आसां 7तु संप्रवक्ष्यामि यतिमात्राविकल्पनम् । BhNZ_15_197ab
8लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ BhNZ_15_197cd
यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । BhNZ_15_198ab
द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ9 स्मृतौ ॥ BhNZ_15_198cd
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । BhNZ_15_199ab
अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः10 BhNZ_15_199cd
[ABh]

ननु हतशोभानीति चेत् कथं प्रयोज्यानीत्याह यान्यत्र प्रतिषिद्धानीति गीतं पाठ्यमानत्वाभावात् न वृत्तगता श्रव्यतापेक्षते केवलं तालयोजनार्थसाम्यमवश्यकर्तव्यमिति मात्राणां वर्णानां नियमस्तत्राश्रीयते ।

[(मू)]

1. ड॰ पण्डितैः

2. ड॰ न शोभां जनयन्ति हि

3. ब॰ यान्यतःपरमत्र स्युर्गीतकैः

4. ब॰ ध्रुवाविधाने व्याख्यास्ये तेषां चैव

5. न॰ एतत्तु

6. यतिमात्राविकल्पस्वरूपो ऽयं ग्रन्थभागः कुण्डलीकृतः ज॰आदिभ॰अन्तेष्वेव दृश्यन्ते । वृत्तिकारेण प्रक्षिप्त इति न पठितः । म॰संज्ञिते ऽपि वर्तमानत्वात्कीर्तिधरेणाप्ययं पठित इति ज्ञायते ।

7. ब॰ चैव प्रवक्ष्यामि

8. ब॰ लक्षणे नियतांश्चैव विकल्पान्गुणसंश्रितान् (ड - गण)

9. ड॰ शेषौ चेव युजौ स्मृतौ

10. ड॰ युग्गणः पञ्च चैव तु ।

[(व्या)]

[page 287]




[NZ]

1षष्ठो वै द्विविकल्पस्तु नैधने ह्येकसंस्थितः2 BhNZ_15_200ab
पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः3 BhNZ_15_200cd
द्विविकल्पस्तु षष्ठो यो4 गुरुमध्यो भेवेत्तु सः । BhNZ_15_201ab
तथा5 सर्वलघुश्चैव यतिसंज्ञासमाश्रितः ॥ BhNZ_15_201cd
6द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः7 BhNZ_15_202ab
8प्रथमादिरथान्त्ये च पञ्चमे 9वा विधीयते ॥ BhNZ_15_202cd
गणेषु त्रिषु 10पादस्य यस्याः पथ्या तु सा भवेत् । BhNZ_15_203ab
11अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ BhNZ_15_203cd
अयुजः सर्वगुरवो गुरुमध्या गणा युजः । BhNZ_15_204ab
यस्याः स्युः पादयोगे तु विज्ञेया 12चपला हि सा ॥ BhNZ_15_204cd
13त्रिंशदाद्यस्तु विज्ञेयः सप्तविंशति चापरे । BhNZ_15_205ab
उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ BhNZ_15_205cd
14त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । BhNZ_15_206ab
15त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ॥ BhNZ_15_206cd
एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । BhNZ_15_207ab
16सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ BhNZ_15_207cd
[ABh]


[(मू)]

1. न॰ षष्ट्यो ऽस्य द्विविकल्पः स्यात्

2. न॰ संश्रितः

3 , प॰ यो गणः षष्ठ एकमात्रः स इष्यते

4. ड॰ अत्र

5. ड॰ सर्वयतिश्चैव यदिसंज्ञां

6. ढ॰ सद्वितीयाद्विलघुनी सप्तमे सप्तमाद्यदि

7. भ॰ सप्रमे वा यतिस्तथा

8. भ॰ प्रथमादि तथान्ते च

9. ड॰ तु

10. . न॰ पादौ तु

11. अस्य श्लोकस्थाने न॰ब॰ढ॰आदिषु --- प्रथमे च द्वितीये च सा त्वन्या विपुला मता । (न॰ प्रत्यमतृतीयौ पादौ) द्वितीयश्च चतुर्थश्च ``पूर्वार्धे ... । मुखचपला । कार्यौ ... उत्तमाः ॥ इति द्वौ श्लोकौ वर्तेते । पाठस्तु --- त्रिंशन्मात्रास्तु पूर्वार्धे विंशतिः सप्तचापरे

14. ड॰ अधिकानि यानि त्रिंशद्भ्यस्तानि द्विगुणितानि तु

15. ड॰ अक्षरत्रययुक्तानि ज्ञेयान्यत्र लघूनि तु

16. ड॰ सर्वासां चैवमार्याणामक्षराणि ।

[(व्या)]

[page 288]




[NZ]

अर्धाष्टमगणार्धा च सर्वैवार्या प्रकीर्तिता । BhNZ_15_208ab
षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ BhNZ_15_208cd
पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । BhNZ_15_209ab
द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ BhNZ_15_209cd
यथा सर्वलघुश्चैव यतिसंख्यासमाश्रिता । BhNZ_15_210ab
सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ BhNZ_15_210cd
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । BhNZ_15_211ab
अयुग्गणो विधातव्यः 1युग्गणस्तु स एव च ॥ BhNZ_15_211cd
प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । BhNZ_15_212ab
विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ BhNZ_15_212cd
पथ्या यथा ---
रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । BhNZ_15_213ab
कस्य तु पृथुमृदुजघना तनुबाह्वंसोदरी पथ्या ॥ BhNZ_15_213cd
[ABh]

अर्धो ऽष्टमो गणः सान्ताः सप्त गणाश्च । चतुर्मात्रा यस्मात्तादृगर्धं यः स्यात् षष्ठो गणो द्विभेदः एकभेदमाह पश्चादर्धे यः षष्ठो गणस्तस्मिन् कर्तव्ये लघुरेकः कर्तव्यस्तस्य स्थान इत्यर्थः । गुरुमध्यो जः सर्वलघुः चतुर्लघुस्तत्र च द्वितीयादारभ्य लघ्वोर्यतिरर्धे तदनन्तरं पादारम्भः कर्तव्यः, अन्ते च प्रथमादिर्यतिः, पञ्चमे च गणे समाप्ते यतिः । अयुग्गण इति विषयं प्रथमतृतीयपञ्चमसप्तमरूपं । युग्गणः समः स एव चेति जकारस्तत्र न वर्ज्य इति यावत् । अर्धद्वये ऽपि गणत्रये छेदः कर्तव्यः स चैव पाद उच्यते तदाह प्रथमतृतीयौ पादौ द्वादशमात्राविति । प्रथमे ऽर्धे गणत्रयं प्रथमः पादः द्वितीयपादे चान्यं गणत्रयं तृतीयपादम् । पथ्येति पथि साध्वित्यर्थः ।

[(मू)]

1. म॰ प्रमाणश्चैव पञ्चमः ।

[(व्या)]

[page 289]




[NZ]

विपुला यथा ---
विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । BhNZ_15_214ab
आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ BhNZ_15_214cd
द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । BhNZ_15_215ab
उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ BhNZ_15_215cd
उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा । BhNZ_15_216ab
जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ BhNZ_15_216cd
पूर्वार्धे लक्षणं ह्येतदस्याः सा च मुखेन तु1 BhNZ_15_217ab
2पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ BhNZ_15_217cd
मुखचपला यथा ---
आर्यामुखे तु चपला तथापि चार्या न मे यतः सा तु । BhNZ_15_218ab
दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ BhNZ_15_218cd
जघनचपला यथा ---
वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । BhNZ_15_219ab
कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ BhNZ_15_219cd
उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि3 BhNZ_15_220ab
वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला तु सा ॥ BhNZ_15_220cd
कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । BhNZ_15_221ab
अष्टादश द्वितीयं च तथा पञ्चदशोत्तमाः ॥ BhNZ_15_221cd
[ABh]


[(मू)]

1. न॰ यस्याः सा चपलामुखे

2. न॰ पश्चिमार्धं भवेद्यत्र जघने चपला तु सा

3. भ॰ यत्रैवं लक्षणं भवेत् ।

[(व्या)]

[page 290]




[NZ]

1चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । BhNZ_15_222ab
प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ॥ BhNZ_15_222cd
पञ्चपञ्चाशदन्त्या तु त्रिंशदाद्या तथैव च । BhNZ_15_223ab
आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ BhNZ_15_223cd
त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । BhNZ_15_224ab
शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ BhNZ_15_224cd
सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । BhNZ_15_225ab
सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ॥ BhNZ_15_225cd
विकल्पं गणनां कृत्वा संख्यां पिण्डेन निर्दिशेत् । BhNZ_15_226ab
आर्यागीतिरथार्धे च केवलं चाष्टभिर्गणैः ॥ BhNZ_15_226cd
[ABh]

आर्याणां भेदं दर्शयितुं तत्प्रस्तारमित्याह ।
चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः ।
प्रस्तारयोगमासद्य बाहुल्यं संप्रदर्शयेत् ॥ इति
अयुक्स्थानगतानां चतुष्प्रकाराश्चतुर्गणाः । समस्थानगताः पञ्चप्रकारास्तेषाम् यो विशेषः परस्परसंकीर्णतातत्कृतमार्याणां प्रस्तारबाहुल्यं निरूपवेत् । अन्त्या सर्वलघु कार्या पञ्चपञ्चाशदक्षराणि, प्रथमार्धे एकान्न त्रिंशत्, द्वितीये षड्विंशतिः ।
शिशिरतरकिरणपरिकरसकलकलविरचितकपिशकचनिचया ।
समहृदय(तनुविनिहितधरणिधरवरमुत जय जय शिव ॥)
लघुद्वयं द्वितीये षष्ठे लघुः तथा च लघुवर्णत्रयमिति । अत्र मात्रावृत्तानाम् संज्ञाज्ञानार्थमाह । सर्वेषामेवेति । पूर्वं कृत्वा यो विकल्पसंख्याभेदः तस्योत्तरसंख्यया सह गुणसंहननं कृत्वा यो भवति पिण्डस्तेन संख्यां वदेत् ।

[(मू)]

1. अयं श्लोको भारतीयमातृकासूपलब्धासु कुत्रचिन्न दृश्यते, वृत्तिकारेण पठितत्वान्मूले ऽत्र निवेशितः ।

[(व्या)]

[page 291]




[NZ]

इतरार्धे तु षष्ठस्तु न लघुर्गण इष्यते । BhNZ_15_227ab
वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः ॥ BhNZ_15_227cd
काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ BhNZ_15_227ef


इति भारतीये नाट्यशास्त्रे छन्दोविचितिर् नामाध्यायः पञ्चदशः ॥
[ABh]

तत्र समस्तासां पञ्चभेदः विषमश्चतुर्भेदः षष्ठो द्विभेदः द्वितीये ऽर्धे त्वेकभेदः, अष्टममेकभेदम् । तदत्र पूर्वाङ्गेनोत्तराङ्कस्य गुणनं तेनान्याङ्कस्य षोडश स्थानानि । संख्यालाभः तत्र चतुर्भिः पञ्चानां गुणेन विंशतिस्तया चतुर्णां गुणने विंशतिस्तत्या च गुणानां गुणने विंशतिरित्यादि मन्तव्यम् । तदाह ---
आर्याः शतसहस्राणि ज्ञेया ह्येकान्नविंशतिः ।
अष्टौ कोट्यः सहस्राणि विंशतिश्च प्रमाणतः ॥
न लघुरिति । अपि तु प्रथमार्धवदपरार्धे ऽपि द्विभेदो गणः आर्यागीतावित्यर्थः ।
अध्यायार्थमुपसंहरन् भाविनं विषयमासूत्रयति वृत्तैरित्यादि । काव्यबन्धा इत्यनेनेदमाह यथा प्रासादकुड्यादिके कर्तव्ये प्रथमं भूमिः, तद्वत्काव्ये निर्मातव्ये भूमिकल्पः शब्दच्छन्दोविधिः क्षेत्रपरिग्रहं वृत्तसमाश्रयमित्यादि विरचयन् भित्तिस्थानीयं लक्षणयोजनं चित्रकर्मप्रतिममलङ्कारगुणनिवेशनं गवाक्षवातायनादिदेशीयो दशरूपकविभागः, उपयोगनिरूपणाप्रख्या काक्वादिक्लुतिः, एवंभूतवाचनिकाभिनयस्वरूपं चतुर्दशादिभिः षड्भिरध्यायैरुच्यते । तत्राध्यायद्वयं वृत्तलक्षणविधानं तु भविष्यति ।
यद्यपि रूपकविरचनकाले परिपक्वप्रज्ञस्य न क्रमप्रतिभासस्तथाप्यपोद्धारधिया कल्प्यत इत्याहुः । प्रबन्धस्य यो युक्तो ऽभ्यासः तन्निष्पत्तिः प्रबन्धाभ्यासः तत्संपत्तिः अभिनयार्थनिर्वर्तनं तदभिनयोपारोहणमिति स एव क्रम इत्युपाध्यायाः यदाहुः ---
महाकवीनां पदवीमुपात्तामारुरुक्षताम् ।
नासंस्मृत्य पदस्पर्शान्संपत्सोपानपद्धतिः ॥ इत्यादि ।

[(मू)]

[(व्या)]

[page 292]




[NZ]

[ABh]

क्रमोल्लङ्घने हि सति नाटकादिविरचयतां महान्तः प्रमादापभ्रंशा भवन्ति । न हि सर्वो वाल्मीकिर्व्यासः कालिदासो भट्टेन्द्रुराजो वा, तेषामपि प्राग्जन्मार्जितक्रमाभ्याससमुदितसंस्कारपाटवोत्पादितः कुलप्रतिभङ्गज्ञानातिशय इति शिवम् ॥
इति पञ्चदशाध्याये ध्यायिना परमेश्वरम् ।
कृताभिनवगुप्तेन गुप्तार्थप्रकटीक्रिया ॥
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां वृत्तविधिर्नाम पञ्चदशो ऽध्यायः ।

[(मू)]

[(व्या)]

[page 293]




श्रीः
नाट्यशास्त्रम्
षोदशो ऽध्यायः(*)

†विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च । BhNZ_16_001ab
प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादो ऽतिशयः सहेतुः ॥ BhNZ_16_001cd
सारूप्यमिथ्याध्यवसायसिद्धिपदोच्चयाक्रन्दमनोरथाश्च । BhNZ_16_002ab
आख्यानयाच्ञाप्रतिषेधपृच्छादृष्टान्तनिर्भासनसंशयाश्च ॥ BhNZ_16_002cd
[ABh]

विचित्रं रूपकभुवो लक्षणं भूषणं भुवः ।
भास्यते येन तं वन्दे प्राच्यधीसाधितं शिवम् ॥
(ननु) काव्यबन्धाः षट्त्रिंशल्लक्षणन्विताः कर्तव्या इत्युक्तं, तत्र गुणालङ्कारादिरिति वृत्तयश्चेति काव्येषु प्रसिद्धो मार्गो, लक्षणानि तु न प्रसिद्धानि, किं च पुरुषस्येव काव्यस्य लक्षणगुणालङ्कारव्यवहारो न युक्तः पुरुषस्य शरीरचैतन्यभेदात् कटकादीनां ततो ऽपि भेदात्, काव्यस्य पुनर्विरचनकाले प्रतिपत्तिकाले वा

[(मू)]

* ज॰ आदि ब॰ अन्तेषु सप्तदशो ऽध्यायः ।

अस्मिन्नध्याये षट्त्रिंशल्लक्षणसमुद्देशनिर्देशयोर्गुणदशकस्य लक्षणे च द्विविधः पाठो दृश्यते । तत्र वृत्तिकारेणैकः पाठो गृहीतः, कीर्तिधरधजञ्जयसर्वेश्वरादिभिश्च स एव प्रमाणीकृतः । भिन्नः पाठश्चिरन्तनैः कैश्चिद्व्याख्यातृभिः पठितः, स तु विश्वनाथसिङ्गभूपालादिभिरनुसृतः । वृत्तिकारस्तेषां वैषम्यपरिहरणाय नामनिर्वचनयोर्भिन्नानामपि केषांचिल्लक्षणानां स्वपाठोक्तलक्षणेष्वन्तर्भावं प्रकटीकृत्य षट्त्रिंशत्त्वं सम्यगख्यापयत् । भोजदेवस्तूभयोः पाठयोः समानानि भिन्नानि च गृहीत्वान्यानि द्वादश संकलय्य चतुःषष्टिलक्षणानि नामनिर्वचनाभ्यां प्रापञ्चयत् । तन्मतमेव शारदातनयेनानुसृतम् । अतः प्रथमं वृत्तिकारपाठविलसितमध्यायं समाप्यानुबन्धरूपेण पाठान्तरभागो निर्वचनोदाहरणसहितो महामतीनां चित्तविलासोद्द्योतनाय सूक्ष्मविषयविवेचनलालसानां हिताय च संप्रयोजितो ऽध्यायान्ते यथालब्धग्रन्थपरिकरः ।

[(व्या)]

[page 294]




[NZ]

आशीः प्रियोक्तिः 1कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव2 BhNZ_16_003ab
3अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्यो ऽनुनीतिः परिदेवनं च ॥ BhNZ_16_003cd
षट्त्रिंशदेतानि 4तु लक्षणानि प्रोक्तानि वै भूषणसंमितानि । BhNZ_16_004ab
काव्येषु 5भावार्थगतानि तज्ज्ञैः सम्यक्प्रयोज्यानि यथारसं तु6 BhNZ_16_004cd
[ABh]

प्रापकसत्तायां तेषामगणितत्वाच्च । दण्डिनापि
``काव्यशोभाकरान्धर्मानलङ्कारान्प्रचक्षते''
इति ब्रुवता गुणमध्य एव तत्र प्रसादादीनभिदधता च गुणालङ्कारविभागे ऽप्यसंभवतीति सूचितं भवति । सत्यमेतत्, किं तु विरचनविवेचनसामर्थ्यसमर्थनायावश्यं काल्पनिको ऽपि विभाग आश्रयणीयः । तत्र कल्पनायां विप्रतिपत्तयः केचिदाहुः --- इह गुणास्तावदात्मनि चिन्मये शृङ्गारादौ वर्तन्ते, शृङ्गारे चावश्यं च लक्ष्यत इति पृथक्सिद्धत्वादलङ्कारः, शरीरनिष्ठमेव यत्पदं पृथक्सिद्धं तल्लक्षणम्, येन शरीरस्य सौन्दर्यं जायते । तच्च सिद्धरूपं साध्यरूपं वा, यथा श्यामेति, `मदमन्थरगामिनी' इति च । एतदेव लक्षणं, तच्चालंक्रियते । अलङ्कारैर्युक्तं काव्यं लक्षणैर्विना न शोभते । क्रियावाच्योपमेयभेदेन तदेतल्लक्षणं द्विधेति यथा `श्यामा विशालाक्षी', `मत्तमातङ्गगामिनी' इति च ।
अन्ये मन्यन्ते --- इतिवृत्तखण्ड[ल]कान्येव सन्ध्यङ्गकानि लक्षणानीति च व्यपदिश्यन्ते । निमित्तभेदात् पूर्वापरसंबन्धेन बीजोपक्षिप्ते ऽर्थे निर्वहणपर्यन्ते

[(मू)]

1. भ॰ कपटक्षमे

2. भ॰ ग्रहश्च

3. भ॰ अर्थानुवृत्ती उपपत्ति

4. भ॰ मया समासात्

5. भ॰ सोदाहरणेषु

6. रसानि ।

[(व्या)]

[page 295]




[NZ]

[ABh]

परस्परसन्धायकत्वेन सन्ध्यङ्गतया व्यपदेशः, रसविशेषोपयोगितया वृत्त्यङ्गवाचोयुक्तिः, काव्यगतख्यातिप्राशस्त्योपयोगितया महापुरुषगतपाशध्वजपादरेखादिवल्लक्षणशब्दवाच्यता । तदुक्तं तत्रैव ---
लक्षणान्येव बीजार्थक्रमनिर्वाहकानि च । इति
प्रतिसन्धितदङ्गानि फलसिद्ध्युपपत्तितः ॥ इति ।
(काव्ये धीरोदात्तादिगुणाधानं वस्तुवर्णनाभङ्गिर्वेति केचित्)
तदत्र प्रथमपक्षे वर्णनीयप्रधानभूताधिकारपुरुषगतगुणादिविभाग एव काव्ये पर्यवसीयते । द्वितीयपक्षे तु वर्णनीयः सकल एवेति । वृत्तिलक्षणो ऽर्थः काव्यभेदात् त्रेधा विभज्यते । एकेषां तु दर्शनं --- कवेर्यः प्रतिभात्मा प्रथमपरिस्पन्दः तद्व्यापारबलोपनता गुणाः, प्रतिभावत एव हि रसाभिव्यञ्जनसामर्थ्यं माधुर्यादेरुपनिबन्धनसामर्थ्यं, न सामान्यकवेः । अनेन शब्देनेनेदं वस्तु वर्णयामीत्येवंभूतवर्णनापरपर्यायाद्वितीयव्यापारसंपाद्यास्त्वलङ्काराः ।
शब्दानममीभिः शब्दैरर्थानानमीभिरर्थैः संघटयामीत्येवमात्मकस्तु यस्तृतीयः कवेः परिस्पन्दः तदधीनात्मलाभादिशब्दात्मार्थात्मककाव्यशरीरसंश्रितानि वक्ष्यमाणश्लेषादिगुणदशकसमभिव्यञ्जनव्यापाराणि शब्दार्थोपसंस्कारकल्पानि क्रियारूपाणि लक्षणानीति, यदुक्तं तत्रैव ---
इति शब्दार्थयोर्येयं संश्रिता देहभूतयोः ।
काव्ये तया दर्शितानि लक्षणानि (विदुर्बुधाः) ॥ इति,
काव्ये ऽप्यस्ति तथा कश्चित् स्निग्धः स्पर्शो ऽर्थशब्दयोः ।
यः श्लेषादिगुणव्यक्तिदक्षः स्याल्लक्षणस्थितः ॥ इति,
चेष्टालङ्कारदृष्टान्तचिह्नः ... ... ... ... ॥ इति च
अत्र पक्षे कविव्यापारभेदाद्गुणालङ्कारलक्षणविभागः ।
अपरे संगिरन्ते --- अभिनेयानां काव्यबन्धानां वक्ष्यमाणस्वरूपं च रूपकं समभिदध्यात्, कवेः स्वसामर्थ्याधानाय तावदभ्यासो निर्माणविधेयो लक्षणं, मस्तकासंपूर्णाश्चादौ क्रमेण तु तथाभूतो ऽभिनेयार्थः काव्यबन्धो (लक्षणोन्नीतः) तेन च लोकोत्तरहृद्यवर्णने योगात् । तथा हि किञ्चित् प्रबन्धजातं गुणालङ्कारनिकरप्रधानं यथा मेघदूताख्यं तद्विभूषणम्, एवमन्यदपि, इति ।
`प्रबन्धधर्मा लक्षणानि' इति केचित्तु ब्रुवते । कवेरभिप्रायाविशेषो लक्षणमितीतरे पुनर्मन्यन्ते । केचिद् यथास्थानविशेषं यद्गुणालङ्कारायोजनं तल्लक्षणमिति

[(मू)]

[(व्या)]

[page 296]




[NZ]

[ABh]

परे त्वभाषन्त --- अलङ्कारादिनिरपेक्षणैव निसर्गसुन्दरो यो ऽभिनेयविशेषः काव्येषु दृश्यते, अमरुकश्लोकेष्वपि, तत्सौन्दर्यहेतुर्यो धर्मः सलक्षणः स एव चार्थः काव्यशरीरविशेषरूपो लक्षणम् । उपमादीपकरूपकाणामानन्त्याद् भेदमाहुः । तुशब्देन(*) अर्थे न चित्रत्वं लक्षणमिति ।
इतरेषां तु मतं यथा तन्त्रप्रसङ्गबाधातिदेशादि मीमांसाप्रसिद्धं वाक्यविशेषव्यवच्छेदलक्षणं तथा काव्यविशेषव्यवच्छेदकं भूषणादिलक्षणजातमिति त्वयं पक्षो द्वितीयपक्षान्न भिद्यते । एतेषु तु पक्षेष्वन्यतमग्रहे विषणानि न संगच्छन्ते स्पष्टेन पथा । इदं तु दशपक्ष्यां वस्तु ।
इह काव्यार्था रसा इत्युक्तं प्राक् । उक्तं वर्णनीयं शब्दनीयं कवेः कर्मेति च व्युत्पत्तित्रयं काव्यमिति । अनेनाभिधेयं अभिधानं अभिधां च स्वीकृत्यावस्थीयते, अपि च शब्दव्यापारो ऽभिधातृव्यापारः प्रतिपाद्यव्यापारश्चेति त्रिगतः । तत्र शब्दस्य रसाभिव्यक्तिक्षमार्थप्रतिपादकत्वं स्वयं च श्रोत्रे च संक्रान्तिमात्रं नान्तरीयकतया तद्रसदर्शनयोग्यतापादनसामर्थ्याद्गुणशब्दवाच्यम्, आवर्तमानो द्वितीयो वर्णः पदं वा प्राक्तनवर्णनादशोभाहेतुरलङ्कारः । एवमर्थस्यापि, यद्रसाभिव्यक्तिहेतुत्वं सो ऽर्धगुणः यस्तु वस्त्वन्तरं वदनस्येव चन्द्रः सो ऽलङ्कारः, यस्तु त्रिविधो ऽप्यभिधाव्यापारः स लक्षणानां विषयः । तथाहि --- इदमनेन शब्देनानयेतिकर्तव्यतयामुनाशयेनेत्थंभूतबुद्धिजननाय ब्रुवे इति कविः प्रवर्तते, स तथा भूतं रसवत्काव्यं विधत्ते । तत्र चित्तवृत्यात्मकं रसं लक्षयंस्तत्तद्रसोचितविभावाद्वैचित्र्यसम्पादकस्त्रिविधो ऽभिधाव्यापारो लक्षणशब्देनोच्यते । इत्येषां सामान्यलक्षणम् । यथा च पीवरत्वं स्तनयोर्लक्षणं मध्यस्य तु कुलक्षणम्, एवं किञ्चिदभिधीयमानं केनचिद्रूपेण रसोचितेन विभावादिरूपेण तमेव पदार्थक्रमं लक्षयल्लक्षणं अन्यत्र तु तत्कुलक्षणं, तेन सर्वे ऽलङ्कारा गुणास्तत्समुदायाद्विलक्षणा भवन्ति । तथा स्वार्थो ऽपि च क्वचिदर्थमात्रं क्वचिदलङ्कारो ऽर्थतः क्वापि चित्रतः क्वचिदलङ्कारादिप्रक्रियाविहीनो ऽपि स्वयं सुन्दरस्वभावोऽर्थः कुत्रचिच्छन्द इति त्रिविधव्यापारगामी;् तद्द्वारेणाभिधानाभिधेयतद्गुणालङ्काराद्यनुग्रहः शब्दानां शब्दैरर्थानामर्थैः शब्दानामर्थैस्तथापरैः संघठनां विचित्रितां कारयमाणाभिधाव्यापारवती ह्युक्तिर्निर्वाणप्रधानधुराधिरोही लक्षणाख्य एव ।

[(मू)]

[(व्या)]

* ``काव्यबन्धास्तु कर्तव्यः'' इत्यत्र तुकारः ।

[page 297]




[NZ]

[ABh]

अत एव पूर्वं ``काव्यबन्धास्तु कर्तव्यः षट्त्रिंशल्लक्षणान्विताः'' इति लक्षणान्यन्येव हि प्रधानं तत्प्रसङ्गेन गुणालङ्कारा इति तात्पर्यम् । विशेषलक्षणव्याख्याने चेतस्स्फुटयिष्यामः ।
तत्र लक्षणान्युद्देष्टुं तावदाह विभूषणमित्यादि यथारसं त्वित्यन्तेन श्लोकचतुष्टयेन । यथारसं ये भावा विभावानुभावव्यभिचारिणः, तेषां यो ऽर्थः (तं) स्थायिभावरसीकरणात्मकं प्रयोजनान्तरं गतानि प्राप्तानि, यदभिधाव्यापारोपसंक्रान्ता उद्यानादयो ऽर्थास्तद्रसविशेषविभावादिभावं प्रतिपद्यन्ते तानि लक्षणानीति सामान्यलक्षणम् । अत एव काव्ये सम्यक्प्रयोज्यानीति विषयस्तेषामुक्तिः ।
भट्टनायकेनापि त एव(?)शिक्षित्वाभिधाव्यापारप्रधानं काव्यमित्युक्तं --
शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः ।
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ इति ।
भामहेनापि ---
``सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते''(2-75) इत्यादि । तेन च परमार्थे व्यापार एव लक्षणं, स तु विषयद्वारेण विशेषलक्षणे तु निरूप्यत इति तत्स्वीकृतत्वादर्थो ऽपि लक्षणं, व्यापारो ऽपिच तद्विदां तु तदभ्यासपराणाम् च तथाभूतकव्यात्मकविषयावलोकने झटित्येव प्ररिभाति । तदन्यत्रानुमानेन प्रतिभया स्वसंवेदना --- इत्यनेन प्रयोजनम् । कुशलशिक्षितव्यापारो हि तत्काव्यदृशि भात्येव ।
षट्त्रिंशदिति च नान्यदिति वारणपरं कविहृदयवर्तिनामपराणामपरिसंख्येयत्वात् । किं तु बाहुल्येन तावदियता लक्ष्यव्याप्तं, इयति च कविनावधातव्यमिति संख्यानिरूपणम् ।
तथा च मतान्तरेण भरतमुनिरेवान्यथाप्युद्देशलक्षणेन नामान्तरैरपि च व्यवहारं करोति;् तत एव पुस्तकेषु भेदो दृश्यते तं च दर्शयिष्यामः । पठितोद्देशक्रमस्त्वस्मदुपाध्यायपरम्परागतः ॥

[(मू)]

[(व्या)]

[page 298]




[NZ]

[NZ]

अलङ्कारैर्गुणैश्चैव बहुभिर्यदलङ्कृतम् । BhNZ_16_005ab
भूषणैरिव विन्यस्तैस्तद्भूषणमिति स्मृतम् ॥ BhNZ_16_005cd
[ABh]

तत्र विभूषणं लक्षयितुमाह अलङ्कारैरिति । भूषणैः कटकादिभिः विभज्य स्थानदेशकालदशापुरुषादिविभागं विचार्य न्यस्तैरिव गुणालङ्कारैर्यदलङ्करणं तद्भूषणं नाम लक्षणं कविव्यापारः, तद्द्वारेण शब्दार्थव्यापारावपि ।
एतदुक्तं भवति --- इह गुणा अलङ्काराश्च विषया इत्यनेन निबद्धाः काव्यार्थीकृतानामभिधेयानां रसविशेषविषयं विभावादिभावं विवरीतुं समर्थाः । तथा हि हास्यरसप्रधाने प्रहसनादौ शुष्कश्रोत्रिये वक्तरि प्रयोक्तरि श्रोतरि वा गुणविनिवेशितं तु लक्षणं भजत्यलङ्कारश्च । तथा हि पादताडितके(*) श्रोत्रियं श्रोतारमभिप्रेत्य विटस्यापि निर्गुणपुरुषस्यैवोक्तिः ``मा मुसलेनापाकार्षीः, मा कुसूलाग्नी धाक्षी'' इति शोभां पुष्णाति । अनौचित्यनिबन्धस्तु करुणविप्रलम्भादौ यमकस्य, यथा ---
विना प्रियतमेनाद्य विरहानलतापिता ।
दह्येच्चूतस्य विच्छेदं किं तु हा नलतापिता ॥
स्थाने निवेशस्तु यथा ---
लीनेव प्रतिबिम्बितेव लिखितेवान्तर्निखातेव च
प्रोत्कीर्णेव च वज्रलेपघटितेव'' इति । (मालतीमाधवात्)
अत्रापि लोके उत्प्रेक्षापरम्परैव हीयं सातिशयकामावेशावस्थासमुद्द्योतितप्रियतमाविषयविचित्रसंकल्पगर्भसंभवौन्मुख्यप्राणत्वाद् विप्रलम्भस्य कामावस्थानां च माधुर्यप्रसादोपेते च काव्ये श्रोत्रपथमवतरत्येवेति प्रतिपाद्यते । सुकुमारचित्तवृत्तिसुभगो ऽयमुत्तमश्चेत्येवं समस्तस्य गुणालङ्कारवर्गस्यानुग्राहकमिदं कविव्यापाररूपं, तद्वशाच्च शब्दार्थतद्व्यापाराद्यपि स्पृशद्विभूषणाख्यं लक्षणम् । एतमेवार्थं सम्यगानन्दवर्धनाचार्यो ऽपि विविच्य न्यरूपयत् ---
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥

[(मू)]

[(व्या)]

* अस्माभिः प्रकटितायां चतुर्भाण्यामयं चतुर्थो भाणः श्यामिलककृतः । वृत्तिकारणोदाहृता पङ्क्तिस्तस्मिन् 4-पृष्ठे पाठभेदेन वर्तते ।

[page 299]




[NZ]

1यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रार्थोपवर्णनम्2 BhNZ_16_006ab
तदप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ BhNZ_16_006cd
[ABh]

इत्युक्त्वा क्रमेण ---
विवक्षातत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ (ध्वन्यालोके -2)
इत्यादिना ग्रन्थसन्दर्भेण सोदाहरणेन । तच्चास्माभिः सहृदयालोकलोचने तद्विवरणे विस्तरतो व्याख्यातमिति तत्कुतूहलन्तदेव गृह्णीयात् । इह तु प्रसक्त्या ग्रन्थभूयस्त्वादुद्विजते लोक इति न विस्तारितम् ॥
अथाक्षरसंहतिमाह यत्राल्पैरिति । अक्षरशब्देन यदृच्छाशब्दप्राधान्यं, यदृच्छाशब्देषु स्वरूपस्यैव प्रवृत्तिनिमित्तत्वात् तेनाल्पैरेवाक्षरैः श्लिष्टैर्विप्रकृतावित्युक्ताभिरुपलक्षितत्वेनैव विचित्रं तद्रसोचितविभावादिभावं प्राप्यमाणो ऽर्थ उपवर्ण्यते, श्रोतॄणां हृदयमुपसंक्रामयितुं यत्तस्मिन् कविव्यापारो ऽक्षरसङ्घातस्तत्कारणत्वात् ।
तथाहि मानिनीत्यक्षराणि ईर्ष्याविप्रलम्भे, तरुणीत्याभिलाषिके, वरतनुरिति संभोगे विभावनां तामेव प्रापयन्ति । अस्तीतिव्युत्पत्तिस्तथापि पर्यन्ते मानादिशब्दानामन्तो वा धातुप्रत्ययमात्रादेरवश्यं यदृश्च्छात्वमित्यक्षराणामेव संघातः प्रधानं यदृच्छाशब्दप्राधान्ये उदाहरणं यथा ---
(*)विस्रम्भादुत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुः
कृत्वोत्सङ्गे सलीलं त्वचिं कनकमृगस्याङ्गमाधाय शेषम् ।
बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनादारात्तीक्ष्णमक्ष्णोः ।
कोणेनोद्वीक्षमाणस्त्वदनुजवदने दत्तकर्णो ऽयमास्ते ॥
विस्रम्भादित्यादीनां मैत्रीप्रधानवालिहननपूर्वकसाम्राज्यदातृत्वबलाच्चेत्युक्तम् । अक्षस्य यो हन्तेत्येकाकिनापि येनाशोकवनिकाविप्लोषणं राक्षसबलक्षपणं च कृतं, सो ऽपि यत्र प्रधानप्रकृतिर्भवतीत्युक्तम् । त्वचीति प्रहतमारीचवृत्तान्तः । बाणमित्यादिना तत्रैवास्य बहुमान इत्युक्तम् । राक्षसविषयदैववैगुण्यमित्युक्तम् ।

[(मू)]

1. प॰ यत्रार्थै

2. भ॰ विचित्रैरुपवर्णितम् ।

प॰ तमपि ।

[(व्या)]

* राघवानन्दात् । ``अङ्के न्यस्योत्तमाङ्गं'' इति पाठान्तरम् ।

[page 300]




[NZ]

सिद्धैरर्थैः समं कृत्वा 1ह्यसिद्धो ऽर्थः प्रसाध्यते । BhNZ_16_007ab
2यत्र श्लक्ष्णा विचित्रार्था सा शोभेत्यभिसंज्ञिता3 BhNZ_16_007cd
[ABh]

अत्र च यत्र यस्य यद्व्यापारस्तत्र प्राधान्यस्य का कथेति । प्रगुणितमिति बहुतररणसंमर्दधुरन्धरतया कुटिलीकृतस्यापि क्षेत्रबहुमाने पुनर्योजनम् । त्वदनुजवदन इति भेदोपायकृता नीतिसंपत् परपक्षे च विपर्ययम् । दत्तकर्ण इति तदाकर्णनमात्रमेतत्, न तु हृदये निर्व्याजं तेजोजाज्वल्यमानौजसि भेदं प्रतिको ऽप्यस्य बहुमानः । अयमिति गम्भीरधीराकृतिः प्रत्यासन्नश्चास्त इति । यद्यपि प्रकृते नापि कश्चित्क्षोभो ऽत एवोक्तं सलीलमिति । अत्र चार्थस्यालङ्कारघटनाप्रयासमन्तरेणैव सुन्दरत्वं लक्षणकृतमेव ।
ननु साभिप्रायमात्रत्वं नामार्थस्य तु गुण ओज इत्युक्तम्(*) । शोभाः सहृदयाः अर्थो जडस्तस्याभिप्राय इति कथं, भाषावक्तृश्रोत्रोः स इति चेत् तद्गतो ऽर्थस्य गुण इति कथम् ।
अथ वस्त्वन्तराक्षेपकत्वमेव तस्य स गुण इत्युच्यते तद्वस्त्वन्तरमाक्षिप्यं वक्रभिप्रायरूपमेवाक्षेपकत्वमपि कविमनीषाव्यापारबलादेव तथाविनिवेशनात्, प्रकारायोगे तथाभावात् । अत एव प्रौढिर्वस्तुतो वक्तृगतैव नान्वर्थे काममुपचर्यतामित्यलं बहुना ।
एतेषां च लक्षणानां संकीर्णत्वेन लक्ष्यं दृश्यते बाहुल्यापेक्षया तूदाहरणं मन्तव्यम् ।
अथ शोभा --- सिद्धैरर्थैरिति । यथा ---
मेदच्छेदकृशोदरं लघुभवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ (शाकु॰ 1)
अत्र पादत्रयेण प्रसिद्धा एवार्था अभ्यसनीयत्वेन शोभमानास्तैः समविकलं मृगयालक्षणमर्थं कृत्वा अप्रसिद्धो ऽनुचितो ऽपि सो ऽर्थ उचितो विचित्रश्च निरूपितः । न चात्रालङ्कारः कश्चिदिति कव्व्यापारेण यः

[(मू)]

1. प॰ यत्रासिद्धं

2. प॰ श्लिष्टा

3. च॰ अभिधीयते

* वामनेन

[(व्या)]

[page 301]




[NZ]

1धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः । BhNZ_16_008ab
2न यः पर्यवतिष्ठेत सो ऽभिमानस्तु संज्ञितः3 BhNZ_16_008cd
कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः । BhNZ_16_009ab
4दोषो न परिकथ्यन्ते5 तज्ज्ञेयं गुणकीर्तनम् ॥ BhNZ_16_009cd
[ABh]

शब्दार्थव्यापारादेवार्थघटनात्मा तत्कृतं हृद्यं लक्षणार्थमेव । अशोभनो ऽप्यर्थो ऽमुना नयेन शोभत इति शोभेयमुक्ता ॥
अथाभिमानः --- धार्यमानस्तु बहुभिरिति । यथा ममैव ---
शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लुष्यन्त्यथ कालकूटपटलीसंवाससंधुक्षिताः ।
किं प्राणान् न हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरैर्वार्यन्ते किमु यद्विमोहविवशात्सन्तापतन्त्रा स्थितिः ॥
अत्र हि तादृश्यर्थस्यार्थेन घटना कृता यस्यां कार्ययुक्तिभिः फलयोजनाभिर्धार्यमाणो हृदये स्थाप्यमानो नावतिष्ठत इति । वार्यमाणो ऽपि वा न निवर्तते । तवायं बद्धः । तथाभूतो ऽर्थो ऽलौकिकत्वात्तावानुपायः कविनालङ्कार उपमानोपमेयभावस्य कथंचिदस्वीकारात्केवलं वक्तुरभिमतं वदता किमिव मयाप्येवं तदपि नैवेत्यभिधानमभिधानाख्यलक्षणम् । एतदेव सादृश्यनाम्नाप्यन्यैरुक्तम् ।
दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ इति ।
अमृतकरत्वं हि चन्द्रस्य श्रुतं कालकूटसहोदरत्वं च, मन्त्राणां विषशमनं दृष्टं, स्वयमनुभूतं मोहादि तत्समुद्भवं यत्प्रकृते सादृश्यं तेन लोकदृष्टेन तुल्यवृत्तान्तत्वं तत्क्षोभं हृदये ऽनवस्थानं जनयति --- यद्यमृतसदृशश्चन्द्रपादाः तत्किमेवमङ्गं विदध्युरिति । एवमन्यत् ।
अथ गुणकीर्तनं --- कीर्त्यमानैर्गुणैरित्यादि । (यथा) ---
पृथुरसि गुणैर्मूर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस्त्वं तथा जनकः स्थितौ ।

[(मू)]

1. म॰ वार्यमाणस्तु, प॰ वार्यमाणास्तु

2. प॰ नार्यो यन्नानुतिष्ठन्ति

3. प॰ मानः प्रकीर्तितः

4. भ॰ दोषांशान्

5. प॰ परिकल्प्यन्ते ।

[(व्या)]

[page 302]




[NZ]

उत्साहजननैः स्पष्टैरर्थैरौपम्यसंश्रयैः । BhNZ_16_010ab
प्रसिद्धैरुपगूढं च 1ज्ञेयं प्रोत्साहनं बुधैः ॥ BhNZ_16_010cd
यत्रैकस्यापि 2शब्दस्य दर्शनात्सुबहून्यपि । BhNZ_16_011ab
यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ BhNZ_16_011cd
[ABh]

इति सुचरितैर्मूर्तिं बिभ्रच्चिरन्तनभूभृतां
कथमसि न मान्धाता देवस्त्रिलोकविजय्यपि॥
अत्र हि विविधा ये हि पृथुरामप्रभृतयो वा समुद्भवैर्गुणैः कीर्त्यमानैस्तद्गता दोषा न परिकल्प्यन्ते । तथा हि पृथुरसीत्युक्ते तथा दोषा अपि केचिद्बलाद्भूमिदहनप्रभृतयः प्रतीयेरन्, नलो ऽसीति द्यूतव्यसनतापि । एवमन्यत्र । अत एव न दोषो ऽत्र प्रधानम् । गुणैरिति सुचरितैरिति निरूपिते तु चारुत्वमिति गुणकीर्तनं नाम लक्षणम् । श्लेषानुग्राहित्वे स्थिते लक्षणानि ह्यलङ्कारानपि चित्रयन्ति । तदग्र एव वक्ष्यामः । अन्यत्र पाठः ---
लोके गुणातिरिक्तानां बहूनां यत्र नामभिः ।
एको हि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ इति ।
अयं स्पष्टार्थः ।
अथ प्रोत्साहनं --- उत्साहजननैरिति । औपम्यस्य संश्रयणमन्वेषणं यत्रेति अनेन, यत्रान्वेषणे ऽपि तस्य भाव इति दर्शितम् । यथा भट्टेन्द्रुराजस्य ---
हरवृषभ तवैव तस्य माता जयति जगत्यसमानसूतिरेका ।
निवसति परमेश्वरो ऽपि यस्मिन् सहतनयः सगणः सहावरोधः ॥
अप्रस्तुतप्रशंसाप्यत्र तद्वैचित्र्यं प्रोत्साहनत्वलक्षणकृतमेव, केवलं त्वियं यथालक्ष्मीरिति, स च भवान् मुरारिरित्यादि । इदमन्यत्र प्रियवचनमिति पठितम् ---
यत्प्रसन्नेन मनसा पूव्यान्पूजयितुं वचः ।
हर्षप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ इति ।
अथोदाहरणं --- पत्रैकस्यापीति । यथा ---
वल्मीकं किमुतोद्धृतो गिरिरियं कस्य स्पृशेदाशयं
त्रैलोक्यं तपसा जितं यदि मया दोष्णा किमेतावता ।

[(मू)]

1. भ॰ तु

2. भ॰ एकस्यैव ।

[(व्या)]

[page 303]




[NZ]

निरुक्तं द्विविधं प्रोक्तं 1तथ्यं चातथ्यमेव च । BhNZ_16_012ab
2सिद्धिपूर्वं भवेत्तथ्यमतथ्यं चाप्रसाधितम्3 BhNZ_16_012cd
[ABh]

सर्वं साध्वथवा रुणत्सि विरहक्षामस्य रामस्य चेत्
त्वद्दन्ताङ्कितवालिप(क?)क्षरुधिरक्लिन्नाग्रपुङ्खं शरम् ॥
अत्र हि रावणीयदशितिपरिघट्टित(वालिकक्ष)पाटने उदाहृते स स्वावमानो ऽर्थे ऽवगते सति तदपजयः तत्कक्षक्षय्यपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागः तत्राप्रतीकारः पुनरभिमानो दर्प इत्यादि गम्यते । अक्षरसंहतेश्च विशेषः --- तत्रावयोपादातव्यशब्दान्तरस्थाने शब्दान्तरोपादानं हनूमत इति वक्तव्ये ऽक्षस्य हन्तुरिति, इह तु त्वद्दन्तेति तदीयाधिकारोदाहरणम् । अन्ये पठन्ति ---
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ इति ।
तुल्यैरर्थैस्तत्समयभाविभिर्यदुक्तं यद्वाक्यमिति स एव फलतो ऽर्थः ।अथ निरुक्तं --- निरुक्तं द्विविधमिति । सिद्धिर्लक्षणेन स्वीकारः । तया प्रसाधितं तथ्यं, ततो ऽन्यदतथ्यम् । उदाहरणं यथा ममैव ---
वीरोत्सवे सङ्गरसीम्नि मूढं यः प्रापयत् सत्यपथं कथंचित् ।
सत्यार्जुनः सो ऽपि च नाम कृष्णः प्रसिद्धिरित्थं वितथैव सर्वा ॥
परस्परं नाम्नोरन्यत्र तथ्यत्वं स्वविषये त्वतथ्यतेति । न चायमर्थः श्लेषः, स हि तुल्यसंख्ययोः । यथा ``गावो वः पावनानां'' (*) इति गोशब्दस्य रम्मिषु सुरभिषु चानादित्वेन प्रसिद्धेः । इह त्वेकत्रान्यत्वे कृतः समय इति । एवं पृथक्तथ्यातथ्ययोरुदाहार्यम् । अन्यत्र पाठः ---

[(मू)]

1. भ॰ यं

2. च॰ सिद्धिप्रसाधितं

3. भ॰ चाप्यसाधकम् ।

[(व्या)]

* संपूर्णः श्लोकः ---

दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः

पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।

दीप्तांशोदीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो

गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ (सूर्यशतकात्)

[page 304]




[NZ]

1गुणानुवादो हीनानामुत्तमैरुपमाकृतः । BhNZ_16_013ab
[ABh]

निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये ।
यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥
पूर्वं यत्प्रोक्तो बाह्यस्य संबन्धी कश्चिदर्थस्तस्य प्रसिद्धये ऽवद्यभावस्य वाचकं यदुच्यते तेन निरुक्तमिति निरर्थकमेवात्र वाच्यम् । यथा सत्यं सराजगतिषु रञ्जनादिति (?)
अथ गुणानुवादः --- गुणानुवाद इति परिमितस्यापादितोत्कृष्टगुणेतयोपमा, तत्कृतो गुणानामुत्सेकः । यथा ---
पालिता द्यौरिवेन्द्रेण त्वया राजन्वसुन्धरा ॥
ननूपमेयमलङ्कारः, किमुत, उक्तं ह्यलङ्काराणां वैचित्र्यं लक्षणकृतमेव । एत एव शिक्षितैरपि दण्डिप्रभृतिभिर्ये निरूपिता उपमाभेदाः, तत्र यो भेदको ऽंशः आचिख्यासासंश्रयनिर्णयादिरर्थः, स तादृक्पृथगलङ्कारतया गणितः । गणने ऽपि वा संसृष्टिसङ्करापत्तिः । अर्थमात्रं तदिति चेत् तर्हि तदेव लक्षणम् । यथा हि राजता विभज्य विचार्यमाणा इत्थमवतिष्ठते --- मुकुटाद्यलङ्कारः शौर्यादिगुणो व्यूढोरस्कत्वादिलक्षणसमुदायो राजालङ्कार्यश्च गुणवांश्च लक्षणीयश्च, तथा काव्यमपि तेन गुणालङ्कारव्यतिरिक्ताः सर्वे लक्षणमिति मन्तव्यम् । ``अस्त्युत्तरस्यां(*)'' इति हि पूर्वार्धे आख्यानं नाम लक्षणम् । नन्वेवं सर्वत्र लक्षणयोगः, क आक्षेपार्थः प्रियमेवास्माकमदः तत्सर्वमलङ्कारयुक्तं काव्यम् । ननु गौर्वाहीक इति रूपकयोगे ऽपि, किं न कार्यं, दोषपरिवर्णन गुणवत्त्वरसवत्त्वादिवैकल्यादिति चेत्, अस्मास्वापादितो दोषस्त्वयैवोन्मूलित इत्यास्ताम् ।
अन्यत्र तु पाठः ---
गुणाभिधानैर्विविधैर्विविधार्थप्रयोजितैः ।
गुणात्पातो मधुरैर्निष्ठुरैर्वा भवेदिह ॥ † इति ।

[(मू)]

1. भ॰ गुणाभिभवादो ।

* अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

2. अस्य श्लोकस्य पाठभेदा अध्यायान्ते मतान्तरप्रवचने द्रष्टव्याः ।


``गुणानुवादः स ज्ञेयो यत्राभेदोपचारतः ।

गौणीं वृत्तिमुपाश्रित्य वस्तुनो रूपमुच्यते ॥

इति गुणानुवादलक्षणमन्यैः पठितम् । उदाहृतं च शाकुन्तलात् ``अनाघ्रातं'' इत्यादि ।

[(व्या)]

[page 305]




[NZ]

1उत्तमार्थाद्विशिष्टो यः2 स चापय् अतिशयः स्मृतः ॥ BhNZ_16_013cd
बहूनां भाषमाणानां त्वेकस्यार्थविनिर्णयम्3 BhNZ_16_014ab
[ABh]

मधुरैर्गीतैः (गुणैः) निष्ठुरैर्वा उत्तमैर्वा उपमानभूतैर्ये प्रयोजिता गुणास्तदभिधानैरुपलक्षितो गुणात्पात इत्यर्थः ॥
अथातिशयः --- उत्तमार्थाद्विशिष्ट इति उक्तादप्यर्थाद्विशेषो । यथा भट्टेन्दुराजस्य(*)
यावन्त्येव पदान्यलीकपिशुनैरालीजनैः शिक्षिता
तावन्त्येव कृतागसो द्रुततरं संपाद्य पत्युः पुरः ।
प्रारब्धापरतो यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णा मौग्ध्यविभूषितस्य सहजः कोऽप्येष कान्तः क्रमः ॥
अत्रेर्ष्यात्मा यः प्रेमण्युत्तमे ऽर्थस्ततो ऽपि विशेष उक्तः । प्रतिपदं चाभिप्रायो ऽस्ति स विवेचनीयः । न चेयमतिशयोक्तिः संभाव्यमानत्वात् । सो ऽपि वा लक्षणेनालङ्कार इति वक्ष्यामः समनन्तरमेव । अन्यत्र तु पठ्यते ---
बहून् गुणान् कीर्तयित्वा सामान्यजनसंभवान् ।
विशेषः कीर्त्यते यत्र ज्ञेयः सो ऽतिशयो बुधैः ॥ इति ।
अथ सहेतुः --- बहूनां भाषमाणानामिति । बहून् भाषमाणाननादृत्यैकस्यासाधारणस्यार्थस्य निर्णयः कर्तव्यत्वेनावलम्ब्य सिद्धस्य प्रमाणोपमानवचनमुपक्षेपवचनं मम तावदेवं प्रतिभासते इति सहेतुः । यथा भट्टेन्द्रुराजस्य ---
एके वारिनिधिप्रवेशमपरे लोकान्तरालोकनं
केचित्पावकयोगिनं निजगदुः क्षीणे ऽह्नि चन्द्रार्चिषाम् ।
मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपो
मन्ये ऽहं पुनरध्वनीनरमणीचेतो ऽधिशेते रविः ॥

[(मू)]

1. च॰ उत्तमार्थविशिष्टो

2. भ॰ विशेषो यः

3. भ॰ अनेकार्थविनिश्चयः, च॰ अनेकार्थविनिर्णयात् ।

* द्वयोरप्यभिनवभारतीमातृकयोरयं श्लोको भट्टेन्दुराजस्येति वर्तते । अयममरुककाव्ये दृश्यते व्याख्यातश्चार्जुनवर्मवेमभूपालाभ्याम् । वृत्तिकारवचनप्रामाण्यादयममरुके प्रक्षिप्त इति संभाव्यते ।

[(व्या)]

[page 306]




[NZ]

सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ BhNZ_16_014cd
1अपदेशस्तु परोक्षो यस्मादुत्पद्यते ऽनुकरणेन । BhNZ_16_015ab
लक्षणसमानकरणा2त्सारूप्यं तत्तु विज्ञेयम्3 BhNZ_16_015cd
4अभूतपूर्वैर्यत्रार्थैस्तत् तुल्यार्थस्य निर्णयः । BhNZ_16_016ab
[ABh]

(एकस्येति) एकमसाधारणम् । (सिद्धोपमानेति) डुमिञ् प्रक्षेपणे इत्यस्योपमानम् । अन्यत्र पाठः ---
यत्प्रयोजनसामर्थ्याद्वाक्यं शिष्टार्थसाधनम् ।
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ इति ।
सम्यगस्यते हृदि क्षिप्यते येन स समासः उपपत्तिस्तयोक्ता ।
अथ सारूप्यम् --- अपदेशस्तु परोक्षे यस्मादुत्पद्यते ऽनुकरणेनेति । यथा ममैव ---
सैन्दूरीकृतसान्द्रकुङ्कुमरसप्रच्छायमालोच्यते
यत्प्राच्यां दिशि विक्रिमा पदमिदं दृग्द्वन्द्वलेह्यं महः ।
तत्तेजो जरठांशुतां कलयता भाविप्रवासावधिं
सन्ध्यामुग्धवधूकपोलफलके कीर्णो नखाग्राङ्कुरः ॥
अत्र यदिति निर्देश्यं परोक्षवस्तु तत्त्वस्यापरिज्ञानात् । अनुकरणेन प्रच्छायमात्रेण, अपदेश्यमालोच्यमिति लक्षणेन सैन्दूरीकृतेत्यादिना । समानं सप्रमाणकं करणं दर्शनक्रिया यस्य तादृशे वस्तुनि सारूप्यं लक्षणम् । पौर्णमास्यामपि वक्ररेखेवेन्दोर्भागो लक्ष्यते उदयाचलान्तरितत्वात् सन्ध्यासमये । न चेयमुपमा उपमेयस्याभावादुपमेयमेव हि पूर्वार्धेन लिंग्यते । पुस्तकान्तरेषु तु पाठः ---
यथादेशं यथाकालं यथारूपं च वर्ण्यते ।
यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतो ऽपि च ॥ इति ।
अथ मिथ्याध्यवसायः --- अभूत्पूर्वैर्यत्रार्थैरिति । अपारमर्थिकैरेवार्थैस्तत्तुल्यस्यावस्तुभूतस्यार्थान्तरस्य यस्य वक्तृव्यापारे सति निश्चयः सो ऽयम् । यथा मामैव ---

[(मू)]

1. भ॰ अपदेशेन परोक्षो यो ऽर्थो ह्युत्पद्यते

2. भ॰ योगात्

3. च॰ निर्देश्यम्

4. च॰ अभूतपूर्वे यत्रार्थे तुल्यस्यार्थस्य निर्णयः ।

[(व्या)]

[page 307]




[NZ]

स मिथ्याध्यवसायस्तु प्रोच्यते 1काव्यलक्षणम् ॥ BhNZ_16_016cd
बहूनां च प्रधानानां 2मध्ये यन्नाम कीर्त्यते । BhNZ_16_017ab
एकार्थसाधनकृतं3 सा सिद्धिरिति कीर्तिता ॥ BhNZ_16_017cd
गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते । BhNZ_16_018ab
पदोच्चयं तु तं विद्यान्नानार्थग्रथितार्थकम्4 BhNZ_16_018cd
[ABh]

यो दुर्जनाद्वाञ्छितसिद्धिमीहते स नूनमुत्क्रामति तं सुखैधिनम् ।
जुह्वज्ज्वलाग्नौ विगतार्थमण्डलं प्रसह्य षष्ठं विषयं प्रसाधयेत् (?) ॥
काव्यलक्षणमित्यनेन काव्येषु लोकविपर्यासबाहुल्यमवश्यं भवतीति दर्शयुति । अन्ये तु पठन्ति ---
विचारस्यान्यथाभावस्तथा दृष्टापदृष्टयोः ।
सन्देहात्कल्प्यते यत्र सविक्षेपो विपर्ययः ॥
विचार्यत इति विचारो ऽर्थः अदृष्टमित्यर्थः । सन्देहो ऽत्र भ्रमः, अथवा अन्यथाभावो विपर्ययः । संशयो ऽपि हि वस्तुतो विषयतत्त्वमन्यथाकारं दर्शयन् विपर्यय एव ॥
अथ सिद्धिः --- बहूनां च प्रधानानामिति । प्रसिद्धानां मध्ये एकमित्यप्रसिद्धं यन्नाम कीर्त्यते तस्यासाधारणत्वस्य प्रयोजनस्य संपत्तये करणं तत्र निवेशनं यस्य तादृक् तत्कीर्तनं सिद्धिहेतुत्वात्सिद्धिः । यथा ---
भद्रेश्वरः सुरसरित्स भवानहं च
त्रिलोक्यसारमिह संप्रति जीवलोके ।
बह्देश्वरः सुरवरेषु सरित्सु गङ्गा
त्वं पार्थिवेष्वहमतीव सुदुःखितेषु ॥
अत्र भवानहं चेत्यप्रसिद्धं प्रसिद्धमध्ये उपात्तं साधारण्यसिद्धिम् विधत्ते ।
अथ पदोच्चयः --- गुणरिबहुभिरेकार्थैरिति । एकतात्पर्यार्थनिष्ठैर्बहुभिः शब्दैर्ये वाच्यत्वेन स्वीकृता धर्मास्तदुपलक्षितत्वेनैव तद्वस्तुनः प्रशंसनम् । कथं,

[(मू)]

1. भ॰ कार्य

2. प॰ नाम यत्राभिकीर्त्यते । अभोप्रेतार्थसिध्यर्थं

3. भ॰ कृता

4. च॰ ग्रथनात्मकम् ।

[(व्या)]

[page 308]




[NZ]

आत्मभावम् उपन्यस्य परसादृश्ययुक्तिभिः । BhNZ_16_019ab
तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ BhNZ_16_019cd
[ABh]

नानार्थैर्ग्रथितात्मकमुपलम्भितरूपं कृत्वा तत्पदानामुच्चय उत्कर्षेण चयः बाहुल्यं यत्रेति पदोच्चयः ।
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं जननयननिर्माणमफलम् ।
अदर्पं कन्दर्पं मरणशरणं बान्धवजनं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥
अत्र ह्यवान्तरावगमकारिणामवान्तरवाक्यरूपाणां पदानां तात्पर्यमभिन्नं स्वार्थे तु भिन्नम् । पदशब्दन्तु । अन्ये पठन्ति --- पादो भाग इति । (*)
पूर्वत एवार्थः ॥
अथाक्रन्दना --- आत्मभावमुपन्यस्येति । तीव्रः साक्षादवाच्यो यो ऽर्थस्तस्य परं प्रति सादृश्ययोजनप्रकारैरात्म भिप्रायं प्रमुखे दत्त्वा तत्समन्ततः भाषणं स्फुटकथनं तन्निजबहवाविष्करणप्रधानत्वादाक्रन्दो नाम लक्षणम् । यथा ममैव ---
किं पान्थ त्वरसे विलोकय (निशां या ह्युन्मुखी) पाण्डुरा
चन्द्रं चुम्बितुमीहते प्रकटयन्त्यग्रे सरागां स्थितिम्
यद्वा नागरभोगदुर्ललितकैर्न्यस्तापि न ज्ञायते
ग्रामे ऽग्राम्यजनोपभोगसुभगं निर्व्याजरम्यं सुखम् ॥
अत्रोत्तरेणार्धेन ग्रामीणो रम्यतमो भोजनशयनादिसंभोग इति वक्त्र्या मोहप्रायोऽवाच्य आत्माभिप्रायः । तदरोचकत्वं तदुभयं प्रमुखे निधाय निशाकरवृत्तान्तसादृश्येन तीव्रः स्वात्मानुराग आविष्कृतः । अन्ये पठन्ति ---
रूपकिरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितैः ।
अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥
प्रथमार्धेन परसादृश्यमुक्तम् । अप्रत्यक्षस्यात्मभावस्य संस्पर्शनाज्ज्ञापनेत्यर्थः ॥

[(मू)]

* ``पादो भाग'' इति क्वापि पाठो न दृश्यते । तत्पाठान्तरभागो लुप्त एव स्यात् ।

[(व्या)]

[page 309]




[NZ]

हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रदर्शनम्1 BhNZ_16_020ab
अन्यापदेश2कथनैर्मनोरथ इति स्मृतः ॥ BhNZ_16_020cd
3पृष्टैरपृष्टैरथवा निर्णयः क्रियते तु यः । BhNZ_16_021ab
4आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ BhNZ_16_021cd
[ABh]

अथ मनोरथः --- हृदयस्थस्य भावस्येति । यथा ---
णिग्गंध दुरारोहिं पुत्तअ (मा) पाडळिं समारूढ ।
आरूढणिपडिआ के इमी ए ण कआ इह ग्गामो ॥ (*)
अत्र पादपमारोहन्नेव वृद्धिविदग्धया कश्चिद्दुराशयपुंश्चलीसंगमोत्सुकः स्वाभिप्रायद्र्योतनेन प्रबोध्यते, तत्प्रस्तुतमेवान्यदपदिश्य । अत एवाप्रस्तुतप्रशंसा, सापि चैत्रैवान्तर्भूता । नन्वलंकारे ह्यलंकार्यत्वं ह्यसत् इति केयं युक्तिः, लक्षणं तु भवति लक्षणत्वादेव ॥
अथाख्यानं --- पृष्टैरपुष्टैरपि चेत्यादि । प्रश्नपूर्वका यत्र बहवो निर्णीयन्ते यथा । ``बाले नाथ विमुञ्च मानिनि'' इत्यादावुक्तिप्रत्युक्तौ, प्रश्नसदृशैर्वा शक्याशक्यवस्त्वभिधानैर्यत्र निर्णयः । यथा ---
रामो ऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं परां
इत्युक्ते यदि प्रसिद्धः कथं मया न ज्ञायत इत्याशंक्याख्यातं ---
अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति किम् ।
किं तस्य प्रसिद्धौ निदानमित्याशंक्य पुनराख्यातं ---

[(मू)]

1. प॰ प्रकाशकम्, च॰ प्रदर्शकम्

2. प॰ कथनम्

3. च॰ अपृष्टैरथवा पृष्टैः

4. प॰ तदा ज्ञेयमिति ह्येयम् ।

* गाथासप्तत्यां (5-38)

(निर्गन्ध) निर्ग्रन्थ दुरारोहां पुत्रक मा पाटलीं समारोह ।

आरूढनिपतिताः के अनया न कृता इह ग्रामे ॥


बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं

खेदो ऽस्मासु, न मे ऽपराध्यति भवान्, सर्वे ऽपराधा मयि ।

तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते

नन्वेतन्मम, कातरास्मि दयिता नास्मीत्यतो रुद्यते ॥ (अमरुकस्य)

[(व्या)]

[page 310]




[NZ]

आदौ 1यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । BhNZ_16_022ab
2यत्र प्रियं पुनर्वाक्यं सा याच्ञा परिकीर्तिता ॥ BhNZ_16_022cd
कार्येषु विपरीतेषु यदि 3किंचित्प्रवर्तते । BhNZ_16_023ab
निवार्यते च कार्यज्ञैः प्रतिषेधः प्रकीरितितः ॥ BhNZ_16_023cd
[ABh]

वन्दी वैषयशांसि (*) इत्यादिना ।
नाटकाश्रयमित्यनेन भूयो लक्ष्यमाणस्येत्याह । अन्ये पठन्ति ---
वाक्यैः सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः ।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥
स्पष्टम् ॥
अथ याच्ञा --- आदौ यत्क्रोधजननमिति । प्रथमार्थेन हितं व्याख्यातम् । तेन प्रथमं यद्तदात्वे पुरुषमायत्यां च सत्फलं वस्तूच्यते, ततश्च प्रियम् । पुनः शब्दात्ततो हितं पुनः प्रियमित्येवं प्रबोध्यस्य प्रबोधधिया याचनाद्याच्ञा । यथा ममैव ---
भूमिः कण्टकीनी पुरो विटपिनः प्रायो बहूपद्रवाः
भूयश्चैष दिवाकरो मृगयते सन्ध्याङ्गनासङ्गमम् ।
तद्विश्रम्य जनो ऽयमत्र सदने ग्राम्योचितं सेवतां
प्रातः पान्थ विचार्य चेतसि चिरं स्थातासि गन्तासि वा ॥
पाठान्तरं तु ---
हितैः प्रसन्नवचनैर्यत्परस्यानुवर्तनम् ।
क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम् ॥ इति ।
अथ प्रतिषेधः --- कार्येषु विपरीतेष्विति । यथा अमरुकस्य ---

[(मू)]

1. भ॰ च क्रोधजं नित्यं

2. च॰ यत्तु

3. प॰ कश्चित् ।

§ याच्ञाया लक्षणमन्यैः पठितं ---

लाभोपपत्तिमाख्याय स्वयं दूतमुखेन वा ।

प्रार्थ्यते यत्र कन्याया सा याच्ञेत्यभिधीयते ॥ इति

अत्र कन्यायै एव याचनालक्षणस्यैकदेशित्वमिति वृत्तिकारपाठः स्वीकृतो ऽन्यैः । सो ऽपि प्रियाख्यलक्षणनिर्वचनस्य संवाद्येव । अत एव कैश्चित् प्रियलक्षणं पाठान्तरेण लक्षितम् । उदाहरिष्यामो ऽग्रे ।

[(व्या)]

*

वन्दी वैष यशांसि गायति मरुद्यस्यैकबाणाहति-

श्रेणीभूतविशालसालविवरोत्कीर्णस्वरैः सप्तभिः ॥ (राभवानन्दे )

[page 311]




[NZ]

यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । BhNZ_16_024ab
1पृच्छन्निवाभिधत्ते ऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ BhNZ_16_024cd
2विद्वान्पूर्वोपलब्धौ यत्समत्वमुपपादयेत् । BhNZ_16_025ab
निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ BhNZ_16_025cd
[ABh]

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशे ऽर्पिता
नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलोपकल्पितनदीपूरेण रुद्धः प्रियः ॥
अत्र तृतीयपादेन विपरीतकार्यप्रवृत्तिरुक्ता । आद्यार्धेन कार्यज्ञत्वं नायिकायाः, तथापि निवारणं तुर्यपादेनोक्तम् । अन्ये त्वधीयन्ते ---
यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते ।
सदृश्यार्थाभिनिष्पत्त्या स लेश इति कीर्तितः ॥ इति ।
वाक्यमिति वाक्रार्थो निषेधो वा नदीपूरश्च वर्षासु रोधको दृष्ट इति सदृशाभिधानेनोपायेन निषेधः कृतः ॥
अथ पृच्छा --- यत्राकारोद्भवैर्वाक्यैरिति । यथा ---
किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान् (*) । इत्यादि
अत्राकारेणाभिप्रायसूचकेन काक्वादिनोद्भूतानि द्योतितशक्तिकानि वाक्यानीति भावः । यत्र भावरसोपेतमित्यन्ये यत्समत्वमिति । यथा ममैव ---
हा हालाहललेहने हतमतिः सो ऽयं समुत्कण्ठितो
गाढाङ्गारगरिम्णि चैष जडधीर्देहं निविक्षेप्स्यति ।
ग्राम्यो ऽप्याजगरीं गुरुं गलगुहां मोहादयं धावति
व्याधूयेतरसङ्गतानि यदयं सार्थं खलैः खेलति ॥

[(मू)]

1. च॰ पृच्छत्याभिनेयेनार्थं

2. भ॰ विद्वन्पूर्वोपलब्धौ ।

[(व्या)]

* पूर्णः श्लोकः ---

राजा दुश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।

कृष्णाकेशोत्तरीयव्यपयनपटुः पाण्डवा यस्य दासाः

क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥ (वेणीसंहारात्)

[page 312]




[NZ]

अनेकयुक्ति यद् वाक्यमनेकार्थप्रसाधकम्1 BhNZ_16_026ab
अनेकवाक्यसंयुक्तं2 तन्निर्भासनमुच्यते3 BhNZ_16_026cd
अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते । BhNZ_16_027ab
4सो ऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥ (*) BhNZ_16_027cd
5यथा6शास्त्रार्थसंपन्नां7 मनोरथसमुद्भवाम्8 BhNZ_16_028ab
[ABh]

यदयमित्यादि कस्य हेतोर्हालाहलकालकूटकबलनादिना येन साम्यं कृतं स दृष्टान्तः । न चेयमुपमा, यतो निदर्शनेन प्रत्यक्षीकरणाय कृत इत इदमेवं कर्तुमुद्यत इति, न च रूपकं यदेतत्करोति तत इदमस्य भविष्यतीति भिन्नकालत्वात्, तदाह पूर्वोपलब्धौ सत्यामिति ।
अथ भासनं --- अनेकयुक्ति यद्वाक्यमिति । यथा ---
``कर्ता द्यूतच्छालां जतुमयशरणोद्दीपनः सो ऽभिमानी'' (वेणी) ---
इत्यादि । भास्यते प्रकृतः क्रोधादिर्येन । पाठान्तरं ---
ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यन्ते यत्र सूरिभिः ।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ इति
अथ संशयः --- अपरिज्ञाततत्त्वार्थमित्यादि । यथा ---
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्तः पुरोवर्तिनी
सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः ॥(विक्रमो॰ 4-2)
अत्राद्यो भागः संशयोदाहरणं, अनन्तरस्तूपपत्त्युदाहरणम् ।
अथाशीः --- यथाशास्त्रार्थसंपन्नामित्यादि । यथा ---

[(मू)]

1. भ॰ अनेकप्रकृतिस्थितम्

2. भ॰ वचनैर्युक्तं

3. च॰ भासनं नाम तद्भवेत्, प॰ ज्ञेयं निर्भासनं तु तत्

4. च॰ अनेकत्वात्

5. प॰ यदा

6. भ॰ शास्त्रे ऽर्थसंपत्तिः

7. प॰ संपन्नं

8. प॰ समुद्भवम्, भ॰ समुद्भवा ।

* भ॰ मातृकायां संशयस्य लक्षणं भिद्यते

परप्रशंसावचनं प्रयुक्तं ऽभ्यसूयते ।

पूर्वोत्तरार्थव्याघातः संशयः स तु कीर्तितः ॥ इति ।

[(व्या)]

[page 313]




[NZ]

अप्रार्थनीयामन्यां1 वा विदुस्तामाशिषं बुधाः ॥ BhNZ_16_028cd
आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् ॥ BhNZ_16_029ab
तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ † BhNZ_16_029cd
[ABh]

`पादाग्रस्थितया'(रत्ना॰1-2) इत्यादि । सर्वं वचनं न चाशीरलङ्कारः स्तुत्या एव वर्णनीयत्वात् । अन्ये पठन्ति ---
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ इति ।
प्रसिद्धानां देवतादीनां परापेक्षा साध्याकांक्षा तस्माद् व्युदासस्तत्संपत्त्या । अत एव दृष्टान्तादस्य भेदः इति ॥
अथ प्रियं --- आदौ यत्क्रोधजननमिति । यथा ---
किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थः
तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यां
उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥
अथ भ्रमति वल्लभेत्यादौ क्रोधजननं हन्त कीर्तिरिति हर्षकृत् । अन्ये पठन्ति ---
वाच्यार्थं परित्यज्य दृष्ट्यादिभिरनेकधा ।
अन्यस्मिन्नेव पतनादाशु भ्रंशः स उच्यते ॥ इति
दृष्टिर्दर्शनं प्रकृतिमुखरादिवाक्यमिति पूर्वोक्तमित्यर्थः । नचेयं व्याजश्तुतिः निन्दाभागे स्तुतेरभावात्, पूर्णतायास्तु निन्दाया अभावात् । यथा वा --- निन्दाभागे स्तुतेरभावात्, पूर्णतायास्तु निन्दाया अभावात् । यथा वा ---
‡प्रद्योतस्य सुता इत्युक्त्या वसन्तकं विप्रतारयितुं राजा वसन्तशब्दमाचष्टे । मधोश्च समयः प्रसूनसमय इत्यनादृत्य तदाकर्णने निवृत्त्यङ्कुरेण

[(मू)]

1. प॰ नीयमन्यम् ।

एतल्लक्षणं याच्ञायाश्च समानकल्पत्वात् केचित्पठन्ति ---

विनष्टे तु यदा ह्युपलब्धिः पुनश्च या ।

सुखमुत्पद्यते ऽतीव सा प्रीतिरिति कीर्तिता ॥ इति ।

एतच्चतुःषष्ट्यङ्गमध्ये निवेशनीयं, न तु लक्षणरूपेण व्यापारवैचित्रीमापादयति ।

[(व्या)]

रत्नावल्यां प्रथमे ऽङ्के राज्ञो वचनम् । अयं तु ``राज्यं निर्जितशत्रु'' इति श्लोकस्य तृतीयः पादः ।

[page 314]




[NZ]

1छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकं कपटम् । BhNZ_16_030ab
द्वित्रिप्रयोगयुक्तौ विज्ञेयः कपटसङ्घातः ॥ BhNZ_16_030cd
दुर्जनोदाहृतै रूक्षैः 2सतां मध्ये ऽ3भिताडितः । BhNZ_16_031ab
अक्रोधः क्रोधजनननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ BhNZ_16_031cd
[ABh]

हृष्यति विदूषके समय, इतिशब्देनान्यत्र पतनात्प्रणयक्रोधत्वं चेति प्रियवचनम् । प्रियकार(?) इति लोक एतत्सिद्धम् ।
(*)(अथ कपटं --- छलयुज्येति । व्याजप्रयोगेण अभिसन्धानं वञ्चना अभिभावकं तिरस्कारकं छलोक्त्या कथितस्यार्थस्यान्यथाग्रहणं अपलापो वा कपटं, तस्य सङ्घातो लक्षणम् । कपटो वस्तुक्रमाद्दैवच्छत्रोर्वा समुद्भूतः । वस्तुक्रमोद्भूतस्य मालतीमाधवे मकरन्दस्य मालतीवेषधारणं, दैविकस्य नागानन्दे जीमूतवाहनस्य शङ्खच्छूदच्छलनं, शत्रुकृतस्य तु छलितरामे लवणासुरप्रयुक्तयो राक्षसयोर्मन्थराकैकेय्योर्वेषधारणं सीताया अन्तर्वत्न्या निर्वासनं च कृतम् । यथा वा कृत्यारावणे प्रथमे ऽङ्के सीवावेषधारिण्या शूर्पणखया लक्ष्मणो वञ्चितो ऽभिभूतश्च ``ता सव्वहा अण्ण एव्व दे अणिद्वं अभिप्पाअं लक्खेमि'' इत्यादिना वचनेन ।) अन्ये पठन्ति ---
यत्र संकीर्तयन्दोषं गुणमर्थेन योजयेत् ।
गुणातिपाताद्दोषं वा गर्हणं नाम तद्भवेत् ॥ इति
तत्रिविधमपि वागुपचारसामान्याच्छलमत्र स्वीकृतम् ।
अथ क्षमा --- दुर्जनोदाहृतैरिति । दुर्जनोक्तैर्वचनैः क्रोधजननैः सभायां ताडितो ऽपि यः पुरुषो ऽक्रोधनः क्रोधहीनः स एव क्षमावान् । तद्वर्णनोचितः

[(मू)]

1. भ॰

छलयुक्त्या यदान्येषां मत्त्वा नायकभावनम् ।

द्वित्रिप्रयोगयुक्तेन ज्ञेयं कपटसंज्ञितम् ॥

भोजदेवः पठति ---

अदिव्यं दिव्यमपि वा कृत्वा रूपविपर्ययम् ।

अविद्वान् वञ्चयते येन कपटं तदुदाहृतम् ॥

``छलोक्त्याकथितार्थस्य कपटो ऽन्यादृशग्रहः'' इति केचित् ।

2. च॰ सभा

3. प॰ अपि, च॰ अति ।

[(व्या)]

* कुण्डलीकृतो व्याख्याभागो द्वयोरप्यादर्शयोः पतितत्वादस्माभिः पूरितः ।

[page 315]




[NZ]

दृष्ट्वैवाववयवं1 किंचिद्भावो यत्रानुमीयते2 BhNZ_16_032ab
प्राप्तिं 3तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ BhNZ_16_032cd
अकार्यं सहसा कृत्वाकृत्वा कार्यमथापि वा । BhNZ_16_033ab
सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः4 BhNZ_16_033cd
[ABh]

कविव्यापारः क्षमेत्यर्थः । अनेन च यथोचिताभिन्नवृत्तिसंचयः सर्वो विभावाद्युचितो निर्वर्त्यमानः काव्यलक्षणत्वेन सूचितः । क्षमा यथा ममैव ---
श्रोत्राय दुष्टवचनं प्रति किं न कोपः
क्षोभं करोति हृदये ननु कोप एव ।
मित्रं ममैष तु निजात्मनि यो ऽपकारं
कृत्वा ममाशुभकलङ्कविघातहेतुः ॥
अन्येषां पाठः ---
सिद्धान् वहून् प्रधानार्थांस्त्यक्त्वा यत्र प्रयुज्यते ।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥
सिद्धानिति लोकप्रसिद्धान्प्रधानभूतानशक्यापजयांस्त्यक्त्वानादृत्यक्रोधाद्यद्वचनं विशेषेण युक्तं, यथा ``ममायं परम्परः(परिवादः ?) सुहृत्प्रत्ययः स्वात्मनि क्षोभः पुण्यादिकमुररीकृत्यापि ममापुण्यसंचयं दुःखोपभोगदानेन शमयति'' इति ।
अथ प्राप्तिः --- दृष्ट्वैवावयवं कंचिदिति । यथा ---
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते ऽभिनयः ॥(शाकु 3-5)
अत्र पदपङ्क्तिलक्षणमंशं दृष्ट्वानयात्र भवितव्यमिति शकुन्तलायाः सद्भावो ऽनुमीयत इति ।
अथ पश्चात्तापः --- अकार्यं सहसा कृत्वेति । सहसेत्यविचार्य अकार्यं कृत्वा यथा ---
अंगुलिशुकाहमिस इदोसल उप्पन्ना ।
जस्सबलजो भूतभूहि भुव ओहिण्णो ॥(*)
कार्यमकृत्वा यथा ---
मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत् । इति । शाकु ।

[(मू)]

1. भ॰ किंचित्

2. भ॰ उपनीयते, च॰ उपमीयते

3. च॰ तामपि

4. प॰ स उचय्ते ।

* अस्पष्टेयं गाथा ।

[(व्या)]

[page 316]




[NZ]

प्रश्रयेणार्थसंयुक्तं यत् परस्यानुवर्तनम् । BhNZ_16_034ab
स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ BhNZ_16_034cd
[ABh]

अन्ये पठन्ति ---
अनेकार्थविचारस्तु विचारः परिकीर्तितः ॥ इति ।
अनेकस्य कार्यरूपस्यार्थस्य (कृता)कृतस्य विचारः किमेतत्कृतमिति ।
अथानुवृत्तिः --- प्रश्रयेणार्थसंयुक्तमिति । यथा भट्टेन्दुराजस्य ---
(1)राज्ञा यद्यनुरुध्यसे यदि भवेद्वाच्यं पुरो मादृशां
तत्संक्रन्दनगोप किंचन मनाक् पृच्छत्यधीरो जनः ।
अग्रे रोहणचारिणां सरभसं संचूर्यमाणश्चिरं
कं प्रत्याययितुं प्रयासरसिको यत्नेन रत्नायसे ॥
अप्रस्तुतप्रशंसात्वे ऽपि हि यदप्रस्तुतस्य शरीरवैचित्र्यं तल्लक्षणकृतमेव, लक्षणं हि शरीरमित्युक्तम् । कटकाद्यैरपि रद्वैचित्र्यं कुशलसुवर्णकारोत्प्रेक्षितं तल्लक्षणमहिम्नैव । तत्तेनोपमानशरीरस्योपमेयशरीरस्य वा वैचित्र्यं लक्षणानामेव व्यापारः;् इत्येवमुपमारूपकदीपकानां त्रयाणामलङ्कारत्वेन वक्ष्यमाणानां प्रत्येकं षट्त्रिंशल्लक्षणयोगात् लक्षणानामपि चेकद्वित्र्याद्यवान्तरविभागभेदादानन्त्यं केन गणयितुं शक्यम्, इदानीं शतसहस्राणि वैचित्र्याणि सुहृदयैरुत्प्रेक्ष्यन्ताम् । परे त्वधीयते ---
उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः ।
अर्थः प्रसादजनको ज्ञेयस्त्वनुनयो बुधैः ॥ इति ।
उभयोरत्र वक्तृवाच्ययोस्तयोश्च विरुद्धाभिनिवेशः । एकस्य तत्त्वविश्रान्तता अपरस्य त्विषा रत्नवदाचरितमिति ।

[(मू)]

* लक्षणोद्देशे ``अर्थानुवृत्ती'' इति पठितं भ॰मातृकायां, तत्र `अर्थो लक्षणान्तरत्वेन गृहीतः । यथा ---

लक्षणामनुनिर्देशो विज्ञेयः संग्रहस्तथा ।

चित्रार्थसमवायो यः सो ऽर्थः इत्यभिधीयते ॥

1. क॰ याच्ञां ।

[(व्या)]

[page 317]




[NZ]

1प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । BhNZ_16_035ab
2सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् । BhNZ_16_035cd
साध्यते यो ऽर्थसंबन्धो3 महद्भिः समवायतः । BhNZ_16_036ab
परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ (*) BhNZ_16_036cd
[ABh]

अथोपपत्तिः --- प्राप्तानां यत्र दोषाणामिति । प्राप्ता नामिति वीप्सागर्भो निर्देशः, दोषाणामित्युपपत्त्ययोगदृष्टत्वेनावस्तुभूतानामित्यर्थः । यथा ---
``तिष्ठेत्कोपवशा''दित्यादि । यथा वा
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्यो ऽधरं पास्यति ॥ (विक्रमो) इति
अन्ये त्वधीयते ---
परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते ।
विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ इति ।
शास्त्रार्थशब्दः प्रमाणोपलक्षणम् । स्वन्तमिति शोभनो ऽन्तो निश्चयो यत्र ।
अथ युक्तिः --- साध्यते यो ऽर्थसंबन्ध इति । यथा ---
लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना सह संप्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटीव यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥
अत्र महद्भिरुत्कृष्टैर्नेत्रवदनादिभिः परस्परशोभात्मकानुकूल्योपलक्षितेन समवायेनैकविश्रान्त्यार्थः संबध्यमान उपपद्यमानो ऽपूर्वतरङ्गिणीलक्षणः साधित इति योजनादियं युक्तिः । प्रतीयमानं रूपकमत्रेति चेत् किं ततः शरीरं लक्षणमयमेवेत्युक्तमसकृत् । एकीयः पाठः ---

[(मू)]

1. भ॰ प्रोक्तानां

2. प॰ ज्ञेया सा

3. म॰ सन्तानो ।

* इदं लक्षणत्वेन न परिगणितं भ॰ मातृकायाम् । तत्र ``उपपत्तियुक्ति''रिति एकत्वेन गृहीतम् । विक्रमो (4-2)

[(व्या)]

[page 318]




[NZ]

1यत्रापसारयन्दोषं गुणमर्थेन योजयेत् । BhNZ_16_037ab
2गुणाभिवादं दोषाद्वा कार्यं तल्लक्षणं विदुः3 BhNZ_16_037cd
4अपूर्वक्रोधजनितमपराधं प्रमृज्य यत्5 BhNZ_16_038ab
सेवार्थं मधुरं वाक्यं 6सानुनीतिः प्रकीर्तिता ॥ BhNZ_16_038cd
[ABh]

अभूतपूर्वो ह्यर्थो यः सादृश्यात्परिकल्पितः ।
लोकस्य हृदयग्राही सो ऽभिप्राय इतीरितः ॥ इति ।
अथ कार्यं --- पत्रापसारयन् दोषमिति । दोषमपसार्य गुणं यदात्वे ऽर्थनीये नियोजयति गुणाभिवादं वापसार्य दोषानर्थे योजयति आश्रित्य तेनार्थं योजयतीत्यर्थः । प्रथम उदाहरणं ---
``तावत्स्वात्मनि संश्रितद्रुमलताश्लेषो ऽध्वगैर्वर्जनम्'' । (*) इत्यादि ।
द्वितीये ममैव ---
विश्वप्रभो वितरतां कमलां किमन्यद्
भूयात्स को ऽपि घटितो भवतोपकारः ।
दूराध्वगेषु पुनरम्बु तथा विकीर्णम्
अन्ते यथा त्रिभुवने प्रसृतं यशस्ते ॥
एतत्कैश्चिद्गहनमित्युक्तम् । अन्ये त्वधीयते ---
अर्थान्तरस्य कथने यत्रान्यो ऽर्थः प्रतीयते ।
वाक्यमाधुर्यसंपन्ना सार्थापत्तिरिति स्मृता ॥ इति ।
अत्र हि महांस्त्वयास्योपकारः कृतः, अध्वगानां च महदम्बु दत्तमित्युक्ते विश्वप्रभो इति पुनरिति पर्यालोचनादर्थान्तरस्यापत्तिः ।
अथानुनीतिः --- अपूर्वक्रोधजनितमिति । अपूर्वस्य सातिशयस्य क्रोधस्य जननाय यो ऽपराधस्तम् । यथा ---
प्रसीदेति ब्रूयामिदमसति कोपेन घटते । (रत्ना-2-19)

[(मू)]

1. प॰ यत्र संकीर्तयन्, भ॰ यत्र संकीर्त्य दोषांस्तु

2. भ॰ गुणकीर्तिते हि दोषं

3. प॰ तदिह कीर्तितम् । म॰ कार्यात्तल्लक्षणं विदुः

4. प॰ अपूर्वक्रोधजननं, भ॰ अपूर्वक्षोभ

5. च॰ प्रमार्जयेत्

6. च॰ अनुनीतिः ।

[(व्या)]

[page 319]




[NZ]

1दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजितम्2 BhNZ_16_039ab
अन्यत्रार्थेन संबद्धं3 ज्ञेयं तत्परिदेवनम्4 ॥ (*) BhNZ_16_039cd
[ABh]

अन्ये पठन्ति ---
वाक्यैः सातिशयैर्युक्तो वाक्यार्थः स प्रसाधकैः ।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ इति ॥
अथ परिदेवनं --- दोषैर्यदन्यनामोक्तैरिति । यथा बालरामायणे दशरथनाम्ना ये दोषा उक्ता रामनिर्वासनादयस्तैरेव प्रसिद्धार्थैः सद्भिर्यत्प्रयोजितं वचनं परमार्थेन सम्बन्धो रक्षस एव युक्तो न तु दशरथे तत्परिदेवितं ``नरेन्द्रवृद्धःस्त्रीवशं न्यस्तमयस ।'' इत्यादिना । अर्थेन प्रयोजनेन ये ऽन्यनामोक्ता अर्थाः प्रसिद्धार्थैर्यत्प्रयोजितं संवादितमन्यहृदये दोषाः संबन्धं संबन्धनं तच्चार्थेन सम्बन्धं परमार्थत उचितं तत्परिदेवितम् । यथा ---
एनां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरो
गाण्डीवेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर्
मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥
तटावलोकनेन प्रयोजनेनात्र धनञ्जयव्यापारो य उक्तस्तेन राजनि कस्मिंश्चिद्दोषसंबन्धो हृदये जनितः ``किं तुल्यमानुषत्वे ऽर्जुनपराक्रमन्यूनता मम तत्किं मण्डनया अधिकारस्थानां ह्यदः'' इति तत्र परमौचित्यख्यापनं प्रयोजनम् । अन्ये पठन्ति ---
परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते ।
अनुक्तो ऽन्यो ऽपि वा कश्चित्स तु क्षोभ इतीरितः ॥ इति ।
परस्य दोषो येभ्यस्तादृशा ये विचित्रा अर्थाः परगुणास्तैर्हेतुभूतैरदृष्टो ऽप्यर्थ आत्मा अन्य इति दृष्टत्वेन कीर्त्यते, अन्यो वा कश्चिदात्मव्यतिरिक्त इति क्षोभो हृदयसंचलनात् । इयमेवानुक्तसिद्धिः ---

[(मू)]

1. प॰ यद्दोषैरन्य

2. प॰ प्रसिद्धार्थप्रयोजनम्, च॰ प्रयोजयेत्

3. च॰ संबन्धो, प॰ संबन्धं, प॰ परिवादनम् ।

* एतदेव परिवादनमिति भोजेनोक्तं, उदाहृतं च रत्नावल्यां तृतीये ऽङ्के कुपितवासवदत्तानिष्क्रमणानन्तरं राजा विदूषकं परिवदन्नाह ``धिङ्मूर्ख, त्वत्कृतोयमनर्थो ऽस्माकमापतित'' इतीति । परिदेवनमिति सर्वेश्वरेणाभिहितम् । शारदातनयेन तु `परिवादो मृषादोष' इति लक्षितम् ।

[(व्या)]

[page 320]




[NZ]

उपमा 1दीपकं चैव रूपकं यमकं तथा । BhNZ_16_040ab
2काव्यस्यैते ह्यलङ्काराश्चत्वारः परिकीर्तिताः ॥ BhNZ_16_040cd
यत्किंचित्काव्यबन्धेषु सादृश्येनोपमीयते । BhNZ_16_041ab
उपमा नाम 3सा ज्ञेया गुणाकृतिसमाश्रया ॥ BhNZ_16_041cd
[ABh]

प्रस्तानेवैव शेषो ऽर्थः कृत्स्नो यत्र प्रतीयते ।
वचनेन विना जातु सिद्धिः सा परिकीर्तिता ॥ इति ।
दोर्दण्डमण्डनाकरणे प्रस्तावादेव गम्यते पौरुषातिशरदर्पादिसर्वम् । एष चोत्कृष्टानामेवाभिप्रायो भवतीति प्राप्यत्वादन्ते लक्षणमिदमुक्तम् ।
एवं कविव्यापारबलाद्यदर्थजातं लौकिकात्स्वभावाद्विद्यमानं तदेव लक्षणमित्युक्तम् । तत्र शरीरकल्पस्यालङ्कारा अधुना वक्तव्याः । तन्निरूपयुतुमुद्दिशति उपमेत्यादि । काव्ये तावल्लक्षणं शरीरं, तस्योपमादयस्त्रयो ऽर्थभागे, यथा हि पृथग्भूतेन हारेण रमणी विभूष्यते तथोपमानेन शशिना तत्सादृश्येन वा कविबुद्धिचञ्चलतया परिवर्तमानत्वात्पृथक्सिद्धेनैव प्रकृतवर्ननीयवनितावदनादि सुन्दरीक्रियत इति तदेवालङ्कारः । तस्य च त्रिधा स्थितिः संपूर्णेन स्फुटेन उपमानोपमेयत्वेन । यत्र च वर्णानां संनिधिरुपमानोपमेयद्योतकसाधारणधर्माणां क्वचिदन्तर्लीनेनोपमानोपमेयमेकीक्रियते तत्र रूपकव्यवहारः । तत्र हि पदार्थे प्रयुज्यमानः शब्द इवार्थं गर्भीकरोतीति न्यायः । क्वचित्तु एकप्रघट्टकावस्थानबलादुपमागतिः, यथा दीपके । उपलक्षणं चैतद्वैचित्र्यान्तराणाम् ॥
उपाध्यायमतं तु --- लक्षणबलादलङ्काराणां वैचित्र्यमागच्छति तथा हि --- गुणानुवादनाम्ना लक्षणेन योगात्प्रशंसोपमा, अतिशयनाम्नातिशयोक्तिः, मनोरथाख्येनाप्रस्तुतप्रशंसा, मिथ्याध्यवसायेनापह्नुतिः, सिद्ध्या तुल्ययोगितेति, एवमन्यदुत्प्रेक्ष्यम् । लक्षणानां च परस्परवैचित्र्यादप्यनन्तो विचित्रभावः, यथा प्रतिषेधमनोरथयोः संमेलनादाक्षेप इति । उपमाप्रपञ्चश्च सर्वो ऽलङ्कार इति विद्वद्भिः प्रतिपन्नमेव ।

[(मू)]

1. ड॰ रूपकं चैव दीपकं

2. ड॰ अलङ्कारस्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ॥

3. ड॰ विज्ञेया ।

[(व्या)]

[page 321]




[NZ]

एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । BhNZ_16_042ab
अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ BhNZ_16_042cd
तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया1 BhNZ_16_043ab
2शशाङ्कवत्प्रकाशन्ते ज्योतींषीति भवेत्तु3 या ॥ BhNZ_16_043cd
4एकस्यानेकविषया सोपमा परिकीर्तिता । BhNZ_16_044ab
श्येनबर्हिणभासानां5 तुल्यार्थ6 इति या भवेत् ॥ BhNZ_16_044cd
एकस्य बहुभिः सा स्यादुपमा नाटकाश्रया7 BhNZ_16_045ab
8बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ BhNZ_16_045cd
[ABh]

तत्रोपमां लक्षयति यत्किंचिदिति । काव्यबन्धेषु काव्यलक्षणेषु सत्स्वत्यनेन गौरिव गवय इति नायमलङ्कार इति दर्शितम् । बन्धो गुम्फो, फणितिर्वक्रोक्तिः कविव्यापार इति हि पर्यायाः । लक्षणं त्वलङ्कारशून्यमपि न निरर्थकम् । भूयांश्चात्रोदाहरणमार्गो दर्शितः ।
गुणशून्यं तु न काव्यं किंचिदपीयति च महापुरुषो दृष्टान्तः अहेयत्वप्रदर्शनर्थमेवं हि प्रसादादीनां गुणवाचोयुक्त्या व्यवहारः तद्विना काव्यरूपत्वाभावात् । सुन्दरास्पदं तु शरीरमुपलक्षणमुपमाद्यन्तरेण तु भवत्येव काव्यमिति प्रकटीकर्तुमुपमादीनामलङ्कारत्वेन व्यवहारः, न तु लोक इव स्फुटात्र पृथक् सिद्धिरस्ति । तथा हि दण्डिना काव्यशोभावहा धर्मा अलङ्कारा सर्व उक्ता इति केचित् । यत्किंचिदित्यनेनोपमीयत इति क्रियार्थः संबन्ध्यते न कर्म । उप समीपे प्रेक्षणनिमित्तान्तैरपि संभवतीत्यत आह सादृश्येनेति । उपमीयत इत्यनेनोपमेय उक्ते सादृश्येनेति साधारणो धर्मः, गुणः संबन्धः आक्रियते द्योत्यते अनेनेति गुणाकृतिः इवादिः शब्दः आश्रीयमाणो यस्यामिति (गुणाकृतिसमाश्रया) ।

[(मू)]

1. च॰ इति ह्येककृता भवेत्, द॰ यत्र सैककृता भवेत्

2. द॰ चन्द्रवत्संप्रकाशन्ते ज्योतींषीति द्विजोत्तमाः ।

3. भ॰ भवेद्धि

4. भ॰ एकेनानेक, द॰ एकेन सा त्वनेकेषामुपमा

5. ढ॰ गृध्राणां

6. न॰ तुल्याक्ष

7. ढ॰ नाटकाश्रये

8. द॰ घना इव गजा यत्र बहूनां बहुभिस्तथा ।

[(व्या)]

[page 322]




[NZ]

1प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । BhNZ_16_046ab
किंचिच्च सदृशी ज्ञेया ह्युपमा पञ्चधा पुनः ॥ BhNZ_16_046cd
प्रशंसा यथा ---
2दृष्ट्वा तां तु विशालाक्षीं तुतोष मनुजाधिपः । BhNZ_16_047ab
मुनिभिः साधितां 3कृच्छ्रात्सिद्धिं मूरित्मतीमिव ॥ BhNZ_16_047cd
निन्दा यथा ---
सा तं सर्वगुणैर्हीनं 4सस्वजे कर्कशच्छविम् । BhNZ_16_048ab
वने कण्टकिनं वल्ली 5दावदग्धमिव द्रुमम् ॥ BhNZ_16_048cd
कल्पिता यथा ---
6क्षरन्तो दानसलिलं लीला7मन्थरगामिनः । BhNZ_16_049ab
मतङ्गजा विराजन्ते जङ्गा इव पर्वताः ॥ BhNZ_16_049cd
सदृशी यथा ---
यत् त्वयाद्य कृतं कर्म परचित्तानुरोधिना । BhNZ_16_050ab
सदृशं तत्त्वैव स्यादतिमानुषकर्मणः8 BhNZ_16_050cd
[ABh]

अत्रोदहरणानि क्रमेण दर्शयति, तेषु लक्षणयोजनं तुल्यं ते इत्यादिना ।
एवमुपमानोपमेयसंख्याभेदेन तद्भेदानुक्त्वा तद्गतशरीरभेदेन शरीरभेदानाह प्रशंसा चैवेत्यादिना । उपमानस्य प्राशस्त्यात्प्रशंसोपमा । एवं सर्वत्र ।
जङ्गमाः पर्वताः उपमानाभिमता कल्पिताः अन्यस्य सादृश्याभावात् । एवमत्र सदृशेन कल्पितः सः । असदृशीत्यन्ये पठन्ति, व्याचक्षते च सदृश

[(मू)]

1. द॰ प्रशंसां ... ... निन्दां ... कल्पितां ... सदृशीं ... सदृशीं विद्यादुपमाः काव्यसंश्रयाः

2. द॰ आलप्य तां

3. द॰ कृत्वा

4. द॰ संश्रिता पुरुषाधमम्

5. द. वह्नि

6. द॰ मदवारिनिषिक्ताङ्गा

7. द॰ विभ्रम

8. ढ॰ कर्मिणा ।

[(व्या)]

[page 323]




[NZ]

किञ्चित् सदृशी यथा ---
संपूर्णचन्द्रवदना नीलोत्पलदलेक्षणा1 BhNZ_16_051ab
मत्त2मातङ्गगमना संप्राप्तेयं 4सखी मम ॥ BhNZ_16_051cd
उपमाया बुधैरेते ज्ञेया भेदाः समासतः । BhNZ_16_052ab
3ये शेषा लक्षणैर्नोक्तास्ते ग्राह्या लोककाव्यतः5 BhNZ_16_052cd
6नानाधिकरणार्थानां शब्दानां संप्रदीपकम्7 BhNZ_16_053ab
एकवाक्येन 8संयुक्तं तद्दीपकमिहोच्यते ॥ BhNZ_16_053cd
[9प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् । BhNZ_16_054ab
काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ ] BhNZ_16_054cd
[ABh]

इहोपमेय उच्यते, तथा च व्युत्पत्तिः समान इव दृश्यमानस्तमिवात्मानं पश्यतीति । यत्रोपमेयस्यैवोपमानता सेयं सदृशी किंचित्सदृशमित्थमुपमानं भवति । यत्र सादृश्यगमकं स्फुटं पदं नास्ति न च सर्वात्मना रूपक इव वस्तुद्वयमीलनं तेन समासव्यङ्ग्या किंचित्सदृशीत्युक्ता । तदुदाहरति संपूर्णेति । सप्तमी उपमानपूर्वपदस्येति समासबलादुपमानताप्रतिपत्तिः तत्र क्षुत्तरपदलोपः सन्नियोगशिष्टत्वात् क्यङि सलोप इव मत्तमातङ्गगमनमिव गमनमस्या इत्युत्तरपदलोपो ऽपि स एष लोके काव्ये च तद्भेदाः दृश्यन्ते । ते लक्षणद्वारेणोक्ता इति ग्राह्याः स्वयं स्वीकर्तुं शक्याः । अस्मिन्ये नोक्तास्ते लोकात्काव्याच्च ग्राह्या इत्यन्ये, शेषा इत्यत्र पुनरुक्तम् ।
अथ दीपकं --- नानाधिकरणार्थानामिति । नाना ये शब्दान्तरवाक्यपदात्मानस्तेषां, अधिकरणार्थानामाश्रये अर्थो ऽर्थता येषां तथाभूतानां साकांक्षाणामिति

[(मू)]

1. ढ॰ निभेक्षणा

2. द॰ नागेन्द्र

3. द॰ प्रिया

4. ठ॰ शेषा ये लक्षणे नोक्ताः

5. द॰ संसाध्यास्ते ऽपि लोकतः, च॰ काव्यलोकतः

6. भ॰ नानाविकरण, ढ॰ मानधिकरणस्थानां

7. ड॰ संप्रदीपनः, च॰ संप्रकीर्तितम्, न॰ संप्रदीपकः

8. ड॰ संयोगो यस्तद्दीपकमुच्यते, च॰ संयोगात्, द॰ संयोगो यस्तु दीपकमुच्यते, भ॰ संयोज्ये

9. अयं श्लोको भ॰ मातृकायामेव वर्तते ।

[(व्या)]

[page 324]




[NZ]

यथा ---
1सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । BhNZ_16_055ab
गोष्ठीभिरुद्यानवनानि चैव तस्मिन्न शून्यानि सदा क्रियन्ते । BhNZ_16_055cd
2स्वविकल्पेन रचितं तुल्यावयवलक्षणम् । BhNZ_16_056ab
किंचित्सादृश्यसंपन्नं यद्रूपं रूपकं तु तत् । BhNZ_16_056cd
[3नानाद्रव्यानुरागाद्यैर्यदौपम्य4गुणाश्रयम् । BhNZ_16_057ab
रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ ] BhNZ_16_057cd
यथा ---
पद्माननास् ताः कुमुदप्रभासा5 6विकोशनीलोत्पलचारुनेत्राः । BhNZ_16_058ab
6वापीस्त्रियो हंसकुलैः 8स्वनद्भिर्विरेजुरन्योन्यमिहालपन्त्यः9 BhNZ_16_058cd
[ABh]

तेषां यत्सम्यक् प्रकर्षेण दीपकमाकांक्षापूरकं क्रियागुणजात्यादितद्दीपकं यत एकेनावान्तरवाक्येनासंयुक्तं सत्तथाकरोति ततो दीपकप्रकृतित्वाः तथोक्तमित्यर्थः ।
अथ रूपकं --- स्वविकल्पेन रचितमिति । स्वविकल्पेन यद्रूपं वदनस्य रचितं चन्द्रात्मकं तद्रूपयति परमिति रूपकम् । तस्य द्वौ भेदौ तुल्यैरवयवैः सर्वैरेवान्यरूपीकृतैर्युक्तं, यदि वा किंचित्सादृश्ययुक्तं रूपितम् । अत्रापि किंचिदन्ये रूपसादृश्याद्युक्तं रूपान्तररूपितं यत्रैकदेशविवर्तिं प्रसिद्धं द्रव्याद्यस्ति । य इति युक्तः पाठः । ततो हि समासोपमात्वं पद्मानना इत्यादेर्निवार्यते ।

[(मू)]

1. अयं श्लोको भ॰मातृकायां न विद्यते

2. भ॰ स्वविलपैर्विरचितं

3. अयं च॰ य॰ योरेव नास्ति

4. ड॰ अनुषङ्गाद्यैर्यदौपम्यं

5. ड॰ प्रहासा, द॰ कुमुदाग्रहा सा

6. न॰ विलोल, च॰ विकासि

7. द॰ वापीतरुण्यो ऽधिकमद्य भान्ति शोभामिवान्योन्यमधीक्षिपन्त्यः

8. ड॰ विभान्ति खनद्भिः

9. न॰ इवाह्वयन्त्यः, प॰ इवालपन्त्यः ।

[(व्या)]

[page 325]




[NZ]

1शब्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् । BhNZ_16_059ab
विशेषदर्शनं चास्य गदतो मे निबोधत ॥ BhNZ_16_059cd
2पादान्तयमकं चैव काञ्चीयमकमेव च । BhNZ_16_060ab
3समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ BhNZ_16_060cd
यमकं चक्रवालं च संदष्टयमकं तथा । BhNZ_16_061ab
[ABh]

हंसकुलानां नर्मसचिवत्वमरूपितमपि गम्यत इत्ययमंशो द्वितीयस्योदाहरणम् । अन्योन्यमिहेति पाठः, इवशब्दे तूपमांशक्योत्प्रेक्षो वा । सा त्विह कल्पितोपमा । उपमांशस्यास्फुरणा याभिमानाख्यं लक्षणं सैवं यस्यालङ्कारकारैरलङ्कारतयोक्ता, तत्रोपमोद्भेदश्च तद्युक्तालङ्कारता भूष्यभूषकयोः पृथगभावात् । नोचेत्तल्लक्षणमेव । तत्केचित्पठन्ति ---
नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् ।
रूपनिर्माण(र्वर्णना?) युक्तं तद्रूपक(मिति स्मृतम्) ॥ इति
व्याकुर्वते च --- रूपकशब्दस्यान्वर्थाख्यायकमेतत्, औपम्यस्य गुणत्वेन प्रधानतया संश्रयो यत्र तथा कृत्वा रूपस्य यान्यरूपेण निश्चित्य वर्णना तद्रूपकम् । कथं तन्निश्चय इत्याह नानाभूतेन पृथग्भूतेनापि द्रव्येण यो ऽनुरागः स्फटिकस्येव लाक्षया तत आदिग्रहणाद् भ्रान्तिगौणलाक्षणिकादिभेदानां ग्रहणम् (इति) ।
एवमर्थविषयलक्षणप्रसङ्गेनार्थालङ्कारान् प्रदर्श्य शब्दालङ्कारस्वरूपमाह शब्दाभ्यासस्तु यमकमिति । तुरर्थालङ्कारेभ्यो व्यतिरेकमाह । शब्दशब्देन वर्णः पदं तदेकदेश इति सर्वं गृह्यते । तेनानुप्रासः, लोटीयादेरनेनैवोपसंग्रहः । यमौ द्वौ समजातावुच्येते तत्प्रकृतित्वाद्यमकम् । तेनैकस्याक्षरस्य पदस्य वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । यथा मुक्ताफलस्योचितमुक्ताफलान्तरपद्मरागादेर्वोपाश्रयविशेषः समुचितसहासीन सत्पुरुषमध्यप्ततनं वा सत्पुरुषान्तरस्य । पादे आदिग्रहणं तदा मध्यान्तादिषु विकल्पितवचनान्नास्त्यपि स्थापननियमो ऽनुप्रासलाटीयादिसंग्रहायेत्याह । विशेषदर्शनमिति

[(मू)]

1. च॰ शब्दाभ्यासं

2. न॰ पदान्त

3. द॰ समुद्र, भ॰ सामुद्ग ।

[(व्या)]

[page 326]




[NZ]

पादादियमकं चैव तथाम्रेडितम् एव च1 BhNZ_16_061cd
चतुर्व्यवसितं चैव मालायमकमेव च । BhNZ_16_062ab
एतद्दशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ BhNZ_16_062cd
चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम्2 BhNZ_16_063ab
तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ BhNZ_16_063cd
4दिनक्षयात्संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् । BhNZ_16_064ab
विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥ BhNZ_16_064cd
[4लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः । BhNZ_16_065ab
जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ ] BhNZ_16_065cd
पादस्यादौ तथान्ते 5च यत्र स्यातां5 पदे समे । BhNZ_16_066ab
तत्काञ्चीयमकं 7नाम विज्ञेयं सूरिभिर्यथा ॥ BhNZ_16_066cd
8यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम्9 BhNZ_16_067ab
[ABh]

विशेषाणामुद्देशलक्षणानामित्यर्थः । अक्षरमिति एकमनेकं च संहृतम् । रश्मीनां मण्डलमोघो यस्य । तपनीयमण्डलं सौवर्णं चक्रम् ।

[(मू)]

1. ड॰ आम्रेडितमथापि च

2. भ॰ यमकाक्षरम्

3. भ॰मातृकायां न दृश्यते

4. भ॰मातृकायामेव वर्तते

5. न॰ तथा चान्ते, ड॰ यथा चादौ

6. ढ॰ स्यातां तत्र

7. ड॰ चैव तत्

8. न॰ यामायामाः, ढ॰ मायामाया, भ॰ यामायामा यामवती यामवती या

9. भ॰ सारजनी सारजनी सा ।

[(व्या)]

[page 327]




[NZ]

फुल्ले फुल्ले सभ्रमरे वा भ्रमरे वा रामा रामा विस्मयते च स्मयते च ॥ BhNZ_16_067cd
1अर्धेनैकेन यद्वृत्तं सर्वमेव2 समाप्यते । BhNZ_16_068ab
3समुद्गयमकं तत्तु विज्ञेयं नामतो4 यथा ॥ BhNZ_16_068cd
केतकी5कुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती । BhNZ_16_069ab
केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ॥ BhNZ_16_069cd
एकैकं पादमुत्क्रम्य6 द्वौ पादौ सदृशौ यदा7 BhNZ_16_070ab
विक्रान्तयमकं नाम 8विज्ञेयं नामतो यथा ॥ BhNZ_16_070cd
स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः । BhNZ_16_071ab
अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ॥ BhNZ_16_071cd
पूर्वस्यान्तेन पादस्य 9परस्यादिर्यदा समः । BhNZ_16_072ab
चक्रवच्चक्रवालं 10तद्विज्ञेयं नामतो यथा ॥ BhNZ_16_072cd
[ABh]

सारभूतानां जातीनां वधूनां युवतीनां संबन्धिनी । परिवारत्वेन स्थिता रामारामा सर्वैव स्त्रीव्यक्ता ईषत् स्फुटाकारा । चन्द्रवतीनां रजनीनां रात्रीणां संबन्धिनी यामंयामं सर्वप्रहरम् । स्मयते यतः पुष्पे विकसिते सभ्रमरके तद्विना वा विस्मयते । केतकीकुसुमवद्भासुरौ दन्तावस्य सो ऽयं, प्रकारकमाननं यस्य तादृक् शोभते हस्ती । तथा केतकीकुसुमात्मकौ पाण्डुरौ दन्तौ यस्य तत्प्रवरकाननं हस्तिरूपं शोभते । ``अत्र चार्थेभेदो मुनिना नादृत'' इति तदप्रसिद्धम् । व्युत्पत्त्यादिना परहृदयं वेदितमस्माभिः ।
द्वे शृङ्गे यस्य तथा विगतं शृङ्गं यस्य । एते युधि संचिताः सङ्घीभूताः चितामधिरूढाः । शत्रुभिः कर्तृभिः खगैः शरैः अनुपुङ्खगैः पुङ्खान्तमग्नौ आहताः

[(मू)]

1. द॰ सार्धेन

2. न॰ एवं

3. न॰ सामुद्र, भ॰ सामुद्ग

4. ड॰ पण्डितैः

5. ड॰ मुकुल

6. च॰ उत्क्षिप्य

7. ढ॰ यदि

8. ढ॰ तद्विज्ञेयमिदं

9. ड॰ पादस्य

10. भ॰ तु ।

[(व्या)]

[page 328]




[NZ]

[1तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः । BhNZ_16_073ab
सर्वत्र चक्रवालं तद् विज्ञेयं नामतो यथा ॥ ] BhNZ_16_073cd
2शैलास्तथा शत्रुभिराहताहता हताश्च भूयस्त्वनुपुंखगैः खगैः । BhNZ_16_074ab
खगैश्च सर्वैर्युधि संचिताश्चिता3श्चिताधिरूढा निहतास्तलैस्तलैः4 BhNZ_16_074cd
आदौ द्वे यत्र पादे तु भवेतामक्षरे समे । BhNZ_16_075ab
5संदष्टयमकं नाम विज्ञेयं 6नामतो यथा ॥ BhNZ_16_075cd
7पश्य पश्य रणमस्य मे8 गुणान्येन येन वशगाम् करोति माम् । BhNZ_16_076ab
येन येन हि ममैति9 दर्शनं तेन तेन वशगां करोति माम् ॥ BhNZ_16_076cd
आदौ पादे तु 10यत्र स्यात्समावेशसमक्षरः । BhNZ_16_077ab
पादादियमकं नाम 11विज्ञेयं नामतो यथा ॥ BhNZ_16_077cd
12विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । BhNZ_16_078ab
विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम्13 BhNZ_16_078cd
पादस्यान्त्यं पदंयत्र14 द्विर्द्विरेकमिहोच्यते । BhNZ_16_079ab
15ज्ञेयमाम्रेडितं नाम यमकं तत्तु सूरिभिः ॥ BhNZ_16_079cd
[ABh]

आहतप्रकारमाह --- ताः छिन्नपोaक्षाः शैला इव खगैः गृध्रादिभिः तलैः पक्षबाहुभिः निहताः भूयः । एतैरेव चिताः व्याप्ताः । ``निहतानामस्तं मरणं लान्ति तैर्निहतास्तलैः'' इति क्लिष्टत्वादुपेक्ष्यम् ।

[(मू)]

1. भ॰ मातृकायामेव वर्तते ।

2. न॰ तलैः

3. ड॰ संचितां चितां

4. ड॰ हता नराः, भ॰ नरा नराः

5. द॰ संदशं

6. न॰ विबुधैः, ड॰ तद्बुधैः

7. ड॰ यस्य यस्य

8. ड॰ गुणाः

9. ड॰ समैति

10. ड॰ पादस्य

11. ड॰ तद्विज्ञेयं बुधैः

12. अयं ढ॰मातृकायां न वर्तते ।

13. न॰ विष्णुप्रसूतं

14. ड॰ यच्च, न॰ यत्तु

15. ड॰ पादान्ताम्रेडितं नाम विज्ञेयं निपुणैर्यथा ।

[(व्या)]

[page 329]




[NZ]

विजृम्भितं निःश्वसितं मुहुर्मुहुः 1कथं विधेयस्मरणं पदे पदे । BhNZ_16_080ab
यथाच ते ध्यानमिदं पुनः पुन2र्ध्रुवंगता ते रजनी विना विना ॥ BhNZ_16_080cd
सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । BhNZ_16_081ab
चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ BhNZ_16_081cd
वारणानामयमेव कालो वारणानामयमेव कालः । BhNZ_16_082ab
वारणानामयमेव कालो वा रणानामयमेव कालः ॥ BhNZ_16_082cd
नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् । BhNZ_16_083ab
तन्मालायमकं नाम विज्ञेयं 3काव्यकोविदैः ॥ BhNZ_16_083cd
यथा ---
4हली बली हली माली खेली माली सली जली । BhNZ_16_084ab
खलो बलो बलो मालो मुसली त्वभिरक्षतु ॥ BhNZ_16_084cd
5असौ हि रामा रतिविग्रह6प्रिया रहःप्रगल्भा रमणं मनोगतम्7 BhNZ_16_085ab
रतेन रात्रौ8 रमयेत्परेण वा910चेदुदेष्यत्यरुणः पुरोरिपुः ॥ BhNZ_16_085cd
[ABh]

वारणपुष्पाणामयं संबन्ध्ययं कालः शरल्लक्षनः । वारणानां हस्तिनां अनामयं आमयाभावे सति समदत्वे सति वारणानां वारणं निवारणं विद्यते येषां तेषां शत्रूणामयं, कालः कृतान्तो ऽथवा । रणानां संग्रामाणां कालः क्षेपः चिन्ताप्रवर्तयितेत्यर्थः ।

[(मू)]

1. ड॰ यथाभिधानं, च॰ कथाभिधानं स्मरणे, न॰ तथागता

2. न॰ भावैः

3. न॰ पण्डितैर्यथा

4. न॰ लली

5. एतौ द्वौ श्लोकौ ड॰ढ॰द॰ध॰प॰फ॰ब॰ मातृकास्वेव वर्तेते । एतयोः पूर्वश्लोक एव, न॰मातृकायां वर्तते ।

6. ड॰ विग्रहः

7. ड॰ सोगतम्, ढ॰ मनोद्गतम्

8. ढ॰ रात्रिं

9. ढ॰ ते

10. द॰ चेदुदस्यति, न॰ चेदुषस्यति ।

[(व्या)]

[page 330]




[NZ]

सपुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेभ्यः क्षतजं दुरीक्षम्1! । BhNZ_16_086ab
क्षतैर्गवाक्षैरिव संवृताङ्गः2 साक्षात्सहस्राक्ष इवावभाति3 BhNZ_16_086cd
एभिरर्थक्रियापेक्षैः(*) काव्यं 4कुर्यात्तु लक्षणैः । BhNZ_16_087ab
अतः परं5 प्रवक्ष्यामि काव्यदोषान् गुणांस्तथा6 BhNZ_16_087cd
गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । BhNZ_16_088ab
न्यायादपेतं विषमं विसन्धिश् 7शब्दच्युतं वै दश काव्यदोषाः ॥ BhNZ_16_088cd
8पर्यायशब्दाभिहितं गूढार्थमिति संज्ञितम्9 BhNZ_16_089ab
अवर्ण्यं वर्ण्यते यत्र10 तदर्थान्तरमिष्यते ॥ BhNZ_16_089cd
[ABh]

लक्षणानां प्राधान्यमित्युक्तपूर्वं तत्तथैवोपसंहरति एभिर्लक्षणैरिति अर्थः क्रियायां रसचर्वणायां युक्तं योगः येषां, विभावादित्वं ह्येतत् प्रसादादीत्युक्तमधस्तात् । अतःपरमिति वक्तव्यान्तरमाह । केषुचित्पुस्तकेषु चैतद्ग्रन्थः पश्चाद्दृश्यते, बाहुल्येन प्रथमं दृश्यत इति तथैव व्याचक्ष्महे । तत्र पादानां वाक्यस्य तदर्थानां च यथा दशरथ इति वक्तव्ये बलात्परिकल्पितेन वस्तुतो पर्यायशब्देनाभिधानं `अधिकनवविमान' इति । न हि यदृच्छाशब्दाः पर्यायभाजः ।
अर्थान्तरं यथा --- ``चिन्तामोहमनङ्गमङ्ग तनुते विप्रेक्षितं सुभ्रुवः'' इति अत्र कामः स्वीकृतः चिन्तादिशब्देनावर्णनीयमपि वर्णितम् । यत्तु प्रसक्तानुप्रसक्तिकया वहुतराप्रकृतवर्णनं तत्प्रबन्धदोषरूपं सन्धितदङ्गविधानेन पराकृतमिति नेह निरूपणार्हम् ।

[(मू)]

1. ढ॰ दुरीक्षः

2. ढ॰ संप्रतीक्षः

3. द. अवभासे

4. ड॰ कार्यं तु

5. ड॰ ऊर्ध्वं

6. भ॰ समासतः

7. भ॰ च्युतं च शब्दात्, ड॰ शब्दाच्च्युतं

8. ``पर्याय'' इत्यादिषट्श्लोकाः, ड॰ध॰योरेव न दृश्यते ।

9. च॰ अभिसंज्ञितम्

10. न॰ यत्तु

* `क्रियायुक्तैः' इति पाठः स्यात् ।

[(व्या)]

[page 331]




[NZ]


अर्थहीनं 1त्वसंबद्धं सावशेषार्थमेव च । BhNZ_16_090ab
भिन्नार्थ2मभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ BhNZ_16_090cd
3विवक्षितो ऽन्य एवार्थो 4यत्रान्यार्थेन विद्यते । BhNZ_16_091ab
भिन्नार्थं 5तदपि प्राहुः काव्यं काव्यविचक्षणाः6 BhNZ_16_091cd
अविशेषाभिधानं यत्तदेकार्थमिति स्मृतम् । BhNZ_16_092ab
7अभिप्लुतार्थं विज्ञेयं यत्पदेन समस्यते8 BhNZ_16_092cd
[ABh]

अर्थहीनं यथा --- ``अद्यापि स्मरसि रसालसं मनो मे मुग्धायाः स्मरचतुराणि'' । अत्रपूर्वापरव्याघातादसंबन्धता । यथा वा ``स महात्मा भाग्यवशान्महापथमुपागतः'' इति । अत्र हि सावशेषः प्रकरणापेक्षो वस्तुनिश्चयः, अभाग्यवशादित्यपि संभाव्यत्वात् ।
भिन्नार्थं त्रिधा --- तत्र मृष्यो दूरसंबन्धव्यवधाने सति यत्रार्थो यथा ---
ज्वरं भुञ्जीतसञ्जातमलपाकं चिरस्थितम् ।
अजादुग्धोदनं हन्यात् त्रिदोषोत्कोपसंभवम् ॥ इति
ग्राम्यं यथा --- ``भद्रे भजस्व मामिदं ते दास्यामि'' इति । तृतीयं भिन्नार्थं यथा --- ``स्याच्चेदेष न रावणः'' इत्युक्त्वा, ``क्व नु पुनः सर्वत्र सर्वे गुणाः'' इति । उद्दिष्टं ह्यत्र रावणस्यानुपादेयत्वं क्व नु पुनरित्यनेनान्यथाकरणाद्भेदितम् ।
एकार्थं यथा --- ``कुन्देन्दुहारहरहाससितं'' इति । एकप्रयोजनं हि सर्वमेतत् । न हि काव्यं शास्त्रवदुपदेश्यं कश्चित्किंचिज्जानीयादिति प्रवर्तते ।
अभिप्लुतार्थं यथा ---
स राजा नीतिकुशलः सरः कुमुदशोभितम् ।
सर्वप्रिया वसन्तश्रीर्ग्रीष्मे मालतिकागमः ॥
अत्र प्रतिपादमर्थस्य परिसमाप्तत्वादभिप्लुतत्वं, एकवाक्यत्वेन निमज्जनाभावात् ।

[(मू)]

1. न॰ असंबद्धं

2. न॰ अपि विज्ञेयं

3. ढ॰ विवक्षितान्य, भ॰ अर्थ उद्दिष्टो

4. न॰ यत्त्वन्यार्थेन भिद्यते

5. ढ॰ तत्तु ते

6. ढ॰ विदो जनाः

7. भ॰ अति, न॰ अवि

8. न॰ समाप्यते ।

[(व्या)]

[page 332]




[NZ]

न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम्1 BhNZ_16_093ab
वृत्तभेदो2 भवेद्यत्र विषमं नाम तद्भवेत् ॥ BhNZ_16_093cd
3अनुपश्लिष्टशब्दं यत्तद्विसन्धीति कीर्तितम् । BhNZ_16_094ab
4शब्दच्युतं च विज्ञेयमवर्णस्वरयोजनात्5 BhNZ_16_094cd
6एते दोषा हि काव्यस्य मया सम्यक् प्रकीर्तिताः । BhNZ_16_095ab
गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ BhNZ_16_095cd
[ABh]

न्यायादपेतं देशकालविरुद्धं कलाशास्त्रादिविरुद्धं च यथा ---
सुवीरेष्वस्ति नगरी मथुरा नाम विश्रुता ।
अक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥ इत्यादि ।
विषमं यथा --- ``अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्'' इत्यादि । यदि दोषो ऽनेनैव संगृहीतः सन्धानं द्वयोर्नैरन्तर्यं विचारयोगः अन्योन्यलयो वेति त्रिधा तदनुपारूढमयुक्तं पारुष्याद्युत्पादकं वा यत्रापशब्दः स्मृतो मुनित्रयेणादृतः । एतन्मध्ये तु केचित् `नित्यदोषाः, यथा अपशब्दः, केचिदनित्या यथा --- ग्राम्यं हास्यादौ तस्येष्टतमत्वात् । एतदाह यथास्थूलमिति । आनुपूर्व्यं, अव्ययेनाव्ययीभावः तेनोत्तरोत्तरम् । एते दोषाः स्थूलाः यथा च गूढार्थं गूढलेखप्रहेलिका(दि) पताकास्थानकादिषु प्रयोज्यम्, अर्थान्तरमनुवादे, अर्थहीनादि हास्ये, भिन्नार्थं श्रोत्रियादौ वक्तरि, एकार्थं परप्रत्यायने, अभिप्लुतार्थमुन्मादादौ, भिन्नवृत्तं च विसन्धि स्वविषये । एवमेते दोषाः क्रमेणापातविषयाः । इह यतो ऽर्थप्रतीतिस्तावदस्ति अपशब्दस्तु दोष एव ततः कस्याश्चिदर्थप्रतीतेरभावात् स हि न कांचिद्भाषामनुपतति सङ्कताभावात्तमर्थं प्रतिपादयेत् ।
अथ गुणेषु प्रतिजानीते --- एषां विपर्ययाद्गुणा भवन्ति, एतद्दोषविघात एव गुणो भवतीत्यर्थः । किं अविशेषेण नेत्याह माधुर्यौदार्यलक्षणमङ्को

[(मू)]

1. भ॰ नोपपन्नं भवेत्तु यत् । न॰ परिवर्तितम्

2. ढ॰ भेदे

3. द॰ अनुपारूढशब्दश्च विसन्धिः परिवर्जितः ।

4. न॰ शब्दाच्च्युतं, ढ॰ शब्दहीनं

5. च॰ अशब्दस्य च योजनात्

6. ड॰ एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । एत एव विपर्यस्ताः गुणाः काव्येषु कीर्तिताः ॥ (न॰ पादे, द॰ प्रकीर्तिताः ।)

[(व्या)]

[page 333]




[NZ]

श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् । BhNZ_16_096ab
अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते(*) ॥ BhNZ_16_096cd
1ईप्सितेनार्थजातेन संबद्धानां परस्परम् । BhNZ_16_097ab
श्लिष्टता या पदानां स श्लेष इत्यभिधीयते ॥ BhNZ_16_097cd
[ABh]

येषाम् । एतदुक्तं भवति --- एतद्दोषविहीनं श्रुतिसुखं दीप्तरसं च यदि भवति तावता गुणान्तरैरलङ्कारैश्च हीनमपि काव्यं लक्षणयोगाव्यभिचारीत्युक्तम् ।
अन्ये ऽपि गुणाः सन्तीति दर्शयति श्लोषः प्रसाद इत्यादि । काव्यस्येति पदस्य वाक्यस्य तदुभयगतस्यार्थस्य वेत्यर्थः । तत्र श्लेषमाह ईप्सितेनार्थजातेनेति । अर्थभागानां कविसमुत्प्रेक्षितया परस्परसंबद्धया योजनया संपन्नं यदीप्सितमर्थजातं तेनोपलक्षितार्थस्योपपद्यमानस्योपपद्यमानतात्मा गुणः श्लेषः । यथोदाहृतं वामनेन ---
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद्
एकस्या नयने निमीप्य पिहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति ॥
अत्र मनोरथातीतो ऽप्येककालनायिकायुगलहृदयग्रहनलक्षणार्थस्तथोपपादितो येनासंभावनास्पदं न भवति तेन कुटिलो ऽप्ययं क्रमो न हृदये उल्बणत्वं भजते मज्जति हृदये यतः सर्वस्येति ।

[(मू)]

1. गुणलक्षणानि भ॰मातृकायां न सन्ति ।

* गुणानां लक्षणश्लोकाः भ॰ मातृकायां न वर्तते । ज॰आदि य॰अन्तासु सर्वासु प्रसादमाधुर्यसौकुमार्यकान्तिलक्षणानामेव पाठे संवादित्वं दृश्यते । पाठद्वैविध्यं क्वचित् त्रैविध्यं च विद्यते । वृत्तिकारेण श्लेषस्यैव पाठान्तरं सूचितम् । हेमचन्द्रेण तदन्यानां भरतमतमनुवदता तदन्यपाठ एव स्वीकृतः, सर्वेश्वरेण तु तथैव पाठान्तराण्येव गृहीतानि, अपि तु कान्त्र्यौदार्यलक्षणयोर्विपर्यासग्रहणं विशेषः । मम्मटादयो गुणत्रयत्ववादिनः भोजविद्यानाथादयश्चतुर्विंशतिगुणानूचुः । परे त्वालङ्कारिका वामनमतमनुसृताः ॥

[(व्या)]

[page 334]




[NZ]

[विचार1गहनं यत्स्यात्स्फुटं चैव स्वभावतः । BhNZ_16_098ab
2स्वतः सुप्रतिबद्धं च श्लिष्टं तत्परिकीर्तितम् ॥ ] BhNZ_16_098cd
अप्यनुक्तो बुधैर्यत्र शब्दो ऽर्थो वा प्रतीयते । BhNZ_16_099ab
सुखशब्दार्थसंयोगात्प्रसादः 3स तु कीर्त्यते ॥ BhNZ_16_099cd
[ABh]

अथ शब्दगुणमाह नित्यार्थे पदानां श्लिष्टता परस्परं योनिः सन्धिबन्धनतयानेकमेकपदमिव भाति तद्वेव मासृण्यमुच्यते । अतश्च पदान्तरपाठस्यावश्यापेक्षतायां यथा ब्रह्मसूत्रमिति । उक्तं चैतच्छन्दो ऽध्याये । तथा सन्धीयमानयोस्तथासन्धेः साजात्यं सावर्ण्यं च संपद्यते वस्त्रखण्डयोरिव सूत्रस्येव च । यथा --- ``अस्त्युत्तरस्यां दिशि देवतात्मा'' (कुमा 1-1)
अस्ति शब्दस्योत्तरशब्दस्य सन्धीयमानयोस्तकारेण तकारेण संयोगे तयोश्च साजात्यं, `स्यान्दिशि' इत्यनयोः सन्धेर्नकारस्य वर्ग्यत्वाद्दकारेण सावर्ण्यं, `दिशि देवता' इति नैरन्तर्यसन्धौ दकारेण साजात्यं, इकारैकारयोस्तालव्यांशत्वेन सादृश्यं, `देवतात्मा' इत्यत्र तकारेणाकारेण च । न चानुप्रासमात्रमेतत्, एकपदानुप्रासे ऽपि प्रामाण्यभावात् --- `इन्दिन्दिराणां ललितो निनादः' इत्यनुप्रासे च सावर्ण्येनोपयोगीति । अन्ये पठन्ति --- विचारगहनं यत्स्यात् स्फुटं चैव स्वभावतः । इत्यर्थश्लेषः वक्रघटमानं वेत्यर्थः सुप्रतिबद्धश्च श्लेष इति पदश्लेषः ।
प्रसादमाह --- अप्यनुक्तो बुधैरिति । यत्रार्थश्लेषः वक्त्रघटमानं वेत्यर्थः सुप्रतिबद्धश्च श्लेष इति पदश्लेषः ।
प्रसादमाह --- अप्यनुक्तो बुधैरिति । यत्रार्थे अनुक्ते ऽपि बुधैः कष्टकल्पनया अव्याख्यातो ऽप्यर्थः प्रयोजनं स्वयं जायते सो ऽर्थो वैमल्याश्रयो ऽपि वैमल्यमुपचारात् सो ऽर्थो वा काव्यस्य वैमल्यं स्वयं जानंश्चानुपयोगिपरिवर्जनात् । वैमल्यशब्दवाच्याज्जलस्येव पांसुभिरसंपर्काद्भवतीति वैमल्यमर्थस्य प्रसादः । यथा --- ``सवर्णा कन्यका रूपयौवनारम्भशालिनी'' इति विवाह्यत्वं प्रापणीयताहृद्यत्वं संभोगयोग्यता, गृहस्थसहधर्मचारिणीत्वमित्युपयोगी सर्वो ऽयमर्थः । तेनाबुध्वैतदुदाहरणान्तरं वृथा भ्रमणम् --- ``आविलपयोधराग्र''मिति(विक्रमो 5-8) एतदपि तूदाहरणं पददूषणं तु सम्यग्ज्ञाने प्रयुक्तम्(?) । अप्रसादस्तु ``उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम्'' अत्र विमलमन्यथोपयोगात् पांसुरिव जले ऽत्राप्रसन्नतां करोति । मुख इति न प्रयत्नमपेक्षते ।

[(मू)]

1. ड॰ ग्रहणं युक्त्या

2. द॰ आन्तमप्रति, न॰ स्वन्तमप्रति

3. ड॰ परि

[(व्या)]

[page 335]




[NZ]

नातिचूर्णपदैर्युक्ता न च व्यर्थाभिधायिभिः । BhNZ_16_100ab
दुर्बोधनैश्च न कृता समत्वात्समता मता ॥ BhNZ_16_100cd
[ABh]

यः शब्दार्थो यः संयोगः शब्दविषय इत्यर्थः, कलामात्ररूप एव यत्र सन्धिः अत एव शैथिल्यात्मा स शब्दगुनः प्रसादः । प्रसन्नता स्फुटत्वं लक्षणीयविभागता पदानाम् । यथा ---
अथ सविषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।(*)
इत्यादि । अत्र निरन्तरतां मुक्त्वा नान्योन्यलयो नान्योन्यापत्तिसन्धिरस्तीति शिथिलता । एकश्च गुणः कोऽपि शोभत इति स्वानुभवसिद्धः, तेन व्यावृत्तात्मेति गाढता कृता, ककुदं दत्त्वेति चापरः सवर्णपक्षे ।
समतामाह --- नातिचूर्णपदैरिति । शब्दानां समत्वात्समः चूर्णपदैरसमासरचना यत्र सातिशया न भवति, अतिशयश्च प्रतियोगिनमपेक्षते इति । दीर्घसमासो ऽत्यन्तसमासश्च विषमता, तद्विपर्ययेण समता उपक्रान्तमार्गापरित्यागरूपेत्युक्तं भवति । यथा ---
गाहन्तां महिषा निपानसलिलैः शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ इति
(अत्र) अवान्तरवाक्ये समस्तद्विपदा हि नातिदीर्घा वृत्तिः ।
``प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः ।
किमित्थं ---
इति चूर्णपदैरुपक्रम्यासमाप्त एव वाक्यान्तरे वाक्यार्थे ऽपि दीर्घः समासः कृतः ---
उत्कम्पितपीवरस्तनद्वयोन्मिषत्सुप्तविलासमास्यते'' ॥
पूर्वत्र (`गाहन्ता'मित्यत्र) त्ववान्तरार्थसमाप्तावर्थान्तरोपक्रम एव समासेन `छायाबद्धकदम्बक' मित्युपक्रान्तो ऽपि न चैत्यात्कूपपतनमिव चूर्णपदं प्रयुक्तं `मृगकुल'मिति । सेयं समता जाता शब्दगुणा अर्थो ऽपि समत्वात्, किं तत्समत्वं आह व्यर्थाभिधायिभिरिति निष्प्रयोजनमर्थं ये ऽभिदधति शब्दानां

[(मू)]

* मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ।

गलितवयसामिक्षुवाकूनामिदं हि कुलव्रतम् ॥ रघु (3-70) ।

[(व्या)]

[page 336]




[NZ]

[अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः । BhNZ_16_101ab
अलङ्कारा गुणाश्चैव 1समाः स्युः समता मताः2 ॥ ](:ष्) BhNZ_16_101cd
अभियुक्तैर्विशेषस्तु3 यो ऽर्थस्येहोपलक्ष्यते4 BhNZ_16_102ab
तेन चार्थेन5 संपन्नः समाधिः परिकीर्तितः ॥ BhNZ_16_102cd
[ABh]

न त्वेतदवैमल्यमिति प्रसादेन निरस्तम् । नैतत्, नहि सर्वथा निष्प्रयोजनता, अपि तु सदपि प्रयोजनं दुर्बोधं, तदाह --- दुर्बोधनैरिति । अभिधीयते ऽस्मै इत्यभिधानं प्रयोजनम् । यथा ---
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥
इत्यत्र ऋतुसन्धिवर्णनप्रक्रमे मलयमरुतः प्रक्रमं भिनत्ति न च सर्वथा निरर्थको विप्रलम्भोद्दीपनत्वात् । किं तु प्रक्रमं स्फुटं न पुष्णातीति विषमता । समता तु ``मनसि च गिरं गृह्णन्तीमे किरन्ति न कोकिलाः'' इति (द्वितीयपादस्थाने यदि पठेत्) ।
समाधिमाह --- अभियुक्तैर्विशेषस्त्विति । यस्यार्थस्य द्वितीयस्यार्थस्य अभियुक्तियुक्तैः प्रतिभातिशयवदिभिः विशेषो अपूर्वः स्वोल्लिखित उपपद्यते ससमाहितमनःसंपाद्यविशेषत्वादर्थो विशिष्टः समाधिः, यत्र कवेस्तत्पूर्विकयोल्लेखस्तत्सर्वमिहोदाहरणम् । यथा ---
आश्वपैहि मम सीधुभाजनाद्यावदग्रदर्शनैर्न दश्यसे ।
चन्द्र मद्दशनमण्डाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥ इति ।
अयोनिरन्यच्छायायोनिश्चेति, एतत्तदेवज्ञानं विषयः न चानेकं किंचित् सारस्वतस्य हि सर्वोर्थमनिमित्तत एव । तदन्यस्य सर्वोऽन्यच्छायायोनि । व्यक्तभाव्यवास्यत्वादपि कविहृदयगतप्रतिभातिशयतारतम्यादनवस्थितम्(?) ।
शब्दगुणश्च समाधिः, तमाह तेन चेति । समाधिशब्दस्य यो ऽर्थः परिहारलक्षणस्तेन

[(मू)]

1. द॰ सा बुधैः. ढ॰ समा स्यात्

2. म॰ तु सा, ड॰ यथा

3. न॰ विशेषैस्तु

4. द॰ एवोपलभ्यते

5. भ॰ सो ऽर्थो ऽभि

§ अयमेव पाठः `परस्परविभूषणालङ्कारप्रायः समं' इति वदता हेमचन्द्रेण ``शब्दार्थौ समतान्योन्यं सालङ्कारौ सुसंस्कृतौ'' इति सर्वेश्वरेण च गृहीतः

[(व्या)]

[page 337]




[NZ]

[1उपमाद्युपदिष्टानामर्थानां यत्नतस्तथा । BhNZ_16_103ab
प्राप्तानां 2चापि संक्षेपात् समाधिर्निर्णयो यतः5 ॥ ] BhNZ_16_103cd
[ABh]

यः परिकीर्तितः परितः समन्तादाक्रान्त्या उच्चारणे संपन्नः स च समाधिः । आक्रान्त्या उच्चारणे आरोहावरोहक्रममेव आक्रमणेन गतितुल्यम् । आरोहश्चोर्ध्वगमनद्वारः प्राणमारुतरूपाया उच्चरूपः, अपक्रमणमवरोहो विपर्ययः । उच्चत्वं स्थानकरणवशात्, बाह्याभ्यन्तरप्रयत्नवशाच्च । तथा हि ---
निरानन्दः कौन्दे मधुनि †परिभुक्तोज्झितरसे
(न साले सालम्बो लवमपि लवङ्गे च रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते ऽपि चरति
स्मरल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ) ॥
तत्र नकाराद्दन्त्यान्मूर्धन्यो रेफ उच्चस्थानस्थितो यद्यपि दन्त्यः तथापि संयोगो निरन्तरप्रयत्नाधिक्येन विवृततमेन चाकारद्वयेन द्विवारप्रयत्नकेन च जिह्वामूलीयेन चोच्चत्वभाजा आरोहणमस्फुटीकरणमिति नशब्दो ऽवरोहणं संपन्नमप्यसंपन्नकल्पम् । आरोहणसौकर्यायैव प्रत्युत मध्ये ह्यत्र का विश्रान्तिः । अभावे उच्चतमसङ्कलनसोपानारोहखेदायैव भवति निरास्वाद्यः कौन्द इति यथा एव निरानन्द इत्यत्र यावन्महाप्राणो जिह्वामूलीयश्च श्वासानुप्रदानो द्विवारयुक्तस्तावदारोहयत औकार आकारमवेक्ष्य रूपविवृत औकारतो ऽपि नकारः ततो ऽपीकारोकारयोः ऊनं विवृतत्वं, अकारस्तु संवृतः इत्यवरोहः । औकारस्तु मध्ये ऽवरोहसौकर्यायैव दूरारोहाद्धि दूरावरोहणं चेति चूलिकायाः कृपपतनकल्पम् । खेदो यथा ---
``कुर्वाणाः परमं महच्च मनसः'' इति आकारोपध्मानीयेभ्यो झटिति संवृते ऽकारे निपातनात् । ``निवेशः स्वः सिन्धोः'' --- इत्यत्र क्रमेण विवृततरः स्पर्श इति क्रमेणारोहः । ``तुहिनगिरिवीथीषु जयति'' --- अत्र विवृतेभ्यः उकारादिभ्यः संवृते ऽकारद्वये पातः इकारस्त्वन्यत्वान्न च विश्रान्तिस्थानमिति नारोहः । यदि वा (सि)न्धोरिति विवृततरापेक्षया आरोहसंस्कारे

[(मू)]

1. ढ॰ उपमित्युपदिष्टानां. ड॰ उपमात्यपदिष्टानां

2. ढ॰ चातिसंयोगात्, ड॰ चातिसंयोगः

3. ड॰ परिकीर्त्यते ।

[(व्या)]

विधुरो बालवकुले --- पाठाः

[page 338]




[NZ]

बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । BhNZ_16_104ab
नोद्वेजयति 1यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ BhNZ_16_104cd
[ABh]

उकारे ऽवरोहबुद्धिरेव स्फुटत्वे ऽवरोहः । जयतिमपास्यं तदयमिति पाठः(?) अनुस्वारो हि संवारप्रयत्नः । ``नराः शीलभ्रष्टाः व्यसन इव मज्जन्ति तरवः'' इति अकार इकार अकारेभ्यो ऽवरोहमयेभ्यो विवृतो इकारे आरोहः, अन्ते च विसर्जनीये आरोह एव । तेन स्वभावप्रतिभादर्शनान्विद्धा भगवती वाणी स्वरसोपनिपतिता स्वरसंभारप्रबहवानुरोधेनैवारोहावरोहक्रमं भजते । प्रतिभादृष्टिशून्यत्वात् अन्ध पदवदारोहादि न भजेत् ।
नन्वियता पाठसौकर्यं स्यात्, श्रोतुस्तु किमायातम्, अनभिज्ञो देवानां प्रियः, यथा हि कर्कशशर्करानिकरकण्टकिते देशे दुस्सञ्चरे संचरज्जनं पश्यन्त्या अपि सुकुमारहृदयायाः प्रमदायास्तदात्मानुप्रवेश इव जायमानं खेदमतितरामादत्ते प्रहारपातादौ वा, तथा सहृदयस्य स एव मार्गः, सुकुमारता हि वैमल्यापरपर्याया सहृदयत्वं हृदयस्य स एव मार्गः, सुकुमारता हि वैमल्यापरपर्याया सहृदयत्वं हृदयस्य हि कविहृदयतादात्म्यापत्तियोग्यतैव उत्कर्षः । तत एवोक्तं ---
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ (ध्वन्या-1-7) इति ।
अभिधानकोशमपि हि पठतां सुप्तिङ्विभक्तीश्च विदुषामपि न काव्यतत्त्वावबोधः तस्माद्वर्णोच्चारणप्रयत्नेन परुषपठनस्पर्शजनितो यः खेद उच्चारयितुः स एव श्रोतुरपि पारुष्यमाधत्ते । ``नीरन्ध्यध्ववधूनिबन्ध्यनुगतप्राणैकबन्धक्रमः''(?)इत्यादौ । वर्णगतं च लालित्यपारुष्यादि पुष्कराध्याये ऽपि(अ-34) वक्ष्यते । अन्यैरप्युक्तं ``तेन वर्णा रसच्युतः'' इत्यादि । स्वभावतो हि केचन वर्णाः सन्तापयन्तीव निकृन्तन्तीव रेफककारादय इव परुषवृत्तिर्पूर्वकाः, अन्ये तु निर्वापयन्तीवोपनागरिकोचिताः । लोकगोचर एवायमर्थः स्वसंवेद्यो ऽपीति न वितत इत्यास्तां तावत् ।
माधुर्यमाह बहुशो यच्छ्रुतमित्यादि । यदिति यस्माद्धेतोर्वाक्यं श्रुतं संशयविपर्यययोरास्पदं न भवतीति तन्माधुर्यम् । द्राघीयसि समासे ताववश्यं भवत इति तद्विरह एव माधुर्युa शब्दगुण इत्युक्तं भवति । यथा --- ``गाहन्तां

[(मू)]

1. द॰ तस्मात् ।

[(व्या)]

[page 339]




[NZ]

समासवद्भिर्बहुभि1र्विचित्रैश्च पदैर्युतम् । BhNZ_16_105ab
सानुरागैरुदारैश्च तदोजः परिकीर्त्यते ॥ BhNZ_16_105cd
[(*)2अवगीतो ऽपि हीनो ऽपि स्यादुदात्तावभासकः3 BhNZ_16_106ab
यत्र 4शब्दार्थसंपत्त्या5 तदोजः परिकीर्तितम्6 ॥ ] BhNZ_16_106cd
[ABh]

महिषा निपानसलिलं'' (शाकु 2-6) इत्यादि । पुनः पुनरप्युक्तमर्थजातं यस्माद्धेतोरपनीतमवगाहनेन वैरस्येन तद्वचनवैचित्र्यात्मकं माधुर्यमर्थगुणः वचनान्तराभिधेयतया हि स एवार्थो विचित्रो भवति । यथा ---
रसवदमृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् ।
(सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशन्बच्छदात् ॥)
अत्र रसवदमृतमिति य एवार्थः स एव कः सन्देह इत्युक्तया विचित्रया परिनिश्चयस्थैर्याभिधायिन्या विश्चयीकृतः । निश्चयस्थैर्यमेव नानयथेतिवचनान्तरेण विपर्ययनिराकरणसंभावनान्तरनिरासं च क्रमेण विदधता विचित्रीकृतमिति मधुरो ऽयमर्थः ।
ओजो लक्षयति --- समासवद्भिर्बहुभिरिति । बहुभिरेकसमाससंज्ञायुक्तैरथ च विचित्रैर्यमकैः पदैर्यदुक्तं यो बन्धस्तदोजः । यथा ---
मन्थायस्तार्णवाम्भःप्लुतिकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितनभोदुन्दुभिस्ताडितो ऽसौ ॥ (वेणी) इति
यथा सानुरागैर्यत्र वर्णो वर्णान्तरमपेक्षते तत्र सानुरागत्वम् ।

[(मू)]

1. च॰ विविधैः

2. ड॰ अवगीताविहीनो , ड॰ अवगीतविहीनो

3. ड॰ भाषकः

4. द॰ शब्दो

5. ड॰ संपत्तिः

6. न॰ परिकीर्त्यते ।

* अवगीतस्य हीनस्य शब्दार्थसंपदा यदुदात्तत्वं निषिञ्चन्ति कवयस्तदोजः'' इति वदता हेमचन्द्रेणायमेव पाठो गृहीतः ।

[(व्या)]

[page 340]




[NZ]

सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः । BhNZ_16_107ab
सुकुमरार्थसंयुक्तं 1सौकुमार्यं तदुच्यते ॥ BhNZ_16_107cd
[ABh]

``विलुलितमकरन्दा मञ्जरीर्नर्तयन्तो''
अत्र र इति शब्दो न्दशबं स्वगुरुत्वायापेक्षते, न इत्ययंशब्दो य इत्ययं च न्ते शब्दं च, नो इत्ययं च न्ते गुरुत्वात् । स्वविश्रान्तिजनितकालोपचयलभ्यं गुरुत्वं नाकांक्षतीति द्वितीयपादपाठं समनन्तरमेवापेक्षते ।
``विलुलितमधुधारा मञ्चरीर्लोलयन्तः''
इति पाठे धाशब्दो लोशब्दो तिशब्दश्च जात्यापेक्षत इति । स तदेव गाढत्वमुच्यते निबिडावयवतैव समासेन संक्षेपेण युक्तानि पदानि यत्रार्थभूयानिति संक्षेपो नामार्थगुण ओजः ।
ओजस्वी किमतो ऽपि भूयः समाक्षिपति, तथा एकमपि वस्तु उदारैर्बहुभिः पदैरुपनिबध्यते विस्तरात्मकत्वमप्योजो ऽर्थगुणः । संक्षेपो यथा ---
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः स्वमुद्ययुः ॥ (कुमा-6-13)
विस्तरस्तु
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ट्यूतमैशम् । (रघु 2-75)
सौकुमार्यमाह --- सुखप्रयोज्यैरिति । क्वचित्पदस्य स्वयं पारुष्यं भवति यथा द्राढा अजड्ढा निर्दैवतं†, सदृक्त्वव्यवसितिः, इति । क्वचित्संहिता --- दर्व्याख्यार्वीविधूयते । तदुभयरहितत्वं सौकुमार्यं शब्दगुणः । यथा --- ``गाहन्ता''मित्यादि । अत्र च यद्वक्तव्यं तत्समाधिलक्षणे निर्णीतम् । परुषे ऽपि चार्थे सुकुमारेणार्थेन या संपत्तिस्तदर्थगुणः सौकुमार्यमपारुष्यरूपम्, एकाकिनि देवतासहाय इति, मृते यशःशेष इति, जडे देवानांप्रिय इति ।

[(मू)]

1. द॰ सुकुमारं ।

[(व्या)]

निदानं निर्द्वैतं --- इति वामनः ।

[page 341]




[NZ]

सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । BhNZ_16_108ab
या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ BhNZ_16_108cd
[1यस्यार्थानुप्रवेशेन मनसा2 परिकल्प्यते ॥ BhNZ_16_109ab
अनन्तरप्रयोगस्तु सार्थव्यक्तिरुदाहृता3(*) ॥ ] BhNZ_16_109cd
दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । BhNZ_16_110ab
अनेकभावसंयुक्तमुदारत्वं4 प्रकीर्तितम् ॥ BhNZ_16_110cd
[ABh]

अर्थव्यक्तिमाह --- सुप्रसिद्धाभिधानेति, प्रसिद्धमभिधानमभिधाव्यापारो यस्यां काव्यक्रियायां सार्थव्यक्तिः शब्दगुणः । यथा ``गाहन्ता''मिति । विपर्यये तु किरातादिनिदर्शनं यच्चार्थे वर्ण्यते स तथैव लोके प्रसिद्ध इत्यर्थस्य गुणो ऽर्थव्यक्तिः । यथा ---
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां
राजीभिरञितमलक्तकलोहिनीभिः ।
गोरोचनाहरितबभ्रुबहिःपलाशम्
आमोदते कुमुदमम्भसि पल्वकस्य ॥
उदारतामाह --- दिव्यभावपरीतं यदिति । यत्र मानुषोचितमपि दिव्यतया करुणादियुक्तमपि शृङ्गारेण विस्मयस्थानमप्यद्भुतेन युक्तं वर्ण्यते तद्गतैर्वा विभावानुभावादिभिः तदुदीर्य तत्रौदार्यमर्थगुणः । एतदेवाग्राम्यत्वमित्यन्यैरुक्तम् । ग्राम्यं हि वस्तु यथास्थितमयोजितरचनाविशेषं प्रसिद्धमात्रप्रमाणमुच्यते, ततो ऽन्यदग्राम्यम् । यथा ---
त्वमेवंसौन्दर्या स च रुचितायाः परिचितः
कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वां
अतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया ॥ इति ।
यत्राद्भुतेन यत्कृतो ऽर्थः अनेकभावसंयुक्तमिति शब्दगुणस्य लक्षणम्, एकभाषाचित्रत्वादनेकताचित्रत्वं पदान्तस्यैकस्यानेकव्यक्तिरक्षरसंख्यावैचित्र्यं सन्धानसाजात्यं च

[(मू)]

1. द॰ यस्यार्थो

2. द॰ मनसः

3. ड॰ उदाहृता, ढ॰ प्रकीर्तिता

4. च॰ उदारं तत् ।

* हेमचन्द्रेणायमेव पाठो ऽनूदितः ।

[(व्या)]

[page 342]




[NZ]

[अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः1 BhNZ_16_111ab
2उपेतमतिचित्रार्थैरुदात्तं तच्च कीर्त्यते ॥ ](*) BhNZ_16_111cd
3यन्मनःश्रोत्र4विषयमाह्लादयति हीन्दुवत्5 BhNZ_16_112ab
6लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ BhNZ_16_112cd
[ABh]

पिण्डीबन्धनृत्तसादृश्येन, तत्र हि गुल्मजातशृङ्खलितादिभेद्देनेत्थंभूतो नर्तकीसंनिवेशो भरते तदुक्तं विकटत्वं निरीनृत्यमानत्वमिति पदानामौदार्यमिति । यथा ---
स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां
झटिति रणितमासीत्तत्र चित्रं कलं च ॥
अत्र प्रथमपादे एकाक्षरत्र्यक्षरचतुरक्षरमिति विचित्राणि पदानि, रेफे तद्द्वितीयपदाक्रमणाद्व्याप्तिः, तकारयोः सन्धानात्सन्धिसाजात्यं, तकारसकारयोः संस्थाननयैर्नैकट्यं च । विपर्ययस्तु ---
``चरणकमललग्नैर्नूपुरैर्नर्तकीनां झटिति रणितमस्सिन्मञ्जु चित्रं च तत्र''
अत्र द्वे अपि पदे त्र्यक्षरे । तावेवेदं भाषिँतविचित्रत्वम् । यथा ---
``अथ यदि तव वक्त्रं चण्डि भूयो ऽपि नाम''
इति न हृद्यं ``रणितमासीन्मञ्जु चित्रं च तत्र'' इति तकारमकारयोरसाजात्यं सकारमकारयोश्च संस्थानत्वमिति ।
कान्तिमाह --- यन्मनः श्रोत्रविषयमिति । यन्मनोविषयमाह्वादयति यथा शृङ्गारविभावरूपं लीलादिचेष्टालङ्कारसुन्दरं काव्यार्थरूपं तत्कान्तिगुणयुक्तं तदेव दीप्तरसत्वमित्युक्तमन्यैः ‡ । विभावादीनां दीप्तत्वमिति यावत् । यथा ---

[(मू)]

1. द॰ संज्ञितैः

2. द॰ उपेतमनतिग्राह्यैरुदारं

3. ड॰ यो मनःश्रोत्रविषयः

4. द॰ जननं

5. ड॰ प्रसादजनको भवेत्, न॰ प्रह्लादजननं भवेत्, द॰ प्रह्लादजननं तथा

6. ड॰ शब्दबन्धो ऽत्र योगेन स कान्त इति भण्यते, न॰ शब्दबन्धार्थयोगेन तत्कान्तिरिति भण्यते । द॰ शब्दतत्त्वार्थसंयोगे तत्कान्तिरिति कीर्त्यते ।

* ``बहुभिः सूक्ष्मै(क्तै?)श्च विशेषैः समेतमुदारत्वमिति भरतः'' इत्युदाहरता हेमचन्द्रेणायमेव पाठो गृहीतः ।

वामनभोजादिभिः ।

[(व्या)]

[page 343]




[NZ]

एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः । BhNZ_16_113ab
प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ BhNZ_16_113cd
लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् । BhNZ_16_114ab
काव्यं कार्यं तु 1नाट्यज्ञैर्वीररौद्राद्भुताश्रयम् । BhNZ_16_114cd
गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा । BhNZ_16_115ab
कदाचिद्वीररौद्राभ्यां 2यदाधर्षणजं भवेत् ॥ BhNZ_16_115cd
3रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् । BhNZ_16_116ab
शृङ्गारे तु रसे कार्यं मृदुवृत्तं तथैव च4 BhNZ_16_116cd
[ABh]

प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्यात्मना ।
तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो
धारित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥
अत्र हीर्ष्यानुभावस्य, रत्यनुभावस्य, औत्सुक्यानुभावस्य च दीप्तत्वमित्यर्थगुणः श्रोत्रविषयीभूतमिव यदाह्लादि काव्यं तत्कान्तिर्नाम शब्दगुणः ।
कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः ---
अत्र हि सामासवत्यपि रचना [न] श्रोत्रेन्द्रियैकतानतामावहति । तदेतल्लोके मधुरकाव्यमिति प्रसिद्धम् । माधुर्यमभ्यस्तपदत्वमुक्तम् । अन्ये त्वौदार्यकान्त्योर्लक्षणद्वयं विपर्यासेन पठन्ति ।
एतदुपसंहरति --- एवमेत इति । चकाराच्छन्दांसि वृत्तानि जातयश्च । एषामिति [नि]वृत्तच्छन्दः प्रभृतीनां दोषान्तानाम् । अनित्यदोषा हि विनियुज्यन्ते ऽपीत्युक्तम् ।
लघ्वक्षरप्रायेति यत्र अतनुवाही चित्तवृत्तिपरिस्पन्दः, तत्र लघ्वक्षरप्रधानं वृत्तं वीरादावुपमारूपके, मसृणवाहिनि तु हृदयस्पन्दे गुर्वक्षरप्रायं करुणादौ । रौद्रादावपि कदाचित्तद्भवति । यदा विलम्ब्य परखलीकारं

[(मू)]

1. द॰ शास्त्रज्ञैः

2. ढ॰ यथा

3. सार्धं श्लोको, द॰ मातृकायां न वर्तते ।

4. ड॰ काव्यं स्यान्नाटकाश्रयम् ।

[(व्या)]

[page 344]




[NZ]

उत्तरोत्तरसंयुक्तं वीरे1 पाठ्यं तु यद्भवेत् । BhNZ_16_117ab
जगत्यातिजगत्या तु संकृत्या चैव योजयेत्2 BhNZ_16_117cd
3युद्धसंफेटयोस्तज्ज्ञैरुत्कृतिः संप्रकीर्तिता । BhNZ_16_118ab
करुणे शक्वरी चैव4 तथा चातिधृतिर्भवेत्5 BhNZ_16_118cd
यद्वीरे कीर्तितं छन्दस्तद्रौद्रे ऽपि प्रयोजयेत् । BhNZ_16_119ab
शेषाणामर्थयोगेन छन्दः कार्यं प्रयोक्तृभिः । BhNZ_16_119cd
6यच्छन्दः पूर्वमेवोक्तं विषमार्धसमे समम् ॥ BhNZ_16_120ab
7उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ BhNZ_16_120cd
शब्दानुदारमधुरान् प्रमदाभिधेयान्8 9नाट्याश्रयासु कृतिषु प्रयतेत कर्तुम् । BhNZ_16_121ab
तैर्भूषिता विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः ॥ BhNZ_16_121cd
[ABh]

स्मृत्वा ब्रतीति ``कर्ता द्यूतच्छलानां'' इति तथा ``यो यः शस्त्रं बिभर्ति'' इत्यादौ । अत एव भयानके हास्ये शान्ते वा यथायोगं संवेदनस्पन्दताचर्व्यमाणस्वाद्यताश्चर्यकृतो विभागो वृत्तानां मन्तव्यः । (*)उदारमधुरैरिति । औदार्यं शब्दगुणो दीप्तेषु प्राधान्येन तदनुयायि च गुणान्तरं माधुर्यं, स्वानुयायिगुणसंहितमसृणेषु रसेषु । अर्थगुणास्तु यथायोगं सर्वत्र, तदाह प्रमदाभिधेयैरिति ।

[(मू)]

1. ड॰ काव्यं

2. ड॰ तद्भवेत्

3. ड॰ तथैव युद्धसंफेटावुत्कृत्यां संप्रकीर्तितौ, न॰ तथैव युद्धसंस्फोटावुत्कृत्यां संप्रकीर्तितम्

4. ड॰ ज्ञेया

5. द॰ स्मृता

6. द॰ ये चार्थाः, ड॰ ये बन्धाः पूर्वमुद्दिष्टा विषमार्धसमा समा ।

7. ड॰ उदारशब्दैर्मधुरैः कार्यास्ते ऽर्थवशानुगाः

8. न॰ प्रमदाभिनेयान्

9. ड॰ नाट्याश्रान्, ड॰ नाट्याश्रितान् ।

[(व्या)]

* अयं श्लोको भ॰म॰योर्विना सर्वासु मातृकासु ह्रस्वदीर्घाद्यक्षरनिरूपणानन्तरमेव वर्तते । सर्वत्र ``शब्दानुदारमधुरान् प्रमदाभिधेयान्'' इति द्वितीयान्तपाठ एव विद्यते न तु तृतीयान्तः ।

[page 345]




[NZ]

त्रिविधं ह्यक्षरं1 कार्यं कविभिर्नाटकाश्रयम् । BhNZ_16_122ab
2ह्रस्वं दीर्घं प्लुतं चैव 3पदबन्धसमाश्रयम्4 BhNZ_16_122cd
एकमात्रं भवेद्ध्रस्वं द्विमात्रं दीर्घमुच्यते । BhNZ_16_123ab
प्लुतं चैव त्रिमात्रं स्यादक्षरं वर्णसंश्रयम्5 BhNZ_16_123cd
स्मृते चासूयिते चैव तथा च परिदेविते । BhNZ_16_124ab
पठतां ब्राह्मणानां च प्लुतमक्षरमिष्यते ॥ BhNZ_16_124cd
आकारस्तु स्मृते कार्य 6ऊकारश्चाभ्यसूयिते । BhNZ_16_125ab
परिदेविते च हाकार ओंकारो ऽध्ययने तथा7 BhNZ_16_125cd
ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । BhNZ_16_126ab
8काव्यबन्धेष्वशेषेषु ह्यक्षराणि प्रयोजयेत् ॥ BhNZ_16_126cd
चेक्रीडितप्रभृतिभिर्विकृतैश्च शब्दै9र्युक्ता न भान्ति ललिता भरतप्रयोगाः । BhNZ_16_127ab
10यज्ञक्रियेव रुरुचर्मधरैर्घृताक्तैर्वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ BhNZ_16_127cd
[ABh]

प्रमदो हर्षः हर्षजनको गुणसाकल्यवानभिधेयो ऽर्थो येषां भावार्थो हृदयगतो ऽभिप्रायः क्रियाविशेषश्च तं दर्शयति स्मृते चेत्यादि । एतदेव च क्रमेण विभजति आकार इत्यादि । द्वावेतावनुस्वारेणानुनासिक्येन वा युक्तौ कार्यौ आण्डदण्डादि । ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्यबन्धेष्वषेशेष्विति वचनादन्यत्र विषये दूराहूत्यादिषु प्लुत उक्तः तत्रासौ प्रयोज्य एवेति दर्शितम् । चेक्रीडितं यङन्तम् । आदिग्रहणेन ण्यन्तसमन्ताः (सन्नन्ताः?) ।

[(मू)]

1. ड॰ काव्ये विज्ञेयं

2. न॰ प्लुतं ह्रस्वं च दीर्घं च

3. ड॰ रसभावविभावकम्

4. ड॰ इष्यते

5. ड॰ स्वरयोजनम्

6. च॰ हुंकारः

7. द॰ चाप्यधीतिनः

8. द॰ एतानि काव्ययोगेषु त्वक्षराणि निवेशयेत्, ड॰ काव्ययोगेषु सर्वेषु ह्यक्षराणि तु योजयेत् (न॰ पाट्य), च॰ काव्ययोगेष्वक्षराणि यथाशोभं निवेशयेत् ।

9. द॰ मुक्ता

10. ड॰ कृष्णाजिनाक्ष ।

[(व्या)]

[page 246]




[NZ]

[1मृदुललितपदार्थं गूढशब्दार्थहीनं 2जनपदसुखभोग्यं 3युक्तिमन्नृत्तयोज्यम् । BhNZ_16_128ab
बहुकृतरसमार्गं4 सन्धिसन्धानयुक्तं भवति 5जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ BhNZ_16_128cd


इति भारतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशो ऽध्यायः(6) ॥
[ABh]

एते नटोचिताः प्रयोगाः न भवन्ति । ते यतो ललिता यथा वेश्यापरिग्रहे द्विजैर्यज्ञक्रिया मृगाजिनदण्डकमण्डलुघृताभ्यङ्गादि संभवद्भिरपि न भाति । एवं तद्व्याख्याने रौद्रादिस्वविषये यत्पुरुषस्याभ्यनुज्ञानं तद्वियुक्तं स्यादितित्थं व्याख्या --- ललिताः सुकुमारप्रयोगास्ते परुषैः पदैर्न भान्तीति विशेषनिषेधः शेषाभ्यनुज्ञापक इति न्यायादन्यत्र तत्प्रयोग इत्युक्तं भवति । तथा हि --- ``वयोद्वितीयाः सरिति सगेश्चम(?)'' इत्येवमादिरपि विधिप्रयोज्य एव, ``आख्यातामर्षतर्ष्य'' इत्यादौ । एतदेव साधर्म्यवैधर्म्यद्वारेणोपपादयति वेश्या यथा मृगचर्मघृताभ्यङ्गदण्डादियुक्तैर्द्विजैर्न शोभते । वैधर्म्येण दृष्टान्तमाह यथा तैरेव यज्ञक्रिया भाति न तथा वेश्या तदङ्गत्वात् । बहुव्रीहेर्वा यज्ञक्रियापत्न्यप्युच्यत इति शिवम् ॥
इति षोडशमध्यायं ग्रन्थनिर्ग्रन्थिकं व्यधात् ।
यशोराशेर्यशोरागनाम्नो दौहित्रदेहजः ॥
इति महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां लक्षणालङ्कारदोषगुणाध्यायः षोदशः समाप्तः ॥

[(मू)]

1. अयं श्लोको न॰भ॰म॰आसु विना सर्वासु मातृकासु वर्तते, प्रक्षिप्त इव भावति

2. ड॰ बुधजन

3. ड॰ बुद्धि, प॰ नृत्ययोग्यम्

4. ड॰ रसकृतमार्गं

5. ज॰ सुकविकाव्यं नाट्यकाले मनोज्ञम्

6. च॰भ॰म॰संज्ञासु विना सर्वासु सप्तदशो ऽध्यायः, द॰ मातृकायामध्यायश्लोकसंख्या 128 आदितः 2618 ॥ इति च वर्तते ।

[(व्या)]

[page 347]




श्रीः
नाट्यशास्त्रम्
षोडशो ऽध्यायः ।

अनुबन्धः ।
[NZ]

भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा । BhNZ_16a_001ab
हेतुसंशयदृष्टान्ताः प्राप्त्यभिप्राय एव च ॥ BhNZ_16a_001cd
[ABh]

समस्तार्थालङ्कारवर्गस्य बीजभूतश्चमत्काराः कथाशरीरवैचित्र्यदायिनो वक्रोक्तिरूपा लक्षणशब्देन व्यवह्रियन्ते । लक्षणानि गुणालङ्कारमहिमानमनपेक्ष्य स्वसौभाग्येनैव शोभन्ते । लक्षणं महापुरुषस्य पद्मादिरेखादिवत्काव्यशरीरस्य सौन्दर्यदायि । अलङ्कारस्तु रत्नाभरणादिवदेव, येन विनापि स्वसौन्दर्येणैव पुरुषः प्रविभासते । गुणस्तु प्रवृत्तिद्योतितो धैर्यादिवत्काव्यस्य शब्दार्थरचनामाश्रयति । यथा लक्षणरहितः पुरुषो न सुन्दरशब्दवाच्यस्तथालक्षणवर्जं कथाशरीरं गुणालङ्कारोज्ज्वलमपि नीरसत्वं भजत्प्रौढकाव्याभिधानं नार्हति । कथाशरीरसंपन्नेषु काव्येष्वेव लक्षणानि निर्वर्त्यन्ते न तु मुक्तकादिषु खण्डकाव्येषु, अत एव `काव्यबन्धास्तु कर्तव्या' इति मुनिनैव मुक्तकादिवारणपरमुक्तम् । लक्षणान्यसंख्येयानि, तेषां चमत्कृतिविशेषगरिष्ठाणि षट्त्रिंशदेव मुनिना संगृहीतानि । कोहलादिभिस्तच्छिष्यैः प्रकीर्तितान्यपराणि कानिचिल्लक्षणत्वेन प्रसिद्धिमुपगतानि कालप्रवाहे भरतग्रन्थ एव पाठान्तरनिबन्धरूपेण प्रक्षिप्तानि स्युः । सौन्दर्यजनकत्वकारणेन भोजादिभिरुभयपाठगतान्यपि लक्षणानि स्वीकृत्यान्यैरपि कैश्चिच्चमत्कृतिभूतैर्लक्षणैः सह चतुःषष्टित्वेन प्रकटितानि ।
यद्विवेचितमतिगम्भीरप्रौढवाचा भगवता वृत्तिकारेण लक्षणान्यसंख्यानीति तदुपष्टभ्यैव भिन्नपाठो ऽपि बालानां समुपवेद्य इत्यभ्यूह्य तन्मध्य एव संक्षेपेण प्रकाशितः ।
भूषणं लक्षयति --- अलङ्कारैरिति भरतोक्तैरुपमादिभिर्गुणैश्च यत्र कथाशरीररचना समुल्लासिता तद्भूषणं नाम लक्षणम् । चित्रार्थैरिति विभावादिसामग्रीप्रत्यायकतया

[(मू)]

[(व्या)]

[page 348]




[NZ]

निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् । BhNZ_16a_002ab
गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ BhNZ_16a_002cd
1दिष्टं चैवोपदिष्टं च विचारो ऽथ विपर्ययः । BhNZ_16a_003ab
भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ BhNZ_16a_003cd
अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च । BhNZ_16a_004ab
मनोरथश्च लेशश्च संक्षोभो गुणकीर्तनम् ॥ BhNZ_16a_004cd
[ABh]

रसोद्द्योतकैरर्थविशेषैः मतान्तरे वक्रोक्तिरूपैः । यथा कृत्यारावणे सप्तमे ऽङ्के कञ्चुकिनं दृष्ट्वा लक्ष्मणविभीषणौ --- आर्य, कथय कथय ।
काञ्चु --- का गतिः श्रूयतां --- आर्या खलु सीता रावणाज्ञया किङ्करोपनीतं भर्तुर्मायाशिरो .,अवलोक्य सखीभिराश्वास्यमानापि निवृत्तप्रयोजनापि `नाहमात्मानं क्लेशयामि' इति (इत्यर्धोक्तौ तिष्ठति)
सर्वे --- किं कृतवती
काञ्चु --- यन्न शक्यते वक्तुम् ।
शशित इव कला दिवावसाने कमलवनोदरमुत्सुकेव हंसी ।
पतिमरणरसेन राजपुत्री स्फुरितकरालशिखं विवेश वह्निम् ॥ इति ।
यथा वा रत्नावल्यां प्रथमे ऽङ्के यौगन्धरायणस्य वचनं विश्रान्तविग्रहेति श्लोकः । भूषणाख्यलक्षणेन काव्यं सामान्यवचसो भिद्यते, ``तात्पर्यमेव वचसि ध्वनिरेव काव्ये'' ``यत्रालङ्कारवर्गो ऽयं सर्वो ऽप्यन्तर्भविष्यति'' ``शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । द्वयोर्गुणत्वे व्यापारप्राधान्येकाव्यगीर्भवेत्'' ``द्वे वर्त्मनी गिरो देव्याः शास्त्रं च कविकर्म च । प्रज्ञोपज्ञन्तयोराद्यं प्रतिभोद्भवमन्तिमम्'' इत्यादिना भोजकुन्तलकभट्टनायकतोतादिभिरुक्तरीत्या गुणालङ्कारवर्गः सर्व एव लक्षणशब्देन परिगृहीतः । गुणालङ्कारैरेव यत्र कथारूपा वक्रोक्तिरतिशयिता तत्र भूषणम् । अक्षरसंघातो विविधश्लेषोक्त्या वा अक्षरविपर्यासेन वक्रोक्तिप्रत्युक्तिवैचित्र्यं यथा उभयाभिसारिकायां विटः --- भगवति वैशिकाचलो ऽहमभिवादये ।

[(मू)]

1. ड॰ दृष्टं ।

[(व्या)]

[page 349]




[NZ]

1ज्ञेयाभ्यनुक्तसिद्धिश्च प्रियं वचनमेव च । BhNZ_16a_005ab
षट्त्रिंशल्लक्षणान्येवं काव्यबन्धेषु निर्दिशेत् ॥ BhNZ_16a_005cd
अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् । BhNZ_16a_006ab
भूषणैरिव चित्रार्थैस्तद्भूषणमिति स्मृतम् ॥ BhNZ_16a_006cd
यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । BhNZ_16a_007ab
तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् । BhNZ_16a_007cd
सिद्धैरर्थैः समं कृत्वा ह्यसिद्धो ऽर्थः प्रयुज्यते । BhNZ_16a_008ab
यत्र श्लिष्टा विचित्रार्था सा शोभेति विधीयते ॥ BhNZ_16a_008cd
[ABh]

परिव्राजिका --- न वैशिकाचलेन प्रयोजनं, भवेद्वैशेषिकाचलेन ।
विटः --- अस्त्येतत्कारणं ... ... ...
परि --- षट्पदार्थबहिष्कृतैः सह संभाषणमस्मद्गुरुभिर्निरुद्धम् ।
विटः --- युक्तमेवैतत् । कुतः ---
द्रव्यं ते तनुरायताक्षि दयिता रूपादयस्ते गुणाः
सामान्यं तव यौवनं युवजनः संस्तौति कर्माणि ते ।
त्वय्यार्ये समवायमिच्छति जनो यस्माद्विशेषो ऽस्ति ते
योगस्ते तरुणैर्मनो ऽभिलषितैर्मोक्षो ऽप्यनिष्टाज्जनात् ॥
परि --- सांख्यमस्माभिर्जायते अलेपको निर्गुणः क्षेत्रज्ञः पुरुषः ।
विटः --- हन्त निरुत्तराः स्मः ।
यथा वा शाकुन्तले सप्तमे ऽङ्के ``तापसी --- सर्वदमन, शकुन्तलावव्यण्यं पश्य'' इत्यत्र शकुन्तलाशब्दः सूचितः ॥
शोभा --- सिद्धैः प्रयोजनैरसिद्धस्य शुभसंघटनं यत्र निर्णीयते सूच्यते वा श्लोषवक्तोक्तिध्वनिविशेषमहिम्ना चमत्कृतो ऽर्थः । केचित्स्वभावस्य प्रकटनमित्याहुः, अपरे तु यूनोः प्रभावप्रकटनमित्याचक्षते । अर्थप्रधाने वस्तुन्येषापरं शोभते । यथा रत्नावल्यां प्रथमे ऽङ्के यौगन्धरायणः (द्विपादित्यादि पठित्वा ) ``कः सन्देहः ।

[(मू)]

1. ढ॰ ज्ञेयाह्यनुक्त ।

[(व्या)]

[page 350]




[NZ]

यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । BhNZ_16a_009ab
साध्यते निपुणैरर्थस्तदुदाहरणं स्मृतम् ॥ BhNZ_16a_009cd
[ABh]

प्रारम्भे ऽस्मिन् स्वामिना वृद्धिहेतौ दैवेनेत्थं दत्तहस्तस्तावलम्बे ।
सिद्धे भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥
यथा वा कथाशरीरसंघटनवैचित्र्यरूपशोभाया अभिज्ञानशाकुन्तलायं मधुररप्रसक्तिः ।
परेषां दुर्भेद्यपरमार्थेन तुल्यार्थप्रयुक्तेन वाक्येन निगूढाशय कस्मैचिन्निपुणैर्यत्र प्रकाश्यते तदुदाहरणं, यथा देवीचन्द्रगुप्ते प्रावेशिकी ध्रुवा कुमारचन्द्रगुप्तस्य संशयाकुलमानसस्य प्रवेशावसरसूचकमर्थमुद्द्योतयति ---
एसो सिअकरवित्थरपणासिआसेसवेरितिमिरोहो ।
निअविहवरोणचन्दो गअणगिहं लंघिउं विसइ ॥
यथा वा प्रद्युम्नाभ्युदये तृतीये ऽङ्के ऽन्तर्नाटिकायां सूत्रधारवचनं ---
देव दनुजाधिप त्वां त्रिभुवनलक्ष्मीरिव स्वयंरागात् ।
अभिरूपमभिसृतवती नलकूबरमत्र नाटके रम्भा ॥
सामाजिकीभूतयोः सखीप्रभावत्योः सखी ``पिअसहि एसो एव्व मग्गो मअणपरवसाणं इत्थिआणं'' इत्युपदिशति । अत्राभिसरणमेव प्रद्युम्नसङ्गमोपाय इत्यर्थः साध्यते ।
हेतुः --- फलसाधनशक्तियुक्तं मितशब्दार्थं विचित्रभङ्ग्युक्तं वचनम् । यथा तापसवत्सराजे षष्ठे ऽङ्के कृतमरणनिश्चयां वासवदत्तां परिबोधयन्यौगन्धरायण आह --- देवि प्रसीद,
आसृष्टेः प्रतिपार्थिवं युवतयो जाता मनोवल्लभाः
मग्नास्ते व्यसनार्णवे च बहवस्ताभिः सहैवेश्वराः ।
देव्या यत्तु कृतं तदाविकलतामुत्सृज्य लोकोत्तरं
तस्यैषा कृपणोचितेन विधिना किं ग्लानिरुत्पद्यते ॥ इति ।
देव्यायत्कृतं तदिष्टार्थसाधनमेव अचिरेणैव शुभफलमनुभवसीति ।
संशयो ऽसमाप्तवाक्यत्वात्साधनीयविषयस्वरूपे सन्दिग्धावस्था । एषोऽर्थकामप्रधानेषु रूपकेषु निपुणं प्रयुज्यते । यथा कुन्दमालायां षष्ठे ऽङ्के रामायणकथावाचकौ कुशलवौ सीतावृत्तान्तं पठन्तौ ---

[(मू)]

[(व्या)]

[page 351]




[NZ]

यत्प्रयोजनसामर्थ्याद्वाक्यमिष्टार्थसाधनम् । BhNZ_16a_010ab
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ BhNZ_16a_010cd
अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते । BhNZ_16a_011ab
अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ BhNZ_16a_011cd
सर्वलोकमनोग्राही 1यस्तु पक्षार्थसाधकः । BhNZ_16a_012ab
हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ BhNZ_16a_012cd
[ABh]

सीतां निर्जनसंपाते चण्डापदसङ्कुले ।
परित्यज्य महारण्ये लक्ष्मणो ऽपि न्यवर्तत ॥
ततः प्राणैः परित्यक्ता निराशा जनकात्मजा ।
इति तूष्णींभवतः ।
रामलक्ष्मणौ ---
अप्रियाख्यानभीतेन कविना संहृता कथा ।
किमितः कल्याणमावेदयति । एवं तावदनुयोक्ष्ये (इति पृच्छतः) ।
संशयालङ्कारस्तु संशयाख्यलक्षणाद्भिन्नचमत्कारतया भिद्यते ।
संक्रुद्धस्य ललाटलोचनभुवा सप्तार्चिषा धूर्जटेर्
निर्दग्धे मकरध्वजे रतिरसौ किं स्याद्गृहीतव्रता ।
संवादाद्वनदेवता मुनिवधूवेषप्रपञ्चे मनः
कृत्वेत्थं रमते ऽत्र विग्रहवती किं वा तपश्श्रीरियं ॥
इत्यादिषु संशयो ऽलङ्कार एव न तु संशयाख्यलक्षणम् ॥
धर्माविरुद्धतया सर्वलोकमनोग्राहि वचनं निदर्शनोपष्टम्भं दृष्टान्तसंज्ञकं लक्षणम् । यथा धूर्तविटे --- ``स्त्रीषु प्रसङ्गो न कर्तव्यः'' इत्यत्र ``भावः किं पश्य''तीत्युक्ते ``विटः --- भोः उपदेशमात्रं खल्वेतत् । तमहं न पश्यामि यः स्त्रीषु प्रसङ्गं न गच्छेत्, श्रूयते हि महेन्द्रादयो ऽप्यहल्याद्यासु विकृतिमापन्नाः'' इति ।
यथा वा पद्मप्राभृतके स्वसोदरीप्रेयसो ऽनुयोगे संदिग्धमानसां देवसेनामाह शशः ---

[(मू)]

1. प॰ यःस्व, ड॰ यश्च ।

[(व्या)]

[page 352]




[NZ]

दृष्ट्वैवावयवान् कांश्चि1द्भावो2 यत्रानुमीयते । BhNZ_16a_013ab
3प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ BhNZ_16a_013cd
अभूतपूर्वो 4यो ह्यर्थः सादृश्यात्परिकल्पितः । BhNZ_16a_014ab
लोकस्य हृदयग्राही सो ऽभिप्राय इति स्मृतः ॥ BhNZ_16a_014cd
[ABh]

दक्षात्मजाः सुन्दरि योगतारः किं नैकजाताः शशिनं भजन्ते ।
आरुह्यते वा सहकारवृक्षः किं नैकमूलेन लताद्वयेन ॥ इति
प्राप्तिर्यथाकुन्दमालायां तृतीये ऽङ्के लक्ष्मणः कानिचित्पदचिह्नानि सैकते दृष्ट्वा राममाह ---
विलासयोगेन परिश्रमेण वा स्वभावतो वा निभृतानि मन्थरम् ।
पदानि कस्याश्चिदिमानि सैकते प्रयान्ति तुल्यं कलहंसविभ्रमम् ॥
रामः --- (निर्वर्ण्य सहर्षं) किमुच्यते कस्याश्चिदिति, ननु वक्तव्यं सीतायाः पदनीति । पश्य ---
समानं संस्थानं निभृतललिता सैव रचना
तदेवैतद्रेखा कमलरचितं चारुतिलकम् ।
यथा चेयं दृष्ट्वा हरति हृदयं शोकविधुरं
तथा ह्यस्मिन् देव्या सपदि पदपङ्क्तिर्विनिहिता ॥ इति ।
अभिप्रायः ---
अभूतपूर्व इत्यसत्पदार्थः केवलकल्पितः । केचित्स्वाद्यवस्तुन्यभिमान इत्याहुः तद्वैचित्र्यरहितत्वादुपेक्ष्यम् । यथा तापसवत्सराजे चतुर्थे ऽङ्के सांकृत्यायनी यौगन्धरायणोद्योगं विमृश्य प्रणिधिं प्राह ---
दूरमुदीर्णे च रिपावेवमकिञ्चित्करे च विजिगीषौ ।
भवता तु नयगुणशतैः सो ऽयमसूत्रं पटः क्रियते ॥ इति ।
यथा वा वत्सराजचरिते द्वितीये ऽङ्के चोरः ---
भूमिः कराग्रेण विवर्तिताद्य श्वासेन भग्नो हिमवान्महाद्रिः ।
आसारवृष्ट्या शमितो `निरौर्वो विनिर्हतः कीटशतैरनन्तः ॥ इति ।

[(मू)]

1. ढ॰ अवयवं किंचित्

2. प॰ यत्रोपमीयते

3. द॰ अप्राप्तिंचैवतां प्राप्तिं जानीयाल्लक्षणं बुधः, प॰ प्राप्तिन्नाम विजानीयात्, ड॰ प्राप्तिं तामपि

4. फ॰ अप्यर्थोयः ।

[(व्या)]

[page 353]




[NZ]

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । BhNZ_16a_015ab
1परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ BhNZ_16a_015cd
निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये2 BhNZ_16a_016ab
3यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ BhNZ_16a_016cd
बहूनां तु प्रधानानां4 नाम यत्राभिकीर्त्यते5 BhNZ_16a_017ab
अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ BhNZ_16a_017cd
[ABh]

निदर्शनं --- यथा उभयाभिसारिकायां ---
शान्तिं याति शनैर्महौषधिबलादाशीविषाणं विषं
शक्यो मोचयितुं मदोत्कटकटादात्मा जहेन्द्राद्वने ।
ग्राहस्यापि मुखान्महर्णवजले मोक्षः कदाचिद्भवेद्
वेशस्त्रीवडवामुखानलगतो नैवोत्थितो दृश्यते ॥
निरुक्तं --- यथा वत्सराजचरिते प्रथमे ऽङ्के भरतरोहकः राजानमाह --- प्रसह्य हरणे केवलं प्रसादिता ख्यातिः ।
राजा --- किमेतत् ।
भर --- स्वामिन् तत्राप्यहं वाच्यदोषं न पश्यामि । कुतः ---
नीता बलात्प्रकृतिभद्रतरा सुभद्रा यद्वासुभद्रभगिनी कपिकेतनेन ।
देवस्य तेन समभूद्वचनीयता किं तेजःप्रकाशयशसां यदुदन्तिनां वा ॥
शालं --- साधु, निरुक्तमभिहितं वसुवर्मणा ।
सिद्धिः --- प्रधानानां स्पृहणीयानां प्रयोजनान्तराणामतर्कितोपलब्धानां परिकीर्तनम् । यथा कौमुदीमहोत्सवे चतुर्थे ऽङ्के मन्त्रगुप्तवचनं ---
सङ्गतिश्चिरमचिन्तितपूर्वा निर्वृतप्रणयिनी मिथुनानाम् ।
आधिराज्यमधिरोहति तस्याः षोडशीमपि कलां न मघोनः ॥ इति ।

[(मू)]

1. न॰ परोपेक्षा, ढ॰ परपक्ष, द॰ पराक्षेप

2. द॰ अर्थः प्रसिध्यति

3. द॰ तदप्यागमसंभूतं निरुक्तमभिनिर्दिशेत्

4. ड॰ च प्रयुक्तानां

5. फ॰ अभिधीयते ।

[(व्या)]

[page 354]




[NZ]

सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते । BhNZ_16a_018ab
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ BhNZ_16a_018cd
गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः । BhNZ_16a_019ab
गुणातिपातो मधुरैर्निष्ठुरार्थै1र्भवेद्यथा2 BhNZ_16a_019cd
बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् । BhNZ_16a_020ab
विशेषः कीर्त्यते यस्तु ज्ञेयः सो ऽतिशयो बुधैः ॥ BhNZ_16a_020cd
[ABh]

विशेषणं --- यथा तापसवत्सराजे तृतीये ऽङ्के राजा विदूषकमाह --- अयि मूढ ---
वृत्तिर्मूलफलादिभिः क्षितितले शय्या जटाधरणं
वासो वल्कलमीदृशं कृतमिदं सामान्यमन्यैरपि ।
संवेगाभिभवे विमूढमनसा यन्नानुयाता प्रिया
तन्मिथ्यापरिबोधितेन न कृतं स्नेहानुरूपं मया ॥ इति ।
गुणातिपातो --- यथा धूर्तविटे विटः ---
जात्यन्धां सुरतेषु दीनवदनामन्तर्मुखाभाषिणीं
हृष्टस्यापि जनस्य शोकजननीं लज्जापटेनावृताम् ।
निर्व्याजं स्वयमप्यदृष्टजघनां स्त्रीरूपबद्धां पशुं
कर्तव्यं खलु नैव भोः कुलवधूकारां प्रवेष्टुं मनः ॥
अत्र कुलस्त्रीसमुचिता विनयलज्जादयो गुणा विपरीतार्थयोजिताः ।
अतिशयो विलक्षकुरुपतौ धृतराष्ट्रं प्रति भीष्मः ---
एतत्ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः
संप्रत्येव तु गोग्रहे यदभवत्ततावदाकर्ण्यताम् ।
एकः पूर्वमुदायुधैः स बहुभिर्दृष्टस्ततो ऽनन्तरं
यावन्तो वयमाहवप्रणयिनस्तावन्त एवार्जुनाः ॥ इति ।
तुल्यतर्को --- यथा वत्सराजचरिते ऽष्टमे ऽङ्के राजा ---
नवार्कभापल्लवितामलोदरे सुगन्धिरेणूत्करकेसरोज्ज्वले ।
रसामृतज्ञो भ्रमरः सरोरुहे किमर्कपुष्पे प्रणयं करिष्यति ॥ इति ।

[(मू)]

1. फ॰ निष्ठुरार्थो

2. ड॰ अथ

[(व्या)]

[page 355]




[NZ]

रूपकैरुपमाभिर्वा 1तुल्यार्थाभिः प्रयोजितः2 BhNZ_16a_021ab
3अप्रत्यक्षार्थ4संस्पर्शस्तुल्यतर्कः प्रकीर्तितः5 BhNZ_16a_021cd
बहूनां 6तु प्रयुक्तानां 7पदानां बहुभिः पदैः । BhNZ_16a_022ab
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ BhNZ_16a_022cd
यथादेशं यथाकालं यथारूपं8 च वर्ण्यते । BhNZ_16a_023ab
यत्प्रत्यक्षं परोक्षं वा 9दृष्टं तद्वर्णतो10 ऽपि वा ॥ BhNZ_16a_023cd
[ABh]

पदोच्चयो यथा वत्सराजचरिते षष्ठे ऽङ्के राजोत्तमसचिवं वर्णयति ---
खड्गो रक्षान्धकारे रविरतिमिरे कार्यभारेषु धुर्यः
दीपो मन्त्रान्धकोर सुरगुरुरनये सङ्क्रमो व्यापदोधे ।
उत्कण्ठायां सभागी गतिरनवसरे चन्दनं शोकतापे
संक्षेपान्मानुषाभो हितशिवसुखदो भव्यचिन्तामणिर्मे ॥
दृष्टं प्रत्यक्षं यथा मालविकाग्निमित्रे ---
वामं सन्धिस्तमितवलयं न्यस्य नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतितरां कान्तमृज्वायताक्षम् ॥ इति ।
परोक्षं यथा पादताडितके मदनसेनायां वर्णनं ---
उत्क्षिप्तालकमीक्षणान्तगलितं कोपाञ्चितान्तभ्रुवा
दष्टार्धोष्ठमधीरदन्तकिरणं प्रोत्कम्पयन्त्या मुखम् ।
शिञ्जन्नूपुरया विकृष्य विगलद्रक्तांशुकं पाणिना
मूर्धन्यस्य सनूपुरः स मदया पादो ऽर्पितः कान्तया ॥ इति ।

[(मू)]

1. ड॰ उपमानैर्वा

2. ड॰ प्रयोक्तृभिः

3. ड॰ अप्रत्ययार्थ

4. द॰ संस्पृष्टः

5. द॰ इतिस्मृतः

6. द॰ संप्रयुक्तानां

7. ड॰ पादानाम्

8. फ॰ पात्रं

9. फ॰ दिष्टं

10. द॰ वर्णको ।

[(व्या)]

[page 356]




[NZ]

परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । BhNZ_16a_024ab
1विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ BhNZ_16a_024cd
2पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः । BhNZ_16a_025ab
3अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ BhNZ_16a_025cd
विचारस्यान्यथाभावस्तथादृष्टोपदिष्टयोः4 BhNZ_16a_026ab
सन्देहाज्जायते यत्र5 स विज्ञेयो विपर्ययः ॥ BhNZ_16a_026cd
[ABh]

उपदिष्टं यथाविमारके प्रथमे ऽङ्के राजा ---
धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुध्या
प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ कालयोगेन कार्यौ ।
ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं
रक्ष्यो यत्रादिहात्मा रणशिरसि पुनः सो ऽपि नावेक्षितव्यः ॥ इति ।
यथा वा तन्त्रान्तरविषये धूर्तविटे ---
शून्ये वासं प्रमर्द्य द्विरद इव लतां यो हरयाशु नारीं
मत्तां वा यो विदित्वा ह्यभिभवति शनै रञ्जयन्वाक्यलेशैः ।
अन्यं कृत्वोपधिं वा छलयति कुरुते भावसङ्गूहनं वा
तस्यैतच्चेष्टितं भो न भवति विफलं वामशीला हि नार्यः ॥ इति ।
प्रवृत्तार्थानुसारि परोक्षार्थसाधकं बहूपायोपाधिदर्शनं वाक्यं विचारः ---
यथा मुद्राराक्षसे पञ्चमे ऽङ्के राक्षसवाक्यं ---
साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं
व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये ।
यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च यत्
तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥
अथवा विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजपैरापूर्णमिति न विकल्पितुमर्हामि ॥ इति ।

[(मू)]

1. द॰ विदुर्मनोहरं

2. द॰ पूर्वशेष

3. द॰ तिरस्कृतार्थविषयो, फ॰ अनेकोपाय

4. द॰ दिष्टोपदिष्टयोः, ड॰ दृष्टोपयोगतः, न॰ उपदृष्टयोः

5. ड॰ कल्प्यते यस्तु ।

[(व्या)]

[page 357]




[NZ]

वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा । BhNZ_16a_027ab
अन्यस्मिन्नेव पतनादाशुभ्रंशः स इष्यते1 BhNZ_16a_027cd
उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः2 BhNZ_16a_028ab
3अर्थस्य साधकश्चैव विज्ञेयो ऽनुनयो बुधैः ॥ BhNZ_16a_028cd
[ABh]

विपर्ययो यथा रावणं प्रति सचिवः ---
उदर्कसिद्धिमिच्छद्भिः सद्भिर्न खलु दृश्यते ।
चतुर्थीचन्द्रलेखेव परस्त्रीफालपट्टिका ॥
रावणः ---
परस्त्रीकुचकुम्भेषु कुम्भेषु वरदन्तिनाम् ।
निपतन्ति न भीरूणां दृष्टयः शरवृष्टयः ॥
यथा वा मत्तविलासे शाक्यभिक्षुः --- परमकारुणिएण भअवदा ताहगएण पासादेसु वासो पज्जंकेसु सअणं पुव्वण्हे भोअणं ... एदेहिं उवदेसेहिं भिक्खुसङ्घस्स अणुग्गहं करन्तेण किं णु हु इत्थिआपरिग्गहो सुरापाणविहाणं अणादिट्ठं । अहवा सब्बञ्ञो एदंउणपेक्खदि । अवस्सं एदेहि दुट्ठबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजणाणं मच्छरेण पिडअपुत्थएसु इत्थिआसुरापाणविहाणाणि पळामुहानि इति तक्केमि ॥
भ्रंशो यथा वेणीसंहारे द्वितीये ऽङ्के कञ्चुकिनमाह दुर्योधनः ---
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥
कञ्चु --- (कर्णौ पिधाय सभयं) शान्तं पापं प्रतिहतममङ्गलम् ॥ इति।
अनुनयो यथा रामाभ्युदये द्वितीयाङ्के रामपराक्रमस्तुतिव्यग्रं मारीचमाह ---
रावणः --- आप्रतिपक्षपक्षपतिन् क्षुद्र राक्षसापशद ! किं बहुना ---
तवैव रुधिराम्बुभिः क्षतकठोरकण्ठस्तुतैः
रिपुस्तुतिभवो मम प्रशममेतु कोपानलः ।
सुरद्विपशिरस्स्थलीदलनदष्टमुक्ताफलः
स्वसुः परिभवोचितं पुनरसौ विधास्यत्यसिः ॥

[(मू)]

1. ड॰ इह भ्रंशः स उच्यते, फ॰ तद्भ्रंशितमिहेष्यते

2. ड॰ निविष्टयोः

3. द॰ द्व्यर्थस्य ।

[(व्या)]

[page 358]




[NZ]

1अभिप्रेतार्थसिद्ध्यर्थं कीर्त्यन्ते यत्र सूरिभिः । BhNZ_16a_029ab
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ BhNZ_16a_029cd
हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम्2 BhNZ_16a_030ab
क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम्3 BhNZ_16a_030cd
यत्र संकीर्तयन्दोषं4 गुणमर्थेन दर्शयेत् । BhNZ_16a_031ab
5गुणातिपाताद्दोषान्वा 6गर्हणं नाम तद्भवेत् ॥ BhNZ_16a_031cd
[ABh]

इति खड्गमाकर्षति । तदा प्रहस्तः (उभयोर्मध्ये निपत्य) --- प्रसीदतु प्रसीदतु, महाराज, नेदमनुरूपं स्वामिनः । देव ---
लोकत्रयक्षयोद्वृत्तप्रकोपाग्रेसरस्य ते ।
ईदृशश्चन्द्रहासस्य भृत्येष्वनुचितः क्रमः ॥ इति ।
माला यथा तापसवत्सराजे राजा ---
दृष्टा यूयं निर्जिता विद्विषन्तः प्राप्ता देवी भूतधात्री च भूयः ।
संबन्धो ऽभूद्दर्शकेनापि सार्थं किं दुष्प्रापं यन्न लब्धं भवद्भ्यः ॥ इति ।
दाक्षिण्यं यथा रत्नावल्यां द्वितीये ऽङ्के शीर्षवेदनव्याजेन गन्तुमुद्यतां वासवदत्तां पटान्तेन गृहीत्वा निरुन्धन् वत्सराजः ``प्रिये, प्रसीदेति ब्रूयाम्'' इत्यादि वदन्निष्क्रान्तायां प्रेयस्यां ``अलमरण्यरुदितेन'' इति ब्रुवन्तं विदूषकमाह --- ``मूढ ! न लक्षितस्त्वया देव्याः कोपः तत्सर्वथा देवीप्रसादनं मुक्त्वा नान्यमत्रोपायमाकलयामि । तदेहि देवीं प्रसादयितुमभ्यन्तरमेव प्रविशावः'' इति । अत्र राज्ञो ऽनुवर्तनं दाक्षिण्यम् ।
गर्हणं दोषस्य गुणीकृतत्वं(*) यथा धूर्तविटे ---
प्रणष्टा न व्यक्तिर्भवति वचसः सैव मृदुता
न रागो नेत्राब्जे त्यजति न च लज्जा व्यपगता ।
स्मृतिः प्रत्यायाता परिहृषितमद्यापि च मुखं
मदो दोषांस्त्यक्त्वा त्वयि परिणतस्तिष्ठति गुणैः ॥

[(मू)]

1. द॰ अनीप्सितार्थ, ड॰ ईप्सितार्थप्र

2. न॰ वर्णनम्

3. द॰ इतिस्मृतम्

4. न॰ दोषान्

5. प॰ गुणाभिवादात्

6. ड॰ दोषाद्वा ।

[(व्या)]

* अन्ये तु कुत्सेव क्रोधान्मानान्मत्सराद्वा गर्हणमित्याहुः

[page 359]




[NZ]

1अर्थान्तरस्य कथने यत्रान्यो ऽर्थः प्रतीयते2 BhNZ_16a_032ab
3वाक्यमाधुर्यसंपन्ना सार्थापत्तिरुदाहृता ॥ BhNZ_16a_032cd
वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः4 BhNZ_16a_033ab
लोकप्रसिद्धैर्बहुभिः5 प्रसिद्धिरिति कीर्तिता ॥ BhNZ_16a_033cd
[ABh]

गुणातिपाते दोषो यथा वत्सराजचरिते द्वितीये ऽङ्के विष्णुत्रातः ---
नृपाः प्रभुत्वात्प्रतिषेधवामा जिह्मो विधिस्तद्वशवर्ति कार्यम् ।
साचिव्यतो नापरमस्ति पुंसां विषाददुःखायशसां निदानम् ॥
यथा वा तापसवत्सराजे तृतीये ऽङ्के लामकायनः ---
पूर्वाह्णे कृतभोजनव्यतिकरान्नित्यैव नीरोगता
कण्डूतिर्वपनादपैति शिरसः स्नानं यदा रोचते ।
जात्याचारकदर्थनाविरहितं ब्राह्मण्यमात्मेच्छया
धूर्तैः सत्त्वहिताय कैरपि कृतं साधुव्रतं सौगतम् ॥
अर्थापतीर्यथा धूर्तविटे ---
आदष्टस्फुरिताधरे भवति यो वक्त्रारविन्दे रसः
प्रीतिर्या च हृतांशुके च जघने काञ्चीप्रभोद्द्योतिते ।
लक्ष्मीर्या च नखक्षताङ्कुरधरे पीने कपोले स्त्रियो
रक्तं तेन विरज्यते न हृदयं जात्यन्तरे ऽपि ध्रुवम् ॥
अत्र जन्मान्तरे ऽपि तस्या अनुरक्तिरनुवर्तत एवेत्युक्ते जमान्तरेष्वपि विरागो न प्रभवति तस्माद्भवबन्धविमुक्तिर्न स्यादित्यर्थापत्तिर्नाम लक्षणम् ।
प्रसिद्धिः --- प्रसाधकैः प्रकृष्टसाधकैः, प्रसिद्धैः पूर्वमेव सिद्धैः । यथा गदायुद्धे बलदेवः दुर्योधनमाह --- भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति ।
दुर्यो --- किं चाहं भीमसेनेन वञ्चितः ।
बल --- अथ केन भवानेवंविधः कृतः ।

[(मू)]

1. द॰ अन्यमर्थं समालोच्य

2. द॰ प्रकाश्यते

3. ड॰ वाक्यं माधुर्यसंयुक्तं

4. द॰ स्ववाक्यार्थप्रकाशकैः

5. द॰ वह्वर्थैः ।

[(व्या)]

[page 360]




[NZ]

यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । BhNZ_16a_034ab
1पृच्छन्निवाभिधत्ते ऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ BhNZ_16a_034cd
दृष्ट2श्रुतानुभूतार्थ3कथनादि समुद्भवम् । BhNZ_16a_035ab
सादृश्यं क्षोभजननं 4सारूप्यमिति संज्ञितम् ॥ BhNZ_16a_035cd
[ABh]

दुर्यो --- श्रूयतां
येनेद्रस्य च पारिजातकतरुर्मानेन तुल्यं हृतो
दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।
दीप्त्या भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियः
तेनाहं जगतां प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥
अत्र वाक्यार्थस्य साधका एव भगवतो विष्णोः पारिजाताहरणलीलावटपत्रशयनादयः । अन्ये तु प्रसादकैरलङ्कारिभिरिति गृह्नन्ति ।
पृच्छा शोकादिपरवशतयात्मानं वा परं वा परोक्षे संबोध्य पृच्छन्निवाभिधानम् । तन्नोत्तरमपेक्षिते तस्यैव प्रत्यायकत्वात् ।
यथा रामचरिते हनुमान् सीतां दृष्ट्वाह ---
स्थाने ऽवसीदसि रघूद्वह किं विधातः
अस्यास्त्वयेक्षितमलक्षणमङ्गकेषु ।
अद्यापि जीवसि दशानन हे हनूमन्
केयं तवाभिमुखवर्ति रिपोः प्रतीक्षा ॥ इति ।
सारूप्यं --- आदिशब्देन दर्शनश्रवणानुभवनान्युपलक्षितानि । अत्र रूपविभ्रान्त्या न क्षोभजननमेव लक्षणस्य चमत्कृतिः । यथा छलितरामे लक्ष्मणेन वध्वानीतो लवो रामयज्ञशालायां हिरण्मयीं सीतां दृष्ट्वाह --- ``अये कथमियमम्बा राजद्वारमागता'' इति सहसोत्थाय प्रणम्य तदनन्तरं काञ्चनमयीति निर्वर्ण्योपसृत्योपविशति ॥
यथा वा वेणीसंहारे --- दुर्योधनं हत्वागच्छन्तं भीमसेनं दुर्योधनमिति चार्वाकवार्तयैव भ्रान्त्वा धर्मसूनुस्तं गाढं गृहीत्वाह ...
आशैशवादनुदिनं जनितापराधो
मत्तो बलेन भुजयोर्हतराजपुत्रः ।
आसाद्य मे ऽन्तरमिदं भुजपञ्जरस्य
जीवन्प्रयासि न पदात्पदमद्य पापः ॥ इति

[(मू)]

1. द॰ पृच्छेत्प्रज्ञापयन्नर्थं, ड॰ पृच्छ्यते चाभिधत्ते चार्थं

2. द॰ श्रुतादि

3. ड॰ कथनाभिः

4. ड॰ जनितं ।

[(व्या)]

[page 361]




[NZ]

हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम्1 BhNZ_16a_036ab
अन्यापदेशैः2 कथनं मनोरथ इति स्मृतः ॥ BhNZ_16a_036cd
यद्वाक्यं 3वाक्यकुशलैरुपायेनाभिधीयते । BhNZ_16a_037ab
4सदृशार्थाभिनिष्पत्त्या5 स लेश इति कीर्तितः ॥ BhNZ_16a_037cd
[ABh]

मनोरथो यथा विकटनितम्भाप्रहसने विकतनितम्बाह
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुग्धाननामरजसं कलिकामकाले
बालां कदर्थयसि किं नवमालिकायाः ॥
अत्रात्मानमेव सुमनोलतात्वेनापदिशति ॥
लेशो यथाविमारके द्वितीये ऽङ्के धात्री नामकमाह --- अय्य किं चिंतीअदि
अविमारकः --- भवति शास्त्रं चिन्त्यते ।
धात्री --- किं णाम एदं रमणिज्जं सत्थं चिंतीअदि ।
अवि --- भवति योगशास्त्रं चिन्त्यते ।
धात्री --- (सस्मितं) पडिग्गहीदं मंगलवअणं, जोअसत्थं एव्व होदु ।
अवि --- को नु खलु वाक्यार्थः । अन्यदप्यभिलाषवशादन्यथा संकल्पयामि । इत्यादि ।
अन्ये तु लेख इति पठन्निङ्गितज्ञानाभिधानमिति च लक्षयन्ति ।
क्षोभो यथा रत्नावल्यां तृतीये ऽङ्के सागरिकैवेति मत्वा वासवदत्तामुपलालयतो राज्ञः सा स्वावकुण्ठनमपनीय वैलक्ष्यमुत्पादितवती ।
राजा (अञ्जलिं बध्वा) --- प्रिये वासवदत्ते, प्रसीद प्रसीद ।

[(मू)]

1. फ॰ सुश्लिष्टार्थप्रकाशकम्, न॰ गूढस्यार्थप्रकाशकम्

2. फ॰ देश

3. ड॰ वाद

4. फ॰ सादृश्या

5. द॰ निष्पन्नः ।

[(व्या)]

[page 362]




[NZ]

परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते1 BhNZ_16a_038ab
2अदृष्टो ऽन्यो ऽपि वा कश्चित्स तु क्षोभ इति स्मृतः ॥ BhNZ_16a_038cd
लोके गुणातिरिक्तानां 3गुणानां यत्र नामभिः । BhNZ_16a_039ab
एको हि4 शब्द्यते5 तत्तु विज्ञेयं गुणकीर्तनम् ॥ BhNZ_16a_039cd
प्रस्तावेनैव शेषो ऽर्थः कृत्स्नो यत्र प्रतीयते6 BhNZ_16a_040ab
[ABh]

वास(अश्रु निपातयन्ती) मा एव्वं भण । अण्णगदाइ एदाइ अक्खराइ ।
विदू --- भोदि, महाणुभावा खु तुमं ता क्खमीअदु दाव एक्को अवराहो पिअवअस्सस्स ।
वास --- णं पढमसंगमे विग्धं करन्तीए मए जेव्व एदस्स अवरद्धं ण अज्जपुत्तस्स ।
अन्ये तु ``आत्मन्यभूत तद्भावभावन'' मिति, परे ``त्वन्यगते हेतावन्यस्मिन् कार्यकल्पन''मिति च लक्षयन्ति ॥
गुणकीर्तनं यथा वत्सराजचरिते चतुर्थे ऽङ्के शालङ्कायनः --- नीलनागव्यपदेशेन समन्ततः शस्त्रप्रभाभासुरैरस्मद्योधैः परीतेन महति भयस्थाने विगतसंभ्रमं ---
तेन प्रोक्तं धैर्यगाम्भीर्यशौर्यप्रज्ञातेजोनीतिदाक्षिण्यगर्भम् ।
वाक्यं सामाद्यं सोर्जितं श्रोत्ररम्यं शास्त्रीकर्तव्यं तद्बुधैः स्वार्थकामैः ॥
भरतरोहकः --- एष संक्षिप्तविस्तरो नाम ।
राजा --- ततस्ततः ---
शाल --- देव, यस्तस्य युद्धे महति प्रवृत्ते पराक्रमः साहसलाञ्चनः सः प्रद्युम्नरामार्जुनभीमकर्णसम्बाभिमन्युष्वविचिन्त्य एव ॥ इत्यादि
राजा --- अहो नु खलु स्वभावसिद्धानां गुणानामव्यभिचारिता । कुतः ---
अविदित इति नैकधा प्रयत्नाद्बहुदिवसं बहुधापरीक्षमाणः ।
द्विगुणमभिविराजते गुणैः स्वैर्मणिरिव जातिविशेषवान्महार्हः ॥

[(मू)]

1. द॰ चाभिधीयते

2. द॰फ॰ अदुष्टो

3. द॰ बहूनां

4. ड॰ अपि

5. न॰ शप्यते, द॰ अभिगद्यते

6. द॰ प्रदीयते ।

[(व्या)]

[page 363]




[NZ]

वचनेन विनानुक्तसिद्धिः1 सा परिकीर्तिता ॥ BhNZ_16a_040cd
यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः । BhNZ_16a_041ab
हर्षप्रकाशनार्थं तु प्रियोक्तिरुदाहृता ॥ BhNZ_16a_041cd
2एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि । BhNZ_16a_041ab
3प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक्प्रयोज्यानि यथारसानि4 BhNZ_16a_041cd
[ABh]

सिद्धिर्यथा तापसवत्सराजे यौगन्धरायणो डोलायितचित्तां वासवदत्तामाह ---
कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां
जानास्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदर्वात्र मे
वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् ॥
यथा वा तत्रैव द्वितीये ऽङ्के विनीतभद्रो देवीप्रस्थानं वर्णयन्नाह ---
मामुद्दिश्य तथा देव्या बाष्पसंरुद्धकण्ठया ।
आर्यपुत्रं प्रतीत्युक्तं वक्तव्यं न समाहितम् ॥
प्रियोक्तिर्यथा वत्सराजचरिते सप्तमे ऽङ्के भरतरोहको वत्सराजाय वासवदत्तां वीणाभ्यासार्थमर्पयितुकामस्तं दृष्ट्वाह ---
यो शेते कौस्तुभस्य द्युतिकिसलयिते शारदव्योमनीले
विष्णोर्वक्षस्युदरे रजनिकराकारहारोपहारे ।
साभ्येत्यालिङ्गतु त्वां प्रशिथिलगलितेनोत्तरीयेण लक्ष्मीर्
हर्षादापीडयन्ती नवकमलरजोरोचनाभ्यां स्तनाभ्याम् ॥ इति
(एवमेव श्रव्यप्रबन्धेष्वपि कथाशरीरसंविधानसंभाषणवैदग्ध्यरूपः कविव्यापारो लक्षणाख्यो द्रष्टव्यः ।)
इति षोडशाध्यायानुबन्धः समाप्तः ।

[(मू)]

1. ड॰ जातु सिद्धिः

2. ड॰ वै काव्यविभूषणानि, फ॰ काव्यस्य विभूषणानि

3. ड॰ काव्येषु सोदाहरणानि

4. ड॰ बलानुरूपम्, न॰ रसानुरूपम् ।

[(व्या)]

[page 364]




श्रीः
नाट्यशास्त्रम्
सप्तदशो ऽध्यायः (*)

[NZ]

1एवं तु संस्कृतं पाठ्यं मया प्रोक्तं समासतः2 BhNZ_17_001ab
5प्राकृतस्य तु पाठ्यस्य संप्रवक्ष्यामि लक्षणम् ॥ BhNZ_17_001cd
[ABh]

यदान्तररसास्वादकाकुविश्रान्तिसुन्दरम् ।
रसाक्षपक्षगं वन्दे तद्वपुः पारमेश्वरम् ॥
चतुर्दशाध्याये वाचिकोक्तक्रमे संस्कृतं प्राकृतं च वाक्यमित्युक्तम् । तत्र संस्कृतप्रसङ्गेन छन्दोवृत्तलक्षणादि निरूपितम् । अनेन त्वध्यायेन प्राकृतस्य स्वरूपं निरूप्यते । शास्त्रप्रसिद्धसंस्कृतविपरीतप्राकृतप्रसङ्गेन नामधेयिभागरूपरूपणं शास्त्रविहितानां विपरीतरूपत्वात्, नाट्यसमयपातिनो भावमारिषादिनामसमूहस्य पठनधर्माश्च प्राकृते ऽपि किमन्यथा संस्कृतवद्वेति चिन्तायां प्रसङ्गेन कार्यस्वरूपं निरूपितम् । दशरूपकनिर्णयानन्तरं समुचितनिर्णयमपि तथा ---
अलङ्कारा विरामाश्च ये पाठे संस्कृते मताः ।
त एव यत्नतः कार्याः स्त्रीपाठ्ये ऽपि च संस्कृते ॥ (17-133)
इत्यध्यायोपान्ते प्राकृतपाठ्यमेवोपसंहरिष्यामीत्यध्यायसङ्गतिः । एतामेव दर्शयति एवं तु संस्कृतमित्यादि । पाठविशेषमर्हति, यत्नेन वा पठनीयं, विशिष्टेन रूपेण वा पठनार्हं आन्तरचित्तवृत्तिवशादेव वा तथा पठितुं शक्यं,

[(मू)]

1. द॰र॰ एतत्तु, भ॰ पाठ्यं तु संस्कृतं विप्राः

2. ड॰ द्विजोत्तमाः

3. ज॰ प्राकृतस्यापि

[(व्या)]

* ज॰आदि ब॰अन्तेषु र॰ संज्ञके चाष्टादशो ऽध्यायः । अस्मिन्नध्याये प्राकृतलक्षणपाठः सर्वेष्वेवादर्शेषु सर्वाबद्धमयः । न॰ य॰ योरेव तेषां साधिष्ट इति वृत्तिकारेण दत्तानां प्रतीकानां च संवादबहुलत्वाच्च तयोः पाठ एव मूलरूपेण निवेशितः । प्राकृतलक्षणश्लोकानां व्याख्यानसापेक्षत्वादग्रे ऽनुबन्धरूपेण संक्षेपेण टीका योज्यते ।

[page 365]




[NZ]

एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । BhNZ_17_002ab
विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ BhNZ_17_002cd
त्रिविधं तच्च1 विज्ञेयं नाट्ययोगे2 समासतः । BhNZ_17_003ab
समानशब्दं विभ्रष्टं3 देशीगतमथापि च4 BhNZ_17_003cd
5पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा6 BhNZ_17_004ab
7कमलामलरेणुतरङ्गलोल8सलिलादिवाक्यसंपन्नम् ॥ BhNZ_17_004cd
प्राकृतबन्धेष्वेवं9 10संस्कृतमपि योगमुपयाति । BhNZ_17_005ab
ये वर्णाः 11संयोगस्वरवर्णान्यत्वमूनतां चापि12 BhNZ_17_005cd
[ABh]

आचार्ययत्नेन वा पठनीयमिति पाठ्यम् । तत्र प्राकृतस्य सामान्यलक्षणमाह (संस्कारेति) संस्कृतमेव संस्कारगुणेन यत्नेन परिरक्षारूपेण वर्जितं प्राकृतं, प्रकृतेरसंस्काररूपाया आगतम् ।
नन्वपभ्रंशानां को नियम इत्याह नाना यान्यवस्थान्तराणि देशविशेषास्तेष्वात्मा नियतस्वभावो यस्यां, देशविशेषेषु प्रसिद्ध्या नियमितमित्येव संस्कृता एव वाचकाः अनुमानात्त्वन्ये ये त्वन्यत्वे प्रसिद्धिं गता इत्युक्तम् । अवतिष्ठन्ते ऽन्यस्मिन्नित्यवस्थाः देशाः । संस्कृते समे ऽपि प्रातिपदिके विभक्तौ भवितव्यं विपर्यासेन स्वरेण वा देशीपदमपि स्वरस्यैव प्रयोगावसरे प्रयुज्यत इति तदपि प्राकृतमेव, अव्युत्पादितप्रकृतेस्तज्जनप्रयोज्यत्वात् प्राकृतमिति केचित् । संस्कृतेन समानशब्दानुदाहरति कमलामलेति । विभक्तौ लिङ्गस्य प्राकृते स्वातन्त्र्यादवश्यं भेदेन भाव्यमित्याह वाक्ये समासोपपन्नं योजितम् । एतत्परिज्ञानस्य फलमाह एवं संस्कृतमपि योगमिति । भाषाश्लेषे पताकास्थानकादौ चास्य प्रयोग उक्तः । अपिशब्देनेदमाह प्राकृतप्रयोगे समासे ऽपि न संस्कृतसमतेति कमल अमल इन्दु इत्यादौ ।

[(मू)]

1. भ॰ तत

2. भ॰ नाट्ययोगं

3. च॰ शब्दैर्विनष्टं

4. द॰ वा

5. इदं श्लोकार्धं भ॰म॰योरेव वर्तते

6. भ॰ तथा

7. भ॰ कमलदलरेणुकेसरतरङ्गसलिलादि

8. द॰ जलादि, न॰ सलीलादि, ट॰ झडित्फसंपदम् (?)

9. भ॰ एतत्

10. ज॰ संयुक्तं, द॰ संस्कृतमिव

11. च॰ संयुक्ता

12. च॰ वापि ।

[(व्या)]

[page 366]




[NZ]


1यान्त्यपदादौ प्रायो 2विभ्रष्टांस्तान्विदुर्विप्राः । BhNZ_17_006ab
3ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः ॥ BhNZ_17_006cd
तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि । BhNZ_17_007ab
(4)यथा ---
5एओआरपराणिअ 6अं आरपरं अ7 8पाअए णत्थि । BhNZ_17_007cd
वसआरमज्झिमाइ910 11कचवग्गतवग्गणिहणाइं ॥ 12 BhNZ_17_007ef
[ABh]

विभ्रष्टमाह ये वर्णा इत्यादि । एतदेव प्रपञ्च्यते 'एओआरपराणि अ' इत्यादिना । एकारात्परः ऐ, ओकारात्पराः औ, ऐकारैकारौ च, येभ्यस्तानि (च) । कियन्ति आह पाअए पादसंख्यया चत्वारीत्यर्थः ऋ ॠ ऌ ॡ । अंकारपरो विसर्जनीयः । वसकारयोर्मध्ये शषौ । (कचवग्गोति) कचतवर्गाणां

[(मू)]

1. च॰ गच्छन्ति पदन्यस्तास्ते विभ्रष्टा इति ज्ञेयाः

2. ढ॰ प्रभ्रष्टा

3. म॰ मातृकायामेव विद्यते ऽयं श्लोकः

4. द॰ड॰योर्नास्ति

5. ``ए ओ आर'' इत्यादिलक्षणश्लोकानां स्थाने भ॰संज्ञकादर्शे गद्यरूपः पाठभेदो यथा --- क ख घ त थ ध भ सा हत्वं यान्ति, यथा --- फळिह, मुह, मेह, वसहि, रह, दहि, सोहा, दिअहेसु । शषौ सकारौ भवतः, यथा ससंकं विसमेषु । टतदा डत्वं यान्ति, यथा --- विड, पडि, अदण्डासु । ट ठ ड द य रा लत्वं यान्ति, यथा --- विअ लालिअ तुल पवितला विहलयदीसु । थकारो ढत्वं प्राप्नोति बुड्डो । नकारो भवति णकारः, यथा --- णयणं । पकारो फत्वं याति बत्वं च । यथा फरुसं कबहंच । धकारः ढत्वं याति, यथा वढि । लकारो रत्वं याति यथा किर । ट ठौ डत्वं प्राप्नुतः । यथा सढः फडमं, पलिअँं । तजौ यत्वं प्राप्नुतः कयं धयं । श च ज त द प य वाः स्वरशेषा भवन्ति, यथा --- पिउण, पउप, राइ, वई, णई, कइ, दइआ, जयेसु ।

योगं याति, यथा --- अच्छरिअं उच्छाहो, अच्छरसा, (पथ्यं) पच्छं । तुभ्यं तुज्झं, सह्यं -सज्झं, विन्ध्यो विज्झो ।

श्लक्ष्णं --- सह्णं ।

ग्रीष्मो --- गिह्मो । दृष्टो --- दिट्ठो । हस्तो --- हत्थो । यक्षो --- जक्खो । ब्रह्मा --- बह्मा । बृहस्पतिः --- वुहप्पइ । यज्ञो --- जन्नोत्ति ।

एवमेतन्मया प्रोक्तं किञ्चित्प्राकृतलक्षणम् ।

शेषं देशीप्रसिद्धं च ज्ञेयं विप्राः प्रयोगतः ॥

6. ड॰ अकार, न॰ अंकार

7. ड॰ च

8. र॰ पाइए

9. द॰ गज्झिआइ, ड॰ मंसिमाइ, प॰ मंरि सआइ, ज॰ युaंखुआइ

10. र॰ व

11. ड॰ तवर्ग तवर्ग, ढ॰ कच्चवग्ग

12. ड॰ गणाइ ।

[(व्या)]

[page 367]




[NZ]

1वच्चंति कगतदयवा2 3लोपं 4अत्थं च से वहंति 5सरा । BhNZ_17_008ab
5खघथधभा उण 7हत्तं उवेंति अत्थं अ मुंचंता8 BhNZ_17_008cd
9उप्परहुत्तरआरो हेटाहुत्तौं अ पाअए णत्थि । BhNZ_17_009ab
10मोत्तूण भद्रवोद्रह पद्रह्रदचन्द्रजाईस ॥ BhNZ_17_009ab
[ABh]

अन्त्यवर्णाः ङ ञ न इति द्वादशवर्णा न सन्ति । (कगेति) कगादयो लुप्यन्ते तदीयश्चार्धः, स्वराणामेव । (खघेति) खादीनां हत्वं, खेट, परिघ, अथ, धान्य(भाव्यादीनां) व्यञ्जनस्य न भवति ।
``ए ओ आर '' इत्य्यादिगाथानां छाया ---
एओकारपराणि च अंकारपरं च पादसंख्यया(प्राकृते) नास्ति ।
वसकारमध्ये च, कचवर्ग तवर्ग निधनानि ॥
प्राप्नुवन्ति कगतदयवा लोपं, अर्धं च तेषां वहन्ति स्वराः ।
खघथधभाः पुनः हत्वमुपेयन्ति अर्धं च मञ्चमानाः ॥

[(मू)]

1. प॰ वंचति खगतजगदाव, ज॰ वञ्चतिकगतगदावा, ड॰ वच्छति कटतदवयवाः, ढ॰ वच्छतिकगतदवयवाः द॰ वक्कन्ति कगतदयवा

2. न॰ पा

3. न॰ लोपः, प॰ लोम, ढ॰ लोप, द॰ लौवं

4. ड॰ अथच

5. ड॰ वहदि, ग॰ वहत्ति

6. प॰ ज॰ खघधभउण, ड॰ खघघुधः उणइ

7. प॰ भधंत अंगअवं चंता । र॰ हत्तं उवंति अत्थ अ मुंचंता, द॰ हत्तं च अत्थं समुंचंता । ड॰ हत्त उषति अ अमुच्चत्ता, ढ॰ हत्तं वेंति अत्थं अमुंचंता, ज॰ उईति अग्ग अमच्चता

8. क॰ मुंघना

9. प॰ इंपर अत्तरआरोहं रे भत्ततो अ वा अएणंधि । न॰ उप्पा हतरयारो हेटाहुत्तो अपाअएणत्थि । द॰ उप्परहुत्तर आरो हेट्ठाहुत्तो अप्पाणत्थि । ढ॰ उरउरआरो हेठाहुंतो अपाअएणंथि । ड॰ उच्चर उरआरो हेणण हत्तो अपाणत्थि । ढ॰ उरउरआरो हेठाहुंतो अपाअएणंथि । ड॰ उच्चर उरआरो हेणण हत्तो अवाअएणत्थि । च॰ उद्यरहुत्तरसासौहेहाफुत्तप्लय्यायएणत्थि । ग॰ उच्चरहुतरसासोहेहा हुत्त प्लपयापणच्छि । र॰ डप्परहुतुर अरोहद्धा हुस्त आपइएणात्थि । ज॰ इंपरउंतर आरोहें रे भुंक्तो अवाअएणंधि ।

10. द॰ मोत्तूण भद्रवो द्रहगद्रद्रह ... द्रजा ... सु । ण॰ मोन्ताण भादृवोद्रव भद्रचिंद जईसु । र॰ मो णभद्रवोडहमडडह इन्द्र जइ सु । न॰ मोत्तूणभुदावो दहददहचंद्रजाईसु, य॰ मोत्तूणभद्रवोद्रहपद्रद्रहचंद्रजाईसु । ढ॰ मोहूणभ्रभ्रवे भ्रवरुभ्रुट्टगचन्द्रराईसु, ढ॰ मांभूषणभूभूऔभूवरुभूद्रुहचन्द्राईसु । ज॰ मोंतूण भाद्रवोद्रवभद्रचन्द्रजाईसुं । च॰ मोत्तूणवंइदोद्रहपउजइसु ।

[(व्या)]

[page 368]




[NZ]

खघथधभाण हआरो मुहमेहकहावहूपहूएसु1 BhNZ_17_010ab
2कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होइ ॥ BhNZ_17_010cd
3छ इति षकारो नित्यं बोद्धव्यः षट्पदादियोगेषु । BhNZ_17_011ab
4किलशब्दान्त्यो रेफो भवति तथा खुत्ति खलुशब्दः5 BhNZ_17_011cd
6ड इति च भवति टकारो भटकटककुटीतटाद्येषु । BhNZ_17_012ab
सत्वं च भवति शषयोः सर्वत्र यथा विसं संका7 BhNZ_17_012cd
[ABh]

उपरिस्थो ऽधःस्थो वा रकारः प्राकृते नास्ति(?)।
मुक्त्वा भद्र चोद्रह ह्राद द्रह चन्द्र धात्री शब्देषु ।
खघथधभानां हकारो(यथा) मुख, मेघ, कथा, वधू, प्रभूतेषु ।
कगतदयवानां नित्यं द्वीतीये स्थितः स्वरो भवति ॥

[(मू)]

1. प॰ सुहिक्खेसु, न॰ सरिसेसु खघथषधभाण हयानेमुह (मेह) कहापहुमुरिच्छेसु । ग॰ सुरिच्छेसु, ज॰ मुहुरादौ

2. र॰ कगतदयवाण णिच्च वि इअम्मि ठिओ सरो होइ । ड॰ कगतिदवाण अणिच्चलोपजमपिओसरो होइ । य॰ कगतदयपाण, द॰ कगतदपवाण णिच्चं विइअमिठिअ सरो होई । ज॰ कगनदजवाणणिचलोपम्मि ठं ओसरोहोइ । च॰ कगतदजवारमणिच्चं वीयन्ति डिउ सरो होइ ।

3. च॰ छे इति षकारो नित्यं बोद्धव्यः षट्पदादियोगेतु, ज॰ च इतिचकारो नित्यं बोद्धव्यः षट्पदेतु । द॰ इत्तिथआरो नित्यं बोद्धव्यः षट्पदादियोगेतु, र॰ छ इतिषआरो नित्यं बोधव्यः अपदादियोगेतु । ड॰ हृषिउषिति षकारो नित्यं बुधजनैस्तु बोद्धव्यं षट्पदानि योग्येतु ।

4. द॰ किलशब्दान्तो रेफो भवति तथा खुत्ति खलुशब्दः, ड॰ कृतिशब्दोरेफान्तेन भवन्ति तथा पुत्रिखलुशब्दः, र॰ किलं शब्दो कोरे भवति तदा खुत्ति खलुशब्दः । न॰ खिलशब्दाद्योरेफो

5. ग॰ खुत्तिखिलशब्दः, ढ॰ भवति तथात्ति खलुशब्दः । च॰ भवन्ति तथा खु निखलशब्दः

6. द॰ ड इति भवति टकारो भटकटककुटी कुटावटाद्येषु, र॰ त इति च भवति टकाते भटकटकुटीकुटावडाद्येषु । न॰ ड इति च टकारो भटकटककुटीतटाद्येषु, ड॰ ड इति भवति टकारो भटकुटकुटितटाद्येषु, य॰ ड॰ इति भवति टकारो कटकटक ... ... । च॰ ड इति च भवति टकारो नडकटुकुटीतडाष्वेषु, ग॰ ड इति च भवति टकारो नटकटुटीतटाद्येषु

7. र॰ विससंका, द॰ विसं संकं, य॰ यथाहि विस संका, च॰ यथा हि विससंका, ड॰ तथापि ससकादेशः, ढ॰ तथापि ससकादेः साः ।

[(व्या)]

[page 369]




[NZ]

अस्पष्टश्च दकारो भवन्त्यनादौ तकार इतराद्यः1 BhNZ_17_013ab
2बडबातडागतुल्यो भवति डकारो ऽपि च ककारः3 BhNZ_17_013cd
4वर्धनगते च भावे धकारवर्णो ऽपि ढत्वमुपयाति । BhNZ_17_014ab
सर्वत्र च प्रयोगे भवति 5नकारो ऽपि च णकारः ॥ BhNZ_17_014cd
आपानं5 आवाणं भवति पकारेण वत्वयुक्तेन6 BhNZ_17_015ab
7अयथातथादिकेषु तु थकारवर्णो व्रजति धत्वम् ॥ BhNZ_17_015cd
8परुषं फरुसं विद्यात्पकारवर्णो ऽपि फत्वमुपयाति । BhNZ_17_016ab
9यस्तु मृतः सो ऽपि मओ 10यश्च मृगः सो ऽपि हि तथैव ॥ BhNZ_17_016cd
11ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः । BhNZ_17_017ab
12प्रचलाचिराचलादिषु भवति चकारो ऽपि 13तु यकारः ॥ BhNZ_17_017cd
[ABh]

भद्रादिषु न भवति । अपिच चोद्रहह्रददुःखजादीनामिति । अत्रोदाहरणानि मुखं मुहं इत्यादिकानि । अनादौ स्थाने टकारो डकारश्च अस्पष्टो लघुप्रयत्न उच्चार्यः येन क्रमाद्दकारश्च लकाराच्छायौ भवतः । यथा उदरं उदलं तथैवेति ।

[(मू)]

1. ड॰ इतराद्ये, न॰ य॰ इतराद्याः

2. द॰ वडवा, र॰ वडवाडडाग, ड॰ थडबडवा ... ... अपि लकारः

3. च॰ वनवतोनागतुल्ये भवन्ति डकारो ऽपि च लकारम् ।

4. र॰ वर्धनगते च भावे वकारवर्णो ऽपि टत्वमुपयाति, ड॰ वधमधुशब्दे च तथा धकारवर्णौ हकारतां याति । च॰ शटपाटपीठिआदिषु(ट)कारवर्णो ऽपि टत्वमुपयाति, ड॰ वधमधुशब्दे च तथा धकारवर्णो हकारतां याति । च॰ शटपाटपीठिआदिषु(ट)कारवर्णो ऽपि ठत्वमुपयाति, ग॰शठपाठपीठिकादिषु ठकारवर्णो ऽपि

5. च॰ मेकारो ऽपि च णकारः

6. द॰ र॰ नत्वयुक्तेन, ढ॰ आवाणं आधाणं भवति वकारेण च धयुक्तेन ।

7. र॰ अयथादिकेषु तु धकारवर्णो व्रजति पत्वम् । ड॰ अयथातथादिषु केषु थकारवर्णो हत्वम् । र॰ अयथातथादिकेषु च

8. र॰ परुषं हरुसं विद्यात्पकारवर्णो ऽपि हत्वमुपयाति, ड॰ परुषं हरुसं, च॰ परुषाणा

9. र॰ यस्तु मृतःसो ऽपि मटो, द॰ यस्तु मृतःसो ऽपि न उ, च॰ यस्तु मृतः सो ऽपि मओडियस्तु शृतः सो ऽपि मऔ यस्तुमृगः सो ऽपि तथैव ।

10. ड॰ यस्तु

11. र॰ औकारत्वमु (त्वंग) च्छन्ता कारश्चौषधादिषु

12. ड॰ प्रचयाचिर, न॰ प्रचलायिताचल, द॰ प्रचलाषिताचलादिषु

13. द॰ च

[(व्या)]

[page 370]




[NZ]

अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः । BhNZ_17_018ab
संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ BhNZ_17_018cd
1श्चप्सत्सथ्याः छ इति तथा भ्यह्यध्या भवन्ति तु झकाराः2 BhNZ_17_019ab
3ष्टः ट्ठः, स्तः त्थः, ष्मो म्ह, क्ष्णो ह्णः, ष्णो ण्हः, क्षः खकाररूपो ऽपि ॥ BhNZ_17_019cd
4आश्चर्यं अच्छरियं5 निश्चयमिच्छन्ति णिच्छयं च यथा6 BhNZ_17_020ab
7वत्सं वच्छं च यथा8 अप्सरसं तद्वदच्छरअं । BhNZ_17_020cd
उत्साहो उच्छाहो पथ्यं पच्छं च विज्ञेयम् । BhNZ_17_021ab
तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विंज्झोत्ति9 BhNZ_17_021cd
दष्टो दट्ठोत्ति तदा हस्तो ऽपि च भवति हत्थोत्ति । BhNZ_17_022ab
ग्रीष्मो गिम्होत्ति 10तथा श्लक्ष्णं सह्णं11 सदा तु विज्ञेयम् ॥ BhNZ_17_022cd
[ABh]

अपरस्परनिष्पन्ना इत्यन्योन्यमाश्लिष्टा अंसयोगरूपा इत्यर्थः । यत्र संयुक्तास्तेषामिति षष्ठीबहुवचनम् । क्रमेण स्वयमुदाहरति वच्छो इयादि । (विपरीत इति) ब्रह्मा बम्हावत् हत्वमिति, उपरिगतो ऽधस्तादिति शक्रं अर्कः (इति) द्वितीयं संयुज्यमानमपास्य स उपरिगत एव चादेशः क्रियते सक्को अक्को । मुनिना च दिग्दर्शिता, विस्तारविजिज्ञासुः प्राकृतदीपिकादिकमवलोकयेत् ।

[(मू)]

1. श्लोकार्धं द॰ संज्ञके नास्ति । च॰ झप्सश्चः छ इति तथा राज्ञै तु त्तकारयोग उपयातः (?) तच्छो अच्छरपच्छस्येचसंसंझाह्यसचसझौ(?)

2. न॰ व्रजति वै झत्वम्

3. च॰ ष्टो ट्टो स्ताबः शेषो लक्ष्मक्ष्मो ह्ण क्ष्णः खकाररूपो ऽपि । प॰ ष्टः ष्ठः स्थः त्थः ष्म ह्म क्षोह्णः खकाररूपो हि । न॰ स्त त्थ ष्ठो ट्ठः ष्मो म्ह क्ष्णोह्ण क्षो क्ख इति चैव स्यात् । द॰ ष्टः ष्ठ स्तः त्थः ष्मो ह्मः क्ष्णो ह्णः क्ष्णः ख इति चैव स्यात् । र॰ श्चत्सथ्याः छ इत्यह्णव्याम्वा ? भवन्ति तु झकाराः । यूष्टस्तः त्थः भ्याह्यः क्ला । ष्टाः ह्णक्षः ख इति चैव स्यात् (?)

4. ड॰ आश्चर्यामात्सर्यतं

5. न॰ अच्छय्यं

6. च॰ णिच्छयंत्ति तथा

7. इदं श्लोकार्धं ड॰च॰द॰र॰मातृकासु न विद्यते

8. य॰ तथा

9. र॰ विंज्झन्ति, ड॰ विंझोन्ति, द॰ विन्ध्यस्यविज्झत्ति

10. इ॰ गिम्ह इति द॰ गिम्हत्ति

11. र॰ सण्हं तु सदा ।

[(व्या)]

[page 371]




[NZ]

1उष्णं उह्णं यक्षो जक्खो पल्लंकु भवति पर्यङ्को । BhNZ_17_023ab
विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम्2 BhNZ_17_023cd
यज्ञो भवति च जन्नो3 भीष्मो 4भिम्होत्ति विज्ञेयः । BhNZ_17_024ab
उपरिगतो ऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ॥ BhNZ_17_024cd
5स हि संयोगविहीनः शुद्धः कार्यः प्रयोगे ऽस्मिन् । BhNZ_17_025ab
6एममेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ॥ BhNZ_17_025cd
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम्7 BhNZ_17_026ab
भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः8 BhNZ_17_026cd
संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते । BhNZ_17_027ab
9अतिभाषार्यभाषा च जातिभाषा तथैव च ॥ BhNZ_17_027cd
तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता10 BhNZ_17_028ab
[ABh]

उत्पलविरचितायां च सूत्रवृत्तौ पद्धतौ च स्फुटं पूर्णं च सर्वमस्तीति तत्रादरः कार्यः ॥
संस्कृतप्राकृतरूपैव भाषा वक्तुभेदाच्चतुर्धा संपन्नेति दर्शयति संस्कृतं प्राकृतं च पाठ्यमिति । संस्कृतैव भाषा स्वरभेदादिपूर्णसंस्कारोपेता संस्कृतभाषा भाषाभेदानामुक्ता वैदिकशब्दबाहुल्यादार्यभाषातो विलक्षणत्वमस्या इत्यन्ये ।

[(मू)]

1. ड॰ कृष्णं कह्णं च भवेद्यक्षो जक्खो पल्लंकपर्यङ्के । द॰ उष्णं च भवेदुह्णं यक्षो जक्खोति योह्णश्च भवति पल्लङ्क ... । य॰ उष्णं च भवेदुह्णं यक्षो जक्खो त्ति पर्यन्तम् । ब्रह्मा च भवति ब्रम्हो वृहस्पतिर्वै बुहष्फई भवति

2. र॰ हत्वम् ।

3. ड॰ यज्ञश्च भवति जह्णो , र॰ जण्हो, द॰ यण्णो

4. प॰ भिह्यत्ति, र॰ भीह्म इति

5. य॰ स तु ।

6. भ॰

एवमेतन्मया प्रोक्तं किंचित्प्राकृतलक्षणम् ।

शेषं देशीप्रसिद्धं च ज्ञेयं विप्राः प्रयोगतः ॥

पाठ्यमेतत्तु विज्ञेयं संस्कृतं प्राकृतं तथा ।

ड॰ एवमेव तु

7. द॰ समाश्रयम्

8. भ॰ रूपेषु योक्तृभिः, द॰ रूपप्रयोगतः

9. ग॰ अभिभाषा

10. भ॰ भाषा वे नाटकाश्रयाः । ड॰ नाट्यप्रकीर्तिता ।

[(व्या)]

[page 372]




[NZ]

1अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् ॥ 2 BhNZ_17_028cd
3संस्कारपाठ्यसंयुक्ता सम्यङ्न्याय्यप्रतिष्ठिता4 BhNZ_17_029ab
5द्विविधा जातिभाषा च प्रयोगे समुदाहृता ॥ BhNZ_17_029cd
6म्लेच्छशब्दोपचारा च7 भारतं वर्षमाश्रिता8 BhNZ_17_030ab
अथ योन्यन्तरीभाषा 9ग्राम्यारण्यपशूद्भवा ॥ BhNZ_17_030cd
नानाविहङ्गजा चैव नाट्यधर्मीप्रतिष्ठिता10 BhNZ_17_031ab
जातिभाषाश्रयं11 पाठ्यं द्विविधं समुदाहृतम् ॥ BhNZ_17_031cd
प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम्12 BhNZ_17_032ab
धीरोद्धते सललिते13 धीरोदात्ते तथैव च ॥ BhNZ_17_032cd
धीरप्रशान्ते च तथा14 पाठ्यं योज्यं तु15 संस्कृतम् । BhNZ_17_033ab
16एतेषामपि सर्वेषां 17नायकानां प्रयोगजम्18 BhNZ_17_033cd
कारणव्यपदेशेन प्राकृतं संप्रयोजयेत् । BhNZ_17_034ab
[ABh]

पशुपक्षिप्रभृतीनां यद्रुतं तत् नाट्यप्रयोगे कुत्राप्यवसरे संभाव्यमित्याह नाट्यधर्मीति । उपचारो व्यवहारः । कारणव्यपदेशेनेति अवस्थादिवशात् यथा --- अर्जुनस्य बृहन्नलारूपेण प्रच्छन्नस्य कारणान्याहरते ।

[(मू)]

1. द॰ सत्यादिभाषा देवानामार्यभाषा तु भूभुजाम् । च॰ अभिभाषा

2. य॰ भाषेति कीर्तिता, भ॰ भाषैव सा स्मृता

3. भ॰ संस्कारगुणसंपन्ना

4. ड॰ न्यायप्रतिष्ठिता, द॰ राज्ये प्रतिष्ठिता, च॰ नाट्यप्रतिष्ठिता, न॰य॰ संयुक्ताः ... प्रतिष्ठिताः । भ॰ सप्तद्वीपप्रतिष्ठिता

5. च॰द॰ विविधा

6. भ॰ म्लेच्छदेशप्रयुक्ता च

7. य॰ न॰ चाराच्च

8. भ॰ द॰ तथा भारतसंश्रया, ड॰ आश्रिताः

9. च॰ ग्रामारण्य

10. द॰ य॰ नाट्यधर्मप्रयोगतः, ड॰ नाट्यधर्मीप्रयोगतः, भ॰ धर्मे प्रतिष्ठिता, च॰ प्रयोगजाः

11. भ॰ आश्रितं

12. द॰ चातुर्वर्ण्यादिसंश्रयम्

13. च॰ भ॰ धीरललिते

14. भ॰ शान्तके चैव

15. च॰

16. च॰ ढ॰ एषामेव न॰ ग॰ ड॰ एषामेव च

17. भ॰ गायकानां

18. ड॰ प्रयोगतः, न॰ प्रयोगजा ।

[(व्या)]

[page 373]




[NZ]

1दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च ॥ BhNZ_17_034cd
ऐश्वर्येण प्रमत्तानां2 दारिद्र्येण प्लुतात्मनाम्3 BhNZ_17_035ab
4अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ BhNZ_17_035cd
5व्याजलिङ्गप्रविष्टानां6 श्रमणानां7 तपस्विनाम् । BhNZ_17_036ab
भिक्षुवक्रचरणां8 च प्राकृतं संप्रयोजयेत् ॥ BhNZ_17_036cd
9भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु । BhNZ_17_037ab
स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ BhNZ_17_037cd
परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च14 BhNZ_17_038ab
11शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ BhNZ_17_038cd
12राज्ञ्याश्च गणिकायाश्च शिल्पकार्यास्तथैव च । BhNZ_17_039ab
13कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् ॥ BhNZ_17_039cd
[ABh]

ऐश्वर्येणेति श्रुताध्ययनशून्यत्वमनेन लक्ष्यते । क्रीडापीत्यन्ये । व्याजलिङ्गं ये प्रविष्टा जीविकाद्यर्थम् । चक्रचरा ये चक्रेण जीवन्ति । भागवता इह देवलकाः । उत्तमग्रहैः देवगन्धर्वादिभिराक्रान्तानां संस्कृतभाषेत्यभिप्रायेणाह नीचग्रहेति । नीचग्रहैः पिशाचादिभिरुपसृष्टेषु स्वीकृतेष्विति । नीचजातयश्चण्डालाद्याः । चोक्षा भागवतविशेषा, ये एकायना इति प्रसिद्धाः । लिङ्गस्था यतिप्रभृतयः । शिल्पकारिकाः कलासु विदग्धाः । राज्ञः स्त्री महादेवीरूपा उपचाराद्राजशब्दवाच्येति ``अन उपधा लोपिन'' इति ङीपि राज्ञी

[(मू)]

1. द॰ सार्धः श्लोको नास्ति । म॰ मातृकायामेवेदं श्लोकार्धम् ।

2. च॰ प्रमत्तस्य

3. च॰ प्लुतस्य च, ढ॰ दारिद्र्येणाप्लुतस्य च

4. न॰ य॰ उत्तमस्यापि पठतः (च॰ ब्रुवतः) प्राकृतं संप्रयोजयेत्, ड॰ उन्मत्तस्यापि पठतः प्राकृतं संप्रयोजयेत्

5. द॰ ऋतुलिङ्ग

6. ड॰ प्रतिष्ठानां

7. च॰ ड॰ श्रवणानां

8. द॰ न॰ चक्रधराणां, ग॰ चक्रचरणानां

9. अस्य श्लोकस्थाने भ॰ म॰ योर्विना सर्वेषु पाठो यथा --- बाले ग्रहोपसृष्टे व स्त्रीणां स्त्रीप्रकृतौ तथा । नीचे मत्ते सलिङ्गे च प्राकृतं पाठ्यमिष्यते । (ग॰ बालग्रह)

10. भ॰ मुख्येषु ब्राह्मणश्रोत्रियादिषु । म॰ चौक्ष्येषु ... ॥

11. न॰ द्विजा

12. भ॰ देव्याश्च य॰ राज्ञश्च

13. न॰ कार्यावस्था ।

[(व्या)]

[page 374]




[NZ]

सन्धिविग्रहसंबन्धं 1तथा च 2प्राप्तवाग्गतिम् । BhNZ_17_040ab
ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ BhNZ_17_040cd
सर्वमेतत्तु3 विज्ञेयं 4काव्यबन्धे शुभाशुभम् । BhNZ_17_041ab
नृपत्न्या5 स्मृतं तस्मात्काले पाट्यं तु संस्कृतम् ॥ BhNZ_17_041cd
क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् । BhNZ_17_042ab
7कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ BhNZ_17_042cd
8कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च9 BhNZ_17_043ab
निर्दिष्टं शिल्पकार्यास्तु10 नाटके संस्कृतं वचः ॥ BhNZ_17_043cd
आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः11 BhNZ_17_044ab
संसर्गाद्देवतानां च12 तद्धि लोको ऽनुवर्तते ॥ BhNZ_17_044cd
13छन्दतः प्राकृतं पाठ्यं14 स्मृतमप्सरसां भुवि15 BhNZ_17_045ab
16मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ॥ BhNZ_17_045cd
[ABh]

यदि पुंयोगादित्यत्र अत इति वर्तते । राज्ञ्याः संस्कृते निमित्तं दर्शयति सन्धिविग्रहेति यस्माद्राज्ञः सन्धिविग्रहसंबन्धं षाड्गुण्यादि तथाग्रहनक्षत्रचेष्टितं, शुभाशुभरूपं पक्षिरुतं च शुभाशुभमितीयत्सर्वं नृपपत्न्या ज्ञेयं, तस्माद्राज्ञः सा प्रतिशरीरकल्पा कदाचित्संस्कृतयोग्यापि भवति ।
सुखाश्रयमिति । अनेन विशेषलक्षणप्रयोगादि निरस्यति । आम्नायः पुराणादिः लोको ऽनुवर्तते अनुमन्यत इति यावत् । भुवीति अवतीर्णानामिति

[(मू)]

1. ड॰ संपन्नं

2. य॰ न॰ चापि शुभाशुभम्, ड॰ अशुभं शुभम्

3. ड॰ एतद्धि

4. ड॰ कार्यबन्धे, च॰ यस्माद्राजा

5. य॰ भवेत्पाठ्यं संस्कृतं द्विजसत्तमाः

6. य॰ प्रयोगस्य

7. ड॰ क्रीडालीलार्थकं चैव

8. ड॰ लोकोपचार

9. य॰ तु

10. ग. शिल्पिकार्ये तु, ड॰ शिल्पकार्येषु

11. य॰ सर्वेषां दिव्यानां वचनं शुभम् । ड॰ शुभं चाप्सरसां वचः ।

12. च॰ वै य॰ हि

13. भ॰ छन्दसां

14. ड॰ वाक्यं

15. भ॰ अपि

16. च॰ मानुषीणां ।

[(व्या)]

[page 375]




[NZ]

न बर्बरकिरातान्ध्र1द्रमिलाद्यासु जातिषु । BhNZ_17_046ab
2नाट्यप्रयोगे कर्तव्यं 3पाठ्यं भाषासमाश्रम् ॥ BhNZ_17_046cd
4सर्वास्वेव हि शुद्धासु जातिषु द्विजसत्तमाः । BhNZ_17_047ab
5शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् ॥ 6 BhNZ_17_047cd
अथवा छन्दतः कार्या 7देशभाषा प्रयोक्तृभिः । BhNZ_17_048ab
नानादेशसमुत्थं हि काव्यं8 भवति नाटके ॥ BhNZ_17_048cd
मागध्यवन्तिजा प्राच्या 9शौरसेन्यर्धमागधी । BhNZ_17_049ab
बाहीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ BhNZ_17_049cd
10शकाराभीरचण्डाल11शबरद्रमिलान्ध्रजाः12 BhNZ_17_050ab
हीना 13वनेचराणां च विभाषा नाटके स्मृता ॥ BhNZ_17_050cd
मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया14 BhNZ_17_051ab
चेटानां तु राजपुत्राणां श्रेष्ठिनां15 चार्धमागधी ॥ BhNZ_17_051cd
प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा16 BhNZ_17_052ab
नायिकानां सखीनां च 17शूरसेन्यविरोधिनी ॥ BhNZ_17_052cd
[ABh]

शेषः । शुद्धास्विति अनुलोमवशेन संस्कारवत्सु जातिष्वपीति पाठः ।
देशभाषा संक्षिप्याह मागधीत्यादि । भाषा संस्कृतापभ्रंशः, भाषापभ्रंशस्तु विभाषा सा तत्तद्देश एव गह्वरवासिनां प्राकृतवासिनां च, एता

[(मू)]

1. य॰ द्रविड

2. न॰ नाट्ययोगे तु, च॰ नाट्ययोगेषु

3. न॰ काव्यं

4. न॰ जातिष्वेतासु सर्वासु शुभासु , च॰ जातिरथासु सर्वासु शुद्धाशुद्धि द्विजसत्तमाः(?)

5. च॰ शौरसेनं समाश्रित्य भाषाः कार्यास्तु नाटके

6. न॰ भाषा कार्या तु नाटके

7. ढ॰ दैवी भाषा

8. ढ॰ भ॰ कार्यं

9. न॰ शूरसेना, ढ॰ शूरसेनी

10. च॰ शबर

11. न॰ चण्डालाः

12. च॰ स॰ च॰ र॰ द्रमिडोढ्रजाः (ग॰ शबर)

13. ढ॰ वनचराणां

14. ड॰ नराणां चेवान्तःपुरनिवासिनाम्, न॰ निवासिनाम्

15. ड॰ न॰ श्रेष्ठीनां

16. ड॰ योः सा भाषा अवन्तिजा (?)

17. न॰ शूरसेना, भ॰ शौरसेनी ।

[(व्या)]

[page 376]




[NZ]

1यौधनागरकादीनां दाक्षिणात्याथ दीव्यताम्2 BhNZ_17_053ab
बाह्लीकभाषोदीच्यां खसानां च स्वदेशजा3 BhNZ_17_053cd
4शकारघोषकादीनां तत्स्वभावश्च यो गणः । BhNZ_17_054ab
5शकारभाषा योक्तव्या 6चाण्डाली पुल्कसादिषु7 BhNZ_17_054cd
अङ्गारकारकव्याध8काष्ठ9यन्त्रोपजीविनाम् । BhNZ_17_055ab
10योज्या 11शकारभाषा तु किंचिद्वानौकसी तथा ॥ BhNZ_17_055cd
12गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । BhNZ_17_056ab
आभीरोक्तिः शाबरी वा13 द्रामिडी वनचारिषु14 BhNZ_17_056cd
15सुरङ्गाखनकादीनां 16सन्धिकाराश्वरक्षताम् । BhNZ_17_057ab
व्यसने नायकानां17 चाप्यात्मरक्षासु मागधी18 BhNZ_17_057cd
[ABh]

एव नाट्ये तु । अन्ये तु निदर्शनार्थत्वादस्य पैशाच्यादयो ऽपि प्रयोज्या इत्याहुः । नरेन्द्राणां यदन्तःपुरं तन्निवासिनामिति संबन्धः । दीव्यतामिति कितवानाम् । शकारा नीचाभिजनाः आर्थीभूतत्वेन सदर्पाः । शकाराबहुला भाषा शकारभाषा । पुल्कसो डोम्बः मृतप इत्यन्ये । वनौकसामियं वनेचरीत्यर्थः । सुरङ्गाखनकाः सन्धिच्छेदकृतः । कारा बन्धनगृहम् । व्यसनं कस्यांचिदापदि जातायां मा मां लोको ज्ञास्यतीत्यभिप्रायेणात्मनो रक्षार्थं नायको ऽपि मागध्या व्यवहरेत् । द्रमिडकादि पूर्वविधानादिनिषेधो विशिष्टेष्विति पर्यन्तवासिषु

[(मू)]

1. च॰ योध, ड॰ यौधनागरिक, य॰ यौधानां गरकादीनां

2. ड॰ च दीप्यतम्, भ॰ दीयताम्

3. ड॰ रवस्थानां च स्वदेशजा, न॰ खषाणां च स्वदेशजा खसानां चैवभूमिषु ।

4. च॰ शबराणां शकादीनां, ड॰ शकाराणां शकादीनां

5. च॰ सकार

6. ड॰ पाञ्चाली, य॰ चण्डाली

7. न॰ पुत्कसादिषु

8. च॰ कारव्याधानां

9. ड॰ पत्र

10. भ॰ ज्ञेया

11. ड॰ शबर

12. च॰ गवाश्व, ड॰ गजाश्वश्वाविक

13. भ॰ च, ड॰ स्यात्

14. च॰ द्रमिलादिषु

15. ड॰ सुरङ्गवनकादीनां

16. च॰ सोण्डीकायाश्च रक्षिणाम्, ड॰ औष्ट्रिकाणां च रक्षतां, न॰ औष्ट्रीकाराञ्च रक्षताम्, ढ॰ औढ्रिकारसरक्षसाम् ।

17. च॰ स्यात्, ड॰ नायिकादीनां

18. भ॰ योजयेत् ।

[(व्या)]

[page 377]




[NZ]

न बर्बरकिरातान्ध्र1द्रमिलाद्यासु जातिषु । BhNZ_17_058ab
नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम्2 BhNZ_17_058cd
गङ्गासागरमध्ये तु ये देशाः संप्रकीर्तिताः3 BhNZ_17_059ab
4एकारबहुलां भाषां तेषु तज्ज्ञः प्रयोजयेत् ॥ BhNZ_17_059cd
विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । BhNZ_17_060ab
5नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ BhNZ_17_060cd
सुराष्ट्रावन्तिदेशेषु6 वेत्रवत्युत्तरेषु च7 BhNZ_17_061ab
ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम्8 BhNZ_17_061cd
हिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः9 BhNZ_17_062ab
10उकारबहुला 11तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ BhNZ_17_062cd
12चर्मण्वतीनदीतीरे13 ये चार्बुदसमाश्रयाः14 BhNZ_17_063ab
15ओकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ BhNZ_17_063cd
एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । BhNZ_17_064ab
16अत्र नोक्तं मया यत्तु17 लोकाद् ग्राह्यं बुधैस्तु तत्18 BhNZ_17_064cd
[ABh]

द्रमिडेषु द्रष्टव्यो, बर्बरान्ध्रादिसाहचर्याद् भाङ्गेलदेशादिगतेषु । गङ्गासागरमध्य इति पूर्वदेश उपलक्षितः ।
विन्ध्यसागरमध्य इति दक्षिणसौराष्ट्राः । सुराष्ट्रावन्तिदेशेष्विति पश्चिमः वेत्रवत्यादिनोत्तरः । वाक्यविधानमित्येकेनापि पदेन सकलो वाक्यार्थः स्फुटीक्रियते,

[(मू)]

1. भ॰ किरातोढ्र

2. भ॰ समन्वितम्, च॰ समाश्रयम्

3. न॰ संप्रवर्तिताः

4. भ॰ षकार

5. भ॰ तकार, ढ॰ शकारबहुलं तेषां

6. ढ॰ तु

7. ड॰ अन्तरेषु च

8. न॰ चकारबहुलामिव, च॰ चकारबहुलामिह

9. न॰ ये च देशान् समाश्रिताः, ड॰ ये च देशाः समाश्रिताः

10. ड॰ ओंकार, भ॰ ढकार, म॰ थकार, न॰ ओकार

11. ड॰ तज्ज्ञैः

12. ड॰ सरस्वतीनदीतीरे पारियात्रार्बुदाश्रिताः

13. च॰ पारे

14. च॰ समाश्रिताः

15. च तकार, य॰ औकर, ड॰ औकार

16. ड॰ अथ

17. च॰ यच्च

18. भ॰ तथा, न॰ यत् ।

[(व्या)]

[page 378]




[NZ]

एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः1 BhNZ_17_065ab
पुनर्वाक्यविधानं तु लौकिकं संबिबोधत ॥ BhNZ_17_065cd
उत्तमैर्मध्यमैर्नीचैर्ये संभाष्या यथा नराः । BhNZ_17_066ab
3समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ॥ BhNZ_17_066cd
देवानामपि ये देवा महात्मानो महर्षयः । BhNZ_17_067ab
भगवन्निति ते वाच्या यास्तेषां4 योषितस्तथा ॥ BhNZ_17_067cd
देवाश्च लिङिनश्चैव नानाश्रुतधराश्च ये5 BhNZ_17_068ab
भगवन्निति ते वाच्या पुरुषैः स्त्रीभिरेव च ॥ BhNZ_17_068cd
आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम्6 BhNZ_17_069ab
उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ॥ BhNZ_17_069cd
7नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः । BhNZ_17_070ab
8तत्क्षाम्यं हि महीपालैर्यस्मात् पूज्या द्विजाः स्मृताः9 BhNZ_17_070cd
ब्राह्मणैः सचिवो वाच्यो10 ह्यमात्य सचिवेति वा11 BhNZ_17_071ab
शेषैरन्यैर्वाच्यो हीनैरार्येति नित्यशः ॥ BhNZ_17_071cd
[ABh]

अन्योन्यरूपता नीयत इत्यभिप्रायेण वाक्यग्रहणं पदविधानं हि भविष्यति । देवानां देवाः स्तुत्याः । तथेति स्त्रीत्वेन भगवतीति । नानाश्रुतधराः बहुश्रुताः । क्षाम्यमित्यङ्गीकर्तव्यम् । सचिव इति राज्ञो मन्त्री ।

[(मू)]

1. म॰ तथैव च । अत्र द॰संञ्जकमातृकायां विना ज॰ आदि ब॰ अन्तासु य॰ मातृकायां च अष्टादशो ऽध्यायः, यथा ``इति भारतीये नाट्यशास्त्रे भाषाविधानं नामाष्टदशो ऽध्यायः'' इति । भ॰ यथावद् द्विजसत्तमाः

2. न॰ वाक्यप्रचारं, च॰ वाक्यविचारं म॰वाक्योपचारं

3. म॰ समानो वाल्पहीनो वा

4. भ॰ चैषां ड॰ यास्तासां

5. न॰ स्मश्रुधराश्च, ड॰ श्रुतिधराश्च, भ॰ व्रतधराश्च

6. न॰ पार्थिवः

7. च॰ छन्दतो नामभिर्वाच्या

8. म॰ तत्क्षाम्यं तु, ढ॰ तत्क्षन्तव्यं

9. य॰ द्विजोत्तमाः

10. ड॰ सचिवैर्वाच्यं, न॰ भाष्यो

11. भ॰ वै

[(व्या)]

[page 379]




[NZ]

समैः संभाषणं कार्यं येन नाम्ना स संज्ञितः । BhNZ_17_072ab
हीनैः 1सपरिवारं तु नाम्ना संभाष्य उत्तमः ॥ BhNZ_17_072cd
नियोगाधिकृताश्चैव2 पुरुषा 3योषितस्तथा । BhNZ_17_073ab
कारुकाः शिल्पिनश्चैव संभाष्यास्ते तथैव हि4 BhNZ_17_073cd
5मार्षो भावेति वक्तव्यः किंचिदूनस्तु मार्षकः6 BhNZ_17_074ab
समानो ऽथ7 वयस्येति 8हं हो हण्डेति वाधमः9 BhNZ_17_074cd
आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा10 BhNZ_17_075ab
11तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते12 BhNZ_17_075cd
स्वामीति युवराजस्तु कुमारो भर्तृदारकः । BhNZ_17_076ab
सौम्य भद्रमुखेत्येवं हेपूर्वं चाधमं वदेत् ॥ BhNZ_17_076cd
[ABh]

सपरिवारं नाम्नेति उत्तमो राजा हीनैः स्वनाम परिगृह्य, यद्यन्नाम वत्सराज सोमवंशमौक्तिकमणे इत्यादि तेन भाष्यः । सपरिहासमिति वा पाठः परिहासः परितोषोपलक्षणं तेन चाटुकारादि परितोषावसरे हीनैरपि राजा नाम्ना संभाष्यः । ``उदयने महीं शासति को विपदामवकाशः'' इत्यादौ । कारुकाः स्तूपकारादयः शिल्पिनश्चित्रकारादयः । भावेत्यामन्त्रणं विवक्षितमित्यन्यविभक्त्यन्तो न प्रयोज्य इत्येतत्त्वयुक्तम् । वयस्येत्येवमादावपि प्रसङ्गात्संभाषणापक्रमकृताद्यामन्त्रणविभक्तिः सर्वत्र विवक्षितैव । अधमैर्जनैः समानो ऽधम एव, हंहो हण्डे इति वा संभाष्यः । चकराद् विनापि

[(मू)]

1. च॰ शपरिहारं तु, ढ॰ सपरिहासं, भ॰ सपरिचारं तु वाच्यं नामोत्तमस्य तु

2. च॰ ये तु

3. भ॰ याः स्त्रियः

4. ढ॰ च

5. च॰ मर्षो, म॰ मान्यो

6. च॰ मर्षकः, ग॰ मारिष

7. ड॰ हि

8. च॰ हंहोहन्तेति, ड॰ होहंवा इति

9. न चाधमैः, ढ॰ हंहोतिवाधम

10. ड॰ सूते तु सर्वथा

11. न॰ तपस्वी च प्रशान्तः सं साधो इति हि, ड॰ तपस्वी च प्रसन्नश्च

12. भ॰ शब्दितः

13. भ॰ वाच्यं पूर्वेण चापरम्, च॰ वाधमं वदेत् ।

[(व्या)]

[page 380]




[NZ]

यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा । BhNZ_17_077ab
स तेन नाम्ना 1भाष्यो हि नाटकादौ प्रयोक्तृभिः2 BhNZ_17_077cd
वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः । BhNZ_17_078ab
वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा3 BhNZ_17_078cd
संभाष्या शाक्यनिर्ग्रन्था 4भदन्तेति प्रयोक्तृभिः । BhNZ_17_079ab
आमन्त्रणैस्तु पाषण्डाः 5शेषाः स्वसमयाश्रितैः ॥ BhNZ_17_079cd
देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा6 BhNZ_17_080ab
भट्टेति सार्वभौमस्तु नित्यं परिजनेन तु7 BhNZ_17_080cd
राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा8 BhNZ_17_081ab
वयस्य राजन्निति वा भवेद् वाच्यो महीपतिः ॥ BhNZ_17_081cd
विदूषकेण राज्ञी च चेटी च भवतीत्यपि । BhNZ_17_082ab
नाम्ना वयस्येत्यपि वा राज्ञा9 वाच्यो विदूषकः ॥ BhNZ_17_082cd
सर्वस्त्रीभिः 10पतिर्वाच्य आर्यपुत्रेति यौवने । BhNZ_17_083ab
अन्यदा पुनरार्येति 11महाराजेति भूपतिः ॥ BhNZ_17_083cd
[ABh]

हेशब्देन । कर्म पाकादि, विद्या त्रय्यादि । झातिर्गोत्रं देशो वा । शाक्याः सौगताः, निर्ग्रन्थाः क्षपणकाः । शेषाः पाषण्डा इति पाशुपतादयः । स्वसमयो यथा पाशुपतानां भापूषन्, भासर्वज्ञ, इत्यादि संभाषणम् तथा क्वचिद्वाक्यादिशब्देन । अपत्यप्रत्ययेनेति कौरवेत्यादिना महाराजेति । यौवनादन्यत्रार्यपुत्रेति श्वशुरेण व्यपदेशः, तस्य यौवनं शृङ्गारोचितमुक्तं भवति ।

[(मू)]

1. द॰ संभाष्यो

2. भ॰ नाटकादिषु योक्तृभिः

3. भ॰ नाटके नाट्यकोविदैः

4. ड॰ भद्रं ते

5. ड॰ शेषास्तु, द॰ भूराययाश्रितैः(?), च॰ स्वय उपश्रितैः (?)

6. द॰ परिजनेन वा

7. द॰ ह

8. न॰ तु

9. द॰ अथवा राज्ञा, न॰ राज्ञो

10. म॰ पतिर्वाच्यो ह्यार्य

11. ड॰ वाच्यो ।

[(व्या)]

[page 381]




[NZ]

आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजाः । BhNZ_17_084ab
1[योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ॥ ] BhNZ_17_084cd
पुरुषभाषणं ह्येवं कार्यं नाट्ये प्रयोक्तृभिः । BhNZ_17_085ab
पुनः स्त्रीणां प्रवक्ष्यामि यथा भाष्यास्तु नाटके2 BhNZ_17_085cd
तपस्विन्यो देवताश्च वाच्या भगवतीति च3 BhNZ_17_086ab
4गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ॥ BhNZ_17_086cd
5गम्या भद्रेति वाच्या वै वृद्धाम्बेति च6 नातके । BhNZ_17_087ab
6राजपत्न्यस्तु संभाष्याः सर्वाः परिजनेन वै8 BhNZ_17_087cd
भट्टिनी स्वामिनी देवीतय् एवं वै9 नाटके बुधैः । BhNZ_17_088ab
देवीति महिषी वाच्या राज्ञा परिजनेन वा10 BhNZ_17_088cd
11भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः । BhNZ_17_089ab
कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिका ॥ BhNZ_17_089cd
स्वसेति भगिनी वाच्या वत्सेति च यवीयसी12 BhNZ_17_090ab
ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ॥ BhNZ_17_090cd
[ABh]

अनुजो ज्येष्ठेन पुत्रवत् वत्स तात पुत्रकेति संभाष्यः । पुरुषाभाषणमिति भूयस्त्वाक्षेप उपसंहारः । स्त्रीसंभाषणं त्वपि मध्ये निरूपितं तपस्विन्य इति पूर्वं तेषां योषित इति, अत्र स्वयमतपस्विन्यो ऽपीत्युक्तमिति न पुनरुक्तम् । गुरुभार्या मान्या अन्या वा स्त्री, स्थानीया पूज्या ईषद्वृद्धा । पत्रीति सहधर्मचारिणी,

[(मू)]

1. भ॰ मातृकायामेव

2. द॰ च वक्ष्यामि संभाषं नाटकाश्रयम् (भाषां नाटकाश्रयाम्)

3. ढ॰ ह

4. भ॰ गुरुरार्येति, ड॰ गुरुभार्या च

5. द॰ ग्राम्या भद्रेति वक्तव्या

6. ड॰ वृद्धा वाच्येति

7. भ॰ राजपुत्र्यस्तु, ड॰ राजपत्न्यश्च

8. च॰ तु

9. द॰ स्वामिनीत्येवं सर्वदा

10. द॰ च, च॰ तु

11. य॰ भोगिन्य इति शेषास्तु, द॰ भट्टिन्य इति शेषास्तु, ड॰ भोगिन्य इति शेषा हि, प॰ भोगिन्य इति शेषाभिः

12. ड॰ ज्येष्ठा वत्सेति सानुजा (ढ॰ चारजा), न॰ वत्सा चेतीह सर्वदा, द॰ वत्सा वेतीह सर्वथा ।

[(व्या)]

[page 382]




[NZ]

पत्नी चार्येति संभाष्या पितृनाम्ना सुतस्य वा1 BhNZ_17_091ab
समानाभिस्तथा सख्यः हळेति स्यात्परस्परम्2 BhNZ_17_091cd
प्रेष्या हञ्जेति वक्तव्या स्त्रिया यत्तूत्तमा भवेत् । BhNZ_17_092ab
अज्जुकेति 3च वक्तव्या वेश्या परिजनेन च4 BhNZ_17_092cd
5अत्तेति गणिकामाता वाच्या परिजनेन हि । BhNZ_17_093ab
प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा ॥ BhNZ_17_093cd
पुरोधः सार्थवाहानां भार्यस्त्वार्येति सर्वदा6 BhNZ_17_094ab
7तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा8 BhNZ_17_094cd
औत्पत्तिकानि यानि स्युरप्रख्यातानि9 नाटके । BhNZ_17_095ab
ब्रह्मक्षत्रस्य नामानि गोत्र10कर्मानुरूपतः ॥ BhNZ_17_095cd
काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि11 BhNZ_17_096ab
दत्तप्रायाणि नामानि 12वणिजां संप्रयोजयेत् ॥ BhNZ_17_096cd
[13कापालिकास्तु घण्टान्तनामानः समुदाहृताः ॥ ] BhNZ_17_097ab
[ABh]

चारिणी, अत एव नटी नाट्यवेदमहासत्रदीक्षितेन सूत्रधारेणार्येणार्ये इत्र्यामन्त्यते । पितृनाम्नेति माठरपुत्री । सुतस्येति सोमशर्मजननी । वेश्या स्वेन परिजनेन अज्जुके इति संभाष्या ।
सर्वदेति यौवने ऽपि पुरोहितादिभिरार्येति भार्या वाच्या । औत्पत्तिकानीति स्वयं वा येन कल्प्यन्ते, अत एवाख्यातानि तल्लिङ्गार्थानि प्रकृतार्थसूचकाभिधेययुक्तानि कार्याणि । एतदेव निदर्शनेन स्फुटयति ब्रह्मक्षत्रस्येत्यादिना ।

[(मू)]

1. द॰ सा

2. च॰ सख्यो हला भाष्याः प्रस्परम्

3. भवेद्वाच्या

4. द॰ तु

5. ग॰ या त्वत्र वृद्धा सात्वत्ताभाष्या परिजनेन तु

6. भ॰ नित्यशः, न॰ भार्या त्वार्येति सर्वदा, ढ॰ नार्यस्त्वार्येति सर्वदा, द॰ अर्यातु सर्वदा

7. भ॰ तल्लिप्सार्थानि, ढ॰ तल्लिङ्गस्थानि

8. द॰ द्विजाः

9. द॰ न प्रख्यातानि, ड॰ न प्रत्याख्याति

10. प॰ धर्म

11. भ॰ शर्मवर्मेति तानिह, द॰ तु, ड॰ च

12. च॰ वणिजां तु, न॰ वणिजानां

13. द॰ मातृकायामेव ।

[(व्या)]

[page 383]




[NZ]

1शौर्योदात्तानि नामानि तथा शूरेषु योजयेत्2 BhNZ_17_097cd
विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः3 BhNZ_17_098ab
दत्ता मित्रा च सेना च4 वेश्यानामानि योजयेत्5 BhNZ_17_098cd
नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके । BhNZ_17_099ab
मङ्गलार्थानि नामानि चेटानामपि योजयेत्6 BhNZ_17_099cd
गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत्7 BhNZ_17_100ab
8यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ॥ BhNZ_17_100cd
जातिचेष्टानुरूपाणि शेषाणामपि योजयेत्9 BhNZ_17_101ab
नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ॥ BhNZ_17_101cd
एवं 10नामविधानं तु कर्तव्यं कविभिः सदा11 BhNZ_17_102ab
[ABh]

शौर्योदात्तानीति भीमपराक्रम इति यथा । विजयार्थानीति शुभलक्षणविजयवतीत्यादीनि । देवदत्तावसन्तसेनाविदग्धमित्रेत्यादि वेश्यानाम् । नानाकुसुमनामानीति मालतीमल्लिकेत्यादि कुसुमग्रहणं तन्मञ्जर्याद्युपलक्षणं चूतलतिकेत्याद्यपि हि दृश्यते नाम । मङ्गलार्थानीति सिद्धार्थका इत्यादीनि । गम्भीरार्थानि अक्षोभ्य इत्यादीनि । नास्ति संकेतको भार इत्याशयेन पृच्छति अत्रोत्तरं नामानुरूपमिति । नाम किलेश्वरेच्छावशात्स्वरूपक्रोडीकारेणैव जायते । तथा हि नामाक्षरे ग्रहाभिचारयन्त्रकर्मादिपीडिते शान्तिकपौष्टिकाद्युपचारभाजि वा तथैव पुरुषस्य फलोदय इत्यभिप्रायः । कवित्वयुक्तो नट

[(मू)]

1. द॰मातृकायां न वर्तते

2. भ॰ शूरे प्रयोजयेत्

3. य॰ राज्ञां स्त्रीणां च कारयेत्, द॰ तु कारयेत्, च॰ कारयेत्

4. ड॰ सेनेति, भ॰ दत्तां मित्रां च सेनां च

5. द॰ कारयेत्, ग॰ मित्राणि कारयेत्

6. न॰ कारयेत्

7. न॰ योजयेदुत्तमेषु च(ढ॰ तु)

8. द॰ कस्मान्नाम्ना तु न॰ कस्मात्

9. न॰ कारयेत्

10. द॰ नामाभिधानं

11. न॰ विधानस्यकविभिस्तथा, ड॰ अथ ।

[(व्या)]

[page 384]




[NZ]

1एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः2 BhNZ_17_102cd
ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम्3 BhNZ_17_103ab
पाठ्यगुणानिदानीं वक्ष्यामः । (4)तद्यथा सप्तस्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, दिविधा काकुः, षडलङ्काराः, षडङ्गानीति । एषामिदानीं (5)लक्षणमभिव्याख्यास्यामः तत्र
[ABh]

इत्यभिप्रयेणाह भाषाविधानं ज्ञात्वा, तत इति तत्परिज्ञातपूर्वकं काव्यं कृत्वा प्रयोगे पाठ्यं प्रयुञ्जीतेत्यर्थः । यदि त्वन्यः कविस्तदा पाठ्यस्य संज्ञा च मूलभूतत्वात् प्रयोक्तृत्वेनोक्तो द्रष्टव्यः । षडलङ्कारसंयुतमिति स्वरस्थानवर्णकाक्वलङ्काराङ्गानि षट् अत्रालङ्कारशब्देन विवक्षितानि, एतैर्हि भूषितं काव्यं पाठ्यमुच्यते ।
एवं हि वक्तव्यत्वमुपादानस्य यदि सकलस्वविवक्षाविशिष्टार्थप्रतिपादकत्वं पठनार्हं च पाठ्यं तत्स्वराद्यायत्तं सर्वमिति । अत एवाह पाठ्यगुणानिति गुणाः उपकारकाः, यदुपकृतं काव्यं पाठ्यं भवतीत्यर्थः ।
उद्देशक्रमेण व्याचष्टे तत्रेत्यादि । स्वरगतं वितत्य गेयाधिकारे प्रकटयिष्यामः । इह काकुषु स्वरा एव वस्तुत उपकारिणः । तत्परिकरभूतं तु स्थानादि स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः । उदात्तानुदात्तस्वरितकम्पितरूपतया स्वराणां यद्रक्तिप्रधानत्वमनुरणनमयं तत्त्यायोगेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् । यदि हि स्वरगता रक्तिः पाठ्ये प्राधान्येणावलम्ब्येत तदा गानक्रियासौ स्यात्, न पाठः । पूर्णस्वरत्वाभावादङ्गानां भेद इति चेत्,

[(मू)]

1. द॰ एवं भाषाविधानानि, च॰ एवं भाषाविधानादि, भ॰

भाषाविधानं विज्ञेयं ततः प्रकृतिसम्भवम् ।

ततः पाठ्यस्य वक्ष्यामि गुणांश्च द्विजसत्तमाः ।

स्वरैः षड्जादिभिर्युक्तं नानारससमन्वितम् ।

तद्यथा ---, य॰ एवं भाषाविभावादि

2. च॰ सर्वमशेषतः, प॰ सर्वविशेषतः

3. न॰ संश्रयम्

4. न॰ तथा

5. भ॰ लक्षणानीति, म॰ लक्षणान्यभिव्याख्यास्यामः, न॰ लक्षणान्यभिधास्यामः ।

[(व्या)]

[page 385]




[NZ]

सप्तस्वरा नाम --- षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः । त एते रसेषूपपाद्याः । (1)यथा ---
[ABh]

न, अपूर्णस्वरत्वे ऽपि गानत्वप्रतिज्ञानात्, षाडवौडुवितयोः त्रिचतुरस्वरत्वे ऽपि गानप्रतीतिर्भवत्येव, यथा कृत्रिमवंशिकायां त्रैस्वर्ये, भिन्नषड्जभाषायां च कालिन्द्यां चातुस्स्वर्ये । तस्माद्गानवैलक्षण्याय रक्तिलक्षणं धर्ममनादृत्योच्चादिस्थानस्पर्श एवात्र प्रधानमिति वक्तुं वर्णोपादानम् । अन्यथा स्वरसप्तकातिरिक्तस्योदात्तादेर्भावादनर्थकं तदुपादानम् ।
यत्तु किंचिदुदात्तादिधर्माणां गात्रस्य निग्रहः कण्ठविवरस्य संवृतेत्त्यादिशिक्षापठितोदात्तादिधर्मप्राप्तेरुच्चाद्यलङ्कारेषु यथा स्यादिति प्रयोजनमुक्तम्, तत्राप्यस्मदुक्तं चेन्न प्रयोजनं किं तद्धर्मप्राप्त्या कृत्यमिति न विद्मः ॥
नन्वेवं स्वराभिधाने किं प्रयोजनं, उच्यते --- प्राणभूतं तावद्ध्रुवागानं प्रयोगस्य, तत्र जात्यंशकविनियोगे भविष्यति तदिदानीं पाठावसरे किं सर्वथैव त्यक्तव्यमित्याशङ्काशमनाय तत्स्थायिस्वराश्रयणं प्रमुखीकृत्य पाठः कर्तव्य इत्येतत्स्वराभिधानस्येह प्रयोजनम् ।
एवमुपगानवैलक्षण्ये संपन्ने बाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि अतिशायित्वे मुख्योपयोगात् । तथा चोच्चदीप्ताद्यलङ्कारेष्वप्युत्तरत्र काकुशब्देनैव मुनिर्व्यवहरिष्यति । काकोरेवोपकारसंपादकाः परिपूर्णतायायिनो ऽलङ्काराः, अलमिति पर्याप्त्यर्थः, इह न भूषणार्थः । अङ्गानि तु विच्छेदादीनि रसमर्थं शोभादि कर्म च पोषयुतुं काकोरेवोपकारीणीति, एवं परमार्थतः काकुरेवायं पञ्चमी रूपान्तरै पूर्णीक्रियते । काक्वा च पठ्यमानस्य स्वोचितचिज्जडस्वरूपार्थाभिमुख्येन नयनेनाभिनयता नीयत इति काकुरेवात्र प्रधानम् । तथा चैतदध्यायान्ते चोपसंहरिष्यति ``उक्तं काकुविधान''मिति । अन्यथाङ्गषट्कमध्यपतितस्योपसंहारो ऽन्याङ्गनिरूपणं चाभिधानमिति सर्वमसमञ्जसं स्यात् । तस्मात्काकुरेवात्र प्रधानमिति उपाध्याया हि वचनस्य सङ्केतितमर्थमन्यथाकारं समर्थयन्ति ।
ननु श्रुतमर्थमनादृत्य कथं काकुरेवम् कुर्यात् । तत्रोक्तमन्यैः वस्तुस्वभावो ऽत्र द्रष्टव्यो न हि दृष्टे ऽनुपपन्नं नामेति । वयं तु ब्रूमः --- इह येयं प्रथमेन

[(मू)]

1. भ॰ तद्यथा ।

[(व्या)]

[page 386]




[NZ]

हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ1 BhNZ_17_103cd
षड्जर्षभौ 2तथा चैव वीररौद्राद्भुतेष्वथ3 BhNZ_17_104ab
4गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ BhNZ_17_104cd
धैवतश्चैव कर्तव्यो बीभत्से6 सभयानके ॥ 105॥ BhNZ_17_105ab
(7)त्रीणि स्थानानि --- उरः कण्ठः शिर इति । (8)भवत्यपि च ---
[ABh]

संवित्स्पन्देन प्राणोल्लासनया वर्णादिरूपविशेषहीना वाग् जन्यते सा नादरूपा सती हर्षशोकादिचित्तवृत्तिं विधिनिषेधाद्यभिप्रायं वा तत्कार्यलिङ्गतया वा तादात्म्येन वा श्रुत्यन्तादि गमयतीति तावत्स्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते, तदयं नादाच्चित्तवृत्त्याद्यवगमो ऽनुमानं तावत् । ये त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकपदतन्तुग्रन्थिमया इव प्राच्यप्रयात्नातिरिक्तनिमित्तान्तरापेक्षाः, तत एवान्यत्रानभिप्रेते ऽन्यथापि प्रयोक्तुं शक्याः, अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्भिन्नमुखरागपुलकस्थानीयो नान्यथासिद्धो ऽन्यथासिद्धं शब्दार्थं बाधत एव वा । यथोक्तं ``भीरु न मे भयं'' इति ब्रुवन्नाशयते भयमित्यन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते । एतच्च वक्ष्यामो ऽग्न इत्यास्तां तावत् । सर्वथा पाठ्ये काकुः प्रधानमिति स्थितम् । अत्र हास्यशृङ्गारयोरित्यादिना जात्यंशकविनियोगं भविष्यन्तमनुवदंस्तद् द्रुतस्थायिस्वरानुसारेण काकोः प्रयोग इति दर्शयति ।
अथैषां स्वराणामाश्रयान् दर्शयति त्रीणि स्थानानीति । ननु पाठावसरे वर्णा यत्र मूर्धन्यास्तत्र कथमुरः स्थानस्वरनिष्पत्तिः, एवमन्यत्र वाच्यम् । उक्तं मन्द्रनादात्मिकाया वाचः स्वरसप्तकं रूपं, सा चोरःस्थाननिष्पन्न सती मूर्धानमभिघ्नन्ती मूर्धन्यं वर्णं तद्रूपं मन्द्रस्वरानुविद्धं दर्शयति । न च मूर्धस्थानत्वे ऽपि तस्योच्चताकृतं तारत्वमापद्यते । अन्यदेव हि वर्णनिष्पत्तिस्थानं, मूर्धान्तर्वर्त्यनुविवरमात्रं स्थानान्तरम् । स्वरनिष्पत्तिस्तु विततवितते मूर्धकाये

[(मू)]

1. भ॰ पञ्चमध्यमौ

2. भ॰ च कर्तव्ये

3. ड॰ तु

4. भ॰ निषादश्चैव गान्धारः करुणे संविधीयते

5. प॰ कर्तव्यः

6. प॰ बीभत्से कर्तव्यः

7. ड॰ त्रीणि स्थानान्युरः कण्ठशिरांसीति भवन्त्यपि

8. भ॰ भवति चात्र श्लोकः ।

[(व्या)]

[page 387]




[NZ]

शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु1 BhNZ_17_106ab
2उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ BhNZ_17_106cd
[ABh]

निष्पद्यमाना तारत्वं संपादयन्ती एवं तारमन्द्रमध्यता सर्वर्णानां सव(स्वर?)स्थानभेदसंपाद्यमानवपुषामप्युपपद्यते । तत्र स्वरग्रहणादेवाक्षिप्ते स्थानभेदे पुनः स्थानोपादानं षट्षष्टिस्थानभेदनिवृत्त्यर्थम् । तथा ह्युरःस्थाने द्वाविंशति स्थानानि यत्र श्रुतयः स्वराश्च । एवं कण्ठे मूर्ध्नि च । तावतां च स्पर्शे स्फुटं गानमेव स्यात्, न पाठ्यमित्यवोचाम । अत एव गुणशब्दो न धर्मवचनः पाठ्यगुणानिति, किं तु, उपकरणवचनस्थानं च यदेवोपकरणं भवति । अपि च शारीर्यामथ वीणायामित्यादि केचिद् व्याचक्षते --- इहार्थकाकुस्तावद्विधिनिषेधाद्यर्थावगमिका, स्वरकाकुस्तु चित्तवृत्तिसूचिका । एतद्व्यापारद्वयशून्यान्नेपथ्यपाठवैतालीयपाठादिविषया दूरस्थाभाषणादिविषया च शोभासंपादनदूरश्रवणादिप्रयोजना स्वरकाकुः सा तेन वक्ष्यत इति । एवं प्रष्टव्यास्तावत् --- यो ऽयं स्वरकाकोर्विषय उक्तस्तत्र यद्यर्थरूपं किंचिदभिधेयं तत्रावश्यमर्थकाकोर्वा पृथक्स्वरकाकुः । तथा हि नेपथ्यपाठे ऽपि कञ्चुकी पठति `वीरो ऽयमङ्गदः पठति' `यौगन्धरायणः पठति' इति, एवंभूतवृत्तिचित्तवृत्त्यादिविशेषप्रतिपादकेनैव पाठेन भवितव्यम् । वैतलीयपाठे ऽपि समुचितावसरावेदनप्रधाने ऽवश्यमर्थ आदातव्य एव । उक्तं चैतत् --- अर्थानपेक्षया किमभिनयनमन्यचिन्तया, पुस्तकवाचकपाठो ह्यनुक्रियमाणो ऽभिनयतामवलम्बते । अन्यथाभिनयरूपत्वाभावेतदुपकरणधर्म्यादितत्फलरसादिव्यतिरिक्तत्वे स्वरातोद्यगानादिवैलक्षण्ये च चिन्तयैव किं प्रयोजनमिति । न स्यात्काकुसामान्यलक्षणमेतेन किं घटत इत्यन्ये । एवमपि भवतीत्यसमर्थितं स्यात् तद्धि पूर्वप्रक्रान्तवस्तुसमर्थनेन प्रयुज्यत इति मुनेः शैली । तस्मात्पूर्वोक्तस्थानत्रयसमर्थनार्थो ऽयं श्लोकः । तदयमर्थः --- शारीर्यां वीणायां केवलमुरःशिरःकण्ठलक्षणेभ्यः त्रिभ्य एव स्थानेभ्यो, न तु षट्षष्टिस्वरपरिव्यक्तरञ्जनात्मकगानोपयोगिव्यापारः काकुभूतः सूचकरूपः संप्रवर्तते ।
अथशब्दो ऽवधारणे । बाह्यायां हि प्रतिबिम्बितायां वीणायां रञ्जानात्मकस्वररूपव्यतिरेकेण न काकुसंपत्तिः । वीणाग्रहणं शरीरगतविवृतमध्याकाशदेशपरिग्रहार्थं,

[(मू)]

1. ड॰ च

2. ड॰ उरसा शिरसा ।

[(व्या)]

[page 388]




[NZ]

1आभाषणं च दूरस्थे शिरसा संप्रयोजयेत् । BhNZ_17_107ab
नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः2 BhNZ_17_107cd
3उरसोदाहृतं वाक्यं शिरसा दीपयेद्बुधः4 BhNZ_17_108ab
5कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा7 BhNZ_17_108cd
[ABh]

न शरीरमात्रे स्वरनिष्पत्तिः, अपि तु तत्रैव । येयं बाह्यवीणादण्दस्थानीया उत्तरोत्तरस्थानपरम्पराविशिष्टा, सा स्थानसोपानपङ्क्तिः स्वरनिष्पत्तिस्थानम्, अत एव काकुस्वरमपि लक्षितम् --- कक लौल्ये, लौल्यं च साकांक्षते यथा स्वरवैचित्र्यं लक्ष्यते ईषद्यतो वाच्यभूमिः संपद्यते सा काकुः, ईषदर्थे कुशब्दस्य कादेशः । काकुर्वा जिह्वा तद्व्यापारसंपाद्यत्वात् काकुः ।
एवं स्थानस्वरूपं विभज्य तस्य विषयभेदमादर्शयितुमाह आभाषणं च दूरस्थ इत्यादि । शिरसेति शिरोनिष्पन्नेन तारेण नादेनेत्यर्थः । नातिदूरे कण्ठेनेति मध्येन, उरसा समीपे मन्द्रेणेति यावत् ।
एवं स्थानत्रयस्य पृथगुपयोगमभिधाय युगपद्दर्शयति उरसोदाहृतं वाक्यमित्यादिना । मन्द्रस्वरेण वा पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादिति श्लोकार्थः । यदा हि न दीप्तेन क्रोधादिना नापि मन्द्ररूपेण शोकादिनाविष्टहृदयो भवति तदा क्रमेण वक्तव्यव्यवस्तुविषयोत्साहविस्फारणात् तारान्तं गच्छन्नुपसंहारे मध्य एव विश्राम्यतीत्यनवशिष्टस्यायं सामान्येन पाठधर्मः । अत एव शान्ते व्यभिचारिबलवेशशून्यतायामयमेव पाठधर्मः । वैतालीयपाठे चायमपि सामान्यधर्मो ऽस्तु । न तद्विषये स्वरकाकुः । कस्तर्हि तस्या विषयः, उच्यते --- कदाचिदर्थस्य धर्मपुञ्जवाच्यस्य धर्मान्तराधानं काकुरुच्यते, कदाचित्स्वरजनकचित्तवृत्त्यर्पणं करोति । यत्र रसस्वरकाकुव्यवहारः

[(मू)]

1. द॰ आभाषणं तु दूरस्थे भ॰ आभाषणं तु दूरस्थं शिरःस्थेन स्वरेण हि । कण्ठेन नातिदूरे स्यादुरसा चैव पार्श्वतः ।

2. द॰ समीपस्थे तथोरसा । ड॰ दूरे ऽपि कण्ठेनाप्युरसा चापि पार्श्वतः, च॰ ह्युरसा च समीपतः ।

3. द॰ उरसोदाहरेत्

4. च॰ शिरसोद्दीपयेद्बुधः, भ॰ पुनः

5. द॰ कण्ठेन शमयेच्चैव

6. ड॰ पाठयोगे तु

7. भ॰ नित्यशः ।

[(व्या)]

[page 389]




[NZ]

उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा । BhNZ_17_109ab
वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ BhNZ_17_109cd
तत्र हास्यशृङ्गारयोः (1)स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यं, वीररौद्राद्भुतेषूदात्तकम्पितैः(2) करुणबीभत्सभयानकेषव्
[ABh]

कदाचिद्वा नादात्मनि स्वात्मसूत्रे सगुम्भितस्य स्वग्रन्थ्यात्मनो वर्णराशेर्दूरश्रवणं किंचिच्छ्रवणमश्रवणं वेत्यस्मिन्नर्थे व्याप्रियते । तत्रापि स्वरकाकुरुच्यते । यत्रोक्तमाभाषणं दूरस्थमित्यादि तदेवं व्यतिरिक्ते स्वसेवाव्यापाराद् व्यतिरिक्तजडचिद्भेदेन भेदात् तदर्थरसस्वरभेदात् त्रिधैव काकुः ।
एवं स्थानभेदमुक्त्वा क्रमप्राप्तं वर्णस्वरूपमाह उदान्तश्चेति । उच्चता नीचता मध्यमता उच्चनिचोभयडोलावलम्बनमिति चत्वारः स्वरधर्माः । वर्णा गुणा यदिवा पाठक्रियाविस्तारका विवृण्वते प्रकटयन्ति स्वार्थविशेषमिति वा ।
पाठ्ययोगे काव्ये स्वरस्य रक्तिभागमपहाय वर्णा एव वक्तव्याः । रक्तिभागाभिनिवेशे तु गानयोगो न पाठ्ययोगः स्यादित्यवादिषु । तत्रान्वयव्यतिरेकाभ्यां रक्तिभागे ऽनुदात्तादिवर्णभागः कादिवर्णभागः । तस्य स्फुटतास्फुटत्वमित्याह यो धर्मस्तन्त्र्यामनुरणनप्रधानायामरक्तकण्ठे गातरि यथाकथंचिद्वक्तुं प्रवृत्ते हुडुक्कामुरजादौ च पृथग्लक्ष्यत एव । एवं प्रधानतया धर्मान्तराणि मग्नत्वेन तत्रापि सन्त्येव । अत एवाह तपोधनाः सूक्ष्मवेदिनो यूयमत्राधिकृता विचार इत्याशयः । एषां वर्णानां विषयमाह --- हास्यशृङ्गारयोरित्यादि । मध्यमपञ्चमावित्यादौ प्रकरणे यथासंख्यं न विवक्षितमित्येवं हास्ये मध्यमायाः पञ्चम्या वा जातेः स्थायिस्वरत्वं गृहीत्वा तत्रैवोच्चमध्यमस्थानस्पर्शेन पठेत् । एवं शृङ्गारवीरादिषु त्रिषु षाड्ज्या आर्षभ्या वा स्वांशं गृहीत्वा तत्रैवोदात्तकम्पितैः पाठः, करुणे निषादवत्या गान्धार्या वा स्थायिनमालम्ब्यानुदात्तेन पाठः, बीभत्से धैवत्यंशस्वराश्रयेण स्वरितकृतः (पाट्ःअः) । भयानके तत्स्वरावलम्बनेनैव (धैवतांश) कम्पितप्रधानः (पाठः) --- इत्येवं भवैष्यत् (अ-29) जातिविनियोगानुसारिस्वरानुवादेन वर्णेषूदात्तादिषु

[(मू)]

1. य॰ स्वरितोदात्तं वीरं, न॰ स्वरितोदात्तौ वीर, ढ॰ स्वरितोदात्तैर्वीर ...

2. य॰ उदात्तं कम्पितं, ठ॰ उदात्तकम्पितैः, ढ॰ उदात्तस्वरितकम्पितैः ।

[(व्या)]

[page 390]




[NZ]

अनुदात्तस्वरितकम्पितैरिति(1) । द्विविधा काकुः, सांक्षा निराकांक्षा चेति(2) वाक्यस्य सकांक्षनिराकांक्षत्वात् ॥110॥
3अनियुक्तार्थकं वाक्यं साकांक्षमिति संज्ञितम् । BhNZ_17_111ab
नियुक्तार्थं तु यद्वाक्यं निराकांक्षं तदुच्यते ॥ BhNZ_17_111cd
(4)तत्र साकांक्षं नाम तारादिमन्द्रान्त(5)मनियुक्तार्थमनिर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । (6)निराकांक्षं
[ABh]

तात्पर्यं, न तु स्वरेषु । तेषां तु पृथगुद्देशप्रयोजनं षष्ठे दर्शितमन्तरालापपरिग्रहमिति ।
एवं काकोः स्वरूपोत्पत्तिं प्रतिपाद्य तस्या अर्थविषये व्यापारं दर्शयन्नुद्देशक्रममप्यनुसर्तुमाह --- द्विविधा काकुरिति । वाक्यस्येति साकांक्षं यत्र वाक्यं तत्र काकुः, तथा वक्तृगता वाकांक्षा वाक्य उपचर्यते । सा च प्रकरणादिबलान्निश्चीयते । विशेष्टविषयत्वं चाकांक्षायास्तत एवावगम्यते । तदाह --- अनियुक्तार्थकं वाक्यमिति । यादृशो वाक्यात्सङ्केतबलेनार्थः प्रतीयते तादृश एव यत्र न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं निराकांक्षं, तद्विपरीतं साकाङ्क्षम् ।
एवं वाक्यस्य स्वरूपं प्रतिपाद्य तन्निष्ठां काकुaभिधातुमाह तत्र साकाङ्क्षमित्यादि । अनुयुक्तार्थं यत्साकांक्षमुक्तं तन्मन्द्रोपक्रमं तारसमाप्तिकं पठनीयमिति । सर्वाणि क्रियाविशेषणानि कियन्ति तत्र तारतेयाह कण्ठोरःस्थान(गत)मिति । तथा वर्णा उदात्तादयो ऽलङ्काराश्चोच्चनीचदीप्तादयो ऽपरिसमाप्ता अर्धस्पृष्टतयैव त्यक्ता यत्रेति क्रियाविशेषणम् । एवंभूतो यः क्रियाविशेषणत्वेन वाक्ये पठ्यमाने ध्वनिधर्मविशेषः सा काकुः । यदि वा सामानाधिकरण्येनैव व्याख्येयम् । धर्मो हि न स्वतन्त्रो भात्यपि तु धर्मनिष्ठ एवेति । तत्राकांक्षार्थान्त एवातदर्थगत एव वा विशेषे तदर्थभावेवा । तथा च ---

[(मू)]

1. य॰ कम्पितैर्वर्णैः पाठ्यमुपादयेत् इति ।

2. भ॰ निराकांक्षा च

3. ड॰ अनियुक्तमेकं

4. च॰ अत्र, भ॰ तत्र साकांक्षा नाम, य॰ तत्र साकांक्षा नाम वाक्यं, ड॰ अनियुक्तं नाम निर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । न अनिर्युक्तं, प॰ तस्य साकांक्षं नम वाक्यं, द॰ ``तत्र ... मन्द्रान्तं'' इति न विद्यते ।

5. भ॰ अनिर्युक्तार्थं

6. निराकांक्षा नाम निर्युक्तार्थ ।

[(व्या)]

[page 391]




[NZ]

नाम नियुक्तार्थं निर्यातितवर्णालङ्कारं शिरःस्थानगतं मन्द्रादितारान्तमिति(1) ॥12॥
(2)अथ षडलङ्कारा नाम ---
उच्चो दीप्तश्च3 मन्द्रश्च नीचो द्रुतविलम्बितौ4 BhNZ_17_113ab
5पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत6 BhNZ_17_113cd
उच्चो नाम शिरःस्थानगतस् तारस्वरः, स च दूरस्थाभाषण(7)विस्मयोत्तरोत्तरसंजल्पदूराह्वानत्रासनाबाधाद्येषु(8) । दीप्तो नाम शिरःस्थानगतस्तारतरः(9), स चाक्षेप-
[ABh]

यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः † । इति
अत्र काकुः कृत इत्युदात्तकम्पितवर्णस्योच्चदीप्तालङ्कारस्य चासमाप्त्या, अतो ऽप्यधिकं कुरुत इति काकुप्रभावादर्थान्तरे गतिः । `स एष दशकन्धर'मिति (*) श्लोके `तदात्मज इहाङ्गद' इत्यत्र साकांक्षा काकुः स्वगतान् वालिपुत्रोचितान्विशेषानर्पयति । `स्वस्था भवन्ति मयि जीवति' †इत्यत्र साकांक्षाकाकुर्भावनाभावमाह, वचनोच्चारणं त्वर्थे संभावनां विदधतावश्यनिषेधात्मनो विषयमर्पयति । तदियमर्थाभिप्रायसमर्पकाभिनयरूपार्थकाकुः साकांक्षा । एतद्विपारिता निराकांक्षा, तस्याः शिरःस्थान एव मन्द्रः तारताप्रतिस्थानं, ह्युत्तरोत्तरतारत्वमधराधरमन्द्रत्वं च वक्ष्यामः । अलं पर्याप्तं काकोः स्वरूपं येन संपाद्यते सो ऽलङ्कारः । तत्स्वरूपं च स्थानत्रयस्य प्रत्येकमूर्ध्वाधोमध्यकल्पनया

[(मू)]

1. भ॰ तारान्तं पाठ्यमिति, ड॰ तारान्तगतमिति

2. द॰ अथालङ्काराः, ड॰ अथ षडलङ्कारा

3. द॰ दीप्तो ऽथ

4. प॰ नीचद्रुतविलम्बिताः

5. द॰ पाठस्य

6. प॰ विनिबोधत

7. न॰ विस्मयोत्तरसंजल्पनदूराह्वानबाधाद्येषु

8. ड॰ त्रासनवाक्येषु, भ॰ बाधाक्रुष्टकलहाभिधानेषु भावेषु ।

9. य॰ शिरःस्थानतिरस्कारः स च ।

[(व्या)]

वेणीसंहारे ।

*

स एष दशकन्धरं कृतवतो ऽपि कक्षान्तरे

गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः ।

तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा

क्व स क्व स दशाननो ननु निवेद्यतां राक्षसाः ॥

[page 392]




[NZ]

(1)कलहविवादामर्ष(2)क्रुष्टाधर्षणक्रोधशौर्यदर्पतीक्ष्णरूक्षाभिधाननिर्भर्त्स्नाक्रन्दितादिषु(3) । मन्द्रो नाम (4)उरःस्थानगतो निर्वेदग्लानि(5)चिन्तौत्सुक्यदैन्यव्याधि(6)क्रीडागाढशस्त्रक्षतमूर्च्छामदगुह्यार्थवचनादिषु(7) । नीचो नाम (8)उरःस्थानस्थो मन्द्रतरः स च स्वभावाभाषण(9)व्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम (10)कण्ठगतः स च त्वरितः, (11)लल्लनमन्मनभयशीतज्वर(12)त्रासायस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम (18)कण्ठस्थानगतस्तनुमन्द्रः,
[ABh]

उदात्तानुदात्तस्वरितकम्पितनिर्वाहात् । तत्र मध्यो भागस्तावदनावेशे सर्वत्र स्थित इव । इत्यावेशेनोर्ध्वमधुरं वा स्थानत्रयस्य प्रत्येकमवलम्ब्यत इति षडलङ्कारा भवन्ति । तत्र शिरस्यधोभागे तार उच्यते दूरस्थाभाषणादौ, स विषयो ऽत्र स्वरकाकोरित्युक्तं । विस्मयावगतौ तु सैव रसकाकुः, परस्य त्रासनाभिप्रायेण तु सैव विभावकाकुः । स्वरकाकोरेव श्रुतिकाकुश्चेति भेदेन शिरस्येव ऊर्ध्वस्तारतम आक्षेपादौ, तारशब्दः प्रकर्षोपलक्षणम् । अत्र ह्याक्षेपादौ यथावस्थं श्रुतिविभावरसकाकुभेदत्रयं विभजनीयम् । उरस्यूर्ध्वभागे स मन्द्रः, उरस्येव नीचभागे मन्द्रतमो नीचः । दैन्ये काकुर्द्विरूपतामेति --- स्वचित्तवृत्त्यर्पणाद्रसकाकुः परस्य रूपोत्पादनाद्विभावकाकुः । उभयस्यापि

[(मू)]

1. न॰ वाद

2. ड॰ अमर्षोत्क्रुष्ट, द॰ आक्रोश, प॰ आमर्षणक्रोध, भ॰ रुष्टार्धर्षण

3. प॰ आक्रन्दनादिषु

4. द॰ उरसि मन्द्रस्वरः

5. ड॰ ग्लानिशङ्का

6. क्रीडाशब्दो भ॰म॰योरेव

7. गुह्यार्थवचनं च॰द॰ड॰प॰आदिषु नास्ति, भ॰ब॰न॰म॰य॰र॰आदिषु विद्यते

8. द॰ तत्रैव मन्द्रतरः, ढ॰ उरःस्थानो, ड॰ उरःस्थानगतः, प॰ उरःस्थाने

9. द॰ भयशान्तत्रस्तपतित मूर्छितादिषु, ड॰ स्वभाषा भाषणव्याधित पथिश्रान्त त्रस्तपतित मूर्छितादिषु, न॰ व्याधितपःश्रान्तत्रासपतित मूर्च्छादिषु, फ॰ व्याधितपःश्रान्त त्रासपादपातमूर्छनादिषु

10. द॰ कण्ठगतः स्वरितः, प॰ कण्ठगतस्वरितोच्चगत स्वरकृतिः स च स्खलितवल्गनमदनशीतज्वरार्तत्रस्तायस्तान्यैककार्यावेदनादिषु

11. ढ॰ स्खलित लज्जितोत्खातमन्मन ..., ढ॰ स्खलितवेल्लनमदनभय

12. ड॰ त्रस्तायस्तागूढकार्य ..., भ॰ त्रासायास

13. द॰ तत्रैव स्थितलयः, च॰ कण्ठस्थानस्थो, ढ॰ कण्ठस्थानo मन्द्रः, ड॰ कण्ठस्थानगतो मन्द्रः ।

[(व्या)]

[page 393]




[NZ]

स च शृङ्गार(1)करुण(2)वितर्कितविचारामर्षा(3)सूयिताव्यक्तार्थप्रवादलज्जाचिन्तातर्जन(4)विस्मयदोषानुकीर्तनदीर्घरोग(5)निपीडनादिषु ॥114॥ (6)अत्रानुवंश्या श्लोका भवन्ति ---
उत्तरोत्तरसंजल्प7परुषाक्षेपणेषु च8 BhNZ_17_115ab
तीक्ष्णरूक्षाभिनयने 9आवेगे क्रन्दिते तथा ॥ BhNZ_17_115cd
10परोक्षस्य समाह्वाने तर्जने त्रासने तथा । BhNZ_17_116ab
दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ॥ BhNZ_17_116cd
11भावेष्वेतेषु नित्यं हि नानारससमाश्रया । BhNZ_17_117ab
उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ॥ BhNZ_17_117cd
व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते12 BhNZ_17_118ab
नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च13 BhNZ_17_118cd
[ABh]

तत्र प्राधान्येनादरणात्, अन्यत्र तूभयस्यानादरणात्प्रधानांशेनैव व्यपदेशः । स्वभावाभाषणं यत्र कश्चिदावृत्तकण्ठस्वर एव वक्ता भवति, त्रासने पतितः त्रस्तपतितः, त्रासावसरेतु दीप्तैव काकुर्भवति । कण्ठगत इति कण्ठस्थाने ऊर्ध्वभागे निष्पन्नः, तेन स्थानभेद एवालङ्कारत्वे प्रयोजकः । अत एव त्वरित इत्यनेन पुनर्लयविधानम् । लल्लं सविलासं, लडं विलासं लातीति क्विबन्ते कर्मण्युपपदे लडयोरैक्यमिति । मन्मनमव्यक्तं अहमेव मनो मन्ता यत्रेति, अनेनाश्रूयमाणमनुनासिकोपलक्षितमित्यपरे ।

[(मू)]

1. करुणशब्दो च॰ ड॰ ढ॰ प॰ द॰ आदिषु न विद्यते ।

2. न॰ वितर्क

3. य॰ आश्वसित

4. द॰ विस्मित

5. ड॰ रोष

6. भ॰ अत्र श्लोकाः

7. ड॰ संजल्पे

8. ड॰ आक्षेपणे तथा

9. भ॰ तथाक्रन्दे च नित्यशः, न॰ शीते चाक्रन्दिते, द॰ आक्रन्दे क्रन्दिते, फ॰ आवेशे

10. भ॰ परोक्षह्वयने चैव तर्जनत्रासनेषु च ।

11. भ॰ एषु नानारसोपेता नित्यमर्थप्रदर्शिता(का?), च॰ सर्वेषु

12. ग॰ शोके च क्षुत्पिपासित् । विषमस्थे वितर्के, फ॰ क्षोभे च क्षुत्पिपासिते । विषमस्थे ... ...

13. भ॰ क्षते तथा ।

[(व्या)]

[page 394]




[NZ]

1गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते । BhNZ_17_119ab
मन्द्रा 2नीचा च कर्तव्या 3काकुर्नाट्यप्रयोक्तृभिः ॥ BhNZ_17_119cd
4लल्ले च मन्मने चैव भयार्ते शीतविप्लुते । BhNZ_17_120ab
मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिँः ॥ BhNZ_17_120cd
दृष्टनष्टानुसरणे5 6इष्टानिष्टश्रुते 7तथा । BhNZ_17_121ab
8इष्टार्थख्यापने चैव 9चिन्ताध्याने तथैव च ॥ BhNZ_17_121cd
उन्मादे ऽसूयिते चैव10 उपालम्भे तथैव हि । BhNZ_17_122ab
11अव्यक्तार्थप्रवादे च कथायोगे तथैव च ॥ BhNZ_17_122cd
उत्तरोत्तरसंजल्पे कार्ये ऽतिशयसंयुते । BhNZ_17_123ab
12विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ॥ BhNZ_17_123cd
13विस्मयामर्षयोश्चैव 14प्रहर्षे परिदेविते । BhNZ_17_124ab
विलम्बिता च दीप्ता च काकुर्मन्द्रा15 च वै भवेत् ॥ BhNZ_17_124cd
[ABh]

``लल्लमन्मनौ नायिकागतौ बालविनोदनसान्त्वनादौ, मुञ्चेत्येवं प्रायपराभियोगानङ्गीकरणादौ च'' इत्युपाध्यायाः । मन्द्रापि काकुश्चात्र भवतीति संग्रहश्लोके वक्ष्यते । आत्ययिकं श्रीघ्रसंपाद्यं यत्कार्यम् । आयस्तमावेगः । कण्ठस्थाने तु नीचभागे निष्पन्नो विलम्बितः । लल्लत्वमविवक्षितमेव । अव्यक्तार्थः प्रवादः --- अन्तरङ्गत इति लोके प्रसिद्धो यत्र । परे बुध्यतां च न बुध्यतां चेति वक्तुरभिप्रायो भवति यन्न स्वगतं न परगतमत्रेति । अलङ्कारेषूच्चा दीप्ता द्रुता चेति यथायोगं स्थानत्रयमत्र स्वीकृतमित्यर्थः ।

[(मू)]

1. ढ॰ गूढार्थ

2. न॰ स्थिता, च॰ विलम्बिता चैव

3. च॰ काकुः कार्या

4. ड. मल्ले च मदने

5. ड॰ सारेण

6. भ॰ इष्टारिष्ट

7. च॰ श्रुतौ

8. च॰ इष्टार्थ

9. य चिन्तायाने, च॰ चिन्ताग्रस्ते

10. भ॰ च विषादे च

11. द॰ अव्यक्तार्थे प्रदाने च तथा लोके

12. च॰ पीडिते, ड॰ विक्षते व्यायिते त्वङ्गे, द॰ विकृतेर्ष्याकृते, भ॰ क्रोधे चैव हि दुःखे च शोके नित्यं तथैव च

13. अमर्षे विस्मये

14. न॰ हर्षे ऽथ, ड॰ हर्षे च

15. द॰ मन्दा ।

[(व्या)]

[page 395]




[NZ]

1लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा । BhNZ_17_125ab
उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ॥ BhNZ_17_125cd
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च2 BhNZ_17_126ab
मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ॥ BhNZ_17_126cd
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च3 तेष्वपि । BhNZ_17_127ab
एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ BhNZ_17_127cd
हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । BhNZ_17_128ab
वीररौद्राद्भुतेषूच्चा दीप्ता वापि4 प्रशस्यते ॥ BhNZ_17_128cd
भयानके सबीभत्से द्रुता नीचा च कीर्तिता । BhNZ_17_129ab
एवं भावरसोपेता काकुः कार्या5 प्रयोक्तृभिः ॥ BhNZ_17_129cd
(6)अथाङ्गानि षट् --- विच्छेदो ऽर्पणं विसर्गो ऽनुबन्धो दीपनं प्रशमनमिति(7) । तत्र विच्छेदो नाम (8)विरामकृतः ।
[ABh]

अथ सर्वसंग्रहार्थमाह यानि सौम्यार्थयुक्तानीति । सोम इव ह्लादकः सौम्यः, शाखादित्वाद्यः । मुखस्य हेतवः कार्यश्चेति सुखभावकृतशब्देन समासभेदात्संगृहीतम् । नानाश्रयोपेतमिति नानास्थाननिविष्टं कृत्वेत्यर्थः, स्थानभेदः काकूनां पर्याप्तताकारीत्युक्तम् । अतः काकोरेव प्राधान्यात्तामेवोपसंहरति अथाङ्गानीत्यादिना ।
प्रस्तावान्तरं दर्शयति तत्र वर्णोच्चारणे वर्णध्वनिशून्यो यः कालस्तदाश्रयो ऽङ्गव्यवहार इति वृद्धाः, स हि षोढा कालः ``ततश्च भूयान् पुनरादिमध्यौ'' भूयान् पुनरित्ययं हि विच्छेदः । आदौ मध्यः स्वल्पो मध्यान्ते चार्पणं

[(मू)]

1. अयं श्लोको द॰ च॰ आदिषु न विद्यते ।

2. च॰ वै, भ॰ नादकृतानि वै, न॰ तु

3. य॰ द॰ दीप्तमुच्चं च, ढ॰ दीप्तमुच्चैश्च, च॰ दीप्ता वोच्चा च

4. भ॰ चैव, द॰ चापि

5. प॰ योज्या

6. ड॰ अथाङ्गानि, न॰ अथ षडङ्गानि

7. इति षडङ्गानि

8. भ॰ विरामः ।

[(व्या)]

[page 396]




[NZ]

अर्पणं नाम (1)लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्गं(2) यत्पट्यते तदर्पणम् ।विसर्गो नाम वाक्यन्यासः(3) । अनुबन्धो नाम (4)पदान्तरेष्वपि विच्छेदः, (5)अनुच्छ्वासनं वा । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं चेति(6) । प्रशमनं नाम तारगतानां स्वराणां (7)प्रशाम्यतामवैस्वर्येणावतारणमिति(8) । (9)एषां च रसगतः
[ABh]

वाक्ये पूर्वं भूयान्मध्ये द्रुतश्च विपरीतको यः स विसर्गः । बहुषु द्रुतो ऽथ मध्यो मनाग्द्रुतो ऽन्ते ऽनुबन्धः स्यात् । त्रिस्थाने द्रुतमध्यविलम्बितयुग् दीपनं सदारोहि विपरीतं प्रशमनं स्यात्, लयत्रयं चैकरूपनिर्वाहादिति संग्रहकारः ।
एतन्मतेनैव लक्षणानि व्याचक्षते । एतच्चासन् । द्रुतमध्यादिलयैरेवास्यार्थस्य न तत्त्वान्न च लयव्यवहारसाम्ये कालस्येति नियमकारणमस्ति । किं च लयवैषम्यस्य वाक्यचैतन्यापेक्षया न भागत्रयकल्पनयैव भेदा उक्ताः, भुजङ्गविजृम्भितादिवाक्ये ऽनन्तभागसंभावनात् । भागत्रये च द्रुतमध्यविलम्बितानां द्विभेदत्रिभेदत्वानन्त्ये षट्संख्यानियमविप्लवः । ``क्वाकार्यं †'' इति हि श्लोकप्रथमखण्डेषु मध्यमलयो भूयो ऽपि दृश्यते । सेत्यादिषु ‡ पाश्चात्यखण्डेषु तत्स्मरणजनितसुखविश्रान्तिदायिषु विलम्बित इति द्विलयभेदः प्रयोगः । भागत्रयकलनायामपि साम्ये वैषम्येण चानन्तप्रकारता भवतीति कथं स्यात् । कस्मादेतत्सर्वं लयाभिधानेनैव न संगृहीतम् । तस्मात्सूत्रस्थानीयपदरत्नानां पाठकाले त्वादावुक्तद्धर्मषट्कमङ्गषट्कमुच्यते । तथा च मध्ये त्रुटितत्वमत्रुटितत्वं वा तावतो विच्छेदानुबन्धौ, पीवरत्वमपीवरत्वं वा इमावर्पणविसर्गौ, आरोहणमवरोहणं वा ते दीपनप्रशमने । एवं भावाभावतः, उपचयापचयतः, आरोहावरोहतश्च षड्भेदो नादः । वाक्यस्य

[(मू)]

1. ड॰ लीलावर्णस्वरेणापूरयदिव, न॰ लीलायमान मधुरवर्णस्वरेणापूरयदिव, ग॰ लीलायमान मधुरवर्णनास्थानेन लयेन पूरयद्भिरिव, प॰ लीलायमानानुवर्णेन स्वरेण

2. फ॰ रसं

3. न॰ वाक्यस्योपन्यासः, फ॰ वाक्योपन्यासः

4. भ॰ पदस्य पिच्छेदमन्तरेणानुच्छ्वासनं, य॰ पदान्तरेष्वविच्छेदः

5. द॰ अनुच्छ्वासनं वा

6. ड॰ वर्धनं नाम, न॰ स्वरं च

7. `प्रशाम्यता'मिति च॰ द॰आदिषु न दृश्यते, द॰ स्वराणामेकस्वर्येण

8. च॰ अवरोहणमिति, न॰ अवतरणमिति ।

9. द॰ एषां रस ।

अयं श्लोकः 317 पृष्ठे उदाहृत एव ।

``सा बाला वयमप्रगल्भमनसः'' इत्यादिश्लोकः ।

[(व्या)]

[page 397]




[NZ]

प्रयोगः --- तत्र हास्यशृङ्गारयो(1)राकांक्षायामर्पणविच्छेददीपनप्रशमनयुक्तं पाठ्यं(2) कार्यम् । दीपनप्रशमनयुक्तं करुणे(3) । (4)विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु, (5)विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति । सर्वेषामप्येषां(6) मन्द्रमध्य(7)तारकृतः प्रयोगस् त्रिस्थानगतः । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोज्ययेत् पाठ्यम् इति । (8)मन्द्रात्तारं न गच्छेत्, ताराद्वा मन्द्रमिति ॥130॥
[ABh]

न्यासं त्यजनमनादरणं तन्नादस्येति यावत् । वैस्वर्यं स्वरत्वेन विहितेषु अन्तरालश्रुतिविशेषेषु ध्वनि(वि)संवादनाद्भवतीति सर्वत्राभ्यूह्यम् । हास्यादयः शब्दास्तद्व्यभिचारिणो ऽपि स्वीकुर्वते । ततश्च तद्व्यभिचारिणो ऽन्यरसान्, रसान्तरे ऽपि तदा व्यभिचार्याश्रये वा काकुरिति मन्तव्यम् । सर्वेषामित्यादिनाङ्गानां मूलभूतं स्थानभेदं स्मारयति । तत्र दूरस्थ इत्यादिना विनियोगवाक्यानां लक्ष्ये एकवाक्यतां सूचयति । तथा हि शृङ्गारे यदुदात्तस्वरितमुक्तमर्पणविच्छेदाद्यङ्गजातं विलम्बितं चालङ्कारः तद्दूरस्थाभाषने कर्तव्ये शिरःस्थाने षड्जपञ्चमयोरन्यतरस्थायिस्वराश्रयेणांशस्वरविभागचतुश्चतुष्कसम्मिश्रं कर्तव्यमित्येवं तात्पर्येणेदं व्याख्येयम् । अन्यथाभाषणं दूरस्थे शिरसेत्यादिना पौनरुक्त्यं स्यात् ।
अथ दीपनप्रशमनयोर्वक्तव्यशेषमाह मन्द्रात्तारं न गच्छेदित्यादि । मन्द्रतरात्तारं तारतमान्मन्द्रं चेत्यर्थः ।
उद्देशग्रन्थ एव केचिल्लया विरामाश्चेत्यभिधीयन्ते ।

[(मू)]

1. म॰ भ॰ योरेव `आकांक्षायां' इति ।

2. ड॰ वाक्यं

3. ``दीपन करणे'' इति भ॰ म॰ योरेव

4. ड॰ करुणवीराद्भुतेषु समाकांक्षविच्छेदप्रशमनार्पणदीपनानुबन्धबहुलं पाठ्यं प्रयोज्यम् । (न॰ वीररौद्राद्भुतेषु सत्त्वाकांक्षणा विच्छेदोद्दीपन)

5. द॰ बीभत्सभयानकयोर्विसर्गविच्छेदाकांक्षणप्रायमिति (ड॰ विच्छेदार्पणयुक्तमिति ।)

6. ड॰ चैव तेषां, द॰ चैतेiषां, ढ॰ चैवैषां

7. प॰ तारव्यवस्थया त्रिस्थानगतः प्रयोगः

8. च॰ मन्द्रतारं गच्छेत् ।

[(व्या)]

[page 398]




[NZ]

(1)एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः(2) । तत्र हास्यशृङ्गारयोर्मध्यलयः (3)करुणे विलम्बितो, वीररौद्राद्भुत(4)बीभत्सभयानकेषु द्रुत इति ॥131॥
अथ विरामः, अर्थसमाप्तौ कार्यवशान्न छन्दोवशात्(5) । कस्मात्, दृश्यन्ते ह्यनेकद्वित्रिचतुरक्षरा विरामाः । यथा ---
किं गच्छ मा विश सुदुर्जन 6वारितो ऽसि कार्यं त्वया न मम सर्वजनोपभुक्तम्7 BhNZ_17_132ab
8सूचासु चाङ्कुरगते च9 तथोपचारे10ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ॥ BhNZ_17_132cd
[ABh]

अन्ये त्वाहुः --- कालस्य सर्वस्यापरिभाव्यत्वान्नोद्देशेन प्रयोजनं मतिमन्तस्तु मन्यन्ते । विच्छेदेनैव च लयमेतत्स्वीकृतम् । विच्छेदो विरामः, स च कियन्तं कालमिति लयो ऽपि तेनैव स्वीकृतः । तेन विच्छेदस्य परीक्षेयं कथितेति । तत्रेति विच्छेदे, अर्थसमाप्तिनिमित्तं विरामो वास्य कार्यः । अर्थो ऽवान्तरवाक्यार्थः । न च्छन्दोवशादित्यनेन कविना प्रयोगपरतन्त्रेण तदा स तदवसरोचितविरामवति वृत्ते ग्रहणप्रयत्नः कार्यः । प्रयोक्त्रापि कविपरतन्त्रेण न भाव्यमित्यत्रापि तेनार्थवशाद्विरामः कार्य इत्याख्यातम् । संख्यात्र नियमोपलक्षणं एकद्वित्रीति । किमित्येतावत्यवान्तरवाक्यार्थे विच्छेदः किं गच्छेति ।
नन्वेवमेकवाक्यत्वाभावे दूषणमित्याशंक्य प्रत्युत भूषणमेतदित्युपपादयन्नाह --- ``सूचात्सु चाङ्कुरगते च तथोपचारेष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये '' इति । बहुप्रकारैः सूचाभिनयैः अङ्कुरप्रकारैश्च युक्तमित्थं काव्यं भवति

[(मू)]

1. भ॰ अत्र च

2. भ॰ उपयोज्याः

3. . द॰ करुणे च

4. भ॰ बीभत्सकरुणयोर्विलम्बितः, भ॰ मातृकायां बीभत्सशब्दो नास्ति

5. भ॰ नानाच्छन्दोवशात्

6. द॰ कारितो ऽसि

7. च॰ युक्तम्

8. न॰ सूचाङ्कुराभिनयनेषु

9. ड॰ अत्र

10. ड॰ स्वल्प ।

[(व्या)]

[page 399]




[NZ]

एवं विरामे प्रयत्नो ऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः । (1)अत्र श्लोकः ---
2विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः । BhNZ_17_133ab
कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः3 BhNZ_17_133cd
यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः4 BhNZ_17_134ab
5वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः6 BhNZ_17_134cd
[ABh]

यदि स्वल्पाक्षराणि पदान्यसमस्तानि भवन्ति । बह्वक्षरपदे दरिद्राश्च किं यस्ते(?) इत्यादौ न मध्ये सूचाङ्कुरयोरुपपत्तिः ।
``तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना''(*)
इत्यादौ तु तस्या इत्युक्त्वा मध्ये सूचया तदित्यसाधारणविशेषस्मरणं स्वात्मनि तच्चावलोकने तथाकर्णने च प्रच्छन्नस्थिताया नायिकाया निवृत्त्यङ्कुरे वैचित्र्यं पुनः परिचुम्बनाभिलाषसूचायोगपूर्वकं मुखमिति पाठस्तत्कृतो नायिकाया रणरणकादरदर्शको निवृत्त्यङ्कुर इत्यादिवैचित्र्ये उत्प्रेक्षणीयम् । अङ्कुरस्त्वनिर्वचन एवेति निवृत्त्यङ्कुर एवात्र मन्तव्यः । यत्राङ्कुरो भविष्यति तद्विषयमेतदिति त्वसत्, पुष्पापचयनाटने यदोचितपरिक्रमणादौ पूर्वभाविना स्वल्पाक्षरेण पदयोगेन वैचित्र्याभावात् ।
अथास्य विच्छेदस्याङ्गस्य प्राधान्यं दर्शयति --- एवं विराम इत्यादि । अस्मिन्निति विरामे सत्यभिनयस्थितो यथाविषयं प्रयोक्तुं शक्यः । स च विरामाद्गम्यते । विरामे सत्यर्थं दर्शयति अभिनये ऽन्यथा असमञ्जसत्वं स्यादिति तात्पर्यम् । यदि वाभिनयो विरामे स्थित इत्यभिनयकार्यं विराम एवोद्वहतीति तात्पर्यम् । तदाह तत्र व्यग्राविति । पूर्वं दृष्टिप्राधान्यतात्पर्येणेत्यपौनर्क्त्यम् ।

[(मू)]

1. ड॰ भवत्यपि च श्लोकः

2. य॰ विरामे तु प्रयत्नस्तु

3. भ॰ प्रतिष्ठितः, न॰ स्थितः, ड॰ ह्यस्मादर्थापेक्षी यतस्ततः, च॰ ह्यर्थे अर्थापेक्षी यतः स्थितः

4. द॰ समन्वितैः

5. द॰ वाचिको ऽभिनयः

6. ड॰ दर्शिभिः ।

[(व्या)]

*

सौन्दर्यस्य पदं दृशौ च यदि ते किं नाम नीलोत्परैः ।

किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे

ही धातुः पुनरुक्तवस्तुरचनारम्भेड्वपूर्वो ग्रहः ॥

[page 400]




[NZ]

1प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ । BhNZ_17_135ab
बीभत्से 2कुत्सितत्वाच् च भवतः कुञ्चितौ करौ ॥ BhNZ_17_135cd
हास्ये वोद्देशमात्रेण करुणे च प्रलम्बितौ । BhNZ_17_136ab
अद्भुते विस्मयात्स्तब्धौ भयाच्चैव3 भयानके ॥ BhNZ_17_136cd
एवमादिषु चान्येषु4 5प्रविचारे ऽथ हस्तयोः । BhNZ_17_137ab
अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः6 BhNZ_17_137cd
ये विरामाः स्मृता 7वृत्ते तेष्वलङ्कार इष्यते । BhNZ_17_138ab
समाप्ते ऽर्थे पदे वापि तथा प्राणवशेन वा ॥ BhNZ_17_138cd
पदवर्णसमासे च8 द्रुते बह्वर्थसंकटे । BhNZ_17_139ab
कार्यो विरामः पदान्ते तथा प्राणवशेन वा ॥ BhNZ_17_139cd
9शेषमर्थवशेनैव विरामं संप्रयोजयेत् । BhNZ_17_140ab
[ABh]

व्यापकत्वमस्या दर्शयति प्रायो वीरे च रौद्रे चेति । कञ्चिताविति संकोचवन्तावित्यर्थः ।
भयाच्चेति श्लथावेव । उच्चदीप्तादिरलङ्कारः । स च वृत्तविरामेषु यथा ``यो ऽयं शस्त्रं बिभर्ति'' इत्यत्रोच्चदीप्तकाकुः पदान्तेन, वीररौद्रयोरपि स्रग्धरादिवृत्ते अर्धादौ विरामो न कार्यः, अपि तु पादान्ते पठितस्तावत् प्राणसंवेदाभावात् । प्राणवशेन वेत्यगतिकागतिरिति वृद्धाः । तच्चासत् । शिक्षावशेनाहरणीयो हि तत्राविच्छेदः । तस्मादयमर्थः --- पदान्ते विच्छेदः कार्यो, यदि वा प्राणवशेन प्राणा रसभावाद्याः, तदौचित्येन छेदः । पादादावपि तावदनेनानुबन्धो ऽपि विच्छेद उपयोगीति दर्शितम् । शेषमिति न यत्र चित्रवृत्तेः

[(मू)]

1. म॰ प्रायौ ।एते त्रयः श्लोकाः भ॰आदर्शे न विद्यन्ते, द॰ प्रायो रौद्रे च रौद्रः प्रहरणाकुले

2. ड॰ कुञ्चितत्वाच्च, द॰ कुत्सितत्वे च भवतः कुण्ठितौ

3. च॰ विस्मयाविष्टे स्तब्धौ कार्यौ

4. ड॰ सर्वेषु

5. ड॰ अधिकारेषु, द॰ प्रविचारेषु

6. द॰ अर्थविनिश्चयः

7. भ॰ नृत्ते

8. ड॰ वा

9. इदं श्लोकार्धं भ॰म॰योर्नास्ति ।

[(व्या)]

[page 401]




[NZ]

(1)अत्र च भावगतानि (2)रसगतानि च (3)कृष्याक्षराणि बोद्धव्यानि, तद्यथा ---
4आकारैकारसंयुक्त5मैकारौकारसंयुतम् । BhNZ_17_140cd
6व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते7 ॥ 140॥ BhNZ_17_140ef
विषादे च वितर्के च प्रश्ने ऽथामर्ष एव च8 BhNZ_17_141ab
कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः । BhNZ_17_141cd
शेषाणामर्थयोगेन विरामे विरमेदिह10 BhNZ_17_142ab
एकद्वित्रिचतुःपञ्चषट्कलं च11 विलम्बितम् ॥ BhNZ_17_142cd
12विलम्बिते विरामे हि13 14सदा गुर्वक्षरं भवेत् । BhNZ_17_143ab
षण्णां कलानां परतो 15विलम्बो न विधीयते ॥ BhNZ_17_143cd
अथवा कारणोपेतं प्रयोगं कार्यमेव च16 BhNZ_17_144ab
[ABh]

प्राधान्यं अपि तु विभावादेः, तत्रार्थवशेनैव विरामः । कृष्याक्षराणीति कृषतीति कृषो विलम्बितो लयः तत्र साधूनि कृष्याणि सन्ध्यक्षराणि, यथा आ, ई, ऊ इति दीर्घाः । कलालक्षणो यः कालः तत्प्रमाणेन विलम्बितेन पाठं कार्यमिति विच्छेदस्यैव प्रमाणं दर्शितम् । शेषाणामिति ह्रस्वनाम् । अर्थयोगेनेति यथा स्फुटा प्रतीतिर्भवति तथा विच्छेदः कार्यो न त्वति विलम्बितं पठेदित्यर्थः ॥
ननु कियत्कलाप्रमानमित्याह विलम्बितमिति । गुर्वक्षरमिति कृष्यं । वा शब्दादधिकमनुजानाति कारणोपेतमिति कारणं दीर्घकालं स्मरणमिति

[(मू)]

1. भ॰ अथ, ड॰ अत्रानुगतानि चत्वार्यक्षराणि रसभावानुगतानि कृष्टान्यक्षराणि चोद्वोध्यानि । तद्यथा

2. ग॰ रसजातानि

3. म॰ कृष्याद्यक्षराणि, च॰ कृष्याण्यक्षराणि

4. द॰ आकारौकार, च॰ एकारैकार

5. च॰ ओंकारौकार, द॰ अकारौकार, ड॰ एकारेकार, ढ॰ एकारैकार

6. भ॰ एकारौकारसंयुक्तं दीर्घं यद्व्यञ्जनं भवेत्

7. ड॰ तत्र भवेदिह

8. च॰ चामर्षणे तथा, ड॰ विवर्ते च प्रश्ने चामर्षणे तथा

9. न॰ योज्यं

10. भ॰ विरमेद्बुधः

11. न॰ वा

12. च॰ विलम्बिता

13. च॰ अपि, ड॰ च

14. द॰ यदा

15. च॰ लम्बनं, ड॰ लङ्घनं

16. द॰ वा ।

[(व्या)]

[page 402]




[NZ]

समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः1 BhNZ_17_144cd
2ये विरामाः स्मृताः पाठ्ये3 4वृत्तपादसमुद्भवाः । BhNZ_17_145ab
उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्ते ऽर्थवशानुगाः5 BhNZ_17_145cd
नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं6 तथैव हि7 BhNZ_17_146ab
विश्रमेन्नाविरामेषु8 दैन्ये काकुं न दीपयेत्9 BhNZ_17_146cd
[ABh]

चिन्तनादिभिः, व्याध्यपस्मारादिभिर्वा कारणैरुपेतं, स्पष्टास्पष्टादिभिरित्यन्ये । वृत्तविरामादर्थविरामः प्रथममिति दर्शयितुमाह ये विरामा इति । तज्ज्ञैस्तद्विरामात्मकं वृत्तगतं वस्तु, उत्क्रम्यापीति विशेषोपक्रमो ऽपीति सामान्योपसंहारः । तादृशा विरामेण न पठेत्, येनावगतो विवक्षितः शब्दो भवति, `वरदं ध्यायति' इत्यत्र वर(द)शब्देन यदा विच्छेदः क्रियते तदा मध्य इति शब्दान्तरप्रतिभया ध्यायति शब्दो ऽवगच्छतीति । भिन्नवृत्तं च कृत्वा न पठेत् यथा विच्छेदं न कुर्याद्येनान्यवृत्तभ्रान्तिर्भवति । तथा हि --- ``भव शङ्करभाजनं ये जगतीह भवन्ति केचन'' इत्यत्र ये इति शब्दस्य पूर्वपादेन सह पाठे औपवेदवृत्तभेदे यद्यपि भवति तथापि द्वितीयपादे वृत्तभङ्गः । तेन वृत्तं न पठेदिति विच्छेदस्यैव प्राधान्यज्ञापनार्थमेतद्युक्तमिति । शब्दच्युतभिन्नवृत्तदोषाभिधाने न पौनरुक्त्यम् । इह वस्तुतस्तदभावे ऽपि विच्छेदवशेन तत्प्रतिभोदयात् ।
एतदेव तात्पर्येणाह --- विश्रमेन्नाविरामेष्विति । एवं विच्छेदस्य भूयोविषयव्यापकत्वमभिधाय तन्न्यूनां दीप्तां दर्शयितुमाह दैन्ये काकुं न दीपयेदिति शोकादिकमग्नचित्तवृत्तिं विमुच्यान्यत्र दीपनं सर्वत्र शोभावहमिति भावः ।
एवं स्वराः क्रमो मर्यादा स्थानत्रयमाश्रयः उदात्तादयः स्वरूपं अलङ्काराः स्वरूपपरिपूरकाः इतिकर्तव्यतारूपाण्यङ्गानि । स्वरभेदाच्च काकोर्विशेषः

[(मू)]

1. ढ॰ कर्तव्या विरामा रसभावतः, न॰ अतः परो ऽपि हि

2. ड॰ ते

3. ड॰ काव्ये, द॰ वाक्ये

4. च॰ दन्त, ग॰ दत्त, न॰ वृत्ते

5. द॰ ते ऽथ रसाश्रयाः, च॰ वशाश्रयाः, ड॰ वशास्तथा

6. वृत्ते

7. ड॰ न चैव हि, न॰ च

8. भ॰ अविरामे तु

9. ड॰ न काकुः रसहीनकम्, प॰ न काकुरसदीपनम् ।

[(व्या)]

[page 403]




[NZ]

1वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् । BhNZ_17_147ab
स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं2 यथाविधि ॥ BhNZ_17_147cd
3अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः4 BhNZ_17_148ab
त एव सर्वे कर्तव्याः स्त्रीणां पाठ्ये त्वसंस्कृते5 BhNZ_17_148cd
एवमेतत्स्वरकृतं6 कला7काललयान्वितम् । BhNZ_17_149ab
दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ॥ BhNZ_17_149cd
उक्तं काकुविधानं तु8 यथावदनुपूर्वशः । BhNZ_17_150ab
9अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ॥ BhNZ_17_150cd
[ABh]

स्वरभेदो हि तस्यामेव काकौ विवक्षितायां रसभावादि धर्मान्तरोदयो, न हि स्वराणां स्थानभेदो ऽलङ्कारो ऽङ्गादिकृतः । वर्जितं काव्यदोषैरित्यादिना प्राक्तनाध्यायार्थेन सह सङ्गतिमस्याध्यायस्य दर्शयति ।
एवं संस्कृते काकुविधानं प्राकृताध्यायप्रमेयभूते प्राकृते ऽप्यतिदिशति अलङ्कारा विरामाश्चेत्यादिना । अध्यायार्थमुपसंहरन् भाविनो ऽध्यायस्यार्थमासूत्रयति दशरूपेति दशरूपविधाने यत्पाठ्यं तदनेन त्रिप्रकारेण योज्यमित्युपसंहारः । तुशब्दो व्युत्क्रमं सूचयति । प्रसङ्गादक्रमप्राप्तमपि काकुविधानमुक्तम् । अनुपूर्वश इत्यादि यत्तु क्रमापन्नं तद्दशरूपं विकल्प्यमानं वक्ष्यामीति शिवम् ॥
इति काकुविकल्पलक्षणे ऽस्मिनन्
अध्याये मुनिदिक्समर्थिते ऽर्थम् ।
प्रकटीकुरुते स्म चन्द्रमौलेर्
अभिनवगुप्तसमाख्य एकदेशम् ॥

[(मू)]

1. द॰ व्यपेतं, ड॰ व्यपेतं वाक्य

2. द॰ काव्यं

3. ड॰ अलङ्कारविशेषा ये पाठ्यसंस्कृतसंश्रयाः

4. न॰ श्रिताः

5. न॰ पाठ्ये तु संस्कृते, ड॰ ते सर्वे संप्रकर्तव्याः स्त्रीणां पाठ्ये तु संस्कृते, ग॰ तु संस्मृताः

6. ड॰ युतं

7. ड॰ ताल

8. द॰ च॰

9. भ॰ अतःपरं ।

[(व्या)]

[page 404]




[NZ]



इति भारतीये नाट्यशास्त्रे (1)वागभिनये (2)काकुस्वरव्यञ्जनो(3) नाम सप्तदशो ऽध्यायः(4) ॥
[ABh]

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां काकुविधानं नाम सप्तदशो ऽध्यायः ॥

[(मू)]

1. ड॰ वागङ्गाभिनय

2. भ॰ स्वरकाकु

3. न॰ व्यञ्जको

4. द॰ काकुव्यञ्जको नामाध्यायो ऽष्टादशः ॥ 155 --- (2771) ज॰ आदि व॰ अन्तेषु द॰ संज्ञके विना ऐकोनविंशो ऽध्यायः ॥

[(व्या)]

[page 405]




श्रीः
नाट्यशास्त्रम्
अष्टादशो ऽध्यायः †

[NZ]

1वर्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् । BhNZ_18_001ab
नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ BhNZ_18_001cd
[ABh]

रूपं यदेतद्बहुधा चकास्ति तद्येन भावी भविता न जातु ।
तच्चक्षुरर्कात्मकमीश्वरस्य वन्दे वपुस्तैजससारधाम्नः ॥
दशरूपोपकारिकाक्वादियोजनमिति तत्स्वरूपं वक्तव्यमिति सङ्गतिरुक्तैव तद्वर्तयुष्यामीति किमनेनोच्यते, तदस्य प्रयोजनं प्रदर्श्यते । कश्चिदेवमाशङ्कते, ``रसा भावा''(अ-6-10) इत्यादि सूत्रसारसङ्ग्रहे दशरूपशब्दस्य नामापि न श्रुतं, तत्कथमुक्तं दशरूपविधाने पाठ्यमिति तं प्रत्याह वर्तयिष्यामीति । रूप्यते प्रत्यक्षीक्रियते यो ऽर्थः तद्वाचकत्वात्काव्यानि रूपाणि दशानां रूपाणां विभागः कल्प्यते अस्मादिति दशरूपविकल्पनं सूत्रं तेनायं षष्ठीसमासः दशरूपमिति । तेन बहुव्रीहौ दशरूपं काव्यमिति भेदान्तरापाकरणं स्यादित्याशंक्य द्विगुः, पात्रादिप्रक्षेपश्च यो व्याख्यातस्तत्प्रयासमात्रमेव । तदयमर्थः --- यतः सूत्रादाङ्गिको वाचिकशब्दे प्रकृतिप्रत्ययार्थविभागः कल्प्यते तत्र वाग्भाग एवायं वितत्य वर्ण्यते, तेन तदेव सूत्रं वर्णितम् विवरणेन प्रपञ्चितं भवतीति नानिर्दिष्टं निरूप्यते किञ्चिदिति । नामत इत्युद्देशेन कर्मत इति लक्षणेन क्रियते,

[(मू)]

1. द॰ वर्णयिष्यामि ।

[(व्या)]

क॰ ख॰ ग॰ घ॰ च॰ भ॰ म॰ मातृकास्वष्टादशो ऽध्यायः । द॰ आदर्शे एकोनविंशो ऽध्यायः । सर्वेष्वन्येषु विंशो ऽध्यायः । ग॰ घ॰ च॰ म॰ प॰ य॰ एषु व्याख्यानुसारी पाठो दृश्यते, यस्मिन् लास्याङ्गलक्षणमष्टादशे न वर्तते किंत्वेकोनविंश एव दृश्यते । भ॰ मातृकायां लास्याङ्गलक्षणानि तालाध्याये (31) वर्णितानि । त्रयोदश वीथ्यङ्गान्यपि वृत्तिकारेण अष्टादशे यान्युक्तानि भ॰ मातृकायां वृत्तिविकल्पे संचितानि तानि । अयमपरो विशेषः --- भ॰मातृकायां दशरूपलक्षणं सन्ध्यङ्गलक्षणं चैकस्मिन्नध्याय एव पठितं, यदन्यासु द्वयोर्लक्षितम् । तस्मात् भ॰मातृकापठित एकोनविंशः अभिनवगुप्तेन विंश इति द॰ मातृकायामेकविंश इति, तदन्यासु द्वाविंश इति च संख्यातः ॥

[page 406]




[NZ]

नाटकं सप्रकरणमङ्को व्यायोग एव च । BhNZ_18_002ab
भाणः समवकारश् च वीथी प्रहसनं डिमः ॥ BhNZ_18_002cd
ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे1 BhNZ_18_003ab
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ BhNZ_18_003cd
सर्वेषामेव काव्यानां2 मातृका वृत्तयः स्मृतः । BhNZ_18_004ab
[ABh]

तेन विजातीयाद्व्यावृत्तिः, कर्मलक्षणं, प्रकृष्टः उचितो योगः परस्परसंबन्धो यथा प्रकरणनाटकलक्षणयोगात् नाटिकेतिवृत्तिविभागस्तु लक्षण एवानुप्रविष्ट इति । नासौ प्रयोगः तथा चेति तेनैव प्रयोगप्रकारेणान्यो ऽपि प्रस्परसंबन्धवैचित्यकृतो भेदः उत्प्रेक्ष्य इत्यर्थः । प्रयोगाय प्रयोगत इति व्याख्याने प्रयोगत इति विफलमेवम् । उक्तव्याख्याने तु कोहलादिलक्षिततोटकसट्टकरासकादिसङ्ग्रहः फलं, नाटिकायाः उदाहरणत्वादिति । तत्रोद्देशं तावदाह नाटकमित्यादि । सप्रकरणमिति सहशब्देनाङ्कप्रवेशकसन्ध्यादिसाम्यं नाटकेन प्रकरणस्याह । नाम्नामर्थो लक्षण एव व्याख्यास्यते । सत्यपि च पुराणादावुपदेशदायिनि कर्मफलसंबन्धप्रदर्शके तत्रोच्चावचमनियतकविकन्थाप्रायमिह तु किञ्चित्प्रयोज्यं किञ्चित् सूच्यं किञ्चिदूह्यं किञ्चिदुपेक्ष्यमित्येवं वैचित्र्ययोगः । ``सन्ध्यादिव्यवस्थे''ति ``दशरूपं सप्रयोजन''मिति --- एतत्तु फल्गुप्रायं, फलं तत्पूर्वमेवोक्तम् । प्रत्यक्षतोदितरसावेशजनितनिर्वृतिसारत्वादस्येतिहासादेर्विशेष इत्यूह्यम् । सूच्यादिविभागस्त्वितिहासादावप्यस्त्येवेति न च पाठफलं दशरूपकमपि प्रयोगपर्यन्तमेतदित्युक्तप्रायम् । तत्र महासामान्यरूपं काव्यलक्षणे ऽध्याये कृतमित्यवान्तरसामान्यलक्षणमुद्देशानन्तरं वक्तवमिति दर्शयति । प्राक् च सामान्यलक्षणं ततो विशेषलक्षणानि चोद्देशक्रमेणेति चानुपूर्व्यार्थः । तत्र सामान्यलक्षणमाह सर्वेषामेव काव्यानां मातृका इति ।
तत्र केचिदाहुः --- वृत्तिप्रभवत्वं दशरूपकस्य सामान्यलक्षणं, वृत्तीनां तदङ्गानां चाभिनये काव्येष्वसंभवात् । एतच्चासत्, आस्तां काव्यार्थः । सर्वो हि संसारो वृत्तिचतुष्केण व्याप्त इत्युक्तं प्रथम एवाध्याये ऽस्माभिः

[(मू)]

1. ईहामृगं च विज्ञेयं दशमं नाट्यलक्षणम्, म॰ नाट्ययोक्तृभिः ।

2. द॰ नाट्यानां ।

[(व्या)]

[page 407]




[NZ]

1आभ्यो विनिस्सृतं2 ह्येतद् दशरूपं प्रयोगतः ॥ BhNZ_18_004cd
[ABh]

यदि चाभिनेयविषय एव वृत्तिव्यवहारस्तदा वृत्त्यध्याये यद्वृत्तीनां समुत्थाननिरूपणं ``यां यां वृत्तिषु संश्रिता'' (20-15)मित्यादितत्सर्वमसङ्गतं, भगवतो हि नाभिनेतृता, किन्तु स्वचेष्टावेशमात्रम् । सर्वशब्दे च प्रकृतनाटकादिविषये वर्ण्यमाने प्रथमश्लोकार्धं पुनरुक्तार्थमेव । यत्तु ``स्वनामधेयैर्भरतैः''(20-25)इति ``बहुगीतनृत्तवाद्ये''ति(20-47) ``वागङ्गाभिनयवती''ति (20-39) च भरतव्यवहारो गीताभिनयाभियोगश्च नानाभिनेय इति तदप्यकिञ्चित्करम् । तावद्धि वृत्तीनां लक्षणं ``या वाक्प्रधाना''(अ-20) इत्येतावदेव भारत्या लक्षणम् । अन्यत्तु प्रयोगप्रदर्शनमिति तत्रैव व्याख्यास्यामः । वृत्त्यङ्गान्यपि सर्वकाव्येषु सन्त्येव ।
नन्वेवं वृत्तिजत्वं कथं दशरूपकलक्षणम्, उच्यते, प्रयोगत इत्येतदर्थकमेव । तदयमर्थः --- यद्यपि सर्वेषामभिनेयानभिनेयानां काव्यानां वृत्तयश्चेष्टा मातर इव, ताभ्यो ऽपि वाच्यरूपत्वेन कविहृदये व्यवस्थिताभ्यः काव्यमुत्पद्यते । तथापि प्रयोगं प्रयुज्यमानत्वात्प्रयोगयोग्यत्वमभिसन्धाय वृत्तिभ्यो विनिस्सृतमभिनेयकाव्यं प्रत्यक्षभावनायोग्यवृत्तिचतुष्टयाभिधायकत्वं दशरूपं सामान्यलक्षणमित्यर्थः । दशानां नाटकादीनां रूपमिति षष्टीसमासः ॥
अन्ये त्वाहुः । एकैकस्य रूपकस्य दश दश रूपाणि संभवन्ति । तथा च वीथ्यङ्गानां सर्वत्र संभवः । परगतवचनानुरूपभाषणरूपभाणयोगश्च किंब्रवीषीत्याकाशभाषिते । एवमन्यदपि । तेन दशरूपाणि यस्य तद्दशरूपं काव्यमित्यर्थः । अत एव न सकलः प्रबन्धो नाटकम्, अपि तु प्रबन्धस्य किञ्चिद्रूपं, तल्लक्षणांशबाहुल्यात्तु तद्व्यपदेशयोगः । अत एव न दशसंख्याविभागार्थो येन सट्टकादीनां त्यागः स्यात् । तत्रापि हि दशरूपलक्षणयोगो ऽस्त्येव । एतच्च स्वावसरेषु विननिष्यामः ।
ननु प्रयोगयोग्यचेष्टाप्रतिपादकत्वं चेत् सामान्यलक्षणं, तर्हि चेष्टातिरिक्तस्य कस्यचिदसंभाव्यत्वान्नास्त्येव विशेषलक्षणमेषामित्याशङ्काशमनं विशेषलक्षणावकाशं

[(मू)]

1. द॰ आसां

2. भ॰ विनिर्गतम् ।

[(व्या)]

[page 408]




[NZ]

जातिभिः श्रुतिभिश्चैव 1स्वरा ग्रामत्वमागताः । BhNZ_18_005ab
2यथा तथा 3वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ BhNZ_18_005cd
ग्रामौ 4पूर्णस्वरौ 5द्वौ तु 6यथा वै षड्जमध्यमौ । BhNZ_18_006ab
7सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ BhNZ_18_006cd
[ABh]

दर्शयितुमाह जातिभिः श्रुतिभिश्चेत्यादि । दृष्टान्तेन प्रकृतं घटयन् व्युत्पादनीयमपि व्युत्पादयतीति समानतन्त्रसिद्धमेव दृष्टान्तमदीदृशत् । स्वरेषु ग्रहादिदशकविभागनियता जातिः । रक्तो ऽरक्तो वा ध्वनिः, ध्वनिः स्थानं तदन्तरालं च श्रुतिः, कर्माधिकरणकरणव्युत्पत्त्याश्रयात् । स्त्रियाः खलनाविति(*) हि नादृतं लक्ष्ये । तत्र षाड्जीप्रभृतयो जातयः सप्त, पञ्चमस्य चतस्रः श्रुतयो, धैवतस्य तिस्रः, इति षड्जग्रामः । गान्धार्याद्या एकदश जातयः, पञ्चमास्त्रिश्रुतिः धौवतस्तु चतुःश्रुतिरिति मध्यग्रामः ।
वस्तुतस्तु षड्जादिस्वरसमुदायो ग्रामः । तत्र स्वरा इति श्रुतिपक्षे बहुवचनं लक्ष्यविदः समर्थयन्ति --- मध्यग्रामे पञ्चमपरित्यक्तां श्रुतिं धैवत एवोपभुङ्क्त इत्यत्र प्रमाणाभावात् सर्व एव द्वित्रिश्रुतिकाः (श्रुत्युत्कृष्टत)या समधिकश्रुतयः क्रियन्ते, काकल्यन्तराभ्यां च चतुस्त्रिश्रुतयो न्यूनश्रुतय इति सर्वस्वराणां श्रुतिकृतं वैचित्र्यमस्तीति । एतच्च स्वावसरे वक्ष्याम इत्यास्ताम् । इह त्वनेन दृष्टान्तेनैतदुक्तं भवति --- स्वरसमुदायरूपत्वाविशेषे ऽपि स्वराणां पर्यायतः प्राथम्यप्राधान्याल्पत्वभूयस्त्वपूर्णत्वापूर्णत्वारोहान्त्यत्वमध्यत्वादि प्रविभागभेदैः, यथान्यः षड्जग्रामो ऽन्यो मध्यमग्रामः, तथैव वृत्तीनां स्वरस्थानीयानां प्राथम्यप्राधान्यादिना दशकेन रूपकं रूपकान्तराद्भिद्यते । यथा चतुःश्रुतिः पञ्चमस्त्रिश्रुतिश्च भवन् ग्रामान्यत्वं करोति तथा सैव वृत्तिः श्रुतिस्थानीयैरङ्गैः क्वचित्संपूर्णा क्वचिन्न्यूनेत्येवमपि रूपकविभाग इत्येतज्जातिभिः श्रुतिभिरिति द्वयेन दर्शितम् ।
अथ वृत्तिविभागं संक्षेपतो ऽभिधत्ते ग्रामौ पूर्णस्वराविति । जात्याश्रययोर्जातिद्वारेण षाडवौडुविकांशकयोगे न्यूनस्वरताप्यस्तीति षड्जग्रामरागो

[(मू)]

1. द॰ स्वरग्रामत्वमामतैः

2. भ॰ यद्वत्तथैव वृत्तिभ्यः काव्यबन्धाः प्रतिष्ठिताः, ड॰ यथायथा

3. द॰ वृत्तिभेदैर्भवन्ति ह

4. ड॰ पूर्वस्वरौ, ढ॰ यौ, ड॰ द्वौतौ

5. द॰ तथा

6. भ॰ एवं वृत्तिषु सर्वासु काव्यबन्धं च यद्भवेत्

7. ड॰ सर्ववृत्तविनिष्पन्नं काव्यबन्धं द्वयं स्मृतम् ।

* महाभाष्ये वार्त्तिकम् --- 3.3.126(2)

[(व्या)]

[page 409]




[NZ]

ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । BhNZ_18_007ab
सर्ववृत्तिविनिष्पन्नं नानाबन्धसमश्रयम्1 BhNZ_18_007cd
2वीथी समवकारश्च तथेहामृग एव च3 BhNZ_18_008ab
उत्सृष्टिकाङ्को व्यायोगो 4भाणः प्रहसनं डिमः ॥ BhNZ_18_008cd
[ABh]

मध्यमग्रामरागश्चेह ग्रामशब्देन व्यपदिष्ट इति केचित् । तदसत्, इह हि ग्रामशब्देन जातिसमुदायो ऽभिधीयते । तत्र यद्यप्यंशके न्यूनस्वरतापि भवति, तथापि समुदायस्य पूर्णतायाः का हानिः । तस्मादयमत्रार्थः --- यथा विचित्रसन्निवेशतालम्बनसुन्दरतमसंपूर्णस्वरसमुदायरूपात् ग्रामद्वयाद्विभागकल्पनया जात्यंशकानां पूर्णापूर्णादिस्वरभेदभाजां प्रसवः, एवं नाटकप्रकरणाभ्यां पूर्णवृत्तिवृत्त्यङ्गाभ्यां वृत्तिन्यूनानां च रूपकभेदानां परिकल्पनम् । तत्र वृत्तिन्यूनानि रूपकाण्याह वीथीत्यादि । शेषाणि रूपाणीति वक्तव्ये प्रतिपदं नामग्रहणं ज्ञापयति । एतदनुक्तान्यपि रूपकाणि संभवन्ति, अत एव रूपकविशेषगणनमाभ्य विनिस्सृतमिति लक्षणस्योदाहरणमात्रम् । तेन वृत्तीनां विनियोगविकल्पसमुच्चयैः वृत्त्यङ्गानां च बहवो रूपकभेदा भवन्ति । तेषां परं कोहलादिभिर्नाममात्रं प्रणीतम् । लक्षणेन त्विह सङ्गृहीता एव ते । तत्र नाटकप्रकरणे एव सर्ववृत्तिपूर्णे इति नियमः, न तु विपर्ययः । मुद्राराक्षसस्य कैशिकीहीनस्य कृत्यारावणस्य च नाटकस्य दर्शनात्, वेणीसंहारे च सात्त्वत्यारभटीमात्रं दृश्यत इति केचित् ।
अन्ये तु तत्राप्यवश्यं वृत्त्यन्तरानुप्रवेशो ऽस्ति । यदि परिमितवृत्तिव्यापकत्वाद् लक्ष्यते, अपूर्णवृत्तित्वे ऽपि विरूपकतैव स्यात् । सकलाङ्गप्रक्रियापरिपूर्णत्वादेव नाटकात्प्रकरणं च प्रधानम् । तथा हि कैश्चिद्विनेयः प्रसिद्धमनुरुध्यमानो दृष्ट इति सप्रसिद्धेतिवृत्ते नाटके विनेयः । कश्चित्तु किमेतदपूर्वमिति प्रसिद्धे वस्तुनि रूपकान्तरमेव तु तदाभासं तत्सर्वं विनेयो ऽभिनववस्तुवृत्तकौतुकपरतन्त्र इति समुत्पाद्यवस्तुना प्रकरणेन विनीयते । विनयश्चास्य धर्मार्थकामेषु सर्वपुरुषार्थेष्वपवर्गे ऽपि च तथा भवति, यदि सकलं तदुपयोगिव्यापाराश्रयणं

[(मू)]

1. ड॰ नानावस्थासमाश्रयम्

2. ड॰ भाणः समवकारश्च वीथी चेहामृगस्तथा

3. भ॰ मृगः पुनः

4. ड॰ डिमःप्रहसनं तथा, द॰ वीथी ।

[(व्या)]

[page 410]




[NZ]

कैशिकीवृत्तिहीनानि 1रूपान्येतानि कारयेत् । BhNZ_18_009ab
अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ BhNZ_18_009cd
प्रख्यातवस्तुविषयं2 प्रख्यातोदात्तनायकं चैव3 BhNZ_18_010ab
[ABh]

सर्वव्यापाराक्षिप्तं पूर्णवृत्तिकत्वमिति । द्विवृत्तित्रिवृत्त्यादिकं न नाटकं भवति । रूपान्तरमेव तु तदाभासं, तत्कैशिकीविहीनत्वे ऽपि यथा शृङ्गारयोगस्तथा समवकारे तथा तल्लक्षणं वर्णयिष्यामः ।
ननु पूर्णवृत्तिकत्वाविशेषे नाटकप्रकरणयोः को भेदः, कैशिकीहीनत्वे चाविशेष्टे वीथ्यादेः मिथः को विशेष इत्याशङ्कां वारयन् कर्म(श्लो ?)शब्दाक्षिप्तविशेषलक्षणार्थं दर्शयति अत ऊर्ध्वमित्यादिना काव्यस्य बन्धनं परस्पराश्रयसंबन्धेनैव एकवाक्यताकरणसंबन्धः स विकल्प्यते येन तद्विशेषलक्षणं वक्ष्यामीति । नाटकं प्रकरणादपि प्रधानं प्रसिद्ध्युपजीविनी हि कल्पनावस्तुसंभावना, अनुभवमूलत्वात्, तस्या उत्प्रेक्षा अपि हि प्रमाणागतेष्वेव वस्तुषु स्वातन्त्र्येण योजनामात्रेण व्याप्रियन्ते, षड्दन्तो हस्ती खे धावतीति । तेनेतिहासादिप्रमाणवस्तुसिद्धप्रदर्शकं नाटकं तावल्लक्षयितुमाह प्रख्यातवस्तुविषयमित्यादि । प्रख्याते भारतादौ यद्वस्तु तद्विषयो ऽस्य, तत्रापि किञ्चिदप्रसिद्धं भवति, तन्निराकरणाय प्रख्यातोदात्तेति श्रीशङ्कुकः । एतत्तु प्रख्यातवस्तु विषयोऽस्येति इयता गतार्थमित्युपाध्याया इत्थमाहुः इह त्रिविधया प्रसिद्ध्या प्रसिद्धत्वं भवति, अमुक एवंकारी अमुत्रदेश इति । तत्र प्रकर्षेण ख्यातं वस्तु तथा विषयो मालवपाञ्चालादिदेशो यस्मिन् चक्रवर्तिनो ऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्ते विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति, तत्र प्रसिद्धिखण्डनेन प्रतीतिविघातात्, का कथा रसचर्वणायाः । एवं तावद् द्वे प्रसिद्धी उक्ते, प्रख्यातोदात्तेत्यनेन तृतीया प्रसिद्धिरुक्ता । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताः चत्वारो ऽपि

[(मू)]

1. भ॰ कव्यान्येतानि योजयेत्

2. फ॰ विषये

3. भ॰ राजर्षिवंशजं चैव राजर्षिचरितं तथा ।

[(व्या)]

[page 411]




[NZ]

राजर्षिवंश्यचरितं तथैव1 दिव्याश्रयोपेतम् ॥ BhNZ_18_010cd
नाना2विभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव3 BhNZ_18_011ab
अङ्कप्रवेशकाढ्यं 4भवति हि तन्नाटकं नाम ॥ BhNZ_18_011cd
[ABh]

गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं, तथा प्रख्यातत्वे ऽपि देवचरितं वरप्रभावादिबहुलतयोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजानः ऋषय इवेत्युपमितसमासः, तद्वंशे साधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तथावर्णनीयम् । किन्तु दिव्यानामाश्रयत्वेन प्रकरीपताकानायकादिरूपेण, उपेतमुपगमो ऽङ्गीकरणं यत्र । तथा हि नागानन्दे भगवत्याः पूर्णकरुणानिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवन्नाम देवताः प्रसीदन्ति, तस्माद्देवताराधनपुरस्सरमुपायानुष्ठानं कार्यमिति । यदि तु मुख्यत्वेनैव देवचरितं वर्ण्यते तत्तावद्विप्रलम्भकरुणाद्भुतभयानकरसोचितं चेन्निबध्यते तन्मानुषचरितमेव संपद्यते, प्रत्युत देवानामधियाधनं प्रसिद्धिविघातकम् । तत्र चोक्तो दोषः, विप्रलंभाद्यभावे तु का तत्र विचित्रता रञ्जनाया एतत्प्रमाणत्वात् । अत एव हृदयसंवादो ऽपि देवचरिते दुर्लभः, न च तेषां दुःखमस्ति । यत्प्रतीकारोपाये व्युत्पादनं स्यात् । नायिका तु दिव्याप्यविरोधिनी यथोर्वशीनायकचरितेनैव तद्वृत्तस्याक्षेपात् । डिमादौ तु दिव्यानां नायकत्वे ऽभिप्रायमावेदयिष्याम इति प्रसिद्धित्रययुक्तमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह नानाविभूतिभिर्युतं धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्बाहुल्यं दर्शनीयमिति कथयति ऋद्धिविलासादिभिरिति ऋद्धिरर्थस्य राज्यादिसमृद्धिः विलासेन कामो लक्ष्यते, आदिशब्दः प्रधानवाची, तत्प्रधानाभिः फलसंपत्तिभिः युक्तमित्यर्थः । तेन राज्ञा सर्वं राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतव्यमित्येवंप्रायं फलं नोपनिबन्धनीयम् । तत्फलमपि दृष्टसुखार्थी हि लोको बाहुल्येनेति तत्रास्य प्रतीतिर्विरसीभवेत् । गुणैरित्यभिधानभूतानि चेष्टितानि हेयानि प्रहिनायकगतानि अपायप्रधानानि

[(मू)]

1. न॰ तथा च, प॰ वंशानुचरित

2. द॰ विलासयुक्तं ऋद्धि, भ॰ विभूतिघटितं, ड॰ नानातिविभूतिरनुयतं

3. प॰ गुणैर्युक्तम्, ड॰ चापि, प॰ रूपकमिह नाटकम् ।

[(व्या)]

[page 412]




[NZ]


नृपतीनां यच्चरितं नाना1रसभावचेष्टितं बहुधा । BhNZ_18_012ab
सुखदुःखोत्पत्तिकृतं 2भवति हि तन्नाटकं नाम ॥ BhNZ_18_012cd
[ABh]

तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहाज्जनपदकोशादिसंपत्तिसमृद्धिः । कौमुदीमहोत्सवादयो विलासाः सन्धिविग्रहादयो गुणा इति व्याख्यानं चाणक्य(शास्त्र)परिचयवेदनमात्रफलं, वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्यार्थराशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्तये ये विच्छेदा अङ्काः ये च निमित्तबलात् अप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकाः तैराढ्यं नाटकं नाम रूपकम् । तस्मादस्य तन्नामेत्याह नृपतीनां यच्चरितमिति यद्यस्मान्नृपतीनां संबन्धि व्युत्पाद्यानां सामर्थ्यात् नृपतीनामेव नाटकन्नाम तच्चेष्टितं प्रह्वीभावादायकं भवति, तथा हृदयानुप्रवेशरञ्जनोल्लासनया हृदयं शरीरं चोपायव्युत्पत्तिपरिघट्टितया चेष्टया नर्तयति नटनृतौ नृत्ते इत्युभयथा हि स्मरन्ति । तदिति तस्माद्धेतोः, नामास्य नाटकमिति ।
ननु पुराणाद्युपनिबद्धो ऽपि तदर्थः कस्मान्नटानेवेदं भावयतीत्याह नानेति । बहुप्रकारा अत्र संभावयन्ति संपादयन्ति यानि चेष्टितानि नटव्यापारात्मानो ऽभिनयाः तैरेतत्प्रह्वीभावदायकं हृद्यतमरसास्वादसूचीद्वारप्रवेशितं तत्कर्तव्यसूत्रं हृदयरोहणरूढशौर्यादिधर्मरत्नग्रथनकारि भवतीति ह्युक्तमसकृत् ।
ननु नृपतिचरित एव किमित्ययमास्वादो न देवचरित इत्याह बहुधेति । बहुप्रकाराः उपायवैचित्र्याद्याः सुखदुःखोत्पत्तयस्तासां कृतं संपादनं यत्र, देवचरिते तु तन्नास्तीत्युक्तम् । अत एव प्रतीतिविघातस्य वैरस्यदायिनः संभवो यत्र यत्र तन्नाटके नोपनिबद्धव्यम् । तेन वर्तमानराजचरितं चार्वणीयमेव, तत्र विपरीतप्रसिद्धिबाधयाध्यारोपस्याकिञ्चित्करत्वात्, योगानन्दरावणादिविषयचरिताध्यारोपवत् । एतदर्थमेव प्रख्यातग्रहणं प्रकर्षद्योतकं पुनः पुनरुपात्तम् । अत एव वेदशास्त्रं न नाटकं, नियोगेन हि तत्र पुमान्प्रवर्त्यते, न फलोत्पत्त्या । फलप्राधान्यपक्षे ऽपि तत्र सन्देहः । एवं पुराणादावपि । इह तु बाधोदयासहिष्णुप्रत्यक्षायमाणा चिरविलम्बितप्रतीतिसिद्धा सुखदुःखोत्पत्तिरिति ।

[(मू)]

1. भ॰ विधभावसंश्रितं च तथा, च॰ रसभावसंभृतं

2. ड॰ तज्ज्ञेयं , प॰ वाच्यं यन्नाटके भवति ।

[(व्या)]

[page 413]




[NZ]

1अस्यावस्थोपेतं कार्यं 2प्रसमीक्ष्य बिन्दुविस्तारात्3 BhNZ_18_013ab
[ABh]

अनेन वाक्येनैतदुक्तं भवति --- यद्यपि सर्वरूपकाणामर्थो हृदये प्रविष्टो विनेयांश्च विनीतान् करोति । तत एव नाटकशब्दः सामान्यवचन इति ``कार्योत्पन्नानि नाटके'' इत्यादिषु स्थानेषु दर्शितः । तथापि ह्यवश्यव्युत्पाद्या राजानो यद्व्युत्पत्तिद्वारेण विश्वं व्युत्पन्नं, तेन तदीयहृदयसंवादयोग्यनृपतिचरितप्रदर्शनेन प्रधानतया प्रधाने ऽर्थे व्युत्पाद्यन्ते, अमात्यादयः तदङ्गत्वेनैव प्रयोगस्य च यथोचितं समुद्गकस्थगगनवद्व्युत्पादकव्युत्पाद्यभावात्तेन प्रधानपुरुषार्थे प्रधानविनेयानामन्यत्रान्येषां वेदयतो ऽवनतिं व्युत्पत्तिं ददाति, तत एव नाटकमुच्यते ।
श्रीशङ्कुकस्तु व्याचष्टे --- विजिगीषुररिर्मध्यमोदासीनौ मित्रं मित्रमित्रमिति । एषां चरितमिति बहुवचनेन लभ्यते । अन्ये त्वाहुः --- पूर्वं राजर्षिवंशप्रभवा नायका उक्ताः । अनया त्वार्यया चन्द्रगुप्तबिन्दुसारादयो ऽपि संगृह्यन्त इति । व्याख्यातमर्थद्वयमेतत्पूर्वयार्ययैव सङ्गृहीतमिति प्रथमव्याख्यात एव युक्तो ऽर्थः ।
यत्तु कैश्चिदभिधीयते ---
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥
धीरप्रशान्ता विज्ञेयाः ब्रह्मणा वणिजस्तथा ॥ (24-4)
इति वचने पर्यालोच्यमाने देवादीनां नाटकनायकत्वानुपपत्तेः, धीरललित एक एव नायक इति । तदसत्, न हि जनकप्रभृतीनां रामादीनामपि वा धीरललितत्वम्, यदाह --- ``धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः'' इति ।
यत्तु पठितं तत्र धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य, सेनापत्यमात्ययोर्धीरोदात्तत्वमेव, देवानां धीरोद्धतत्वमेव, द्विजातीनां धीरप्रशान्तत्वमेवेति, एवं परं द्रष्टव्यं --- अत एव प्रख्यातोदात्तेत्यत्र चत्वारो ऽपि नायकाः स्वीकृता इति व्याख्येयम् ।
एवं निर्वचनमनयार्यया दर्शितं, प्रख्यातवस्तुप्रभृतिरर्थो ऽन्यत्र सुप्रसिद्धः अङ्कप्रवेशकौ त्वप्रसिद्धौ इत्यङ्कस्वरूपं तावद्वितत्य कथयति अस्यावस्थोपेतमिति ।

[(मू)]

1. प॰ तत्रावस्थोपेतां, च॰ अङ्कावस्थोपेतं, ढ॰ अन्य, व॰ नानावस्थान्तरितो बिन्दोः संहारमात्रमधिकृत्य । कर्तव्यो अङ्को ऽप्येवं स तु सम्यङ्नाटके तज्ज्ञैः ।

2. भ॰ संप्रेक्ष्य, द॰ समवेक्ष्य

3. च॰ विस्तारम् ।

[(व्या)]

[page 414]




[NZ]

कर्तव्यो ऽङ्कः 1सो ऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ BhNZ_18_013cd
अङ्क इति 2रूढिशब्दो भावैश्च रसैश्च 3रोहयत्यर्थान् । BhNZ_18_014ab
[ABh]

अस्य नाटकस्य यत्कार्यं बिन्दुकृतया विस्तारणया विततीकरणरूपया अननुसन्धानजननबलादेकावस्थानुरूपमाधिकारिकमितिवृत्तं सम्पाद्यम्, तदवस्थया प्रारम्भादिकथोपेतं परिपूर्णं प्रकर्षेण संबन्धं प्रेक्ष्य अङ्कः कर्तव्यः । एतदुक्तं --- इतिवृत्तस्य बिन्दुसूत्रस्यूतस्य प्रारम्भाद्यवस्थापञ्चकचारिणो यदा प्रारम्भावस्थापूर्णत्वमेति तदाङ्कच्छेदो बिन्दुद्वारानुसन्धीयमानद्वितीयाङ्काभिधेयरूपो विधेयः । एवं प्रयत्नाद्यवस्थाचतुष्टये ऽपि वाच्यमिति पञ्च तावदङ्का इति मुख्यः कल्पः ।
नन्वेवं न्यूनत्वे आधिक्ये वाङ्कानां कथं निर्बन्ध इत्याह नाट्यतत्त्वज्ञैरनयैव दिशा सो ऽङ्कः, अपिशब्दादन्यथा कर्तव्यः । तुर्विशेषं द्योतयति । यदा प्रारम्भावधिप्रधानं भवतीति तदा तस्या एवोपक्रमोपसंहारावस्थाद्वयापेक्षया द्वावङ्कौ, अन्यासामेकैकाङ्कतेति यावत् सर्वासामवस्थाद्वययोगेन संपादनमिति षडङ्कत्वात् प्रभृति सप्तजातप्राप्तौ(?)दशाङ्कत्वम् । काञ्चिदवस्थां प्रधानीकृत्य यदा अवस्थान्तरेण मिश्रीकृत्य बध्नाति तदा नाटिकाया न्यूनाङ्कत्वमिति । एतत्तुशब्देन तत्त्वज्ञशब्देन च दर्शितम् । तत्रावस्थाः ``प्रारंभश्च प्रयत्न''श्चेत्यादिना वक्ष्यन्ते(अ-19), ``प्रयोजनानां विच्छेदे यदविच्छेदकारण''मिति बिन्दुः वक्ष्यते, `यदाधिकारिकं वस्तु सम्य'गिति(अ 19) कार्यम् ।
अथ कस्मादङ्क इत्याह अङ्क इति रूढिशब्द इति । भावैः रसैश्च गूढश्छन्नः व्याप्तो ऽर्थो ऽङ्कशब्देन यादृच्छिकेनोच्यत इति भट्टलोल्लटाद्याः गूढ इति पाठं व्याचक्षिरे । अन्ये रोहयत्यर्थानिति पठन्ति, व्याचक्षते च रूढी रोहनं तेनोत्सङ्ग उच्यते यो नाटकांशः शृङ्गारादिरसैर्विभावानुभावव्यभिचारिणो ऽर्थाः तथा भावैर्विभावाद्यैः यथास्यं भावादीनर्थान् हृदयमारोपयति अर्थान् वहति, नानाप्रकारैश्च वक्ष्यमाणैः `ये नायका निगदिता' इत्यादिभिः विधानैरुपेतः तस्मादुत्सङ्गवदारोहणं संबन्धादङ्क इत्युच्यते । एतत्पुष्कलमिव अजावि(जि?)ना रूढैरत्रार्थवृत्त्यदर्शनात् । तस्मादयमत्रार्थः --- अङ्क इत्ययं लक्षणे रूढः शब्दः अन्यतो व्यवच्छेदकं लक्षणम् । एतदपि च नाट्यरूपकस्य नानात्वमन्यतोभेदं विधत्ते अनभिनेयात्, अभिनेये हि य एकदेशः स रसभावैरुपलक्षितानप्यर्थान् रोहयति

[(मू)]

1. न॰ द॰ तज्ज्ञैः स तु सम्यङ्नाटके विधिवत्, भ॰ स च सम्यङ्नाटके योज्यः । ढ॰ सम्यग्गणान्वितं

2. प॰ गूढशब्दो

3. भ॰ चिह्नयत्यर्थान् ।

[(व्या)]

[page 415]




[NZ]

नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ BhNZ_18_014cd
[1अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः । BhNZ_18_015ab
वस्तुव्यापी बिन्दुः 2काव्यसमुत्थो ऽत्र नित्यं स्यात् ॥ ] BhNZ_18_015cd
[ABh]

हृदयसंवादसाधारणताकरणेन प्रत्यक्षीभावनया रसाध्यायोक्तयाभिरोहणं बीजस्येवाङ्कुराकारतया रसाकारोदयप्ररोहो भवति । स चानभिनेयरूपकांशैरेव संपाद्यत इत्यनभिनेयात् भेदमादधानो ऽभिनेयस्य रूपकस्य लक्षणं भवत्येव । एवमङ्कशब्दस्यान्वर्थो व्याख्यातः । स्वरूपन्तु वक्तव्यं तद्दर्शयति --- यत्रार्थस्य समाप्तिरिति । प्रारम्भाद्यवस्थालक्षणो ऽर्थो यत्र समाप्नोति सो ऽङ्कः । अङ्कसमाप्तायामपि वा अवस्थायां यदा बीजस्य संहरणं यथास्वं सन्धिभेदेनोचितं भवति तदाप्यङ्कच्छेदः । तत्रोत्पत्तिरुद्घाटनमुद्भेदो गर्भनिर्भेदः फलसामानयनमिति मुखादिषु यथाक्रमं बीजस्य दशाविशेषाः संहारशब्दवाच्याः । अङ्कविच्छेदे चार्थविच्छेदो माभूदित्यवलग्नः संबन्धो बिन्दुर्यत्र तादृगङ्कः कर्तव्यः । यथा तापसवत्सराजे तृतीयाङ्कसमाप्तौ ---
आदौ मानपरिग्रहेण गुरुणा दूरं समारोपितां
पश्चात्तापभरेण तानवकृता नीतां परं लाघवम्
उत्सङ्गान्तरवर्तिनीमनुगमात्संपिण्डिताङ्गीमिमां
सर्वाङ्गप्रणयप्रियामिव तरुच्छायां समालम्बते ॥ (3-17)
इति राज्ञ उक्त्या पद्मावत्याः परिणयाभ्युपगममनुसन्दधत्या प्राप्तिसंभवाख्यतृतीयावस्थाप्रदर्शिनि भाविनि चतुर्थे ऽङ्के बिन्दुर्योजितः ।
एवमङ्कस्वरूपमनेन निरूपितमिति चिरन्तनाः । तच्चैतत्पुनरुक्तं ``अस्यावस्थोपेतं कार्यं प्रसमीक्ष्ये''त्येतेन हि कियन्नोक्तं यदनेन लक्षणेनाभिधीयते । तस्मादिदमत्रार्थतत्त्वं --- अङ्कस्वरूपं तावदस्यावस्थोपेतमित्यनेनैवोक्तं, नामनिर्वचनं च `अङ्क इति रूढिशब्द' इत्यनेन दर्शितम् । अनया त्वार्यया अङ्कस्य त्रैविध्यमुच्यते । तथा चोक्तं कोहलादौ (कोहलेन?) ---

[(मू)]

1. अयं श्लोको द॰च॰ग॰भ॰मातृकासु न विद्यते

2. न॰ य॰ ढ व्यापि हि

[(व्या)]

[page 416]




[NZ]

यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । BhNZ_18_016ab
किञ्चिदवलग्नबिन्दुः सो ऽङ्क इति सदावगन्तव्यः1 BhNZ_18_016cd
ये नायका निगदितास्तेषां प्रत्यक्षचरितसम्भोगः2 BhNZ_18_017ab
3नानावस्थोपेतः कार्यस्त्वङ्को ऽविकृष्टस्तु ॥ BhNZ_18_017cd
[ABh]

त्रिधाङ्को ऽङ्कावतारेण चूडयाङ्कमुखेन वा ।
अर्थोपक्षेपणं चूडा बह्वर्थैः सूतवन्दिभिः ॥
अङ्कस्याङ्कान्तरे योगस्त्ववतारः प्रकीर्तितः ।
विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ॥
यदुपक्षिप्यते पूर्वं तदङ्कमुखमिष्यते ॥
अत्रार्थस्य कस्यचित् सम्यगन्यत एवानभिसन्धानपूर्विकाप्तिः प्राप्तिरिति चूडा दर्शिता । तद्यथा रत्नावल्यां वैतालिकपाठाद् `दृशामुदयनस्य' इत्यन्तः उपयोगी सम्यगर्थः प्राप्तः तत्प्रत्यभिज्ञामूलत्वात् सागरिकानुरागस्य, तथाचाह `अअं सो राआ उदअणो (अयं स राजा उदयनः)'(1-23) इत्यादि । तदर्थमेव च वसन्तक्रीडादिसर्वमुपक्षिप्तम् । तदेव च राजानुरागस्य शय्याफलकादिकृतस्य मूलमिति चूलिकेत्युक्तम् । तेन प्रथमः चूलिकाङ्कः यत्र त्वङ्के सर्वेषामङ्कानां यो ऽर्थो बीजलक्षणस्तस्य संहारः संमिलितत्वेन प्राप्तिर्भवति सो ऽवताराङ्कः । यथा रत्नावल्यां द्वितीयो ऽङ्कः । तत्र हि `ईरिसस्स कण्णआजणस्स ईरिस एव्व वरे अहिळासेण होदव्वम् ॥ (ईदृशस्य कन्यकाजनस्येदृश एव वरे अभिलाषेण भवितव्यम्)' इत्यादिप्रकृतमेव सर्वं वर्ण्यते । यत्र त्वनुसन्धानमात्रप्राणत्वेन तदुपयोगितया वृत्तान्तमुच्यते तदुपश्लिष्टमङ्कमुखम् । स एवेह किञ्चिदवलग्नबिन्दुरित्यनेन तृतीयo भेद उक्तः । यथा रत्नावल्यां तृतीये ऽङ्के ऐन्द्रजालवृत्तान्तनिरूपणं चूलिका तस्याश्च भेदः, चूलिकाङ्कस्यापि तदभिसन्धानाभावात् । इह त्वभिसन्धानं यौगन्धरायणादीनामस्त्येव । तेनायं संक्षेपः --- अङ्के यद्वर्णनीयं वस्तु तत्तावत्

[(मू)]

1. ड॰ यो ऽङ्क इति सो ऽवगन्तव्यः ।

2. च॰ संयोगः, ड॰ चारिसंभोगः

3. क॰ आदि च॰ अन्तेषु विना सर्वेषु --- नानावस्थान्तरितः कार्यस्त्वङ्को यथार्थरसः ।

[(व्या)]

[page 417]




[NZ]

नायकदेवीगुरुजन1पुरोहितामात्यसार्थवाहानाम् । BhNZ_18_018ab
नैकरसान्तरविहितो ह्यङ्क2 इति स वेदितव्यस्तु ॥ BhNZ_18_018cd
[3पञ्चापरा दशापरा ह्यङ्काः स्युर्नाटके प्रकरणे च । BhNZ_18_019ab
निष्क्रमः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ ] BhNZ_18_019cd
[ABh]

द्विधा प्रधानं तदुपयोगि च तदुपयोग्यपि किञ्चिद्दैववशादुपयोगं याति किञ्चिदभिसन्धिबलादिति त्रिविधो ऽङ्कार्थः । स कदाचिदेकस्मिन्नङ्के मिश्रभावेनापि निबध्यत इति चूलिकाङ्कमुखयोरङ्गभेदयोः प्रधानार्थस्पर्शो नैवास्ति ।
तथा प्रवेशकद्वारेण मुख्यचरितमपि शङ्कां वारयितुमाह ये नायका इति । धीरोदात्तादयो विजिगीषुतन्मित्रप्रभृतयो वा ये नायकाः प्रतिनायकाश्च तेषां चरितं, तदुपायानुष्ठानं तथा संभोगः प्रत्यक्षः सन्निहितः साक्षाद् दृश्यमानो, न तु सूच्यमानो, यत्र तादृगङ्कः नयति प्राप्नोतीति, वृत्तं फलं वेति नायकचरितप्रत्यक्षतया व्युत्पत्तिः , प्रेक्षकाणां संभोगाप्रत्यक्षत्वे च तद्गतकेवलकेशदर्शनात् वैरस्यं सामाजिकस्य स्यात् । किमनेन महता कष्टेनेति तत एवोक्तं न निस्सुखः स्तादिति । नानाप्रकारावस्थौ प्रतिनायकगतौ चरितसंभोगावनुपादेयावविषये चेति हेयावस्थौ, नायकगतौ तु तद्वैपरीत्यादुपादेयावस्थाविति तु शब्दस्यार्थः । अविकृष्ट इत्यदीर्घः दीर्घो हि प्रयोक्तृप्रेक्षकाणां खेदाय स्यात् ।
एवं प्रधानवर्णनीयस्य वृत्तमुक्त्वा तदुपयोगिवृत्तस्य दिशं दर्शयितुमाह --- नायका मुख्याः पताकादयः देव्यो महादेवीभोगिनीप्रभृतयः । गुरुजनो मातृपितृभ्रात्राचार्यादिः सार्थवाहो ऽत्र सेनापतिः । इतिवृत्तवशाद्वणिगेव वा, एषां संबन्धी अङ्कः एतदर्थाभिधायक इति यावत् । अत एव नैकेन विचित्रेण रसविशेषेण युक्तस्तथा हि देवीयोगे शृङ्गारः नायके वीर इत्येवमन्यदुत्प्रेक्ष्यम् । नायकानां देव्यादय इत्यन्ये । अङ्क इति । अनेकरसाङ्कितत्वादपि अङ्क इति नामेत्यर्थः । न केवलं चरितसंभोगावेव प्रत्यक्षौ,

[(मू)]

1. फ॰ गुणजन, न॰ परिजन

2. न॰ खलु

3. अयं श्लोको ग॰ च॰ य॰ मातृकासु न वर्तते ।

[(व्या)]

[page 418]




[NZ]

1क्रोधप्रसादशोकाः शापोत्सर्गो ऽथ2 विद्रवोद्वाहौ3 BhNZ_18_020ab
अद्भुतसंभव4दर्शनमङ्के5 प्रत्यक्षजानि स्युः ॥ BhNZ_18_020cd
एकदिवस6प्रवृत्तं कार्यस्त्वङ्को ऽर्थ7बीजमधिकृत्य8 BhNZ_18_021ab
9आवश्यककार्याणामविरोधेन प्रयोगेषु10 BhNZ_18_021cd
एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान्11 BhNZ_18_022ab
आवश्यकाविरोधेन तत्र कार्याणि12 कार्याणि ॥ BhNZ_18_022cd
[ABh]

किन्त्वन्यदपि यत्र रञ्जनातिशयो ऽस्तीति दर्शयन्नाह क्रोधप्रसादशोका इति । शापोत्सर्गः शापकृतस्यानर्थस्य नाशः, यथोक्तस्यानर्थकाभावस्य शङ्काभयत्रासकृतो विद्रव इति गर्भसन्धौ वक्ष्यते । उद्वाहो विवाहः । अद्भुतस्य संभवो ऽभ्युपगमः उपक्रमो दर्शनं च निवाह इत्येतच्चान्यस्यापि रञ्जकवर्गस्योपलषणम् । अक्षजं ज्ञानं प्रति गतानीति प्रत्यक्षजानि । प्रत्यक्षशब्देन तदेकदेश उच्यते तत्र जातानीत्यन्येन्द्रियवर्गस्य प्रत्यक्षता तावद्भवति, कदाचित्तत्त्वप्रत्यक्षमपि ।
अथाङ्कस्य प्रयोगकालपरिमाणमियादिति दर्शयति एकदिवसप्रवृत्तमिति । तादृशमवान्तरेणार्थेन प्रयोजनेन युक्तं बीजमुपायानुष्ठानं वर्णनीयताया अधिकृत्याङ्कः कर्तव्यो यस्य प्रकृष्टं च यद्वर्तनं प्रयोगरूपं तदेकदिवसेनेति मुहूर्तपञ्चदशकेनैव, यतस्तावन्तं कालमावश्यकानि भोजनादीनि अशक्यनिरोधनानि ततःपरन्तु प्रयोगकालश्चेत् तत्प्रेक्षकप्रयोक्तॄणां तदाप्यावश्यकस्य सन्ध्यावन्दनभोजनादेरविरोधेनेत्येवं कार्यानेकत्वमेकत्राङ्के निषिद्धम् । क्वचित्त्वभ्युपगतमपि । अन्ये तु सर्वामेवार्थां निषेधपरत्वेनाहुः । अन्ये त्वेकाङ्केनेति तृतीयां मन्यमानाः सर्वेयमार्या विधिपरेत्याहुः । यान्यवश्यंभावेन कार्याणि भोजनादीनि तानि

[(मू)]

1. प॰ शोकप्रसादविद्रवशापोत्सर्गप्रसादनक्रोधाः । उत्साहो ऽद्भुतदर्शनमङ्कैः प्रत्यक्षजानि स्युः ।

2. न॰ अध्व

3. न॰ उत्साहौ, भ॰ वापि

4. ड॰ संश्रय, य॰ संश्रव

5. भ॰ अङ्क

6. प॰ प्रयोज्यः, भ॰ प्रवृत्तं कार्यं, ड॰ प्रवर्त्यः

7. च॰ अथ

8. फ॰ आश्रित्य

9. य॰ आविश्यक(?), ढ॰ आवन्त्यक(?)

10. . प॰ प्रबन्धेषु

11. न॰ वापि

12. ड॰ काव्यानि

[(व्या)]

[page 419]




[NZ]

रङ्गं तु ये प्रविष्टाः सर्वेषां भवति 1तत्र निष्क्रामः2 BhNZ_18_023ab
बीजार्थयुक्तियुक्तं कृत्वा3 कार्यं 4यथार्थरसम् ॥ BhNZ_18_023cd
[5न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् । BhNZ_18_024ab
आवश्यकानां कार्याणां विरोधो हि तथा6 भवेत् ॥ ] BhNZ_18_024cd
ज्ञात्वा दिवसावस्थां7 क्षणयाममुहूर्तलक्षणोपेताम् । BhNZ_18_025ab
8विभजेत्सर्वमशेषं पृथक्पृथ9क्कार्यमङ्केषु ॥ BhNZ_18_025cd
दिवसावसानकार्यं 10यद्यङ्के नोपपद्यते सर्वम् । BhNZ_18_026ab
[ABh]

किं प्रत्यक्षेणैव दर्शनीयानीति यः शङ्कते तं प्रत्याह रङ्गन्त्विति । तत्रेत्यावश्यके कर्तव्ये न चासमाप्तावुपक्षिप्तावान्तरकार्ये पात्रनिष्क्रमणमिति दर्शयति । बीजार्थेति उपक्षेपात्मनो बीजस्य यत्प्रयोजनं तेन या युक्तिः संबन्धस्तत्र युक्तमुपायभूतं कार्यं प्रयोजनानुसारि विशिष्टरससम्पदोपेतं विधाय तत्परिसमाप्तौ यवनिकया तिरोधानरूपं निष्क्रमणं दर्शनीयम् । बीजार्थयुक्तिरुत्पत्त्युद्घाटनोद्भेदगर्भनिर्भेदफलसमानयनात्मेत्यन्ये
एवमितिवृत्तनियममङ्के प्रदर्श्य तदितिवृत्तकालनियमं दर्शयति, क्षणयाममुहूर्तानां यानि लक्षणानि कर्तव्यान्यस्मिन् क्षणे सन्ध्यानुष्ठेयेत्यादीनि तैरुपेतां दिवसस्यावस्थां ज्ञात्वा सर्वं कार्यं प्रत्येकं सर्वात्मना परिपूर्णरूपमत एवाशेषं विभजेत् विभागेन दर्शयेत् । नाडिकाभिरष्टधा दिनं रात्रिं च विभज्य छायाप्रमाणेन वेति तेन एकदिवससंपादितमुपयोगि चेष्टितमङ्के बध्नीयादिति तात्पर्यम् ।
ननु तन्मन्ध्ये रत्कार्यं मध्याह्नस्नानभोजनादि तद्दिवसमध्य एव वा यद्वृत्तं दूरस्थं दशरथमरणादि तत्कथं वाच्यमित्याह --- दिवसावसानकार्यमिति । दिवसे ऽवसानं

[(मू)]

1. य॰ यत्र

2. भ॰ निष्क्रान्तिः ।

3. भ॰ व्याजं

4. ढ॰ तथार्थरसम्

5. अयं श्लोको भ॰ म॰ योरेव

6. भ॰ यथा

7. ड॰ दिवसान्स्तान् ... उपेतान्

8. भ॰ म॰ विभजेन्नाट्याभिज्ञो ह्यङ्कच्छेदे ऽर्थमभिवीक्ष्य

9. ड॰ काव्यं

10. ड॰ यद्येकेन ।

[(व्या)]

[page 420]




[NZ]

अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम्1 BhNZ_18_026cd
[विप्रकृष्टं तु यो देशं गच्छेत् कार्यवशानुगः । BhNZ_18_027ab
अङ्कच्छेदे ऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ ](*) BhNZ_18_027cd
सन्निहितनायको ऽङ्कः कर्तव्यो नाटके प्रकरणे वा2 BhNZ_18_028ab
परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः3 BhNZ_18_028cd
प्रकरणनाटकविषये 4पञ्चाद्या दशपरा भवन्त्यङ्काः5 BhNZ_18_029ab
[ABh]

समाप्तिर्यस्य तत् सर्वं कार्यं यद्यङ्के प्रत्यक्षेण प्रदर्शयितुं न युज्यते तदाङ्कच्छेदं कृत्वा प्रवेशकैः प्रदर्शनीयम् । अदृष्टमप्यर्थं हृदि प्रवेशयन्तीति प्रवेशकाः । चूलिकाङ्कावताराङ्कमुखप्रवेशकविष्कंभका इहाभिप्रेताः । तथा च कोहलो ऽर्थोपक्षेपपञ्चकमुक्तवान् ।
एवमङ्कलक्षणं वितत्याभिहितमर्धेनोपसंहरन्नर्धान्तरेणाङ्कसन्धानरूपस्य प्रवेशकस्य सामान्यलक्षणं दर्शयन्नार्यां पठति सन्निहितनायक इत्यादि । नायकशब्देन तच्चरितसंभोगौ तौ सन्निहितौ प्रत्यक्षौ यत्रैकाङ्के ऽपि रूपके ऽङ्को नायकचरितप्रत्यक्षताशून्यः कार्यः, किंपुनरन्यत्रेति प्रकरणे नाटके वेत्युक्तम् ।
अन्ये त्वेतदुत्तरार्धेन संबन्धयन्तो रूपकान्तराणि प्रवेशकशून्यानि भवन्तीत्याचक्षते । परिजनकथानुबन्ध इति चतुर्णां लक्षणं सूतमागधादेश्चूलिकाङ्गस्य स्त्रीपुरुषादेर्वाङ्कमुखोपकरणस्य चेटीकञ्चुकादेर्वा प्रवेशविष्कम्भोपयोगिनः परिजनत्वात्कथयैव परस्परश्लिष्टयानुबद्धो ऽङ्कावतारः । यथोक्तम् ---
अङ्कान्तर एवाङ्को निपतति यस्मिन्प्रयोगमासाद्य ।
नाट्यार्थकाथायोगाद् विज्ञेयो ऽङ्कावतारो ऽसौ ॥ इति ।
तत्रायं प्रवेशको ऽङ्कार्थसन्धानाय भवतीति पूर्वोपक्षिप्तमङ्कं संख्यानुवादद्वारेण दर्शयति प्रकरणनाटकविषय इति । सन्ध्यवस्थानपरिपूर्णोपनिबद्ध एवाङ्का उपक्रमोपसंहारवैतत्ये

[(मू)]

1. य॰ तद्विधेयं हि

2. ड॰ च, ढ॰ वापि

3. भ॰ प्रवेशकश्चापि कर्तव्यः, प॰ तत्र विज्ञेयः

4. ड॰ कविभिः पञ्चापरा दशपराश्च । अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः । (भ॰ कविभिः पञ्चादयो दशान्ताश्च ... संयुक्ताः)

5. च॰ तथा चैव

* भ॰म॰योरेव । अस्यार्थो ``यः कश्चि''दित्यार्ययोपगम्यते ।

[(व्या)]

[page 421]




[NZ]

1अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ BhNZ_18_029cd
[2अनयोरन्तरविहितः प्रवेशको ऽर्थक्रियां3 समभिवीक्ष्य । BhNZ_18_030ab
संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः4 ॥ ] BhNZ_18_030cd
5अङ्कच्छेदं कृत्वा मासकृतं वर्षसंचितं वापि । BhNZ_18_031ab
तत् सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचिद् ॥ BhNZ_18_031cd
[ABh]

दश कस्यचित्संक्षेपेण षडित्येवम्, अन्यतो न्यूनाधिकत्वमनुचितमित्यर्थः । अङ्कमधेषु तु सन्धानानि षट् चित्राणि संपादयितुं पञ्चविधः प्रवेशकः कार्यः । अङ्कान्तरसन्धिष्विति निमित्तात् कर्मासंयोगे सप्तमी । अपिशब्देन प्रवेशकशब्दस्यावृत्तिः सूच्यते । चो हेतौ । प्रवेशकशब्दश्च महासामान्यवचनः पञ्चसु वृत्तः, इह तु मध्यमसामान्ये प्रवेशकविष्कम्भकद्वये वर्तते ।
तदयमर्थः --- यस्मान्मासकृतं वर्षसञ्चितं वा पञ्च तत्कार्यं सामाजिकानां हृदयगतं तस्मात् प्रवेशकविष्कम्भकौ कर्तव्यौ । परिमितन्तु यदनुसन्धेयं तत्राङ्कमुखमल्पानुसन्धेये चूलिका, अल्पतमे अङ्कावतारः । तत्र केचित् वनवासादयोद्ध्याप्रवेशानन्तरं रामानुसन्धानमनुसन्धनीयं माभूदित्याशयेन व्याचक्षते मासेन मासाभ्यां मासैर्वर्षेण वर्षाभ्यां वर्षैः इति । कदाचित्तु वर्षादूर्ध्वन्तु ये महाप्रभावाश्चिरातीतमप्यनुसन्दधते रामादेस्तेषां बहुतरो हि कालः प्रवेशकैर्वर्णनीयः । ये तु पुरुषप्रायास्तेषां वर्षादूर्ध्वमनुसन्धानं नैवास्ति, तथा च मार्गशीर्षं तैषीं चान्तरेण दीर्घकालयात्रा आवर्षारात्रान्मासाष्टकमुक्तेति संगिरन्ते ।
एतच्चासत्, मासवर्षादीनां स्वीकृतनियतपरिमाणानां द्विवचनबहुवचनान्तत्वे वृत्त्ययोगस्य दर्शितत्वात् ।
सौर्यके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतमाश्रित्य संख्याभेदेन वर्तते ॥
वयस्त्विति परिच्छेदः क्रियते ऽपि न गम्यते ।
इष्ठो भेदादृते तत्र परिमाणमनर्थकम् ॥

[(मू)]

1. प॰ मातृकायां विना सर्वासु --- अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः

2. ड॰ अङ्कान्तरालसहितः, ढ॰ अङ्कान्तरालविहितः, भ॰ अनयोरन्तरविहितां

3. च॰ यत्क्रियां, भ॰ अङ्कक्रियां, प॰ अभिसमीक्ष्यं

4. न॰ वा विधातव्यः, ढ॰ सन्धिस्त्वर्थानां वा विधातव्या ।

5. भ॰ अङ्कच्छेदे कार्यं ... चापि ।

[(व्या)]

[page 422]




[NZ]

1यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टम् अध्वानम् । BhNZ_18_032ab
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्वत्तज्ज्ञैः2 BhNZ_18_032cd
[ABh]

इत्यादि बहु च वर्षादूर्ध्वमिति च निषेधः फल्गुफल एव स्यात् । तस्मादेकवचनान्तेनैव समासः । न च रामायणभारतादिचरितत्यागप्रसङ्गः । कार्यग्रहणं ह्येतदर्थं मुनिना कृतं, यत्र हि यत्ननिष्पाद्यं सञ्चितं तदेव वर्षं गण्यते वर्षान्तराणि तु तत्र विद्यमानान्यपि अविद्यमानकल्पानि । रामचरिते हि चतुर्दशवर्षाण्यरण्यनिवासो यद्यपि कार्यः, वर्षाणि त्रिचतुराणि भवन्ति यत्र मारीचवधसुग्रीवराज्यदानाद्यवान्तरकार्यं संभवति । तस्माद्वर्षादूर्ध्वमित्यनेन कार्यं वर्षद्वयादि निषिध्यत इत्येवं वर्षसहस्रायुषो ऽपि वर्षशतान्तरालवृत्तचरितव्याख्याने ऽपि न किञ्चिद्दुष्यति । तेन पञ्चाङ्के नाटके पञ्च कार्यदिनानीति संक्षेपः, दशाङ्के तु दशेति विस्तरः ।
अङ्कच्छेदे निमित्तान्तरमप्याह --- यः कश्चित्कार्यवशादिति । कार्यवशात्कार्यस्य तत्रायतत्वात् यः पुरुषो नायकः सो ऽनेकयोजनव्यवहितमध्वानं यदा प्रतिदिनं गमनं विश्रान्तिः शय्येत्येवमादि कथं रङ्गे प्रदर्श्य तदन्तेनाङ्कच्छेदः कार्यः । डिमादिनायकस्य तु दिव्यस्याकाशयानकादिना सर्वं युज्यते । अनायकपुरुषस्त्वविच्छिन्न एवाङ्के निष्क्रामति । ननु दिवसावसानकार्यं केनोपपद्यत इति आवश्यकाविरोधेनेत्यादिना यदुक्तं ततस्तिलमात्रेणाप्यधिकं वाच्यमस्य न लभ्यते वाक्यस्य । अत एवैतत् भट्टलोल्लटाद्यैर्न पठितमेव ॥
उपाध्यायास्त्वाहुः --- नेदं निमित्तान्तरं अपि तु पूर्वं तावत्कथितं यद्यङ्के नोपपद्यत इति तस्यैवोदाहरणमनयैवार्यया दर्शितम् । यथा नायकस्य प्रकृष्टाध्वगमनमिति पूर्ववदिति तदर्हमिति भवति पूर्वलक्षणार्हो ऽङ्गच्छेदो ऽयमिति यावत् । अपिशब्द उदाहरणान्तरमपि सूचयति । अङ्कार्थसन्धानप्रयोजनस्य प्रवेशकस्य स्थानं वाच्यम् । विषयं चाह अङ्कान्तरानुसारीति अङ्कमध्ये भवतीति यावत् । अङ्कान्तरं पूर्वाङ्कान्तरमनुसरति तस्य पश्चाद्भवतीत्यर्थः । प्रत्यङ्कान्तं यो बिन्दुः अनुसन्धानाभिधायिवाक्यं यत्संक्षिप्तं प्रयोजनं तदधिकताकरणं विस्तारमुद्दिश्येति वाच्यमुक्तं, प्रकरणे नाटके चावश्यं प्रवेशकस्तस्यावश्यमुत्तमप्रकृतिविषये उपदेशाय प्रवृत्तो ऽपरिमितेनोपायेन भूयस्तरावान्तरकार्ये प्रत्युत्पत्तिबहुनां

[(मू)]

1. प॰ यदि

2. प॰ पूर्वतन्त्रज्ञैः ।

[(व्या)]

[page 423]




[NZ]

अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य1 बिन्दूनाम्2 BhNZ_18_033ab
प्रकरणनाटकविषये प्रवेशकः संविधातव्यः3 BhNZ_18_033cd
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । BhNZ_18_034ab
प्राकृतभाषाचारः प्रयोगमाश्रित्य4 कर्तव्यः5 BhNZ_18_034cd
6कालोत्थानगतिरसौ 7व्याख्यासंरम्भकार्यविषयाणाम् । BhNZ_18_035ab
अर्थाभिधानयुक्तः प्रवेशकः8 स्यादनेकार्थः9 BhNZ_18_035cd
[ABh]

चामात्यादीनामपि स्वकार्यनिरूपणाय प्रवेशकः अन्यत्र रूपके परिमितकार्योपदेशात् न तथा प्रवेशकोपयोग इति वितनिष्यामः ।
अथ विष्कम्भकाद्भेदमस्य दर्शयन् प्रवेशकशब्दो ऽतिविशेषशब्दवाच्यपि भवतीति दर्शयति नोत्तममध्यमपुरुषैरिति । उत्तमादयो ऽपि भवन्ति परिजनास्तन्निवृत्त्यर्थमेतत् । उदात्तं संस्कृतं वचनं तस्य निषेधः । अन्ये त्वाहुः --- उदात्तं स्वात्मकार्यविश्रान्तं वचनं निषिध्यते, ``आणत्तंमि भट्टिदारिआए' इत्यादिना हि स्वकृत्यं प्रधानोपयोग्येव दृश्यते, तत्र न स्वतन्त्रं प्राकृती भाषा । आचारश्च व्यवहारः प्राकृत एव । प्रयोगमाश्रित्येति क्वचित्तु प्रयोगवशात्संस्कृतभाषाचारो विष्कम्भके ऽपि कर्तव्य इति दर्शयति । संक्षेपार्थमधिकृत्येति यदुक्तं तदेव विभजति कालोत्त्थानगतिरसाविति । कालोदयस्य गतिरवगमो यतः कालोदयसूचकः कश्चित् प्रवेशकः । यथा ``अज्ज वसन्दमहूसवे सबहुमाणमाहूय'' इत्यादि (रत्ना॰ 1) । अर्थाभिधानेति प्रत्येकं संबध्यते, तेन व्याख्यादीनां विषयान्तानां चतुर्णां यो ऽर्थस्तदभिधाने युक्तस्तदुद्देशेन प्रवृत्त इति पञ्चप्रकारः प्रवेशक इति यावत् । व्याख्यायत इति व्याख्या । तथा हि --- केनचित्प्रवेशकेन गूढो व्याख्यायत इत्यर्थः । यथा पातसवत्सराजे अमात्यप्रणिधिः --- `मामिज्जइ

[(मू)]

1. ड॰ अधिकारी संक्षेपमथापि कृत्य, न॰ संक्षेपं समधिकृत्य, ढ॰ संक्षेपमथाधिकृत्य

2. फ॰ विहितो ऽयम्

3. य॰ विषयप्रवेशको भवति काव्येषु, फ॰ विषयोपदेशको नाम विज्ञेयः ।

4. प॰ आसाद्य

5. फ॰ प्रवेशको नाम विज्ञेयः (?)

6. प॰ कालो ऽस्थानगतिरसन्यासराम्भकामविषयाणाम् (?), भ॰ रसगति व्यत्यास, ड॰ कालार्थान्तरसंगतिव्यत्यासारम्भ ।

7. न॰ व्यत्यासारम्भः

8. भ॰ भूतः, फ॰ आर्याभिदानसूतः (?)

9. भ॰ नाम विज्ञेयः

[(व्या)]

[page 424]




[NZ]

1बह्वाश्रयमपि कार्यं2 प्रवेशकैः संक्षिपेच्च सन्धिषु वा3 BhNZ_18_036ab
बहुचूर्णपदैर्युक्तं 4जनयति खेदं प्रयोगस्य ॥ BhNZ_18_036cd
[ABh]

असवासएहि हाळाहळस्सपमादसंकिदा (भ्राम्यते पार्श्वकैः प्रमादशङ्कितैः ।)'' (तापस॰ अ॰ 4)'' इत्यादि । अनेन हि नातिव्यवधानोक्तं पद्मावतीगृहे च यद्वासवदत्तास्थापनं तस्य गूढं प्रयोजनं व्याख्यातम् । संरम्भः कार्यविशेष(विषयः ?) अभिप्रायस्तसयर्थ उपायान्वेषणादि तदभिधानयुक्तः प्रवेशको, यथा नृत्तपारे(*) ``गति ... ... उपस्थितमिदं तत्प्रयोजन''मित्यादि । अनेन वासवदत्तामपहृत्योज्जीयनीं निनीषोर्वत्सेशस्य प्रयोजकत्वम् प्राप्तानाममात्यानां संरम्भः शालङ्कायनेनोक्तः । कार्यं तु यदाधिकारिकमित्यादि(19-3), तस्यार्थः पञ्चाङ्गस्यानुष्ठानम् । तद्यथा --- कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिरिति । तथाभूताभिधानयुक्तश्च प्रवेशको बाहुल्येन तापसवत्सराजप्रतिभाचाणक्यमुद्राराक्षसादिषु । विषयस्तु भाविनो ऽङ्कावतारस्येतिवृत्तं, तस्यार्थो विशेषरूपः, तदभिधानेन युक्तः प्रवेशको यथा --- नागानन्दे द्वितीये ऽङ्के चेटिकाद्वयेन मदनावस्थेतिवृत्तस्य विशेषवर्णनं चन्दनलतागृहादि दर्शितम् । अन्यान्यपि प्रवेशकस्य प्रयोजनानि सन्ति । न त्वेतत्परिगणनमित्याह --- अनेकार्थ इति ।
नन्वेवंभूतो ऽर्थो यः प्रवेशके प्रदर्श्यते समासेन विस्तरेण वेत्याशंक्याह बह्वाश्रयमपीति । सन्धिं चिकिर्षव इति अङ्कार्थसन्निवेशनिमित्तं ये प्रवेशकाः पञ्चाप्युक्ताः चूलिकादयस्तैर्वाङ्काश्रयं बहुवक्तव्यं विततमपि कार्यं संक्षिप्तेत् यावत्सन्धानोपयोगि तावत्तत्र ब्रूयात् । यतो, बहुभिर्गद्यगतैरसमस्तैः पदैरसंस्कृतप्रायैः खेदो भवति । अनेन प्रवेशकादौ उत्कलिकाप्रायं बहुतरसमाससङ्कीर्णमभिनयशाखाङ्गत्रोटनकारित्वात् समाससंशयेनार्थानिश्चायकत्वाच्च न कर्तव्यमित्यपि दर्शयति ।
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् ।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥

[(मू)]

1. म॰ बह्वाश्रयमप्यर्थं प्रवेशकैः संक्षिपेत्प्रबन्धेषु । अङ्केषु संप्रयुक्तो जनयति खेदं प्रयोगस्य ।

2. प॰ अत्यर्थं

3. भ॰ संक्षिपेत्तु सन्धिगतम्, ड॰ च, फ॰ संक्षिप्ते ऽर्थे तु सन्धिषु च

4. न॰ पद्यवृत्तं, फ॰ पादवृत्तं, ग॰ पदैर्वृत्तं, ड॰ पूर्णपद्यवृत्तं, भ॰ पद्ययुक्तम्

[(व्या)]

* क॰ नृत्तवारे ।

[page 425]




[NZ]

यत्रार्थस्य समाप्तिर्न 1भवत्यङ्के प्रयोगबाहुल्यात् । BhNZ_18_037ab
2वृत्तान्तस्वल्पकथैः प्रवेशकैः सो ऽभिधातव्यः3 BhNZ_18_037cd
युद्धं राज्यभ्रंशो मरणं 4नगरोपरोधनं चैव । BhNZ_18_038ab
5प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ BhNZ_18_038cd
[ABh]

इति यदुक्तं तत्रानुपपत्तिर्बहुप्रकारा भवतीति दर्शयितुमाह यत्रार्थस्य समाप्तिरिति । यत्प्रत्यक्षप्रयोज्यमपि प्रयोगवशादङ्के ऽसमाप्तं भवति तत्प्रवेशकेन कर्तव्यम्, बहुतरत्वं प्रयोगस्य बहुमानास्पदत्वम् ।
तदयमत्रार्थः --- यत्र दिवसकार्याण्यनेकानि तत्र तन्मध्ये(1) यत्सुन्दरप्रयोगमुपदेशोपयोगि च तत्प्रत्यक्षेण दर्शनीयम् । अन्यत्सर्वं प्रवेशकेन वृत्तान्तार्था तदवशिष्टेनेतिवृत्तनिर्वाहफला अल्पा संक्षिप्ता कथा यस्य प्रवेशकस्य । एवं प्रत्यक्षप्रयोज्यप्रवेशकोपयोगो दर्शितः, अन्यत्रापि तं दर्शयति युद्धं राज्यभ्रंश इत्यादि । युद्धे शस्त्रसंपातस्य बाहुल्यं राज्यभ्रंशे ऽपि पतनमरणादेः नगरोपरोधे बलस्य यन्त्रसुरुङ्गादिदानस्य । इह केचिदाहुः मरणं द्विविधम्, किञ्चिदन्यसंबन्धिन्या क्रियया संपाद्यं यथा चक्रेण दैत्यस्य शिरश्छेदं, किञ्चिदन्यसंबन्धिक्रियानैरपेक्ष्येणैव व्याध्यभिघातादिप्रभवम्, तत्राद्यस्यैव निषेधः क्रियते । एतदर्थमेव कृतग्रहणं, तद्ध्यन्यक्रियावाचकं न च तद्युद्धेन संगृहीतम्, अयुद्धे पूर्वकस्याप्यशङ्कितशिरश्छेदस्य दर्शितत्वादिति । त एवं प्रष्टव्याः --- इदं मरणं प्रयोज्यमिदमप्रयोज्यमिति न तावदत्र विषयविभागे निदानमुत्पश्यामः । मृतस्य कथं निष्क्रमणं कथं वावस्थानं, ततो नाट्योपयोगिसमस्तध्रुवागानादिप्रक्रियाविलोपः सामाजिकानां विरसताप्रतिपत्तिरिति तु सर्वत्र मरणं समानं तस्मद्रङ्गे मरणमप्रयोज्यमेव । ननु मरणानुभाववर्णनेनेदानीं किं कृत्यम्, युद्धवीररौद्रादावप्येतदनुभाववर्णने किं प्रयोजनं तदनुभावापरिज्ञाने प्रवेशकैरपि कथं वर्णनं स्यादिति चेन्मरणे ऽपि समः समाधिः ।

[(मू)]

1. न॰ भवेत्

2. न॰ वृत्तान्ताल्पकथार्थैः, य॰ वृत्तान्तो ऽल्पार्थकथैः, ड॰ बहुवृत्तान्ताल्पकथैः, ढ॰ वृत्तान्ताल्पार्थकथैः, प॰ बहुवृत्तान्तो ऽल्पकथैः, फ॰ विष्कम्भः स्वल्पकथः, भ॰ वृत्तान्तैः

3. भ॰ सापि निर्देश्या, ढ॰ सा विधातव्या, ड॰ संविधातव्यः

4. फ॰ समरस्य रोधनं

5. भ॰ अप्रत्यक्षकृतानि ।

[(व्या)]

[page 426]




[NZ]

अङ्के प्रवेशके 1च प्रकरणमाश्रित्य नाटके2 वापि । BhNZ_18_039ab
3न वधः कर्तव्यः स्याद्यो ऽभ्युदयी नायकः ख्यातः4 BhNZ_18_039cd
5अपसरणमेव कार्यं 6ग्रहणं वा सन्धिरेव वा योज्यः । BhNZ_18_040ab
[ABh]

किञ्च यत्र प्रत्यापत्तिशून्यं मरणं तत्प्रक्रियाविलोपकत्वान्न प्रयोज्यम् । यत्तु क्वचित्प्रत्यापत्तिः यथा जीमूतवाहनस्य तदेव क्षणमात्रानिश्चितचेष्टात्मकं प्रयोज्यमेवेति सो ऽपि मरणानुभावसाक्षात्करणस्य विषयः । यद्वाहिनीनामपि साटोपपरिक्रमणं शस्त्रवर्णनादिप्रारम्भरूपमदः प्रयोज्यमपि तु तन्निर्वाहो न प्रदर्शनीयः । एतदेव कारणे स्फुटीकृतं युद्धमेव यन्निर्वाहपर्यन्तं यावन्मरणमेव यदचिरप्रत्यापत्तिर्न भवति तन्न प्रत्यक्षेण प्रयोज्यं, प्रवेशकैरिति उपक्षेपपञ्चकमध्यादन्यतमेनोपक्षेपेणेत्यर्थः । अन्ये त्वाहुः --- व्याधिजमधिघातजं च मरणं रङ्गे प्रयोज्यं, अपुनर्जनिनिष्क्रान्तिरहितप्रकृतिर्विधेयेति ।
अथ सर्वथा यद्विषयं मरणं नाख्येयं तद्दर्शयति अङ्के प्रपेशके चेति । प्रकरणे नाटके नायकस्य प्रत्यक्षेण वा वर्णनया वा न मरणं वर्णनीयम् । अङ्क इति प्रत्यक्षेण, प्रवेशक इति वर्णनया ।
ननु प्रत्यक्षेण ये न कस्यचिन्मरणं प्रयोज्यमिच्छन्ति तन्मते अङ्कग्रहणं किमर्थं, तत्राहुः वधशब्देन (न) मरणमुच्यते, अपि तु परकृतघातदानादि, तत्रान्यघातदानाद्यपि प्रत्यक्षेण रङ्गे प्रदर्श्यते । अचिरप्रत्यापत्तौ समाश्वासे यस्तु नायकस्तस्य ख्यातस्य न घातदानादि प्रदर्शनीयम् । अन्ये तु ख्यातं नायकं पताकानायकादिकमिच्छन्ति । अपसरणमिति पलायनम् । यथोक्तं --- ``अशक्ये सर्वमुत्सृज्यापगच्छेत्, अदृष्टा हि जीवतः पुनरावृत्तिः'' इति । ग्रहणं वा कार्यं सनिबन्धनबन्धनमिति । यथा वासवदत्तानृत्तधारे(परे ?) वत्सराजस्य । सन्धिरिति सन्धानं, यदुक्तम् ---

[(मू)]

1. भ॰ वा

2. न॰ नाटकं

3. ग॰ न च बन्धः

4. भ॰ तत्रापि हि नायकस्यैव, फ॰ यस्तत्र स नायकः ख्यातः, ड॰ यास्तत्र तु नायकः ख्यातः

5. च॰ अवतरणं, फ॰अवसरणं

6. ड॰ सन्धिर्वा ग्रहणमेव वा नित्यम् (सिद्धिर्वा ---ड॰), भ॰ ग्रहणं वा सन्धिमेववा कुर्यात् ।

[(व्या)]

[page 427]




[NZ]

1काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ BhNZ_18_040cd
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । BhNZ_18_041ab
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ BhNZ_18_041cd
2काव्यं गोपुच्छाग्रं3 कर्तव्यं कार्यबन्धमासाद्य ।4 BhNZ_18_042ab
[ABh]

प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताबलः ।
सन्धिनोपनमेत् ... ... ... ... ॥ इति (अर्थशास्त्रे 7-3 अध्या)
अपरसरणबन्धनसन्धीनां विषयविभागसूचनायाह । प्रधानरसानुसारेण यत्काव्यं यत्काव्यार्थस्तस्य श्लेषा बन्धनाद्युपपत्तयः तैरुपलक्षितमपसरणादिकार्यमिति यावत् । कार्यविशेषैरिति केषांचित्पाठः ।
अथ यद्यदप्रयोज्यं प्रत्यक्षेण तस्य सामान्यद्वारकं संग्रहं दर्शयितुमाह --- न महाजनपरिवारमिति । महाजनः संख्यया तेन परिवारः परिवारणं यत्र यत्र वस्तुनि तन्नाटकमिति तद्युक्तं नाटकं प्रकरणम् । वाग्रहणादन्यदपि न कार्यम् । एतदुक्तं भवति --- बहुतरपुरुषसाध्यं यत्किंचित्तद्यथा समुद्रे सेतुबन्धनमित्यादि, तत्सर्वं प्रत्यक्षेण न प्रदर्शनीयम् । तथा महतो जनस्य पितापुत्रश्वश्रूस्नुषागुरुशिष्यादेः परितो वरणं व्रीडातङ्कादियोगेन यत्र जायते वैरस्यं वा महाजनस्य सभ्यस्य च यत्र परिवरणं चित्तसङ्कोचः तत्सर्वं परिचुम्बनाद्यपि न प्रत्यक्षप्रयोज्यम् । यदि च प्रत्यक्षप्रयोज्यं तत्र पञ्च कार्यपुरुषाः यदि वा चत्वारः प्रकरीपताकादिरूपाः तेषां च परिवारस्वभावास्तावन्त एवेति यदि प्रकर्षस्तदा दशाष्टौ वा रङ्गे प्रविष्टा भवन्ति । ततो ऽधिकेषु त्वभिनयचतुष्टयं सम्यगविभावनीयं स्यात्, देवयात्रापरिदृश्यमानजनसमाजवत् । ऐवमङ्के प्रवेशकस्वरूपं वितत्याभिहितम्, अधुना तत्समुदायस्य नाटकस्य यादृग्रूपं तद्दर्शयति काव्यं गोपुच्छाग्रमिति । क्रमसूक्ष्माङ्गमिति केचित् । अन्ये तु यदा गोपुच्छे केचिद्वालाः ह्रस्वाः केचिद्दीर्घाः एवं कानिचित्कार्याणि

[(मू)]

1. भ॰ न॰ बहुभिः काव्यविशेषैः प्रवेशकैः सूचयेद्वापि, प॰ च॰ मातृकापाठ एव मूले विनिवेशितः । भ॰ तैस्तैः काव्यश्लेषैः प्रवेशकैर्नाट्यतत्त्वज्ञैः । म॰ एभिः कार्यविशेषैः प्रवेशकैः सूचयेद्वापि (य॰ बहुभिः), ड॰ तैस्तैः कार्यं विशेषैः ... ... सूचयेच्चैव, ब॰ बहुभिः कार्यश्लिष्टैः

2. प॰ कार्यं, फ॰ गोपुच्छाग्रे]

3. भ॰ ढ॰ गोपुच्छार्धम् ।

4. प॰ नाटकादिषु प्राज्ञैः, फ॰ काव्यबन्धमुत्पाद्य ।

[(व्या)]

[page 428]




[NZ]

ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ BhNZ_18_042cd
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । BhNZ_18_043ab
1निर्वहणे कर्तव्यो नित्यं हि रसो ऽद्भुतस्तज्ज्ञैः ॥ BhNZ_18_043cd
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत्2 BhNZ_18_044ab
प्रकरणमतःपरमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ BhNZ_18_044cd
यत्र कविरात्मशक्त्या3 वस्तुशरीरं च 4नायकं चैव । BhNZ_18_045ab
[ABh]

मुखसन्धौ परिसमाप्तानि कानिचित् प्रतिमुखपर्यन्तानि कानिचिदवमर्शावसानानि पराणि निर्वहणपर्यवसायीनि, तद्यथा रत्नावल्यां प्रमोदोत्सवो मुखसन्धावेव निष्ठत इत्यादि यावत् बाभ्रव्यवृत्तान्तो मुखोपक्षिप्तो निर्वहणनिष्ठां प्राप्तः । साररूपाश्च पदार्थाः पर्यन्ते कर्तव्याः ।
अत्र हेतुमाह सर्वेषां काव्यानाम्ति । नाटकादीनां निर्वहणो ऽद्भुतरसः कर्तव्यः । एवं हि तानि काव्यानि रसभावानां युक्त्या परस्परसंबद्धानि युक्तानि भवन्ति, नान्यथा एकवाक्यतां च विना कः प्रबन्धार्थः । तथा च शृङ्गारवीररौद्रैः स्त्रीरत्नपृथिवीलाभशत्रुक्षयाः करुणादिभिस्तन्निवृत्तिरितीयता क्रमेण लोकोत्तरासंभाव्यमनोरथप्राप्तौ भवितव्यमद्भुतेन । असाधारणलाभो हि यदि फलत्वेन कल्प्यते ऽवश्यं क्रियायाः किञ्चिदस्त्येव फलमात्रमिति किं तत्रोपायव्युत्पादनायत्तेनेत्यद्भुतावसानत्वमकार्यम्, केन व्युत्पाद्यजनस्यैवं बुद्धिर्जायते --- `अहो दुष्करमप्युपायक्रमेण सिध्यति' इति, ``उपायेन वर्तितव्यं'' इति । पूर्वोक्तमुपसंहरति वक्तव्यान्तरं चाक्षिपति नाटकलक्षणमेतदित्यादि । क्वलिल्लक्ष्यं प्रसिद्धम्, इह तु लक्षणबलेन तस्यैव यत्नप्रसाध्यत्वमिति दर्शयति । लक्षणयुक्त्या लक्षणद्वारेण युक्तिः हृदयानुप्रवेशनया हेतुभूतया संपाद्ययेत्यर्थः । तत्र प्रकरणस्य सभेदस्य सलक्षणं नामनिर्वचनं चाह यत्र कविरात्मशक्त्येति । वस्त्विति साध्यं फलं, शरीरमिति तदुपायं वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकुरुते यत्काव्येन तत्प्रकरणमिति बुधैर्ज्ञेयमिति संबन्धः । यत्र

[(मू)]

1. फ॰ निर्वहणं कर्तव्यम्

2. फ॰ प्रकीर्तितं विविधम्, भ॰ विप्राः

3. प॰ भ॰ बुद्ध्या

4. ड॰ नाटकम् ।

[(व्या)]

[page 429]




[NZ]

औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधै1र्ज्ञेयम् ॥ BhNZ_18_045cd
2यदनार्षमथाहार्यं काव्यं 3प्रकरोत्यभूतगुणयुक्तम् । BhNZ_18_046ab
4उत्पन्नबीजवस्तु प्रकरणमिति5 तदपि विज्ञेयम् ॥ BhNZ_18_046cd
यन्नाटके 6मयोक्तं 7वस्तुशरीरं 8च वृत्तिभेदाश्च । BhNZ_18_047ab
तत् प्रकरणे ऽपि9 योज्यं सलक्षणं सर्वसन्धिषु तु ॥ BhNZ_18_047cd
[ABh]

समुत्पाद्यं न भवति तत्र यो ऽनुत्पाद्यो ऽंशः न कुत्रस्थो ग्राह्य इति दर्शयितुमाह यदनार्षमित्यादि । अनार्षमिति पुराणादिव्यतिरिक्तबृहत्कथाद्युपनिबद्धं मूलदेवचरितादि । आहार्यमिति पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्तचेष्टितादि ।
ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तत्, यदिति वस्तुभूतैः बृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं, प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते तदा प्रकरणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णने ऽपि अधिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम् । नन्वस्येतिवृत्तस्य कथं योजनेत्याशंक्य पूर्वोक्तमेवातिदेशद्वारेण स्मारयुतुमाह यन्नाटके मयोक्तमिति । `नानाविभूतियुक्तमृद्धिविलासादिभि'रित्यादिनायकफलवत्त्वमुक्तं तत्, वस्तुशरीरमिति `अङ्कप्रवेशकाढ्यं' वृत्तिभेदाश्चेति ``नानारसभावचेष्टितैर्बहुधा । सुखदुःखोत्पत्तिकृत''मिति, सलक्षणमित्यङ्कप्रवेशकयोर्लक्षणयुक्तमिति ।
केचित्तु शरीरग्रहणेन गतार्थं तस्माल्लक्षणमित्यङ्कपरिमाणमङ्कान्तरसन्धानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं `दिवसावसानकार्यं यद्यङ्केनoपपद्यत' इत्यादि

[(मू)]

1. भ॰ अपि तद्विधं, ड॰ एतद्बुधैः

2. च॰ यदनर्थमयाहर्यं(?), फ॰ यदनायकहार्यकार्थं(?), ड॰ यदनार्षमाहार्यं, ढ॰ यदनार्षमहार्यं, प॰ यदनार्षमप्रयुतं परेण यत्स्यादभूतगुणबन्धम्

3. ट॰ प्रकरोत्यद्भुत(?)

4. य॰ प्रकरणमिति तद्विद्यादुद्विजबीजार्थसंयुक्तम् ( --- औद्भिज --- प॰, बीजंबीजार्थ --- फ॰, उद्गत --- भ॰)

5. च॰ अपि

6. न॰ प्रयोक्तं

7. न॰ ढ॰ काव्य

8. न॰ प॰ भ॰ रसाश्रयोपेतम्, फ॰ समाश्रयोपेतम्

9. प॰ कार्यं केवलमुत्पाद्यवस्त्वपि हि तत् । ढ॰ न॰ कार्यं केवलमुत्पाद्यवस्तु स्यात् (योज्यं --- ड॰)

[(व्या)]

[page 430]




[NZ]

1विप्रवणिक्सचिवानाम् पुरोहितामात्यसार्थवाहानाम् । BhNZ_18_048ab
चरितं 2यन्नैकविधं 3ज्ञेयं तत्प्रकरणं नाम4 BhNZ_18_048cd
5नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् । BhNZ_18_049ab
बाह्यजनसंप्रयुक्तं 5तज्ज्ञेयं प्रकरणं तज्ज्ञैः8 BhNZ_18_049cd
9दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम्10 BhNZ_18_050ab
मन्दकुलस्त्रीचरितं 11काव्यं कार्यं प्रकरणे तु12 BhNZ_18_050cd
[ABh]

तत्सर्वं प्रकरणे ऽपि योज्यम् (इति) । अतिदेशायातमतिप्रसङ्गं वारयत्यार्याद्वयेन विप्रवणिगित्यादिना । सचिवो मन्त्री, अमात्यो ऽधिकृतः सार्थवाहस्तावत्पण्यानामाहर्ता तद्देशक्रयविक्रयकृतो वणिजो ऽन्य एव । नैकविधमित्यनेकरसयुक्तमित्यर्थः । `नैकरसान्तरविहित' इति तदतिदेशमात्रमिति सूचितम् । प्रख्यातोदात्तेति प्रसक्तं निषेधति नोदात्तेति । तन्निषेधे चार्थान्नाटके वैपरीत्यमायातम् । नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्याह न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदनादेशाद् देवानां प्रयोज्यत्वं प्रसक्तं तदप्यनेन निषिद्धम् । नाटके देवानमिवेहापि राज्ञः प्रवेशे शङ्कमाने निराकरोति न राज्यसंभोग इति, यदि वा औत्पत्तिकत्वे ऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यन्नेन शिक्षयति, अत एव राजनियमः । उचितो ऽन्तःपुरजनः कञ्चुकिप्रभृतिः तद्व्यतिरिक्तो बाह्यजनो ऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः ।
एतदेव दरशयति दासविटश्रेष्ठयुतमिति कञ्चुकिस्थाने दासः, विदूषकस्थाने विटः अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशः तत्र या स्त्री तस्याः य उपचारो वैशिके (अ-23) वक्ष्यते स कारणं यस्य शृङ्गारस्य तेनोपेतं, कुलस्त्रीविषयं चेष्टितं मन्दं यत्रेति । उपाध्यायास्तु मन्दकुलानां स्त्रीणां चरितं

[(मू)]

1. भ॰ सचिवश्रेष्ठब्राह्मण

2. च॰ यत्रैक, ड॰ यदनेक

3. ड॰ तज्ज्ञेयं प्रकरणं

4. प॰ कृतिभिः, ट॰ कथिभिः

5. प॰ नोदात्तनृपोपेतं

6. ड॰ संभोगः

7. ड॰ विज्ञेयं

8. प॰ लोके, भ॰ नाम

9. म॰ दाश

10. भ॰ कारणैर्युक्तम्

11. प॰ कार्यं

12. य॰ न॰ प्रयोगे तु, च॰ प्रकरणे ऽपि ।

[(व्या)]

[page 431]




[NZ]

सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् । BhNZ_18_051ab
गृह1वार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ BhNZ_18_051cd
2यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमो ऽपि स्यात्3 BhNZ_18_052ab
अथ 4कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ BhNZ_18_052cd
[ABh]

यत्रेत्याहुः, तेन कुलाङ्गनापि तत्र मन्दकुलैवेति दर्शितं भवति । एतदेवाभिमन्यमानेन पुष्पदूषितके ऽशोकदत्तादिशब्दाकर्णनेन समुद्रदत्तस्य शङ्का योपनिबद्धा सा न दोषाय निर्वहणान्तोपयोगिनी हि नन्दयन्तीनिर्वासनं तस्याश्च गृहान्तरावस्था । इयमेव मुखसन्धौ मूलं परपुरुषसंभावनामूलत्वात् । एवमनभ्युपगमे तु श्वशुरेण वध्वा असन्निहिते पुत्रे निर्वासनं शबरसेनापतिगृहे ऽवस्थानमित्युत्तमप्रकृतीनामनुपपन्नमेव । तस्मात् स्ववर्गापेक्षयेदमुत्तमत्वमद्यतने राजोचितानामुत्तमप्रकृतीनां वणिङ्मात्रे सस्मारोप्य तद्दूषणं यत्कृतं न तेन ब्रह्मयशःस्वामियशः खण्डितं अपि तु स्वयश एव । ये हि मिथ्यायशो मिथ्याकलङ्कयितुमुद्यतास्तेषां स्वयश एवेति यशोमात्रावशेषता न हि नायकशब्दमात्रादेव दुर्योधनवदेव शङ्काद्युनुचितम् । प्रकरणे हि तादृश एव नायकः केवलमन्यवणिगपेक्षया स उत्तमो ऽस्तु, व्युत्पाद्यश्च तत्रैवंविध एवेत्यलमवान्तरेण ।
अथास्य सप्तविधस्यापि प्रकरणस्य प्रत्येकं भेदद्वयं दर्शयितुमार्यात्रयं पठति सचिवेत्यादि । सचिवादीनां संबन्धिनी यत्र गार्हस्थ्योचिता वार्ता पुरुषार्थसाधकमितिवृत्तं न तत्र वेश्याङ्गना नायिकात्वेन निबन्धनीया, विटादीनां तु नायकत्वेन कृतानां गार्हस्थ्यचिन्तायां सापि निबन्धनीयेत्युक्तं भवति । यदि गृहस्थचिन्तावर्णनं न भवति श्रेष्ठिसार्थवाहादीनां च विप्रादिवदविरुद्धो वेश्यायोग इति सापि प्रदर्शनीयेति लब्धमर्थात् । तत्र न तु कुलस्त्रीसंगमः कर्तव्यः । तदाह यदि वेशयुवतीति । अथ कुलजनप्रयुक्तमिति । एवं श्रेष्ठसचिवादिविषयं शुद्धं भेदद्वयमुक्तं, विटादिविषयस्तु सङ्कीर्ण एव वेश्याकुलजाभ्यां भवति ।

[(मू)]

1. भ॰ वार्तायां तु

2. भ॰ यतिवेश्यायुवतियुतं, म॰ यदि वेश्यायुवतियुतं

3. य॰ संगमो भवेत्तत्र, द॰ संगमर्हति ततः, प॰ संगमर्हति कदाचित्, भ॰ संगमस्तत्र

4. प॰ कुलवधू ।

[(व्या)]

[page 432]




[NZ]

यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात्1 BhNZ_18_053ab
2अविकृतभाषाचारं 3तत्र तु 4पाठ्यं प्रयोक्तव्यम् ॥ BhNZ_18_053cd
मध्यम5पुरुषैर्नित्यं योज्यो विष्कम्भको ऽत्र6 तत्त्वज्ञैः । BhNZ_18_054ab
संस्कृतवचनानुगतः 7संक्षेपार्थः प्रवेशकवत् ॥ BhNZ_18_054cd
शुद्धः संकीर्णो वा द्विविधो विष्कम्भको ऽपि कर्तव्यः8 BhNZ_18_055ab
मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः9 BhNZ_18_055cd
[ABh]

तदाह यदि वा कारणमुक्त्येति । विटे वेशस्त्री प्रधानत्वात् पूर्वमुक्ता कुलस्त्री तु तत्रापि पितृपितामहाद्यनुरोधादिति कारणशब्देनोक्तम् । अविकृता भाषा कुलस्त्रियः शौरसेनी, वेर्श्यायाः संस्कृता, आचारः कुलस्त्रियां विनयप्रधानः, अन्यस्यां तद्विपरीतः । तथा च देवीचन्द्रगुप्ते वसन्तसेनामुद्दिश्य माधवस्योक्तिः (माधवसेनामुद्दिश्य चन्द्रगुप्तस्योक्तिः?) ---
आनन्दाश्रु सितेतरोत्पलरुचोराबध्नता नेत्रयोः
प्रत्यङ्गेषु वरानने पुलकिषु स्वेदं समातन्वता ।
कुर्वाणेन नितम्बयोरुपचयं संपूर्णयोरप्यसौ
केनाप्यस्पृशताप्यधोनिवसनग्रन्थिस्तवोच्छ्वासितः ॥ इति ।
अत्र हि व्युत्पाद्यस्तथाविध एव तादृश्येव च वृत्ताङ्के एवमेतत् । एकविंशतिः प्रकरणे भेदाः । प्रकरणे नायकापेक्षया प्रायशः उपयोगिनो ऽपि मध्यमा एव संभवन्तीति तत्र विष्कम्भकस्य बाहुल्येन संभावनमित्याशयेन प्रकरणे विष्कम्भकं लक्षयति मध्यमपुरुषैरिति । विषकम्भयत्युपस्तम्भयतीति विष्कम्भकः । संस्कृतेन वचनेनानुगतं च सङ्कीर्णो ऽप्यस्त्येवेति प्रवेशकेन वार्थक्रियाकर्तव्यतामेव कर्तव्यत्वेनाभिसन्धाय विष्कम्भकः कार्यः । तामेवार्थक्रियां स्पष्टयति

[(मू)]

1. प॰ समागमो ऽपि स्यात्, ड॰ समागमो न स्यात्

2. भ॰ अधिकृत, द॰ अधिगत

3. भ॰ विशेषभाषोपचारसंपन्नम्

4. च॰ काव्यं

5. ड॰ पात्रैः कार्योनित्यं विष्कम्भकस्तु विज्ञेयः

6. ढ॰ अपि, द॰ संक्षिप्तार्थः

7. ड॰ संक्षिप्ताक्षरपदः शुद्धः, ढ॰ संक्षिप्तार्थात्पदाच्छुद्धः

8. ड॰ खलु नाटके प्रयोगज्ञैः, य॰ विज्ञेयः, प॰ विष्कम्भकश्च विज्ञेयः

9. य॰ मध्यमकृतः ।

[(व्या)]

[page 433]




[NZ]

1अङ्कान्तरालविहितः2 3प्रवेशको ऽर्थक्रियां समभिवीक्ष्य4 BhNZ_18_056ab
5संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ BhNZ_18_056cd
अनयोश्च बन्धयोगा6दन्यो भेदः प्रयोक्तृभिः कार्यः ।7 BhNZ_18_057ab
8प्रख्यातस्त्वितरो वा 9नाटकयोगे प्रकरणे वा ॥ BhNZ_18_057cd
[ABh]

संक्षेपात्मसन्धीनामर्थानां चेति । सन्धीनां यः संक्षेपो युद्धराज्यभ्रंशादीनां चार्थानां यः संक्षेपस्तमभिसन्धाय अङ्कस्याङ्कयोर्वान्तराले मध्ये विष्कम्भको योज्यः ।
ननु कोहलेन मुखाङ्कस्य चायमन्तान्तरे विहितः
``मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसञ्चारः ।
विष्कंभको हि कार्यो नाटकयोगे प्रवेशकवत् ।'' इति ।
तत्कथमुक्तमङ्कान्तरानुसारीति, उपलक्षणार्थमेतदित्यदोषः । तथाहि बीजं बिन्दुश्च प्रथममुपक्षिप्येते, तत्र च पृथग्जनस्यालब्धनिवेशत्वात् सचिवादिगोचरत्वाच्च तदुपक्षेपे विष्कम्भकस्यैवावसर इति यदुच्यते तदङ्कान्तरेष्वपि मन्त्रगुप्तायां तुल्यमिति तत्राप्यनिवारितो विष्कम्भकप्रवेशः । पृथग्जनो ऽपि वा यत्र मन्त्रचिन्तायामनुप्रवेश्यते तत्र प्रवेशको ऽपि प्रथमोपक्षेपे न योग्य इति युक्तम् । सामन्येनाङ्कान्तरानुसारीति अङ्कस्य मध्य इत्यनेन प्रस्तावनाङ्कमध्यवर्तिताप्युक्तैव । प्रवेशकविष्कम्भकविषये लिङ्गवचनयोरतन्त्रत्वात् स्त्रीणामप्यनुप्रवेशः संख्याधिक्यस्य च ।
एवं सकलपुरुषार्थविषया व्युत्पत्तिः नाटकेन प्रधानस्य राज्यप्रायस्य क्रियते, प्रकरणेन च मध्यमप्रायस्य, अपूर्वकुतूहलवतस्तत्रापि चैकविंशकस्याभिधानात् चित्रव्युत्पत्तिः । तत्र रूपकलक्षणस्य संकीर्णतया बहवो भेदाः सन्तीत्युक्तं सामान्यलक्षणे । तत्र प्रधानभूतयोः सर्वरूपकप्रसरणकारिणोः नाटकप्रकरणयोर्लक्षणसङ्कर्ये दर्शिते सर्वरूपकाणां दर्शनं तद्भवतीत्यभिप्रायेण तदेव

[(मू)]

1. ढ॰ अनयोरन्तरविहितः

2. ड॰ सहितः

3. ड॰ प्रवेशकार्थ, भ॰ प्रवेशकाङ्क

4. प॰ अभिसमीक्ष्य

5. भ॰ संक्षेपार्थं सन्धिष्वर्थानां संविधातव्यः, च॰ संक्षेपेण तु

6. न॰ एको

7. न॰ ज्ञेयः

8. य॰ प्रत्याख्यातस्त्वितरो

9. च॰ नाटीसंज्ञाश्रिते काव्ये, भ॰ नाटककाव्यबन्ध इह ।

[(व्या)]

[page 434]




[NZ]

प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम्1 BhNZ_18_058ab
अन्तःपुरसङ्गीतक2कन्यामधिकृत्य कर्तव्या ॥ BhNZ_18_058cd
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी3 BhNZ_18_059ab
बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ BhNZ_18_059cd
5राजोपचारयुक्ता 6प्रसादनक्रोधदम्भसंयुक्ता7 BhNZ_18_060ab
नायकदेवीदूती8सपरिजना नाटिका ज्ञेया ॥ BhNZ_18_060cd
[ABh]

दर्शनीयम् । उद्देशक्रमानुसारेण तु तल्लक्षणविस्तरणं पुनस्तल्लक्षणपरामर्शे च गौरवमित्यभिप्रायेणार्यात्रयं पठति प्रकरणनाटकभेदादित्यादि । प्रकरणनाटकाभ्यां भेदात् लक्षणान्यत्वान्नाटिका ज्ञेयेति दूरेण संबन्धः । उत्पाद्यं वस्तु चरितं च नायकं च नृपतिमन्तःपुरकन्यां सङ्गीतशालाकन्यां वाधिकृत्य प्राप्यत्वेन अभिसन्धाय कर्तव्या । स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारो ऽङ्काः यस्याः कस्याश्चिदवस्थायाः सरसो ऽवस्थासमावापः कार्य इति यावत् । ललिताभिनयात्मिकेति कैशिकीयं बद्धेत्यर्थः । सुष्ठु पूर्णतया विहितानि चत्र्वार्यपि कैशिक्यङ्गानि यत्र । ``अङ्गगात्रकण्ठेभ्यः'' इत्यत्र स्वाङ्गविशेषणाभावात् ङीष्प्रयोगः । एतदपि न मुनित्रयमतमित्यनादृत्यमिति त्वन्ये । रतिपुरस्सरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह राजगतैरुपचारैः व्यवहारैर्युक्ता, अन्यां चेदुद्दिश्य तत्र व्यवहारः, तत्पूर्वनायिकागतैः क्रोधप्रसादवञ्चनैरवश्यं भाव्यमिति दर्शयति प्रसादनेति, आर्यानुरोधात्क्रोधस्य पश्चात्पाठः ।
ननु यस्याः क्रोधो भवति सा न काचिदुक्तेत्याशंक्याह नायकेति । नायकस्य येयं देव्याद्या नायिका तथाभिलषितनायिकान्तरविषये दूतीकृतं सपरिजनं परिजनसमृद्धिर्यस्यां । एतदुभयप्रधानं सर्वं तत्रेत्यर्थः । अन्यत्सन्ध्यङ्गादि

[(मू)]

1. ढ॰ नायको नृपतिः, प॰ प्रकरणसमुद्भवा पुनरुत्पाद्यं वस्तु नायकं नृपतिम् । ड॰ प्रकरणनायकभेदादुत्पन्नं

2. ड॰ वार्तां, ढ॰ कन्यामाश्रित्य

3. ड॰ सुविहितार्था

4. द॰ वाद्या

5. भ॰ कामोपचार

6. प॰ ड॰ न॰ य॰ शृङ्गाराभिनयभावसंयुक्ता (भ॰ संपन्ना, ब॰ संयोगा)

7. न॰ संयुता चापि

8. प॰ परिजनसमन्विता नाटकप्रकृतिः । य॰ परिजन संयुक्ता, स॰ संबन्धा ।

[(व्या)]

[page 435]




[NZ]

1[अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । BhNZ_18_061ab
अत एव दशैतानि रूपाणीत्युदितानि वै ॥ ] BhNZ_18_061cd
2प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन । BhNZ_18_062ab
वक्ष्याम्यतः परमहं लक्षणयुक्त्या समवकारम्3 BhNZ_18_062cd
[ABh]

सर्वं पूर्ववदेव । तत्रैका नायिका तावद्व्याख्याता भवति । षट्पदेयं नाटिकेति संग्रहानुसारिणो भट्टलोल्लटाद्याः । श्रीशङ्कुकस्त्वयुक्तमेतदित्यभिधायाष्टधेति व्याचष्टे । तथा हि देवी कन्या च ख्याताख्याताभेदेन चतुर्धा, कन्या त्वन्तःपुरसङ्गीतकभेदेन द्विधेति । घण्टकादयस्त्वाहुः --- नायको नृपतिरित्येतावन्मात्रं नाटकादावुपजीवितः न तु प्रख्यातत्वमपि तद्भेदद्वयादन्ये ऽष्टाविति षोडशभेदा इति । नायको नृपतिरिति ये प्रथमां पठन्ति तैर्यत्रेत्यध्याहृत्यैकवाक्यतायां तूभयस्य कार्यम् । अन्ये प्रथममार्यार्धं पृथगेव च वाक्यं योजयन्ति प्रकरणभेदात्प्रकरणलक्षांशात् उत्पाद्यं वस्तु नाटकलक्षणांशाच्च नृपतिर्नायकः स्थिते यत्रेत्यभिप्राये नाटिकैवंभूतेति ।
अन्ये तु प्रकरणनाटकभेदात् नाटिका भिद्यते नाटकशब्देनाभिनेयं रूपकमात्रं तस्यां सौकुमार्यप्रदर्शनाय स्त्रीत्वेन निर्देश इति प्रकरणिकापि सार्थवाहादिनायकयोगेन कैशिकीप्रधाना लभ्यत इत्याहुः । यद्यपि च नाटिकैवमुक्ता, तथापि प्रकरणनाटकलक्षणे एव तथा स्थिते तत्रेत्यभिप्रायेणोपसंहरति प्रकरणनाटकलक्षणमिति अन्यदासूत्रयति वक्ष्याम्यतः परमिति ।
ननूद्देशक्रमत्यागे किंफलं उद्देशस्तावदत्र न परिगणनार्थ इत्युक्तं, तेनास्य प्राधान्यान्नाटिकया च विच्छिन्नो ऽसावुद्देशक्रमः । यथा च नाटकप्रकरणयोर्व्युत्पाद्यभूयस्त्वं तथा समवकारे ऽपि तत्र त्रिवर्गोपायप्रदर्शनात् । केवलं तत्तद्देवताभक्तानां तच्चरितपुरस्सरतया तस्य तस्योपायस्यादरणीयत्वं भवतीत्यनेनाभिप्रायेण दिव्यो ऽत्र नायकत्वेन निषिध्यते । तदीयं च भूयस्तरं न भूयस्तरं विततवृत्तमनुक्रियया प्रदर्श्यते, येन तन्मध्यपतितानां भवति निवेदादीनामभावे प्रयोगस्यारञ्जकत्वं नाटकगताङ्कैकदेशवत्, नाटकादौ तु भूयस्तरं

[(मू)]

1. अयं श्लोको ड॰ढ॰योरेव वर्तते

2. भ॰ लक्षणमुक्तं प्रकरणनाटकयोरत्र नाटिकायाश्च, न॰ प्रकरणनाटकनाठी

3. भ॰ समवकारे । ड॰ युक्तं समवकारम् ।

[(व्या)]

[page 436]




[NZ]

देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । BhNZ_18_063ab
1त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ॥ BhNZ_18_063cd
द्वादशनायकबहुलो ह्यष्टादशनाडिका2प्रमाणश्च । BhNZ_18_064ab
3वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र ॥ BhNZ_18_064cd
4अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः । BhNZ_18_065ab
द्वादशनाडीविहितः5 प्रथमः कार्यः क्रियोपेतः6 BhNZ_18_065cd
[ABh]

चरितमनेकाङ्गरञ्जकवर्गेण विना न रञ्जकमेवेति नाटकादौ दिव्यनायकनिषेध उक्तः । (नोक्त?) तत्र हि राजप्रभृतयो बहुतरफलानुबन्धिनि महति फले संप्रयाससाध्ये व्युत्पाद्यन्ते, न तथेहि किन्तु त्रिवर्गोपायमात्रे ।
अन्यरूपकाणां तु त्रिवर्गोपायत्वं नास्ति एकाङ्कत्वात्, डिमस्तु चतुरङ्को ऽपि पश्चान्निर्दिष्ट इत्यत्र तल्लक्षणे कारणं वक्ष्यामः । तस्मात् त्रिवर्गव्युत्पादकत्वादनेकाङ्कत्वाच्च तादृशरूपकानन्तरमेवाभिधानं युक्तमित्यलं बहुना ।
देवासुरस्य यद्बीजं फलसंपादनोपायस्तेन कृतो विरचितः । देवासुरा अपि चाप्रख्याता बृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षयोद्धतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्त्रिपुररिपुप्रभृतयः । प्रशान्ताः ब्रह्मादयः, उद्धताः नृसिंहादयः । अत्र यत्र तावत्येव समापन्नं त्र्यङ्क इत्युक्तम् । अर्थत्रयं च कपटविद्रवशृङ्गाराः प्रत्येकं त्रिविधास्तत्र प्रत्यङ्कं विद्रवादयस्त्रयस्तथाहि कपट उपायांशे विद्रवो व्यापत्तिसंभावनांशे शृङ्गार फ्लांशे, एवं द्वितीये ऽङ्के तृतीये च । द्वादशनायकबहुल इति प्रत्यङ्कमिति केचित् । अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति चतुराहुः, समुदायापेक्षया हि द्वादशेति । सप्रहसन इति वचनात् प्रथमे ऽङ्के कामशृङ्गारः प्रयोज्य इत्याह तत्रैव हास्यस्यागमनात् । स्त्रि(क्रि ?)योपेत इति कामशृङ्गारात्मकं द्वादशघटिकामध्यसंपाद्यैः कपटविद्रवप्रहसनलक्षणैरुपायैः

[(मू)]

1. प॰ अङ्कः

2. द॰ नायिका

3. ड॰ वक्ष्याम्यस्याङ्कविधिं यत्रान्या नाडिका कार्या, द॰ या तत्र तु नायिका योज्या, भ॰ यद्यत्र च नाडिका कार्या

4. ढ॰ अङ्के ऽत्र सुप्रसन्नः

5. य॰न॰प॰ युक्तः

6. ड॰ कार्यो यथार्थस्तु ।ढ॰ यथोक्तस्तु

[(व्या)]

[page 437]




[NZ]

कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु1 BhNZ_18_066ab
2वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ॥ 3 BhNZ_18_066cd
4नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् । BhNZ_18_067ab
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ॥ BhNZ_18_067cd
5या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना । BhNZ_18_068ab
काय्रा च सा प्रयत्नाद् यथाक्रमेणैव शास्त्रोक्ता ॥ BhNZ_18_068cd
6अङ्को ऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य7 BhNZ_18_069ab
अर्थं हि समवकारे ह्यप्रतिसंबन्ध8मिच्छन्ति ॥ BhNZ_18_069cd
[ABh]

प्राप्ते प्रथमाङ्के निबध्नीयादिति तात्पर्यम् । द्वितीये त्वङ्के घटिकाचतुष्टयगामिभिः कपटादिभिरुपायैः, तृतीये त्वङ्के सर्वं वस्तु समाप्यते । द्विघटिकान्तरसंपाद्यैरुपायैः यद्यपि प्रत्यङ्कं वस्तुपरिसमाप्तिरस्ति तथापि तृतीये वस्तुसमाप्तिग्रहणेनेदमाह --- बीजे तावदङ्कत्रयार्थ उपक्षेप्तव्यः, तदनन्तरमङ्कद्वये ऽवान्तरवाक्यार्थसमाप्तिरन्योन्यविशिष्टैव विधेया । तृतीये त्वङ्के ऽवान्तरवाक्यार्थः । तृतीयस्ताभ्यां प्रतिसंबद्धः । एवं महावाक्यार्थनिर्वाहहेतुसंबद्धतैव सर्वस्य जायते । एवं हि सानुसन्धाना विततदृशो ऽपि त्रिवर्गसिद्ध्युपायव्युत्पत्त्यनुगृहीता भवति, निरनुसन्धानापि तावत्तावत् परिसपाप्त्या तावत्युपाये निजहृदयसंवादबलादिति । अत एव संबद्धो ऽवकीर्णश्च यत्रार्थः समवकारस्तदाह अङ्को ऽङ्क इति । तुर्व्यतिरेके अङ्कत्रयसंबन्धो भवति, न त्वङ्को ऽङ्कः परस्परमित्यर्थः । काव्यबन्धमिति । सर्ववस्तु काव्यबन्धोपश्लिष्ठमित्यर्थः अन्यथा हि समवकार एकं कार्यमिति केयं फणितिः ।
एतदेव निर्वचनेनाह अर्थं हि समवकार इति । समवकार इत्यस्मिन् शब्दे ऽर्थं वाच्यमप्रतिसंबन्धमिति नातिसंबद्धं किञ्चित्संबद्धं वस्त्विच्छन्ति संशब्दबलादवशब्दबलाच्च ।

[(मू)]

1. प॰ च

2. ड॰ वस्तुप्रमाण

3. भ॰ अथ, प॰ अस्मिन्

4. भ॰ ज्ञेयं तु नाडिकाख्यं मानं कालस्य यन्मुहूर्तमिति

5. अयं श्लोको ड॰ढ॰मातृकयोरेव वर्तते

6. न॰प॰ अङ्के ऽङ्के संबन्धः, ढ॰ अङ्के ऽङ्के ऽन्योऽन्यो ऽर्थः, ड॰ अङ्काङ्के

7. भ॰ बन्धतत्त्वज्ञैः

8. ड॰ संधानं, द॰ संबद्धं ।

[(व्या)]

[page 438]




[NZ]

युद्धजलसम्भवो वा वाय्वग्निगजेन्द्र1संभ्रमकृतो वा । BhNZ_18_070ab
नगरोपरोधजो वा विज्ञेयो 2विद्रवस्त्रिविधः ॥ BhNZ_18_070cd
वस्तुगतक्रमविहितो दैववशाद्वा परप्रयुक्तो वा । BhNZ_18_071ab
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटो ऽत्र विज्ञेयः3 BhNZ_18_071cd
4त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्ययोग5विहितार्थः । BhNZ_18_072ab
6शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ BhNZ_18_072cd
[ABh]

प्रतिशब्देनातिशय उक्तः स निषिद्धः । त्रिविद्रव इत्युक्तं तत्त्रयं वक्तव्यमचेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु, यतो विद्रवन्ति जनाः स विद्रव इति त्रिविधः । तत्राचेतनकृतमुदाहर्तुं जलवाय्वादिग्रहणम् । चेतनकृते गजेन्द्र उदाहरणम्, द्वयकृते नगरोपरोधस्तस्य युद्धाग्निदानादिसंपाद्यत्वात् । कपटो वञ्चना तस्याश्रयणमङ्गीकरणम् । त्रिधा तत्र वञ्चना, बुद्ध्यैव कदाचित्केवलया कपटो भवति स हि वस्तुगतक्रमविहितः वस्तु फलं तत्प्राप्तौ वस्तुगतः फलसाधकः कर्ता, तस्य यः क्रम उपायचिन्तनादिः तेन विहितः यत्रानपराद्ध एव वञ्चकेन वञ्च्यते स एवमुक्तः । यत्र तु वञ्चनीयो ऽपि सापराधः स परप्रयुक्तः कपटः, तदपरोधे तु वञ्चकस्य वञ्चनेच्छा नास्तीति नायं भेदः संभवति वञ्चनेच्छाभावे वञ्चनायाः संपत्त्ययोगात् । यत्र तु द्वयोरपि न कश्चिदभिसन्धिदोषः काकतालीयेन तुल्यफलाभिसन्धानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते, तत्र वञ्चना स दैवकृता वञ्चना, न च कस्यचित्सुखमन्यस्य दुःखमुत्पादयतीति ।
धर्मे ऽर्थे काम इति सप्तम्या कार्यत्वं कारणत्वं चोच्यते । तेन धर्मो यत्र हेतुर्वा साध्यो वा नायिकालाभे स धर्मशृङ्गारः । एवमर्थकामयोर्वाच्यम् । यत्र शृङ्गार इति तद्विषयः प्रमदा व्यपदिश्यते, व्रतादियुक्त्या प्राप्यो यत्र

[(मू)]

1. भ,, विद्रवकृतां वा, ड॰ जलेन्द्रसंभवो वापि, न॰ संभवो वापि

2. य॰ विज्ञेया विद्रवास्त्रिविधाः

3. न॰ भ॰ कपटाश्रयो ज्ञेयः

4. भ॰ त्रिविधश्च विधिर्ज्ञेयः

5. भ॰ काव्यबन्ध, न॰ काव्ययोग

6. भ॰ त्रिविधकृतः शृङ्गारो ज्ञेयो धर्मार्थकामेषु ( --- त्रिविधाकृति ... ... कामकृतः --- ड॰, न॰ त्रिविधविधः), द॰ कर्तव्यः शृङ्गारो

[(व्या)]

[page 439]




[NZ]

1यस्मिन् 2धर्मप्रापकमात्महितं भवति साधनं बहुधा । BhNZ_18_073ab
3व्रतनियमतपोयुक्तो4 ज्ञेयो ऽसौ 5धर्मशृङ्गारः ॥ BhNZ_18_073cd
6अर्थस्येच्छायोगाद्बहुधा चैवार्थतो ऽर्थशृङ्गारः । BhNZ_18_074ab
7स्त्रीसंयोगविषयेष्वर्थार्था वा रतिर्यत्र8 BhNZ_18_074cd
8कन्याविलोभनकृतं 10प्राप्तौ स्त्रीपुंसयोस् तु रम्यं वा11 BhNZ_18_075ab
निभृतं सावेगं वा12 13यस्य भवेत्कामशृङ्गारः ॥ BhNZ_18_075cd
[ABh]

च प्राप्ते धर्मप्रार्थनारूपमात्महितं यज्ञादि पत्नीसंयोगकृतं सिध्यतीति संबन्धः अनेकधेति राज्यभूमिगोसुवर्णादिभेदेनेत्यर्थः । रतिबहुमानो ऽर्थार्थमिति योषितां पुरुषाणां च ।
ननु च देवेषु कथमर्थार्थित्वं, गन्धर्वयक्षादिषु संभवत्येवेति केचित् । यदर्थनीयं तदर्थो देवेष्वपि चैतत्संभवतीत्यन्ये । उपाध्यायास्त्वाहुः --- तत्र नायकयोरनुप्राप्तिरप्यन्यगतैव । यथा भगवतो भवानीपतेः गिरिराजपुत्रीसङ्गमनमिन्द्रादीनां तारकाक्रान्तनिजराज्यसमुन्मोचनाय भवतीति । कन्यायां विलोभो नायकस्य तस्याश्च तस्मिन्निति परस्परानुरागकृत इत्यर्थः । स्त्रीपुंसयोरुद्यानस्थानादि प्राप्तौ निभृत इति प्रच्छादनपूर्वकं यदि चासावेवास्मीति प्रकटं कृत्वा यः शृङ्गारः सः कामप्रयुक्त एव । स्त्री पुनरत्र परस्त्री विवक्षिता, यथा शक्रस्याहल्या ।
नन्वेवं शृङ्गारयोगे काव्ये कैशिकीहीनता । कैशिक्यां वृत्तौ हीनामिति तत्र समासः, तेन नर्माद्यङ्गचतुष्कतदुपरञ्जकगीतनृत्यवाद्याद्यभावात् कैशिक्या

[(मू)]

1. ड॰ यत्र तु धर्मे प्रार्थितमात्महितं भवति साधितं बहुधा (धर्मप्रार्थस्वात्म --- भ॰), द॰ यत्र तु धर्मव्यापकं

2. न॰ धर्मे प्रायिकं

3. ड॰ प्रातिनियम (?)

4. द॰ युक्त्या

5. भ॰ यत्र तु धर्मव्यापकं

6. भ॰ अर्थस्येप्सा यत्र तु नैकविधो भवति सो ऽर्थशृङ्गारः, च॰ अर्थस्याप्तिर्यस्मिन्नैकधा भवति सो ऽर्थशृङ्गारः, प॰ अर्थस्याप्तिर्यस्मिन्भवति च बहुधा स चार्थशृङ्गारः

7. फ॰ सम्यक्प्रयोग

8. च॰ अर्थार्थमपीष्यते हि रतिः

9. य॰ कन्याविलोभनं वा, द॰ कन्याविलोभनत्वात्, फ॰ कन्याविलोभनं वै

10. य॰ प्राप्य

11. य॰ न॰ रत्यर्थम्, द॰ रत्यै वा, फ॰ च रहः

12. भ॰ प्रसारितं वा यत्रासौ, द॰ निभृतः सावेगो वा विज्ञेयः, फ॰ रम्यं वा निभृतं वा विज्ञेयः

18. न॰ विज्ञेयः, ढ॰ जानीयात्कामशृङ्गारः

[(व्या)]

[page 440]




[NZ]

उष्णिग्गायत्र्याद्यान्यन्यानि च यानि बन्धकुटिलानि । BhNZ_18_076ab
2वृत्तानि समवकारे कविभिस्तानि3 प्रयोज्यानि ॥ BhNZ_18_076cd
एवं कार्यस्तज्ज्ञै4र्नानारससंश्रयः समवकारः । BhNZ_18_077ab
5वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ BhNZ_18_077cd
दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः ।6 BhNZ_18_078ab
सुविहितवस्तुनिबद्धो7 विप्रत्ययकारकश्चैव ॥ BhNZ_18_078cd
8उद्धतपुरुषप्रायः स्त्रीरोषग्रथित9काव्यबन्धश्च । BhNZ_18_079ab
[ABh]

हीनात्र भवति । उपाध्यायास्त्वाहुः --- न कामसद्भावमात्रादेव कैशिकीसंभवः, रौद्रप्रकृतीनां तदभावात् । विलासप्रधानं यद्रूपं सा कैशिकी, न च चरितम् तद्रूपानुप्रवेशे ऽपि तद्व्यवहारः, प्राधान्यकृतो ह्यसावित्युक्तम् । तेन तत्र विषये भारत्यादिवृत्त्यन्तराभिधानमेव युक्तमिति । उष्णिक्सप्तभिः गायत्री षड्भिः बन्धकुटिलानि विषमार्थसमानि तान्यत्र समवकारे सम्यग्योज्यानीति । नैव प्रयोज्यानीत्युद्भटः पठति, स्रग्धरादीन्येव प्रयोज्यानि नाल्पाक्षराणीति स व्याचष्टे । एवं श्रद्धालवो देवताभक्ताः तद्देवयात्रादावनेन प्रयोगेणानुगृह्यन्ते, निरनुसन्धानहृदयाः स्त्रीबालमूर्खाश्च विद्रवादिनाहृतहृदयाः क्रियन्त इत्युक्तः समवकारः ।
अथेहामृगमाह दिव्येति दिव्यानां पुरुषाणाम् आश्रयणं नायकतया तेन कृतः, दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र । दिव्यानुप्रवेशात्समवकारवत् असंबद्धार्थता मा प्रसांक्षीदित्याह सुविहितेन संश्लिष्टेन वस्तुना निबद्धः, विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र । मध्ये च तत्र दिव्यानामपि प्रवेशो भवतीति दर्शयति उद्धतपुरुषेति स्त्रीनिमित्तको रोषः, संक्षोभ आवेगः स्त्रीनिमित्तं

[(मू)]

1. भ॰ उष्णिग्गायत्री वा यानि स्युश्चापि बन्ध, च॰ उण्णिग्गायत्र्या वा वृत्त्तानि च, फ॰ उष्णिग्वानुष्टब्बा छन्दस्सु च, द॰ उष्णि ... अन्यान्यपि बन्ध, ड॰ उष्णिग्गायत्री वा यानि तथान्यानि बन्ध ( --- बद्ध ढ॰)

2. च॰ तान्यत्र समवकारे सम्यक्

3. ड॰ कविभिर्नैव

4. ड॰ सुखदुःखसमाश्रयः, द॰ नानारससंज्ञकः, भ॰ सर्वरसोपेतसमवकारस्तु (प॰ तज्ज्ञैः = प्राज्ञैः)

5. न॰ अत ऊर्ध्वं व्याख्यास्ये

6. फ॰ युक्तः(?)

7. फ॰ प्रहितो, ड॰ निबन्धो

8. द॰ तद्वत

9. प॰ प्रथित ।

[(व्या)]

[page 441]




[NZ]

संक्षोभविद्रवकृतः 1संफेटकृतस्तथा चैव ॥ BhNZ_18_079cd
स्त्रीभेदनापहरणावमर्दन2प्राप्तवस्तुशृङ्गारः । BhNZ_18_080ab
ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च3 BhNZ_18_080cd
यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव4 BhNZ_18_081ab
ईहामृगे ऽपि ते स्युः5 केवलममरस्त्रिया योगः6 BhNZ_18_081cd
यत्र तु वधेप्सितानां 7वधो ह्युदग्रो8 भवेद्धि पुरुषाणाम् । BhNZ_18_082ab
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम्9 BhNZ_18_082cd
ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन10 BhNZ_18_083ab
[ABh]

यानि भेदनाप्र(प?)हरणावमर्दनानि यथायोगं स्त्रीविषयाणि अन्यविषयाणि तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः शृङ्गारो यस्मिन् । अवमर्दनं दण्डः । सुसमाहितः काव्यबन्ध इत्यनेन वीथ्यङ्गान्यत्र योज्यानीति दर्शयति । अङ्कपरिमाणं नायकसंख्यां वृत्तिरसविभागं च व्यायोगातिदेर्शेनाह यद्व्यायोग इति । कार्यशब्देनाङ्क उच्यते । तेनैक एवाङ्कः नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । अत्र तु सम्वकारातिदेशेन सर्वसंपत्तेर्गौरवं स्यात् ।
ननु युद्धमवमर्दनं चेत्युक्तं तत्रास्य प्रत्यक्षप्रयोज्यता माभूदिति दर्शयति यत्र त्विति । वधेप्सितानां वध्यानां भवेदिति संभाव्यत इत्यर्थः । तत्रेति येषामिति चार्धमाहार्यं । व्याजमिति पलायनादि । ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः ।

[(मू)]

1. प॰ संस्फोटकृतश्च स ज्ञेयः, फ॰ संफेटककृतस्तथैव

2. प॰ उपमर्दन, भ॰ प्रमर्दन, उ॰ अवमर्दसंप्राप्त, फ॰ हरणे प्रमदेन(?)

3. य॰ चतुरङ्कविभूषितश्चैव, प॰ ईहामृगो विधेयश्चतुरङ्कविभूषिँतस्तज्ज्ञैः

4. ड॰ ये रसाश्च निर्दिष्टाः, भ॰ ये रसाश्रयाश्चैव

5. च॰ तत्स्थात्

6. द॰ अत्र स्त्रियायोगः, भ॰ न केवलं स्त्रीसमायोगः

7. ढ॰ वधो ऽप्युदग्रो, द॰ वधो ह्युपघ्नो, भ॰ कारणयोगाद्भवेद्वध उदग्राणाम्

8. ड॰ भवेत्तु

9. फ॰ समयितव्यम्

10. च॰ समासेन (?), भ॰ लक्षणमित्युक्तमिदं समासेन, ड॰ इदमित्युक्तं मया समासेन ।

[(व्या)]

[page 442]




[NZ]

1डिमलक्षणं 2तु भूयोलक्षणयुक्त्या प्रवक्ष्यामि ॥ BhNZ_18_083cd
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव3 BhNZ_18_084ab
4षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ BhNZ_18_084cd
शृङ्गारहास्यवर्जः5 शेषैः 6सर्वैः रसैः समायुक्तः7 BhNZ_18_085ab
दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः8 BhNZ_18_085cd
9निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः10 BhNZ_18_086ab
युद्धनियुद्धाधर्षण11संफेट12कृतश् च कर्तव्यः13 BhNZ_18_086cd
14मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च15 BhNZ_18_087ab
16देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च17 BhNZ_18_087cd
18षोडशनायकबहुलं 19सात्त्वत्यारभटिवृत्तिसम्पन्नः20 BhNZ_18_088ab
[ABh]

अथ डिमाह प्रख्यातवस्तुविषय इति । नाटकतुल्यं सर्वमन्यत्केवलं सन्धीनां रसानां चासमग्रता च शृङ्गारहास्यवर्जं षड्रसत्वे पर्यायेण शान्तस्य प्रयोगः स्यादित्याह दीप्तरसेति । काव्ययोनिः काव्यवस्तु । देवादयो बाहुल्येनात्र सात्त्वत्यारभटीति । `जातिरप्राणिनाम्' इति केचित् । सात्त्वत्यारभटीवृत्तिसंपन्नं वृत्तिद्वयं यत्र वृत्तिसमूहे वा वृत्तिशब्दः सात्त्वत्यारभटीलक्षणव्यावृत्त्या संपन्नः । डिमो डिम्बो विद्रव इति पर्यायाः, तद्योगादयं डिमः । अन्ये तु डयन्त

[(मू)]

1. च॰ अथ वै डिमस्य लक्षणमतःपरं संप्रवक्ष्यामि ।

2. ड॰ च

3. ड॰ उपेतः

4. फ॰ षट्त्रिंशत्(?), प॰ श्लोकार्धं नास्ति

5. न॰ वर्जैः

6. द॰ अन्यैः

7. भ॰ रसैस्तु यः कार्यः, म॰ संयुक्तः

8. प॰ चतुरङ्को वै डिमः कार्यः, ड॰ भावान्विताश्चैव, न॰ भावादिकाश्चैव, द॰ चित्रो डिमः कार्यः, भ॰ भावस्तथा चैव

9. य॰ द॰ न॰ निर्घातचन्द्रसूर्योपरागसोल्कावपातसंयुक्तः

10. भ॰ चैव

11. न॰ युद्धनिबद्धश्च तथा, द॰ नियुद्धनिबद्धः, ड॰ प्रहरण

12. प॰ संस्फोट

13. फ॰ तत्र कर्तव्यः

14. फ॰ माहेन्द्र

15. भ॰ भेदसंयुक्तः, भ॰ बहुशश्चोत्थानभेदसंयुक्तः

16. भ॰ देवासुरराक्षसभूतनागपुरुषा भवेयुश्च (ड॰ भूतयक्षनागाश्च पुरुषाः स्युः)

17. न॰ अवतीर्णश्च

18. प॰ षोडशनायकबहुलस्तज्ज्ञैर्नानाश्रयविशेषः सात्त्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यः ।

19. भ॰ त्वारभटी सात्त्वतीसमायुक्तः

20. ड॰ संयुक्तः ।

[(व्या)]

[page 443]




[NZ]

कार्यो डिमः 1प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ BhNZ_18_088cd
2[डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् । BhNZ_18_089ab
व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ॥ ] BhNZ_18_089cd
व्यायोगस्तु विधिज्ञैः3 4कार्यः प्रख्यातनायकशरीरः । BhNZ_18_090ab
5अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव6 BhNZ_18_090cd
[ABh]

इति डियः उद्धतनायकास्तेषामात्मनां वृत्तिर्यत्रेति । ``इको ह्रस्वो ऽङ्यो गालवस्य'' इति ह्रस्वः । नानाश्रयभावसम्पन्न इत्यनेन सर्वभावयुक्तत्वादितिवृत्तवैचिर्त्यमाह ।
नाटकादनन्तरं डिमलक्षणं यद्यप्युचितं तथापि तद्गतप्रवेशकादिसंभवनिराकरणार्थं तत्प्रकरणादपकृष्यास्याभिधानं, तेन दिनचतुष्टयवृत्तमेवात्र प्रयोज्यम् । अङ्कावतार एव चात्र भवति । चूलिकाङ्कमुखयोस्त्वत्रापि युद्धादिवर्णने समुपयोगो ऽस्त्येव । ततश्च वस्तुतः प्रवेशकाद्यनिषिद्धमेव, प्रवेशकस्य ह्यसंभव एव । सरसेतिवृत्तवशाद्वा यथाङ्केष्वन्योन्यासंबन्धात् यथा समवकारे बह्वङ्के ऽपि तस्मात्प्रकरणोत्कर्षो ऽस्य तस्यावसरभावात् । तत्र हि नाटकान्तरमस्याभिधाने प्रकरणस्य न तत्स्पर्धित्वमुक्तं भवेत् । तदनन्तराभिधाने नाटिकादिभेदः कथं ख्याप्यः । नाटिकायां च स्त्रीप्रधानत्वात्, त्रिशृङ्गारसमवकाराभिधानमेव ततः परं न्याय्यम् । तत्प्रसङ्गेन च दिव्यपुरुषसंबन्धादीहामृग उक्तः, तदनन्तरं च दिव्यपुरुषाधिकारेण रूपकाणीति पूर्वमनेकरसयुक्तत्वेन विततेतिवृत्तत्वादयमभिधातुं युक्तमित्यलं बहुना ।
व्यायोगस्तु डिमस्यैव शेषभूते, दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेः नायकता, अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य, अत एवाह प्रख्यातनायकेति उदात्तग्रहणमपाकर्तव्यमित्यर्थः । यथा समवकार इति द्वादशेत्यर्थः । तावदङ्कपरिमाणशङ्कामतिदेशात् प्रत्यासत्त्या प्रसक्तां वारयितुमाह एकाङ्क एवेति । एवकारेणैकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह ।

[(मू)]

1. द॰ प्रयोगात्तज्ज्ञैर्नानाश्रयविशेषः (ड॰ विशेषेण, ढ॰ विशेषैः) प्राज्ञैर्नानश्रयविशेषैः

2. अयं श्लोको ड॰ न॰ य॰ भ॰ मातृकास्वेव वर्तते ।

3. प॰ तत्र बुधैः, फ॰ सुविधिज्ञैः

4. ड॰ कर्तव्यः स्यात्

5. फ॰ स्त्रीजनयुक्तस्तु डिमः

6. प॰ स्यादेकाहप्रयोज्यश्च ।

[(व्या)]

[page 444]




[NZ]

बहवश्च तत्र1 पुरुषा 2व्यायच्छन्ते यथा समवकारे3 BhNZ_18_091ab
4च तत्प्रमाण5युक्तः कार्यस्त्वेकाङ्क एवायम् ॥ BhNZ_18_091cd
न च 6दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः7 BhNZ_18_092ab
युद्धनियुद्धाधर्षण89संघर्षकृतश्च 10कर्तव्यः ॥ BhNZ_18_092cd
एवंविधस्तु कार्यो व्यायोगो दीप्त11काव्यरसयोनिः । BhNZ_18_093ab
वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥ BhNZ_18_093cd
प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाविदेव स्यात्12 BhNZ_18_094ab
दिव्यपुरुषैर्वियुक्तः शेषै13र्युक्तो भवेत्पुंभिः ॥ BhNZ_18_094cd
करुण14रसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च15 BhNZ_18_095ab
[ABh]

ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति न चेति । चो भिन्नक्रमः । देव्यैर्देवैः नृपैः ऋषिभिश्च नायकैः न निबद्धो ऽयं भवतीत्यर्थः ।
ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धेति व्यायामे युद्धप्राये नियुध्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । नियुद्धं बाहुयुद्धं संघर्षः शौर्यविद्याकुलरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तं, दीप्तरसाद्या वीररौद्राद्याः, तदुभयं योनिः कारणमस्य ।
रौद्राद्यनन्तरं ``रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणः (6-45)'' इत्युक्तत्वात्तत्प्रधानमुत्सृष्टिकाङ्कमेतदनन्तरमाह । प्रख्यातवस्तुविषय इति । प्रख्यातं भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यातं स्त्रीपर्ववृत्तान्तवत्, माभूदित्यप्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिञ्चित्करत्वं नाशङ्कनीयम् । निवृत्तयुद्धा उद्धतप्रहाराः

[(मू)]

1. भ॰ तत्र तु, ढ॰ तत्र च

2. ड॰ कविभिः कार्या, भ॰ नित्यं कार्यं यथा

3. प॰ कथाशरीरवशात्

4. न॰ भ॰ तु

5. ड॰ वस्तुस्त्वेकाङ्कः संविधातव्यः, च॰ युक्ताः कार्याः, भ॰ कालस्तत्राङ्कः संविधातव्यः, प॰ नियमः किंचैकाङ्को विधातव्यः

6. प॰ स च दिव्यमानुष

7. प॰ निबन्धः

8. द॰ आकर्षण

9. भ॰ संफेट

10. द॰ झडिति कर्तव्यः

11. प॰ कार्य

12. प॰ तेष्वप्रख्यातवस्तुविषयो वा, भ॰ अप्रख्यातो ऽपि वा क्वचित्कार्यः

13. न॰ ड॰ अन्यैर्भवेत्, प॰ च समन्वितः पुंभ्ः ।

14. द॰ रसार्थप्रायो

15. भ॰ प्रबहवश्च, फ॰ बद्धोद्धतप्रहारश्च ।

[(व्या)]

[page 445]




[NZ]

स्त्री1परिदेवितबहुलो निर्वेदितभाषितश्चैव2 BhNZ_18_095cd
3नानाव्याकुलचेष्टः 4सात्त्वत्यारभटिकैशिकीहीनः । BhNZ_18_096ab
5कार्यः काव्यविधिज्ञैः 6सततं ह्युत्सृष्टिकाङ्कस्तु ॥ BhNZ_18_096cd
यद्दिव्यनायककृतं काव्यं संग्राम7बन्धवधयुक्तम्8 BhNZ_18_097ab
तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ BhNZ_18_097cd
8कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु10 BhNZ_18_098ab
हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात्11 BhNZ_18_098cd
[ABh]

पुरुषा यस्मिन् । परिदेवितं दैवोपालम्भात्मनिन्दारूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादॄंशि भाषितानि यत्र । व्याकुला चेष्टा भूमिनिपातविवर्त्रिताद्याः । सात्त्वत्यारभटिकैशिकीहीन इति समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणीया सृष्टिर्जीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः । वृत्तिभिरुत्सृष्टत्वा(दित्य)न्ये तदा द्वित्वं च त्रित्वमुद्देशस्यैकदेशेन । अयमङ्क इति निर्दिष्टो वृत्तानुरोधात् । इह च करुणरसबाहुल्याद् देवदेवैर्वियोगः रौद्रबीभत्सभयानकसंबन्धो दिव्ययोगे भवत्यपि न तु करुणयोगः । नन्वेवं देवानां युद्धान्यप्यनुचितमित्याशंक्या प्रसङ्गात्समवकारादौ देशविशेषोपयोगं दर्शयति दिव्यनायककृतमिति । तेषां भारतवर्षावतीर्णानां युद्धादिकं प्रदर्शयेदित्यर्थः । अत्र राज्ञः पृच्छति कस्माद्भारतमिष्टमिति । अत्र प्रयोगे प्रतिवक्ति वर्षेष्वन्येष्विति देशत्वेन भोगभूमित्वेन विहितेष्वपीत्यर्थः । उपवनं गत्वा क्रीडा जलक्रीडादिकाः विहरणमुपवन एव सञ्चरणं नार्या सह रतिः संभोगः प्रमोदो दिव्यपानादिकृतम् । नन्वेवमिलावृतकुरुप्रभृतिषु वर्षेषु मा तेषां देवानां वृत्तं व्याख्यायि तथापि स्वनिवासेषु

[(मू)]

1. न॰ परिदेवन

2. द॰ वाक्यभाषश्च

3. भ॰ नाति, द॰ नातिव्यायत

4. भ॰ विवर्जितो वृत्तिभिर्विधातव्यः । सात्वत्यारभटीकैशिकीभिरुत्सृष्टिकाङ्कस्तु ।

5. ड॰ कर्तव्यो ऽभ्युदयान्तस्तज्ज्ञैः

6. न॰ सर्वं च

7. ड॰ फ॰ युद्ध(?)

8. द॰ तत्त्वम्

9. ड॰ तस्मात्

10. प॰ नित्यकालं हि (फ॰ काष्ठं हि), न॰ नित्यकालसुखम्

11. भ॰ तत्र, प॰ हेमरत्नमयी, ड॰ चैव ।

[(व्या)]

[page 446]




[NZ]

उपवनगमनक्रीडा1विहारनारीरतिप्रमोदाः स्युः । BhNZ_18_099ab
2तेषु हि वर्षेषु सदा न 3तत्र दुःखं न वा4 शोकः ॥ BhNZ_18_099cd
5ये तेषामधिवासाः6 पुराणवादेषु7 पर्वताः प्रोक्ताः8 BhNZ_18_100ab
9सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन्10 BhNZ_18_100cd
प्रहसनमपि11 विज्ञेयं द्विविधं शुद्धं 12तथा च सङ्कीर्णम् । BhNZ_18_101ab
13[अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ BhNZ_18_101cd
प्रहसनमतः परमहं सलक्षणं संप्रवक्ष्यामि ।] BhNZ_18_102ab
14वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्15 ॥ [ BhNZ_18_102cd
[ABh]

व्यावर्ण्यतामित्यत आह ये तेषामधिवासा इति वसन्ति तेष्विति वासाः । पर्वता इति कैलासादयः, संभोग इति सा हि तेषां भूमिः भोगस्थानं, तस्मिन्निति भारतवर्षे कर्मारम्भः आरम्भग्रहणेनेदमाह न तेषां दुःखं पूर्णं कदाचिद्भवति । दुःखपूर्णतायां देवत्वस्यैव विघातानवस्थानप्राप्त्या स्वरूपलोप इति युक्तमुक्तम् । करुणरसबाहुल्यादुत्सृष्टिकाङ्कैः दिव्यैर्वियोग एव तेषां सुखबाहुल्यात्तत्सन्निधाने अन्यस्यापि शोकावसरपराकृतेरिति गाढदुःखाभिभूता, एवंभूतप्रयोगदर्शने सति `दुःखी दुःखाधिकान् पश्ये'दिति नीत्या प्रतनूभूतदुःखभाराः सुखेन विनेया भवन्ति, यथोक्तं प्राक् `स्थैर्यं दुःखार्दितस्य च'(1-111) इत्युत्सृष्टिकाङ्कप्रयोगः ।
एवं रञ्जनप्रधानेन करुणेन युक्तं रूपकमभिधाय रञ्जनाप्रधानं हास्यप्रायं प्रहसनं लक्षयति विभागमुखेन प्रहसनमपि विज्ञेयमिति द्विविधमिति । विभागः शुद्धं सङ्कीर्णं चापीति । अपिशब्दो ऽत्रिक्रमः, तथेति सामान्यलक्षणम् । तदयमर्थः द्विविधमपि तथा प्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्राः यतिवानप्रस्थगृहस्थाः,

[(मू)]

1. न॰ द॰ विहरण

2. भ॰ तस्मिन्नित्यं वर्षे

3. ड॰ भवति

4. ढ॰ न तत्र वा, फ॰ नो दुःखं नापि वा

5. प॰ ये चैषां

6. च॰ अपि वासाः, न॰ अविनाशात्

7. भ॰ वादे च

8. प॰ कथिताः, ड॰ ह्युदिताः, भ॰ विहिताः, फ॰ सर्वतः कथिताः

9. च॰ संभोगात्

10. प॰ तथैतस्मिन्, द॰ फ॰ आरम्भास्तथा ह्यस्मिन्

11. य॰ इति, प॰ इह

12. . ढ॰ तथैव

13. . ड॰ ढ॰ योरेव वर्तते

14. भ॰ व्याख्यामि तयोरपि , ड॰ ताभ्यां व्याख्यास्ये ऽहं, न॰ तस्यै, फ॰ तस्य व्याख्यास्याम्यहं

15. द॰ विशेषान् ।

[(व्या)]

[page 447]




[NZ]

1भगवत्तापस2विप्रैरन्यैरपि हास्यवादसंबद्धम्2 BhNZ_18_103ab
4कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ BhNZ_18_103cd
5अविकृतभाषाचारं विशेष6भावोपपन्नचरितपदम् । BhNZ_18_104ab
नियतगतिवस्तुविषयं 7शुद्धं ज्ञेयं प्रहसनं तु8 BhNZ_18_104cd
वेश्या9चेटनपुंसक10विटधूर्ता बन्धकी च यत्र स्युः । BhNZ_18_105ab
11अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ BhNZ_18_105cd
[ABh]

अन्ये शाक्यादयस्तैरुपलक्षितम् । हास्यप्रधानवचनसंबन्धशीलनादिना कुत्सितैः पुरुषैरत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न विकृतावसत्याश्लीलरूपौ तथा विशेषेण भावैः व्यभिचारिभिरुपपन्ननि पदानि कथाखण्डानि यस्मिन् । नियतगतिः एकप्रचारं यद्वस्तु तद्विषयः प्रहसनीयलक्षणो यत्र, तच्छुद्धं प्रहसनम् । अत्र निर्विचनं यतः परिहासप्रधानान्याभाषनान्यत्र बाहुल्येन भवन्ति तेन यत्रैकस्यैव कस्यचित् चरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योगो ऽत्युल्बणं चाकल्पादि तदेवद्वारेणानेकवेश्यादिचरितेन हसनीयेन सङ्कीर्णत्वात् सर्ङ्कीर्णम् । अन्ये त्वाहुः --- येषां स्वभावत एव चरितं शिष्टमध्ये सभ्येतरतमत्वेन प्रहसनार्हं तदवशुद्धत्वात्सङ्कीर्णम्, तद्योगाच्च रूपकम् । ये तु स्वभावतो न गर्हिता भगवत्तापसादिचेष्टाविशेषास्तेषां प्राकृतपुरुषसंक्रान्तिदौरात्म्योदितामन्यसंबन्धदूष्यमाणतया प्रहसनीयतां यातास्ते स्वभावशुद्धाः

[(मू)]

1. भ॰ भागवतविप्रतापससौगतनिर्ग्रन्थधूर्तविटपुरुषैः । नीचजन ... ... ...

2. न॰ विद्धैः, ड॰ भिक्षुश्रोत्रियविप्रातिहाससंयुक्तम्

3. द॰ प॰ हासवादसंपन्नम् ।

4. प॰ ड॰ नीचजन

5. भ॰ अधिगत

6. प॰ भाषोपहास, न॰ भावोपहास, ड॰ हासोपहास, द॰ भावोपरचित, फ॰ भावोपपन्नरचितमिदं, भ॰ विशुद्धभाषोपहास

7. प॰ शुद्धमिह प्रहसनं ज्ञेयम् ।

8. द॰ प्रहसने तु

9. फ॰ नपुंसकविटैर्वानिकदासीजनेन वा कीर्णम् ( --- वार्त्तिक ... जनेन संकीर्णम् --- प॰) वाडिकनारीजनेन संकीर्णम् --- न॰

10. द॰ विटवार्तिकधूर्तबन्धकीयुक्तम्, ड॰ धूर्तविटवर्धकी च, भ॰ धूर्तविटबद्धनीचयतयः स्युः ।

11. च॰ अनिसृत

12. प॰ च संपन्नम्, भ॰ चेष्टाभिश्चैव संकीर्णम् (सम्फन्नम् --- म॰), ड॰ चेष्टाकरणात्तु (र्थ --- द॰) संकीर्णम्, ट॰ करणं च संकीर्णम् ।

[(व्या)]

[page 448]




[NZ]

लोकोपचारयुक्ता या वार्ता यश्च 1दम्भसंयोगः । BhNZ_18_106ab
2स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः3 BhNZ_18_106cd
4वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोगम् । BhNZ_18_107ab
5भाणस्यापि 6तु लक्षणमतःपरं संप्रवक्ष्यामि7 BhNZ_18_107cd
आत्मानुभूतशंसी पर8संश्रयवर्णनाविशेषस्तु9 BhNZ_18_108ab
[ABh]

तद्योगाद्रूपकं शुद्धमिति । उभयसाधारणीमपि कवेः शिक्षामाह लोकोपचारेति । वार्ता प्रसिद्धिर्यदि सा लोकव्यवहारसिद्धा भवति, यथा शाक्यानां स्त्रीसंपर्कः प्रहसनीयो भवति, न चौर्यम् । एवंभाविप्रसिद्ध एवोपहसनीयः । अत्राधिकरणं स्वयमेवाह धूर्तप्रविवादेति । धूर्ताः कृत्रिमतापसादयः विटादयश्च । तद्विषये यः प्रकृष्टो विवादः विरुद्धतयावभास्तेन फलभूतेन संपाद्यतया यदुक्तं प्रहस्यमानं तथाभूतचरितावलोकनेन हि संस्कृतमिति व्युत्पाद्यो न भूयस्तान्वञ्चकानुपसर्पतीति । वीथ्यङ्गैरिति वक्ष्यमाणैः, यथायोगमिति तेषां संप्रयोगो संख्यायाः क्रमस्य तु न कश्चिन्नियम इति दर्शयति । प्रहसनस्याङ्कनियमानभिधानात् शुद्धमेकाङ्कं सङ्कीर्णं त्वनेकाङ्कं वेश्यादिचरितसंख्याबलादिति केचित् ।
अन्ये त्वेकाङ्कप्रकरणमध्यपातित्वादेकाङ्कमिति मन्यन्ते प्रथमसंख्ययातिक्रमे भेदाभावपरित्यागे च प्रमाणाभावात् ।
अथ हास्यरसोचितविटधूर्ताद्यनुप्रवेशेन समानयोगक्षेमं भाणं लक्षयितुमाह आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः समाजिकहृदयं प्रापयितव्यो ऽर्थो यत्र स भाणः । एकमुखेनैव भाण्यन्ते उक्तिमन्तःक्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति भाणः । तत्र स प्रविष्टः पात्रविशेषः

[(मू)]

1. भ॰ लम्भ

2. भ॰ तत् प्रहसनेषु योज्यं, च॰ तत् ... सुयोज्यं, ढ॰ ड॰ तत् न संयोज्यं

3. ड॰ विटधूर्तविवादसंपन्नम्, भ॰ संयुक्तम्, च॰ धूर्तप्रविवादसंयुक्तम्

4. प॰ उद्धात्यकादिभिरिदं वीथ्यङ्गैर्मिश्रितं भवेन्मिश्रम् मिश्रयेद्यथायोगम् --- द॰ भ॰ अवलगितावस्कन्दितव्याहारगोपि(?) चालनाप्रपञ्चश्च । छलमृदवनालिकाः स्युर्गण्डं चासत्प्रलापश्च । एतै रङ्गैर्युक्तं प्रहसनमेषाम् तु लक्षणं वीथ्याम् ।

5. द॰ भाणस्य विधानमतो लक्षणयुक्त्या प्रवक्ष्यामि

6. भ॰ च॰ ड॰ हि

7. भ॰ संविधास्यामि

8. भ॰ संस्तुत, य॰ संस्तव, न॰ संश्रव

9. प॰ विशेषयुतः, ट॰ प्रयुक्तश्च, द॰ च

[(व्या)]

[page 449]




[NZ]

1विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च2 BhNZ_18_108cd
परवचनमात्मसंस्थं3 4प्रतिवचनैरुत्तरोत्तरग्रथितैः5 BhNZ_18_109ab
6आकाशपुरुषकथितै7रङ्गविकारैरभिनयैश्चैव8 BhNZ_18_109cd
धूर्तविटसंयोज्यो नानावस्थान्तरात्मकश्चैव । BhNZ_18_110ab
10एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ BhNZ_18_110cd
[भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् । BhNZ_18_111ab
वीत्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ ] BhNZ_18_111cd
[ABh]

आत्मानुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगप्रयुक्तिमाह परवचनमिति । परसन्धिवचनं स्वयमङ्गविकारैरभिनयेत् ।
ननु तत्परवचनमयुक्तं कथमभिनयेत् आह आकाशे शून्ये यानि पुरुषकथितानि दृष्टानि यत्र शून्ये तेन वर्ण्यते वा कश्चित्पश्यन्त्याकर्णयति च तत्र च तद्वचनं स एवानुवदन् सामाजिकान् बोधयति । यथा ``भो वाडब, अरे किं ब्रवीषि'' इत्यादौ न केवलं परवचनमभिनयेत्, किन्तु प्रतिवचनैः स्वोक्तैः सह, अत एवोत्तरोत्तरग्रथितैः योजनाभिरुपलक्षितैः । ननु यो ऽसवेको ऽत्र प्रविशति स क इत्याह धूर्तविटेति । नानाप्रकारावस्थाविशेषात् लोकोपयोगिव्यवहारात्मकात्मा वाच्यं यस्य, अत एव बहुचेष्टः सततं कार्य इति सकलसामान्यपृथग्गतोपयोग्यस्तु लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति बाहुल्येन पृथग्जनव्युत्पत्तियोनिरूपकमिदं राजपुत्रादीनामपि शंभलीवृत्तान्तो ज्ञेय एवावञ्चनार्थमिति संप्रयोज्य इत्यर्थः ।
इदमिह मीमांस्यं --- य एते उत्सृष्टिकादयो रूपकभेदाः ते तावदेकरसा एव, यद्यपि नाटकादयो ऽप्येवमेव । तथाहि सर्वरसयोग्यतायामपि नाटके प्रकरणे च

[(मू)]

1. च॰ द्विविध

2. भ॰ कार्यश्च, म॰ पात्रश्च, प॰ सैकहार्यश्च

3. ड॰ मात्रसंस्थं, ढ॰ द॰ संस्थैः

4. ड॰ परवचनैः

5. भ॰ सोत्तमैर्ग्रथितवाक्यम् (म॰ सोत्तरैः)

6. ढ॰ आकार

7. भ॰ कथितैः

8. ड॰ विहारैः

9. ड॰ अभिनयेत्तत्, प॰ इहाभिनयेत्, भ॰ अभिनयेत्तम्, द॰ अनियमो ऽस्य ।

10. न॰ वस्तुसमाङ्कः कार्यः सततं काव्ये, भ॰ कार्यो ऽङ्कवस्तुतुल्यः सततं काव्येषु वै भाणः

[(व्या)]

[page 450]




[NZ]

[ABh]

धर्मार्थादिवीर एव प्रधानं परमार्थतः सर्वेषु नायकभेदेषु वीरत्वानुगमदर्शनात् । समवकारे तु यद्यपि हि शृङ्गारादित्वमुक्तं तथापि वीर एव प्रधानं रौद्रो वा, डिमव्यायोगयोरप्येवम् । ईहामृगे ऽपि रौद्रप्राधान्यमेव, नाटिकायां तु शृङ्गार एव प्रधानम् । एवं तावद् वीररौद्रशृङ्गारा यथास्वं [किं] पुमर्थत्रयप्राणभूतत्वेन वर्तमाना, एतेषु प्रयोगेषु शान्तबीभत्सरसौ तु चरमपुमर्थयोगात्तत्र च सर्वस्य नाधिकारो ऽपि कस्यचिदपश्चिमजन्मनो ऽधिकारान्नाटके यद्यपि तत्फलप्रधानतया प्राधान्यमवलम्बेयातां तथान्पि नासौ प्रचुरप्रयोग इति तयोः पुरुषार्थप्रवरप्राणितयोरपि वीरादिरसान्तराध्यावापेनावस्थापनम् । एवं तावत्पुमर्थविषयो रूपकरसविषय एव परमार्थतः, तथापि त्वितिवृत्तवैतत्याद्रसान्तरप्रयोगो ऽपि तदङ्गतया तत्र भवति । एवं तत्प्रधानचेष्टायोगाद्वृत्तिवैचित्र्यमत्रोचितमेव । उत्सृष्टिकाङ्कप्रहसनभाणास्तु करुणहास्यविस्मयप्रधानत्वाद् रञ्जकरसप्रधानाः, तत एवात्र स्त्रीबालमूर्खादिरधिकारी । न च विततमत्रेतिवृत्तम्, इतिवृत्तवैचित्र्यमपि तत्र नास्ति । तथाहि --- उत्सृष्टिकाङ्के तु वृत्तित्रयं तावद्वचसा निषिद्धं, भारती चात्र कथं वृत्तिः, चेष्टा हि करुणे ऽप्रधानं, तदुपकरणं तु परिदेवितात्मिका भारती, तस्मात् फलसंवित्त्याख्या वृत्तिः, वाक्चेष्टयोः फलानुभव इति यस्या लक्षणं, साभ्युपगन्तव्या । अवश्यं चैतत्, अन्यथा मूर्छामरणादौ वाक्चेष्टयोरभावे निर्वृत्तिकतैव स्यात् । किञ्च यदि तावत्पुमर्थकामोद्देशेन कैशिक्यभिधीयते धर्ममर्थं चोद्दिश्य वृत्तिद्वयं वक्तव्यम् । तस्माच्चेष्टात्मिका न्यायवृत्तिरन्यायवृत्तिर्वाग्रूपा तत्फलभूता फलसंवित्त्रिति वृत्तित्रयमेव युक्तमिति भट्टोद्भटो मन्यते ।
यदाह ---
आद्ये वाक्चेष्टाभ्यां पुरुषार्थचतुष्टयेन चाष्टविधे ।
षोडशधा फलवृत्तिस्तद्द्वयतो ऽनेकधा तु रसभेदात् ॥ इति ।
तदत्र केचिदाहुः --- सात्त्वत्यां यद्यपि कैशिकी शक्यान्तर्भावा तथापि रञ्जकत्वातिशयात् पृथगुपात्ता[त्], स्वरवन्मुखजाभिनयतश्च, न चान्यायवृत्तौ (वृत्तित्वं) पुमर्थचतुष्कयोगोपपत्तिविप्रतिषेधात्, फलवृत्तौ च वृत्तिसामान्यलक्षणं व्यापाररूपत्वं यदि नास्ति तत्कथं वृत्तित्वम् । अस्ति चेद्वाक्चेष्टातिरिक्तो मानसो व्यापारो न कश्चित् लोकसिद्ध इति सूक्ष्मो वाक्चेष्टागत एवोपेत्य । ततश्च मरणमूर्छादावपि प्राणात्मकायीयव्यापारसंभव एव यदनुस्मरणे लयतालगानानि प्रवर्तन्ते, संवेदनमपि च मूर्छादौ नास्तीति शक्यं वक्तुमिति फलवृत्तिरपि

[(मू)]

[(व्या)]

[page 451]




[NZ]

1सर्वरस2लक्षणाढ्या 3युक्ता ह्यङ्गैस्त्रयोदशाभिः4 BhNZ_18_112ab
[ABh]

तत्र कथं । तस्मात्तत्र सात्त्वत्येव वृत्तिः । यदि बाहुल्यापेक्षया वृत्तिमयं काव्यमिति व्यवहारो रूपकसमुदायापेक्षया खण्डस्यावृत्तिकत्वे ऽपि समुदितस्य रूपकस्य वृत्तिमयत्वात् । यच्छकलीगर्भमतानुसारिणो(*) मूर्च्छादावात्मसंवित्तिलक्षणां पञ्चमीं वृत्तिं सकलकार्यनिवृत्त्यनुमेयां मूर्च्छाकर्मानुभावेन च फलेनावच्छिन्नामात्मव्यापाररूपां मन्यन्ते, ब च परिस्पन्द एवैको व्यापार इति मनसिकृत्य तन्मतं भावानां बाह्यग्रहणस्वभावत्वमुपपादयद्भिः भट्टलोल्लटप्रभृतिभिः पराकृतमिति न फलवृत्तिर्वा काचिदिति चतस्र एव वृत्तयः (इति) ।
वयन्तु ब्रूमः । को ऽयमस्थानसन्त्रासः । यत्किञ्चिदिह नाट्ये समस्ति तच्चेद्वृत्तिष्वन्तर्भाव्यं तदाभवैदेतत् --- न चैवम् । रङ्गो हि नाम का वृत्तिः, मृदङ्गपणववंशाद्या का वृत्तिरपि हि भवेत् । तस्माद्व्यापारः पुमर्थसाधको वृत्तिः स च सर्वत्रैव वर्ण्यत इत्यतो वृत्तयः, काव्यस्य मातृका इति, न हि किञ्चिद्व्यापारशून्यं वर्णनीयमस्ति । मदमूर्च्छादिवर्णनायामपि मनोव्यापारस्य सात्त्वत्याख्यस्य संभवात्, करुणदावपि च मनोदेहव्यापारसंभवे ऽपि बाहुल्येन वाग्व्यापारसंभवाद् भारतीवृत्तिरुच्यते । वृत्त्यन्तरनिषेधस्तु तदङ्गानामपरिपूर्णत्वात् । न च कायवाङ्मनसव्यापारं तद्वैचित्र्यं वान्तरेणान्यः कश्चिद्व्यापारः संभवतीत्यसकृदुक्तम् । तस्मात्करुणप्रधाने भारती वृत्तिः परिदेवितबाहुल्यात् ।
यत्तु ``शृङ्गारहास्यकरुणैरिह कैशिकी स्यात्'' इति कोहलेनोक्तं तन्मुनिमतविरोधादुपेक्ष्यमेव, तस्य तु यत्र यत्रानुल्बणा चित्तवृत्तिः सा सा कैशिकीत्याशयः । एवं प्रहसनभाणयोरपि वाग्व्यापारप्राधान्यादेव भारतीवृत्तिः, मूर्छादौ तु व्यापाराभावे वृत्त्यभाव एव । न हि सर्वं नाट्यं वृत्तिब्रह्मतया समर्थनीयमित्यलमतिप्रसक्त्या ।
अथ सर्वान्ते सर्वरसमयत्वादविततस्वभावत्वाच्च संक्षेपेण शक्यव्युत्पत्तिदायिनीत्वेन प्रधानभूतत्वात्तदङ्गानां न नाटिकादिभाणान्तसमस्तरूपकोपजीव्यत्वाद्

[(मू)]

1. भ॰ मातृकायां वीथीलक्षणं वृत्त्यध्याये (अ-20) भारतीवृत्तेरङ्गलक्षणरूपेण पठितम् । भ॰ वीथ्येकपुरुषहार्या नानावस्थान्तरात्मिकाकार्या । अस्या लक्षणमुक्तं वृत्तिविकल्पान्तरेणैव

2. न॰ सर्वरसभावयुक्ता विज्ञेया वीथिका यथैतस्याः । अङ्गानां वक्ष्ये ऽहं लक्षणमधुना यथोद्देशम् (मखिलं --- ड॰)

3. प॰ समन्विताङ्गैरियं त्रयोदशभिः

4. ड॰ तथा त्रयोदशभिः

[(व्या)]

* शाकलेय उद्भटः ।

[page 452]




[NZ]

वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा1 BhNZ_18_112cd
अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्त्रिभिः । BhNZ_18_113ab
2उद्घात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ BhNZ_18_113cd
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् । BhNZ_18_114ab
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ BhNZ_18_114cd
3अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि । BhNZ_18_115ab
पदानि त्वगतार्थानि4 5ये नराः पुनरादरात् ॥ BhNZ_18_115cd
6योजयन्ति पदैरन्यैस्तदुद्घात्यक6मुच्यते । BhNZ_18_116ab
[ABh]

मस्तरूपकोपजीव्यत्वाद् वीथीं लक्षयति । एकहार्यैरित्याकाशपुरुषभाषितैरित्यर्थः । द्विहार्येति उक्तिप्रत्युक्तिवैचित्र्येनेत्यर्थः । अङ्गान्युद्दिशति ---
उद्घात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ।
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् ।
व्याहरो गण्डश्च त्रयोदशाङ्गान्युदाहृतानीति ।
इत्युदाहरणमात्रमेतदिति यावत् । एतानि क्रमेण लक्षयति पदानि त्वगतार्थानीति ।

[(मू)]

1. न॰ द्विपात्रहार्या तथैकहर्या वा, भ॰ वीथ्यास्तु लक्षणमहं व्याख्यास्याम्यनुपूर्वशः उङ्घात्यक ... गण्डमथापि च । एतान्यङ्गानि यस्याः स्युः स्पष्टार्थानि त्रयोदश । रसाश्चाष्टौ तथा शुद्धाः सर्वे भावास्तथैव च । उत्तमाधममध्याभिर्युक्ता प्रकृतिभिस्तथा । एकहार्या द्विहार्यावा सा वीथी त्वभिसंज्ञिता

2. ड॰ उद्घात्यकावलगिते त्ववस्पन्दितमेव च । (द॰ लगितकावस्पद्गितकं तथा, ढ॰ अवास्पन्दि

असत्प्रलापश्च तथा प्रपञ्चो नालिकापि च ॥ (न॰ असंप्रलाप ... वा)

वाक्कोल्यधिबलं चैव छलं व्याहारमेव च । (द॰ व्याहार एव च)

मृदवं त्रिगतं चैव ज्ञेयं गण्डमथापि च ॥ (ड॰ मृदवः, फ॰ वा)

3. न॰ एतान्यङ्गानि नाट्यज्ञैर्वीथ्यङ्गानि त्रयोदश । ड॰ त्रयोदश सदाङ्गानि वीथ्यामेतानि योजयेत् । लक्षणं पुनरेतेषां प्रवक्ष्याम्यनुपूर्वशः

4. च॰ तुगतार्थानि, भ॰ हि गतार्थानि

5. न॰ ये नराः स्वल्पवृद्धयः, ड॰ ये नराः, द॰ प॰ तदर्थगतये नराः, भ॰ बुद्धवानाल्पबुद्ध्यथः

6. न पर्यायैरेव बोध्यन्ते, भ॰ पश्चात्पदैः प्रपद्यन्ते भवेत्तत्तु यथैव च

7. द॰ उद्घातकं ।

[(व्या)]

[page 453]




[NZ]

यत्रान्यन्सिन् समावेश्य कार्य1मन्यत्प्रसाध्यते ॥ BhNZ_18_116cd
2तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः । BhNZ_18_117ab
[ABh]

नन्वेषामुक्तिवैचित्र्यरूपत्वं चेल्लक्षभालङ्कारादिभ्यः को भेदः, इतिवृत्तोपकरणरूपत्वे तु सन्ध्यङ्गेभ्यः कथमन्यतो रसोपकर्णतायां वृत्त्यङ्गेष्वन्तर्भावः । न चैतद्व्यतिरिक्तम्, एषां सामान्यलक्षणमस्ति । तत्र केचिदुक्तलक्षणादिविशेषरूपत्वमेवैषां प्रतिपन्नाः विवेचकास्तु तद्व्यतिरिक्तान्येवैतानीत्याहुः ।
तथाहि प्रश्नप्रतिवचनयोरन्याभिप्रायरूपेण योगेन यद्वैचित्र्यं तद्वीथ्यङ्गम्, अतeवोदाहृतानीत्येषां सामान्यालक्षणम् । उदाहृतानि प्रतिवचनानीत्यर्थः । तानि च सर्वाणि प्रतिवचनशून्यस्य काव्यस्याभावात् तेन विचित्राणीति लभ्यन्ते । अत एव वीथी पङ्क्तिरन्योत्तरासहिष्णुत्वात् विवित्रोक्तिप्रत्युक्तिर्गर्भत्वाल्लक्षणालङ्कारादीनां तु नोक्तिनियतं रूपमिति विशेषः । तत्र यदा विवक्षितमुत्तरं दातुं शक्तो ऽयं स्यादिति यन्मम मनसि वर्तते तदेव वक्ति नवेत्येवमादिना निमित्तेन यदा प्रष्टैव प्रतिवचनं वैचित्र्यमभिसन्धाय पृच्छति, प्रतिवक्तोचितमभिधत्ते तदा तदुत्तरमुद्धात्यकम् । प्रश्नात्मके उद्धाते साध्विति यत्, तत्राज्ञातार्थे कन् । पदान्यर्थगतानि प्रश्नरूपाण्यादरात्कृतानि पर्यायैः पदान्तरैरुत्तररूपैः नराः सुधियो योजयन्ति । तदुत्तरपदसमूहात्मकमुद्धात्यकम् । यथा पाण्डवानन्दे ---
का भूषा बलिनां क्षमा, परिभवः को ऽयं सकुल्यैः कृतः,
किं दुःखं परसंश्रयो, जगति कः श्लाघ्यो य आश्रीयते ।
को मृत्युर्व्यसनं, शुचं जहति के यैर्निर्जिताः शत्रवः,
कैर्विज्ञातमिदं विराटनगरे च्छन्नस्थितैः पाण्डवैः ॥
यत्रान्यस्मिन्निति । यत्रोत्तरे दीयमाने अन्यानुसन्धानपूर्वके ऽप्यन्यत्कार्यं सिध्यति तदान्यकार्यावलगनादवलगितम् । यथा ``अवि सुहाअदि दे लोअणाणा''मिति विदूषकेण पृष्टे(राज्ञः) ``सुखयतीति किमुच्यते'' इति ``कृच्छ्रेणोरुयुग''(*)मित्याद्युत्तरं वसन्तकप्रत्यायनोद्देशेन प्रवृत्तमपि सागरिकागतमास्थावन्धजीवितं

[(मू)]

1. न॰ अन्यं

2. न॰ परानुरोधात्तज्ज्ञेयं नाम्नावलागितं बुधैः ।

[(व्या)]

* रत्ना --- 2.

[page 454]




[NZ]

1आक्षिप्ते ऽर्थे तु कस्मिंश्चिच्छुभाशुभसमुत्थिते2 BhNZ_18_117cd
3कौशलादुच्यते ऽन्यो ऽर्थस्तदवस्पन्दितं भवेत्4 BhNZ_18_118ab
हास्येनोपगतार्थ5प्रहेलिका नालिकेति विज्ञेया ॥ BhNZ_18_118cd
6मूर्खजनसन्निकर्षे 7हितमपि यत्र प्रभाषते विद्वान् । BhNZ_18_119ab
[ABh]

मुख्यं शृङ्गाराख्यं कार्यं साधयतीति ।
आक्षिप्ते त्विति । शुभाशुभं दैवं तेनाबुद्धिपूर्वकं कुत्रचिदर्थे आक्षिप्ते ऽपि कौशलात्तत्तत्प्रच्छादनेच्छया यत्रोत्तरो ऽन्यो ऽर्थ उच्यते तदवस्पन्दितं चक्षुः --- स्पन्दनादिवदन्तर्गतसूचनीयसंभवात् । यथा ---
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥
अत्र दैववशादयमर्थ आयातः सत्पक्षे अमधुरागीर्येषान्ते, तथा प्रकर्षेन साधिताः आधिसहिताः यैर्दिशः कृताः धृतराष्ट्रात्मजाः पतन्तीह । तत्रोत्तरं प्रतिहतममङ्गलम् । पुनः सूत्रधारः ननु शरत्समयवर्णनया हंसा नभस्तं धार्तराष्टा इति व्यपदिशामीत्यादि अवस्पन्दितत्वमेव सूचयति ``न खलु न जाने किन्त्वमङ्गलत्वात् शङ्कितमेव मे हृदय''मिति ।
हास्येनोप्तगतार्थेति प्रहेलिका परवितारणकारि यदुत्तरं, अत एव हास्ययुक्ता सा नालिका व्याजेत्यर्थः । प्रकर्षेण हेलिका नर्मादिक्रीडारूपं यस्याः सा प्रहेलिका यथा --- सुसंगता ``जस्य किदे तुमं आअदा सो एत्थ एव्व चिठ्ठदि'' । सागरिका ``सहि कस्स किदे'' । सुसङ्गता (सहासम्) ``अइ अप्पसङ्कीदेणं चित्तफलअस्स'' । अनया भङ्ग्या आच्छादितं च गर्भगतं चास्य वस्त्विति ।
मूर्खजनसन्निकर्ष इति यदुत्तरं मूर्खं प्रति वस्तुतो हितमपि शब्दच्छलाद्यथा प्रियं तादृशं च मूर्खैः प्रियांशेन गृह्यते न हितांशेन । तथाभूतभङ्गीभूतद्वयाश्रयणं च

[(मू)]

1. भ॰ आक्षिप्य किंचित् --- न॰, ड॰ आक्षिप्य किंचिदर्थं तु, प॰ कांक्षिते ऽर्थे तु कस्मिंश्चिच्छुभाशुभसमीक्षते ।

2. न॰ ड॰ भ॰ समुत्थितम्

3. भ॰ उत्सृजेद्बुद्धिवैफल्यात् (न॰ यद्वदेव बुद्धिवैपुल्यात्, ड॰ यत्सृजेद्बुधिवैपुल्यात्, ब॰ वैकल्यात्)

4. ढ॰ अपस्यन्दितं स्मृतम्, च॰ अर्थे ।

5. द॰ अवगतार्था

6. ड॰ मुख्य, द॰ असंबद्धं च यद्वाक्यमसंबद्धं तथोत्तरम् । असत्प्रलापस्तच्चैव वीथ्या सम्यक् प्रयोजयेत्, ड॰ असंबन्धं तु बन्धं ... प्रलापितं ।

7. भ॰ विद्वान्यत्र, ड॰ अन्यत्र भाषते, प्रभाषते सम्यक् ।

[(व्या)]

[page 455]




[NZ]

1न च2 गृह्यते ऽस्य वचनं 3विज्ञेयो ऽसत्प्रलापो ऽसौ4 BhNZ_18_119cd
एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगे ऽस्मिन्5 BhNZ_18_120ab
6यदसद्भूतं वचनं 7संस्तवयुक्तं द्वयोः परस्परं यत्तु8 BhNZ_18_120cd
एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात्9 BhNZ_18_121ab
[ABh]

सिद्धान्तत्वात्करोति । एवं हि तात्कालिकः कोपो ऽपि रक्षितो भवति प्रियाभिधायित्वात् कालान्तरसंभाव्यश्च यथार्थाभिधायित्वात् यथाव्यसनिना राजपुत्रेण किंमुखमिति पृष्टे तेनोत्तरं दीयते ---
सर्वथा यो ऽक्षविजयी सुरासेवनतत्परः ।
तस्यार्थानां मुखानां च समृद्धिः करगामिनी ॥
असतो ऽसाधुभूतस्य वस्तुनः प्रलपनमस्मिन्नित्यसत्प्रलाप इति ।
एकद्विप्रतिवचनेति । एकं द्वयोः प्रतिवचनमस्याम् । द्विग्रहणमनेकोपलक्षणम् । तदमुना सर्वप्रश्नोत्तरवर्गः स्वीकृतः । यथा ---
नदीनां मेघविगमे का शोभा प्रतिभासते ।
बाह्यान्तरा विजेतव्याः के नाम कृतिनो ऽरयः ॥
यदसद्भूतमिति यथा रत्नावल्याम् ``सुसङ्गते, कथमहमिहस्थो भवत्या ज्ञात '' इति राज्यन्युक्तवति सुसङ्गतयोच्यते ``ण केवळं भट्टा चित्तपळहेण ता देवीए णिवेदस्सं '' इत्यादौ आभरणदानपर्यन्ते प्रपञ्चः । तथाहि --- द्वयोः सागरिकासुसङ्गतयोः राजविदूषकयोः परस्परसंबन्धमाश्रित्यासद्भूतमसत्यं देव्यै निवेदयामीत्युक्तम् । संस्तवश्च तत्रास्ति ``भट्टिणो पसादेण किमिदं मए'' इति हास्यमपि परिहासरूपं विद्यते । एकस्य च राज्ञो ऽर्थे प्रयोजने सागरिकासङ्गमे हेतुर्भवत्येवेति अन्यथाभिधानात्प्रपञ्चः ।

[(मू)]

1. ड॰ वचनं च गृह्यते ऽस्य ज्ञेयो

2. भ॰ तु

3. ड॰ सज्ञेयो ऽसत्प्रलापस्तु

4. भ॰ प्रलापः सः, ढ॰ यदद्भुतं वचनं स ज्ञेयो ऽसत्प्रलापस्तु

5. न॰ एकद्वित्रि प्रतिवचना वाक्केली नामाहुः, भ॰ वचनां वाक्केलीं नाम तामाहुः ( --- तां केलीं नाम जानीयुः फ॰)

6. च॰ यदतोसंभृतवचनं, द॰ यदसंबद्धं, ड॰ यदसद्भूतं वचनं (न॰ वाक्यं)

7. च॰ संश्रयं, द॰ संभव, य॰ संश्रय, ट॰ संस्वर

8. ड॰ परस्परतः, ड॰ तु ।

[(व्या)]

[page 456]




[NZ]

1यत्कारणाद्गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ BhNZ_18_121cd
दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् । BhNZ_18_122ab
2परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं3 द्वयोर्यत्तु4 BhNZ_18_122cd
अन्योन्यार्थविशेषक5मधिबलमिति तद्बुधैर्ज्ञेयम् । BhNZ_18_123ab
6अन्यार्थमेव वाक्यं7 छलमभिसन्धानहास्यरोषकरम्8 BhNZ_18_123cd
[ABh]

यत्कारणादिति गुणानां दोषत्वं दोषाणां वा गुणत्वं यत्र क्रियते तन्मृदवम् । विवादकृतमित्यनेन लक्षणाद्विशेषमाह, इदं वृत्त्यन्तरं स्वभावमित्यर्थः यथा ``शिरः श्वा काको वा द्रुतपदतनयो वा परिमृशेत्'' (वेणी 3) इत्यत्र दोषस्य गुणीकरणं, विवादाकर्णनेन सह ``यदि शस्त्रमुज्झितमशस्त्रपाणयः''(वेणी-3) इत्यत्र कर्णवचनेन प्रतिज्ञातपरिपालनस्य गुणस्यापि दोषीकरणं विवादकृतमेव । मृदवमिति मर्दनं मृत्परपक्षमर्दनेन स्वपक्षवति रक्षतीति ।
प्रवचनमात्मनश्चेति परस्य वचनमातमश्च वचनं परस्परमर्थविशेषलाभो यत्र भवतीत्युत्तरोत्तरस्याधिकाधिकस्यार्थस्य समुद्भवो यत्र तदधिबलम् । एतदुक्तं भवति --- यत्रोक्तिप्रत्युक्तिक्रमे क्रियमाणे परस्परप्रज्ञानोपजिवनबलात्स्वपक्षसुघटितादधिबलसंबन्धादधिबलम् । यथा नागानन्दे ``रागस्यास्पदमित्यवै''मीत्यादित आरभ्य विदूषकेण सहोक्तिक्रमेण स्वपक्षो द्रढिमानमानीतो यावदाह ``ननु शरीरतः प्रभृतिसर्वमेव मया परार्थं प्रतिपाल्यते'' (अ-1) इति ।
अन्यार्थमेव वाक्यमिति यद्वाक्यं प्रयोजनान्तरमुद्दिश्य वचनमुच्यमानं कस्यचिद्वचनमन्यस्य हास्यमपरस्य रोषम् जनयति तच्छलम् । यथा ---
कस्स व ण होइ रोसो दट्ठाण पिआए सव्वणं अहरम् ।
सब्भमरपदुमघाइरि वारिअवामे सहसु एह्णिम् ॥

[(मू)]

1. द॰ यद्गुणदोषीकरणं दोषगुणीकरणमेव वा देहे । हेतुभिरुपपन्नार्थैस्तन्मृदवं नाम विज्ञेयम् ।

2. प॰ यत्रात्मनः परस्य च वचनं स्यादुत्तरोत्तरप्रभवम्, ड॰ परवचनमात्मसंस्थं

3. य॰ समुद्गतं

4. भ॰ यत्र, न॰ अत्र

5. ड॰ विशेषणं

6. ड॰ यत्रादौ प्रतिवचनैर्विलोभयित्वा परम्पराकारैः । तैरेवार्थविहीनैर्विपरीतः

7. न॰ छलमति, य॰ छलमिति

8. च शेषकरम्

[(व्या)]

[page 457]




[NZ]

1श्रुतिसारूप्याद्यस्मिन् बहवो ऽर्था युक्तिभिर्नियुज्यन्ते । BhNZ_18_124ab
यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ BhNZ_18_124cd
2प्रत्यक्षवृत्तिरुक्तो 3व्याहारो हास्यलेशार्थः । BhNZ_18_125ab
संरम्भसंभ्रमयुतं4 5विवादयुक्तं तथापवादकृतम् ॥ BhNZ_18_125cd
बहुवचनाक्षेपकृतं6 7गण्डं प्रवदन्ति तत्त्वज्ञाः । BhNZ_18_126ab
[ABh]

एतद्वचनं सखीसंबन्धि भर्तृप्रत्यायनं प्रयोजनमुद्दिश्य प्रयुक्तं तस्य पत्न्या अपि संबन्धिनां छलं विदग्धजनस्य हास्यं सपत्न्या वचनं रोषं जनयति ।
श्रुतिसारूप्यादिति शब्दसारूप्याद् बहव इति प्रश्नप्रतिवचनस्य स्वभावा यत्र नियुज्यन्ते युक्तिभिरिति काक्वादीनां तथैवोपपत्तिभिः । त्रिशब्दो ऽनेकोपलक्षणम्, अनेकमर्थं गतमिति त्रिगतं वाक्ये मुख्यमुत्तरमनेकप्रश्नसाधारणम् । इह तु य एव प्रश्नस्तदेव प्रतिवचनमिति विशेषः । यथा ---
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्ते ऽस्मिन् त्वया विरहिता मया ॥ (विक्रमो)
अत्रैतदेवोत्तरं साकांक्षाकाकुप्रयोगे ऽपि प्रतिबिम्बे वामदक्षिणवैपरीत्यवन्निराकांक्षा काकुः संवृत्ता यत एतद्धास्यम् । एवमहास्य उदाहार्यम् ।
प्रत्यक्षवृत्तिरिति प्रत्यक्षशब्देन भावी प्रत्यक्ष उच्यते । तदयमर्थः --- भाविनि प्रत्यक्षे ऽर्थे दैववशाद् वृत्तिर्यस्य स व्याहारः विविधो ऽर्थो ऽभिधीयते येन । यथा ``उद्दामोत्कलिकां''(रत्ना-2) इत्यादि ।
संरम्भसंभ्रमयुतमिति संरम्भेणाकृतिविशेषेण यः संभ्रम आवेगः तद्युक्तं यद्विरुद्धवस्तु यदनेन कृतं पूर्वोक्तवस्त्वपवदनमेव च तद्वचनं दृष्टार्थगर्भत्वात्, गण्ड इव गण्डः ईषदसमाप्तं वचनं बहुवचनं तत्कृतेनाक्षेपेण कृतं स्वयं प्रतिवचनतां पूर्ववचनस्य गतमित्यर्थः । तथा च कोहलः ---

[(मू)]

1. प॰ यत्रानुदात्तवचनं त्रिधाविभक्तं भवेत्प्रयोगे तु । हास्यरससंप्रयुक्तं तत्त्रिगतं नाम विज्ञेयम् । च॰ श्रुतिसारूप्यार्थात्मनि, न॰ यच्चाप्युदात्तवचनं त्रिधाविभक्तं भवेत्प्रयोगे तु । हास्यरससंप्रयुक्तं त्रिगतं नाम विज्ञेयम् (द॰ विभिन्नं भवेत्प्रयोगेषु, ड॰ यदुदात्तवचनमिह)

2. ड॰ प्रत्यक्षं नायकस्यैव यद्वै दृष्टवदुच्यते । अशङ्कितं तथायोगाद् व्याहारः सो ऽभिधीयते

3. भ॰ कथितो

4. ड॰ कृतं

5. ढ॰ बद्धविवादं, न॰ वीथ्यावचनं (?)

6. ढ॰ युतं

7. प॰ गण्डमिति

[(व्या)]

[page 458]




[NZ]

1इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः ॥ BhNZ_18_126cd
2पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ 127॥ BhNZ_18_127ab
[ABh]

वचसां संबद्धानामन्ते यत्स्यात्पदे त्वसंबन्धः ।
संबद्धमिवाभाति हि तद्गण्डो नाम वीथ्यङ्गम् ॥
अनेनेषदसमाप्तिरेव दर्शिता । यथा दुर्योधनेन भानुमती प्रत्युच्यते ---
अध्यासितुं तव चिराज्जघनस्थलस्य
पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ (वेणी) इति ।
तत्र प्रविश्य कञ्चुकी
भग्नं भीमेन मरुता भवतो भवतो रथकेतनम् ॥ इति ।
तत्रोरुयुग्ममिति पूर्वविश्रान्तमपि भग्नमित्यत्र संबन्धयोग्यं जातम् ।
एतैः त्रयोदशभिरङ्गैर्युक्ता वीथी, तस्याश्च सर्वरसत्वस्याभिधानात् पर्यायेण रसानां प्राधान्यादुत्तमो मध्यमो ऽधमो वा नायको भवत्येव । तथा च कोहलः ---
उत्तमाधममध्याभिर्युक्ता प्रकृतिभिस्तथा ।
एकहार्या द्विहार्या वा सा वीथीत्यभिसंज्ञिता ॥ इति ।
अधमप्रकृतेस्तु न नायकत्वमिति ध्रुवं प्रहसनकभाणकादौ किं ब्रूयात्, हास्यादिरसप्रधानत्वे ह्यधम एव नायकः । कथाशरीरफलेन प्रधानतया संबध्यमानो नायक उच्यते । अनायकत्वे ऽपि चास्याधमत्वं नानुपादेयं स्यात् । परिवारतया तस्यानुप्रवेशो ह्यनिवारित एव सर्वत्र ।
अध्यायार्थमुपसंहरन् भाविनमर्थमनुसन्धत्ते इति दशरूपविधानमिति । लक्षणत इत्यनेनेदमाग दशैव तानि लक्षणानि उदाहरणानां तु का गणना । एतच्च पूर्वमेव दर्शितम् । तत्रैषां पुमर्थोपयोगो निजनिजलक्षणावसरे दर्शित एवेति पौनरुक्त्यं नाश्रीयत इति शिवम् ।

[(मू)]

1. इतःपूर्वं लास्याङ्गलक्षणं तु च॰ ठ॰ म॰ मातृकासु विना सर्वास्वस्मिन्नेवाध्याये वर्तते । वृत्तिकारेण लास्याङ्गानि सन्ध्यध्याये(19)पठितानि, भ॰ मातृकायां वर्जितान्येव । भ॰ संज्ञायामेष श्लोकः ---

नाटकभेदानामिह न शक्यते गन्तुमन्तं तत् ।

तस्मात्तज्ज्ञैर्ज्ञेयं दशरूपकमिदं हि संक्षिप्तम् ॥

2. ट॰ इतिवृत्तपताकास्थानसन्धिलक्षणं वक्ष्ये । (भ॰ लक्षणं शृणुत)

[(व्या)]

[page 459]




[NZ]



इति भारतीये नाट्यशास्त्रे दशरूप(1)निरूपणं नामाध्यायो ऽष्टादशः समाप्तः ॥
[ABh]

इति विमलशिशिरदीधितिकलितशिरोमण्डनाङ्घ्रिदास्यचणः ।
अभिनवगुप्तो गुप्तं दशस्वरूपं सतत्त्वकं व्यवृणोत् ॥
इति श्रीमन्महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां दशरूपकविधानं नामाष्टादशो ऽध्यायः समाप्तः ॥

[(मू)]

1. न॰ दशरूपकलक्षणविधानं नाम विंशो ऽध्यायः, य॰ लक्षणं नाम विंशतितमः, द॰ लक्षणं नामैकोनविंशो ऽध्यायः, च॰ एकोनविंशः, भ॰ मातृकायामत्राध्यायो न समाप्यते ।

[(व्या)]

[page 460]