श्रीरस्तु ।
भरतमुनिप्रणीतं
नाट्यशास्त्रम् ।
प्रथमो ऽध्यायः ।

[NZ]

प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । BhNZ_01_001ab
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यद् उदाहृतम्1 BhNZ_01_001cd
[ABh]

अभिनवभारती ।
यस्तन्मयान्हृदयसंवदनक्रमेण द्राक्चित्रशक्तिगणभूमिविभागभागी ।
हर्षोल्लसत्परिविकारजुषः करोति वन्देतमां तमहमिन्दुकलावतंसम् ॥1॥
षड्विंश(षत्त्रिंश)कात्मकजगद्गगनावभास-संविन्मरीचिचयचुम्बित(1)बिम्बशोभम् ।
षट्त्रिंशकं भरतसूत्रमिदं विवृण्वन् वन्दे शिवं श्रुतितदर्थविवेकि(2)धाम ॥2॥
विश्वबीजप्ररोहार्थं मूलाधारतया स्थितम् ।
धर्तृ(3)शक्तिमयं वन्दे धरणीरूपमीश्वरम् ॥3॥
सद्विप्रतोत(4)वदनोदितनाट्यवेद-तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ।
माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तिविधिना विशदीकरोति ॥4॥

[(मू)]

1. प॰ यदुदीरितम् ।

[(व्या)]

1. चुम्बि ।

2. म॰ विवेक ।

3. म॰ क॰ सर्व । ख॰ धातृ ।

4. म॰ कोक ।

[page 1]




[NZ]

[ABh]

उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् ।
स्फुटव्याख्या(1) विरोधानां परिहारः सुपूर्णता ॥5॥
लक्ष्यानुसरणं श्लिष्टवक्तव्यांश(2)विवेचनम् ।
सङ्गतिः पौनरुक्त्यानां समाधानसमाकुलम् ॥6॥
सङ्ग्रहश् चेत्ययं व्याख्याप्रकारो ऽत्र समाश्रितः ॥
भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्त्या प्रतिजानानो विशेषणद्वारेण गुरुपूर्वकमर्थाक्षिप्ततया चाभिधेयप्रयोजनतत्सम्बन्धान्दर्शयति -- प्रणम्येत्यादिना ---
`पितामहो ऽत्र पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः । एतच्च नाशङ्कनीयं प्रसिद्धेः । एको विजिगीषुर्नाट्यप्रवर्तयितेति देवः । भगवांस्त्वानन्दनिर्भरतया क्रीडाशीलः सन्ध्यादौ नृत्यतीति नाट्ये तदुपस्कारिणि च नृत्ते तदुपज्ञं(3) प्रवृत्तिरिति तावेवात्राधिदैवतं गुरू चेति नमस्कार्यो । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ स्वकर्तव्य(4)मात्रनिष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावान्न नमस्कृतः ।' (इत्ये)तदपि नमस्कारहेतुनिरूपणस्यानुचितत्वादसत् ।
(5)तस्मात्प्रणमनं प्रह्वीभावः कायेन वाचा मनसा च । आद्यः शिरसेति दर्शितः । द्वितीयो देवावित्यनेन । प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् । तेन प्रथमं देवावित्युक्तम् । अभिनेयप्राधान्याच्चाङ्गिकः शिरसेति । वाचिकश्च देवावित्यादिना [च] वाक्याभिनयो दर्शितः(6) । लोकसिद्धो ह्ययमभिनयो न च नाट्यधर्मिरूपः । चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयो(7) ऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता । (8)पितामहमहेश्वराविति क्रमः छेकानुप्रासार्थः । सालङ्कारस्य च वाक्याभिनयतां दर्शयितुं । सालङ्कारस्य देवतापरितोषहेतुत्वं च दर्शयितुम् । पितामहमहेश्वरावित्यनेन

[(मू)]

[(व्या)]

1. म॰ वाक्य ।

2. वक्तव्याङ्क ।

3. प॰ म॰ ज्ञं ताण्डवप्रवृत्ति । क॰ भाण्डप्रवृत्ति ।

4. कर्तव्य ।

5. म॰ प्रणामः कायादीनां प्रह्वीभावः । कायिकः शिरसेति दर्शितः । तस्मात् ।

6. म॰ दर्शितः । क्रमादेवाङ्गिकवाचिकाभिनयौ ।

7. म॰ अनभिनेयो ऽपि ।

8. भ॰ संस्कारस्य पूर्वं बुद्धौ निपतनाच्चरमसंस्कारस्य । पितामहमहेश्वराविति क्रम आश्रितः । छेकानुप्रासपरिपोषेण सालङ्कारस्य च वाक्याभिनयतां दर्शयितुम् । यद्वक्षति -- `चेक्रीडितप्रभृतिभिर्विकृतैश्च शब्दैर्युक्ता न भान्ति ललिता भरतप्रयोगाः ।'(ना॰ शा॰ 16-127) इति सालङ्कारस्य च देवतापरितोषहेतुत्वं दर्शितं भवति । प्रजाः प्रति हितैषित्वेन नाट्यप्रवर्तकत्वं कर्तव्यान्तरवैकल्येन पूर्णतायां च ततस्तद्गतत्वमिति नाम्नोरभिप्रायः । तत्र नाट्यस्य ।

[page 2]




[NZ]

[ABh]

देवयोर्लोकहितैषित्वमुक्तम् ।
नाट्यस्य नटवृत्तस्य शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्यामीति ।
नैतदित्यन्ये । `नाट्यवेदः नाट्यशास्त्रम्' इति हि पर्यायौ । तत्र नाट्यशास्त्रशब्देन चेदिह ग्रन्थः । तद्ग्रन्थस्येदानीं करणम् । न तु प्रवचनम् । तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा । ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्यादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः । उत्तरग्रन्थस्य चानुपपत्तिः -- `दृश्यं श्रव्यं च यद्भवेत्'(ना॰ शा॰ 1-11) `जग्राह पाट्यमृग्वेदात्'(ना॰ शा॰ 1-17) इत्यादेर्ग्रन्थं प्रत्यसङ्गतत्वात् । तस्मान्नाट्यं च तच्छास्त्रञ्च । व्युत्पत्तिप्रदत्वात् । प्रवक्ष्यामि व्याख्यास्ये । नाट्याख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः ।
एतदप्यमनोहरम् । शब्दात्मताव्यतिरेकेण प्रवचनायोगात् । नाट्यस्य चाशब्दात्मकत्वात् । निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः । नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दानर्थक्यप्रसङ्गात् । `य इमं शृणुयात्प्रोक्तं नाट्यवेदम्' इति शास्त्रान्ते यद्वक्ष्यन्ते यद्वक्ष्यते तस्यासङ्गत्यापत्तेः । शब्दविषयतातिरेकेण शृणुयादित्यस्यावाचकत्वात् ।
तस्मादित्थमेतदिति मद्गुरवः । `सकलहितकरणप्रवृत्त (1)उत्साहसम्पदोपेतस्तदभिवृद्धये तत्प्रत्यूहापसिसारयिषया स्वविज्ञानक्रमोपारूढगुरुरूप(2)ब्रह्मसर्वाधिपतिपरमेश्वरविषयां स्मृत्यौत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकरणीयविषयं च जडतावहित्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदुचिताङ्गिकवाचिकानुभावप्रकटनपूर्वं स्वप्रवृत्तिप्रयोजनमेव निरूपयति(3) । प्रयोजनस्यैव प्रवर्तकत्वात् । यदाहुः -- `यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्'(न्या॰ सू॰ 1-1-24)
तत्र नाट्यं नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिबिम्बालेख्यसादृश्यारोपाध्यवसायोत्प्रेक्षास्वप्नमायेन्द्रजालादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञानभ्रान्तिसंशयानवधारणानध्यवसायविज्ञानभिन्नवृत्तान्तास्वादनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति(4) वक्ष्यामः । तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादिवैलक्षण्येन सम्यक्तत्स्वरूपावगमोपायं प्रकर्षेणापरब्रह्मशिष्योदीरितानुपयोगिविकासावधानेन(5) वक्ष्यति । यद्वक्ष्यति --

[(व्या)]

1. भ॰ प्रवृत्तेरुत्सा ।

2. सर्वब्रह्माधि ।

3. म॰ निरूपितवान् ।

4. भ॰ स्वभावेति । म॰ रसस्वभाव इति ।

5. म॰ विकासभावसाधनेन ।

6. भ॰ रितोनुपयोगिविकासत्वावधानेन ।

[page 3]




[NZ]

[ABh]

य इमं शृणुयात्प्रोक्तं नाट्यवेदं स्वयम्भुवा ।
कुर्यात्प्रयोगं यश्चैनं तथाधीयीत वा नरः ॥
या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् ।
या गतिर्दानशीलानां तां गतिं प्राप्नुयात्तु सः ॥इति॥(ना॰ शा॰ अ॰ 36)
एतेन ``कामजो (1)दशको गणः''(मनु॰ 7-47) इति वर्जनीयत्वेन नाट्यस्यानुपादेयतेति यत्केचिदाशशङ्किरे यदयुक्तीकृतम् । याज्ञवल्क्यस्मृतिपुराणादौ चास्य प्रशंसाभूयस्त्वश्रवणात् । न चागमादृते धर्मो ऽनुमानगम्य इति न्यायात् ।
एतत्तु वृथैवास्थानभूरून्प्रति शङ्काशमनार्थमभिधीयते नाम । तथा हि -- नटानां तावद्(2)एतत्स्वधर्माम्नायरूपतयानुष्ठेयमेव । न चास्माकं तच्चेष्टितं विचार्यम् । सोमक्रयोपदेशिनो हि वाक्यस्य(3) न तद्विक्रयि(4)ब्राह्मणान्तरगतकृत्याकृत्यविचारणोद्योगो युक्तः । न चाप्यस्योपदिश्यते `गायेन्नृत्येत्' इति । किन्तु प्रथमनाट्यावसरक्रमप्रवृत्तविरिञ्चवचनप्रवर्तकभरतमुनिशासनानुवर्तिशिष्यपरम्परापरिचयागताद्यतनकालावधिमहानटजनस्वकप्रवृत्तिविशेषोपदेशपरम् । (5)अत एव तद्गतसिद्धसदुपायोपदेशनपरमिदं शास्त्रमिति ।
नटस्य तावन्नानेन किञ्चिदुपदिश्यते तं प्रत्युपकारादृते । कवेरपि स्वहृदयायतनसततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्थितविचित्रा(6)पूर्वार्थनिर्माणशक्तिशालिनः प्रजापतेरिव (7)कामजनितजगतः । परं (8)प्रत्याशङ्का यदि परमत्रावशिष्यते (9)व्युत्पाद्योपकारः । तस्यापि तु नेह `गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत्' इत्युपदेशः क्रियते । अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात एव वेदशास्त्रपुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्बलादेव पुमर्थोपायावगतिं करोतीति वक्ष्यामः । उत्पत्त्यादिप्रश्नास् तु ये भविष्यन्ति ते नाट्याख्यवेदविषयाः । न तु नाट्यवेदशास्त्रविषयाः । यतो ``नाट्यवेदः कथं ब्रह्मन्''(ना॰ शा॰ 1.25) इत्यत्र नाट्यमेव वेद इति व्याख्यास्यामः ।
एतच्च नाट्यशास्त्रं(10) ब्रह्मणोदाहृतं मह्यमुक्तम् । यद्वक्ष्यते -- ``आज्ञापितो विदित्वाहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास''(ना॰ शा॰ 1-25) इति । अत्र तु नाट्यस्य वेदः

[(मू)]

[(व्या)]

1. म॰ देशको गणः ।

2. म॰ भ॰ नटस्य नाट्यं तावदे ।

3. म॰ विधिवाक्यस्य ।

4. म॰ तद्विक्रेष्यट्ब्रा ।

5. म॰ भ॰ परमतद्गतसिद्धिसम्पत्तिसदु ।

6. म॰ भ॰ त्रापूर्वनिर्माण ।

7. म॰ वा काम ।

8. म॰ भ॰ परमप्रत्या॰ ।

9. भ॰ व्युत्पाद्यो वराकः । म॰ ष्यते वराकः ।

10. म॰ भ॰ नाट्यवेदशास्त्रम् ।

[page 4]




[NZ]

समाप्तजप्यं व्रतिनं 1स्वसुतैः परिवारितम् । BhNZ_01_002ab
अनध्याये कदाचित्तु2 भरतं नाट्यकोविदम् ॥ BhNZ_01_002cd
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । BhNZ_01_003ab
पप्रच्छुस्ते महात्मानो 3नियतेन्द्रियबुद्धयः ॥ BhNZ_01_003cd
[ABh]

शास्त्रम् इति समासः । अन्यथाऽध्यापनासम्भवात् । तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् ।
नाट्यं च ब्रह्मणोद्धृत्योद्धृत्य वेदाङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृतमित्युक्तम् । यदि हि नाट्यस्य वेदनं सत्तालाभो विचारश्च यत्र तन्नाट्यवेदशब्देन नाट्याश्रयरूपं दशरूपकमित्युच्यते -- यद्वक्ष्यति ``इतिहासो मया दृष्टः'' इति (ना॰ शा॰ 1-19) । अत्र पक्षे ब्रह्मणोदाहृतं प्रदर्शितोदाहरणं कृतनिदर्शनमित्यर्थः ।
अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् । तस्येदं शास्त्रम् । दशरूपकलक्षणमेव हीदम् । एवं दशरूपकं कविना कार्यम् । एवं नटनीयमिति ग्रन्थतात्पर्यात् । रसादीनां पदार्थानां तत्रैव पर्यवसानात् । तच्च ब्रह्मणोदाहृतं कृतनिदर्शनम् ।
अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानुष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः ।
भट्टनायकस्तु `ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं तन्नाट्यं तद्वक्ष्यामि । यथा हि कल्पनामात्रसारं तत एवानवस्थितैकरूपं क्षणेन कल्पनाशतसहस्रं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रहनिदानमत्यक्तस्वालम्बनब्रह्मकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतो ऽप्यभूताद्भुतवृत्त्या(1) भाति । तथा भासमानमपि च (2)पुमर्थोपायतामेति । तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परमपुमर्थप्रापकमिति लोकोत्तरपरमपुरुषार्थसूचनेन शान्तरसोपक्षेपो ऽयं भविष्यति ।
`स्वं स्वं निमित्तस्य (3)शान्तादुत्पद्यते रसः ।' इति ॥ (ना॰ शा॰ 6)
तदनेन पारमार्थिकं प्रयोजनमुक्तम् ।' इति व्याख्यानं (4)सहृदयदर्पणे पर्यग्रहीत् । यदाह --

[(मू)]

1. प॰ स्वशिष्यैः ।

2. ग॰ म॰ त्तम् ।

3. न॰ म॰ त॰ नाट्यवेदसमुद्भावम् ।

(व्या॰)

1. म॰ अकृताकृतवृत्त्या ।

2. म॰ पुरुषार्थोपदेशोपाय ।

3. म॰ शान्तमुत्पद्यते ।

4. भ॰ हृदय ।

[page 5]




[NZ]

यो ऽयं भगवता सम्यग्1ग्रथितो वेदसम्मितः2 BhNZ_01_004ab
नाट्यवेदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ BhNZ_01_004cd
3कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । BhNZ_01_005ab
सर्वम् एतद् यथातत्त्वं भगवन्वक्तुमर्हति ॥ BhNZ_01_005cd
[ABh]

`नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः ।
प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः ॥' इति ॥
एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् । तत्प्रयोजनन्तु दर्शितमेव । अभिधेयश्च नाट्यवेदः । व्युत्पाद्यव्युत्पादकभावलक्षणश्च सम्बन्धः । यच्च शास्त्रं(1) यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणेतरि प्रसिद्धे सिद्धवदेव(2) प्रामाण्यम्(3)अभिमन्यत इति (4)तद्वचनोक्ताय सम्बन्धाभिधेयप्रयोजनाय तदैव निर्विशङ्कः प्रवर्तते । परस्त्वधिगतसकलशास्त्रार्थो बहु मन्यते न वेति तदिदमन्यत् । प्रथमं तावत्प्रवृत्तमादिवाक्यं (5)प्रयुक्तमेवेति स्वानुभवप्रसिद्धम् । तेनार्थसंशयतर्ककौतुकजनादिवाक्यं (न) प्रवर्तकमिति किमनेन ॥ (1)
अथ मुनिरात्मानमेव परत्वेन कल्पयन्ब्रह्मणा यदुदाहृतमित्येतदेव पुराकल्पप्रदर्शनेन निश्चाययति -- समाप्तजप्यम् इत्यादिना श्लोकद्वयेन । अनुरागित्वं नाट्यवेदयोग्यता नाट्यस्यादुष्टता विनोदहेतुता सुज्ञानत्वं प्रश्नावसरलाभयोगः प्रसिद्धत्वं चाचार्ययोग्यता शिष्टप्रमाणिकत्वं नियमपूर्वशास्त्रग्रहणं प्रसिद्धादरणानुमेयोपादेयत्वप्रकटनमनिदम्(6)प्राथम्यप्रवृत्तता शिष्याणामूहापोहपाटवं ग्रहणयोग्यता चेति क्रमेण पदानां तात्पर्यमपुनरुक्तम् ॥ (2-3)
किं पप्रच्छुरिति दर्शयति -- योऽयमिति । भगवता तत्रभवता गुरुणेति भरतमुनिरेवैवमुक्तः । तेन भरतमुनिना यो ग्रथितः सुन्दरतमवस्तुसमाहरणयोजनया गुम्फितः को ऽप्ययं वस्तुविशेषः स तावत्प्रयोगसमये ऽस्माभिर्दृष्ट इति प्रत्यक्षत्वेन अयमिति परामर्शः । अविदितान्तस्सारतया चास्माकं प्रत्यक्षो ऽप्यप्रत्यक्षकल्प इति यच्छब्देनानिर्वाच्यविशेषत्वमुक्तम् । अत एव न तच्छब्दसङ्गतिरत्र मृग्यते(7) यथा यत्किञ्चिद्वदतीति । स चायं परीक्षणीय(8)तत्त्वो यतो वेदैः सम्मितः तुल्यः ।

[(मू)]

1. क॰ क्वथितो । ज॰ ग्रचितो ।

2. न॰ विस्तरः । प॰ सम्मतः ।

3. ज॰ म॰ कत्यंशः ।

[(व्या)]

1. म॰ यश्च शास्त्रार्थम् ।

2. सिद्धमेव ।

3. प्रमाणम् ।

4. तद्वचनोक्तात् ।

5. म॰ प्रवृत्तम् ।

6. टनमिदम्प्रा ।

7. म॰ दृश्यते ।

8. भ॰ णीयो यतो ।

[page 6]




[NZ]

[ABh]

तथा हि -- धीरोदात्तधीरललितधीरोद्धतधीरप्रशान्तानां पूर्णोपायप्रवृत्तत्वेन नायकानाम(1)तादृगुपायाश्रयेण प्रतिनायकानां च चरितं सफलत्वाफलत्वेन साक्षात्क्रियमाणं वीराद्भुताभ्यां वीरशृङ्गारहास्यैः वीररौद्रभयानककरुणैः वीरबीभत्सशान्तैश्च प्रतिनायकगतरसान्तरसान्तरतया सातिशयचमत्कारगोचरीभूतैर्हृदयानुप्रवेशं विदधद्धर्मादिचतुष्कोपायोपादेयधियमधर्मादिभ्यश्च निवृत्तिं निर्विशङ्कं विधत्त इत्यस्माकमधिगतश्रुतितत्त्वानामपि प्रत्यक्षसिद्धमेवैतत् । प्रसिद्धा चास्य नाट्यवेद(2)संज्ञा विदिता । अत एवोपदेशहेतुत्त्वाद्वेदः । एवं च जिज्ञास्यतत्त्व एवायम् ।
स कथमुत्पन्नः । केन प्रयोजनप्रकारेणोत्पन्नः । तत्प्रयोजनस्य वेदेभ्य एव सिद्धेः । उत्पन्न इति यदि पूर्वमेव वेदवदप(3)दा(वेदपदा)र्थः स्यात्तत्कथं नामां पर्युपयुज्येत । श्रुतिचतुष्टयवदेवेत्यर्थः । अथ यस्य वेदेभ्यो नोपदेशः सिद्धः, स कस्तादृगित्याह -- कस्याधिकारिणः । कृते प्रयोजनकरणाय । किं वेदाधिकृत एवात्राधिकारी उत तदन्यो ऽपीत्यधिकारिविषयो ऽयं प्रश्नः । पूर्वस्तु सिद्धसाध्यतया निष्प्रयोजनत्वेनाक्षेपाय(4) प्रश्नः । कत्यङ्ग इति । यद्यस्य सुबहून्यङ्गानि तद्दुरवधारतयाशक्य(5)निर्णयः । तथा परिदृश्यमानगीतातोद्याभिनयादिमध्ये कत्यस्याङ्गानि । किञ्च तदङ्गिरूपमुताङ्गसमुदायमात्रं नाट्यमिति तृतीयः प्रश्नः ।
किंप्रमाणश्चेति । ननु प्रत्यक्षप्रमाणसिद्धत्वं तावन्नाट्यस्य । यद्वक्ष्यति -- `दृश्यं श्रव्यं च यत्'(ना॰ शा॰ 1-11) इति । श्रेयःप्राप्त्युपायज्ञापकत्वमपि मुनीनां स्वसंवेदनसिद्धम् । अन्यथा तु विचार्यत्वमेवास्य न स्यादित्युक्तम् । तत्को ऽयं प्रश्नः । सत्यम् । किन्तु यान्यङ्गानि कानिचित्तानि यदि विज्ञेयानि, केन प्रमाणेन किमङ्गता(6) ज्ञायते । तेन किंप्रमाणाङ्ग इति । तथा केन प्रमाणेनाङ्गाङ्गिभावनियमो ऽत्र ज्ञेयः । प्रमाणमत्र निश्चयजनकम् ।
अन्ये तु नाट्यगतानां रूपकादीनां पाठ्याभिनयरसगीतानां च किं प्रमाणं का सङ्ख्येति विभागविषयो ऽयं(7) प्रश्न इत्याचक्षते ।
अस्येति नाट्यस्य । कीदृक्प्रयोगः । यदि युगपदङ्गानि प्रयुज्यन्ते तद्भिन्नाक्षग्राह्येषु युगपत्संवेदनाभावात् कथमेकं नाट्यमिति प्रतिपत्तिः । क्रमप्रयोगे ऽपि नि(न)तराम् । तस्मात्कथं प्रयोग इति । तथा किं नियतेनैवाङ्गाङ्गिभावेन प्रयोग उतानियतेनेति नाट्याङ्गप्रयोगद्वारेण सामान्याभिनयचित्राभिनयनाटकादिरूपकवैचित्र्यविषयः प्रश्नः पञ्चमः । एवं

[(मू)]

[(व्या)]

1. म॰ भ॰ तदुपाश्रयाश्रयेण ।

2. भ॰ नाट्यसंज्ञा ।

3. म॰ भ॰ वेदवदपदार्थस्य तत्तथा कथमेनं पर्यनुयुञ्जीत ।

4. आक्षेपो ऽयम् ।

5. म॰ भ॰ तदवधारणतया अश ।

6. भ॰ म॰ किमङ्गम् ।

7. म॰ भ॰ विषयो वाऽयम् ।

[page 7]




[NZ]

तेषां तु 1वचनं श्रुत्वा मुनीनां भरतो मुनिः । BhNZ_01_006ab
प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ BhNZ_01_006cd
भवद्भिः शुचिभिर्भूत्वा तथावहितमानसैः । BhNZ_01_007ab
श्रूयतां नाट्यवेदस्य 2सम्भवो ब्रह्म3निर्मितः ॥ BhNZ_01_007cd
[ABh]

प्रश्नपञ्चकात् कविप्रयोक्त्रोरुपदेशपरं शास्त्रमिति लक्ष्यते । तेन यदिह(1) `तस्मात्कर्तुर्द्रष्टुः प्रयोक्तुरुपदेशपरमिदं शास्त्रम्' इति, तत्र द्रष्टुरित्यसत् । न ह्यनेन सामाजिको विनीयते । अयोग्यत्वात् । श्रुतिस्मृतीतिहासादिष्विवात्रापि न च तदुपदेशो ऽत्र श्रूयते । द्रष्टा तु यदि प्रेक्षाप्रवर्तक उच्यते तदा तस्यापि न प्रबन्धेनोपदेशः । अपि तु क्वचिदेव `नर्तको ऽर्थपतिर्वा' इद्यादौ । एवं चोपदेश्यत्वे स्थपतिमालाकारप्रभृति विश्वमपीहोपदेश्यं स्यादित्यलमनेन ।
यथातत्त्वमिति । नात्र क्रमं प्रति भरो ऽस्माकम् । नापीयत्तां प्रति । अज्ञा हि वयमत्र प्रष्टारः । अत एवोपेय(2)परत्वेनैव मुख्यतया प्रश्नो यथा बालक आह -- `दुःखं मे(3) शमय' इति । तज्ज्ञस्तूपायं प्रश्नयति `कुतो ऽन्नं लभ्यत' इति । तेनोपे(4)यमुखेन प्रवृत्तमिदं शास्त्रमुत्तरदानोपनतवस्त्वन्तरोपेयप्रश्नक्रमेण तदुपेयोपायादिप्रबन्धेन स्थितमिति मन्तव्यम् । तेन यादृशा क्रमेण रूपणयोग्यं तथाप्यप्र(थाऽप्र)श्रितमपि यदि किञ्चिदस्ति तदपि स्वयमेव निरूपयेति । तत्त्वानतिक्रमेण तत्त्वयोग्यं (5)तत्त्वं च निरूपणीयम् । एतदिति । लक्षणपरीक्षापर्यन्तमेतत् ॥ (4-5)
यदि त एवं पप्रच्छुः भरतमुनिः किमकार्षीदित्याह -- तेषामिति । तुरवधारणे । श्रुत्वैव न तु विलम्ब्येति । पौर्वकाल्यमात्रे क्त्वाल्यपोर्विधानात् । तत इति । यतः स तत्त्वविन्मुनिः ते च तदुपदेशयोग्याः तस्माद्धेतोः । कथाग्रहणं यथातत्त्वमित्येतस्यैवार्थं स्फुटीकरोति ।
यत्तु प्रयोगप्रश्ने प्रत्यक्षेण प्रयोगप्रकटनमुत्तरं स्यादित्याशङ्कां परिहर्तुं कथाग्रहणमिति तत्त्वसत् । वक्तुमर्हसीत्युक्ते तस्याः को ऽवसरः । एवं भरतमुनिः परवदात्मानं प्रकल्प्येयन्तं ग्रन्थमभिहितवान् । अन्ये त्वियन्तं ग्रन्थं कश्चिच्छिष्यो व्यरीरचत् । तत्र ब्रह्मणेति भरतमुनिः प्रथमश्लोके निर्दिष्टः । कथं ब्रह्मन्नुत्पन्न इत्येतदेवमेकवाक्यत्वेन निर्वहति । तदनन्तरन्तु

[(मू)]

1. क॰ तद्वचनम् ।

2. ध॰ संक्षेपो ।

3. त॰ मुनि ।

[(व्या)]

1. म॰ भ॰ यदा हि ।

2. म॰ उपायपर ।

3. भ॰ मेव ।

4. म॰ नोपाय ।

5. भ॰ क्रमेण तत्त्वं च ।

[page 8]




[NZ]

पूर्वं1 कृतयुगे विप्रा वृत्ते स्वायम्भुवे ऽन्तरे । BhNZ_01_008ab
त्रेतायुगे ऽथ2 सम्प्राप्ते मनोर्वैवस्वतस्य तु3 BhNZ_01_008cd
ग्राम्यधर्म4प्रवृत्ते तु 5कामलोभवशं गते । BhNZ_01_009ab
ईर्ष्याक्रोधादि6संमूढे लोके सुखितदुःखिते ॥ BhNZ_01_009cd
[ABh]

भवद्भिः शुचिभिरित्यादिर्भरतमुनिरचितो ग्रन्थः । मध्ये ऽत्र षट्त्रिंशदध्याय्यां यानि प्रश्नप्रतिवचनयोजनवचनानि तानि तच्छिष्यवचनान्येवेत्याहुः ।
तच्चासत् । एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भमयत्वे प्रमाणाभावात् । स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणतर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् ।
एतेन सदाशिवब्रह्मभरतमतत्रयविवेचनेन ब्रह्ममतसारताप्रतिपादनाय मतत्रयीसारासारविवेचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रम् । न तु मिनिविरचितमिति यद् आहुर्नास्तिकधुर्योपाध्यायास्तत्प्रत्युक्तम् । सर्वानपह्नवनीयाबाधितशब्दलोकप्रसिद्धिविरोधाच्च ।
अत्र केचिदाहुः -- प्रश्नपञ्चकमत्रैवाध्याये तावन्निर्णीयते । उद्देशस्थित्या तद्विभागलक्षणपरीक्षापराणि चाध्यायान्तराणीति । अन्ये त्वाहुः पञ्चभिरध्यायैः पूर्वरङ्गविधानपर्यन्तैः प्रश्नद्वयं निर्णीतम् । सामान्याभिनयचित्राभिनयान्तैः शिष्टैस्तु प्रश्नत्रयमिति ।
वयं तु ब्रूमः -- नात्र क्रमः कश्चित् । अपि तु यथावसरं महावाक्यात्मना षट्सहस्रीरूपेण प्रधानतया प्रश्नपञ्चकनिरूपणपरेण शास्त्रेण तत्त्वं निर्णीयते । न तु क्रमः कश्चित् । एतच्च ग्रन्थव्याख्यानप्रसङ्ग एव स्फुटीकरिष्यामः ॥ (6)
तत्र `कथं कस्य वा' इत्यमुमर्थं निर्णिनीषुराह -- भवद्भि(1)रित्यादि । घटादीनाम् उत्पत्तिर् व्यवहारसिद्धैव कुलालादिभिरनुगम्यत इति घटः क्रियत इति युक्तम् । न त्वेवं नाट्यस्य । तस्य तूत्पत्तिरेँव विरिञ्चोपज्ञतया स्थितेति सम्भवो ब्रह्मनिर्मित इत्युक्तम् । केचिदत्रानादित्वं वेदवन्नाट्यस्याचक्षाणाः उत्पत्त्यादिशब्दान् स्मरणाभिव्यञ्जनादावुपचरन्ति ॥ (7)
तत्र सम्भूतेः कारणमुखेनाभिधाने कर्तव्ये कालस्य सर्वत्र पूर्वकारणत्वादुचितकालपरिग्रहेण तद्विधाधिकारिविषयतां दर्शयितुमाह -- पूर्वमित्यादिना श्लोकपञ्चकेन । अस्मिन्नवसरे

[(मू)]

1. प॰ पुरा ।

2. न॰ म॰ त्रेतायुगे तु । ज॰ म॰ त्रेतायुगे च । ग॰ त्रेतायुगे सम्प्रवृत्ते ।

3. ग॰ च ।

4. ग॰ त॰ धर्मे ।

5. त॰ लोभमोहवशम् ।

6. ठ॰ त॰ म॰ मि ।

[(व्या)]

1. रिति ।

[page 9]




[NZ]

देवदानवगन्धर्व1यक्षरक्षोमहोरगैः । BhNZ_01_010ab
जम्बूद्वीपे समाक्रान्ते लोकपाल2प्रतिष्ठिते ॥ BhNZ_01_010cd
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । BhNZ_01_011ab
क्रीडनीयकम् इच्छामो दृश्यं श्रव्यं3 च यद् भवेत्4 BhNZ_01_011cd
[NZ]

[ABh]

पितामहो देवैरिदमुक्त इति महावाक्यस्य सङ्गतिः -- कस्मिन्नवसरे पूर्वमिति । नास्मिन्नेव कल्पे ऽपि तु पूर्वकल्पेष्वपीत्यर्थः । मन्वन्तराणि चतुर्दश तावत्कल्पो यत्तद्ब्राह्मं दिनम् । तत्र स्वायम्भुवं नाम यत्कल्पस्य प्रथमं मन्वन्तरम् । वैवस्वतमन्वन्तरन्तु सप्तमम्, यत्राद्य वर्तामहे । तत्र सर्वेष्वेव मन्वन्तरेषु त्रेतावसरे ब्रह्मणा नाट्यवेदः प्रवर्तितः । कृतयुगे तु नेति तात्पर्यम् । योजना तु स्वायम्भुवे आद्ये मन्वन्तरे यत्कृतयुगं तस्मिन् वृत्ते सति यत्त्रेतायुगं तस्मिन् सम्यक्सन्ध्यतिक्रमेण स्फुटतरं प्रवृत्ते । न केवलं तत्रैव मन्वन्तरे । तुशब्दो यावच्छब्दार्थे । यावद्वैवस्वतस्य मनोरन्तरे समये यत्त्रेतायुगं तस्मिन्प्रवृत्ते ऽपि । तेनाद्यन्तनिरूपणेन सर्वेषां मध्यममन्वन्तराणां सङ्ग्रहः । तेन सर्वेषु त्रेतायुगेषु नाट्यप्रवृत्तिरित्युक्तं भवति ।
अस्मिन्नवसरे किमसावुक्तः । आह -- जम्बूद्वीपे कर्मभूमिस्थाने यो लोकः सुखितो दुःखितश्च तद्विषयं(1) कीडनीयकं क्रीड्यते चित्तं विक्षिप्यते विह्रियते येन तदिच्छामः । करणे कृत्यो बाहुलकात् । चित्तं च इतो ऽमुतश्च नीयमानं मार्गे ऽपि नि(2)योज्यते । यदि वा क्रीडनाय हितं क्रीडनीयकम् । उभयत्राज्ञाताद्यर्थे कः । इदमस्माकं गुडप्रच्छन्नकटुकौषधकल्पं चित्तविक्षेपमात्रफलमिति यन्न ज्ञायते । तच्च क्रीडनीयकं सुखितदुःखित एव भवति । न ह्येकान्तसुखिते काले देशे वा क्रीडया किञ्चित् । नाप्येकान्तदुःखिते । तेन कृतयुगे कलिप्रान्ते वा इलावृत्तादिनिवासिनि जने नारके वा न क्रीडोपपत्तिः । उत्तरपदार्थप्रधानस्तत्पुरुषः दुःखस्य बाहुल्यमाह । कथं ज्ञायते सुखितदुःखितो लोक इति । यत ईर्ष्याक्रोधादिभिः संमूढो ऽधिवासितहृदयः । आदिग्रहणादनुरागतृष्णादिभिः । तत्र क्रमेण कारणमाह -- कामवशगतत्वादीर्ष्यादयो राज्यलोभादिना क्रोधादयः । किमित्यधिकौ कामलोभौ । यतः सुखितदुःखितत्वस्य कारणं कामदीनां हेतुः ग्राम्यधर्मप्रवृत्तत्वम् । ग्राम्यो ऽश्रुतशास्त्रार्थजनाकीर्णदेशोचितो धर्मः स्वधर्माननुपालनलक्षणः । तद्विषये यतो ऽसौ लोकः प्रवृत्तः ॥ (8-9)

[(मू)]

1. ग॰ गन्धर्वै रक्षोयक्ष ।

2. ड. पालैः ।

3. ठ॰ म॰ त॰ श्राव्यम् ।

4. न॰ म॰ यद्विभो ।

[(व्या)]

1. तद्विषयकम् ।

2. विनि ।

[page 10]




[NZ]

न वेदव्यवहारो ऽयं संश्राव्यः शूद्रजातिषु । BhNZ_01_012ab
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ BhNZ_01_012cd
[ABh]

नन्वेवं (1)सत्यधर्मबाहुल्यात् सुखमेषां कुत इत्याह -- देवैः श्रीमद्विजयाविमुक्तादिरुद्रावतारैः तथा राजसतामसहृदय(2)जनकल्प्यमानसपर्याकैर्दानवादिभिराक्रान्ते जम्बूद्वीपे । देवादिभिश्चाक्रान्ते स्ववशीक्रियमाणे । नन्वेवं सत्स्वपि विशुद्धव्यामिश्रधर्मसाधनेषु कथं धर्मः । तेषां तत्राप्रवर्तमानत्वात् । सत्यम् । किन्तु लोकपालैः लोकपालांशसंविभागसमुत्पादितैः नरपतिभिः । प्रतिष्ठिते स्वधर्मसाधनं प्रति नियोजिते लोके । दृश्यं श्रव्यं चेति । द्रष्टुं श्रोतुं चार्हम् । न धर्मसाधनम् । शक्यं च । न तु दुर्भग(3)परुषप्रायम् । लोक इत्येकवचनेन सर्वसाधारणतयैव यद्योग्यं तच्च स्पृश्यादिरूपं न भवति । दृश्यश्रव्ययोस्तु बहुतरसाधारण्योपपत्तिः । असाधारणे चेर्ष्याक्रोधादय एव प्रवर्तन्ते ।
एतदुक्तं भवति -- कृतयुगे सत्त्वप्रधाने स्वधर्ममात्रनिष्ठो लोको न सुखदुःखे प्रति हेयोपादेयधिया प्रयस्यति । त्रेतायान्तु राजसत्वाद्दुःखं जिहासति । सुखं च प्रेप्सति । रजसश्चलत्वात् । तदासौ शास्त्रीयेषु राजनियन्त्रणया प्रवर्त्यते । तत्र च तादृगुपायो निरूप्यो येन स्वयमेषां भवति प्रवृत्तिः । तच्च नाट्यमेवेति ।
चकारेणेदमाह -- तादृशा केनचिदुपायेन सम्बन्धस्तत्कुरुते(स्तु कृतः) येन भिन्नेन्द्रियग्राह्ये अपि दृश्यश्रव्ये एकानुसन्धानविषयत्वं न विजहीत इति सामान्याभिनय(4)कालप्राणत्वं प्रयोगस्य सूचितम् । दृश्यमिति हृद्यं श्रव्यमिति व्युत्पत्तिप्रदमिति प्रीतिव्युत्पत्तिदमित्यर्थ इति । अनेन (5)त्वि(नन्वि)न्द्रादीनां क एतावता स्वार्थः । आह । लोकपालप्रतिष्ठिते(6) जम्बूद्वीपे गता ये लोकाः ते हि स्वधर्मावस्थिता इज्यादिना नाकमाप्याययन्ति । अत एवेच्छाम इति सर्वेषामैकमत्यमाह । अतो ऽन्योन्योपकारवृत्त्या च दैवमानुषसर्गौ(7) निरूपितौ विन्ध्यावासिप्रभृतिभिः । अन्ये तु स्वप्रयोजनमेव क्रीडा महेन्द्रादीनामित्याहुः । त्रेतायुगे प्रवृत्ते एवम्भूते च लोक इत्यनेनेदमुक्तं भवति -- स्वर्गे ऽपि हि तदा तदा मानुष(8)गतराजसधर्माभिसम्बन्धचित्रितयागादियोगसरजसीकृतहृदयत्वाद्देवा अपि क्रीडनीयकमभिलेषुरिति ।(10-11)
एवं शास्त्राधिकृतो ऽपि जनः नाट्येन सुखं विनीयत इति प्रयोजनप्रयोजनमुक्त्वा प्रयोजनान्तरमप्याह -- न वेदव्यवहार इत्यादिना । कृतयुगे सत्त्वोत्कर्षबलादेव सर्वः

[(मू)]

[(व्या)]

1. म॰ स्वधर्मबाहुल्यात् । सा॰ त्वधर्मबाहुल्यात् ।

2. यकल्प्य ।

3. म॰ पुरु ।

4. म॰ तालप्राणत्वम् । कालप्रमाणत्वम् ।

5. न्विन्द्रादीनाम् । एतावता क इन्द्रादीनां स्वार्थ इत्याह ।

6. भ॰ ष्ठिता यतो जम्बूद्वीपग ।

7. म॰ भ॰ सर्वावित्यपि निरूपितौ ।

8. मानुषगता राजानः सुधर्मादिसम्बन्धचिन्तित ।

[page 11]




[NZ]

एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । BhNZ_01_013ab
1सस्मार चतुरो वेदान्योगम् आस्थाय तत्त्ववित् ॥ BhNZ_01_013cd
( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । BhNZ_01_XXXab
वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥ ) BhNZ_01_XXXcd
[ABh]

स्वधर्ममनुपालयति । (1)अद्यत्वे तु राजसत्वात् शूद्रप्रकाराः करणादिजातीयाः सर्वे ऽखर्वगर्वाक्रान्ता वर्णत्रयानुवृत्तिं न विदधते । शास्त्रं भवद्भ्य एवमादिशतीति च ते वचनमात्रेण नाद्रियन्ते । न च ते वेदशास्त्रोपदेशयोग्याः । अत एवमाह -- (2)सम्यगिह स्थाने । श्रुत्या भवतामेतदुपदिष्टमिति ना(न) श्राव्याः । सार्ववर्णिकमिति । अधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायीत्यर्थः । सर्वे वर्णाः प्रयोजनं (3)विनेयत्वेन यस्येत्यनेन पूर्वोक्तस्याधुनोक्तस्य च समस्तस्योपसंहारः ।
अन्ये तु पौनरुक्त्यं परिहर्तुमाह -- `सर्वेषां वर्णानां सरससुकुमारेण नयेन स्वकर्तव्यनिरूपणं यत्र काव्ये तस्मिन् भवं तदाश्रितम् । येन सर्वो जनः सरससुकुमारानुरज्यदाशयः तदुपभोगनान्तरीयकतयैव कार्याकार्यज्ञानमप्युपयुङ्क्ते क्षीरमध्यावस्थितौषधोपयोगवत् । (4)तेनाधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायि (5)नाट्यम् । अश्रुतशास्त्राणामपि संवादादविचलकार्याकार्यविवेकसिद्धिरिति । (12)
एवमस्त्विति तानिति । देवराजमिति । तानुक्त्वा तान्विसृज्य । देवराजं विसृज्येति प्राधान्यादुपादानम्(6) । योगमिति । येन सर्ववेदानां युगपदवभासो भवति । तत्त्वविदिति समस्तलोकवेदज्ञ इत्यर्थः । (13)
ततः किं चकारेत्याह श्लोकत्रयेण धर्म्यमित्यादिना । एवमिति(1-16)धर्म्यमित्यादियुगलोक्त(7)मर्थं सङ्कल्प्य । चतुर्वेदस्मरणेन हेतुना तत इति । चतुर्भ्यो नाट्यवेदं चक्रे । हेतौ शता । धर्म्यमिति । धर्मे साधूपदेशाय । एवमर्थे ऽपि । अन्ये तु धर्मार्थभ्यामनपेतं यशः प्रयोजनमस्येति । अत्र व्याख्यानद्वये ऽपरपुरुषार्थासङ्ग्रहः स्यात् । नाट्योत्पत्तिगर्भाधानकल्पे चास्मिन् सङ्कल्पे यत्त्यक्तं तत्त्यक्तमेव । यशसश्च धर्मफलत्वात् पृथगुपादानं किमर्थम् । सोपदेशमित्यादेश्च पौनरुक्त्यम् । तस्मादयमत्रार्थः -- धर्मशब्देन

[(मू)]

1. ड॰ सस्मारेदं तदा ब्रह्मा ।

2. ढ॰ त॰ म॰ योगवित् ।

3. इदं पद्यं म॰ पुस्तक एव दृश्यते ।

[(व्या)]

1. अन्यत्र ।

2. सम्यगिति ।

3. विना यत्नेन प्रयस्यति । अनेन ।

4. म॰ तेनानधिकृतानामपि ।

5. नाट्यं श्रुतम् ।

6. दुक्तम् । इन्द्रादीन् विसृज्येत्यर्थः (सा) ।

7. युगलकोक्त ।

[page 12]




[NZ]

धर्म्यम् अर्थ्यं 1यशस्यं च 2सोपदेश्यं ससङ्ग्रहम् । BhNZ_01_014ab
भविष्यतश् च लोकस्य3 सर्वकर्मानुदर्शकम्4 BhNZ_01_014cd
सर्वशास्त्रार्थसम्पन्नं सर्वशिल्प5प्रवर्तकम्6 BhNZ_01_015ab
7नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ BhNZ_01_015cd
[ABh]

चत्वारो ऽपि पुरुषार्थाः । तेषु साधु साधकम् । ननु किं साक्षात् । नेत्याह । सोपदेश्यं सहोपदिश्यमानैरुपायैर्यद्वर्तते चतुर्वर्गोपायप्रदर्शकमित्यर्थः । ननु वेदादयो ऽप्येवम् । नैतत् । (1)सम्यग्ग्रहणं सङ्ग्रहः । यतः परं निर्विशङ्कप्रतीत्यर्थं प्रमाणान्तरं नाभ्यर्थ्यते । तच्च साक्षात्काररूपमेव । यदाहुः -- ``सर्वा च प्रमा प्रत्यक्षपरा '' इति । तेन सहेति ससङ्ग्रहम् । एवमपि प्रत्यक्षेण सदाचा(2)रयज्ञादिदर्शनात्कोऽस्य भेदः । आह -- सर्वेषां कर्मणां क्रियमाणानामनु पश्चादचिरेणैव कालेन दर्शकं पञ्चषादिभिरेव दिवसैः शुभाशुभकर्मतत्फलसम्बन्धसाक्षात्कारो यत्रेत्यर्थः । कस्येत्याह -- यो यः कश्चिदस्मात्क्षणादूर्ध्वं भविष्यति लोकस्तस्योपदेश्यस्येत्यर्थः ।
(3)अनुकार्याभिप्रायेणात्र भविष्यत इति व्याख्यातम् । [न] च शब्देन भूतवर्त्मानग्रहणमित्यधरोत्तरीभूतम् । वृत्तराजर्षिवंशकीर्तनादेर्हि प्रधानतया स्वकण्ठेनाभिधानं युक्तम् । न तु भविष्यत इत्यास्तामेतत् ।
तस्मात् व्युत्पाद्याभिप्रायेणैव लोकस्येति व्याख्येयम् ।
एवमपि तत्रैव केन लोकः प्रवर्त्यत इत्याह -- अर्थ्यम् । हृद्यतया सर्वजनानामपि नानाधिकारत्वेनाभिलषणीयमित्यर्थः । ननु प्रथममज्ञातपरमार्थे कथमभिलषणम् । आह । यशस्यम् । सर्वत्र हृद्यतया प्रथितम् ।
न केवलं प्रधानपुरुषार्थोपायदर्शकं यावत् सर्वेषां शास्त्राणां कलाप्रधानानां ये ऽर्था गीतनृत्तवाद्यादयस्तैः सम्पन्नं युक्तम् । तथा सर्वाणि शिल्पानि चित्रपुस्तादीनि प्रवर्तयति (4)स्वोपयोगत्वेनाक्षिपतीत्येवमेकेन यत्नेन समस्तवस्तुसिद्धिर्यतो भवति तन्नाट्यमित्युक्तं भवति ।

[(मू)]

1. ड॰ धर्मकामार्थसंयुक्तम् ।

2. ड॰ म॰ त॰ सापदेशम् ।

3. न॰ कालस्य । ठ॰ लोके ऽस्य ।

4. प्र॰ दर्शनम् । प॰ कर्मप्रदर्शकम् ।

5. न॰ शील । ग॰ शिष्य ।

6. ठ॰ म॰ दर्शकम् । प्र॰ समन्वितम् । त॰ प्रवेशकम् ।

7. प॰ म॰ नाट्यसंज्ञमिमं वेदम् ।

[(व्या)]

1. सङ्ग्रहं सम्यग्ग्रहः । ग्रहणं प्रमाणं तेन युक्तम् (सा॰) ।

2. सदाचारादि ।

3. अनुकार्याश्रयत्वेनात्र ।

4. सोपयोग ।

[page 13]




[NZ]

1एवं सङ्कल्प्य भगवान् 2सर्ववेदान3नुस्मरन् । BhNZ_01_016ab
नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥ BhNZ_01_016cd
जग्राह पाठ्यम् ऋग्वेदात्सामभ्यो4 गीiतमेव च । BhNZ_01_017ab
यज्युर्वेदादभिनयान् रसा5नाथर्वणादपि ॥ BhNZ_01_017cd
[ABh]

तच्च सेतिहासम् । इतिहासोपदेशकरूपं सप्रभेदम् । इतिरेवमर्थे प्रत्यक्षनिर्देशं द्योतयति । हः इहशब्द आगमः । आसनमासः । एवंप्रकाराः प्रत्यक्षपरिदृश्यमाना (1)आगमिकार्थाः कर्मफलसम्बन्धस्वभावा यत्रासते तेनेतिहासेन सहेतिपाठे मत्वर्थीयो ऽकारः । इतिः ज्ञानम् । तस्य हासो हर्षपूर्वको विकासो यत इति केचित् । इतिहासश्च -- तल्लक्षणमिथं विलासनं यत्र रूपकभेदानां भण्यते(2) । उपदेशशब्देन च दशरूपकं तदुपयोगवदेव(3)(वद्देश)द्विहस्तादिलक्षणनाट्यवेदशास्त्रम् । तत्सहितस्यैव करणीयत्वेन सङ्कल्पः । अन्यथा बुद्ध्या कलितस्यापि नाट्यस्य कथमन्यत्र सङ्क्रमणम् । तेन च विना कथं प्रयोगः । पञ्चममिति । य एको ऽपि चतुरो वेदानतिशेत इत्यर्थः । अहमिति यस्य सर्वलोककृत्योद्वहनमेव परं कृत्यम् ।
एवं सङ्कल्प्येति । सङ्कल्पव्यापार एवायं बुद्ध्या वेदाङ्गैकीकारलक्षणो ब्यह्मणो नाट्यवेदोत्पादनम् । ननु वेदस्मरणेन तत्र कथं हेतुता लब्धा । आह । चतुर्वेदाङ्गसम्भवमिति । चत्वारो वेदाः(4) । अङ्गानां पाठ्यादीनां सम्भवो यस्य । सम्भवत्यस्मादिति सम्भवः । अत एव वेदचतुष्टयमपि यत्राङ्गानि प्रत्युपकरणीभूतमिति (स तथोक्तः) । (14-16)
कुत्राङ्गे कस्य वेदस्योपयोग इति दर्शयति -- जग्राह पाठ्यमृग्वेदादिति । इह पठ व्यक्तायां वाचीत्युक्तं व्यक्तत्वं विवक्षाविशिष्टस्वार्थार्पणक्षमत्वम् । तच्च काक्वध्यायवक्ष्यमाणस्वरालङ्कारादिसामग्रीयोजनेन भवतीति तयोपस्कृतं पाठ्यमुच्यते । तच्च प्राधान्यात्प्रथममुपात्तम् ।
तथा हि वक्ष्यति ।
`वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनूः स्मृता ।
अङ्गनैपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥` इति(14-2)

[(मू)]

1. न॰ त॰ म॰ प्रोक्त्वा तु भगवानेवं वेदान् सर्वान् । प॰ स्मृत्वा तु भगवानेवम् । ग॰ सङ्कल्प्य भगवानेवम् । ड॰ ततः स भगवान् ब्रह्मा वेदान् सर्वाननुस्मरन् ।

2. ज॰ म॰ त॰ सर्वान् वेदान् ।

3. झ॰ पितामहः ।

4. न॰ सामतो ।

5. ब॰ नृत्ताना ।

[(व्या)]

1. आगतिकार्थाः । भ॰ आगमितार्थाः ।

2. म॰ दृश्यते ।

3. भ॰ तदुपयोगादेव ।

4. वेदाः चतुर्भ्यो वेदेभ्यः । अङ्गानाम् ।

[page 14]




[NZ]

1वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना2 BhNZ_01_018ab
एवं भगवता सृष्टो 3ब्रह्मणा सर्ववेदिना ॥ BhNZ_01_018cd
उत्पाद्य नाट्यवेदं तु 4ब्रह्मोवाच सुरेश्वरम् । BhNZ_01_019ab
इतिहासो मया 5सृष्टः स सुरेषु नियु6ज्यताम् ॥ BhNZ_01_019cd
[ABh]

अत एवाभिनयान्तर्भूतत्वे ऽपि पृथगुपात्तम् । तदृग्वेदाद्गृहीतम् । तस्य त्रैस्वर्यप्रधानस्य स्तोत्रशब्द(स्त्र)द्वारेण योगोपकारित्वात् । पाठ्यमपि च त्रैस्वर्योपेतम् । ऐकस्वर्ये काक्वभावाभ्यां (1)च स्वस्वादौ (चैकस्वभावाच्च स्वरादौ) गीतरूपापत्तेरिति हि वक्ष्यामः । (ना॰ शा॰ 17)
पाठ्यगतस्वरप्रसङ्गात् तदनन्तरं सामभ्यो गीतं जग्राहेत्युक्तम् । उपरञ्जकत्वेन हि पश्चात्तस्याभिधानं न्याय्यमिति केचित् । `गीतं प्राणाः प्रयोगस्य' इति वक्ष्यमाणत्वात् । तदायत्तत्वाद्रसचर्वणायाः समुचितमस्यात्रैवाभिधानमित्यस्मदुपाध्यायः । चकारेणैतत्तुल्य(2)कक्ष्यतामाह । एवकारेण गीतमात्रं ततो गृहीतं `गीतिषु सामाख्या'(जैमिनि॰ 2-1-36) इति न्यायात् । तदाधारध्रुवापदयोजनमृग्वेदादेवेति दर्शयति । तत एव ध्रुवाध्याये वचनादत्रैव सङ्गृहीतम् (?) ।
घनावनद्धरूपिसामगानक्रियाप्राणभूतकाल(3)साम्यात्मकतालसामान्यस्वीकृतमत्रैव प्रविष्टम् (?) । आध्वर्यवकर्मप्रधाने तु यजुर्वेदे ऽङ्गकर्मणां प्रदक्षिणगमनादिक्रम एव प्रथमम् । पठिष्यति `या ऋचः पाणिका(4)'(ना॰ शा॰ 32-2)इत्यादि । ततसुषिरात्मकं चाप्यातोद्यं स्वरप्राधान्यात् ।
आथर्वणवेदे तु शान्तिकमारणादिकर्मसु नटस्येव तस्यर्त्विजः प्राष्टुदवैषुण्णा(5)द्यनुभावानां प्रजाशत्रुप्रभृतिनावधानग्रहणादिना लोहितोणीषादेर्नेपथ्यस्य तेषु तेषु च कर्मसु विशिष्टप्रयत्नपुरुषसम्पाद्यमनोवष्टम्भात्मनः सत्त्वस्य सम्भवात् ततो ऽभिनयानामग्रहणम् । वाचिकस्त्वभिनयः पूर्वमेवोक्तः । प्राधान्यवि(न्यात् वि)भावानां धृतिप्रमोदादिव्यभिचारिणां

[(मू)]

1. म॰ वेदोपवेदसम्बन्धो । ठ॰ वेदोपवेदः ।

2. न॰ सम्पन्नो ब्रह्मणा ललितात्मकम् । त॰ नाट्यवेदो महर्षयः ।

3. ठ॰ म॰ ब्रह्मणा ललितात्मकम् ।

4. ज॰ ब्रह्मावोचत्सुरेश्वरम् । ड॰ त॰ प्राह शक्रं पितामहः ।

5. ठ॰ दृष्टः ।

6. त॰ निवेश्य ।

[(व्या)]

1. म॰ स्वर्यैकत्वाभावाभ्यां च स्वस्यादौ । स्वर्यादौ, स्वरस्यादौ, स्वस्वियादौ (सा) ।

2. म॰ णैकतुल्य ।

3. कल्प ।

4. भ॰ पाणिगाः ।

5. वैषुणा ।

[page 15]




[NZ]

कुशला ये विदग्धाश्च प्रगल्भाश्च 1जितश्रमाः । BhNZ_01_020ab
तेष्वयं नाट्यसंज्ञो2 हि वेदः संक्राम्यतां त्वया ॥ BhNZ_01_020cd
तच्छ्रुत्वा वचनं 3शक्रो ब्रह्मणा यदुदाहृतम् । BhNZ_01_021ab
प्राञ्जलिः प्रणतो5 भूत्वा प्रत्युवाच पितामहम् ॥ BhNZ_01_021cd
ग्रहणे धारणे ज्ञाने6 प्रयोगे चास्य सत्तम । BhNZ_01_022ab
7अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि8 BhNZ_01_022cd
[ABh]

च परमार्थसतां समाहरणं प्रधानमिति विभावादिसामग्रीरूपरसात्मकचर्वणासम्भव इति ततस्तद्ग्रहणमुक्तमिति तटस्था एवैते । अत एव रस्यन्ते । तत्रैव च रस्यन्त इति हि वक्ष्यामः ।
तदेवं नाट्यादिरूपकोपक्रमं गीतातोद्यप्राणाभिनयवर्गपरिपुष्यद्रसर्वणात्मकं परप्रीतिमयमेव नाट्यम् । ततस्तद्व्युत्पत्तिरिति नाट्यमेव वेद इति क्रमेण प्रदर्शितम् । तेनाक्रम्य योजनात्मकनियोगात्मकशासनप्राणशास्त्रवैलक्षण्येन स्वयमुपारूढज्ञानाभिधानविदः(1) प्राणवेदरूपता नाट्य(2)स्यैवेति सिद्धम् ।
एतदुपसंहरति -- वेदोपवेदैरित्यादि । वेदा व्याख्याताः । वेदार्थानामुपकारको ,अर्थो वेद्यते येन स उपवेदात्मा । तद्यथा ऋग्वेदस्य(3) मन्त्रार्थवादादिव्याख्यानोपनयनप्रजारक्षणप्रदर्शक आयुर्वेदः । यतो महात्मा ततः सर्ववेदी । सर्ववित्त्वाच्च तथाविधसृष्टिशक्तः । एवमित्युपसंहरन् प्रश्नत्रयं कृतोत्तरमिति दर्शयति । प्रयोजनस्याधिकारिणामङ्गानामङ्गाङ्गिभावस्य च निर्णीतत्वात् । (17-18)
एवं पितामहसदृशेन सर्वदा नाट्यवेदशरीररूपकनिर्माणे कविना भाव्यमिति प्रदर्श्य तत्र विभवयुक्तो विधेयनटजनश्च राजा प्रयोजिता । भरतमुनिसदृशश्च सम्पन्नपरिवारः सर्ववित् प्रयोक्ता । प्रयोजक(4)महोत्सवप्रायः प्रयोगकालः । क्रीडाप्रस्तावव्याजोपदेशकाः विगतरागद्वेषा मध्यस्थवृत्तयः निर्मलहृदयमुकुरे सति तन्मयीभवनयोग्यतोपेता आहितरसास्वादाः सामाजिका इत्येतत् पुराकल्पमुखेन दर्शयत्यध्यापन(ध्यायान्त)ग्रन्थेन -- उत्पाद्य नाट्यवेदं त्वित्यादिना । राजैव प्रयोजयितुं शक्त इति तुशब्दः । इतिहासो दशरूपकम् ।

[(मू)]

1. प॰ जितक्लमाः ।

2. न॰ म॰ नाट्यसंज्ञस्तु ।

3. न॰ भगवान् शक्रो ।

4. न॰ म॰ त॰ समुदाहृतम् ।

5. न॰ म॰ विनयात्प्राञ्जलिः ।

6. ब॰ चैव ।

7. त॰ न शक्ता भगवन् देवा न यो ।

8. प॰ कर्मसु ।

[(व्या)]

1. भ॰ नं विदः ।

2. म॰ ट्यवेदस्यैवेति स्थितम् ।

3. म॰ दाख्यमन्त्रा ।

4. म॰ प्रयोजन ।

[page 16]




[NZ]

य इमे वेदगुह्यज्ञा 1ऋषयः 2संशितव्रताः । BhNZ_01_023ab
3एते ऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ BhNZ_01_023cd
4श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । BhNZ_01_024ab
त्वं पुत्रशतसंयुक्तः5 प्रयोक्तास्य भवानघ ॥ BhNZ_01_024cd
आज्ञापितो विदित्वाहं नाट्यवेदं पितामहात् । BhNZ_01_025ab
6पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ BhNZ_01_025cd
[ABh]

कुशलाः । ग्रहणधारणयोग्याः । विदग्धाः । ऊहापोहसमर्थाः । प्रगल्भाः । परिषद्यभीरवः । जितश्रमाः । योग्याः समुचितदेहा अखिन्नकायाश्च । ग्रहण इति । पूर्वं गुरुमुखाद्ग्रहणम् । तस्याविस्मरणं धारणम् । ज्ञानमूहापोहविचारः । प्रयोगः पर्षदि प्रकटीकरणम् । चकारेण च तदुपयोगिगुणनिका व्यायामाभ्यासादिः । देवाः सुखभूयिष्ठत्वात् । स्वाम्यादेशात्कथमपि यदि प्रवर्तेरन् तत्पूर्णपर्यवसानत्वं दुर्लभमेतैरित्यर्थः ।(19-22)
तर्हि किं क्रियतामित्याह -- य इम इति । वेदज्ञा इति ग्रहणधारणसामर्थ्यम् । गुह्यज्ञत्वेनाध्यात्मोपनिषदर्थवेदनधारणकौशलेन रसाद्युपयोगिसात्त्विकसम्पादितसामर्थ्यम् । यद्वक्ष्यति -- ``सत्त्वं मनःप्रयत्ननिर्वर्त्यम्'' इत्यादि । तेन ---
न्यस्येत्प्राणं भ्रुवोर्मध्ये स्तम्भो बाष्पश्च चाक्षुषः ।
स्वेदो हृदि गुदे कम्पः पुलको मूर्ध्नि वक्त्रतः ॥
वैवर्ण्यं स्वरितं कण्ठे प्रलयो नासिकान्तरे ॥
इत्यादियोग्यत्वं तेषाम् । अत एवानुषङ्गतो नटस्यापि परमपुरुषार्थलाभो धारणादिवशात् । ऋषय इति । दर्शा(र्शना)दृषिरिति । ऊहापोहयोग्याः । संशितव्रता इति ।

[(मू)]

1. ज॰ मुनयः ।

2. न॰ ब्रह्मवादिनः । प॰ त॰ ब्रह्मसम्भवाः । ख॰ शंसितव्रताः । म॰ संश्रितव्रताः ।

3. ड॰ एते सङ्ग्रहणे । प॰ त॰ ते ह्यस्य । ज॰ म॰ एतस्य ।

4. ठ॰ श्रुत्वेमम् । न॰ शक्रस्य वचनं श्रुत्वा ।

5. ख॰ सम्पन्नः ।

6. प॰ म॰

नान्ये ऽन्ये धारणे योग्याः प्रयोगे वापि सत्तम ।

इत्युक्तो ऽस्य प्रयोगस्य कुरु यत्नमतन्द्रितः ॥

आज्ञां विभोर्विदित्वाहं नाट्यवेदं पितामहात् ।

सुतानध्यापयामास प्रयोगार्थी तदाज्ञया ॥

न॰ सुतानध्यापयामास प्रयोगे वापि सत्तम । ठ॰ त॰ पुत्रानध्यापयं योग्यान् ।

[page 17]




[NZ]

शाण्डिल्यं 1चैव 2वात्स्यं च कोहलं 3दत्तिलं 4तथा । BhNZ_01_026ab
5जटिलाम्बष्टकौ चैव 6तण्डुमग्नि7शिखं तथा ॥ BhNZ_01_026cd
सैन्धवं 8सपुलोमानं 9शाड्वलिं 10विपुलं तथा । BhNZ_01_027ab
11कपिञ्जलिं 12बादिरं च यमधूम्रायणौ तथा ॥ BhNZ_01_027cd
13जम्बुध्वजं 14काकजङ्घं 15स्वर्णकं तापसं तथा । BhNZ_01_028ab
16कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ BhNZ_01_028cd
17कौत्सं 18ताण्डायनिं चैव 19पिङ्गलं 20चित्रकं तथा । BhNZ_01_029ab
21बन्धुलं 22भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ BhNZ_01_029cd
[ABh]

अभ्यासे शक्ताः । तथेति । ग्रहणादीनामार्थक्रमः प्रदर्शनीय इत्यर्थः । इम(1) इति प्रत्यक्षेणैव दृष्टमेषां तदिति दर्शयति ।(23)
श्रुत्वा त्विति । मां त्विति तु शब्देन ऋषिभ्यो ऽप्यन्येभ्यो ऽस्य विशेषमाह । ब्रह्मैव मामाहेत्यादरातिशयः । पुत्रशतयोगाद्य(द)न्योन्यप्रवर्तितबहुतरपरिवारयोगः । अनघेत्यध्येषणया सोत्साहपरिषदा कृतसम्मानस्य सम्यक्प्रयोगनिष्पत्तिरिति सूचितम् । आज्ञापित इत्यनुल्लङ्घनीयवचनतास्योक्ता । पितामहादित्यनाचार्योषितत्वाशङ्कां व्युदस्यति । प्रयुज्यत इति प्रयोगो दशरूपकम् । प्रयुज्यते निर्वर्त्यते ऽनेनेति प्रयोगः । नाट्यलक्षणशास्त्रम् । तदहं पुत्रान्पाठयाञ्चकार । प्रयुक्तिश्च प्रयोगः । तमध्यवसायपर्यन्तमहं पुत्रानध्यापयामास । तथाहं चकार यथा प्रयुक्तिं ते पुत्राः सम्यक्प्राप्तवन्त इत्यर्थः । चापिशब्दाभ्यां सूचिते द्वे द्वे आवृत्ती । मुनिसमुचितकर्तव्यान्तरव्यासङ्गो ऽपि लिटा(2) सूचितः । तत्त्वत इति नाट्याचार्यस्य सम्यगाप्तत्वं गम्यते । (24-25)

[(मू)]

1. ठ॰ म॰ चापि । ड॰ जीव ।

2. न॰ वाद्यम् ।

3. प॰ घूर्तिलम् ।

4. ड॰ म॰ मुनिम् ।

5. ठ॰ म॰ जटुला । प॰ यडिला ।

6. ज॰ म॰ त॰ ताण्ड्य । फ॰ दण्ड । ठ॰ ताण्डुम् ।

7. प॰ म॰ मुखम् ।

8. ज॰ पुंसलो । त॰ पुलोमानं सैन्धवञ्च ।

9. ज॰ शाश्वलिम् । प॰ वालिकम् । न॰ म॰ पाटलिम् ।

10. न॰ म॰ विबुधम् ।

11. न॰ त॰ यमं धूम्रायणं चैव कपिंजलमथापि च । ज॰ त॰ कापिञ्जलम् ।

12. ठ॰ म॰ बादरिम् । ड॰ वादिरम् ।

13. प॰ म॰ जम्बू । न॰ बाष्कलम् । फ॰ जम्बूकम् । ख॰ जङ्गं च ।

14. ख॰ कोकमुस्तं च । त॰ काकमद्रुम् ।

15. ज॰ स्वर्णकृत्तापसौ । ख॰ पूर्णकं तापसं तथा ।

16. पङ्क्तिद्वयं `त॰'पुस्तके नास्ति । ठ॰ म॰ केदारम् । ज॰ केदरिम् ।

17. ज॰ कोत्सम् ।

18. ज॰ तान्यासिनम् । प॰ ताण्ड्यायनि ।

19. ज॰ पिण्ड ।

20. ठ॰ छत्रकम् । न॰ छत्रमेव च ।

21. त॰ अन्धुकम् । म॰ नुजलम् । ख॰ बल्लकम् । भालुकम् ।

22. प॰ बाष्कलम् । त॰ बालुकम् ।

[(व्या)]

1. म॰ इदमिति ।

2. म॰ भ॰ लिङ्गात् ।

[page 18]




[NZ]

1तैतिलं भार्गवं चैव शुचिं बहुलमेव च । BhNZ_01_030ab
2अबुधं बुधसेनं च 3पाण्डुकर्णं 4सुकेरलम् ॥ BhNZ_01_030cd
5ऋजुकं मण्डकं चैव 6शम्बरं 7वञ्जुलं तथा । BhNZ_01_031ab
मागधं 8सरलं 9चैव कर्तारं 10चोग्रमेव च ॥ BhNZ_01_031cd
11तुषारं 12पार्षदं चैव गौतमं 13बादरायणम् । BhNZ_01_032ab
14विशालं शबलं चैव सुनाभं मेषमेव च ॥ BhNZ_01_032cd
15कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । BhNZ_01_033ab
16नखकुट्टाश्मकुट्टौ च षट्पदं 17सोत्तमं तथा ॥ BhNZ_01_033cd
18पादुकोपानहौ चैव 19श्रुतिं चाषस्वरं तथा । BhNZ_01_034ab
अग्निकुण्डाज्यकुण्डौ2021वितण्ड्यं ताण्ड्यमेव च ॥ BhNZ_01_034cd
22कर्तराक्षं हिरण्याक्षं 23कुशलं दुस्सहं तथा । BhNZ_01_035ab
24लाजं भयानकं चैव बीभत्सं 25सविचक्षणम् ॥ BhNZ_01_035cd
[ABh]

पुत्रान्नामभिर्दर्शयति -- शाण्डिल्यमित्यादिना । अत्र प्रसिद्धत्वं(1) नटानामादरकारणमिति तावन्मुख्यं नामग्रहणे प्रयोजनम् । आनुवङ्गिकं त्वन्यदपि । तद्यथा विदूषकतापसादिनाम्नां तलाकमीनां(तथाकर्मिणां) निर्वचनलब्धार्थयुक्त्या भूमिकविशेषोपयोग इति । अन्यस्त्वाह -- शतमेवेह पठितम् । कञ्चना(2)(तच्चा)भिनेयानां स्थाय्युत्पादन(3)रसनवकतद्गतव्यभिचारित्रयस्त्रिंशत्सात्त्विकाष्टकानुरूपाणां पञ्चाशतो ऽर्थानां न्याय्यान्याय्यभेदेन नायकप्रतिनायकविषयतया प्राधान्याभिप्रायेणेति । तत्र तु `कैशिक्यपि(4) प्रयुक्ता स्यात्' इत्युत्तरग्रन्थावकाशाभाव इत्यलमाभि(5)रसहृदयाभिनिवेशव्याख्याभिः । (26-39)

[(मू)]

1. ख॰ तिन्तिलम् ।

2. ज॰ अम्बुधम् ।

3. ज॰ पारकर्णम् । प॰ पाण्डुकर्णिम् ।

4. ज॰ म॰ सकेरलम् । त॰ सतोरलम् । च॰ सुरेक्षलम् ।

5. ज॰ मिश्रकम् । ड॰ त॰ ऋजुं कमण्डलुम् ।

6. त॰ शाबरम् । प॰ शाम्बकम् ।

7. ज॰ वञ्चुलम् ।

8. प॰ सुरलम् । फ॰ त॰ सारणम् । सुकलम् ।

9. न॰ चैक । त॰ चैव कातरम् ।

10. न॰ चात्रिमेव च ।

11. ठ॰ म॰ तुषादम् ।

12. म॰ पार्वतम् । त॰ पर्वतम् । भ॰ पांशलम् ।

13. न बादरायणिम् ।

14. ख॰ उदारिं वरुणं चैव वरणिं हंसमेव च ।

15. ज॰ त॰ कालेयम् ।

16. ठ॰ म॰ तरुकुट्टा ।

17. ड॰ त॰ चोत्तमम् । म॰ सप्तमम् ।

18. त॰ पानहोपा । ड॰ पादुकौपा ।

19. ज॰ सुश्रुतं षट्स्वरम् । न॰ श्रुतिं च स्वरमेव च ।

20. ख॰ अश्मकुण्डौ च ।

21. ज॰ विताण्ड्यं तण्ड्य ।

22. न॰ त॰ केकराक्षम् ।

23. न॰ नकुलं दुष्षहं तथा ।

24. न॰ जालम् । प॰ त॰ जलम् । म॰ पुस्तके इदमर्धं नास्ति ।

25. फ॰ सुविचक्षणम् ।

[(व्या)]

1. त्वान्न ।

2. भ॰ कश्चा ।

3. भ॰ नं इसनव ।

4. भ॰ क्येषा ।

5. भ॰ लमसहृद ।

[page 19]




[NZ]

1पुड्राक्षं पुण्ड्रनासं 2चाप्यसितं सितम् एव च । BhNZ_01_036ab
विद्युज्जिह्वं महाजिह्वं 3शालङ्कायनमेव च ॥ BhNZ_01_036cd
4श्यामायनं माठरं च लोहिताङ्गं तथैव च । BhNZ_01_037ab
संवर्तकं 5पञ्चशिखं त्रिशिखं 6शिखमेव च ॥ BhNZ_01_037cd
शङ्खवर्णमुखं 7षण्डं शङ्कुकर्मणमथापि च । BhNZ_01_038ab
शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ BhNZ_01_038cd
[ABh]

यस्मिन्निति । उत्तमप्रकृतिविचेष्टितादौ । तथेति(1) । कश्चित् तदीयहृदयहर्षप्रदर्शनप्रकारेण योग्यो ऽन्यस्तदीयशोकप्रकटीकरणेनेति । (40)
अथ सकलप्रयोगप्राणभूतकैशिक्युपयुज्यमानोपकरणान्तरसंहरणा(2)योपक्रमं दर्शयति भारतीमित्यादि । वृत्तिमिति । धर्मादिपुरुषार्थचतुष्टये साध्ये वागङ्गसत्त्वचेष्टासामान्यम् । तच्च संक्षिप्तेनावान्तरभेदेन चतुर्धा(3) ।यद्यत्किल कर्मारभ्यते तत्र वाङ्मनःकायव्यापारस्तावदस्ति । तत्र कस्यचिल्लालित्यवैचित्र्यक्रमस्यानुप्रवेशः । यत उत्तमप्रकृतीनां सौष्ठवमय एव सर्वो व्यापारः । तदेव तद्वृत्तिचतुष्टयम् । भारती वाग्वृत्तिः । मनोव्यापाररूपा सात्त्विकी सात्त्वती । सदिति प्रख्यारूपं संवेदनं । तद्यत्रास्ति तत्सत्त्वं मनः । तस्येयमिति । `इयर्ति'(4) इत्यराभटाः सोत्साहा अनलसाः । तेषामियमारभटी (5)कायवृत्तिः । केशाः किञ्चिदप्यर्थक्रियाजातमकुर्वन्तो देहशोभोपयोगिनः । तद्वत्सौन्दर्योपयोगी व्यापारः कैशिकीवृत्तिरिति तावन्मुख्यः क्रमः । अन्यस्य तु यस्तद्व्यपदेशः स तत्प्रधानत्वादनेकरसप्रधानं पानकरीत्या कैशिकीत्यादि मधुरव्यपदेशवत् । एतच्च (6)प्राग्रे वितनिष्यामः ।

[(मू)]

1. ठ॰ पुण्डृaaक्षं पूर्णनासं च । अत्र `त॰'पुस्तके --

किरीटिनञ्च भाषञ्च तथा धन्विनमेव च ।

शिलापट्टं स्वर्णगुञ्जं शिलाशिनमथापि च ॥36॥

अग्निवेशं शिवञ्चैव ध्यानं जप्यं सुमङ्गलम् ।

जैशिषव्यं कुण्डिनञ्च तथा कलशमेव च ॥37॥

विद्धाक्षं घूर्णनासञ्चाप्यसितं सितमेव च । इत्यधिकं दृश्यते ।

2. प॰ असितासितमेव च ।

3. ख॰ साल ।

4. प॰ त्यामायनम् ।

5. ठ॰ पञ्चसखम् ।

6. ज॰ शिखिमेव च । ठ॰ शिखरमेव च ।

7. ज. खण्डम् । इदं पङ्क्तिद्वयं `त॰'पुस्तके नास्ति ।

[(व्या)]

1. भ॰ यथेति । तदीय ।

2. संभरणाय । भ॰ संहाराय ।

3. भ॰ र्धा च शुद्धम् ।

4. म॰ इयतीत्यार ।

5. म॰ काचन ।

6. म॰ भ॰ प्रागेव ।

[page 20]




[NZ]

विद्युतं शातजङ्घं च 1रौद्रं वीरमथापि च । BhNZ_01_039ab
पितामहाज्ञया ऽस्माभिर्लोकस्य च गुणेप्सया2 BhNZ_01_039cd
3प्रयोजितं पुत्रशतं 4यथाभूमिविभागशः । BhNZ_01_040ab
5यो यस्मिन्कर्मणि यथा 6योग्यस्तस्मिन्स योजितः ॥ BhNZ_01_040cd
भारतीं सात्त्वतीं चैव वृत्तिमारभटीं तथा । BhNZ_01_041ab
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ BhNZ_01_041cd
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । BhNZ_01_042ab
अथाह मां सुरगुरुः कैशिकीमपि योजय ॥ BhNZ_01_042cd
[ABh]

एवं यत्किञ्चिल्लालित्यं तत्सर्वं कैशिकीविजृम्भितम् । सा च तैः प्रयोक्तुमशक्येति तुशब्देनोक्तम् । तेन दशरूपं सर्वं वैचित्र्यशून्यं तान्प्रति योजितम् । अत एव तादृशे प्रयोगे ऽवज्ञां वै शब्देन द्योतयति । प्रयुक्त इति । तेषाम् अभ्यासभूमौ योजित इत्यर्थः । (41)
क्षममिति । प्रयोगसमर्थं सादरविचित्रं प्रयुङ्क्ते । अत एवाह -- द्रव्यम् । सुन्दरम् । यतः सौन्दर्यप्राणैव सा । एवमिति । बुद्धिकौशलं (1)मदीयं ज्ञातुं तेनाहमेतत्पृष्टः । चकारेण प्रत्युत्पन्नप्रतिभानत्वं दर्शयति । अनेन झटिति कविहृदयग्रहणयोग्यत्वं नाट्याचार्यगुण इति सूचयति । (42-43)
न चात्यन्तापरिदृष्टे वस्तुनि उपकरणमुन्नेतुं शक्यम् । ब्रह्मणा तूपदेशसमये वचनमात्रेणोक्तमेतन्मध्ये हृदयहारि वैचित्र्यं योजनीयमिति । अनेनाभिप्रायेण कैशिकीसाक्षात्करणं वर्णयति नृत्ताङ्गहारेत्यादिना युगलकेन । नर्तनं नृत्तम् । गात्राणामङ्गोपाङ्गानां विलासेन क्षेपः । न तु केनचित्कर्तव्यांशेन । लोको ऽप्येवंविधे विषये एवमेवाह -- `नृत्यतीव गच्छति' इत्यादि । तत्र ये ऽङ्गहारा अङ्गानां हरणानीति अत्रुटितरूपतया समुचितस्थान(2)प्राप्तिः । तैः सम्पन्ना । (3)शङ्करस्यैव परिपूर्णानन्दनिर्भरीभूतदे(4)होच्चलदान्तरनिर्वारसुन्दराकारस्य अत एव नृत्यतः इतिकर्तव्यान्तरवैकल्यादानन्दनृत्तमात्रस्थितस्य । प्रयोज्यत्वेन मया दृष्टा ।

[(मू)]

1. प॰ म॰ रौद्रवीर ।

2. अयं श्लोकः `त॰'पुस्तके नास्ति ।

3. न॰ एवमादि शतं पूर्णं समग्रं भूमिभागशः । ड॰ त॰ एवमाद्यं पुत्रशतं समग्रं भूमिभागशः ।

4. ख॰ साग्रं भूमिभागशः ।

5. त॰ यस्मिन् कर्मणि यो योग्यस्तस्मिन् स विनियोजितः ।

6. न॰ योग्यो ऽसौ तत्र योजितः ।

[(व्या)]

1. म॰ भ॰ तदीय ।

2. म॰ भ॰ प्राप्तास्तैः । प्राप्तस्तैः ।

3. भ॰ म॰ शङ्करस्येव ।

4. देहाच्चल ।

[page 21]




[NZ]

यच्च तस्याः क्षमं द्रव्यं तद्ब्रूहि द्विजसत्तम । BhNZ_01_043ab
एवं तेना1स्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ BhNZ_01_043cd
2दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । BhNZ_01_044ab
3नृत्ताङ्गहारसम्पन्ना4 5रसभावक्रियात्मिका ॥ BhNZ_01_044cd
6दृष्टा मया भगवतो 7नीलकण्ठस्य नृट्यतः । BhNZ_01_045ab
कैशिकी श्लक्ष्णनैपथ्या8 शृङ्गाररससम्भवा ॥ BhNZ_01_045cd
9अशक्या पुरुषैः 10सा तु प्रयोक्तुं 11स्त्रीजनादृते । BhNZ_01_046ab
ततो ऽसृजन्महातेजा मनसाप्सरो विभुः ॥ BhNZ_01_046cd
[ABh]

ननु सा नाट्योपयोगिनी कथम् । आह । सैव यदि श्लक्ष्णेन श्लिष्यतोचितेन नेपथ्येन सहिता भवति । यद्वक्ष्यति -- ``शृङ्गार उज्ज्वलवेषात्मक''(ना॰ शा॰ 6-50) इति तन्नाट्योक्तशृङ्गाररसः सम्भवति । नान्यथा । नेपथ्यग्रहणं सुकुमारस्याङ्गिकादेरप्युपलक्षणम् । तेन शृङ्गाराभिव्यक्तिहेतौ सुकुमारे चतुर्विधे ऽप्यभिनये योजिते मधुरमन्थरवलनावर्तनाभ्रूक्षेपकटाक्षादिना विना शृङ्गारसास्वादस्य नामपि न भवति ।
किमत्रैव सोपयोगेत्याह -- रसभावक्रियात्मिकेति । रसानां भावो भावना कविनटसामाजिकहृदयव्याप्तिः । तस्या या क्रिया इतिकर्तव्यता सैवात्मा स्वभावो यस्याः । एतदुक्तं भवति -- रौद्रादिरसाभिव्यक्तावपि कर्तव्यायां यो ऽभिनय उपादीयते सो ऽप्यनुप्रासवलनावर्तनाद्यात्मकसुन्दरवैचित्र्यस्यामिश्रणया दुःश्लिष्टो ऽश्लिष्ट एव वा न रसाभिव्यक्तिहेतुर्भवतीति सर्वत्रैव कैशिकी प्राणाः । यद्वक्ष्यति -- ``अस्य शाखा च नृत्तं च वस्तून्यभिनयस्य''(ना॰ शा॰ 8-15) इति । अयं भावः -- यावन्निजहृदयरसविलसद्विकस्वरनिर्वारचमत्कारपवित्रिता न जाता भगवत इव, तावच्छिक्षाशतैरपि वैचित्र्यमनाहार्यम् । मुनीनां च निसर्गविषयविमुखचित्तवृत्तीनां को निर्वृतिचमत्कारः । यो ऽपि वा ससमाधिजः सो ऽपि देहपर्यन्ततां न भजति । प्रत्युत ततः(1) पलायमानाः(नः) । अतः स्त्रीणां तादृगस्ति वैचित्र्यम् । तत्सम्पर्कसम्भव(2)दार्द्रभावास्तु कदाचिच्छक्नुयुरपि ।

[(मू)]

1. प॰ म॰ तेनान्व ।

2. न॰ क्रियताम् ।

3. ठ॰ म॰ त॰ मृद्वङ्ग ।

4. ज॰ म॰ संयुक्ता ।

5. ख॰ ललिताभिनयात्मिका ।

6. ज॰ दृष्टो मया ।

7. न॰ नीलवर्णस्य । प॰ त॰ नृत्यतः शङ्करस्य तु ।

8. न॰ नैपथ्य ।

9. ड॰ त॰ न शक्या ।

10. न॰ म॰ साधु ।

11. ठ॰ म॰ स्त्रीजनैर्विना ।

[(व्या)]

1. ततश्चप ।

2. भ॰ म॰ भवादार्द्र ।

[page 22]




[NZ]

नाट्यालङ्कारचतुराः1 प्रादान् मह्यं प्रयोगतः2 BhNZ_01_047ab
3मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम्4 BhNZ_01_047cd
5सौदामिनीं देवदत्तां देवसेनां मनोरमाम्6 BhNZ_01_048ab
7सुदतीं सुन्दरीं चैव विदग्धां 8विपुलां तथा ॥ BhNZ_01_048cd
[ABh]

ये त्वाहुः -- `न भगवतः कैशिकीप्रयोगसामर्थ्यम् । तेन दृष्टमयेति पाठे उमया सह भगवतो नृत्यतो भगवन्तमप्यनादृत्य भगवत्या प्रयुज्यमाना मया दृष्टा' इति -- त उक्तनीत्या पराकृताः । तथा --
विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः ।
बबन्ध यः शिखापाशं कैशिकी तत्र निर्मिता ॥(ना॰ शा॰ 20-13)
इति भगवतो विष्णोः कैशिकीनिर्माणमनुचितं स्यादित्यलं बहुना । जनशब्देन रागिताशङ्कां परिहरति । ततो ऽसृजदिति । मनसेति । यथारुचि विनिर्मिता इत्यर्थः । (44-46)
नाट्यस्य यो ऽलङ्कारो वैचित्र्यहेतुः कैशिकी । तत्र चतुराः । अन्ये तु नाट्यालङ्काराः सामान्याभिनये(अ-22) वक्ष्यमाणाः स्वभावजा `लीला विलास' इत्याद्या दश `शोभाकान्तिः' इत्याद्याश्च सप्त(प्ता)यत्नजा इति । अनेन मुनिकन्यानामत्रायोग्यत्वं तावदुक्तम् । तासां नामग्रहणे पूर्ववत्प्रयोजनं निरूप्यम् । मे ददाविति । नाट्याचार्यपरवशत्वमुपकरणसम्भारस्य दर्शयति -- ददाविति(1) । ताश्च मया यथोचितं शिक्षादानेन प्रतिगृहीता इति सूचयन् कैशिकीमप्यहं योजितवानिति दर्शयति । एवं वृत्तिचतुष्टयसम्पूर्णं नाट्यं गुणनिका(2)यामभ्यस्तमिति प्रदर्श्य गीतातोद्याभ्यामुपरञ्जकाभ्यां योगं दर्शयति -- स्वातिरित्यादि । येन जलधरसमयनिपतत्सलिलधारावैचित्र्याभिहन्यमानपुष्करदलविलसितरचितविचित्रवर्णानुहरणयोजनया (3)यथास्वं वृत्तिनियमेन पुष्करवाद्यनिर्माणं कृतमित्यर्थः । सह शिष्यैरिति । त्रिपुष्करस्य वाद्यस्यापूरकपणवमृदङ्गझल्लर्याद्युपयोगेन पक्षातोद्यपरिग्रह उक्तः । भाण्डस्यात्र पूर्वमुपादानं वृत्ति(त्ते)र्येन तस्यैव परिक्रमणादौ सति सोपयोगात् । कैशिकी चात्र

[(मू)]

1. प॰ कुशलाः ।

2. न॰ म॰ त॰ क्षणात्सुरवरस्तदा । प॰ प्रयोगज्ञो गुरुस्तदा ।

3. म॰ त॰ इदमर्धं `मागधीमर्जुनीम्' इत्यतः परं दृश्यते ।

4. त॰ पादचूलां तथैव च ।

5. ज॰ सौदामनीम् ।

6. न॰ त॰ म॰ तथैव च । ख॰ मनोवतीम् ।

7. न॰ त॰ म॰ सुरभिम् ।

8. ड॰ म॰ त॰ विबुधाम् ।

[(व्या)]

1. म॰ कदाचित्त्विति ।

2. भ॰ कायम । म॰ काकायाम् ।

3. म॰ स्वयं वृत्तिनि ।

[page 23]




[NZ]

1सुमालां 2सन्ततिं चैव सुनन्दां सुमुखीं 3तथा । BhNZ_01_049ab
मागधीम् अर्जुनीं चैव सरलां केरलां धृतिम्4 BhNZ_01_049cd
नन्दां सपुष्कलां चैव कलमां5 चैव मे ददौ । BhNZ_01_050ab
6स्वातिर् भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ BhNZ_01_050cd
नारदाद्याश् च गन्धर्वा गानयोगे नियोजिताः । BhNZ_01_051ab
एवं नाट्यमिदं सम्यग्बुध्वा7 सर्वैः सुतैः सह ॥ BhNZ_01_051cd
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । BhNZ_01_052ab
उपस्थितो ऽहं 8ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥ BhNZ_01_052cd
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । BhNZ_01_053ab
एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ BhNZ_01_053cd
[ABh]

मध्ये नियोजितेत्युक्तम् । न (तेन) तत्प्रधानमेतत् । गानयोग इति । गानशब्देन ततसुषिरपरिग्रहः । गानशब्देन गान्धर्वस्यात्रानुपयोगमाह । नियुक्तो नियोजित इत्यनेन वादकगायकादीनां नाट्याचार्यायत्ततां दर्शयति । (1)नृत्तगीतातोद्याभिनयानां साम्यसिद्ध्यर्थमेकाकीभावेन सम्मेलनं प्रकृत्य प्रयोगः कार्य इति दर्शयति श्लोकद्वयेन -- एवं नाट्यमित्यादिना । एवं (2)मेलनिकायां `नाट्यमिदम्' इत्येकबुद्धिग्राह्यं सम्म्लितं सम्यक्सम्पन्नमिति बुद्ध्वा ज्ञात्वा । पुत्रैः (3)स्वातिनारदाभ्यां च सह ब्रह्माणमुपस्थितः उपनिमन्त्रणार्थं ब्रह्मणो ऽग्रे स्थित इत्यर्थः । (47-52)
उपनिमन्त्रणं दर्शयति -- नाट्यस्येति । ग्रहणमिति । गृहीतं शिक्षितं तावन्नाट्यमित्यर्थः । ग्रहणं (4)तदवलोकनं तत्प्राप्तं प्रेक्षणयोग्यं जातमित्यर्थः । एतत्त्विति । तुशब्द एवकारार्थे । श्रुत्वैव । अत एव प्रत्युपस्थितः अयत्नादेवाभिमुख्येनोपस्थितो दैवसङ्घटित इत्यर्थः । ध्वजस्येन्द्रार्थस्य महनं पूजनं यत्र स ध्वजमहः । ध्वजमहस्य विशेषणद्वारेण सम्भवं दर्शयति निहतासुरदानव इत्यादिना ।

[(मू)]

1. ड॰ सुमनाम् ।

2. ड॰ लासिनीम् ।

3. न॰ म॰ रतिम् । इदमर्धं `त॰'पुस्तके नास्ति ।

4. म॰ सतीम् । त॰ केकरां तथा ।

5. म॰ कलभाञ्चैव निर्ममे । न॰ त॰ म॰ कपिलां सुमनां तथा ।

6. न॰ त॰ सुनन्दां सुमुखीञ्चैव काहल्याद्याश्च मे ददौ । इत्यर्धमधिकं दृश्यते ।

7. न॰ म॰ बुद्ध्वा सम्यक्छिष्यगणैः सह ।

8. न॰ त॰ म॰ लोकेशम् । प्रयोगार्थी ।

[(व्या)]

1. अथ गीता ।

2. मेलनिकया ।

3. म॰ स्वात्याद्याभ्याम् । चावलोकनम् ।

[page 24]




[NZ]

महानयं 1प्रयोगस्य समयः 2प्रत्युपस्थितः । BhNZ_01_054ab
अयं ध्वजमहः श्रीमान् 3महेन्द्रस्य प्रवर्तते ॥ BhNZ_01_054cd
4अत्रेदानीमयं वेदो नाट्यसंज्ञः 5प्रयुज्यताम् । BhNZ_01_055ab
6ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ BhNZ_01_055cd
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । BhNZ_01_056ab
7पूर्वं कृता मया नान्दी ह्याशीर्वचनसंयुता ॥ BhNZ_01_056cd
[ABh]

तत्र प्रयोगे क्रमं दर्शयति -- ``पूर्वं कृता मया नान्दीति । नान्द्याख्यं मुख्यं मङ्गलं सकलपूर्वरङ्गाङ्गोपलक्षणमिति केचित् । पूर्वरङ्गाङ्गानां मध्यान्नान्दी केवलापि प्रयोज्येत्येवंपरमेतदित्यन्ये । अस्मदुपाध्यायास्तु -- यावद्दैत्यैस्तत्र विघ्नाद्याचरणं न कृतं तावत्पूर्वरङ्गस्य विधिपूर्वकस्य कोऽवकाशः । स हि विघ्नरक्षाकरणेन मण्डपभागनिवेशितदेवतापरितोषहेतुः प्राधान्येन । नान्तरीयकतया च दैत्यपरितोषकारणम् । विघ्नास्तु यदा जातास्ततःप्रभृति पूर्वरङ्गः । तथा चतुर्थे ऽध्याये वक्ष्यते -- (ना॰ शा॰ 4-10)पूर्वरङ्गे कृते मया भगवते शिवभट्टारकाय दर्शित इति -- यथा तथा तु यः कुतपविन्यासा(1)दि न(दिः स न) पूर्वरङ्गशब्दवाच्यः । तस्मादिह नान्दीमात्रस्य प्रयोगः । किमर्थासावित्याह -- वेदनिर्मिता । `तत्राशिषमाशास्ते' इति हि श्रुतिः सर्वकर्मस्वाशीःपूर्वकत्वमाह । यत्ततो नान्दीप्रयोगः । न तु पूर्वरङ्गाङ्गत्वेन । (53-56)
अष्टौ यान्यङ्गभूतानि पदानि वाक्यं प्रति महावाक्यं वा । तानि सुप्तिङन्तान्यवान्तरवाक्यानि वेत्युभयथा । अत एव विचित्रेत्युक्तम् । तेन --
जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु ।
अवतु च पृथिवीं समृद्धसस्यां प्रतिपच्चन्द्रवपुर्नरेन्द्रचन्द्रः ॥(रत्ना॰ 1-4)
इत्येषापि भारतीयत्वेन प्रसिद्धा कोहलप्रदर्शिता नान्द्युपपन्ना भवति । अत्र तु पक्षे --
नान्दीपदान्तरेष्वेषु ह्येवमस्त्विति नित्यशः ।
(2)वन्देतां सम्यगु(3)क्ताभिर्वाग्भिस्तौ (4)पारिपार्श्विकौ ॥(ना॰ शा॰ 5-114)
इति श्लोके ऽन्तरशब्दो ऽवान्तरवाक्यविच्छेदवाची द्रष्टव्यः ।

[(मू)]

1. प॰ प्रयोगश्च स मया समुप ।

2. म॰ त॰ ब॰ समुप ।

3. न॰ शचीभर्तुः ।

4. ढ॰ पुत्रे ।

5. ड॰ म॰ प्रयोज्य ।

6. न॰ भ॰ ततश्शक्रध्व ।

7. ग॰ ब॰ नान्दी कृता मया पूर्वमाशीर्वचन । त॰ पूर्वं कृत्वा ।

[(व्या)]

1. भ॰ त्रयं कुतपविन्यासादि ननु पूर्वरङ्गशब्दस्य । भ॰ श्रयं कुतपविन्यासं दिनं न पूर्वरङ्गशब्दस्य ।

2. भ॰ म॰ देवताम् ।

3. म॰ गुप्ता ।

4. पारिपार्श्वकौ ।

[page 25]




[NZ]

अष्टाङ्गपदसंयुक्ता विचित्रा 1वेदनिर्मिता । BhNZ_01_057ab
2तदन्ते ऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ BhNZ_01_057cd
सम्फेटविद्रवकृता च्छेद्य3भेद्याहवात्मिका । BhNZ_01_058ab
ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ BhNZ_01_058cd
4प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि 5वै । BhNZ_01_059ab
प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं6 ध्वजं शुभम् ॥ BhNZ_01_059cd
[ABh]

विवेचकास्त्वाहुः -- अङ्गग्रहणादत्रावान्तरवाक्यान्ये(1)व तावदुपात्तानि । तत्र चाष्टद्वादशसङ्ख्या चतुरस्रत्र्यश्रकालानुसारिपूर्वरङ्गद्वयाभिप्रायेण । तत्र
नान्दीं पदैर्द्वादशभिरष्टभिर्वाप्यलङ्कृताम् ॥(ना॰ शा॰ 5-109)
इत्यत्रापिशब्दाच्चतुष्पदत्वं षोडशपदत्वं चतुरश्रगतं लभ्यते । त्र्यश्रगतं च त्रिपदत्वं षट्पदत्वं चेत्येवमल्पमपि तद्भेदेन तिस्रस्तिस्रो नान्द्यः । ततः परमपि(2) भूयस्त्वात् । तेन जितमुडुपतिनेति चतुष्पदेयम् । षोडशपदा तु ``जयति भुवनकारणम्'' इत्यादि । तदन्त इति । नान्द्यन्ते परिसमाप्तौ । अनुकृतिरिति नाट्यम् । तत्र च बद्धेति गुणनिका योजिता । न तु प्रयोग इत्येतच्चासत् । तत्पूर्वोत्तरव्याघातात् । पूर्वं ह्युक्तम् -- एवं नाट्यमिदमित्यादि नान्दी कृतेत्यन्तम् । वक्ष्यते च -- ब्रह्मादयः प्रयोगपरितोषिता इति । तस्माद्बद्धेति प्रस्ताविता । न तु निष्पादिता । प्रस्तावना तावत्प्रयुक्तेत्यर्थः ।
अन्ये त्वनुकृतिरिति नाट्यानुकाररूपा प्रस्तावनेत्याहुः । `कृता तदन्ते ऽनुकृतिः' इति च पठन्ति । एतदुपजीवनेनैव चिरन्तनाः कवयः ``नान्द्यन्ते सूत्रधारः'' इति पुस्तके लिखन्ति स्म । किं प्रस्तावितमित्याह -- यथा दैत्या इति । डिमसमवकारेहामृगादीनामन्यतमः प्रयोगः प्रास्तावीत्यर्थः । यद्यपि भरतपुत्रैर्दशरूपकमभ्यस्तं तथापि न युगपत्सर्वः प्रयोक्तुं पार्यत इत्येवमुक्तम् । तेन यत्केचिदचूचुदन् -- समवकारे कः कैशिकीयोजनावसर इति पूर्वग्रन्थो ऽसङ्गत इति तन्निरवकाशमेव । समवकारादावपि सौन्दर्यात्मकं वैचित्र्यं कैशिकीवृजृम्भ एवेत्युक्तम् । (57)

[(मू)]

1. ड॰ म॰ देवसम्मता । प॰ देवसंमिता । फ॰ वेदसंमिता । द॰ देवनिर्मिता । म॰ देवतास्तुतिसम्मता । त॰ देवतास्तुतिसंश्रया ।

2. प॰ ब॰ कृता तदन्ते ऽनुकृतिः । न॰ तदन्ते तु कृतिर्बुद्धा ।

3. ब॰ भेद्यावहा । ड॰ वेदाहवा । घ॰ भेद्यारवात्मिका ।

4. घ॰ ब॰ त॰ प्रददुर्ह्रष्टमनसः । ठ॰ म॰ प्रययुः प्रददुर्हृष्टा ।

5. ड॰ ब॰ त॰ म॰ नः ।

6. न॰ ब॰ त॰ ध्वजमुत्तमम् ।

[(व्या)]

1. तावतो ।

2. म॰ भ॰ रमभि ।

[page 26]




[NZ]

ब्रह्मा 1कुटिलकं चैव भृङ्गारं वरुणः शुभम्2 BhNZ_01_060ab
3सूर्यश्छत्रं 4शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ BhNZ_01_060cd
विष्णुः सिंहासनं चैव कुबेरो मकुटं तथा । BhNZ_01_061ab
5श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ BhNZ_01_061cd
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । BhNZ_01_062ab
तस्मिन्सद6स्यभिप्रेतान्नानाजातिगुणाश्रयान्7 BhNZ_01_062cd
अंशांशैर्भाषितं8 भावान् रसन् रूपं बलं9 तथा । BhNZ_01_063ab
10दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ BhNZ_01_063cd
[ABh]

रोषग्रथितवाक्यस्तु सम्फेटः । शङ्काभयत्रासकृतो विद्रवः । छेदमर्हतीति च्छेद्यं शस्त्राहवः । भेदमर्हतीति भेद्यं मल्लयुद्धात्मकनियुद्धम् । तत इति । प्रभुपरितोषाय प्रभुचरितं कदाचिन्नाट्ये वर्णनीयमिति यथा दैत्याः सुरैर्जिता इत्येतस्माल्लभ्यत इति केचिदाहुः । तदसत् । दशरूपकलक्षणयुक्तिविरोधात् । तत्र हि किञ्चित्प्रसिद्धचरितं किञ्चिदुत्पाद्यचरितमिति वक्ष्यते । न च वर्तमानचरितानुकारो युक्तः । विनेयानां तत्र रागद्वेषमध्यस्थतादिना तन्मयीभावाभावे प्रीतेरभावेन व्युत्पत्तेरप्यभावात् । वर्तमानचरिते च धर्मादिकर्मफलसम्बन्धस्य प्रत्यक्षत्वे प्रयोगवैयर्थ्यम् । प्र(अप्र)त्यक्षत्वे `भविष्यति प्रमाणाभावात्' इति न्यायेन व्युत्पत्तेः सम्भवान्नायिका(सम्भावना का) । (?)एतच्च दशरूपकाध्याये वितनिष्याम इत्यास्तां तावत् ।
देवानां (1)त्वद्य प्रसिद्धवर्णनीयासम्भवात्पूर्वकल्पमन्वन्तरादिगतदेवासुरचरितकीर्तनम् । अनादित्वात्संसारस्य श्रुतिस्मृत्यनुमतदेवासुरकीर्तनवदिति । तत्र वर्तनो(2)(वर्तमानो)पवर्णनं तज्जातीयानाम् । अथ(3) चरित्रभ्रमविप्रलब्धास्त्वसुराश्चुक्षुभुरिति वक्ष्यामः । न च स्वचरितवर्णनाद्देवानां परतोष इह । यत आह -- प्रयोगपरितोषिता इति । ध्वजमिति । यस्य विघ्नशान्त्यै पूजार्थमुपयोगो भावी । (58-59)
कुटिलकमिति । वक्रदण्डको विदूषकोपयोगी । ब्रह्मायुधात्मा दण्डः । अपकामत्वेन

[(मू)]

1. ड॰ म॰ कमण्डलुम् ।

2. ड॰ ब॰ त॰ म॰ तथा ।

3. म॰ सूर्यश्शस्त्रम् ।

4. त॰ शिवो ज्ञानम् । म॰ ब॰ शिवा सिद्धिम् ।

5. म॰ त॰ एतयोरिदमर्धं पट्यते ।

6. घ॰ ब॰ स्यतिप्रीता ।

7. घ॰ ब॰ श्रयाः ।

8. न॰ म॰ त॰ र्भाषितान् ।

9. ड॰ बलिं क्रियाम् । न॰ भावान् रूपमङ्गं क्रियां बलम् । प॰ क्रियाबलम् । म. त॰ बलं क्रियाम् ।

10. न॰ ब॰ ठ॰ प्रददुर्मत्सुतेभ्यस्तु चित्रं चाभरणं बहु । चित्रमाभरणं बहु ।

[(व्या)]

1. भ॰ चाद्य प्र ।

2. भ॰ वर्णनोप ।

3. तज्जातीयकत्वादसुराश्चुक्षुभिरे । (अ॰ संग्र)

[page 27]




[NZ]

एवं प्रयोगे प्रारब्धे 1दैत्यदानवनाशने । BhNZ_01_064ab
2अभवन्क्षुभिताः सर्वे दैत्या ये तत्र 3सङ्गताः ॥ BhNZ_01_064cd
विरूपाक्ष4पुरोगांश्च विघ्नान्प्रो5त्सह्य ते ऽब्रुवन् । BhNZ_01_065ab
6क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥ BhNZ_01_065cd
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । BhNZ_01_066ab
वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥ BhNZ_01_066cd
7तथा विध्वंसनं दृष्ट्वा 8सूत्रधारस्य देवराट् । BhNZ_01_067ab
कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ BhNZ_01_067cd
[ABh]

भीषणत्वावात्यादपीत्यर्थः (?) । भृङ्गारः पारिपार्श्विकोपयोगी । छत्रमत्र वितानः । जलदानां सूर्योद्भवत्वात् तत्प्रतिमः । यदाहुः -- ऋतवे वर्षान्ते महतो मेघसम्प्रवानिति । भगवदायत्ता दैवी मानुषी च सिद्धिरिति मध्ये तदुपादानं सर्वव्यापकत्वं दैव्याः सिद्धेः प्रतिपादयितुम् । व्यजनं घर्मापनुत्तरे । सिंहासनादि राजभूमिकायामुपयोगि । यक्षादयो ये तत्त्वज्ञा नाट्यस्य । भाषितमिति । तत्तद्भूमिकोपयोगिवाचके शिक्षा । भावानिति । विभावादिषु । तथा हि रक्तमांसादीनि भयजुगुप्साविभावरूपाणि यक्षरक्षसां हर्षोत्साहविभावताम् यान्तीति तदुपदेशादेव तज्ज्ञेयम् । रसानिति । स्वोचितस्थायिभावसम्बध्यमानतत्तद्रसोपयोगिनो ऽनुभावव्यभिचारिवर्गस्य शिक्षा दर्शिता । रूपमिति मुखरागस्य । बलमित्याङ्गिकस्य । प्रतिभूमिकं परितुष्टेन । अन्ततो ऽत्र शिष्टा(क्षा)पि काचिद्देया । सामाजिकेभ्यश्च धनविज्ञानमित्याहरणीयातोद्या(द्याद्या)जिहीर्षता च परिषत्परितोषाय यतितव्यमित्येतदनेन दर्शितम् । (60-63)
अथ विघ्नोपशमनाय जर्जरपूजा कार्येति दर्शयितुमितिहासेनोपक्रमते -- एवं प्रयोग इति । दैत्यानां विनाशनं यत्र प्रयोज्यतया । आगम्यतामिति । अवधार्यतां यदि वा सम्भूयास्यताम् । मायाम् इति अदृश्यत्वमित्यर्थः । चेष्टेत्याङ्गिकी । यद्यपि स्मृतिस्तम्भनेन सर्वं स्तम्भितं भवति तथापि तत्तदभिनेयप्राधान्येन तदेव स्तम्भितमित्युक्तम् । सूत्रधारस्येति । सपरिवारस्येति । प्रस्तावनाप्रयोगमध्य एवायं विघ्न इति यावत् । ध्यानमिति । यत्र माया न प्रभवति । (64-67)

[(मू)]

1. न॰ दैत्यमानविवाशने । प॰ दैत्यादीनां विनाशनम् ।

2. ठ॰ अथासुराश्च क्षुभिता ये तत्रासन् समागताः । म॰ अथासुराश्चाभितोष्याः ।

3. न॰ म॰ दर्पिताः ।

4. ज॰ त॰ पुरोगाश्च ।

5. ब॰ नुत्साह्य ते ऽब्रुवन् । न॰ म॰ विघ्नानुत्साहयन्ति ते ।

6. ड॰ नेत्थमीक्षामहे । न॰ नेत्थमिच्छामहे ।

7. क॰ ब॰ त॰ एवम् ।

8. ठ॰ म॰ ततस्तेषां स ।

[(व्या)]

[page 28]




[NZ]

अथापश्यत्सदो विघ्नैः समन्तात्परिवारितम् । BhNZ_01_068ab
1सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ BhNZ_01_068cd
2उत्थाय त्वरितं शक्रः 3गृहीत्वा ध्वजमुत्तमम् । BhNZ_01_069ab
सर्वरत्नोज्ज्वल4तनुः किञ्चिदुद्वृत्त5लोचनः ॥ BhNZ_01_069cd
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । BhNZ_01_070ab
जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥ BhNZ_01_070cd
निहतेषु च सर्वेषु विघ्नेषु6 सह दानवैः । BhNZ_01_071ab
7सम्प्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥ BhNZ_01_071cd
अहो प्रहरणं दिव्यमिदमासादितं त्वया । BhNZ_01_072ab
8जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥ BhNZ_01_072cd
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । BhNZ_01_073ab
तस्माज्जर्जर 9एवेति 10नामतो ऽयं भविष्यति ॥ BhNZ_01_073cd
शेषा ये चैव 11हिंसार्थ12मुपयास्यन्ति हिंसकाः । BhNZ_01_074ab
13दृष्ट्वैव जर्जरं ते ऽपि गमिष्यन्त्येवमेव तु ॥ BhNZ_01_074cd
14एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । BhNZ_01_075ab
15रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥ BhNZ_01_075cd
[ABh]

सद इति यत्र प्रयोगः क्रियते सीदत्यस्मिन्निति । जीर्यत्यतिशयेनेति पचाद्यचि यङ्लुकि रूपम् । अतिशयेन जीर्णीकृतो देहो येषान्ते तथा । जर्जरेणेति यङ्लुगन्ताण्णिचि पुनः पचाद्यचि रूपम् । एवं राज्ञा सिद्धिविघातका दण्ड्या इति दर्शितम् ।

[(मू)]

1. ठ॰ तदेतरैः । ड॰ तथेतरैः । त॰ सहेतरं सूत्रधारं नष्टस्संज्ञं जलीकृतम् ।

2. ग॰ त॰ ब॰ अथोत्थाय द्रुतं क्रोधाद्दिव्यं जग्राह तं ध्वजम् ।

3. ठ॰ क्रोधाज्जग्राह तं ध्वजम् । त॰ दिव्यं जग्राह स ध्वजम् ।

4. ठ॰ म॰ ज्वलं तं तु । ड॰ ज्ज्वलतनुम् ।

5. ठ॰ म॰ कोपादुद्वृत्त । त॰ शक्रः प्रोद्वृत्तलोचनः ।

6. न॰ गतेषु तेषु विघ्नेषु सर्वेषु ।

7. न॰ म॰ प्रणम्यैनं तदा वाक्यमिदमूचुः । त॰ सम्प्रहस्य । ब॰ सम्प्रसह्य ।

8. ठ॰ म॰ नाट्यविध्वंसिनः सर्वे येनैते जर्जरीकृताः । न॰ जर्जरीकृतदेहास्तु दानवा येन ते कृताः ।

9. ड॰ इत्येष ।

10. न॰ ख्यातिं लोके गमिष्यति ।

11. न॰ ब॰ त॰ विघ्नार्थम् ।

12. ग॰ त॰ ब॰ मुपस्थास्यन्ति विघ्नकाः । न॰ विघ्नताम् ।

13. न॰ दृष्ट्वैनम् ।

14. न॰ एवं भविष्यतीत्येव ।

15. न॰ रक्षाभूतः स दैवस्य ।

[(व्या)]

[page 29]




[NZ]

प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः1 BhNZ_01_076ab
2त्रासं सञ्जनयन्ति स्म विघ्नाः 3शेषास्तु नृत्यताम् ॥ BhNZ_01_076cd
दृष्ट्वा तेषां व्यवसितं 4दैत्यानां 5विप्रकारजम् । BhNZ_01_077ab
उपस्थितो ऽहं ब्रह्माणं 6सुतैः सर्वैः समन्वितः ॥ BhNZ_01_077cd
7निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । BhNZ_01_078ab
8अस्य रक्षाविधिं सम्यग्ज्ञापय 9सुरेश्वर ॥ BhNZ_01_078cd
10ततश्च विश्वकर्माणं 11ब्रह्मोवाच प्रयत्नतः । BhNZ_01_079ab
कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥ BhNZ_01_079cd
ततो ऽचिरेण कालेन विश्वकर्मा महच्छुभम् । BhNZ_01_080ab
सर्वलक्षणसम्पन्नं 12कृत्वा नाट्यगृहं तु सः ॥ BhNZ_01_080cd
13प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलिः । BhNZ_01_081ab
सज्जं नाट्यगृहं देव तदवेक्षितुम् अर्हसि ॥ BhNZ_01_081cd
ततः सह महेन्द्रेण सुरैः सर्वैश्च 14सेतरैः । BhNZ_01_082ab
15आगतस् त्वरितो द्रष्टुं द्रुहिणो नाट्यमण्डपम् ॥ BhNZ_01_082cd
[ABh]

यदि वा मूलत एव तत्परिरक्षायै मण्डपः कार्यः । ये च दण्डस्याविषया वातातपवर्षादयश्च तत्कृतो हि सिद्धिविघातो मण्डपे सति न भवति । एतेनैवाभिप्रायेण पुराकल्पमाह -- प्रयोग इत्यादि । शेषा इति । जर्जरीकृतशरीरशेषा अपीत्यर्थः । यद्वक्ष्यति -- `निश्चिता भगवन्विघ्ना' इति । तथास्मिन् जर्जरीकरणकाले एते चासन्निहिता अभूवन् । त्रासमिति । सर्वथा तु न शक्ता नाशयितुमिति जर्जरप्रभावः । `गमिष्यन्त्येवमेव' इति य उक्तः सो ऽज्ञः (ये वक्त्रारः ते ऽज्ञाः) (?) । ततो विश्वकर्मेति । वास्तुविद्यातत्त्वविदो नाट्यमण्डपे स्थपतित्वं सूचयति । द्रहिण इति ब्रह्मा । इतरे विद्याधरगन्धर्वाद्याः ।

[(मू)]

1. न॰ तदा । ब॰ पुरा । म॰ इदमर्धं नास्ति ।

2. न॰ भूयः सन्त्रासयन्ति स्म ।

3. न॰ निश्चितमानसाः । ड॰ म॰ मद्वधबुद्धयः ।

4. म॰ तस्तदर्थे ।

5. ग॰ ब॰ विघ्नकारकम् ।

6. न॰ सुरैः ।

7. ग॰ ब॰ निःसृता ।

8. घ॰ ब॰ त॰ अतो ।

9. न॰ पितामह ।

10. ठ॰ म॰ ततः स । त॰ ब॰ ततस्तु ।

11. न॰ त॰ ब॰ आह ब्रह्मा । न॰ ब्रह्मावोचत् ।

12. ग॰ नाट्यवेश्म चकार सः ।

13. ठ॰ म॰ कृत्वा यथोक्तमेवं तु गृहं पद्मोद्भवाज्ञया । इत्यधिकं दृश्यते । न॰ ततो ऽब्रवीद्विश्वकर्मा ब्रह्माणं प्रयताञ्जलिः ।

14. ठ॰ सत्तमैः । न॰ त॰ सर्वैः सहेतरैः ।

15. ठ॰ म॰ त॰ ब॰ अगच्छत् ।

[(व्या)]

[page 30]




[NZ]

दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । BhNZ_01_083ab
अंशभागैर्भवद्भिस्तु रक्ष्यो ऽयं नाट्यमण्डपः ॥ BhNZ_01_083cd
रक्षणे 1मण्डपस्याथ 2विनियुक्तस्तु चन्द्रमाः । BhNZ_01_084ab
3लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥ BhNZ_01_084cd
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणो ऽम्बरे । BhNZ_01_085ab
4वेदिकारक्षणे वह्नि5र् भाण्डे सर्वदिवौकसः ॥ BhNZ_01_085cd
वर्णाश्चत्वार 6एवाथ स्तम्भेषु विनियोजिताः । BhNZ_01_086ab
आदित्याश्चैव रुद्राश्च 7स्थिताः स्तम्भान्तरेष्वथ ॥ BhNZ_01_086cd
8धारणीष्वथ भूतानि शालास्वप्सरसस्तथा । BhNZ_01_087ab
9सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ BhNZ_01_087cd
[ABh]

अंशैर्यानि (1)भजनान्यधिष्ठानानि तैः । मण्डपस्यांशेषु वः भवतां ये तृतीयचतुर्थादयो भागास्तैः । (68-83)
अंशविभागमेवाह -- रक्षण इति । अनेन चैतत्तुल्या एव मण्डपभागरक्षा(2) काचिन्नियोज्या इति दर्श्यते । मण्दपस्य सर्वस्याधिष्ठाता हि सौम्यप्रकृतिः सोमः प्रधानो योज्य इति दर्शयति -- चन्द्रमा इति । अपि चेति । विदिक्ष्विति । न केवलं पश्चिमोत्तररूपे स्वकोणे यावदन्यास्वपि विदिक्षु । चकाराद्दिक्ष्वपि । ते हि घर्मदोषवारकत्वादत्यन्तोपकारिणः । अनेन गवाक्षकरणं सूच्यत इत्येके । आदित्ये मित्रशब्दः पुंल्लिङ्ग इति । तेन यद्यार्तिककारी(रीयं) `तदुपलक्षितो नर्तकी हि(भिः)लज्जापरिहारहेतोः नपुंसको नेपथ्यगृहे' इति तदपरामृष्टाभिधानम् । मित्र इति तेजस्विता आहार्योपयोगी (3)रत्नादेरुक्ता । वेदिका । रङ्गवेदिका । तत्र तीक्ष्णो ऽधिष्ठातेत्यर्थः । भाण्ड इति । त्रिपुष्करे सोपकरणे । दिवौकसो मेघा मन्द्रगम्भीरशब्दसिद्धये । इत्येवं सर्वत्र दृष्टमपि सदृशोपलक्षणान्तं प्रयोजनमुत्प्रेक्ष्यम् । सर्वथा(4) तदलाभे नियमादृष्टमेव । वर्णा इति । तदधिष्ठातारो देवताविशेषाः । स्तम्भान्तरेष्विति । वर्णस्तम्भचतुष्कादिरित्येषु न । अन्येषु स्तम्भेष्वित्यर्थः । (84-86)

[(मू)]

1. प॰ ब॰ मण्डपस्यास्य ।

2. ठ॰ म॰ नियुक्तो रजनीकरः ।

3. न॰ यथादिशं लोकपालाः । प॰ ब॰ त॰ यथादिग्लोकपालाश्च ।

4. ठ॰ म॰ वेदिकां पावकः पातु ।

5. ठ॰ म॰ भाण्डं सर्वे दिवौकसः ।

6. प॰ ब॰ एवास्य ।

7. ग॰ ब॰ त॰ न्यस्ताः । न॰ गताः ।

8. न॰ त॰ भूतानि शालास्वप्सरसस्तथा सर्वेषु वेश्मसु ।

9. न॰ त॰ महोदधिर्महीपृष्ठे यक्षिण्यः सर्वपर्वसु ।

[(व्या)]

1. म॰ भाजना ।

2. रक्षकाः के ।

3. भ॰ योगिरादे ।

4. म॰ भ॰ दा तदनु ।

[page 31]




[NZ]

द्वारशालानियुक्तौ तु कृतान्तः काल एव च । BhNZ_01_088ab
स्थापितौ द्वार1पत्रेषु 2नागमुख्यौ महाबलौ ॥ BhNZ_01_088cd
देहल्यां यमदण्ड3स्तु शूलं 4तस्योपरि स्थितम् । BhNZ_01_089ab
द्वारपालौ स्थितौ चोभौ 5नियतिर्मृत्युरेव च ॥ BhNZ_01_089cd
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । BhNZ_01_090ab
स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ BhNZ_01_090cd
स्तम्भेषु मत्तवारण्याः स्थापिताः 6परिपालने । BhNZ_01_091ab
7भूतयक्षपिशाचाश्च गुह्यकाश्च महाबलाः ॥ BhNZ_01_091cd
जर्जरे 8तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । BhNZ_01_092ab
9तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ BhNZ_01_092cd
[ABh]

शालास्विति । स्तम्भद्वयमष्टवेश्मनि गवाक्षनेपथ्यगृहद्वितीयभूमिसन्निवेशादिति । नागमुख्याविति । अनन्तगुलिकौ । द्वार(1)पत्रं कवाटात्मकम् । द्वारबहुत्वाच्च बहुवचनम् । देहल्यामिति । द्वाराधस्तनकाष्ठे । तस्येति । शूलमिति । एतेन प्रक्रान्तद्वारमेव परामृष्टम् । तेनोर्ध्वकाष्ठे उत्सङ्गशब्दवाच्ये त्रिशूलमित्यर्थः । पार्श्वे स्वयमिति । राजादेस्तत्स्थानमित्युक्तम् । चकारात्स्वदिशि अंशेनावस्थानमनुस्मृतम् । विद्युदिति । वज्रायुधरूपा । स्तम्भेष्वपि चतुर्षु यथाक्रमं तद्भूतादयः । ते च नाट्यतत्त्वविदः । अत एव विघ्नैः सह ये(ते)नयेन मिलिता इति द्रष्टव्यम् । एतेन सिद्धिविघातका भेदाख्येनाप्युपायेन दुर्बलीकर्तव्या इति सूचितम् । प्रतिष्ठत इति । सदैव सन्निहितो वास्तुमध इत्यर्थः । कवेश्च सन्निधानं सूचितम् ।
अधस्तादिति । येन सुरङ्गाखननादि विघ्नकरणं निर्वार्यत इत्यर्थः । प्रधानपात्राणि पृथग्रक्षणीयानीत्याह -- नायकमिति । हास्यशृङ्गाराङ्गत्वाद्विदूषकमित्युक्तम् । अत एव दशरूपकप्रयोगसूचनमेतत् । समवकारे विदूषकाभावात् । हर इति । बहुमूर्तिप्रथमत्वात् । देवता एव दैवतम् । (87-98)

[(मू)]

1. न॰ त॰ द्वारपत्रे तु । ठ॰ ब॰ म॰ पार्श्वे ।

2. ठ॰ ब॰ म॰ नागराजौ ।

3. न॰ ण्डश्च ।

4. ठ॰ म॰ चोपरि संस्थितम् ।

5. ग॰ म॰ निरृति ।

6. ग॰ ब॰ परिरक्षणे ।

7. म॰ भूता यक्षाः ।

8. ठ॰ म॰ चैव निक्षिप्तम् ।

9. न॰ सन्धौ सन्धौ । म॰ तत्पर्वसु च नि ।

[(व्या)]

1. पात्रम् ।

[page 32]




[NZ]

1शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस् तथा । BhNZ_01_093ab
तृतीये 2च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ BhNZ_01_093cd
पञ्चमे च महानागाः शेषवासुकितक्षकाः । BhNZ_01_094ab
एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः3 BhNZ_01_094cd
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । BhNZ_01_095ab
4इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ BhNZ_01_095cd
पातालवासिनो ये च यक्षगुह्यकपन्नगाः । BhNZ_01_096ab
अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥ BhNZ_01_096cd
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । BhNZ_01_097ab
विदूषकमथौङ्कारः शेषास्तु प्रकृतीर्हरः ॥ BhNZ_01_097cd
यान्येतानि नियुक्तानि दैवतानीह रक्षणे । BhNZ_01_098ab
5एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ BhNZ_01_098cd
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । BhNZ_01_099ab
साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ BhNZ_01_099cd
पूर्वं साम प्रयोक्तव्यं द्वितीयं दानमेव च । BhNZ_01_100ab
तयोरुपरि भेदस्तु ततो दण्डः 6प्रयुज्यते । BhNZ_01_100cd
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । BhNZ_01_101ab
7कस्माद्भवन्तो नाट्यस्य 8विनाशाय समुत्त्थिताः ॥ BhNZ_01_101cd
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षो ऽब्रवीद्वचः9 BhNZ_01_102ab
दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः10 BhNZ_01_102cd
यो ऽयं भगवता 11सृष्टो नाट्यवेदः सुरेच्छया12 BhNZ_01_103ab
प्रत्यादेशो ऽयमस्माकं 13सुरार्थं भवता कृतः ॥ BhNZ_01_103cd
[ABh]


[(मू)]

1. न॰ शिरो रक्षन् स्थितो ब्रह्मा हरः पर्वण्यनन्तरे । ब॰ शिरः पार्श्वे ।2. न॰ म॰ भगवान् ।

3. ब॰ रेश्वराः ।

4. त॰ इज्यार्थम् । ज॰ ब॰ इत्यर्थम् ।

5. ग॰ ब॰ एतेषामधिदेवास्तु ।

6. ग॰ ब॰ त॰ प्रशस्यते ।

7. घ॰ ब॰ कथम् ।

8. घ॰ त॰ ब॰ विनाशार्थमुपस्थिताः ।

9. म॰ दिदम् ।

10. म॰ वचः ।

11. ठ॰ ब॰ सम्यक् ।

12. ठ॰ म॰ प्रवर्तितः । ज॰ प्रकीर्तितः ।

13. ज॰ म॰ देवार्थे ।

[(व्या)]

[page 33]




[NZ]

[ABh]

अथ नाट्यतत्त्वघाते(1)(त्त्वविघाते) स तन्निरूपणार्थमुपक्रमते -- एतस्मिन्निति । अशक्तस्य सामाङ्गीकरोति दुर्जन इति पूर्वं रक्षाकरणम् । इत्युक्तद्वय(सर्वैरुक्त) इति । कविरनुविधेयवचनो भवतीति दर्शयति । सामादिप्रयोगे तावच्छब्दसूचितं क्रमं स्फुटयति -- पूर्वं सामेत्यादि । तत इति । सर्वोपायप्रतिहताविति यावत् । तत्र ज्ञाताभिप्रायः प्रतिसमाधातुं सुशक इत्यभिप्रायेणाह -- देवानामिति । सुरार्थमित्यस्यैव दार्ढ्यायोक्तं सुरेच्छयेति । प्रत्यादेश इति खलीकार इत्यर्थः । भवतेति । यस्यानुचितमेतदित्यर्थः । अनौचित्यमेव लोकपितामहेत्यामन्त्रणेनाह । तदेव पितामहत्वं दर्शयति -- यथेति । आ(त्मनोभ)(2)वा देवा दैत्याश्चेत्याह -- सर्व इति । (99-104)
वचनमिति । सुपरिहरमेतत् । नात्र भूयान्प्रयास इत्येकवचनेन दर्शयति । अत एव सिद्धवदुपक्रमते -- अलं च इति । मिथ्याज्ञानगृहीतसर्पत्रासवद्यो भ्रान्तिमात्रकृत इत्यर्थः । (3)दैत्यानामशुभकारिता लोकप्रसिद्धा । कुरु(कृत)रङ्गविभागञ्चैषां चेष्टितमस्तु । देवानां तद्विपर्यय इति नाट्यस्य न तात्पर्यं येन भवतां मन्युः । किं तर्हीत्याह । शुभकारिणः शुभं फलमशुभकारिणो ऽशुभं फलमित्येतावदेवास्माकं प्रतिसाक्षात्कारकल्पे नाट्ये प्रदर्शनीयम् । न तत्र देवेषु दैत्येषु वा कश्चिद्भरः(4) । अत एव भवतामपि धर्मादौ यः (5)सदुपायः सो ऽपि शुभविपाकत्वेनैव दर्शितः । अत एव शुभग्रहणमेकतरपक्षशैथिल्यदर्शनाय दैत्यसम्बन्धनार्थं प्रथममुपात्तम् । शुभमशुभं च धर्माधर्मरूपं सुखदुःखफलत्वेन विभेदेन कल्पयत्यध्यवसाययति नाट्यवेदः । कीदृक् -- कर्मभावान्वयापेक्षीति । तद्यथा -- धर्मो दानं स्नानमित्यादिः । अधर्मो हिंसा स्तेयमित्यादिः । भाव आशयः (6)स्त्री(स्व)प्रसङ्गोदिता स्वार्थतापरार्थताद्यभिसन्धिरित्यादिः । अन्वयो ऽभिजनः आर्यावर्तादिब्राह्मण्या .........श्चेति ) । तानपेक्षते सहकारितया ।
एतदुक्तं भवति -- अस्मिन्देशे ऽस्मिन्काले ईदृशेन कर्मणा यः शुभमशुभं चार्जयति स एवंविधफलभागी भवतीति न तावदिहोपदिश्यते । विकल्पक इति द्वौ णिचौ । (105-106)

[(मू)]

[(व्या)]

1. घातनिरू ।

2. भ॰ म॰ आ ...... ताम् ।

3. दैत्या अशुभकारिणः सन्तु पराजिताः भवन्तः । देवताः पुनरन्यथेति न नाट्यस्य तात्पर्यम् । (अ॰ सा॰)

4. म॰ भ॰ त् हरः ।

5. सदुपायः सो ऽपि शुभविकसितवेन दर्शितः । अत एव (अ॰ सा॰) ।

6. म॰ त्रिप्र ।

[page 34]




[NZ]

तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । BhNZ_01_104ab
यथा देवास्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ BhNZ_01_104cd
1विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । BhNZ_01_105ab
अलं वो मन्युना दैत्या 2विषादम् त्यजतानघाः ॥ BhNZ_01_105cd
भवतां देवतानां च शुभाशुभ3विकल्पकः । BhNZ_01_106ab
कर्मभावान्वयापेक्षी4 नाट्यवेदो मया कृतः ॥ BhNZ_01_106cd
नैकान्ततो ऽत्र भवतां देवानां 5चानुभावनम् । BhNZ_01_107ab
त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ BhNZ_01_107cd
[ABh]

ननु चैव(1)मप्यस्मत्पृष्ठे किमे(2)तद्योजितमित्याह -- नैकान्तत इति । अयं भावः -- न युष्मत्पृष्ठे केनचिदेतद्योजितम् । देवासुरस्य बहिर्यथास्वस्थमवस्थानम् । अत्रेति -- नाट्यवेदे । न देवासुराणामेकान्तेनानुभावनम् । नैव ते ऽनुभाव्यन्ते केनचित्प्रकारेण ।
तथाहि -- तेषु न तत्त्वेन धीः । न सादृश्येन यमलकवत् । न भान्तत्वेन रूप्यस्मृतिपूर्वकशुक्तिरूप्यवत् । नारोपेण सम्यग्ज्ञानबान्धानन्तरमिथ्याज्ञानरूपम् । न तदध्यवसायेन गौर्वाहीकवत् । नोत्प्रेक्ष्यमाणत्वेन चन्द्रमुखवत् । न तत्प्रतिकृतित्वेन चित्रपुस्तवत् । न तदनुकारेण गुरुशिष्यव्याख्याहेवाकवत् । न तात्कालिकनिर्मानेनेन्द्रजालवत् । न युक्तिविरचिततदाभासतया हस्तलाघवादिमायावत् । सर्वेष्वेतेषु पक्षेष्वसाधारणतया द्रष्टुरौदासीन्ये रसास्वादायोगात् । कवेश्च नियतवर्णनीयनिश्चितत्वे काव्यस्यैवासम्पत्तेरनौचित्यावर्जनयोगात् । लौकिकमिथुनदृशीव सांसारिकहर्ष(3)क्रोधान्वयितापत्तेरुभयदर्शनकु[(मू)]लतया (4)मुख्यदृष्टौ प्रयोक्तृदृष्टौ तद्धि सम्पत्त्य(द्विसंवित्त्य)भावात् ।
किं तर्ह्येतत् । आह -- त्रैलोक्यस्येति । एतदुक्तं भवति -- एतादृशं तै(ते)-रामादयो न कदाचन प्रमाणपथमवतार्यन्ते(5) यदागमेन वर्ण्यन्ते । तदा तद्विशेष(6)बुद्धिः यद्यपि रामायणप्रायादेकस्मान्महावाक्यादुल्लसति, तथापि वर्तमानतयैव विशेषाणां सम्भाव्यमानार्थक्रियासामर्थ्यात्मकसालक्षण्यपर्यवसानात् । न च तेषां वर्तमानतेत्युपगता तावद्विशेषबुद्धिः ।

[(मू)]

1. ड॰ ब॰ त॰ विरूपाक्षवचः ।

2. घ॰ त॰ ब॰ विषादस्त्यज्यतामयम् ।

3. ड॰ विकल्पनम् । ब॰ विकल्पके ।

4. ठ॰ म॰ यापेक्षो ।

5. घ॰ चापि । ठ॰ ब॰ चात्र । त॰ वानु ।

[(व्या)]

1. म॰ मप्यस्मिन्विसृष्टे ।

2. किमित्येतत् (अ॰ सं॰) ।

3. म॰ क्रोधान्वितता ।

4. मुखदृष्टौ ।

5. म॰ भ॰ पथमवतारयन्ते ।

6. म॰ सिद्धिः ।

[page 35]




[NZ]

[ABh]

काव्येष्वपि हृदयमेव (हृदय एव) तावत्साधारणीभावो विभावादीनां(1) जाता(तः) । तत्रापि कथामात्रे साधारणीभावः सम्भवति यद्यपि तथापि `एवं ये कुर्वन्ति तेषामेतद्भवति' इति वाक्यवद्रञ्जनातिशयाभावान्न चित्तवृत्ते(त्ति)र्निर्णयगता भवति ।
काव्ये तु गुणालङ्कारमनोहरशब्दार्थशरीरे लोकोत्तर(2)रसप्राणके हृदयसंवादवशात् निमग्राकारिका तावद्भवति चित्तवृत्तिः । किन्तु सर्वस्य प्रत्यक्षसाक्षात्कारकल्पा तत्र न धीरुदेति ।
नाट्ये तु पारमार्थिकं किञ्चिदद्य मे कृत्यं भविष्यतीत्येवंभूताभिसन्धिसंस्काराभावात्सर्वपरिषत्साधारणप्रमोदसारापर्यन्तविरसना(समा)दरणीयलोकोत्तरदर्शनश्रवणयोगी भविष्यामीत्यभिसन्धिसंस्कारादुचितगीतातोद्य(3)चर्वणाविस्मृतसांसारिकभावतया विमलमुकुरकल्पीभूतनिजहृदयः, सूच्याद्यभिनयावलोकनोद्भिन्नप्रमोदशोकादितन्मयीभावः, पाठ्याकर्णनपात्रान्तरप्रवेशवशात् समुत्पन्ने देशकालविशेषावेशानालिङ्गिते सम्यङ्मिथ्यासंशयसम्भावनादिज्ञानविज्ञेयत्वपरामर्शानास्पदे, रामरावणादिविषयाध्यवसाये, तत्संस्कारानुवृत्तिकारणभूततत्सहचरहृद्यवस्तुरूपगीतातोद्यप्रमदानुभवसंस्कारसूचितसमनुगततदुक्तरूपरामाध्य(4)वसायसंस्कार एव भवत्पञ्चषैर्दिवसैः सचमत्कारतदीयचरितमध्यप्रविष्टस्वात्मरूपमतिः स्वात्मद्वारेण विश्वं तथा पश्यन्(5) प्रत्येकं सामाजिको देशकालविशेषणापरामर्शेन एवंकारिणामिदमिति लीढा(लिङा)त्मकविधिसमर्पितं संविज्जातीयमेव संविद्विशेषरञ्जकप्राणवल्लभाप्रतिमरसास्वादसहचररम्यगीतातोद्यादिसंस्काररसा(नुभव)वशेन हृदयाभ्यन्तरनिखातं तत एवोत्पुङ्खशतैरपि(6) म्लानिमात्रमप्यभजमानं भजंस्तत्तच्छुभाशुभप्रेप्साजिहासासततस्यूतवृत्तित्वादेव शुभमाचरत्यशुभं समुज्झति । इदानीमुपायसंवेदालाभात् तदिदमनुकीर्तनमनुव्यवसायविशेषो नाट्यापरपर्यायः । नानुकार इति भ्रमितव्यम् । अनेन भाण्डेन राजपुत्रस्यान्यस्य वा(7)नुकृते(कृतावन्या)दिबुद्धेरभावात् । तद्धि विका(क)रणमिति प्रसिद्धं हासमात्रफलं मध्यस्थानाम् । यदभिप्रायेण मुनिर् वक्ष्यति ---
परचेष्टानुकरणाद्घासस्समुपजायते (अ॰ 7-10)
तत्पक्षीयाणान्तु तदेव द्वेषासूयनि(नु)वृत्त्यादिफलम् । तद्बुद्ध्यैव हि दैत्यानां हृदयक्षोभः `एवम्भूता वयमुपहासभाजनम्' इति । उपहास्यताभीरवश्च निवर्तन्ते ततः । न तूपदेशेन ।

[(मू)]

[(व्या)]

1. भ॰ दीनाम् । तत्रापि ।

2. म॰ रससम्प्राणिते ।

3. म॰ वर्णना ।

4. भ॰ रूपपरमाध्य ।

5. भ॰ श्यत् ।

6. भ॰ म॰ वानत्पुंसनशतैः ।

7. भ॰ म॰ त्रस्य न्याय्यवागनुकृतेत्यादि ।

[page 36]




[NZ]

[ABh]

नन्वेवं तावता नियतानुकारो माभूत् । अनुकारेण तु किमपराद्धम् । न किञ्चिदसम्भवादृते । अनुकार इति हि सदृशकरणम् । तत्कस्य । न तावद्रामादेः । तस्याननुकार्यत्वात् । एतेन प्रमदादिविभावानामनुकरणं पराकृतम् । न चित्तवृत्तीनां शोकक्रोधादिरूपाणाम् । न हि नटो रामसदृशं स्वात्मनः शोकं करोति । सर्वथैव तस्य तत्राभावात् । भावे वाननुकारत्वात् । न चान्यद्वस्त्वस्ति यच्छोकेन सदृशं स्यात् । अनुभावांस्तु करोति । किन्तु सजातीयानेव । न तु तत्सदृशान् । साधारणरूपस्य कः केन सादृश्यार्थः । त्रैलोक्यवर्तिनः सदृशत्वन्तु न विशेषात्मना यौगपद्येनोपपद्यते । कदाचित्क्रमेण नियत एवानुकृतः स्यात् । सामान्यात्मकत्वे को ऽनुकारार्थः । तस्मादनियतानुकारो(1) नाट्यमित्यपि न भ्रमित्वव्यम् । अस्मदुपाध्यायकृते काव्यकौतुके ऽप्ययमेवाभिप्रायो मन्तव्यः । न त्वनियतानुकारो ऽपि ।
तेनानुव्यवसायवत्(2) विशेषविषयीकार्यं नाट्यम् । तथा चाहार्यविशेषादिना(3) निवृत्ते तद्देशकालचैत्रमैत्रादिनटविशेषप्रत्यक्षाभिमाने विशेषलेशोपक्रमेण च विना प्रत्यक्षा(4)प्रवृत्तेरायाते रामादिशब्दस्यात्रोपयोगात् प्रसिद्धतदर्थतयादरणीयचरितवाचकस्यासम्भावनामात्रनिराकरणेनानुव्यवसायस्य प्रत्यक्षकल्पनाट्ये हृद्यगीताद्यनुस्यूततया चमत्कारस्थानत्वाद्धृदयानुप्रवेशयोग्यत्वमभिनयचतुष्टयेन स्वरूपप्रच्छादनं, प्रस्तावनादिना नटज्ञानजसंस्कारसाचिव्यं, तेन रञ्जकसामग्रीमध्यानुप्रविष्टेन प्रच्छादितस्वस्वभावेन (5)प्राक्प्रवृत्तलौकिकप्रत्यक्षानुमानादिजनितसंस्कारसहायेन सहृदय(6)संस्कारसचिवेन हृदयसंवादतन्मयीभा(7)वनासहकारिणा प्रयोक्त्रा दृश्यमानेन यो ऽनुव्यवसायो जन्यते सुखदुःखाद्याकारतत्तच्चित्तवृत्तिरूपरूषितनिजसंविदानन्दप्रकाशमयः अत एव विचित्रो रसनास्वादनचमत्कारचर्वणनिर्वेशभोगाद्यपरपर्यायः तत्र यदवभासते (8)वस्तु तन्नाट्यम् । तच्च ज्ञानाकारमात्रमारोपितं स्वरूपं सामान्यात्मकं तत्कालनिर्मितरूपं चान्यद्वा(9) किञ्चिदस्तु । नात्राप्रस्तुतलेखनेनात्मनो दर्शनान्तरकथापरिचयप्रकटनफलेन(10) प्रकृतवस्तुनिरूपणविभ्रमाचरन्तः सहृदयान्खेदयामः ।
तस्मादनुव्यवसायात्मकं कीर्तनं रूषुतविकल्पसंवेदनं नाट्यम् । तद्वेदनवेद्यत्वात् । न त्वनुकरणरूपम् । यदि त्वेवं मुख्यलौकिककरणानुसारितयानुकरणमित्युच्यते तन्न कश्चिद्दोषः । स्थिते वस्तुतो भेदे शब्दप्रवृत्तेरविवादास्पदत्वात् । एतच्च यथावसरं वितनिष्यत इत्यास्तां तावत् ।

[(मू)]

[(व्या)]

1. म॰ तस्यायतानुकारो ना ।

2. सायवि ।

3. म॰ ना हि वृत्ते । भ॰ ना हि वृत्तेन ।

4. भ॰ क्षप्र ।

5. भ॰ न प्रवृ ।

6. म॰ नटज्ञान ।

7. भ॰ भवन ।

8. म॰ ते ऽस्तु ।

9. म॰ न्यथा ।

10. म॰ भयेन ।

[page 37]




[NZ]

क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः1 BhNZ_01_108ab
क्वचिद्घास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥ BhNZ_01_108cd
धर्मो धर्मप्रवृत्तानां2 कामः कामोपसेविनाम् । BhNZ_01_109ab
निग्रहो दुर्विनीतानां 3विनीतानां दमक्रिया ॥ BhNZ_01_109cd
क्लीबानां धार्ष्ट्य4जननमुत्साहः शूरमानिनाम् । BhNZ_01_110ab
अबुधानां विबोधश्च वैदुष्यं5 विदुषामपि ॥ BhNZ_01_110cd
[ABh]

यतश्चेदं नानुकरणं ततो यत्कैश्चिच्चोदितं तदनवकाशम् -- `न च गीतवाद्ययुक्तः सर्वावस्थासु कश्चिदनुकार्यः' इति न त्वनुकार्यत्वेन गीतादय इत्युक्तम् । परिहारो ऽपि य उक्तः `आसनगमनस्नानस्वापप्रतिबोधभोजनाद्यासु गीतवाद्यं लोके चेष्टास्वतिप्रथितम्' इत्यादि, तदप्यनुपपन्नम् । न हि गमनादौ तद्ध्रुवातालादिरूपेण गीतादि लोके ऽस्ति मङ्गलमात्रत्वादृते । गायनवादनादिष्वपि चानुकारबुद्ध्यापत्तेरित्यलम् ।(107)
ननु त्रैलोक्यस्य ये भावास्तेषां यद्यनुकीर्तनं नाट्यं तदेकत्रैव रूपके एकत्रैव (1)चाङ्कादौ सर्वमेव दृश्येतेत्याशङ्कानिराकरणपूर्वकं पूर्वप्रयोजनेन सप्रयोजनत्वमुपसंहरति -- क्वचिद्धर्म इत्यादिना `लोकोपदेशजननं नाट्यमेतद्भविष्यति' इत्यन्तेन श्लोकाष्टकेन । एतच्च कैश्चिद्भिन्नवाक्यतया प्रतिश्लोकं व्याख्यातम् । तच्च पौनरुक्त्याध्याहारप्रस्परासङ्गत्यादिदोषोपहतं स्यादित्युपेक्ष्यमेव । तस्मादित्थमत्र योजना -- नानाप्रकारैर्भावैः स्थायिव्यभिचारिविभावादिभिरुपसम्पन्नं सर्वतो व्याप्तम् । तेषां च भावादीनां देशकालप्रवृत्त्यवस्थान्तरभिन्नस्वभावत्वात्तदपि नानावस्थात्मकम् । अत एवाहोत्तमाधमेति । एवम्भूतमेतद्भविष्यति । काले विश्रान्तिजननं हितोपदेशजननं च भविष्यतीति सम्बन्धः ।
के के नानाप्रकारा भावा इत्याह -- क्वचिद्धर्म इत्यादि । यथायोगं धर्मादयः शब्दास्तदुचितस्थायिव्यभिचार्यादिसूचकः । तेन धर्मो ऽर्थ इत्युत्साहादि । क्रीडेति विस्मयादिः । शम इति निर्वेदादिः । हास्यमिति हासादिः । युद्धमिति रौद्रादिः । काम इति रत्यादिः । वध इति क्रोधभयजुगुप्साशोकादिः । अमीभिश्च समुचितव्यभिचार्यनुभावाः(2) स्वीकृताः । क्वचिदिति शब्देन दशरूपकान्यतममुच्यते । त(य)था नाटकाद्यनेकरूपकगतो

[(मू)]

1. ठ॰ च्छ्रमः ।

2. ठ॰ त॰ धर्मो ऽधर्म ।

3. ग॰ ब॰ मत्तानां दमनक्रिया ।

4. ठ॰ म॰ करणम् ।

5. घ॰ ब॰ वैदग्ध्यम् ।

[(व्या)]

1. म॰ भ॰ चाङ्गादौ ।

2. म॰ भावविभावाः ।

[page 38]




[NZ]

[ABh]

विशेषस्तथैकं ना(कना)टकादिविशेषे । को विभागः । एतदुक्तं भवति -- किञ्चिद्धर्मप्रधानं रूपकं यथा नाटकम् । प्रकरणं वा क्रीडाप्रधानम् । तथा प्रसिद्धानां यथा भाणः । अर्थप्रधानत्वं प्रकरणादौ । एवं दशरूपकलक्षणानुसारेण सर्वमनुसरणीयम् । तथा क्वचिन्नाटके धर्मः प्रधानम् -- यथा छलितरामे रामस्याश्वमेधयागः । क्वचित्क्रीडा -- यथा स्वप्नवासवदत्तायाम् । एवमन्यत्राप्यनुसरणीयम् । (1)तथैकत्रापि नाटके क्वचिदंशे(2) धर्मो यथाभिज्ञानशाकुनले -- ``अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात्''(अङ्क-1) । एवं प्रतिनाटकमेकदेशेषु सुलक्षा एव क्रीडादय इति ग्रन्थविस्तरभीरुभिरस्माभिर्न परिवर्णिताः(3) ।
नन्ववस्थादेशकालप्रकृतिविशेषसमुचितभावानुकीर्तनमात्रमेव कर्तव्यम् । किं रामाय(दि)रावणेत्यादिसमाश्रयेणेत्याशङ्क्याह -- धर्म इति । चो हेतौ । यस्माल्लोकवृत्तानुसारेण करणं प्रयोगरूपं नाट्यं मया कृतमेतदित्येतस्मात्कारणाद्धर्मप्रवृत्तानां रामयुधिष्ठिरादीनां सम्बन्धित्वेन धर्म उक्तः । निग्रह इति वधः । विनीतानां जितेन्द्रियाणां सम्बन्धित्वेन दमस्य शमस्य क्रिया योजना । विनयो हीन्द्रियजयः । एवं क्लीबानामुपहास्यानां धार्ष्ट्यजननमिति विभावेन हासो ऽत्रोक्तः । धार्ष्ट्याज्जननं जन्म यस्य हास्यवस्तुनः । यद्वक्ष्यति -- ``विकृतपरवेषालङ्कारधार्ष्ट्यादिभिः''(आ॰6) इत्यादि । विबोध इति ण्यन्तस्य रूपम् । अबुद्धत्वेन प्रसिद्धानां सम्बन्धित्वेन बोधनमुपायोपदेशेन व्युत्पाद्यत्वम् । विदुषां भीष्मादीनाम् । उपायव्युत्पाद्यत्वेन वैदुष्यम् । अनेन स्मृतिमतिप्रभृतीनां निरूपणम् । विलास इति क्रीडा । स्थैर्यमिति व्यवसायात्मकमुत्साहरूपमेव । चशब्द एवकारार्थे । दुःखार्दितत्वेन यः प्रसिद्धस्तस्यैव सम्बन्धित्वेनेत्यर्थः । धृतिर्धैर्यम् । एतदुक्तं भवति -- लोकवृत्तानुसारेण यत इयं नाट्यक्रिया(4) लोके च धर्मादयो ना(नना)श्रयाः न संवेदनयोग्याः तेन धर्मादिविषये यो यथा प्रसिद्धो रामादिः स शब्दमात्रोपयोगित्वेन मुख्यया प्रणालिकया गृहीतः ।
एवंभूतं यन्नाट्यं तत्प्रेक्षकाणां दुःखेन व्याध्यादिकृतेन श्रमेणाध्वक्लेशादिजेन शोकेन बन्धुमरणादिकृतेनार्तानां पीडितानां तथा तपस्विनामनवरतकृच्छ्रचान्द्रायणाद्याचरणकलितदौर्बल्यातिशयपरिखिन्नहृदयानां विश्रान्तिजननं दुःस्वप्रसरणविघातकम् । प्रतिहतदुःखानां चाह्लादात्मक(5)धृत्यादिकारणं यथायोगम् । तद्यथा -- शोकार्तस्य धृतिर्व्याध्यार्तस्य क्रीडा । श्रमार्तस्य सुखम् । आदिग्रहणेन तपस्विनो मतिविबोधादय(6) इति मन्तव्यम् । नचैतावदेव

[(मू)]

[(व्या)]

1. तथा तत्रापि । भ॰ तथापि ।

2. म॰ क्वचिदङ्गे ।

3. र्तिताः ।

4. क्रीडा ।

5. दधृत्या ।

6. भ॰ बोध इति ।

[page 39]




[NZ]

ईश्वराणां विलासश्च 1स्थैर्यं दुःखार्दितस्य च । BhNZ_01_111ab
अर्थोपजीविनामर्थो 2धृतिरुद्विग्नचेतसाम् ॥ BhNZ_01_111cd
3नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । BhNZ_01_112ab
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ BhNZ_01_112cd
4उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । BhNZ_01_113ab
हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ BhNZ_01_113cd
(5एतद् रसेषु भावेषु सर्वकर्मक्रियास्वथ6 BhNZ_01_xxxab
सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ ) BhNZ_01_xxxcd
दुःखार्तानां 7श्रमार्तानां शोकार्तानां तपस्विनाम् । BhNZ_01_114ab
8विश्रान्तिजननं 9काले नाट्यमेतद्भविष्यति10 BhNZ_01_114cd
[ABh]

यावत्कालान्तरे ऽपि(1)(रवि)परिपाकं सुखमुपदेशजं जनयतीत्येवं दुःखितानां तत्प्रशमसुखवितरण(2)कालान्तरसुखलाभाः प्रयोजनम् । ये (3)पुनरदुःखिताः सुखभूयिष्ठवृत्तय एव राजपुत्राद्यास्तेषां लोकवृत्ते धर्माद्युपायवर्गे उपदेशकार्येतन्नाट्यम् । लोकशब्देन लोकवृत्तम् ।

[(मू)]

1. ड॰ त॰ धैर्यम् ।

2. ठ॰ म॰ वृत्ति ।

3. न॰

दुःखितानां प्रमत्तांशः शोकार्तानां तपस्विनाम् ।

हितोपदेशजननं नानावस्थान्तरात्मकम् ।

नानाशीलाः प्रकृतयः शीलान्नाट्यं विनिर्मितम् ।

तस्माल्लोकप्रमाणं हि कर्तव्यं नाट्यवक्तृभिः ।

देवतानामृषीणां च राज्ञामथ कुटुम्बिनाम् ।

कृतानुकरणं लोके नाट्यमित्यभिधीयते ।

महेच्छा ये विदग्धाश्च यौवनैश्वर्यशालिनः ।

तेषामयं नाट्यविधिः प्रयोज्यस्त्वर्थसिद्धये ।

प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ।

मङ्गल्यमिति कृत्वा च नाट्यमेतत्प्रयोज्यते ।

प्रसवालापविवाहहर्षेष्वभ्युदयेषु च ।

प्रस्थानसमये राज्ञां नाट्यमेतत्प्रयुज्यते । इत्यधिकं दृश्यते ।

4. न॰ अधमोत्तम ।

5. म॰ त॰ अयं श्लोको ऽधिको दृश्यते । न॰ सर्वार्थे सर्वदा चैव ।

6. ठ॰ क्रियासु च ।

7. च॰ ब॰ समर्थानाम् ।

8. ठ॰ म॰ विश्रामजननम् ।

9. ठ॰ म॰ लोके ।

10. च॰ न॰ न्मया कृतम् ।

[(व्या)]

1. म॰ भ॰ रे विपरी ।

2. म॰ विकार ।

3. म॰ येनादुःखिता ।

[page 40]




[NZ]

धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । BhNZ_01_115ab
लोकोपदेशजननं नाट्यमेतद्भविष्यति1 BhNZ_01_115cd
2न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । BhNZ_01_116ab
3नासौ योगो न तत् कर्म 4नाट्ये ऽस्मिन् यन्न दृश्यते ॥ BhNZ_01_116cd
[ABh]

ननु किं गुरुवदुपदेशं करोति । नेत्याह । किन्तु बुद्धिं विवर्धयति । स्वप्रतिभामेव तादृशीं वितरतीत्यर्थः । न च सा दुष्टा प्रतिभेत्याह -- हितम् -- हितप्रतिभाजनकत्वात् । अत्र हेतुमाह -- यतो धर्मादनपेतम् । यशश्शब्देन लोकप्रसिद्धिहेतुभूतमद्भुतकारि वस्तूच्यते, यथा रामस्य सप्तसालव्यथनादि । तदुपदेशे साधु । आयुर्वृद्धिहेतव आचारा आयुः । तेषु साधु । एवं दुःखितानामदुःखितानां चेदमुपादेयमित्युक्तम् । दुःखं च शारीरं मानसं वा । शारीरमपि दैवकृतं स्वयंकृतमपि दृष्टं (ष्टफलो)द्देशेनान्येन चेत्येतावानेव दुःखितवर्ग इति दुःखार्तानामित्यादिभेदोपादानस्य फलम् ।
केचित्तु धर्मो धर्मप्रवृत्तानामित्यादि सामाजिकविषयत्वेन व्याचक्षते हृदयसंवादयोग्यतातात्पर्येण । अन्ये त्वकारप्रश्लेषादिव्याख्याप्रकारेणाधर्मप्रवृत्तानामित्यादिविपरीतत्वेन व्याचक्षते उपदेश्यत्वाभिप्रायेण । उभयमपि चैतद्धर्म्यं यशस्यमित्यादेः पुनरुक्तम् । (108-115)
न चानेन प्रधानमात्र एवोपदेशः कृतः पुरुषार्थोपायमात्रे वा । यावत्तदुपायोपेयादिष्वपीति दर्शयति -- तदिति । अस्मिन्निति । सप्तद्वीपगतभावानुकीर्तनरूपे नाट्ये दृश्यमाने यन्न दृश्यते हृदयगोचरमेति तादृग्ज्ञानादिकं नास्तीति शेषः । ज्ञानमित्युपादेयमात्मज्ञानादि ।
यथा वेणीसंहारे -- ``आत्मारामा विहितरतयो निर्विकल्पे समाधौ''(1-23) इत्यादि । शिल्पमिति । मालाचित्रपुस्तादियोजनम् ।
यथा ``वेष्टितग्रथितगुम्फसंहतैराततैश्च कुसुमैस्सपल्लवैः'' इत्यादौ । विद्या दण्डनीत्यादि ।

[(मू)]

1. ब॰ म॰ पुस्तके --

सर्वशास्त्राणि शिल्पानि कर्माणि विविधानि च ।

यस्मान्नाट्ये समेतानि तस्मादेतन्मया कृतम् । इत्यधिकम् ।

2. च॰ ब॰ न॰ तच्छ्रुतम् ।

3. न॰ न॰ योगो ऽसौ ।

4. क॰ ब॰ यन्नाट्ये ऽस्मिन् न दृश्यते ।

[(व्या)]

[page 41]




[NZ]

तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । BhNZ_01_117ab
सप्तद्वीपानुकरणं 1नाट्यमेतद्भविष्यति ॥ BhNZ_01_117cd
(2येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ॥ ) BhNZ_01_XXXab
देवानामसुराणां34राज्ञामथ कुटुम्बिनाम् । BhNZ_01_118ab
ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्त5दर्शकम् ॥ BhNZ_01_118cd
यो ऽयं स्वभावो लोकस्य सुखदुखसमन्वितः । BhNZ_01_119ab
सो ऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ BhNZ_01_119cd
[ABh]

यथा ``शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः ।''(बाल॰ रा॰ 1-24) इत्यादौ । कला गीतवाद्यादिका ।
यथा ``व्यक्तिर्व्यञ्जनधातुना''(नागानन्द 1-14) इत्यादौ ।
योगो योजनं तेषामेव ज्ञानादीनां कलान्तानां स्वभेदैरन्योन्यस्वभेदैः । यथा --
``मेघाशङ्किशिखण्डिताण्डवविधावाचार्यकं कल्पयन्
निर्ह्रादो मुरजस्य मूर्च्छतितरां वेणुस्वनापूरितः ।
वीणायाः कलयन् लयेन गमकानुग्राहिणीं मूर्च्छनां
कर्षत्येष च (1)कालकूटितकलारम्यश्रुतिं षाडवे ॥ (हेज्जल-राधाविप्रलम्भ)
इत्यादौ । तत्रेहातोद्यनिचयगीतयोजना कृता ।
अन्योन्यं यथा -- ``आविलपयोधराग्रं लवलीदलपाण्डुकोमलच्छायम्''(विक्रमो॰ 5-8) इत्यादौ । अत्र हि शृङ्गारस्य(2) वैद्यकविद्यया योजना ।
कर्मेति युद्धनियुद्धादिर्व्यापारः । यथा --
आलीढस्थितटङ्कितस्य निमितां दृष्टित्रयीं तन्वतः
पुङ्खाग्रक्रमसर्पणेन विशिखप्रान्तादथोच्चैस्तमाम् ।
चक्रीभूतशरासनस्य न (3)मनाल्ल(क् ल)क्ष्यादमी विच्यु(4)ताश्
चित्रं चित्रमुमाधवस्य युगपत्सर्वे सुरेन्द्रद्विषः ॥'' इति ॥

[(मू)]

1. त॰ नाट्यमेतन्मया कृतम् । छ॰ म॰ नाट्ये ह्यस्मिन्प्रतिष्ठितम् । ब॰ नाट्ये ह्यस्मिन् भविष्यति ।

2. म॰ त॰ पुस्तकयोरिदमर्धं नास्ति ।

3. छ॰ म॰ देवतानामृषीणां च ।

4. छ॰ त॰ ब॰ राज्ये लोकस्य चैव हि ।

5. त॰ वृत्तानु ।

[(व्या)]

1. कालकुट्टितकला ।

2. म॰ भ॰ राङ्गस्य ।

3. भ॰ नमनाल । भ॰ रचनाल ।

4. म॰ विद्युतः ।

[page 42]




[NZ]

[ABh]

एवं सप्रयोजनत्वमभिधाय प्रकृतमेव पुराकल्पमनुबध्नाति -- तन्नात्रेति । तदिति । तस्मात् । अत्र नाट्ये ऽमरान्प्रति मन्युः कार्यः । ते ऽपि तत्र न केचित् ।
एतदेवाह -- सप्तद्वीपानुकरणमयी हि (1)क्रिया(नटक्रिया)रङ्गे दृश्यते । न च सागरद्वीपादीनां कश्चित्तत्र(त्रा)सम्भव इति भावः । (116-117)
ननु किमर्थमेषां नामानि गृहीतानीत्याशङ्क्याह -- देवानामित्यादि । एतेषामेवाधिकारिपुरुषत्वात्(2) निराधारस्य वृत्तस्य दर्शयितुमशक्यत्वात् । एतच्चोक्तं पूर्वम् । अत एव यत्र निर्व्याजसहजौदार्यधर्मादिविषये बलिप्रह्लादप्रभृतेः प्रसिद्धिस्तत्र सो ऽप्युदीरित आश्रयत्वेन । तदाह -- असुराणामिति । न च भवद्वैरिण एवात्र वर्णिताः अपि तु ब्रह्मर्षयो ऽपि । अनेन `प्रत्यादेशो ऽयमस्माकम् । सुरार्थम् ।' इत्याशङ्काद्वयमपि परिहृतम् । एतत्तात्पर्येणोपसंहरति -- यो ऽयमिति । अयमितिप्रत्यक्षकल्पानुव्यवसायविषयः । लोकप्रसिद्धसत्यासत्यादिविलक्षणत्वात् यच्छब्दवाच्यः । लोकस्य सर्वस्य साधारणतया स्वत्वेन भाव्यमानश्चर्व्यमाणो ऽर्थो नाट्यम् । स च सुखदुःख(3)रूपेण विचित्रेण समनुगतः । न तु तदेकात्मा ।
तथा हि -- रतिहासोत्साहविस्मयानां सुखस्वभावत्वम् । तत्र तु चिरकालव्यापिसुखानुसन्धिरूपत्वेन विषयौन्मुख्यप्राणतया तद्विषयाशंसाबाहुल्येनापायभीरुत्वाद् दुःखांशानुवेधो रतेः । हासस्य सानुसन्धानस्य विद्युत्सदृशतात्कालिकाल्पदुःखरूपसुखानुगतौ । उत्साहस्य तात्कालिकदुःखायासरूपनिमज्जनानुसन्धाना यदि(नापि)भाविबहुजनोपकारिचिरतरकालभाविसुखसञ्चिकीर्षात्मना सुखरूपता । विस्मयस्य निरनुसन्धानतटित्तुल्यसुखरूपता ।
क्रोधभयशोकजुगुप्सानां तु दुःखस्वरूपता । तत्र चिरकालदुःखानुसन्धिप्राणो विषयगतामन्तिकानां(तात्यन्तिकनाश)भावनाकांक्षाप्राणतया सुखदुःखानुवेधवान् क्रोधः । निरनुसन्धितात्कलिकदुःखप्राणतया तदपगमाकांक्षोत्प्रेक्षितसुखानुसम्भिन्नं भयम् । द्वैकालिकस्त्वभीष्टविषयनाशजः प्राक्तनसुखस्मरणानुविद्धः सर्वथैव दुःखरूपः शोकः । (4)उत्पाद्यमानसुखानुसन्धानजीवितविषयात्प(या प)लायनपरायणरूपान्नि(पा नि)षिध्यमानशङ्कितसुखानुविद्धा जुगुप्सा । समस्तम(त)त्पूर्वदुःखसञ्चयसंस्मरणप्राणितः (तोऽ)सम्भावितत(5)दुपरमबहुलसुख(दुःख)मयो निर्वेदः । एवं व्यभिचारिप्रभृतिष्वपि वाच्यम् । संवित्स्वभावाः सुखादय इति च दर्शने न तत्स्वभावत्वम् । अन्येत्व(तैस्त्व)त्र तद्वेदनरूपत्वमेव तेषां मन्तव्यम् । एवं

[(मू)]

[(व्या)]

1. भ॰ म॰ कटक्रि । कः क्रिया ।

2. म॰ षत्वं नि ।

3. सुख ।

4. भ॰ उत्प ।

5. म॰ भ॰ दुःखबहुल ।

[page 43]




[NZ]

(1वेदविद्येतिहासानामाख्यानपरिकल्पनम् । BhNZ_01_XXXab
विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ BhNZ_01_XXXcd
श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । BhNZ_01_XXXab
विनोदजननं लोके नाट्यमेतद्भविष्यति ॥ ) BhNZ_01_XXXcd
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । BhNZ_01_120ab
2क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥ BhNZ_01_120cd
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । BhNZ_01_121ab
3भोज्यैर्भक्ष्यैश्च 4पानैश्च बलिः समुपकल्प्यताम् ॥ BhNZ_01_121cd
5मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । BhNZ_01_122ab
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत्6 BhNZ_01_122cd
[ABh]

लौकिका ये सुखदुःखात्मानो भावाः तत्सदृशस्तत्संस्कारानुविद्धो नाट्यलक्षणो ऽर्थः समुदायरूपस्तस्यैव भागानुसमयः ।
एवं दयारत्यादिरूपानुसरणभूतो (एवंभूतो) नाट्यलक्षणो ऽर्थः कथं प्रतीतिगोचरीभवतीत्याह -- अङ्गादीति । ये ऽभिनयाः आङ्गिकादयः न च ते लिङ्गसङ्केतादिरूपाः । अपि तु प्रत्यक्षसाक्षात्कारकल्पलौकिकसम्यङ्मिथ्याज्ञानादिरूपः । तस्यैव भावाः शृङ्गारादयो रत्यादिविलक्षणास्वादपर्यायप्रतीत्युपयोगिनः । अत एवाभिमुख्यनयनहेतुत्वादन्यलोकशास्त्रा(1)प्रसिद्धेनाभिनयशब्देन व्यपदेश्याः । तथाङ्गानि शाखानृत्तगीतानि आदयः प्रधाना येषां ते ऽङ्गादयः । तथाङ्गानि व्यभिचारिणो भावाः आदयो हेतुरूपा विभावाः । अभिनयाः अनुभवाः । त एते रसाभिमुख्यनयनहेतवः । यद्वक्ष्यते -- ``विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः'' इति । (अ॰ 6) तैरुपेतः । उप समीपमितः संविद्दर्पणमभिसङ्क्रान्तः । एवंभूतो ऽर्थो नाट्यं नटनीयं नर्तनीयं नर्तनम् । तथा गमनीयं यत्नेन स्वरूपतो हृदयेनानुप्रवेष्टव्यम् । तथा नाटकानां (नटानां) पारम्पर्यात्मकं वृत्तं नाट्यं धर्माम्नायरूपं च । तच्च

[(मू)]

1. म॰ इदं पद्यद्वयं न दृश्यते । त॰ य॰ द्वितीयं पद्यं न दृश्यते । द्वयोरपि व्याख्या नास्ति ।

2. न॰ कारयत्वत्र भगवान् । प॰ त॰ ब॰ कुरुध्वमत्र यजनं विधिवत् ।

3. प॰ म॰ जप्यैर्भक्ष्यैश्च ।

4. ड॰ म॰ भोज्यैश्च । प॰ होमैश्च ।

5. म॰ ब॰ मर्त्यलोके ऽप्ययं वेदः शुभां पूजामवाप्स्यति ।

6. ड॰ म॰ प्रेक्षा प्रवर्तते ।

[(व्या)]

1. भ॰ स्त्रप्र ।

[page 44]




[NZ]

1अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । BhNZ_01_123ab
2निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति3 BhNZ_01_123cd
यज्ञेन संमि4तं ह्येतद्रङ्गदैवतपूजनम् । BhNZ_01_124ab
तस्मात्सर्वप्रयत्नेन कर्तव्यं 5नाट्ययोक्तृभिः ॥ BhNZ_01_124cd
नर्तको ऽर्थपतिर्वापि यः पूजां न करिष्यति । BhNZ_01_125ab
6न कारयिष्यत्यन्यैर्वा प्राप्नोत्यपचयं7 तु सः ॥ BhNZ_01_125cd
यथाविधि 8यथादृष्टं यस्तु पूजां करिष्यति । BhNZ_01_126ab
स लप्स्यते शुभानर्थान् स्वर्गलोकं च 9यास्यति ॥ BhNZ_01_126cd
[ABh]

सुखदुःखाभ्यां फलरूपाभ्यां सम्यगन्वितम् । तेषां पश्चाद्भावित्वात् । तेन हेयोपादेयव्युत्पत्तिः फलम् । एतच्च वितत्याग्रे भावस्वरूपं निरूपयिष्यामः । (118-119)
एवं सान्त्वेनापसारितेष्वपि विघ्नेषु दिव्यनिदेशना(1)नाममोघत्वात् पूर्वविनियुक्तदेवतां(2)शानां तत्र तत्र सन्निधानाद्यजनमवश्यकार्यमिति प्रदर्शयितुमुक्तमेवेतिहासमनुसन्दधन्निरूपयति -- एतस्मिन्निति । अन्तर इति समये । विधिवदिति व्याचष्टे -- बलिप्रदानैरित्यादि । बल्यन्ते आप्याय्यन्ते देवता अनेनेति बलिः । विचित्रवर्णतण्डुलादिरचनाविशेषः । (3)तिलादयश्चाग्नौ हूयन्त इति होमाः । उभयत्र विशेषणं मन्त्रौषधीति । मन्त्रा वक्ष्यमाणाः । ओषधयो वचाबलाजमोदप्रभृतयः । प्रशस्तानि धान्यानि च । स्वरविशदं शष्कुलीमोदकादि भोज्यं भक्ष्यमुच्यते । भक्षणीयन्तु भक्ष्यं पायसकृसरादि । पानानि क्षीरेक्षुद्राक्षारसादीनि । बलिः पूर्वोक्तो रचनाविशेषः । एतैर्विच्छित्तियोजितैर्विविधतया कल्प्यताम् । शोभाप्रधानं हि नाट्ये सर्वम् ।
ननु देवानां देवपूजाकरणे किं फलमित्याह -- मर्त्यलोकगता इत्यादि । यद्यदाचरति श्रेष्ठ इति न्यायादिति भावः । प्रवर्तयेदिति । देवानुष्ठिताचारानुवर्तित्वात् । लोक इति शेषः । (120-122)
ननु यदि लोकः सदाचारं नानुवर्तेत ततः किमित्याह -- अपूजयित्वेति ।

[(मू)]

1. न॰ अप्रपूज्याथ ।

2. म॰ त॰ ब॰ तस्य तन्निष्फलम् ।

3. ठ॰ गमिष्यति । ठ॰ भविष्यति ।

4. च॰ न॰ संमतम् ।

5. ठ॰ म॰ रङ्गपूजनम् ।

6. ड॰ म॰ कारयिष्यति वा नैव ।

7. ठ॰ प्राप्स्यत्यापदमेव सः । ड॰ ब॰ प्राप्स्यत्यपचयम् ।

8. ड॰ यथाशास्त्रम् ।

9. ठ॰ म॰ गमिष्यति ।

[(व्या)]

1. भ॰ शाना ।

2. म॰ ताङ्गा ।

3. दानं तिला ।

[page 45]




[NZ]

1एवमुक्त्वा तु भगवान्द्रहिणः सह दैवतैः । BhNZ_01_127ab
रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् ॥ BhNZ_01_127cd


इति भारतीये नाट्यशास्त्रे नाट्योत्पत्ति(2)र्नाम प्रथमो ऽध्यायः ।
[ABh]

निष्फलमिति । तस्येति । नाट्याचार्यस्य । पारलौकिकमपि प्रत्यवायमाह -- तिर्यग्योनिं चेति । (123)
ननु यद्यपूजने प्रत्यवायस्तर्हि पूजने किं तन्निवृत्तिमात्रं फलम् । नेत्याह -- यथाविधीति । यथा देवैर्विहिता । कथमेतज्ज्ञायत इत्याह -- यथादृष्टमिति शास्त्रदृष्टो ऽसौ विधिरित्यर्थः । अर्थान् शुभानिति । ऐहलौकिकधनमानप्रसिद्धिलाभ उक्तः । (124-126)
एवं मर्त्यान्प्रत्यभिधाय प्रकृतमेव पुराकल्पमनुसन्धत्ते -- एवमुक्त्वेति । नाट्याचार्यस्यैव देवयजने ऽधिकारः । तस्यैव फललाभः । कवेः प्रेक्षाप्रवर्तयितुश्च तत्प्रयोक्तृत्वमित्यनेनोक्तम् । रज्यते ऽनेनेति रङ्गो नाट्यम् । तदाधारत्वान्मण्डपः । तदधिष्ठातृत्वाच्च देवता अपीति मण्डपाध्यायस्य द्वितीयस्योपोद्घातं करोतीति (1)विशेषः । (127)
त्रिणेत्रपादाब्जसदास्तवो(2) (समाश्रयो)ल्लसत्-
प्रसादभाक्स्फुटमिह नाट्यशासने ।
प्रवर्तितेयं हृदये महाधियां
प्रकाशतामभिनवगुप्तभारती ॥


इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीयनाट्यशास्त्रविवृतौ नाट्योत्पत्तिः प्रथमो ऽध्यायः ॥

[(मू)]

1. ठ॰ म॰ एवं भवत्विति प्राह ।

2. न॰ म॰ नाट्यशास्त्रोत्पत्तिः ।

[(व्या)]

1. शिवम् ।

2. भ॰ दातपो ।

[page 46]




श्रीः ।
अथ द्वितीयो ऽध्यायः ।

[NZ]

1भरतस्य वचः श्रुत्वा 2पप्रच्छुर्मुनयस्ततः3 BhNZ_02_001ab
भगवन् श्रोतुमिच्छामो यजनं 4रङ्गसंश्रयम् ॥ BhNZ_02_001cd
अथ वा याः5 क्रियास्तत्र लक्षणं यच्च पूजनम् । BhNZ_02_002ab
6भविष्यद्भिर्नरैः कार्यं कथं 7तन्नाट्यवेश्मनि ॥ BhNZ_02_002cd
[ABh]

संसारनाट्यजननधातृबीजताजुषीम् ।
जलमूर्तिं शिवां पत्युः सरसां पर्युपास्महे ॥
वृत्ते ऽध्याये यथातत्त्वमिति (1-5) वचनवशात् भरतमुनिर्यजनादेः पाट्यादिवदन्तरङ्गतां पश्यन्परमार्थनिर्णयेन कुर्यात्कातुकथा(पश्यति परमार्थनिर्णयेन । द्वितीये तु कथम्) मण्डपलक्षणं स्यात् । अत एव (1)मुनिः `गानं रङ्गश्च सङ्ग्रहः'(6-10) इति रङ्गं सर्वं पश्चाद्वक्ष्यति । तस्मात्कदाचिदे(त्कथमे)तदित्याशङ्कमाना(नानां) `मुनयः पप्रच्छुः' इति परमात्मानं परिकल्प्य मुनिराह -- भरतस्य वच इति । ब्रह्मेव कविः, शक्र इव प्रयोजयिता, भरत इव नाट्या(2)चार्यः, कोहलादय इव नटाः, अप्सरस इव सुकुमारोपकरणं, स्वातिरिवानद्धवित्, नारदवद्गीतज्ञः, सुरक्षितो मण्डपः. इन्द्रोत्सवसदृशः प्रयोगकालः, प्रशान्तरागद्वेषादिकाः(3) सामाजिकाः, देवतापूजनपूर्वकः प्रयोग इत्येवं सङ्ग्रहेण पूर्वाध्यायनिरूपितमर्थमवधार्येत्यर्थः । (यजनमिति) `रङ्गपूजां कुरुष्व' इति वृत्ते ऽध्याये निरूपितमिति सङ्गतिः । देवविषये मण्डपस्य क्रियां विना न निष्पत्तिरिति प्रथमं क्रियाप्रश्नस्तेषां विस्मृतो ऽपि झटिति स्मृतिं गत इत्यभि(4)प्रायेण दर्शयति -- अथ वेति । पूर्वप्रश्नार्थोप(5)मर्दनाय । अत एव पूजनमिति

[(मू)]

1. ण॰

श्रुत्वा तु वचनं तस्य प्रत्यूचुर्मुनयस्तथा ।

श्रोतुमिच्छाम भगवन्यजनं नाट्यमण्टपे ॥ इत्यधिकं दृश्यते ।

2. न॰ प्राब्रुवन् । म॰ त॰ ब॰ प्रत्यूचुः ।

3. ठ॰ म॰ स्तदा ।

4. प॰ नाट्यमण्टपे ।

5. त॰ या क्रिया ।

6. फ॰ भविष्यद्भिः कथं कार्यं पुरुषैर्नाट्ययोक्तृभिः ।

7. च॰ वै ।

[(व्या)]

1. मुनिर्गीतम् ।

2. नाट्यानामा ।

3. रागद्वेषाः ।

4. म॰ इतो हि प्रायेण दर्शयते । भ॰ इत्थं हि प्रायेण दृश्यते ।

5. भ॰ प्रश्नोपम ।

[page 47]




[NZ]

1इहादिर्नाट्ययोगस्य2 नाट्यमण्डप एव हि3 BhNZ_02_003ab
तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ BhNZ_02_003cd
तेषां तु वचनं श्रुत्वा मुनीनां भरतो ऽब्रवीत् । BhNZ_02_004ab
लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः4 BhNZ_02_004cd
5दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । BhNZ_02_005ab
(6यथाभावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ।) BhNZ_02_XXXxx
नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ BhNZ_02_005cd
श्रूयतां तद् यथा 7यत्र कर्तव्यो नाट्यमण्डपः । BhNZ_02_006ab
तस्य 8वास्तु च पूजा च 9यथा योज्या प्रयत्नतः ॥ BhNZ_02_006cd
[ABh]

पुनर्वचनम् । क्रियाः कर्तव्यता । लक्षणं सन्निवेशपरिमाणादि । अतीतेषूपदेशो व्यर्थ इति भविष्यद्भिरित्युक्तम् । देवानां मनसा सम्पत्तेः नरैरिति । ननु लक्षणं किं कार्यम् । लक्ष्यत इति लक्षणं सस्न्निवेश इत्यदोषः । अथ वा भाविभिर्यत्कार्यं नाट्यवेश्म तत्र यत्क्रियालक्षणं पूजनं तत्कथमिति सम्बन्धः । (1-2)
पूर्वकृते प्रश्नपञ्चके निर्णयं कृत्वेदं प्रश्नान्तरं निर्णयेदित्याशङ्कमाना मुनयः पुनराहुरिहादिरिति । नाट्यस्य योग (1)उत्पत्तिः । तावदित्यनेन पूर्वप्रश्नितस्यात्याग उक्तः । एवकारो लक्षणशब्दानन्तरम् । इतिकर्तव्यतायाः तदङ्गत्वात् । यजनस्य च तन्निष्पत्त्यनन्तरत्वात् । तेषामिति । अन्यथा तु न ब्रूयादेवोक्ताद्धेतोः । अनेन श्लोकेन लक्षणपूजनज्ञानं देवानामप्युपयोगि । सङ्कल्पितस्यापि निर्माणस्य ज्ञानापेक्षित्वादित्युक्तम् । अत एवात्र क्रियेति नोक्तम् । (3-4)
ननु किं (2)क्रियै(या न)वोच्यत इत्याह -- दिव्यानामिति । श्रूयतामित्यनुवर्तते । नराणां कार्या क्रिया इतिकर्तव्यता च श्रूयताम् । चकाराल्लक्षणपूजने । शास्त्रे(3)णोक्ता नराणामेव कस्मादित्याह -- दिव्यानामिति । सृज्यमानत्वेन कर्मणो ऽपि विषयत्ववि(त्वमेव) यत्र जन्मक्रमनियतप्ररोहकुसुमफलानि बहुविचित्रतरुलतास्थलीसरोवराक्रीडमयान्युपवनान्यपि

[(मू)]

1. न॰ इहादौ ।

2. न॰ नाट्यवेदस्य ।

3. ठ॰ म॰ त॰ कीर्तितो नाट्यमण्डपः ।

4. च॰ वेश्मनि ।

5. च॰ देवानाम् ।

6. ब॰पुस्तके इदमधिकं दृश्यते । च॰ ब॰ यत्र विनिष्पन्नाः ।

7. ठ॰ म॰ तत्र ।

8. ठ॰ म॰ दैवतपूजा च ।

9. ठ॰ म॰ यथा योज्या च वास्तुषु ।

[(व्या)]

1. उपपत्तिः ।

2. म॰ क्रियादेवोच्य ।

3. म॰ योक्ता ।

[page 48]




[NZ]

इह 1प्रेक्षागृहं दृष्ट्वा 2धीमता विश्वकर्मणा । BhNZ_02_007ab
त्रिविधः सन्न्निवेशश्च शास्त्रतः 3परिकल्पितः ॥ BhNZ_02_007cd
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । BhNZ_02_008ab
तेषां त्रीणि प्रमाणानि ज्येष्टं 4मध्यं तथावरम् ॥ BhNZ_02_008cd
प्रमाणमेषां 5निर्दिष्टं हस्तदण्डसमाश्रयम् । BhNZ_02_009ab
6शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च7 BhNZ_02_009cd
[ABh]

मानसानि, तत्र गृहे का सम्भावनेति । श्रूयतामिति । तदिति । यतो नराणां यत्नतः कार्यताप्रकारः । यत्रेति देशकालौ । वास्त्विति । गृहभूमिगतं परिमाणमिह मन्तव्यम् । (पूजा)लक्षणोक्तेत्युक्तम् । (5-6)
तत्र किं तल्लक्षणमित्याह -- इह प्रेक्षागृहमिति । इह नाट्यमण्डपे । सन्निवेशः । चशब्दात्प्रमा(1)णमेतत् । विश्वकर्मणा परिकल्पितः । किं स्वबुद्ध्या । न । अपि तु शास्त्रतः प्रेक्षागृहं विचार्य । शक्तश्चासौ विचार इत्याह -- धीमतेति । ज्ञायत इत्याह । शास्त्रं कृतं तदप्यपरशास्त्रमूलमिति प्रवाहानादित्वमुक्तम् । को ऽसौ त्रिविध इत्याह -- विकृष्टश्चेति । विभागेन कृष्टो दीर्घो न तु चतसृषु दिक्षु साम्येन । तिस्रो ऽश्रय(2)स्त्र्यश्री, (श्रयो यस्य त्र्यश्रि) तदस्मिन्निति मत्वर्थीयो ऽच् । एतान्येव त्रीणि ज्येष्ठादीनीति केचित् । अन्ये तु प्रत्येकं त्रित्वमिति नवैते ऽत्र भेदा इत्याहुः । एतदेव युक्तम् । तथा चाह -- तेषामिति । प्रमाणं हस्तदण्डाश्रयं ज्येष्ठादित्वम् । न तु सन्निवेशाश्रयमिति यावत् ।
`शतं(3) चाष्टौ चतुःषष्टिर्द्वात्रिंशच्चेति निश्चयात् ।'
इति केचित्पठन्ति । तेषां चास्ति(पि)हस्तदण्डसमाश्रयत्वं वाचकं भवति । एतच्च सर्वं सम्भवमात्रेणोच्यते । अ(4)नु(नानु)वादकतया । न त्वियन्तो भेदा उपयोगिनः । एवं चाष्टादश भेदास्तावच्छास्त्रे दृष्टाः । ते चान्यत्वे(द्यत्वे) यद्यप्यनुपयोगिनः तथापि च सम्प्रदायविच्छेदार्थं निर्दिष्टाः । केषाञ्चित्कदाचिदुपयोगो भविष्यतीति । यथोक्तम् -- `अप्रयुक्ते दीर्घसत्रवत्' इति । (7-9)

[(मू)]

1. ठ॰ म॰ प्रेक्षागृहाणां तु । न॰ प्रेक्षागृहं दृष्टम् ।

2. क॰ ब॰ श्रीमता ।

3. ड॰ परिकीर्तितः ।

4. म॰ मध्यं तथा परम् । ठ॰ मध्यममथापरम् । प॰ मध्यमथाधमम् ।

5. न॰ ब॰ विज्ञेयम् ।

6. न॰ ब॰ शतं साष्टम् ।

7. न॰ म॰ द्वात्रिंशच्चेति निश्चयात् ;् (निश्चितः) । ड॰ छ॰ द्वात्रिंशदिति निश्चयः ।

[(व्या)]

1. भ॰ प्रमाणहेतुकमे ।

2. भ॰ तिस्रो ऽश्रा यस्य त्र्यश्रि ।

3. भ॰ साष्टं शतम् ।

4. म॰ ननु वा ।

[page 49]




[NZ]

अष्टाधिकं शतं ज्येष्टं चतुःषष्टिस्तु मध्यमम् । BhNZ_02_010ab
कनीयस्तु तथा वेश्म 1हस्ता द्वात्रिंशदिष्यते ॥ BhNZ_02_010cd
2देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । BhNZ_02_011ab
शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ BhNZ_02_011cd
(3प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । BhNZ_02_XXXab
तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ BhNZ_02_XXXcd
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । BhNZ_02_XXXab
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव 4प्रयोक्तृभिः ॥ BhNZ_02_XXXcd
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । BhNZ_02_XXXab
ज्येष्टं विकृष्टं विज्ञेयं 5नाट्यवेदप्रयोक्तृभिः ॥ ) BhNZ_02_XXXcd
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । BhNZ_02_012ab
प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ BhNZ_02_012cd
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । BhNZ_02_013ab
अङ्गुलं 6च तथा हस्तो 7दण्डश्चैव प्रकीर्तितः ॥ BhNZ_02_013cd
[ABh]

इदन्त्विहोपयोगीति दर्शयति -- अष्टाधिकं शतमित्यादि । इष्यत इति । अन्यत्वे ऽपीत्याशयः । देवानामिति । यत्र देवासुरप्राया एव नायकप्रतिनायकास्तत्र (2)डिमादावारभटीप्रधाने विततरङ्गपीठोपयोगात् भाण्डवाद्यप्रधानत्वाच्च परिक्रमणादेरुच्च(3)तरदीर्घतरदीर्घतालपरिग्रहादियोगच्च(4) भक्तभावस्यासम्भवादष्टोत्तरशतहस्तो मण्डप इत्यर्थः । यस्तु व्याचष्टे प्रेक्षका अत्र देवादयो विवक्षिता न तु प्रयोज्याः । तेषां नियतसंख्याकत्वादिति । तस्यास्मदभिप्रायो न स्मृतिपथमागतः सन्नपि दशरूपकादौ । स चानन्तरमेव दर्शयिष्यते । (10-11)
प्रमाणं लक्षणं यन्निर्दिष्टमिति(5) जातावेकवचनम् ।

[(मू)]

1. छ॰ म॰ त॰ द्वात्रिंशत्करमिष्यते ।

2. न॰ अ॰ देवतानां भवे । ठ॰ म॰ देवानां भवनम् ।

3. एतच्चिह्नाङ्कितो भागः अ॰ त,, ब॰ पुस्तकेषु दृश्यते । व्याख्या नास्ति ।

4. छ॰ हिं कीiर्तितः ।

5. न॰ ब॰ नाट्यवेश्म । त॰ नाट्यवेश्म विभागशः ।

6. ठ॰ म॰ चैव हस्तश्च ।

7. ठ॰ भ॰ दण्डश्च परिकीर्तितः । छ॰ अ॰ तथा दण्डक एव च ।

[(व्या)]

1. म॰ भ॰ न्त्वितीहो ।

2. म॰ तत्र हि धीरादावार ।

3. म॰ भ॰ च्चतादीप्तताकारापरिग्रहादि ।

4. म॰ भ॰ च्चाभक्त ।

5. भ॰ न जाता ।

[page 50]




[NZ]

अणवो ऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । BhNZ_02_014ab
वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं1 भवेत् ॥ BhNZ_02_014cd
यूकास्त्वष्टौ 2यवो ज्ञेयो 3यवास्त्वष्टौ तथाङ्गुलम् । BhNZ_02_015ab
4अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ BhNZ_02_015cd
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । BhNZ_02_016ab
अनेनैव 5प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ BhNZ_02_016cd
[ABh]

कानि प्रमाणानीत्याह -- अणू रजश्चेत्यादिना । तेषां लक्षणान्याह -- अणवो ऽष्टावित्यादि । यतः प्रभृति दृश्यता प्रवर्तते सो ऽणुः । अणुः प्रसिद्धो ऽणुपरिमाणः । द्व्यणुकद्व(1)यपरमाणुद्वयारब्धा अणव एव वा महत्त्वयुक्ताः । परमाणुद्वयारब्धे तु द्व्यणुके ऽणुपरिमाणमस्तु । को ऽत्र विरोध इत्यलमवान्तरेण । अनेनैवेति । `देवानान्तु भवेत्' इत्यने(2)न यदुक्तम् । मण्डपाः -- तद्यथा ज्येष्ठप्रमाणं डिमप्राये । यद्वक्ष्यति --
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाघर्षणसम्फेटकृतश्च विज्ञेयः ॥
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ।
षोडशनायकबहुलः सात्त्वत्यारभटिकायुतस्तु डिमः ॥ (ना॰ शा॰ 18) इति ।
तथा मध्यप्रमाणं नृपतिप्रायप्रयोज्ये नाटकादौ । यद्वक्ष्यति --
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाघर्षणसम्भवकृतश्च विज्ञेयः ॥
(3)नृपतीनां यच्चरितम् । (ना॰ शा॰ 18) इत्यादि ।
शेषास्तु प्रकृतयो भाणप्रहसनादौ । यच्च वक्ष्यति --
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यस्तु । (ना॰ शा॰ 18)
तथा ``भगवत्तापसविप्रैरन्यैरपि च'' (ना॰ शा॰ 18) इत्यादि । एवंभूतप्रकृतिप्रधाने प्रयोगे कनीयःप्रमाणो मण्डपः इति । एषां मण्डपानांव् मध्ये यो विनिर्णय एव सर्वसाधारणः मध्यमे मण्डपे नाटकभाणयोगात् (4)कनीयसि च, डिमरूपे एव(ष) मण्डपं(पः) तं वक्ष्यामीति ।

[(मू)]

1. अ॰ यूका त्वष्टगुणा ।

2. छ॰ अ॰ यवः प्रोक्तो ।

3. प॰ अङ्गुलन्तु यवाष्टकम् । अ॰ ष्टावथाङ्गुलम् ।

4. प॰ अङ्गुलानि चतुर्विंशद्धस्त इत्यभिधीयते ।

5. प॰ विधानेन ।

[(व्या)]

1. भ॰ कत्रयप ।

2. म॰ तेन मण्डपाः ।

3. म॰ भ॰ गृहपतीनां य ।

4. मण्डपे कनीयसि ।

[page 51]




[NZ]

चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम्1 BhNZ_02_017ab
2द्वात्रिंशतं च विस्तारान्मर्त्यानां यो भवेदिह3 BhNZ_02_017cd
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । BhNZ_02_018ab
यस्मादव्यक्तभावं हि 4तत्र नाट्यं 5व्रजेदिति ॥ BhNZ_02_018cd
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । BhNZ_02_019ab
6अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत्7 BhNZ_02_019cd
[ABh]

अयमभिप्रायः -- ज्येष्ठमाने नाटकादिप्रयोगसौकार्याभावान्मध्यम एव युक्तः । स एव निर्णयः । विविधो ऽपि दिव्यनृपप्रकृता(त्या)दिस्वभावो निश्चयाभिमुख्यमभिनयप्रयोगद्वारेण नीयते यत्रेति । (12-16)
तं दर्शयति -- चतुष्षष्टिं करानित्यादि । प्रयोक्तुः पुरस्तात्पृष्ठश्च मण्डपे ऽस्मिन् सति(पोऽस्मिन्नसति)करणार्हो न भवतीत्यर्थः । कर्तृभि(1)रिति । किं तेषां वृथा प्रयासोत्पादनेनेति यावत् । तत्रेति । अतो ऽधिकप्रमाणे अत्यन्तं न्यूनप्रमाणे चेत्यर्थः । नाट्यमिति । सकलावान्तरभेदे प्रभेदं दर्शयितुम् । नाट्यतो ऽभि(ट्यं यतो ऽभि)व्यक्तं भवतीति समुदायाभिप्रायेण मन्तव्यम् । तदेव दर्शयति -- मण्डप इति । दीर्घत्वम् । पार्श्वयो(2)र्विस्तारः । मर्त्यानामित्यनेन मण्डपकरणात् किमित्यकारणं प्रयोगेणैव(गो नैव) वेद्यत इत्याशयः । एतदेवाह -- अत ऊर्ध्वं नेति । अत इत्येवंविधो यतो मध्यमो ऽस्ति ततो हेतोरित्यर्थः । ऊर्ध्वमिति । प्रमाणस्याधिक्यं न्यूनातिरेकाभ्यामिति मन्तव्यम् । कर्तव्य इति । प्रकर्षः प्रकृष्टं तदतिक्रान्तो विप्रकृष्टः । किन्नियोगमानः तस्मिंश्च तत्र ज्येष्ठे । पाठ्यं यन्मुख्ये(ख्यं) ``नाट्यस्यैषा तनूस्स्मृता''(ना॰ शा॰ 14-2) इति दर्शयिष्यते । तद्विस्वरत्वं विशेषेणोपतापकत्वं निकटवर्तिनः प्रति व्रजेत् । अत्र हेतुः उच्चं कृत्वा (3)चारितो ऽतिक्लेशेन सम्पादितः स्वरः काक्वा(4)(कखा)दिविभागोi यत्र । तथा दूरवर्तिनः

[(मू)]

1. अ॰ चतुःषष्टिर्भवेद्धस्ता । प॰ दीर्घं वै नाट्यमण्डपम् ।

2. ठ॰ म॰ द्वात्रिंशेन तु । ड॰ त॰ द्वात्रिंशदेव विस्तारः । छ॰ अ॰ विस्तारस्त्रिंशदेवास्य । ट॰ म॰ द्वात्रिंशतैव विस्तारम् ।

3. न॰ तु भवेदिह । ठ॰ योजयेदिह ।

4. ठ॰ म॰ तस्मान्नाट्यं । ट॰ तस्मिन्नाट्यं ।

5. ड॰ व्रजेद्यतः । छ॰ म॰ भवेदिति ।

6. ज॰ ब॰ म॰ त॰ अनभिव्यक्तवर्णत्वात् । अ॰ छ॰ न॰ अनिस्सरणवर्णत्वात् ।

7. दुच्चरत्वं भृशं व्रजेत् ।

[(व्या)]

1. म॰ भ॰ कर्तुरिति ।

2. भ॰ त्वं वान्वयो विस्ता । भ॰ त्वोपान्वयो वि ।

3. चरि ।

4. म॰ भ॰ काङ्क्षादि । भ॰ काङ्कादि ।

[page 52]




[NZ]

1यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः । BhNZ_02_020ab
2स वेश्मनः प्रकृष्टत्वाद्व्रजेदव्यक्तानां 3पराम् ॥ BhNZ_02_020cd
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । BhNZ_02_021ab
4यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ BhNZ_02_021cd
[ABh]

सामाजिकान्प्रति विस्वरत्वं विगतशब्दकत्वमनाकर्णनीयत्वं व्रजेत् । अत्र हेतुः अनिस्सरणधर्मत्वात् । निरन्तरे देशे सरणं द्वितीयशब्दारम्भः । स (1)यस्य धर्मो नास्ति शब्दान्तरप्रसराभावादित्यर्थः । तथातिकनीयसि मण्डपे पाट्यमुच्चरितस्वरं सदनिस्सरणधर्मत्वादनुर(2)णनात्मकमधुरशब्दान्तरानारम्भात् विनष्टः स्वरो मधुरो यस्य तादृशत्वं व्रजेत् । अनुरणनं हि स्वरस्य पाठ्यसिद्धिरूपमिति गेयाधिकारे वक्ष्यामः । अनेन समानयोगक्षेमत्वात् अधिकातोद्यविस्वरत्वमपि लक्षितं भवति । तथा चोपसंहरिष्यति गेयं चेति । विस्वरत्वमिति, 'स्वृ शब्दोपतापयोः` इत्यस्य रूपम् । (17-19)
प्रधानस्य पाठ्यस्य प्रधानानुरणनभूतस्य च गीतातोद्यादेर्विनाशं प्रतिपाद्याभिनयवर्गस्यापि प्रतिपादयति -- यश्चापीति । आस्यगतो सुखगतो भावः यो ऽनुभावलक्षणो दृष्टिबाष्पस्वेदवैवर्ण्यादिः तथा मुकुटप्रतिशीर्षादिः । चकारादाङ्गिकः । स वेश्मनः प्रकृष्टत्वादतिविस्तीर्णत्वादव्यक्ततां गच्छेत् । तथा प्रगतं कृष्टं कर्षणं दैर्घ्यं यस्य तस्य भावः । ततः कनीयस्त्वाद्धेतोः परां द्वितीयामव्यक्ततामतिसामीप्यकृतां व्रजेत् । प्रथमं ह्यतिदूरत्वं कृत्वा सोक्ता । एवमुभयमण्डपाभिप्रायेणेदं व्याख्येयम् । अन्यथा तस्मान्मध्यममिष्यत इत्युपसंहारो न श्लिष्यति । तदाह -- प्रेक्षागृहाणामित्यादि । मध्ये भवं मध्यमम् । तदिष्यते यतः सर्वेषां रूपाणां सम्बन्धि यत्पाठ्यं प्रधानं तनूरूपप्राणोप(3)रञ्जकरूपं च गीतं चकारादातोद्यं च श्रव्यतरं भवति । द्वितीयचकारादभिनयान्तरमपि दृश्य(4)तरं भवतीत्यर्थः । (20-21)

[(मू)]

1. ठ॰ म॰ यश्चाप्यास्यगतो रागो भावसृष्टिरसाश्रयः । त॰ नानाभावरसाश्रयः । अ॰ छ॰ यश्चाप्यास्यगतो रासो भावदृष्टिरसाश्रयः । ब॰ यस्य लास्यगतो भावो नानादृष्टि ।

2. छ॰ अ॰ स च वेश्म । ब॰ स वेश्मविप्रकृ ।

3. छ॰ अ॰ इति । ब॰ म॰ परम् ।

4. त॰ ब॰ यस्मात् । अ॰ अयं श्लोको नास्ति । म॰ वाद्यं च गेयं च सुखश्रव्यतरं भवेत् ।

[(व्या)]

1. भ॰ द्वितीयस्य ।

2. भ॰ दनुकरणा ।

3. भ॰ प्राणभूतोप । म॰ ततो ... ... रूपः प्राणभूतोप ।

4. श्रव्य ।

[page 53]




[NZ]

(प्रे1क्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । BhNZ_02_XXXab
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ BhNZ_02_XXXcd
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं च मध्यमम् । BhNZ_02_XXXab
ज्येष्टं विकृष्टं विज्ञेयं नाट्यवेश्म प्रयोक्तृभिः ॥ ) BhNZ_02_XXXcd
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । BhNZ_02_022ab
2यत्नभावाभिनिष्पन्नाः सर्वे भावा हि3 मानुषाः ॥ BhNZ_02_022cd
4तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । BhNZ_02_023ab
मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ BhNZ_02_023cd
5भूमेर्विभागं 6पूर्वं तु परीक्षेत 7प्रयोजकः । BhNZ_02_024ab
ततो 8वास्तु प्रमाणेन प्रारभेत 9शुभेच्छया ॥ BhNZ_02_024cd
[ABh]

ननु यद्येवंभूतः प्रयोगक्रमस्तर्हि हस्तसमाश्रये(1)णैव विधिर्वक्तव्यः । सो ऽपि यत्र परिपूर्णो नोपकारी तत्र दण्ड(2)समाश्रयेणातोद्यमानेन । अथ कदाचिद्दिव्यप्रकृतिप्रेक्षकाभिप्रायेण तदुच्यते तत्रापि कः स्तोका(3)न्तरत्वेनेति न्यायेन का इति(ह)सम्भावनेत्याशङ्कां पराकतुं श्लोको भा(4)वी । अत एव पूर्वश्लोकेन सह नात्र पौनरुक्त्यं शङ्कितव्यम् । तस्यान्यथोपक्षेपात् । तच्छ्लोकमाह -- देवानामित्यादि । मनसस्तदीयस्य सत्त्वबहुलत्वात् तत्कृत(5) इन्द्रियविसर्जनलक्षणे व्यापारो(6)ऽतिरूपव्यापी । उपवनेष्वपि वितत(7)विततेषु । का कथा मण्डपविषये । अत एव गृहेष्विति बहुवचनमुपात्तम् । तेन तदपेक्षया ते मण्डपा उक्ता इत्यर्थः । न त्वेवं मानुषाणां राजसानां मनः । तदाह -- देवकृतैरिति । यत एवं तस्मान्मानुषस्यैव गेहस्य लक्षणं सम्यक्प्रवक्ष्यामि । तुशब्द एवकारार्थे । (22-23)
सम्यगिति यदुक्तं तदाह -- भूमेरित्यादि । विभागो हेयोपादे(8)यत्वेन । वास्त्विति । ग्रहणं प्रमाणं चेत्युपलक्ष्यमाणरूपेण प्रारभेत । कर्तुमिति शेषः ।

[(मू)]

1. पद्यद्वयं ब॰ पुस्तक एवास्ति ।

2. छ॰ म॰ यत्र भावाद्विनिष्पन्नाः । ब॰ यत्नभावा ।

3. च॰ म॰ स्तु ।

4. अ॰ इदमर्धं नास्ति ।

5. प॰ भूमिभागं परीक्षेत प्रथमं नाट्यवेश्मनः ।

6. ड॰ अ॰ प्रथमम् ।

7. ठ॰ म॰ विचक्षणः ।

8. ठ॰ अ॰ म॰ वास्तुप्रमाणं च ।

9. ठ॰ यदृच्छया ।

[(व्या)]

1. भ॰ यण एव ।

2. भ॰ दण्डासमा ।

3. भ॰ स्तोकस्तोकान्त ।

4. श्लोको ऽभावि ।

5. तत्क्तियत इ ।

6. रे ऽतिरू ।

7. म॰ वनेष्वविविक्तवित ।

8. म॰ पादानत्वेन ।

[page 54]




[NZ]

समा स्थिरा 1तु कठिना कृष्णा गौरी च या भवेत् । BhNZ_02_025ab
भूमिस्तत्रैव2 कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ BhNZ_02_025cd
प्रथमं शोधनं कृत्वा लाङ्गलेन 3समुत्कृषेत् । BhNZ_02_026ab
अस्थिकीलकपालानि4 तृणगुल्मांश्च शोधयेत् ॥ BhNZ_02_026cd
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । BhNZ_02_027ab
(त्री5ण्युत्तराणि सौम्यं च विशाखापि च रेवती ॥ BhNZ_02_XXXab
हस्ततिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि ।) BhNZ_02_XXXcd
पुष्यनक्षत्रयोगेन6 शुक्लं सूत्रं 7प्रसारयेत् ॥ BhNZ_02_027cd
कार्पासं 8बाल्बजं वापि मौञ्जं वाल्कलमेव च । BhNZ_02_028ab
सूत्रं 9बुधैस्तु कर्तव्यं 10यस्य च्छेदो न विद्यते ॥ BhNZ_02_028cd
[ABh]

तं विभागमाह -- समेत्यादि । समा स्वभावान्नातिनिम्नोन्नतेत्यर्थः । स्थिरा अचलनस्वभावा । कठिना अनूषरा । कृष्णा गौरीचेति । चो वार्थे । अन्ये तु व्यामिश्रितत्वमाहुः । कर्तव्य इति करणार्हः । कथमित्याह -- प्रथममित्यादि । शेधनमुपरिगतशुचिशर्कराद्यपसारणम् । ततो हलेनोद्धृतगुल्मपाषाणादिकां कुर्यात् । एतदेवाह -- अस्थीत्यादिना ।
एवं बाह्याभ्यन्तरतो भूमिशुद्धिं निरूप्यानन्तरकरणीयमाह -- शोधयित्वेति । (1)कथं प्रमाणनिर्देश इत्याह -- पुष्येति । शुक्लसू(2)त्रत्वं तावत्पिष्टरञ्जनादिना । चर्मकृ(3)तं मानसूत्रं न कार्यमिति च तात्पर्यम् । स्वामिनः प्रेक्षापतेः । प्रयोक्तुर्नाट्याचार्यस्य । प्रयत्नेन रज्जुग्रहणमित्यच्छेद्या(4)नुभरणीया । तादृशी च सावधानतयावष्टम्भवियोगाद्युभयथा तथा प्रयत्नतो योज्यम् । नित्यमिति । न केवलमत्र प्रथमपरिग्रहे यावदन्यभाविस्तम्भविनिवेशाय भूभागमानग्रहणादावित्यर्थः । प्रयत्नेन मानमित्यूनाधिकादिदोषवर्जनायायं यत्न इत्यपौनरुक्त्यम् ।

[(मू)]

1. म॰ प्रक । त॰ ह्यक । अ॰ छ॰ सुक ।

2. ठ॰ म॰ स्तत्र तु ।

3. प॰ समुत्क्षिपेत् । त॰ समुत्तुषेत् ।

4. ड॰ कपालादि ।

5. इदं पद्यं `म॰ त॰'पुस्तकयोरेव दृश्यते ।

6. ठ॰ म॰ योगे तु ।

7. न॰ निधापयेत् ।

8. ठ॰ म॰ बादरं वापि वाल्कलं मौञ्जमेव वा । न॰ वाल्कलं चापि बाल्वजं मौञ्जमेव च । अ॰ छ॰ शाणजं वापि वाल्कलं मौञ्जमेव च ।

9. प॰ बुधेन ।

10. ग॰ ब॰ त॰ छेदो यस्य ।

[(व्या)]

1. कथमित्याह ।

2. सूत्रम् ।

3. भ॰ चात् चर्मकृतं मानसूत्रं नाकार्य ।

4. भ॰ द्यानुराभ ।

[page 55]




[NZ]

अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवं । BhNZ_02_029ab
1त्रिभागच्छिन्नया रज्ज्वा 2राष्ट्रकोपो विधीयते ॥ BhNZ_02_029cd
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । BhNZ_02_030ab
3हस्तात्प्रभ्रष्टया वापि 4कश्चित्त्वपचयो भवेत् ॥ BhNZ_02_030cd
5तस्मान्नित्यं प्रयत्नेन 4रज्जुग्रहणमिष्यते । BhNZ_02_031ab
कार्यं चैव 7प्रयत्नेन मानं नाट्यगृहस्य तु ॥ BhNZ_02_031cd
मुहूर्तेनानुकूलेन तिथ्या8 सुकरणेन च । BhNZ_02_032ab
ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः9 BhNZ_02_032cd
शान्तितोयं ततो दत्वा ततः सूत्रं प्रसाययेत् । BhNZ_02_033ab
चतुष्षष्टिकरान्कृत्वा 10द्विधा कुर्यात्पुनश्च तान् ॥ BhNZ_02_033cd
पृष्ठतो यो भवेद्भागो 11द्विधाभूतस्य तस्य तु । BhNZ_02_034ab
12सममर्धविभागेन रङ्गशीर्षं 13प्रकल्पयेत् ॥ BhNZ_02_034cd
[ABh]

मुहूर्तो ब्राह्मादि । तिथिर्हदा(र्नन्दा)दिः । करणं विष्ट्यादिरहितं । (24-32)सूत्रप्रसरणेन यत्कृत्यं तदाह -- चतुष्षष्टिरित्यादि । चतुष्षष्टिर्हस्तदैर्घ्याद्विस्ताराच्च द्वात्रिंशत्करं क्षेत्रं गृहीत्वा मध्ये सूत्रं विस्तारेण दद्यात् । तत्र यत्प्रयोक्तुः पृष्ठगं भविष्यति (1)तदेव पृष्ठम् । तस्य मध्ये विस्तारेण सूत्रं दद्यात् । ततः शोडशहस्तौ द्वौ भागौ भवतः । पृष्ठगतं भागमर्धेन विभज्याष्टहस्तं रङ्गशिरः । प्रविशतां पात्राणां चान्तस्स्थानम् । नाट्यमण्डपस्य ह्युत्तानसुप्तवदवस्थितस्य रङ्गपीठं मुख्यम् । तदष्टहस्तं शिरः । तत्पृष्ठे तु दैर्घ्याद्धि(2) षोडशहस्तं नेपथ्यगृहं भवति । विस्तारात्तु द्वात्रिंशत्करमेव तत्(3) । नैपथ्यादिकं च तत्र गृह्यते । तदाह --

[(मू)]

1. ड॰ त्रिभागे ।

2. म॰ राजकोपो ऽभिधीयते । ज॰ राष्ट्रक्षोभो । प॰ राष्ट्रं कोशश्च हीयते ।

3. ठ॰ म॰ त॰ हस्तप्र । ज॰ हस्तप्रकृष्टया चापि ।

4. न॰ कश्चित् । प॰ तस्मात्पापचयो ।

5. छ॰ हस्ता ।

6. प॰ रज्ज्वा ग्रहण ।

7. न॰ विशेषेण ।

8. न॰ तथा ।

9. `अ॰ ब॰'ब्राह्मणांस्तर्पयित्वा तु ततः सूत्रं प्रसारयेत् । इति अर्धमेव पठ्यते ।

10. ब॰ द्विधाभूतान् पुनस्ततः । अ॰ भूतान् पुनः पुनः ।

11. त॰ ठ॰ म॰ द्विधा भूतो भवेच्च सः ।

12. न॰ त॰ तस्याप्यर्धार्धभागेन । प॰ म॰ तस्यार्धेन विभागेन । छ॰ अ॰ तस्याप्यर्धविभागे तु ।

13. प॰ म॰ प्रयोजयेत् ।

[(व्या)]

1. म॰ भ॰ तद्देवता ।

2. भ॰ द्दशैशे । द्दशेषैः ।

3. म॰ भ॰ तन्न नैप ।

[page 56]




[NZ]

1पश्चिमे च विभागे ऽथ नेपथ्यगृहमादिशेत् । BhNZ_02_035ab
2विभज्य भागान्विधिवद्यथावदनुपूर्वशः ॥ BhNZ_02_035cd
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । BhNZ_02_036ab
3शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ BhNZ_02_036cd
4सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । BhNZ_02_037ab
उत्सार्याणि त्वनिष्टानि 5पाषण्ड्याश्रमिणस्तथा ॥ BhNZ_02_037cd
काषायवसनाश्चैव विकलाश्चैव ये नराः । BhNZ_02_038ab
निशायां च बलिः कार्यो नानाभोजनसंयुतः6 BhNZ_02_038cd
गन्धपुष्पफलोपेतो दिशो दश समाश्रितः । BhNZ_02_039ab
पूर्वेण शुक्लान्नयुतो 7नीलान्नो दक्षिणेन च ॥ BhNZ_02_039cd
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । BhNZ_02_040ab
8यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ BhNZ_02_040cd
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । BhNZ_02_041ab
स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ BhNZ_02_041cd
[ABh]

पश्चिमे चेति । तत्र रङ्गपीठं विस्तारतः षोडश दैर्घ्यतस्त्वष्टहस्ता इति केचित् । अन्ये त्वेतदेव विपर्यासयन्ति । सर्वथा तावद्रङ्गपीठस्यापि विकृष्टत्वं विधेयमिति तात्पर्यम् । यद्वक्ष्यते -- रङ्गो विकृष्टो भरतेन कार्यः (ना॰ शा॰ 12-20) इत्यादि । (33-35)
एवं मानविधिमभिधायेष्टकास्थाप(1)नरूपो विधिमाह -- शुभे नक्षत्रयोग इत्यादिना । (2)दशसु तिर्यगूर्ध्वाधोरूपासु दिक्षु बलिः कार्य इत्युक्त्वा चतसृषु दिक्षु बलिविधिरुक्तो नान्यथेत्यभिप्रायेण व्यापकं विधिमाह -- यादृशमित्यादिना । तेनाग्नेये रक्तवर्ण

[(मू)]

1. अ॰ म॰ पश्चिमे तु पुनर्भागे ।

2. ग॰ विकल्प्य ।

3. ड॰ अ॰ सार्धं दुन्दुभिनिर्घोषैर्मृदङ्गपटहादिभिः ।

4. ठ॰ म॰ सर्वतूर्यनिनादैश्च । न॰ सर्वातोद्यनिनादैश्च । छ॰ मेरीतूर्यनिनादैश्च गायनीगायनैर्बहु । ज॰ सर्वातोद्यैर्निनादैस्तु ।

5. अ॰ मण्डपाश्रयिणस्तथा ।

6. न॰ ब॰ त॰ संश्रयः । अ॰ सञ्चयः ।

7. च॰ त॰ ब॰ नीलश्चैव तु दक्षिणः । ठ॰ म॰ निधानो दक्षिणेन च । छ॰ अ॰ नीलो याम्येन चैव हि ।

8. ठ॰ म॰ यस्यां यच्चाधिदैवं तु दिशि सम्परिकीर्तितम् । अ॰ छ॰ यस्या यथाधिदेवस्तु दिगीशः परिकीर्तितः ॥

[(व्या)]

1. भ॰ पने विधिमाह ।

2. म॰ इदं वाक्यं न दृश्यते ।

[page 57]




[NZ]

मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । BhNZ_02_042ab
नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ BhNZ_02_042cd
मुहूर्तेनानुकूलेन 1तिथ्या सुकरणेन च । BhNZ_02_043ab
एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ BhNZ_02_043cd
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । BhNZ_02_044ab
तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ BhNZ_02_044cd
2स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । BhNZ_02_045ab
आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च । BhNZ_02_045cd
स्तम्भानां स्थापनं 3कार्यं प्राप्ते सूर्योदये शुभे । BhNZ_02_046ab
प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः4 BhNZ_02_046cd
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । BhNZ_02_047ab
ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ BhNZ_02_047cd
सर्वं रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । BhNZ_02_048ab
वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ BhNZ_02_048cd
सर्वं पीतं प्रदातव्यं द्विजेभ्यश्च 5घृतौदनम् । BhNZ_02_049ab
शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ BhNZ_02_049cd
[ABh]

इत्याद्यूह्यम् । मन्त्रा (1)वरणपूजाविधौ वक्ष्यमाणाः । ते च कर्मशंसोप(2)(र्मसं)योगिनोहेन युक्ता विधेयाः । `मन्त्रेण स्मृतं कर्म करोति' इति हि स्मृतिः । अन्ये तु तद्देवताकैः श्रुतिमन्त्रैरेव बलिकर्मेत्याहुः । तल्लिङ्गैरित्यन्ये । चकारो (3)भिन्नक्रमः । न केवलं (4)मनोपक्रमे ब्राह्मणतर्पणं यावत्स्थापने ऽपीत्यर्थः । (36-43)
एवं मानविधिं स्थापनविधिं भित्तिविधिं च कृत्वा स्तम्भविधिः कार्य इति दर्शयति -- भित्तिकर्मणीति । स्थापनमुच्छ्रयणम् । प्रथमं त्वाग्नेयः कोणः । तस्य विशेषणैः

[(मू)]

1. म॰ तिथ्यानुकरणेन च । ड॰ म॰ तिष्यानुकरणेन च ।

2. ब॰ एतत्पद्यस्थाने `आचार्येण सुयुक्तेन कार्यं सूर्योदये शुभे' इति पठ्यते ।

3. न॰ चैव कार्यं सूयोदये बुधैः । ख॰ चैव कार्यं सूर्योदये शुभे । चन्दनं च भवेद्ब्राह्मं क्षात्रं खादिरमेव च । धावाख्यं वैश्यवर्णं स्याच्छत्रं सर्वद्रुमैः स्मृतम् ।

4. म॰ ब॰ संस्कृते ।

5. न॰ ब॰ त॰ धृताशनम् ।

[(व्या)]

1. भ॰ रण । रङ्ग ।

2. भ॰ स्तेयोगिनो ।

3. भ॰ हीनक्रमः ।

4. भ॰ नत्वेव मानो ।

[page 58]




[NZ]

नीलप्रायं 1प्रयत्नेन 2कृसरं च द्विजाशनम् । BhNZ_02_050ab
3पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने4 BhNZ_02_050cd
निक्षिपेत्कनकं मूले 5कर्णाभरणसंश्रयम् । BhNZ_02_051ab
ताम्रं 3चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ BhNZ_02_051cd
7वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । BhNZ_02_052ab
8शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च9 BhNZ_02_052cd
10सर्वेष्वेव तु निक्षेप्यं 13स्तम्भमूलेषु काञ्चनम् । BhNZ_02_053ab
स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ BhNZ_02_053cd
स्तम्भानां 12स्थापनं कार्यं 13पुष्पमालापुरस्कृतम् । BhNZ_02_054ab
14रत्नदानैः सगोदानैर्वस्त्रदानैर् अनल्पकैः15 BhNZ_02_054cd
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । BhNZ_02_055ab
अचलं 16चाप्यकम्पञ्च तथैवाव17लितं पुनः ॥ BhNZ_02_055cd
18स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । BhNZ_02_056ab
19अवृष्टिरुक्ता चलने वलने 20मृत्युतो भयम् ॥ BhNZ_02_056cd
[ABh]

अनुवादलिङ्गविधिकल्प्यं(लिङ्गविधिः कल्प्यः) । शुभं(क्लं) सर्वत्र । पायसमिति -- द्विजेभ्यः इति प्रकरणात् । सर्वस्य विध्यनुसारेणैव भोजनं शुक्लादिवर्णमिति मन्तव्यम् । ततश्चेति । तैरन्त(तदन्त) इत्यर्थः । (44-54)
अचलमिति । स्थानान्तरा(1)निवेशलक्षणमनेनोक्तम् । अविद्यमाना चलना यस्येति । अकम्प्यमिति । तत्रैव स्थानशिथिलता येन न भवति । अवलितमिति । वलयाकृत्यादिना परिवर्तनं यस्य करणीयं न भवति । दोषसूचकत्वद्दोष(2)कारित्वाच्च दोषाः । तान्दोषानाह -- अवृष्टिरित्यादि । (55-57)

[(मू)]

1. ठ॰ म॰ त॰ प्रदातव्यम् ।

2. प॰ ब॰ कृसरा च । च॰ कृशरा ।

3. च॰ म॰ पूर्वे तु ।

4. ड॰ लेपिते । त॰ लेपनम् ।

5. म॰ कण्ठाभर ।

6. न॰ वापि । म॰ चापि । त॰ चैव ।

7. च॰ ब॰ वैश्यस्य स्तम्भमूले ।

8. क॰ ब॰ शूद्रस्य स्तम्भमूले ।

9. ड॰ तु ।

10. न॰ ब॰ शेषेष्वेव तु निक्षेप्यम् । न॰ शेषेष्वपि तु ।

11. ड. ब॰ स्तम्भमूले तु ।

12. ड॰ स्थापनं कुर्यात् ।

13. ड॰ वर्ग । ठ॰ पर्ण । म॰ वर्ण । त॰ वनमालासमन्वितम् ।

14. न॰ रत्नप्रदानैर्गोदानैः ।

15. न॰ स्तथैव च ।

16. च॰ चाप्यकम्प्यञ्च ।

17. न॰ तथा चलितमेव तु । म॰ तथैवाचलितं पुनः । ड॰ तथैवास्खलितम् ।

18. छ॰ ब॰ स्तम्भानुत्थापयेत् । ड॰ त॰ स्तम्भमुत्थापयेत् ।

19. छ॰ ब॰ अदृष्टि ।

20. न॰ मृतितो ।

[(व्या)]

1. म॰ भ॰ न्तरनि ।

2. म॰ भ॰ षत्वका ।

[page 59]




[NZ]

कम्पने परचक्रात्तु1 भयं 2भवति दारुणम् । BhNZ_02_057ab
दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम्3 BhNZ_02_057cd
4पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । BhNZ_02_058ab
शेषाणां 5भोजनं कार्यं स्थापने3 कर्तृसंश्रयम् ॥ BhNZ_02_058cd
7मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । BhNZ_02_059ab
पुरोहितं नृपं चैव भोजयेन्मधुपायसैः8 BhNZ_02_059cd
कर्तॄनपि तथा सर्वान्कृसरां लवणोत्तराम्9 BhNZ_02_060ab
सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ BhNZ_02_060cd
अभिमन्त्र्य यथान्यायं 10स्तम्भानुत्थापयेच्छुचिः । BhNZ_02_061ab
`यथाचलो गिरिर्मेरुर्हिमवांश्च 11महाबलः ॥ BhNZ_02_061cd
जयावहो नरेन्द्रस्य 12तथा त्वमचलो भव ।' BhNZ_02_062ab
स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ BhNZ_02_062cd
एवमुत्थापयेत्तज्ज्ञो13 विधिदृष्टेन कर्मणा । BhNZ_02_063ab
रङपीठस्य 14पार्श्वे तु कर्तव्या मत्तवारणी ॥ BhNZ_02_063cd
[ABh]

दातव्येति । द्विजायेति दातव्यबलाल्लभ्यते । अभिमन्त्र्येति सूचितो यः मन्त्रस्तमाह -- यथेति । प्रणवनमस्कारमध्यवर्ती चायं पठितव्य(1) इति वास्तुविद्याविदः । अचलो भवेति पू(अपू)र्वविधिः । न(तेन) तदनुवादेन जयावहो भवेत्यस्य न पौनरुक्त्यम् (?) । एवमिति । तेन भित्तौ स्त्रीत्वेन गृहे नपुंसकत्वेनोहः कार्यः । पार्श्व इति । विशेषानुपादानात्तयोस्तुल्यम् (ना॰ शा॰ 2-65) इति च द्विवचनाल्लिङ्गाद्भाविनोर्द्वयोः पार्श्वयोरिति लभ्यते । (58-63)
स्तम्भाश्चत्वारः बहिर्मण्डपान्निष्कासनं कृत्वा ध्रि(2)यन्ते मण्डपक्षेत्राद्बहिः । तेन भित्तिच्छेदावधौ स्तम्भद्वयम् । ततो ऽपि बहिर्भित्तेरष्टहस्तान्तरस्तम्भापेक्षयाप्यष्टहस्तान्तरस्तम्भद्वयम्

[(मू)]

1. त॰ परचक्रेभ्यः । न॰ कम्पिते परराष्ट्रेभ्यः ।

2. ठ॰ म॰ वदति ।

3. ड॰ ब॰ त॰ च्छुभम् ।

4. त॰ ब॰ म॰ पवित्रम् ।

5. ड॰ ब॰ त॰ स्थापने ।

6. ड॰ ब॰ त॰ भोजनम् ।

7. ठ॰ म॰ मन्त्रपूर्वं च ।

8. ठ॰ त॰ पायसम् । म॰ दथ पायसम् ।

9. च॰ म॰ त्तरम् । त॰ कृसरान् लवणोत्तरान् ।

10. च॰ म॰ स्तम्भमुत्थापयेत् ।

12. न॰ त॰ ब॰ यथाचलः ।

12. म॰ यथा त्वमचलो वह । त॰ यथा ।

13. ब॰ त्प्राज्ञो ।

14. ठ॰ म॰ पश्चात्तु

[(व्या)]

1. म॰ भ॰ पठित इति ।

2. भ॰ दीय । म॰ द्रिय

[page 60]




[NZ]

चतुःस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । BhNZ_02_064ab
अध्यर्धहस्तोत्सेधेन1 कर्तव्या मत्तवारणी ॥ BhNZ_02_064cd
उत्सेधेन 2तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । BhNZ_02_065ab
तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ BhNZ_02_065cd
नानावर्णानि देयानि तथा भूतप्रियो बलिः । BhNZ_02_066ab
3आयसं तत्र दातव्यं स्तम्भानां कुशलैरधः ॥ BhNZ_02_066cd
4भोजने कृसराश्चैव 5दातव्यं ब्राह्मणाशनम् । BhNZ_02_067ab
एवं 6विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ BhNZ_02_067cd
रङ्गपीठं ततः कार्यं विधिदृष्टेन कर्मणा । BhNZ_02_068ab
रङ्गशीर्षन्तु कर्तव्यं षड्दारुकसमन्वितम्7 BhNZ_02_068cd
[ABh]

इत्येतावदि(1)त्यष्टहस्तविस्तारा समचतुरश्रा मत्तवारणी भवति । आयामस्तु प्रमाणमिति ये वदन्ति तेषां(2) मते दैर्घ्यादष्टहस्तं विस्तारात् षोडशहस्तमित्येवं विकृष्टता रङ्गपीठस्य भवति । अन्येषां हस्त(3)मानो ऽत्र(मानमत्र) यथा रङ्गपीठापेक्षया च सार्धहस्तपरिमाण उच्छ्रायः कार्यो मत्तवारण्याः । तयोरिति द्विव(4)चनं ज्ञापकमेतच्चरितार्थमितीह(5)नापेक्षित इति । तस्या एव यावानुत्सेधस्तावान्रङ्गपीठस्य । तेन ब्रध्नभूभागापेक्षया सार्धहस्तप्रमाणो(6)न्नतं रङ्गपीठमित्युक्तं भवति । तेन मत्तवारण्यालोकेन(7) नात्यर्थं रङ्गपीठस्य दुष्प्रेक्षता । एतच्चोत्सेधेनेत्येकवचनेन सूचितम् । अन्यथोत्सेधाभ्यामित्युच्येत ।
माल्यधूपाद्यत्र निर्माणकाल एव देयम् । तदधिष्ठातॄणां भूतादीनामुग्रत्वेन यत्नोपचरणीयत्वात् । तदाह -- विधिपुरस्कारैरिति । पुरस्कारशब्देन विधिर्वास्तुशास्त्रोक्तः । (64-67)
रङ्गपीठे कार्ये रङ्गशिरस्तावदाह -- रङ्गशीर्षमिति । नेपथ्यगृहभित्तिलग्नौ स्तम्भावष्टहस्तान्तरावन्योन्यं निवेश्य तयोर्यन्मुखं तदपेक्षया चतुर्हस्तान्तरं स्तम्भद्वयम् । तेषामधस्तनं काष्ठमुपरितनं चेति षड् दारूणि । यत्र षड् दारूणि तत्षड्दारुकम् ।
संज्ञायां कन् । तत्तेन

[(मू)]

1. न॰ हस्ता चोत्सेधा ।

2. च॰ ब॰ म॰ तया तुल्यम् ।

3. न॰ आसनं चात्र । ठ॰ म॰ पायसं चात्र ।

4. च॰ भोजनं कृशरा ।

5. च॰ त॰ ब॰ दातव्या ।

6. न॰ विधैः ।

7. न॰ मसंवृतम् ।

[(व्या)]

1. त्येवमित्य ।

2. म॰ षामृते ।

3. भ॰ हस्त ॰ न्त्र यथा ।

4. भ॰ ति वच ।

5. नोपेक्षि ।

6. भ॰ माणेनोन्न ।

7. भ॰ कनेना ।

8. मुखापेक्ष ।

[page 61]




[NZ]

कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य 1तु । BhNZ_02_069ab
पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ BhNZ_02_069cd
2लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम्3 BhNZ_02_070ab
लाङ्गले शुद्धवर्णो4 तु धुर्यौ योज्यौ प्रयत्नतः ॥ BhNZ_02_070cd
कर्तारः पुरुषाश्चात्र5 ये6 ऽङ्गदोषविवर्जिताः । BhNZ_02_071ab
7अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः8 BhNZ_02_071cd
9एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । BhNZ_02_072ab
कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ BhNZ_02_072cd
शुद्धादर्शतलाकारं10 रङ्गशीर्षं11 प्रशस्यते । BhNZ_02_073ab
रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ BhNZ_02_073cd
वैडूर्यं दक्षिणे 12पार्श्वे स्फटिकं पश्चिमे तथा । BhNZ_02_074ab
प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत्13 BhNZ_02_074cd
[ABh]

विचित्ररचनोपेतत्वं लभ्यते । अत्र नेपथ्यगृहस्य द्वारद्वयं कार्यं । एकं दक्षिणतः । अपरमुत्तरतः । तच्च द्वारद्वयमापादितं कूर्परा(1)भिन(म)त्या भवति । तत्पात्राणां विश्रान्त्यै आगच्छतां च गुप्त्यै रङ्गस्य शोभायै रङ्गशिरः कार्यम् ।
अन्ये तु --
पार्श्वद्वयोर्ध्वाधरदारुमण्डितं स्तम्भद्वयोपेतमिहाच्छपात(2)कम् ।
इति षड्दारुकमाहुः । अन्ये(अत्र) तूर्धू(3)स्तम्भशिरसो दूरं (4)निर्गतकाष्ठादप्रत्यूहस्ततो (हतो) विनिर्गता तुलासञ्जवनफलकाः स्मृताः । आकाशे भित्तिव्याख्याः स्तम्भाश्रिताः सिंहादयो व्यालानुबन्धाश्च निर्यू(5)हास्तुलान्तान्निस्सृताः फलकभित्तिमयाः कुहराणि पर्वतपुरनिकुञ्जगह्वररूपाणीति षड्दारुकम् । सर्वत्र च पक्षे दाक्षिणोत्तरगतं द्वारद्वयं पात्राणां प्रवृत्तिभेदकृतात्प्रदक्षिणा(6)प्रदक्षिणप्रवेशत्वात् । शुद्धवर्णौ । शुक्लौ । धुर्यौ दान्तौ । (68-71)

[(मू)]

1. ज॰ नेपथ्यस्य गृहस्य च ।

2. प॰ लाङ्गले च ।

3 , ठ॰ शर्कराम् । म॰ शर्करा ।

4. ज॰ ब॰ वर्णे ।

5. न॰ पुरुषाश्चैव । ठ॰ म॰ पुरुषास्तत्र ।

6. च॰ ब॰ शब्द ।

7. ठ॰ अहीनाश्चैव ।

8. ग॰ ब॰ पीवरैर्नरैः । पिटकैर्नरैः ।

9. ठ॰ म॰ त॰ एवंविधैश्च कर्तव्यम् ।

10. च॰ त॰ तलप्रख्यम् ।

11. न॰ ब॰ त॰ रङ्गपीठम् ।

12. ठ॰ म॰ चैव ।

13. न॰ तथा ।

[(व्या)]

1. भ॰ राभिन्नश्चाभव । राभिनश्च ।

2. पातम् ।

3. तूहः स्त ।

4. भ॰ रनिर्गतकाष्ट्जं प्र ।

5. निर्व्यू ।

6. णं प्रद ।

[page 62]




[NZ]

एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत्1 BhNZ_02_075ab
ऊहप्रत्यूहसंयुक्तं नानाशिल्पप्रयोजितम् ॥ BhNZ_02_075cd
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । BhNZ_02_076ab
2ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ BhNZ_02_076cd
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । BhNZ_02_077ab
नानाविन्याससंयुक्तं 3चित्रजालगवाक्षकम् ॥ BhNZ_02_077cd
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । BhNZ_02_078ab
नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ BhNZ_02_078cd
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । BhNZ_02_079ab
स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ BhNZ_02_079cd
[ABh]

कूर्मपृष्ठमिति । समन्ततो निम्नं मध्ये च वर्तुलरूपं मन्दम् । तत्तादृगेव मध्ये दीर्घरूपं मत्स्यपृष्ठम् । तदुभयं (1)नात्र कार्यम् । समं तुल्यं कार्यम् । रत्नानि तदायुधं तद्वर्णानुरूपत्वेन यथायोगम् । कृत्वेति । पूर्वं विभज्य बुद्ध्येति यावत् । दारुकर्मेत्युक्तं विभजति -- ऊहप्रत्यूहसंयुक्तमित्यादिना स्तम्भश्चाप्युपशोभितमित्यन्तेन । अनेकसालभञ्जिकाः काष्ठमय्यः कान्ता(न्त)प्रकृतयः । नानाकृतिभिर्ग्रथिताः वेदिकाश्चतुरश्रिकाः यत्र । चित्राणि जालानि चतुरश्राष्टाश्रच्छिद्ररूपाणि गवाक्षाणि च वर्तुलच्छिद्रात्मकानि यत्र । पीठानि स्तम्भोपरि । तेषु धारिण्यस्तुलाः । कपोताली विटङ्कपाली । कुट्टिमस्य नानात्वं रङ्गश्रिरोरङ्गपीठमत्तवारणीद्वयभेदात् । सर्वत्र तथाविधदारुकम् । रक्तसितनीलपीतादिभेदाद्वा । अत्रोहप्रत्यूहावन्वयव्यतिरेक(2)तर्कोपयोगिनौ केचिदाहुः । (72-78)
प्रतिद्वारमवान्तरद्वारं द्वारेण विद्धं परस्परसंमुखीभूतमध्यं न कुर्यात् । नागदन्तं स्तम्भोर्ध्वनीचस्थां(3)शकं(नीडस्थाङ्गकं) पुत्रिकाधारणार्थं गजमुखमिति केचित् । द्वे भूमी रङ्गपीठस्याधस्तनोपरितनरूपेणेति केचित् । मत्तवारणी बहिर्निर्गमनप्रमाणेन सर्वतो द्वितीयभित्तिनिवेशेन देवप्रसादाद्धा(दद्वा)रिका (देवप्रासादाट्टालिका ?) प्रदक्षिणसदृशी द्वितीया

[(मू)]

1. ठ॰ म॰ प्रवर्तयेत् ।

2. ब॰ `भवेयुश्चात्र विन्यस्ता विविधाः सालभञ्जिकाः ।' इत्यधिकं दृश्यते । ब॰ अट्टालभञ्जि । म॰ इतः पञ्च पङ्क्तयो न सन्ति ।

3. च॰ यन्त्रजाल ।

[(व्या)]

1. म॰ भ॰ चात्र ।

2. भ॰ कात्तदुप ।

3. म॰ नीपस्वांशगम् ।

[page 63]




[NZ]

1कोणं वा सप्रतिद्वारं 2द्वारविद्धं न कारयेत् । BhNZ_02_080ab
कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ BhNZ_02_080cd
मन्दवातायनोपेतो 3निर्वातो धीरशब्दवान्4 BhNZ_02_081ab
तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ BhNZ_02_081cd
गम्भीरस्वरता येन5 कुतपस्य 6भविष्यति । BhNZ_02_082ab
भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ BhNZ_02_082cd
सुधाकर्म 7बहिस्तस्य विधातव्यं प्रयत्नतः । BhNZ_02_083ab
भित्तिष्वथ विलिप्तासु8 परिमृष्टासु सर्वतः9 BhNZ_02_083cd
समासु जातशोभासु चित्रकर्म प्रयोजयेत् । BhNZ_02_084ab
चित्रकर्मणि10 चालेख्याः पुरुषाः स्त्रीजनास्तथा ॥ BhNZ_02_084cd
लताबन्धाश्च11 कर्तव्याश्चरितं चात्मभोगजम् । BhNZ_02_085ab
एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ BhNZ_02_085cd
[ABh]

भूमिरित्यन्ये । उपरि मण्डपान्तरनिवेशनादित्यन्ये । अद्विभूमिरित्येके । उपाध्यायास्तु वीप्सागर्भं व्याचक्षते । द्वे द्वे भूमी यत्र निम्नाते (निम्नोन्नते) ततो ऽप्युन्नता इति निक्रमेण (निम्नोन्नतक्रमेण) रङ्गपीठनिकटा(1)त्प्रभृति द्वारपर्यन्तं यावद्रङ्गपीठोत्सेधतुल्योत्सेधा भवति । एवं हि परस्परानाच्छादनं सामाजिकानाम् । शैलगुहाकारत्वं(त्वात्) स्थिरशब्दादित्वं च भवति । मन्दत्वं वातायनानां जलकपान(जालकपाट)योगात्कार्यम् । कुतपः(2) संफेटकगायनवादकसमूहः । कुर्नाट्यभूमिस्तां तपति उज्ज्वलयतीति कृत्वा । कुतं शब्दं पातीत्यन्ये । गम्भीरत्वं तत्रैव शब्दस्य भ्रमणादन्योन्यप्रतिश्रुतिकारसमारम्भसम्पूर्णाच्च(?) । भित्तिलेपो भङ्ग(शङ्ख)वालुकाशुक्तिकालेपः । लताबन्धा द्रुमलता(3)दिबन्धसन्निवेशा वा मा(4)लत्यादिलतागतातोद्यवेष्टनवैचित्र्यप्रकारा वा वक्ष्यमाणपिण्डीबन्धप्रकारविशेषाश्च । एतदुपसंहरति -- एवं विकृष्टमिति । (79-85)

[(मू)]

1. कार्ष्णायसं प्रति ।

2. ठ॰ म॰ दारुविद्धम् ।

3. ठ॰ म॰ त॰ निवातो ।

4. त॰ म॰ ता॰ शब्दभाक् ।

5. ज॰ म॰ गाम्भीर्यं सुस्वरत्वं च । न॰ सगाम्भीर्यादवैस्वर्यम् ।

6. ठ॰ म॰ भवेदिह ।

7. ठ॰ विधिस्तस्य । ठ॰ म॰ तथैवास्य कुर्याद्बाह्यम् ।

8. ठ॰ म॰ भित्तिष्वपि च लिप्तासु । न॰ भित्तिकर्मसु लिप्तासु ।

9. ज॰ परिवृत्तासु सर्वशः ।

10. च॰ चित्रकर्मणि ।

12. त. बद्धाश्च ।

[(व्या)]

1. म॰ भ॰ करात्प्र ।

2. म॰ भ॰ काल्मः ।

3. म॰ भ॰ द्रमिडादि यत्र ।

4. म॰ भ॰ मालक्ष्म्यादि ।

[page 64]




[NZ]

पुनरेव1 हि वक्ष्यामि चतुरश्रस्य लक्षणम् । BhNZ_02_086ab
2समन्ततश्च कर्तव्या हस्ता द्वातिंशदेव तु ॥ BhNZ_02_086cd
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । BhNZ_02_087ab
यो विधिः पूर्वमुक्तस्तु लक्षणं 3मङ्गलानि च ॥ BhNZ_02_087cd
4विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । BhNZ_02_088ab
चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ BhNZ_02_088cd
बाह्यतः सर्वतः कार्या भित्तिः 5श्लिष्टेष्टका दृढा । BhNZ_02_089ab
6तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ BhNZ_02_089cd
[ABh]

यद्यपि समचतुरश्रो ऽत एव शक्य ऊहितुं तथापि विस्पष्टार्थं वक्ष्यामीत्याशयेन पुनःशब्देनोपक्रमते -- पुनरेवेति । ननु विकृष्टे स्तम्भविभागरङ्गयोग्जनादि नोक्तं तत्कथं प्रतिपत्तव्यमित्याशङ्कायामावृत्त्यानेनैवोत्तरं -- चतुरश्रसम्बन्धि यल्लक्षणं तत्पुनर्यस्माद्वक्ष्यामो घटस्य(यदस्य) विकृष्टस्य सम्बन्धित्वेन तस्मान्नापूर्णं विकृष्टलक्षणम् । तथा यदस्य लक्षणमुक्तं तच्चतुरश्रे ऽपि सञ्चारणीयमिति पुनश्शब्देन दर्शयति । तेनातिदेशा(शम)नागतापेक्षणाख्यं तत्र युराति(योजयति) । चतुरश्रमाह -- समन्तत इति । सर्वेष्वन्तेषु चतसृष्वपि दिक्ष्वित्यर्थः । प्रविभज्य चेति । पूर्ववदेवेत्यर्थः । यदि बाह्यतो भित्तिरभ्यन्तरे किमित्याह -- तत्राभ्यन्तर इति । अष्ठभिर्भागैः सर्वतः क्षेत्रं विभजेत् । येन चतुरङ्गफलकवच्चतुष्षष्टिकोष्ठं भवति । तत्र मध्यमकोष्ठकचतुष्के रङ्गपीठं सर्वतो ऽष्टहस्तम् । तस्य पश्चिमे भागे प्राक्पश्चिमं द्वादशहस्तं दक्षिणोत्तरतो द्वात्रिंशत्करं तत्क्षेत्रमवशिष्यते । (अत्र (1) यद्रङ्गपीठेन स्वीकृतं तद्धि हस्ताष्टकमेव ।) यदवशिष्टं क्षेत्रं तन्मध्याद्रङ्गपीठनिकटगतं प्राक्पश्चिमश्चतुर्हस्तं विस्तारेण द्वात्रिंशद्धस्तं क्षेत्रांशाद्विभज्य तावत्प्रमाणमेव पश्चिमभागे ऽपि ष(ड्दारु)कसंस्थानं रङ्गशिरः कुर्यात् । ततो ऽपि पश्चिमे तावदेव नेपथ्यग्रहणम्(गृहम्) । एवं स्थिते रङ्गपीठं लक्षयित्वा दश स्तम्भाः षड्दारुकस्तम्भव्यतिरिक्ता देयाः । तत्र कोणचतुष्टये तावच्चत्वारः । तत्राग्नेयस्तम्भाच्चतुर्हस्तान्तरे दक्षिणदिश्येकः स्तम्भः । तथैव नैरृतस्तम्भाद् द्वितीयः ।

[(मू)]

1. ठ॰ म॰ त॰ अतःपरम् ।

2. ठ॰ म॰ त॰ समन्ततस्तु कर्तव्यो हस्तो ।

3. ठ॰ मण्डलानि च । म॰ मण्टपानि च ।

4. ठ॰ म॰ ब॰ चतुरश्रस्य तान्येव कारयेन्नाट्यवेश्मनः ।

5. क॰ श्लिष्टेष्टकादयः ।

6. न॰ कृताभ्यन्तरतः कार्यं रङ्गपीठं यथाविधि । ठ॰ म॰ त॰ रङ्गपीठे यथादिशम् । प॰ यथादृढम् ।

[(व्या)]

1. भ॰ म॰ अयं रङ्गपीठेन स्वीकृतं तद्वद्विहस्ताष्टक एव ।

[page 65]




[NZ]

दश प्रयोक्तृभिः स्तम्भाः 1शक्ता मण्डपधारणे । BhNZ_02_090ab
स्तम्भानां बाह्यतश्चा2पि सोपानाकृति3 पीठकम् ॥ BhNZ_02_090cd
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । BhNZ_02_091ab
हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ BhNZ_02_091cd
रङ्गपीठावलोक्यं तु 4कुर्यादासनजं विधिम् । BhNZ_02_092ab
5षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम्6 BhNZ_02_092cd
[ABh]

एवमुदीच्यामपि स्तम्भद्वयम् । पूर्वभागे ऐशानाग्नि(1)गतात्स्तम्भाच्चतुर्हस्तान्तरं स्तम्भद्वयमिति षट् । कोणगाश्चत्वार इति ये दश त एव । बहिः सामाजिकासनानि सर्वेभ्यो वा बहिः । अतिसामीप्ये दृष्टिविघातात् । अत एवाह रङ्गपीठावलोकने साधुभूतमिति । अनेन द्विभूमित्वमेवानुसंहितम् ।
अन्तरे स्तम्भविधिमाह -- षडन्यानिति । रङ्गपीठस्य दक्षिणतो निवेशितस्तम्भद्वयाच्चतुर्हस्तान्तरौ अन्योन्यमष्टहस्तान्तरौ द्वौ । तत आग्नेयस्तम्भसम्मुखो यो ऽन्यस्तु पूर्वः स्तम्भः ततश्चतुर्हस्तान्तरं दक्षिणस्तम्भं कुर्यादिति पूर्वन्यस्तानां दक्षिणस्तम्भानां दक्षिणभित्तेश्चान्तराले स्तम्भत्रयम् । एवमुत्तरस्यामपि ।
तेषामुपरीति । अधिकानष्टौ दद्यात् । तत्र दक्षिणभित्तेरुदग्भागे चतुर्हस्तान्तरं पूर्वस्थापितस्तम्भाद्भित्तेश्चैकं स्तम्भं दद्यात्पूर्वम् । एवमुत्तरभित्तेर्दक्षिणदिग्भागे । ततः पूर्वभित्तेश्चतुर्हस्तान्तरौ रङ्गभागद्वयानुसारेण(2) द्वौ(द्वौ द्वौ) । ततो ऽपि चतुर्हस्तान्तरौ द्वावित्यष्टौ ।
विद्धमास्यं मुखं यस्य तत् पद्मादिविरचितं मुखं स्तम्भेष्वष्टहस्तं पीठं निक्षिपेत् । विद्धास्यस्योपरि हस्तप्रमाणधारिणीनां तुलानां धारकाः(3) स्तम्भाः ... ... श्रयाः इति चतुरश्रे स्तम्भविधिः ।
तमेव विकृष्टे(4) त्रिकोणेषु स्वबुद्ध्या योजयेदिति श्रीशङ्कुकाद्याः । अन्ये तु `अष्टौ स्तम्भान्पुनश्च' इति नेपथ्यगृहविषयानेतानाहुः ।

[(मू)]

1. ब॰ शस्ता मण्डपलक्षणे । न॰ शुभा मण्डपधारिणः । त॰ शक्या मण्डपरक्षणे ।

2. ठ॰ म॰ स्थाप्यम् ।

3. त॰ सोपानकृत । म॰ सोपानकृति ।

4. ठ॰ म॰ कुर्यादासनिकम् ।

5. प॰ म॰ षडन्यान्सुन्दरान्दद्यात् । प॰ म॰ षडन्यान्सान्तरान्दद्यात् । ब॰ षड्न्यासान् सान्तरान् ।

6. ज॰ यथादरम् ।

[(व्या)]

1. भ॰ म॰ नदिग्गता । नाग्नेयस्तम्भ ।

2. भ॰ ण ततो ऽपि ।

3. भ॰ धाराकाराः ।

4. म॰ भ॰ ष्टत्रि ।

[page 66]




[NZ]

विधिना 1स्थापयेत्तज्ञो दृढान्मण्डपधारणे । BhNZ_02_093ab
अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि 2कल्पयेत् ॥ BhNZ_02_093cd
3स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । BhNZ_02_094ab
विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत्4 BhNZ_02_094cd
[ABh]

वार्त्तिककृत्तु(1) --
`` अन्तर्नेपथ्यगृहं स्तम्भौ द्वौ पीठकाश्च चत्वारः ।
... ... न्ये चत्वारो दशैवमुक्ता भवन्त्येते ॥
भित्तेः स्तम्भानां च स्यादन्तरमष्टहस्तमेवान्ते ।'' इति ।
दत्तो ऽद्यवातार्थः(2), सो ऽथा नानाभवेदुक्तः(3) (?) ।
चत्वारः पीठगताः पश्चादग्रे च याविह द्वौ द्वौ ॥
षट् सान्तरास्तथान्ये कार्या इति शास्त्र(तात्पर्यम्) ।
... ... पीठगताः पश्चादग्रे च याविह द्वौ द्वौ ॥ (?)
तेषामष्टावन्ये ऽप्युपरि निवेश्या य उद्दिष्टाः ।
तैरुत्क्षिप्तैरिह तले स्वादालोकः समस्तरङ्गस्य(4) ॥
सोपानाकृति पीठकमत्र विधेयं समन्ततो रङ्गे ।
येनालोक ... ... प्युपरि काष्ठासु ॥ इति ॥
अन्ये ऽपि चैवंविधा बहवः प्रवादा ग्रन्थविस्तरभया(5)न्न लिखिताः ।
अयं च(6)न्द्रसोदर(चात्र सार) इत्युपाध्यायाः । इह प्रेक्षामण्डपस्य त्रिधा कल्पना कृता । अधोभूमिः रङ्गपीठं रङ्ग इति । तेषु चायं स्तम्भविन्यासविधिविच्छेद उक्तः ।
तथा हि -- अधोभूमौ स्तम्भानाह -- तत्राभ्यन्तरत इति । विस्तारो द्वादशहस्तायाममेवं च चतु .... ... (र्हस्तान्तरा) दातव्याः । द्वौ स्तम्भौ भित्तिद्वयापेक्षया द्वादशहस्तान्तावन्योन्यापेक्षया

[(मू)]

1. क॰ धारयेत्तज्ज्ञो । ठ॰ म॰ स्थापयेत्प्राज्ञो गूडा मण्डप ।

2. ठ॰ म॰ कारयेत् ।

3. ठ॰ म॰ संस्थाप्यं च पुनः पीठमष्टहस्तप्रमाणतः । ड॰ विद्धास्यं च पुनः पीठमष्टौ हस्तप्रमाणतः ।

4. ब॰ इतः परं `संस्थाप्यं च ततः पीठमष्टहस्तप्रमाणतः ।' इति पठ्यते । म॰ इदमर्धं नास्ति ।

[(व्या)]

1. भ॰ कृतः ।

2. भ॰ वाताशः ।

3. भ॰ दुक्ताः ।

4. म॰ रङ्गमद्य । भ॰ रङ्गतले ।

5. म॰ भ॰ रत्वान्न ।

6. म॰ भ॰ चात्र ।

[page 67]




[NZ]

तत्र स्तम्भाः प्रदातव्यास्तज्ज्ञैर्मण्डपधारणे । BhNZ_02_095ab
1धारणीधारणास्ते च शा2लस्त्रीभिरलङ्कृताः ॥ BhNZ_02_095cd
नेपथ्यगृहकं चैव ततः कार्यं 3प्रयत्नतः । BhNZ_02_096ab
द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम्4 BhNZ_02_096cd
जनप्रवेशनं5 चान्यदाभिमुख्येन कारयेत् । BhNZ_02_097ab
रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ BhNZ_02_097cd
[ABh]

चाष्टहस्तान्तरौ । अन्योन्यं तयोरन्तरं तथा कार्यं येन द्वारविद्धता न भवति । इत्येवं पञ्चतुलासु दश ।
एतत्स्तम्भदशकव्यतिरिक्तायां भूमावासनविधिरित्याह -- स्थम्भानां बाह्यतश्चापीत्यादि । पूर्ववद्व्याख्येयम्। अथ रङ्गपीठे स्तम्भन्यासमाह -- षडन्यानित्यादि । उपरि रङ्गपीठमुखोपलक्षितस्य वा(?)नेपथ्यगृहस्य(1) वारुणकोण इत्युक्तं भवति । रङ्गपीठस्य यत्पृष्ठं रङ्गशिरस्तत्र द्वितीयमिति राश्यपेक्ष्यैकवचनम् । तेन द्वारद्वयमेव रङ्गशिरसि नेपथ्यगतपात्रप्रवेशाय कर्तव्यम् । चकारादन्य(प्रेवेशा)र्थम्(2) । जनप्रवेशनद्वारम् । त्रीणि वा कार्याणि मतान्तरे इति सङ्गृहीतं भवति । सर्वग्रहणादन्यूनाधिकत्वमत्र दर्शयन् विकृष्टे स्तम्भानामाधिक्यमभ्यनुजानीते (?) । (83-94)
त्र्यश्ररङ्गपीठे तु प्रतिरङ्गमध्य इति । रङ्गो ऽत्र तच्छिरः । ततः (3)पृष्टतः रं ... ... गेयादिवाभितः(4) (?) कर्मप्रवचनीयो वर्जग(न)द्योतकः । रङ्गपीठं वर्ज(5)यित्वा तदभ्यन्तरमण्डपस्य । तत्र द्वात्रिंशद्धतेषु रङ्गपीठे प्रतिकोणस्तम्भा इत्यष्टहस्तान्तराश्चत्वारः । तदनन्तरं स्तम्भद्वयमिति षडप्येते ऽष्टहस्तान्तरं ततो द्वादशहस्तायामं यदँवशिष्यते तत्र चतुर्हस्तायामं द्वात्रिंशद्धस्तवितारं यद्रङ्गशिरस्तत्र द्वे तुले दातव्ये । प्रतितुलं चाष्टहस्ता(न्तरं स्तम्भचतुष्टयं)वर्जयित्वेत्यष्टौ भवन्ति । अत एव हि विद्धास्यमष्टहस्तं चतुर्हस्तान्तराले ऽपि तिरश्चीनं देयम् । येन तुलितं चित्रं भवति । एतदाहाष्टौ स्तम्भानित्यादि । ... ... शादसौभौयादिको वा सिरयमुपरीति (?) । रङ्गपीठस्य यदुपरि शिरोरूपमित्यर्थः । तथा च विकृष्टमण्डपे रङ्गपीठापेक्षया

[(मू)]

1. ठ॰ धरणीधारितास्ते । म॰ धारणीधारतास्ते च ।

2. शालास्त्रीभिरलङ्कृताः । त॰ सालस्त्री ।

3. ठ॰ म॰ प्रयोक्तृभिः ।

4. ठ॰ म॰ प्रवेशने ।

5. ठ॰ म॰ प्रवेशने चैवमादिमुख्येन ।

[(व्या)]

1. म॰ भ॰ वाननेपथ्यगृहम् ।

2. म॰ भ॰ न्यपरस्यार्धम् ।

3. भ॰ अत्र पूजितापि तस्य । म॰ रस्तुनः पृष्ठ ... ... गेयादिवा ।

4. भ॰ वाभिरितः । म॰ वाभिरतः ।

5. भ॰ वर्तयित्वा ।

[page 68]




[NZ]

अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । BhNZ_02_098ab
चतुरश्रं1 समतलं वेदिकासमलङ्कृतम् ॥ BhNZ_02_098cd
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । BhNZ_02_099ab
चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ BhNZ_02_099cd
समुन्नतं समं चैव 2रङ्गशीर्षं तु कारयेत् । BhNZ_02_100ab
विकृष्टे 3तून्नतं कार्यं चतुरश्रे समं तथा ॥ BhNZ_02_100cd
एवमेतन विधिना चतुरश्रं गृहं भवेत् । BhNZ_02_101ab
अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ BhNZ_02_101cd
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः । BhNZ_02_102ab
मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ BhNZ_02_102cd
द्वारं 4तेनैव कोणेन कर्तव्यं 5तस्य वेश्मनः । BhNZ_02_103ab
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ BhNZ_02_103cd
[ABh]

रङ्गशिर उन्नतं वक्ष्यते । तत्र नियमादष्टस्तम्भा न्यस्यन्ते । अपि तु दृढा न्यसनीया इति दर्शयति -- तत्र स्तम्भा इति । अथा(1)विशिष्टेषु हस्तेषु विधिमाह -- नेपथ्यगृहकमिति । रङ्गपीठप्रवेशनमिति वचनेनेदमाह -- कक्ष्याविभागेन तावत् द्वे द्वारे तेन द्वारमिति जातावेकवचनम् । एकशब्दश्च राश्यभिप्रायेण । राशिकरणे च निमित्तं पात्रप्रवेशोपायनम् । तथा च कक्ष्याध्याये वक्ष्यति --
``ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासः ।''(ना॰ शा॰ 13-2) इति ।
(जन)प्रेवेशनं च तृतीयद्वार(2)नेपथ्यगृहस्य । येन भार्यामादाय नटपरिवारः प्रविशति । अन्यत्तु द्वारमाभिमुख्येन पूर्वस्यां दिशि कुर्यात् । द्वारवृत्त्या सामाजिकजनप्रवेशार्थम् । ननु किमपेक्षमाभिमु(ख्यम् । कक्ष्यापे)क्षयैव पूर्वादिभिरित्युक्तम् । यद्वक्ष्यति च --
`यतो मुखं भवेद्भाण्डद्वारं नेपथ्यकस्य तु ।
सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे विपश्चिता ॥'(ना॰ शा॰ 13-11) इति ।
एवं चतुर्द्वारं नाट्यगृहम् ।

[(मू)]

1. ठ॰ ब॰ चतुरश्रे ।

2. ठ॰ म॰ रङ्गपीठम् ।

3. ठ॰ म॰ प्युन्नतम् । ड॰ ह्युन्नतम् ।

4. ड॰ ब॰ म॰ त॰ द्वारमेकेन ।

5. प॰ म॰ तु प्रकाशने । न॰ तन्निवेशनम् । ठ॰ तु प्रवेशने ।

[(व्या)]

1. अथवाव ।

2. रं नेप ।

[page 69]




[NZ]

1विधिर्यश् चतुरश्रस्य भित्तिस्तम्भसमाश्रयः2 BhNZ_02_104ab
स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ BhNZ_02_104cd
एवमेतेन विधिना कार्या नाट्यगृहा3 बुधैः । BhNZ_02_105ab
4पुनरेतेषां प्रवक्ष्यामि पूजामेवं5 यथाविधि ॥ BhNZ_02_105cd


इति भारतीये नाट्यशास्त्रे मण्डपविधानो(6) नाम द्वितीयो ऽध्यायः ॥
[ABh]

अन्ये त्वाद्यद्वार(द्वयमि)वाद्येन हेतुनान्यद्वारद्वयं पार्श्वस्थितं कुर्यादालोकसिद्ध्यर्थमिति षड्द्वारं नाट्यगृहमाचक्षते । अथ रङ्गपीठरङ्गशिरसोर्वक्त्रत्र्यशेषं निरूपयति -- अष्टहस्तन्त्विति । वेदिके शोभायुक्ते कार्ये । पूर्वप्रमाणम् । अध्यर्धहस्तोत्सेधत्वम् । समुन्नतमिति । रङ्गपीठापेक्षया । एतच्चेह प्रसङ्गात्सूचयन् विकृष्टे तेनैव प्रकारेण स्तम्भत्रय्यधिका कर्तव्या । अन्तरमप्यत्रैव दर्शितम् । (95-101)
अथ त्र्यश्रस्यातिदेशद्वारेण लक्षणं कर्तुमुपक्रममाह -- त्र्यश्रमिति । त्रिकोणमिति लक्षणम् । उभयानुग्रहाच्च विकृष्टचतुरश्रमानद्वयमेव भवति । मध्ये च त्रिकोणमेव रङ्गपीठम् । तथैव रङ्गशिरसः । नेपथ्यगृहं च । तेनैव कोणेनेति । वारुणीगतेन । द्वारं जनप्रवेशनम् । येन तस्मिन्नेव कोणे द्वारे कर्तव्ये । सङ्गतिं सूचयति -- एवमेतेनेति । एतेन विधिना बहवो नाट्यमण्डपाः, न तु पूर्वोक्ताष्टादशभेदकलनयेत्यर्थः । बुधैरित्यूहापोहविद्भिः । पुनरिति । यद्यपि(1) गदिताः सर्वे शुभदाः । पूजामिति । तथापि वक्ष्यामीति पुनश्शब्दार्थः । तत्र हि विधाने(नं)नोक्तम् । तदाह -- यथावधीति । एषामिति मण्डपस्था देवताः । अनेनोपचारादुक्ताः । (102-105)


इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीयनाट्यशास्त्रविवृतौ मण्डपाध्यायो द्वितीयः ॥

(मूल)

1. म॰ द्वितीयं चतुरश्रस्य । क॰ विधेयश्च पुरस्तस्य ।

2. ड॰ म॰ समन्वितः ।

3. म॰ कार्यं नाट्यगृहं बुधैः ।

4. च॰ म॰ तत ऊर्ध्वम् ।

5. च॰ म॰ मेषाम् ।

6. ठ॰ म॰ प्रेक्षागृहलक्षणम् ।

[(व्या)]

1. भ॰ यद्य ... ... जाताः । म॰ यद्य ... ... गताः सर्वे ।

[page 70]




श्रीः
अथ तृतीयो ऽध्यायः ।

[NZ]

सर्वलक्षणसम्पन्ने कृते नाट्यगृहे शुभे । BhNZ_03_001ab
गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ BhNZ_03_001cd
ततो ऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । BhNZ_03_002ab
मन्त्रपूतेन तोयेन 1प्रोक्षिताङ्गो निशागमे ॥ BhNZ_03_002cd
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । BhNZ_03_003ab
त्रिरात्रोपोषितो भूत्वा 2नाट्याचार्यो ऽहताम्बरः ॥ BhNZ_03_003cd
नमस्कृत्य महादेवं 3सर्वलोकोद्भवं भवम् । BhNZ_03_004ab
4जगत्पितामहं चैव विष्णुम् इन्द्रं गुहं तथा ॥ BhNZ_03_004cd
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां 5धृतिं स्मृतिम् । BhNZ_03_005ab
6सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ BhNZ_03_005cd
मित्रमग्निं 7सुरान् वर्णान् रुद्रान्कालं कलिं तथा । BhNZ_03_006ab
मृत्युं च 8नियतिं चैव 9कालदण्डं तथैव च ॥ BhNZ_03_006cd
[ABh]

यदाप्यायपरा लो... ... ... ... ।
... ... ... ... तत्तेजोवपुरैश्वरम् ॥
निष्पन्ने मण्डपे पूजावश्यं कर्तव्येति सङ्गतिः । तत्र प्रयोगक्रमो ऽयम् । त(अत)थात्वे ऽध्या(गताध्या)यानन्तरं पूर्वरङ्गाभिधानापत्तेः । तस्मान्मण्डपविधानशेष ए(व दर्शयि)ष्यते । अवश्यपूज्यत्वात् । जप्यपरैरिति । ये रक्षोघ्ना मन्त्रास्तज्जापकैरित्यर्थः । तत इति ।

[(मू)]

1. ड॰ प्रेषिताङ्गो ।

2. ब॰ नायको ऽहतवस्त्रधृक् ।

3. ठ॰ म॰ सर्वलोकेश्वरं भवम् । ज॰ विभुम् । च॰ ब॰ सर्वलोकोद्भवोद्भवम् ।

4. ज॰ म॰ पद्मयोनिं सुरगुरुम् ।

5. ठ॰ त॰ म॰ स्मृतिं मतिम् ।

6. ठ॰ म॰ सेन्दु ।

7. च॰ ब॰ स्वरान् । म॰ सुरान्रुद्रान् वर्णान् ।

8. प॰ निरृतिम् ।

9. म॰ कालं दण्डं तथैव च ।

[(व्या)]

[page 71]




[NZ]

विष्णुप्रहरणं चैव नागराजं च वासुकिम्1 BhNZ_03_007ab
वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरो मुनीन् ॥ BhNZ_03_007cd
2भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । BhNZ_03_008ab
असुरान्नाट्यविघ्नांश्च तथान्यान्दैत्यराक्षसान् ॥ BhNZ_03_008cd
तथा 3नाट्यकुमारीश्च 4महाग्रामण्यमेव च । BhNZ_03_009ab
यक्षांश्च गुह्यकांश्चैव भूतसङ्घांस्तथैव च ॥ BhNZ_03_009cd
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । BhNZ_03_010ab
5यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ BhNZ_03_010cd
6भवद्भिर्नो निशायां तु कर्तव्यः 7सम्परिग्रहः । BhNZ_03_011ab
साहाय्यं चैव दातव्यमस्मिन् नाट्ये सहानुगैः ॥ BhNZ_03_011cd
8सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । BhNZ_03_012ab
जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ BhNZ_03_012cd
9त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । BhNZ_03_013ab
10निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण11 BhNZ_03_013cd
[ABh]

सप्ताहादनन्तरम् । अधिवासयेदिति । देवता मण्डपमधिवसन्त्यागच्छन्ति । नाट्याचार्यो धर्म(र्यकृतमुपरि)तनदेवतोपनिमन्त्रणमधिवासनं वेश्मनः । दीक्षितो गृहीतव्रतः । नायको नाट्याचार्यः । नमस्कृत्यावाह्य । वदेदिति सम्बन्धः । परमेश्वरस्मरणं च प्रथममुचितमिति महादेवमिति । महाग्रामणीर्गणपतिः । अन्यांश्चेति । प्रथमाध्यायोक्तान् । (1-10)
एकत्रेति । स्थण्डिलभूभागे । कृतपमिति । चतुर्विधातोद्यभाण्डानि । एकत्र निवेशनं जर्जरस्य पूजार्थमवस्थानम् । (1)निवसत्यय(उपास्य)मिति कृत्यः । याम्यं

[(मू)]

1. ठ॰ म॰ त॰ खगेश्वरम् ।

2. ब॰ पुस्तके ऽयं श्लोको नास्ति । त॰ पुस्तके इदमर्धं नास्ति ।

3. ठ॰ म॰ नाट्यं च मातॄश्च ।

4. ठ॰ ब॰ तथा ग्रामाधिदेवताः ।

5. ठ॰ म॰ त॰ यथास्थानस्थितान्देवान्निमन्त्र्यैतद्वचो वदेत् ।

6. ठ॰ भगवद्भिर्निशायां नः ।

7. च॰ ब॰ महेन्द्रस्य प्रहरणं त्वं दानवनिषूदन ।

10. ब॰ निर्मितस्त्वं सर्वदेवैः ।

11. ठ॰ म॰ निवारणम् ।

[(व्या)]

1. म॰ भ॰ पनमार्येण निवसन्नियमिति ।

[page 72]




[NZ]

1नृपस्य विजयं शंस रिपूणां च पराजयम् । BhNZ_03_014ab
गोब्राह्मणशिवं2 चैव नाट्यस्य च विवर्धनम् ॥ BhNZ_03_014cd
एवं कृत्वा यथान्यायमुपास्यं3 नाट्यमण्डपे । BhNZ_03_015ab
निशायां तु प्रभातायां पूजनं 4प्रक्रमेदिह ॥ BhNZ_03_015cd
आर्द्रायां वा मघायां वा याम्ये 5पूर्वेषु वा त्रिषु । BhNZ_03_016ab
आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ BhNZ_03_016cd
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । BhNZ_03_017ab
रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ BhNZ_03_017cd
दिनान्ते दारुणे घोरे मुहूर्ते 6यमदैवते । BhNZ_03_018ab
आचम्य तु यथान्यायं 7देवता वै निवेशयेत् । BhNZ_03_018cd
रक्ताः प्रतिसराः 8सूत्रं रक्तगन्धाश्च पूजिताः । BhNZ_03_019ab
रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ BhNZ_03_019cd
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शाल्लितण्डुलैः9 BhNZ_03_020ab
नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ BhNZ_03_020cd
[ABh]

भरणीनक्षत्रम् । पूर्वेष्वि(1)ति नक्षत्रापेक्षानिर्देशः । तानि पूर्वफल्गुनी पूर्वाषाढा पूर्वा भाद्रपदा च । (उद्योतनमिति) ज्वलितदर्भोल्मुकेन स्प(द)र्शनं नीरा(2)च(राज)नमिति प्रसिद्धम् । प्रतिसरा इति । सूत्रविनिर्मिता ग्रन्थिमन्तः कङ्कणविशेषाः । मण्डपस्य रङ्गपीठादेश्चोपयुक्तं(3) सर्वं निवेश्यते । सूत्रमिति समन्ततो ... रित्येतत्सर्वं शेष(षम् ।) निवेशनमित्यावाहनकाले ऽर्घ्य(4)दानमित्यर्थः । अन्ये तन्नि(तु नि-)वेशनमित्यधिकरणे ल्युट् । मण्डलविशेषणं चैतत् । मण्डलं च यवादिभिरित्यादि । नागपुष्पं नागदन्तः । (11-21)

(मूल)

1. ग॰ ब॰ नृत्यस्य । ज॰ म॰ त॰ नृपाय विजयं देहि ।

2. ठ॰ म॰ हितम् ।

3. च॰ ब॰ निदध्यात् । म॰ त॰ मुषित्वा ।

4. ठ॰ म॰ त॰ प्रक्रमेद्बुधः ।

5. ठ॰ ब॰ पूर्वासु च ।

6. म॰ भूत । ग॰ ब॰ पूत ।

7. ठ॰ म॰ त॰ दैवतानि ।

8. ठ॰ म॰ तत्र । त॰ रक्तं प्रतिसरासूत्रम् ।

9. ठ॰ लक्षितैर्लाजतण्डुलैः ।

[(व्या)]

1. म॰ भ॰ पूर्वेतिथिनक्षत्रा ।

2. म॰ भ॰ निराचनमिति ।

3. भ॰ पयुक्तम् ।

4. म॰ भ॰ ले ऽर्थदा ।

[page 73]




[NZ]

एतैर्द्रव्यैर्युतं 1कुर्याद्देवतानां निवेशनम् । BhNZ_03_021ab
आलिखेन्मण्डलं2 पूर्वं यथास्थानं यथाविधि ॥ BhNZ_03_021cd
समन्ततश्च 3कर्तव्यं हस्ताः षोडश 4मण्डलम् । BhNZ_03_022ab
द्वाराणि चात्र कुर्वीत 5विधानेन चतुर्दिशम् ॥ BhNZ_03_022cd
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । BhNZ_03_023ab
तयोः 6कक्ष्याविभागेन7 दैवतानि निवेशयेत् ॥ BhNZ_03_023cd
पद्मोपविष्टं ब्रह्माणं 8तस्य मध्ये निवेशयेत् । BhNZ_03_024ab
आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः9 BhNZ_03_024cd
नारायणो महेन्द्रश्च 10स्कन्दः सूर्यो ऽश्विनौ शशी । BhNZ_03_025ab
11सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ BhNZ_03_025cd
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह12 BhNZ_03_026ab
विश्वेदेवाः सगन्धर्वा 13रुद्राः सर्पगणास्तथा ॥ BhNZ_03_026cd
दक्षिणेन निवेश्यस्तु 14यमो मित्रश्च सानुगः । BhNZ_03_027ab
पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयेत् ॥ BhNZ_03_027cd
[ABh]

षोडशहस्तं यथा भवति तथा कार्यमिति । अतः चतुर्हस्तं रङ्गपीठपृष्ठ एव मण्डलमित्युक्तं भवति । तेन शङ्कुकादिभिः षोडशहस्तावकाशाभावः आसनस्तम्भादिवशात् । तस्मादकृत एव रङ्गपीठे इत्यादि वृथैव बहुतर(1)(मुपन्यस्तम् । द्वे रेखे इति । प्राक्तने ।) तिर्यग्गतैका दक्षिणोत्तरगता । षष्ठे द्वितीया पूर्वपश्चिमगता । तयोः(2) रेखयोः । कक्ष्या स्थानान्तराणि । तेषु विभागेन भाविता(3)नि । तस्येति । मण्डलस्य । पद्मोपविष्टमिति । मध्ये पद्मं कार्यमित्यर्थः । आदाविति । तेन आदिदेशे ऐशानकोणे । प्रथमावसरे च

[(मू)]

1. च॰ ब॰ त॰ कार्यम् ।

2. ड॰ म॰ त॰ ब॰ मण्डपं चैव ।

3. ठ॰ म॰ स्तु कर्तव्या ।

4. ड॰ मण्डले ।

5. ठ॰ म॰ विधिना च ।

6. च॰ ब॰ उक्तविभागेन ।

7. ठ॰ नियोगेन ।

8. च॰ म॰ त॰ रङ्गमध्ये ।

9. ठ॰ सर्वभूतगणैः शिवः ।

10. ठ॰ म॰ स्कन्दार्कावश्विनौ शशी ।

11. ठ॰ सरस्वतीं च लक्ष्मीं च श्रद्धां मेधाम् ।

12. ठ॰ म॰ चन्द्रमा भानुरेव ।

13. ठ॰ म॰ रुद्राश्च ऋष्यस्तथा । न॰ त॰ रुद्राश्चाप्सरसस्तथा ।

14. न॰ यमः प्रेतगणैः सह ।

[(व्या)]

1. म॰ भ॰ तर ... ... न्तेन तिर्यग्ग ।

2. यतो ।

3. विताः ।

[page 74]




[NZ]

नैरृत्यां राक्षसांश्चैव 1भूतानि च निवेशयेत् । BhNZ_03_028ab
पश्चिमायां समुद्रांश्च वरुणं 2यादसां पतिम् ॥ BhNZ_03_028cd
3वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । BhNZ_03_029ab
4तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ BhNZ_03_029cd
उत्तरस्यां 5दिशि तथा धनदं संनिवेशयेत् । BhNZ_03_030ab
नाट्यस्य मातॄश्च तथा यक्षानथ 6सगुह्यकान् ॥ BhNZ_03_030cd
तथैवोत्तरपूर्वायां 7नन्द्याद्यांश्च गणेश्वरान् । BhNZ_03_031ab
ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयेत् ॥ BhNZ_03_031cd
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । BhNZ_03_032ab
ग्रामण्यमुत्तरे स्तम्भे 8पूजार्थं संनिवेशयेत् ॥ BhNZ_03_032cd
अनेनैव विधानेन यथास्थानं9 यथाविधि । BhNZ_03_033ab
10सुप्रसादानि सर्वाणि दैवतानि निवेशयेत् ॥ BhNZ_03_033cd
स्थाने स्थाने यथान्यायं 11विनिवेश्य तु देवताः । BhNZ_03_034ab
12तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः13 BhNZ_03_034cd
[ABh]

तथैवावाहनस्योक्तत्वात् । पद्मोपम(पविष्टमि)मिति प्रतिदिशः सम्बन्ध(1)नीयत्वेन(सम्बन्धानि । तेन) नवपद्ममण्डलमित्युक्तं भवति । दक्षिणपूर्वे आग्नेयस्तम्भ इति । उत्तरपूर्वे ऐशानस्तम्भ

[(मू)]

1. ठ॰ म॰ नैरृतांश्चैव सर्वभूतान् ।

2. ठ॰ म॰ च निवेशयेत् । न॰ चाम्भसां पतिम् ।

3. च॰ वायव्यां वै ।

4. न॰ म॰ निवेशयेच्च तत्रैव गरुडम् ।

5. न॰ म॰ कुबेरं च सैवैरनुचरैर्वृतम् । ज॰ म॰ सह ।

6. च॰ त॰ सहानुगान् ।

7. य॰ अयं श्लोको नास्ति । न॰ म॰ नन्दिनं च ।

8. न॰ पश्चिमे स्कन्दमेव च । स्तम्भे स्तम्भे यथान्यायं पूजार्थं संनिवेशयेत् ।

9. त॰ यथाशास्त्रम् ।

10. न॰ सुप्रसन्नानि । ब॰ सप्रसादानि । ठ॰ म॰ त॰ वर्णरूपान्विताः सर्वा देवताः संनिवेशयेत् ।

11. न॰ विनिवेश्यास्तु ।

12. ठ॰ म॰ प्रकुर्वीत ततस्तासाम् । न॰ ततःपश्चात् ।

13. न॰ यथार्थतः । म॰ त॰ यथाक्रमम् ।

[(व्या)]

1. म॰ भ... न्धि नीयते ऽनेन ।

[page 75]




[NZ]

देवताभ्यस्तु1 दातव्यं सितमाल्यानुलेपनम् । BhNZ_03_035ab
2गन्धर्ववह्निसूर्येभ्यो रक्तमाल्यानुलेपनम् ॥ BhNZ_03_035cd
गन्धं माल्यं च3 धूपं च यथावदनुपूर्वशः । BhNZ_03_036ab
दत्त्वा ततः प्रकुर्वीत 4बलिं पूजां यथाविधि ॥ BhNZ_03_036cd
ब्रह्माणं5 मधुपर्केण पायसेन सरस्वतीम् । BhNZ_03_037ab
शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ BhNZ_03_037cd
घृतौदनेन 6हुतभुक्सोमार्कौ तु गुडौदनैः । BhNZ_03_038ab
विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ BhNZ_03_038cd
यममित्रौ 7च सम्पूज्यावपूपैर्मोदकैस्तथा । BhNZ_03_039ab
पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ BhNZ_03_039cd
पक्वान्नेन8 तु मांसेन सुरासीथुफलासवैः । BhNZ_03_040ab
अर्चयेद्भूतसङ्घांश्च चणकैः 9पललाप्लुतैः ॥ BhNZ_03_040cd
अनेनैव विधानेन सम्पूज्या मत्तवारणी । BhNZ_03_041ab
10पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ BhNZ_03_041cd
11सुरामांसप्रदानेन 12दानवान्प्रतिपूजयेत् । BhNZ_03_042ab
13शेषान्देवगणांस्तज्ज्ञः सापूपोत्करिकौदनैः ॥ BhNZ_03_042cd
[ABh]

इत्यर्थः । सुप्रसादानीति । तथा (1)ध्यायेन निवेशितानीत्यर्थः । यथार्हतः तत्तदागमेषु यो यस्यां विधिर्दृश्यते देवतायां तेन क्रमेण । (22-34)

[(मू)]

1. ठ॰ म॰ दैवतेभ्यस्तु ।

2. ठ॰ म॰ वह्निगन्धर्व ।

3. ठ॰ ब॰ गन्धमाल्यांश्च । च॰ गन्धान् ।

4. च॰ पूजनं च यथार्हतः । त॰ बलिपूजां यथार्हतः ।

5. ठ॰ म॰ द्रुहिणम् ।

6. ज॰ म॰ वह्निश्च ।

7. ठ॰ म॰ समभ्यर्च्यौ मोदकैः सूपमिश्रितैः ।

8. म॰ पक्वामकेन । त॰ पक्वामेन तु ।

9. ज॰ पयसाप्लुतैः ।

10. प॰ म॰ त॰ पक्वामकेन मांसेन ।

11. च॰ ब॰ सुरया गुडधानेन मांसैश्च विधिनार्चयेत् ।

12. न॰ म॰ त॰ विधिना प्रति ।

13. च॰ ब॰ शेषाः देवगणाः सर्वे ऽपूपकाद्वारिकोत्करैः । म॰ गणान्प्राज्ञः । त॰ गणांश्चैव ।

[(व्या)]

1. भ॰ स्थानेन ।

[page 76]




[NZ]

मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । BhNZ_03_043ab
1सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ BhNZ_03_043cd
नानामूलफलैश्चापि2 मुनीन्सम्प्रतिपूजयेत् । BhNZ_03_044ab
वायूंश्च पक्षिणश्चैव 3विचित्रैर्भक्ष्यभोजनैः ॥ BhNZ_03_044cd
4मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः5 BhNZ_03_045ab
5अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत्7 BhNZ_03_045cd
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । BhNZ_03_046ab
पुनर्मन्त्रविधानेन8 बलिकर्म च वक्ष्यते ॥ BhNZ_03_046cd
देवदेव महाभाग 9सर्वलोकपितामह । BhNZ_03_047ab
मन्त्रपूतमिमं सर्वं 10प्रतिगृह्णीष्व मे बलिम् ॥ BhNZ_03_047cd
देवदेव11 महादेव गणेश त्रिपुरान्तक । BhNZ_03_048ab
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः22 BhNZ_03_048cd
13नारायणामितगते पद्मनाभ सुरोत्तम । BhNZ_03_049ab
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः14 BhNZ_03_049cd
पुरन्दरामरपते वज्रपाणे शतक्रतो । BhNZ_03_050ab
प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः15 BhNZ_03_050cd
देवसेनापते स्कन्द भगवन् शङ्करप्रिय16 BhNZ_03_051ab
बलिः प्रीतेन मनसा षण्मुख प्रगृह्यताम् ॥ BhNZ_03_051cd
[ABh]


[(मू)]

1. ठ॰ म॰ अभ्यर्च्य । च॰ ब॰ सदृशं वरुणायाथ ।

2. ठ॰ म॰ फलैश्चैव ।

3. प॰ विविधैः ।

4. ठ॰ म॰ नाट्यस्य च तथा मातॄः ।

5. त॰ नगम् ।

6. प॰ ब॰ अपूपलेखिकामिश्रैः । त॰ लोपिकामिश्रैः । म॰ लिपिकामिश्रैः ।

7. म॰ प्रयत्नतः ।

8. ठ॰ म॰ नत्वे । त॰ नञ्च बलिर्कर्म प्रवक्ष्यते । बलिर्कर्मणि ।

9. ग॰ म॰ त॰ पद्मयोने ।

10. ठ॰ म॰ बलिं देव गृहाण नः ।

11. त॰ ब॰ महादेव । ब॰ महादेव महायोगिन् देवदेव सुरोत्तम ।

12. न॰ अ॰ मन्त्रसंस्कारसंस्कृतः । त॰ विधिमन्त्रपुरस्कृaः ।

13. छ॰ ब॰ नारायण हरे विष्णो । द॰ अ॰ नारायणमृतपते ।

14. अ॰ ममाच्युत ।

15. अ॰ मन्त्रपूतो मयार्पितः ।

16. अ॰ छागलप्रिय ।

[(व्या)]

[page 77]




[NZ]

(1महादेव महायोगिन् देवदेव सुरोत्तम । BhNZ_03_XXXab
संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ ) BhNZ_03_XXXcd
देवि देव2महाभागे सरस्वति हरिप्रिये । BhNZ_03_052ab
प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ BhNZ_03_052cd
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु3 BhNZ_03_053ab
राक्षसेन्द्रा महासत्त्वाः 4प्रतिगृह्णीत मे बलिम् ॥ BhNZ_03_053cd
लक्ष्मीः सिद्धिर्मति5र् मेधा सर्वलोकनमस्कृताः । BhNZ_03_054ab
मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ BhNZ_03_054cd
6सर्वभूतानुभावज्ञ लोकजीवन मारुत । BhNZ_03_055ab
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ BhNZ_03_055cd
7देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । BhNZ_03_056ab
भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ BhNZ_03_056cd
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । BhNZ_03_057ab
भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ BhNZ_03_057cd
सर्वग्रहपते सोम द्विजराज जगत्प्रिय । BhNZ_03_058ab
प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ BhNZ_03_058cd
8महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । BhNZ_03_059ab
9प्रगृह्यतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ BhNZ_03_059cd
[ABh]


[(मू)]

1. ब॰ पुस्तके अधिकं दृश्यते इदं पद्यम् ।

2. म॰ त॰ ब॰ देवदेवि ।

3. ब॰ ते ।

4. ठ॰ म॰ त॰ अ॰ प्रतिगृह्णन्त्विमं बलिम् ।

5. च॰ ब॰ देव्यः सिद्धिवृद्धिलक्ष्म्यः । अ॰ त॰ र्धृतिः ।

6. च॰ ब॰ भावज्ञ सर्वभूतानाम् ।

7. अयं श्लोकः म॰ त॰ कोशयोरेव दृश्येत ।

8. अ॰ महासत्त्वोद्धुराः ।

9. ठ॰ प्रतिगृह्णन्त्विमं भक्त्या बलिंसम्यङ्मयोदितम् । न॰ प्रगृह्यतामेष बलिर्मया भक्त्या प्रचोदितः । अ॰ गृह्यतां मे बलिर्भक्त्या गणाः संप्रतिपादितः ।

[(व्या)]

[page 78]




[NZ]

नमः पितृभ्यः सर्वेभ्यः 1प्रतिगृह्णन्त्विमं बलिम् । BhNZ_03_060ab
(2भूतेभ्यश्च नमो नित्यं 3येषाम् एष बलिः प्रियः ।) BhNZ_03_XXXxx
कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ BhNZ_03_060cd
नारदस्तुम्बुरुश् चैव विश्वावसुपुरोगमाः । BhNZ_03_061ab
परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम्4 BhNZ_03_061cd
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । BhNZ_03_062ab
इमं मे प्रतिगृह्णीतां5 बलिं मन्त्रपुरस्कृतम् ॥ BhNZ_03_062cd
रसातलगतेभ्यश्च पन्नगेभ्यो नमोनमः । BhNZ_03_063ab
दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः6 BhNZ_03_063cd
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । BhNZ_03_064ab
पूजितः प्रीतिमानस्तु ससमुद्रनदीनदः ॥ BhNZ_03_064cd
वैनतेय महासत्त्व सर्वपक्षिपते विभो । BhNZ_03_065ab
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ BhNZ_03_065cd
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । BhNZ_03_066ab
7सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ BhNZ_03_066cd
नमो ऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । BhNZ_03_067ab
सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम्8 BhNZ_03_067cd
रुद्रप्रहरणं 9सर्वं प्रतिगृह्णातु मे बलिम् । BhNZ_03_068ab
विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ BhNZ_03_068cd
तथा 10कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ11 BhNZ_03_069ab
मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ BhNZ_03_069cd
[ABh]


[(मू)]

1. प॰ अ॰ त॰ ब॰ प्रतिगृह्णन्तु मे ।

2. इयं पङ्क्तिः म॰ त॰ कोशयोरेव दृश्यते । न॰ त॰ ऋषिभ्यश्च ।

3. ठ॰ म॰ तेषामेष ।

4. ठ॰ म॰ बलिमुत्तमम् । अ॰ बलिं गान्धर्वपुङ्गवाः ।

5. गृह्णीतम् ।

6. म॰ त॰ पवनाशनाः ।

7. म॰ सुगुह्यकैश्च यक्षैश्च ।

8. च॰ म॰ बलिस्सम्प्रति गृह्यताम् ।

9. ठ॰ म॰ चैव ।

10. अ॰ भूतान्तकः कालः ।

11. अ॰ च॰ ब॰ सर्वप्राणधनेश्वरः ।

[(व्या)]

[page 79]




[NZ]

याश्चास्यां मत्तवारण्यां संश्रिता1 वास्तुदेवताः । BhNZ_03_070ab
मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ BhNZ_03_070cd
2अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । BhNZ_03_071ab
दिव्यान्तरिक्षभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ BhNZ_03_071cd
कुम्भं सलिलसंपूर्णं 3पुष्पमालापुरस्कृतम् । BhNZ_03_072ab
स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ BhNZ_03_072cd
(4आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । BhNZ_03_XXXab
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ BhNZ_03_XXXcd
पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । BhNZ_03_073ab
जर्जरस्त्वभिसंपूज्यः स्यात्ततो विघ्नजर्जरः ॥ BhNZ_03_073cd
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे 5च पर्वणि । BhNZ_03_074ab
विष्णुपर्वणि च पीतं रक्तं स्कन्दस्य पर्वणि ॥ BhNZ_03_074cd
6मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । BhNZ_03_075ab
सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ BhNZ_03_075cd
आतोद्यानि च सर्वाणि वासोभिरवगुण्ठयेत् । BhNZ_03_076ab
गन्धैर्माल्यैश्चैव धूपैश्च भक्ष्यभोज्यैश्च पूजयेत् ॥ BhNZ_03_076cd
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । BhNZ_03_077ab
विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ BhNZ_03_077cd
[ABh]

माल्यानुलेपनम् । (उभय)त्रापि सुरादिप्रधानो बलिरित्यर्थः । अत्र पूजितस्थापितस्य कुम्भस्य विनियोगो भविष्यति ।

[(मू)]

1. अ॰ संस्थिता ।

2. क॰ ब॰ अन्ये ऽपि ये देवगणा । अ॰ अथान्ये ऽपि ये देवगणा ।

3. अ॰ त॰ म॰ पर्णमाला ।

4. म॰ त॰ कोशयोरयं श्लोको ऽधिको दृश्यते ।

5. त॰ ब॰ रौद्रे ऽथ ।

6. म॰ त॰ मूल । ब॰ मूष ।

[(व्या)]

[page 80]




[NZ]

1अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । BhNZ_03_078ab
निर्मितस्त्वं महावीर्यो2 वज्रसारो महातनुः ॥ BhNZ_03_078cd
शिरस् ते रक्षतु ब्रह्मा 3सर्वैर्देवगणैः सह । BhNZ_03_079ab
द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ BhNZ_03_079cd
चतुर्थं 4च कुमारस्ते पञ्चमं पन्नगोत्तमः । BhNZ_03_080ab
नित्यं 5सर्वे ऽपि पान्तु त्वां 6सुरार्थे च शिवो भव ॥ BhNZ_03_080cd
नक्षत्रे ऽभिजिति त्वं हि प्रसूतो ऽहितसूदन7 BhNZ_03_081ab
जयं चाभ्युदयं चैव 8पार्थिवस्य समावह ॥ BhNZ_03_081cd
जर्जरं पूजयित्वैवं बलिं सर्वं 9निवेद्य च । BhNZ_03_082ab
अग्नौ होमं ततः कुर्यान्मन्त्राहुतिपुरस्कृतम् ॥ BhNZ_03_082cd
10हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । BhNZ_03_083ab
नृपतेर्नर्तकीनां च 11कुर्याद्दीप्त्यभिवर्धनम् ॥ BhNZ_03_083cd
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । BhNZ_03_084ab
मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ BhNZ_03_084cd
12महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । BhNZ_03_085ab
यद्वो जन्मगुणोपेतं तद्वो13 भवतु नित्यशः ॥ BhNZ_03_085cd
एवमुक्त्वा ततो वाक्यं नृपतेर्भूतये बुधः । BhNZ_03_086ab
नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ BhNZ_03_086cd
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । BhNZ_03_087ab
पान्तु वो मातरः 15सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ BhNZ_03_087cd
[ABh]


[(मू)]

1. ठ॰ म॰ विघ्नानां शमनार्थं हि देवैर्ब्रह्मपुरोगमैः ।

2. च॰ महावीर्य ।

3. ठ॰ म॰ सर्वदेव ।

4. न॰ रक्षतु स्कन्दः ।

5. ठ॰ त॰ म॰ सर्वे हि । अ॰ सर्वे ऽभि ।

6. ठ॰ त॰ सुरास्त्वम् । सुरास्त्वं च शिरो ।

7. ठ॰ म॰ रिपुसूदनः ।

8. ठ॰ म॰ पार्थिवाय प्रयच्छ नः ।

9. अ॰ निवेदयेत् ।

10. न॰ समाप्तैवंविधाने ऽस्मिन्नुल्काभिः । म॰ त॰ ब॰ हुत्वा स ।

11. अ॰ कार्यम् ।

12. अ॰ महागुणप्रसूतास्ता ।

13. म॰ तद्वै । त॰ यद्यत्पूज्यं वचो लोके ।

14. अयं श्लोकः `म॰ त॰' कोशयोरेवोपलभ्यते ।

15. म॰ अ॰ सर्वाः ।

[(व्या)]

[page 81]




[NZ]

होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । BhNZ_03_088ab
भिन्द्यात्कुम्भं ततश् चैव नाट्याचार्यः प्रयत्नतः ॥ BhNZ_03_088cd
अभिन्ने तु भवेत् कुम्भे स्वामिनः शत्रुतो भयम् । BhNZ_03_089ab
1भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ BhNZ_03_089cd
भिन्ने कुम्भे ततश्चैव नाट्याचार्यः प्रयत्नतः2 BhNZ_03_090ab
प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ BhNZ_03_090cd
3क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । BhNZ_03_091ab
रङ्गमध्ये तु तां दीप्तां 4सशब्दां सम्प्रयोजयेत् ॥ BhNZ_03_091cd
5शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । BhNZ_03_092ab
सर्वातोद्यैः प्रणदितै रङ्गे 6युद्धानि कारयेत् ॥ BhNZ_03_092cd
7तत्र च्छिन्नं च भिन्नं च दारितं च सशोणितम् । BhNZ_03_093ab
क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ BhNZ_03_093cd
सम्यगिष्टस्तु रङ्गो वै स्वामिनः 8शुभमावहेत् । BhNZ_03_094ab
9पुरस्याबालवृद्धस्य तथा जनपदस्य च ॥ BhNZ_03_094cd
10दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । BhNZ_03_095ab
नाट्यविध्वंसनं कुर्यान्नृपस्य च तथाशुभम् ॥ BhNZ_03_095cd
[ABh]

आहुतिराहवनम् । हुत्वा हवनं तथा सत्याहुतिः स्यात् । दीप्ताभिः ... ... । कुम्भस्य विनियोगमाह -- भिन्द्यादिति ।

[(मू)]

1. अ॰ भिन्ने तु जायते राज्ञः सर्वशत्रुपरिक्षयः । त॰ ज्ञेयो भिन्ने तु कुम्भे ऽथ ।

2. ठ॰ म॰ त॰ नाट्याचार्यो व्यपेतभीः ।

3. अ॰ ब॰ क्ष्वेडितास्फोटितैश्चैव वल्गितैर्विप्रधावितैः ।

4. अ॰ सदावर्तिं प्रयोजयेत् ।

5. अ॰ गाढ ।

6. म॰ त॰ ब॰ रङ्गयुद्धानि ।

7. म॰ तत्राभिन्नं च छिन्नं च । अ॰ तदुच्छिन्नम् ।

8. अ॰ सिद्धि ।

9. अ॰ पुरस्स । ब॰ पुरस्य । त॰ पुरस्य च ।

10. अ॰ अनिष्टस्तु ।

[(व्या)]

1. म॰ सत्या इति स्यात् ।

[page 82]




[NZ]

1य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । BhNZ_03_096ab
प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ BhNZ_03_096cd
यज्ञेन सम्मितं ह्येतद् रङ्गदैवतपूजनम् । BhNZ_03_097ab
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ BhNZ_03_097cd
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । BhNZ_03_098ab
तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ BhNZ_03_098cd
2न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । BhNZ_03_099ab
यथा ह्यपप्रयोगस् तु प्रयुक्तो दहति क्षणात् । BhNZ_03_099cd
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । BhNZ_03_100ab
नाट्याचार्येण शान्तेन3 कर्तव्यं रङ्गपूजनम् ॥ BhNZ_03_100cd
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । BhNZ_03_101ab
मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ BhNZ_03_101cd
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । BhNZ_03_102ab
नवे नाट्यगृहे कार्यः प्रेक्षायां 5च प्रयोक्तृभिः ॥ BhNZ_03_102cd


इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं(6) नाम तृतीयो ऽध्यायः समाप्तः ॥
[ABh]

उद्विग्नमानस इत्यनवधानरूपं लक्ष्यते । नवे नाट्यगृह इति मण्डपशेषत्वमेवोक्तम् । प्रेक्षायां चेति । नवायामिति केचित्संबन्धयन्ति । तेन ... .... पूजा कार्येति । अन्ये तु प्रेक्षारम्भे सर्वथा(दा) पूजा कार्येत्याहुरिति शिवम् ॥ (35-102)
इत्थं तृतीयमध्यायं ग्रन्थिस्थानेषु योजये(यन्) ।
बुद्ध्याभिनवगुप्तो ऽहं शिवतातत्त्वबृंहितः ॥


इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां भारतीयनाट्यशास्त्रविवृतावभिनवभारत्यां रङ्गदैव(1)तपूजनं नाम तृतीयो ऽध्यायः समाप्तः ॥

[(मू)]

1. न॰ म॰ यस्त्वेवम् ।

2. न॰ ब॰ न तथाशु दहत्यग्निः ।

3. अ॰ सार्धञ्च ।

4. ज॰ म॰ त॰ एवमेव ।

5. म॰ तु ।

6. प॰ अ॰ रङ्गदेवता । ठ॰ ब॰ रङ्गदैवतपूजाविधानम् ।

[(व्या)]

1. म॰ रङ्गपूजनम् ।

[page 83]




श्रीः ।
अथ चतुर्थो ऽध्यायः ।

[NZ]

एवं तु पूजनं कृत्वा मया 1प्रोक्तः पितामहः । BhNZ_04_001ab
आज्ञापय विभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ BhNZ_04_001cd
[ABh]

स्वविलासैरिदं विश्वं यो दर्शयति सन्ततम् ।
((1)समीरमूर्तिं तं वन्दे गिरिराजसुताप्रियम् ॥)
एवन्त्विति । प्रथमाध्यायोक्ताभिप्रायेणेदमुच्यते । तथा हि --
``मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ ।''(1-122)
इत्येवमवश्यकार्या पूजा । तत्र च --
``रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् ।''(1-127)
इति वचनानुसारेण वा(2) इदं प्रोक्तमित्येवमिति । (मयेति) द्रुहिणाज्ञप्तेन सतेत्यर्थः । मध्ये तु,
``अथवा याः क्रियास्तत्र लक्षणं यच्च पूजनम् ।
भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥''(2-2)
इति मुनिप्रश्नितपूजा कथं कृतेति प्रसङ्गादेवमङ्गस्य यथासंभवं पूरकम्(3) । सर्वात्मना दिव्ये नाट्यगृहे भोजनदानलाङ्गलोत्कर्षणादिविधेः समस्तस्यासम्भवादिति । प्रथमाध्यायानन्तर्यमेवास्य तु कर्तव्यम्(4) । क्षिप्रमिति । अनेन पूजानन्तरं प्रयोगेण न चिरायितव्यमित्युक्तं भवति । प्रयुज्यत इति प्रयोगो दशरूपकान्यतमम् । यद्यपि च सम्फेटविद्रवकृता प्रस्तावना बद्धेत्युक्तं(1-58) तथापि प्रयोगो विघ्नैः स्तम्भित इति नाट्यमण्डपे विघ्नसान्त्वनदैवतपूजने च कृते ऽन्त्य एवायमुपक्रम इति युक्त एव प्रश्नः । कः प्रयोगः प्रयुज्यतामिति । अत्रोत्तरं

[(मू)]

1. क॰ प्रोक्तं पितामह ।

[(व्या)]

1. म॰ भ॰ समीरमूर्तिनः शम्भुः गिरिराजसुताप्रियः ।

2. भ॰ चेदम् ।

3. म॰ भ॰ कं मधु सर्वा ।

4. भ॰ वास्य तुल्यस्य ...... न्तव्या ।

[page 84]




[NZ]

ततो 1ऽस्म्युक्तो भगवता योजयामृतमन्थनम्2 BhNZ_04_002ab
एतदुत्साहजननं 3सुरप्रीतिकरं तथा4 BhNZ_04_002cd
यो ऽयं समवकारस्तु धर्मकामार्थसाधकः । BhNZ_04_003ab
मया 5प्राग्ग्रथितो विद्वन्स प्रयोगः6 प्रयुज्यताम् ॥ BhNZ_04_003cd
7तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । BhNZ_04_004ab
हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ BhNZ_04_004cd
[ABh]

श्लोकद्वयेनाह -- ततो (1)ऽस्मीति । योजयेति । स्वपुत्रानटा(त्रान्नटां)स्तं प्रयोगं पुनरनुसन्धानशिक्षयेत्यर्थः । यो धर्मकामार्थोपायोपदेशको मया
प्राङ्नाट्यवेदनिर्माणनान्तरीयकदशरूपनिर्माणविधौ ग्रथितः । अयमिति च गुणनिकया त्वया सम्यक्साक्षात्कारकल्पत्वं नयनयोग्यत्वं कृतो ऽमृतमथनं नाम समवकाराख्यः प्रयोगः, सह(स)विद्वन्ननुप्रयोज्यतामिति श्लोकद्वये सङ्गतिः ।
तुर्हेतौ । यस्माद् एतदुत्साहजननं चतुर्विधनायकस्थायिभावोत्साहप्रभववीररसात्मकम् । तथेति । तेन प्रकारेण सुराणां सर्वेषां प्रीतिं रसनारूपां चर्वणालक्षणां करोति । उत्साहो जननो यस्येति समासः । तेन च प्रीतिप्रकारेणोत्साहस्य त्रिवर्गोपायविषयस्य जननम् । एतेन दृश्यं श्रव्यमित्यनुसंहितम् । सङ्गतं महावाक्यार्थाभिप्राये(2)णापि किञ्चिच्छब्दोन्मीलनाभिप्रायेणात्र कार्यं तेन सम(समम)वकीर्यते ऽर्थो यत्र स समवकारः । सङ्गतिश्च --
``देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥''(18-63)
इत्यनेन दर्शितः(ता) । ``अङ्को ऽङ्कस्त्वन्यार्थः कर्तव्यः''(18-69) इत्यनेन चावकीर्णता । एष च प्रयोगः समये(?) सुखभूयिष्ठतया एकरसे वस्तुन्युद्वेगशीलाः एकानुसन्धानप्रयासभीरवश्च वेदतुल्याः ।
अमृतमथनं समवकार इति भिन्नलिङ्गसामानाधिकरण्यसूचनद्वारेण तदेव तदिति साक्षात्कारकल्पनाद्व्यवधान(नमध्यवसान)विषय ... ... स्याह । तत एव विक्रमोर्वशीय(3)स्वप्नवासवदत्ता(4)(त्ते)नाटकमिति कवयो व्यवहरन्ति । (1-4)

[(मू)]

1. ठ॰ ततो ह्युक्तो ।

2. द॰ अ॰ न्थनात् ।

3. क॰ ब॰ सर्व ।

4. ठ॰ म॰ महत् ।

5. ज॰ ब॰ प्रग्रथितो । म॰ प्रकथितो ।

6. अ॰ द॰ प्रत्यासः । म॰ संप्रयोगः ।

7. अ॰ ब॰ नास्तीदं पद्यम् । व्याख्यापि न दृश्यते ।

[(व्या)]

1. म॰ ततोहमिति ।

2. भ॰ प्रायेणात्र कार्यम् । तेन समम् ।

3. भ॰ शी स्वप्न ।

4. म॰ दत्तनाट ।

[page 85]




[NZ]

कस्यचित्त्वथ कालस्य मामाहाम्बुजसम्भवः । BhNZ_04_005ab
नाट्यं सन्दर्शयामो ऽद्य1 त्रिनेत्राय महात्मने ॥ BhNZ_04_005cd
ततः सार्धं सुरैर्गत्वा 2वृषभाङ्कनिवेशनम् । BhNZ_04_006ab
3समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ BhNZ_04_006cd
मया समवकारस्तु यो ऽयं सृष्टः सुरोत्तम । BhNZ_04_007ab
श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ BhNZ_04_007cd
पश्याम इति देवेशो द्रुहिणं 4वाक्यमब्रवीत् । BhNZ_04_008ab
ततो मामाह भगवान् 5सज्जो भव महामते ॥ BhNZ_04_008cd
ततो हिमवतः पृष्ठे नानानगसमाकुले6 BhNZ_04_009ab
बहुभूतगणा7कीर्णे रम्यकन्दरनिर्झरे ॥ BhNZ_04_009cd
पूर्वरङ्गः कृतः8 पूर्वं तत्रायं द्विजसत्तमाः2 BhNZ_04_010ab
तथा10 त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ BhNZ_04_010cd
[ABh]

एवमितिहासस्य परिसमाप्तिं पश्यन्सकलप्रयोगप्राणभूतकैशिकीसर्वस्वभूतनृत्तप्रयोगप्रस्तावनायेतिहासमनुसन्धत्ते -- कस्यचित्त्विति । यावता कालेन गतेन शिक्षणं सम्पद्यते तावता कालेन गतेन हेतुनेत्यर्थः । एतेन नाट्यप्रयोगस्तद्विदे(1) प्रथमं दर्शनीय इति दर्शयति । तेन (2)यद्बलात्प्रयोगो ब्रह्मणे दर्शित इति व्याख्यातं तदसदेव । न चोपयुक्तं वस्तु भगवते प्रदर्शयितुमु(द्यो)योजयेदिति चासङ्गतं स्यात् । सन्दर्शयाम इति चानेन कवेस्तन्मध्ये प्रवेशसूचनेनोत्प्रेक्षकत्वसूचनं स्यादित्यलमनेन ।
महात्मशब्देन तस्यैवात्र प्रेक्षणे सम्यगौचित्यमित्याह । श्रवणे दर्शने चेत्यनुसन्धत्ते । तथा पूर्वं परीक्षकः कविना श्रावयितव्य इति श्रवण इत्यनेनोक्तम् । सामाजिकास्तु श्रावयितव्या इति नातीव समञ्जसम् । तावत्तेषां प्रवृत्त्ययोगात् । श्रवणादेव चोपदेशसिद्धौ प्रयोगवैफल्यात् । परमेश्वरस्य परीक्षकत्वात् परितोष्यत्वाच्च ज्ञानातिशयेन रसचर्वणात्मक(4)महाभोगसमर्पणेन च ।(5-9)

[(मू)]

1. ठ॰ म॰ सन्दर्शयामो ऽत्र । क॰ ब॰ सन्दर्शयामो ऽन्यत् । द॰ अ॰ संदर्शयिष्यामः ।

2. द॰ अ॰ त्र्यम्बकस्य ।

3. ठ॰ म॰ अभ्यर्च्य च ।

4. द॰ अ॰ पुनरब्रवीत् ।

5. ठ॰ सज्जीभव ।

6. ठ॰ म॰ समावृते ।

7. ब॰ चूतद्रुमा ।

8. ठ॰ ब॰ पूर्वरङ्गे कृते ।

9. प॰ द्विजसत्तमः । छ॰ तत्रार्थद्विजसत्तमाः ।

10. अ॰ ततः ।

[(व्या)]

1. म॰ भ॰ स्तद्वदेव ।

2. म॰ भ॰ यदि बलात् ।

3. म॰ भ॰ मुच्चयो ।

4. भ॰ कधर्ममहा ।

[page 86]




[NZ]

ततो भूतगणा हृष्टा कर्मभावानुकीर्तनात् । BhNZ_04_011ab
महादेवश्च सुप्रीतः पितामहमथाब्रवीत्1 BhNZ_04_011cd
अहो नाट्यमिदं सम्यक् त्वया 2सृष्टं महामते3 BhNZ_04_012ab
यशस्यं च शुभार्थं च पुण्यं 4बुद्धिविवर्धनम् ॥ BhNZ_04_012cd
मयापीदं स्मृतं नृत्यं5 सन्ध्याकालेषु नृत्यता6 BhNZ_04_013ab
नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम्7 BhNZ_04_013cd
[ABh]

तत्र पूर्वरङ्गपूर्वकत्वं प्रयोगक्रमस्य दर्शयति -- पूर्वरङ्ग इत्यादिना । अयमिति समवकारः । परमेश्वरचरितप्राधान्येन च त्रिपुरदाहसंबन्धो(ज्ञको) डिमः । प्रयुक्त इत्यनेन परीक्षकपरितोषनिमित्तं प्रयोक्तृभिः किञ्चित्प्रयोज्यमित्याह । परितोषं फलतः प्रकटयति -- मयापीदमिति । अनेनेदमाह -- भरतमुनिना (1)तावद्भगवन्नृत्तकैशिकीदर्शनात्तत्प्रयोगार्थमनुस्मृत्य(2) किञ्चिन्नियोजितम् । तत्तु सम्यगुपदेशाभावान्नातीव सुश्लिष्टमिति । अत एव वक्ष्यति -- सम्यगिति । स्मृतमित्यनादित्वमस्य दर्शयति । बहुवचनेनादरविषयतामिति । अङ्गहार एव नृत्तं प्रयोगफलं(3) प्रसूते । तदङ्गानि तु करणादीनि । द्वात्रिंशन्नृत्तकर्मणि प्रधानानीत्याशयेन विशेषणयोगमाह -- नानेति । विनियोगमस्य निरूपयति -- पूर्वरङ्गविधाविति । क(र)तिस्थाने रङ्गे नाट्यप्रयोगे यः पूर्वो भागस्त्वया शुद्धो वैचित्र्यरहितः प्रयुक्तः स एतेन नृत्तेन मिश्रितश्चित्रो नामेति प्रासि(4)द्ध्यात् भरत इत्येष भविष्यति ? । भरतमुनिना प्रत्याहाराद्यन्तर्यवनिकागतमङ्गनवकं गीतकविरच(विधानादिप्ररोच)नान्तकमङ्गदशकं यत्प्रयोगे नृत्तविरहितमेव प्रयुक्तं कर्तव्यमात्रेण, न तु कृतमङ्गदशकं यत्प्रयुक्तं तद्दृष्टादृष्टोभयप्रयोजनमपि यथा तत्र रञ्जकत्वं किञ्चित् । अनेन तु विमिश्रं विचित्रं दृष्टादृष्टात्मकफलं सम्यग्वितरतीत्यभिप्रायो महावाक्यस्य । अस्मिन्निति । त्वं प्र(त्वत्प्र)युयुक्षितप्रयोगोचितोद्धतपूर्वरङ्गप्रयोगविधौ । तत्प्रयुक्ता इमे करणाङ्गहाराः । सुकुमारपूर्वरङ्गे तु दैवी(देव्या)कृता अनुद्धता अङ्गहारा

[(मू)]

1. अ॰ मुखान्मुनीन् ।

2. च॰ ब॰ दृष्टम् ।

3. द॰ अ॰ महात्मना ।

4. द॰ अ॰ कीर्ति ।

5. च॰ब॰ नित्यम् ।

6. प॰ ब॰ पुरा सन्ध्यामुपासता । च॰ ब॰ नृत्यताम् ।

7. द॰ अ॰ विनिस्सृतम् ।

[(व्या)]

1. म॰ भ॰ तावद्भरतनृत्त ।

2. भ॰ मनुसृत्य ।

3. म॰ भ॰ नृत्तफलं प्रसूते ।

4. भ॰ प्रसिद्ध्या ।

[page 87]




[NZ]

पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम्1 BhNZ_04_014ab
2वर्धमानकयोगेषु3 गीतेष्वासारितेषु च ॥ BhNZ_04_014cd
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि4 BhNZ_04_015ab
यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ BhNZ_04_015cd
5एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । BhNZ_04_016ab
श्रुत्वा महेश्वरवचः 6प्रत्युक्तस्तु स्वयम्भुवा ॥ BhNZ_04_016cd
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । BhNZ_04_017ab
7ततस्तण्डुं समाहूय प्रोक्तवान् 8भुवनेश्वरः ॥ BhNZ_04_017cd
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै9 BhNZ_04_018ab
ततो ये10 तण्डुना11 प्रोक्तास्त्वङ्गहारा महात्मना ॥ BhNZ_04_018cd
तान्वः12 करणसंयुक्तान्व्याख्यास्यामि13 सरेचकान् । BhNZ_04_019ab
स्थिरहस्तो ऽङ्गहारस्तु तथा 14पर्यस्तकः स्मृतः ॥ BhNZ_04_019cd
[ABh]

इत्यभिप्रायात् । महागीतं च यद्गीतकवर्धमानम(1)नादिरूपं तत्र सम्यग्वर्धमानादिक्रमेण, (2)तथा वाक्यार्थाभिनये यथायोगं योज्यमानाङ्गहारपिण्डीबन्धक्रमेण येनाभिनेतुं शक्ष्यसि । आचक्ष्व भरतायेति -- अनेन मुनिः परमेश्वरप्रसादपात्रमात्मानं बहुमन्यमानो -- मामेव प्रति देवेनैवेदं निरूपितं प्रयोजितस्त्वयाभिनेतुं शक्ष्यसीति (कथ)यता । प्रधानसन्निधौ तु नैव प्रतिवक्तव्यमित्याशयेन ``श्रुत्वा महेश्वरवचः प्रत्युक्तं तु स्वयम्भुवा'' इत्युक्तमिति दर्शयति । तण्डुं समाहूयेति । सर्वत्र पाठे तण्डुशब्द एव युक्तः, ताण्डवशब्दव्युत्पत्तिवशात् । तण्डुमुनिशब्दौ (नन्दिभर)(?) तयोरपरनामनी । य इति । आत्रेयप्रभृतीन्प्रति मुनिरेतदाह -- सकरणान्सरेचकानिति । विशेषणत्वादङ्गहाराणामेव प्राधान्यम् । तत एव तेषामेव पूर्वमुद्देशः । उपायत्वात् । तत्र करणानां पूर्वं लक्षणं तत्सञ्चयात्मकत्वात् तेषाम् ।(10-19)

[(मू)]

1. ठ॰ अ॰ म॰ त॰ प्रयुज्यताम् ।

2. अ॰ ब॰ पुस्तकयोरिदमर्धं नास्ति ।

3. म॰ योगेन ।

4. द॰ अ॰ ब॰ सम्यक्त्वमभिनेष्यसि ।

5. ठ॰ ब॰ एतद्धि ।

6. ठ॰ ब॰ प्रत्युक्तश्च ।

7. ड॰ ब॰ त॰ ततस्ताण्डिनमाहूय । अ॰ तण्डिनमा ।

8. ठ॰ म॰ सुरसत्तमः ।

9. द॰ अ॰ भरतायोपदिश्यताम् ।

10. ठ॰ म॰ वै ।

11. प॰ त॰ ताण्डिना । अ॰ तण्डिना ।

12. म॰ नाना ।

13. अ॰ व्याख्याम्यवसरैकदा ।

14. प॰ म॰ पर्यस्तहस्तकः । अ॰ सर्पशुकः ।

[(व्या)]

1. भ॰ वना ।

2. म॰ कथा ।

[page 88]




[NZ]

सूचीविद्धस्तथा1 चैव ह्यपविद्धस्तथैव च । BhNZ_04_020ab
2आक्षिप्तको ऽथ विज्ञेयस्तथा 3चोद्धट्टितः स्मृतः ॥ BhNZ_04_020cd
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । BhNZ_04_021ab
विष्कम्भापसृतश्चैव मत्ताक्रीडस्तथैव च ॥ BhNZ_04_021cd
स्वस्तिको रेचितश्चैव4 पार्श्वस्वस्तिक एव च । BhNZ_04_022ab
वृश्चिकापसृतः5 प्रोक्तो भ्रमरश्च तथापरः ॥ BhNZ_04_022cd
6मत्तस्खलितकश्चैव 7मदाद्विलसितस्तथा । BhNZ_04_023ab
गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ BhNZ_04_023cd
परिवृत्तचित्तो ऽथ8 स्यात्तथा वैशाखरेचितः । BhNZ_04_024ab
परावृत्तो ऽथ विज्ञेयस्तथा 9चैवाप्यलातकः ॥ BhNZ_04_024cd
पार्श्वच्छेदो ऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । BhNZ_04_025ab
10ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ BhNZ_04_025cd
11रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । BhNZ_04_026ab
आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ BhNZ_04_026cd
[ABh]

तत्राङ्गहारोद्देशमाह -- स्थिरहस्य इत्यादिना द्वात्रिंशदेत इति(त्यन्तेन) । अयं भावः -- अष्टोत्तरे करणशते ज्ञाते चतुष्षष्टिकरणयोजनया त्रुटिताङ्गगत्या(1)(ङ्गतरीत्या) यद्यप्यानन्त्यमङ्गहाराणां तथापि प्राधान्याद्दृष्टफलं प्रत्यधिकोपरक्ततया(2) द्वात्रिंशन्नामतो निर्दिष्टाः । न तु परिगणनमेतत् । अङ्गानां देशान्तरे प्रापणप्रकारो ऽङ्गहारः । हरस्य चायं हारः प्रयोगः । अङ्गनिर्वर्त्यो हारो ऽङ्गहारः । यद्वक्ष्यति -- ``महेश्वरस्य चरितं य इदम्' इति । (ना॰ शा॰ 4-330) (19-27)'

[(मू)]

1. ठ॰ म॰ स्तथा च स्यात् ।

2. ब॰ आक्षिप्तकस्तु ।

3. प॰ म॰ चोद्घाटितः ।

4. क॰ रचित्रश्चैव ।

5. क॰ ब॰ त॰ कश्चैव सम्प्रो ।

6. छ॰ समस्स्वलिककश्चैव ।

7. प॰ त॰ पदाद्विलसित ।

8. ब॰ परिवृत्तरेचितः । त॰ परिवृत्तरेचितोथ ।

9. ड॰ ब॰ त॰ चैव ह्यलातकः ।

10. ठ॰ त॰ ब॰ उद्वृत्तकस्तथा ।

11. त॰ अञ्चितः ।

[(व्या)]

1. भ॰ ङ्गनाट्य । म॰ ङ्गनाट्या ।

2. प्रत्यधिकोपाधितया ।

[page 89]




[NZ]

अपसर्पस्तु1 विज्ञेयस्तथा चार्धनिकुट्टकः । BhNZ_04_027ab
द्वात्रिंशदेते सम्प्रोक्ता 2अङ्गहारास्तु नामतः ॥ BhNZ_04_027cd
एतेषां तु3 प्रवक्ष्यामि प्रयोगं करणाश्रयम् । BhNZ_04_028ab
हस्तपादप्रचारश्च4 यथा योज्यः प्रयोक्तृभिः ॥ BhNZ_04_028cd
अङ्गहारेषु5 वक्ष्यामि करणेषु च वै द्विजाः6 BhNZ_04_029ab
सर्वेषामङ्गहाराणां निष्पत्तिः 7करणैर्यतः ॥ BhNZ_04_029cd
तान्यतः8 सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । BhNZ_04_030ab
हस्तपादसमायोगो9 नृत्यस्य करणं भवेत् ॥ BhNZ_04_030cd
[ABh]

तत्र निर्दिष्टानामेषां लक्षणं वाच्यमित्याशङ्क्याह -- एतेषान्त्वित्यादि । करणेषूक्तेष्वेव ते लक्षयितुं शक्यन्ते । ननु किं करणक्रमपाठ एव तेषां लक्षणं भविष्यति । नेत्याह -- हस्तपादप्रचारश्चेति । अङ्गहारप्रयोगेषु कर्तव्येषु यानि करणानि तद्विषये करणात्करणान्तरसञ्चारे हस्तपादादेरङ्गस्य यः संहिताकार्यकल्पप्रयोगः तमपि वक्ष्यामि । चशब्दात्क्वचिन्नवक्ष्यामि । (1)ऊहप्रदर्शनार्थम् । वैशब्दः आगम(2)प्रयोगद्योतकस्तु(कः) । अङ्गहारविषये (3)वक्तव्ये पूर्वं किं(4) निरूपणार्हमित्याह -- सर्वेषामिति । तत्र करणानामङ्गहाराणां च सामान्यलक्षणं कर्तुमाह -- हस्तपादेत्यादिना । क्रिया करणम् । कस्य क्रिया । नृत्तस्य । गात्राणां विलासक्षेपस्य । हेयोपादेयविषयक्रियादिभ्यो व्यतिरिक्ता या तत्क्रिया करणमित्यर्थः । नृत्यस्येति । व्यपदेशिवत्त्वेन षष्ठी । तस्याः क्रियायाः स्वरूपमाह -- हस्तपादसमायोगः । हस्तोपलक्षितस्य पूर्वकायवर्तिशाखाङ्गोपाङ्गादेः पादोपलक्षितस्य चापरकायगतपार्श्वकट्यूरुजङ्घाचरणादेः सङ्गततयात्रुटितत्वेन (5)वृत्तियोजने । पूर्वक्षेत्रसंयोगत्यागेन समुचितक्षेत्रान्तरप्राप्तिपर्यन्ततया एका क्रिया(6)तत्करणमित्यर्थः । उत्तरसंयोगान्तं हि सर्वत्र कर्म । स चाप्यभिलषितोत्तरसंयोग एव

[(मू)]

1. ठ॰ असर्पितो ऽथ । त॰ अपसर्पितस्तु । ब॰ अपसर्पितोथ ।

2. ठ॰ म॰ स्त्वङ्गहारास्तु । त॰ ह्यङ्गहारास्तु ।

3. ठ॰ म॰ एषां चैव ।

4. ठ॰ म॰ रस्तु ।

5. क॰ त॰ व॰ अङ्गहारप्रयोगेषु ।

6. ठ॰ म॰ तथाहं द्विजसत्तमाः । छ॰ त॰ करणानां च वै द्विजाः ।

7. म॰ त॰ करणैर्भवेत् ।

8. ठ॰ म॰ त॰ तान्यहम् ।

9. ठ॰ म॰ समायोगे ।

[(व्या)]

1. म॰ इदं पदं नास्ति ।

2. भ॰ आगमप्रयोगस्य द्यो ।

3. म॰ कर्तव्ये ।

4. भ॰ तन्निरूप ।

5. नावृ ।

6. भ॰ या कर ।

[page 90]




[NZ]

द्वे नृत्तकरणे चैव भवतो नृत्तमातृका1 BhNZ_04_031ab
द्वाभ्यां त्रिभिश्च2तुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ BhNZ_04_031cd
3त्रिभिः कलापकं चैव चतुर्भिः षण्डकं4 भवेत् । BhNZ_04_032ab
पञ्चैव करणानि स्युः सङ्घातक इति5 स्मृतः ॥ BhNZ_04_032cd
षड्भिर्.वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । BhNZ_04_033ab
करणैरिह संयुक्ता6 अङ्गहाराः प्रकीर्तिताः ॥ BhNZ_04_033cd
[ABh]

क्रियावधित्वेन लोके प्रसिद्ध इति नापूर्वमेतत् । एतावदेवेहा(1)धिकं (यत्) सौन्दर्यानुप्रवेशेन सविलासत्वं नाम । अत एव नृत्तशब्देन विशेषणं नृत्तकरणमिति । एकदेशाभिप्रायेण तु करणशब्दस्य प्रयोगो भीमसेने भीम इतिवत् ।
एवं तावत् करणस्य सामान्यलक्षणम् । तत्राङ्गहारस्य विशेषलक्षणं विरचयितुं पीठबन्धमाह -- द्वे नृत्तकरणे इति । नृत्तमातृकेति । नृत्तस्याङ्गहारात्मनो मातृका उत्पत्तिकारणम् । नृत्तशब्देन विशेषणात् ``यानि स्थानानि'' इत्यादिना (ना॰ शा॰ 4-59) याः कर(2)णमातृका वक्ष्यते ततो विशेषं दर्शयति । करणद्वयप्रयोगेण च विनिवृ(3)त्ता(विनिर्वृत्तनृत्ता)भिमानो नास्ति । ततः परं तु नृत्यतीत्यभिमानात्करणद्वयं नृत्तमातृकेत्युक्तम् । एवग्रहणादन्यू(4)नाधिकसङ्ग्रहः । नृत्तमातृकालक्षणेनङ्गहारसामान्यलक्षणेन च करणद्वयमूहिताङ्गहारान्तरं च पिण्डीबन्धोपयोगि प्रयोज्यानुजानीते -- एतेषामिति । अङ्गहाराणामेव संबन्धित्वेन हस्तपादविकल्पनं करणं वक्ष्यामि । जातावेकवचनम् ।
ननु स्थानकचार्यादीनां प्राक् लक्षणं वाच्यम् । नैवम् । तेषां नाट्यज्ञानादेव मुनिं प्रति विदितत्वात् । नृत्तहस्ता अपि(5)वर्तनात्मानो ऽस्य विदिता एव । यत उक्तम् `इदं नृत्तम्' इति । तत एवाङ्गिके (ना॰ शा॰ 10) तेषामभिधास्यमानता । करणान्येव त्विव ... ... वाच्यम् । (त्विह वाच्यानि) (28-33)

[(मू)]

1. न॰ त॰ मातृकाः ।

2. ठ॰ ब॰ त्रिचतुराभिर्वा । म॰ त्रिचतसृभिर्वा ।

3. त॰ पुस्तके व्याख्यायाश्च पद्यद्वयं नास्ति ।

4. क॰ म॰ र्मण्डकस्तथा ।

5. ठ॰ म॰ संघात इति सिद्धिजाः ।

6. प॰ ब॰ संयुक्तो ऽङ्गहार इति स्मृतः ।

[(व्या)]

1. बाधिकम् ।

2. भ॰ कारण ।

3. म॰ विनि ... ... नृत्तानि ।

4. म॰ भ॰ दूनाधि ।

5. भ॰ हस्तादिविव । म॰ हस्तादिवर्तमाना ।

[page 91]




[NZ]

एतेषामेव1 वक्ष्यामि हस्तपादविकल्पनम् । BhNZ_04_034ab
2तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ BhNZ_04_034cd
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । BhNZ_04_035ab
मण्डलस्वस्तिकं चैव निकुट्टकमथापि च3 BhNZ_04_035cd
तथैवार्धनिकुट्टं च कटिच्छिन्नं4 तथैव च । BhNZ_04_036ab
अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ BhNZ_04_036cd
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । BhNZ_04_037ab
दिक्स्वस्तिकमलातं च तथैव च 5कटीसमम् ॥ BhNZ_04_037cd
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । BhNZ_04_038ab
अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ BhNZ_04_038cd
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु6 तथैव च । BhNZ_04_039ab
निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ BhNZ_04_039cd
स्याद्रेचकनिकुट्टं च तथा पादापविद्धकम् । BhNZ_04_040ab
वलितं घूर्णितं चैव ललितं च तथापरम् ॥ BhNZ_04_040cd
दण्डपक्षं तथा चैव 7भुजङ्गत्रस्तरेचितम् । BhNZ_04_041ab
नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ BhNZ_04_041cd
भ्रमरं चतुरं चैव भुजङ्गाञ्चितम् एव च । BhNZ_04_042ab
दण्डरेचितकं चैव तथा वृश्चिककुट्टितम्8 BhNZ_04_042cd
9कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । BhNZ_04_043ab
छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ BhNZ_04_043cd
[ABh]

तत्र नामतः कर्मतश्चेत्युक्तम् । नामतस्तावदाह -- तलपुष्पपुटमित्यादि ।

[(मू)]

1. ठ॰ म॰ एतेषामिह ।

2. ठ॰ म॰ विष्कम्भं तिलपुष्पं च ।

3. म॰ पि वा ।

4. क॰ त॰ कटिच्छन्नम् ।

5. त॰ कुटीसमम् ।

6. प॰ चैव ऊर्ध्वं जानु । म॰ जानुस्तथैव ।

7. ठ॰ म॰ भुजङ्गत्रासि ।

8. म॰ ट्टिकम् ।

9. ठ॰ म॰ कटिलान्तम् ।

[(व्या)]

[page 92]




[NZ]

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम्1 BhNZ_04_044ab
ललाटतिलकं 2क्रान्तं कुञ्चितं3 चक्रमण्डलम् ॥ BhNZ_04_044cd
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । BhNZ_04_045ab
अर्गलं चाथ विक्षिप्तमावृत्तं4 दोलपादकम् ॥ BhNZ_04_045cd
विवृत्तं5 विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम्6 BhNZ_04_046ab
विद्युद्भ्रान्तमतिक्रान्तं 7विवर्तितकमेव च ॥ BhNZ_04_046cd
गजक्रीडितकं चैव तलसंस्फोटितं तथा । BhNZ_04_047ab
गरुडप्लुतकं चैव गण्डसूचि तथापरम् । BhNZ_04_047cd
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । BhNZ_04_048ab
गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ BhNZ_04_048cd
8अर्धसूचीति करणं सूचीविद्धं तथैव च । BhNZ_04_049ab
अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ BhNZ_04_049cd
सर्पितं दण्डपादं च हरिणप्लुतमेव च । BhNZ_04_050ab
प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ BhNZ_04_050cd
9प्रसर्पितकमुद्दिष्टं सिंहविक्रीडितं तथा । BhNZ_04_051ab
सिंहाकर्षितमुद्वृत्तं तथो10पसृतमेव च ॥ BhNZ_04_051cd
11तलसङ्घट्टितं चैव जनितं चावहित्थकम् । BhNZ_04_052ab
निवेशमेलकाक्रीडमूरू12द्वृत्तं तथैव च ॥ BhNZ_04_052cd
मदस्खलितकं चैव विष्णुक्रान्तमथापि च । BhNZ_04_053ab
14सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ BhNZ_04_053cd
[ABh]


[(मू)]

1. ठ॰ म॰ पादनिकुट्टकम् ।

2. म॰ कान्तम् । त॰ भ्रान्तम् ।

3. त॰ रुचितम् ।

4. ब॰ प्तवर्तितम् ।

5. म॰ त॰ निवृत्तम् ।

6. ठ॰ म॰ निशुम्भकम् ।

7. ठ॰ त॰ निवर्तित ।

8. ठ॰ अर्धसूची च ।

9. ठ॰ म॰ प्रसर्पितं समुद्दिष्टम् ।

10. म॰ ब॰ तथाप ।

11. ठ॰ त॰ ब॰ तलघट्टितकम् । म॰ तलसंघटितम् ।

12. त॰ मूरुवृत्तम् ।

13. ठ॰ म॰ तथैव च ।

14. प॰ ब॰ सङ्क्रान्त ।

[(व्या)]

[page 93]




[NZ]

वृषभक्रीडितं चैव लोलितं च तथापरम् । BhNZ_04_054ab
नागा1पसर्पितं चैव शकटास्यं तथैव च ॥ BhNZ_04_054cd
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । BhNZ_04_055ab
अष्टोत्तरशतं ह्येतत् करणानां मयोदितम् ॥ BhNZ_04_055cd
नृत्ते युद्धे नियुद्धे च तथा 2गतिपरिक्रमे । BhNZ_04_056ab
गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ BhNZ_04_056cd
3यत्र तत्रापि संयोज्यमाचार्यैर्नाट्य4शक्तितः । BhNZ_04_057ab
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ BhNZ_04_057cd
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । BhNZ_04_058ab
हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ BhNZ_04_058cd
5उरःपृष्ठोदरोपेतं 6वक्ष्यमाणं निबोधत । BhNZ_04_059ab
7यानि स्थानानि याश्चार्यो नृत्तहसतास्तथैव च ॥ BhNZ_04_059cd
[ABh]

अष्टाधिकं शतमुक्तं यदङ्गहारोपयोगित्वं नियत(1)समप्रत्यस्तमयमिति किमनेन संख्यानिरूपणेनेत्याशङ्क्याह -- अष्टोत्तरशतमित्यादिना । अभिनये वस्तुत्वेन यन्नृत्तं वक्ष्यते ऽभिनयान्तराल(2)वर्तिच्छिद्रप्रच्छादनादेतत्प्रयुज्यते । शस्त्रादियुद्धे बाहुयुद्धे चाङ्गप्रयोगसौष्ठवार्थमपि प्रयुज्यते । पृथक्तया गत्यध्याय--(ना॰ शा॰ 13)वक्ष्यमाणासु च गतिषु ये परिक्रमाः परिक्रमणानि तत्र पृथक् तेन पृथक्त्वेन(3) प्रयोगदर्शनादष्टोत्तरशतत्वं न नोपयोगि । एष च यथा विनियोगो भविष्यति तथा समनन्तरमेव वक्ष्यामः । अत्र `अष्टोत्तरशतम्' इत्यादि श्लोकं केचिन्न पठन्ति । अन्ये(न्ते) ततो ऽपय् अधिकं --
``हस्तपादप्रचारन्तु(4) कटिपार्श्वोरुसंयुतम्''॥
इति श्लोकं पठन्ति ।(34-58)

[(मू)]

1. म॰ नागावस ।

2. च॰ गीति ।

3. म॰ इतः पद्यद्वयं नास्ति ।

4. त॰ युक्तितः ।

5. न॰ म॰ ऊरु ।

6. ठ॰ म॰ नृत्तमार्गे ।

7. म॰ इतः पङ्क्तिद्वयं नास्ति ।

[(व्या)]

1. म॰ यतस ...... प्रत्य । नियतसङ्ख्याप्रत्य ।

2. म॰ भ॰ नयान्तराल इव च्छिद्र ।

3. भ॰ पृथक्प्रयोग । म॰ तेन प्रयोग ।

4. म॰ भ॰ स्तु ।

[page 94]




[NZ]

सा मातृकेति विज्ञेया1 तद्योगात्करणं भवेत् । BhNZ_04_060ab
2कटी कर्णसमा यत्र 3कूर्परांसशिरस्तथा ॥ BhNZ_04_060cd
समुन्नतमुरश्चैव4 सौष्ठवं नाम तद्भवेत् । BhNZ_04_061ab
वामे पुष्पपुटः पार्श्वे पादो ऽग्रतलसञ्चरः ॥ BhNZ_04_061cd
[ABh]

तत्र महासामान्यरूपं करणमाह -- यानि स्थानानीति । इहावस्थानं (1)गतिश्चेति द्वयनिर्वर्त्यं करणम् । तत्रावस्थाने करकायोपयोगि स्थानकम् । गतौ तु चार्यः । पूर्वकाये(2) तु गतौ नृत्तहस्ता दृष्टयश्च । स्थितौ पताकाद्याः । एतच्चकारेण सङ्गृहीतम् । तेन(3) गतिस्थितिसं(4)मिलिते(तं)करणमित्यानन्त्यं यद्यपि करणानां) तथाप्यङ्गहारोपयोगित्वादेतावदुक्तमिति श्लोकस्य तात्पर्यम् ।
*(1) तलपुष्पपुटम् ।
तत्रोद्देशक्रमेण लक्षणान्याह -- वाम इत्यादिना ।
``यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः ।
द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः करः ॥'' (ना॰ शा॰ 9-150)
``उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोऽङ्गुष्ठकस्तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वाः पादे ऽग्रतलसञ्चरे ॥'' (ना॰ शा॰ 9-273)
``कटी भवेच्च व्याभुग्ना पार्श्वमाभुग्नमेव च ।
तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम् ॥'' (ना॰ शा॰ 9-235)
एषां योजनोच्यते ।
तत्र नृत्ते समपादतला ह(5)स्तद्वयपूर्वकं तत्ता(लता)वत्प्राचुर्येण सर्वत्र । ततश्चाध्यर्घिकया(6) चार्या(ना॰ शा॰ 10-17)दक्षिणपादनिष्क्रमणेन समकालं व्यावर्तितेन करयुगलेन दक्षिणपार्श्वे समं नीतेन परिवर्तितकरणवशादानीतेन वामपार्श्वे सौष्ठवेन वामस्तनक्षेत्रे पुष्पपुटहस्तबन्ध इति । अग्रतलपादपुष्पपुटयोगादेकदेशसूचनं नामेदं तलपुष्पपुटमिति । एवमन्यत्रापि नामवासना ऊह्याः ।

[(मू)]

1. त॰ सामान्यकमिति ज्ञेयम् ।

2. त॰ ब॰ इदं पङ्क्तिद्वयं नास्ति ।

3. ठ॰ कोर्पराङ्ग । च॰ कूर्पसंश ।

4. म॰ ठ॰ मुखश्चैव ।

[(व्या)]

1. म॰ भ॰ गच्छतिश्चेति ।

2. म॰ भ॰ काले ।

3. भ॰ तन । तनु ।

4. भ॰ भीलि ।

5. तलहस्त ।

6. म॰ ध्यर्धतया ।

[page 95]




[NZ]

तथा च सन्नतं 1पार्श्वं तलपुष्पपुटं भवेत् । BhNZ_04_062ab
कुञ्चितौ 2मणिबन्धे 3तु 4व्यावृत्तपरिवर्तितौ ॥ BhNZ_04_062cd
[ABh]

तत्र(यत्र) क्वचिद्वाक्यार्थाभिनय एव प्राधान्येन दर्शिते(दृश्यते) तत्र करणानामेव प्राधान्यम् । यत्रापि पदार्थाभिनयाः क्रियन्ते तत्राप्येकवाक्यानुप्रवेशप्राधान्यप्रख्यापनायामवश्यमादौ मध्ये ऽन्ते वा यथावसरं करणमित्युपनिषत् । अत एव वक्ष्यति --
``अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्यभिनयस्येह ।'' इति । (ना॰ शा॰ 8-15)
(1)वर्तनानुप्रवेशो हि शाखयैव गतार्थः स्यात् । तत्रैव च शाखान्ते भेदं वक्ष्यति । ``आङ्गिकश्च भवेच्छाखा''(ना॰ शा॰ 8-16) इत्युक्तम् । ``अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम्''(ना॰ शा॰ 8-16) एतत्स्फुटं तत्रैव व्याख्यास्यत इत्यास्तां तावत् । अत्रोदाहरणं दिक्प्रदर्शनाय ``अभिजअइ मळविमुक्ककमळासणउदितस्स'' इत्यादावनेन वाक्यार्थाभिनये, नाट्ये ऽपि ``पादाग्रस्थितया''(रत्ना॰ 1-1)इत्यादावुपसंहारवाक्यार्थाभिनये इय(द)मेव युक्तं करणम् । न नृ(2)(यन्नृ)त्यस्य पादाग्रस्थितत्वस्य कुसुमाञ्जलिक्षेपः । स चानेनैव सम्पन्नेन चतुरश्रीभूतत्वादङ्गादनन्तरं यदा प्रयुज्यते तदा हस्तयोः स्वे स्वे पार्श्वे आवेष्टितकरणं (ना॰ शा॰ 9-215) कृत्वा ततः उद्वेष्टितकरणेन (ना॰ शा॰ 9-216) पुष्पपुटप्रयोगः ।
यदा तु करा(रणा)न्तरसन्निवेशानन्तरमिदं करणं प्रयुज्यते तदा त्यक्तव्यतदीयहस्तपादापेक्षया आदातव्यकरणगतहस्तपादाद्यपेक्षया च यथा वर्तनाक्रमेण स्वयमेव त्यागोपादाने अत्रुटिततया वा सम्पद्यते तथा कर्तव्यमित्यलं नृत्ताचार्यगोपिता(र्योपयोगि)नानेन । एतच्च यथावसरं दर्शयित्वा सर्वं निरूपयिष्यामः ।
``सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् ।
तस्यापसर्पणं चैव सा ज्ञेयाध्यर्घिका बुधैः ॥''(ना॰ शा॰ 10-17)
``आवर्तन्ते कनिष्ठाद्या अङ्गुल्यो ऽभ्यन्तरेण तु ॥''(ना॰ शा॰ 9-217)
``उद्वर्तन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा ॥''(ना॰ शा॰ 9-218)
इति व्यावृत्तपरिवर्तिते । एवं तर्जन्यादितः आवेष्टितपरिवेष्टिते । (59-61)

[(मू)]

1. त॰ ब॰ पार्श्व ।

2. ठ॰ त॰ मणिबन्धौ ।

3. क॰ त॰ च ।

4. च॰ ब॰ व्यावर्तपरिवर्तितौ ।

[(व्या)]

1. म॰ भ॰ वर्तमानानुप्रवेशो ।

2. भ॰ णं नृत्तस्य ।

[page 96]




[NZ]

हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । BhNZ_04_063ab
शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ1 BhNZ_04_063cd
ऊरू च वलितौ 2यस्मिन्वलितोरुकमुच्यते3 BhNZ_04_064ab
4आवर्त्य शुकतुण्डाक्ख्यमूरुपृष्ठे निपातयेत् ॥ BhNZ_04_064cd
[ABh]

*(2) वर्तितम् ।
कुञ्चितावित्यादि । वक्षःक्षेत्रे उन्मुखं स्वस्तिकवदश्लिष्टमेव मणिबन्धनगतं करयुगलं कृत्वा तत्रैव विहस्तौ समकालं व्यावृत्तपरिवर्तौ(वृत्तौ)विधायोत्तानावेव यथास्वमूर्वोः पातनीयौ । असूयावाक्यार्थाभिनये चोत्तानौ पताकौ । यथा ``तुव्झ कए सरिवं ररामर उण मरा(1)परागुण अआविद्धत्तनआ'' । तावेव पताकावधोमुखघृष्टमुखपा(2)तैरेतैर्यदा तदा रोषवाक्यार्थाभिनये यथा -- ``सव ... ... डओ गु महिलो नु'' इत्यादौ । एवं कटकामुखशुकतुण्डादयो ऽपि यथायथमत्र योजयितव्याः । तत एवात्र मुनिना हस्तावशेषो न निरूपितः । अग्रतलसञ्चर एवात्र पाद इति केचित् । तद्धस्तौचित्यानुसारी पादयोग इति नृत्ताचार्याः । (62)
*(3) वलितोरुकम् ।
शुकतुण्डावित्यादि ।
``आद्या धनुर्नता कार्या कुञ्चितो ऽङ्गुष्ठकस्तथा ।
शेषा भिन्नो(3)र्ध्ववलिता ह्यराले ऽङुलयः करे ॥''(ना॰ शा॰ 9-46)
``(4)अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् ।
शुकतुण्डः स तु करः''(ना॰ शा॰ 9-53)
``भवेदभ्यन्तरं जानु यत्राहुर्वलितं तु तत्''(ना॰ शा॰ 9-252)
योजना तु -- वक्षःक्षेत्रात्समकालं हस्तौ व्यावर्तितौ कृत्वा आक्षिप्तया पादचार्या सह पततः । परिवर्तेनानुनीय वक्षःप्रदेशे शुकतुण्डावधोमुखौ स्थापयेत् । बद्धया च चार्या स्थितिः ।
एतन्मुग्धाविषयं च । यथा -- ``दुल्लणुल्लीति तुहिगुह्णविळुळिअ अह्व हुदौ सुणाहि दिडात्तसहि'' ।
`त्रिपताका तर्जनी वक्रतया शुकतुण्डः' इत्यतान्त्रिकैर्लिखितमुपेक्ष्यमेव ।

[(मू)]

1. ड॰ परिवर्तकौ ।

2. ठ॰ म॰ यत्र ।

3. च॰ ब॰ त॰ म॰ वलितोरु तदुच्यते ।

4. न॰ आपत्य । ठ॰ आवृत्य ।

[(व्या)]

1. भ॰ म॰ रालरा ।

2. म॰ भ॰ धृष्ठमुखपतिरेता यदा ।

3. भ॰ म॰ भिरन्यव ।

4. म॰ भ॰ अरालें तु ।

[page 97]




[NZ]

वामहस्तश्च 1वक्षःस्थो ऽप्यपविद्धं तु तद्भवेत् । BhNZ_04_065ab
श्लिष्टौ 2समनखौ पादौ करौ चापि प्रलम्बितौ ॥ BhNZ_04_065cd
देहः स्वाभाविको यत्र 3भवेत्समनखं तु तत् । BhNZ_04_066ab
पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ BhNZ_04_066cd
[ABh]

``अन्योन्यजङ्घासंवेधात् कृत्वा तु स्वस्तिकं ततः ।
ऊरुभ्यां वलनं यत्स्यात् सा बद्धा चार्युदाहृता ॥''(ना॰ शा. 10-21) (63)
*(4) अपविद्धम् ।
``वक्षसो ऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ ।''(ना॰ शा॰ 9-184)
इति चातुरश्रेण स्थित्वा ततो हस्तमावर्तितेन निष्क्रमय्य ततः समकालमाक्षिप्तिकां चारीं कृत्वा तमेव हस्तं शुकतुण्डीकृतं तस्योर्वोः(रोः)पृष्ठे निपातयेत् । वामहस्तश्च कटकामुखः । स तु वक्षस्येवेति दक्षिणस्य करपादस्यापर्यवसनात्तदुपलक्षितवेगनिस्सरणादपविद्धमिति नाम्नैव वर्त(1)नायाश्चातुर्यं सूचितम् । असूयाकोपवाक्यार्थाभिनये चेदम् ।
यथा -- ``विमाळकाळतुज्झ'' इत्यादौ । मिनिविषयस्त्वस्यैव कैश्चित्प्रयोगो लिखितः तत्पात्रान्तरपरिवर्तनदोषात्स्वयमलक्ष्यत्वाच्चेत्युपेक्ष्यम् ।
``किञ्चितं पादमुत्प्क्षिप्य व्याक्षिप्तं त्वञ्चितं न्यसेत् ।
जङ्घा स्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥'' (ना॰ शा॰ 10-37) (64)
*(5) समनखम् ।
प्रलम्बितौ कराविति लताहस्तौ मन्तव्यौ । न तु दोलाहस्तौ । तयोरेकविषययोरत्र वर्तना(2)याश्चातुरश्र्यभङ्गहेतुत्वात् ।
``तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताकरौ ।''(ना॰ शा॰ 9-198)
एतच्च प्रथमप्रवेशे नृत्ते दृश्यते । जप्य(य)मङ्गलादिविषये तु नास्य प्रयोगो युक्तः यथा कैश्चिदिष्टः । (64)

[(मू)]

1. न॰ वामहस्तं तथा वक्षस्यपविद्धम् । ठ॰ म॰ वक्षःस्थो वामहस्तश्च ।

2. ठ॰ समनयौ ।

3. न॰ ज्ञेयं समनखम् ।

[(व्या)]

1. म॰ भ॰ वर्तमानाया ।

2. म॰ भ॰ रत्नपरतु ... ... चातु ।

[page 98]




[NZ]

1निहञ्चितांसकूटं च तल्लीनं करणं स्मृतम् । BhNZ_04_067ab
स्वस्तिकौ 2रेचिताबिद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ BhNZ_04_067cd
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । BhNZ_04_068ab
स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतरौ समौ ॥ BhNZ_04_068cd
[ABh]

*(6)लीनम् ।
``पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः ।''(ना॰ शा॰ 9-128)प्रसारितसमाः सर्वाः यस्याङ्गुल्यो भवन्ति हि ।
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥(ना॰ शा॰ 9-18)
रेचितग्रीवा ।
``रेचिता (1)विस्तृतभ्रान्ता (2)भावे मथननृत्तयोः ॥''(ना॰ शा॰ 8-173)
इति केचित् । तदसत् । औचित्यायोगात् । तेन प्रणामापसारिता गमिता नत(नता)स्याद्ग्रीवा ।
``उत्क्षिप्तबाहुशिखरं निकुञ्चितशिरोधरम् ।
(3)निuकुञ्चितं शिरः ।''(ना॰ शा॰ 8-32)
तद्योगा(4)दंसकूटयोर्निहञ्चितत्वम् ।
... योजना तूर्ध्वमण्डलिनौ (ना॰ शा॰ 9-203) नृत्तहस्तौ प्राक्प्रयुज्य तद्वर्तना(5)क्रमेण वक्षोदेशे ऽञ्जलिं रचयेत् । एतदेव पताकाग्रहणस्य प्रयोजनम् । अञ्जलेर्नलि(6)नीपद्मकोशवर्तनया सम्पादनं माभूत् । अपि तूर्ध्वमण्डलवर्तनया । तथा पताकयोः स्फुटप्रयोगोत्पत्तिः । तथाप्यव्यभिचारात् पताकाग्रहणमफलमेव । लौकिकाञ्जलिशङ्काशमनं तु सति तान्त्रिके तुच्छफलम् ।
एतच्च प्रियप्रार्थनावाक्यार्थाभिनये । यथा -- ``परिपडाळपळदु...लडामं लिंबल्लिइ दुंदुं'' । न तु देवताप्रणामे वक्षःस्थो ऽप्यञ्जलिरत्र । देवताप्रणामे तु शिरःस्थ इति वक्ष्यामः । (66)
*(7) स्वस्तिकरेचितम् ।
पूर्वं रेचितौ तत आविद्धौ वक्रौ ततो देहक्षेत्रमागतौ स्वस्तिकौ । ततोऽपि विश्लिष्टौ विप्रकीर्णौ । ततः कटिसंस्थौ पक्षप्रद्योतपक्षवञ्चितकाख्यौ । एवं नृत्तहस्तषट्कात्मकमेतत्क(7)रणम् । तत्र --

[(मू)]

1. न॰ ब॰ त॰ निकिच्चितांस । म॰ ठ॰ नभास्वितांस ।

2. ठ॰ ब॰ रेचितौ । न॰ म॰ रेचकाविद्धौ । त॰ रेचकौ ।

[(व्या)]

1. विधुत । म॰ विस्तृता ।

2. हावे ।

3. म॰ निह ।

4. म॰ भ॰ द्योगत्वादंस ।

5. म॰ द्वर्णना ।

6. भ॰ नीवद्व्यावर्तन ।

7. म॰ भ॰ कमोंक ।

[page 99]




[NZ]

तथा च 1मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । BhNZ_04_069ab
निकुट्टितौ यदा हस्तौ स्वबाहुशिरसो ऽन्तरे ॥ BhNZ_04_069cd
[ABh]

``रेचितावपि विज्ञेयौ हंसपक्षौ(1) द्रुतभ्रमौ ।''(ना॰ शा॰ 9-193)
``समाः प्रसारितास्तिस्रः तथा चोर्ध्वा कनीयसी ।
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥''(ना॰ शा॰ 9-106)
``भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ ।
पराङ्मुखतलाविद्धौ(2) ज्ञेयावाविद्धवक्रकौ ॥''(ना॰ शा॰ 9-190)
``तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ ।
स्वस्तिकाविति विज्ञेयौ विच्युतौ विप्रकीर्णकौ ॥''(ना॰ शा॰ 9-187)
``कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ ।
पञ्चवञ्चितकौ ।''(ना॰ शा॰ 9-200)
``तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ ।''(ना॰ शा॰ 9-201)
योजना तु -- चातुरश्रान्तरे रेचितवर्तनया पक्षौ विधाय व्यावर्तितकरणेन शिरःक्षेत्रादधरगमनोपरिगमने च (3)या आविद्धवक्रवर्तना तया वक्षःक्षेत्रस्वस्तिकौ विधाय तावेव विप्रकीर्णौ कृत्वा पुनःपक्षवञ्चितौ पुनः पक्षप्रद्योताविति तद्योगात्स्वस्तिकरेचितम् ।
अत्र च तत्र तत्र नृतहस्ते प्रयोगवशादा(ला)(त)चार्या शतचार्यावदन्ते ... ... बहिर्मण्डलसंस्थानकृतेन समनखौ पादावनुवर्तत इत्यसत् । एतच्च यत्र नृत्तमेव प्राधान्येनाभिनेयं तावत्कालं प्रहर्षादियोगे तत्र तत्र प्रयुज्यते ।
यथा ``घण्णइ घण्णइ धणहिए अणुराहिणव्वहरासु । महुरकण्णे जितिसअउदाणवकुळिणिणोसु ।'' (67)
*(8) मण्डलस्वस्तिकम् ।
स्वस्तिकावृत्त(वुक्त)लक्षणौ । करौ । प्राङ्मुखौ चतुरश्रौ ऊर्ध्वतलौ । ऊर्ध्वमण्डलिनौ ।
``वक्षसो ऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ ।
समानकूर्पारांसौ च चतुरश्रौ प्रकीर्तितौ ॥''(ना॰ शा॰ 9-184)
``ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ।
त्र्यश्रौ वक्षःस्थितौ चैव कटी जानुसमा तथा ।''(ना॰ शा॰ 10-65)

[(मू)]

1. ठ॰ मण्डलस्थानम् ।

2. म॰ भ॰ द्रुतभूमौ प्रसारितौ । 2. म॰ भ॰ लतावद्धौ । 3. चाक्षिप्तया ।

[(व्या)]

[page 100]




[NZ]

पादौ 1निकुट्टितौ चैव 2ज्ञेयं तत्तु 3निकुट्टकम् । BhNZ_04_070ab
अञ्चितौ4 बाहुशिरसि5 हस्तस्त्वभिमुखाङ्गुलिः6 BhNZ_04_070cd
[ABh]

योजना तु -- चतुरश्रहस्ताभ्यां स्थित्वा ततो वि(1)च्यवाप्रयोगसमकालमुद्वेष्टितवर्तनया गत्वा तत ऊर्ध्वमण्डलिवर्तनिकया स्वस्तिकौ कुर्यात् । मण्डलस्थानकं च बध्नीयादिति । इति मण्डलस्वस्तिकम् ।
``विच्यवात्समपादाया विच्यवां सम्प्रयोजयेत् ।
निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् ॥''(ना॰ शा॰ 10-19)
तलाग्रो ऽग्रतलसञ्चरः । निकारवाक्यार्थाभिनये । यथा -- ``उव्वेळा वि अगत्थि अवळआ वाह्रिअएहिशिं जळचरिउ ससक्वसुण्णिमंमदउ'' । इत्यादौ । (68)
*(9) निकुट्टकम् ।
``उन्नमनं विनमनं स्यादङ्गस्य निकुट्टनम् ।''
इति कोहलः ।
तेन हस्तस्यालपल्लवस्य कनिष्ठाङ्गुलिपतनोत्पतनप्रकारो निकुट्टनम् । इहापि वक्ष्यते । अञ्चित इति पादस्याप्युद्घट्टितरूपता ।
``स्थित्वा पादतलाग्रेण पार्ष्णिं भूमौ निपातयेत् ।
यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥''(ना॰ शा॰ 9-266)
चकारेण मण्डलस्थानकमुच्यते । स्वबाहुशिरस इत्येकवचनाद्धस्ता(2)विति द्विवचनाच्च पर्यायेणाङ्गद्वयेन प्रयोगः । एवकाराद्दक्षिणेन प्रयोगे दक्षिण एव पादः वामेन वामः । तेन मण्डलस्थानके स्थित्वा चातुरश्र्यादनन्तरमुद्वेष्टितकरणेन हस्तं नीत्वा स्कन्धशिरसि निकुट्टयेत् । तमेव पादमुद्घट्टितं कुर्यात् । वामं तु हस्तं यथावस्थितं पुनराविद्धवक्रवर्तनतया तं हस्तं चतुरश्रीकुर्यात् । तत्समकालं चोक्तविधिना द्वितीयमङ्गं निकुट्टयेदिति योजना ।
अस्य च पुनः पुनरात्मसम्भावनाप्रधाने वाक्यार्थे ऽभिनेतव्ये प्रयोगः । यथा -- ``भीउणजाणमिहउसू भवउकज्जी'' ॥ (69)

[(मू)]

1. च॰ निकुट्टितं चैव ।

2. च॰ ब॰ विज्ञेयं चैव कुट्टकम् ।

3. न॰ निकुट्टनम् ।

4. म॰ त॰ अञ्चिते । न॰ कुञ्चिता ।

5. च॰ ब॰ बाहुशिखरौ । त॰ बाहुशिरसी ।

6. ब॰ हस्तः स्वामिमुखाञ्जलिः ।

[(व्या)]

1. म॰ भ॰ ततो ऽपि प्रयो । म॰ ततो ऽपि ... ... प्रयो ।

2. म॰ भ॰ स्तविधिवलनाच्च ।

[page 101]




[NZ]

1निकुञ्चितार्धयोगेन भवेदर्धनिकुट्टनम् । BhNZ_04_071ab
पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ BhNZ_04_071cd
[ABh]

(10) अर्धनिकुट्टकम् ।
चरममेवार्धं लक्षणम् । आद्येन तु निकुट्टितस्य हस्तस्य युक्त्या लक्षणं कृतम् । अलपल्लव इति वक्तव्ये कुञ्चितग्रहणं क्रियाविशिष्टत्वप्रदर्शकम् ।
``आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि ।
पार्श्वगास्ता विकीर्णाश्च स हस्तस्त्वलपल्लवः ॥''(ना॰ शा॰ 9-91)
शङ्कुकादिभिस्त्वञ्चनं देहाभिमुख्येन पृष्ठभागेन मनागलक्षणमिति व्याख्यायितं नाम्ना न(1) सङ्गतमित्यास्ताम् ।
अस्य च प्रयोगः, स्वात्मसम्भावनाविषय एवाप्ररूढे वाक्यार्थे । यथा ``हउपर वरिवध उद्घटइध'' । (70)
(11) कटिच्छिन्नम् ।
``कटिमध्यस्य वलनाच्छिन्ना ।''(ना॰ शा॰ 9-196)
पर्यायश इत्युभयशेषः ।
``मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ ।''(ना॰ शा॰ 9-196)
योजना तु -- भ्रमरिकया(ना॰ शा॰ 10-45)चार्या पर्यायेण पार्श्वद्वयभ्रमणं कृत्वा मण्डलस्थानके(ना॰ शा॰ 10-65)स्थित्वा बाहुशिरसि च पल्लवं पताकालपल्लवच्छायाद्वितीयं पर्यायेण विभ्रद्विधेयः । पुनरपरेणाङ्गेनैवमिति । त्रिचतुर्वैषवै क्रिया ।
``अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥''(ना॰ शा॰ 10-45)
``कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥''(ना॰ शा॰ 10-30)
विस्मयप्रधानवाक्यार्थाभिनये चास्य प्रयोगः । यथा -- ``एभि उ॰ वि॰ खु गिडत्थ ग(2)ळित्थ उ॰ वोरु(3)॰ वदाणहुणं भूकुळावणइ'' । विस्मयप्राधान्यख्यापनायैवात्र पल्लवस्यादौ प्रयोगः ``अद्धक्खि आ(4)'' इत्यादौ ॥ (71)

[(मू)]

1. ठ॰ च॰ ब॰ निकुट्टिँतार्धभागेन । न॰ म॰ निकुञ्चितं च पादं स्यात् । त॰ निकुट्टितार्धयोगेन ।

[(व्या)]

1. भ॰ नाम्ना सङ्ग ।

2. भ॰ लिलिक्त ।

3. म॰ वोकं वदा न इण्णिं भकुलावणउ । भ॰ कुलावणिउ ।

4. भ॰ अत्तक्खि ।

[page 102]




[NZ]

पुनःपुनश्च करणं कटिच्छिन्नं तु तद्भवेत् । BhNZ_04_072ab
अपविद्धकरः सूच्या पादश्चैव निकुट्टितः1 BhNZ_04_072cd
सन्नतं यत्र2 पार्श्वं च तद्भवेदर्धरेचितम् । BhNZ_04_073ab
स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ3 BhNZ_04_073cd
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत्4 BhNZ_04_074ab
अञ्चितेन तु पादेन रेचितौ 5तु करौ यदा6 BhNZ_04_074cd
[ABh]

(12) अर्धरेचितकम् ।
``हस्तौ तु सर्पशिरसौ मध्यमाङुष्ठकौ(1) यदा ।
तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥''(ना॰ शा॰ 9-191)
मण्डल एव स्थानके स्थित्वा करो वक्षसि कटकामुखः सूचीमुखेन हस्तेनाप(2)गमपूर्वकं विद्धो निकटयोजितः चपटचावसरे(तदपसारणे) च पार्श्वं सम्यक्सौष्ठवेन नतं पादश्च निकुट्टितस्तदा कायार्धस्य पर्यायेण रेचनाद्बहिर्गमनादर्धरेचितम् । एतच्चासमञ्जसचेष्टाप्रधानवाक्यार्थाभिनये । यथा -- ``गिरिगिइइळ॰वमुं चोळउकज्जनुकारण'' इत्यादौ ॥ (72)
(13) वक्षःस्वस्तिकम् ।
वक्षसि तौ हस्तौ चतुरश्रौ स्थितौ तौ रेचितौ कृत्वा व्यावृत्तकरणेनानीय निकुञ्चिते आभुग्ने वक्षसि स्वस्तिकौ कार्यौ । हस्तस्वस्तिकानुसारेण च पादावन्योन्यं जङ्घानुगुल्फवलनेन स्वस्तिकौ कार्यौ ।
``निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् ।
आभुग्नं तदुरः ।''(ना॰ शा॰ 9-224)
अत्र च नृत्तयोगात्सौष्ठवप्राधान्यमिति । भुग्नांसमिति । अंसौ हस्तापेक्षया । लज्जितजातानुतापप्रधाने वाक्यार्थे एवास्य प्रयोजनम् । यथा -- ``(3)भुंजइ सदेसदेसं धादंति बहिः णिं अमित (4)एव वंसतिण्णवव(5)सिः अनु अन्नअविरंहीम।'' (73)

[(मू)]

1. न॰ सूच्या पादश्चेत्स निकुट्टितः । म॰ भ॰ करस्तुल्यपाशश्चेत्स निकुट्टितः ।

2. ठ॰ म॰ यस्य ।

3. च॰ वक्षःस्थरेचितौ ।

4. ठ॰ म॰ ब॰ च । न॰ तु ।

5. ड॰ च ।

6. च॰ ब॰ तदा ।

[(व्या)]

1. म॰ भ॰ ङ्गुलिकौ ।

2. म॰ भ॰ नावगम ।

3. भ॰ इज्जइ ।

4. भ॰ हिव ।

5. भ॰ सि आनुइ आण ।

[page 103]




[NZ]

उन्मत्तं 1करणं तत्तु2 विज्ञेयं नृत्तकोविदैः3 BhNZ_04_075ab
4हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ BhNZ_04_075cd
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । BhNZ_04_076ab
विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ BhNZ_04_076cd
[ABh]

(14) उन्मत्तकम् ।
``पार्ष्णिर्यत्र स्थिता भूमावूर्ध्वमग्रतलं तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वाः स पादो ऽञ्चित उच्यते ॥''(ना॰ शा॰ 9-275)
आविद्धचार्या चास्य प्रयोगः ।
``स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः ।
निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता ॥''(ना॰ शा॰ 10-38)
एकवचनद्विवचनाभ्यामङ्गपर्यायः सूच्यते । एतस्यातिसौभाग्यादिजनितग(1)र्वविषयः प्रयोगः । यथा -- ``इंतिइ(2)एण इहहि कह विमाखरिततवसिइ ।'' (74)
(15) स्वस्तिकम् ।
उद्वेष्टितवर्तन(3)वामहस्तो निष्क्रम(4)स्य(निष्कास्य)व्यावर्तितस्य करणसमकालमुत्प्लुत्य(5) युगपदेव हस्तपादस्य स्वस्तिकं रचयेत् । करणार्थिभिरिति वाक्यार्थाभिनयलक्षणा । नृत्ताङ्गहाररूपा गतिपरिक्रमादिस्वभावाश्च क्रिया योऽर्थवन्त इति मध्ये तेन भङ्गिवचनेन सर्वेर्षां करणानां प्रयोजनं सूचितम् । तत्र युक्त्या द्वे(न्वे)षणनिषेधरहस्ये(राभस्ये?)च वाक्यार्थे ऽभिनेतव्ये ऽस्य प्रयोगः । यथा ``मणिचारिं ते मत्थिअरुअअं गढजांवणयेण(6)वंति हिअंभुळणए किं त कंमणएण'' ॥ (75)
( 16) पृष्ठस्वस्तिकम् ।
``ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥''(ना॰ शा॰ 10-31)

[(मू)]

1. म॰ त॰ उन्मत्तकरणम् ।

2. न॰ ह्येतत् ।

3. न॰ नाट्यकोविदैः ।

4. ठ॰ ब॰ म॰ त॰ उभाभ्यां हस्तपादाभ्याम् ।

[(व्या)]

1. म॰ भ॰ सर्व ।

2. भ॰ लत्तिइएण इहहि कहविमास्वरिततंदृघि इध ।

3. म॰ वर्तमान ।

4. निष्क्रामय्य ।

5. म॰ भ॰ मुत्पत्या ।

6. भ॰ पाति हि अह्मलिणपण ।

[page 104]




[NZ]

अपक्रान्तार्धसूचिभ्यां1 तत्पृष्ठस्वस्तिकं भवेत् । BhNZ_04_077ab
पार्श्वयोरग्रतश्चैव यत्र 2श्लिष्टः करो भवेत् ॥ BhNZ_04_077cd
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते । BhNZ_04_078ab
अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ BhNZ_04_078cd
ऊर्ध्वजानुक्रमं 3कुर्यादलातकमिति स्मृतम् । BhNZ_04_079ab
स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ BhNZ_04_079cd
[ABh]

``कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥''(ना॰ शा॰ 10-34)
(1)ऊर्ध्व(अर्ध)शब्देन द्वितीयस्मिन्पादे सूची कार्या । न तु तस्मिन्नेव पर्यायेणेत्याह । तेनेत्थं योजना -- उद्वेष्टितक्रियया बाहुद्वयविक्षेपसमकालमपक्रान्ता चारी(2) । तया (3)अपवेष्टितकरणसमकालं द्वितीयेन पादेन सूचीं विधाय स्वस्तिकं पादाभ्यां तथा (4)हस्ताभ्यां कुर्यादिति । पृष्ठे पाश्चात्ये समे यत्स्वस्तिकं तथा दक्षिणपृष्ठे वामपादेन स्वस्तिकं त्रिकवलनया च पराङ्मुखीभूय स्वस्तिकमिति पृष्ठस्वस्तिकम् । प्रयोगो ऽस्योक्तविषय एव । अन्ये तु पृष्ठविषये हस्ताभ्यां स्वस्तिकमिच्छन्तो युद्धविषये परिक्रमे(5) ऽस्य प्रयोगमाहुः ॥(76)
(17) दिक्स्वस्तिकम् ।
हस्ताभ्यामथेत्यादिना यत्पश्चात्स्वस्तिकाख्यं करणमुक्तं तदेव यदा पार्श्वयोरग्रे चकारात्पृष्ठे चतुर्दिङ्मुखेषु(ष्व)त्रुटितेना(ङ्गेन) क्रियते ऽत एवाङ्गश्लिष्ट इति । तदा दिक्स्वस्तिकम्ती । अनेन मध्ये निरूपितेन सर्वेषां करणानामित्थं प्रयोगमनुजानीते । प्रयोगश्चास्य गीतपरिवर्तेषु । यद्वक्ष्यति ``यदा गीत(ति)वशादङ्गं भूयो भूयो निवर्तते''(ना॰ शा॰ 4-306) । इत्यादि ॥ (77)
(18)अलातकम् ।
``पृष्ठे प्रसारितः पादो वलितेनान्तरीकृतः(7) ।
पार्ष्णिप्रपतिता चैवमलाता सा प्रकीर्तिता ॥'' (ना॰ शा॰ 10-41)

[(मू)]

1. न॰ म॰ सूची च ।

2. न॰ ब॰ श्लिष्टकृतो । ठ॰ श्लिष्ठगतो । त॰ श्लिष्टा कटी ।

3. ठ॰ म॰ चैवाप्यलातकरणं न्यसेत् ।

[(व्या)]

1. म॰ भ॰ अर्धऊर्ध्व ।

2. म॰ भ॰ री तु या ।

3. म॰ भ॰ अवचे ।

4. म॰ भ॰ वान्ता ।

5. म॰ भ॰ मस्य ।

6. म॰ भ॰ ङ्गेषु न ।

7. म॰ ह॰ नान्तरिक्षतः ।

[page 105]




[NZ]

1पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । BhNZ_04_080ab
हस्तो हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥ BhNZ_04_080cd
[ABh]

अंसाद्विनिष्क्रमणं व्यंसयेदिति । तं च नृत्तहस्तं (नितम्बहस्तं) दक्षिणेन रचयति । यत् --
``कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
द्वितीयं च क्रमं तूर्ध्वमूर्ध्वजानुः प्रकीर्तिता ॥'' (ना॰ शा॰ 10-33)
ततश्चारीनिवेशाच्च पादस्याप्यलातादिसंज्ञा । एवं सर्वत्र ।
``बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ।''(ना॰ शा॰ 8-196)
योजना तु -- दक्षिणपादेनालातां चारीं प्रयुञ्जानो दक्षिणहस्तेन नितम्बं कृत्वा चतुरश्रमेव कुर्यात् । वामेन पादेनोर्ध्वजानुं ततो वामेनाप्यङ्गेन । एवमेते ऽप्यलातचार्या द्वि(द्विः)प्रयोगात्तन्नामधेयमेवेदं करणम् । प्रयोगश्चास्य ललितनृत्तविषये । यथा -- ``देवं हं उणवशमिं'' इत्यादौ ॥ (78)
(19) कटीसमम् ।
स्वस्तिकादनन्तरम(1)पसृत इत्यनेन आक्षिप्तायाश्चार्या अनन्तरम(2)पक्रान्तायाश्चार्याः प्रयोगमाह । चकारेण करौ च स्वस्तिकाव(3)वधृतौ । तत एको नाभिस्थः (4)खटकः । एवमपरः कट्यामर्धचन्द्रः । तदेव पार्श्वं नतमपरमुद्वाहितं द्वितीयेनाङ्गेन ।
``कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्त(5)माक्षिप्ता नाम सा स्मृता ॥''(ना॰ शा॰ 10-37)
``उत्क्षिप्तच(6)क्रा तु यदानामिका सकनीयसी ।
अस्यैव तु कपित्थस्य तदासौ खटकामुखः ॥''(ना॰ शा॰ 9-61)
``यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् ।
सो ऽर्धचन्द्रः''(ना॰ शा॰ 9-43)
``उद्वाहितं तूर्ध्वगतमुरो ज्ञेयम्'' इति । (ना॰ शा॰ 9-231)
तत्पार्श्वमप्युद्वाहितम् । वैष्णवं चात्र स्थानकं कटिसमं तत्त्वबन्धाल्लभ्यते ।

[(मू)]

1. ठ॰ पार्श्वमुत्थापितम् ।

[(व्या)]

1. म॰ भ॰ दनन्तर इत्य ।

2. म॰ भ॰ मुपक्रा ।

3. कावपसृ ।

4. म॰ भ॰ खनकः ।

5. युक्ता आ ।

6. आक्षिप्तवक्रा ।

[(व्या)]

[page 106]




[NZ]

रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । BhNZ_04_081ab
विक्षिप्तं हस्तपादं च तस्यैवाक्षेपणं पुनः ॥ BhNZ_04_081cd
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तकं द्विजाः । BhNZ_04_082ab
स्वस्तिकौ चरणौ कृत्वा 1करिहस्तं च दक्षिणम् ॥ BhNZ_04_082cd
[ABh]

``द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितो ऽपरः ॥
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥''(ना॰ शा॰ 10-52-53)
जर्ज(1)राभिमन्त्रणावसरे सूत्रधारेणायं प्रयोक्तव्यः ॥ (79)
(20) आक्षिप्तरेचितम् ।
हृदयक्षेत्रे वामः सव्यश्च यो हस्तः स आसमन्तादित्यूर्ध्वे पार्श्वद्वये च व्यावर्तितकरणेन क्षिप्तः स रेचितो हसपक्षद्रुतभ्रमात्मा । (ना॰ शा॰ 9-193) । तत एक आक्षिप्तः स्ववक्षोदेशमधोमुख आनीतो ऽञ्चितश्च रेचितः सन्नपविद्धश्च । गात्रक्षेत्रान्निष्क्रामित इत्याक्षिप्तरेचितं करणम् । पादावत्र प्रयोगानुसारेण अञ्चित(2)सूचीरूपेण । त्यागोपादानप(3)रस्प(म्प)रात्मनि च(4) वाक्यार्थे ऽभिनेतव्ये ऽस्य प्रयोगः । यथा ``हण्डे चिसुणइ एइं वइउं वण(5)'' इत्यादौ ॥ (80)
(21) विक्षिप्ताक्षिप्तकम् ।
एकस्य(6) हस्तस्य व्यावर्तनकरणकाले पादस्य बहिर्निष्क्रमणलक्षणो विक्षेपः । द्वितीयहस्तस्तु चतुरश्र एव । पुनः परिवर्तितकरणेन तस्य हस्तपादस्याक्षेपो द्वितीयस्य विक्षेपः । गमनागमनप्रधाने वाक्यार्थे चास्य प्रयोगः ।
यथा -- ``आवर्तउजंतउ पुणं रगइदम्'' इत्यादाविति केचित् ।
उपाध्यायास्त्वाहुः -- अभिनयहस्ता ये वक्ष्यन्ते तत्प्रधानस्य करणस्य वाक्यार्थाभिनये प्रयोगः । न तु केवलवर्तनाप्रधानस्य केवलनृत्तहस्तप्रधानस्य वा । तस्य

[(मू)]

1. ठ॰ ब॰ म॰ त॰ कटिहस्तम् ।

[(व्या)]

1. म॰ भ॰ जर्झर ।

2. म॰ भ॰ रतः सूची ।

3. म॰ भ॰ दानात्परा ।

4. म॰ भ॰ नि वा ।

5. म॰ भ॰ देचिसुणइ एइब्बइ अव्वण ।

6. म॰ भ॰ एतस्य ।

[page 107]




[NZ]

वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । BhNZ_04_083ab
व्यावृत्तपरिवृत्तस्तु1 स एव तु करो यदा ॥ BhNZ_04_083cd
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । BhNZ_04_084ab
कुञ्चितं 2पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ BhNZ_04_084cd
कटिजानुविवर्ताच्च4 भुजङ्गत्रासितं भवेत् । BhNZ_04_085ab
कुञ्चितं पादमुत्क्षिप्य5 जानु स्तनसमं6 न्यसेत् ॥ BhNZ_04_085cd
[ABh]

तु नृत्ते प्रयोगः प्राधान्येन । अन्ये तु कदाचिदङ्गस्य मोदरक्षणा(?)यथायोगमभिनयान्तराले गतिपरिक्रम(मे?)तालान्तरसन्धाने युद्धनियुद्धचारीस्थानके सञ्चारे वा प्रयोग इति । एतच्च सर्वत्रानुसरणीयम् ॥(81)
(22) अर्धस्वस्तिकम् ।
``समुन्नतो लताहस्तः पार्श्वात्पार्श्वं तु दोलितः ।
त्रिपताको ऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥''
``तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताभिधौ ।''(ना॰ शा॰ 9-198-199)
``कटिहस्तम्'' इति केचित्पठन्ति । तत्र व्याख्या कट्यां यो हस्तो ऽर्धचन्द्रः (1)पक्षप्रद्योतकवञ्चितकौ । वाममिति खटकास्यम् (ना॰ शा॰ 9-61) पादाभ्यामेव स्वस्तिकयोगादर्धस्वस्तिकम् । एतत्करणमभिनयहस्तरहितमेव ॥ (81)
(23) अञ्चितम् ।
स एवेति यो ऽर्धस्वस्तिककरणे करिहस्त उक्तः स एव व्यावर्तितकरणेन यदा नासाक्षेत्रे(2) अलपल्लवाकृतित्वादञ्चितोदञ्चितसारणा(3)नुकारि तदञ्चितम् । एतस्य संमुखीनात्मविषये स्वाति(4)शयकौतुके(क)प्रधाने वाक्यार्थे प्रयोगः । यथा -- एवउवेम्मकुहेउको इति ।

[(मू)]

1. प॰ म॰ परिवृत्तं तु ।

2. न॰ म॰ पादमुद्दिश्य ।

3. ठ॰ ब॰ न्यस्तमूरुम् ।

4. न॰ म॰ जानूविवर्तौ । अ॰ ब॰ जानुविवर्तश्च ।

5. ठ॰ म॰ पादमुद्दिश्य ।

6. ठ॰ म॰ जानुं हस्तं समम् । म॰ भ॰ जानुना च समं भवेत् । ब॰ जानुमूर्ध्वं प्रसारयेत् ।

[(व्या)]

1. म॰ भ॰ वक्षः प्रद्योतकस्त्वञ्चितकोपममिति । कटकाख्यम् ।

2. म॰ भ॰ त्रे पल्लवा ।

3. म॰ भ॰ साराणामनु ।

4. म॰ भ॰ सा ... ... प्रधा ।

[page 108]




[NZ]

प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम्1 BhNZ_04_086ab
2वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ BhNZ_04_086cd
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम्3 BhNZ_04_087ab
वामदक्षिणपादाभ्यां 4घूर्णमानोपसर्पणौ ॥ BhNZ_04_087cd
उद्वेष्टितापविद्धैश्च5 हस्तैर्मत्तल्ल्युदाहुतम् । BhNZ_04_088ab
6स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ BhNZ_04_088cd
[ABh]

(24) भुजङ्गत्रासितम् ।
नृत्तस्यानादिसिद्धत्वात्करणमिदमुक्तरूपमाशङ्कितदृष्टनिकटतःसर्पत्रासाविष्टस्येव गतिसंवर्ते भुजङ्गत्रासितं करणम् । हस्तौ तु पादवशाद् व्यावर्तितपरिवर्तितौ भवतः । क्रमेणैको दोलाहस्तः(ना॰ शा॰ 9-148)परः खटकास्य इति करणम् । एतत्सादृश्यात्तु भुजङ्गत्रासितचारी(ना॰ शा॰ 10-42) वक्ष्यते । एवं करणतुल्यं नाम सर्वचारीषु वाच्यम् ॥ (84)
(25) ऊर्ध्वजानु ।
``उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा ।
तथा कुञ्चितमध्यश्च स पादः परिकुञ्चितः ॥''(ना॰ शा॰ 9-277)
ऊर्ध्वजानु एवं भविष्यति -- कुञ्चितसमकालं स एव हस्त एव कुञ्चितस्तनसमजानूपरि वोर्ध्वमुखो ऽलपल्लवो ऽरालो वा । तत्रापरस्तु वक्षःस्थखटकामुखः ॥ (85)
(26) निकुञ्चितम् ।
वृश्चिकाख्ये करणे यः पादो वक्ष्यते ``पादः पृष्ठाञ्चितस्तथा'' इति (ना॰ शा॰ 4-108) (स) वृश्चिकशब्देनेहोच्यते । तेन पश्चात्प्रसारितं चरणं कृत्वा तदेकं च हस्तं शिरःपार्श्वक्षेत्रे ऽरालं द्वितीयं च नासाग्रक्षेत्रानुसारि वक्षस्यरालमेव कुर्यात् । अन्ये त्वाहुः -- नासाग्रे एकः पताकः अन्यश्च सूच्यास्य इति । एतच्चाकाशगमनोन्मुखवितर्कप्रणिधानादिप्रधानवाक्यार्थाभिनये । यथा हनूमतः `एषो ऽस्मि व्योममार्गे प्रसभमभिचरन्किं विलम्बैः' । इत्यादौ ॥ (86)

[(मू)]

1. ठ॰ जानुः प्रकीर्तितः ।

2. ठ॰ म॰ करणं वृश्चिकम् । ज॰ चरणं वृश्चिकम् ।

3. ठ॰ तद्धि निकुञ्चितम् ।

4. प॰ म॰ पूर्णमानोपसर्पणैः ।

5. न॰ विद्धौ च ।

6. न॰ म॰ स्खलितासर्पितौ ।

[page 109]




[NZ]

सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम्1 BhNZ_04_089ab
रेचितो2 दक्षिणो हस्तः पादः 3सव्यो निकुट्टितः ॥ BhNZ_04_089cd
दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम्4 BhNZ_04_090ab
कार्यौ 5नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ BhNZ_04_090cd
[ABh]

(27) मत्तल्लि ।
चार्यप्येवंरूपैव(ना॰ शा॰ 10-28) भविष्यति । घूर्णमानस्य ततो यान्युपसर्पणानि पादस्य तैरुपलक्षिताभ्यां पादाभ्याम् । घूर्णनं च पादस्य द्वितीयपादगुल्फस्वस्तिकोपसर्पणम् । तत्समकालं च हस्तौ नितम्बाख्यावुद्वेष्टितौ तदोपसर्पणकाले ऽपविद्धोपवेष्टने(द्धावपवेष्टितौ) । एवं द्वितीयेनाङ्गेन । बहुवचनं पुनः पुनरित्थं क्रियेति सूचयति । (1)मदनं मत्तं तनोतीति मत्तल्लिः मदोत्कलस्य वीप्सायोगेन करणेन । तन्मत्तल्लित्रये विक्षेपः । मत्तशेखरकादिविषयो ऽस्याः प्रयोगः ॥ (87)
(28) अर्धमत्तल्लि ।
(वामः) रेचितो हंसपक्षो द्रुतभ्रमः । स्खलित इति षट्(कट्यां?) द्वितीयः पादनिकटं प्राप्तः । तरुणमदविषयः (प्रयोगः) ॥ (88)
(29) रेचितनिकुट्टितम् ।
सव्य इति दक्षिण एव । निकुट्टित इत्युद्घट्टितक्रियया ।
``स्थित्वा पादतलाग्रेण पार्ष्णिभूमौ निपात्यते ।'' (ना॰ शा॰ 9-248)
स उद्घट्टितः ।
``अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ ।
यदा भवेतां करणे स दोल इति संज्ञितः ॥'' (ना॰ शा॰ 9-135)
स्त्रीलिङ्गयोगेन दोलाहस्तस्य प्रेङ्खोलितं यद्वर्तनया गमनागमने सूचयति ॥(89)

[(मू)]

1. ठ॰ म॰ मत्तल्लिमादिशेत् ।

2. ठ॰ म॰ कुञ्चितो ।

3. ठ॰ सव्ये ।

4. च॰ निकुट्टके । प॰ म॰ निकुट्टनम् ।

ब॰ त॰ रेचकनिकुट्टकम् ।

5. ठ॰ म॰ नाभिकटी ।

[(व्या)]

1. भ॰ इति वक्तुं कालस्य वीप्सा । यानेन करणेन तन्मत्तल्लित्रये विक्षेपः ।

[page 110]




[NZ]

सूचीविधावपक्रान्तौ पादौ पादापविद्धके । BhNZ_04_091ab
अपविद्धो भवेद्धस्तः सूचीपादस्तथैव च ॥ BhNZ_04_091cd
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । BhNZ_04_092ab
1वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ BhNZ_04_092cd
स्वस्तिकापसृतः पादः करणं घूर्णितं तु2 तत् । BhNZ_04_093ab
करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ BhNZ_04_093cd
[ABh]

(30) पादापविद्धकम् ।
नाभिक्षेत्रे पराङ्मुखौ । सूच्याख्येन पादेन द्वितीयं पादं विद्धं विधाय स एव सूचीपादो ऽपक्रा(1)न्तचारीयुक्तः कार्यः । एवं द्वितीयो ऽपि ।
``उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ।
सूचीपादः ।'' (ना॰ शा॰ 9-279)
``ऊरुभ्यां वलनं कृत्वा'' इत्यपक्रान्ता(ना॰ शा॰ 10-31)पादात् पादान्तरमपविद्धमपसारितं यत्र तदिदं करणम् ॥ (90)
(31) वलितम् ।
``हस्तौ तु सर्पशिरसौ'' (ना॰ शा॰ 9-191) इति सूचीमुखो हस्तः । स देहक्षेत्रादपसृतः कार्यः । तत्समकालं सूचीपादो ऽप्यपसृतः । ततो भ्रमरिकां चारीं कृत्वा --
``अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥'' (ना॰ शा॰ 10-45)
तदिदं त्रिकवलनाद्वलितम् ॥ (91)
(32) घूर्णितम् ।
पार्श्वक्षेत्रादूर्ध्वव्यावर्तितेनाधोमुखपरिवर्तितेन यदा दोलाहस्तत्वाद्घूर्णितम् ॥ (92)

[(मू)]

1. ठ॰ वर्तितो । छ॰ ब॰ वलिता ।

2. च॰ ब॰ हि तत् ।

[(व्या)]

1. म॰ भ॰ क्रान्ते चारी ।

[page 111]




[NZ]

बहुशः कुट्टितः पादो ज्ञेयं तल्ललितं बुधैः । BhNZ_04_094ab
ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ BhNZ_04_094cd
दण्डपक्षं तु तत्प्रोक्तं करणं नृत्तवेदिभिः । BhNZ_04_095ab
भुजङ्गत्रासितं कृत्वा 2यत्रोभावपि रेचितौ ॥ BhNZ_04_095cd
वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् । BhNZ_04_096ab
त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ BhNZ_04_096cd
[ABh]

(33) ललितम् ।
``समुन्नतो लताहस्तः पार्श्वात्पार्श्वविलोलितः ।
इत्ययं वामः ।'' (ना॰ शा॰ 9-199)
दक्षिणं विविधं कृत्वा बहुशो वर्तितः ।
``बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बौ ।''(ना॰ शा॰ 9-196)
``केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा ।
विज्ञेयौ केशबन्धौ ॥''(ना॰ शा॰ 9-197)
इत्येवंप्रकारनृत्तहस्तयोजनया वर्तितः । चकाराद्वर्तनान्ते ``त्रिपताकोऽपरः कर्णे''(ना॰ शा॰ 9-199) इति करिहस्तः । पादश्च हस्तानुसारेण निकुट्टितः पुनः पुनरन्येनाङ्गेन(1) । तदिति सविलासनृत्तविषयमेतत् । अत एव ललितं नाम करणम् ॥ (93)
(34) दण्डपक्षम् ।
`कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमम्' इति (ना॰ शा॰ 10-33) ऊर्ध्वजानुचारीं कुर्वन् ``तिर्यक्प्रसारितौ'' (ना॰ शा॰ 9-198) इति लताहस्तौ विधायैकं लताहस्तं तस्य जानुन उपरि क्षिपेत् । पुनर्द्वितीयेनाङ्गेनैवमित्येकत्र पार्श्वे दण्डवद्बाहुसमवस्थानाद्दण्डपक्षं करणम् ॥ (94)
(35) भुजङ्गत्रस्तरेचितम् ।
तदित्यध्याहारः ।
``कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।''(ना॰ शा॰ 10-42)
इति विधाय द्वावपि हंसपक्षौ द्रुतभ्रमौ(ना॰ शा॰ 9-193) वामक्षेत्रगौ हस्तौ नेयौ ॥ (95)

[(मू)]

1. म॰ कुञ्चितः पादे ।

2. प॰ यथोभावपि । म॰ यथाभाववि । त॰ यत्रोभावप ।

[(व्या)]

1. म॰ नान्ते ... ... देति संविला । भ॰ नान्त ... ... देत्ति संविद्वास ।

[page 112]




[NZ]

नूपुरश्च 1तथा पादः करणे नूपुरे 2न्यसेत् । BhNZ_04_097ab
रेचितौ हस्तपादौ 3च कटी ग्रीवा च रेचिता4 BhNZ_04_097cd
वैशाखस्थानकेनैतद्भवेद्वैशाखरेचितम् । BhNZ_04_098ab
आक्षिप्तः स्वस्तिकः पादः 5करौ चोद्वेष्टितौ तथा ॥ BhNZ_04_098cd
त्रिकस्य 6वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । BhNZ_04_099ab
अञ्चितः स्यात्करो वामः 7सव्यश् चतुर एव तु ॥ BhNZ_04_099cd
[ABh]

(36) नूपुरम् ।
``पृष्ठतो ऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निपातयेद् भूमौ चारी नूपुरपादिका ॥''(ना॰ शा॰ 10-35)
तेन भ्रमरिकया चार्या (ना॰ शा॰ 10-45) त्रिकवलनं कृत्वा ततो नूपुरपादिकां चारीं येन पादेन करोति तद्दिक्केनैव हस्तेन (रेचितम् । द्वितीयो लताहस्तः) ॥ (96)
(37) वैशाखरेचितम् ।
रेचितौ नृत्तहस्तौ हंसपक्षौ द्रुतभ्रमाविति । तदनुकारेण पादग्रीवाकटिगतं रेचितं ज्ञेयम् । यथोक्तं राहुकेन --
``ग्रीवायां करयोः कठ्यां पादयोश्च पृथक्पृथक् ।
भ्रमणं रेचितं विद्यात् ।'' इति ।
``(1)तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ।
(2)तालांस्त्रीनर्धतालं च निषण्णोरुं प्रकल्पयेत् ॥
त्र्यश्रौ (3)पक्षस्थितौ पादौ ॥'' (ना॰ शा॰ 10-61-62)
वैशाखं स्थानम्(4) । एतत्करणमभिवाहने ॥ (97)
(38) भ्रमरकम् ।
अनेन पादेनाक्षिप्ता चारी सीचिता ।
``कुञ्चितं पादमुत्क्षिप्य व्याक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्तमाक्षिप्ता नाम सा स्मृता ॥'' (ना॰ शा॰ 10-37)

[(मू)]

1. प॰ तदा ।

2. त॰ णं नूपुरं तु तत् । प॰ मतम् ।

3. न॰ ब॰ तु ।

4. ठ॰ त॰ कटिग्रीवं च रेचितम् ।

5. म॰ भ॰ रेचितोद्वेष्टितौ ।

6. प॰ वलनं चैव ।

7. ठ॰ ब॰ म॰ त॰ सव्यश्चाप्यलपल्लवः ।

[(व्या)]

1. भ॰ तालत्रयो ऽर्ध ।

2. म॰ तालत्रयो ऽर्धतालश्च ।

3. म॰ भ॰ वक्षःस्थि ।

4. म॰ वैशाखैश्चाभिवाहने । भ॰ वैशाखेच्छादिवाहने ।

[page 113]




[NZ]

दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । BhNZ_04_100ab
भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ BhNZ_04_100cd
1लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । BhNZ_04_101ab
विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ BhNZ_04_101cd
[ABh]

तेनैवं योजना -- स्वस्तिकानन्तरं पादमाक्षिप्य तत्समकालमुद्वेष्ट्य ``तर्जन्याद्या बहिर्मुख(1)म्''(ना॰ शा॰ 9-216) इत्युद्वेष्टितमेकं हस्तं कृत्वा त्रिकवलनं कृत्वा पुनर्द्वितीयेनाङ्गेन तथैव । चकारात्तद्वलनानन्तरं स्वस्तिक एव पादः । एकवचनद्विवचनाभ्यां पर्यायेण प्रयोगो ऽत्र सूचितः । यदि वोद्वेष्टितशब्देनोल्बणौ नृत्तहस्तावुपलक्षितौ ।
``करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ ।
ऊर्ध्वं प्रसारिताविद्धौ कर्तव्यावुल्वणौ ॥'' इति (ना॰ शा॰ 9-208)
तदा युगपदेव प्रयोगं कृत्वा पादस्वस्तिकभ्रमणाद्देहस्य साक्षात्कृतः । संज्ञायां कन् । एतदुद्धतपरिभ्रमणविषये प्रयोक्तव्यम् ॥ (98)
(39) चतुरम् ।
अञ्चित इत्यलपल्लवः (ना॰ शा॰ 9-91)
``तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी ।
तासां मध्ये तथाङ्गुष्ठः स करश्चतुरः स्मृतः ॥'' (ना॰ शा॰ 9-93)
एवकारेण वक्षःक्षेत्राद्(2) द्वयोरप्यलम् । तुशब्देन सन्निवेशाधिक्यं केवलमिति सूच्यते । कुट्टित इति ।
``स्थित्वा पादतलाग्रेण पार्ष्णिभूमौ निपात्यते''(ना॰ शा॰ 9-266) इत्युद्घट्टिताङ्ग(3)रूपः । एतद्विदूषकस्य सविस्मयसूच्याभिनयादौ । यथा ``सानुरे खण्डदासवर्यमिसासा '' ॥ (99)
(40) भुजङ्गाञ्चितकम् ।
(``(4)कुञ्चितं पादम् ।''(ना॰ शा॰ 10-42) इत्यादि भुजङ्गत्रासितचार्यां पादः । ``हंसपक्षौ द्रुतभ्रमौ ।''(ना॰ शा॰ 9-193) इति दक्षिणो रेचितः । ``तिर्यक्प्रसारितौ'' इति (ना॰ शा॰ 9-198) वामो लताख्यो नृत्तहस्तः ॥) (100)

[(मू)]

1. ठ॰ म॰ लताख्यश्च ततो वामो भुजङ्गाञ्चितके ।

[(व्या)]

1. म॰ भ॰ मुखा इत्यु ।

2. म॰ भ॰ त्रादयोप्य ।

3. म॰ भ॰ तांशरू ।

4. म॰ भ॰ अयं ग्रन्थो नास्ति ।

[page 114]




[NZ]

रेच्यते1 तद्धि करणं ज्ञेयं दण्डकरेचितम् । BhNZ_04_102ab
वृश्चिकं 2चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ BhNZ_04_102cd
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । BhNZ_04_103ab
सूचीं 3कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ BhNZ_04_103cd
4रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । BhNZ_04_104ab
अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ BhNZ_04_104cd
[ABh]

(41) दण्डकरेचितम् ।
दण्दवद्धस्तविक्षेपेण रेचनेन च दण्डपक्षौ सूच्येते । पादविक्षेपेण तु दण्डपादा चारी ।
``हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ ।
ततहा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥''(ना॰ शा॰ 9-202)
``नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् ।
क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥''(ना॰ शा॰ 10-44 )
तत्प्रमोदविषयं करणम् । उद्द्धतविषये चास्य प्रयोगः (इत्यन्ये) ॥(101)
(42) वृश्चिककुट्टितम् ।
पृष्ठभागे रेचितजङ्घमुत्तानतलं वृश्चिकोपलक्षितं चरणं कृत्वा द्वावपि हस्तौ स्वबाहुशिरस्यलपल्लवौ निकुट्टितौ पर्यायेण विदध्यादिति । एतच्च विस्मयाकाशगमनेच्छादिप्रधाने वाक्यार्थविषये प्रयुज्यते । यथा, ``पडिविधारिअं उवक्खंहिआ'' इत्यादौ ॥ (102)
(43) कटिभ्रान्तम् ।
``कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेदग्रप्रयोगेन सा सूची परिकीर्तिता ॥'' (ना॰ शा॰ 10-34)

[(मू)]

1. त॰ ब॰ रेचिते ।

2. म॰ करणम् ।

3. त॰ दत्वा ।

4. ठ॰ ब॰ म॰ पादयोरनुगौ हस्तौ । न॰ रेचितौ ।

[(व्या)]

[page 115]




[NZ]

लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । BhNZ_04_105ab
अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ BhNZ_04_105cd
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । BhNZ_04_106ab
वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करावुभौ ॥ BhNZ_04_106cd
रेचितौ वि1प्रकीर्णौ च करौ वृश्चिकरेचितम् । BhNZ_04_107ab
बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ BhNZ_04_107cd
[ABh]

वामं द्रुतमपसारितं कृत्वा पार्श्वे दक्षिणं पादं न्यसेत् । समकालं पृष्ठपरावर्तनक्रमेण कटिं रेचयेत् । भ्रमरिकया वा चार्या (ना॰ शा॰ 10-45) करयो(1)श्च प्रयोगवशगत्वेन(कटि)भ्रमणकाले तयोरपि व्यावर्तनपरिवर्तनकरणं योजनान्ते चतुरश्रावस्थानम् । गतिपरिक्रमे ऽस्य तालाकारादि(लान्तरालादि)यतिपरिपूरणविषये प्रयोगः ॥(103)
(44) लतावृश्चिकम् ।
प्रथमार्धेन वृश्चिकम् । वामं चरणं भूमौ(2) । आकाशादवपतने ऽस्य प्रयोगः ॥ (104)
(45) च्छिन्नम् ।
क्रमेण पार्ष्ण्योर्नमनोन्न(1)मनाभ्यां(ना॰ शा॰ 9-251,235) यदा कटिच्छेदः । पार्ष्ण्योर्नम(4)नोन्नमने पर्यायेण । तथैव च कटिपार्श्वक्षेत्र एव ।
``आवर्तिन्यः करतले यस्याङ्गुल्यः ।''(ना॰ शा॰ 9-91)
इत्येवंभूतो ऽलपल्लवः । ईषद्गतागतपर्यायेण द्वाभ्यां हस्ताभ्यां प्रयुज्यते । वैशाखस्थानकेन ``तालास्त्रयो ऽर्धतालश्च''(ना॰ शा॰ 10-61) इति ``निष्क्रान्तौ'' इति च लक्षणेन तदा कटिच्छेदयोगि छिन्नं नाम । अङ्गप्रतिसारणतालभञ्जनादिविषये चास्य प्रयोगः ॥ (105)
(46) वृश्चिकरेचितम् ।
``तावेव मणिबन्धान्ते'' इति (ना॰ शा॰ 9-187) स्वस्तिकौ । विप्रकीर्णकौ रेचितौ हंसपक्षौ द्रुतभ्रमौ । एतदाकाशयानके प्रयोज्यम् ॥ (106)

[(मू)]

1. न॰ ब॰ म॰ रेचितापसृतौ चैव कार्यं वृश्चिकरेचिते ।

[(व्या)]

1. म॰ भ॰ करणयोश्च ।

2. म॰ भ॰ ब्रूमो ।

3. म॰ भ॰ नमनाभ्याम् ।

4. म॰ भ॰ पार्श्वे ... ... पर्यायेण ।

[page 116]




[NZ]

दूरसन्नतपृष्ठं1 च वृश्चिकं तत्प्रकीर्तितम् । BhNZ_04_108ab
आलीढं स्थानकं यत्र2 करौ वक्षसि रेचितौ ॥ BhNZ_04_108cd
ऊर्ध्वाधोविप्रकीर्णौ च 3व्यंसितं करणं तु तत् । BhNZ_04_109ab
हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो4 निकुट्टितः ॥ BhNZ_04_109cd
[ABh]

(47) वृश्चिकम् ।
द्विवचनैकवचने अङ्गस्यापरिहारं सूचयतः । हस्तस्य बाहुशिरस्यञ्चनेन करिहस्तप्रयोगः सूच्यते ।
``समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः ।
त्रिपताको ऽपरः कर्णे करिहस्तः ॥''(ना॰ शा॰ 9-199)
दूरसन्नतपृष्ठत्वं वृश्चिकप्रयोगान्तरीयं(कं) सर्वत्र मन्तव्यम् । वृश्चिकपुच्छस्थानीयचरणं वृश्चिकमेतत्करणम् । तदुपलक्षितपादो वृश्चिकः । अस्याकाशगतौ च ऐरावणादिविषये प्रयोगः । तदुपलक्षितपादो वृश्चिकः । अस्याकाशगतौ च ऐरावणादिविषये प्रयोगः । यथा -- ``श्वेताभ्रभ्रान्तिकारी समवतरति रवादभ्रमूवल्लभो ऽयम्'' इति ॥(107)
(48) व्यंसितम् ।
``मण्डले दक्षिणं पादं पञ्चतालान्प्रसार्य तु ।
आलीढं स्थानकं कुर्यात् ॥''(ना॰ शा॰ 10-67)
एकस्य तर्जन्याद्युद्वेष्टितेन(ना॰ शा॰ 9-216) करणेनाधो विप्रकीर्णता । द्वितीयस्त(1)र्जन्यादिपरावर्तितकरणेनोर्ध्वगतः(2), क्षेत्रपर्यायेणैक(3) उत्तानो हंसपक्षो द्रुतभ्रमलक्षणो रेचकम् । अव(प)रो ऽधोमुख ऊर्ध्वाध इत्येकीकरणम् । तच्च करणमुभयत्र सम्बध्यते । एतच्च विभ्रमा(4)दि(हनुमदादि?)परिक्रमविषयम् ॥ (108)
(49) पार्श्वनिकुट्टकम् ।
``तावेव मणिबन्धास्ते'' इति(ना॰ शा॰ 9-187) स्वस्तिकौ । तथाशब्देन पार्श्वे

[(मू)]

1. ठ॰ म॰ पृष्ठश्च ।

2. न॰ म॰ आलीढस्थानके यत्र ।

3. ठ॰ म॰ व्यंसितं तद्विदुर्बुधाः ।

4. ब॰ पादौ निकुट्टितौ ।

[(व्या)]

1. म॰ भ॰ यतर्ज ।

2. म॰ भ॰ नार्थः ततः क्षेत्र ।

3. म॰ भ॰ णैते ।

4. म॰ प्रमादा । भ॰ भ्रमादिपरा ।

[page 117]




[NZ]

यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम्1 BhNZ_04_110ab
वृश्चिकं 2चरणं कृत्वा पादस्याङ्गुष्टकेन तु ॥ BhNZ_04_110cd
ललाटे तिलकं कुर्याल्ललाटतिलकं 3तु तत् । BhNZ_04_111ab
पृष्ठतः कुञ्चितं 4कृत्वा व्यतिक्रान्तक्रमं ततः ॥ BhNZ_04_111cd
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । BhNZ_04_112ab
आद्यः 5पादो नतः कार्यः सव्यवहस्तश्च कुञ्चितः ॥ BhNZ_04_112cd
[ABh]

तयोर्निकुट्टितत्वं पर्यायेणो(1)च्यते । तस्य तलमेव च पादस्य निकुट्टितत्वम् । पुनर्द्वितीयेनाङ्गेनेति पार्श्वगतहस्तनिकुट्टितयोगात् पार्श्वनिकुट्टितम् । प्रकाशनसंवर(2)णाहार(भ्यास?)प्रधाने वाक्यार्थे चास्य प्रयोगः । यथा ``पुण्णाव उडेहराभुइं कुहुएहमं ... ... पेताहं (सहं सिपित)'' इत्यादौ ॥(109)
(50) ललाटतिलकम् ।
पादस्य तस्यैव पश्चाद्भागादितरस्याङ्गुष्ठेन तिलकं तिलकक्रियाहेतुभूतत्वेन लक्षितं संश्लेषं कुर्यादित्यासि(दि)कमेतत्करणं(1) विद्याधरगतिविषये प्रयुज्यते ॥(110)
(51) क्रान्तकम् ।
``कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य(3) पातयेच्चैनमतिक्रान्ता ॥'' इति (ना॰ शा॰ 10-30)
चारीं तां कृत्वा पात्यमानं चरणं कुञ्चितं स्थापयेत् । पृष्ठतः कुञ्चितं च सस्मादाय क्रियान्तपरिक्रमेण प्रसारयेत् । हस्तौ विचार्य(ल्य?) व्यावर्तितकरणेन देहक्षेत्रान्निष्क्रान्तः पुनः परिवर्तितकरणेनाक्षिप्तः स (व)क्षसि खटकामुखः । पुनरपरेणाङ्गेन प्रयोगः । उद्घतपरिक्रमे ऽस्य प्रयोगः ॥ (111)

[(मू)]

1. त॰ ब॰ पादनिकुट्टितम् । म॰ प॰ पादनिकुट्टकम् ।

2. ठ॰ म॰ करणम् ।

3. न॰ म॰ च तत् ।

4. ठ॰ म॰ कुर्यादतिक्रान्तक्रमम् ।

5. ठ॰ म॰ पादो ऽञ्चितः ।

[(व्या)]

1. णोर्ध्वाधोमुखत्वं लभ्येते ।

2. सञ्चर ।

3. भ॰ रणविषये प्रयुज्यते ।

[page 118]




[NZ]

उत्तानो 1वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । BhNZ_04_113ab
प्रलम्बिताभ्यां बाहुभ्यां 2यद्गात्रेणानतनेन च ॥ BhNZ_04_113cd
अभ्यन्तरापविद्धः3 स्यात्तज्ज्ञेयं चक्रमण्डलम् । BhNZ_04_114ab
4स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ BhNZ_04_114cd
उरोमण्डलकौ हस्तावुरोमण्डलिकन्तु तत् । BhNZ_04_115ab
5आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ BhNZ_04_115cd
[ABh]

(52) किञ्चितम् ।
आद्यो नत इति जानुगमनेन भूत(1)लसञ्चरो लक्ष्यते । दक्षिणहस्तश्च कुञ्चितः उत्तानालपल्लवरूपो वामपार्श्वे विधेयः । तदेतन्निर्मरानन्दपूर्ण(2)देवस्याभिनयविषये प्रयोक्तव्यम् । यथा ``देहसुभाइउं मकरकलिअणुकापालविद्वेइचळणं धिआइं'' इत्यादौ ॥ (112)
(53) चक्रमण्डलम् ।
अड्डिता चात्रादौ चारी ।
``अग्रतः पृष्ठतो वापि पादो ऽग्रतलसञ्चरः ।
द्वितीयपादनिर्घृष्टो यस्यां(3) स्यादड्डिता तु सा ॥''(ना॰ शा॰ 10-23)
उद्धतपरिक्रमपरिष्करणा(रिक्रमा)दिविषये चैतत् ॥ (113)
(54) उरोमण्डलम् ।
``भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् ।
पुनरुत्सारयेदन्यं(4) स्थितावर्ता तु सा स्मृता ॥''(ना॰ शा॰ 10-15)
इत्यनया चार्यापसारणं स्वस्तिकस्य कार्यम् । बद्धाचार्यात्वादाववस्थानमित्युक्तं भवति ।
``अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः ।
ऊरुभ्यां वलनम्'' इति (ना॰ शा॰ 10-21)

[(मू)]

1. ठ॰ म॰ वामपार्श्वश्च ।

2. ठ॰ यद्गात्रेण नतेन ।

3. ठ॰ म॰ आद्यन्तरापविद्धम् ।

4. न॰ म॰ ब॰ उद्वेष्टिततलौ हस्तावपविद्धक्रमौ यदा । मण्डलं च शिरो ज्ञेयमुरोमण्डलमेव तत् ।

5. ठ॰ आक्षिप्तहस्तपादौ तु । छ॰ म॰ ब॰ आक्षिप्तहस्तपादं च ।

[(व्या)]

1. नाग्रतल ।

2. म॰ भ॰ र्णादैवतस्याभिन ।

3. म॰ भ॰ यस्य ।

4. म॰ भ॰ येत्पादम् ।

[page 119]




[NZ]

आक्षिप्तं नाम करणं विज्ञेयं तत् द्विजोत्तमाः । BhNZ_04_116ab
ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं 1प्रसारितः ॥ BhNZ_04_116cd
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । BhNZ_04_117ab
पृष्ठतः प्रसृतः पादो द्वौ 2तालावर्धमेव च ॥ BhNZ_04_117cd
[ABh]

तस्या रूपं स्वस्तिकसंस्थानाक्षिप्तम् ।
``उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः ।
भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥''(ना॰ शा॰ 9-204) ॥(114)
(55) आक्षिप्तम् ।
``कुञ्चितं पादमुत्क्षिप्याञ्चितम्'' । इति (ना॰ शा॰ 10-37)
आक्षिप्तया पादचार्या पार्श्वस्य किञ्चिन्नमनेन हस्तस्य चतुरश्रस्य खटकामुख्या क्षेपः इति विदूषकगतिविषयमाक्षिप्तकरणम् ॥ (115)
(56) तलविलसितम् ।
तेनैवोर्ध्वगतेन पादेन सहाञ्चिततलो वा श्लिष्टतलत्वात्कर्तव्यः । द्विवचनात्पर्यायेण द्वितीयेनाङ्गेन प्रयोगो ऽभ्यासेन वा । पताकौ हस्तौ परस्परोपसंश्लिष्टाविति पादतलस्य हस्ततलस्य च विकृष्टे देशे आकाशे लसितं श्लेषणं यत्र तलविलसितम् । पादोद्धारसंज्ञया सूत्रधारादिविषये नाट्याचार्या योजयन्ति ॥ (116)
(57) अर्गलम् ।
द्वितीय(1)चरणकनिष्ठाभङ्गे (2)सार्धान्तालाह्वजङ्घः सन् पादः प्रसृतो भवति । एतत्समकालं च हस्तबाहुद्वितीयं पार्श्वक्षेत्रं किञ्चिदग्रप्रसृतो ऽलपल्लवाकारः तदन्तर्ज(र्ग)लमर्गलयेत् । देहस्य नयम्यन्त्रणात्(नियन्त्रणात्?) (अर्गलम्) । परिक्रमे चैतद(3)ङ्गदप्रभृतीनां भवति ।

[(मू)]

1. प॰ ब॰ समुच्छ्रितः । न॰ समुत्थितः । त॰ समागतम् ।

2. न॰ ब॰ तलावूर्ध्व ।

[(व्या)]

1. म॰ भ॰ चारण ।

2. र्धात्तालद्वय ।

3. म॰ भ॰ दनङ्गप्रभृ ।

[page 120]




[NZ]

1तस्यैव चानुगो हस्तः पुरस्तस्त्वर्गलं तु तत् । BhNZ_04_118ab
विक्षिप्तं हस्तपादं च पृष्ठतः 3पार्श्वतो ऽपि वा ॥ BhNZ_04_118cd
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । BhNZ_04_119ab
प्रसार्य कुञ्चितं पादं 4पुनरावर्तरेत् द्रुतम् ॥ BhNZ_04_119cd
प्रयोगवशगौ हस्तौ 5तदावर्तमुदाहृतम् । BhNZ_04_120ab
कुञ्चितं 6पादमुत्क्षिप्य 7पार्श्वात्पार्श्वं तु डोलयेत् ॥ BhNZ_04_120cd
[ABh]

(58) विक्षिप्तम् ।
वाग्रहणं चार्थे । तेन विद्युद्भ्रान्तादण्डपादाभ्यां(ना॰ शा॰ 10-40-44)चारीभ्यामुद्वेष्टितापवेष्टितरेचकवर्त(1)नया पार्श्वयोः पृष्ठे ऽग्रे च हस्तपादविक्षेपः । (इद)मुद्धतगतिपरिक्रमसूचनादिविषयम् ॥ (118)
(59) आवर्तम् ।
``पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः ।
वामः सव्योपसर्पी च चाषगत्याम् । इति ॥'' (ना॰ शा॰ 10-18)
चाषगत्या चार्या प्रयोगः । हस्तौ च किञ्चिदुद्वेष्टितापवेष्टितरूपौ दोलावेति । आ ईषत् वर्तनं हस्तपादस्य यत्र तदिदमावर्तकरणम् । एत(2)न्नायकोपसर्पणे सागरिकापाशबन्धाद्यवसरे प्रयोज्यम् ॥ (119)
(60) डोलापादम् ।
पूर्वमूर्ध्वजानुचारी । (ना॰ शा॰ 10-33) ततो दोलापादा ।

[(मू)]

1. ठ॰ म॰ तस्यैवानुगतो । छ॰ ब॰ आस्ये चानुगतो ।

2. ठ॰ म॰ तु । न॰ तत् ।

3. ठ॰ पार्श्वतो ऽथवा ।

4. च॰ ब॰ पुर आवर्तयेत्क्रमात् । त॰ पुर आवर्तयेत् द्रुतम् ।

5. म॰ तदावर्तितमुच्यते ।

6. च॰ पादमुत्क्षिप्तम् ।

7. ब॰ म॰ पश्चात्पा ।

[(व्या)]

1. म॰ भ॰ ककर्तानया ।

2. म॰ भ॰ नयोपसर्पणम् ।

[page 121]




[NZ]

प्रयोगवशगौ हस्तौ 1डोलापादं तदुच्यते । BhNZ_04_121ab
आक्षिप्तं 2हस्तपादं च त्रिकं चैव3 विवर्तयेत् ॥ BhNZ_04_121cd
रेचितौ च तथा हस्तौ 4विवृत्ते करणे द्विजाः । BhNZ_04_122ab
सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत्5 BhNZ_04_122cd
[ABh]

``(किञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं विलोलयेत् ।
पातयेदञ्चितं चैव दोलापादा ॥)'' (ना॰ शा॰ 10-36)
डोलाहस्तावेव (ना॰ शा॰ 9-148) प्रयोगवशगौ इति डोलापादं करणम् ॥ (120)
(61) विवृत्तम्
आक्षिप्य वाम(पाद)माक्षिप्य स्वदेहक्षेत्रादपसारितवृत्त्यावर्त्य हस्तं च त्र्यावर्तितपरिवर्तिताभ्यां तथैवाक्षिप्य त्रिकं भ्रमरिकया(ना॰ शा॰ 10-45) वलयेत् । तद्रेचितौ च हंसपक्षौ द्रुतभ्रमौ हस्ताविति त्रिकविवर्तनयोगात् विवृतम् । अस्योद्धतगतिपरिक्रमे प्रयोगः ॥ (121)
(62) विनिवृत्तम् ।
``कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची ॥'' इति (ना॰ शा॰ 10-34)
चार्या द्वितीयं पादं पार्ष्णिभागे स्वस्तिकयोजनया विद्धा(ध्वा)त्रिकस्यैकपार्श्वे विवर्तनस्य प्रत्यावर्तनक्रमेण निवृत्तिं कुर्यात् । ``अन्योन्यजङ्घावेधेन बद्धया'' (ना॰ शा॰ 10-21) वा चार्योरुवलनं कुर्यात् ।
हस्तौ च रेचितौ हंसपक्षौ द्रुतभ्रमौ । उक्त एवास्य प्रयोगः (विवृत्तवत्) ॥ (122)

[(मू)]

1. च॰ ब॰ तदुक्तं देलपादकम् । म॰ दोलापादं प्रकीर्तितम् ।

2. म॰ क्षिप्तह । क॰ चक्रपादं च ।

3. च॰ च परिवर्तयेत् । त॰ म॰ चैव विवर्तितम् । छ॰ च विनिवर्तितम् ।

4. ठ॰ ब॰ म॰ त॰ निवृत्ते । च॰ विवृते ।

5. त॰ परिवर्तयेत् ।

[(व्या)]

[page 122]




[NZ]

करौ च1 रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमाः । BhNZ_04_123ab
पार्श्वक्रान्तक्रमं2 कृत्वा 3पुरस्तादथ पातयेत् ॥ BhNZ_04_123cd
प्रयोगवशगौ हस्तौ 4पार्श्वक्रान्तं तदुच्यते । BhNZ_04_124ab
पृष्ठतः 5कुञ्चितः पादो वक्षश्चैव समुन्नतम् ॥ BhNZ_04_124cd
तिलके च करः स्थाप्यस्तन्नि6स्तम्भितमुच्यते । BhNZ_04_125ab
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ BhNZ_04_125cd
[ABh]

(63) पार्श्वक्रान्तम् ।
``कुञ्चितं पादमुत्क्षिप्य पार्श्वस्थाने स्थितं न्यसेत् ।''(ना॰ शा॰ 10-32)
इति पार्श्वक्रान्ता चारी । तत्याग्रे चरणं पातयेत् । हस्तयोश्च पादप्रयोगानुसारेण पर्यायेण पुरः प्रसारणम् । यदि वा प्रयुज्यत इति प्रयोगः गतिप्रचारयुद्धादिः । तत्र पादावुचितौ हस्तावित्येवं सर्वत्र । एतच्च रौद्रप्रधाने भीमसेनादेः परिक्रमे ॥ (123)
(64) निस्तम्भितम् ।
द्वितीयपादस्य पृष्ठे पार्ष्णिभागे कुञ्चितः । समुन्नतमिति । निर्भुग्नं स्तब्धं च निम्नपृष्ठं चेति । खटकामुखः कर इति तदेतद्देशो मध्यमाङ्गुलिरूपो(2) ललाटे तिलकवदिति । पादेन भुव आघातान्निस्तम्भितं महेश्वराभिनयविषयम् । वृश्चिको ऽत्र पाद इत्येके ॥ (124)
(65) विद्युद्भ्रान्तम् ।
पृष्ठत ऊरुमूलदेशात्प्रभृति वलितं चक्रवद्भ्रामितं तत एव प्रयोक्तुः शिरःक्षेत्रेण श्लिष्टं सर्वतो मण्डल(2)गत्या आख्या(ख्यया)आविद्धं चतुरं कृत्वा प्रसारयेत् । प्रकर्षेण स सर्वादिषु(सर्वदिक्षु) पर्यायेण सारयेत् । तत्पदस्य विद्युत उद्भ्रमणाद्विद्युद्भ्रान्तमुद्धतगतिपरिक्रमादिविषयम् ॥ (125)

[(मू)]

1. ठ॰ म॰ करौ तु ।

2. ठ॰ म॰ पार्श्वक्रान्तं त्रिकम् ।

3. ठ॰ म॰ ब॰ पुरस्तात्संप्रसारयेत् ।

4. ठ॰ म॰ पार्श्वकान्तमुदाहृतम् ।

5. ठ॰ कुञ्चितौ पादौ ।

6. ब॰ न्निशु । म॰ निस्सु । त॰ मिसु ।

[(व्या)]

1. म॰ भ॰ रूपे ।

2. भ॰ ण्डले आवि ।

[page 123]




[NZ]

1सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । BhNZ_04_126ab
अतिक्रान्तक्रमं कृत्वा 2पुरस्तात्संप्रसारयेत् ॥ BhNZ_04_126cd
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । BhNZ_04_127ab
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ BhNZ_04_127cd
3द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । BhNZ_04_128ab
कर्णे ऽञ्चितः4 करो वामो लताहस्तश्च दक्षिणः ॥ BhNZ_04_128cd
दोलापादस्तथा चैव गजक्रीडितकं5 भवेत् । BhNZ_04_129ab
द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ BhNZ_04_129cd
[ABh]

(66) अतिक्रान्तम् ।
अतिक्रान्ता चारी(ना॰ शा॰ 10-30) व्याख्याता । पुरस्तादिति स्वदेहस्याग्रेण । एतदपि गतिपरिक्रमादिविषयमेव । एवमन्यस्यापि यस्याभिनयविषये नोपयोगस्तस्य विषयो मन्तव्यः ॥ (126)
(67) विवर्तितकम् ।
आक्षिप्तहस्तापेक्षया द्वितीयो हस्तः । तं हंसपक्षद्रुतभ्रमक्रमं कुर्यात् ॥ (127)
(68) गजक्रीडितकम् ।
``समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः ।''(ना॰ शा॰ 9-199)
इति यः करिहस्तो लक्ष्यते वृत्तमध्ये तस्यैव यदा त्रिपताको ऽसावञ्चितक्रियाविष्टो डोलापादचारी तदा गजक्रीडितकम् । क्रियाविष्टत्वाच्चाङ्गपर्यायो ऽत्र लभ्यते । प्रयोगश्चास्य नामोचित एव विषये । यथा ``(1)अरुवद्रणा'' इत्यादौ ॥ (128)

[(मू)]

1. त॰ म॰ ब॰ हस्तौ च मण्डलाविद्धौ ।

2. च॰ ब॰ पुरस्तात्संप्रयोजयेत् ।

3. ठ. म॰ पुनश्च रेचयेद्धस्तम् ।

4. च॰ ब॰ कर्णाञ्चितः करो ।

5. ठ॰ ब॰ म॰ गजक्रीडितके ।

[(व्या)]

1. भ॰ आवआरु ।

[page 124]




[NZ]

तलसंस्फोटितौ हस्तौ 1तलसंस्फोटिते मतौ । BhNZ_04_130ab
पृष्ठसारितः2 पादः लतारेचितकौ करौ3 BhNZ_04_130cd
समुन्नतं शिरश्चैव4 गरुडप्लुतकं5 भवेत् । BhNZ_04_131ab
सूचीपादो नतं6 पार्श्वमेको वक्षःस्थितः करः ॥ BhNZ_04_131cd
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते । BhNZ_04_132ab
7ऊर्ध्वापवेष्टितौ हस्तौ 8सूचीपादो विवर्तितः ॥ BhNZ_04_132cd
[ABh]

(69) तलसंस्फोटिकम् ।
अतिक्रान्तया(ना॰ शा॰ 10-30) चार्या दण्डपादया (ना॰ शा॰ 10-44) वा चरणमुत्क्षिप्याक्षिप्तं कृत्वा तथैवाग्रे निपातयेत् । तत्समकालं च पताकौ हस्तौ संश्लेषितशब्दादभिहितौ इति तलसंस्फोटितम् । तस्यैतद्विषय एव प्रयोगो, यथा ``तालाद्देवी सुसुखसुभसइ जणु'' इत्यादौ ॥ (129)
(70) गरुडप्लुतकम् ।
वृद्धिकवच्चरणम् । एको ऽलातहस्त(लताहस्तः) । द्वितीयो रेचितः । प्रयोगो ऽस्य नामोचित एव विषये ॥ (130)
(71) गण्डसूची ।
``उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ।
वामश्चैव स्वभावस्थः ॥''(ना॰ शा॰ 9-280)
इति सूचीपादः । अञ्चितो ऽलपल्लवो गण्डक्षेत्रे । अन्ये तु सूचीपादं गण्डक्षेत्रप्राप्तमिच्छन्ति । अन्ये तु सूचीमुखं नृत्तहस्तं गण्डाञ्चितं पुनः क्रियाविष्टमाहुः ।
``हस्तौ तु सर्पशिरसौ मध्याङ्गुष्ठकौ यदा ।
तिर्यक्प्रसारितास्यौ'' (ना॰ शा॰ 9-191) इति ।
अन्ये तु सूच्यास्यममिनयहस्तमाहुः ।

[(मू)]

1. प॰ तलस्फोटितकौ मतौ ।

2. ठ॰ पृष्ठप्रसारितौ पादौ । ठ॰ ब॰ पार्श्वतः पादः ।

3. म॰ पृष्ठप्रसारितः पादः कुञ्चितौ रेचितौ करौ ।

4. च॰ म॰ त॰ समुन्नतमुरश्चैव ।

5. ठ॰ म॰ गरुडप्लुतके ।

6. ठ॰ सूचीपादोन्नतम् । म॰ सूचीपादौ नतम् ।

7. ठ॰ म॰ ऊर्ध्वावचेष्टितौ ।

8. न॰ सूचीपादे ऽपवर्तितः ।

[(व्या)]

[page 125]




[NZ]

परिवृत्तत्रिकं चैव1 परिवृत्तं तदुच्यते । BhNZ_04_133ab
एकः 2समस्थितः पाद 3ऊरुपृष्ठे स्थितो ऽपरः ॥ BhNZ_04_133cd
मुष्टिहस्तश्च 4वक्षःस्थः पार्श्वजानु तदुच्यते । BhNZ_04_134ab
पृष्ठप्रसारितः पादः किञ्चिदञ्चित5जानुकः ॥ BhNZ_04_134cd
[ABh]

``खटकाख्ये यदा हस्ते तर्जनी सम्प्रसरिता ।
हस्तः सूचीमुखो नाम ॥'' इति (ना॰ शा॰ 9-65)
अत्र पक्षे गण्डसंश्रयप्रधानभूषणाभिनयविषयो ऽस्य प्रयोगः । यथा ``गंडप्पळीळावण्णज्जळ एसो फळके अइदाम'' इत्यादौ ॥ (131)
(72) परिवृत्तम् ।
``ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् ।''(ना॰ शा॰ 9-203)
सूचीलक्षणश्च (ना॰ शा॰ 10-34) पादो बद्धाचारी(ना॰ शा॰ 10-21)माश्रित्य विचित्ररूपतया द्वितीयपादे (ना॰ शा॰ 10-45) वर्तितः अन्योन्यजङ्घासंवेधादिति । ततो ऽपि भ्रमरिकया त्रिकं परिवर्तितमाहुः ॥ (132)
(72) पार्श्वजानु ।
ऊरुपृष्ठजनि(स्थितः) तस्यैव समस्थितपादस्योरोः द्वितीयो ऽस्या(पि) हस्तः कट्यामर्धचन्द्र इति पार्श्वजानु । पार्श्व ऊरुपृष्ठः तस्य पादस्य संबन्धि (1)जानु यत्रेति । युद्धनियुद्धविषयमेतत् ॥ (133)
(74) गृध्रावलीनकम् ।
पार्श्वात्प्रसारिपादे ऽङ्गुष्ठभूमिसंश्लेषादञ्चितजानुकः । लताहस्तौ च पार्श्वगौ । तत्पक्षिनिरूपणादौ गृध्रावलीनकम् ॥ (134)

[(मू)]

1. प॰ म॰ परिवृत्तं त्रिकञ्चैव ।

2. ठ॰ म॰ समुत्थितः ।

3. ठ॰ म॰ ऊरुपार्श्वस्थ्तितो ऽपरः ।

4. ड॰ पक्षस्थः ।

5. ठ॰ जानुकम् ।

[(व्या)]

1. म॰ न्धि द्विजानु ।

[page 126]




[NZ]

यत्र प्रसारितौ बाहू तत्स्यात् गृध्रावलीनकम् । BhNZ_04_135ab
उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ BhNZ_04_135cd
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । BhNZ_04_136ab
कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ BhNZ_04_136cd
प्रयोगवशगौ हस्तौ 2सा सूची परिकीर्तिता । BhNZ_04_137ab
3अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ BhNZ_04_137cd
यत्र तत् करणं ज्ञेयमर्धसूचीति नामतः । BhNZ_04_138ab
पादसूच्या यदा पादो द्वितीयस्तु 4प्रविध्यते ॥ BhNZ_04_138cd
[ABh]

(75) सन्नतम् ।
``(1)कुञ्चितं पादमुत्क्षिप्य समुत्प्लुत्य निपातयेत् ।
जङ्घाञ्चितोप(2)रि क्षिप्ता सा ज्ञेया हरिणप्लुता ॥''(ना॰ शा॰ 10-43)
इत्यनया चार्योत्प्लुत्याग्रदेशे पादं स्वस्तिकं कुर्यात् । सन्नतौ च दोलाहस्तौ ।
``अंसौ प्रशिथिलौ हस्तौ पताकौ तु प्रलम्बितौ'' (ना॰ शा॰ 9-148)
एतदधमप्रकीर्तनादुपसर्पणादिविषये ॥(235)
(76) सूची ।
अग्रतः स्थितमिति ॥ (136)
(77) अर्धसूची ।
शिरःक्षेत्रे हस्तः शिरोहस्तः । (3)तच्चार्यमेव करणमेकेनाङ्गेनेत्यर्धसूची(4) ॥ (137)

[(मू)]

1. ठ॰ अञ्चितम् ।

2. न॰ ब॰ म॰ तत्सूची परिकीर्तितम् ।

3. क॰ ब॰ वामः पादः शिरोदेशे । त॰ अलपद्मः शिरोदेशे ।

4. प॰ प्रवेध्यते । ब॰ ठ॰ प्रपीड्यते ।

[(व्या)]

1. अतिक्रान्तसमं कृत्वा ।

2. जङ्घाञ्चिता परि ।

3. तच्चार्या एव पादः । म॰ भ॰ प्रचा ।

4. भ॰ त्यर्थसूचितम् । म॰ त्यर्धसूचितम् ।

[page 127]




[NZ]

1कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तदुच्यते । BhNZ_04_139ab
कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत्2 BhNZ_04_139cd
प्रयोगवशगौ 3हस्तावपक्रान्तं तदुच्यते । BhNZ_04_140ab
वृश्चिकं 4चरणं कृत्वा 5रेचितौ च तथा करौ ॥ BhNZ_04_140cd
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । BhNZ_04_141ab
अञ्चितापसृतौ पादौ6 शिरश्च परिवाहितम्7 BhNZ_04_141cd
[ABh]

(75) सूचीविद्धम् ।
प्रविध्यत इति सूचीपादौ । द्वितीय इति पादः पार्ष्णिस्थः क्रियत इत्यर्थः । कटिस्थितः पक्षवञ्चितको ऽर्धचन्द्रो वा द्वितीयः खटकामुख एव वक्षसि । चिन्ताविषये ऽस्य प्रयोगः । यथा -- ``कालीकरमिकस्सकहम्'' इत्यादौ ॥ (138)
(79) अपक्रान्तम् ।
``ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैतदपक्रान्ता ॥''(ना॰ शा॰ 10-31)
इत्यपक्रान्तक्रमं कृत्वोरुवलितबद्धां चारीमन्योन्यजङ्घासंयोगात्कृत्वा तु स्वस्तिकमूरुभ्यां वलनमित्येवंभूतां कुर्यात् ॥ (139)
(80) मयूरललितम् ।
वृश्चिकं पादं विधाय रेचितौ हंसपक्षौ द्रुतभ्रमौ करौ कृत्वा पादं(1) तमेवोरुदेशे निकुञ्च्य भ्रमरिकां चारीं कुर्यादिति मयूरनृत्तानुकारि मयूरललितम् ।
``अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी भवेत् ॥''(ना॰ शा॰ 10-45)॥ (140)

[(मू)]

1. ठ॰ ब॰ कटिदेशस्थितौ विद्धौ ।

2. ब॰ नयेत् ।

3. न॰ हस्तावपक्रान्ते प्रकीर्तितौ ।

4. ठ॰ म॰ करणम् ।

5. ठ॰ म॰ रेचितं च पदद्वयम् । न॰ करद्वयम् ।

6. छ॰ ब॰ अञ्चितोपगतः पादः । च॰ अन्तरापसृतौ पादौ । म॰ अञ्चितो ऽवगतः पादः ।

7. म॰ परिवारितम् ।

[(व्या)]

1. म॰ पादान्तमेव ।

[page 128]




[NZ]

रेचितौ च तथा हस्तौ1 तत्सर्पितमुदाहृतम् । BhNZ_04_142ab
नूपुरं चरणं2 कृत्वा दण्डपादं प्रसारयेत् ॥ BhNZ_04_142cd
क्षिप्राविद्धकरं3 चैव दण्डपादं तदुच्यते । BhNZ_04_143ab
अतिक्रान्तक्रमं4 कृत्वा समुत्प्लुत्य 5निपायतेत् ॥ BhNZ_04_143cd
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । BhNZ_04_144ab
डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ BhNZ_04_144cd
[ABh]

(81) सर्पितम् ।
``पार्ष्णी(र्ष्णिः) यस्य स्थितौ(ता) भूमावूर्ध्वमग्रतलं भवेत् ।
अङ्गुल्यश्चाञ्चिताः सर्वाः स पादो ऽञ्चित उच्यते ॥'' (ना॰ शा॰ 9-275)
अञ्चितपादः सन्नपसृतो द्वितीयपादनिकटात्पलायितको ऽर्थः(तो यः तत्)समकालमेव तत्पार्श्वगं शिरः । तथेति तत्पार्श्वग एव हस्तो रेचितः । पुनरयं द्वितीयकरपादस्य विधिः । तत्पार्श्वगतमेव च शिरः । अत एव च परिवाहितम् । यद्वक्ष्यति --
``पर्यायशः पार्श्वगतं शिरः स्यात्परिवाहितम् ।''(ना॰ शा॰ 8-27)
एतच्च पादकृतमदोपसर्पणविषयमिति मान(नाम)बलाद्गम्यते ॥ (141)
(82) दण्डपादम् ।
``पृष्ठतो ऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निपातयेद्भूमौ चारी नूपुरपादिका ॥''(ना॰ शा॰ 10-35)
इत्येतदनन्तरमेव दण्डपादादिपुरश्चरणं कृत्वा दण्डपादं प्रसारयेत् ।
``क्षिप्रापविद्धकरणं दण्डपादा तु सा स्मृता ।''(ना॰ शा॰ 10-44)
इत्येतत्सहितमेव पादसहितदण्डत्वरितहस्तं न्यसेदिति साटोपपरिक्रमादिविषयमेतत् ॥ (142)
(83) हरिणप्लुतम् ।
ईश्वरस्यैव हरिणप्लुता चारी (ना॰ शा॰ 10-43) भविष्यति । तस्यास्तु करणप्रवेशः प्रागेवोक्त (सन्नतकरणव्याख्यावसरे) ॥ (143)

[(मू)]

1. ठ॰ म॰ करौ यत्र ।

2. म॰ काञ्चनम् । ब॰ वलितम् । न॰ कुञ्चितं करणम् ।

3. न॰ त॰ क्षिप्ताविद्धकरम् । प॰ म॰ क्षिप्तं विद्धं करञ्चैव ।

4. ठ॰ अतिक्रान्तक्षमम् ।

5. न॰ म॰ निवर्तयेत् ।

[(व्या)]

[page 129]




[NZ]

परिवृत्तत्रिकं1 चैव तत्प्रेङ्खोलितमुच्यते2 BhNZ_04_145ab
भुजावूर्ध्व3विनिष्क्रान्तौ 4हस्तौ चाभि(धो)मुखाङ्गुली ॥ BhNZ_04_145cd
बद्धा चारी5 तथा चैव 6नितम्बे करणे भवेत् । BhNZ_04_146ab
दोलापादक्रमं7 कृत्वा हस्तौ तदनुगावुभौ ॥ BhNZ_04_146cd
रेचितौ घूर्णितौ वापि5 स्खलितं करणं 9भवेत् । BhNZ_04_147ab
एको10 वक्षःस्थितो हस्तः 11प्रोद्वेष्टिततलो ऽपरः ॥ BhNZ_04_147cd
[ABh]

(84) प्रेङ्खोलितकम् ।
कुञ्चितं पादं पार्श्वात्पार्श्वं दोला(ना॰ शा॰ 10-36) । तमेवं कृत्वा द्वितीयेनोत्प्लुत्य भ्रमरिकां(ना॰ शा॰ 10-45) कुर्यात् ॥ (144)
(85) नितम्बम् ।
अभिमुखाङ्गुली । अथोर्ध्वाङ्गुलौ पताकौ व्यावर्तितकरणेन शिरोदेशं नीत्वा ततः परिवर्तितकरणेनोर्ध्वक्षेत्रेण निष्क्रान्तौ कृत्वा यथासमं(1) देशे ऽन्योन्यं वीक्ष्यमाणौ पताकौ स्थापयेत् । ततो देहाभिमुखाङ्गुलिहस्तौ तदनुगावुभौ रेचिताघूर्णितौ चापि नितम्बनृत्तहस्तलक्षणौ कुर्यात् । एतत्त्रिभिर्मुखा(एतदभिमुखा)ङ्गुलित्वं निपातत्रयेण द्योतितम् । ``बाहुशीर्षाद्विनिष्क्रान्तौ''(ना॰ शा॰ 9-196) निमेषा(वेशा)त्तद्योगात्करणान्वितम् ॥ (145)
(86) स्खलितम् ।
दोलापादगमनागमनसमकालं हंसपक्षोपलक्षितौ बाहू गमनागमनयुक्तं पुनरपरेणाङ्गेनेति ॥ (146)

[(मू)]

1. ठ॰ परिवर्तत्रिकम् ।

2. च॰ चैतत्प्रेङ्खोलितकमुच्यते ।

3. छ॰ म॰ ब॰ भुजादूर्ध्वं ।

4. ठ॰ म॰ हस्तावभि ।

5. ठ॰ बद्धचारी ।

6. ठ॰ नितम्बकरणे ।

7. त॰ पादःक्रमःकार्यो । ठ॰ दोलापादं क्रमम् ।

8. च॰ त॰ रेचिताघूर्णितौ चापि ।

9. ठ॰ म॰ त॰ ब॰ न्यसेत् ।

10. त॰ ब॰ वामो ।

11. ठ॰ प्रवेष्टित ।

[(व्या)]

1. यथासममंसदे ।

[page 130]




[NZ]

अञ्चितश्चरणश्चैव1 प्रयोज्यः 2करिहस्तके । BhNZ_04_148ab
एकस्तु रेचितो हस्तो 3लताख्यस्तु तथा परः ॥ BhNZ_04_148cd
4प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । BhNZ_04_149ab
अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ BhNZ_04_149cd
हस्तौ पादानुगौ 5चापि सिंहविक्रीडिते स्मृतौ । BhNZ_04_150ab
पृष्ठप्रसर्पितः6 पादस्तथा हस्तौ निकुञ्चितौ7 BhNZ_04_150cd
[ABh]

(87) करहस्तिकम् ।
प्रोद्वेष्टनक्रियया परः कर्णस्थः त्रिपताकस्तद्दिक्क एव च पादस्तत्प्रोद्वेष्टनसमकालमञ्चितः सम्प्रयोज्य निष्क्रमणीयः । करिहस्तेन नृत्तहस्तेन सदृशमेतदंश इत्येतत्तन्नामा ।
((1)समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः ।
त्रिपताको ऽपरः कर्णे करिहस्तः) (ना॰ शा॰ 9-199) ॥ (147)
(88) प्रसर्पितकम् ।
हंसपक्षो द्रुतभ्रम इति रेचितः । अपरो लताख्यो (ना॰ शा॰ 9-198) नृत्तहस्तः । रेचितकरस्य दिक्पादः पादान्तरान्मन्दं मन्दं भूमिघर्षणाच्चलेत् । एतस्य खेचरसंचारविषये प्रयोगः ॥ (148)
(89) सिंहविक्रीडितम् ।
अलातां चारीमग्रगतां द्रुतं निक्षिप्य तदनुसारेणैव च हस्तं(ना॰ शा॰ 10-41) द्वितीयमपि चक्रमेवंभूतं कुर्यादिति सिंहकरघातसाम्यात्सिंहविक्रीडितं रौद्रगतिविषयम् ॥ (149)

[(मू)]

1. न॰ वृश्चिकश्चरणश्चैव ।

2. ठ॰ म॰ करिहस्तकम् ।

3. ठ॰ म॰ त॰ लताख्यश्च ।

4. ठ॰ म॰ संसर्पित ।

5. च॰ अ॰ वापि ।

6. अ॰ र्पितौ पादौ ।

7. ठ॰ म॰ कुञ्चितावर्तितौ करौ । न॰ कुञ्चितौ च तथा करौ ।

[(व्या)]

1. एतच्चिह्नाङ्कितो भागो म॰ भ॰ पुस्तकयोर्नास्ति ।

[page 131]




[NZ]

पुनस्तथैच कर्तव्यौ सिंहाकर्षितके द्विजाः । BhNZ_04_151ab
आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम्1 BhNZ_04_151cd
2उद्वृत्तगात्रमित्येतदुद्वृत्तं करणं स्मृतम् । BhNZ_04_152ab
आक्षिप्तश्चरणश्चैको3 हस्तौ तस्यैव 4चानुगौ ॥ BhNZ_04_152cd
आनतं च तथा गात्रं तथोपसृतकं भवेत् । BhNZ_04_153ab
दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ BhNZ_04_153cd
[ABh]

(90) सिंहाकर्षितम् ।
वृश्चिक एकः पादः । निकुञ्चितौ स्वस्तिकेन (1)पद्मकोशोर्णनाभौ(ना॰ शा॰ 9-82-120)(दक्षिण)वामहस्तौ । पुनर्द्वितीयेन पादेन यदा वृश्चिकस्तदा तौ क्रियावर्तनावशादपसार्य पुनरपि तादृशावेव हस्ताविति सिंहाद्यभिनयविषयं (2)सिंहाकर्षितकम् ॥ (150)
(91) उद्वृत्तम् ।
आक्षिप्तमासारितानीतं हस्तपादं यत्र । कथं सर्वदेहाक्षेपः । आह -- उद्वृत्ताचारीयुक्तं कृत्वा --
``पादमाविद्धमावेष्ट्य समुत्प्लुत्य निपातयेत् ।
परिवृत्त्य द्वितीयं तु सोद्द्वृत्ता ।'' (ना॰ शा॰ 10-39) इति ।
अत एवोद्वृत्तं कारणम् ॥ (151)
(92) उपसृतकम् ।
((3)कुञ्चितं पादमुत्क्षिप्येत्याक्षिप्तां चारीं (ना॰ शा॰ 10-37) वामतो व्यावृत्त्य करपरिवर्तनेन गात्रमानम्य दक्षिणमरालतां नयेत् । एतद्विनयोपसर्पणे) य्यथा ``महादेवी विण्णवेदि'' इति ॥ (152)

[(मू)]

1. ड॰ पादमाक्षिप्तदेहकम् । ड॰ नियताञ्चितपादकम् ।

2. छ॰ त॰ उद्धृत्य ।

3. म॰ अ॰ अग्रतश्चरणौ कार्यौ ।

4. ठ॰ त॰ ब॰ तस्यैव चानुगः ।

[(व्या)]

1. म॰ भ॰ पद्मकोशोज्ञानगो ।

2. म॰ भ॰ सिंहाक्षिप्तकम् ।

3. म॰ भ॰ अयं ग्रन्थो नास्ति ।

[page 132]




[NZ]

रेचयेच्च करं वामं1 तलसङ्घट्टिते 2सदा । BhNZ_04_154ab
एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः ॥ BhNZ_04_154cd
3तलाग्रसंस्थितः पादो जनिते करणे भवेत् । BhNZ_04_155ab
जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ BhNZ_04_155cd
शनैर्निपतितौ चैव ज्ञेयं तदवहित्थकम् । BhNZ_04_156ab
करौ वक्षःस्थितौ कार्यावुरो निर्भुग्नमेव च ॥ BhNZ_04_156cd
[ABh]

(93) तलसङ्घट्टितम् ।
किञ्चितं पार्श्वात्पार्श्वमिति (ना॰ शा॰ 10-36) दोलापादां चारीं कुर्वंस्तत्समकालं पताकौ सम्यग्घट्टितमन्योन्यतलं ययोस्तादृशौ करौ कृत्वा वैष्णवे स्थानके ``द्वौ तालौ''(ना॰ शा॰ 10-52) इत्यत्र स्थित्वा दक्षिणं हस्तं कट्यां च द्वितीयं हंसपक्षद्रुतभ्रमात्मकं रेचकं कुर्यात् । अनुकम्पाप्रधाने वाक्यार्थे ऽस्य प्रयोगः । ``धाणवगळछिफ ... ... अ॰ घिअचणारि'' इत्यादि ॥ (153)
(94) जनितम् ।
वक्षसि मुष्टिहस्तः । प्रलम्बितो लताख्यः । अन्यासां क्रियाणामारम्भकाल एव तत्सन्निवेशजननयोगाद्यथोचितचारीवशानीतम् । (जनिताचारी ना॰ शा॰ 10-25) ॥ (154)
(95) अवहित्थकम् ।
``मुष्टिहस्तश्च वक्षःस्थः करो ऽन्यश्च प्रवर्तते ।
तलसञ्चरणादश्च जनिता ॥'' (ना॰ शा॰ 10-25) इति ।
चारीपादं कृत्वा । तथाप्यभिमुखाङ्गुली इत्यरा(1)लालपल्लवतया ललाटवक्षःक्षेत्रगौ हस्तौ विधाय शनैरिति यथाक्रममुद्वेष्टितकरणावधरोर्ध्वक्रमेण पार्श्वगौ कृत्वा पुनरपवेष्टितपरिवर्तक्रिययारालाल(2)पल्लवावन्योन्यं सम्मुखं वक्षोदेशे कुर्यात् । गोपनप्रधाने वाक्यार्थे ऽस्य प्रयोगः । इत्यवहित्थक्रमे तद्यथा -- ``एथगअं गइकरिं थविफासहसश्व॰खे इअं बइसं परिहि'' ॥

[(मू)]

1. प॰ त॰ रेचयेच्चरणं वामम् ।

2. प॰ म॰ तथा ।

3. ठ॰ म॰ लताग्र । म॰ भ॰ तदाग्र ।

[(व्या)]

1. म॰ भ॰ त्यलप ।

2. म॰ भ॰ रालपल्ल ।

[page 133]




[NZ]

मण्डल1स्थानकं चैव निवेशं करणं तु तत् । BhNZ_04_157ab
तलसञ्चरपादाभ्यामुत्प्लुत्य 2पतनं भवेत् ॥ BhNZ_04_157cd
संनतं वलितं गात्रमेलकक्रीडितं तु तत् । BhNZ_04_158ab
करमावृत्तकरणमूरुपृष्ठे ऽञ्चितं3 न्यसेत् ॥ BhNZ_04_158cd
जङ्घाञ्चिता 4तथोद्वृत्ता 5ह्यूरूद्वृत्तं तु तद्भवेत् । BhNZ_04_159ab
करौ प्रलम्बितौ कार्यौ शिरश्च परिवाहितम् ॥ BhNZ_04_159cd
[ABh]

अन्ये तु (अवहित्थहस्तेन)
``शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।
शनैरधोमुखाविद्धो ऽसाववहित्थः ॥''(ना॰ शा॰ 9-156)
इत्येतच्चिन्तादौर्बल्यविषयमाहुः ॥ (155)
(96) निवेशम् ।
``स्त(1)ब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् ।
उरो निर्भुग्नम् ।''(ना॰ शा॰ 9-226)
ऐन्द्रे मण्डले पादौ चतुस्तालान्तरस्थितौ । (गजवा)हनादिविषये ऽनेन निवेशयेत् । गात्रस्याविश्रमणान्निवेशाख्यम् ॥ (156)
(97) एलकाक्रीडितम् ।
पतनकाले गात्रस्य नमनं ततो वलनम् । एवं नामैकरूपा चारी(ना॰ शा॰ 10-20) भविष्यति । अधमप्रकृतिगतिविषयमेतत् ॥ (157)
(98) ऊरूद्वृत्तम् ।
``तलसञ्चरपादस्य पार्ष्णिबाह्योन्मुखी यदा ।
जङ्घाञ्चिता तथोद्वृत्ता ऊरूद्वृत्ता ।'' इति (ना॰ शा॰ 10-22)
अनया चार्या सह व्यावर्तितकरणेनारालं खटकं चोरुदेशे पृष्ठे च क्षिपेत् । प्रणयकोपेर्ष्याप्रार्थनादिविषयमेतत्करणम् ॥ (158)

[(मू)]

1. म॰ भ॰ मण्डलं स्थानकम् ।

2. च॰ अ॰ म॰ ब॰ पतनं तु यत् ।

3. ठ॰ म॰ पृष्ठे ऽञ्चिते ।

4. ठ॰ ततो वृत्ता ।

5. न॰ ह्यूरूद्वृत्तं तदुच्यते । म॰ तदूरुवृत्तम् ।

[(व्या)]

1. म॰ भ॰ निम्नमुन्नतपृष्ठम् ।

[page 134]




[NZ]

पादौ च वलिताविद्धौ मदस्खलितके द्विजाः । BhNZ_04_160ab
पुरः प्रसारितः1 पादः कुञ्चितो 2गगनोन्मुखः ॥ BhNZ_04_160cd
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । BhNZ_04_161ab
करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥ BhNZ_04_161cd
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । BhNZ_04_162ab
अपविद्धः करः सूच्या पादश्चैव 3निकुट्टितः ॥ BhNZ_04_162cd
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । BhNZ_04_163ab
पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ 4करौ ॥ BhNZ_04_163cd
[ABh]

(99) मदस्खलितकम् ।
करौ दोलौ । पर्यायशः पार्श्वगतं शिरः । वलिताविद्धौ अवनतावनन्तरं स्वस्तिकापसृतौ(पादौ) पर्यायेणेति । मद्यमदविषयमेतत् ॥ (159)
(100) विष्णुक्रान्तम् ।
विष्णोरित्थं क्रमणमत्र । तत्तद्विषय एवास्य प्रयोगः ॥ (160)
(101) सम्भ्रान्तम् ।
आविद्धायां चार्यां स्त्यामूरुस्तथा ।
``स्वस्तिकस्याग्रतः पादः कुञ्चितञ्च प्रसारितः ।
निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥''(ना॰ शा॰ 10-38)
तच्चारीप्रयोगकाले च व्यावर्तितपरिवर्तितकरणेनालपल्लवमूरुपृष्ठे न्यसेत् । सम्भ्रमपरिक्रमविषयमेतत् ॥ (161)
(102) विष्कम्भम् ।
वामः करो दक्षिणेन हस्तेन सूचीमुखं (ना॰ शा॰ 9-191) नृत्तहस्तात्मनापगमपूर्वकं विद्धः । स एव पादो निकुट्टितः । चकारात् द्वितीयेनैवाङ्गेन । एवकारेणेदमाह पुनः

[(मू)]

1. ठ॰ उरःप्रसारितः । च॰ पुरःप्रसर्पितः ।

2. अ॰ ग्रगतोन्मुखः ।

3. ठ॰ निकुञ्चितः ।

4. ठ॰ परौ ।

[(व्या)]

[page 135]




[NZ]

नतञ्च पार्श्वं1 कर्तव्यं बुधैरुद्धट्टिते सदा । BhNZ_04_164ab
प्रयुज्यालातकं पूर्वं2 हस्तौ चापि हि रेचयेत्3 BhNZ_04_164cd
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा4 BhNZ_04_165ab
रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ BhNZ_04_165cd
[ABh]

सूच्या(ना॰ शा॰ 10-34) चार्योपलक्षितः पादः । परश्च निकुट्टितो ऽलपल्लवो ऽन्यस्तु वामः । एवं पुनःकरणे सति क्रियाविष्कम्भनाद्विस्तारणाद्विष्कम्भाख्यं करणम् ॥ (162)
(103) उद्घट्टितम् ।
``स्थित्वा पादतलाग्रेण पार्ष्णी भूमौ ।'' इति (ना॰ शा॰ 9-166)
पादः । अन्योन्यमनेन तालिकादानोद्यतौ करौ पुनर्द्वितीयपाद उद्घट्टितः पर्यायेण च तथैव पार्श्वयोर्नम(1)नमिति । प्रमोदविषयमेतत् ॥ (163)
(104) वृषभक्रीडितम् ।
अलातचारीं(ना॰ शा॰ 10-41) कुर्वन्हस्तौ रेचितौ कुर्यात् । ततः कुञ्चितौ व्यावर्तितकरणेन कृत्वा ततो बाहुशिरस्यलपल्लवाकृती अञ्चितौ विधेयाविति वृषभमङ्गद्वारद्वयप्र(2)योगात् वृषभक्रीडितम् ॥ (164)
(105) लोलितम् ।
वैष्णवे स्थाने आदौ रेचितं हंसपक्षद्रुतभ्रमरूपं हस्तद्विती(त)यं चाञ्चितं वक्षस्यलपल्लवाकारं कुर्यात् । शिरश्च लोलितम् । सर्वतो लोलितमपि ओभयोः पार्श्वयोर्वर्तितं विश्रमितम् ॥(165)

[(मू)]

1. न॰ नितम्बपार्श्वम् । म॰ ततश्च । म॰ भ॰ दण्डं च पार्श्वम् ।

2. ठ॰ म॰ पादम् ।

3. ठ॰ म॰ द्वावपि रेचितौ ।

4. ठ॰ अ॰ म॰ स्मृतौ ।

[(व्या)]

1. योर्गम ।

2. द्वययोगा ।

[page 136]




[NZ]

उभयोः पार्श्वयोर्यत्र 1तल्लोलितम् उदाहृतम् । BhNZ_04_166ab
2स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् ॥ BhNZ_04_166cd
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । BhNZ_04_167ab
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ BhNZ_04_167cd
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । BhNZ_04_168ab
ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ BhNZ_04_168cd
[ABh]

(106) नागापसर्पितम् ।
परिवाहितं पर्यायशः पार्श्वगतं कुटिलगतियोगान्नागापसर्पितम् । इदं तरुणमदविषयम् ॥ (166)
(107) शकटास्यम् ।
निषण्णं निस्समीकृतमङ्गं येन तेन तज्जानुसमस्थिते पदे (1)पुरो गुल्फदेशे कुञ्चितो न तु जानुरेव पादः स एवाध्यर्धतालान्तरसञ्चरः प्रसार्यः । तत्सहितो ऽपि हस्तो द्वितीयो वक्षसि खटकः । ईदृश्येवेयं चारी(ना॰ शा॰ 10-16) भविष्यति । अनेन सन्निवेशेन शकटस्यासनं क्षेप इति । तथाविधबालक्रीडादिविषये भाणिकादिविषये ऽस्य प्रयोगः ॥ (167)
(108) गङ्गावतरणम् ।
अत्र केचिदूर्ध्वाङ्गुलितल इत्यनेन समपादा(2)ञ्चितावस्थानमुक्तमित्याहुः । एतच्चायुक्तमशब्दार्थत्वात् । तस्मादञ्चितो न पादः । अन्ये त्वाहुः -- अनेन क्रमेणाग्रतलसञ्चारो वृश्चिकहस्त(3)पाद इति । अपरे तु -- चकारेण भिन्नक्रमेण च पादस्य त्रिपताकाहस्तयोश्शिरसश्च सन्नतत्वात्तेन प्रथमं पादोद्धारं स्थित्वा पादमूर्ध्वं विधाय तदुपरि च पताकाहस्तौ तं पादं क्रमेणाग्रतलसञ्चारो वृश्चिकपाद इति । [(4)अपरे तु चकारेण भिन्नक्रमेण च तदास्य त्रिपताकाहस्तयोः शिरसश्च सन्नतत्वात्तेन प्रथमः पादोद्धारः । स्थित्वा पादमूर्ध्वं विधाय तदुपरि

[(मू)]

1. ठ॰ अ॰ ज्ञेयं तल्लोलितं बुधैः ।

2. न॰ ब॰ स्खलितापसृतौ पादौ तथा हस्तौ च रेचितौ । अ. ड॰ म॰ स्खलितासर्पितौ पादौ तथा हस्तौ च रेचितौ । परिवाहितं शिरश्चैव कुर्यान्नागावसर्पिते ।

[(व्या)]

1. म॰ भ॰ परो ।

2. म॰ भ॰ संवादं भूमाववस्था ।

3. म॰ भ॰ कपाद ।

4. म॰ भ॰ एतच्चिह्नान्तर्गतं वाक्यं पुनरुक्तम् ।

[page 137]




[NZ]

हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । BhNZ_04_169ab
1यानि स्थानानि याश्चार्यो व्यायामे 2कथितानि तु ॥ BhNZ_04_169cd
पादप्रचारस्त्वेषां तु करणानामयं भवेत् । BhNZ_04_170ab
ये चापि नृत्त3हस्तास्तु गदिता नृत्त4कर्मणि ॥ BhNZ_04_170cd
तेषां समासतो योगः करणेषु विभाव्यते । BhNZ_04_171ab
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ BhNZ_04_171cd
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । BhNZ_04_172ab
चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ BhNZ_04_172cd
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । BhNZ_04_173ab
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ BhNZ_04_173cd
अतः परं परवक्ष्यामि ह्यङ्गहारविकल्पनम् । BhNZ_04_174ab
प्रसार्योत्क्षिप्य च करौ5 समपादं प्रयोजयेत् ॥ BhNZ_04_174cd
[ABh]

च त्रिपताकहस्तौ तं पादं क्रमेण ] सन्नमयेत् अवरोधयेत् । तदनुसारेण च त्रिपताका(1)हस्तं संनमयेत् । तथैव क्रमेण शिरः । एवमेव त्रिविक्रमपादप्रसरणपूर्वकं गङ्गादेव्या अवतरणमिति नाम्नैवास्य करणस्य विषयो दर्शितः । इतिशब्दः समाप्तौ ॥ (168)
[इत्यष्टोत्तरशतकरणनिरूपणं समाप्तम्]
अङ्गहारलक्षणम् ।
तलपुष्पपुटस्य पूर्वं निर्देशात्सर्वत्र(2) वर्तमानाप्राधानेयेनोपक्रम इति सूचितं (3)परं प्रयोगमाह । उक्तमुपसंहरन् क्रमप्राप्तानङ्गहारान्यथोद्देशं लक्षणीयत्वेन प्रतिजानीते -- अष्टोत्तरशतमित्यादिना । हि यस्मात्करणानामष्टोत्तरशतमुदितं (ततो) हेतोः परं विशिष्टमङ्गहारो (वि)कल्प्यते परस्परतो भेद्यते तदङ्गहारेष्वेव विशेषलक्षणं वक्ष्यामीति सम्बन्धः । जातावेकवचनम् ॥ (173)

[(मू)]

1. त॰ इतः श्लोकचतुष्टयं नास्ति । ब॰ पश्चाद्योजितम् । व्याख्यापि नास्ति ।

2. अ॰ गदितानि ।

3. ब॰ नृत्य ।

4. ब॰ अ॰ नृत्य ।

5. ब॰ चरणौ ।

[(व्या)]

1. म॰ भ॰ काभसमं नयेत् ।

2. भ॰ त्रनेप्रा ।

3. म॰ भ॰ तरम् ।

[page 138]




[NZ]

व्यंसितापसृतं 1सव्यं हस्तमूर्ध्वं प्रसारयेत् । BhNZ_04_175ab
प्रत्यालीढं ततः कुर्यात्2 तथैव च निकुट्टकम् ॥ BhNZ_04_175cd
ऊरू3द्वृत्तं ततः 4कुर्यादाक्षिप्तं स्वस्तिकं ततः । BhNZ_04_176ab
नितम्बं करि5हस्तं च कटिच्छन्नं 6च योगतः ॥ BhNZ_04_176cd
[ABh]

(1) स्थिरहस्तः ।
तत्रोद्देशक्रमेण स्थिरहस्तं लक्षयति -- प्रसार्योत्यादिना हरप्रिय इत्यन्तेन । तत्र प्रसार्येत्क्षिप्य च कराविति त्रिपता(1)काञ्जलि वक्षःस्थमिति लक्षितस्य लीनाख्यस्य करणस्य(ना॰ शा॰ 4-66) प्रथमेतिकर्तव्यतानिरूपणेनोपलक्षितम् । एतच्च तल्लक्षण एवोक्तमस्माभिः पताकशब्दस्य प्रयोजनं वदद्भिः । इदमिदं करणं योगतो ऽन्यादौ ह्यनया जिघृक्षतीत्यक्षिकरणगतहस्तपादाद्यौचित्ययुक्तवर्तनाचारीयोजनया यदि भवति तत एव चाविच्छिन्ना शुभा च । प्रबन्धादलातचक्रवदेकबुद्ध्यनुसंहार्यं तदलम् । स्थिरहस्तो नामाङ्गहार इति सम्बन्धः । एवं सर्वत्र योगत इति सर्वाङ्गहारेषु सम्बध्यते ।
अन्ये तु योगात्समाधेरप्ययं भगवतः प्रीतय इति व्याचक्षते ।
समपादमिति समनखं करणम् । ``पदं (पादौ) श्लिष्टौ समनखौ'' इति (ना॰ शा॰ 4-65) ।
व्यंसिते --
``आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधोविप्रकीर्णौ च व्यंसितं करणं तु तत् ॥''(ना॰ शा॰ 4-108)
इति लक्षिते करणे ऽपसृतौ विप्रकीर्णौ यौ हस्तौ ततु द्वावप्यूर्ध्वस्थानस्थितौ कृत्वा आलीढस्य परिवर्तनेन(ना॰ शा॰ 10-70) प्रत्यालीढं स्थानकं कुर्यात् । ततो निकुट्टिते ``निकुट्टितौ यदा हस्तौ''(ना॰ शा॰ 4-69) इति नवमं करणम् । ततो ऽपि ``करमावृत्तकरणमूरुपृष्ठ''(ना॰ शा॰ 4-159) इत्यष्टनवतितमम् । ततः स्वस्तिकं हस्ताभ्यामथ पादाभ्यामिति (न॰ शा॰ 4-75) पञ्चदशम् । तत ``आक्षिप्तं हस्तपादं चेति'' (ना॰ शा॰ 4-115) पञ्चपञ्चाशत् ।

[(मू)]

1. ठ॰ अ॰ सव्यमूर्ध्वं हस्तम् । ब॰ सव्यं पूर्वहस्तम् ।

2. अ॰ ब॰ म॰ कृत्वा ।

3. म॰ त॰ ऊरुवृत्तम् ।

4. ठ॰ ब॰ त॰ कुर्यात्स्वस्तिकाक्षिप्तमेव च ।

5. ब॰ कटि ।

6. ठ॰ अ॰ म॰ तथैव च ।

[(व्या)]

1. म॰ कादण्डविलक्षमिति ।

[page 139]




[NZ]

स्थिरहस्तो 1भवेदेष त्वङ्गहारो 2हरप्रियः । BhNZ_04_177ab
तलपुष्पापविद्धे3 द्वे वर्तितं 4सनिकुट्टकम् ॥ BhNZ_04_177cd
ऊरूद्वृत्तं 5तथाक्षिप्तमुरोमण्डलमेव च । BhNZ_04_178ab
6नितम्बं करिहस्तं च कटीच्छिन्नं तथैव च ॥ BhNZ_04_178cd
[ABh]

``भुजावूर्ध्वं विनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली''(ना॰ शा॰ 4-146)
इति नितम्बगतिः । ततः करिहस्तम् --
``वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोपरि''(ना॰ शा॰ 4-148)
इति सप्ताशीतितमम् । ततः ``पर्यायशः कटिश्छिन्ना बाहू शिरसि''(ना॰ शा॰ 4-72)
इत्येकादशम् ।
इत्येवं करणाग्रामसम्यग्योजनया कृतं स्थिरहस्तमङ्गहारं निर्वर्तयति । अतः(त्र) सर्वेष्वङ्गहारेष्वित्यर्थः(हारेषु) करणावयववर्गं सर्वं करणजातं चतुर्दिङ्मुखेषु प्रयोज्यमिति नाट्याचार्या मन्यन्ते । अनागतातीतवे(दी मुनिस्तद)युक्तं मन्यमान एकान्नविंशतितमे हि परिवृत्तकरेचिते ऽङ्गहारे(ना॰ शा॰ 4-219) वक्ष्यति `पराङ्गमुखविधिर्भूय एवमेव भवेत्' इत्यङ्गहारविधावित्यर्थायोगात् । तदाङ्गिकेष्वेव वक्ष्यामः । उद्वेष्टितकरणस्वरूपं निरूपयतः प्रयोगश्चैषामदृष्टार्थ एव । प्रयोगे च तत्तद्वा(1)क्यार्थादूनं विप्रकर्षानुसारेण । एतच्च पूर्वरङ्गे (अ-5) यथोपदेशं वक्ष्यामः `युद्धे नियुद्धे च' इत्यादौ(ना॰ शा॰ 4-56) । विषयेणैतेषां (विशेषेणैतेषाम्) कदाचित्प्रयोगः । एवं स्थिरहस्त एव नानिर्व(र्तनं) लक्ष्यत इति न वृथा तन्निर्देशेनायासः ॥ (176)
(2) पर्यस्तकः ।
तलपुष्पपुटेर्यादि । केचित्प्रसार्येत्यादिना प्रत्यालीढं ततः कुर्यादित्यन्तं सर्वेष्वङ्गहारेषु प्रथममितिकर्तव्यतां योजयन्ति प्रथमाङ्गस)तिकरणयोगः कथमित्यभिप्रायेण । अन्ये तु प्रत्यङ्गहारसमुचिताः साधारणाः स्वयमूह्या इत्याहुः । श्रुतहानौ को गुण इत्यपरे ।
तत्र ``वामे पुष्पपुट''(ना॰ शा॰ 4-61) इति प्रथमम् । ``आवर्त्य शुकतुण्डाख्यमूरुपृष्टे'' ``वामहस्तश्च वक्षःस्थ''(ना॰ शा॰ 4-64) इत्यपविद्धम् । ``कुञ्चितौ मणिबन्धे तु '' इति (ना॰ शा॰ 4-62) वर्तितम् । ``'निकुट्टिताविति' (ना॰ शा॰ 4-69)

[(मू)]

1. च॰ त॰ ब॰ भवेदेवमङ्गहारो ।

2. प॰ अ॰ भवप्रियः ।

3. ठ॰ म॰ ब॰ अ॰ विद्धे च ।

4. च॰ त॰ सन्निकुट्टकम् । ठ॰ संप्रसारयेत् ।

5. ड॰ म॰ ऊरुवृत्तं ततः कुर्यादुरोमण्डलमेव च । ठ॰ ततः कुर्यादाक्षिप्तस्वस्तिकं तथा ।

6. न॰ म॰ नितम्बः करिहस्तश्च ।

[(व्या)]

1. म॰ भ॰ द्व्याख्यार्था ।

[page 140]




[NZ]

एष पर्यस्तको नाम 1ह्यङ्गहारो हरोद्भवः2 BhNZ_04_179ab
3अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥ BhNZ_04_179cd
आवर्तितं ततः कुर्यात्तथैव च निकुट्टकम् । BhNZ_04_180ab
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च4 BhNZ_04_180cd
करिहस्तं 5कटिच्छिन्नं सूचीविद्धो भवेदयम् । BhNZ_04_181ab
अपविद्धं तु करणं सूचीविद्धं 6तथैव च ॥ BhNZ_04_181cd
[ABh]

निकुट्टकम् । ``करमावृत्तकरणम्'' इति(ना॰ शा॰ 4-159)ऊरूद्वृत्तम् ।((1)तत ``आक्षिप्तं हस्तपादम्''(ना॰ शा॰ 4-116)) इत्याक्षिप्तम् । ``स्वस्तिकापसृता''विति (ना॰ शा॰ 4-115) उरोमण्डलम् । ततो ``भुजावूर्ध्वविनिष्क्रान्ता''विति (ना॰ शा॰ 4-146)नितम्बकरणम् । अनन्तरं ``वामो वक्षःस्थित'' इति (ना॰ शा॰ 4-148)करिहस्तम् । ततः ``पर्यायश'' इति (ना॰ शा॰ 4-72) कटिच्छिन्नम् । एतेन करणदशकेन पर्यस्तकः ॥) (178)
(3) सूचीविद्धः ।
अर्ध(ल)पल्लवसूचीं चेति । ``अलपद्मः शिरोदेशे (हस्तः) सूचीपादश्च'' इति (ना॰ शा॰ 4-138) अलपल्लवोपलक्षितमर्धसूच्याख्यं सप्तसप्ततितमं करणम् --
``विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतो ऽपि वा ।
एकमार्गम्'' इति (ना॰ शा॰ 4-119) विक्षिप्तम् ।
एकान्नषष्टितमं यदावर्ताख्यं करणं --
``प्रसार्य कुञ्चितं पादं पुरस्त्वा(नरा)वर्तयेद्द्रुतम् ।
प्रयोगवशगौ'' इति (ना॰ शा॰ 4-120)
तदेवावर्तितशब्देनोक्तम् । ततो निकुट्टकादीनि षट् करणान्युक्ताङ्गहारवदेव (स्थिरहस्त इव) ॥ (180)
(4) अपविद्धः ।
अपविद्धन्त्वित्यादि ।
``आवर्त्य(2) शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ।
वामहस्तश्च वक्षःस्थो ऽप्यपविद्धम् ॥''(ना॰ शा॰ 4-64)

[(मू)]

1. ठ॰ म॰ त्वङ्ग ।

2. द॰ भवोद्भवः ।

3. त॰ अलपद्मं च सूचीश्च ।

4. ठ॰ म॰ अ॰ मण्डलकं तथा ।

5. न॰ कटिच्छन्नम् ।

6. द॰ म॰ अ॰ त॰ पुनर्भवेत् ।

[(व्या)]

1. म॰ एतच्चिह्नान्तर्गतो भागो नास्ति ।

2. म॰ आपत्य ।

[page 141]




[NZ]

उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । BhNZ_04_182ab
उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ BhNZ_04_182cd
अपविद्धो ऽङ्गहारश्च विज्ञेयो ऽयं प्रयोक्तृभिः1 BhNZ_04_183ab
करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ BhNZ_04_183cd
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । BhNZ_04_184ab
2नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhNZ_04_184cd
[ABh]

``पादसूच्या यदा पादो द्वितीयश्च प्रविध्यते ।
कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तत् ॥''(ना॰ शा॰ 4-139)
एवं करणद्वयं कृत्वोद्वेष्टितेन करणेन (ना॰ शा॰ 9-216) बद्धया चार्या त्रिकं वलितं कृत्वोरोमण्डलहस्तोपलक्षितमुरोमण्डलकरणं ततो ऽपि कटिच्छिन्नं विदध्यात् ।
``स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ।
उरोमण्डलकौ हस्तावुरोमण्डलकं तु तत् ॥''(ना॰ शा॰ 4-115)
प्रयोक्तृभिरिति ये प्रयोगकुशलास्तैः । स्वयमङ्गस्य गतिः सम्यग्विद्वद्भिर्ज्ञातुं न शक्य इत्यनेनेदमाह । एतेषु करणेषु यदा मध्यवर्तनशिरोभ्रूनेत्रादिकर्मसहितापि या योजना च सा अंशश्च स्वरूपतत्त्वविदा स्वयमङ्गीकर्तुं शक्यः । अन्यस्य तूक्तापि प्रयोक्तुमशक्या नचापि निरूपयितुं शक्या । गीतवाद्यलययन्ति(ति)वाक्यार्थभेदेन च तस्या एव योजना । योजने चानन्त्यम् । नहि सुशिक्षितो ऽपि लक्षणकारो वाक्यानां प्रतिपदं लक्षणं कर्तुं शक्नोति । अस्य पश्चादिदं प्रयोज्यमिति दयापि(ज्ञापि)तेन किञ्चिदात्मनो योजना च संहिता कार्या । नियमनमग्रे वक्ष्याम इत्युक्तम् । तेन मण्डलादिस्थाननिरूपणमिह कैश्चित्कृतं निरुपयोगमेवेत्यास्ताम् ॥ (182)
(5) आक्षिप्तकम् ।
करणं नूपुरमित्यादि ।
``त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ''(ना॰ शा॰ 4-97) (नू)पुरं च तथा पादकरणे नूपुरे ``विक्षिप्तं हस्तपादं च'' इति (ना॰ शा॰ 4-119) विवक्षितम् ।

[(मू)]

1. ड॰ हारस्तु विज्ञेयस्तत्प्रयोक्तृभिः । द॰ अ॰ अपविद्धस्तु विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।

2. द॰ म॰ नितम्बकरिहस्तश्च कटिच्छेदम् ।

[(व्या)]

[page 142]




[NZ]

आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । BhNZ_04_185ab
उद्वेष्टितापविद्धस्तु करः पादो 1निकुट्टितः ॥ BhNZ_04_185cd
पुनस्तेनैव योगेन वामपार्श्वे भवेदथ । BhNZ_04_186ab
उरोमण्डलकौ हस्तौ 2नितम्बं करिहस्तकम् ॥ BhNZ_04_186cd
3कर्तव्यं सकटिच्छिन्नं नृत्ते तूद्घट्टिते4 सदा5 BhNZ_04_187ab
पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ BhNZ_04_187cd
[ABh]

``अलातं चरणं कृत्वाप्यंसयोर्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् ॥''(ना॰ शा॰ 4-78)
यत्र यत्र पुनर्ग्रहणं तत्र तत्र केचित् द्वियोगमाहुः । द्वितीयाङ्गहारोक्तमाक्षिप्तादिकरणपञ्चकम् ॥ (184)
(6) उद्घट्टितः ।
उद्वेष्टितापविद्धस्त्विति ।
अनेन प्रथमश्लेकेन पर्यायशो ऽङ्गद्वयप्रयोगं निकुट्टकं करणमाह -- ``निकुट्टितौ यदा हस्तौ''(ना॰ शा॰ 4-69) इति । उरोमण्डलकादिकरणचतुष्कं द्वितीयाङ्गहारवदेव । (186)
(7) विष्कम्भः ।
पर्यायोद्वेष्टिताविति । अनेनार्धेनानन्तराङ्गहारवदेव प्रथममण्डलद्वयेन निकुट्टितं करणमित्याह । कुञ्चिताविति । हस्तौ पादौ चेति सम्बन्धः । तेन कुञ्चितस्य करणस्याञ्चितस्य चाङ्गद्वयपर्यायेण प्रयोज्यत्वमुक्तम् ।
``वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ।
नासाग्रे दक्षिनं चैव निकुञ्चितम् ॥''(ना॰ शा॰ 4-87)
``स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिनम् ।
वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् ॥''(ना॰ शा॰ 4-83)
इत्यनन्तरं
``व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ।
अञ्चितो नासिकाग्रे तु तदञ्चितम् ॥''(ना॰ शा॰ 4-83)
चतुरश्रमिति अनेनार्धेनार्धनिकुट्टकं दशमं करणमाह --

[(मू)]

1. ठ॰ ब॰ निकुञ्चितः ।

2. न॰ म॰ नितम्बः करिहस्तकः ।

3. ड॰ कर्तव्यः सकटिच्छेदो ।

4. द॰ नृत्ये तत्कुटिते ।

5. च॰ अ॰ बुधैः ।

[(व्या)]

[page 143]




[NZ]

कुञ्चितावञ्चितौ चैव ह्यूरूद्वृत्तं1 तथैव च । BhNZ_04_188ab
चतुरश्रं करं कृत्वा पादेन च 2निकुट्टकम् ॥ BhNZ_04_188cd
भुजङ्गत्रासितं चैव करं चोद्वेष्टितं पुनः । BhNZ_04_189ab
परिच्छिन्नं3 च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ BhNZ_04_189cd
4करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । BhNZ_04_190ab
दण्डपादं करं चैव5 चिक्षिप्याक्षिप्य चैव हि ॥ BhNZ_04_190cd
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । BhNZ_04_191ab
निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ BhNZ_04_191cd
6करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । BhNZ_04_192ab
कुट्टितं7 करणं कृत्वा भुजङ्गत्रासितं तथा ॥ BhNZ_04_192cd
[ABh]

``अञ्चितो बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ।
निकुञ्चितार्धयोगेन ''(ना॰ शा॰ 4-70) इति ।
द्वितीयो हि तत्र प्राङ्मुखं खटकरूपं चतुरश्रो हस्तः ।
``किञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।
कटिजानुविवर्तश्च भुजङ्गत्रासितं भवेत् ॥'' (ना॰ शा॰ 4-84)
भुजङ्गत्रासितं चतुर्विधम् । अत्रैवकारेण हस्तप्रयोगमनुक्तं निरूपयति -- करं चोद्वेष्टितमिति । तत्समकालं च भ्रमरकेणाष्टत्रिंशेन (ना॰ शा॰ 4-99) करणेन परित इत्युभयाङ्गप्रयोगेण च्छिन्नत्रिकं कुर्यात् । कटिमध्यस्य वलनाच्छिन्ना । यतः --
``आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ।
त्रिकस्य वलनाच्च ।''
इति भ्रमरकम् । ततः करिहस्तः कटिच्छिन्नश्च पूर्वाङ्गहारवदेव ॥ (189)
(8) अपराजितः ।
दण्डपादमित्यादि ।
``नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ।
क्षिप्राविद्धकरं चेति दण्डपादम् ॥''(ना॰ शा॰ 4-143)

[(मू)]

1. त॰ रुवृत्तम् ।

2. न॰ निकुट्टितम् ।

3. अ॰ परिक्षिप्तम् ।

4. ठ॰ करिहस्तः कटिच्छेदो ।

5. न॰ करं कृत्वा । अ॰ दण्डपादञ्च ।

6. न॰ करिहस्तः कटिच्छेदः ।

7. ढ॰ ब॰ कुञ्चितं च करम् ।

[(व्या)]

[page 144]




[NZ]

रेचितेन तु 1हस्तेन पताकं हस्तमादिशेत् । BhNZ_04_193ab
आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ BhNZ_04_193cd
लताख्यं 2सकटिच्छिन्नं विष्कम्भापसृते भवेत् । BhNZ_04_194ab
त्रिकं 3सुवलितं कृत्वा नूपुरं 4करणं तथा ॥ BhNZ_04_194cd
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । BhNZ_04_195ab
5आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ BhNZ_04_195cd
6बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । BhNZ_04_196ab
नितम्बं करिहस्तं च कटिच्छिन्नं7 तथैव च ॥ BhNZ_04_196cd
[ABh]

यदत्र करणे निरूपितं तदेवेह भङ्क्त्वा दर्शितं विक्षिप्येत्यादिना । ``आलीढस्थानकं यत्र''(ना॰ शा॰ 4-109) इति व्यंसितं प्रथमाङ्गहारोक्तम् । वामहस्तेत्यादिना प्रसर्पितमष्टाशीतितमकरणमाह ।
``एकस्तु रेचितो हस्तः लताख्यश्च तथापरः ।
प्रसर्पितकम् ॥'' इति (ना॰ शा॰ 4-149)
निकुट्टकद्वयमिति । निकुट्टमर्धनिकुट्टं च(ना॰ शा॰ 4-69-70) ``निकुट्टितौ यदा हस्तौ'' इति । ``अञ्चितो बाहुशिरसि हस्तस्तु'' इति । मण्डलोरसीत्युरोमण्डले करणे (ना॰ शा॰ 4-115) सतीत्यर्थः । आक्षिप्तादीनि कटिच्छिन्नान्तानि चत्वारि द्वितीयाङ्गहारवदेव ।
(9) विष्कम्भापसृतः ।
कुट्टितमित्यादि । निकुट्टकमर्धनिकुट्टकं चेति द्वे कुट्टितशब्देन साधारण्यात्सङ्गृहीते । ``कुञ्चितं पादम्''(ना॰ शा॰ 4-84) इत्यादि भुजङ्गत्रासितं चतुर्विंशतितमम् । रेचितेभ्यस्त्वि(तेने)त्यादिनार्धेन पञ्चत्रिंशकं (ना॰ शा॰ 4-96) दर्शयतीति ।
``भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ।
वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् ॥'' (ना॰ शा॰ 4-96)
अस्य चाङ्गपर्यायेण प्रयोग इति पताकाग्रहणेनाह । आक्षिप्तकादित्रयं पूर्वाङ्गहारवदेव । केवलमत्र कटिच्छिन्ने करणे(ना॰ शा॰ 4-71) पर्यायेणैको लताहस्तः ।

[(मू)]

1. त॰ पादेन ।

2. म॰ सकटिच्छेदम् ।

3. म॰ अ॰ त्रिकन्तु वलि ।

4. ठ॰ अ॰ त॰ चरणम् । ठ॰ अ॰ करणं चैव नूपुरम् । न॰ म॰ चरणं चैव नूपुरम् ।

5. अ॰ इदमर्धं नास्ति ।

6. ब॰ वात्यभ्रम ।

7. ब॰ म॰ च्छेदम् ।

[(व्या)]

[page 145]




[NZ]

मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । BhNZ_04_197ab
रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ BhNZ_04_197cd
पुनस्तेनैव योगेन 1वृश्चिकं सम्प्रयोजयेत् । BhNZ_04_198ab
निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात्2 BhNZ_04_198cd
लताख्यः 3सकटिच्छेदो भवेत्स्वस्तिकरेचिते । BhNZ_04_199ab
4पार्श्वे तु स्वस्तिकं बद्ध्वा 5कार्यं त्वथ निकुट्टकम् ॥ BhNZ_04_199cd
[ABh]

(10) मत्ताक्रीडः ।
[(1)त्रिकम् सुवलितं कृत्वेति । भ्रमरकं करणं ``'आक्षिप्तः स्वस्तिकः पाद इत्यादि(ना॰ शा॰ 4-99)' । ततो नूपुराख्यं करणं ``त्रिकं सुवलितम्'' इति (ना॰ शा॰ 4-97), ``कुञ्चितं पादम्'' इति (ना॰ शा॰ 4-84) भुजङ्गत्रासितम् । सव्यमिति दक्षिणाङ्गेनैव वैशाखरेचितम्(ना॰ शा॰ 4-98) । ``आक्षिप्तं हस्तपादम्'' इति (ना॰ शा॰ 4-116) आक्षिप्तकरणम् । परिच्छिन्नमिति --
``अलपद्मः कटीदेशे च्छिन्ना पर्यायशः कटी'' ।
इति च्छिन्नं करणम्(ना॰ शा॰ 4-106) । बाह्यभ्रमरकमिति वामभ्रमरकम् । ततो व्यंसितम् ``आक्षिप्तः स्वस्तिकः पादः'' इति (ना॰ शा॰ 4-99) भ्रमरकम् । व्यंसितं ``आलीढं स्थानकं यत्रेति'' (ना॰ शा॰ 4-109) । उरोमण्डलम् -- ``स्वस्तिकापसृतौ पादौ'' इति (ना॰ शा॰ 4-115) । नितम्बं -- ``भुजावूर्ध्वौ विनिष्क्रान्तौ'' इति (ना॰ शा॰ 4-146) । करिहस्तं ``वामो वक्षःस्थितो हस्त'' इति (ना॰ शा॰ 4-148) । कटिच्छिन्नम् ``पर्यायशः कटी च्छिन्ना'' इति (ना॰ शा॰ 4-71) । एतानि द्वादश करणानि ।
(11) स्वस्तिकरेचितः ।
रेचितमिति । रेचितं हस्तपादं चेति वैशाखरेचितम् (ना॰ शा॰ 4-98) । वृश्चिकं ``बाहुशीर्षाञ्चितौ'' इति (ना॰ शा॰ 4-108) पुनरिति वैशाखरेचितवृश्चिके प्रयोजयेत् । निकुट्टकं ``निकुट्टितौ यदा हस्तौ''(ना॰ शा॰ 4-69) वामदक्षिणकृतौ लताख्यौ

[(मू)]

1. न॰ अ॰ म॰ कृत्वा वृश्चिकमेव तु ।

2. ठ॰ अ॰ म॰ कृतैः क्रमैः ।

3. अ॰ लताख्यं सकटिच्छिन्नम् ।

4. ड॰ अ॰ पार्श्वे तु स्वस्तिकं कृत्वा । त॰ पार्श्वस्वस्तिकमादौ तु ।

5. न॰ कुर्यादर्ध । प॰ कार्यस्त्वर्थ ।

[(व्या)]

1. इतः परिवृत्तकरेचिता(19)ङ्गहारपर्यन्तव्याख्याभागो लुप्तः । सम्पादकस्य कृतिरियम् ।

[page 146]




[NZ]

द्वितीयस्य च पार्श्वस्य विधिः स्यादयमेव हि । BhNZ_04_200ab
ततश्च करमावर्त्य1 ह्यूरुपृष्ठे निपातयेत् ॥ BhNZ_04_200cd
ऊरूद्वृ2त्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । BhNZ_04_201ab
3नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhNZ_04_201cd
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । BhNZ_04_202ab
वृश्चिकं 4करणं कृत्वा लताख्यं हस्तमेव च ॥ BhNZ_04_202cd
5तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । BhNZ_04_203ab
तमेवोद्वेष्टितं कृत्वा 6नितम्बं परिवर्तयेत् ॥ BhNZ_04_203cd
करिहस्तं कटिच्छिन्नं 7वृश्चिकापसृते भवेत् । BhNZ_04_204ab
कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ BhNZ_04_204cd
[ABh]

नृत्तहस्तौ (ना॰ शा॰ 9-198) । ततः कटिच्छिन्नं ``पर्यायशः कटी च्छिन्ना'' इति (ना॰ शा॰ 4-71) षट् करणानि ।
(12) पार्श्वस्वस्तिकः ।
पार्श्वयोः स्वस्तिक इति दिक्स्वस्तिकं करणम् । ``पार्श्वयोरग्रतश्चैव'' इति (ना॰ शा॰ 4-77) । एकाङ्गेनार्धनिकुट्टकम् -- ``अञ्चितौ बाहुशिरसि'' इति (ना॰ शा॰ 4-70) । पुनर्दिक्स्वस्तिकं कृत्वा द्वितीयपार्श्वेनार्धनिकुट्टकं योजयेत् । ``करमावर्त्य'' इत्यपविद्धम् । ``आवर्त्य शुकतुण्डाख्यम्'' (ना॰ शा॰ 4-64) । ऊरूद्वृत्तम् -- ``करमाविद्धकरणम्'' इति (ना॰ शा॰ 4-159) । ``आक्षिप्तं हस्तपादम्'' इति (ना॰ शा॰ 4-116) आक्षिप्तम् । नितम्बादिकरणत्रयं पूर्ववत् ॥
(13) वृश्चिकापसृतः ।
वृश्चिकमिति । वृश्चिकचरणलताहस्तत्वात् लतावृश्चिकम् -- ``अञ्चितः पृष्ठतः पादः'' इति (ना॰ शा॰ 4-105) । नासाग्र इति निकुञ्चितम् `वृश्चिकं चरणं कृत्वा' इति (ना॰ शा॰ 4-87) । तमेवोद्वेष्टितमिति मत्तल्लि ``वामदक्षिणपादाभ्याम्'' इति (ना॰ शा॰ 4-88) । नितम्बादित्रयं पूर्ववत् । केचिन्नितम्बस्य भ्रमरमाहुः ।

[(मू)]

1. न॰ म॰ करमावृत्य ।

2. त॰ ऊरुवृत्तम् ।

3. ढ॰ म॰ नितम्बः करिहस्तश्च कटिच्छेदः ।

4. न॰ त॰ चरणम् ।

5. न॰ अ॰ तथैव च ।

6. अ॰ म॰ नितम्बमथ । अ॰ नितम्बमप ।

7. च॰ ब॰ अ॰ म॰ वृश्चिके सम्प्रयोजयेत् ।

[(व्या)]

[page 147]




[NZ]

1परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । BhNZ_04_205ab
नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ BhNZ_04_205cd
2कटिच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । BhNZ_04_206ab
मत्तल्लिकरणं कृत्वा 3करमावर्त्य दक्षिणम् ॥ BhNZ_04_206cd
कपोलस्य प्रदेशे तु 4कार्यं सम्यङ्निकुञ्चितम् । BhNZ_04_207ab
अपविद्धं 5द्रुतं चैव तलसंस्फोटसंयुतम् ॥ BhNZ_04_207cd
6करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । BhNZ_04_208ab
दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ BhNZ_04_208cd
[ABh]

(14) भ्रमरः ।
कृत्वेति । नूपुरपादं कृत्वेति नूपुरं करणम् -- ``त्रिकं सुवलितं कृत्वा'' इति (ना॰ शा॰ 4-97) । आक्षिप्तकं ``आक्षिप्तहस्तपादम्'' इति (ना॰ शा॰ 4-116) । परिच्छिन्नम् --
``अलपद्मः शिरोदेशे च्छिन्ना पर्यायशः कटी''
इति(ना॰ शा॰ 4-106) । सूचीपादम् -- `पादसूच्या यदा' इति (ना॰ शा॰ 4-139) । नितम्बं ``भुजावूर्ध्वविनिष्क्रान्तौ'' इति (ना॰ शा॰ 4-146) । करिहस्तं ``वामो वक्षः स्थितो हस्तः'' इति (ना॰ शा॰ 4-148) उरोमण्डलं ``स्वस्तिकापसृतौ पादौ'' इति (ना॰ शा॰ 4-115) । कटिच्छिन्नं ``पर्यायशः कटी च्छिन्ना'' इति (ना॰ शा॰ 4-72) ॥
(15)मत्तस्खलितकः ।
मत्तल्लीति । ``वामदक्षिणपादाभ्याम्'' इति मत्तल्लि (ना॰ शा॰ 4-88) । कपोलस्येति गण्डसूची ``सूचीपादोन्नतं पार्श्वम्'' इति (ना॰ शा॰ 4-132) । सम्यङ्निकुञ्चितमिति लीनं नाम करणम् --
``पताकाञ्जलिवक्षःस्थं प्रसारितशिरोधरम् ।
निकुञ्चितांसकूटं च तल्लीनम् ।'' (ना॰ शा॰ 4-66)

[(मू)]

1. म॰ ढ॰ कटिच्छिन्नं तु ।

2. न॰ म॰ कटिच्छेदम् ।

3. ढ॰ करमावृत्त्य । त॰ करमावेष्ट्य ।

4. अ॰ म्॰ ढ॰ च नि ।

5. प॰ ततम् । न॰ म॰ तथा ।

6. ज॰ म॰ करिहस्तः कटिच्छेदो वामास्खलितके ।

[(व्या)]

[page 148]




[NZ]

अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । BhNZ_04_209ab
1निकुट्टितं च कर्तव्यमूरूद्वृत्तं तथैव च ॥ BhNZ_04_209cd
2करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । BhNZ_04_210ab
मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ BhNZ_04_210cd
3उद्घट्टितेन पादेन 4मत्तल्लिकरणं भवेत् । BhNZ_04_211ab
आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ BhNZ_04_211cd
5कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । BhNZ_04_212ab
6समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ BhNZ_04_212cd
[ABh]

अपविद्धम् ``आवर्त्य शकुतुण्डाख्यम्'' इति (ना॰ शा॰ 4-64), अपविद्धगतेनैव तलसंस्फोटितं ``द्रुतं विक्षिप्य चरणम्'' इति (ना॰ शा॰ 4-130), करिहस्तादिद्वयं पूर्ववत् ॥
(16) मदविलसितः ।
दोलैरिति । दोलैः करैरिति मदस्खलितमेकोनशततमं करणम् । स्वस्तिकापसृतैः पोदैर्मत्तल्लिः सूचितम् । ततस्तलसंघट्टितैरिति तलसंस्फोटितमूनसप्तति करणम् । वलितशब्देन त्रीण्यपि करणानि बहुविधचित्रगुम्फानीति । ततो निकुट्टकादिकरणचतुष्कम् । अत्र केचिद्दोलादिकरणानां त्रयाणां त्रिरभ्यासात् त्रयोदश करणानि वाहुः । अन्ये तु करणसप्तकस्यापि त्रिरभ्यासादेकविंशतीति ॥
(17) गतिमण्डलः ।
मण्डलमिति । मण्डलस्थानकेन मण्डलस्वस्तिकनिवेशे करणे उद्दिष्टे । तत उन्मत्तं रेचितावित्याह । पादेनोद्घट्टिताख्यं त्र्युत्तरशतम् । आक्षिप्तानि त्रीणि चाष्टौ करणानि गतिमण्डले ॥
(18) परिच्छिन्नः ।
समपादमिति । ``श्लिष्टौ समनखौ पादौ''(ना॰ शा॰ 4-65) इति समनखं प्रथमं कुर्यात् । ततश्छिन्नं पञ्चचत्वारिंशत् । आविद्धपादेनाविद्धचार्यां संभ्रान्तमेकोत्तरशतम् ।

[(मू)]

1. ब॰ त॰ अ॰ निकुञ्चितञ्च ।

2. न॰ म॰ करिहस्तः कटिच्छेदो ।

3. न॰ ब॰ उद्घाटितेन ।

4. द॰ ब॰ अ॰ मत्तल्लीं सम्प्रयोजयेत् ।

5. प॰ म॰ कटिच्छेदम् ।

6. न॰ ब॰ समम् ।

[(व्या)]

[page 149]




[NZ]

आविद्धेन तु पादेन 1बाह्यभ्रमरकं तथा । BhNZ_04_213ab
2वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ BhNZ_04_213cd
3करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । BhNZ_04_214ab
शिरसस्तूपरि स्थाप्यौ स्वस्तिकौ विच्युतौ4 करौ ॥ BhNZ_04_214cd
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । BhNZ_04_215ab
पुनरुत्था5पयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ BhNZ_04_215cd
6लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । BhNZ_04_216ab
रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ BhNZ_04_216cd
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं 7पादमेव च । BhNZ_04_217ab
8पराङ्मुखविधिर्भूय एवमेव भवेदिह ॥ BhNZ_04_217cd
[ABh]

ततो भ्रमरकमष्टत्रिंशत् । वामसूच्यार्धसूची वामपादेन । ततो ऽतिक्रान्तं षट्षष्टितमम् । भुजङ्गत्रासितादीनि त्रीणि च नवभिः परिच्छिन्नः ।
(19) परिवृत्तिकरेचितः ।
शिरसस्त्विति । शिरस उपरीति नितम्बं पञ्चाशीतितमम् ।
``भुजावूर्ध्वनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली'' (ना॰ शा॰ 4-146)
इति नितम्बम् । ततः स्वस्तिकरेचितं सप्तमम् (ना॰ शा॰ 4-67) । गात्रस्यानमनेन विक्षिप्ताक्षिप्तकमेकविंशम् (ना॰ शा॰ 4-81) । पुनः पुनरिति लताख्यावित्यनेनार्धेन लतावृश्चिकम् (ना॰ शा॰ 4-105)
``अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः । ]
लताख्यश्च करो वामः '' (ना॰ शा॰ 4-105)
इति लतावृश्चिकम् । ``एको वृक्षः स्थितो हस्तः'' इति (ना॰ शा॰ 4-148) ।
रेचितमित्युन्मत्तकरणम् । ``अञ्चितेन तु पादेन रेचितौ '' इति (ना॰ शा॰ 4-74) । ``एको वक्षःस्थितो हस्तः'' इति करिहस्तकम् । ``कुञ्चितं पादम्'' इति (ना॰ शा॰ 4-84)

[(मू)]

1. प॰ ब॰ वात्याभ्रमरकम् । अ॰ बाहुभ्रमरकम् ।

2. ज॰ म॰ वामं सूच्या त्वतिक्रान्तम् । ब॰ वामसूच्या त्वभिक्रान्तम् ।

3. न॰ म॰ करिहस्तः कटिच्छेदः ।

4. ड॰ अ॰ ब॰ विधुतौ ।

5. ब॰ पुनः संस्थापयेत् तत्र गात्रमुन्नम्य रेचयेत् । त॰ तत्तु गात्रमुन्नाम्य ।

6. न॰ म॰ लताख्यं च करम् ।

7. न॰ म॰ पदमेव च ।

8. न॰ म॰ त॰ पराङ्मुखी विधिर्भूय एष एव ।

[(व्या)]

[page 150]




[NZ]

1करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिते । BhNZ_04_218ab
रेचितौ सह गात्रेण ह्यपविद्धौ करौ 2यदा ॥ BhNZ_04_218cd
पुनस्तेनैव देशेन3 गात्रमुन्नम्य रेचयेत् । BhNZ_04_219ab
कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ BhNZ_04_219cd
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । BhNZ_04_220ab
ऊरू4द्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ BhNZ_04_220cd
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । BhNZ_04_221ab
5आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥ BhNZ_04_221cd
[ABh]

भुजङ्गत्रासितं । ``आक्षिप्तं हस्तपादम् ।'' इत्याक्षिप्तकम्(ना॰ शा॰ 4-116) । स्वस्तिकं पादमित्यस्यैव पादस्वस्तिकपर्यन्ततया बद्धां चारीं सूचयन्नितम्बकरणमाह -- ``भुजावूर्ध्वं विनिष्क्रान्तौ'' इति (ना॰ शा॰ 4-146) । पराङ्मुखेति । अङ्गहारेषु मध्ये परिभाषमाणो मुनिरेतदाह -- सर्वेष्वेव चाङ्गहारेषु पाश्चात्यं करणद्वयं वर्जयित्वा वर्तनीयानि करणानि । तानि चतुर्दिङ्मुखेषु प्रयुज्य संमुखमन्त्ये करणद्वयेन पूरयेदिति ।
(20) वैशाखरेचितः ।
रेचिताविति । अनेन श्लोकेन क्रमेण वैशाखरेचितमङ्गमङ्गद्वयेन प्रयोज्यमित्याह । ``रेचितं हस्तपादं च'' इत्यादि(ना॰ शा॰ 4-98) वैशाखरेचितं करणम् ।
``त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ।
नूपुरं च तथा पादम् ।''(ना॰ शा॰ 4-97)
इति नूपुरोर्ध्वपादम् । कुञ्चितं पादमुत्क्षिप्येति (ना॰ शा॰ 4-84) भुजङ्गत्रासितम् । रेचितमित्युन्मत्तकरणम् । ``अञ्चितेन तु पादेन रेचितौ '' इति (ना॰ शा॰ 4-74) । मण्डलमिति मण्डलस्वस्तिकम् --
``स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतलौ समौ ।
मण्डलस्थानकेन ।'' इति (ना॰ शा॰ 4-68)

[(मू)]

1. प॰ म॰ करिहस्तः कटिच्छेदः ।

2. न॰ अ॰ म॰ तथा ।

3. त॰ योगेन ।

4. त॰ ऊरुवृत्तम् ।

5. न॰ म॰ अ॰ आद्यन्त ।

[(व्या)]

[page 151]




[NZ]

तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । BhNZ_04_222ab
अञ्चितं वामहस्तं च 1गण्डदेशे निकुट्टयेत् ॥ BhNZ_04_222cd
2कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । BhNZ_04_223ab
स्वस्तिकं 3करणं कृत्वा व्यंसितौ च 4करौ पुनः ॥ BhNZ_04_223cd
[ABh]

बाहुशीर्ष इत्यनेन निकुट्टितं करणमाह ``निकुट्टितौ यदा हस्तौ '' इति (ना॰ शा॰ 4-69) ऊरूद्वृत्तादिकरणजातं क्रमेणोक्ताङ्गहारवत् ॥
(21) परावृत्तः ।
आद्यन्त्विति ।
``एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः ।
तलाग्रसंस्थितः पादो जनितम् ।''(ना॰ शा॰ 1-155) इति ।
आद्य(1)शब्दो दक्षिणाङ्गप्रयोज्यत्वमाह । पादमेकं प्रसारयेदिति शकटास्यं करणमाह --
``निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ।
उद्वाहितमुरःकृत्वा शकटास्यम् ।'' (ना॰ शा॰ 4-168)
``अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यादलातकम् '' (ना॰ शा॰ 4-78)
इत्यलातम् । त्रिकं तु परिवर्तयेदिति भ्रमरकम् ।
``आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ।
त्रिकस्य वलनाच्च '' (ना॰ शा॰ 4-99)
अञ्चितं वामहस्तं चेत्यनेनार्धेन करिहस्तं करणं गण्डदेशे निकुट्टयेदिति विशेषयुक्तमाह ।
``वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलो ऽपरः ।
अञ्चितं चरणं चैव प्रयोज्यः करिहस्तकः ॥'' इति (ना॰ शा॰ 4-148)
`पर्यायश' इति कटिच्छिन्नम् (ना॰ शा॰ 4-71)

[(मू)]

1. ड॰ अ॰ म॰ गण्डे चैव निकुट्टितम् ।

2. न॰ म॰ कटिच्छेदम् ।

3. प॰ त॰ चरणम् ।

4. ज॰ म॰ करौ ततः ।

[(व्या)]

1. म॰ अन्यश ।

[page 152]




[NZ]

अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । BhNZ_04_224ab
1अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ BhNZ_04_224cd
2करिहस्तं कटिच्छिन्नम् अङ्गहारे ह्यलातके । BhNZ_04_225ab
निकुट्य वक्षसि करावूर्ध्वजानु 3प्रयोजयेत् ॥ BhNZ_04_225cd
[ABh]

(22) अलातकः ।
स्वस्तिकमित्यादि । स्वस्तिकाविति (ना॰ शा॰ 4-68) स्वस्तिकम् । व्यंसितौ चेति द्विवचनेन पुनश्शब्दे स्वस्तिकव्यवधानेन व्यंसितस्य द्विप्रयोगमाह ।
``आलीढस्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधोविप्रकीर्णौ च व्यंसितम् '' (ना॰ शा॰ 4-109)
``अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यात् '' इत्यलातकम् । (ना॰ शा॰ 4-78)
``कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
प्रयोगवशगौ हस्तावूर्ध्वजानु'' (ना॰ शा॰ 4-86)
``वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ।
नासाग्रे दक्षिणं च'' इति निकुञ्चितम् । (ना॰ शा॰ 4-87)
``अलपद्मः शिरोदेशे सूचीपादश्च दक्षिणः'' । (ना॰ शा॰ 4-138)
इत्यर्धसूची ।
``विक्षिप्तं हस्तपादं च पार्श्वतः पृष्ठतो ऽपि वा ।
एकमार्गगतं यत्र तद्विक्षिप्तम् ।'' (ना॰ शा॰ 4-119)
आक्षिप्तहस्तमाक्षिप्तपादमुद्वृत्तगात्रमुद्वृत्तं करणम् । (ना॰ शा॰ 4-152)
``आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः '' (ना॰ शा॰ 4-116)
इत्याक्षिप्तम् ।
``वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलो ऽपरः ।
अञ्चितश्चरणश्चैव(1)'' (ना॰ शा॰ 4-148)
इति करिहस्तम् । ``पर्यायशः कटिच्छिन्ने''ति (ना॰ शा॰ 4-72) कटिच्छिन्नम् ।

[(मू)]

1. प॰ ब॰ ऊर्ध्वसूची च ।

2. न॰ म॰ करिहस्तः कटिच्छेदो ह्यङ्ग ।

3. न॰ ब॰ प्रसारयेत् ।

[(व्या)]

1. अञ्चितं च शिरश्चैव ।

[page 153]




[NZ]

1आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । BhNZ_04_226ab
उरोमण्डलकौ हस्तौ 2नितम्बं करिहस्तकम् ॥ BhNZ_04_226cd
3कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । BhNZ_04_227ab
सूचीवामपदं दद्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ BhNZ_04_227cd
दक्षिणेन पुनः 4सूची 5विद्युद्भ्रान्तं च वामतः । BhNZ_04_228ab
परिच्छिन्नं तथा चैव 6ह्यतिक्रान्तं च वामकम् ॥ BhNZ_04_228cd
[ABh]

(23) पार्श्वच्छेदः
निकुट्येत्यादि । अनेन वृश्चिककुट्टितं द्विचत्वारिंशत्तमकरणमाह ।
``वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ।
विधातव्यौ करौ ।'' (ना॰ शा॰ 4-103)
कुञ्चितं पादमित्यूर्ध्वज्कानु (ना॰ शा॰ 4-86), ``आक्षिप्तं हस्तपादं च'' इत्याक्षिप्तकम्(ना॰ शा॰ 4-116) ``हस्ताभ्यामाथ पादाभ्याम्'' (ना॰ शा॰ 4-75) इति स्वस्तिकम् । हस्तद्वारेणोरोमण्डलकरणम् --
``स्वस्तिकापसृतौ पादावाविद्धक्रमणं यदा ।
उरोमण्डलकौ हस्तौ ।'' (ना॰ शा॰ 4-115)
नितम्बादित्रयं पूर्ववत् ।
(24) विद्युद्भ्रान्तः ।
सूचीत्यादि वामाङ्गप्रयोज्यमर्धसूचीकरणमाह -- ``अलपद्मः शिरोदेशे'' इति (ना॰ शा॰ 4-138) दक्षिणेन विद्युद्भ्रान्तं करणम् --
``पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ।
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तम् ।'' (ना॰ शा॰ 4-126)
एतद्दक्षिणेन । पुनरेतदेव द्वयमङ्गविपर्ययेण । तदाह दक्षिणेन पुनरिति । परिच्छिन्नमिति छिन्नं करणम् ।
``पल्लवौ तु कटीदेशे छिन्ना पर्यायशः कटी ।
वैशाखस्थानकेन'' इति (ना॰ शा॰ 4-106)

[(मू)]

1. ड॰ ब॰ अ॰ आक्षिप्तम् ।

2. ढ॰ म॰ नितम्बः ।

3. न॰ कटिच्छेदं तथा ।

4. न॰ त॰ सूचीम् ।

5. ढ॰ त॰ म॰ विद्युद्भ्रान्तश्च वामकम् ।

6. ढ॰ म॰ त्रिकं तु परिवर्तयेत् ।

[(व्या)]

[page 154]




[NZ]

लताख्यं 1सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । BhNZ_04_229ab
कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ BhNZ_04_229cd
करौ पार्श्वे ततस्ताभ्यां 2विक्षिप्तं सम्प्रयोजयेत् । BhNZ_04_230ab
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ BhNZ_04_230cd
लताख्यं 3सकटिच्छिन्नं कुर्यादुद्वृत्तके सदा । BhNZ_04_231ab
आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ BhNZ_04_231cd
[ABh]

``अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् ।
प्रयोगवशगौ हस्तावतिक्रान्तम् ।''(ना॰ शा॰ 4-127)
एतद्वामेनाङ्गेन लताख्यमिति लतावृश्चिकम् ।
``अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ।
लताख्यश्च करो वामः'' । (ना॰ शा॰ 4-105)
इति लतावृश्चिकम् । कटिच्छिन्नं प्राग्वत् ॥
(25) उद्वृत्तकः ।
कृत्वा नूपुरपादमिति ।
``त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ।
नूपुरं च तथा पादं करणे नूपुरे न्यसेत् ॥'' (ना॰ शा॰ 4-97)
सव्यवामग्रहणेन पर्यायशः कराविति च द्विवचनेन यौगपद्यं सूचयन् भुजङ्गत्रासितं च द्वात्रिंशत्तमम् (भुजङ्गाञ्चितं चत्वारिंशत्तमम्) गृध्रावलीनकं चतुस्सप्ततितमं करणम् दर्शयति ।
``भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः ।
लताख्यश्च करो वामः ।'' इति (ना॰ शा॰ 4-101)
``पृष्ठप्रसारितः पादः किञ्चिदञ्चितजानुकः ।
यत्र प्रसारितौ बाहू तत्स्याद् गृध्रावलीनकम् ॥''(ना॰ शा॰ 4-135)
अत एव करणद्वयमेवोपसंहरति ताभ्या(1)मनन्तरं विक्षिप्तमिति ``विक्षिप्तं हस्तपादं च'' इति (ना॰ शा॰ 4-119) तदपीच्छाङ्गापर्यायेणेत्युपसंहारेणाह -- ताभ्यामनन्तरं सूचीति ।

[(मू)]

1. न॰ म॰ सकटिच्छेदो ।

2. न॰ अ॰ म॰ विक्षेपम् ।

3. न॰ सकटिच्छेदम् ।

[(व्या)]

1. म॰ ताभ्यनन्तरम् ।

[page 155]




[NZ]

1नूपुरश्चरणो वामस्तथालातश्च दक्षिणः2 BhNZ_04_232ab
तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥ BhNZ_04_232cd
करिहस्तं 3कटिच्छिन्नमालीढे सम्प्रयोजयेत् । BhNZ_04_233ab
4हस्तं तु रेचितं कृत्वा पार्श्वमानम्य रेचयेत् ॥ BhNZ_04_233cd
पुनस्तेनैव योगेन गात्रमानम्य रेचयेत् । BhNZ_04_234ab
रेचितं करणं 5कार्यमुरोमण्डलमेव च ॥ BhNZ_04_234cd
[ABh]

तेनाङ्गपर्यायेण योगस्याक्षेपोपलब्धेः तेन सन्धानायोद्वृत्तम् करणम् । (1)[ त्रिकपरिवर्तनेन बद्धया चार्या नितम्बं करणम् । ततो ``अञ्चितः पृष्ठतः पाद'' इत्यादिना लतावृश्चिकं चतुश्चत्वारिंशत्तमम् । ततः कटिच्छिन्नम् ।
(26) आलीढः ।
आलीढेति ।
``आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितम् ॥'' (ना॰ शा॰ 4-109)
इति व्यंसितं दर्शयति । बाहुशीर्ष इति निकुट्टकं नवमं करणम् । वामतो नूपुरं, षट्त्रिंशत् ] ``निकुट्टितौ यदा हस्तौ '' इति (ना॰ शा॰ 4-69) निकुट्टितकरणम् । ततः ``अलातं चरणं कृत्वा व्यंसये''दित्यलातकम् (ना॰ शा॰ 4-78) । तेनैवेति दक्षिणेन । ``आक्षिप्तं हस्तपादं चे''त्याक्षिप्तम् (ना॰ शा॰ 4-116) । उरोमण्डलकादिकरणत्रयं पूर्ववत् ।
(27) रेचितः ।
हस्तं तु रेचितमिति । अनेन श्लोकेन सर्वाणि हस्तरेचनवन्ति करणानि सङ्गृह्णीते । तथा चोपसंहरिष्यति रेचितं करणमिति । जातावेकवचनेन हि किञ्चित्प्रतिपद्येत । रेचितं नाम करणमस्ति यदनेनोच्यते । कार्यमित्यनेन तावतां करणानां श्लिष्टाङ्गतया स्वबुद्ध्या स्वकार्यवद्धि चित्रमेव योजनं कार्यमिति सूचयति । अत एवायं विचित्रभेदसङ्कीर्णोऽङ्गहारः । तथा चान्यत्र श्रूयते ।

[(मू)]

1. ढ॰ त॰ नूपुरं चरणम् ।

2. ड॰ म॰ वामस्तु दक्षिणः ।

3. ड॰ म॰ कटिच्छेदमालीढे ।

4. ज॰ हस्तौ तु रेचितौ ।

5. न॰ अ॰ ब॰ म॰ त॰ गात्रमुन्नम्य ।

6. ढ॰ म॰ कुर्यादुरो ।

[(व्या)]

1. म॰ प्रविष्टम् । आक्षिप्तहस्तमाक्षिप्तपादकमिति ।

[page 156]




[NZ]

1कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । BhNZ_04_235ab
नूपुरं 2चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥ BhNZ_04_235cd
[ABh]

``पञ्चविंशतिविचित्र(मातृका)प्रक्रमेण विविधं व्यरीरिचत् ।
रेचिताङ्गहरणं महेश्वरो गेय(1)मार्गमिव(2) सप्तभिः स्वरैः ॥'' इति
`स्वस्तिकौ रेचिताविद्धौ' (ना॰ शा॰ 4-67) इति स्वस्तिकरेचितम् ।
`अपविद्धः करः सूच्या' (ना॰ शा॰ 4-72) इत्यादीन्यर्धरेचितम् ।
वक्षः स्वस्तिकमुन्मत्तश्चेति द्वादशादीनि त्रीणि, ``हस्तो हृदि भवेद्वामः'' इति (ना॰ शा॰ 4-80) आक्षिप्तरेचितम् । ``स्खलिततापसृतः पादः'' इत्यर्धमत्तल्लि (ना॰ शा॰ 4-89) । रेचकनिकुट्टकं च (ना॰ शा॰ 4-90)
``भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ''
इत्यादित्रयं भुजङ्गत्रस्तरेचितं (ना॰ शा॰ 4-96) नूपुरं (ना॰ शा॰ 4-97), वैशाखरेचितं च । (ना॰ शा॰ 4-98)
``भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः'' (ना॰ शा॰ 4-101) इत्यादिकरणद्वयं भुजङ्गाञ्चितकं दण्डरेचितकं च (ना॰ शा॰ 4-102) ``वृश्चिकं चरणं कृत्वा स्वस्तिकौ च'' इत्यादि (ना॰ शा॰ 4-107) वृश्चिकरेचितम् । ``आलीढस्थानकं यत्र'' इत्यादि (ना॰ शा॰ 4-109) व्यंसितम् । ``आक्षिप्तं हस्तपादे''त्यादिद्वयम् । (ना॰ शा॰ 4-122) विवृत्तं विनिवृत्तं च (ना॰ शा॰ 4-123) ।
``आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम्'' (ना॰ शा॰ 4-128) इति विवर्तितकम् । ``पृष्ठप्रसारितः पाद'' इत्यादि (ना॰ शा॰ 4-131) गरुडप्लुतकम् ।
``वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ'' (ना॰ शा॰ 4-141) इति मयूरललितम् । सर्पितकं च (ना॰ शा॰ 4-142) । ``दोलापादक्रमः कार्यः'' (ना॰ शा॰ 4-147) इत्यादि स्खलितम् । ``एकस्तु रेचित'' इति (ना॰ शा॰ 4-149) प्रसर्पितकम् । ``दोलापादक्रम''मिति (ना॰ शा॰ 4-154) तलसङ्घट्टितम् । ``प्रयुज्यालातक''मित्यादिद्वयं (ना॰ शा॰ 4-165) वृषभक्रीडितकं लोलितं च (ना॰ शा॰ 4-166) । एवं करणपञ्चविंशतिर्वैचित्र्येण प्रयोज्याः । चतुष्षडादिक्रमेण पुनरुक्ततया चतुर्दिङ्मुखेषु यावत्समाप्ता भवति । यत उक्तम् --

[(मू)]

1. ड॰ म॰ कटिच्छेदस्तु कर्तव्यो ऽप्य ।

2. न॰ म॰ करणम् ।

[(व्या)]

1. योग ।

2. म॰ मिति ।

[page 157]




[NZ]

1व्यंसितेन तु हस्तेन 2त्रिकमेव विवर्तयेत् । BhNZ_04_236ab
वामं चालातकं कृत्वा 3सूचीमत्रैव योजयेत् ॥ BhNZ_04_236cd
करिहस्तं 4कटिच्छिन्नं कुर्यादाच्छुरिते सदा । BhNZ_04_237ab
5रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ BhNZ_04_237cd
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । BhNZ_04_238ab
पुनरुत्क्षेपणं चैव 6रेचितैरेव कारयेत् ॥ BhNZ_04_238cd
[ABh]

``द्वाभ्यां त्रिचतुराभिर्वाप्यङ्गहारास्तु मातृभिः'' इति (ना॰ शा॰ 4-31) ``पुनस्तेनैव योगेन गात्रमानम्ये'' इत्यनेन मध्ये वैचित्र्याच्चक्रमण्डलेन (ना॰ शा॰ 4-114) व्यवहितेयं करणपरम्परा प्रयोज्येत्याह ।
``प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेण नतेन च ।
अभ्यन्तरापविद्धं स्यात्तज्ज्ञेयं चक्रमण्डलम् ॥'' (ना॰ शा॰ 4-114)
आनम्येत्यादिरन्तर्भावितण्यर्थः । प्रयोग एवं प्रयोज्यः । प्राग्वदुरोमण्डलं कटिच्छिन्नं च ॥
(28) आच्छुरितः ।
नूपुरमित्यादि । त्रिकन्तु परिमितं नूपुरं परिचर्तयेदित्यनेन भ्रमरकम् -- ``आक्षिप्तः स्वस्तिकः पादः ... ... त्रिकस्य वलनं चैव ।'' (ना॰ शा॰ 4-99) इति । व्यंसितेन त्विति व्यंसितम् -- ``आलीढं स्थानकं यत्रे''ति (ना॰ शा॰ 4-109) । ततो ऽलातकम् -- ``अलातं चरणं कृत्वा'' इति (ना॰ शा॰ 4-78) । त्रिकमेवेत्येवकारेण नितम्बं ``भुजावूर्ध्वविनिष्क्रान्तौ'' इति (ना॰ शा॰ 4-146) सूचितम् । ततः करणद्वयं पूर्ववत् ॥
(29) आक्षिप्तरेचितः ।
रेचितौ स्वस्तिकावित्यादि । यत्र यत्र करणे करयोः पादयोर्वा रेचितस्वस्तिकसाहित्यं तत्तदिहाप्यनुजानाति पृथगभिधानेन । रेचितं स्वस्तिकं ह्येतेनैव ह्येतानि करणानि । स्वस्तिकरेचितं ``स्वस्तिकौ रेचिताविद्धौ'' इति पृष्ठस्वस्तिकं दिक्स्वस्तिकं च ``विक्षिप्ताक्षिप्तबाहुभ्याम्'' इत्यादि (ना॰ शा॰ 4-76-77) कटीसमं ``स्वस्तिकापसृतः पाद'' इत्यादि (ना॰ शा॰ 4-79) । घूर्णितम् --

[(मू)]

1. न॰ व्यासितेन ।

2. द॰ म॰ त्रिकं चैव । अ॰ त्रिकन्तुपरि ।

3. न॰ त॰ सूचीं तेनैव । ड॰ म॰ सूची तत्रैव ।

4. प॰ म॰ कटिच्छेदम् । म॰ त॰ ब॰ रेचित ।

5. प॰ त॰ ब॰ रेचितः ।

6. न॰ अ॰ रेचितेनैव ।

[(व्या)]

[page 158]




[NZ]

उद्वृत्ताक्षिप्तके चैव1 ह्युरोमण्डलमेव च । BhNZ_04_239ab
2नितम्बं करिहस्तं च 3कटिच्छिन्नं तथैव च ॥ BhNZ_04_239cd
आक्षिप्तरेचिते ह्येष4 करणानां विधिः स्मृतः । BhNZ_04_240ab
विक्षिप्तं करणं कृत्वा 5हस्तपादं मुखानुगम् ॥ BhNZ_04_240cd
[ABh]

``वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ।
स्वस्तिकापसृaः पादः । '' (ना॰ शा॰ 4-93) इति
भ्रमरकम् ``आक्षिप्तः स्वस्तिकः पाद'' इति (ना॰ शा॰ 4-99) । वृश्चिकरेचितम् । ``वृश्चिकं चरणं कृत्वा स्वस्तिकं च'' इति (ना॰ शा॰ 4-107) । पार्श्वनिकुट्टकम् । ``हस्तौ तु स्वस्तिकौ पार्श्व'' इति (ना॰ शा॰ 4-110) उरोमण्डलकम् । ``स्वस्तिकापसृतौ'' इति (ना॰ शा॰ 4-115) । सन्नतम् । ``उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकौ स्थितौ'' (ना॰ शा॰ 4-136) इति सिंहाकर्षितकम् । ``पृष्ठप्रसारित'' इति (ना॰ शा॰ 4-151) । नागापसर्पितम् । ``स्वस्तिकापसृतौ पादौ'' इति (ना॰ शा॰ 4-167) । वक्षःस्वस्तिकादौ तु रेचनं नास्तीति न सङ्गृहीतम् । परे त्वङ्गपरिवर्तनक्रमेण तत्रापि रेचितमिच्छन्तस्तदपि सङ्गृह्णते ।
एवं हस्तपादस्वस्तिकश्च(कञ्च) तद्रेचितश्च(तञ्च) वैचित्र्येण विधाय तेनैव विधिनेत्यत्रुटितेनाङ्गेनोत्क्षेपणं हस्तपादस्य कार्यम् । अनेन यत्र यत्रैतदस्ति तत्तत्करणं सूचयति । तद्यथा दण्डपक्षम् ``ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत्'' इति (ना॰ शा॰ 4-95), ललाटतिलकं ``वृश्चिकं चरणं कृत्वा'' इति (ना॰ शा॰ 4-111), तलविलासितम् ``ऊर्ध्वाङ्गुलितलः पाद'' इति (ना॰ शा॰ 4-117), निशुम्भितं --
``पृष्ठतः कुञ्चितः पादो वक्षश्चैव समुन्नतम् ।
तिलके च करः स्थाप्यः ।'' इति (ना॰ शा॰ 4-125)
विद्युद्भ्रान्तं ``पृष्ठतो वलितं पादम् ।'' इति (ना॰ शा॰ 4-126), गजक्रीडितं ``कर्णे ऽञ्चितः करो वामः'' इति (ना॰ शा॰ 4-129), नितम्बं ``भुजावूर्ध्वविनिष्क्रान्ता''विति (ना॰ शा॰ 4-146), विष्णुक्रान्तम् ``ऊर्ध्वं प्रसारितः पादः'' इति (ना॰ शा॰ 4-161)।

[(मू)]

1. ब॰ क्षिप्तमेकेनैव । म॰ उद्रिक्ताक्षिप्तकञ्चैव । त॰ उत्क्षिप्ताक्षिप्तके चैव ।

2. अ॰ इदमर्धं नास्ति ।

3. द॰ म॰ त॰ कटिच्छेदम् ।

4. प॰ अ॰ रेचिते त्वेष । म॰ त॰ रेचके त्वैष ।

5. म॰ वामपादमुखानुगम् । न॰ वामहस्तमुखानुगम् ।

[(व्या)]

[page 159]




[NZ]

1वामसूचीसहकृतं 2विक्षिपेद्वामकं करम् । BhNZ_04_241ab
3वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ BhNZ_04_241cd
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । BhNZ_04_242ab
नितम्बं करिहस्तं च 4ह्युरोमण्डलकं तथा ॥ BhNZ_04_242cd
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । BhNZ_04_243ab
5पक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ BhNZ_04_243cd
[ABh]

तत उद्वृत्तमित्यूरूद्वृत्तम् । (ना॰ शा॰ 4-159);् अत्र समाक्षिप्तकरणमध्ये तस्य दृष्टत्वात् कर(1)मावृत्य तत्करणम्ति । ``आक्षिप्तं हस्तपादं च'' इत्याक्षिप्तम् (ना॰ शा॰ 4-116) । ``स्वस्तिकापसृतौ पादौ'' इत्युरोमण्डलम् (ना॰ शा॰ 4-115) साहच(2)काराच्च (साहचर्याच्चकाराच्च) कटिच्छिन्नमप्यन्ते केचिदिच्छन्ति ॥
(30) सम्भ्रान्तः ।
विक्षिप्तमित्यादि । ``विक्षिप्तं हस्तपादं च'' इति (ना॰ शा॰ 4-119) विक्षिप्तम् । ``हस्तपादं मुखानुगम्'' इत्यञ्चितं गण्डसूची गङ्गावतरणं चेति दर्शयति ।
``व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ।
अञ्चितो नासिकाग्रे ।'' इति (ना॰ शा॰ 4-83)
``सूचीपादोन्नतं पार्श्वम्'' इति (ना॰ शा॰ 4-132) गण्डसूची ।
``ऊर्ध्वाङ्गुलितलः पादस्त्रिपताकावधोमुखौ ।
हस्तौ च सन्नतौ'' (ना॰ शा॰ 4-169) इति गङ्गावतरणम् ।
वामसूचीसहकृतमित्यनेनार्धसूचीं दण्डपादं च दर्शयति । ``अलपद्मः शिरोदेशे'' (ना॰ शा॰ 4-138) इत्यर्धसूची ।
``नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ।
क्षिप्राविद्धकरम्'' (ना॰ शा॰ 4-143) इति दण्डपादम् ।

[(मू)]

1. ड॰ वामसूची समं कृत्वा । न॰ म॰ वामसूचीकरं कृत्वा ।

2. अ॰ विक्षेपे । ढ॰ निक्षिपेत् । ड॰ निक्षिप्तम् ।

3. न॰ अ॰ म॰ वक्षःस्थश्च ।

4. ड॰ म॰ स्यादुरोमण्डलं तथा । ब॰ स्तं वा उरो । त॰ स्तं चाप्यु ।

5. ब॰ अतिक्रान्तम् ।

[(व्या)]

1. म॰ भ॰ करणमा ।

2. म॰ भ॰ साहच्चका ।

[page 160]




[NZ]

कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । BhNZ_04_244ab
विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ BhNZ_04_244cd
1करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । BhNZ_04_245ab
कृत्वा नूपुरपादं च 2द्रुतमाक्षिप्य च क्रमम्3 BhNZ_04_245cd
[ABh]

एतच्च वामेनाङ्गेन । सव्य इति दक्षिणो वक्षसि । वामस्योपयोगित्वात् । अनेन चतुरं करणं सूचयति --
``अञ्चितः स्यात्करो वामः सव्यश्चतुर एव च ।
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् ॥'' इति (ना॰ शा॰ 4-100)
वलितं त्रिकमिति भ्रमरकम् -- ``आक्षिप्तः स्वस्तिक'' इति (ना॰ शा॰ 4-99), ``त्रिकं सुवलितं कृत्वा'' इति (ना॰ शा॰ 4-97) नूपुरम् । ``आक्षिप्तं हस्तपादं च'' इत्याक्षिप्तम् । (ना॰ शा॰ 4-116) ।
``स्वस्तिकं चरणं कृत्वा कटिहस्तं च दक्षिणम् ।
वक्षःस्थाने तथा वाममर्धस्वस्तिकम् ॥'' (ना॰ शा॰ 4-82)
इत्यर्धस्वस्तिकम् । नितम्बादिचतुष्कं पूर्ववत् ॥ (242)
(31) अपसर्पितः ।
अपक्रान्तमित्यादि । पक्रान्तं --
``कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ।
प्रयोगवशगौ हस्तावपक्रान्तम् ॥'' (ना॰ शा॰ 4-140) इति ।
व्यंसितमिति ``आलीढं स्थानकं यत्र करौ वक्षसि'' इति (ना॰ शा॰ 4-109) । अतो व्यंसितात्करणात्करक्रियामेव गृह्णीयादित्येवकारेणाह । एकवचनं जातौ । उद्वेष्टितमिति करिहस्तकरणं निर्दिशति --
``वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलो ऽपरः ।'' इति (ना॰ शा॰ 4-109) । ``अलपद्मः शिरोदेशे सूचीपादः'' (ना॰ शा॰ 4-138) इत्यर्धसूची । ``विक्षिप्तं हस्तपादं च'' इति (ना॰ शा॰ 4-119) विक्षिप्तम् । ``पर्यायशः कटीच्छिन्ना'' इति (ना॰ शा॰ 4-71) कटिच्छिन्नम् । उरूद्वृत्तमिहोद्वृत्तशब्देनोक्तम् । (ना॰ शा॰ 4-159) । प्राग्वद(1)न्ते (त्रीणि) करणानि ॥ (244)

[(मू)]

1. प॰ म॰ करिहस्तः कटिच्छेदः कार्यस्त्वर्धनिकुट्टके ।

2. न॰ अ॰ ब॰ दण्डमाप्षिप्य ।

3. अ॰ क्रमात् ।

[(व्या)]

1. म॰ भ॰ देतानि तानि ।

[page 161]




[NZ]

पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । BhNZ_04_246ab
निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ BhNZ_04_246cd
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । BhNZ_04_247ab
द्वात्रिंशदेते 1सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ BhNZ_04_247cd
[ABh]

(32) अर्धनिकुट्टकः ।
कृत्वा नूपुरपादमित्यादि । ``त्रिकं सुवलितं कृत्वा'' इति (ना॰ शा॰ 4-97) नूपुरपादम् । द्रुतमाक्षिप्येत्यादिना विवृत्तं करणमाह --
``आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ।
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः ॥'' इति (ना॰ शा॰ 4-122)
निकुट्येत्यनेन करपादनिकुट्टितं यत्र तानि करणान्याह निकुट्टितार्धनिकुट्टकादीनि । उरोमण्डलकादित्रयं पूर्वाङ्गहारवत् ।
ये ये ऽङ्गहारास्तेषां प्रतिकरणं गुरुपरिमाणं कलानिवर्तनकालस्तावता सम्यक्करणं वर्तनाक्रमेण शक्यम् । तत्र ये षड्द्वादशचतुर्विंश(ति)रित्यादिकरणात्मका एकेन द्वाभ्यां वाभ्यसितेन युक्तास्ते त्र्यश्रमानेन बोधव्याः । एकस्य द्वयोर्वा मध्ये तु प्रवेशयितुं तालकलाद्यभिसन्धानेन शक्यत्वात् । ते च षोडशात्र सन्ति । पूर्ववदेवाष्टषोडशादिकरणात्मका एकेन द्वाभ्यां वाभ्यसितेन किंचिदधिका वा ते चतुरश्रतालविषया द्रष्टव्याः । ते ऽपि षोडशैव । एकस्य क्वचिदूनत्वे ऽपि कस्यचित्पुनः क्रियया तालहरणं शक्यमिति मन्तव्यम् ।
तत्रापविद्ध उद्घट्टितो विष्कम्भस्तदपसृतः स्वस्तिकरेचितो वृश्चिकापसृतौ मत्तस्खलितो गतिमण्डलः परिवृत्तकरेचितः परावृत्तको ऽलातक उद्वृत्तको रेचित आक्षिप्तरेचितः सम्भ्रान्तो ऽर्धनिकुट्टकश्चेति त्र्यश्रतालकाः षोडश । एषां चतुरश्राश्रयास्तावन्तः । तत्र द्विभेदभिन्नेष्ववान्तरभेदेन षोडशसु पूर्वरङ्गाङ्गेषूत्थापनादिप्ररोचनान्तेषु बहिर्यवनिकागतेषु प्रयोगात् द्वात्रिंशद्रूपतेत्येवं केचित् ।
एके त्वाहुः -- चतसृणां नर्तकीनां प्रतिप्रयोगं चत्वार इति पुनः पिण्डीरेचकन्यासापन्यासश्चतुर्धेति द्वात्रिंशत् । एतच्च पूर्वरङ्ग(ना॰ शा॰ 5)व्याख्याने स्पष्टयिष्याम इत्यलम् ।

[(मू)]

1. न॰ गदितास्त्वङ्ग ।

[(व्या)]

[page 162]




[NZ]

चतुरो रेचकांश्चापि गदतो मे निबोधत । BhNZ_04_248ab
पादरेचक 1एकः स्यात् द्वितीयः कटिरेचकः ॥ BhNZ_04_248cd
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । BhNZ_04_249ab
[रे2चिताख्यः पृथग्भावे वलने चाभिधीयते ॥ BhNZ_04_XXXcd
उद्वाहनात्पृथग्भावाच्च3लनाच्चापि रेचकः । BhNZ_04_XXXab
4पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः5 BhNZ_04_XXXcd
[ABh]

अन्ये तु गीतकानामङ्गनिबन्धानां वस्तुनिबन्धानां च वस्तु त्रिविधम् । बद्ध(वर्ध)मानकरणानि (नव) । चत्वारि आसारितानि । पाणिकैकप्रकारा । इत्येवंभूतं च यतो ब्रह्मगीतिवैचित्र्यं द्वात्रिंशद्भा(1)सितं तस्मात्तत्प्रयोगात्मनो ऽङ्गहारे ऽपि तावदेवेत्याहुः । अन्ये तु परमेश्वरभाषितत्वादि यथा(दियता ?) सफलसम्पत्तिहेतुत्वमित्याहुः । एतन्मनसि कृत्वोपसंहरति -- द्वात्रिंशदेत इति ॥ (247)
अथ रेचकानाह पादरेचक इति । पादयो(2)रेव चलनं न च पार्ष्णिभूतयोरन्तर्बहिश्च सन्नतं(3) नमनोन्नमनह(व्यं?)सितं गमनमङ्गुष्ठाग्रस्य च । हस्तयोरेव चलनं हंसपक्षयोः पर्यायेण द्रुतभ्रमणम् । ग्रीवायास्तु रेचित(4)त्वं विधुतभ्रान्तता । सर्वतो भ्रमणाच्चापि विज्ञेयं तु रेचिताङ्गक इत्यादिसङ्ख्योपादानात्पृथगेते वैशाखमण्डलादिस्थानकस्थेन प्रयोज्या इति दर्शयन् वैशाखरेचितेन करणेन सङ्गृहीतत्वमेषां दर्शयति । पृथग्दृष्टार्थताख्यापनार्थं चैषां करणाङ्गहारान्तर्भूतानामप्युपादानम् । सुकुमारगीतवाद्यप्रधाने च प्रयोग एषां प्रयोगः ।
तुम्वु(5)रुणेदमुक्तम् --
``अङ्गहाराभिधानात्तु करणैः रेचकान्विदुः ।'' (इति) । इहाष्येतन्मुनेर्मतमिति लक्ष्यते । यत्सहशब्देन तत्र तत्र निर्दिशति ``व्याख्यास्यामि सरेचकान्'' (ना॰ शा॰ 4-19) इति । नन्वेवं करणाङ्गहाररेचकाः किं पूर्वरङ्गानेव (ङ्ग एव) वैचित्र्यकारित्वमात्रे(णै)वोपयुज्यते । नेह प्रस्तुमः(नेति ब्रूमः) ।

[(मू)]

1. न॰ म॰ एव ।

2. इतः दश पङ्क्तयः `अ॰ ब॰'पुस्तकयोः व्याख्यायामपि न सन्ति ।

3. न॰ म॰ द्वलनाच्चापि ।

4. न॰ पश्चात्पार्श्वे ।

5. न॰ चालितैर्गतैः ।

[(व्या)]

1. म॰ त्रिंशद्धस्तं तस्मात् । भ॰ त्रिंशार्धान्ते तत्प्रयोगानात्मनो ।

2. योरेचनम् ।

3. म॰ सन्ततम् ।

4. म॰ भ॰ रेचितत्वं विज्ञेयं तु रेचिताङ्गकः ।

5. म॰ भ॰ तुम्बुरुं तेनोक्तम् ।

[page 163]




[NZ]

विविधैश्चैव पादस्य पादरेचक उच्यते । BhNZ_04_XXXab
त्रिकस्योद्वर्तनं चैव 1कटीवलनम् एव च ॥ BhNZ_04_XXXcd
तथापसर्पणं चैव कटिरेचक उच्यते । BhNZ_04_XXXab
2उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥ BhNZ_04_XXXcd
विसर्पणं च हस्तस्य हस्तरेचक उच्यते । BhNZ_04_XXXab
उद्वाहनं सन्नमनं 3तथा पार्श्वस्य सन्नतिः ॥ BhNZ_04_XXXcd
भ्रमणं 4चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ] BhNZ_04_XXXab
रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ BhNZ_04_249cd
सुकुमारप्रयोगेण 5नृत्यन्तीं चैव पार्वतीम् । BhNZ_04_250ab
मृदङ्गभेरी6पटहैर्भाण्डडिण्डिमगोमुखैः ॥ BhNZ_04_250cd
[ABh]

कथं तर्हि । देवतापरितोषकत्वेनापि । तदपि च वैचित्र्यमात्रात् । यावत्तत्तद्देवताध्वज(1)प्रतिकृतिभूतपिण्डीबन्धनिष्पत्तिद्वारेणेत्यभिप्रायेण पिण्डीबन्धावतरणाय भरतमुनिः पुराक्ल्पमाह(2) श्लोकचतुष्टयेन -- रेचकैरङ्गहारैश्चेत्यादिना । इह चत्वारश्चकाराः(?) । तत्रैको हेतावन्ये समुच्चये । तत्रैवमभिसम्बन्धः । यस्मात्प्रहर्षपरवशप्रमथाभिहतैर्मृदङ्गादिभिरुपलक्षिते दक्षयज्ञे निहते प्रहर्षवशान्नर्तिनि । (नृत्यन्तं नृत्यन्तीमिति) धातुसम्बन्धे प्रत्यया इत्यनेन । [प्रयोगः(3) । अन्यथा नृत्तवन्तमित्यादि स्यात् ।] सन्ध्याकाले दिनात्यय इति प्रमोदविकासमये । तत एव पुण्यात्मके । सततमतिशयेन भृशं च नृत्यति तद्धेतोः । रेचकैरङ्गहारैश्चैव न तु सुकुमारं प्रणृत्यन्तं शङ्करं वीक्ष्य सुकुमारप्रयोगमेव कृत्वा तु अर्थतत्त्वेन नृत्यन्तीं भगवतीं च वीक्ष्य । तत एवेति तावतामेव । अङ्गहारो रेचकाश्चेति । तद्धेतुकान्पिण्डीबन्धान्दृष्ट्वा नन्दी तथा भद्रमुखवीरभद्रप्रभृतयो नन्दिभद्रदेवतागणास्तत्प्रमुखाः पिण्डीबन्धनाम चक्रुः । आकारसादृश्ये ऽयं(न)च पिण्डीबन्धं प्रयोगं चक्रुः । सलक्षणं लक्षणपर्यन्तम् । अन्तवचने ऽव्ययीभावः । अङ्गहारप्रयोगनान्तरीयकतया आकारविशेषसम्पत्तिं दृष्ट्वा सम्यक्प्रयुज्य लक्षणं विदधिर इति यावत् । द्वयोः प्रयोक्तृतया सुकुमारावृत्त --

[(मू)]

1. न॰ कटीचलनमेव ।

2. ड॰ उद्वर्तनः ।

3. त॰ पार्श्वात्पार्श्वस्य सङ्गतिः । ढ॰ पश्चात्पार्श्वं च सङ्गतिः ।

4. प॰ त॰ चेति ।

5. म॰ नृत्यति स्म च पार्वती ।

6. द॰ पटहैर्झञ्झ्या ।

[(व्या)]

1. म॰ भ॰ जप ... ... भूत ।

2. म॰ भ॰ माश्चश्लो । मास्तश्लो ।

3. म॰ भ॰ अयं भागो नास्ति ।

[page 164]




[NZ]

पणवैर्दर्दुरैश्चैव1 सर्वातोद्यैः2 प्रवादितैः3 BhNZ_04_251ab
दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ BhNZ_04_251cd
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैः4 BhNZ_04_252ab
5पिण्डीबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ BhNZ_04_252cd
6चक्रुस्ते नाम पिण्डीनां 7बन्धमासां सलक्षणम् । BhNZ_04_253ab
8ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि 9पट्टसी ॥ BhNZ_04_253cd
[ABh]

नृत्तयोः समकालप्रयोगेण पिण्डीबन्धनिष्पत्तिं सूचयति -- नन्दिभद्रमुखा गणा इति । अनेन चतुष्प्रभृतिप्रयोज्यतामप्याह -- नन्दिभद्रनामैव गण इति । नन्दिकेश्वरनियतस्थानं मृदङ्गः । मुरजः भेरी कांष्यशकलान्तःपूर्णा महर्षकाभङ्गमर्दलः । डिण्डिमः करटिका । गोमुखो भङ्गी(ण्डी) । अन्तरीयुक्तस्तन्त्रीयुक्तः पटहः पणवो दर्दुरो महाघटिकाधार इति सर्व एते चर्मावनद्धभेदाः । लयो द्रुतमध्यविलम्बितात्मा । तस्य यस्तालः प्रतिष्ठा । अपि च तत्त्वं विशिष्टवर्धमानगीतकादिनियतवैणवस्वरविशेषात्मकधातुवाद्यशेषभूतशुष्कप्रयोगप्रकृतिकावनद्धवाद्यगीतिनियतप्रतिष्ठितलयात्मकत्वम् । नाट्ये च प्रयोज्यचित्तवृत्तिपरिवृत्तानुसारेणान्यथाभावेन । तस्य यो वशः सामर्थ्यं तस्यानुषङ्गं कृत्वा तदनुसारित्वेनानुगम्यमानः अनुसृतम् कृत्वेत्युभयथा तन्त्रेण द्रष्टव्यम् । लयतालवशस्यास्य लयतालवशत्वानुगो यत्रेति ।
ननु च नाट्य एवाङ्गानुसारित्वेन लयादिः । न तु नृत्त एव । आङ्गिके नाट्यस्य भेदः । उच्यते -- इहादृष्टविशेषसम्पत्तिहेतुत्वं वर्धमानादिप्रयोगस्य सोपकरणनृत्तप्रयोगस्य च । तत्र गुणप्रधानभावं प्रति कामचारः । यदा गीतकादेः प्राधान्यं तदा तदनुसार्यङ्गं भवति । तदभिप्रायेणैव यद्वक्ष्यति --
``गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत्'' । (ना॰ शा॰ 4-281)

[(मू)]

1. न॰ म॰ दर्दुराख्यैश्च ।

2. ढ॰ अ॰ त॰ नानातोद्यैः ।

3. त॰ र्निनादितैः ।

4. ब॰ वशानुगम् ।

5. न॰ म॰ डिण्डिभद्रांस्ततो । त॰ पिण्डीबद्धांस्ततो । अ॰ पिण्डीबद्धांश्च नो ।

6. अ॰ म॰ चकुर्नामानि ।

7. अ॰ यद्धांश्चैव ।

8. ज॰ म॰ त॰ ऐश्वरी वृषपिण्डी च ।

9. ज॰ ब॰ यादृशी । म॰ पादसी ।

[(व्या)]

[page 165]




[NZ]

[ABh]

यदा तु नृत्तस्यादृष्टसम्पादकत्वे प्राधान्यं क्रियते तदा तदनुसारेण गीतकादेराश्रयणम् । यदाश्रयेण वक्ष्यति --
``गीतानां भद्रकादीनां योज्यमेकं तु गीतकम् ।
वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥'' (ना॰ शा॰ 5-13) इति ।
अनेन(1) हि चतुर्थेन पादेन ताण्डवस्य प्राधान्यं तदुपयोगित्वं च गीतकादेरुक्तम् । न च नाट्यात्तु भेदः । नाट्ये ह्यङ्गं गीतकं चेत्युभयमप्यप्रतिष्ठितम् । तथा च करचरणचारीमण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया वा नियतमेव यथारसं प्रयुज्यमानत्वेन विपर्ययात्(2) । एवं ध्रुवागानादावपि द्रष्टव्यम् । सैव हि ध्रुवा कदाचित् द्रुता प्रयुज्यते कदाचिद्विलम्बितेति द्वयमपि (कुत्रचित्) । तत्रापि(3) गीतं च प्रयोज्यचित्तवृत्ति(परिवर्तत्वं तन्त्रम्) (?) । इह तु गीतमङ्गं च द्वयमपि स्वप्रतिष्ठितम् । तथा हि यस्य यादृशं (4)लययतिस्वरूपादिकं निरूपितं तन्न विपर्येति मन्त्रादिवत् । वेदवत् न वा (इह तु) योग्यतयाङ्गाङ्गिभावः । तथा हि -- ``अपविद्धं द्रुतं चैव'' (ना॰ शा॰ 4-207) इत्यङ्गहारे गीतकादावपि मध्ये स्रोतोगतलयादिरित्यादिकः नान्यथा क्रियते । तेन ``प्रधानमनुभिद्या(बध्य)न्ते गुणाः'' इत्येतदिह सङ्कोचयति । किन्तु स्वप्रतिष्ठिते ऽपि द्वये येन यत्संमेलनयोग्यं तत्तत्र प्रयुज्यत इत्येतावानङ्गाङ्गिभावः । एवं शत्रुज्वलनप्रवृत्तामर्षा(त्तसा)भिमाननरपतिद्वितयवत् । अत एव प्रयुज्यत इत्युक्तम् । तेनैव तथाकरणं सूच्यते ।
तत्र दक्षयज्ञे निहते मृदङ्गादिवाद्यं प्रमथैः प्रवर्तितमिति तदनुगं नृत्तम् । सन्ध्याकालेषु हृदयभूतानन्दोल्लासात्मकेषु भगवन्नृत्तप्राधान्ये स्थिते वाद्यादिप्रवृत्तिः । एतदर्थमेवेत्थंभूतलक्षणतृत्तीया साधारण्येनार्थो ऽभिहितः । अवसरद्वयाभिधानं चैतदर्थमेव लक्षणमर्थत्वे तथैव दृश्यते ? तथा हि -- गीतमेव तदान्यार्थं तदन्यगत्वेन नृत्तादि यथा डोम्बिकादौ । तत्र हि परिष्कर(क्रम)णाद्यपि सुकुमारेणैवाङ्गेन । तत्रापि वर्णाङ्गप्राधान्यं क्वचित् । यथा प्रस्थानादौ । क्वचिद्गीयमानरूपकाभिधेयप्राधान्यं यथा त्रिपुरदाहडिमादौ [शि(5)ल्पकादौ] क्वचिद्वाद्यप्राधान्यं भाणकादिषु भग्न(ण्ड)तालपरिक्रमणादौ । क्वचिन्नृत्तप्राधान्यं यथा डोम्बिकादिप्रयोगानन्तरं

[(मू)]

[(व्या)]

1. भ॰ पुस्तके अत्र भूयान् ग्रन्थपातः ।

2. विपर्यासात् ।

3. म॰ त्राविगी ।

4. म॰ लवयति ।

5. शिल्पक इति शब्दः शिङ्गकशिङ्गटकसङ्गठकषिद्गकादिभेदेन दशरूपकादिलक्षणग्रन्थेषु दृश्यते ।

[page 166]




[NZ]

चण्डिकाया भवेत्पिण्डी 1तथा वै सिंहवाहिनी । BhNZ_04_254ab
तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः ॥ BhNZ_04_254cd
शक्रस्यैरावती पिण्डी 2झषपिण्डी तु मान्मथी । BhNZ_04_255ab
शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ BhNZ_04_255cd
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च । BhNZ_04_256ab
वारुणी च नदीपिण्डी 3याक्षी स्याद्धनदस्य 4तु ॥ BhNZ_04_256cd
[ABh]

हुडुक्कावाद्यावसरे । अत एव तत्र लोकभाषया चिल्लिमार्ग(1) इति प्रसिद्धिः । चारीमार्गो ह्यसावङ्गप्राधान्यात् । तत्रापि वैचित्र्येण मध्ये मध्ये गीतवाद्यादेरपि प्राधान्यम् । वाद्यस्यापि कूप(क्वचित्)सुषिरावनद्धभेदेन प्राधान्यं यथायोगं विवेचनीयमित्यलं बहुना ।
तत्रैते पिण्डीबन्धा आधाराङ्गप्रयोगसाधकतमभेदाद्बहुप्रकारं भिद्यते । तत्र भूमिर्देश आकाशद्व(2)यभेदात्सप्तसप्तभेद एकैक इत्याधारभेदाः सप्त(?) । हस्तौ पादौ (अक्षिणी)शिर इत्यङ्गभेदा अपि सप्तेत्येकान्नपश्चाशत् । एको ऽनेको वा प्रयोक्ता । सो ऽपि समप्रयोगो विषमप्रयोगो वेति चतुर्धाकरणेन सम्पाद्यते अङ्गहारेण वेत्यष्टाभिरेकान्नपञ्चाशतो गुणनात् द्विनवत्यधिकं त्रिशतं पारमेश्वराः (पिण्डीबन्धाः) ।
``कल्पापायनिशान्तसान्ध्यसमये सद्व्योमरङ्गं गणाः (ङ्गाङ्गणं)
सम्प्राप्य प्रतताङ्गहारवलनावैचित्र्यचित्रस्थितिः ।
आकाशे स्ववपुष्यके(?)च विविधां सृष्टिं समासूत्रयन्
त्रैलोक्यस्थपतिस्त्वमेव भगवन्विश्वाकृतिर्जृम्भसि ॥'' इति ।
अनया च(दिशा)पिण्डीबन्धानां तत्तद्देवताप्रकृतिमद्भागादिसूचनद्वारेण केवलमपि करणं प्रयुज्यमानमेव हर्षदायि भवति । एवं तत्र प्रधानदेवतोद्देशेन तावत्पिण्डीबन्धान्दर्शयति श्लोकपञ्चकेनेश्वरस्येत्यादिना । भगवत एव प्राधान्यात् परितोषणीयतेति तस्याव्यक्तं यदीश्वरशब्दवाच्यं निर्विशेषं रूपं तस्य तादृश एव शिवलिङ्गाकृतिः पिण्डीबन्धः । पिण्डी

[(मू)]

1. न॰ ब॰ तथैव ।

2. न॰ ब॰ झषा स्यान्मन्मथस्य तु ।

3. ड॰ ब॰ यक्षा ।

4. प॰ म॰ त॰ च । अ॰ ह ।

[(व्या)]

1. चल्लिमार्ग ।

2. भेदात्सूयसूय एकभेद एक ।

[page 167]




[NZ]

हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । BhNZ_04_257ab
गाणेश्वरी महापिण्डी 1दक्षयज्ञविमर्दिनी ॥ BhNZ_04_257cd
त्रि2शूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । BhNZ_04_258ab
एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ BhNZ_04_258cd
[ABh]

आधाराङ्गादिसङ्घातः । तया बध्यते बुद्धौ प्रवेश्यते तनुभावेन सकलया वा व्योमादाविति पिण्डीबन्ध आकृतिविशेषः । तस्यैकदेशाभिधानं पिण्डीति । यदि वा पिण्डीविशिष्टान्येव तान्याहेति । (1)आबध्यते पुनरनेनेति पिण्डीबन्धः करणाङ्गहारादि । अन्ते च भगवत एव व्यक्तरूपस्य पिण्डीबन्धो भविष्यति ।
परमेश्वरानन्तरं च प्रधानभूतस्य पिण्डीबन्धलक्षणविधायिनो नन्दिनः । (2)पट्टसः उभयत्र त्रिशूलाकृतिरायुधविशेषः । तदनन्तरं भगवत्याः । सिंहश्चासौ बाहनञ्च तस्यैवमिति । आक्रान्ततया । भूमि(3)र्वा लिङ्गस्य सिंहः । तदाकृतिकत्वम् दर्शयति । तदनन्तरं विष्णोंर्ब्रह्मणश्च । ऐरावतीति गजाकारा । रूपपिण्डी स्वा(पद्मा)कारा । (4)धारापिण्डी पुनः पुनः प्रयुज्यमाना नदीपिण्डी भवति । याक्षी वैश्रवणायुधः मुद्गराकारा ।
एवं प्रतिपाद्यानभिधायान्यत्रापि दर्शयत्येवमित्यादिना । अन्यास्विति । तृतीयाध्याये पूज्यत्वेन निरूपितासु । तदभिप्रायेणैव यथाक्रममित्युक्तम् । ध्वजपूजाहुत्यायुधवाहनविशेषरूपाः । (5)सचिह्नका इत्यनेनापि केनचित्कर्मादि(क्रमादि)सूचकेन रूपेणोपलक्षितः ।
एतदुक्तं भवति -- या कचिद्देवतेत्युच्यते तस्याः पश्चान्नृत्तेन परितोषणं कार्यम् । तन्मध्ये च तदीयायुधवाहनकर्मभावाभ्य(द्य)नुकारी अङ्गप्रयोगो विधेयः । अत एव ``पादाग्रस्थितया''(रत्ना॰ 1-1) इत्यत्र तलपुष्पपुटकरणेन कर्मणा विशेषसूचकेन भगवत्याः परितोषणं सम्पाद्यते । ``तिलके च करः स्थाप्य''(64 करणम्) इत्यभिनयेन भगवतः परितोषः । ``निकुट्टितौ यदा हस्तौ'' (9 करणम्) इत्यनेन त्रिशूलाकृतिर्या कायसम्पत्तिः । गरुडप्लुतकेन तार्क्ष्याकारगतिसूचनम् । गङ्गावतरणेन धारापिण्डी । नागापसर्पितेन भोगिपिण्डी ।

[(मू)]

1. द॰ त॰ कालपिण्डी तु लौहिकी । अ॰ वज्रपिण्डी च लौहिकी ।

2. अ॰ त्रिपुरान्तकरी रौद्री तथा दक्षमखस्य च ।

[(व्या)]

1. सम्पद्यते ।

2. पट्टसी ।

3. म॰ मिश्रमिवालिङ्गस्य ।

4. म॰ सारापि ।

5. म॰ स्वचि ।

[page 168]




[NZ]

ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचि1न्हिताः । BhNZ_04_259ab
2रेचका अङ्गहाराश्च पिण्डीबन्धास्तथैव च ॥ BhNZ_04_259cd
[ABh]

``प्रसार्येत्क्षिप्य च करौ'' इत्यङ्गहारेण (ना॰ शा॰ 4-174) आका(धा)रीयभौमत्रिशूलशिवलिङ्गादिपिण्डीनिष्पत्तिः । रेचितेनाक्षिप्तरेचितेन च समस्तानामुक्तानां चारा(चाधारा)द्यनन्तभेदानां निष्पत्तिः । तथा च नन्दिमत उक्तम् --
``रेचिताख्यो ऽङ्गहारो यो द्विधा तेन ह्यशेषतः ।
तुष्यन्ति देवतास्तेन ताण्डवे तं नियोजयेत् ॥'' इति ॥
एवमन्यदप्यूह्यमित्यनुपयोगात्समस्तं न लिखितम् । आगमभ्रंशरक्षणाय तु दिङ्निरूपिता ।
एतदुपसंहरति -- रेचका इति । पिण्डीबन्धग्रहणेन शिखिपिण्डिप्रभृत्युपायमयूरललितादिकरणसङ्ग्रहः । अत एवानया केवलस्यापि करणस्य देवतापरितोषणेनादृष्टार्थं प्रयोगः । यथा विष्णुक्रान्तस्य चक्र(1)मण्डलस्य च वैष्णवक्रीडासूचकस्य सः । एवकारेणाङ्गहारप्रयोगनान्तरीयकपिण्डीबन्धसम्बन्धः । अङ्गहारा एव पिण्डीबन्धाः तथान्ये ऽपि पिण्डीबन्धा इति केवलकरणसंग्रहः । चकारात्पिण्डीबन्धनिष्पत्त्युपायत्वं करणद्वयस्यापि यदा विद्यते अन्यस्य करणसमूहात्मनः कल्पितस्याङ्गहारस्य वा । तस्यापि प्रयोगे प्रत्यनुज्ञानमाह । एतदर्थमेव नृत्तमातृकाया लक्षणमङ्गहाराणां च सामान्यलक्षणं प्रणीतम् । (248-259)
सृष्ट्वेति । ननु स्मृतं नृत्तं सन्ध्याकालेष्वित्यनेनैतद्विरुद्ध्यते । न । स्थानकचारीनृत्तहस्तभ्रूताराकर्मादीनां वर्णानामिव प्रवाहानादित्वे ऽपि विशिष्टपरमात्मना(नः) शोभाविशेषेण भगवता पुनः निर्माणं वेदानामिवेत्यविरोधः । वेदरचनापि हि वर्णानां नित्यत्वेऽपि प्रतिप्राणिस्थानकरणाभिघातसम्पत्त्यभिव्यक्तपौर्वापर्यनिबन्धना कृतका । सा परं पूर्वपूर्वरचनासजातीयत्वप्रवाहेण नित्या । तथा नृत्तमपीति न किञ्चि(कश्चि)द्विरोधः ।
दत्ता इति । या तन्द्र्या(स्वातन्त्र्य)मनुजानानो निजबुद्धिकृतं यत्तेन तत्र वैचित्र्यमनुप्रवेशितं न तद्दृष्टप्रतिघातीति दर्शयति । तेन शोभाप्रधान्यमेवात्र ज्याय इत्यनद्यतन इति यावल्लक्ष्यं न निरूपमिति मन्तव्यम् । मुनये इत्याहापोहादिकुशलाय ।

[(मू)]

1. अ॰ सुचिह्नकाः । म॰ स्वचिह्नकाः । त॰ स्वचिह्निताः ।

2. न॰ ब॰ म॰ रेचकांश्चाङ्गहारांश्च पिण्डीबन्धांस्तथैव च ।

[(व्या)]

1. म॰ क्रमुक्तस्य ।

[page 169]




[NZ]

1सृष्ट्वा भगवता 2दत्तास्तण्डवे मुनये 3तदा । BhNZ_04_260ab
4तेनापि हि ततः सम्यग्गा5नभाण्डसमन्वितः ॥ BhNZ_04_260cd
[ABh]

हि यस्मात् अर्था यतो दत्ताः अतो नृत्तात्मकः प्रयोगः सम्यग्वैचित्र्येण । स्प(सृ)ष्टः । सम्यगिति समञ्चिततालसाम्यातिका(त्मिका)सङ्गेति(अञ्चन्ति) गच्छन्तीति सम्यग्भूतं यद्गानं गीतम् । भाण्डं भणति शब्दं करोतीति भडितव्याण्ण(?) इत्यनया वा पुष्कराध्यायोदितया व्युत्पत्त्या (तदादि) तदिति । इह तद्गीतं वाद्यम् च सम्यगञ्चितं तदनुसारि । तत्प्रधानतया नृत्तप्रधानत्वेन गीतेन वाद्येन च समन्वितः । अत एव तण्डोरयं ताण्डव इति वैयाकरणैः स्मृतम् ॥ (260)
अत्र भरतमुनिरेव परकीयामाशङ्कामुपनिबध्नाति । अनभिज्ञानाच्च मुनीनामभिनयादीनामप्यविदुषां कथम् `अभिनयः कृतः' इति गीतकार्येति गीतेष्वासारितेष्विति च वचनोपपत्तिस्स्यात् । (न) । तस्मान्मुनिरेवेदं स्वयमाशङ्कते । पूर्वपक्षत्वेन वा शङ्केयमिति प्रकटयितुं सुकुमारमिति (रमतिभिः) (1)मध्ये `ऋषय ऊचुः' इति प्रक्षिप्तम् ।
तत्रेत्थमाशङ्का । नृत्तं नाट्याद्भिन्नमभिन्नं वा । भिन्नत्वे ऽपि सप्रयोजनमप्रयोजनं वा । न तावद्भिन्नम् । अङ्गविक्षेपनृत्तगीतवत्त्वेनावैलक्षण्यात् । अभिनयप्रयोगस्य गीयमानपदार्थवाक्यार्थगत(2)नाट्यविषयस्य भाव्यविकलस्य दर्शनमस्ति तावत् । अवान्तरवैलक्षण्यं च दशरूपके न विद्यते । (3)एकपात्रहार्ये त्वसन्निहिते ऽपि च (4)प्रियतमसखीप्रभृतौ तद्विषयोक्ति(5)प्रत्युक्त्यादिप्रयोगो नाठ्ये ऽपि । आकाशभाषितादौ भाणरूपके च विद्यते । ते च यथाह राहुलः --
``(6)परोक्षो ऽपि हि वक्तव्यो नार्या प्रत्यक्षवत्प्रियः ।
सखी च नाट्यधर्मो ऽयं भरतेनोदितं द्वयम् ॥'' इति ॥
तथा
भाणे चैकाकी वा यो योज्यो ऽनेकाङ्गहारिणि । मुनिना हि वक्ष्यते ``'भाणकवच्चैकहार्यं स्यात्' इति । वार्तिककृताप्युक्तम् --

[(मू)]

1. ढ॰ ब॰ सृष्टाः ।

2. प॰ त॰ म॰ अ॰ दतास्ताण्ड्याय ।

3. न॰ ब॰ म॰ तथा ।

4. न॰ अ॰ म॰ ताण्डिनापि ततः ।

5. अ॰ म्यक्तान ।

[(व्या)]

1. म॰ मतिर्हिम ।

2. नाट्यार्थगतविषयत्वे ।

3. पात्राहार्य ।

4. प्रियसमसखि ।

5. प्रयुक्त्यादि ।

6. परोक्षे ऽपि च ।

[page 170]




[NZ]

[ABh]

``वाच्यानुगते ऽभिनये प्रतिपाद्ये ऽर्थे च गात्रविक्षेपैः ।
उभयोरपि हि समाने को भेदो नृत्तनाट्यगतः (योः) ॥''
अत्रोच्यते । (यदि) साक्षाद्बुद्ध्यभावान्न नाट्यं तदसत् । इयं प्रियतमगुणकीर्तनपरा नृत्यति । खण्डिता नृत्यति । कलहान्तरिता नृत्यति -- इति बुद्धेः सम्भवात् । यदाह --
``या चैवंविधगुणकीर्तनवचनेषु प्रियतमस्य संरक्ता ।
सख्याः समक्षमुच्चैः प्रमदा सैवानुकार्यात्र ॥''
एतेनोत्साहगातव्यानामर्थे ऽनुकार्यत्वं दर्शितम् ।
अथ गीयमानरूपकाभिनयदर्शनात्(1) नाट्यतो वैलक्ष्ण्यं न तत्तावत् । वैलक्षण्यमात्रप्रयोजकावान्तरभेदस्य सर्वत्र सम्भवादिति ह्युक्तम् । न चेदं वैलक्षण्यम् । नाट्ये ऽपि तस्य भावात् । वक्ष्यते(2) चाङ्गोपाङ्गकशारीराभिनयलक्षणविधौ
``स्थाने ध्रुवास्वभिनयो यत् क्रियते हर्षशोकरोषाद्यैः ।
भावरससंप्रयुक्तं ज्ञेयं नाट्यायितं तच्च ॥'' इति ॥ (ना॰ शा॰ 22-47)
उपरञ्जकमपि तत्र गीतं नाट्यायितं रूपकं वाद्याभिनययोश्च व्यक्त इति । तत्प्रयोगस्य(श्च) सर्वत्र । डोम्बिकाप्रस्थानषिद्गकभाणकभाणिकारागकाव्यादेर्दशरूपकलक्षणेनासङ्ग्रहान्नाठ्याद्भेद इति चेत् । तदैकान्तिकम् । तोटकप्रकरणिकारासकप्रभृतेस्तदसङ्गृहीतस्यापि नाट्यरूपत्वात् । ``कोहलस्तु ब्रवीति'' इति च परिहारस्य समानत्वात् । वाचिको ऽप्यभिनय आसीनपाट्यादौ क्वचिदस्त्येव । ''अहो गाणगाणबुल्लिभाण''इत्यादौ । आहार्यस्तु प्राधान्येनैकः कृतः भाणादावपि न क्षणे क्षणे परिवर्तते । सात्त्विको ऽप्यङ्गीकृत एव कोहलाद्यैः ``सत्त्वातिरिक्तो ऽभिनयः'' इत्यादिवचनमालिखद्भिः । आङ्गिकस्तु स्फुट एव । अस्त्री(अन्यस्त्री)(3) डोम्बिकाषिद्गकानामन्योन्यानन्वितत्वं(4) वाक्यानामिव । समवकारे ऽपि अङ्गानामस्त्रीप्रधाने ऽर्थे तत्रान्वय इति चेदिहापि समानम् । देवतास्तुतेः स्त्रीपुंसभावाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात्तस्यैव च प्राधान्याद्वक्ष्यति -- ``देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।'' इति । अत एव च चूडामणिडोम्बिकायां प्रतिज्ञातं ``बिंदुगुणं वमि सहि इहोदिवचो अमिदुणघं । महसारकः गेते उं(?) ।'' अत एव सहृदयाः स्मरति ``बध(स)मचूडामणिआ''(इति ।) तस्मान्नृत्तम् नाट्यादभिन्नं(5) तल्लक्षणोप्तेतत्वात् ।

[(मू)]

[(व्या)]

1. म॰ नं नाट्य ।

2. म॰ पाद्यकशारीरा ।

3. म॰ डोम्बी काचिद्ग्रन्थकाठिन्यानन्वितत्वम् ।

4. अनुचितत्वम् ।

5. म॰ नाट्यादिभिन्नम् ।

[page 171]




[NZ]

नृत्तप्रयोगः 1सृष्टो यः स ताण्डव इति स्मृतः । BhNZ_04_261ab
ऋषय ऊचुः ----
यदा 2प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः 3कृतः ॥ BhNZ_04_261cd
[ABh]

एतदाह -- यदा प्राप्त्यर्थमिति । यतो हेतोरर्थानां काव्यार्थानां प्राप्त्यर्थं साक्षात्कारबुद्ध्या स्वीकारार्थं तज्ज्ञैः प्रयोक्तृभिराङ्गिकाद्यभिनयः कृतः । तत्र त(क)स्मादेतन्नृत्तं कृतम् । नृत्तशब्देन व्यपदिष्टम् । न तु नाट्यशब्देनैवेत्यर्थः । भवतु वा भिन्नं तथापि कं स्वभावं लक्षणं च स्वात्मन्यङ्गीकरोति । लौकिकत्वं लोकोत्तरत्वं वा । लौकिकत्वे घटादिवस्तुतुल्यत्वं तदनुकारत्वं प्रतिबिम्बादिरूपता वा । तरापि नाट्यच्छायात्मकतैव । नाट्यस्यैव ह्यमी भागनिष्पन्दाश्चित्रपुत्रिकापुस्तप्रभृतयो ग्रन्थकारकल्पिताः साक्षात्कारकल्पप्रत्ययसम्पदा कथापर्यन्तम् । तथा लोकोत्तरत्वे न तु नाट्यस्यैवावान्तरभेदमात्रं तत् ।
तथाविधमपि च तन्न निष्प्रयोजनम् । तद्भावाद्युपलक्षणीयं स्यात् । असिद्धमेतत् -- चतुर्वर्गोपदेशस्य राघवविजयादिकरागकाव्येषु दृष्टत्वात् । डोम्बिकादौ तु कामस्यैव प्रच्छन्नरागपरमरहस्योपदेशात् । ``यद्वामाभिनिवेशित्वम्'' (ना॰ शा॰ 22-199) इत्यनेन सामान्याभिनये प्रच्छन्नरागस्यातीव देव(मन्मथ)सारसर्वस्वत्वेनाभिधानात् । (1)सिंहसूकरभल्लूककासरादिवर्णनेनापि भाणप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासदृष्टान्तादिना पुरुषार्थस्यैवोपदेशदर्शनादिति प्रयोजनभेदादपि न भेदः । (2)यदा यतो ऽर्थानां प्रयोजनादीनां प्राप्त्यर्थं तज्ज्ञैरनृता(नुवा)दिभिः (र्नृत्तानुरागिभिः) कविभिरभिनय इत्यभिनीयमानो रागकाव्यादिः कृतः । तस्मात्कस्माद्धेतोरेतन्नृत्तं न नाट्यम् । नाट्यं च कस्मान्न नृत्तम् । गात्रविक्षेपात्मकं हि तदपि । तुल्ये च तथार्थे कं भेदकं स्वभावमपेक्षते । नास्त्यसौ भिन्नस्वभाव इति यावत् । यद्वार्तिकम् --
``एवमवान्तरवाक्यैरुपदेशो रागदर्शनीयेषु ।
सिंहादिवर्णनैर्वा क्वचिदप्यर्थान्तरन्यासात् ॥'' इति ॥
तस्मात्स्वभावस्य प्रयोजनस्य चाभेदान्नृत्तं नाट्यादभिन्नमिति ।
अथोच्यते (राघवविज(3)यादि)रागकाव्यादिप्रयोगो नाट्यमेव । अभिनययोगात् । यत्त्वभिनयादिशून्यं केवलं वलनावर्तनाभ्रूक्षेपताराचलनचरणधारणकम्पस्फुरितकटिच्छेदरेचकादि

[(मू)]

1. ढ॰ त॰ ब॰ संसृष्टो यस्ताण्डव इति । अ॰ सृष्टोयं यत्ताण्डवमिति स्मृतम् ।

2. अ॰ यथा प्राप्त्यर्थ ।

3. ढ॰ ब॰ स्मृतः ।

[(व्या)]

1. म॰ हस्तकरद्वयकासारादि ।

2. म॰ तदोभय ।

3. म॰ इदं नास्ति ।

[page 172]




[NZ]

[ABh]

तदस्माकं नृत्तं भविष्यति । यत्र नाट्यशङ्कापि(नास्ति) । ननु किं तेन मो(प्रे)क्षितेन प्रयोजनम् । ननूक्तं नाट्योपयोगित्वम् --
``तस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्यभिनयस्य'' इति (ना॰ शा॰ 8-15) ।
एतद्दूषयति -- यदा प्राप्त्यर्थमिति । इह ``यो ऽयं स्वभावो लोकस्य'' इति (ना॰ शा॰ 1-119)लक्षणेन नाट्यं लक्षितम् । तत्राभिनयानामुपयोग उक्तार्थाभिमुख्यप्राप्तिः । नृत्तस्य तूक्तरूपस्य न किञ्चित्प्रयोजनम् । उपरञ्जकतया गीतवाद्यादिवदुपयोग इति चेत् -- गीतस्य तावत् --
``यत्तु काव्येन नोक्तं स्यात्तद्गीतेन प्रसाधयेत् ॥'' इति
``यानि वाक्यैस्तु न ब्रूयात्'' इति ``न तैरेव तु वाक्यार्थैः'' इति न्यायेन प्रकृतिचित्तवृत्तिकथावस्थादि सूचयतो ऽस्त्युपयोगः । वाद्यास्यापि गीतसाम्याक्षिप्ततालोद्दीपकत्वेन । एतन्मध्यात्तु नृत्तं कर्तृकं स्वभावमपेक्षते । न युद्धमोयुद्धगतिपरिक्रमादावस्योपयोग इत्युक्तम् । तत्रापि कं स्वभावं लौकिकमलौकिकं वापेक्षते । लौकिकत्वे प्रयोज्यत्वेन लोकधर्म्या सङ्ग्रहो ऽस्य । चारीमण्डलादिक्रमेण च तस्याङ्ग एव निरूपणं भविष्यति । अथाप्यलौकिकस्तथापि सिद्धम् । `ऊर्ध्वेन तु कार्यात्' इत्यादिचतुरहस्ताभिनेतव्यविषयविभागन्यायेनाभ्यधिकं सुन्दरोपरञ्जकभागानुप्रवेशेन नाट्यधर्म्यनुप्रवेशे पुनरपि नाट्यादभ्यधिकता ।
अथोच्यते -- पूर्वरङ्गप्रयोगस्य वैचित्र्यसिद्ध्यै तदेतदिति । तत्रापि पूर्वरङ्गप्रयोज्यया ब्रह्मगत्या साकम् । अस्या(था)ङ्गाङ्गिभावेन वा । तत्राद्ये पक्षे(1) स्यादसामञ्जस्यम् । अन्त्ये तु पक्षे कथमाहित(ङ्गिक)हस्तचार्याद्यभावः ।
तदुक्तम् --
``महागीतेषु चैवार्थान् सम्यगेवाभिनेष्यसि ।'' इति (ना॰ शा॰ 4-15) ।
अत्राह -- यदा प्राप्त्यर्थमिति । अर्थानां गीतकपदाभिधेयानां प्राप्त्यर्थमभिमुखं नयनार्थम् । यद्ययं नृत्ताभिमतो ऽभिनयो विहितस्तत्कस्मादभिनयत्वे तुल्ये नृत्तमेतन्न नाट्यम् । तथाहि -- गीतकार्थाभिनये कर्तव्ये कमन्यमाङ्गिकहस्तका(चा)र्याद्यभिनयव्यतिरिक्तं स्वभावमपेक्षते । न कञ्चिदन्यमित्यर्थः ।

[(मू)]

[(व्या)]

1. म॰ द्यपक्षे ऽस्य नासामञ्जस्यम् ।

[page 173]




[NZ]

1कस्मान्नृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । BhNZ_04_262ab
न गीतकार्थसम्बद्धं2 न चाप्यर्थस्य भावकम् ॥ BhNZ_04_262cd
3कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । BhNZ_04_263ab
[(4)भरतः ----]
अत्रोच्यते न खल्वर्थं कंचिन्नृत्तमप्रेक्षते ॥ BhNZ_04_263cd
[ABh]

अथोच्यते -- न गीतकादिपदार्थाभिनयतयास्योपयोग इति । किन्तर्ह्यन्यथा गीतकादावस्योपयोग इति । तत्राह -- न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकमिति । इह गीतकार्थास्तदारम्भकाः वस्त्वङ्गप्रभृतयः । तेषु न संबद्धं तन्मध्ये न परिगणितमित्यर्थः । यदि ह्यङ्गवस्त्वादित(व)न्मध्यपरिगणनमस्य भवेन्न तद्भवेदप्यन्यतदुपयोगस्तदारम्भकत्वात् । नचैतदुपगतम् । न च युक्तम् । नृत्तस्य गीतद्वितीयजातीयत्वात् ।
ननु यथा तत्सुषिरादिवाद्यं तदङ्गसम्बद्धमपि तत्रोपयोगि तथेदम् भविष्यतीत्याशङ्क्याह -- न चाप्यर्थस्येति । (1)अर्थ्यते प्रधानतया गीतकादौ निरूप्यत इत्यर्थः स्वरूपपदतालादिः । तस्याप्येतद्भावकं प्रापकं न भवति ।
एतदुक्तं भवति -- स्वरात्मके भागे प्रतिबिम्बरूपतया लग्नस्वरत्वेन स्थानप्रदायितया स्वरपरमार्थप्रापकतया स्वरात्मगीतभागे स्तुतः सुषिरोपयोगः । अवनद्धस्यापि तत्साम्योपायतालांशप्रापकत्वेन पदपातादभिधेयोपयोगित्वे ऽप्यभिनयरूपया(पतया) नाट्यादभेद एव स्यादित्युक्तम् ।
अथोच्यते रेचकाङ्गहारनिबन्धात्मकं यन्नृत्तं न तेन कश्चिदर्थो ऽभिनीयते । अपि तु यथा विशिष्टैर्मन्त्रैः भावनाविशेषैश्चाभ्युदयसिद्धिः तथा विशिष्टदेवतासूचकैर्मन्त्रैस्तथा तद्गीते चाभ्यधायि । (2)भवाभ(ब्रह्म)गीताङ्गवस्तुषु सप्तविंशतिसङ्ख्येष्वासारितेषु वर्धमानारम्भकेषु चतुर्षु चकारात्पाणिकायमित्येतेषु सम्बद्धमेतदङ्गहारात्मकं द्वात्रिंशत्प्रकारं नृत्तमिति तत्संबन्धश्चेदानीं न किञ्चित् । एवं पृथङ्निवृत्त(नृत्त)काव्यादौ नाट्यरूपतैव । नाट्योपयोगित्वेनापि नृत्ततालगीतकाद्युपयोगो ऽपि दुर्घट इति त्रिधा पूर्वपक्षसंक्षेपः ।
एतत्परिहर्तुमाह -- अत्रोच्यत इत्यादिश्लोकत्रयेण । अस्मिन्पूर्वपक्षे तूच्यते प्रत्युत्तरमिति शेषः । तत्र यदुक्तमङ्गविक्षेपनृत्तगीतमयत्वान्नाट्यादेर्भेदो(दभेदो)रागकाव्यादिनृत्तस्येति

[(मू)]

1. म॰ तस्मान्नृत्तं कृतं ह्येतत्कं वा भावमवेक्षते । ढ॰ अ॰ ह्येतत्कं स्वभावमवेक्ष्य तैः ।

2. न॰ म॰ त॰ अ॰ संबन्धम् ।

3. ढ॰ म॰ त॰ तस्मान्नृत्तम् ।

4. म॰ पुस्तके इदमस्ति ।

[(व्या)]

1. म॰ अन्ये तु प्रधा ।

2. म॰ भवाभगिनीतरङ्गवस्तुषु ।

[page 174]




[NZ]

[ABh]

तदनैकानिक(त्व)मस्य हेतोः लौकिकनृत्ते ऽपि स्फुटम् । नाट्यादिलक्षणसहगोपने तु लौकिके गात्रविक्षेपणं(णे) पठ्यमानमभिनीयमानं वा यावत्पदजातमर्थो नाभिनीयते इति किं नानुसन्धीयते । किं वा न साक्षात्क्रियायोग्यतां नीयते । प्राप्यकल्पो ऽसिद्धः । लोके ऽपि सौमनस्याभावादङ्गोपाङ्गपरिक्षेपानुयातस्य वाक्यादीरितस्य दृष्टत्वात् । गीयता(गायतां) पदार्थसंवादकृततन्मयीभावदग्धा(बद्धा)याश्च स्फुटमेव सात्त्विकाङ्गतावलोकनात् ।
अथापरः पक्षस्तु नृत्ते ऽपि समानम्(नः) । तथाहि -- नृत्तकाव्ये डोम्बिकादौ वर्णच्युतादिव वर्णादिप्रयोगे तावदभिनयकथैव नास्तीति किं तत्र विचार्यते । केवलं नृत्तस्वभावमात्रमपि तत्केवलं भावितकाव्यार्थगतार्थतत्त्वसौकुमार्यकृतमङ्गस्य तथात्वमिति निर्णेप्यत इत्यास्तां तावदेतत् ।
ततनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे ``(1)पाआलअलोससाहिणिहुजयजयळच्छिमच्चमलिआ'' इत्यादि यद्गीयते तत्कस्योक्तिरूपम् । यदि तावन्नर्तितुमागताया लौकिक्या डोम्बिकाप्रवृत्तनर्तक्याः तदा सैवेदानीमेवंभूतं वस्तुरूपं लौकिकं वचनमभिधत्ते । गायनादिस्वक्रमिकस्ववाक्यत एकवाक्यतः साक्षात्कारकल्पार्थः । साक्षात्कारकल्पानुव्यवसायगोचरकार्यत्वं च नाट्यस्य लक्षणमित्यवोचाम ।
तेन यथा कश्चित्कंचिदन्यापदेश(2)गानादिक्रमेण वस्तूद्बोधनकरणद्वारेण वा छन्दानुप्रवेशितया वा कस्यचिन्मनस्यावर्जनातिशयं विधत्ते । नृत्यन्नपि गायन्नपि तद्वदेव डोम्बिकादौ दृaष्टव्यम् । बिडिम्बिडोम्बीत्यादावपि(?) वचसि सैव डोम्बिका । नरपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन नृत्तेन वान्येन(वाद्येन) च राजानमनुरञ्जयितुं गृहीतो मन्त्रित्वेन पूर्वं स्थित्वा मध्ये काचिदीदृशी चौर्यकामुककेलीवासमनासाद्य कापि पुनरेवंविधा कश्चिदेवम्भूतश्चौर्यकामुकैः को ऽप्येवम्भूतस्तत्र काचिदेवम्भूता प्रौढदूतीत्येवमादि राजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादेन धनार्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा धनमुद्दिश्यान्यदपि चेष्टितमभिधीयते । डोम्बिकाकृत्यमेवोपसंहरति गुणमालायां ``जामि हरार्धातुं गिअपुण्णं चिसमि'' इत्यादौ । तत्र सा नृत्यती डोम्बिका च बहुतरोपरञ्जकगीतादिपटुचेटकपरिवृता त्वां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसङ्क्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावन्नृत्यति । तद्गीयमानपदार्थस्य च सातिशयमावर्जनीये

[(मू)]

[(व्या)]

1. म॰ वाआगआलसे सहिण्णि च जप्रजअळच्छिमङ्गदलमलिआ । इत्यादि यत्कस्योक्तिरियम् ।

2. म॰ तानादि ।

[page 175]




[NZ]

[ABh]

राजादौ हृदयानुप्रवेशिताम् दर्शयितुं लौकिकव्यवहारगतहस्तभ्रूकर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति ।
एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गिनं चाङ्गव्यापारं प्रदर्श्य नृत्तेन पुनस्तच्चित्तग्रहणं कुर्वती नृत्तं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानाद्भावाद्विक्षिप्ततदुदितभावमेवाङ्गविक्षेपं करोति लयपरिष्वक्तकरणादौ । तत्रेयत्यंशे लौकिकमात्रस्वभावरामनटादिव्यवहारवत् क्व प्रयोज्यप्रयोजकभावाशङ्का । कस्य वा सामाजिकस्य व्युत्पादनमाभिसंहितम् । तदनन्तरं च यथैव सा गीतवृत्तादि प्रायुङ्क्त तथैव सदृशं न नर्तकी प्रयुङ्क्ते । न तु डोम्बिका साक्षात्कारकल्पेन दर्शयति तदीयाहार्यादिना स्वात्मरूपप्रच्छादनाद्यभावात् । तत एव न डोम्बिकां साक्षात्कारकल्पेन सा दर्शयति । अपि तु तथैव नृत्तं साभिनयं केवलं च प्रदर्शयति तेन नाट्याङ्गतायां यत् दृष्टं पताकादि तद्दर्शनमात्रतया । अतो नाट्यं संस्कारकं नृत्तस्येत्यङ्गादिव्यपदेश इत्युपचारादुच्यते ।
नाट्यस्य प्रस्तावनाप्राणप्रतिबिम्बकल्पं नृत्तमित्ययमपि व्यवहारस्ततस्त्य एव । नाट्यस्यात्र नामाप्यस्ति पदमूर्ध्वादौ चातुरश्र्यभङ्गाभावे(?) तद्भावाद्ययोगात् नाट्यरूपत्वे हि साक्षात्कारकल्पानुव्यवसायसम्पत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य छन्दो ऽलङ्कारादिनियमो ऽवश(श्य)रूपाद्योगयोगिन आहार्यविशेषस्य जात्यंशकादे(रि)ति परिक्रामादेश्च स नास्यैवोपयोगो भवेत् । न चैवमस्ति । मूलभूतस्य च पाट्यस्य सम्भावनानुषक्तमाकाशभाषितमपि स्यात् । पादताडितकादि भाणरूपक इव । इह तु मूलत एव न केनचित्किञ्चिदुच्यते । ``अहो गाणे''त्यादि गायनं यच्चोक्तं ``प्रमदा सैवानुकार्यात्र'' इति तदप्यनेन प्रतिसमाहितं नर्तक्याः स्वरूपानाच्छादनात् । कलहान्तरितेयं खण्डितेयं नृत्यतीति व्यवहार औपचारिकः । तदर्थगीयमानरूपकगतगीतवाद्यानुसारित्वान्नृत्तस्य । न तु मुख्यः । लम्बालकत्ववेणीधारणमङ्गलवलयापरिग्रहादितदुचितवेषादिपरिग्रहवैकल्यात् । यच्च नाट्यायितत्वमाशङ्कितं तदस्थाने भ्रान्तम् । सहृदयैर्नाट्यायितमिति हि तावन्तं गीयमानमभिनीयते असाङ्गत्यापत्तेः । अपि तु यादृशा लयतालादिना यादृगर्थसूचनयोग्याभिनयः सात्त्विकादिप्रधानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । सूच्या(क्ष्मा)ह्यमी पल्लवप्रकारा अङ्कुरादयो निवृत्त्यङ्कुरान्ता ये विघ्नायितवच्च नाट्यायितम् । एतच्च स्वक्षेत्र एव वितनिष्यामः ।
एवं नाट्यायितशङ्काप्यत्र न काचित् । मूलभूतस्याभिनयस्यैवाभावात् । तद्भावे यथा -- ``मुंचइ वळवि अंअअ इरोअगुहंसणळिण अग्नि चिङज'' इत्यादौ मूर्च्छादिसाक्षात्कारः

[(मू)]

[(व्या)]

[page 176]




[NZ]

किं तु शोभां 1प्रजनयेदिति 2नृत्तं प्रवर्तितम् । BhNZ_04_264ab
प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ BhNZ_04_264cd
[ABh]

शय्यायाश्चाङ्गनिपतनादिबाहुस्तथा नृत्तकाव्ये ऽपि स्यात् ``होशं दणषक हमहुमाइषक'' इत्यादौ । नचैवमस्तीत्युक्तमसकृत् । एतेन प्रयोजनभेदो ऽपि प्रत्याप्तः (त्युक्तः) । नहि सामाजिकाः प्रीयन्तां व्युत्पद्यन्तां वेत्यभिसन्धिना नृत्तप्रयोगः । तत्संपत्तिस्तु नान्तरीयकत्वाद्भवतु । ज्योतिष्टोमादिप्रयोगसङ्गीतापनोदादिवददृष्टविशेषोद्देशेनैव हि तस्य प्रयोगः । डोम्बिकादेर्दृष्टोद्देशेन राजपुत्रादिप्रीतये यद्यपि प्रवृत्तिर्लौकिकी सा । अद्यत्वे तु न द्वयम् । नर्तक्याः प्रवृत्तिः प्रवर्तना वा देवतापरितोषणफलैव । यथोक्तं तत्र --
``यत्किञ्चिल्लास्यमेतेन देवस्तु(वी तु)ष्यति नित्यशः ।
यत्किञ्चित्ताण्डवं तेन सोमः सानुचरः शिवः ॥''इति ॥
मूले च सूदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रीतिः साध्या । डोम्बिकावर्णनगतस्यैवालौकिकरूपान्तरप्रादुर्भावान्तरस्येति व्युत्पत्त्यभिसन्धानं चानुभवतीति केयं सम्भावना गेये ऽपि । नाट्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मू(1)लतः प्रवृत्तेः । अन्यत्वे तु जीविता(का)पर्यवसितत्वमिति पुरुषमि(म)तिपुरुषदौरात्म्यमेतद्धर्मादिचतुष्टयोपदेशि पुराकल्पोपदेशनमिव पुस्तकवाचकानां मूलेन प्रवर्तनात्तत्र व्युत्पत्त्यभिसन्धेरेवेति फलभेदः ।
अन्यो ऽपि लक्षणभेदो नाट्यरूपताशङ्कापराकरणहेतुग्रन्थ(2)व्याख्यानावसरे वक्ष्यते । तन्नाट्यलक्षणप्रयोजनाभेदादित्यसिद्धो हेतुः । तदाह नृत्तं कर्तृ कंचिदर्थमर्थ्यमानं साक्षात्कारं प्राप्यमानं नाट्यवेदमपेक्षते येन लक्षणभेदः स्यात् । तथा न कश्चिदर्थः सामाजिकान्प्रति व्युत्पादनीयधर्माद्युपायान्यतमं व्यपेक्षते येन प्रयोजनभेदो ऽपि स्यादित्यतो हेतोरेतन्नृत्तं प्रवर्तितं नृत्तवाचोयुक्त्यैव व्यवहृतम् । ननु(तु)नाट्यमिति ।
किञ्चिदपि शुद्धं नाट्याङ्गं पूर्वरङ्गादिकं वेति पाठो वा यदा प्राप्त्यर्थमित्यादि प्रतिसमाहितम् । ननु भवत्वेवंभूतं नृत्तं, नाट्ये तु कथमस्योपयोग इत्युक्तं गीतकस्यापि कथमुपयोगः ।

[(मू)]

1. न॰ ब॰ म॰ त॰ अ॰ जनयतीत्यतो । जनयतामिति नृत्तम् ।

2. ढ. म॰ नृत्तमिदं स्मृतम् ।

[(व्या)]

1. म॰ दूतः प्रवृ ।

2. म॰ ग्रह

[page 177]




[NZ]

मङ्गल्यमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । BhNZ_04_265ab
विवाह1प्रसवावा2हप्रमोदाभ्युदयादिषु ॥ BhNZ_04_265cd
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । BhNZ_04_266ab
अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः ॥ BhNZ_04_266cd
[ABh]

उक्तं -- ``यानि वाक्यैस्तु न ब्रूयात्'' इति ``यत्तु काव्येन नोक्तं स्यात्'' इति । ध्रुवायास्तु सम्पाठमात्रमेवास्तु । अलं वर्णालङ्कारयोजनात्मकगानक्रियादिप्रसारायासेन ।
ननु रामरावणादिगत(ता)ग्राम्यत्याज्यरूपचरितार्थडम्बरस्य हृदयानुप्रवेशद्वारभूतं हृद्यं तत्सूचीकल्पं स्वयं हृदयानुप्रवेशित्वादित्युक्तं प्राक् । स एव तर्हि नृत्तस्य वलनावर्तनादेरन्तरङ्गे ऽस्य नाट्य उपयोगः । विशेषतो हि तद्विनालातचक्रप्रतिमत्वे तैर्बुद्धिग्राह्यमेव नाट्यं न स्यात् । तत एव विमलाभिनयमाणिक्यगुम्फविधायिसूत्रस्थानीयं वलनादिरूपनृत्तसजातीयत्वान्निकटत्वादन्तरङ्गगीतादिव्यापि नाट्यम् ।
तदेतदाह -- किन्तु शोभां प्रजनयेदिति । नृत्तं प्रवर्तितं प्रकृष्टमत्रिटितं वर्णनाविलासवलनादिदक्षिणं यद्वर्णितं कायावयवानां कायस्य च विलासचेष्टावस्थानात्मकं वर्तितं तदात्मकं यन्नृत्तं तच्छोभां रञ्जनायोग्यत्वं शोभानान्तरीयकचमत्कारं प्रकर्षेण गानादिना वैलक्षण्येन जनयेदिति नृत्तं प्रवर्तितमित्यन्तेनाभिसम्बन्धः । हेतौ लिङ् ।
ननु रञ्जकत्वं भोजनादीनामप्यस्ति । तत्तदनुप्रवेशनियमो ऽत्रेत्याशङ्कां मध्ये ऽपाकरोति -- प्रायेणेति । विवाहप्रसवावाहादिषु सर्वस्य लोकस्य स्वभावतः स्वभावेष्वात्माभिमतेषु स्वदेहेनात्मना नर्तनमिष्टं वल्लभम् । सर्वो ऽपि जनो विवाहादौ नृत्यति यो ऽपि वादयन्नृत्यति तेनापि । दर्दुरूढेनापि (दरिद्रेणापि) मङ्गल्यमिति । विवाहो वध्वा आनयनम् । तत्पूर्वकः सर्व उत्सवः । पुत्रजन्म प्रसवः । ततो जामातुः सवधूकस्य सर्वत्र श्वशुरभवनगममावाहः । प्रमोदा राज्ञामर्थकरणादयः । अभ्युदयो मनोरथप्राप्तिरभिलषितस्योदय इति । आद्ग्रहणेनानाकाङ्क्षितशुभप्राप्त्यादि । एतेन निनिमिति(विनोदनमिति) श्लोकत्रस्य सम्बन्धः । एतच्च ``कैशिकीमपि योजय'' (ना॰ शा॰ 1-42) इत्यत्र दर्शितम् ।
कं स्वभावमपेक्षत इति प्रतिसमाधातुमाह -- अतश्चैवेति । अतश्च कारणान्नृत्तं प्रवर्तितम् । प्रारम्भे पूर्वरङ्गे लक्षणवर्तितं योजितमिति सम्बन्धः । एवकारो

[(मू)]

1. ब॰ विचार्य प्रसवोद्वाह ।

2. त॰ वावास ।

[(व्या)]

[page 178]




[NZ]

ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः1 BhNZ_04_267ab
देवेन चापि 2सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ BhNZ_04_267cd
[ABh]

हेतौ यस्मात्प्रतिक्षेपात् । ज्झण्टुमाद्याः शुष्काक्षराः देवैः प्रतिक्षिप्तत्वात् भूतसङ्घैश्च दैत्यादिभिः प्रवर्तिताः ॥ (266)
``निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ।''(ना॰ शा॰ 5-35)
इति वक्ष्यते ।
अत एवम्भूता गीतानां मद्रकादीनामादौ सम्यङ्नृत्तस्याभिनेयपदार्थाभावेनाभिनयशून्यतया नाश(तयाश)ङ्किता नाट्याङ्गस्य शुद्धस्य विभागका विभागप्रापका आदौ प्रयुज्यन्ते । एतदुक्तं भवति -- गीतकानां यान्युपोहनानि तत्र तावन्नृत्तं शुद्धमेवं कर्तव्यम् । यद्वक्ष्यति --
``तत्रावतरणं कार्यं नर्तक्याः सर्वभाण्डकम् ।
क्षेपप्रतिक्षेपकृतम् ।'' इति (ना॰ शा॰ 4-300)
तद्गत(तत)श्च गीतकाङ्गमध्ये तु प्रवेशाभावे ऽसि(भावस्सि)द्धः । विचारणीयस्य चावापनिष्क्रामादेरगीतकाङ्गत्वमस्त्येव । यद्यपि ``महागीतेषु चैवार्थान्''(ना॰ शा॰ 4-15) इतुक्तं वक्ष्यते च ``ततो ऽभिनयमाचरेत्'' (ना॰ शा॰ 4-290) इति प्रथमत्वे ऽभिनयने ऽस्यापि तथापि तत्र न मुख्यो नाट्यप्रसिद्धो ऽभिनयार्थ इत्युक्तम् ।
किञ्चाभिनेयत्वेन नाट्याङ्गत्वदशायामवलोकनात् तथा वाच्योयुक्तिः । लौकिककथास्विवाङ्गव्यवहारादावभिमुखीभावमात्रनयनश्चापि स्वार्थो यथावाच्यमभिनीतः । नहि तत्र साक्षातिकारकल्पतापादनमभिनयार्थः । किन्तु तल्लयाद्याहारित्वमात्रम् । एवमत्रापि तदर्थानुसारित्वमात्रं परप्रतिपत्तिमात्रं स्यात् ।
... ... दस्थेनैवाङ्गभूतत्वेऽप्यनु(1)गयिते(गमित)कालात्पृथग्भूत एवादौ प्रयुज्यमानो लोकप्रसिद्धप्रथमगीयमानाक्षिप्तडोम्बिकाप्रायः प्रचुरस्तुतिपदयुक्तो गीतिविशेषप्रतिक्षेप इत्याह । इदं भरतमुनिना न क्वचिल्लक्षितम् ।
अन्ये तु गीतान्ते (2)प्रयोज्याश्छन्दकादय एवं नृत्तवैचित्र्याश्रया यथारुचि प्रतिक्षिप्यमाणाङ्गकाः प्रतिक्षेपाः । आदिशब्दाश्च व्यवस्थायामासारितादिसङ्ग्रहार्थः प्रयुक्तः । सतीति चाध्याहार इति । मुनिमतं चाद्य तयोरनुग्राहकम् ।

[(मू)]

1. ड॰ ब॰ म॰ त॰ अ॰ विभावकाः ।

2. ड॰ म॰ त॰ सम्प्रोक्तस्ताण्ड्यः । अ॰ सम्प्रोक्तस्ताण्डिः ।

[(व्या)]

1. म॰ नुगीयलकान्तालात् ।

2. प्रयोज्याश्छन्दाद्याः ।

[page 179]




[NZ]

गीतप्रयोगमाश्रित्य 1नृत्तमेतत्प्रवर्त्यताम्2 BhNZ_04_268ab
प्रायेण3 ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥ BhNZ_04_268cd
[ABh]

एवं नाट्याङ्गानां ... ... गीताङ्गाद्युपयोगश्च समर्थितः । अधुना नृत्तप्रधानरागकाव्यादिर्विषयः काव्यं च नाट्याङ्गमिति दर्शयन्पुराकल्पच्छायया प्रकारान्तरमपि नृत्तस्य समर्थयितुमाह -- देवेनेत्यादि । चकार एवकारार्थे । देवेनेनैव महेश्वरेणैव । तण्डुः सन्तोषपूर्वकं प्रकर्षेणादरेणोक्तः । किमित्याह -- गीयत इति गीतं काव्यम् । तस्य यः प्रकर्षेण योगस्तदर्थानुप्रवेशलक्षण(स्त)माश्रित्य न छायाम् । आसमन्ताच्छ्रित्वा । अङ्गविक्षेपिताङ्गत्वं सामरस्यलयसत्त्वादिना नृत्तं तच्छब्दस्वभावमपि यदभूत्ताण्डप्रभृति नृत्तं तद्गीयमनरूपकगतवर्णालङ्कारलयपदार्थवाक्यार्थसम्मिलितं यत्तत्प्रवर्त्यताम् । तदुक्तं कोहलेन --
``सन्ध्यायां नृत्यतः शम्भोर् भक्त्यार्द्रो नारदः पुरा ।
गीतवांस्त्रिपुरोन्माथं तच्चित्तस्त्वर्थ गीतके ॥
चकाराभिनयं प्रीतस्ततस्तण्डुं च सो .ब्रवीत् ।
नाट्योक्त्याभिuनयेनेदं वत्स योजय ताण्डवम् ॥'' इति ॥
अथशब्दान्न केवलमिदं शुद्धमेव । नापि गानक्रिया । भाण्डवाद्यमात्रसम्बन्धमेव यावद्गीत्याधारपदानुसार्यपि । तदर्थानुसरणाच्च तदनुसारणमिति ।
ननु किं तत्ताण्डवप्रवृत्तिनिमित्तमित्याशङ्क्याह -- प्रायेणेति । ताण्डवमिति सर्वं नृत्तमुच्यते । लास्यशब्देन सन्निधौ गोबलीवर्दन्यायेन प्रवर्तते । तत्र विधीयते ऽस्मिन्नृत्तमिति विधिः विधीयमानं काव्यं सदैव(यद्देव)स्तुतिं वर्णनीयत्वेन चाश्रयति । तेन धर्मवीरप्रधानं तत्र काव्यम् । (इ(1)त्युद्धतरूपतासूचनेनान्यरसपरिग्रहः ।) प्रयुज्यत इति प्रयोगः काव्यं सुकुमारो मसृणो ऽनुसृतो यस्य तं दर्शयति । शृङ्गाररसस्य सम्भवो विद्यमानत्वमस्मिन् । शृङ्गाररसाच्च परिपूर्णात्सम्भवो यस्य कामावस्था मनसो ऽस्मिन्नस्तीति । शृङ्गारेण पूर्णापूर्णरूपेण मसृणप्रयोगोपलक्षणम् । यद्यपि च नाट्यान्नान्यत्र रस इति वक्ष्यते तथापि काव्यान्नाट्यं निष्पद्यत एवेत्यस्ति रसानुप्रवेशः । अनेन च राङ्गान्नृ(ङ्गं नृ)त्तस्य नाट्यम् । प्रायेणेति वचनान्नरपतिचाटुकाद्यपि सङ्गृहीतम् । चकारान्मसृणमप्युद्धतमिश्रमुद्धतं च मसृणमिश्रमित्यादिकमपि सङ्गृहीतं भविष्यतीति सर्वं लक्ष्यमानेन सूचितम् । तथाहि -- डोंम्बिकासु

[(मू)]

1. ड॰ ब॰ नृत्य ।

2. प्रकीर्त्यताम् । त॰ प्रयुज्यताम् । अ॰ प्रवर्तताम् ।

3. ब॰ सर्वोपि ।

[(व्या)]

1. म॰ अयं ग्रन्थो नास्ति ।

[page 180]




[NZ]

[ABh]

नरपतिचाटुकप्राधान्येन प्रवृत्तासु सुकुमारमेव शुद्धं रूपम् । भाणकेषु नृसिंहादिचरितवर्णनमुद्धतमेव । यत्पुनर्मसृणे ऽप्युद्धतं प्रविशति तत्तदुचितमेव । ततो ऽप्यल्पत्वबहुत्वकृतो भेदः ((1)पूर्वः प्रस्थानप्रबन्धः । उत्तरः षिद्गकभेदः । उद्धते तु मसृणानुप्रवेशाद्भाणिकाभेदः ।) अन्यदपि प्रेरणरामाक्रीडकरासकहल्लीसकादिकमल्पत्वबहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ।
तदुक्तं चिरन्तनैः --
``छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः ।
आवर्ज्यते मनः सा तु मसृणा डोम्बिका मता ॥
नृसिंहसूकरादीनां वर्णानां जल्पयेद्यतः ।
नर्त्रकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः ॥
गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा ।
अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ॥
सख्याः समक्षं (2)भर्तुर्यदुद्धतं वृत्तमुच्यते ।
मसृणं च क्वचि(3)द्धूर्तचरितं षिद्गकस्तु सः ॥
बालक्रीडनियुद्धादि तथा सूकरसिंहजा ।
ध्वजादिना कृता क्रीडा यत्र सा भाणिका मता ॥
हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् ।
ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥
मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् ।
एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥
अनेकनर्तकीयोज्यं चित्रताललयान्वितम् ।
आचतुष्षष्टियुगलाद्रासकं मसृणोद्धतम् ॥ '' इत्यादि
((4)एते प्रबन्धा नृत्तात्मकाः न नाट्यात्मकनाटकादिविलक्षणाः । राघवविजयमारीचवधादिकं रागकाव्यम् । ) एतच्च ग्रन्थविस्तारभीत्या बहुतरं यथासम्भवं न लिखितमनुपयोगाच्च । तत्तूपयोगि तद्यथावसरं वर्णयिष्यामः ।
एष तावत्पदगते चोद्यकप्रकारः । तत्र तु परस्परमसङ्गतिदोषो ऽयं कैश्चिदुद्भाव्यते ।

[(मू)]

[(व्या)]

1. म॰ अयं ग्रन्थो नास्ति ।

2. म॰ क्षमेतत्तु उद्ध ।

3. म॰ द् ब्रूते चरि ।

4. म॰ अयं ग्रन्थो नास्ति ।

[page 181]




[NZ]

सुकुमारप्रयोगश्च1 शृङ्गाररससम्भवः । BhNZ_04_269ab
तस्य 2तण्डुप्रयुक्तस्य ताण्डवस्य 3विधिक्रियाम् ॥ BhNZ_04_269cd
[ABh]

स पूर्वादिनैव प्रतिसमाहितः । एष एव तु प्रकारः कलाविधिना निबध्यमानो राघवविजयमारीचवधादिकं रागकाव्यभेदमुद्भावयतीति । यथोक्तम् ((1)कोहलेन) --
[``(2)लयान्तरप्रयोगेण रागैश्चापि विवेचितम् ।]
नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् ॥
लयतश्चास्य गीत्याधारत्वेनाप्राधान्ये गीतेरेव प्राधान्यमिति न काव्यार्थविपर्यासवशेन रागभाषादिविपर्यासो नाट्य इव ।
तथा हि राघवविजयस्य हि ठक्करागेणैव विचित्रवर्णनीयत्वे ऽपि निर्वाहः । मारीचवधस्य ककुभग्रामरगेणैव । अत एव रागकाव्यान्युच्यन्ते एतानि । रागो गीत्यात्मकत्वात्स्व(कः स्व)रस्य तदाधारभूतं काव्यमिति । एवमिदं च नृत्तं सप्तकृतिप्रकारैर्भगवत एव प्रसृतम् । तथाहि -- शुद्धमेव नृत्तं रेचकाङ्गहारात्मकम् । ततो गीतकाद्यभिनयोन्मुखम् । ततो ऽपि गानक्रियामात्रानुसारि वाद्यतलानुसारि च । ((3)बाहु)प्रेङ्खणोरःकम्पपार्श्वनमनोन्नमनचरणसरणस्फुरितकम्पितभ्रूतारापसिस्पन्दकटिच्छेदाङ्गवलनमात्ररूपम् । यत्रो(च्चो)क्तं --
``तण्डुनापि ततः सम्यग्गानभाण्डसमन्वितः ।
नृत्तप्रयोगः ।'' इत्यादि । (ना॰ शा॰ 4-260)
गीतिर्गानमिति ह्यत्र व्युत्पत्तिरुक्ता । ततो ऽप्युद्धतसुकुमारमिश्रात्मकभेदचतुष्टयभिन्नकाव्यार्थानुसारितया चतुर्विधम् । तत्र प्रथमो भेदो लौकिके स्वतन्त्रनृत्ते देवतातोषणादौ वा । द्वितीयः पूर्वरङ्गविधौ परिशिष्टनृत्तलक्ष्यतया वास्य ताण्डवादि विश्वं व्याप्तमितीह पूर्वमुक्तम् --
``प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै'' इति (ना॰ शा॰ 4-18)
भगवता तत्र तण्डुनाङ्गहारः सप्रयोगाः प्रोक्ताः । तत्रैवंभूतास्तावदङ्गहारा मह्यं प्रोक्ता इति रेचकैः पिण्डीबन्धैश्च सहितं मुनिना निरूपिताः । करणान्यपि तदुपयोगित्वेनाशङ्कितचोद्यनिराकरणप्रसक्तानुप्रसक्तं नृत्तस्वरूपं दर्शितम् । अधुना तु प्रयोगः कीर्दृशो ऽङ्गहाराणां

[(मू)]

1. म॰ अ॰ गस्तु ।

2. ड॰ म॰ त॰ ताण्ड्यप्रयुक्तस्य । अ॰ ताण्डिप्रयु ।

3. प॰ ब॰ त॰ विधिक्रिया ।

[(व्या)]

1. म॰ अयं ग्रन्थो नास्ति ।

2. म॰ अयं भागो नास्ति ।

3. म॰ चञ्चालप्रेङ्खणोरः ।

[page 182]




[NZ]

वर्धमानकमासाद्य संप्रवक्ष्यामि लक्षणम् । BhNZ_04_270ab
कलानां वृद्धिमासाद्य1 ह्यक्षराणां च वर्धनात् ॥ BhNZ_04_270cd
[ABh]

प्रोक्त इति प्रकृतमेवानुसन्धातुमाह -- तस्य तण्डुप्रयुक्तस्येति । तत्र पूर्वरङ्गोचितत्वायाङ्गहारप्रयोग इत्युक्तम् । तत्र च ``ताण्डवं यत्र युज्यते'' (ना॰ शा॰ 5-13) इति वर्धमानकताल एव ताण्डवयोगयोग्य इति पूर्वं वर्धमानं गृह्णाति । तदनन्तरं तु गीतकादिविषयो विधिर्वक्ष्यते । तस्येति व्यवहितानुसन्धानार्थः परामर्शः । तण्डुप्रयुक्तग्रहणं समनन्तरोक्तनृत्तकाव्यादिविषयताण्डवशङ्कां निरस्यति । विधीयते ऽनेनेति विधिः गात्रम् । तत् दृष्ट्वा येयं क्रिया प्रयोगः सैव लक्षणम् । अन्यतो व्यवच्छेदकत्वात् । तत्र क्रियात्मकं लक्षणं वक्ष्यामीति सम्बन्धः ॥ (269)
ननु सा क्रियोक्ता करणाङ्गहारविषया । सत्यम् । गीततालसंमिश्रा तु नोक्ता । इह तु वर्धमानाख्यं वर्धमानाख्यं तालमासाद्य साम्यापादानायोपायतां नीत्वा तत्प्रमितिगीत्याधारत्वाच्च वर्धमानशब्दवाच्यं ``देवं देवैः संस्तुतमीशम्'' (ना॰ शा॰ 31-98) इत्यादिवाक्यसमूहमासाद्याभिनेयतयाश्रित्य तदाक्षिप्तञ्च गीतविशेषमासाद्याङ्गस्य वलनावर्तनादिगतद्रुततारादिनियमकारित्वेनावलम्ब्य वक्ष्यामीति सम्बन्धः । वर्धमानकगीततालाभिनयसम्बन्धतयोदितं ताण्डवं वक्ष्यतीति यावत् ।
तत्र वर्धमानस्य भविष्यल्लक्षणानुवादेन (ना॰ शा॰ अ-31) ताण्डवयोगाभिधानायाद्यरूपमाह -- कलानामित्यादि । सप्तदशकलः कनिष्ठासारितकः । स एव द्विगुणलयो लयान्तरः । त्रयस्त्रिंशत्कलो मध्यमः । पञ्चषष्टिकलो ज्येष्ठः । तेन कलानां लयद्वारेण सङ्ख्याद्वारेण च वृद्धिः । तद्वृद्ध्यै च हीयमानपदवृत्ति(द्धि)राक्षिप्ता । यद्वक्ष्यते -- ``चत्वारस्तु गणा युग्मे ओजे'' इत्यादि (ना॰ शा॰ 31-97) । इह त्वक्षराणि तेषां वृद्धिः कलानुसारेणैव नर्तकीनां च वृद्धिः । एका हि प्रतहमासारिते नृत्तप्रयोक्त्री । द्वितीये द्वे इत्यादिक्रमेण । अतो वृद्धियोगाद्वर्धमानकम् ततः संज्ञायां कन् । कण्डिकानां च दशपरिवर्तक्रमो भविष्यति । प्रयोगे यथा यथाक्षरं विनिवृत्तमित्यपि यो भेदो भविष्यति तेनापि क्रमेण कलादीनां वृद्धिः । अतो ऽत्राङ्गहारप्रयोगस्य परिपूर्णस्य च पिण्डीबन्धविधेः सम्यङ्निष्पत्तिर्भवतीति तात्पर्यम् ॥ (270)

[(मू)]

1. अ॰ मालोक्य ह्यक्ष । ड॰ म॰ त्वक्षराणाम् ।

[(व्या)]

[page 183]




[NZ]

1लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । BhNZ_04_271ab
कृत्वा कुतपविन्यासं यथावद्द्विजसत्तमाः2 BhNZ_04_271cd
[ABh]

एवं लक्षणानुवादेन ताण्डवोपयोगमभिधाय विधिदृष्टां क्रियां प्रतिज्ञानपूर्वमाह -- कृत्वेत्यादि । पूर्वरङ्गविधौ वक्ष्यते --
``कलापातविभागार्थं भवेदासारितक्रिया ।
कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥'' इति (ना॰ शा॰ 5-21)
तत्र प्रथार्धेन शुष्काक्षरैरासारितप्रयोगमाह । तथा च वक्ष्यति --
``एतानि तु बहिर्गीते त्वन्तर्यवनिकागतैः ॥'' इति (ना॰ शा॰ 5-11)
बहिर्गीतशब्देन द्वितीयार्धेन सार्थकपदयुक्तमासारितप्रयोगमाह । तत्रैव चोच्यते --
``ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् ।
विघाट्य वै यवनिकां नृत्तपाट्यकृतानि तु ॥''
गीतानां मद्रकादीनाम् । (ना॰ शा॰ 5-12) इत्यादि
तस्मिन्नवसरे ऽयं(1) नृत्तप्रयोग इति तमेवावसरं दर्शयति -- कृत्वेत्यर्धेन । कुतं(2) शब्दं पातीति चतुर्विधमातोद्यं कुतपं तत्प्रयोक्तृजातञ्च । तस्य विशेषेण व्यवस्थापनम् । तत्र विशेषेण न्यासो यथायोगं स्वरताललयकलादिनिवेशनम् । स एव प्रत्याहारादिरासारितक्रियान्तः परिपूर्णो विन्यासः । आसारितक्रियाघातातोद्ये तत्प्रयोक्तरि च प्रयोक्ष्यमाणासारितगतकलापातप्रस्ताव एवं क्रियत इत्युक्तम् । स च परिपूर्णो विन्यासो यथावच्छब्देन दर्शितः । अनुपूर्वश इति पाठे प्रत्याहारावतरणाद्यङ्गजातं सूचयति । तेन (ए)तदुक्तं भवति -- अन्तर्यवनिकागते शुष्काक्षरप्रयोगप्राणभविष्यदातोद्यप्रयोगप्रस्तावनात्मके दृष्टफलदैत्यादिपरितोषणया तद्विघ्नशमनशास्त्रीयफले च प्रयुक्ते ऽङ्गकलापे ऽयं प्रयोगविधिः । आसारितप्रयोग इति सार्थकपदं य इत्यर्थः । प्रयोक्तृभिरित्यातोद्यान्तरसाहित्यं बहुवचनेनाह ।
प्रयोगक्रमं दर्शयति -- तत्र त्वित्यादिना । उपोहनं शुष्काक्षरं कनिष्ठासारिते पञ्चकलम् । उपोह्यन्ते समासव्यासतः पदकालतालमभिहिताः स्वरा यस्मिन्नङ्गे तत्तथोक्तम् । गानं सुषिँरातोद्यं गीयते यतः स्थानस्वरादिति (3)गानम् । तेन घनावनद्धातोद्यद्वयस्यात्र

[(मू)]

1. ड॰ ब॰ वर्धनान्नर्तकीनाञ्च ।

2. प॰ दनुपूर्वशः ।

[(व्या)]

1. म॰ यन्नृत्तप्र ।

2. भ॰ अत्रेतः पूर्वं महान् ग्रन्थपतिः ।

3. ब॰ स्वराणि सादिनादीति ।

[page 184]




[NZ]

1आसारितप्रयोगस्तु ततः2 कार्यः प्रयोक्तृभिः । BhNZ_04_272ab
3तत्र तूपोहनं कृत्वा 4तन्त्रीगानसमन्वितम् ॥ BhNZ_04_272cd
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । BhNZ_04_273ab
विशुद्धकरणायां तु जात्यां वाद्यं5 प्रयोजयेत् ॥ BhNZ_04_273cd
गत्या वाद्यानुसारिण्या6 तस्याश्चारीं प्रयोजयेत् । BhNZ_04_274ab
वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ BhNZ_04_274cd
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । BhNZ_04_275ab
पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ BhNZ_04_275cd
[ABh]

निरासः । उपोहनसमाप्तौ नर्तक्याः प्रवेशः । तत्र भाण्डवाद्यं पुष्करवाद्यं तत्र विशुद्धकरणजातौ(1) । सा च मध्यस्त्रीणां लक्ष्यते । तत एवात्रानुकारसाक्षात्कारशङ्कानिराकरणम् ।
तथाहि -- सति परमेश्वरस्य रामादिवत्प्रयोज्यत्वे प्रथमप्रकृत्या(2)दिचित्तजातिप्रसङ्गः । तत्र --
``एकाक्षरं विशुद्धायां वाद्यं स्यात्सर्वमार्गकम् ।''
``द्धं द्धं खो खो णा णादि या विहितवाक्या ।
सा शुद्धा विज्ञेया मध्यस्त्रीणां समा(3) जातिः ॥'' इति । (ना॰ शा॰ 34-136-138)
आद्यन्ते अयमेव वर्णस्तत्तत् ``रुन्दहि रुन्दहि'' इत्यादि । तथाविधवाद्यानुसारिणी या गतिः तदुपलक्षणचारीति सम्बन्धः । `करणाङ्गहारान्प्रयुञ्जीत' इति भाण्डवाद्यस्यानुप्रयोज्यता प्राधान्येनोक्ता । यथोक्तं भवति भट्टतौतेन -- ``पर्यायशस्त्रस्यास्य प्रयोगः'' इति । तदनन्तरं प्रयोगमाह -- वैशाखस्थानकेनेत्यादि । वैशाखरेचितकरणमनेन लक्षयति --
``रेचितं हस्तपातं च कटिग्रीवं च रेचितम् ।'' इति (ना॰ शा॰ 4-97) ॥ (274)
पुष्पाञ्जलिधरेति । तलपुष्पपुटकरणमनेन लक्ष्यते -- विसृज्येति । पुष्पाक्षेपमङ्गप्रक्रमेण प्रदर्श्येत्यर्थः ।

[(मू)]

1. अ॰ प्रसारित ।

2. त॰ पुनः ।

3. म॰ तत्र चोपोहनम् । अ॰ तत्रोपवहनम् । प॰ ततस्तूपोहनम् ।

4. ड॰ म॰ ब॰ अ॰ तन्त्रीभाण्ड ।

5. अ॰ भाण्डम् ।

6. ड॰ म॰ सर्पिण्या ततश्चारीम् । त॰ सर्पिण्या तस्याम् । अ॰ सर्पिण्या तस्माच्चा । ब॰ सर्पिण्यास्तस्याः ।

[(व्या)]

1. म॰ तालौ ।

2. दविचितजा ।

3. म॰ ब॰ णामिव आ ।

[page 185]




[NZ]

प्रणम्य देवताभ्यश्च ततो ऽभिनयमाचरेत् । BhNZ_04_276ab
यत्राभिनेयं 1गीतं स्यात्तत्र वाद्यं2 न योजयेत् ॥ BhNZ_04_276cd
अङ्गहारप्रयोगे तु भाण्डवाद्यं 3विधीयते । BhNZ_04_277ab
समं रक्तं विभक्तं च 4स्फुटं शुद्धप्रहारजम् ॥ BhNZ_04_277cd
[ABh]

अन्ये तु सद्य एव पुष्पाञ्जलिं तन्मोक्षं चाहुः -- रङ्गपीठे यः परिगमः समन्ततः परिष्वङ्गकरणं मध्य एव देवतानां पूर्वपूजितानां प्रणामाभिनय इत्येककालत्वं चशब्देनोक्तत्वात् द्वयं चाचरेदित्येतदुपेक्ष्यम् । पौर्वकाल्यमाश्रित्य ततो ऽभिनयमिति । भक्त्यतिशयेन तदर्थभावनया विशिष्टतां प्रदर्शयुतुम् । आसारितवाक्यस्य पदार्थवाक्यार्थविषयो ऽभिनयः स्वात्मन्याभिमुख्यनयनात् । न तु सामाजिकान् प्रति ।
यत्रेति निपातो यतो हेतोरित्यर्थे । तेन यतो गीतमिति गीयमानं वाक्यमभिनेयं स्वात्माभिमुख्यं नेयम् । तच्च गानं स्वरवर्णालङ्कारलक्षणमाभिमुख्यमङ्गसाम्यं नेयम् । ततो हेतोस्तस्यैव प्राधान्यात्तस्मिन्काले ऽवनद्धवाद्यं तदाच्छादनकारि भवतीति । स्वातन्त्र्येण न योजयेदतिशयेन नयनं स्यात् । यत्रेति वीप्सया परिभाषां सार्वत्रिकीमाह ॥ (276)
अनुवादमुखेन परिशिष्टं प्रयोगमाह -- अङ्गहारप्रयोगेत्विति । तुशब्द एवकारार्थे । अङ्गहारस्य शुद्धस्यैवाभिनयशून्यस्य प्रयोगे नृत्तप्राधान्ये तदनुसारि वाद्यम् । विशेषेणान्तरयोगान्तरयोगापेक्षया स विधेयो(1) विधीयते धार्यते । अत एव चानुपादानात् --
``तदेव हि पुनर्वस्तु भूयो नृत्तेन योजयेत् ।''(ना॰ शा॰ 4-284)
इति वक्ष्यमाणस्य नर्तक्या(2) समाकर्षणे पुनरासारितगाने शुद्धनृत्त(3)मिति वाद्यस्य(4) गीयमानसहितस्य गानस्य नृत्तस्य च क्रमेण प्राधान्येन प्रयोगो दर्शितः ।
भाण्डवाद्यं विधीयत इत्युक्तम् । तदीदृशमिति दर्शयति सममिति । अक्षराङ्गताललययतिपाणिग्रहन्यासविकृतमष्टविधकालदेशसमतात्मकं साम्यं पुष्कराध्याये च वक्ष्यते । तत्र षोढा तालकृतम् । द्विधा स्वरोच्चारणस्थानदेशकृतम् । तद्योगात् समरक्तभावः शब्दस्य हृद्यस्वरूपता । सा च मायूर्यादिमति(मत्रि)विधमार्जनायोगात् । तेन सम्यङ्मार्जनायोगात् रक्तं विभक्तम् । आहत्यानन्तरं च पीडितयोगेन विच्छेदप्रतिभासमानाक्षरम् ।

[(मू)]

1. न॰ गेयम् ।

2. ड॰ ब॰ म॰ नियोजयेत् । अ॰ प्रयोजयेत् ।

3. ड॰ त॰ म॰ अ॰ प्रयोजयेत् ।

4. न॰ त॰ स्फुटं शुद्धम् । ब॰ स्फुटशुद्धप्र ।

[(व्या)]

1. म॰ ब॰ सनियेयो ।

2. म॰ ब॰ ततयुक्त्या ।

3. ब॰ नृत्य ।

4. द्यस्य तस्य गीय ।

[page 186]




[NZ]

नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । BhNZ_04_278ab
प्रयुज्य 1गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ BhNZ_04_278cd
अनेनैव विधानेन प्रविशन्त्यपराः 2पृथक् । BhNZ_04_279ab
अन्याश्चानुक्रमेणाथ1 पिण्डीं बध्नन्ति 4याः स्त्रियः ॥ BhNZ_04_279cd
[ABh]

स्फुटमिति कादिवर्णानामनुहारो यत्र स्पष्टो भवति । प्रहारजा वर्नान्ते शुद्धविशुद्धका(क)रणान्ते स्थिताः । यदि वा आलिप्तिकादिमार्गादन्यतम एव मार्गे स्थिताः । यत्र नृत्तमङ्गहारात्मकं तदङ्गानीव करणानि । यदि वा गीताङ्गानि मुखादीनि गृह्णाति समया (तया) स्वीकुरुते एतच्च सममिति गतार्थम् । तेनायमर्थः -- नृत्तकर्मभूतमङ्गकर्तृभूतं यद्वाद्यं ग्राहयति नृत्तं तन्नृत्यतेति यदङ्गानि प्रयुङ्क्त इव स्वयं वैचित्र्यप्रयोगात्सविलासमिव श्रूयमाणमेव यद्बलादङ्गानि वर्तयतीति तत्तथोक्तम् । तद्यथा कर्तृ ककतकणककुन्दन्तरकरहतत्तततर्हीकटिच्छिदशतहीत इति चञ्चत्पुटे । यदेवंविधं वाद्यं पुष्कराध्याये वक्ष्यते तत्ताण्डवे इहावसरे योज्यम् । पुष्कराध्याये त्वीदृश एव श्लोको भविष्यति (ना॰ शा॰ 34-172) । तत्र विध्यनुवादाविह द्वौ विपर्यसनीयौ । ताण्डवमुक्तं प्राक् । तत्रैवंविधं वाद्यं कार्यमिति ।
एवं प्रथमासारितस्य प्रयोगमुपसंहरत्यर्धेन -- प्रयुज्येत्यनेन । एषां च प्रयोगे प्रथमं परिभाषां करोति श्लोकत्रयेण -- अनेनैवेत्यादिनाकरणान्वितमित्यन्तेन । गानमिति गीयते च गीतम् । गीतवाद्ये प्रधानतयावस्थिते नर्तकी नृत्तेन प्रयुज्य तथा स्वरागतो नृत्तप्राधान्यं तदौचित्याय गीतवाद्यं प्रयुज्य स्वानुसारिणीकृत्य । नर्तकी न तु नाट्य इव साक्षाद्रामादिरूपताप्रच्छन्नात्मिका । सा निष्क्रामेदपसरेत् । न तु सर्वथैव निर्गच्छेत् । द्वे द्वितीयमिति (ना॰ शा॰ 4-286) वक्ष्यमाणत्वात् । अपराः किं युगपत्प्रविशन्ति नेत्याह । पृथक् एकैकक्रमेण प्रविशेदित्यर्थः ।
ननु कियत्यस्ता अपरा या अनेनैव विधिना प्रविशन्तीत्याशङ्क्याह -- अन्याश्चेति । अनुक्रमेण कनिष्ठादिषु चतुर्ष्वासारितेषु यथासङ्ख्यं वक्ष्यमाणाश्चतुरः पिण्डीबन्धप्रकारान् या अन्याः बध्नन्ति ताः अपराः । तेन चतस्र एवेत्युक्तं भवति । पिण्डीमिति जातावेकवचनम् । (279)

[(मू)]

1. ड॰ म॰ त॰ गीतमेवं तु । न॰ नृत्तवाद्ये तु ।

2. ड॰ म॰ पुनः ।

3. च॰ त॰ ब॰ नुक्रमेणैव ।

4. ड॰ म॰ ताः स्त्रियः ।

[(व्या)]

[page 187]




[NZ]

तावत्पर्यस्तकः1 कार्यो यावत्पिण्डी 2न बध्यते । BhNZ_04_280ab
3पिण्डीं बध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ BhNZ_04_280cd
4पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैः । BhNZ_04_281ab
पर्यस्तकप्रमाणेन 5चित्रौघकरणान्वितम् ॥ BhNZ_04_281cd
[ABh]

एवं प्रवेशपृथक्त्वं परिभाष्य परिभाषान्तरमाह -- तावत्पर्यस्तक इति । तावद्यावदिति भिन्नक्रमः । यावत्पर्यस्तकः केवलसारिताभी(भिहि)तलक्षणः प्रयोगः कार्यः तावन्न पिण्डी बध्यते । तावत्पिण्डीबन्धो न कार्यः । तदनन्तरं तु कर्तव्य इत्यर्थः । पूर्वप्रविष्टया नर्तक्या परा परिवर्ज्यते । महावाक्यानुसारादेकघन एव वाहिन्यात्मको ऽङ्गविक्षेपो यत्र प्रयोगे स पर्यस्तको नृत्ताचार्यभाषया पर्यस्तक इति प्रसिद्धः । अभिनयशून्यमा(आ)ङ्गिकविधिः पर्यस्तकः । स च पिण्डीबन्धे न कार्यः । तदनन्तरं तु कर्तव्य इत्यर्थः । पूर्वप्रविष्टाया नर्तक्याः शिक्षार्थमित्याद्यसङ्गतमेव कैश्चिदुक्तं तदुपेक्ष्यमेव । यावच्च पिण्डीबन्धोपयोगि नृत्तं न प्रवर्तते तावत्प्रविष्टनर्तकीनिवर्तनेनैकाकिन्यैवासारिताभिनयः प्रयोक्तव्य इति परिभाष्यते ।
परिभाषान्तरमाह -- पिण्डीं बध्वेति । तस्यासारितस्य नृत्तप्रयोगं कृत्वा सर्वास्ता निष्कामेयुरपसरेयुः । अत एवैतत्स्थानोपजीविभिरेव श्रीराणकादिकविभिर्डोम्बिकादौ चतुरपसारकः प्रयोगः ॥ (280)
परिभाषान्तरमाह -- पिण्डीबन्धेष्विति । यावदेव पर्यस्तक आसारिताभिनयप्रयोगे वाद्ये तावदेव तदन्तरतापि(पाति)नि पिण्डीबन्धोपयोगिन्यङ्गहारप्रयोगे । किन्तु चित्रं विचित्रं नानाप्रकारं प्रयोजितमोघे च वाद्यविधौ (न॰ श॰ अ-34) वक्ष्यमाणानि यानि करणानि क्रिया याभिवेध्या भगवत्यारूपास्ताभिरन्वितम् (?) । द्विमात्रा यत्र कला स चित्रमार्ग ओघशब्दादेव लब्धः । तत्रैव ह्योघो लक्ष्यते ॥ (281)
एवं पृथक्प्रवेश एकाकिन्या अभिनयप्रयोगः सम्भूयाङ्गहारप्रयोगः तदनन्तरमपसारस्तावत्कालता नृत्तस्य वाद्यस्य वैचित्र्यमिति परिभाषाषट्कं कृत्वा द्वितीयस्य लयान्तरस्यासारितप्रयोगमाह ---

[(मू)]

1. प॰ त॰ तावत्पर्यन्तकः । ड॰ पर्यस्ततः ।

2. ड॰ म॰ प्रयुज्यते । न॰ ब॰ त॰ प्रबध्यते ।

3. म॰ त॰ इदमर्धं नास्ति । च॰ पिण्डीबद्धास्ततः ।

4. ड॰ पिण्डीबन्धे तु ।

5. ड॰ म॰ चिर्त्रोप ।

[(व्या)]

[page 188]




[NZ]

1तत्रोपवहनं भूयः कार्यं पूर्ववदेव हि । BhNZ_04_282ab
ततश् चासारितं भूयो 2गायनं तु प्रयोजयेत् ॥ BhNZ_04_282cd
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । BhNZ_04_283ab
3गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ BhNZ_04_283cd
4तदेव च पुनर्वस्तु 5नृत्तेनापि प्रदर्शयेत् । BhNZ_04_284ab
6आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ BhNZ_04_284cd
7पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । BhNZ_04_285ab
एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ BhNZ_04_285cd
[ABh]

तत्रोपवहनमिति । तत्रैवं परिभाषयति(1) तावत् । यत्रेति पूर्वं कनिष्ठासारितं प्रयुक्तम् । भूय इति बहुतरं षट्कलमित्यर्थः । भूय इति लयाधिकत्वात्कथं तस्याधिक्यमित्यर्थः । पूर्वेणैवेति । तत्र तूपोहनमित्यादिना । अपिशब्दात् ``गत्या वाद्यानुसारिण्या'' इत्यादि ``प्रणम्य देवतां च'' इत्यानन्तरमुद्दिष्टम् । ततः सा द्वितीया नर्तक्यासारितस्य तालविशेषसंबन्धि यद्गीतकं गीयमानं च वाक्यं तस्यार्थमभिनयेत् । पुनस्तदेव लयान्तरासारितलक्षणं वस्तु । सा द्वितीया । चकारात्पूर्वप्रविष्टा च । नृत्तेन च केवलाङ्गहारात्मनाभिनयस्तत्साम्येन प्रदर्शयेत् । आसारितप्रयोगानन्तरं तया सह साप्यपसरेत् ॥ (284)
अथ तृतीयचतुर्थयोरासारितयोरतिदेशेन प्रयोगमाह -- पूर्ववदिति । पृथक्त्वेनेत्यर्थः । स एवेति । तत्र तूपोहनं कृत्वेति य उक्तो यश्च परिभाषाषट्केनोक्त इत्यर्थः ।
अथ यदैकमेवापसारितं प्रयुज्यते तदायं प्रयोगवैचित्र्यक्रम इत्यतिदेशेन दर्शयति -- एवमित्यादिना । एकवचनमतन्त्रम् । एकमप्यासारितं यदा प्रयुज्यते तदास्य यानि पदानि

[(मू)]

1. ड॰ म॰ अथोपवाहनम् । प॰ ब॰ तत्रैवोपोहनम् ।

2. न॰ गायकस्तत्र योजयेत् । ब॰ ड॰ गायनस्तु प्रयोजयेत् ।

3. ड॰ म॰ गीतकार्थप्रयोगश्च द्वितीया ।

4. ड॰ म॰ तदेव तु ।

5. ड॰ म॰ भूयो नृत्तेन योजयेत् । ख॰ ब॰ नाट्येनाभिप्रदर्शयेत् ।

6. ड॰ म॰ त॰ आसारितसमाप्तौ च ।

7. ड॰ म॰ पूर्ववत्प्रविशेच्चान्या ।

8. ड॰ म॰ एव तु । त॰ एव च ।

[(व्या)]

1. भ॰ भाष्य यदितावद्यतेति ।

[page 189]




[NZ]

भाण्डवाद्य1कृते2 चैव तथा 3गानकृते ऽपि च । BhNZ_04_286ab
4एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ BhNZ_04_286cd
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । BhNZ_04_287ab
पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ BhNZ_04_287cd
[ABh]

छेदाश्चत्वारो मुखप्रतिमुखशरीरसंहरण(ना॰ शा॰ 31-80)लक्षणास्तदाश्रयेणायं वर्धमानवच्चतुरपसारप्रयोगो भाण्डवाद्यक्रियायां गीतिक्रियायां च कार्यः । यद्वक्ष्यति ``इत्येवं चतुरङ्गानि'' इति (ना॰ शा॰ 31-82) । एतदेव स्पष्टयत्येकं त्वित्यादिना (एका त्वित्यादिना) । वस्त्वित्यङ्गम् । युञ्ज्यादि(योज्या इ)ति नृत्तेनेति शेषः । त्रिमात्रादिकं यदत्र वस्तु केचित् द्विः कुर्वते तदसदेव । अन्ये त्वेवं पदे पद इत्यादि सार्धश्लोकमुपसंहारवाक्यं वर्धमानप्रयोगस्येति वर्णयाञ्चक्रुः । अपरे पुनराहुः -- आसारितस्य पदमभिव्यक्तिस्थानं क(1)ण्डिकानां दश(2)परिवर्तितेन प्रयोगः । तथा हि -- विशाला सङ्गता सुनन्दा सुमुखीति चतस्रः कण्डिका वक्ष्यन्ते (ना॰ शा॰ अ॰ 31-120) क्रमेण नवाष्टौ षोडश द्वात्रिंशत्कलाः । तस्य विशालामनु सङ्गता अनुविशालं सुनन्दा सङ्गता विशालामनु सुमुखी सुनन्दा सङ्गता विशालेति दश परिवर्ताः । तत्र विशालादिपरिवर्तत्रये सङ्गताः परिवर्ताः काकाक्षिवदुभयत्र संबन्ध इति सप्तदशकलस्य द्विः प्रयोगे कनिष्ठया(3)न्तरितयोः स्थानं भवति । ततः सुनन्दादिपरिवर्तत्रये त्रयस्त्रिंशत्कलस्य मध्यमासारितस्य स्थानं भवति । ततः सुमुख्यादिचत्रुष्टये पञ्चषष्टिकलस्य ज्येष्ठासारितस्य । एवमासारितस्य स्थानं भवति । ततः सुमुख्युaaदिचतुष्टये पञ्चषष्टिकलस्य ज्येष्ठासारितस्य । एवमासारितस्य पसेषु स्थानेषु कण्डिकादिपरिवर्तेषु चतुरपसारको नर्तकीप्रयोगः । तदाहैकापीति (एका त्विति) । वस्त्वासारितस्थानमित्येवं कण्डिकाव(4)र्धमानस्यायं प्रयोगे ऽतिदेश इति तृतीयव्याख्यानतात्पर्यम् । द्वितीये तु व्याख्याने न किञ्चित्दधिकमुक्तमिति तदुपेक्ष्यमेव ।
पिण्डीबन्धप्रकारा अनुक्रमेणासारितेषु प्रयोज्या इत्युक्तम् । के त इत्याह -- पिण्डीनामित्यादि । विधयः प्रकाराः । तत्र विशेषान्तरहृद्यमेकप्रयोज्यं पिण्डीबन्धरूपमित्येकः प्रकारो विशेषनामधेयविरहात्सामान्यशब्देनोक्तः । तदाह -- पिण्डीबन्धः पिण्डत्वादिति ।

[(मू)]

1. च॰ ब॰ वाद्ये ।

2. ड॰ म॰ कृतश्चैव ।

3. ड॰ म॰ गानकृतो ऽपि च ।

4. ड॰ म॰ एकां तु प्रथमां कुर्याद् द्वे द्वितीयं तु वस्तुकम् ।

[(व्या)]

1. म॰ भ॰ काण्डि ।

2. म॰ भ॰ दर्शपरि ।

3. म॰ भ॰ लवान्त ।

4. म॰ भ॰ काण्डिवर्त ।

[page 190]




[NZ]

पिण्डी 1शृङ्खलिका चैव लताबन्धो ऽथ भेद्यकः2 BhNZ_04_288ab
पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः3 शृङ्खलिका4 भवेत् ॥ BhNZ_04_288cd
जालोपनद्धा5 च लता सनृत्तो भेद्य6कः स्मृतः । BhNZ_04_289ab
पिण्डीबन्धः कनिष्टे तु शृङ्ख7ला तु लयान्तरे ॥ BhNZ_04_289cd
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ 8भेद्यकः । BhNZ_04_290ab
पिण्डीनां 9विविधा योनिर्यन्त्रं10 भद्रासनं तथा ॥ BhNZ_04_290cd
[ABh]

नर्तकीयोज्यः परस्परसंबन्ध एव पिण्डीबन्धद्वयप्रकारः सजातीयो वा एकता(ना)लावबद्धकमलयुगलवत् विजातीयो वा हंसवदनपरिगृहीतनालनलिनवत् गुल्मः शृंखलिकाशब्दवाच्यः । नर्तकीत्रयप्रयोज्यस्तु ततो ऽपि वैचित्र्यसहिष्णुत्वाज्जालवद्विचित्रतां गच्छत्पूर्ववत्सजातीयविजातीयात्मा लताबन्धः । चतुष्टयप्रयोज्यस्तु ग(1)तो(ते) ऽत्र रूपत्रयो(य)महावाक्ये तावद्भिः प्रकारैर्भेदनीय इति तेभ्य एकसत्त्वयोजनाच्चाज्ञातो भेद्यकः । महावाक्यार्थ इति वैकस्यां यजनायां प्रविष्ट इत्यर्थः । स तूक्तविधैस्त्रिभिः नृत्तैः सह वर्तते ॥ (288)
एकादिप्रयोज्यत्वं स्पष्टयति -- पिण्डीबन्धः कनिष्टेत्वित्यादिना । ननु कथमेते पिण्डीबन्धान्निष्पद्यन्त इत्याशंक्याधा(2)रादिभेदकृतां निष्पत्तिं दर्शयति -- पिण्डीनां विविधा योनिरित्यादिना । तत्र यत्र पुत्रकादीनां यथा पृथग्भूताङ्गानामनुसन्धिस्तथैव भूमिदेहाकाशाद्याधारखण्डलकाद्यनुसन्धानं यन्त्रम् । तस्य भूयसा सम्भवात्पूर्वमभिधानम् । अनेन मिश्रा भेदाः सङ्गृहीताः । भद्रं स्फुटमेवेत्यस्यासनं स्थानं भूम्यादौ स्फुटमेव दर्शनादित्येकभेदसङ्ग्रहः । अनेनाधाराङ्गभेदो दर्शितः । प्रयोक्तृप्रयोगभेदस्तु पूर्वमेव दर्शितः इहापि चोक्तः । शिक्षायोग इति । करणाङ्गहारविशेषेष्वङ्गविक्षे(3)पवैचित्र्याभ्यास इति साधकतमभेदो

[(मू)]

1. ड॰ म॰ शृङ्खलिता ।

2. ड॰ म॰ भेद्यतः ।

3. ड॰ पिण्डत्वाद्गरु ।

4. न॰ म॰ शृङ्खलिको ।

5. म॰ नद्धाश्च लताः ।

6. प॰ म॰ भेदकः ।

7. त॰ ला या लया ।

8. प॰ म॰ भेद्यतः ।

9. ड॰ म॰ द्विविधो । न॰ त॰ त्रिविधा ।

10. ड॰ म॰ यज्ञम् । ब॰ यन्त्रभद्रा ।

[(व्या)]

1. म॰ गतोऽत्ररूपत्रयो महावाक्यार्थ इति वैकस्यां योजनायां प्रविष्ट इत्यर्थः । तदाह -- स एतैस्त्रिभिः वृत्तैः सह वर्तते ।

2. भ॰ ङक्यासारा । म॰ शङ्क्याह --आधा ।

3. भ॰ क्षेपे वै ।

[page 191]




[NZ]

शि1क्षायोगस्तथा चैव 2प्रयोक्तव्यः प्रयोक्तृभिः । BhNZ_04_291ab
एवं प्रयोगः कर्तव्यो वर्धमाने 3तपोधनाः ॥ BhNZ_04_291cd
[ABh]

दर्शितः । इत एवोपजीव्यास्माभिर्वितत्योक्तं ``रेचकैरङ्गहारैश्च''(ना॰ शा॰ 4-249) इत्यादिव्याख्यानावसरे । विविधग्रहणेन तद्व्यामिश्रणया भेदानन्त्यं सूचयति । तच्चास्माभिः पूर्वमेव दर्शितम् ॥ (290)
ननु सर्वो ऽयं पिण्डीबन्धप्रकार इहोपयोगी वा न वेत्याशङ्क्याह -- तथा चैव प्रयोक्तव्य इति । तैः सर्वैरेव प्रकारैः पिण्डीशृङ्खलकादिबन्धो योज्यत इति यावत् । यत्र च्छेद्यकर्म चर्मयन्त्रं काष्ठमयी प्रकृतिर्भद्रासनमिति केचिदत्र व्याख्यां कुर्वन्ति । युक्तायुक्ततां तु सहृदया एव विदुः ।
एवं गीतकाङ्गवाद्यनर्तकीपिण्डीबन्धादिदर्शनादपि नाट्यान्नृत्यभिन्नमित्यपि सूचितम् । न चायं पिण्डीबन्धप्रकारो लक्ष्ये विच्छिन्नः । केवलमृत्तक(1)(मृत्तिका)पक्षयोः पतितमहौषधिवदनवस्थि(2)तैरभ्युद्धर्तुं न शक्यते सावधानतया तु शक्यत एवेति नात्रालस्यं श्रयितव्यम् । अन्यथा प्रयोगमाहुः । तथाहि -- एकं तु प्रथममित्यत्र प्रथमासारितमभिनयति । ततो द्वितीया द्वितीयासारितम् । तत्समकालं तु प्रथमा केवलमङ्गहारं करोतीति । एवं तृतीया तृतीयासारितार्थमभिनयति । तदा द्वे ऽङ्गहारं प्रयुञ्जाते । चतुर्थी चतुर्थाभिनयं यदा करोति तिस्रोऽङ्गहारं रञ्जयन्ति । अन्ये त्वभिनयप्रयोगे ऽपि सहिततामाहुः । जालशृङ्खलिकादिपिण्डीबन्धजातं चान्योन्यं बाहुबन्धवैचित्र्यरचितमिच्छन्ति ।
अथ वर्धमानकमासाद्येति प्रतिज्ञातमुपसंहरति -- एवमित्यादिना । एवं प्राधान्याद्वर्धमानप्रयोगमभिधाय ``गीतानां मद्रकादीनाम्'' (ना॰ शा॰ 5-13) इति यद्वक्ष्यते तन्निर्णयाय प्रतिजानीते -- गीतानामित्यादि । चकारः सर्वशेषतां द्योतयति अन्वाचयं च । आसारितादिपर्यन्तप्रयोज्यानां छन्द(3)कादीनां तच्छेषतयैव लक्षणं वक्ष्यते । तथाहि तालाध्याये (ना॰ शा॰ अ-31) वर्धमानासारितकगीतकपाणिकान्ते च्छन्दक(4)प्रयोगश्चतुष्प(5)दाप्रयोगश्चाभिधास्यते ।

[(मू)]

1. ड॰ म॰ शिक्षाः कार्यास्तथा ।

2. ड॰ प्रयोक्तव्या । त॰ सम्प्रयुक्ता ।

3. पु॰ म॰ त॰ प्रयोक्तृभिः ।

[(व्या)]

1. तृणक ।

2. म॰ भ॰ वदनवलितै ।

3. म॰ भ॰ छन्दसि ।

4. भ॰ न्दवीप्र ।

5. म॰ भ॰ ष्पादप्र ।

[page 192]




[NZ]

गीतानां 1छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । BhNZ_04_292ab
यानि 2वस्तुनिबद्धानि यानि चाङ्गकृतानि तु3 BhNZ_04_292cd
गीतानि तेषां वक्ष्यामि प्रयोगं 4नृत्तवाद्ययोः । BhNZ_04_293ab
5तत्रावतरणं कार्यं 6नर्तक्याः सार्वभाण्डिकम् ॥ BhNZ_04_293cd
7क्षेपप्रतिक्षेपकृतं 8भाण्डोपोहनसंस्कृतम् । BhNZ_04_294ab
प्रथमं त्वभिनेयं 9स्याद्गीतके सर्ववस्तुकम् ॥ BhNZ_04_294cd
[ABh]

``सर्वेषामेव गीतानामन्ते छन्दक इष्यते ।
चतुरङ्ग(1)स्ततः त्र्यङ्गो नवाङ्गो युग्म एव च ॥'' (ना॰ शा॰ 31-293)
चतुष्पदा तथैकाङ्गा'' इत्यादौ । तेन प्रधानतया तावद्गीतकादिविशेषाणां विधिस्तत्प्रयोगे न तु स्वतन्त्राणाम् । गीतकगतवस्त्वङ्गादि यत्र त्वेच्छया समाश्रित्यैकद्वित्र्याद्यनियमेन प्रयुज्यते तानि च्छन्दकानि । यान्यद्यत्वे नृत्ततालात्मना डोम्बिकानर्तकीलयचरणादिरूपेण प्रसिद्धानि । भूय (इति) । उक्तो हि वर्धमानविधिस्तत्राप्यधिकं(2) वस्तु वक्ष्यते ।
तत्र गीतकतालाश्रितनृत्तविधानं तावद्दर्शयितुमुपक्रमते -- यानीति । भूयांसि खण्डलकादिवस्तूनि । स्वल्पानि त्वङ्गानि । तत्र वस्तुनिबन्धनानि त्रीणि गीतकानि -- मद्रकः परान्तकं प्रकरी च । अन्यानि चत्वार्यङ्गान्युल्लोप्यकं (3)रोविन्दकमोवेणकमुत्तरं च । तेषां क्रमेणाह -- तेषामिति । रेषामपि नृत्ते वाद्ये च यो विधिस्तं वक्ष्यामि । तत्र गीतकेषु ये क्षेपाः प्रथमवस्त्वादावुपोहनानि ये च प्रतिक्षेपाः द्वितीयवस्त्वादिषु प्रत्युपोहनानि, मतान्तरे त्वनन्तर्भूतपृथक्कालात्मकगीतशेषरूपाणि तानि तन्त्रीगतानि (गा)नयुक्तानि प्रयुज्य नर्तक्या अवतरणं भाण्डवाद्यसहितं पुष्कराध्यायभाविना प्रविर(4)लचलदङ्गुलि -- (ना॰ शा॰ 9-20) दलाभिहन्यमानाङ्गिकप्राधान्येन कार्यम् ।
एतदुक्तं भवति -- प्रथमे वस्तुन्याक्षिप्तिकामुपोहनं च प्रयुज्य नर्तकीप्रवेशः । द्वितीयादौ प्रत्युपोहनम् । पदयोजना तु -- तन्त्रीगानान्वितं कृत्वा क्षेपप्रतिक्षेपयोः कृतं परिसमाप्तता

[(मू)]

1. न॰ जन्दकानाम् । म॰ छन्दगानां च ।

2. ड॰ ब॰ वस्तूनि मुनयः सन्ति ।

3. ड॰ त॰ म॰ कृतानि च ।

4. प॰ नृत्य ।

5. ड॰ यत्रावतरणम् ।

6. ड॰ म॰ नर्तक्या सार्व ।

7. ड॰ म॰ छेदप्रति । त॰ भेदप्रति । व॰ छन्दःप्रति ।

8. व॰ तन्त्रीगानसमन्वितम् ।

9. ड॰ म॰ तु गीतके ।

[(व्या)]

1. म॰ भ॰ चतुर्हस्तत्र्यश्रौ ।

2. भ॰ प्यविकलम् ।

3. भ॰ एरचिन्तकमोपेण ।

4. भ॰ प्रविचलद ।

[page 193]




[NZ]

तदेव च पुनर्वस्तु 1नृत्तेनापि प्रदर्शयेत् । BhNZ_04_295ab
यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते2 BhNZ_04_295cd
आसारितविधौ 3स स्याद्गीतानां 4वस्तुकेष्वपि । BhNZ_04_296ab
5एवं वस्तुनिबन्धा6नां गीतकानां विधिः स्मृतः ॥ BhNZ_04_296cd
7शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । BhNZ_04_297ab
य एव 8वस्तुकविधिर्नृत्ताभिनयवादिते ॥ BhNZ_04_297cd
9तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । BhNZ_04_298ab
वाद्यं गुर्वक्षरकृतं 10तथाल्पाक्षरमेव च ॥ BhNZ_04_298cd
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । BhNZ_04_299ab
यदा 11गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ BhNZ_04_299cd
[ABh]

यत्र । तादृगवतरणात्का(णं का)र्यं सर्वभाण्डवाद्याद्या(1)विर्भावम् । प्रथममितियादावित्यर्थः । वस्त्वेव वस्तुकम् । त(2)त्सर्वमादावभिनेयं पुनर्नृत्तेन योज्यम् ॥ (294)
कथमित्याह -- यो विधिरिति । आसारितविधौ यः प्रकारः स एवात्र प्रकारः । यथासारितेष्व(षु) सङ्ख्यानियमो नर्तकीवृद्ध्या नृत्तप्रयोगः । पूर्वं चैकाकिन्याभिनयः । नृत्ते च भाण्डवाद्यादिप्रयोगः । तथात्रापि । तेन वस्तुसङ्ख्यां (सङ्ख्यया) नर्तक्य इहेति मन्तव्यम् ।
एतदुपसंहरन्नन्यदुपक्रमते -- एवं वस्तुनिबन्धानामित्यादि । वादिते च विशुद्धकरणायामित्यादि योजयेत् । तदेवाङ्गनिबन्धेषु योजयेत् । तथा सर्वशेषभूतेषु स्वतन्त्रेषु छन्दकेष्वपि ॥ (297)
विशेषं तु दर्शयति -- वाद्यमिति । घिंघिं ढन् त्रन् इत्यादीनि रूपाणि गुरूण्यापि कदाचित्प्रयत्नशीघ्रतया ताले प्रयुक्तानि बहूनि भवन्ति । यथोत्साहच्छटादौ त्थीत्थीत्थन् धृत् दत्थकुदहिं -- एषैका कला । अत आह -- अल्पाक्षरमये ऽपि च भवत्य(3)र्धादौ वाद्ययोजनात्कला(4)र्धादेश्च शून्यत्वात् । तथा चञ्चत्पुटे प्रथमकलायां (5)हिविटा ? एव । तत्परि

[(मू)]

1. न॰ ब॰ नृत्तेनाभि ।

2. प॰ब॰ वादितैः ।

3. न॰ सम्यग्गीतानाम् ।

4. ड॰ वास्तुतेष्वपि । न॰ वास्तुकेष्वपि ।

5. ड॰ म॰ एष वस्तु ।

6. ब॰ त॰ निबद्धानाम् ।

7. ड॰ म॰ शृणुताङ्गानि स्पर्धानाम् ।

8. म॰ य एव वास्तुक । ब॰ एष कार्यो विधिर्नित्यम् ।

9. ड॰ म॰ स सर्व एव कर्तव्यश्छन्दकेषु प्रयोक्तृभिः ।

10. ड॰ म॰ तथावाक्षर ।

11. ब॰ म॰ त॰ गीत ।

[(व्या)]

1. भ॰ द्यान्तर्भा ।

2. भ॰ तच्च सर्व ।

3. म॰ त्यर्थादौ ।

4. म॰ लार्थादे ।

5. म॰ हविटा । भ॰ रहाविटा ।

[page 194]




[NZ]

1तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । BhNZ_04_300ab
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ BhNZ_04_300cd
[ABh]

हारार्थमाह -- वर्णानां गुरूणां विशेषेणाणुपर्यन्तं त्रिमात्रचतुर्मात्रतया प्रकृष्टं तद्वाद्यं कर्तव्यम् । मुखनाम्न्युपवहसंज्ञके वाङ्गे वस्तुनिबन्धेष्वुपोहने ऽङ्गे ऽयं वाद्यविधिः । अङ्गाल्पत्वात्तु तत्र नाङ्गनिबन्धव्यपदेशः ।
अथ वक्तव्यं सर्वशेषत्वेनाह -- यदा गीतिवशादङ्गमित्यादि । मुख्याङ्गानि यदा पुनः पुनरावर्तन्ते । कथम् । गीतेश्चतुर्विधाया मागध्या(1)दिकाया वशात्सामर्थ्यात् । वक्ष्यते हि ध्रुवाध्यायान्ते --
``अ(त्रिः) निवृत्त्या पदानां तु मागधी समुदाहृतः ।'' (ना॰ शा॰ 32-438)
इत्यादि । गीतवशादित्यपि पाठ एवामर्थः । गीतिं वा गीयमानं वा । तत्र विधिमिति । तालाध्याये वक्ष्यते --
``यथाक्षरं द्विसंख्यातं त्रिसंख्यातमथापि च ।'' (ना॰ शा॰ 31-103)
तत्रेति । निवर्तने । आद्यमिति । आद्य आवर्तः । शेषमित्यादि । आवर्तान्तराणि शुद्धनृत्तप्रयोज्यानि । तेन न केवलं वस्त्वङ्गादिसमाप्तौ नृत्तम् । यावन्मध्ये ऽपि कदाचित्परिवर्तेषु भवतीति दर्शनम् । यत्तु राहुलकेनेनोक्तमपौनरुक्त्येनाभिनयनं तदेवं विधमेव मन्तव्यम् ।
यत्तु अहं ``जळणिहिचुळुइ माइमा'' इत्यत्र, जलनिधुचुलुके मानितेन चोन्मीयत इत्यादि कैशिच्दुत्प्रेक्षितं तन्न सर्वत्र निर्वहतीत्यास्तां तावत् ॥ (300)
तत्र वाद्यविधिमाह । आवर्तमानगीतवशादङ्गं शाखाचारीप्रयोगात्मकं यदावर्तते तदा वाद्यप्रधान्येन नृत्तमिव वाद्यस्य यथासम्भवं वैचित्र्यं प्रदर्शनीयम् । पूर्वं हि तद्वैचित्र्यं काव्याथेन नियन्त्रितम् । अधुना तु सङ्कोचो ऽस्य नास्ति । तथा च लक्ष्ये प्रावेशिक्यां पात्रकृतसङ्कोचाद्यभावं मन्यमाना गीताचार्याः त्रितयप्रयोगमाहुः । एतच्च विचारयिष्यत इत्यास्तां तावत् ।
समपाणिरुपरि(2)पाणिरर्ध(रव)पाणिश्चेति (ना॰ शा॰ 31-329) त्रिधापाणिः तालः । तदभिव्यङ्ग्यत्वात् । सङ्गीतनृत्ताभ्यां सह या(वा)पूर्वं वेति त्रिधा । छन्दो ऽक्षरपदानां

[(मू)]

1. त॰पुस्तके पङ्क्तिद्वयं नास्ति ।

[(व्या)]

1. म॰ भ॰ मागन्ध्यादिकार्यव ।

2. म॰ रचक । रपर ।

[page 195]




[NZ]

त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । BhNZ_04_301ab
यथा लयस्तथा वाद्यं 1कर्तव्यमिह वादकैः ॥ BhNZ_04_301cd
[2ततं चानुगतं 3चापि ओघं च करणान्वितम्4 BhNZ_04_XXXab
स्थिरे5 तत्त्वं(तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ BhNZ_04_XXXcd
6भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । BhNZ_04_XXXab
छन्दोगीतकमासाद्य 7त्वङ्गानि परिवर्तयेत् ॥ BhNZ_04_XXXcd
एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । BhNZ_04_XXXab
यानि वस्तुनिबद्धानि तेषामन्ते 8ग्रहो भवेत् ॥ BhNZ_04_XXXcd
अङ्गानां तु 9परावृत्तावादावेव ग्रहो मतः ॥ डडड्॥ ] BhNZ_04_XXXab
[ABh]

साम्यं लयः । कलाकालान्तरकृतो द्रुतादिभेदस्त्रिविधः(ना॰ शा॰ 31-326) । एतच्च त्रैविध्यं यतिमार्गादिभेदस्याप्युपलक्षणम् ।
ननु प्रथम आवर्ते कीडृशं वाद्यमित्याशङ्क्याह -- यथा लय इति । प्रथमे (1)ह्यावर्ते काव्यार्थाभिनयवशादङ्गस्य य उचितो लयो द्रुतादिस्तदनुसार्येव वाद्यं कार्यम् । अन्ये तु यथातथाशब्दा(2)वविचार्यास्य पूर्वशेषत्वेनैव श्लोकार्थं गमयति -- यथा वाद्यं त्रिपाणिलयवैचित्र्ययुक्तं तथाङ्गस्य गीतस्य च लयः कार्य इति ॥ (301)
नचैवं तद्व्यतिक्रमणीयमिति सहेतुकं दर्शयति पादोनेन श्लोकेन -- एवमेष इति । हि यस्माद्देवस्य भगवतो महादेवस्य स्तुतिनिमित्तं परितोषणप्रयोजनमेतन्नृत्तमतो हेतोर्नियमादृष्टसम्पत्त्यै । एष एव गीतकासारितेषु तच्चैषु (तच्छेषेषु) च छन्दकेषु विधिः । पाणिका तु परिमितशरीरत्वात्स्वयं ताण्डवभाजनं न भवति । सा हि सुकुमारे पूर्वरङ्गे लास्यप्रधाने तत्सत्तावैदग्ध्यायोक्ताल्लास्यस्वरूपादेव निश्चीयते । अन्यथा पूर्वरङ्गोपयोगे प्रक्रान्ते तत्राध्याये लास्यस्य कोऽवसरः । वाद्याङ्गमात्रे तदनु(2)पयोगीति चेत् तत्र दशाङ्गस्य चेत्प्रयोज्यता तद(दा)तिप्रसङ्गः । स च निषेत्स्यते । तदप्रयोगे कृतानि(4) गेयपदानीति न मिन्मः । तालाध्याये

[(मू)]

1. न॰ म॰ त॰ ड॰ कर्तव्यं त्वङ्गसंश्रयम् ।

2. ब॰ इतः पङ्क्तयः पञ्च न सन्ति । व्याख्यापि सप्तपङ्क्तीनां न दृश्यते ।

3. न॰ त॰ तत्त्वं चानुगतं चैव ।

4. त॰ ओघश्च करणान्वितः ।

5. त॰ स्थाने ।

6. न॰ म॰ द्रुते चौघः । त॰ भूते चौघः ।

7. न॰ त॰ त्वङ्गानां परिर्तने ।

8. ड॰ म॰ त॰ गृहो ।

9. ड॰ म॰ परावृत्ता पादावत्र । प॰ ब॰ परावृत्या वादावेव ग्रहो भवेत् ।

[(व्या)]

1. म॰ भ॰ परावर्ते काव्याभि ।

2. भ॰ ब्दौ विचा ।

3. म॰ तदुप ।

4. म॰ तु तानि ।

[page 196]




[NZ]

एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि1 BhNZ_04_302ab
देवस्तुत्याश्रयं ह्येतत् सुकुमारं निबोधत ॥ BhNZ_04_302cd
स्त्रीपुंसयोस्तु संलापो यस्तु2 कामसमुद्भवः । BhNZ_04_303ab
तज्ज्ञेयं सुकुमारं3 हि शृङ्गाररससम्भवम् ॥ BhNZ_04_303cd
[ABh]

चैतद्भविष्यति । गीतकादिशेषत्वे तु छन्दकसङ्गृहीतैवेति नात्रोक्ता । गीतकं च स्वतन्त्रे ऽप्यासारिते भवति । ताण्डवप्रयोगस्तु यदा त्वेष पिण्डीबन्धैर्विकल्प्यते प्रत्येकमङ्गविन्यासस्तदा तेषां पृथक्पृथग्गति त ... ... दोतातिदेशेनासारितेष्वप्येवमेव । मुख्यान्यङ्गचतुष्टयविभागेन नर्तकीक्रमप्रवेशादिप्रयोगः । एतदर्थमेव वर्धमाने ऽप्युक्ते पुनरासारितसङ्कीर्तनम् । परपूर्वरङ्गे चापिशब्दात्तत्सङ्ग्रहो व्याख्येयः ।
``सर्वेषामेव गीतानामन्ते(1)'' इत्युपक्रम्य
``चतुष्पदा तथैकाङ्गा ... ... युग्मौ यौ वा प्रमाणतः ।''
``तथा शृङ्गारभूयिष्ठा'' ``त्रिलया वा'' (ना॰ शा॰ 31-293)
इति निरूप्य दशाङ्गं लास्यं तालाध्याये (ना॰ शा॰ 31) निरूपयिष्यते । मुनेश्चतुष्पदान्तर्भूतं लास्यगानमित्यादि भूयो भविष्यत ए(त्ये)व । विशाखिलादिप्रणीतं लास्यगानान्तरं मुनिनाभिहितचतुष्पद एव सङ्गृहीतत्वात् । सा चतुष्पादा गीतकानामन्ते पाणिकान्ते वा प्रयोज्येति दर्शितम् । तदभिप्रायेणोपक्रममाह -- सुकुमारं निबोधतेति । तुशब्द उत्तरतो ऽपेक्षणीयः सुकुमारं त्विति । एवो(वमु)क्तरञ्जकताविधिं निजयोहापोहधिया कल्पयति । तत्रापि ह्यङ्गवृद्ध्या नर्तकीवृद्धिरित्यादि सर्वमुन्नेयमित्यर्थः ॥ (302)
ननु किं तत्सुकुमारमित्याह -- स्त्रीपुंसयोस्त्विति । एकस्तुशब्दः पूर्वत्र नीतः । द्वितीयः सुकुमारकं विशेषयति । तदेव हि सुकुमारं न तु करुणहास्यादिमयम् । किं तदित्याह । स्त्रीपुंसयोर्यः कामः । स्त्रियाः पुरुषस्य कामना । पुंसो वा स्त्रियाः । तस्मात्कविहृदयस्थिताद्विवक्षाक्रमेण समुद्भवो यस्य लापस्य काव्यव्यु(त्पादकवा)क्यस्य तत्सुकुमारम् । तत एव परस्परहेतुकत्वं भवति । अत एवाह -- शृङ्गाररसस्य परस्परहेतुकत्वे संभवमात्रमयोगव्यवच्छेदनं यत्र । तेन तदवस्थामात्रोपनिबन्धो ऽपि डोम्बिकादिकविरुद्गोष्टितादौ चावगन्तव्योत्साहादौ शृङ्गाररसस्याव्यापत्तिबन्धः । परमेवरे हि तपस्यति(न्ती) भगवती

[(मू)]

1. ड॰ म॰ त॰ सारितेषु च ।

2. च॰ यत्र ।

3. ड॰ म॰ स्वकृतारम्भि ।

[(व्या)]

1. काव्यमालापुस्तके ऽधिकपाठः ।

[page 197]




[NZ]

यस्यां यस्यामवस्थायां 1नृत्तं योज्यं प्रयोक्तृभिः । BhNZ_04_304ab
2तत्सर्वं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ BhNZ_04_304cd
अङ्गवस्तुनिवृत्तौ3 तु तथा वर्णनिवृत्तिषु । BhNZ_04_305ab
तथा चाभ्युदयस्थाने 4नृत्तं तज्ज्ञः प्रयोजयेत् ॥ BhNZ_04_305cd
5यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । BhNZ_04_306ab
6नृत्तं तत्र प्रयोक्तव्यं 7प्रहर्षार्थगुणोद्भवम् ॥ BhNZ_04_306cd
[ABh]

तदेकहृदया बभूवेति तावति परस्परार्था(नु)बन्धात्मकरत्यभावे कामावस्थामात्रकम् । परतस्त्वर्धशरीराक्रमणादौ शृङ्गार इत्येवं परमेश्वरचरिते सुकुमारस्य वि(द्वि)शाखत्वेनाप्रसरात्तस्यैवाद्यापि पक्षे स्थितिः । करुणादिर्भगवति न सम्भवति । नापि तत्तत्र समुचितमिति न तत्सुकुमारम् ।
यत्तु राघवविजयादौ भी(सी)तामूर्च्छादिव्यावर्णनान्तं ताण्डवम् । न च तत्र तारचि(तादृशे)तत्सुकुमाराङ्गहारात्मकनृत्तयोजना । अपि तु गीतकार्थभावनान्यायेन `रौद्रस्य चैव यत्कर्म स करुण' इति प्रसक्त्या तत्र तथाविधाभिनययोग इत्यलं बहुना ॥ (303)
वक्तव्यशेषमाह -- यस्यां यस्यामित्यादि । सुकुमारं यत्काव्यं तदाश्रितं गानमपि तथा अन्तर्लग्नं नृत्तमपि । तत्र यदुक्तं --
`तदेव हि पुनर्वस्तु' (ना॰ शा॰ 4-295) इति तथा ``यदा गीतिवशादङ्गम्'' (ना॰ शा॰ 4-299) इति नृत्तयोजनं तु तदनुवादपूर्वकं नियम इति ॥ (304)
अङ्गवस्तुनिवृत्तौ त्विति । तुर्भिन्नक्रमो ऽवधारणे । वर्णानां स्थाय्यादीनां गीतक्रियाविस्ताररूपाणां निवृत्तिर्यथा परान्तकादौ । प्रतिशाखायां यद्वक्ष्यते -- ``प्रतिशाखाद्यपि च'' इति तेनाङ्गवस्तुवर्णापरावर्तेषु यत्तथाभूतेनैव वाद्यादिवैचित्र्यप्रकारेण नृत्तमुक्तं तदध्यायाभ्युदयस्थानभेदभावज्ञो नृत्ताचार्यः प्रयोजयेत् ॥ (305)
तदनु(तदु)दाहरति -- यत्तु संदृशत इति । यत्काव्यम(1)खण्डं दम्पत्योः स्त्रीपुंसयोः कामकृतं (2)वाच्यत्वेन श्रूयते, अन्यच्च प्रहर्षप्रयोजनो यो गुणः आस्थाबन्धो वचनं

[(मू)]

1. च॰ नृत्यम् ।

2. ड॰ म॰ सर्वगीतकसंबन्धं तच्च ।

3 , ड॰ म॰ त॰ निवृत्तौ च ।

4. प॰ मृत्यम् ।

5. ड॰ ब॰ म॰ त॰ यत्र संदृश्यते ।

6. च॰ नृत्यं तत्र । ड॰ म॰ तत्र नृत्तम् ।

7. ड॰ ब॰ पुरुषार्थ ।

[(व्या)]

1. भ॰ यत्काव्यखण्डम् ।

2. म॰ भ॰ कृतवाच्य ।

[page 198]




[NZ]

यत्र सन्निहिते कान्ते 1ऋतुकालादिदर्शनम् । BhNZ_04_307ab
गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ BhNZ_04_307cd
खण्डिता विप्रलब्धा वा कलहान्तरितापि वा । BhNZ_04_308ab
यस्मिन्नङ्गे2 तु युवतिर्न3 नृत्तं तत्र योजयेत् ॥ BhNZ_04_308cd
सखीप्रवृत्ते संलापे तथासन्निहिते प्रिये । BhNZ_04_309ab
नहि नृत्तं प्रयोक्तव्यं यस्या वा प्रोषितः प्रियः ॥ BhNZ_04_309cd
[ABh]

दूतीवचनाकर्णनादिरंशस्तदुद्भवं तदारम्भं तत्र नृत्तं योज्यमिति कामावस्थासु मन्तव्यम् । शृङ्गारे ऽप्यनेन (1) वासकसज्जाभिसारिकाविषयनृत्तमुक्तम् ॥ (306)
स्वाधीनभर्तृकाविषयमाह -- यत्र सन्निहित इति । यस्मिन्नङ्गे गीतकस्य गीयमानस्य काव्यस्यार्थत्वेन वाच्यत्वेन संबन्धः । कान्तसन्निधाने ऋतोर्वसन्तादेः(2) कालस्य चन्द्रोदयादेरस्वलोकं(कनं) भवति तत्र नृत्तम् ॥ (307)
नियमफलं दर्शयितुमाह -- खण्डितेत्यादि ।
``व्यासङ्गादुचिते यस्या वासके नागतः प्रियः ।
सा खण्डिता'' (ना॰ शा॰ 22-209)
``यस्या दूतीं प्रियः प्रेष्य दत्त्वा सङ्केतमेव च ।
नागतः कारणेनेह विप्रलब्धा तु सा ।'' (ना॰ शा॰ 22-210)
``ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः ।
सानुतापवशप्राप्ता कलहान्तरिता ।'' (ना॰ शा॰ 22-208)
अङ्ग इति । तदाधारभूते काव्यखण्डे । किमित्येव न नृत्तमित्याशङ्क्याह -- सखीप्रवृत्त इति । तथा असन्निहिते प्रिये (3)यद्विषयकसल्लापतत्समागमोपायपर्यालोचनादिरूपवृत्त(वृत्तान्त)स्तत्रापि न नृत्तं योज्यम् । अनेन विरहोत्कण्ठिता लक्षिता । वासकसज्जा प्रियानागमने तथोक्ता । खण्डिता ज्ञाततदी(4)यव्यलीकेति विशेषः । यस्या वा प्रोषितः प्रिय इति । प्रोषितभर्तृकावस्थास्वपि यदा प्रियो ऽसन् खि(ख)लो वेति हृदये(य)निहितो वेति तदा(न)नृत्तम् । तत्र हि कारणान्तरमेव परिसमाप्तिः । तथा विधेय(यं)

(मूल)

1. ड॰ ब॰ त॰ ऋतुकालाभि । न॰ ऋटुमाल्याभि ।

2. ब॰ यस्मिन् रङ्गे ।

3. ड॰ म॰ त॰ युवतिर्नृत्तं तत्र प्रयोजयेत् ।

[(व्या)]

1. म॰ रोप्यनेन न वास ।

2. म॰ तोर्वासकसज्जादेः ।

3. भ॰ सखीविष ।

4. म॰ दिन्द्रिय ।

[page 199]




[NZ]

[1दूत्याश्रयं यदा तु2 स्यादृतुकालादि3दर्शनम् । BhNZ_04_XXXab
4औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ॥ ] BhNZ_04_XXXcd
यस्मिन्नङ्गे 5प्रसादं तु गृह्णीयान्नायिका क्रमात् । BhNZ_04_310ab
ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु6 योजयेत् ॥ BhNZ_04_310cd
[ABh]

यथा क्षरत्वात्तत्र तदेवाश्रयणीयम् । न तु द्विसङ्ख्यातं त्रिसङ्ख्यातं वेत्युक्तं भवति । व्यतिरेकलब्धे ऽप्यु(1)दाहरणे प्रदर्शितो ऽप्यर्थो नृत्तस्येह प्राधान्येनाभीष्टत्वान्न स्वेन कण्ठेनोच्यते ॥ (309)
यस्मिन्नङ्ग इति । प्रसादमिति । प्रसन्नहृदयत्वं येन प्रकारेण युवतिर्लभेतेति । तेन (न) खण्डिताविषयमेवैतदपि तु सर्वविषयं मन्तव्यम् । ततःप्रभृति शेषेष्वङ्गेष्वित्यस्यायं भावः । लब्धास्थाबन्धा यदि(दा) भवति तद्वति (यदि) प्रियो ऽसन्निहितो भवति तदा नृत्तं योज्यमेव । एतस्मिन्प्रकरणे नाट्यगतानि नाटकोदाहरणानि कैश्चिद्दत्तानि तान्ययुक्तानीति मन्तव्यम् ।
खण्डितादयो नायिका यत्र साक्षात्क्रियन्ते तत्र वलनावर्तनादिरूपनृत्तं न योज्यमिति यदुच्यते तदनवकाशमेव । तथाहि --
``चिन्तानिश्वासखेदेन हृद्दाहाभिनयेन च ।
सखीभिः सह संलापैरात्मावस्थावलोकनैः ॥
ग्लानिदैन्याश्रुपातैश्च रोषस्याभिनयेन च ।
निर्भूषणामृजात्वेन दुःखेन रुदितेन च ॥
खण्डिता विप्रलब्धा च कलहान्तरितापि च ।
तथा प्रोषितनाथा च भावानेतान्प्रयोजयेत् ॥'' (ना॰ शा॰ 22-214-216)
इति सामान्याभिनये वक्ष्यते ।
``विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते ।
ग्लाने सुप्ते विहस्ते च निश्चेष्टे तन्द्रिते तथा ॥
मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ।
व्याधिते(2) रुग्ज्वरार्ते च भयार्ते शी(3)तविप्लुते ॥
न ह(4)स्ताभिनयः कार्यः कार्यः सत्त्वसमाश्रयः ।'' (ना॰ शा॰ 9-176-178)

[(मू)]

1. अयं श्लोकः `ब॰'पुस्तके व्याख्यायामपि न दृश्यते ।

2. च॰ त॰ यदा च ।

3. न॰ त॰ कालाभि ।

4. प॰ त॰ औत्सुक्यचिन्तासंबद्धं नृत्तं तत्र प्रयोजयेत् । म॰ सम्बन्धान्नृत्तं तत्र प्रयोजयेत् ।

5. ड॰ म॰ प्रयोगम् ।

6. प॰ शेषेष्वर्थेषु ।

[(व्या)]

1. म॰ व्यतिरेकबुद्धो व्यु ।

2. व्याधिग्रस्ते ज्वरार्ते ।

3. म॰ गीत ।

4. म॰ वस्ता ।

[page 200]




[NZ]

देवस्तुत्याश्रयकृ1तं यदङ्गं तु भवेदथ2 BhNZ_04_311ab
माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥ BhNZ_04_311cd
यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । BhNZ_04_312ab
5देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ BhNZ_04_312cd
चतुष्पदा नर्कुटके खञ्जके 6परिगीतके । BhNZ_04_313ab
विधानं 7सम्प्रवक्ष्यामि 8भाण्डवाद्यविधिं प्रति ॥ BhNZ_04_313cd
खञ्जनर्कुटसंयुक्ता भवेद्या तु चतुष्पदा । BhNZ_04_314ab
पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ BhNZ_04_314cd
[ABh]

इत्याङ्गिकाभिनये वक्ष्यति ।
तदेवं स्थिते हस्ताभिनयस्यैवात्रावकाशो नास्तीति कस्तत्र तत्संमेलनात्मनो वलनावर्तनादेराशङ्कावकाशो (1)यन्निषेधो ऽत्र वचनीयः स्यात् । न चेह प्रकृतमित्यास्ताम् । एकं(वं) गीतकादेरन्ते च्छन्दकं पाणिकायास्तु लास्यगानस्वीकारिणी चतुष्पदा प्रयोज्या । इयता गीतकादि पूर्ण प्रयुक्तम् । एतदर्थमेव ``वीक्ष्य शङ्करम् । सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् ।'' (ना॰ शा॰ 4-249) इत्युपक्रमात्प्रभृति वि(द्वि)शाखत्वेनैव नृत्तस्वरूपमुपदर्शितम् ॥ (310)
तदत्र द्विविधे नृत्तविभागमाह श्लोकत्रयेण । देवस्तुत्याश्रयमिति । यदङ्गमिति । छन्दकसम्बन्धि । उद्धतैरिति । विद्युद्भ्रान्तगरुडप्लुतकादिप्रधानैः । अत्र हेतुर्यतस्ते महेश्वरप्रयुक्ताः । यत् द्वितीयचतुष्पदासंबन्धि । ललितैरिति । तलपुष्पपुटलीननितम्बाद्यारब्धैः । अत्र हेतुः यतस्ते देवीकृताः ॥ (312)
एवं नृट्तविधिश्चतुष्पादायां सला(2)स्यगानस्वीकारिण्यामुक्तः । अधुना भाण्डविधिर्वक्तव्यः । तत्र चतुर्भिः पादैर्ध्रुवा क्रियते । ते च पादाः शुष्काक्षरैर्झ(र्ल्ला)ण्टुमादिभिः(दिग्ल इत्यादिभिर्वा) । यत्र वक्ष्यते --
``आसनेषूपविष्टैर्यत्तन्त्रीगानसमन्वितम् ।
गायनैर्गीर्यते शुष्कं तद्गेयपदमुच्यते ॥'' (का॰ मा॰ ना॰ शा॰ 18-185)

[(मू)]

1. ड॰ म॰ गतम् ।

2. ड॰ म॰ भवेदिह ।

3. ड॰ हारैरुद्यतैः ।

4. म॰ यत्र ।

5. म॰ देवैः ।

6. न॰ परितातके । म॰ प॰ परिधानके ।

7. अ॰ अस्ंप्रयुञ्जामि ।

8. म॰ भाण्डनृत्त । ब॰ भाण्डनृत्य । अ॰ नाट्ये भाण्ड ।

[(व्या)]

1. म॰ यं नि ।

2. भ॰ सकलास्य ।

[page 201]




[NZ]

या ध्रुवा छन्दसा युक्ता समपादा समाक्षरा । BhNZ_04_315ab
तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥ BhNZ_04_315cd
कृत्वैकं 1परिवर्तं तु 2गानस्याभिनयस्य3 च । BhNZ_04_316ab
पुनः पादनिवृ4त्तिं तु 5भाण्डवाद्येन योजयेत् ॥ BhNZ_04_316cd
[ABh]

इति सार्थकपदैर्वा । तत्रापि वर्णवृत्तकृता वा पादा मात्रावृत्तकृता वा । समा अर्धसमा विषमा वा । ते च प्राधान्येन खञ्जनर्कुटकवृत्तैर्योज्यन्ते । यद्वक्ष्यते ध्रुवाध्याये
``अष्टौ नर्कुटकानां तु । तिस्रः खञ्जकजातयः ।'' (का॰ मा॰ ना॰ शा॰ 32-280;् 301)
इत्युपक्रम्य
``आभ्यो विनिस्सृताश्चान्या युग्मौजा विषमास्तथा ।'' इति (ना॰ शा॰ 32-308)
एतद्विषयं भाण्डवाद्योपक्रमं करोति । चतुष्पदा नर्कुटक इति । चतुष्पदापि सन्निधानाच्चतुष्पदायां(1) परिगीतमपि ध्रुवाध्याये त्रिवृत्तकं यदि वा शुष्कगीतं तत्रैव । तदेतेषु त्रिषु प्रकारेषु भाण्डवाद्यस्य पुष्करवाद्यस्य विधिं वक्ष्यामि ।
खञ्जकजात्या नर्कुटकजात्या वा या चतुष्पदा ध्रुवा क्रियते ऽस्यां प्रथमपादस्य यावदुपा(न्त्य) (कला) तावच्च श्री(2)वंशान्वितं गानम् । अन्ये(अन्या) तु या सन्निपाताख्या हस्तद्वयसमायोगशब्दपरिच्छेद्या कला तद्गानसमये भाण्डवाद्यमारम्भणीयम् । येषामर्ध(एषो ऽर्ध)समविषमो(म)वृत्तात्मकं(को) नर्कुटकखञ्जकजात्यारब्धायां चतुष्पदायां विधिः ॥ (314)
वर्णवृत्तसमवृत्तात्मतज्जात्यारब्धायां तु विधिमाह -- या ध्रुवेति । समपादा चतुष्पादा । तदयमर्थः -- या चतुष्पदा । छन्दसां युक्तेति । युक्ता जातिगतवर्णवृत्तयोजिता । समाक्षरेति । तज्जातिकसमवृत्तमयी । तस्याः प्रथमे पादे परिसमाप्ते द्वितीयपादे या प्रदेशिनी तर्जनी तदुपलक्षिता या चातीतकलमप्र(चात्र त्रिकलप्र)भृति भाण्डवाद्यंण् योज्यम् । तत्र युग्मेन मानेन यदा चतुष्पदा भवति -- यद्वक्ष्यते ``(3)युग्मौजा वा प्रमाणतः ।''(ना॰ शा॰ 31-293) इति त्रि(द्वि)कलश्च मार्गः तदा द्वितीयपादे सप्तमी । या निष्क्रामकला सा तर्जनीप्रयोज्यत्वात्तर्जनी । चतुष्कलमाने तु त्रयोदशी । आवापकालतर्जनी ।

[(मू)]

1. ड॰ ब॰ त॰ परिवृत्तम् ।

2. न॰ ब॰ नागस्याभि ।

3. प॰ म॰ नये पुनः । अ॰ नयेन तु ।

4. न॰ म॰ निवृत्तौ । अ॰ त॰ निवृत्तम् ।

5. द॰ म॰ भाण्डवाद्यम् । ब॰ भाण्डवाद्ये नि ।

[(व्या)]

1. भ॰ दायाः ।

2. भ॰ श्रीवङ्गान्वि ।

3. का॰ मा॰ अधिकपाठः ।

[page 202]




[NZ]

अङ्गवस्तुनिवृत्तौ1 तु वर्णान्तरनिवृत्तिषु । BhNZ_04_317ab
तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ BhNZ_04_317cd
ये ऽपि चान्तरमार्गास्स्युः2 तन्त्रीवाक्करणैः3 कृताः । BhNZ_04_318ab
तेषु सूची4 प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ BhNZ_04_318cd
[ABh]

यदा तु त्र्यश्रेण मानेन तदा द्विकले पञ्चमी । कनिष्ठ निष्क्रामकला तर्जनी । चतुष्कले तु नवमी । आवापकला तर्जनी ।
एतच्च तालाध्याये वक्ष्यते -- ``कनिष्ठाङ्गुलिनिष्क्रामः'' इत्याद्युपक्रम्य ``तर्जनीकृतो निष्क्रामः'' (ना॰ शा॰ 31-41, 42) इत्यादिना । दत्तिलाचार्येण तु संक्षिप्योक्तमेतत् --
``आद्यद्वितीयमध्यान्तात्पादभागाद्विदुः क्रमात् ।
कनिष्ठनामिकायुक्तो मध्यमादेशिनीकृतात् ॥
अयुग्ममध्यहीनः स्यात्(1)'' इति ।
एवं तर्जनीप्रयोज्यो(2) यो ऽसौ द्वितीयपादे कलापातः त(तस्त)त्र भाण्डग्रहस्तदुपलक्षितश्च नर्तकीप्रवेश इत्युक्तं भवति । अन्ये त्वाकाशग्रहासु निश्शब्दकलातो ग्रहं मन्यमानाः सन्निपातप्रकरणात्सशब्दात्पातादेव ग्रह इहेति वदन्तः प्रदेशिनीशब्देन तदुपलक्षितपादभागगमनं सशब्दमेव पादग्रहावधिके(3)नाचक्षते । पञ्चपाणिप्रपाता ये पुष्कराध्याये वक्ष्यन्ते तन्मध्यात्प्रदेशिनीपातेन भाण्डग्रह इति व्याख्यानं ``सन्निपातो ऽनुग्रहः'' इति प्रकरणेन तथा ध्रुवाध्याये वक्ष्यमाणेन ``चतुर्ग्रहा ध्रुवा'' इत्युपक्रम्य,
``सन्निपातग्रहाः काश्चित्तथाकाशग्रहाः पराः ।
प्रदेशिनीग्रहास्त्वन्यास्तथैवान्याः समग्रहाः ॥'' (ना॰ शा॰ 32-423)
इति विधिना विरुद्धमित्युपेक्षितं लक्ष्यवेदिभिः ॥ (315)
नन्वेवं नर्तकी प्रविष्टा ततः प्रभृत्यभिनयं तावत्करोति । यस्त्वसावाद्यः पादस्ततो ऽधिको ऽपि वा भागस्तत्र नर्तकी नैव प्रविष्टेति वा(का) तत्र वार्तेत्याशङ्क्याह -- कृत्वैकमिति । यो ऽसौ शुद्धविभागः पूर्वं गीतः स परावर्तनीयो भाण्डवाद्येन सहाभिनेतव्य इति

[(मू)]

1. प॰ म॰ त॰ अ॰ निवृत्तौ च ।

2. ड॰ ब॰ मार्गास्तु ।

3. ढ॰ ब॰ वाक्षारणैः । अ॰ वाक्चरणैः । त॰ वा करणैः ।

4. त॰ पूर्वा ।

[(व्या)]

1. भ॰ आयुङ्मध्य । म॰ मध्यविहीनः ।

2. म॰ ज्या यो ऽसौ ।

3. म॰ भ॰ तेना ।

[page 203]




[NZ]

महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् । BhNZ_04_319ab
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ BhNZ_04_319cd
[ABh]

पश्चादसौ प्रयोज्य इत्युक्तं भवति । पादग्रहणमुपलक्षणम् । तेन यावान्भागो भाण्डवाद्येन प्राङ्नियोजितो ऽत एव नाभिनीतस्तावतो निवृत्तिः परावर्तनं कार्यमित्युक्तं भवति ॥ (316)
अथात्र चतुष्पादायां भाण्डवाद्यविशेषाभिधानव्याजेन नृत्तस्थानं दर्शयति -- अङ्गवस्तुनिवृत्तौ त्विति । तुर्भिन्नक्रमो अवधारणे । अङ्गस्यैकस्य वा वस्तुनो वा सर्वस्य ध्रुवाशरीरस्य स्थाय्यादिविशेषस्य वा प्रतिशाखान्यायेन तत्परावर्तनं यच्चोपस्थानमोहना(पस्थापना)त्मकं(1) तेषु प्रकर्षेण भाण्डवाद्यं वैचित्र्ययुक्तं योजयेत् । तद्वशाच्च तत्र नृत्ताङ्गहारयोजनां कुर्यादित्यर्थः ॥ (317)
अथ शुष्काक्षरायाश्चतुष्पादाया विधिर्वक्तव्यः । सा च पूर्वमेव प्रयुज्यते ``आसनेषूपविष्टेषु'' इत्युक्तत्वात् । अत एव गेये गातव्ये काव्ये पदमवगमयन्त इति तत्पीठबन्धरूपत्वं तस्याः । तथा चान्यत्वे (2)षिद्गकेषु गातव्यात्पूर्वं तावतीति नाका(रे ?) । अत एव गेये ध्रुवागीतं गेयं गातव्यमिति ह्येको ऽर्थः । तं विधिमाह -- ये ऽपि चान्तरमार्गा इति । अन्तरं परस्परवैलक्षण्यं मा(3)न्यते (मृग्यते) येनोपायेन सो ऽन्तरमार्गः । संवाद्यनुवादिन्या(4) स स्वर उपलक्षणात्मको ऽर्थप्राधान्याभावाच्च तेनैव व्यपदेशः । अत एवाह तन्त्रीक्रियया वाक्क्रियया । तदे(ए)व निरर्थकतया योजितास्तेषु समग्रहत्वेनैव भाव(ण्ड)प्रयोगः । नर्तक्या रचहाद्वि(रचनाद्धि)लास्याङ्गगतकाव्यार्थानुसारिहस्ताभिनयशून्यः सात्त्विकाङ्गवलनादिमात्रेण सूच्याभिनयः । यद्वक्ष्यति --
``वाक्यार्थो वाक्यवस्त्वङ्गैर्योज्यते यदा पूर्वम् ।'' इति । पश्चाद्वाचाभिनय इत्ययं त्वङ्ग इहोपलक्ष्यः । एतच्च गातव्यप्रयोगे त्रिप्रकारकृततावन्मात्रतालगानसूच्याभिनयनमद्यापि दृश्यते ।
एवं वर्धमानकप्रयोगो गीतकप्रयोगो वा छन्दकप्रयोगेन चतुष्पदाप्रयोगेन च सहेतुकः परिपूर्णो भवति । अत एव तालाध्याय इत्यु(एतदु)पक्रमानुसारेणैव वर्धमानासारितकगीतकच्छन्दकचतुष्पदा तदन्तर्भूतलास्यगानस्य(5) विधेः क्रमेण निरूपणं भविष्यतीतीयता

[(मू)]

[(व्या)]

1. भ॰ स्थानमोहात्म ।

2. म॰ भ॰ षिदिभिशितेषु ।

3. भ॰ मन्यन्ते ।

4. म॰ भ॰ सम्पाद्यवादित्या सस्वरा ।

5. म॰ भ॰ नसविधेः ।

[page 204]




[NZ]

एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य 1प्रयोगतः । BhNZ_04_320ab
भूयः किं 2कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ BhNZ_04_320cd


इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थो ऽध्यायः ॥
[ABh]

``गीतानां मद्रकादीनाम्'' (ना॰ शा॰ 5-13) इति पूर्वरङ्गाध्याये श्लोको भविष्यति । तस्याथः पुरस्तादेव निर्णीतः । तेन तदपसारेणैतदप्यालोच्योदीरितो ऽयमर्थो ऽनुष्ठेयः ॥ (318)
नन्वत्र पूर्वरङ्गगतप्रधानफलेनैव किं फलवत्ता उत फलान्तरमप्यस्तीत्याशङ्क्याह -- (महेश्वरस्येति) । पृथक्फलवत्त्वं च दर्शयन् स्वातन्त्र्येण प्रयोज्यमिदमिति दर्शयति -- महेश्वरस्येति । चरितमिति चेष्टितम् । प्रयोजयेदिति स्वार्थे हेतुमति च तन्त्रेण णिचि । तेन प्रयोक्तुं(क्तुः) प्रेक्षाप्रवर्तयितुश्चार्थपतेः सामाजिकवर्गस्य च पापविशुद्धिः शिवलोकगतमनन्तफलं नृत्तस्येति नान्य(ठ्य)दृष्टैकप्रयोजनाद्भिन्नप्रयोजनत्वमुक्तम् । स्वातन्त्र्येण प्रयोगे च छन्दकानां चतुष्पादायाश्च केवलत्वेनापि प्रयोगो ह्यनुज्ञातो भवति । तदङ्गानां च पुनः ``पुष्पाञ्जलिधरा भूत्वा'' इत्याद्यनुसारेण वर्णानां लोके प्रयोगः । ``तस्याः पादावसाने तु'' इत्याद्यनुसारेण धारापरिक्रमादेः ``यदा गीतवशात्'' (ना॰ शा॰ 4-300) इत्यनुसारेण द्विगुणाद्यर्थ(1)गुणावयवारणकगुञ्जियकादेश्चतुरपसारकादिविधा च डोम्बिकादिषु क्रमेण नर्तकीवृद्धिराचार्यैराधेया(?) । तालानुसारेण च `त्रिपाणिलयसंयुक्तम्' इत्याद्यनुसारेण धारापरिक्रमादेः लयपरिष्वङ्कितलयतालपरिक्रमादेः ॥ (319)
तदेतत्सर्वमीश्वरपरितोषकार्येवेति तथैतदुपसंहारपूर्वकमध्यायान्तरावकाशं करोति -- एवमेष इत्यादिना । एवं पूर्वोक्तेन प्रकारेण । प्रयोगत(2) इति । प्रयोगं नाट्यात्मकमपेक्ष्य ततो ऽन्यस्तद्विलक्षणो विधिः प्रकारो दृष्टः । तथा नाटकादिसा(दौ सा)माजिकवत्प्रयोक्तृतन्मयीभाववशेन नाट्यं संस्कारमपेक्ष्याभिनयादिविधिर्दृष्टो न तु साक्षात्कारकल्प्यनाट्यरूपतात्रास्ति । चतुर्विधाभिनययोगाभावाद्रसभावाप्राधान्याद्गीतवाद्यनृत्तानां यथेष्टं प्राधान्यं नर्तकीवृद्धेः । काव्ये वस्त्वपेक्षत्वान्नाट्यप्रस्तावनाप्राणप्रतिबिम्बात्मकता त्रिविधत्वान्मदमूर्च्छादौ तत्त्वापत्त्ययोगाद्गीतकादेश्च नियमादृष्टप्रयुक्तत्वाद्गीतादिप्राधान्येनैव प्रयोगात्कुलकाच्छेद्यात्मनः काव्यस्य गीत्याधारतानान्तरीयकत्वमात्रेण गमनापि(त्पि)ण्डीबन्धप्रकारे वैचित्र्यान्ते नृत्तमात्रविश्रान्तः प्रयोक्तृप्रवर्तयितृगा(मा)त्रदृष्टफलप्राधान्याच्च तद्विलक्षणं नाट्यं तद्वृत्तिर्भिद्यत इति एवं शब्दस्यार्थ इत्युपाध्यायमतम् ।

[(मू)]

1. ब॰ प्रयोक्तृभिः ।

2. म॰ कथ्यतां विप्रा नाट्ययोग ।

[(व्या)]

1. भ॰ गुणाद्यर्थगुणालका ।

2. प्रयोग इति ।

[page 205]




[NZ]

[ABh]

``रसभावदृष्टिहस्तशिर आद्यं यद्यङ्गं वापूर्णं वा कृ(कु)त एव नाट्यनृत्तयोर्भेदस्तुल्यानुकारत्वे'' इति हर्षवार्तिकम् । ``शिक्षार्हस्वेच्छान्यनृत्तकतिपयनाट्याङ्गकृतं नृत्तमभ्यासफलम्'' इति भट्टयन्त्रः । ``समयमात्रमित्यादिमङ्गलवद्विवाहादौ '' इति भट्टलोल्लटः । दशरूपकभेदवल्लास्यताण्डवप्रयोगो नाट्यभेद एव । तत्र पूर्णानुकाररूपत्वात् ।
तथाहि -- प्रवेशे ऽश्वत्थाम्नः सूचीविद्धोर्ध्वजान्वादि । पुरूरवसो ऽलपल्लवसूची । गरुडस्य गरुडप्लुतकम् । रावणस्य पुष्करो वैशाखरेचितकः । वत्सराजस्याग्निसम्भ्रमो ऽ(तिक्रा)न्तः । जटायुषो गृध्रावलीनकमेलकाक्रीडितं चेति ``चित्राभिनयेन बाल्ये(वान्ये)न करणप्रयोग एव । अभिनेयपदादीनां च नाट्ये ऽपि सक्ते(क्तते)'' ति नाट्यमेवेदमिति कीर्तिधराचार्यः ।
एतञ्च(वञ्च)स्वमतानुसारेण एवं शब्दार्थमाहुः । युक्तायुक्ततां तत्र परीक्षका एव विदुरित्यलं बहुना ।
प्रसङ्गाङ्ग(ग)तया नृत्ततया(वार्तया)प्रसक्तानुप्रसक्तत्वेन नृत्तगतमेवान्यत्किञ्चित्प्रसिद्धः(द्ध)प्रकृता(त)नाट्यगतानां (गतता (मा)विच्छेदीत्यभिप्रायेणाह -- नाट्येति । नाट्यमेव वेदस्तस्य यो विधिः प्रयोगस्तं प्रतीति शिवम् ॥ (320)
रविशशिहुतभुक्कल्पितनयनत्रयकि(1)रणदलिततिमिरततिः ।
अभिनवगुप्तस्ताण्डवविध्मेनं व्यवृणुत स्पष्टम् ॥
इति माहेश्वराचार्याभिनवगुप्तविरचितायामभिनवभारत्यां नाट्यशास्त्रविवृतौ ताण्डवविधानाध्यायश्चतुर्थः ॥

[(मू)]

[(व्या)]

1. म॰ चर । भ॰ नद्वरण ।

[page 206]




श्रीः
अथ पञ्चमो ऽध्यायः ।

[NZ]

भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम्1 BhNZ_05_001ab
पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः॥ BhNZ_05_001cd
यथा नाट्यस्य जन्मेदं2 जर्जरस्य च सम्भवः । BhNZ_05_002ab
विघ्नानां शमनं3 चैव दैवतानां च पूजनम् ॥ BhNZ_05_002cd
4तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । BhNZ_05_003ab
निखिलेन5 यथातत्त्वमिच्छामो वेदितुं पुनः ॥ BhNZ_05_003cd
पूर्वरङ्गं महातेजः6 सर्वलक्षणसंयुतम् । BhNZ_05_004ab
यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ BhNZ_05_004cd
[ABh]

संसारनाट्यनिर्माणे यावकाशविधानतः ।
पूर्वरङ्गायते व्योममूर्तिं तां शाङ्करीं नुमः ॥
अध्यायसङ्गतिं कर्तुं पुराकल्पेनोपक्रमते -- भरतस्येति । नाट्यसन्तानम् । नाट्यस्य सन्तानं नृत्तक(थ)या विच्छेदाशङ्कानिरासेनाविच्छेदः । नाट्ये पृष्टे दैववशात् महाफलं नृत्तमिति तद्विवेकेन ज्ञातम् । तज्ज्ञानाच्च तद्विविक्तं नाट्यमपि सुष्ठु ज्ञातम् । तदनुरक्तं च नाट्यं हृद(1)यावर्जकमिति हृष्टमानसत्वम् । स्वगत(त)त्त्वग्रहणधारणादिसामर्थ्यात्मकशिष्यसम्पद्दर्शनायां(नात्) गुरुप्रोत्साहनमित्यभिप्रायेणाहुः । त(य)थेति । पूजामध्य एव नृत्तं प्रविष्टमित्यध्यायचतुष्टयतात्पर्यं प्रत्यनुभाषितम् । ऊहापोहविज्ञानादिकमपि दर्शयति -- गृहीत्वेति । चकारात् धारयित्वावधारितं निश्चितम् । निखिलेन साकल्येनेति ।

[(मू)]

1. द॰ अ॰ लक्षणम् ।

2. अ॰ ड॰ म॰ वै जन्म ।

3. ड. भ॰ गमनम् । प॰ शामनम् ।

4. ड॰ म॰ त्वत्तः श्रुतं गृहीतं च । अ॰ तन्नः श्रुतम् ।

5. घ॰ निखिलं तु ।

6. ज॰ महातेजाः ।

[(व्या)]

1. म॰ भ॰ हृदामज्जान ।

[page 207]




[NZ]

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । BhNZ_05_005ab
प्रत्युवाच पुनर्वाक्यं1 पूर्वरङ्गविधिं प्रति ॥ BhNZ_05_005cd
पूर्वरङ्गं महाभागा 2गदतो मे निबोधत । BhNZ_05_006ab
पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ BhNZ_05_006cd
[ABh]

यथातत्त्वमिति तत्त्वादिनिवेशनम् । आहुः पूर्वरङ्गं वेदितुमिच्छाम इति जिज्ञासा दर्शिता । यथा सर्वलक्षणसंयुक्तं बुध्यामहे तथा व्याचक्ष्वेति व्याख्याप्रकारविषये(1) ऽप्याचार्यान्वेषणम् । महत्तेजो ज्ञानात्मकमस्य तत् । आमन्त्रणं गुरुप्रोत्साहनार्थम् ।
``पूर्वरङ्गे कृते पूर्वं तत्रायं द्विजसत्तमाः ॥''(ना॰ शा॰ 4-10)
इति जिज्ञासादर्शनपूर्वप्रयोज्यतया तथैव जिज्ञासा जाता ।
``पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयुज्यताम् ॥'' (ना॰ शा॰ 4-14) इति ।
``यस्त्वयं पूर्वरङ्गस्तु त्वया शुद्धः ।''(ना॰ शा॰ 4-15) इति परमेश्वरादरवचनेन सुष्ठुतरां द्रढीकृता । तथैव तावदवश्योपासनीयेति तात्पर्यम् । (ना॰ शा॰ 1-5) । गदत इति शब्दमात्रेण तावन्निरूपयत इत्यर्थः । आश्रावणादिस्वरूपं हि गेयाधिकारे (ना॰ शा॰ 29) सम्यक् निर्णेष्यते । अनादरे षष्ठी । (2)निगदन्तमनादृत्य स्वबुद्ध्या बुद्ध्यध्वम् । यद्यपि मयात्र (3)क्रमेण नैतदुक्तं गेयाधिकारस्यापि सुदूरत्वात् । तथापि `यस्य येनार्थसम्बन्ध' इत्यर्थक्रम आदार्तव्यो न शाब्द इति (4)गदनक्रमानादरणं गदितरि सङ्क्रमय्योक्तम् ।
तत्र पूर्वरङ्गशब्दं निरुक्त्या तावद्व्याचष्टे -- पादभागा इत्यादिना । इह बहिर्यवनिकाङ्गान्येव पूर्वरङ्गः । तानि च गीतकानीत्युत्थापनानि ध्रुवारूपाणि । तत् द्विकलचञ्चत्पुटचाचपुटतालेन विशिष्टगतिगतेनेति तदेव पूर्वरङ्ग इति तावत्तात्पर्यम् । तत्र मात्रायाः यः षोडशो भागः तदारब्धा मात्रा । तदारब्धं वस्तु । एवं वस्तुनिबन्धेषु गीयमानं तावत्स्वीकृतम् । भागश्च द्विकलचतुष्कलयोर्मार्गस्य चञ्चत्पुटादीनां सङ्गाद्भवति । यथाक्षरेषु तु चञ्चत्पुटादिषु कलादिभागलग्ना इति यथाक्षरमार्गः कलाग्रहणेन सङ्गृहीतः । यथाक्षरद्विकलचतुष्कलतया

[(मू)]

1. म॰ ततो वाक्यम् । 2Qअ॰ ब॰ वदतो ।

[(व्या)]

1. म॰ विषयमप्याचार्यान्वेषणम् ।

2. गदितमनादृत्य ।

3. क्रमेणैतदुक्तम् ।

4. म॰ गमनक्रमानादरणम् ।

[page 208]




[NZ]

1यस्माद्रङ्गे प्रयोगो ऽयं 2पूर्वमेव प्रयुज्यते3 BhNZ_05_007ab
4तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः5 BhNZ_05_007cd
[ABh]

सर्वमेव गीतकवर्धमानादि (1)गानं गीयमानं मे(गे)यं रूपं सङ्गृहीतम् । कलाशब्देन च सप्तविधा तालकला निष्क्रामादिरुच्यते । तया समस्तो मानात्मकस्तालमार्गो गृहीतः । भिन्नार्थानामपि च सरूपाणामेकशेषः । पादा इत्यादि । एवं परिवर्तन्त इति परिवर्ताः । द्विसङ्ख्यातत्रिसङ्ख्यातादिषु परिचितैः(वर्तैः) सकलेतिकर्तव्यता परिगृहीता । चकारात्केवलं तन्त्र्यादि । एवकारेण केवलप्रयोगः । तथाशब्देनाङ्गाङ्गिभावप्रयोगो यथायोगं दर्शितः । द्वितीयेनैवकारेण नाट्याङ्गता सूचिता । द्वितीयेन चकारेण च पाठ्यादि नृत्तं च । तेन गीततालवाद्यनृत्तपाठ्यं व्यस्तसमस्ततया प्रयुज्यमानं यन्नाट्याङ्गभूतं स पूर्वरङ्ग इत्युक्तं भवति । यः स्याद्रङ्गे मण्डपे आधारे नाट्ये वा रङ्गे बुद्धिस्थे भविष्यति । युज्यत एव पूर्वम्(2) । प्रत्याहारादिकेन ह्यङ्गेन विना गायनादिसामग्र्यसम्पत्तेः कथं नाट्यप्रयोगः । न ह्यहो(ह्येव) किल तन्तुतुरीवेमादेः(विना) शक्यः पटः कर्तुम् । केवलं प्राङ्मुखान्नभोजनवन्नि(यमप्र)योजनत्वे ऽपी(त्वमपी)ति वक्ष्यते । तेन पूर्वो रङ्गे पूर्वरङ्गः । सुप्सुपेति समासः राजदन्तादित्वाद्वा परनिपातः ।
श्रीहर्षस्तु रङ्गशब्देन तैर्यत्रिकं ब्रुवन् नाट्याङ्गप्रयोगस्य तस्यैव पूर्वरङ्गतां मन्यमानः पूर्वश्चासौ रङ्ग इति समासममंसत । यदाह --
``दृष्टा ये ऽवस्थार्थे (वस्त्वर्थे) नाट्ये रङ्गाय पादभा(3)गाः स्युः ।
पूर्वं त एव तु यस्मिन् शुद्धाः स्युः पूर्वरङ्गो ऽसौ ॥'' इत्यादि ।
रङ्गस्य पूर्वो भाग इति त्वसत् । न ह्ययं मण्डपस्यैकदेशः । नापि नाट्यस्य । नह्ययं भावानुकीर्तनात्मकव्याख्याना(4)नुकारस्वभावः । अपि तु शिक्षादिवत्पारमार्थिक एव प्रयोगसम्पत्त्युपकरणभूतो भोजनादितुल्यः प्रत्याहारादिरर्थः । नृत्तमप्यत्र वैचित्र्यकारित्वेन प्रविशत् ``नाट्यरूपगतं नृत्तम्'' इत्यङ्कुरसूचितनृत्तन्यायेनानुकारधुरारोहि । अपि तु देवतापरितोषणफलं सू(धू)पविलेपनादिदानवत् सत्यमेवेति पूर्वो रङ्ग इत्येष संन्या(समा)सः ॥ (5-7)

[(मू)]

1. अ॰ कस्माद्रङ्गप्र । ट॰ यः स्याद्रङ्ग । न॰ यस्माद्रङ्गे प्रयुज्यन्ते ।

2. द॰ अ॰ सर्वमेतत्प्रयुज्यते ।

3. ड॰ प्रयोज्यते । न॰ प्रयोक्तृभिः ।

4. न॰ पूर्वरङ्गो ह्ययं तस्माद्विज्ञेयो द्विजसत्तमाः ।

5. ड॰ विज्ञेयो ऽत्र द्विजोत्तमाः ।

[(व्या)]

1. म॰ गतम् ।

2. म॰ भ॰ र्वमप्र ।

3. म॰ भ॰ भङ्गाः ।

4. म॰ भ॰ तानु ।

[page 209]




[NZ]

अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । BhNZ_05_008ab
तन्त्रीभाण्डसमायोगैः1 पाठ्ययोगकृतैस्तथा2 BhNZ_05_008cd
प्रत्याहारो ऽवतरणं तथा ह्यारम्भ एव च । BhNZ_05_009ab
आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ BhNZ_05_009cd
[ABh]

ननु प्रत्याहाराद्यङ्गसमूहः पूर्वरङ्गः । तत्कथमुक्तं गीतादि पूर्वरङ्ग इत्याशङ्क्याह -- अस्याङ्गानि त्वित्यादि पूर्वरङ्गे भवन्ति हीत्यन्तेन श्लोकसप्तकेन सार्धेन महाकाव्यं (वाक्यम्) । तुर्हेतौ । लक्षिष्यमाणानि प्रत्याहारादीन्यासारितान्तानि अन्तर्यवनिकाङ्गानि(1) नव प्रयोज्यानि । यानि च यवनिकाया बहिर्गीतकप्रयोगादीनि प्ररोचनान्तानि दश तानि सर्वाण्य(ण्यपि)पादभागाद्यु(2)पलक्षितादिरूपस्योक्तस्य सम्बन्धित्वेन यस्मात्कार्याणि तस्मात्(1) पादभागादिरेव पूर्वरङ्ग इति पूर्वेण सम्बन्धः । अङ्गानां न्यूनाधिकभावे हि भूयांसः पूर्वरङ्गभेदाः । ते च गेयाधिकारे (अ-29) दर्शयिष्यन्ते ।
इह तु दृ(4)(तूद्दि)श्यमानास्तन्त्रभावानभिज्ञानाम(5)सम्प्रमोहफला एव ।
उक्तं च वार्तिके -- ``बुद्ध्याय(6)षट्कचेदिज(?)रङ्गभेदः । न तु प्रत्याहारावतरणे । आद्यो(द्ये) रङ्गद्वारादीनि । पाश्चात्यानि न पादभागाद्यारब्धानि'' इति । सत्यम् । किन्तु समुदितत्वे नात्र रङ्गता रमणीयभावः सम्बन्धः । अपि तु सद्भावमात्रम् । तच्च सर्वत्रैव विद्यत इति वक्ष्यते । तदाह -- यस्मादेतानि पूर्वरङ्गे संभवन्ति तस्मादस्य संबन्धित्वेन कार्याणि ।
तत्र यवनिका रङ्गपीठतच्छिरसोर्मध्ये । तस्या अन्तरागतैः प्रयोक्तृभिर्नटैः प्राधान्यात् यदि वा वैणिकादिभिरेव प्रयोक्तृभिः प्रयोज्यानि प्रत्याहारादीनि । गीतकपिण्ड्या(पाठ्या)दीनि तु यवनिकायामप(7)सारितया गीतानामित्यादिना श्लोकेन गीतकवर्धमानान्यतरप्रयोग उक्तः । अन्ये तु अथापि स्थाने (ना॰ शा॰ 5-13) अतो ऽपीति पठन्त उभयप्रधानमनुजानते । तच्चान्त्यपदार्थेन विरुद्धम् । निर्देशविधौ चैकमेवाङ्गं भविष्यति । न तु द्वे ।
``कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ।'' (ना॰ शा॰ 5-21) इति ।

[(मू)]

1. ड॰ म॰ अ॰ समायोगात् ।

2. ड॰ म॰ पाट्ययोगैः कृतानि च ।

[(व्या)]

1. म॰ ङ्गान्येव प्र ।

2. म॰ णि अपरभागाद्यु ।

3. म॰ स्माद्भागादि ।

4. म॰ इह तद्दृश्य ।

5. भ॰ नां सम्प्र ।

6. भ॰ बुद्धाय ।

7. म॰ भ॰ यामासा ।

[page 210]




[NZ]

सङ्घोटना1 ततः कार्या मार्गासारितमेव2 च । BhNZ_05_010ab
ज्येष्ठमध्यकनिष्ठानि3 तथैवासारितानि च4 BhNZ_05_010cd
एतानि 5तु बहिर्गीतान्यन्तर्यवनिकागतैः । BhNZ_05_011ab
प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च6 BhNZ_05_011cd
7ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । BhNZ_05_012ab
8विघट्य वै यवनिकां 9नृत्तपाठ्यकृतानि तु10 BhNZ_05_012cd
गीतानां मद्रकादीनां 11योज्यमेकं तु गीतकम् । BhNZ_05_013ab
वर्धमानमथापीह12 ताण्डवं यत्र युज्यते13 BhNZ_05_013cd
ततश्चोत्थापनं कार्यं परिवर्तनमेव14 च । BhNZ_05_014ab
नान्दी 15शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ BhNZ_05_014cd
चारि चैव ततः कार्या महाचारी तथैव च । BhNZ_05_015ab
16त्रिकं प्ररोचना चापि पूर्वरङ्गे भवन्ति हि ॥ BhNZ_05_015cd
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः17 BhNZ_05_016ab
18एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ BhNZ_05_016cd
[ABh]

उभयात्मकं तावदेवैकमङ्गमस्तीति केचित् । अपिशब्दाद्यानि कानि । उद्देशावसर एव `ताण्डवं यत्र' इत्यभिधानमस्याङ्गस्य नृत्ते विनियोगं दर्शयति । तेन नाट्याद्यङ्गानि नृत्तशून्यान्यपि भवन्तीति दर्शयतीति तदैव च शुद्धत्वव्यवहारः । यद्वक्ष्यति -- ``शुद्धं चित्रमथापि च ।'' इति । (8-15)
एवं पूर्वरङ्गसामान्यलक्षणसमाना(सा)र्थे विहाचित्येप्रसङ्गानि (विभावितानि । एतत्प्रसङ्गात्) तेषामयमेवोद्देशो भवतीति दर्शयति -- एतानीति । क्रमकथनेनैतत्सङ्ख्यान्येव चेत्यर्थः ।

[(मू)]

1. ड॰ ब॰ सङ्खोटना ।

2. ब॰ सारित एव च ।

3. अ॰ म॰ कनिष्ठा च ।

4. म॰ अ॰ आसारितक्रिया ।

5. ड॰ म॰ त॰ च ।

6. ड॰ म॰ त॰ अ॰ तु ।

7. ड॰ अ॰ म॰ ततश्च सर्वकुतपैर्युक्तान्यन्यानि ।

8. ड॰ ब॰ उद्घाट्य । द॰ म॰ त॰ विघाट्य ।

9. ब॰ नृत्य ।

10. ड॰ म॰ अ॰ च ।

11. ड॰ म॰ एकं योज्यं तु ।

12. त॰ तथापीह ।

13. ढ॰ अ॰ योज्यते ।

14. ड॰ परिवर्तकमेव ।

15. क॰ शुष्कापकृष्टे ।

16. न॰ त॰ अ॰ ब॰ त्रिगतं प्ररोचना च ।

17. द॰ अ॰ पूर्वरङ्गे द्विजोत्तमाः ।

18. त॰ तेषान्तु ।

[(व्या)]

[page 211]




[NZ]

कुतपस्य तु विन्यासः प्रत्याहार इति1 स्मृतः । BhNZ_05_017ab
तथावतरणं प्रोक्तं गायिकानां2 निवेशनम् ॥ BhNZ_05_017cd
[ABh]

यथोद्देशं लक्षणं कर्तुमुपक्रमते -- एतेषामिति । तत्क्रममाह -- कुतपस्य त्विति । नेपथ्यगृहद्वारयोर्मध्ये पूर्वाभिमुखो मार्दङ्गिकः । तस्य पाणिकौ वामतः । रङ्गपीठस्य दक्षिणतः उत्तराभिमुखो गायतः । अस्याग्रे उत्तरतो दक्षिणाभिमुखस्थिता गायिक्यः । अस्य वामे वैणिकः । अन्यत्र वंशद्वार(घार)कावित्येवं कुतं पाति कुं तपतीति शब्दविशेषपालकस्य नाट्यभूमिकोज्ज्वलताधायिनश्च वर्गस्य यो विचित्रो न्यासः स विप्रकीर्णानामेकत्र ढौकनात्मा प्रत्याहारः ।
यद्यपि कुतपस्य विन्यासमध्य एव च गायकस्याभिमुख्यो रङ्गपीठस्योत्तरतो गायिन्य इति गाय(यि)कानां विन्यासः तथापि त्ववतरणं नाम पृथगुक्तमङ्गानां गीत(मङ्गनागीत)स्यावश्यंभावित्वं रञ्जकवर्गे ख्यापयितुम् । यद्वक्ष्यते --
``(1)यद्यपि पुरुषो गायति गीतविधानं तु लक्षणोपेतम् ।
स्त्रीविरहितः प्रयोगस्तथापि न सुखावहो भवति ॥''(ना॰ शा॰ 33-5-7) इति ।
यस्त्वाह -- ``नारदद्यैस्तु गन्धर्वैः'' (ना॰ शा॰ 5-32) इति भावश्लोके केवलपुरुषाणां गातृत्वं वक्ष्यमाणमिह शङ्केति(हाशङ्क्येतेति) पृथगवतरणमुक्तम्(मिति) । तस्यैतदनवकाशम् । गन्धर्व्यश्च गन्धर्वाश्चेत्येकशेषेण स्त्रीगीतस्याप्यत्र संभावनात् । एवमवतरणान्तं वस्तुत एकमेवाङ्गम् । अत एव प्रयोग एक उभयत्र कृतो भवति । यद्वक्ष्यति पुष्कराध्याये (ना॰ शा॰ 34-198) ``अनुपविष्टेषु मार्दङ्गिकादिषु'' इत्युपक्रम्य प्रथमं त्रिसाम ।
``त्रिप्रकारं त्रिगुणितं तथैवात्राड्डिताश्रयम् ।
त्रिकलं षट्कलं चैव त्रि(2)सामत्वात्त्रिसामसु ॥'' (काशी॰ मु॰ ना॰ शा॰ 33,209)
त्रिसामान्वितः ।
``(2)त्रिसामाक्षरविद्धस्तु गुरुलघ्वक्षरान्वितः ।
यकारश्च(4) मकारश्च त्रिकैस्त्रिगुणितो भवेत् ॥'' (ना॰ शा॰ 34-159) (काशी॰ 33-210)

[(मू)]

1. द॰ अ॰ विधि ।

2. म॰ ब॰ गायकानाम् ।

[(व्या)]

1. काव्यमालामुद्रितपुस्तके पाठान्तरम् ।

2. म॰ भ॰ त्रिसारत्वात्त्रिसामानु ।

3. म॰ भ॰ त्रिसामाक्षरान्वितः ।

4. म॰ भ॰ यकारश्च त्रिकं त्रिगुणितो ।

[page 212]




[NZ]

परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । BhNZ_05_018ab
आतोद्यरञ्जनार्थं तु1 भवेदाश्रावणाविधिः ॥ BhNZ_05_018cd
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । BhNZ_05_019ab
तन्त्र्योजःकरणार्थं2 तु भवेच्च3 परिघट्टना4 BhNZ_05_019cd
[ABh]

यस्त्रिसामा(1) स प्रत्याहारो (2)यावदवतीर्णकोटीनि । अवतरणकोटौ छन्दसो ऽक्षरसमं वामबहिर्गीतानुवर्ति बाह्यं स्त्रीबालमूर्खादिकुतूहलादिजननं प्रयोजनम् ।
अन्ये मन्यन्ते निवेशनं स्थानस्वरादौ । न तूपवेशनमत्र । तथा च सप्तस्वरपरिग्रहो ऽवतरणादाशुगत्या(णमिति जात्या)दिरूपाङ्गसप्तकेन शुद्धसप्तकेन शुद्धसप्तकगीतिज्ञप्रयोज्यमिति एतद्घनतालविधौ (ना॰ शा॰ 31) वितत्य विचारयिष्यते ॥ (16-19)
ननु च (यावत्) परिगीतक्रियाद्यारम्भो न कृतस्तावत् त्रिसामप्रयोगो ऽपि कथम् । सत्यम् । किञ्चिद(किम)र्थमयं प्रयोगक्रम इत्यवधार्यताम् । इह दृष्टार्थान्येव तावदेतान्यङ्गानि । तथा हि -- पूर्वं रञ्जकवर्गढौकनं ततोमेव (तत एव) तद्गीतस्योपरञ्जकस्य प्राधान्यम् । तस्य च बिम्बभूतं शारीरं शारीरस्वराणां मूलत्वात् । तदनुसन्धानायालापाख्य आरम्भः । ततो ऽपि मानरूपतालप्रधानसर्वातोद्यगर्भमनुसन्धानमासमनताच्छ्रावयतीत्याश्रावणा । ततो ऽपि प्रतिबिम्बभुतवैणवस्वरस्वरूपानुसन्धानाय दक्षिणादिवृत्तिविभागानुसन्धानात्मना वक्त्रपाणिः ।
वक्त्रे प्रारम्भे हस्ताङ्गुलिव्यापारः । ततस्तु वृत्तिविभागगतशुष्कप्रयोगानुसन्धानात् ज्यापरिघट्टना । घट्ट चलन इति पाठात् । पश्चाद्वीणावाद्योपजीवकत्वादवनद्धस्यानुसन्धानसंवाद्यादिना प्रहारपञ्चकयोगेन क्रियत इति सङ्घोटना । घुट परिवर्तने । यतः पुष्कराध्याये ऽभिवक्ष्यते --
`पूर्वं शरीरादुद्भूता ततो गच्छति दारवीम् ।
ततः पुष्करजं च ।' (ना॰ शा॰ 34-31) इति ॥ (18-19)
ततो ऽपि प्रकृतिमेव यन्मानानुहार्यानुहर्तृरूपस्य वैणवपौष्करशब्दस्य परस्परसंमेलनं कार्यमिति मार्गासारितम् । मार्गे प्रकृत्यादिलक्षणादि(3)गोचरे विकाररूपस्य(?) पुष्करवाद्यस्या

[(मू)]

1. द. अ॰ च ।

2. अ॰ तद्योज्यकरणार्थं च । न॰ जस्करणार्थम् । ड॰ म॰ तन्त्रौजस्तरणार्थम् ।

3. न॰ त॰ त्तु ।

4. द॰ अ॰ परिघट्टनम् ।

[(व्या)]

1. म॰ भ॰ यस्त्रिसाम स ।

2. म॰ भ॰ यावदनिर्णयकोटीनि ।

3. म॰ भ॰ णानिगोचरे ऽपि तानि रूपस्य ।

[page 213]




[NZ]

तथा पाणिविभागा1र्थं भवेत्संघोट2नाविधिः । BhNZ_05_020ab
तन्त्रीभाण्डसमायोगा3न्मार्गासारितमिष्यते ॥ BhNZ_05_020cd
4कलापातविभागार्थं भवेदासारितक्रिया । BhNZ_05_021ab
कीर्तनाद्देवतानां च ज्ञेयो गीत5विधिस्तथा ॥ BhNZ_05_021cd
[ABh]

समन्तात्सारणं गमनं यत्रेति । (1)पश्चान्मेयमानस्वरूपे तु संहिते गेयवस्तुहततालस्वरूपोपक्षेपः । कलानामा(वा)पाद्यानां पातानां शम्यादीनां चानुसन्धितेत्यासारितविधिः । एवं तावदन्तर्यवनिकाङ्गानां दृष्टार्थ एव प्रयोगः । तान्यन्तरेण(2) प्रयोगस्यैवासम्पत्तेः । तथा च भेज्जल(3)नाम्ना कविना निजपद्ये(4) उक्तम् --
``मेघाशङ्किशिखण्डिताण्डविधौ'' इत्यादि ।
एवं दृष्टार्थे प्रयोगे पूर्वं कृते पश्चात् दृष्टार्थाङ्गानुसारेणैव बहिर्गीतविधिः । तदनुसारेण च तानि विशेषधातुवाद्ये(5) (तन्निवेशगीतवाद्य)विधिः । तत्र प्रत्याहारावतरणयोस्त्रिसाम्ना प्रयोगः । रङ्गपीठस्य तिसृषु(6) दिक्षु कुतपविन्यासात् ।
तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालाः ।
वि(द्वि)कला च पुनः शम्पा तालो द्विकलस्तु कर्तव्यः ॥ (ना॰ शा॰ 29-95)
द्विकलश्च सन्निपातः पुनः पिता पुत्रकश्च षट्पूर्वः । (ना॰ शा॰ 29-100)
चञ्चत्पुटस्तथा चेदारम्भे तालयोगस्तु ।
त्रिश्शम्योपरिपाणौ तालवित्येवमेककलः ।
समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ (ना॰ शा॰ 29-89)
भूयश्शम्पा तालाववपाणावुत्तरस्तथा चैव ।
चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ (ना॰ शा॰ 29-90)
शङ्कुकस्तु पठति ``उत्तरस्तथा चैव'' इति स्थाने ``उत्तरस्तथा द्विकलः'' इति, ``एककल'' इत्यत्र च स्थाने ``निर्दिष्ट'' इति ।

[(मू)]

1. त॰ विधाना ।

2. ड॰ ब॰ अ॰ संखोटना ।

3. म॰ युग्यम् । त॰ योगो ।

4. ब॰ कलापाठ । कालपात । ड॰ म॰ कलाभाग । क॰ त॰ कलापाद ।

5. त॰ गेय ।

[(व्या)]

1. म॰ भ॰ पश्चात्स्वरूपे ।

2. म॰ भ॰ नात्युaन्तरेण । आत्यन्तरेण ।

3. म॰ भ॰ हेज्जल ।

4. भ॰ निजपकड ।

5. म॰ भ॰ तानि वाद्ये ।

6. म॰ भ॰ स्येति चतसृ । तिसृ ।

[page 214]




[NZ]

[1अतः परं 2प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम्3 । ] BhNZ_05_XXXcd
यस्मादुत्थापयन्त्यत्र4 प्रयोगं नान्दिपाठकाः । BhNZ_05_022ab
पूर्वमेव तु रङ्गे ऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ BhNZ_05_022cd
[ABh]

केचिच्चा(1)ष्टाविंशे ऽध्याये (ना॰ शा॰ 29-83) आश्रवणायाः पूर्वमभिधानादिह चारम्भस्य पूर्वपाठाद् ज्ञापकाद्विकल्पमिच्छन्ति । अतः सर्वातोद्यस्वरूपानुसन्धिनिर्गीतालापक्रिया चेति (निर्गीततालप्रक्रियाचेति?) ।
``द्विकले मद्रके यत्तु शम्यातालादियोजनम् ।
तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकले मुखे ॥
तस्याधस्तात्पुनः कार्यं पञ्चपाणिचतुष्टयम् ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥'' (ना॰ शा॰ 29-97)
केचित्तु वक्त्रवार्ध(पाण्यर्ध)गतमिच्छन्ति । तैर्वस्तुक्रमो वृत्तिशब्दश्च नचर्चितः । संपिष्टकवच्चास्यास्ताल(ना॰ शा॰ 29-112) इति परिघट्टनातालः । तत्र --
``सप्ताङ्गे द्वादशकलं द्वादशाङ्गे दशैव तु ।
निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ॥ (ना॰ शा॰ 31-298)
तालत्रयं ततश्चैव शम्यातालौ ततः परम् ।
(2)शम्यातालौ ततः कार्यौ सन्निपातो ऽन्त्य एव च ॥(ना॰ शा॰ 31-279)
ओवेणके तु सप्ताङ्गे सम्पिष्टकमिदं मतम् ।
द्विशम्यातालयोगेन द्वादशाङ्गे कला दश ॥ '' (ना॰ शा॰ 31-280)
शङ्कुकस्तु ``सम्पक्केष्ट(3)कवदस्यास्ताल'' (ना॰ शा॰ 29-112) इति पठति ।
``तालादिस्त्र्यश्रभेदो ऽन्यो ज्ञेयः पक्केष्टको बुधैः ।
गुरुपञ्चाक्षराभ्यान्तु(द्यन्त)प्लुतमात्रासमन्वितः ॥''(ना॰ शा॰ 31-21) इति
अन्ये तु पठन्ति --
``गुरुपञ्चाक्षरे ऽन्ते(4) च प्लुतमात्राद्वयान्वितः ।'' इति ॥
तथा द्वौ सम्पिष्टशब्देतुव(शब्दव)त्करणवाचकं शीर्षकवदितिवत् । न हि तस्य च

[(मू)]

1. अ॰ इदमर्धं नास्ति । व्याख्यापि न दृश्यते ।

2. त॰ ऊर्ध्वं प्रवक्ष्यामि ।

3. त॰ धिं द्विजाः । ब॰ क॰ क्रियाः ।

4. न॰ त॰ म॰ यन्त्यादौ ।

[(व्या)]

1. म॰ भ॰ केचित् ... ... च्चाष्टाविंशा ।

2. म॰ भ॰ शम्यातालौ सन्निपातः सम्पिष्टकमिदं मतम् । विशम्यतालयोगा तु द्वादशाङ्के कला दश ।

3. म॰ भ॰ सम्पन्नेषु पदस्यास्ताल इति ।

4. म॰ भ॰ क्षरे ते च ।

[page 215]




[NZ]

यस्माच्च लोकपालानां परिवृत्य1 चतुर्दिशम् । BhNZ_05_023ab
वन्दनानि प्रकुर्वन्ति तस्माच्च2 परिवर्तनम् ॥ BhNZ_05_023cd
[ABh]

तदानीमङ्गता । केवलप्रयोगात्प्रकरणं चात्र साक्षी । शीर्षकवद्बा(1)लासारितवदिति चानयोर्मध्ये पठितमेतत् ।
``पक्केष्टकस्य तथैव तालाद्य(प्लुत)द्वयेत्य(2)र्थो? न सङ्गतः ।
सङ्घोटनायां तालस्तु शीर्षवत्पञ्चपाणिना ॥'' (ना॰ शा॰ काशी॰ 29-142)
अनयोरप्यङ्गयोः पूर्ववत्केचित्क्रमविकल्पमिच्छन्ति ।
``बालासारितवच्चैव तालो ऽस्य परिकीर्तितः ।'' (ना॰ शा॰ 29-116)
इति मार्गासारितस्य तालः । अभिसृतपरिसृतान्यप्यत्र मार्गासारितमध्य एव तत्स्थाने वा विकल्पेन प्रयोक्तव्यानि । (3)लीलाकृतं नाम यत्तता(दा)तोद्यविधौ (ना॰ शा॰ 29-117) वक्ष्यते तदिह न सङ्गृहीतम् । आसारितानां च त्रयाणां स्वत एकस्तालाध्याये (ना॰ शा॰ 31-146-173) वितत्य वक्ष्यत इत्येवं प्रयोगक्रमः । अत एव पूर्वरङ्गे स(4)द्भावमात्रेण सप्रत्याहारका(रादा)वपि सामान्यलक्षणमनुगतमेव । अत्र च शुष्काक्षरधातुवाद्यविधिरष्टाविंशे ऽध्याये ततातोद्यविधौ भविष्यति `त्रिसाम्नि' पुष्कराध्याये (ना॰ शा॰ 34) तत एवावधार्यमिति । विस्तरभयात्तु न लिखितम् ।
अत्र च वैचित्र्यार्थं समुचितमात्र(5)मित्यादिप्रवृत्तमपि भाविरूपकोचितं काव्यमपि पठ्यमानं केचिदिच्छन्ति । तथा हि सति ``पाठ्ययोगकृतैस्तथा'' (ना॰ शा॰ 5-8) इति न सङ्कोचितं भविष्यति । युक्तं चैतत् । यथा हि रमणीयात्यु(द्यु)पकरणभूतशयनविरचनादौ प्रतिपादुकस्तम्भधूपवस्त्रादिष्वपि तदुचितनायकयुगलादिप्रायविचित्राकृतियोगो युद्धोचितसन्नाहक(स)ङ्कटादौ च कातरजनभयभावनं नृसिंहगरुडादिरचनाकृतियोगस्तथैव ह्यतिरमणीये नाट्ये भविष्यन्ति(ति) यदुपरञ्जकवर्गढौकनादौ -- (6)एतदपि सुकुमारतदुक्तगीतपाठ्याभिनययोगेनैव कार्यम् । तच्चापसारितायामेव यवनिकायामुत्थापनाङ्गमध्ये ह्यस्यैककलः पाठ्यसहितः प्रयोगः । तथा हि वक्ष्यति ``यस्मादुत्थापयन्ति'' इत्यादि । रङ्गे यः पूर्वं प्रयोगः कृतः प्रत्याहारादिस्तं यस्मादुत्थापयन्ति फलस्वरूपनिरूपकपाठ्यतदभिनयादिना स्फुटीकुर्वन्ति तस्मादित्यर्थः । पाठ्यावकाशदानार्थमेव चात्रेदं देवतास्तुतिगीतिफलविशेषाभिधानम् । अन्यथा देवतापरितोषायैतत्प्रयोज्यमिति सामान्येन वक्तव्यं स्यात् । विशेषोपदेशस्य प्रयोगे विफलत्वात् ।

[(मू)]

1. द॰ अ॰ परिवर्त्य ।

2. म॰ त्तु । द॰ अ॰ त॰ तस्माद्धि ।

[(व्या)]

1. म॰ भ॰ शीर्षकवज्ज्वाला ।

2. म॰ भ॰ तालताद्यद्वत्यर्थो ।

3. म॰ भ॰ नहि लीला ।

4. म॰ भ॰ सति भवति । सति भाव ।

5. म॰ भ॰ मात्रावित्या ।

6. म॰ भ॰ एकदापि ।

[page 216]




[NZ]

आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते1 BhNZ_05_024ab
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता2 BhNZ_05_024cd
[ABh]

अन्ये तु प्रत्यङ्गं पश्चात्तत्प्रयोगमाहुः । तैस्तु प्रयोक्ता कस्तदेति निरूप्यम् । अत्र त्विदमित्यर्थः । कृतमित्युक्तिभङ्ग्या पाठ्यं तद्गीतप्रयोगः पदयुक्तो ऽपि केवलमन्तर्यवनिकागतप्रत्याहारादिविषयत्वात्पाठ्ययोगादीनामप्यन्तर्यवनिकार्थमुच्यते । एवं नवाङ्गान्युक्तानि ।
अथ ``विघाट्य वै यवनिकाम्'' (ना॰ शा॰ 5-12) इत्यादिना यद्गीतकविध्याद्यङ्गदशकं दर्शितं तत्क्रमेण लक्षयति -- कीर्तनादित्यादि । कीर्तनं स्तुतिः । तस्मात्पाठ्याद्धेतोः । ततः परं शुष्काक्षरनिर्वृत्तशब्देन निर्गीतकानामन्यतमं वर्धमानं वा । तत्र च तालस्तालाध्याये(एक)त्रिंशे वक्ष्यते ॥ (21)
यस्मादिति । तत्र प्रत्याहारादीनि चेत् अत्र प्रयोज्यानि तत्पूर्वरङ्ग इत्यनुवादो ऽयं स्यात् । क्रमस्य सिद्धत्वात् । नान्दिपाठका इति । तदुपलक्षितपूर्वक्रमद्वारेणैव(1) पुराणकवयो लिखन्ति स्म ``नान्द्यन्ते सूत्रधारः'' इति । अहरहश्चैषा प्रयोगे प्रयोज्या । एवं च नित्यमेवंरूपमेव । अन्यपाठ्यानामुत्थापनादीनां प्रयोगवशादथात्वोपपत्तिर्दृश्यते । न तु नान्दीपाठस्येति नित्यशब्दस्याभिप्रायः । आदिग्रहणात्प्रेक्षापतिप्रभृतयः । एषैव च नान्दी भारत्यङ्गनिरूपणे प्ररोचनेति निर्देक्ष्यते -- ``जयाभ्युदयिनी चैव मङ्गल्या'' (ना॰ शा॰ 20-27) इत्यादिना । इह तु सा(या)प्ररोचना सा तत्र भविष्यति । अत्र नान्दीपदानामन्तरेषु चित्रे पूर्वरङ्गे वर्धमानं यत्प्रयोज्यं तत्पञ्चममङ्गं गणयति ।
नन्वेवं गीतकविधिः प्रथमाङ्गानन्तरमन्याङ्गमध्ये ऽपि च वर्धमानप्रयोगस्य चित्रे ऽपि भावात्सङ्ख्याया अनवस्थानं न पदे ऽपतदिति न पुनर्गणनार्हमिति न दोषः (इति) केचिदाहुः ॥ (24)
((2)शुष्कावकृष्टैवादिष्टा । असावेव च लक्षिता । अवकृष्टायास्त्वनुवादद्वारेण लक्षणं मन्तव्यम् । अन्यथा वक्ष्यमाणं)

[(मू)]

1. ड॰ म॰ प्रवर्तते । ब॰ प्रपूज्यते ।

2. `नान्दीपादानामन्तरेषु चित्रे पूर्वरङ्गे वर्धमानं प्रयोज्यं प्रागुक्तलक्षणम् । अन्ये तु -- गीतकप्रयोगादनन्तरं शुद्धे चित्रे पूर्वरङ्गे वर्धमानप्रयोगमिच्च्छन्ति ॥' इत्येतद्गद्यं ब॰ पुस्तक एव दृश्यते । व्याख्यात उद्धृत्य प्रक्षिप्तमिति भाति ।

[(व्या)]

1. भ॰ पूर्वद्वारेणैव ।

2. म॰ भ॰ शुष्कानुकारेणादिष्टा । इह चासावेव लक्षिता । अन्या त्वनुवादद्वारेण । अन्यावान्तरकालं यद्वक्ष्यते ।

[page 217]




[NZ]

1अत्र शुष्काक्षरैरेव ह्यवकृष्टा2 ध्रुवा यतः । BhNZ_05_025ab
तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिका3 BhNZ_05_025cd
4यस्मादभिनयस्त्वत्र5 प्रथमं ह्यवतार्यते6 BhNZ_05_026ab
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ BhNZ_05_026cd
[ABh]

``युक्तायामपकृष्टायां प्रीता नागा भवन्ति हि ।
तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥'' (ना॰ शा॰ 5-50)
इति तन्निर्विषयं स्यात् । तत्रावकृष्टाया लक्षणम् --
``मुखप्रतिमुखोपेता ह्यवकृष्टा विधीयन्ते ॥'' (ना॰ शा॰ 32-12)
इति तालविधिः ।
अन्यभावेषु कृष्टश्च (द्र(1)व्यहेतुषु पठ्यते ।)
यस्मात्कारुण्यसंयुक्ता ह्य(वकृष्टा भवेत्ततः(2) ।) (ना॰ शा॰ 32-341)
इति वाक्यार्थगानेतिकर्तव्यताविधिवृत्तस्वरूपं शम्यादेर्योजनं चाग्रे ऽस्या वक्ष्यते । तदेतस्यां प्रयुक्तायां तदनन्तरं नाट्यम्(1) । ईदृश्येव शुष्काक्षरैः प्रयोज्या । तत्रावकृष्टात्वसामान्यात् । पृथक्कगवाते(थगवगते) (क्रमपातैः?)र्जर्जरश्लोकदर्शिका यत्त(तस्त)दनन्तरम् । शुष्कावकृष्टेयमिति । असाववकृष्टे) ध्रुवा । सा तस्माच्छुष्कावकृष्टा । आह । हि यस्मात् । अत्रेति अस्याङ्गतायाम् । अवकृष्टस्य(ष्टा) समस्ततल्लक्षणोपेता केवलं शुष्कैरक्षरैरनर्थकैः झण्टुमाद्यैः ।
अन्ये त्वेकस्यामेव ध्रुवायां शुष्कावकृष्टत्वधर्मद्वयविषयो ऽयं ``युक्तायामपकृष्टायाम्'' इति श्लोको भविष्यतीति मन्यन्ते । उपाध्यायस्तु शुष्कायामवकृष्टायामेवान्तर्भूतं फलं वक्ष्यते । अत्र तु शुष्कैव लक्ष्यते । अनेन च लक्षणेनावकृष्टापि सूचितात्रेति इयमिति च पदाभ्याम् ॥ (25)

[(मू)]

1. अ॰ अयं श्लोको नास्ति । ड॰ म॰ यत्र ।

2. न॰ म॰ ह्यपकृष्टा ।

3. ड॰ म॰ त॰ दर्शिता ।

4. थ॰ त॰ इतः पूर्वं `नव गुर्वक्षराणीह षड् लघूनि द्वयं गुरोः । शुष्कावकृष्टा तु भवेत्कला त्वष्टौ प्रमाणतः ॥ यथा -- दिग्ले दिग्ले दिग्ले जंबुकजगतिकझण्टुम् ॥' इत्यधिकं दृश्यते ।

5. द॰ म॰ त॰ अ॰ नयस्तत्र । न॰ नयो ह्यत्र ।

6. द॰ अ॰ धार्यते ।

[(व्या)]

1. म॰ भ॰ कृष्टहेतोस्तु गीयते ।

2. म॰ भ॰ ह्यपकृष्टास्तु पाततः ।

3. म॰ भ॰ नान्यमी

[page 218]




[NZ]

शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । BhNZ_05_027ab
रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता2 BhNZ_05_027cd
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । BhNZ_05_028ab
यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम्1 BhNZ_05_028cd
उपक्षेपेण काव्यस्य4 हेतुयुक्तिसमाश्रया5 BhNZ_05_029ab
सिद्धेनामन्त्रणा या तु6 विज्ञेया सा प्ररोचना ॥ BhNZ_05_029cd
[ABh]

अभिनीयत इत्यभिनयो रूपकविशेषः । सो ऽवतार्यते संक्षेपेण तस्यार्थप्रयोजनादिनिरूपणपाठ्यद्वारेण तथैव चाभिनयः क्रियते यत्र तदङ्गस्य भाविनो रूपकस्य द्वारमिव रङ्गद्वारादु(रमु)त्थापनाङ्गे सामान्येन नाट्यमुत्थापितम् । इह तु रूपक्विशेषेणेति भेदः ॥ (26)
शृग्गारस्येति । शृङ्गारप्रधानं भगवतो महादेव्या सह यत्र चरितं वर्ण्यते काव्ये च तत्स्तुतिप्रधाने तदेव यत्राङ्गहारचार्यादिना प्रदर्श्यते सा चारी । (1) (भगवंतस्त्रिपुरमर्दनादीव गीतं रौद्ररसभूयिष्ठं यत्र काव्ये वर्ण्यते स्तुतिरूपेण तद्यत्र) तदुचितैरेवोद्धतैर्मण्डलाङ्गहारैः प्रयुज्यते सा महाचारी ।
विदूषक इति । पारिपार्श्विकयोरन्यतरो विदूषकवेषभाषाचारो विदूषकः । सञ्जल्पो भविष्यन्नाटकादिविशेषो(षयः) । यद्यप्युक्तः तथापि तद्विशेषो नागानन्दादिभिः विवक्षित इत्यपौनरुक्त्यम् । स एव काव्योपक्षेपस्त्रिषु समायत्तत्वात्त्रिगतशब्देनोक्तः ।
तेन काव्योपक्षेपेण हेतुभूतेन तद्विषये सामाजिकानां या आमन्त्रणा निमन्त्रणं सिद्धेन सिद्ध्योपलक्षितमित्यर्थः । यस्मात्खल्वतः प्रीत्युत्पत्तिर्भविष्यति तस्मादवलोक्यतामेतदिति सा प्ररोचना प्रकृष्टरुचिहेतुभूतत्वात् । न च तद्वचनात्प्रवृत्तिर्भवतीत्याह -- हेतुयुक्तीति । हेतोर्या युक्तिर्योजन संक्षेपेणाभिधानं तन्निमित्तमस्या इति ।
एवमेतानि बहिर्यवनिकाङ्गान्यपि दश दृष्टफलान्येव । तथा हि गीत(2)कवर्धमानान्युपजीव्य ध्रुवागानं नाट्यम(मि)ति प्रकृतेरुपजीव्यत्वादवश्यं प्रथमं कति(कर्तव्यम्? ... ...)

[(मू)]

1. द॰ अ॰ रौद्रप्रचलनाच्चापि ।

2. म. संज्ञिता ।

3. द॰ त॰ अ॰ स्मृतम् ।

4. ड॰ म॰ कार्यस्य ।

5. क॰ त॰ व्यपाश्रया ।

6. ड॰ म॰ अ॰ या च ।

[(व्या)]

1. म॰ भ॰ रुद्रस्य त्रिपुरान्तकप्रभृतिपूजाकर्ण्यवक्तॄन् रोचयते यत्कर्म तत्प्रध्वंसनादि तदभिधायकं काव्यं यत्र ।

2. म॰ भ॰ तकलवर्ध ।

[page 219]




[NZ]

अतः परं प्रवक्ष्यामि ह्याश्राव1णविधिक्रियाम् । BhNZ_05_030ab
बहिर्गीतविधौ सम्यगुत्पत्तिं2 कारणं तथा ॥ BhNZ_05_030cd
चित्रदक्षिणवृत्तौ तु सप्त3रूपे प्रवर्तिते4 BhNZ_05_031ab
सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ BhNZ_05_031cd
[ABh]

ततो ऽपि यदारभ्यते तदा बुद्धौ निवेश्यं तावत्सामान्ये । ततः सदाचारपालनाय देवतावन्दनम् । ततः परमाशीर्वादनमभिमुखीकरणार्थम् । ततो ऽपि शङ्क्यमानविघ्नशान्त्युपकरणीभूतस्योत्तेजनम् । ततो ऽपि विशेषेण प्रयोक्तव्यानुसन्धानम् । ततो ऽपि शृङ्गारवीरयोः सर्वत्र रञ्जकपरमपुमर्थताप्रकर्षादुपक्षेपः । तदपि नाट्यविनेयसुकुमारजने स्वच्छन्दता(कर)सर्वरञ्जकहास्यप्राधान्येन काव्यविशेषे भवदभिधेयानुसन्धानम् । तस्यापि प्रयोजननिरूपणम् ।
एवं यथा शास्त्रं कुर्वतामादिवाक्यपरिग्रहो लौकिकस्य वा कर्तव्यविषयमनुसन्धानं तथैव नाट्यारम्भे गीतकपिण्ड्यादिप्ररोचनान्तं लौकिकानुसार्येव । नात्र कस्यचिदङ्गस्य सामर्थ्यलक्ष्यत्वादि चोदनीयम् । सुकुमारजनविषयत्वादस्य प्रयोगस्य । तस्मान्नालौकिकं किञ्चिदेतत् । केवलं नाट्यस्य रचनाप्राधान्याद्वैचित्र्येण योजनीयमदृष्टसम्पत्तये चेति मन्तव्च्यमित्यलं बहुना ॥ (27-29)
ननु भवत्ये(त्वे)वम् । किञ्चारम्भाश्रावणादौ वेगगी(बहिर्गी)तशब्दस्वरूपम् । [पदार्थः] (तदर्थः) को ऽत्र पदार्थः । तदयमर्थः -- तेषामाश्रावणादीनां विधौ क्रियां प्रयोगरक्षात्मिकां बहिर्गीतशब्दस्य च वाचकत्वेन विधाने उत्पत्तिं बहिर्गीतस्य च विधौ प्रयोगे प्रयोजनरूपं कारणं वक्ष्यामि ॥ (30)
तत्पुराकल्पद्वारेणाह -- चित्रेत्यादिना श्लोकैकादशकेन ``बहिर्गितमिति स्मृतम्'' इत्यन्तेन (ना॰ शा॰ 5-41) । गीतवाद्यगीतोभयप्रधानाः क्रमेण चित्रादयो वृत्तिमार्गाः । चित्रदक्षिणसहिता वृत्तिरिति मध्यमपदलोपी समासः । तद्विषयं तद्गीतकं सहोपोहनप्रत्युपोहनैः वर्धमाननिर्गीतेन च ``आश्रावणा तथारम्भः'' इत्यादिना अष्टाविंशे (ना॰ शा॰ 29-82) (एकोनत्रिंशे) ऽध्याये वक्ष्यमाणेन सहितं देवस्तुत्या च वाच्यभूतयाभितो नन्दितं समृद्धं युद्धम् । तस्मिन्प्रवर्तिते प्रयुक्ते सति तद्गानं गीयमानं सुखजनकमपि श्रुत्वा दैत्याः क्षुभिताः ।

[(मू)]

1. अ॰ आसारित ।

2. त॰ त्तिः कर ।

3. अ॰ शब्दरूपे ।

4. द॰ ब॰ प्रकीर्तिता ।

[(व्या)]

[page 220]




[NZ]

नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । BhNZ_05_032ab
निर्गीतं2 श्राविताः सम्यग्लयतालसमन्वितम् ॥ BhNZ_05_032cd
तच्छ्रुत्वा 3तु सुखं गानं देवस्तुत्यभिनन्दितम् । BhNZ_05_033ab
अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ BhNZ_05_033cd
सम्प्रधार्य च ते ऽन्योन्यमित्यवोचन्नवस्थिताः । BhNZ_05_034ab
4निर्गीतं तु सवादित्रमिदं5 गृह्णीमहे वयम् ॥ BhNZ_05_034cd
सप्तरूपेण6 सन्तुष्टा देवाः कर्मानुकीर्तनात् । BhNZ_05_035ab
7वयं गृह्णीम निर्गीतं तुष्यामो ऽत्रैव सर्वदा8 BhNZ_05_035cd
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । BhNZ_05_036ab
9रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ BhNZ_05_036cd
[ABh]

कुतः । (मात्सर्यात् । तदपि कुतः) आह -- देवैरहो रम्यं साधु साध्वित्यादिभिः स्तुतिभिरभिनन्द्यमानं यतः । तुरप्यर्थः । केन वा प्रवर्तितं तदित्याह -- नारदाद्यैरिति तदधिष्ठितैरित्यर्थः । तदिति सप्तरूपम् (ना॰ शा॰ 31 का॰ मा॰ पु॰ 521) । लयो द्रुतादिः । तालाः शम्यादिविशिष्टाः त्र्यश्रश्चतुरश्रो मिश्रश्च । सम्प्रधार्येत्यनेन परितोष्टव्यमन्यैस्त्वत्रेति । स्थितिं कृत्वावस्थिताः । इति शब्दसूचितमुच्यमानं निर्दिशति -- त्वमिति (निर्गीतमिति ।) वादित्रं तद्गतं शुष्काख्यं वीणावाद्यम् । ननु किं तस्य ग्रहणे निमित्तमित्याह -- तुष्याम इति । स्तुतिकीर्तनाभावे ऽप्याभिमानिकेन परितोषेणेत्यर्थः । दृष्टो ह्यभिमानकृतः प्रीतौ विशेषो यथा राजकर्णनेऽपि । तत्रेति निर्गीते । साधयन्ति । साधनं सिद्धं ब्रुवते । (धातुवाद्याश्रयकृतमिति) (1)धातवस्तन्त्रीविशेषाङ्गुलिविशेषसंयोगजा वैणवस्वराः । रञ्जनया अदृ(दृ)ष्टविशेषस्य क्रमेण चतुष्टयपृथक्कृता विस्तारव्यञ्जनाविद्धकरणसंज्ञा ।

[(मू)]

1. ड॰ म॰ नारदाद्यैश्च । त॰ नारदाद्यैः सग ।

2. द॰ अ॰ उद्गीतम् ।

3. म॰ तु समम् । अ॰ ततश्चानुगतम् ।

4. द॰ अ॰ निर्जितम् ।

5. त॰ मेतत् ।

6. त॰ पे तु ।

7. ड॰ म॰ एवम् ।

8. प॰ त॰ ब॰ अत्र तुष्यामहेतराम् । द॰ अ॰ म॰ निर्जित्य तुष्यामो ऽत्रैव वै वयम् ।

9. ड॰ म॰ तुष्टाश्चापि ।

[(व्या)]

1. म॰ भ॰ ... ... शुषुगतमिति । धातवस्तत्र विशे ।

[page 221]




[NZ]

1एते तुष्यन्ति निर्गीते दानवाः सह राक्षसैः । BhNZ_05_037ab
2प्रणश्यतु प्रयोगो ऽयं कथं वा मन्यते भवान् ॥ BhNZ_05_037cd
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । BhNZ_05_038ab
धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ BhNZ_05_038cd
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । BhNZ_05_039ab
भविष्यतीदं निर्गीतं सप्तरूप3विधानतः ॥ BhNZ_05_039cd
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । BhNZ_05_040ab
न क्षोभं न विघातं च करिष्यन्तीह तोषिताः4 BhNZ_05_040cd
5एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । BhNZ_05_041ab
देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ BhNZ_05_041cd
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । BhNZ_05_042ab
वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ ॥ BhNZ_05_042cd
[ABh]

धातुवाद्यं सप्तभेदलक्षणम् । तस्य यदाश्रयणं तेन हेतुना कृतमिति चित्रम् । तत्तादृशेनादृष्ट(ष्टेन) को गुणो न त्वन(दृ)ष्टे स्तुतिनिरूपणेषु यद्विधानं तेन हि पूर्वमध्यान्तेषु प्रयुज्यमानेन वीणावाद्यवैचित्र्यावकाशदायिना । हृद्यतागतिकादिकन्यायादिगुणान्तरमप्याह -- निर्गीतेनेति । अपदावखेलने अयत्नेन बालहेवाकपोपणन्यायेन बद्धाः । स्वीकृता इत्यर्थः ।
एवमविनाशकारणं प्रतिपाद्य संज्ञानिर्वचनं रूपयति -- एवमिति । निगीतमिति तावदाद्यं नाम । निरर्थकं गीतमिति । तत्तु गन्धर्वैर्बहिर्गीतमिति स्मृतम् । कुतो दैत्यौनां स्पर्धयेति । तत्कृतो ऽयं स्वीकारः । ततो हेतोः ।
ननु यदि स्वीकृतं ततः किमित्येषा संज्ञा कृता । अत आह -- देवानामिति । देवकर्मकं यद्बहुतयोत्कृष्टतया मननं तेन प्रयोजनभूतेन । वयं देवान्दानवेभ्यो बहुत्वेन मन्यामहे । तथा चेदं नाभ्यन्तरं बाह्ये गीतमस्माभिर्गीयत इति तैरेव वेदितव्यमित्यर्थः ॥ (31-41)

[(मू)]

1. अ॰ इदमर्धं नास्ति ।

2. द॰ अ॰ म॰ प्रणश्यताम् ।

3. ब॰ रूपे वि ।

4. अ॰ रोषिताः ।

5. ड॰ म॰ एतन्निर्गीतमेवं तु ।

[(व्या)]

[page 222]




[NZ]

1निर्गीतं गीयते यस्मादपदं वर्णयोजनात् । BhNZ_05_043ab
असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥ BhNZ_05_043cd
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । BhNZ_05_044ab
उत्थापनादिकं यच्च तस्य कारणमुच्यते2 BhNZ_05_044cd
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति3 नित्यशः4 BhNZ_05_045ab
5वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ BhNZ_05_045cd
[ABh]

ननु सप्तरूप एव किमिदं प्रयोज्यम् । नेत्याह -- धातुभिरिति । चित्रा नाट्योपरञ्जनार्था या वीणा तस्यामप्येतद्द्धातुभिरुक्तस्वरूपैः (करतलनिष्कोटितादिभिः) उपलक्षितं प्रयोज्यम् । कथम् । भाण्डवाद्ये गत्यर्थे यानि गुरूणि ``घृत् दृङ'' इत्यादिकानि लघूनि ``मट कट'' इत्यादिकानि । तत्रान्वितं कृत्वा । अनेन भाण्डवाद्योपरञ्जकत्वमुक्तम् । तथा ध्रुवागाने ये स्थाय्यादयो वर्णा ये च प्रसन्नादिप्रभृतयो ऽलङ्कारास्तत्र सम्यग्युक्तं संबद्धं कृत्वा । अनेन गानोपरञ्जकत्वं दर्शितम् । अथशब्दो ऽप्यर्थे । योजितः पूर्वैरिति (बुधैरिति) योजनाकुशलैः ।
ननु निर्गीतसंज्ञास्य या पुराणी तत्र किन्निमित्तमित्याशङ्क्याह -- निर्गीतमिति । पदमित्यर्थप्रत्यायकमित्यर्थः । वर्णा झंटुमादयः स्थाय्यादयश्च । ननु लक्षणाभ्यन्तर एव तदिति कथं बाह्यमित्याशङ्क्याह -- असूयया चेति । तैर्यतो ऽसूयितं बलादेवाविष्कृतबहुमानैः अतस्तदीयहृदयग्रहणायैवं व्याहृतम् । न च सर्वथा निर्निबन्धनमेवेदमिति दर्शयितुं चकारेणान्वर्थताप्यस्तीति सूचयति । गीयमानेभ्यः पदेभ्यः सार्थकेभ्यः पदेभ्यो बहिर्गीतमिति । एवमविनाशकारणं संज्ञानियोजननिमित्तं च तेनैव क्रमेणाभिधाय प्रतिजानीते -- निर्गीतमित्यादिना । आश्रावणादि निर्गीतं सप्तरूपसमन्वितम् । इति गीतकविधिः । उत्थापनादिकमित्यविशिष्टं बहिर्यवनिकाङ्गम् । तस्य कारणम्ं प्रयोजनम् ॥ (42-44)

[(मू)]

1. अ॰ निगीयते ऽतो निर्गीतमपदं वल्गु योजयेत् ।

2. म॰ त॰ इतः परं पद्यमेकमधिकं दृश्यते ।

तुष्यन्त्यप्यरसस्तत्र कृते ऽवतरणे द्विजाः ।

तुष्यन्त्यपि च गन्धर्वा आरम्भे सम्प्रयोजिते ॥ इति ॥

इदं न व्याख्ययानुमतम् ।

3. अ॰ मृष्यन्ति ।

4. ड॰ म॰ सर्वशः ।

5. ड॰ म॰ वज्रपाणौ ।

[(व्या)]

[page 223]




[NZ]

परिघट्टनया1 तुष्टा युक्तायां राक्षसां गणाः । BhNZ_05_046ab
सङ्घोटनाक्रियायां च2 तुष्यन्त्यपि च3 गुह्यकाः ॥ BhNZ_05_046cd
मार्गासारितमासाद्य तुष्टा4 यक्षा भवन्ति हि । BhNZ_05_047ab
गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति5 नित्यशः ॥ BhNZ_05_047cd
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । BhNZ_05_048ab
तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ BhNZ_05_048cd
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । BhNZ_05_049ab
नान्दीप्रयोगे ऽथ6 कृते प्रीतो भवति चन्द्रमाः ॥ BhNZ_05_049cd
युक्तायामवकृष्टायां प्रीता7 नागा भवन्ति हि । BhNZ_05_050ab
8तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥ BhNZ_05_050cd
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । BhNZ_05_051ab
जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ BhNZ_05_051cd
[ABh]

तद्दर्शयति -- आश्रावणायामित्यादिना भूतगणो भवेदित्यन्तेन श्लोकाष्टकेन । प्रत्याहाराद्याश्रावणायामेवान्तर्भूतम् । अवधित्वादस्याः । (क(1)स्मिंश्चित्पुस्तके ---
``प्रत्याहारे यातुधानाः प्रीयन्ते सह पन्नगैः ।
तुष्यन्त्यप्सरसस्तत्र कृते ऽवतरणे द्विजाः ॥
तुष्यन्त्यपि च गन्धर्वा आरम्भे सम्प्रयोजिते ।''
इति सार्धश्लोके दृश्यते) यादृच्छिकसम्प्रधारितपरिग्रहबहुमानकृतः परितोषो विशिष्टविषयो मन्तव्यः । मार्गासारितशब्देनैकदेशेन सर्वमङ्गं लक्षितम् । आसारितशब्देनासारितविधिरिति समाहारद्वन्द्वेन द्वयोरङ्गयोः फलमेतन्निरूपितम् । देवाः । रुद्र(1) इति । तदियकर्मस्तुतेः । एतच्च गीतकवर्धमानयोरन्यतरप्रयोगे वैकल्पिकं फलद्वयम् । ब्रह्मेति । प्रथमसृष्टि

[(मू)]

1. अ॰ ब॰ त॰ परिघट्टनायां तुष्टाः स्युः ।

2. ड॰ ब॰ तु ।

3. अ॰ ष्यन्तीह सगु ।

4. न॰ ब॰ प्रीता ।

5. ड॰ म॰ गीतास्तुष्यन्ति । अ॰ तुष्टाः स्युः सर्वदेवताः ।

6. च॰ अ॰ ब॰ प्रयोगे च । त॰ गे तु ।

7. अ॰ प्रीतः पितृगणो भवेत् ।

8. अ॰ इयं पङ्क्तिर्नास्ति । म॰ इतः सार्धपद्यद्वयं नास्ति ।

[(व्या)]

1. म॰ भ॰ अयं भागो न दृश्यते ।

2. म॰ भ॰ रुद्राः ।

[page 224]




[NZ]

तथा चार्यां प्रयुक्तायामुमा तुष्टा भवेदिह । BhNZ_05_052ab
महाचार्यां प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ BhNZ_05_052cd
1आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । BhNZ_05_053ab
पूर्वरङ्गे 2मया ख्यातं तथा चाङ्गविकल्पनम् ॥ BhNZ_05_053cd
3देवस्तुष्यति यो येन यस्य यन्मनसः प्रियम् । BhNZ_05_054ab
तत्तथा पूर्वरङ्गे तु मया प्रोक्तं द्विजोत्तमाः ॥ BhNZ_05_054cd
[ABh]

व्यापारः तत्र नाट्यविषयः । स चात्र पुष्पाञ्जलिना पूज्यते (सूच्यते) । चन्द्रमा इति । ``जितं सोमेन'' इति (ना॰ शा॰ 5-110) नान्द्यां पाठात् । नागा इत्यवकृष्टगतिः । जर्जरस्येति(1) । शुष्कावकृष्टालक्षणस्यैवाङ्गस्य शेषभूतो जर्जरस्तुतिप्रदर्शकः श्लोको वक्ष्यते ``ततः श्लोकं पठेदेकम्''(ना॰ शा॰ 5.118) इति । तस्येदं प्रयोजनं -- विघ्नानां यो विनायको निवारयिता स तुष्टो भवति । तन्निवारणोपकरणसमुत्तेजनाद्विघ्नविनायका विरूपाक्षादयः । ते विघातं न कुर्वन्तीति । सैव फलसाम्यात्तुष्टिरेषामिति केचित् । उमेति । तस्या एव स्वरूपकीर्तनात् ॥ (45-52)
एतत्सर्वमुपसंहर्तुमाह -- आश्रावणादीत्यादि कृतानि त्वित्यन्तं श्लोकचतुष्टयम् । प्रत्याहारादीनामाश्रावणायामन्तर्भावः । चारीशब्देनेह महाचारी । त्रिगतप्ररोचनयोर्दृष्टैकं प्रयोजनमिति तात्पर्यम् । पूर्वरङ्ग इति । तदुपश्लिष्टमित्यर्थः । ख्यातमित्युद्देशेन । अङ्गानां चैषां विकल्पनं लक्षणमित्यर्थः । देवस्तुष्यतीत्यादिना प्रयोजनोपसंहारः । मनसः प्रियमित्यभिमानपरिग्रहबलादित्यर्थः ।
प्रशंसामस्य दर्शयति -- सर्वैर्दैवतैः पूजार्हं प्रशंसनीयम् । अत्र हेतुः -- यतो दैवतान्यनेन पूज्यन्ते । अत एव प्रेक्षापतिप्रयोक्तृप्रभृतीनामेव तत् । धनेषु यशस्यायुषि तत्साधु । तत्कारित्वात् । नह्यत्र कश्चिदपि (कस्यचिदपि) विरक्तिरिति । दैत्येति -- निर्गीतं दैत्यादिकस्य तुष्टिकृत् । गीतकादि च देवानाम् ॥ (53-56)

[(मू)]

1. म॰ त॰ प्रत्याहारादि ।

2. न॰ समाख्यातम् । त॰ मया ख्याते तथा चाङ्गविकल्पने ।

3. ब॰ येन तुष्यति यो देवो ।

4. त॰ ङ्गे ऽत्र ।

[(व्या)]

1. म॰ भ॰ गतिरस्येति ।

[page 225]




[NZ]

सर्वदैवतपूजार्हं1 सर्वदैवतपूजनम् । BhNZ_05_055ab
2धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥ BhNZ_05_055cd
दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । BhNZ_05_056ab
निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ BhNZ_05_056cd
[या3 विद्या यानि शिल्पानि या गतिर्यच्च चेष्टितम् । BhNZ_05_XXXab
लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ॥ ] BhNZ_05_XXXcd
निर्गीतानां सगीतानां वर्धमानस्य चैव हि । BhNZ_05_057ab
ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ BhNZ_05_057cd
प्रयुज्य गीतकविधिं वर्धमानमथापि5 च । BhNZ_05_058ab
गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ BhNZ_05_058cd
आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । BhNZ_05_059ab
गुर्वक्षराणि जानीयात्पादे ह्येकादशाक्षरे ॥ BhNZ_05_059cd
[ABh]

नन्वस्य लक्षणं कुतो ज्ञेयम् । यत इह तावन्नोक्तम् । न चाङ्गप्रसङ्गतः लक्षणमस्य पश्यामो वयम् । इत्याशङ्क्य प्रसङ्गादत्र(दन्यत्र) लक्षणं वक्ष्यामीति प्रसङ्गावकाशं दर्शयितुमाह -- निर्गीतानामिति । तेषां लक्षणं ``तथा रुद्रे''ति (यथा रुन्दुम् इति) लक्ष्यमुदाहरणं वक्ष्यामि । ध्रुवाणां विधाने (ना॰ शा॰ 31-122) कर्तव्ये सतीत्यर्थः । न तु ध्रुवाध्याये ।
एतदुक्तं भवति -- ध्रुवागानस्येहोपरञ्जकज्येष्ठतया तस्य वक्तव्यप्रकृतिभूतं गान्धर्वं ज्ञातुं यत्तल्लक्षणं वक्ष्यते तत्रतत्ततातोद्यविधाने तालाध्याये च वक्ष्यामि (इति) । एतदविदितत्व(दविदित्वा य)द्ध्रुवाशब्दो ,अत्र छन्दोनिबद्धनिमित्ता(त्त?)निर्गीतत्वे वर्तत इत्याहुः तदसत् । अनुक्तसमत्वादस्य । तद्विधाने तल्लक्षणं वक्ष्यामीति न किञ्चित् । अनार्षो ऽयं श्लोक इति तु महत्साहसम् ॥ (57)
अथोत्थापनादीनां लक्षणशेषः पूरयितव्यः । तत्रोत्थापनस्यानुवादपूर्वकं ध्रुवालक्षणं तत्प्रयोगद्वारेण पूर्णं कर्तुमाह -- प्रयुज्येत्यादि योजयेदित्यन्तं श्लोकचतुष्टयम् । तत्र

[(मू)]

1. त॰ जार्थम् ।

2. ड॰ त॰ म॰ धर्म्यम् ।

3. इदं पद्यं `म॰'पुस्तक एव दृश्यते ।

4. म॰ तथैव च ।

[(व्या)]

[page 226]




[NZ]

चतुष्पदा भवेत्सा तु 1चतुरश्रा तथैव च । BhNZ_05_060ab
चतुर्भिस्सन्निपातैश्च2 त्रिलया त्रियतिस्तथा ॥ BhNZ_05_060cd
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । BhNZ_05_061ab
जात्या चैव हि विश्लोका तां च3 तालेन योजयेत् ॥ BhNZ_05_061cd
शम्या तु द्विकला कार्या तालो द्विकल एव च । BhNZ_05_062ab
पुनश्चैककला शम्या सन्निपातः 5कलात्रयम् ॥ BhNZ_05_062cd
[ABh]

प्रथमः श्लोको ऽनुवादकः । गीतकवर्धमानयोरन्यतरत्प्रयुज्यते । गीतकान्ते । ततो वा । वर्धमानादनन्तरम् । उत्थापनी ध्रुवा कार्येत्यनुवादः । चो भिन्नक्रमो वार्थे । अन्ये तु समुच्चये । निपातसमुदायं युगपद्गीतकवर्धमानप्रयोगाशयेनाहुः ।
ध्रुवाया लक्षणम् -- आदौ द्वे चेति । शेषानि तु लघूनि । एवम्भूताश्चत्वारो ऽस्याः पादाः । तालश्चास्याश्चञ्चत्पुटः द्विकलः । भाविविधिना तल्लाभे ऽपि चतुरश्रग्रहणाद् द्विकलचञ्चत्पुटपादभागविषयो वक्ष्यमाणाङ्गुलिनियमोपजीवनार्थः । सर्व(1)पादान्ते यतो ऽस्याः सन्निपातस्तेन चतुस्सन्निपाता । द्रुतादयो लयाः । स्रोतोगतादयो यतयः । परिवर्ता गानक्रियाभ्यावृत्तयः । ते चत्वारः । समपाणिरपरपा(रवपा)णिरुपरिपाणिश्चेति त्रयः पाणयो ऽस्यां कार्या इति शेषः । किमियं ध्रुवा वृत्तजातिमध्ये न गणितेत्याशङ्क्याह -- विश्लोकाख्यवृत्तजातिरियम् --
``(2)आद्यां(द्ये) चतुर्थमपि चाष्टमकं सैकादशं यदि भवेच्च गुरु ।
सा त्रैष्टुभे भवति पादविधौ विश्लोकजातिरवकृष्टकृता ॥'' (ना॰ शा॰ 32-149) ॥ (58-31)
चतुरश्रेति तालेन योजयेदिति च यदुक्तं तत्स्पष्टयति -- शम्या त्वित्यादि । द्विकलचञ्चत्पुटस्य शम्यादेः स्वरूपमनेन दर्शितम् । (3)सापि सशब्दपात(4)गतहस्तनिर्वर्त्यैव । पूर्वादिशब्दात् द्विकलेति दर्शयति -- द्विकलेत्यादिना । तेन निष्क्रामशम्ये दक्षिणेन ।

[(मू)]

1. न॰ चतुरस्रे प्रमाणतः ।

2. ढ॰ म॰ सन्निपातैस्तु ।

3. त॰ म॰ कास्तांश्च । ब॰ कस्तां च ।

4. न॰ म॰ कलात्रये । ड॰ त॰ कलाश्रयम् ।

[(व्या)]

1. म॰ भ॰ सर्वापदा ।

2. म॰ भ॰ अर्थो ऽन्यचतुर्थमपि चाष्टमकम् ।

3. म॰ सतत्र सापि ।

4. म॰ भ॰ वात ।

[page 227]




[NZ]

एवमष्टकलः कार्यः सन्निपातो विचक्षणैः । BhNZ_05_063ab
चत्वारः सन्निपाताश्च1 परिवर्तः स उच्यते ॥ BhNZ_05_063cd
पूर्वं 2स्थितलयः कार्यः परिवर्तो विचक्षणैः । BhNZ_05_064ab
तृतीये सन्निपाते तु 3तस्य भाण्डग्रहो भवेत् ॥ BhNZ_05_064cd
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । BhNZ_05_065ab
कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ BhNZ_05_065cd
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः4 BhNZ_05_066ab
5शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ BhNZ_05_066cd
[ABh]

पुनः निष्क्रामतालौ वामेन । ततो दक्षिणेन शम्या । ततो द्वाभ्यां प्रवेशनिष्क्रामसन्निपाताः । तत्र --
`आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुञ्चनम् ।
अधस्तलेन हस्तेन निष्क्रामो ऽन्त्य(ल्प?)प्रसारणम् ॥
भूयश्चाकुञ्चनं ज्ञेयं प्रवेशाख्यमधस्तलम् । (ना॰ शा॰ 31-33-34)
शम्या दक्षिणपातस्तु तालो वामेन कीर्तितः ।
उभयोः सन्निपातः स सन्निपात इति स्मृतः ॥'
चत्वारः सन्निपाता इति पादचतुष्टयस्यापि परिवर्तनमाह । स्थितलयो विलम्बितलय उक्तः । तृतीय(1) इत्यन्त्यकलावर्जितपादत्रयं तन्त्रीगानसमन्वितं प्रयुज्य तृतीयपादान्त्यकला । ततः प्रभृति पुष्करवाद्यप्रयोगो यावत्तुर्यपादसमाप्ति । पुनर्मध्यलयेन गानम् । तत्समये सूत्रधारप्रवेशः । तस्येति -- प्रथमपरिवर्तस्य । प्रथममपि च गानमन्यद्वितीयादिसाहचर्यात्परिवर्तशब्देनोच्यते । अन्यत् द्विः पचतीति त्रयः(2) पाकाः स्युः । सकृत्पचतीति द्वौ स्याताम् । सूत्रधारशब्देन तत्साहचर्यात्परिaaर्श्विकावपि ॥ (62-65)
तेषां प्रवेशे (3)इतिकर्तव्यतामाह -- पुष्पाञ्जलिमित्यादिना । पूर्वं पुष्पाञ्जलिः सूत्रधारस्यैव । इतरयोर्भृङ्गारजर्जरधरत्वेन

[(मू)]

1. द॰ म॰ त॰ सन्निपातास्तु ।

2. ब॰ पूर्वः स्थितलये ।

3. न॰ तस्या ।

4. न॰ रक्षां मङ्गलसंस्कृताम् । म॰ संस्तुताः । त॰ मण्डलतत्कृताः । ब॰ सत्कृताः । 5. ड॰ म॰ शुद्धवर्णाः ।

[(व्या)]

1. म॰ भ॰ तृतीय उक्तः ।

2. म॰ भूयः ।

3. प्रयोग इतिवक्तव्य ।

[page 228]




[NZ]

स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । BhNZ_05_067ab
दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ BhNZ_05_067cd
भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । BhNZ_05_068ab
2मध्ये तु सूत्रभृत्ताभ्यां 3वृत्तः पञ्चपदीं व्रजेत् ॥ BhNZ_05_068cd
4पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । BhNZ_05_069ab
5पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः6 BhNZ_05_069cd
[ABh]

वक्ष्यमानत्वात् । शुद्धं शुक्लम् । गोहनं (शोभनं) सविस्मयं मनः येषाम् । विस्मयश्च ये श्रुत्यादिभिः दुर्विनेयास्ते ऽस्माभिः सुखेन विनीयन्त इति ।
``या चाकुञ्चितपक्ष्माग्रा साश्चर्योद्वृत्ततारका ।
सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते ॥'' (ना॰ शा॰ 8-51)
सौष्ठवेत्यादिना लक्षणैकदेशेन वैष्णवमेव स्फुटयति । अन्यथा विष्णुत्वादावपि कस्यचित्सम्भावना भवेदन्वर्थतया ।
``द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितश्चैकः त्र्यश्रः पक्षगतो ऽपरः ॥ (ना॰ शा॰ 10-52)
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेतद्धि ।'' (ना॰ शा॰ 10-53)
दीक्षिता इति कृतोपवासाः ॥ (66-67)
भृङ्गारः शौचाय । जर्जरो विघ्नशान्त्यै । परिपार्श्वं भवौ पारिपार्श्विकौ । अत एव सूत्रधारो मध्ये द्वाभ्यां वृत्तस्सन्निति त्रयो ऽपि पञ्चपदीं व्रजेयुरित्यर्थः । तत्प्रयोजनमाह -- पदानीति । त्रयस्ताला अन्तरं मानं यस्य तादृशो विष्कम्भः ऊर्ध्वगमने परिमाणं यस्य चरणस्य तं पार्श्वोत्थानेन(1) न तु स्पष्टतरोर्ध्वतयोत्थितं चरणं मध्ये द्वयोः पातयेत् । गमनस्य प्रक्रान्तत्वात् । किञ्चित्पुरत इत्थमेवान्यानि चत्वारि पदानि ॥ (68-70)

[(मू)]

1. न॰ पारिपार्श्वकौ ।

2. न॰ मध्ये च ।

3. म॰ त॰ ब॰ वृतः ।

4. त॰ सलिलं तु पुरस्कृत्य ।

5. त॰ म॰ पादानाम् ।

6. म॰ यथाक्रमम् ।

[(व्या)]

1. भ॰ त्थापनेन ।

[page 229]




[NZ]

त्रिताला1न्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः । BhNZ_05_070ab
पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ BhNZ_05_070cd
2एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । BhNZ_05_071ab
सूचीं वा3मपदे दद्याद्विक्षेपं 4दक्षिणेन च ॥ BhNZ_05_071cd
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मे ऽथ मण्डले । BhNZ_05_072ab
5रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ BhNZ_05_072cd
ततः सललितैर्हस्तैरभिवन्द्य6 पितामहम् । BhNZ_05_073ab
7अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ BhNZ_05_073cd
कालप्रकर्षहेतो8श्च पादानां9 प्रविभागतः10 BhNZ_05_074ab
सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः11 BhNZ_05_074cd
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः12 BhNZ_05_075ab
13ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥ BhNZ_05_075cd
[ABh]

अथ यदर्थं पञ्चपदविक्षेपः कृतस्तं पुष्पाञ्जलिविमोक्षं सेतिकर्तव्यताकमाह -- सूचीमित्यादि ।
कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ (ना॰ शा॰ 10-34)
पृष्ठदेश इति शेषः । तस्य पादस्य बहिः क्षेपः मण्डलं स्थानम् । किन्तत् । ब्राह्ममित्याह । रङ्गपीठस्येति । अभिवादनानीत्यर्थः । त्रीणीति । प्रत्येकं कथं वन्दनं कार्यमित्याह । कालस्य यः प्रकर्षो बहुतरत्वम् तत्र । चो(1) हेतौ । नृत्तहस्तकरणप्रयोगात्म(2)कमवलम्ब्य । ननु किला(कियान)सौ कालप्रकर्षः । आह -- पादानामिति । तदुपलक्षितानां कलानां यः प्रविभागः कालपरिमाणान्तरमाश्रित्य । ननु तासामपि को विधिरित्याशङ्क्याह -- सूत्रधारप्रवेशाद्य इति ।

[(मू)]

1. म॰ त्रिकालान्त ।

2. ड॰ एवं विष्णुपदीं गत्वा ।

3. म॰ सूचिं वामपदं दद्यात् । ब॰ सूची वामे ।

4. ड॰ म॰ त॰ दक्षिणेन तु ।

5. ब॰ इदमर्धं नास्ति ।

6. ड॰ त॰ अभिवाद्य पितामहम् ।

7. ड॰ त॰ म॰ अभिवादनानि ।

8. न॰ ब॰ म॰ त॰ हेतोस्तु ।

9. ब॰ पातानाम् । त॰ कलानाम् ।

10. त॰ म॰ प्रविभागशः ।

11. न॰ म॰ नयान्ततः । ब॰ नयानुगः ।

12. ड॰ म॰ मध्यलयाश्रयः ।

13. ड॰ म॰ अतःपरं तृतीयस्तु ।

[(व्या)]

1. म॰ भ॰ यो हेतौ ।

2. भ॰ गात्मा तमव ।

[page 230]




[NZ]

भवेदाचमनं चैव जर्जरग्रहणं तथा । BhNZ_05_076ab
उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥ BhNZ_05_076cd
1वेधं तेनैव कुर्वीत विक्षेपं वामकेन2 च । BhNZ_05_077ab
पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ BhNZ_05_077cd
3ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च4 BhNZ_05_078ab
इत्यनेन 5विधानेन सम्यक्कृत्वा प्रदक्षिणम् ॥ BhNZ_05_078cd
6भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । BhNZ_05_079ab
यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ BhNZ_05_079cd
आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । BhNZ_05_080ab
प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ BhNZ_05_080cd
[ABh]

एतदुक्तं भवति -- द्वात्रिंशत्कलानां मध्ये प्रवेशः पञ्चपदीगमनं पुष्पत्यागो ऽभिवादनत्रयं चेति निर्वर्तनीयम् । तत्र यावतीषु कलासु पञ्चपदीगमनान्तं कर्म सम्पन्नं ततो या अवशिष्यन्ते कलास्तदभिवादनयोग्यं व्यावर्तितपरवर्तितादिकरणमुद्वृत्तनलिनीपद्मकोशादिनृत्तहस्तजातं वावलम्ब्य सललितमभिवादनत्रयं कार्यम् ।
एवं द्वितीये परिवर्ते कर्मत्रयं प्रदर्श्य तृतीयपरिवर्ते द्रुतलये कर्मकलापमुपदिशति ततःपरमिति । मण्डलस्येति । ब्रह्मस्थानस्य । तत्कर्मत्र(1)यं क्रमेण लक्षयन्प्रथमस्य लक्षणमाह -- उत्थायेति । अभिवादने हि जानुशिरोविनमितभूश्लोषपर्यन्तं कृतम् । उद्धरेदिति । ``कुञ्चितं पादम्''(ना॰ शा॰ 10-34) इत्यादिसूचीं सूचयति । वेधमिति द्वितीयपादपार्ष्णिपृष्ठे पातनम् । पार्श्वसंस्थमिति पार्श्वक्रान्तां (ना॰ शा॰ 10-32) चारीमाह ।
एतत्कर्मोपसंहरन्द्वितीयं शौचाख्यं लक्षयति -- इत्यनेनेति । आह्वयेति वचनाद्भृङ्गारधारिणः प्रदक्षिणभ्रमणे तूष्णींभावेन स्थितिरिति लक्ष्यते । शौचप्रयोजनं वक्ष्यते । यतो ऽभिवादने श्लिष्टं शिर इत्यादिन्यायस्मृत्यादितः प्राङ्मुख उपविश्याबहिर्जानुरित्यादिक्रमः ॥ (71-79)

[(मू)]

1. ड॰ म॰ तेनैव वैधम् । त॰ एवं तेनैव ।

2. त॰ वामपादके ।

3. न॰ त॰ पुनश्च ।

4. ड॰ त॰ म॰ दक्षिणस्य तु ।

5. ड॰ प्रकारेण ।

6. ड॰ म॰ भृङ्गारधारमाहूय ।

[(व्या)]

1. भ॰ कर्मलक्षयन् ।

[page 231]




[NZ]

1सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । BhNZ_05_081ab
प्रदक्षिणाद्यो विज्ञेयो 2जर्जरग्रहणान्तकः ॥ BhNZ_05_081cd
तृतीयः परिवर्तस्तु विज्ञेयो वै 3द्रुते लये । BhNZ_05_082ab
गृहीत्वा जर्जरं 4त्वष्टौ कला 5जप्यं प्रयोजयेत् ॥ BhNZ_05_082cd
6वामवेधं ततः कुर्याद्विक्षेपं 7दक्षिणस्य च । BhNZ_05_083ab
ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ BhNZ_05_083cd
वामवेधस्तु तत्रापि 8विक्षेपो दक्षिणस्य 9तु । BhNZ_05_084ab
जर्जरग्रहणाद्यो ऽयं 10कुतपाभिमुखान्तकः ॥ BhNZ_05_084cd
चतुर्थः परिवर्तस्तु 11कार्यो द्रुतलये पुनः । BhNZ_05_085ab
12करपादनिपातास्तु भवन्त्यत्र तु षोडश ॥ BhNZ_05_085cd
[ABh]

तृतीयं कर्म दर्शयति -- प्रयत्नेति । कस्मिन् सन्निपाते तद्ग्रहणमित्याशङ्कामपाकर्तुमाह -- प्रदक्षिणाद्य इति । तेन तुर्यपदा(परिवर्ता?)न्त्यसन्निपातकाले तद्ग्रहणमित्युक्तं भवति ।
अथ द्रुतलय एव चतुर्थे परिवर्ते कर्मद्वयं दर्शयति -- गृहीत्वेति । ग्रहणं धारणम् । इहाष्टौ कला इति । प्रथमपादगतपर्यन्तमित्यर्थः । जप्यं जपनीयं तृतीयाध्यायोक्तम् । ``अत्र विघ्नविनाशार्थम्''(ना॰ शा॰ 3-78) इत्यादिश्लोकचतुष्टयं प्रतिकलमर्धश्लोक इत्यनेनावसानप्रकर्षेण योजयेदुच्चारयेदिति यावत् ॥ (80-82)
ननु पञ्चपद्यां कियान् कालविक्षेप इत्याशंक्याह -- जर्जरग्रहणाद्य इति । इहापि ग्रहणं धारणम् । तेन चतुर्विंशत्या कलानां कुतपगमनं कुर्यादिति तात्पर्यम् । षोडशेति । कलाद्वयेनैकं पतनमिति यावत् ॥ (83-85)

[(मू)]

1. ड॰ ब॰ सन्निपाते समं ग्राह्ये । त॰ समं कार्यो ।

2. य॰ म॰ जर्जरग्रहणं ततः ।

3. न॰ द्रुतो लयः ।

4. न॰ म॰ चाष्टौ ।

5. न॰ ब॰ जाप्यम् ।

6. ड॰ म॰ वामवेधस्ततः कार्यो ।

7. ड॰ म॰ अ॰ दक्षिणेन तु ।

8. न॰ विक्षेपोत्सर्पणान्तिकम् । अ॰ विज्ञेयो दक्षिणस्य तु ।

9. प॰ त॰ ब॰ च ।

10. म॰ कुतपाभिमुखान्ततः । त॰ ब॰ कुतपाभिगमान्तकः । अ॰ सर्वनिष्क्रान्तकस्तथा ।

11. ड॰ म॰ अ॰ विज्ञेयो वै द्रुते लये ।

12. ड॰ करपात ।

[(व्या)]

[page 232]




[NZ]

त्र्यश्रे द्वादश पा1तास्तु भवन्ति 2करपादयोः । BhNZ_05_086ab
वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ BhNZ_05_086cd
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव3 विधीयते । BhNZ_05_087ab
एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ BhNZ_05_087cd
4चतुरश्रं लये मध्ये 5सन्निपातैरथाष्टभिः । BhNZ_05_088ab
6यस्या लघूनि सर्वाणि केवलं 7नैधनं गुरु ॥ BhNZ_05_088cd
भवेदतिजगत्यान्तु सा ध्रुवा 8परिवर्तनी । BhNZ_05_089ab
वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ BhNZ_05_089cd
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम्9 BhNZ_05_090ab
द्विकलं पादपतनं 10पादचार्यां गतं भवेत् ॥ BhNZ_05_090cd
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । BhNZ_05_091ab
द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ BhNZ_05_091cd
[ABh]

त्र्यश्र इति । प्रसङ्गादेतदुक्तं । न चैतावत्प्रयोगात्मकमेतदङ्गमिति दर्शयितुमाह -- एवमित्यादि । एवम्भूतायामिहेतिकर्तव्यतायां कृतायां
``यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गे ऽस्मिन्'' इति (ना॰ शा॰ 5-22) श्लोकलक्षितं प्रत्याहारादीनां गीतकविध्यन्तानां प्रयोगस्य च नाट्यस्योत्थापनं व्याख्यातरूपं कार्यम् । चशब्दस्तुशब्दस्यार्थे । ततस्तु परिवर्तनम् । न तु ध्रुवाप्रयोगा(1)नन्तरमेव ।

[(मू)]

1. न॰ य॰ पाता हि । म॰ तु द्वादशपदा । अ॰ द्वादश पादास्तु ।

2. ड॰ अ॰ म॰ करपादजाः ।

3. न॰ नहि । त॰ श्रेण तु । अ॰ श्रेणैव । ब॰ वन्दनीनीत्यादि पङ्क्तिद्वयं नास्ति ।

4. ड॰ म॰ चतुरश्रे । अ॰ त॰ चतुरश्रलये ।

5. ड॰ म॰ सन्निपातैस्तथाष्टभिः ।

6. ड॰ ब॰ यस्याम् ।

7. ड॰ म॰ निधनम् ।

8. ड॰ परिवर्तिनी ।

9. द॰ न॰ ब॰ वन्दे देवान्यथादिशम् । अ॰ वन्द्याश्चैव दिशो दश । त॰ यथा देवा यथादिशम् ।

10. म॰ चर्या विधीयते । ब॰ चर्यागतं भवेत् । अ॰ चार्यभिधीयते । त॰ चार्या विधीयते ।

[(व्या)]

1. भ॰ ध्रुवानुप्रयोगा ।

[page 233]




[NZ]

ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदैरथ । BhNZ_05_092ab
ततो ऽभिवादनं 1कुर्याद्देवतानां यथादिशम् ॥ BhNZ_05_092cd
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । BhNZ_05_093ab
द्वितीयां दक्षिणामाशां वन्देत यमदैवताम् ॥ BhNZ_05_093cd
वन्देत पश्चिमामाशां ततो वरुणदैवताम् । BhNZ_05_094ab
चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ BhNZ_05_094cd
[ABh]

ये तूपसंहारग्रन्थत्वेनैतद्व्याचक्षते ``तस्मादुत्थापयन्ति'' इति न(तैः)किञ्चिदनुस्मृ(सृ)तं स्यात् । न हि ब्रह्माभिवादनजर्जराभिमन्त्रणमात्रेण किञ्चिदप्युत्थापितं भवति । विघ्नशमनोपयोगित्वेनोत्थापकत्वं परिवर्तनादावपि स्यात् । उत्थापनीत्यन्वर्थत्वात् । नाट्यायितेन च प्रयोगोत्थापनान्तस्य च ध्रुवाभिनयरूपतयोचितार्थाक्षेपात् ।
``यत्तु काव्येन नोक्तं स्याद्गीतेन'' इति । तथा ``गीतं प्राणाः प्रयोगस्य'' इति, ``परिक्रमेण रङ्गस्य तथैवार्थवशेन च परिवर्तनास्तु''
इति वचनेन गान्धर्व इव ध्रुवागाने परिवर्तानामदृष्टार्थेतिकर्तव्यतारूपा(पत्वा)भावा(1)त् । स्फुटश्चैषामुपाये निर्दिष्टेनोचितेनार्थचतुष्टयेन युक्तेयं सुकविना ध्रुवा कार्येति वृद्धाः ।
ततश्चेति । चतुरश्रतालयुक्तध्रुवायोगात्परिवर्तनं चतुरश्रम् । पादैर्गीयत इति सन्निपाताञ्च(श्च) पादचतुष्टययोगात् । सन्निपाताष्टकमत्र लक्षयति -- यस्या इति । अतिजगती त्रयोदशाक्षरा । तेन परिवर्तनचतुष्टयम् । गुरुः वार्तिकमार्गो यत्र चतुर्मात्रा(2) कला । गीतं यदनुगच्छत्यनुगतमेतद्भवेद्वाद्यम् । पादचार्यां भौम्यामाकाशिक्यां वा कर्तव्यायां पादपतनं द्वे कले व्याप्नोति । एकस्यामुत्क्षेपो ऽन्यस्यां पतनमिति यावत् । अन्ये तु शोभार्थं कलायां द्वौ पादपातौ वार्तिकमार्गे वर्णयन्त इत्थं व्याचक्षते -- द्वित्वं वर्तयत्येको यो ऽ(न्यो)भिर्वर्तते । न विद्यते कले यस्य पादपतनस्य तद्विकलमिति । एवं(1) च वदन्तः पूर्वोक्त उक्ते(4)त्यर्थः (उक्त इत्यर्थः) (पूर्वोत्तरविरुद्धतानभिज्ञाः?) ॥ (86-92)

[(मू)]

1. अ॰ कृत्वा ।

[(व्या)]

1. म॰ भ॰ भावत्वात् ।

2. म॰ भ॰ र्मार्गा ।

3. भ॰ एकञ्च ।

4. भ॰ पूर्वोक्तैरित्यर्थः ।

[page 234]




[NZ]

दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । BhNZ_05_095ab
दक्षिणेन 1च कर्तव्यं 2विक्षेपपरिवर्तनम् ॥ BhNZ_05_095cd
प्राङ्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः3 BhNZ_05_096ab
4त्रिपद्या 5सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम्6 BhNZ_05_096cd
दक्षिणं तु पदं 7पुंसो वामं 8स्त्रीणां प्रकीर्तितम् । BhNZ_05_097ab
9पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ BhNZ_05_097cd
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । BhNZ_05_098ab
नपुंसकपदेनापि तथैवाम्बुजसम्भवम्10 BhNZ_05_098cd
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । BhNZ_05_099ab
11चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ BhNZ_05_099cd
[ABh]

शक्रो ऽधिष्टात्री देवता अस्या इति तां पूर्वां यजेतेति (वन्देतेति) । विशेष्यण वा विशेषेण(1) वेदं बध्नातीति (विशेषणेन वा संबध्नातीति) सविशेषं वन्द्यमानत्वं शक्रस्य गम्यते ।
विक्षेपपूर्वकं परिवर्तनम् । येनोत्तराभिमुखं स्थितः(2) परिवृत्य पूर्वाभिमुखो भवति । तत्र किं कुर्यादित्याह -- प्राङ्मुखस्त्विति । त्रिपदीं दर्शयति -- दक्षिणन्त्विति (त्ये)तया त्रिपद्या । अभिवादनं दर्शयति -- वन्देतेति ।
एवं दिग्देवतावन्दनं परिवर्तिन्या ध्रुवया विद्यु(ध्यु)द्गी(3)यमानपदया कार्यम् । तस्यान्त इत्यादि । तस्येति परिवर्तस्य । सूत्रधारस्य पारिपार्श्विकयोश्च तिस्रः क्रियाः । तद्व्यतिरिक्तञ्चतुर्थं कर्म करोतीति चतुर्थकारः(4) । विधिः ``स्थानन्तु वैष्णवम्'' इत्यादि (ना॰ शा॰ 5-67) सूत्रधारोक्तः । पुष्पाणां प्रयोजनमाह -- यथावदिति । तृतीये ऽध्याये पुष्कराध्याये (ना॰ शा॰ 34) च निरूपितदेवतापूजाक्रमेण ॥ (93-100*)

[(मू)]

1. ड॰ म॰ तु । अ॰ णे चैव ।

2. न॰ विक्षेपम् ।

3. अ॰ सकम् ।

4. ड॰ त॰ ब॰ त्रिपदीम् ।

5. म॰ अ॰ सूत्रधृग्रु ।

6. त॰ ब॰ दिनीम् ।

7. अ॰ म॰ नृणाम् ।

8. ब॰ त॰ स्त्रीपदमुच्यते ।

9. म॰ दक्षिणन्तु पदं ज्ञेयं नाभ्युत्क्षि । अ॰ पुनश्च दक्षिणः पादो ।

10. अ॰ ब्रह्माणं पद्मसम्भवम् ।

11. म॰ चतुष्प्रकारपुष्पाणि ।

[(व्या)]

1. म॰ भ॰ विशेष्येति क्रियाविशेषेणैवं बध्नातीति सद्विशेषणम् ।

2. म॰ भ॰ स्थिता ।

3. म॰ भ॰ विद्युर्गीं ।

4. म॰ भ॰ चतुष्प्रकारः ।

[page 235]




[NZ]

1यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । BhNZ_05_100ab
2कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ BhNZ_05_100cd
तस्य 3भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः4 BhNZ_05_101ab
न तत्र गानं कर्तव्यं तत्र 5स्तोभक्रिया भवेत् ॥ BhNZ_05_101cd
6चतुर्थकारः पूजां तु 7स कृत्वान्तर्हितो भवेत् । BhNZ_05_102ab
ततो गेयावकृष्टा तु चतुरश्रा 8स्थिता ध्रुवा ॥ BhNZ_05_102cd
गुरुप्राया तु सा कार्या तथा 9चैवावपाणिका । BhNZ_05_103ab
स्थायिवर्णाश्रयोपेता10 कलाष्टकविनिर्मिता11 BhNZ_05_103cd
[12चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । BhNZ_05_XXXab
लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ॥ ] BhNZ_05_XXXcd
सूत्रधारः 13पठेत्तत्र मध्यमं स्वरमाश्रितः14 BhNZ_05_104ab
15नान्दीं पदैर्द्वादशभिरष्टभिर्वाप्यलङ्कृताम् ॥ BhNZ_05_104cd
[ABh]

भाण्डेनैव सम इति । पुष्करवाद्यमेवास्य गत्यर्थे परितः क्रमेण कार्यम् । गीयत इति गानमर्थवद्वाक्यम् । स्तोभानां शुष्काक्षराणाम् । क्रिया गानमित्यर्थः । स्थितेति । विलम्बितलया । गुरुप्रायेति । ``नव गुर्वक्षराण्यादौ'' इति (ना॰ शा॰ 5-111) यच्छुष्कावकृष्टाया लक्षणं भविष्यति तदेवास्यामिति यावत् । ``स्थिता स्वराः समा यत्र स्थायी वर्णः स'' (ना॰ शा॰ 29-19) तमाश्रिता ये ऽलङ्कारा वक्ष्यन्ते तैरुपेताः । कलाष्टकं द्विकलचञ्चत्पुट उक्तपूर्वः (ना॰ शा॰ 5-62) ॥ (101-103)
एवं (1)पूर्वामितिकर्तव्यतामभिधाय नान्दीमाह -- सूत्रधार इति । तत्रे(2)त्यवकृष्टायां गीतायामित्यर्थः । तद्ध्रुवागानगतेन मध्यमस्वरेण पाठ इत्यतस्तस्या ध्रुवाया

[(मू)]

1. ड॰ म॰ यथावर्तेन ।

2. ड॰ म॰ भाण्डस्यैव च । त॰ कुतपस्य तु । अ॰ कुतपस्य हि ।

3. ड॰ म॰ भाण्डगतः ।

4. न॰ गीतपरिक्रमः । म॰ गत ।

5. च॰ अ॰ श्लोकं क्रिया ।

6. न॰ म॰ चतुष्प्रकारपूजां तु ।

7. ड॰ अ॰ म॰ निष्क्रमेत्सम्प्रयुज्य हि ।

8. प॰ ब॰ स्थिरा । म॰ श्रस्थिरा । अ॰ ध्रुवा स्थितलयाश्रिता ।

9. ड॰ ब॰ चैवार्धपाणिका ।

10. च॰ ब॰ वर्णाश्रयोपेताम् ।

11. च॰ ब॰ विनिर्मिताम् । अ॰ चतुरश्रा प्रमाणतः ।

12. इदं पद्यं `त'पुस्तक एव दृश्यते ।

13. ड॰ म॰ पठेन्नान्दीम् ।

14. अ॰ मास्थितः ।

15. ड॰ म॰ ततः ।

[(व्या)]

1. म॰ भ॰ ध्रुवामितिकर्तव्यामभि ।

2. म॰ भ॰ सूत्रे धावकृ ।

[page 236]




[NZ]

नमो ऽस्तु सर्वदेवेभ्यो 1द्विजातिभ्यः शुभं तथा । BhNZ_05_105ab
जितं सोमेन वै राज्ञा 2शिवं गोब्राह्मणाय च ॥ BhNZ_05_105cd
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । BhNZ_05_106ab
3प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ BhNZ_05_106cd
4राष्ट्रं प्रवर्धतां चैव 5रङ्गस्याशा समृद्ध्यतु । BhNZ_05_107ab
प्रेक्षाकर्तुर्महान्धर्मो6 भवतु ब्रह्मभाषितः7 BhNZ_05_107cd
काव्यकर्तुर्यशश्चास्तु8 धर्मश्चापि प्रवर्धताम् । BhNZ_05_108ab
इज्यया चानया नित्यं प्रीयन्तां 9देवता इति ॥ BhNZ_05_108cd
नान्दीपदान्तरेष्वेषु 10ह्येवमार्येति नित्यशः । BhNZ_05_109ab
वदेतां11 सम्यगुक्ताभिर्वाग्भिस्तौ12 पारिपार्श्विकौ ॥ BhNZ_05_109cd
[ABh]

मध्यमांशको (1)जात्यंशको गृहीत इत्युक्तं भवति । एतदुपजीवनेनोक्तं कश्यपाचार्येण ``पूर्वरङ्गे तु षाडवः(2)'' इति ।
ना(3)न्दीं पठति -- नमो ऽस्त्वित्यादि देवता इत्यन्तम् । पदमत्रावान्तरवाक्यम् । तदन्तेष्वेवमार्येति । अन्तरशब्दो विशेषे । नान्दीपदविशेष उक्त इत्यर्थः । मध्यवाचिनीत्य(चिन्य)न्त(4)रशब्दो(ब्दे)ऽन्त्यं पदं न स्व(स्वी)कृतम् । वाग्रहणादपिशब्दाच्चतुष्षोडशपदत्वं चतुरश्रे पूर्वरङ्गे । त्र्यश्रे तु षट्पञ्च(त्रिषट्पद)त्वमपि लभ्यते । एतच्च प्रथमाध्याय एवास्माभिरुक्तम्(पु॰25-26) । रङ्गस्येति । नटकुशीलववर्गस्य । धर्म इत्रि । ``य इमं पूर्वरङ्गम्'' इति (ना॰ शा॰ 5-170) वक्ष्यमाणः ॥ (104-104)
एवमिति वतुर्थ(5)कारप्रवेशादितिकर्तव्यतेयमित्यर्थः ।

[(मू)]

1. ड॰ म॰ अ॰ द्विजातिभ्यश्च वै नमः ।

2. न॰ म॰ आरोग्यं गोभ्य एव च । अ॰ णस्य वा ।

3. ड॰ प्रशास्वेमाम् । अ॰ अव्यात्विमाम् ।

4. ड॰ म॰ राज्यम् ।

5. ड॰ म॰ रङ्गश्चायं समृद्ध्यताम् । अ॰ रङ्गमस्यां समृद्ध्यताम् ।

6. ड॰ म॰ अ॰ महाधर्मो ।

7. न॰ ब॰ म॰ भावितः ।

8. ड॰ म॰ यशश्चात्र नित्यमेव ।

9. प॰ म॰ दानवा । अ॰ सर्वदेवताः ।

10. अ॰ ब॰ ह्येवमस्त्विति ।

11. ड॰ वन्देताम् ।

12. अ॰ सम्प्रयुक्ताभिर्गीभिस्तौ । ब॰ वाग्मिनौ पारिपा ।

[(व्या)]

1. म॰ भ॰ जात्यङ्गको ।

2. बाडव ।

3. म॰ भ॰ तान ... ... पठ ।

4. म॰ भ॰ न्तरङ्ग ।

5. म॰ भ॰ चतुष्प्रकार ।

[page 237]




[NZ]

एवं नान्दी विधातव्या 1यथावल्लक्षणान्विता । BhNZ_05_110ab
2ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका3 BhNZ_05_110cd
नव4 गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । BhNZ_05_111ab
5शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ BhNZ_05_111cd
यथा ----
6दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । BhNZ_05_112ab
कृत्वा 7शुष्कावकृष्टां तु यथावद् द्विजसत्तमाः ॥ BhNZ_05_112cd
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । BhNZ_05_113ab
देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ BhNZ_05_113cd
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस् स्तवम्8 BhNZ_05_114ab
9गदित्वा जर्जरश्लोकं 10रङ्गद्वारे च यत्स्मृतम् ॥ BhNZ_05_114cd
[ABh]

एवं नान्दीं लक्षणतः पूरयित्वा शुष्कावकृष्टाख्यमङ्गं पूरयति -- ततश्शुष्कावकृष्टेत्यादिना । (ततः) एतत्प्रयोगानन्तरम् । जर्जरस्तुतिश्लोको यतः सूत्रधारेण पठ्यते ऽतो ज(1)यतेर्दर्शिका तत्पुरस्सरीत्यर्थः । शुष्कावकृष्टामात्राः (नव गुर्वक्षाणीति(2)) । उदाहरणं पठतीदं देव इत्यादि(?) । यथावदित्यनेन तदनन्तरं जर्जरश्लोकपाठं सूचयति । तद्दर्शनेन तस्या उक्तत्वात् । ततः श्लोकमित्यनेन रङ्गद्वारमङ्गं निरूपयति । देवस्य विष्णोः स्तोत्रं पूर्वं कृत्वा यां देवतामुद्दिश्योत्सवादौ नाट्यं कृतं सा तत्र स्तोतव्या । अथैवमेव (येन) नाट्यं प्रवर्तितं तत्प्रेक्षापतेराराध्यदेवता । स चेदुदासीनस्तर्हि ब्रह्मणः अयमसौ । रङ्गद्वारमुपसंहरंश्चार्याख्यमङ्गं पूरयितुं तत्र पूर्वेतिकर्तव्यतामाह -- गदित्वेति । जर्जरश्लोकं गदित्वा यो रङ्गद्वारे श्लोकस्तं च गदित्वा जर्जरो ऽपि नाम्यते । वक्ष्यमाणतुलाधृतरूपतया येन(3) श्लोकेन संपाद्यते तादृशमन्यं श्लोकं पठेत् । ``अत्र विघ्नविनाशार्थम्''

[(मू)]

1. ड॰ म॰ अ॰ यथोक्ता लक्षणैर्मया ।

2. न॰ तथा ।

3. ब॰ दर्शकाः । म॰ अ॰ त॰ दर्शिता ।

4. त॰ न॰ च गुर्व । अ॰ क्षराणीह ।

5. ड॰ अ॰ म॰ कलाश्चाष्टौ प्रमाणेन पादे ह्यष्टादशाक्षरे ।

6. ड॰ म॰ झण्टुं झण्टुं दिग्ले दिग्ले जम्बुकवलिततेतेन्ना । अ॰ दिल्हे दिल्हे दिल्हे दिल्हे जत्वं कवलितकतेतेवा । ब॰ वलितकतेतेते ।

7. म॰ शुष्कापकृष्टां तु ।

8. अ॰ ब्राह्मणस्तवः ।

9. ड॰ म॰ नन्दित्वा ।

10. ड॰ म॰ रङ्गद्वारमिति स्मृतम् । त॰ ब॰ च यः स्मृतः ।

[(व्या)]

1. भ॰ यते तद्दर्शिका ।

2. म॰ भ॰ नद्वयमुदाहर ।

3. तेन

[page 238]




[NZ]

पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम्1 BhNZ_05_115ab
जर्जरं 2नमयित्वा तु 3ततश्चारीं प्रयोजयेत् ॥ BhNZ_05_115cd
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम्4 BhNZ_05_116ab
5अड्डिता 6चात्र कर्तव्या ध्रुवा 7मध्यलयान्विता ॥ BhNZ_05_116cd
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । BhNZ_05_117ab
8आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा9 गुरु ॥ BhNZ_05_117cd
10यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वड्डिता11 बुधैः । BhNZ_05_118ab
12अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ BhNZ_05_118cd
[ABh]

(ना॰ शा॰ 3-78)इत्युक्तश्लोका(1)व्यतिरिक्तनाम्नार्थाभिधायिनं श्लोकं चार्यङ्गभूतं पठेदिति यावत् ।
अन्ये तु शुष्कावकृष्टानन्तरं देवतास्तोत्रमिति श्लोकः । ततो जर्जरश्लोकः । ततो विष्णुस्तुतिकृद्रङ्गद्वारश्लोकः । ततो जर्जरश्लोक इत्याहुः ॥ (110-115)
पश्चिमेनेति । प्राङ्मुखावेव पृष्ठनिवृत्तिभिः पदैः पारिपार्श्विकावपसर्पेतामित्यनेन केवलसूत्रधारप्रयोज्यमानाश्चारीमहाचार्यः सूचितः । ध्रुवामाह -- अड्डिता चात्रेति । रङ्गद्वारे चार्यां चेति केचित् । अन्ये तु सन्निधानाद्रङ्गद्वारे ऽवकृष्टैवेत्याहुः । अध्रुवमेव रङ्गद्वारमित्येके । चतुरश्रा इति । प्रस्ताराञ्चित एव चञ्चत्पुटे स्यात् (ना॰ शा॰ 31-पु॰522 का॰ मा॰) इह छन्दोविशेषाभिधाने ऽपि नियमो वक्ष्यते `उष्णिगनुष्टुब्बृहती पङ्क्तिश्चेति ।' (ना॰ शा॰ 32-36) अड्डिता जातिरिति ।
अन्ये तु पठन्ति --
``(2)आद्यं चतुर्थं दशममष्टमैकादशे तथा ।
गुरूणि दोध(3)के या स्यादड्डिता नाम सा स्मृता ॥'' इति ।

[(मू)]

1. त॰ विनामनम् । ब॰ हि नाशनम् । म॰ द॰ प्रकाशनम् ।

2. ड॰ म॰ मानयित्वा ।

3. प॰ म॰ ततश्चारिम् ।

4. च॰ ब॰ पश्चिमेनापि सर्पणम् ।

5. च॰ अ॰ आदृता ।

6. प॰ म॰ चानुकर्तव्या ।

7. प॰ अ॰ मध्यलयाश्रिता ।

8. ड॰ म॰ आद्यं मध्यम् ।

9. ड॰ सदा । म॰ यदा ।

10. न॰ पङ्क्त्याम् । त॰ पङ्क्तौ । ड॰ म॰ यस्यास्तु जागते पादे सा भवेदड्डिता ध्रुवा ।

11. अ॰ त्वादृता ध्रुवा ।

12. न॰ म॰ अ॰ तस्याः । ड॰ यस्याः ।

[(व्या)]

1. म॰ कव्यति ।

2. म॰ भ॰ चतुर्थमष्टमैकादशे तथा ।

3. म॰ भ॰ दोडके । दोडका ।

[page 239]




[NZ]

सहोमया क्रीडितवान्नानाभावविचेष्टतैः । BhNZ_05_119ab
1कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ BhNZ_05_119cd
2चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । BhNZ_05_120ab
नाभिप्रदेशे विन्यस्य जर्जरं3 च तुलाधृतम् ॥ BhNZ_05_120cd
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः4 BhNZ_05_121ab
गच्छेत्पञ्चपदीं चैव 5सविलासाङ्गचेष्टितैः ॥ BhNZ_05_121cd
वामवेधस्तु कर्तव्यो विक्षेपो 6दक्षिणस्य च । BhNZ_05_122ab
7शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ BhNZ_05_122cd
[ABh]

``आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ।'' इत्यन्ये ॥
अस्या इति । चार्याः । सहोमयेति । `शृङ्गारस्य प्रचरणात् ।' (ना॰ शा॰ 5-27) `उमा तुष्टा' (ना॰ शा॰ 5-52) इति चोक्तत्वादिति भावः । क्रीडितवानिति । स्त्रीचेष्टितेनेति भावः । कृत्वावहित्थं स्थानन्त्विति । अवहित्थं स्त्रीणां स्थानकम् --
``पूर्वो विरचितस्त्यश्रस्तदन्यो ऽपसृतः समः ।
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् ॥ (ना॰ शा॰ 12-168)
पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ।
अवहित्थं समाख्यातम्'' (ना॰ शा॰ 12-169)
जर्जरमिति । खटकामुखमध्ये स्त्रीगतौ हि वक्ष्यते --
``नाभिप्रदेशे विन्यस्य सव्यं च(1) खटकामुखम् ।'' इति (ना॰ शा॰ 12-179) ।
वामपल्लवः -- ``मणिबन्धनमुक्तौ तु पताकौ पल्लवौ'' इति (ना॰ शा॰ 9-196) । पञ्चपदीं पूर्वोक्तामेव स्मारयति । वामवेधस्त्विति । आर्यामिति । यत्र देव्या सह भगवतः पार्वतीप्रियस्य प्रणयकोपादि वर्ण्यते ऽनेनेति । श्लोक आर्यैवात्र ॥ (116-122)

[(मू)]

1. न॰ कृत्वा बहिस्थम् ।

2. इदमर्धं `म॰'पुस्तक एव दृश्यते ।

3. अ॰ जर्जरस्य ।

4. न॰ तालान्तरस्थितैः ।

5. प॰ ब॰ अ॰ विलासाङ्गविचेष्टितैः । त॰ लंलितैरङ्ग ।

6. ड॰ म॰ दक्षिणेन तु ।

7. न॰ म॰ ततः शृङ्गारसंयुक्तं पठेच्छ्लोकम् । त॰ अ॰ ततः शृङ्गार ।

[(व्या)]

1. म॰ भ॰ सव्यके ।

[page 240]




[NZ]

चारीश्लोकं 1गदित्वा तु कृत्वा च परिवर्तनम् । BhNZ_05_123ab
तैरेव च पदैः कार्यं 2पश्चिमेनापसर्पणम् ॥ BhNZ_05_123cd
3पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम्4 BhNZ_05_124ab
महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ BhNZ_05_124cd
चतुरश्रा ध्रुवा 5तत्र तथा 6द्रुतलयान्विता । BhNZ_05_125ab
चतुर्भिस्सन्निपातैश्च 7कला ह्यष्टौ प्रमाणतः ॥ BhNZ_05_125cd
8आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । BhNZ_05_126ab
9लघु शेषं ध्रुवापादे चतुर्विंशतिके10 भवेत् ॥ BhNZ_05_126cd
(यथा ---- )
11पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । BhNZ_05_127ab
ताण्डवनृत्यमिदं 12प्रलयान्ते पातु 13जगत्सुखदायि हरस्य ॥ BhNZ_05_127cd
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । BhNZ_05_128ab
सूचीं 14कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ BhNZ_05_128cd
[ABh]

अथ महाचारीप्रयोगमवतारयति -- पारिपार्श्विकहस्ते त्विति । तत्र ध्रुवामाह -- चतुरश्रेति । द्विकलेनोक्तेन चञ्चत्पुटेन । आद्यं चतुर्थमिति ध्रुवालक्षणम् । अस्याः प्रयोगमाह -- भाण्डोन्मुखेनेति । पश्चिमाभिमुखेन । महेश्वरत्वं यस्य न्यस्यात्मनि तस्यात्मनीच्छता ऊनचतुस्तालता तच्चेष्टितानुसरणाच्च मध्यत्वे ऽपि तद्द्वितालतेत्यौचित्यात्तालान्तरत्वमुक्तम् ॥ (124-131)

[(मू)]

1. ड॰ म॰ विदित्वा । अ॰ पठित्वा च ।

2. ड॰ ब॰ म॰ अ॰ प्राङ्मुखेनाप ।

3. ड॰ म॰ पारिपार्श्विकयोर्हस्ते ।

4. ब॰ त॰ मुन्नतम् ।

5. ड॰ म॰ यत्र ।

6. प॰ म॰ अ॰ द्रुतलयाश्रया ।

7. ड॰ म॰ कलास्त्वष्टौ ।

8. ड॰ म॰ आद्यं चतुर्थमाद्यं च । न॰ त॰ आद्यमन्त्यं चतुर्थं च ।

9. म॰ लघु शेषं ध्रुवायोगे त्रैष्टुभं यथा ।

10. अ॰ द्रुता पादे स्याच्चतुर्विंशके द्विजाः ।

11. अयं श्लोके `म॰'पुस्तक एव दृश्यते । व्याख्यापि न दृश्यते । ड॰ म॰ पादतलाहत ।

12. न॰ प्रलयाभम् ।

13. ड॰ म॰ हरस्य सदा सुखदायि ।

14. म॰ अ॰ दत्वा ततः ।

[(व्या)]

[page 241]




[NZ]

अतिक्रान्तैः सललितैः 1पादैर्द्रुतलयान्वितैः । BhNZ_05_129ab
2त्रितालान्तरमुत्क्षेपैर्गच्छेत् पञ्चपदीं ततः ॥ BhNZ_05_129cd
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । BhNZ_05_130ab
3तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ BhNZ_05_130cd
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । BhNZ_05_131ab
ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ BhNZ_05_131cd
ततो 4रौद्ररसं श्लोकं 5पादसंहरणं पठेत् । BhNZ_05_132ab
तस्यान्ते तु 6त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ BhNZ_05_132cd
तयोरागमने कार्यं गानं 7नर्कुटकं बुधैः । BhNZ_05_133ab
तथा च भारतीभेदे त्रिगतं8 सम्प्रयोजयेत् ॥ BhNZ_05_133cd
विदूष9कस्त्वेकपदां सूत्रधारस्मितावहाम् । BhNZ_05_134ab
असम्बद्धकथाप्रायां कुर्यात्कथनिकां10 ततः ॥ BhNZ_05_134cd
[ABh]

अथ महाचारीं सूचयति -- ततो रौद्ररसमिति । रुद्रस्यायं रौद्रप्रायः स रसः । यत्र पादानां च संहरणं समासयोजनयैक्यं यत्रेत्योजःप्रधानत्वं दर्शितम् । तस्येति । पाठस्यान्ते । त्रिपद्येति । पारिपार्श्विकावामुखरूपया(1) । अत्र च ध्रुवया अनुक्तत्वात्पूर्वोक्तैवाड्डिता संश्रयणीया ।
अथ त्रिगतमङ्गं दर्शयति -- तयोरित्यादिना । तयोः पारिपार्श्विकयोः । नर्तकुटकध्रुवा वक्ष्यते ।

[(मू)]

1. म॰ ब॰ पादैर्गीत ।

2. ड॰ म॰ त्रिकालान्तरमुक्षिप्तैः ।

3. अ॰ इतः सार्धश्लोकः नास्ति ।

4. ड॰ म॰ रौद्रपदम् । ढ॰ ब॰ रौद्ररस । अ॰ महारसम् ।

5. म॰ ब॰ अ॰ पदसंहरणम् ।

6. ज॰ म॰ त्रिपद्या तु । अ॰ न्तेन त्रिप ।

7. न॰ नकुटकम् । त॰ गेयं नर्कु ।

8. अ॰ त्रिपदीम् ।

9. त॰ विदूषकश्चैक ।

10. ड॰ म॰ अ॰ कुर्यात्कथितिकाम् । त॰ ककुतिकाम् ।

[(व्या)]

1. म॰ पार्श्वकामुखस्वरूपायाः । भ॰ पार्श्वकमुखरूपायाः ।

[page 242]




[NZ]

(1वितण्डां गण्डसंयुक्तां2 तालिकाञ्च प्रयोजयेत् । BhNZ_05_XXXab
कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥ BhNZ_05_XXXcd
पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । BhNZ_05_XXXab
स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ॥ ) BhNZ_05_XXXcd
3प्ररोचना च कर्तव्या सिद्धेनोपनिमन्त्रणम्4 BhNZ_05_135ab
रङ्गसिद्धौ5 पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ BhNZ_05_135cd
6सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । BhNZ_05_136ab
पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ BhNZ_05_136cd
एवमेष7 प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । BhNZ_05_137ab
चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं 8चापि निबोधत ॥ BhNZ_05_137cd
अयमेव प्रयोगः स्यादङ्गान्ये9तानि चैव हि । BhNZ_05_138ab
तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ BhNZ_05_138cd
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । BhNZ_05_139ab
पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ BhNZ_05_139cd
[ABh]

``अष्टौ नर्कुटकानां तु विज्ञेया मूलजातयः(1) ।
र(2)थोद्धता बुद्बुदकम्'' इत्यादि (ना॰ शा॰ 32-280)
तदन्यतमध्रुवोपलक्षितं गानं नर्कुटकम् ।
((1)भारतीभेद इति । भारतीवृत्त्यङ्गमुपसंहरत्येवमेष इति । चतुरश्रस्त्र्यश्रश्शुद्धश्चित्र इति चतुर्धा पूर्वरङ्गः । यद्वक्ष्यति -- )

[(मू)]

1. म॰ इदमेकं पद्यं दृश्यते । त॰ पद्यद्वयं दृश्यते । अन्यपुस्तकेषु न दृश्यते ।

2. त॰ दण्डसंयुक्ताम् ।

3. प॰ म॰ प्ररोचनाथ ।

4. न॰ म॰ निमन्त्रणा ।

5. अ॰ सिद्धया ।

[(व्या)]

1. म॰ भ॰ जायतः ।

2. म॰ भ॰ ततोर्थका ।

3. म॰ भ॰ एतच्चिह्नाङ्कितो ग्रन्थो न दृश्यते ।

[page 243]




[NZ]

अनेन हि प्रमाणेन कलाताललयान्वितः1 BhNZ_05_140ab
कर्तव्यः पूर्वरङ्गस्तु 2त्र्यश्रो ऽप्युत्थापनादिकः ॥ BhNZ_05_140cd
आद्यं चतुर्थं दशममष्टमं 3नैधनं गुरु । BhNZ_05_141ab
यस्यास्तु 4जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ BhNZ_05_141cd
वाद्यं 5गतिप्रचारश्च ध्रुवा तालस्तथैव च । BhNZ_05_142ab
6संक्षिप्तान्येव कार्याणि 7त्र्यश्रे नृत्तप्रवेदिभिः ॥ BhNZ_05_142cd
वाद्यगीतप्रमाणेन 8कुर्यादङ्गविचेष्टितम् । BhNZ_05_143ab
9विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम्10 BhNZ_05_143cd
हस्तपादप्रचारस्तु 11द्विकलः परिकीर्तितः । BhNZ_05_144ab
चतुरश्रे 12परिक्रान्ते 13पाताः स्युः षोडशैव तु ॥ BhNZ_05_144cd
14त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः15 BhNZ_05_145ab
एतत्प्रमाणं 16विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ BhNZ_05_145cd
केवलं परिवर्ते तु गमने त्रिपदी भवेत् । BhNZ_05_146ab
दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ BhNZ_05_146cd
आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्ताल17प्रमाणतः । BhNZ_05_147ab
18तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ BhNZ_05_147cd
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । BhNZ_05_148ab
19त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ BhNZ_05_148cd
[ABh]


[(मू)]

1. ड॰ म॰ तालद्वयान्वितः ।

2. ड॰ म॰ त॰ त्र्यश्र उत्थापनादिकः । ब॰ अ॰ त्र्यस्रो ऽभ्युत्थापनादिकः ।

3. न॰ नवमम् ।

4. ड॰ त॰ जानते ।

5. न॰ गीतप्रकारश्च ।

6. ड॰ संक्षिप्तान्यत्र ।

7. ड॰ त्र्यश्र ।

8. न॰ म॰ त॰ अ॰ कुर्याद्गति ।

9. न॰ ब॰ अ॰ त॰ विस्तीर्णमथवाक्षिप्तम् ।

10. ड॰ म॰ प्रमाणं च विनिर्मितम् ।

11. ज॰ म॰ विकलः ।

12. प॰ परिभ्रान्ते । त॰ पूर्वरङ्गे । अ॰ श्रपरावृत्तः । श्रे परावर्ते ।

13. ड॰ अ॰ म॰ पादाः ।

14. ड॰ म॰ त्र्यश्रे तु द्वादशपदाः ।

15. ड॰ म॰ अ॰ करपादजाः ।

16. ड॰ म॰ त॰ निर्दिष्टमुभयोः ।

17. ज॰ म॰ त्र्यश्रताल । ब॰ त्र्यश्रस्तालः ।

18. च॰ तस्मात्तल्लक्षणम् । त॰ कस्मान्न लक्षणम् । अ॰ कस्मात्तल्लक्षणम् ।

19. त॰ त्र्यश्रञ्च चतुरश्रञ्च । म॰ त्र्यश्रे च चतुरश्रे च ।

[(व्या)]

[page 244]




[NZ]

एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । BhNZ_05_149ab
चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ BhNZ_05_149cd
वृत्ते1 ह्युत्थापने विप्राः कृते च परिवर्तने । BhNZ_05_150ab
2चतुर्थकारदत्ताभिः 3सुमनोभिरलङ्कृते ॥ BhNZ_05_150cd
उदात्तगानैर्गन्धर्वैः परिगीते4 प्रमाणतः । BhNZ_05_151ab
देवदुन्दुभयश्चैव निनदेयुर्भृशं ततः ॥ BhNZ_05_151cd
5सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । BhNZ_05_152ab
6अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ BhNZ_05_152cd
यस्ताण्डवविधिः प्रोक्तो 7नृत्ते पिण्डीसमन्वितः । BhNZ_05_153ab
रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः8 BhNZ_05_153cd
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । BhNZ_05_154ab
प्रयोक्तव्यो 9बुधैः सम्यक्चित्रभावमभीप्सुभिः10 BhNZ_05_154cd
[ABh]

``त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ।'' इति चित्र एव विशेषान्वितो भवति ।) तदा गमनकाले । ततो ऽनन्तरम् । निष्क्रान्तासु नर्तकीषु ततः परं शुष्कावकृष्टादि यदङ्गजातं प्ररोचनान्तं तैरेव सूत्रधारादिभिस्तद(तः) परं कृत्वा ततः शुद्धादुत्कृष्टं चित्रं कृत्वाङ्गहारव्यामिश्रेण प्रयोक्तव्यम् ।
नान्य(अन्ये) च ``नास्ति पुरुषस्य नृत्तम्'' इत्याशयेन सर्वास्वित्यत्र नान्दीपदवैचित्र्याय याः प्रविष्टास्तासामेव निष्क्रामणमत्र पूर्वासां चतसृणाम् । तेन तत्कृतमेव गानं तेषु चित्रत्वमिति मन्यन्ते ॥ (132-157)

[(मू)]

1. म॰ नृत्ये । च॰ त॰ वृत्ते तू ।

2. त॰ म॰ चतुष्प्रकार ।

3. प॰ ब॰ सुमनोभिरलङ्कृताः ।

4. अ॰ प्रमाणे परिकीर्तितैः । ड॰ म॰ परिगीतैः । इतः परं पञ्च पङ्क्तयः `म'पुस्तके न सन्ति ।

5. न॰ शुद्धाः ।

6. ज॰ त॰ अङ्गहारांश्च दिव्यास्ताः ।

7. न॰ त॰ अ॰ नृत्तपिण्डीसमन्वितः ।

8. न॰ त॰ अ॰ संयुतैः ।

9. ज॰ म॰ विधिः ।

10. त॰ म॰ ब॰ चित्रो लक्षणसंयुतः । अ॰ पूर्वरङ्गविधानतः ।

[(व्या)]

[page 245]




[NZ]

एवं कृत्वा यथान्यायं 1शुद्धं चित्रं प्रयत्नतः । BhNZ_05_155ab
2ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ BhNZ_05_155cd
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । BhNZ_05_156ab
निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ BhNZ_05_156cd
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम्3 BhNZ_05_157ab
एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ BhNZ_05_157cd
कार्यो नातिप्रसङ्गो ऽत्र 4नृत्तगीतविधिं प्रति । BhNZ_05_158ab
गीते वाद्ये च नृत्ते च 5प्रवृत्ते ऽतिप्रसङ्गतः ॥ BhNZ_05_158cd
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । BhNZ_05_159ab
खिन्नानां रसभावेषु स्पष्टता 6नोपजायते ॥ BhNZ_05_159cd
[ABh]

नातिप्रसङ्ग इति । तत्रैकाङ्गहारप्रयोग एव कार्य इत्यर्थः । अत एवा(ङ्गा)न्तरगणनया षोडशैवाङ्गहाराः । तथा चोत्थापनं परिवर्तनमवकृष्टागानं नान्दीपाठः शुष्कावकृष्टजर्जरश्लोकाः ध्रुवा रङ्गद्वारमड्डिता आर्यापाठो ध्रुवा रौद्रश्लोकपाठो नर्कुटकं त्रिगतं प्ररोचना चेत्येते । अङ्गहारषोडशकमेव त्र्यश्रे ऽपीति । नान्दीपादान्तरेषु बहुतरं नृत्तम् ।
अन्ये तु तत्रैव नृत्तमिच्छन्ति मार्गान्तरेषु(नाङ्गान्तरेषु) । तच्चासङ्गतम् । एवं च सति `वृत्ते ह्युत्थापन' इत्यादि तथा `निष्क्रान्तासु च सर्वासु' इत्यादि चानुपात्तसममेव स्यात् । न चैकाङ्गा(ङ्गहार)विचित्रत्वाद्विमिश्रचित्रव्यपदेशे दृष्टान्तं(न्तो) ह्येकस्य तन्तोर्वर्णस्य वैचित्र्यं(त्र्ये) पटे ऽपि वा तथा व्यपदेशः । `एतद्विमिश्र' इति चोक्तं प्राक् । (ना॰ शा॰ 4-16) तदलमनेन ।
प्रेक्षकाणामित्यनेन सामाजिकानां पूर्वरङ्गे स्फुटैव नटवृत्तिर्भवतीति दर्शयति । तत्संस्कारसंस्कृतत्वात्तन्तु(त्त्व)धीः । भ्रान्त्यादिबुद्धिश्च नाट्यधीर्भवतीति सूचयति । यदि हि तेषु नाट्य(1)बुद्धिरेवोत्पादनीया स्यात्प्रत्युत प्रयत्नेन नटबुद्धिसम्पादकं पूर्वरङ्गप्रस्तावनादि

[(मू)]

1. प॰ शुद्धो लक्षणसंयुतः ।

2. त॰ म॰ अ. पुस्तकेषु इदमर्धं नास्ति ।

3. प॰ त॰ अ॰ ब॰ ततः परम् ।

4. ड॰ म॰ त॰ अ॰ गीतनृत्तविधिम् ।

5. ढ॰ प्रबुद्धे ऽतिप्रसङ्गतः । न॰ त॰ अ॰ ब॰ विवृद्धे ।

6. द॰ ब॰ नैव ।

[(व्या)]

1. म॰ भ॰ नाव ।

[page 246]




[NZ]

ततः शेषप्रयोगस्तु न रागजनको भवेत् । BhNZ_05_160ab
(1लक्षणेन विना बाह्यलक्षणाद्विस्तृतं भवेत् । BhNZ_05_XXXab
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) BhNZ_05_XXXcd
त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ BhNZ_05_160cd
प्रयुज्य2 रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः । BhNZ_05_161ab
(3देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥ BhNZ_05_XXXcd
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । BhNZ_05_XXXab
लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥ BhNZ_05_XXXcd
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । BhNZ_05_XXXab
आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ॥ BhNZ_05_XXXcd
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः । ) BhNZ_05_XXXab
प्रयुज्य विधिनैवं तु पूर्वरङ्गं प्रयोगतः ॥ BhNZ_05_161cd
[ABh]

तान्प्रति गोपनीयं स्यात् । दर्शितं चैतदस्माभिः प्रथमाध्याये (पु॰ 3) । प्रयोक्तारः करणादेः(1) प्रयोगे यत्र खिन्नाः प्रेक्षकाश्चादौ ततः शेषः प्रयोगः प्रीतिं न कुर्यात् । तत्प्रधानं चेदं नाट्यं व्युत्पत्तिप्रदमित्युक्तम् ।
शुद्धमिति । यत्र गीतकवर्धमानविधावेव नृत्तं न तु सर्वथा शुद्धमधुना प्रयोगार्हम् ॥ (158-160)
एवं प्ररोचनान्तमङ्गजातमुक्त्वा यत्पूर्वमुक्तं --
``रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ।'' इति (ना॰ शा॰ 5-135)
तद्वितत्य निरूपयति -- प्रयुज्येति । प्रयोगेण प्रयोगतः । स्थापयति समस्तं रूपकवृत्तिमिति स्थापकः । सूत्रधारस्य गुणः सौमनस्यविस्मययोगाद्भुतदृष्टित्वरक्षादिभिरा(दिरा)कृतिश्च

[(मू)]

1. इदं पङ्क्तिद्वयं `त'पुस्तक एव दृश्यते ।

2. त॰ प्रविश्य ।

3. इतः षट् पङ्क्तयः `त'पुस्तक एव दृश्यन्ते । व्याख्यापि न दृश्यते तासाम् ।

[(व्या)]

1. म॰ भ॰ रथादेः ।

[page 247]




[NZ]

स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । BhNZ_05_162ab
स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् ॥ BhNZ_05_162cd
प्रविश्य रङ्गं तैरेव 1सूत्रधारपदैर्व्रजेत् । BhNZ_05_163ab
स्थापकस्य 2प्रवेशे तु 3कर्तव्यार्थानुगा ध्रुवा ॥ BhNZ_05_163cd
4त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । BhNZ_05_164ab
5कुर्यादनन्तरं चारीं देवब्राह्मणशंसिनीम् ॥ BhNZ_05_164cd
सुवाक्यमधुरैः श्लोकैर्नानाभा6वरसान्वितैः । BhNZ_05_165ab
प्रसाद्य रङ्गं विधिवत्कवेर्नाम 7च कीर्तयेत् ॥ BhNZ_05_165cd
[ABh]

वैष्णवादिरित्येतत्स्थापकभूयुष्ठं गतस्यापि भवति । तदेव स्पष्टयति -- स्थानन्त्वित्यादिना । सूत्रधार एव स्थापक इति सूत्रधारः पूर्वरङ्गं प्रयुज्य स्थापकः सन् प्रविशेदिति न भिन्नकर्तृकता । अर्थानुगेति । सारसचक्राह्वा(1)द्युपमानक्रमेण तत्र प्रवेशिकी । तदर्थमप्येवमुत्थापन्यादिवत्कार्या(2) । मध्यलयान्विता इत्यद्यतनानामिष्टत्वात् । शोकाद्याविष्टे हि विलम्बितलया । रोषाद्याविष्टे च द्रुत(1)चक्रलया प्रावेशिकी । ततः प्रभृति हि सामाजिकानां हृदयं समुचितास्वादनयोग्यतां(योग्यम् ।) यैः संस्क(स्तु क)र्तव्यमिति त्रिभिर्लयैर्न्याय्यम् । अन्यत्वे सर्वप्रावेशिकीगानं स्वातन्त्र्याभिप्रायेण(इति) तदविचारितबाण(भाण)प्रसिद्धिमात्रमिति मन्तव्यम् । कुर्यादनन्तरं चारीमिति । महाचारीगतौ श्लोकौ वक्ष्येते । तेन शृङ्गाररसप्रधानं वीरादिरसप्रधानं वा देवद्विजस्तोत्रोद्देशश्लोकं पठेदित्यर्थः ।
अन्तरचारीमित्यन्ये पठन्ति । व्याचक्षते -- स्वस्थानादन्यचारी, अनन्तरप्रतिहारासनिकादिवत् । तत्र पुनः प्ररोचनया(4) जयाशीर्वादादिक्रमेण रङ्गस्थसामाजिकवर्गप्रसादनं देवद्विजस्तोत्रोद्देशेन श्लोकं पठेत् (इति) । हृदयनिर्मलीकरणं रसास्वादोचितसंस्कारात् ग्रहणयोग्यताधानार्थं कुर्यात् । ततः कविनाम कीर्तयेत् । चशब्दात्तद्गुणादिकम् । तेन प्रसिद्धादरणीयत्वं भवति ॥ (161-165)

[(मू)]

1. च॰ म॰ सूत्रधारपदं व्रजेत् ।

2. च॰ प्रयोगे तु ।

3. प॰ कर्तव्या स्थानगा ।

4. ड॰ म॰ चतुरश्राथवा त्र्यश्रा तत्र मध्यलयाश्रिता ।

5. न॰ कुर्यादनन्तरं स्तोत्रं देवब्राह्मणसंश्रयम् । य॰ म॰ त॰ अ॰ कुर्यादन्तरचारीञ्च ।

6. ड॰ ताललया ।

7. अ॰ ड॰ म॰ र्नामानुकीर्तयेत् ।

[(व्या)]

1. भ॰ ह्वाश्वा ।

2. म॰ भ॰ कार्यमध्यलय इत्यद्य ।

3. म॰ भ॰ भूतचक्रलतया ।

4. म॰ भ॰ नं या ।

[page 248]




[NZ]

प्रस्तावनां ततः कुर्यात्काव्यप्रख्या1पनाश्रयाम् । BhNZ_05_166ab
2उद्घात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥ BhNZ_05_166cd
दिव्ये3 दिव्याश्रयो भूत्वा मानुषे 4मानुषाश्रयः । BhNZ_05_167ab
दिव्यमानुषसंयोगे5 दिव्यो वा मानुषो ऽपि वा ॥ BhNZ_05_167cd
मुखबीजानुसदृशं नानामार्गस6माश्रयम् । BhNZ_05_168ab
नानाविधैरुपक्षेपैः का7व्योपक्षेपणं भवेत् ॥ BhNZ_05_168cd
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्ता8वकस्ततः । BhNZ_05_169ab
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ BhNZ_05_169cd
[ABh]

ततो रूपकविशेषप्रखापनमाश्रित्येति तत्प्रख्यापनव्याजेन भाविरूपकार्थस्य प्रस्तावनामुपक्रमोपक्षेपपर्यायां कुर्यात् । येन प्रथमत एतत्प्रभृति सामाजिकाः संक्षेपेण संस्कारवन्तो भवन्ति । साधारणलोकवृत्ताभिमानसंस्कारवन्तश्च । तथा हि दिव्ये काव्यार्थे डिमादौ तत्सदृशवस्तूपक्षेपः । दिव्यमानुषो रामादिः । वाग्रहणं समुच्चये ।
ननूपक्षेपात्मा प्रस्तावना मुखसन्ध्यङ्गादुपक्षेपाद्बीजलक्षणाया अर्थप्रकृतेश्च कथं भिद्यत इत्याशङ्क्याह -- मुखबीजानुसदृशमिति । मुखाङ्गे ह्युपक्षेपे तदेवोपक्षिप्यते । बीजे च तदेव स्वल्पमात्रम् । इह तु तत्समम् । तथा हि -- नटीविदूषकपारिपार्श्विकैः समन्ता(1)दिति विचित्रभेदेन स्वकार्यनिरूपणव्याजेन ये नानाविधा उपक्षेपाः उपांशु च्छन्न्त्वेन रूपकार्थबीजस्य सामाजिकहृदयभूमौ क्षेपास्तैः काव्यं प्रस्ताव्य प्रस्तावकस्थापकौ निष्क्रामेताम् ।
नन्विह पूर्वरङ्गशेषभूता चेत्प्रस्तावना तर्हि भारत्यङ्गभूतत्वेन पुनः किमित्यामुखं प्ररोचना चाभिधास्यते (ना॰ शा॰ 20-27) । उच्यते । द्विविधा प्रस्तावना भवति -- पूर्वरङ्गस्याङ्गभूतान्यस्य वा । तत्र पूर्वरङ्गा(2)ङ्गे ऽस्याः कविरुदासीनः । स्थापक एव स्वतन्त्रो निर्माता त्वन्यो वा कविर्ध्रुवागानादावपि (पदम्(3)) । यदाह श्रीहर्षः -- अत एव हा(भा?)सा नामा (कविः) कस्मिंश्चिन्नाटके ? ``दिवं यातश्चित्तज्वरेणोत्कलित एवाभिवर्तते ।''

[(मू)]

1. त॰ ब॰ प्रस्तावना ।

2. त॰पुस्तक एव दृश्यते ।

3. म॰ दिव्यो दिव्याश्रयैः । त॰ दिव्यैर्दिव्याश्रयोपेतम् ।

4. ड॰ म॰ मानुषाश्रयैः ।

5. ड॰ म॰ संयोगो ।

6. अ॰ त॰ मार्गरसा ।

7. त॰ कार्यो ।

8. म॰ अ॰ काव्यप्रस्थापको द्विजाः । त॰ काव्यं प्रस्तावयेत्ततः ।

[(व्या)]

1. म॰ भ॰ समस्तादिविचि ।

2. म॰ भ॰ रङ्गे ।

3. म॰ भ॰ पद ।

[page 249]




[NZ]

य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत्1 BhNZ_05_170ab
नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ BhNZ_05_170cd
यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत्2 BhNZ_05_171ab
प्राप्नोत्यपचयं घोरं तिर्यग्योनिं च गच्छति ॥ BhNZ_05_171cd
न तथाग्निः प्रदहति प्रभञ्जनसमीरितः । BhNZ_05_172ab
यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ BhNZ_05_172cd
3इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्र4मागधैः । BhNZ_05_173ab
कर्तव्यः पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ BhNZ_05_173cd
एष वः कथितो विप्राः 5पूर्वरङ्गाश्रितो विधिः । BhNZ_05_174ab
6भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ BhNZ_05_174cd


इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमो ऽध्यायः(7) ।
[ABh]

अशक्यमस्य पुरतो ऽवस्थातुम्'' इत्यादि । सा द्वितीया सा (या) वृत्तिभेदमध्ये पठिता । एवं प्ररोचनादावपि मन्तव्यम् । यदाह -- ``तत्र काचित्काव्या(1)भिमुखं नीयते पूर्वरङ्गविधिः तदभिमुखं वा काव्यारम्भस्तद्भवति सा द्विविधा'' इत्यादिः । एतच्च वृत्त्यध्याये व्याख्यास्यते ``नटी विदूषको वापि'' (ना॰ शा॰ 20-30) इत्यादौ । शास्त्रत्यागे मनागपि न वर्तितव्यमिति दर्शयितुमेवमेष इति ॥ (166-169)
यथाविधि प्रयोगे ऽभ्युदयः स्यादित्याह -- य इममिति । अन्यथापि प्रयोगे प्रत्यवायमाह -- यश्चापीति । नाशुभमित्यादिना । शुभमिति दृष्टे ऽभ्युदयः । स्वर्गमिति अदृष्टे । अपचयमिति । दृष्टे प्रत्यवाय इति । तिर्यग्योनिं चेत्यदृष्टे । दृष्टप्रत्यवायभीरुर्बाहुल्येन लोक इति । तमेवाधिकमवश्यंभावित्वेन दर्शयति -- न तथाग्निरिति ।
ननु पाठ्यादियोजना च वेषाचारयोजना चात्र पूर्वरङ्गे नोक्तेत्याशङ्क्य तामनुवादद्वारेणाभिधातुं शुद्धश्चान्यत्वेन योज्य इत्याख्यातुं समुचितस्मुपसंहारं करोति -- इत्येवावन्तिपाञ्चालेत्यादि ।

[(मू)]

1. त॰ पुस्तके इतः परम् -- `इत्येवावन्ति' इति पद्यं दृश्यते ।

2. अ॰ सम्प्रवर्तते ।

3. ड॰ त॰ अ॰ ब॰ इत्येषोवन्ति ।

4. दाक्षिणात्यान्ध्र ।

5. न॰ त॰ पूर्वङ्गकृतो विधिः । ढ॰ म॰ पूर्वरङ्गविधौ कृतिः । अ॰ पूर्वरङ्गोदितो विधिः ।

6. म॰ इदमर्धं नास्ति ।

7. त॰ ब॰ अ॰ पुस्तकेष्वताध्यायसमाप्तिः । उपरितनो भागो न दृश्यते ।

[(व्या)]

1. म॰ कार्या ।

[page 250]




[NZ]

[1पुनश्चित्रे तथा मिश्रे शुद्धे चैव ब्रवीम्यहम् । BhNZ_05_XXXab
यथा योज्या ध्रुवाः पञ्च तथा वक्ष्यामि तत्त्वतः ॥ BhNZ_05_XXXcd
2आदावुत्थापनी कार्या परिवर्तस्तथा भवेत् । BhNZ_05_XXXab
3अवकृष्टाड्डिता चैव विक्षिप्ता चैव पञ्चमी ॥ BhNZ_05_XXXcd
एवं पञ्च ध्रुवा ज्ञेया उपोहनसमन्विताः । BhNZ_05_XXXab
कर्तव्यास्तु प्रयत्नेन पूर्वरङ्गे प्रयोक्तृभिः ॥ BhNZ_05_XXXcd
[ABh]

यादृक्प्रवृत्तिविशेषे नियतो रूपकनय(म)को भविष्यति तादृक्प्रवृत्तिसमुचितवेषभाषाचाराभिनयादिकमनुवर्तमानैः सूत्रधारादिभिः स्थापकान्तैः । पूर्वरङ्गो द्विविधस्त्र्यश्रश्चतुरश्रश्च । एष इत्यनन्तरोक्तस्वभाव एव कर्तव्यो न शुद्धः । अन्ये मन्यन्ते आवन्त्या(1) सात्त्विकीकैशिकीमिश्रेति । सा सूत्रधारस्य पाञ्चालमध्यमा मू । ... ... ... ... ... ... ॥ (170-174)


इति महामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदविवृतौ पूर्वरङ्गविधानं नाम पञ्चमो ऽध्यायः ॥
(व्याख्या चेयं प्रथमसम्पादकेन कृता । नाभिनवगुप्तपादैः ।)
((2)पुनश्चित्र इति । चतुरश्रत्र्यश्रभेदाच्चित्रशुद्धभेदाच्च पूर्वरङ्गश्चतुर्धोक्तः । मतान्तरेण शुद्धचित्रमिश्रात्मकस्य त्रयस्यापि भेदस्य उत्थापनादिषु ध्रुवाविधानं पातभागकलातालवाद्यनियमं चाह -- पुनरित्यादिना । उपोहनेनेति । उपोहनं वस्तुगीतप्रयोगात्पूर्वं क्वचिच्च वस्तुकलिकयोर्मध्ये स्वरकलानियमार्थं शुष्काक्षरप्रयोगः । उक्तं च तालाध्याये मुनिना --
उपोह्यन्ते स्वरा येन यस्माद्गीतं प्रवर्तते ।
तस्मादुपोहनं प्रोक्तं शुष्काक्षरसमन्वितम् ॥ (ना॰ शा॰ 31-125) इति

[(मू)]

1. म॰ पुस्तक एवायं भागो दृश्यते ।

2. म॰ उत्थापनी यथा ।

3. म॰ अपकृष्टासितं चैव ।

[(व्या)]

1. म॰ भ॰ वर्ज्या ।

2. टीकाया आदर्शयोर्द्वयोरपि पञ्चमाध्यायान्तषष्ठाध्यायप्रारम्भव्याख्याभागे एकतालपत्रपरिमितग्रन्थभागस्त्रुटितः । पुनश्चात्र इत्यादिचत्वारिंशात्श्लोकपरिमितस्तु कोहलमतानुयायिभिः कैश्चित्प्रक्षिप्त एव भवेत् । ''क ग घ च ज'' चिह्नितादर्शेष्वनुपलम्भात् टीकायास्त्रुटितभागस्याल्पत्वात् व्याख्यातृभिरपि प्रक्षिप्त इति न व्याख्यात इति मन्यामहे । तथाप्यस्य पारिभाषिकपदटीका काचिद्बालकसौकर्याय विरच्यते । प्रथमसम्पादकस्यायं लेखः ।

[page 251]




[NZ]

अतः परं 1पर्वक्ष्यामि ह्युपोहनविधिक्रियाम् । BhNZ_05_XXXab
उत्थापनस्याष्टकलं परिवर्तस्य षट्कलम् ॥ BhNZ_05_XXXcd
2अवकृष्टं पुनः कार्यं कलाभिः पञ्चभिर्युतम् । BhNZ_05_XXXab
ध्रुवायामड्डितायां च चतुष्कलमथापि च ॥ BhNZ_05_XXXcd
क्षिप्तायां चैव विज्ञेयं कलात्रयसमन्वितम् । BhNZ_05_XXXab
एवं ह्युपोहनानां तु प्रमाणं समुदाहृतम् ॥ BhNZ_05_XXXcd
गुरुलाघवसंयुक्तं कलातालसमन्वितम् । BhNZ_05_XXXab
पूर्वरङ्गं सदा ज्ञेयं चित्रमार्गे हय् उपोहनम् ॥ BhNZ_05_XXXcd
चित्रे चैत्राः कला ज्ञेया मिश्रे वार्तिकमाश्रिताः । BhNZ_05_XXXab
शुद्धे दक्षिणमार्गेण प्रयोक्तव्याः प्रयोक्तृभिः ॥ BhNZ_05_XXXcd
चतस्रो गीतयः कार्या मागधी ह्यर्धमागधी । BhNZ_05_XXXab
संभाविता तथा चैव पृथुला च प्रकीर्तिता ॥ BhNZ_05_XXXcd
[ABh]

पञ्चसु ध्रुवासूपोहने कलाक्रममाह -- उत्थापनस्येत्यादिना । वक्ष्यमाणध्रुवालक्षणं केवलं चित्रभेदस्येति नियमयति -- गुर्वित्यादिना । ननु शुद्धमिश्रभेदयोश्चापि तथैवेत्याशङ्क्याह -- चित्र इति । चित्राख्ये पूर्वरङ्गभेदे चैत्राः चित्रमार्गाश्रिता कलाः । मिश्रे तु वार्तिकमार्गाश्रिताः । शुद्धे तु दक्षिणमानप्रतीता एव प्रयोक्तव्याः । चित्रादिमार्गलक्षणं तूक्तं मुनिना --
चित्रे द्विमात्रा कर्तव्या वृत्तौ सा द्विगुणा स्मृता ।
चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला ॥ (ना॰ शा॰ 31-5)
वस्तुविधानमाह -- चतस्र इति । गीतयो वर्णालङ्काराश्छन्दोक्षरसमन्विता मागध्यादयो गेयाधिकारे (ना॰ शा॰ 29) सलक्षणं निरूपयिष्यन्ते ।
``संभाविता च विज्ञेया गुर्वक्षरसमन्विता ।
लघ्वक्षरकृता नित्यं पृथुला सा प्रकीर्तिता ॥
त्रिर्निवृत्तप्रगीता या सा ज्ञेया मागधी बुधैः ।
अर्धतः संनिवृत्ता च विज्ञेया ह्यर्धमागधी ॥''इति (ना॰ शा॰ 29-49-50)

[(मू)]

1. ड॰ प्रवक्ष्यामि उत्थापनविधिं प्रति ।

2. द॰ अपकृष्टा पुनः कार्या ।

[(व्या)]

[page 252]




[NZ]

मागधी त्वथ 1कर्तव्या त्वथवा त्वर्धमागधी । BhNZ_05_XXXab
पूर्वरङ्गे भवेच्चित्रे चित्रमार्गसमाश्रिता ॥ BhNZ_05_XXXcd
[ABh]

गीतयो रागाङ्गतयोक्ताः कैश्चित् । ता वर्णालङ्कारा एव ।
उक्तं नान्यदेवेन स्वभरतभाष्ये -- ``अत्र वर्णशब्देन गीतिरभिधीयते । नाक्षरविशेषः । नापि षड्जादिसप्रस्वराः । पदग्रामे त्वनियमादेव स्वेच्छया प्रयुज्यन्ते । षड्जादिस्वरान्तानामप्यविशेषेण वावरोहादिधर्माणां प्रत्येव समुपलभ्यते । अतो वर्ण एव गीतिरित्यवस्थितम् । सो ऽपि चतुर्विधो मागध्यादिः '' इति ।
मगधदेशोद्भवत्वान्मागधी । विदर्भादिषु दृष्टत्वात्सा समाख्येत्यन्ये । अर्धनिवर्तनादर्धमागधी । द्वे अपि निवृत्तिप्रधाने । संभाविता पृथुला च मात्राप्रधाना । तदुक्तं मतङ्गेन --
द्विगुरु द्विनिवृत्ता च चित्रे गीतिस्तु मागधी ।
लघुप्लुतकृता चैव तदर्धे चार्धमागधी ।
संभाविता गुरुर्वृत्तौ पृथुला दक्षिणे लघुः ॥ इति
तदसमञ्जसमित्यभिनवगुप्ताचार्यः । आसामेव चतसृणामालप्तादिभेदाः पुष्कराध्यायवक्ष्यमाणाः परिकल्पिताः ।
आसां कलातालमानेन लक्षणमुक्तं रघुनाथेन --
``प्रस्तावने जातिनिरूपणस्य या गीतयः पूर्वमिहोपदिष्टाः ।
तासामिदानीं किल लक्षणानि वक्ष्यामहे गायकबोधहेतोः ॥
त्रिषष्ट्यलङ्कारयुता चतुर्भिः स्थाय्यादिभिः संमिलिता च वर्णैः ।
विलम्बितेनापि च मध्यमेन द्रुतेन शोभां दधती लयेन ॥
गानक्रियागीतिरिहोपदिष्टा चतुर्विधा सा गदिता मुनीन्द्रैः ।
स्यान्मागधीनामवती किलाद्या तथार्धमागध्यभिधा द्वितीया ॥
संभाविताख्यानवती तृतीया भवेच्चतुर्थी पृथुलाभिधाना ।
क्रमेण लक्ष्माणि पदानि तासां सा मागधीलक्षणमुच्यते ऽत्र ॥
विलम्बितेनैव पदेन युक्तं गायेत्कलायां पदमादिमायाम् ।
पदान्तरेणापि युतं तदेव गायेत्पदं मध्यलयेन युक्तम् ॥

[(मू)]

1. न॰ म॰ वर्तव्याप्यथवा ।

2. न॰ म॰ चित्रमार्गे च मागधी ।

[(व्या)]

[page 253]




[NZ]

[ABh]

कलां द्वितीयमधिकृत्य सम्यक्कलां तृतीयामधिकृत्य पश्चात् ।
ते द्वे कृती स्वेन पदेन युक्ते गायेद्द्रुतेनैव लयेन सार्धम् ॥
इति त्रिरावृत्तपदां वदन्ति तां मागधीं मागधराजहृद्याम् ।
इतिमागधी
गामाधा वन्दे {धनिधनिसनिसा देवं॰ रुद्रं॰ ॰ रुद्रं॰ ॰ } रिगरिगमागारिसा देवं ॰ ॰ ॰ रुद्रं ॰ ॰ ॰ वन्दे ॰ ॰ ॰
अथार्धमागध्यपि लक्ष्यते ऽत्र विलम्बितेनैव पदेन युक्तम् ॥
गायेत्कलायां पदमादिमायां पदान्तरेणाथ युतं तदर्धम् ।
गायेत्पुनर्मध्यलयेन युक्तं कलां द्वितीयामधिकृत्य सम्यक् ॥
कलां तृतीयामधिकृत्य पश्चादर्धं द्वितीयस्य पदस्य गायेत् ।
पदान्तरं च द्रुतमानयुक्तं सैवार्धमागध्यभिधावती स्यात् ॥
मारीगासा देवं ॰ ॰ ॰ 1 { सासाधानी वं रुद्रं -- 1 } पाधामामा द्रं वन्दे -- 3
इत्यर्धमागधी
संभावितालक्षणमत्र वक्ष्ये संक्षिप्तैश्चात्र पदैश्चतुर्भिः ।
गुर्वक्षरैर्भूरिभिरन्विता च कलादिमा स्यात्सविलम्बिता च ॥
तथैव मध्यस्थपदद्वयस्य प्रत्येकमुच्चारणतो द्विवारम् ।
आद्यन्तिमे चापि पदे विहाय परा कला मध्यलयान्विता स्यात् ॥
पदैश्चतुरिभिः सहिता द्रुतेन लयेन युक्ता तु कला तृतीया ।
एतत् त्रयं यत्र चकास्ति चैषा संभाविता गायकसम्मता स्यात् ॥
इति संभविता
लक्ष्मोच्यते ऽधः पृथुलाख्यगीते संभावितावत्सकलं च वेद्यम् ।
लघ्वक्षराणां बहुलः प्रयोगो ऽपरं भवेदेष तयोर्विशेषः ॥
प्रस्तारः
1 मागरिगा सुरनत } 2 माधनिधाधा हरपद } { 3 सासाधनी युगलं { पानिधपमामा प्रणमत
इति पृथुला

[(मू)]

[(व्या)]

[page 254]




[NZ]

यथा1 मिश्रस्तु योक्तव्यः पूर्वरङ्गे2 भवेदिह । BhNZ_05_XXXab
मिश्रे सम्भाविता कार्या तदा वार्तिकमाश्रिता ॥ BhNZ_05_XXXcd
शुद्धे च पृथुला कार्या दक्षिणं मार्गमाश्रिता । BhNZ_05_XXXab
अतः परं प्रवक्ष्यामि गुरुलाघवतः क्रियाम् ॥ BhNZ_05_XXXcd
उपोहनक्रियायां तु यथायोज्यं प्रयोक्तृभिः । BhNZ_05_XXXab
दिग्ले दिग्ले पुनः कार्यमन्ते झण्टुं सदा बुधैः ॥ BhNZ_05_XXXcd
[ABh]

पदाश्रयं लक्षणमुक्तमासां तालाश्रयं लक्षणमामनामः ।
ताले गुरुद्वन्द्वलघुप्लुताढ्ये चञ्चत्पुटे त्वाद्यगुरुद्वयं तु ॥
तद्वाक्यरीत्या च गुणेन युक्तं चित्रार्हमेकैकमनु प्रयुज्य ।
तद्दक्षिणाख्ये ध्रुवकादिभिस्तु मात्राभिरष्टाभिरथ प्रयुञ्ज्यात् ॥
सा मागधीगीतिरुदाहृतैवं तालाश्रयेणापि तथा मुनीन्द्रैः ।
चञ्चत्पुटस्यात्र लघुं तृतीयं प्रयुज्य पूर्वं जगणार्धयुक्तम् ॥
आद्येन मात्राद्वितयेन युक्तं मात्राद्वयेनापि युतं प्रयुञ्ज्यात् ।
प्लुतं तु सार्धं च गणेन युक्तं मात्राभिरष्टाभिरथ प्रयुञ्ज्यात् ॥
द्विरीरितान्त्यद्वितयान्विताभिस्तदार्धमागध्युदिता मुनीन्द्रैः ।
तालान्तरे गीतिरितीयमूह्या संभावितालक्षणमुच्यते ऽत्र ॥
चञ्चत्पुटे तु द्विकले तु वृत्तिमार्गे मता भूरिगुरुः किलैषा ।
चञ्चत्पुटे तत्र चतुष्कले तु स्याद्दक्षिणे भूरिलघुस्तथान्या ॥'' इति ।
मिश्रस्त्विति । यदा चित्रमार्गे वार्तिकमार्गाश्रिता संभाविता भवेत्तदा सा मागधीत्युच्यते लयस्य भिन्नत्वात् । तथा वार्तिकमार्गे दक्षिणमार्गाश्रिता पृथुला चेत्तदा संभावितेत्युच्यते । चतस्रो ऽपि गीतयः न केवलं पूर्वरङ्गे प्रयोज्याः । अपि तु नाट्ये ऽपि । तदुक्तं मुनिना --

[(मू)]

1. यदा मिश्रस्तु योक्तव्या ।

2. पूर्वरङ्गो ।

[(व्या)]

[page 255]




[NZ]

मध्ये लघ्वक्षराणि स्युः षोडशैव तु नित्यशः । BhNZ_05_XXXab
एवं ह्युपोहनं कृत्वा 1तथा वस्तु समाचरेत् ॥ BhNZ_05_XXXcd
उत्थापन्यां प्रयोगे ऽस्मिन्कलाकालसमन्वितम्2 BhNZ_05_XXXab
अक्षराणां कलायास्तु गुरुलाघवमेव च ॥ BhNZ_05_XXXcd
पूर्वं 3तु कथितं यस्मात्तस्मान्नाभिहितं भवेत् । BhNZ_05_XXXab
यथा ----
देवं विभुं त्रिभुवनाधिपतिं कैलासपर्वतगुहाभिरतम् । BhNZ_05_XXXab
शैलेन्द्रराजतनयादयितं मूध्ना नतो ऽस्मि पुरनाशकरम्4 BhNZ_05_XXXcd
एवमुत्थापनी कार्या 5पूर्वरङ्गप्रयोक्तृभिः । BhNZ_05_XXXab
अतो ऽन्यत्परिवर्ताया लक्षणं संविधीयते ॥ BhNZ_05_XXXcd
अस्यास्तूपोहनं कार्यं षट्कलं परिसङ्ख्यया । BhNZ_05_XXXab
आदौ 6दिग्ले द्विरुक्तस्तु अन्ते झण्टुं सदा भवेत् ॥ BhNZ_05_XXXcd
मध्ये लघ्वक्षराण्येव द्वादशैव प्रयोजयेत् । BhNZ_05_XXXab
वस्तुनो ऽत्र प्रवक्ष्यामि गुरुलघ्वक्षरक्रमम् ॥ BhNZ_05_XXXcd
द्वे चादौ7 च चतुर्थं च अष्टमं दशमं तथा । BhNZ_05_XXXab
चतुर्दशं पञ्चदशं पादे दुर्वक्षराणि तु ॥ BhNZ_05_XXXcd
[ABh]

गानयोगे चतस्रस्तु योज्याः सर्वत्र गायनैः । इति (ना॰ शा॰ 31)
दिग्ले इति शुष्काक्षराणि तान्येवोपोहनोदितानि कलानां पूरकाणि स्तोभाक्षराणि । झण्टुं जगतिपवलितककुचझलगितिकलपशुपति दिगिनिगि दिग्लेतेते इति दशपदात्मकस्तोभा उपोहने स्वरकलाद्योतकाः । वस्त्विति मागध्यादिगीतिः । नाटकादन्यत्रापरान्तकादिसप्तविधा गीतिः । पूर्वमिति (ना॰ शा॰ 5-59) श्लोके । तस्योदाहरणं देवमित्यादि ।

[(मू)]

1. न॰ ततो ।

2. द॰ म॰ समन्विताः ।

3. अ॰ सङ्कलितम् ।

4. ज॰ म॰ त्रिपुरान्तकम् ।

5. न॰ म॰ पूर्वरङ्गे ।

6. ड॰ म॰ दिल्ले त्रिरुक्तस्तु ।

7. ज॰ पादौ ।

[(व्या)]

[page 256]




[NZ]

सा ध्रुवा परिवर्ताख्या त्रिलया त्रियतिस्तथा । BhNZ_05_XXXab
परिवर्तास्तु चत्वारः पाणयस्त्रय एव च ॥ BhNZ_05_XXXcd
चतुर्भिस्सन्निपातैस्तु1 द्वात्रिंशत्कलिकान्विता2 BhNZ_05_XXXab
पूर्वरङ्गे प्रयोक्तव्यः परिवर्तः प्रयोक्तृभिः ॥ BhNZ_05_XXXcd
यथा ----
चन्द्रार्धभूषणजटं 3वरं 4वृषभकेतुं कैलासपर्वतनिवासिनं5 सुरवरिष्ठम्6 BhNZ_05_XXXab
शैलाधिराजतनयाप्रियं प्रमथनाथं मूर्ध्ना नतोऽस्मि त्रिपुरान्तकं परमयोगिनम् ॥ BhNZ_05_XXXcd
अवकृष्टामिदानीं तु कथ्यमानां निबोधत । BhNZ_05_XXXab
अस्यास्तूपोहनं कार्यं कलाभिः पञ्चभिर्युतम् ॥ BhNZ_05_XXXcd
7दिग्ले दिग्ले पुनश्चान्ते झण्टुमस्य प्रयोजयेत् । BhNZ_05_XXXab
अष्टावेव तु कार्याणि मध्ये लघ्वक्षराणि तु ॥ BhNZ_05_XXXcd
तृतीयं चैव षष्ठं तु 8नवमैकादेशे तथा । BhNZ_05_XXXab
पादेपञ्चदशं चैव षोडशं च भवेद्गुरु ॥ BhNZ_05_XXXcd
1अष्टषष्टिगणैः 2पादैरवकृष्टविधिर्बुधाः । BhNZ_05_XXXab
चतुर्भिः सन्निपातैश्च पाणिभिस्त्रिभिरेव च ॥ BhNZ_05_XXXcd
[ABh]

त्रिलयेति । कलाभेदेन द्रुतमध्यविलम्बितादिभेदः स्यात् । त्रियतिरिति स्रोतोवहादि भाण्डवाद्यसूचिका । परिवर्ताश्चतुर्दिक्षु चत्वारः । पाणयः समपाणिरुपरिपाणिरधःपाणिश्च । एतैर्वाद्यविधिरुक्ता । अष्टषष्टिगणैरिति पातभागाः ।
त्रिभिरिति समपाण्यादिभिः ।

[(मू)]

1. म॰ सन्निपातैश्च ।

2. द्वात्रिंशत्त्रिकलान्वितः ।

3. न॰ परम् । म॰ जटाधरम् ।

4. च॰ वृषभकेतनम् ।

5. न॰ निवासितम् ।

6. ड॰ सुरपरिष्ठितं शैलेन्द्रराज ।

7. न॰ दिल्लेदिल्ले पुनश्चायं झण्टुमस्य ।

8. प॰ नवमैकादशम् ।

9. न॰ अर्धषष्ठ ।

10. न॰ पादैरवकृष्टां विदुर्बुधाः ।

[(व्या)]

[page 257]




[NZ]

यथा ----
वरदं सगणं 1त्रिप्रान्तकं 2वृषभकेतुम् । BhNZ_05_XXXa
गजचर्मपटं वेषमेक्षणं 3भुवननाथम् । BhNZ_05_XXXb
4भुजगाभरणं जगतां हितं 6भुवनयोनिम् । BhNZ_05_XXXc
प्रणतो ऽस्मि भवन्तमुमापतिं त्वसितकण्ठम् ॥ BhNZ_05_XXXd
तृतीयं चैव षष्ठं च गुरुपादे त्रयोदशम् । BhNZ_05_XXXab
7चतुर्गुणसमायुक्ता सा कार्या त्वड्डिता ध्रुवा ॥ BhNZ_05_XXXcd
तत्राप्युपोहनं कार्यं चतुष्कलसमन्वितम् । BhNZ_05_XXXab
अड्डितायाः प्रयोगज्ञैरन्ते 8झण्टुविभूषितम् ॥ BhNZ_05_XXXcd
दिग्ले दिग्ले 9ततश्चैव 10कार्यमन्ते सदा बुधैः । BhNZ_05_XXXab
चत्वार्येव तु कार्याणि मध्ये लघ्वक्षराणि तु ॥ BhNZ_05_XXXcd
यथा ----
11प्रवरं वरदं 12प्रणमत सततम् । BhNZ_05_XXXab
गजचर्मपटं 13मुनिजनसहितम् । BhNZ_05_XXXcd
उमया सहितं भुजगवलयिनम्14 BhNZ_05_XXXab
प्रणतो ऽस्मि शिवं 15त्रिभुवनसहितम् ॥ BhNZ_05_XXXcd
प्रयोज्या त्वड्डिता ह्येवं पूर्वरङ्गे यथार्थतः । BhNZ_05_XXXab
अतःपरं प्रवक्ष्यामि विक्षिप्तायास्तु लक्षणम् ॥ BhNZ_05_XXXcd
तृतीयं चैव षष्ठं च नवमं दशमं तथा । BhNZ_05_XXXab
गुर्वक्षराणि 16पादे तु यस्यां 17विक्षिप्तका तु सा ॥ BhNZ_05_XXXcd
[ABh]


[(मू)]

1. ड॰ त्रिपुरान्तकरम् ।

2. ड॰ वृषभेक्षणम् ।

3. न॰ त्रिभुवननाथम् ।

4. न॰ भुजङ्गाभरणम् ।

5. ड॰ भजताम् ।

6. ड॰ भुवनयोगिनम् ।

7. द॰ चतुर्गण ।

8. न॰ झण्टुम् ।

9. न॰ ततो झण्टुम् ।

10. ड॰ कार्यमानम् ।

11. न॰ वरदं वरदम् ।

13. ड॰ प्रमथगणपतिम् ।

13. ड॰ मुनिगण ।

14. न॰ वलयितम् ।

15. द॰ त्रिभुवननमितम् ।

16. द॰ पादेषु ।

17. प॰ विक्षिप्तकास्तु सा ।

[(व्या)]

[page 258]




[NZ]

1दिग्ले त्रिभिर्गुणैर्युक्ताः पातास्तस्य भवन्ति हि । BhNZ_05_XXXab
त्रिकलं चापि निर्दिष्टमुपोहनमतः परम् ॥ BhNZ_05_XXXcd
दिग्ले दिग्ले पुनः कार्यमन्ते झण्टुं2 प्रयोक्तृभिः । BhNZ_05_XXXab
लघ्वक्षरैर्विहीनं तु विक्षिप्तोपोहनं भवेत् ॥ BhNZ_05_XXXcd
यथा ----
त्रिपुरान्तकरं बहुलीलमुमया3 सहितं बहुरूपम् । BhNZ_05_XXXab
भुजगाभरणं त्रिपुरान्तकं प्रणमामि सदा परम् ईशम् ॥ BhNZ_05_XXXcd
एवं सर्वा ध्रुवाः कार्या युग्मौजकृतगीतिकाः । BhNZ_05_XXXab
आचार्यबुद्ध्या कर्तव्याः पूर्वरङ्गे यथाविधि ॥ BhNZ_05_XXXcd
एवं वः कथितं सम्यक् पूर्वरङ्गं त्रिधा मया । BhNZ_05_XXXab
किमन्यत्सम्प्रवक्ष्यामि भूयो ऽभीष्टं द्विजोत्तमाः ॥ BhNZ_05_XXXcd


इति भारतीये नाट्यशास्त्रे पूर्वरङ्गविधानं नाम पञ्चमो ऽध्यायः ॥ ]
[ABh]

युग्मोजकृतेति । युग्मं चतुरश्रतालात्मकम् । ओजं त्र्यश्रतालेन संमितं मागध्यादिवस्तु । त्रिधेति शुद्धचित्रमिश्रभेदात् । पूर्वरङ्गलक्षणपरिसमाप्तौ नाट्यलक्षणान्तरोपदेशे आभिमुख्यं दर्शयति -- किमित्यादिना ।)


इति पञ्चमाध्यायप्रक्षिप्तभागस्य पूरणी व्याख्या ।
प्रथम सम्पादककृता ।

[(मू)]

1. न॰ म॰ दिग्लैस्त्रिभिर्गुणैर्युक्ता । ड॰ सर्वैस्त्रिभिर्गुणैर्युक्ता । म॰ त्रिभिर्गणैर्युक्ता ।

2. न॰ झण्डम् ।

3. न॰ म॰ उमासहितम् ।

[(व्या)]

[page 259]




श्रीः
अथ षष्ठो ऽध्यायः ।

[NZ]

1पूर्वरङ्गविधिं श्रुत्वा पुनराहुर्महत्तमाः । BhNZ_06_001ab
2भरतं मुनयः सर्वे 3प्रश्नान्पञ्चाभिधत्स्व नः ॥ BhNZ_06_001cd
[ABh]

... ... ... ... ... ...
(पूर्वरङ्गविधिं श्रुत्वेति । पञ्च प्रश्ननिति । रसानां केन रसत्वमित्येकः प्रश्नः ।)
... ... ... ... ... ...
तथापि नाट्यतत्त्वे सम्यङ्निर्ज्ञाते निर्णीतं(1) भवति । न वचनमात्रात् । अनेनैवाभिप्रायेण दशरूपकनिरूपणे प्रथमप्रश्नार्थो निगमयिष्यते --
``भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः ।'' (ना॰ शा॰ 19-150) इत्यादि ।
तथा --
``बुद्ध्यः कर्मशिल्पानि वैचक्षण्यं कलासु च ॥'' (ना॰ शा॰ 19-151) इत्यादि ।
सिद्ध्यध्याये च द्वितीयप्रश्नार्थविषये निर्णेष्यते । ``तुष्यन्ति तरुणाः कामे'' (ना॰ शा॰ 27-58) इत्यादिना । एवमन्यत्रापि तत्र तत्रेति । एतच्च तद्व्याख्यानप्रसङ्ग एव दर्शयिष्यामः । तेन पूर्वप्रश्नितवस्तुतत्त्वनिर्णय एव क्रियतामिति तात्पर्यम् । प्रश्नान् प्रञ्चेति । ये रसा इत्यादि तु यत्प्रश्नत्रयं भावः -- इहाङ्गगणनायां ``जग्राह पाठ्यम्'' (ना॰ शा॰ 1-17) इत्यादौ पाठ्यगीतयोस्तावत्सुप्रसिद्धं रूपम् । अभिनयानामपि ``महागीतेषु चैवार्थान्सम्यगेवामिनेष्यसि'' इति (ना॰ शा॰ 4-15) ।

[(मू)]

1. अ॰ अयं श्लोको नास्ति । तत्स्थाने `ऋषय ऊचुः' इति पठ्यते । तत्स्थाने `ऋषय ऊचुः' इति पठ्यते ।

2. म॰ मुनयो भरतम् ।

3. म॰ पञ्च प्रश्नान् ब्रवीहि नः ।

[(व्या)]

1. भ॰ सम्यङ्निर्णीतम् ।

[page 260]




[NZ]

ये रसा इति पठ्यन्ते नाट्ये 1नाट्यविचक्षणैः । BhNZ_06_002ab
रसत्वं 2केन वै तेषामेतदाख्यातुमर्हसि ॥ BhNZ_06_002cd
3भावाश्चैव 4कथं प्रोक्ताः किं वा ते भावयन्त्यपि5 BhNZ_06_003ab
संग्रहं कारिकां6 चैव निरुक्तं 7चैव तत्त्वतः ॥ BhNZ_06_003cd
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । BhNZ_06_004ab
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ BhNZ_06_004cd
[ABh]

``यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः ।'' (ना॰ शा॰ 4-231)
इत्यादिवचनबलाच्च सु(स्व)रूपं तावन्नातीव हृदयङ्गमम् ।
ये तु ``रसानाथर्वनात्'' (ना॰ शा॰ 1-17) इति रसा उक्तास्ते तावत्प्रसिद्धाः षाडबादयः । न प्रकृतौ न विकृतौ युक्ताः । ये त्वन्ये शृङ्गारादयः केचन रसशब्देन सह प्रयुक्ताः ``शृङ्गाररससम्भवः'' (ना॰ शा॰ 4-269) इति ``ततो रौद्ररसं श्लोकम्'' (ना॰ शा॰ 5-132) इति तत्रापि शृङ्गारादिषु कथं रसशब्दवाच्यत्वम् । वैशब्दो(1) ऽक्षर(क्षमायाम्) । रसनेन्दियग्राह्ये हि रसशब्दः प्रसिद्धः । न चायमनादरस्थानभूतो ऽर्थो येनाविचारित एवोपेक्ष्यते ``खिन्नानां रसभावेषु'' (ना॰ शा॰ 5-159) इत्यादावादरातिशयप्रतीतेः । अत एव शब्दप्रादुर्भाव इति शब्दो रसा इति पठ्यन्त इति । तेन प्राधान्यादङ्गाभिनयप्रश्नान्तर्भूतमप्येतत्पुनः प्रश्नितमित्यर्थः । पुनः प्रश्नाभिप्रायेणैवाख्यातुमर्हसीत्युपपन्नम् । पूर्वाख्यानेषु तु पुनरुक्तमभिधत्स्वेत्युक्तत्वात् ।
भावाश्चेति चशब्दस्तुशब्दार्थे । भावास्त्वपठिता अपि कथं प्रोक्ताः । अथ पाठ्यादय एव भावाः । तत्किमेषां रूपम् । तेनादरविषयत्वाद्रसे प्रश्नान्तरम्(र)भूतावृत्त्या विस्मयस्थानत्वाद्भावेषु प्रश्नचतुष्कम् । तथा हि -- रससहभावेन भावाः केचन प्रोक्ताः ``खिन्नानाम्'' इत्यत्र । ते च केन प्रकारेणोक्ताः । ``जग्राह'' इत्यादौ हि तेषां नामापि न श्रुतम् । अथैतेष्वेव भावशब्दः प्रवर्तितः । तत्रापि भवन्तीति व्युत्पत्तिः । भावयन्तीति

[(मू)]

1. ब॰ नाट्यविचक्षण ।

2. न॰ म॰ केन वा ।

3. प॰ म॰ हि ये प्रोक्ताः ।

5. ड,, त,, म॰ अ॰ ब॰ भावयन्ति हि ।

6. अ॰ ब॰ कारिकाश्चैव ।

7. अ॰ चापि । म॰ चाभिधत्स्व नः ।

[(व्या)]

1. म॰ भ॰ अक्षरसायाम् ।

[page 261]




[NZ]

अहं वः कथयिष्यामि निखिलेन तपोधनाः । BhNZ_06_005ab
संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम्2 BhNZ_06_005cd
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । BhNZ_06_006ab
3कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां 4वाप्यनन्ततः ॥ BhNZ_06_006cd
[ABh]

किमेतत् किमुत्पादयन्ति । अथ व्याप्नुवन्ति । द्वयोः कर्म किं स्यादिति वाशब्देन चशब्देनापिशब्देन च चत्वारो भावेषु प्रश्नाः । एवं प्राधान्यात्प्रश्नपञ्चकान्तरम् । वस्तुतः पुनः पञ्चप्रश्नी पूर्वोक्तैवेयं विष्फार्यते । सङ्ग्रहादिति चा(दि चा)भिधत्स्व । ननु तैरिह किं प्रयोहनम् । आह -- तत्त्वत इति ॥ (1-3)
तुशब्दो हेतौ । तदित्याखानं परामृष्टम् । यतस्तदाख्यानमत एवा(वै)भ्यः सङ्ग्रहादिभ्य उद्देशलक्षणपरीक्षादिषु प्राधान्यात्तदुपक्रममेव सर्वमभिधेयम् । तदाह । निखिलेन सङ्ग्राह्यलक्षणीयनिर्वचनीयात्मनोपलक्षितं सङ्ग्रहादित्रयमेव वक्ष्यामीति त्रय(त्रि)प्रकाररूपेभ्यः सदुपायेभ्यः । तस्मान्नो ऽभिधत्स्वेति । पुनश्शब्दो भिन्नक्रमः । भरतमुनिः पुनः रसभावा विकल्प्यन्ते निश्चीयन्ते ऽनेन (येन वचनेन) तादृग्वाक्यमुवाच न तु तदीयं वचनमुक्तमुत्तरदानेन समादृतमिति पुनश्शब्दार्थः । मुनेश्चायं भावो रसादिषु समुच्चयार्थश्च । तदभिधाने ऽन्यत्र किंचिदभिधेयमवशिष्यत इत्येवशब्दः । यथाक्रममिति । पूर्व(प्राप्त)सङ्ग्रहः । उद्देशप्रकारत्वादित्यादिक्रमेण स(स्व)बुद्धिविषयं बहुमानं गृह्णताममीषामित्यभिप्रायेण भवद्भिर्युक्तमेतदुक्तम् ।
सङ्ग्रहमित्यादि । तान्निदर्शयन्मुनिराह -- न शक्यमस्येति । शक्यमिति सामान्योपक्रमात् माध्यस्थ्यविवक्षा । गन्तुमिति प्राप्तुम् । अन्तो निश्चयः । कथञ्चनेति । अमुं सङ्ग्रहादिप्रकारं वर्जयित्वान्येन प्रतिपदनिरूपणादिनेत्यर्थः । यत्किल प्रतिपदं निरूपयितुं न शक्यं तल्लक्षणद्वारेणोच्यते । लक्षणस्यैवाङ्गमुद्देशपरीक्षे । तस्य विषयप्रदर्शने परिशुद्धौ च तयोर्व्यापारात् । न चात्र प्रतिपदं निरूपणं युक्तमिति ।

[(मू)]

1. अ॰ रिकाश्चैव ।

2. अ॰ यथाविधि ।

3. न॰ ब॰ कस्माद्बहुत्वाद्भावानाम् ।

4. अ॰ चापि तत्त्वतः ।

[(व्या)]

[page 262]




[NZ]

एकस्यापि न वै 1शक्यस्त्वन्तो ज्ञानार्णवस्य हि2 BhNZ_06_007ab
गन्तुं किं पुनरन्येषां ज्ञानानाम3र्थतत्त्वतः ॥ BhNZ_06_007cd
किन्त्वल्पसूत्र4ग्रन्थार्थमनुमानप्रसाधकम् । BhNZ_06_008ab
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ BhNZ_06_008cd
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । BhNZ_06_009ab
5निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ BhNZ_06_009cd
6रसा भावा ह्यभिनयाः 7धर्मी वृत्तिप्रवृत्तयः । BhNZ_06_010ab
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ BhNZ_06_010cd
[ABh]

अत्र हेतुमाह -- बहुत्वादिति । ज्ञानाख्यानि व्याकरणादीनि शास्त्राणि । शिल्पानि चित्रपुस्तादिकर्माणि । तेषामनन्ता(न्तत्वा)दन्ताभावात् ॥ (4-6)
एतदेवोपोद्बलयत्येकस्येति । नाट्याङ्गभूतस्य कस्यचिदिति शेषः । अर्थस्याभिधेयस्य तत्त्वतः । तननं विस्तारः । तेन । अन्येषामिति । अङ्गभूतस्यापि यान्यङ्गत्वेनायान्तीत्यर्थः ।
सङ्ग्रहादयस्त्वत्र सदुपाया इति दर्शयति -- किन्त्विति । नाट्यस्य नाट्यविषयस्यार्थस्य सङ्ग्रहं संक्षिप्य गृह्यते ऽनेनेति तमुद्देशं वक्ष्यामीति । कथम् । रसभावादि कृत्वा प्राधान्यात्तदुपक्रममित्यर्थः । किं तेनेत्याहानुमानं लक्षणं तद्धि केवलव्यतिरेकिहेतुरूपम् । तस्य चोद्देशधर्मिणं प्रकल्पयन् प्रकृष्टः साधकः आश्रयासिद्धत्वशङ्काशमनेन पक्षधर्मत्वमूलाङ्गपोषकत्वात् । तस्य सङ्ग्रहस्य स्वरूपमाह -- सूत्रग्रन्थयोर्लक्षणपरीक्षयोर्यो ऽर्थो लक्ष्यपरीक्षितव्यलक्षणः सो ऽल्पः सङ्कुचितो नाममात्रेणोद्देश्यतया यत्र । अन्ये ऽप्येवमेव मन्यन्त इति दर्शयति -- विस्तरेणेति । सूत्रं लक्षणम् । भाष्यं तद्व्यक्तीकरणरूपा परीक्षा । अल्पौ सूत्रग्रन्थौ यत्रार्थे सो ऽर्थो यत्रेति तु व्याख्यानमनेन श्लोकेन न संवदते ॥ (7-9)

[(मू)]

1. न॰ ब॰ म॰ त॰ शक्यमन्तम् ।

2. अ॰ म॰ तु ।

3. त॰ ज्ञातुमर्थं हि ।

4. द॰ म॰ गूढार्थ । अ॰ अल्पग्रन्थसूत्रार्थम् ।

5. म॰ त॰ अ॰ निबद्धो ।

6. ज॰ म॰ रसभावा ।

7. ज॰ अ॰ ब॰ धर्मवृत्ति । त॰ धर्मवृत्त ।

[(व्या)]

[page 263]




[NZ]

अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । BhNZ_06_011ab
सूत्रतः 1सानुमन्तव्या(नु पठिता) कारिकार्थप्रदर्शिनी2 BhNZ_06_011cd
[ABh]

सङ्ग्रहं दर्शयति -- रसा भावा इत्यादिना । चशब्द इतिशब्दार्थे । अभिनयत्रयं गीतातोद्ये चेति पञ्चाङ्गं नाट्यम् । नटस्य हि रसभावयोगे मरणादौ तत्त्वावेशो लयादिभङ्गश्च स्यात् । दृष्टस्तु तत्प्रत्ययो नटे भ्रमः । अनेन तु श्लोकेन कोहलमतेनैकादशाङ्गत्वमुच्यते । न तु भरते । तत्सङ्गृहीतस्यापि पुनरत्रोद्देशः । निर्देशे चैतत्क्रमव्यत्यासनादित्यौद्भटाः । नैतदिति भट्टलोल्लटः । रसभावानामपि वा(1)सनावेशवशेन नटे सम्भवादनुबन्धिबलाच्च लयाद्यनुसरणादन्तर्भूतस्यापि प्रयोजनवशेन पुनरुद्देशदर्शनात् क्रमस्य चाविवक्षितत्वादिति । वयन्त्वत्र तत्त्वमग्रे वितनिष्याम इत्यास्तां तावत् ।
अथ कारिकां लक्षयति -- अल्पाभिधानेनेति । अनेनार्थस्य कारिकात्वं लक्षणरूपस्य दर्शयति । तद्वाचकस्य सूत्रस्य तत्संक्षिप्तार्थविवरणात्मकस्य च श्लोकस्य । अनेन लक्षणवाक्यं द्विधेति तात्पर्यम् । यो ऽर्थोऽल्पैः शब्दैः समासेन बहुतरलक्ष्यसङ्ग्रहेण सूत्रं वाचकमाश्रित्योच्यते सो ऽर्थः कारिका । ज्ञप्तिसाधकत्वात्तदर्थिनी (2)कारिका । सूत्रतः सूत्रणेन । एतेन सूत्रमपि कारिका । तत्सूत्रमपेक्ष्य या अनु पश्चात्पठिता श्लोकरूपा सापि कारिका । तथा हि -- सूचनात्मकत्वात्सूत्राल्लब्धो योऽर्थो लक्षणात्मकः स एव सम्यगिति श्रय्य(सम्यगतिश्रव्य)तया पर्णान्यनेनेति (वर्णनात्मनेति) वृत्तबन्धेनोच्यमानो अल्पैश्च शब्दैर्निरूप्यमाणो ऽर्थस्य लक्षणीयस्य प्रकर्षं धर्म्यन्तराद्व्यवच्छेदं दर्शयन् धर्मः कारिका । क्रियते ऽनेन ज्ञप्तिरिति कारिका । लक्षणमिति यावत् । तदर्थप्रकाशकत्वात् श्लोको ऽप्युपचारात्कारिका ।
एतदुक्तं भवति -- उद्दिष्टस्य धर्म्यन्तरव्यवच्छेदकं लक्षणं वक्तव्यम् । तच्च पूर्वं सूत्रेण । ततो ऽप्यकृताक्षेपोत्तरप्रपञ्चेन तद्विवरणमात्ररूपेण सुखग्राह्येण श्लोकेन । उभयोरपि हि लक्षमेव प्रतिपाद्यम् । तदेव कारिकोच्यते । सूत्रश्लोकावुपचारादिति ॥ (10-11)
अथ परीक्षात्मकं निरुक्तं लक्षयति श्लोकद्वयेन -- नानानामेत्यादिना । समासेन संक्षेपेणानेकव्यक्तिभेदभिन्नस्यार्थस्य लक्षणीयस्य यः सूचको ऽर्थो लक्षणात्मकः स यत्राक्षेपप्रतिसमाधानलक्षणे

[(मू)]

1. ब॰ सा तु मन्तव्या । अ॰ सा तु विज्ञेया ।

2. न॰ ब॰ प्रयोगिनी ।

[(व्या)]

1. म॰ भ॰ भावनावेश ।

2. म॰ भ॰ नाविका ।

[page 264]




[NZ]

नानानामाश्रयोत्पन्नं निघण्टु1निगमान्वितम् । BhNZ_06_012ab
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ BhNZ_06_012cd
[ABh]

वस्तुनि सति स्थापितो भवति तत्परीक्षारूपनिरुक्तम् । नचैवं परिभाषा । किन्त्वर्थमेतं निर्भज्याक्षेपप्रतिसमाधानाभ्यां लक्षणस्य वचनमिति । एतदाह -- धात्वर्थवचनेनेति ।
कथं तल्लक्षणं स्थाप्यत इत्याशङ्क्य क्रियाविशेषणाभिधानद्वारेणाक्षेपप्रतिसमाधानप्रकारं दर्शयति -- नानेत्यादिना । नानाप्रकाराणि यानि नामानि लक्षणवाक्ये ऽर्थप्रतिपादकाः सुबन्ताः शब्दास्तानाश्रित्योत्पन्नः उत्पाद आक्षेपप्रतिसमाधानयोर्यत्र । ननु नामपदेषु कथमाक्षेपप्रतिसमाधाने । आह -- निघण्टुनाभिधानकोशेन रूढिषु । अन्येषु प्रकृतिप्रत्ययविभागनिगमनया । अन्वितमन्वयो यत्रोत्पादे । यानि लक्षणवाक्ये तिङन्तानि पदानि तेषु परकारमाह -- धात्वर्थस्य क्रियाया हेतूनां च क्रियानिमित्तानां कारकाणां संयोजनं विचारो यत्र स्थापने । इयता लक्षणवाक्ये(1) पूर्वशब्दप्रीक्षा दर्शिता । अयं शब्दः कथमत्रार्थे वर्तत इत्याक्षेपः । इत्थमिति च प्रतिसमाधानम् । एतत् प्रदर्शितवस्तुप्रणीतमेव ।
अर्थपरीक्षामपि दर्शयति -- नानाप्रकारैः सर्वतन्त्रप्रतितन्त्रादिभिः सिद्धान्तैः । प्रमाणमूलैरर्थैः साधितमाक्षेपोत्तरयोः साधना यत्र स्थापने । एवं परीक्षानेन दर्शिता । तन्त्रादिन्यायास्तु तदङ्गम् । निरुक्तमपि । तच्चतुर्धा -- नाम्ना वा -- ऊर्ध्वे स्वमस्योलूखलः । धातुना वा -- रस्यत इति रसः । द्वाभ्यां वा -- पिशितमश्नातीति पिशाचः । समयेन च -- सो ऽपि त्रिधा -- लैकिको यथा भू सत्तायाम् । वैदिको यथा -- दीधीङ् दीप्तिदेवनयोः, वेवीङ्चेतिना तुल्ये । प्रतिशास्त्रपार्षदो यथा -- गान्धर्ववेदे गीतकविशेषे ओवेणकादिशब्दः । तदेतदुक्तं नानेत्यादिना । निरुक्तस्य तु प्रयोजनं संक्षेपेणार्थावधारणम् । तदुक्तं स्थापित इति ॥ (12-13)

[(मू)]

1. अ॰ नाट्यन्तु ।

[(व्या)]

1. भ॰ क्येन ।

[page 265]




[NZ]

1स्थापितो ऽर्थो भवेद्यत्र समासेनार्थासूचकः2 BhNZ_06_013ab
धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ BhNZ_06_013cd
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । BhNZ_06_014ab
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ BhNZ_06_014cd
शृङ्गारहास्यकरुणा 3रौद्रवीरभयानकाः । BhNZ_06_015ab
बीभत्साद्भुतसंज्ञौ4 चेत्यष्टौ नाट्ये रसाः5 स्मृताः ॥ BhNZ_06_015cd
[ABh]

अथोद्दिष्टानां विभागं सूचयति -- सङ्ग्रहो यो मयेति । तस्येति सङ्ग्रहस्य । सङ्ग्रह एव विस्तारिते विभाग इत्यर्थः । किं तदुक्तावेव सर्वं सम्पन्नम् । नेत्याह । सनिरुक्तं परीक्षापर्यन्तमित्यर्थः । अन्तवचने ऽव्ययीभावः । न चालक्षितस्य परीक्षेत्याह -- सकारिकं कारिकासम्पदोपेतम् । सम्पत्तौ समासः ।
तत्र विभागं तावदाह -- शृङ्गारहास्येत्यादिना नाट्यसङ्ग्रह (ना॰ शा॰ 6-31) इत्यन्तेन । तत्र नाट्यं नाम नटगताभिनयप्रभावसाक्षात्कारायमाणैकघनमानसनिश्चलाध्वसेयः समस्तनाटकाद्यन्यतमकाव्यविशेषाच्च द्योतनीयो ऽर्थः । स च यद्यप्यनन्तविभावाद्यात्मा तथापि सर्वेषां जडानां संविदि तस्याश्च भोक्तरि भोक्तृवर्गस्य च प्रधाने भोक्तरि पर्यवसानान्नायकाभिधानभोक्तृविशेषस्थायिचित्तवृत्तिस्वभावः ।
सा चैकचित्तवृत्तिः स्वपरकीयमिति(परमिति प्रतीय)मानानन्तचित्तवृत्त्यन्तरश(1)तविशेषिता लौकिक(2)गीतगेयपदादिलास्याङ्गदशकोपजीवनस्वीकृतलक्षणगुणा अलङ्कारगीतातोद्यादिसम्यक्सुन्दरीभूतकाव्यमहिमप्रयोगमालाभ्या(3)सविशेषाश्रयत्वात् प्राच्यविता अत एव साधारणीभूततया सामाजिका(4)नपि स्वात्मसद्भावेन समावेशयन्ती तादात्म्यादेव (5)चानुमानागमयोगिप्रत्यक्षादिकरणकतटस्थप्रमातृप्रमेयपरकीयलौकिकचित्तवृत्तिविलक्षणतया निर्भासमाना

[(मू)]

1. न॰ त॰ साधितो ।

2. अ॰ सूत्रयोः ।

3. ज॰ अ॰ म॰ वीररौद्र ।

4. द॰ अ॰ ब॰ त॰ संज्ञाश्चेत्यष्टौ । ज॰ शान्ताश्च नव नाट्यरसाः ।

5. म॰ त॰ नाट्यरसाः ।

[(व्या)]

1. म॰ भ॰ गत ।

2. म॰ भ॰ तालोकिनीतगे ।

3. म॰ भ॰ मालाभ्यां विशे ।

4. म॰ भ॰ जिका अपि ।

5. म॰ भ॰ चाननुमा ।

[page 266]




[NZ]

एते ह्यष्टौ रसाः1 प्रोक्ता2 द्रुहिनेन महात्मना । BhNZ_06_016ab
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान्3 BhNZ_06_016cd
रति4र्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । BhNZ_06_017ab
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ BhNZ_06_017cd
[ABh]

परिमितस्वात्मान्या(1)श्रयतानिर्भासनाविरजाच्च लौकिकप्रमदादिजनितनिजरतिशोकादिवत् षड्ज(तज्ज)हानादिचित्तवृत्त्यन्तरजननाक्षमा तत एव निर्विघ्नस्वसंवेदनात्मक(हर्ष)विश्रान्तिलक्षणेन रसनापरपर्यायेण व्यापारेण गृह्यमाणत्वाद्रसशब्देनाभिधीयते ।
तेन रस एव नाट्यम् । यस्य व्युत्पत्तिः फलमित्युच्यते । तथा च रदादृते (ना॰ शा॰ 6-31) इत्यत्रैकवचनोपपत्तिः । ततश्च मुख्यभूतात् महारसात् स्फोटदृशीवासत्यानि वा अन्विताभिधानदृशीवोपायात्मकानि सत्यानि वा अभिहितान्वयदृशीव तत्समुदायरूपाणि वा रसान्तराणि भागा(वा)भिनिवेशदृष्टानि रूप्यन्ते । तद्वक्ष्यन्ते ``काव्यार्थान् भावयन्ति'' इति । तेन प्रथमं रसाः । ते च नव । शान्तापलापिनस्त्वष्टाविति तत्र पठन्ति ।
तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रतिहत्येति(हृद्यतेति) पूर्वं शृङ्गारः । तदनुगामी च हास्यः निरपेक्षभावत्वात् । तद्विपारीतस्ततः करुणः । ततस्तन्निमित्तं रौद्रः । स चामर्षप्रधानः । तत्र कामार्थयोर्धर्ममूलत्वाद्वीरः । स हि धर्मप्रधानः । तस्य च भीताभयप्रदानसारत्वात् । तदनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात् । ततो बीभत्सः इति यद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्ते ऽद्भुतः फलमित्यनन्तरं तदुपादानम् । तथा च वक्ष्यते ``पर्यन्ते कर्तव्यो नित्यं हि रसो ऽद्भुतः ।''(ना॰ शा॰ 18-43) इति । ततस्त्रिवर्गात्मकप्रवृत्त(त्ति)धर्मविपरीतनिवृत्त(त्ति)धर्मात्मको मोक्षफलः शान्तः । तत्र स्वात्मावेशेन रसचर्वणेत्युक्तम् ।
स च विभावादिबलादिति भावा वक्तव्याः । तत्र नाज्ञातलौकिकरत्यादिचित्तवृत्तेः कवेर्नटस्य वा तद्विषयविशिष्टविभावाद्याहरणं शक्यमिति स्थायिन उद्दिष्टाः । तत्र शान्तस्य

[(मू)]

1. ड॰ नव रसाः ।

2. प॰ अ॰ दृष्टाः ।

3. अ॰ सात्त्विकान् ।

4. अ॰ हासो रतिश्च ।

5. अ॰ श्चैव ।

[(व्या)]

1. म॰ भ॰ स्वात्माश्रय ।

[page 267]




[NZ]

1निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । BhNZ_06_018ab
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः2 BhNZ_06_018cd
व्रीडा चपलता 3हर्ष आवेगो जडता 4तथा । BhNZ_06_019ab
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ BhNZ_06_019cd
सुप्तं 5विबोधो ऽ6मर्षश्चाप्यवहित्थमथोग्रता । BhNZ_06_020ab
मतिर्व्याधिस्तथो7न्मादस्तथा मरणमेव च ॥ BhNZ_06_020cd
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । BhNZ_06_021ab
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ BhNZ_06_021cd
स्तम्भः स्वेदो ऽथ रोमाञ्चः 8स्वरभेदो ऽथ वेपथुः । BhNZ_06_022ab
वैवर्ण्यमश्रु प्रलय 9इत्यष्टौ सात्विकाः स्मृताः ॥ BhNZ_06_022cd
आङ्गिको वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । BhNZ_06_023ab
चत्वारो ऽभिनया ह्येते 10विज्ञेया नाट्यसंश्रयाः ॥ BhNZ_06_023cd
[ABh]

स्थायी `विस्मरशमा' इति कैश्चित्पठितः । उत्साह एवास्य स्थायीत्यन्ये । जुगुप्सेति केचित् । तत्त्वज्ञानजो निर्वेदो ऽस्य स्थायी । एतदर्थमेवोभयधर्मोपजीवित्वख्यापनायामङ्गलभूतो ऽप्यसौ पूर्वं निर्दिष्टो व्यभिचारित्वा(षु । अ)भिनयत्वो(स्यो)पर्जीवका इति (तदनन्तरं ) सात्त्विकाः । स्थायिषु च सङ्ख्या नोक्तेत्यपरे । अत एव स्थायिन एते तु व्यभिचारिणो ऽपि भवन्ति । एतच्चाग्रे वितनिष्यामः ।
व्यभिचारिण एते इत्युभयतो नियमार्थं सङ्ख्योपादानम् । सात्त्विका व्यभिचारिवृत्तमभिनयवृत्तं चोपजीवन्तीति पृथगभिनयादिभ्यो गणिताः ।
चत्वार इति । आहार्यस्यापि धनुःप्रतिशीर्षकमुकुटादेः प्रत्यक्षबुद्धावुपoगे ऽन्तरङ्गत्वं

[(मू)]

1. ज॰ निर्वेदो ऽथ तथा ग्लानिशेङ्कासूया ।

2. म॰ मोहमतिस्मृतीः ।

3. द॰ चपलता चैव ।

4. प॰ धृतिः ।

5. न॰ त॰ सुप्तिर्विबोधो ।

6. ड॰ म॰ प्रबोधो हर्षश्चाप्यवहित्थ ।

7. ड॰ म॰ रथो । अ॰ अरतिर्व्याधिरुन्मादः ।

8. न॰ ब॰ त॰ स्वरभेदो ऽथ । म॰ स्वरसादोष ।

9. न॰ भावास्त्वष्टौ तु सात्त्विकाः ।

10. ड॰ ब॰ त॰ येषु नाट्यं प्रतिष्ठितम् । न॰ विज्ञेया नाट्यकर्मणि ।

[(व्या)]

[page 268]




[NZ]

1लोकधर्मी नाट्यधर्मी धर्मीति2 द्विविधः स्मृतः । BhNZ_06_024ab
भारती सात्वती चैव 3कैशिक्यारभटी तथा ॥ BhNZ_06_024cd
चतस्रो वृत्तयो ह्येता यासु4 नाट्यं प्रतिष्ठितम् । BhNZ_06_025ab
आवन्ती दाक्षिणात्या च तथा चैवो5ढ्रमागधी ॥ BhNZ_06_025cd
6पाञ्चालमध्यमा 7चेति 8विज्ञेयास्तु प्रवृत्तयः । BhNZ_06_026ab
9दैविकी मानुषी चैव 10सिद्धिः स्याद्द्विविधैव तु ॥ BhNZ_06_026cd
11शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । BhNZ_06_027ab
[12निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥ ] BhNZ_06_XXXcd
ततं चैवावनद्धं च घनं सुषिरमेव च ॥ BhNZ_06_027cd
[ABh]

सूचयति । नाट्यसंश्रया इति । लोके तु कदाचिन्न भवत्यपि गृहीतत्वात् । नाट्ये तु त एव जीवितम् । अत एव रसभावानन्तरमभिनया उद्दिष्टः ॥ (14-23)
अभिनयाश्च लौकिकं धर्मं तन्मूलमेव तदुपजीविनं सामायिकं वानुवर्तन्त इत्यतस्तदनन्तरं धर्मी । न चाभिनयो ऽभिनेतव्यमन्तरेणास्तीति दशरूपकयोगद्वारेण तदुपकारिण्यो वृत्तयः । द्वे तिस्रः पञ्चेति निराकरणाय चतस्र इत्युक्तम् । ता अपि देशवशाद्भूयसा भवन्तीति तदनन्तरं प्रवृत्तयः । सर्वमेतत्सिद्धिपर्यवसानमिति ततो द्विविधा सिद्धिः । स्वराः पाट्यं गानसंगृहीता अपि पृथगुपात्ताः । केवलानामपि प्रयोगोपरञ्जकत्वं यल्लक्ष्ये दृश्यते यत्रान्तरालाप इति प्रसिद्धिस्तदभ्युपगमार्थम् । लक्षणान्वितमिति । अन्यत्तु मल्लकपटफलकज्वालामुखपक्षवाद्यादि लौकिकं नैतत्सङ्गृहीतं बाध्यत्वादित्यर्थः । एतच्चान्ते लक्ष्यते ।

[(मू)]

1. ड॰ लौकिकी नाट्यधर्मी च ।

2. ढ॰ त॰ धर्मी तु द्विविधा स्मृता ।

3. ड॰ त॰ वृत्तिरारभटी ।

4. ड॰ त॰ ह्येताः कौशिक्या सह कीर्तिताः । अ॰ विज्ञेया नाट्यसंश्रयाः ।

5. प॰ ब॰ चैवार्ध । चैवान्ध्र ।

6. प॰ म॰ पाञ्चालीमध्यमा ।

7. प॰ चैव ।

8. प॰ ज्ञेया नाट्यप्रवृत्तयः ।

9. म॰ ब॰ दैवीति । अ॰पुस्तके इदमर्धं नास्ति ।

10. ड॰ सिद्धिस्तु द्विविधैव च ।

11. न॰ म॰ शारीरा वैणवाश्चैव ।

12. इदमर्धं त॰पुस्तक एव दृश्यते ।

[(व्या)]

[page 269]




[NZ]

चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । BhNZ_06_028ab
ततं तन्त्रीगतं1 ज्ञेयमवनद्धं तु पौष्करम् ॥ BhNZ_06_028cd
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । BhNZ_06_029ab
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम्2 BhNZ_06_029cd
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम्3 BhNZ_06_030ab
चतुरश्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च 4कीर्तितः ॥ BhNZ_06_030cd
[ABh]

यदपि चतुर्विधं न सर्वमि(1)दं बहुलचर्मकारादिवाद्यमपि च वक्ष्यमाणलक्षणान्वितम् । आतूद्यते ऽभिहन्यत इत्यर्थः । पुष्करशब्दश्रवणादागतं पुष्करवर्तकदेवताधिष्ठितं पद्मपत्राकारं चर्मपुटभाषं चेति पौष्करम् । हन्यते कलासाम्यार्थमिति घनः । अत एव तालैकप्रमाणत्वात्स्वरवर्णसम्भवात्ताल इत्युक्तः कांस्यतालादिः । एवकारः काहलादिव्युदासाय ।
पात्रस्य प्रवेशे भावप्रकृत्यवस्थानादिसूचकं यद्गीयते तत्प्रवेशगानं । प्रविष्टस्यान्तर्गतां चित्तवृत्तिं सामाजिकान्प्रति प्रसादयितुं प्रथयितुं प्र(3)सादगानम् । रसान्तरोपक्षेपार्थमाक्षेपगानम् । आन्तरमिति गतिपरिक्रमणनिरूपणादिरवसरः । तत्र यद्गीयते तदान्तरं गानम् । पात्रस्य निष्क्रमणे तु निष्क्रामगानम् । प्रवेशादय उपचाराद्गाने । प्रसादो ऽस्य प्रयोजनं प्रासादिकम् । अन्ये तु समासान्मत्वर्थीयं ठनं कृत्वा प्रसादिकमिति । ध्रुवा गीत्याधारो नियतः पदसमूहः । तत्र योगेन युज्यमानतया समन्वितं तदर्थप्राधान्येन नियतरूपत्वादिति गानस्य गान्धर्वाद्भेदः सूचितः ।
कक्ष्याविभागेन गत्युपकारेण सर्वाभिनयानुभावोपकारी गानातोद्योपकारी च मण्डपः । यथोक्तम् ``यश्चाप्यास्यगतो भाव'' (ना॰ शा॰ 2-20) इति, तथा ``गम्भीरस्वरता येन कुतपस्य'' इत्यादि (ना॰ शा॰ 2-82) । रङ्गेणैव च कक्ष्याविभागः सङ्गृहीत इति नानुदृ(द्दि)ष्टं कक्ष्यायाः ॥ (24-30)

[(मू)]

1. अ कृतम् ।

2. ज॰ म॰ अथापरम् ।

3. अ॰ समुद्भवम् ।

4. अ॰ त्र्यस्रश्चैव हि मण्डपः ।

[(व्या)]

1. म॰ भ॰ सर्वभिर्णोम्बचर्म ।

2. म॰ भ॰ प्रासाद ।

[page 270]




[NZ]

एवमेषो ऽल्पसूत्रार्थो निर्दिष्टो1 नाट्यसंग्रहः । BhNZ_06_031ab
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ BhNZ_06_031cd
[ABh]

एतदुपसंहरत्येवमित्यादिना ।
एवमुद्देशविभागभेदेन द्विधा सङ्ग्रहमभिधाय लक्षणपरीक्षे वक्तुं प्रतिजानीते -- अतःपरमिति । सूत्रग्रन्थविकल्पनमिति । सूत्रं सूत्रकं लक्षणं वक्ष्यामि । तेनैव च कारिका सङ्गृहीता । ग्रन्थो भाष्यम् । तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमिति परीक्षा निरुक्तशब्दवाच्या प्रतिज्ञाता । सूत्रविवरणस्वभावा तु कारिका सूत्रमपि प्रकाशयन्ती बहुतराक्षेपसमाधानव्याकुलशिष्यजन(नं) स्थित(र)पक्षनिरूपणेनोपकरोतीति भाष्यस्य पश्चादस्याः पाठः ।
एवं सूत्रं भाष्यं परीक्षां च प्रवक्ष्यामीति प्रतिज्ञाय रसविषयमेव सूत्रप्रभृति प्रथमं वक्तव्यमित्यत्र परिकरबन्धं घटयितुमाह -- तत्रेति । तेषां रसादीनां मध्ये । एवकारोऽवधारणे । तावदिति क्रमे । अभितः आदितः सूत्रग्रन्थपरीक्षाक्रमेण विभज्याख्यास्यामः ।
उद्देशक्रमस्यैव पर्यनुयोज्यतामाशङ्क्यापरं क्रमहेतुमाह -- न हीति । हि यस्मात् रसं विना विभावादिरर्थो बुद्धौ व्याख्येयतया न प्रवर्तते यतश्च तं विनार्थः प्रयोजनं प्रीतिपुरस्सरं व्युत्पत्तिमयं(1) न प्रवर्तते यतश्च रसं प्रत्यादृते रसनात्मकप्रतीत्येकघनविश्रान्ते सामाजिकलोके ऽन्यो भावादिरर्थः प्रविभागेन बुद्धौ न वर्तते । सर्वस्य जडस्य चित्तवृत्त्यन्तरोपकृतप्रधानस्थायिनामधेयचित्तवृत्तिमग्नत्वेन विभावानुभावादिवर्गस्यावभासात् । अतो व्याख्यातृनटसामाजिकाभिप्रायेण तस्यैव प्राधान्यमिति रस एव तावत्पूर्वमुद्दिष्ट इति तस्यैव लक्षणादि कर्तव्यमिति तात्पर्यम् ।
पूर्वत्र बहुवचनमत्र चैकवचनं प्रयुञ्जानस्यायमाशयः -- एक एव तावत्परमार्थतो रसः सूत्रस्थानीयत्वेन रूपके प्रतिभाति । तस्यैव पुनर्भागदृशा विभागः । सो ऽपि च न (2)तदेकमुखप्रेक्षितामतिवर्तते । एतच्चोद्देश एवास्माभिरभिहितचरम् । अभिधास्यते चाग्रे ।

[(मू)]

1. अ॰ म॰ व्यादिष्टो ।

[(व्या)]

1. भ॰ त्तिं नियमयन्न प्र ।

2. म॰ भ॰ नटभेदमुखप्रेक्षकमति ।

[page 271]




[NZ]

तत्र रसान् एव तावदादावभि(1)व्याख्यास्यामः । न हि रसादृते (2)कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ।
[ABh]

एवं क्रमहेतुम् अभिधाय रसविषयं लक्षणसूत्रम् आह -- विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । अत्र भट्टलोल्लटप्रभृतयस्तावदेवं व्याचख्युः -- विभावादिभिः संयोगो ऽर्थात् स्थायिनस् ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावश्च न रसजन्या अत्र विवक्षिताः । तेषां रसकारणत्वेन गणनानर्हत्वात् । अपि तु भावानामेव । (ते) ये ऽनुभावाः व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना तथापि वासनात्मनेह तस्य विवक्षिताः । दृष्टान्ते ऽपि व्यञ्जनादिमध्ये कस्यचिद्वासनात्मकता स्थायिवत् । अन्यस्योद्भूतता व्यभिचारिवत् । तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः । स्थायी भवत्वनुपचितः । स चोभयोरपि । [मुख्यया वृत्त्या रामादौ(1) ]अनुकार्ये ऽनुकर्तर्यपि चानुसन्धानबलात् ---- इति ।
चिरन्तनानां चायं पक्षः । तथा हि दण्डिना स्वालङ्कारलक्षणे ऽभ्यधायि ।
``रतिः शृङ्गारतां गता । रूपबाहुल्ययोगेन'' इति (काव्यादर्शे 2-281) ``अधिरुह्य परां कोटिं कोपो रौद्रात्मतां गतः ।'' (2-2-83) इत्यादि च ।
एतन्नेति श्रीशङ्कुकः । विभावाद्ययोगे स्थायिनो लिङ्गाभावेनावगत्यनुपपत्तेर्भावानां पूर्वमभिधेयताप्रसङ्गात् स्थितदशायां लक्षणान्तरवैयर्थ्यात् मन्दतरतममाध्यस्थ्याद्यानन्त्यापत्तेः हास्यरसे षोढात्वाभप्राप्तेः कामावस्थासु दशस्वसङ्ख्यरसभावादिप्रसङ्गात् शोकस्य प्रथमं तीव्रत्वं कालात्तनुमान्द्यदर्शनं क्रोधोत्साहरतीनाममर्षस्थैर्यसेवाविपर्यये ह्रासदर्शनमिति विपर्ययस्य दृश्यमानत्वाच्च ।
तस्माद्धेतुभिर्विभावाख्यैः कार्यैश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथानभिमन्यमानैरनुकर्तृस्थत्वेन लिङ्गबलतः प्रतीयमानः स्थायी भावो मुख्यरामादिगतस्थाय्यनुकरणरूपः । अनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः ।
विभावा हि काव्यबलानुसन्धेया । अनुभावाः शिक्षातः । व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् ।

[(मू)]

1. न॰ म॰ तावदभिधास्यामः । अ॰ तावदभिधास्ये ।

2. ड॰ अ॰ ब॰ म॰ त॰ कश्चिदप्यर्थः ।

[(व्या)]

1. म॰ भ॰ अयं भागो नास्ति ।

[page 272]




[NZ]

[ABh]

स्थायी तु काव्यबलादपि नानुसन्धेयः । `रतिः शोक' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन । न तु वाचिकाभिनयरूपतयावगमयन्ति । न हि वागेव वाचिकम् । अपि तु तया निर्वृत्तम् । अङ्गैरिवाङ्गिकम् । तेन --
[``विवृद्धात्माप्यगाधो ऽपि दुरन्तो ऽपि महान् अपि । ]
बाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥'' इति
तथा --
``शोकेन कृतः स्तम्भः तथा (1)स्थितो यो ऽनवस्थिताक्रन्दैः ।
[हृदयस्फुटनभयार्तैरर्दितुमभ्यर्थ्यते सचिवैः ॥'']
इत्येवमादौ न शोको ऽभिनेयः । अपि त्वभिधेयः ।
``भाति पतितो लिखन्त्याः [तस्या बाष्पाम्बुशीकरकणौघः ।
स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥''](रत्नावल्यौ 2-11)
इतय् अनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायीभावो ऽभिनीयते न तूच्यते । अवगमनशक्तिर्ह्यभिनयनं वाचकत्वादन्या । अत एव स्थायिपदं सूत्रे भिन्नविभक्तिकमपि नोक्तम् । तेन रतिरनुक्रियमाणा शृङ्गार इति तदात्मकत्वं तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञान(2)दृष्टा(नादृष्टा) --
[``मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति ॥'' इति । ]
न चात्र नर्तक एव सुखीति प्रतिपत्तिः । नाप्ययमेव राम इति । न चाप्ययं न सुखीति । नापि रामः स्याद्वा न वायमिति । न चापि तत्सदृश इति । किन्तु [सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन ]यः सुखी रामः असावयमिति प्रतीतिरस्तीति । तदाह --
``प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः ।
धीरसावयमित्यस्ति नासावेवायमित्यपि ॥
विरुद्धबुद्धिसम्भेदादविवेचितसंप्लवः ।
युक्त्या पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥ '' इति ।

[(मू)]

[(व्या)]

1. म॰ भ॰ तथा स्मितो यो ऽवस्थिता ।

2. म॰ भ॰ नादृष्टा ।

[page 273]




[NZ]

[ABh]

तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममित्युपाध्यायाः । तथा हि -- अनुकरणरूपो रस इति यदुच्यते तत्किं सामाजिकप्रतीत्यभिप्रायेण उत नटाभिप्रायेण किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन `यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्ति' इति ।
अथ भरतमुनिवचनानुसारेणाद्यः पक्षो ऽसङ्गतः । किञ्चिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा, `एवमसौ सुरां पिबति' इति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्धं सदनुकरणतया भातीति चिन्त्यम् । तच्छरीरं तन्निष्ठं प्रतिशीर्षकादि रोमाञ्चकगद्गदिकादिभुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपतयानुकारत्वेन कस्यचित्प्रतिभाति । जडत्वेन [भिन्नेद्रियग्राह्यत्वेन ] भिन्नाधिकरणत्वेन च ततो ऽतिवैलक्षण्यात् । मुख्या[मुख्या]वलोकने च तदनुकरणप्रतिभासः । न च रामगतां रतिमुपलब्धपूर्विणः केचित् । एतेन रामानुकारो नट इत्यपि निरस्तः प्रवादः ।
अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते, तत्रापि किमात्मकत्वेन सा प्रतीयत इति चिन्त्यम् । ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैः धृत्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः ।
ननु ते विभावादयो ऽनुकार्ये पारमार्थिकाः । इह तव् अनुकर्तरि न तथेति विशेषः । अस्त्वेवम् । किन्तु ते हि विभावादयो ऽतत्कारणातत्कार्यातत्सहचाररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैः गृह्यन्ते न वा । यदि गृह्यन्ते तदा कथं रतेर् अवगतिः ।
नन्वत एव तत्प्रतीयमानं रत्यनुकरणबुद्धेः कारणम् । कारणान्तरप्रभवेषु हि कार्येषु (सु)शिक्षितेन न तथा ज्ञाने वस्त्वन्तरस्यानुमानं तावद्युक्तम् । अ(1)सुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । (2)यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानम् । वृश्चिकस्यैव तत्परं मिथ्याज्ञानम् । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि न (3)तदाभासानुमानमयुक्तम् । न हि बाष्पाद्धूमत्वेन ज्ञातादनुकारप्रतिभासमानादपि लिङ्गात्तदनुकारानुमानं(नम)युक्तम् ।
धूमानुकारत्वेन हि ज्ञायमानान् नीहारान्नाट्य(ग्न्य)नुकारजपापुष्पप्रतीतिर्दृष्टा ।

[(मू)]

[(व्या)]

1. म॰ भ॰ अस्तु शि ।

2. म॰ भ॰ तथा ।

3. म॰ भ॰ तदभ्यासानुमानं युक्तम् ।

[page 274]




[NZ]

[ABh]

नन्वक्रुद्धो ऽपि नटः क्रुद्धः इव भाति । सत्यम् । क्रुद्धेन सदृशः । सादृश्यं च भ्रुकुट्यादिभिः । गौरिव गवयेन मुखादिभिरिति । नैतावतानुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिरित्युच्यते । अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः ।
यच्चोक्तं रामो ऽयमित्यस्ति प्रतिपत्तिः तदपि यदि तदात्वेति(वि)निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधकसद्भावे वा कथं न मिथ्याज्ञानम् । वास्तवेन च वृत्ते बाधकानुदये ऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्धिसंभेदादित्यसत् । नर्तकान्तरे ऽपि च रामो ऽयमिति प्रतिपत्तिरस्ति । ततश्च रामत्वं सामान्यरूपमित्यायातम् ।
यच्चोच्यते विभावाः काव्या(1)दनुसन्धीयन्ते (इति) तदपि न विद्मः । न हि " ममेयं सीता काचित् " इति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्त इत्येतद् एवानुसन्धानमुच्यते तर्हि स्थायिनि सुतरामनुसन्धानं स्यात् । तस्यैव हि मुख्यत्वेन " अस्मिन्नयम् " इति सामाजिकानां प्रतिपत्तिः ।
यत्तु `वाग्वाचिकम्' इत्यादिना भेदाभिधानसंरम्भगर्भमहीयानभिनयरूपताविवेकः कृतः स उत्तरत्र स्वावसरे(ना. शा. अ-14) चर्चयिष्यते । तस्मात् सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत् ।
न चापि नटस्येत्थं प्रतिपत्तिः `रामं तच्चित्तवृत्तिं वानुकरोमि' इति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् । अथ पश्चात्करणमनुकरणं तल्लोके ऽप्यनुकरणात्मता(2)तिप्रसक्ता । अथ न नियतस्य कस्यचिदनुकारः अपि तूत्तमप्रकृतेः शोकमनुकरोति तर्हि केनेति चिन्त्यम् । न तावच्छोकेन तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः तद्वैलक्षण्यादित्युक्तम् । इयत्तु स्यात् -- उत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः । यस्य कस्यचिदिति चेत् सो ऽपि विशिष्टतां विना कथं बुद्धावरोपयितुं शक्यः । य एवं रोदितीति चेत् स्वात्मनि मध्ये नटस्यानुप्रविष्ट इति गलितो ऽनुकार्यानुकर्तृभावः ।
किञ्च नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलमनुभावान् प्रदर्शयन् काव्यमुपचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्माते ऽस्य प्रत्तिति(3)र्

[(मू)]

[(व्या)]

1. म॰ भ॰ कार्या ।

2. भ॰ त्मके ऽति ।

3. म॰ भ॰ तिं नत्व ।

[page 275]




[NZ]

[ABh]

न त्वनुकारं वेदयते । कान्तवेषानुकारवद्धि(1) न रामचेष्टितस्यानुकारः । एतच्च प्रथमाध्याये ऽपि दर्शितम् अस्माभिः । नापि वस्तुवृत्ता(2)नुसारेण तदनुकारत्वम् । अनुसंवेद्यमानस्य चस्तुवृत्तत्वानुपपत्तेः । यच्च वस्तुवृत्तं तद्दर्शयिष्यामः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रसा इति । नापि लिङ्गमत्रार्थे मुनेरुपलभ्यते । प्रत्युत ध्रुवागानतालवैचित्र्यलास्याङ्गोपजीवनं(न) निरूपणादि विपर्यये लिङ्गमिति सन्ध्यङ्गाध्यायान्ते वितनिष्यामः । `सप्तद्वीपानुकरणम्' (ना. शा. 1.117)इत्यादि त्वन्यथापि शक्यगमनिकमिति । तदनुकारे ऽपि च नामान्तरं कान्तवेषगत्यनुकरणादौ ।
यच्चोच्यते वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि । तत्र यद्यभिव्यज्यमान इत्यर्थो ऽभिप्रेतः । तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते प्रदीपादिभिरिव । किन्तु तत्सदृशः समूहविशेषो निर्वर्त्यते । अत एव हि सिन्दूरादयो गवावयवसन्निवेशसदृशेन सन्निवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयः । नैवं विभावादिसमूहो रतिसदृशताप्रतिपत्तिग्राह्यः । तस्माद्भावानुकरणं रसा इत्यसत् ।
येन त्वभ्यधायि -- सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव । साङ्ख्यदृशा सुखदुःखस्वभावो रसः । तस्यां च सामग्र्यां द(त)लस्थानीया विभावाः । संस्क्रारकाः अनुभावव्यभिचारिणः । स्थायिनस् तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति । तेन `स्थायिवान् रसत्वम्' इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौर्ख्यात्प्रामाणिको जनः परिरक्ष(क्षि)त इति किमस्योच्यते । यत्त्वत्यन्तं नः प्रतीतिवैषम्यप्रसङ्गादि तत्किं यदत्रोच्यताम् ।
भट्टनायकस्त्वाह -- रसो न प्रतीयते । नोत्पद्यते । नाभिव्यज्यते । स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता । सीतादेरविभावत्वात्स्वकान्तास्मृत्यसंवेदनात् । देवतादौ(3) साधारणीकरणायोग्यत्वात् । समुद्रलङ्घनादेरसाधारण्यात् । न च तद्वतो रामस्य (4)स्मृतिः । अनुपलब्धत्वात् । न च शब्दानुमानादिभ्यः तत्प्रतीतौ लोकस्य सरसता प्रयुक्ता(सता ऽपि युक्ता) प्रत्यक्षादिव । नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्त्यन्तरोदय(5)व्यग्रतयाकाश(यानेक)रसत्वमथापि स्यात् । तन्न प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता(6) । उत्पतावपि तुल्यमेतद् दूषणम् । शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । स्वगतत्वपरगतत्वादि च पूर्ववद् विकल्प्यम् ।

[(मू)]

[(व्या)]

1. म॰ भ॰ वर्धिन ।

2. म॰ भ॰ वस्तुत्वानु ।

3. म॰ भ॰ दौ न साधा ।

4. म॰ भ॰ स्मृतिरुपलब्ध ।

5. म॰ भ॰ दयमव्यग्र ।

6. म॰ भ॰ क्तात् उ ।

[page 276]




[NZ]

[ABh]

तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन नाट्ये चतुर्विधाभिनयरूपेण निबिडनिजमोहसङ्कटकारिणा विभावादिसाधारणीकरणात्मनाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसो ऽनुभवस्मृत्यादिविलक्षणेन रजस्तमो ऽनुवेधवैचित्र्यबलाद्द्रुतिविस्तारविकासलक्षणेन सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति ।
तत्र पूर्वपक्षो ऽयं भट्टलोल्लटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दूषणमनुत्थानोपहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः । रसनेति चेत् । सापि प्रतिपत्तिरेव । केवलमुपायवैलक्षण्यान्नामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युपमिति -- प्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वा असद्वा रस इति न तृतीया गतिरस्याम् । न चाप्रतीतं वस्त्वस्ति व्यवहारे योग्यम् ।
अथोच्यते -- प्रतीतिरिति तस्य भोगीकरणम् । तच्च भू(1)(र)त्यादिस्वरूपम् । तदस्तु । तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावन्त एव रसनात्मानः प्रतीतयो भोगीकरणस्वभावाः । ((2)सत्त्वादि)गुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति कर्तृ(का(3)त्रि)त्वेनेयत्ता --
(``अभिधा भावना चान्या तद्भोगीकृतमेव च(4) ।
अभिधाधामतां याते शब्दार्थालङ्कृती ततः ॥ )
भावनाभाव्य एषो ऽपि शृङ्गारादिगणो भ(हि)यत् ।
(तद्भोगीकृतरूपेण व्याप्यते सिद्धिमान्नरः ॥'' ) इति ।
यत् ``काव्येन भाव्यन्ते रसाः'' इत्युच्यते तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भावनं तदभ्युपगम्यत एव ।
यत्तूक्तम् --
``संवेदनाख्य(ख्यया)व्यङ्ग्यपरसंवित्तिगोचरः ।
आस्वादनात्मा ऽनुभवो रसः काव्यार्थ उच्यते ॥ '' इति ।
तत्र व्यज्यमानतया व्यङ्ग्यो लक्षयते । अनुभवेन च तद्विषय इति मन्तव्यम् ।
नन्वेवं कथं रसतत्त्वम् आस्ताम् ।

[(मू)]

[(व्या)]

1. हेमचन्द्र॰ काव्यानु॰ द्रुत्वा ।

2. हेमचन्द्र॰ काव्यानु॰ सत्त्वादि ।

3. हेमचन्द्र॰ काव्यानु॰ ।

4. हेमचन्द्र॰ काव्यानु॰

[page 277]




[NZ]

[ABh]

किं कुर्मः ।
आम्नायसिद्धे किमपूर्वमेतत्संविद्धिकासे ऽधिगतागमित्वम् ।
इत्थं स्वयंग्राह्यमहार्हहेतुद्वन्द्वेन किं दूषयिता न लोकः ॥
ऊर्ध्वोर्ध्वमारुह्य यदर्थतत्त्वं धीः पश्यति श्रान्तिमवेदयन्ती ।
फलं(1) तदाद्यैः परिकल्पितानां विवेकसोपानपरम्पराणाम् ॥
चित्रं निरालम्बनमेव मन्ये प्रमेयसिद्धौ प्रथमावतारम् ।
सन्मार्गलाभे सति सेतुबन्धपुरप्रतिष्ठादि न विस्मयाय ॥
तस्मात्सतामत्र न दूषितानि मतानि तान्येव तु शोधितानि ।
पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठाफलमामनन्ति ॥
तर्ह्युच्यतां परिशुद्धतत्त्वम् ।
उक्तमेव मुनिना न त्वपूर्वं किञ्चित् । तथाह्याह -- ``काव्यार्थान् भावयन्ति'' इति (ना. शा. अ-7) तत् काव्यार्थो रसः ।
यथा हि ``रात्रिमासत ।'' * तामग्नौ प्रादात्' इत्यादावर्थितादिलक्षितस्याधिकारिणः प्रतिपत्तिमात्राद(2)तितीव्रप्ररोचितात्प्रथमप्रवृत्तादनन्तरमधिकैवोपात्तकालतिरस्कारेणैवास्ते(से) प्रददानीत्यादिरूपा संक्रमणादिस्वभावा यथादर्शनं प्रतिभाभावना(3) विध्युद्योगादिभाषाभिर्व्यवहृता प्रतिपत्तिस्तथैव काव्यात्मकादपि शब्दादधिकरणो ऽधिकास्ति प्रतिपत्तिः ।

[(मू)]

[(व्या)]

1. म॰ अलम् । वपां (तै-ब्रा)

2. म॰ भ॰ त्रादितीव्र ।

3. नाविधिनियोगा । दित्रिवृत्प्र ।

[page 278]




[NZ]

[ABh]

अधिकारी चात्र विमलप्रतिभाबशालिहृदयः । तस्य च ``ग्रीवाभङ्गाभिरामम् ।'' इति (शाकु. अ.1) ``उमापि नीलालकः'' इति (कुमा-3.62) `हरस्तु किञ्चित्'(कुमा-3.67) इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिकापहसिततत्तद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृगपोतका(1)दिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति (2)त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाद्यनालिङ्गितम् । तत एव `भीतो ऽहं भीतो ऽयं शत्रुर्वयस्यो मध्यस्थो वा' इत्यादिप्रत्यय्येभ्यो दुःखसुखादिकृतहाना(3)दिबुद्ध्यन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो विलक्षणं निर्विघ्नप्रतीतिग्राह्यं साक्षादिव हृदये निविश(4)मानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मात्यन्ततिरस्कृतो न विशेषत उल्लिखितः ।
एवं परो ऽपि । तत एव न परिमितमेव साधारण्यम् । अपि तु विततम् । व्याप्तिग्रह इव धूमाग्न्योः । भयकम्पयोरेव वा तदत्र साक्षात्कारायमाणत्वे परिपोषिका नटादिसामग्री । यस्यां वस्तुस(5)तां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सर्वसामाजिकानामेकघन(6)तयैव प्रतिपत्तेः(त्तिः) सुतरां रसपरिपोषाय । सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविघ्ना संवित् । चमत्कारस्तज्जो ऽपि कम्पपुलकोल्लुकसनादिर्विकारः । चमत्कारो यथा --
``अज्ज(7) वि हरी चमक्कइ कहविण मंदरेण दळिआइं ।
चंदकळादळसच्छीआइं ळच्छीए अंगाइं ॥''
तथा हि -- स चातृप्तिव्यतिरेकेणाविच्छिन्नो भोगावेश इत्युच्यते । भुञ्जानस्याद्भुतभोगस्पन्दाविष्टस्य च मनःकरणं चमत्कार इति । स च साक्षात्कारस्वभावो मानसो ऽध्यवसायो वा सङ्कल्पो वा स्मृतिर्वा स्फुरत्यन्नस्तु । यदाह --
``रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत्सुखितो ऽपि जन्तुः ।

[(मू)]

[(व्या)]

1. भ॰ कादिभीतिः ।

2. म॰ ग्राहक ।

3. भाना ।

4. म॰ निधीय ।

5. भ॰ स्तुतः स ।

6. म॰ भ॰ नतैव ।

7. म॰ भ॰ अङ्ग । छाया --

अद्यापि हरिश्चमत्कारोति कथयित्वा(कथमपि न) मन्दरेण दलितानि ।

चन्द्रकलादलसच्छायानि लक्ष्म्या अङ्गानि ॥

[page 279]




[NZ]

[ABh]

तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥'' (शाकु 5) इत्यादि ।
(अत्र(1) हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा । पूर्वमेतस्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति । ) सर्वथा तावदेषास्ति प्रतीतिर् आस्वादात्मा यस्यां रतिरेव भाति । तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती न लौकिकी न मिथ्या नानिर्वाच्या न लौकिकतुल्या न तदारोपादिरूपा । तथैव चोपचयावस्थासु देशाद्यनियन्त्रणादनुकारो ऽप्यस्तु । भावानुगामितया करणात् विषय(2)सामग्र्यपि भवतु विज्ञानवादावलम्बनात् । सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्राह्यो भाव एव रसः ।
तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि -- लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कार(3)निर्वेशरसनास्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । विघ्ना(4)श्चास्यां प्रतिपत्तावयोग्यता -- संभावनाविरहो नाम स्वगतत्वपरगतत्वनियमेन देशकालविशेषावेशो निजसुखादिविवशीभावः प्रतीत्युपायवैकल्यं स्फुटत्वाभावो अप्रधानता संशययोगश् च ।
तथाहि -- संवेद्यसंभावयमानः संवेद्य विनिवेशयितुमेव (यो) न शक्नोति का तत्र विश्रान्तिरिति प्रथमो विघ्नः । तदपसारणे हृदय(5)संवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेष्वखण्डितप्रसिद्धिजनितगाढारूढप्रत्ययप्रसरकरी प्रख्यातरामादिनामधेयपरिग्रहः । अत एव निस्सामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूपयिष्यते । न तु प्रहसना(6)दाविव । तच्च स्वावसर एव वक्ष्याम इत्यास्तां तावत् ।
स्वैकगतानां च सुखदुःखसंविदामास्वादे यथासंभवं तदपगमभूरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जि(7)जीषया वा तज्जिहासया वा तत्प्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः ।
परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनादवश्यंभावी विघ्नः । तदपाकरणे `कार्यो नातिप्रसङ्गो ऽत्र' (ना. शा. 5-158)इत्यादिना (पूर्वरङ्ग(8)विधिं प्रतीति)(9)पूर्वरङ्गानिगूहनेन(``(10)नटीविदूषको

[(मू)]

[(व्या)]

1. हेम॰ काव्यानु ।

2. म॰ भ॰ सामग्र्यामपि ।

3. म॰ विनिवेश ।

4. म॰ भ॰ विघ्नानाञ्चास्याम् ।

5. म॰ भ॰ संवेदो ।

6. म॰ भ॰ नादेव ।

7. भ॰ दृशोज्जिजीष ।

8. हेम॰ काव्यानु॰ पाठः ।

9. म॰ भ॰ पूज्य ।

10. हेम॰ काव्यानु॰ पाठः ।

[page 280]




[NZ]

[ABh]

विदूषको वापि' इति लक्षित)प्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरस्सरः प्रतिशीर्षकादिना तत्प्रच्छादनप्रकारो ऽभ्युपायः अलौकिकभाषादिभेदलास्याङ्गरङ्गपीठमण्डपगतकक्ष्यादिपरिग्रहनाट्यधर्मिसहितः । तस्मिन् हि `तस्यैवात्रैवैतस्यैव च सुखं वा' इति न भवति । प्रतीतिस्वरूपस्य निह्नवात् । रूपान्तरस्य चारोपितस्य प्रतिभासंविद्विश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् । सत्ये(1) तदीयरूपनिह्नवमात्र एव पर्यवसानात् ।
तथा हि -- आसीनपाठ्यपुष्पगन्धिकादि लोके न दृष्टम् । न च तन्न किञ्चित् । कथञ्चित् संभाव्यत्वात् इति स एष सर्वो मुनिना साधारणीभावसिद्ध्या रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः इति तत्रैव स्फुटीभविष्यतीति तदिह तावन्नोद्यमनीयम् । ततः स एष स्वपरनियतताविघ्नापसरणप्रकारो व्याख्यातः ।
निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं विश्रामयेदिति तत्प्रयूहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयीभि(मयै)रातोद्यगानविचित्रमण्डपपदविदग्धगणिकादिभिरुपरञ्जनं समाश्रितम् । येनाहृदयो ऽपि हृदयवैमल्यप्राप्त्यासहृदयीक्रियते । उक्तं हि ``दृश्यं श्रव्यं च''(ना. शा. 1-11) इति ।
किञ्च प्रतीत्युपायानामभावे कथं प्रतीतिः । स्फु(अस्फु)टप्रतीतिकारिशब्दलिङ्गसम्भवे ऽपि न प्रतीतिर्विश्राम्यति । स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् ।
यथाहुः ``सर्वा चेयं प्रमितिः प्रत्यक्षपरा'' (न्यायसू.भा. 1-3) इति । स्वसाक्षात्कृते आगमानुमानशतैरप्य(2)नन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तदवधारणादिति लौकिकस् तावदयं क्रमः । तस्मात्तदुभयविघ्नविघाते ऽभिनया लोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते । अभिनयनं हि सशब्दलिङ्गव्यापारविसदृशम् एव प्रत्यक्षव्यापारकल्पमिति निश्चेष्यामः ।
अप्रधाने च वस्तुनि कस्य संविद्विश्राम्यति । तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्य(3)विश्रान्तत्वात् । अतो ऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मके ऽपि नियमेनान्यमुखसंप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव तथा चर्वणापात्रम् ।

[(मू)]

[(व्या)]

1. म॰ भ॰ सत्यम् ।

2. भ॰ प्यन्यथा ।

3. भ॰ त्मनि विश्राम्यत्वात् ।

[page 281]




[NZ]

[ABh]

तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति (एव) प्रधानम् । तद्यथा -- रतिः कामः तदनुषङ्गिधर्मार्थनिष्ठा । क्रोधस्तत्प्रधानेष्वर्थनिष्ठः । कामधर्मपर्यवसितो ऽप्युत्साहः समस्तधर्मादिपर्यवसितः । तत्त्वज्ञानजनितनिर्वेदप्रायो विभावो मोक्षोपाय इति तावदेषां प्राधान्यम् । यद्यपि चैषाम् अप्यन्योन्यं गुणभावो ऽस्ति तथापि तत्तत्प्रधाने रूपके तत्तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां ल(व)क्ष्यते । अ(1)दूरभागाभिनिष्टदृशस् त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् ।
तत्र सर्वे ऽमी सुखप्रधानाः । स्वसंविच्चर्वणरूपस्यैकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा हि -- एकघनशोकसंविच्चर्वणे ऽपि लोके स्त्री(2)लोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशरीरत्वात् (सुखस्य) । अविश्रान्तिरूपतैव दुःखम् । तत एव कापिलैर् दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् ।
किन्तूपरञ्जकविषयवशात्तेषामपि(3) कटु किं नास्ति । स्पर्शो वीरस्य । स हि क्लेशसहिष्णुतादिप्राण एव । एवं रत्यादीनां प्रधान्यम् । हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वमिति (न) प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वो ऽपि हसति शोचति विभेति परनिन्दामाद्रियते । अल्पसुखभाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यादेषाम् । एतद्गुणप्रधानभावकृत एव च दशरूपकादिभेद इति वक्ष्यामः ।
स्थायित्वं चैतावतामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि --
: विन्
``दुःखसंश्लेषविद्वेषी सुखास्वादनसादरः ।''
: वोuत्
इति न्यायेन सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परम् उपहसनन् अभीष्टवियोगसंतप्तस्तद्धेतुषु कोपपरवशो ऽशक्तौ च ततो भीरुः किञ्चिदार्जिजीषुरप्यनुचितवस्तुविषयवैमुख्यात्मकतयाक्रान्तः किञ्चिदनभीष्टतयाभिमन्यमानस्तत्तत्स्वकर्तव्यदर्शनसमुदितविस्मयः किञ्चिच्च जिहासुरेव जायते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका

[(मू)]

[(व्या)]

1. भ॰ आदूर ।

2. म॰ ऽस्ति ।

3. हेम॰ काव्यानु॰ पाठः । मपि कटुकितास्पर्शो ऽस्ति वीरस्येव ।

[page 282]




[NZ]

[ABh]

चित्तवृत्तिः काचिदूना । कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा । तत् काचिदेव पुमर्थोपयोगिनीत्युपदेश्या । तद्विभाव(ग)कृतश्चोत्तमप्रकृत्यादिव्यवहारः ।
ये पुनरमी ग्लानिशङ्काप्रभृतयश्चित्तवृत्तिविशेषास्ते समुचितविभाचानुभावाज्जन्ममध्ये ऽपि न भवन्त्येव । तथा हि -- रसायनमुपयुक्तवतो मुनेर्ग्लान्यालस्यश्रमप्रभृतयो नोत्तिष्ठन्ति । यस्यापि भवन्ति विभावबलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां तावत् नावश्यमनुबध्नति । उत्साहादयस्तु संपादितस्वकर्तव्यता प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते । कर्तव्यान्तरविषयस्योत्साहादेरखण्डनात् ।
यथाह पतञ्जलिः -- ``न हि चैत्र एकस्यां स्त्रियां रक्त इत्यन्यासु विरक्तः ।''(पातञ्जल. व्यास. भा. 2-4) इत्यादि ।
तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी व्यभिचारिणः स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमाना रक्तनीलादिसूत्रस्यूतविरलभावो(गो)पलम्भनसम्भावितभङ्गीसहस्रगर्भस्फटिककाचभ्र(भ्रा)मकपद्मरागमरकतमहानीलादिमयगोलकवत्तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यमनिवेश्यन्तो ऽपि तत्सूत्रकृतमुपकारसन्दर्भं (2)विभ्रतः स्वयं च विचित्रार्थस्थायिसूत्रं च विचित्रयन्तो ऽपि तत्सूत्रकृतमुपकारसन्दर्भं विभ्रतः स्वयं च विचित्रार्थस्थायिसूत्रं च विचित्रयन्तो ऽन्तरान्तरा शुद्धमपि स्थायिसूत्रं प्रतिभासावकाशम् उपनयन्तो ऽपि पूर्वापरव्यभिचारिरत्नच्छायाशबलिमानमवश्यमानयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यते ।
तथा हि -- ग्लानो ऽयमित्युक्ते कुत इति हेतुप्रश्नेन स्थायी तस्य सूच्यते । न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति । न तु तदभावे सर्वथैव ते निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति । वितनिष्यते चैतद्यथायोगं व्याख्यावसरे । एवमप्रधानत्वनिरासः स्थायिनिरूपणायां ``स्थायिभावान्रसत्त्वम् (ना. शा. अ-6)इतय् अनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च कृतः ।

[(मू)]

[(व्या)]

1. म॰ भ॰ ज्जगन्मध्ये ऽपि ।

2. म॰ भ॰ विभुतमः ।

[page 283]




[NZ]

[ABh]

तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक्स्थायिनि नियमो नास्ति । बाष्पादेरानन्दाक्षिरोगादिजत्वदर्शनात् । व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् । `भ्र(श्र)मचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलो(1)कन ... ... ... ... व्यभिचारिणि । तथा हि -- बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिस्त्वनुभावः चिन्ता(2)दैन्यादिर्व्यभिचारी सो ऽवश्यं शोक एवे(व वे)त्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः ।
तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शने स्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षवीक्षा(3)दिभिर्लौकिकीं कारणत्वादिभुवमतिक्रान्तैर्विभावनानुभावनासमुपरञ्जकत्वमात्रप्राणैः, अत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकारणादिरूपसंस्कारोपजीवनख्यापनाय(4) विभावादिनामधेयव्यपदेश्यैर्भावाध्याये ऽपि वक्ष्यमाणस्वरूपभेदैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं सम्बन्धम् ऐकाग्र्यं वासादितवद्भिरलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतो ऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावः तात्कालिक एव न तु चर्वणातिरिक्तकालावलम्बी स्यायिविल(यिल)क्षण एव रसः । ननु(न तु) यथा शङ्कुकादिभिरभ्यधीयत, ``स्थाय्येव विभावादिप्रत्याय्यो रस्यमानत्वाद्रस उच्यते ।'' इति । एवं हि लौकिको ऽपि किं न रसः । असतो ऽपि हि यत्र रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति । तेन ख्यायिप्रतीतिरनुमितिरूपा प्राच्या(5)(प्या) । न रसः । अत एव सूत्रे स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्यादेवम् उच्यते स्थायी रसीभूत इति । औचित्यं(6) तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानाम् अधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् ।
तथा(दा) हि लौकिकचित्तवृत्त्यनुमाने का रसता । तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिक(7)संवेदनविलक्षण एव ।
तथा हि -- लौकिकेनानुमानेन संस्कृतः प्रमदादिना(दि न) ताटस्थ्येन प्रतिपद्यते । अपि तु हृदयसंवादात्मकसहृदयत्वबलात् पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मृत्यादिसोपानमारुह्येव(8) तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्राङ्मानान्तरात् येनाधुना

[(मू)]

[(व्या)]

1. हेम॰ काव्यानु॰ पाठः । लोकनात् सामग्री वा तु न व्यभिचारिणी ।

2. म॰ भ॰ चिन्तादैन्यादिव्यभिचारिणः ।

3. भ॰ म॰ धृत्यादिभिः । हेम॰ काव्या॰ वृक्षादि ।

4. म॰ भ॰ जीविनः ख्यापनाय ।

5. हेम॰ काव्या॰ वाच्या ।

6. म॰ भ॰ अचिन्त्यम् ।

7. म॰ स्वसंवेद ।

8. म॰ मारुह्यैव । नमनारुह्यैव ।

[page 284]




[NZ]

[ABh]

स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः । किन्त्वलौकिकविभावादिसंयोग(1)बलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यवबोधतः तथा योगिप्रत्यक्षजनिततट(2)स्थपरसंवित्तिज्ञानात् सकलवैषयिकोपरागशून्यशुद्धयोगिगतस्वात्मानन्दैकघ(3)नानुभवाच्च विशिष्यते । (4)एतेषां यथायोगमर्जनादिविघ्नान्तरोदयात्ताटस्थ्ये ऽस्फुटत्वविषयावेश(5)वैवश्यकृतसौदर्यविरहात् । अत्र तु स्वात्मैकगतत्वनियमासंभवात् (न विषया(6)वेशवैवश्यम् )स्वानुप्रवेशात् परगतत्वनियमाभावात् (न ताटस्थ्यास्फुटत्वं(7))तद्विभावादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच् च न विघ्नानतरादीनां सम्भव इत्यवोचाम बहुशः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य । तद्बोधापगमे ऽपि रससंभवप्रसङ्गात् । नापि ज्ञप्तिहेतवः येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् । किं तर्ह्येतद्धि विभावादय इति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्थं दृष्टमिति चेद्भूषणम् एतदस्माकमलौकिकत्वसिद्धौ । पानकरसास्वादो ऽपि किं गुडमरीचादिषु दृष्ट इति समानमेतत् ।
नन्वेवं रसो ऽप्रमेयः स्यादेवम् । युक्तं भवितुमर्हति । रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिरिति कथम् । नेयं रसस्य । अपि तु तद्विषयरसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते न कश्चिदत्र दोषः । सा च रसना न प्रमाणव्यापारो न कारकव्यपारः । स्वयं तु नाप्रामाणिकः । स्वसंवेदनसिद्धत्वात् । रसना च बोधरूपैव । किन्तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव । उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद्रसना यतो निष्पद्यते ऽतस्तथाविधरसनागोचरो लोकोत्तरो ऽर्थो रस इति तात्पर्यं सूत्रस्य ।
अयमत्र संक्षेपः । मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते । गाढप्राक्तनसंवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति । अत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रापि लौकिका ((8)त्रावलोकिता) देशकालानियमेन तत्र रतिं गमयन्ति । यस्यां स्वात्मापि तद्वासनावत्त्वादनुप्रविष्टः । अत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया । येनार्जनाभिषङ्गादिसम्भावना । न च नियतपरात्मैकगततया । येनार्जनाभिषङ्गादिसम्भावना । न च नियतपरात्मैकगततया । येन दुःखद्वेषाद्युदयः । तेन साधारणीभूता सन्तानवृत्तेरेकस्या

[(मू)]

[(व्या)]

1. म॰ साङ्ग ।

2. भ॰ जनितपर ।

3. म॰ रसना ।

4. म॰ भ॰ एतासाम् ।

5. वेशमिवावश्य ।

6. हेम॰ काव्या॰ पाठः ।

7. हेम॰ काव्या॰ पाठः ।

8. हेम॰ काव्या॰ पाठः ।

[page 285]




[NZ]

[ABh]

एव वा संविदो गोचरभूता रतिः शृङ्गारः । साधारणी (भावना च )विभावादिभिरिति । तत्र विभावप्राधान्यस्य धामणिमया (प्राधान्येन साधारणीभावो यथा --)
केलीकन्दलितस्य विभ्रममघो(ः)धुर्यं वपुस्ते दृशोर्भङ्गी भङ्गुरकामकार्मुकमिदं भ्रूर्नर्मकर्मक्रमः ।
आपाते(घ्रातो) ऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः सत्यं सुन्दरि वेध(1)सस्त्रिजगतीसारः त्वमेका कृतिः ॥''
अत्र च विभावकृतं तत्सौन्दर्यं प्राधान्येन भाति । तदनुगतत्वेन केलीयिभ्रमभङ्गुरनर्मवचोमहिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत एव नास्फुटत्वाशङ्कात्र रत्यास्वादमयो शृङ्गारे विधेया ।
अनुभावप्राधान्यं यथा शुद्धसारस्वतप्रवाहपवित्रसकलवाङ्मयमहार्णवपूर्णभावसंपादनात् द्विजराजस्येन्दुराजस्य --
यद्विश्रम्य विलोकितेषु बहुशो निस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥'' । इति ।
अत्र विश्रम्येति बहुश इति प्रतिदिनमिति च पदसमर्पितो व्यभिचारिगणः(2) कृष्ण इत्यादिपदार्पितश्च विभावो गुणत्वेन प्रतिभासते । विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलकवैवर्ण्यप्रभृतिस्त्वनुभावसञ्चयः प्रधानतया । व्यभिचारिणां तु प्राधान्यं तद्विभावानुभावप्राधान्यकृतम् । तत्राद्यम् । यथा महाकवेः कालिदासस्य (कलशकस्य) --
``आत्तमात्तमधिकान्तमी(मु)क्षितुं कातरा शफरशङ्किनी जहौ ।
अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥''
इत्यत्र सुकुमारप्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां प्राधान्यादि(त्) सौन्दर्यातिशयकृतम् । आत्तमित्याद्यर्पितानुभाववर्गस्तु तदनुयायी ।

[(मू)]

[(व्या)]

1. म॰ भ॰ बोधशास्त्र ।

2. भ॰ व्यभिचारिणः ।

[page 286]




[NZ]

को दृष्टान्तः(1) । अत्राह ---- यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः(2) तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि ---- गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो(3) रसा निर्वर्त्यन्ते तथा
[ABh]

एवं द्वयप्राधान्ये चोदाहार्यम् । किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षः । तच्च प्रबन्ध एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः -- ``सन्दर्भेषु दशरूपकं श्रेयः । तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् ।'' (काव्यालं॰ सू॰ 1.3.30-31) इति तद्रूपर(1)सचर्वणया तु प्रबन्धे भाषावेषप्रवृत्त्यौचित्यादिकल्पनात् । तदुपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प्य ईदृगत्र वक्तास्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते । तेन ये काव्याभ्यासप्राक्तनपुण्यादिहेतुबलादिति(भिः) सहृदयास्तेषां परिमितविभावाद्युन्मीलनेऽपि परिस्फुट एव साक्षात्कारकल्पः काव्यार्थः स्फुरति । अत एव तेषां काव्यमेव प्रीतिव्युत्पत्तिकृदनपेक्षितनाट्यमपि । तेषामपि तु नाट्यं ``निपतिताः स्फुरिताः शशिरश्मयः'' इति न्यायेन सुतरां निर्मलीकरणम् । अहृदयानां च तदेव नैर्मल्याधायि । यत्र पति(प्रती)ता गीतवाद्यगणिकादयो न व्यसनितायै पर्यवस्यन्ति नाट्योपलक्षणात्(2) । तत्र च नटो ध्यायिनामिवेदंध्यानपदम्(3) । न हि तत्रायमेव सिन्दूरादिमयो वासुदेवः स्मरणीय इति प्रतिपत्तिः । अपि तु तदुपायद्वारेणातिस्फुटीभूतसङ्कल्पगोचरो देवताविशेषो ध्यायिनां फलकृत् । तद्वन्नटप्रक्रिया(4)द्वारोदितातिस्फुटाध्यवसायविषयीकृतो नियतदेशकालाद्यस्पृष्टो `अत इदं फलम्' इति विधिस्थानीयो ऽर्थो व्युत्पत्तिं वितरति । युते(यत्र) दृश्या(दृश्ये ऽ)न्यनियमादौ चित्तवृत्त्यादौ वा न बाधकोदयः सम्यज्ज्ञानभूतं ह्येवेदं पूर्णम् । तेन राम इत्येव प्रतीतिर्न त्वयं(यं न) रामो ऽन्यो .यमिति । स्फुटीकरिष्यते चैतदग्रतः ।
तत्रालौकिको ऽयमर्थो न दृष्टान्तमन्तरेण हृदयङ्गमो भवेदित्याशयेनाह -- को दृष्टान्त इति । बहूनां संयोगादपूर्वो रस उत्पद्यमानः क्व दृष्ट इत्यर्थः ।

[(मू)]

1. अ॰ यथा च गुडादिद्रव्यैरौषधिविशेषैश्च स्वाद्वादयो रसा विष्पद्यन्ते एवं नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्ति । म॰ को दृष्टान्त इति चेदुच्यते । यथा नाना ।

2. त॰ त्तिर्भवति । याथा हि ।

3. म॰ षड्रसा । त॰ षाड्वादयो रसा । अ॰ स्वाद्वादयो रसा ।

[(व्या)]

1. म॰ तद्रूपसमर्पणया ।

2. नित्योपकरणात् । म॰ नाट्योपकरणात् ।

3. म॰ ध्यानपदः । पटः

4. वागादिनटलक्षिता ।

[page 287]




[NZ]

(1)नानाभावोपगता(2) अपि स्थायिनो भावा रसत्वमाप्नुव(2)न्तीति । (3)अत्राह -- रस इति कः पदार्थः । (5)उच्यते -- आस्वाद्यत्वात् । कथमास्वाद्यते(6) रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादींश्चाधिगच्छन्ति तथा ना(8)नाभावाभिनयव्यञ्जितान्
[ABh]

अत्र प्रश्ने भाष्येण प्रतिवचनमाह -- यथेत्यादिना आप्नुवन्तीत्यन्तेन । व्यज्ञनमुपसेचनद्रव्यम् । तच्च नानान्तप्रम(नानातिक्तम)धुरचु(1)क्रादिभेदादधिकाञ्जिकादि । ओषधयश्चिञ्चागोधूमदलहरिद्रादयः । द्रव्यं गुडादि । एषां पाकक्रमेण सम्यग्योजनारूपात्कुशलसम्पाद्यात्संयोगात् । षाडवादय इति लोकप्रसिद्धेभ्यः परस्परविविक्तेभ्यो मधुरतिक्ताम्ललवणकटुकषायेभ्यो मिश्रेभ्यश्च विलक्षणः षाडवशब्दवाच्यः । तत्प्रधाना बहुतरा रसनयोग्याः क्रियन्ते । तथैव नानाभूतैर्विभावादिभिरुप समीपं प्रत्यक्षकल्पतां गता लोकापेक्षया ये स्थायिनो भावास्ते रस्यमानतैकजीवनं(2) रसत्वं तत्र प्रतिपद्यन्ते ।
एतदुक्तं भवति -- पाकरूपया सम्यग्योजनया तावदलौकिको रसो जायते । तत्र च प्रधानत्वेन जलस्य रसाभिव्यञ्जकत्वमिति व्यञ्जनं विभावस्थानीयम् । चिञ्चाहरिद्राद्यनुभावप्रायम् । द्रव्याणि तु गुडा(दीनि)तदीयचुक्रादिरसविलक्षणमधुरादियोगाद्व्यभिचारिकल्पम् । स्वात्मनि तदुपजीवनेन च परत्र च स्वरससङ्क्रमणया वैचित्र्याधायकत्वात् । अत्र तु स्थायिकल्पस्तन्मिश्रणासमयभावी रसविशेषो विभावकल्पव्यञ्जनजनितो मन्तव्यः । स हि लौकिकः । अयन्तु कुशलैकनिर्वर्त्यस्तद्विदां रसनीयो भवति । तेनाद(दनीय)स्येत्यध्याहारो न युक्तः । यथा हि दार्ष्टान्तिकसूत्रे स्थायिग्रहणं शल्यकल्पमिति त्रयमेवोपात्तं तथा दृष्टान्ते ऽपि त्रयस्यैवोपादानं युक्तम् ।
एवं सूत्रं व्याखाय लक्षणपदं परीक्षितुमाक्षिपति -- रस इति क इत्यादिना । मधुरादौ पारदे विषये सारे जलसंस्कारे ऽभिनिवेशे क्वाथे देहधातोर्नि(तौ नि)र्यासे वायं प्रसिद्धो न त्वन्यत्र । तेन रस इति पदस्य शृङ्गारादिषु प्रवर्तितस्य को ऽर्थः । किं प्रवृत्तिनिमित्तं कथ्यते स्वाभिधेयनियमाय शब्देन यदि वा तत्प्रयोक्तृप्रतिपत्तृभिरिति । अर्थः

[(मू)]

1. म॰ एवं नाना ।

2. म॰ न॰ पहिता ।

3. अ॰ म॰ वन्ति ।

4. न॰ अ॰ म॰ ऋषय ऊचुः । त॰ इदं नास्ति ।

5. ड॰ म॰ अत्रोच्यते ।

6. प॰ त॰ ब॰ मास्वाद्यो । अ॰ स्वाद्यत इति । यथा नाना । म॰ किमिति चेदत्रोच्यते । यथा हि नाना ।

7. अ॰ हर्षञ्चाधि ।

8. त॰ तथा भावा ।

[(व्या)]

1. म॰ भ॰ चुका ।

2. म॰ वितम् ।

[page 288]




[NZ]

वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः(1) हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा (2)इत्यभिव्याख्याताः । (3)अत्रानुवंश्यौ श्लोकौ भवतः --
[ABh]

प्रवृत्तिनिमित्तम् । अत्रोत्तरम् । आस्वाद्यत्वात् । प्रवृत्तिहेतोर्यतः प्रश्नस्तेनोत्तरं हेतुविभवत्यैव दत्तम् । तेन क्रिया प्रवृत्तिनिमित्तमस्येत्युक्तं भवति ।
यस्तु भङ्क्त्वा व्याचष्टे -- रस इति यो ऽयं(को ऽयं) शब्दः । तत्रोत्तरम् । पदार्थः । उच्यत इति । तस्यानेनेत्यध्याहारं विना प्रकृतपदार्थवाचको ऽयं शब्द इति [न] तात्पर्यकल्पनं विना नातीव सङ्गतमुत्तरम् । प्रश्नमन्तरेण चास्वाद्यत्वादित्यल्पपदप्रायमित्यास्तामेतत् ।
अथ प्रवृत्तिनिमित्तं व्याक्षिपति -- कथमास्वाद्यत इति । आस्वादनं हि रसनेन्द्रियजज्ञानं प्रसिद्धमिति भावः । अत्रोपचरितक्रियाश्रयेणोत्तरमाह -- यथा नानेत्यादिना । यथातथाशब्दाभ्यां सादृश्यमत्रोपचारे निमित्तमिति दर्शयति । तत्र भोग्यस्य भोक्तुः फलस्य च साम्यं दर्शयति । यथा हि व्यञ्जनसंस्कृते ऽन्ने आस्वाद्यता । एकाग्रमनसि च भोक्तर्यास्वादयितृता । अन्यचित्तस्य भुञ्जानस्याप्यास्वादाभिमानाभावात् । प्रहर्षाप्यायजीवनपुष्टिबलारोग्याणां चास्वादफलता । तथाभिनयव्यञ्जिते(ते ऽपि) चिन्त्या ।स्थायिशब्दव्यपदेश्ये रसे आस्वाद्यता । एकाग्रे च सामाजिके तन्मयीभूत आस्वादयितृता । हर्षप्रधानानां धर्मादिव्युत्पत्तिवैदग्ध्यादीनामास्वादफलत्वमिति कर्मकर्तृफलसादृश्याद्विभावादिजः प्रतीतिविशेषो रसनाक्रियेति व्यपदिष्ट इति तात्पर्यम् । येन(1) सुमनसो भुञ्जाना हर्षादींश्च यान्ति तेन रसानास्वादयन्तीत्यनेन शब्देन(2) । अभितः सर्वत्र । विशेषेण अन्यभोक्तृविलक्षणतया । आ समन्तात् । ख्याताः पर्सिद्धाः । यथा चैते तथा प्रेक्षका अपि । तेन ते ऽपि स्थायिनः आस्वादयन्तीति आभिमुख्येन सादृश्ये व्याख्याता अस्माभिर्व्यवहृता । अत्रोपसंहारः । तस्मान्नाट्यरसाः ।
अन्येत्वादिशब्देन शोकादीनामत्र सङ्ग्रहः । स च न युक्तः । सामाजिकानां हि हर्षैकफलं नाट्यं न शोकादिफलम् । ततहात्वे निमित्ताभावात्तत्परिहारप्रसङ्गाच्चेति मन्यमाना हर्षांश्चाधिगच्छन्तीति पठन्ति ।

[(मू)]

1. अ॰ म॰ त॰ ब॰ प्रेक्षकास्तस्मान्नाट्यरसा इति व्याख्याताः ।

2. अ॰ रसा रस इत्य ।

3. अ॰ ब॰ अपि चात्रा ।

[(व्या)]

1. भ॰ यन्न । यदन्नम् ।

2. भ॰ शेषेणाभिहितः ।

[page 289]




[NZ]

यथा बहुद्रव्ययुतै1र्व्यञ्जनैर्बहुभिर्युतम् । BhNZ_06_032ab
आस्वादयन्ति भुञ्जाना भक्तं2 भक्तविदो जनाः ॥ BhNZ_06_032cd
भावाभिनयसंबद्धा3न्स्थायिभावांस्तथा बुधाः । BhNZ_06_033ab
आस्वादयन्ति मनसा तस्मान्नाट्य5रसाः स्मृताः ॥ BhNZ_06_033cd
[ABh]

एवं ग्रन्थयोजनायां स्पष्टायां यत् कैश्चिदत्र चोदितं दृष्टान्ते आत्मा रसना मनश्चेति त्रयम् । प्रकृते तु रसनै(1)वेति । परिहृतं चात्मन एवात्र स्थानान्तरसङ्क्रान्तस्य मनःस्थानीयता । मनसश्च रसनास्थानीयतेति । तत्सर्वं वृथा नाट्यमात्रम् । उपचारबीजस्य सादृश्यस्यात्र प्राधान्येन प्रतिपिपादयिषितत्वादित्यास्ताम् ।
एवं रसत्वं केन तेषामिति यत्प्रश्नितं तत्प्रतिसमाहितम् । अत्रेति भाष्ये । अनुवंशे भवौ शिष्याचार्यपरम्परासु वर्तमानौ श्लोकाख्यौ वृत्तिविशेषौ सूत्रार्थसंक्षेपप्रकटीकरणेन कारिकाशब्दवाच्यौ भवतः । तौ पठति -- यथेत्यादि । मधुरादिभेदाद्बहूनि द्रव्याणि गुडादीनि । बहुभिरिति दधिकाञ्जिकादिभिः । अनेन विभावभेदं रसभेदे हेतुत्वेन सूचयति । भुञ्जाना आस्वादयन्तीति । रसनाव्यापाराद्भोजनादधिको यो मानसो व्यापारः स एवास्वादनमिति दर्शयति ।
एतदुक्तं भवति -- न रसनाव्यापार आस्वादनम् । अपि तु मानस एव । स चात्राविकलो ऽस्ति । केवलं लोके रसनाव्यापारानन्तरभावी स प्रसिद्ध इत्युपचार इह दर्शित इति । शुद्धतत्स्वरूपज्ञानस्वभावा अत्र भावा विभावव्यभिचारिणः । अभिनया अनुभावा एव । इयं(दं) पृथग्वचनं प्राधान्यात् । तैर्यैः सम्यग्बद्धा हृदयसंवादक्रमेण तन्मयीभावापन्नप्रमातृभूम्यभेदमुपसम्प्राप्ता अचिन्त्या स्थायिनः आ समन्तात्साधारणीभावेन निर्विघ्नप्रतिपत्तिवशात् । मनसा इन्द्रियान्तरविघ्नसंभावनाशून्येन स्वादयन्ति स्वपरविवेकशून्यस्वादचमत्कारपरवशतया लौकिकात्प्रत्ययादुपार्जनादिविघ्नबहुलाद्योगिप्रत्ययाच्च विषयास्वादशून्यतापरुषाद्विलक्षणाकारसुखदुःखादिविचित्रवासनानुवेधोपनतहृद्यतातिशयसंविच्चर्वणात्मना भुञ्जते । बुधा इति पूर्वो(र्णो)पयोगो लौकिकानां प्रत्यक्षादीनामत्र दर्शितः ।
एतदुपसंहरति -- तस्मादिति । नाट्यात्समुदायरूपाद्रसाः । यदि वा नाट्यमेव रसाः । रससमुदायो हि नाट्यम् । (न)नाट्य एव च रसाः । काव्ये ऽपि नाट्यायमान एव रसः । काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः ।

[(मू)]

1. म॰ युक्तैः । त॰ गुणैः ।

2. म॰ भुक्तं भुक्त । अ॰ भक्तं भुक ।

3. म॰ संयुक्तान् स्थायिभावांस्ततो ।

4. अ॰ नाट्ये रसाः ।

[(व्या)]

1. म॰ रसनेति ।

[page 290]




[NZ]

[ABh]

यदाहुः काव्यकौतुके --
``प्रयोगत्वमनापन्ने काव्ये नास्वादसम्भवः ।'' इति ।
``वर्णनोत्कलिता भोगप्रौढोक्त्या सम्यगर्पिताः ।
उद्यानकान्ताचन्द्राद्या भावा प्रत्यक्षवत्स्फुटाः ॥'' इति ॥
अन्ये तु काव्ये ऽपि गुणालङ्कारसौन्दर्यातिशयकृतं रसचर्वणमाहुः । वयं तु ब्रूमः -- काव्यं तावन्मुख्यतो दशरूपकात्मकमेव । तत्र ह्युचितैर्भाषावृत्तिकाकुनैपथ्यप्रभृतिभिः पूर्यते रसवत्ता । सर्गबन्धादौ हि नायिकाया अपि संस्कृतैवोक्तिरित्यादि बहुतरमनुचितं केवलं शक्तिरहितत्वाद्व्यावर्ण्यते । तावतीव हृद्यमिति न्यायेनानौचित्यं न प्रतिहारि(न प्रतिजहाति) । तत एवोच्यते `सन्दर्भेषु दशरूपकम्' (वामन॰ का॰) इति । तेन तदंश(दङ्ग)सन्ध्यादिसङ्घटनमुद्धृत्य सर्गबन्धादि यावन्मुक्तं(वतकम्) । यत्तु दशरूपकं तस्य यो ऽर्थस्तदेव नाट्यम् । यद्वक्ष्यते `नाट्यस्यैषा तनूः' (ना॰ शा॰ 14-2) इति । तस्य हृदयसंवादतारतम्यापेक्षया श्रोतृप्रतिपत्तृस्फुरणं स्फुटास्फुटत्वेनातिविचित्रम् । तत्र ये स्वभावतो निर्मलमुकुरहृदयास्त एव संसारोचितक्रोधमोहाभिलाषपरवशमनसो न भवन्ति । तेषां तथाविधदशरूपकाकर्णनसमये साधारणरसनात्मकचर्वणग्राह्यो रससञ्चयो नाट्यलक्षणः स्फुट एव । ये त्वतथाभूतास्तेषां प्रत्यक्षोचिततथाविधचर्वणलाभाय नटादिप्रक्रिया । स्वगतक्रोधशोकादिसङ्कटहृदयग्रन्थिभञ्जनाय गीतादिप्रक्रिया च मुनिना विरचिता । सर्वानुग्राहकं हि शास्त्रमिति न्यायात् । तेन नाट्य एव रसा न लोक इत्यर्थः । काव्यञ्च नाट्यमेव ।
अत एव च नटे न रसः । कुत्र तर्हि । विस्मृतिशीलो न बोध्यते । उक्तं हि देशकालप्रमातृभेदानि(न्नि)यन्त्रितो रस इति । केयमाशङ्का । नटे तर्हि किम् । आस्वादनोपायः । अत एव च पात्रमित्युच्यते । न हि पात्रे मद्यास्वादः । अपि तु तदुपायकः । तेन प्रमुखमात्रे नटोपयोग इत्यलम् ।
चित्रपुस्ताद्यपि च नाट्यस्यैवार्थभागाभिष्यन्दो यथा सर्गबन्धादिशब्दभागाभिष्यन्दः । एतच्च `योऽर्थो हृदयसंवादी' (ना॰ शा॰ 7-10) इत्यत्र वितत्य वक्ष्यामः ।
अन्ये त्वभिनयादिसामग्रीमयं बहिर्दृश्यमानं नाट्यं नटधर्मः कर्मरूपमित्याशयेन नाट्याद्रसा इत्याहुः । स्मृता इति सम्प्रदायाविच्छेदं दर्शयति । ये तु रत्याद्यनुकरणरूपं रसमाहुः अथ चोदयन्ति शोकः कथं सुखहेतुरिति । परिहरन्ति च अस्ति को ऽपि नाट्यगतानां विशेष इति । तत्र चोद्यं तावदसत् । शोको हि प्रतीयमानः किं स्वात्मनि प्रत्येतुर्दुःखं वितनोतीति नियमः । शत्रुदुःखे प्रहर्षात् । अन्यत्र च मध्यस्थत्वात् । उत्तरं तु भावानां वस्तुस्वभावमात्रेणे(त्रते)ति न किञ्चिदत्र तत्त्वम् ।

[(मू)]

[(व्या)]

[page 291]




[NZ]

अत्राह -- किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति(1) । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । त(2)न्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो(3) भावानामभिनिर्वृत्तिरिति । भवन्ति(4) चात्र श्लोकाः ----
[ABh]

अस्मिन्मते संवेदनमेवानन्दघनमास्वाद्यते । तत्र का दुःखाशङ्का । केवलं तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारः । तदुद्बोधने चाभिनयादिव्यापारः ॥ (33)
यदेतदुक्तं रसतत्त्वं तदेवो(1)पशोधयितुमुपक्रमते -- अत्राहेत्यादिना चोद्यमुखेन । नर्तकगतेभ्यो रसेभ्यो भावाः सामाजिके(2) । यथा करुणाछोकः । ततो विभावाद्युपचितसामाजिके करुण इति रसाद्भावो भावाद्रस इति सन्देहः । अत एव परस्परमपि(3) जन्म कालभेदेनेति तृतीयः पक्षः । यदि वा नत एव राम एव (4)चापूर्वं भावः । तत उपचये रसः । ततो ऽ(5)प्यपचये भाव इत्येवं पक्षत्रयोत्थानम् । इदं चासत् । एवम्भूतस्य रसस्वरूपस्य निराकृतत्वात् ।
श्रीशङ्कुकस्त्वाह -- अनुकर्तरि रसनास्वादय(6)तो ऽनुकार्ये भावप्रतीतिः प्रयोगे । लोके प्रकृतिं(तिः) रसं निष्पादयतीति । द्वितीयपक्षो नाट्याचार्याभिप्रेतशिक्षानुसारेण । अत एव च तृतीयो ऽपि संभवति । एतदप्यसत् । न हि सामाजिको ऽनुकार्यानुकर्तृविभागमवैति । दूषितः स्वा(तश्चा)नुकरणवादः ।
तस्मादित्थमेतत् -- किं रसेभ्यो भावा उत विपर्ययः आहो अन्योन्यजनकतेति त्रयः प्रश्नाः । आहोशब्दो भिन्नक्रमः । विभावादिभ्यस्तावद्रसनिष्पत्तिरुक्ता । स एव द्वितीयः पक्षो ऽभ्युपगतपूर्वमे(गतः पूर्वम् । ए)तच्च कथम् । न हि लोके विभावानुभावादयः केचन भवन्ति । हेतुकार्यावस्थामात्रत्वाल्लोके तेषाम् । अथ त एव रसनोपयोगित्वे विभावादिरूपतां प्रतिपद्यन्ते । तर्हि रसप्रसादाद्भावा विभावादयः । अथोच्यते विभावादिप्रसादाद्रसो यथोक्तं प्राक् । रसप्रसादाच्च विभावादिरूपत्वम् । तर्हि परस्पराश्रयत्वम् । इतरेतराश्रयाणि च न प्रकल्पन्त इत्याक्षेपः ।
अत्र सिद्धान्तमाह -- दृश्यते हीति । प्रमदादयः प्रितीताः सन्तो रसास्वादं विदधते यथोक्तं प्राक् । अतो न रसेभ्यो भावाः । भावशब्दार्थपर्यालोचनया चैतदेवोपपन्नमिति

[(मू)]

1. मिति । उच्यते । केषाञ्चिन्मतम् । त॰ रसानाम् । केषाञ्चिन्मतम् ।

2. त॰ एतन्न । म॰ तत्कस्मात् । ब॰ तन्न । दृश्यते ।

3. त॰ ब॰ अ॰ न रसेभ्यो भावानामिति ।

4. त॰ भवन्ति वंश्ये श्लोकाः । म॰ तत्र श्लोकाः । अ॰ ब॰ भवतश्चात्र श्लोकौ ।

[(व्या)]

1. भ॰ देवमु ।

2. म. कैः ।

3. भ॰ रमिव ।

4. म॰ वा पूर्वम् ।

5. म॰ प्युप ।

6. म॰ भ॰ येते ।

[page 292]




[NZ]

नानाभिनयसम्बद्धा1न्भावयन्ति रसानिमान् । BhNZ_06_034ab
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ BhNZ_06_034cd
नानाद्रव्यैर्बहुविधैर्व्यञ्जनं भाव्यते यथा । BhNZ_06_035ab
एवं भावा भावयन्ति रसानभिनयैः सह ॥ BhNZ_06_035cd
न भावहीनो ऽस्ति रसो 2न भावो रसवर्जितः । BhNZ_06_036ab
परस्परकृता सिद्धिस्तयोरभिन3ये भवेत् ॥ BhNZ_06_036cd
व्यञ्जनौषधिसंयोगो यथान्नं 4स्वादुतां नयेत् । BhNZ_06_037ab
एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ BhNZ_06_037cd
[ABh]

श्लोकेनाह -- नानाभिनयैः सम्यग्बद्धा(1)न् हृदयं गतान् भावयन्ति सम्पादयन्ति रसांस्तस्माद्भावाः ॥ (34)
नन्वेतद्भावशब्दप्रवृतिनिमित्तम् । न तत्प्रकृतं किञ्चिदुक्तमित्याशङ्क्य प्रकृते योजयितुमाह -- नानाद्रव्यैरिति । व्यज्यत इति व्यञ्जनञ्चानुपानादि रसो ऽत्राभिप्रेतः । बहुविधैरिति व्यञ्जनस्योपलक्षणम् । अभिनयैरित्यस्य वा विशेषणम् ।
एवं स्थितपक्षमुपसंहरति -- न भावहीनो ऽस्ति रस इति । अत्र चोद्यवादी स्वाशयमुन्मीलयति -- न भावो रसवर्जित इति । लोके हि न कश्चिद्विभावादिव्यवहार इति भावः । अथोत्तरमाह -- परस्परकृता सिद्धिस्तयोरभिनये भवेत् । अभिनये साक्षात्कारे संपन्ने तदुपयोगितया विभावादिव्रपदेश इत्यतो या परस्परकृता सिद्धिः सा भद्रं (2)भवेदिति संभाव्यते । एवम्भूतमितरेतराश्रयजं न दूषणमित्यर्थः ।
अत्रैव दृष्टान्तमाह -- व्यञ्जनौषधिसंयोग इति । व्यञ्जनौषधिसंयोगो ऽन्नं च कर्तृ यथा परस्परमन्योन्यं कर्मभूतं स्वादुतां नयेत् तथा भावा रसाश्चान्योन्यं भावयन्ति । भावा रसान्भावयन्ति निष्पादयन्ति । रसास्तु भावान् भावयन्ति । भावान्कुर्वन्ति । भावादिव्यपदेश्यान्कुर्वन्तीत्यर्थः ।
एतदुक्तं भवति -- एकत्रैकदा क्रियायामन्योन्याश्रयत्वं दोषो न तु क्रियाभेदे । यथा व्यञ्जनादिसंयोगेनान्नस्याह्लादि(3)रसवत्ता क्रियते । अन्नेन (4)चाश्रयरूपेण सता व्यञ्जनसुखयोग्यता क्रियते । एवं भावैः रस्यमानता । रसैश्च विभावादिव्यपदेश्यता कारणादीनाम् ।

[(मू)]

1. त॰ सम्बन्धा । म॰ सम्बन्धान् । अ॰ सम्बद्धा ।

2. त॰ भावो वा रसवर्जितः । म॰ न रसो भाववर्जितः ।

3. त॰ अ. नयो ।

4. अ॰ गाद्यथान्नमुपपादयेत् । म॰ गाद्यथान्नस्वादुता भवेत् ।

[(व्या)]

1. म॰ भ॰ ग्बन्धा ।

2. भवति ।

3. म॰ स्याम्लादि ।

4. म॰ न वा ।

[page 293]




[NZ]

यथा बीजाद्भवेद्वृक्षो वृक्षा1त्पुष्पं फलं यथा । BhNZ_06_038ab
तथा मूलं रसाः सर्वे तेभ्यो2 भावा व्यवस्थिताः3 BhNZ_06_038cd
तदेषं रसानामुत्पत्तिवर्णदैव(5)तनिदर्शनान्यभिव्याख्यास्यामः ।
[ABh]

यथा पटापेक्षया तन्तवः पटकारणमिति व्यपदेश्याः । तन्त्वपेक्षया पटः कार्यः । न चेत(रेत)राश्रयं(यत्वं) तथा प्रकृते ऽपीति ॥ (37)
ननु यदि भावेभ्यो रसास्तर्हि कथमुक्तं `न हि रदादृते कश्चिदप्यर्थः प्रवर्तते । तेन पूर्वं त एवोद्देश्याः' इत्याशङ्क्याह -- यथेत्यादिना । बीजं यथा वृक्षमूलत्वेन स्थितं तथा रसाः । तन्मूलादि(हि)प्रीतिपूर्विका व्युत्पत्तिरिति ततरे(त एव) च व्याख्यानार्हाः । कविगतसाधारणीभूतसंविन्मूलश्च काव्यपुरस्सरो नटव्यापारः । सैव च संवित्परमार्थतो रसः । सामाजिकस्य च तत्प्रतीत्या वशीकृतस्य पश्चादपोद्धारबुद्ध्या विभावादिप्रतीतिरिति प्रयोaजने(नं) नाट्ये काव्ये सामाजिकधियि च । तदेवं मूलं बीजस्थानीयात्क(यः क)विगतो रसः । कविर्हि सामाजिकतुल्य एव । तत एवोक्तं ``शृङ्गारी चेत्कविः ।''(ध्वन्यालो॰ 3-42) इत्याद्यानन्दवर्धनाचार्येण । ततो वृक्षस्थानीयं काव्यम् । तत्र पुष्पादिस्थानीयो ऽभिनयादिनटव्यापारः । तत्र फलस्थानीयः सामाजिकरसास्वादः । तेन रसमयम्वेव विश्वम् ।
अत्र च विज्ञानवादो द्विधाभिधानं स्फोटतत्त्वं सत्कार्यवाद एतत्वदर्शनमित्यादि च द्रष्टव्यम् । वयं तु प्रकृतानुपयोगिश्रुतलवसन्दर्शनमिथ्याप्रयाससंश्रयमशिक्षितपूर्विण इत्यास्ताम् ।
अन्ये तु बीजादिव भावाद्रसवृक्षस्ततो ऽप्यभिनयकुसुमसुन्दरात्फलमिव भावः प्रतीत्या भुज्यत इति व्याचक्षते । तैः प्रकृतविरुद्धं सर्वं व्याख्यातम् । एवं हि भावस्यैवोपक्रमपर्यवसानवर्तित्वमुक्तं स्यादित्यास्तां चैतत् । एवं त्रयो ऽपि पक्षाः कथञ्चिदुपगता अभिप्रायवैचित्र्येणेति तात्पर्यम् ।
एवमुद्दिष्टानां विभक्तानां च रसानां सामान्यलक्षणं परीक्षापरिशुद्धमभिधाय तदनुवादपूर्वकं विशेषलक्षणं वक्तुं पीठबन्धं दर्शयति -- तदेषामित्यादिना । यतः सामान्यलक्षणमेतेषां कृतं तस्माद्विशेषलक्षणांशपूरकाण्युत्पत्त्यादीनि व्याख्यास्यामः । तत्रोत्पत्तिरुत्पादकानामुत्पाद्यानां च विशेषलक्षणम् । अन्योन्यतो व्यवच्छेदात् । उत्पादकानामप्येतदुत्पादकत्वमुत्पादकान्तराद्वैलक्षण्यमुत्पाद्यकृतम् ।

[(मू)]

1. अ॰ वृक्षाद्बीजं भवेद्यथा । त॰ वृक्षात्पुष्पफलं तथा ।

2. म॰ तेषु । अ॰ तेषाम् । ब॰ ततो ।

3. `एवमेते स्थायिनो भावाः रससंज्ञाः प्रत्यवगन्तव्याः' इति `त'पुस्तके इतःपरमधिकं दृश्यते ।

4. त॰ एषान्त्विदानीमनुभावव्यभिचारिसंयुक्तानामुत्पत्ति ।

5. अ॰ देवता ।

[(व्या)]

[page 294]




[NZ]

तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा -- शृङ्गारो रौद्रौ(1) वीरो बीभत्स इति । (2)अत्र --
शृङ्गाराद्धि3 भवेद्धास्यो रौद्राच्च4 करुणो रसः । BhNZ_06_039ab
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ BhNZ_06_039cd
शृङ्गारानुकृतिर्या तु स 5हास्यस्तु प्रकीर्तितः । BhNZ_06_040ab
रौद्रस्यैव6 च यत्कर्म स ज्ञेयः करुणो रसः ॥ BhNZ_06_040cd
[ABh]

एवमुत्पाद्यानामुत्पादककृतमिति परस्परलक्षणत्वम् । वर्णः श्वेतादि तु(स्तु) सुस्पष्टं वि(शेष)लक्षणादि । एवं निदर्शनं तु शृङ्गारो नामेत्यादिना विभावादिविशेषसंयोगः । उत्पत्तिलक्षणा(णे)ह्यन्योन्याश्रयशङ्का वर्णदेवतयोस्त्वागमानुविद्धत्वमिति स्फुटं निश्चयदर्शनोपायत्वमुत्पत्त्यादीनां न संभवति । विभावादिविशेषसंयोगस्तु तद्वैलक्षण्यान्निदर्शनमित्युक्तम् ॥ (38)
तत्रोत्पत्तिं तावदाह -- तेषामित्यादिना । तेषां रसानामुत्पत्तौ हेतवः सूचकाश्चत्वारः । रसानामुत्पाद्योत्पादकप्रकारो यावान् सम्भवति स चतुर्भिरेव सूचित इति यावत् । तथा हि -- तदाभासत्वेन तदनुकाररूपतया हेतुत्वं शृङ्गारेण सूचितम् । यतो विभावाभासादनुभावाभासाद्व्यभिचार्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभासः कामना । अभिलाषमात्ररूपा हि रतिरत्र व्यभिचारिभावः । न स्थायी । तस्य स तु स्थायिकल्पत्वेनाभाति । तद्वशाद्विभावाद्याभासता । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीता द्विष्टा मय्युपेक्षिका वेति हृदयं नैव स्पृशतीति । तत्स्पर्शे ह्यभिमानो ऽस्या(1)(स्य) विलीयत एव । `मयीयमनुरक्ता' इति(2) तु निश्चयो ह्यनुपयोगी । कामजमोहसारत्वात् । शुक्तौ रूप्याभासवत् । यद्यपि --
``दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं (चेतः कालकलामपि प्रसहते नावस्थितिं तां विना ।
एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥'')

[(मू)]

1. न॰ म॰ शृङ्गारो वीरो रौद्रो ।

2. अ॰ तत्र । त॰ ब॰ नास्ति ।

3. ड॰ शृङ्गारात्तु । अ॰ शृङ्गाराच्च ।

4. न॰ रौद्रात्तु ।

5. अ॰ प॰ म॰ हास्य इति संज्ञितः ।

6. म॰ द्रस्यापि च । त॰ द्रस्य चैवं ।

[(व्या)]

1. म॰ भ॰ स्यापि ली ।

2. म॰ भ॰ क्तेतिमतिश्च योह्यन्वययोनिकामृजुमोह ।

[page 295]




[NZ]

[ABh]

इत्यादौ रावणवाक्ये(1) तावति रत्यभासतैव । न तु हासः स्फुरति । तथापि सीताविभावल(विल)क्षणं रावणवयः(चः) । प्रकृति(त)विरुद्धञ्च(श्च) चिन्तादैन्यमोहादिकव्यभिचारिगणम(णो ऽ)श्रुपातपरिदेवितादि चानुभावजातमनौचित्यात्तदाभासरूपं सद्घास्यविभावरूपम् । तद्वक्ष्यति -- विकृतपरवेषालङ्कारेत्यादि । एवं तदाभासतया(तायाः) प्रकारः शृङ्गारेण सूचितः । तेन करुणाद्याभासेष्वपि हास्यत्वं सर्वेषु मन्तव्यम् । अनौचित्यप्रवृत्तिकृतमेव हि हास्यविभावत्वम् । तच्चा(त्रा)नौचित्यं सर्वरसानां विभावानुभावादौ सम्भाव्यते । तेन व्यभिचारिणामप्येषैव वार्ता । अत एव संवित्सतत्त्वनिपुणैश्चिरन्तनै रसभावतदाभासव्यवहारस्तत्र तत्र क्रियते । अमोक्षहेतावपि तदाभासतायां शान्ताभासो हास्य एव प्रहसनरूपस्य (रूपः ।) अनौ(स्वानौ)चित्यत्यागः सर्वपुरुषार्थेषु व्युत्पाद्यः । एतच्च लक्षणे वक्ष्यते । तत्र हास्याभासो यथास्मत्पितृव्यस्य वामनगुप्तस्य ।
``लोकोत्तराणि चरितानि न लोक एष सम्मन्यते यदि किमङ्ग वदाम नाम ।
यत्त्वत्र हासमुखत(र)त्वममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति'(2) ॥''
एवं यो यस्य न बन्धुस्तच्छोके करुणो ऽपि हास्य एवेति सर्वत्र योज्यम् । एतदेवोदाहरणम् । एवमन्यत्तेनानुमेयमिति मुनिना यथाग्रहणं कृतम् ।
यदीयफलानन्तरं द्वितीयरसो ऽवश्यंभावी तस्योदाहरणं रौद्रः । रौद्रस्य हि फलं वधबन्धादि । तद्विभावकेनावश्यं करुणेन भाव्यम् । यथा वेणीसंहारे --
``अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतो ऽहं च दुश्शासनश्च ।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पित्रोः पार्श्वं व्यपगतघृणः किं नु वक्ष्यामि गत्वा ॥''
एवं रौद्रानन्तरं नियमेन भयानकः । शृङ्गारानन्तरं नियमेन करुणं(णः) । व्याप्रियते त्वसौ तज्जन्मनि यथा तापसवत्सराजे वासवदत्तादाहाद्वत्सराजस्य । ननु तत्रा(त्र)रतेरवि(तेर्वि)च्छेदाद्बन्धुताकृतः शोकः । नैतत् । करुणोत्पत्तिकाले ऽपि हि क्रोधस्य विच्छेद एव ।
यदाह `निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः' । (वेणी॰ अ-1-7)
इति । न च बन्धुमा(तामा)त्रं हेतुः । एवं हि सति --

[(मू)]

[(व्या)]

1. म॰ भ॰ काव्ये ।

2. भ॰ केनापि जहासीति ।

[page 296]




[NZ]

[ABh]

(`उत्कम्पिनी भयपरिस्खलितांशुकान्ता) ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
(क्रूरेण दारुणतया सहसैव दग्धा धूमान्वितेन दहनेन न वीक्षितासि ॥') (तापसवत्सराजे 2-16)
इत्यादौ ते इति प्राणभूतं (पदं) निरुपयोगतां गमितं स्यात् ।
रतिप्रलापेषु च शृङ्गार एव करुणस्य जीवितम् --
`हृदये वससीति (मत्प्रियं यदवोचस्तदवैमि कैतवम् ।)
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥' (कुमार॰ 4-9)
इत्याद्युक्तिषु ।
एवं वीराद्भयानकोत्पत्तिः । यथा `कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फाल्गुनात्' (वेणी॰ 5-5)
यत्त्वत्र श्रीशङ्कुकेनोक्तम् -- नात्रोत्साहस्य व्यापार इति । तदसत् । एवं हि निर्विषय एवोत्साहः स्यात् । कर्तव्याननुसन्धानात् । युद्धवीरे च परपराजयजनितः प्रतापापरपर्यायः शत्रुहृदयदाहदायी तद्वनितादिषु भयानक एव जीवितम् । यथा --
`स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
(1)लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥'
नियमेन तु भवतीति वक्तव्यम् । नियमश्चकारेणोक्तो रौद्रादित्यानन्तर्यसूचकपञ्चम्यनन्तरं प्रयुक्तेन ।
यस्तु रसो रसान्तं फलत्वेनाभिसन्धाय प्रवर्तते तस्योदाहरणं वीरः । महापुरुषोत्साहो हि जगद्विस्मरफलाभिसन्धानेनैव ।
यथा -- `दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत' (महावीर॰ 2-54) इत्यादि । रौद्रस्तु परविनाशनं फलत्वेनाभिसन्धाय प्रवर्तते न करुणमिति शे(विशे)षः । विदूषकहासस्तु नायिकाहासं फलत्वेनाभिसन्धत्त इति मन्तव्यम् ।
यस्तु रसस्तुल्यविभा(2)वत्वान्नियमेन रसान्तरं हि परमाक्षिपति तस्योदाहरणं बीभत्सः । तस्य हि ये विभावा(3) रुधिरप्रभृतयस्ते ऽवश्यं भयहेतवः । तथा तद्व्य(4)भिचारिणो मरणमोहापस्माराद्याः । तदनुभावास्तु मुखविकूणनादयः ।
यथा वेणीसंहारे -- `संस्तभ्यन्तां निहतदुश्शासनपीतशेषशोणितपी(तस्नपि)तबीभत्सवृकोदरदर्शनवैक्लव्यस्खलितप्रहरणानि रणाद्विद्रवन्ति बलानि' इति (वेणी॰ 4)

[(मू)]

[(व्या)]

1. म॰ भ॰ शृङ्गारसाक्ष्यैव च ।

2. भ॰ ल्यभाव ।

3. भ॰ हि विभा ।

4. म॰ तथा न त ।

[page 297]




[NZ]

वीरस्यापि1 च यत्कर्म सो ऽद्भुतः परिकीर्तितः । BhNZ_06_041ab
बीभत्सदर्शनं यच्च2 ज्ञेयः स तु भयानकः ॥ BhNZ_06_041cd
[ABh]

एवं तदाभासतद्द्वा(सद्वा)रेण रसान्तराक्षेपकत्वे शृङ्गार उदाहरणम् । तेन शृङ्गारानुकृतिरित्यत्र तुaशब्दो वीप्सायाम् । द्वितीयो हेतौ । तेनैवं योजना -- या अनुकृतिः स हास्यो यतः प्रकीर्तितः एवंविभावको हास्य इति शेषः । तद्यथा शृङ्गार आद्यः (रः स्यात्) । शृङ्गारवत्य(वद)नुकृतिरित्यर्थः ।
यत्त्वत्र शृङ्गारादद्भुतोत्पत्तेराशङ्का `दृशः प्रथुतरीकृता' (रत्ना॰ 2-15) इत्यादौ (तत्) निर्मूलमेव । उद(1)यने हि शृङ्गारः । ब्रह्मणि विस्मयसम्भावना । सा च न तात्कालिकत्वेन नोत्तरकालिकत्वेन । किन्तु पुर्वतरमेवेति न किञ्चिदेतत् ।
परस्पर(रम्परा)फलत्वेन रसान्तराक्षेपे(2) रौद्रे उदाहरणम् । रौद्रस्य यत्कर्म फलात्मकं वधादि चकारात्तस्य यत्कर्म फलरूपं स एव करुणः । एवकारेणात्यन्तव्यवहितां परम्परां पराकरोति ॥ (40)
समनन्तरफलत्वेन रसान्तराक्षेपे(3) उदाहरणं त्वस्य योगः वीरस्य (वीरस्यापीति -- यो वीरस्य) सम्यङ्निकटं यत्फलं सो ऽद्भुतः परि(4)तः समन्ताद्या कीर्तिः यशःप्रतापरूपा ततो हेतोः । अपिशब्दाच्छृङ्गारोपि वीरस्यानन्तरं फलं द्रौपदीस्वयंवरादौ । सहभावेन रसान्तराक्षेपे बीभत्स उदाहरणम् ।
यदेव बीभत्सस्य दर्शनं विभावादिरूपं स एव भयानकः । तद्विभावत्वादुपचारस्य । सहभावप्रतीतः(तिः) फलम् । तमेव चशब्दो द्योतयति । तुः पूर्वतो(5) विशेषमाह । अयमेव चाक्षेपः प्रकाशत्वात् संभाव्यते न त्वस्धिक इति । सा त्वस्यापि सन्न नोक्तः । ये चात्रोत्पत्तिहेतव उक्तास्ते यथा स्वयं पुरुषार्थचतुष्कव्याप्ताः । तद्धि तत्सौन्दर्यातिशयजननरूपम् । रञ्जका भा(हा)सादयस्तदनुगामित्वेन रूपकेषु निबन्धनीयाः ।
एतावन्त एव च रसा इत्युक्तं पूर्वम् । तेनानन्त्ये ऽपि पार्षदप्रसिद्ध्यैतावतां प्रयोज्यत्वमिति यद्भट्टलोल्लटेन निरूपितं तदवलेपेनापरा(6)मृश्येत्यलम् ॥ (41)
वर्णाभिधानं पूजादौ ध्यान उपयोगि । मुखरागे ऽपीत्यन्ये । स्वच्छपीतौ शमाद्भुताविति शान्तवादिनां पाठः । तत्तद्रससिद्धौ सा सा देवता पूज्येति देवतानिरूपणम् । विष्णुः कामदेवः । प्रमथा भगवतो गणाः क्रीडापराः । रुद्रस्त्रैलोक्यसंहारकर्ता । अत

[(मू)]

1. अ॰ वीरस्य चापि ।

2. न॰ त॰ यत्र भवेत्स तु । अ॰ यत्तु भवेत्स तु ।

[(व्या)]

1. भ॰ येन हि ।

2. भ॰ रापेक्षया ।

3. म॰ पेपीति ।

4. म॰ भ॰ विपरीतः ।

5. भ॰ पूर्वपक्षमाह ।

6. म॰ पनापरा ।

[page 298]




[NZ]

अथ वर्णाः ----
1श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । BhNZ_06_042ab
2कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ BhNZ_06_042cd
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । BhNZ_06_043ab
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ BhNZ_06_043cd
(3)अथ दैवतानि --
शृङ्गारो विष्णुदेवत्यो4 हास्यः प्रमथदैवतः । BhNZ_06_044ab
रौद्रो रुद्राधिदैवत्यः5 करुणो यमदैवतः ॥ BhNZ_06_044cd
बीभत्सस्य महाकालः 6कालदेवो भयानकः । BhNZ_06_045ab
वीरो 7महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ BhNZ_06_045cd
एवमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षण(9)निदर्शनान्यभिव्याख्यास्यामः । (10)स्थायिभावांश्च रसत्वमुपनेष्यामः ।
[ABh]

एव चोदयतीति निय(च यमयतीति य)मेन वधादिके सम्पादिते करुणः । महाकालो ऽधिदैवतमिति शेषः । स हि तद्विभावं कङ्कालं श्मशानादि सेवते । महेन्द्रस्त्रैलोक्यराजः । ब्रह्मा अचिन्त्याद्भुतस्रष्टा ॥ (45)
`बुद्धः शान्ते ऽब्जजो ऽद्भुते' इति शान्तवादिनः केचित्पठन्ति । बुद्धो जिनः परोपकारैकपरः प्रबुद्धो वा । तत्रोत्पत्तिलक्षणमन्योन्याश्रयत्वान्न निश्चयकारि । वर्णदैवतात्मकमप्यागमसिद्धत्वादित्येकप्रघट्टकेनोपसंहरत्येवमित्यादिना । एतेषामिति सर्वेषामित्यर्थः ।
अथ विशेषलक्षणानि वक्तुमासूत्रयतीदानीमित्यादिना । विशेषलक्षणं सजातीयाद्व्यवच्छेदकम् । न विजातीयाद्व्यवच्छेदं विना सजातीयत्वात् । न चासौ सामान्यलषणं विनेति (1)तत्पृष्ठे विशेषलक्षणमिति दर्शयितुं सामान्यलक्षणमनुवदत्यनुभावेत्यादिना । लक्षणानि च तानि निदर्शनानि च विशेषात्मकानि । तेन प्रत्येकं लक्षणविशेषा उच्यन्त

[(मू)]

1. म॰ त॰ श्यामो भवेत्तु ।

2. म॰ त॰ रक्तो रौद्रो रसः प्रोक्तः कपोतः करुणस्तथा ।

3. प॰ ब॰ त॰ अथाधिदैवतानि ।

4. न॰ ब॰ अ॰ देवस्तु ।

5. अ॰ ब॰ देवस्तु । म॰ त॰ देवश्च ।

6. प॰ कामदेवो ।

7. म॰ माहेन्द्रदैवत्य अद्भुतो ।

8. त॰ एतेषां त्विदानीं विभावानु । म॰ इदानीं विभावानु ।

9. अ॰ लक्षणानि सप्रयोजनानि व्याख्यास्यामः । त॰ लक्षणानि दर्शनान्यभिव्या । म॰ लक्षणदर्शना ।

10. ब॰ स्थायीभावांश्च रसानामनुक्रमिष्याम इति ।

[(व्या)]

1. म॰ भ॰ ननु पृष्ठे ।

[page 299]




[NZ]

तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः(1) । (2)यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं(3) वा तच्छृङ्गारेणोपमीयते
[ABh]

इत्यर्थः । विशेषलक्षणानि वा सामान्यलक्षणस्य निर्दर्शनानि । येषु सामान्यलक्षणं निर्दिश्यते योज्यते उदाह्रियते च । तद्विना तस्योदाहर्तुमशक्यत्वात् । चकारो लोकोत्तरतयादरं सूचयति । ये स्थायिनो भावा लोके चित्तवृत्त्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्धनकर्तव्यताप्रबन्धाभिधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेनोपदेशदिशा नेष्यामः । विभावान् यथायोगमुपहरद्भिः कविनटैर्हि ते रसतां नीयन्ते । यदाह --
``या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा (दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे ऽप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥'') इति । (ध्वन्या॰ 3-43)
नटानां तु तदुपजीवितत्वान्न नवा दृक्पश्यति न रसयत्यतो नवेति । तस्माद्रसनोपयोगिविभावाद्यौचित्यमस्माभिरुपदिशद्भिः स्थायिनो रसतां नीता भवन्तीत्यनेन लक्षणरूपस्य फलं दर्शयति ।
:ह् (अथ शृङ्गारप्रकरणम्)
तत्र कामस्य फलत्वादशेषहृदयसंवादित्वाच्च तत्प्रधानं शृङ्गारं लक्षयति -- तत्रेत्यादिनोज्ज्वलवेषात्मक इत्यन्तेन सूत्रेण । तत्रेति क्रमनिर्धारणे । एवं सतीत्यर्थे वा । एतत्सूत्रभाष्येण व्यक्तम् । यल्लक्ष्यपदं नामेति । व्याचष्टे यत्किञ्चिदित्यादिना । हस्तपृष्ठतादि(हारादि)मण्डितः शृङ्गा(1)रवान् । तेन शुचिमेध्याद्युपमीयते । तेनोज्ज्वलवेषात्मके शृङ्गारशब्दः । न चातिप्रसङ्गः । आप्तोपदेशस्य नियामक्त्वादिति चिरन्तनाः । तदनुपपन्नम् । उपमानोपमेययोर्विशेषविषयविभागानवभासात्तथा ।
तस्मादयमत्रार्थः । रतिरेवास्वाद्यमानो मुखः शृङ्गारः । रतिमास्वादयद्भिस्तद्बहुमानपरः शृङ्गारीत्युच्यते । यस्तुसज्जनादिप(दिः अप)र एव तद्यूसनिता(तु व्यसनी) । सा रसनास्वाददशा(2) लोके भवन्त्यपि न चिरमवतिष्ठते । तदास्वादे चोपयोगि यथास्वविभावादि तथा

[(मू)]

1. च॰ ब॰ वेषात्मत्वाच्छृङ्गारो रसः । त॰ हृद्योज्ज्वलवेषस्वभावा ।

2. म॰ यथा यत्किञ्चि ।

3. ब॰ त॰ नीयं भवति तत्सर्वम् ।

[(व्या)]

1. म॰ रस्तेन सूचीमध्या ।

2. म॰ भ॰ दशलो ।

[page 300]




[NZ]

यस्तावदुज्ज्वलवेषः(1) स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति (2)तथैवैषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्याप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो(3) रसः । स च (4)स्त्रीपुरुषहेतुक (5)उत्तमयुवप्रकृतिः ।
[ABh]

शास्त्र(स्त्रा)निषिद्धमजुग्प्सितं संस्फुटं(यत् स्फुटं) मनोहरं च तदुपचाराच्छृङ्गारशब्दवाच्यम् । तदाह -- उपमीयते । तदुपयोगितया तथा मीयते लक्ष्यत इति यावत् ।
क्व य(त)थेति दर्शयति -- यस्तावदिति । तावद्ग्रहणेनावधारणवाचिना शृङ्गारवाच्यो मुख्यो ऽर्थस्तत्र नास्तीति दर्शयति -- स शृङ्गारवानिति । तदनु(दु)ज्ज्वलवेषे शृङ्गारशब्द उपचरित इत्याह । ननु मुख्यतया रत्यास्वादे शृङ्गारशब्दस्य प्रवृत्तौ किं निबन्धनमित्याशङ्क्याह -- यथा चेत्यादि । गोत्रं पितृसन्तानादि । कुलं मातृसन्तानं सूचयति । आचारो व्यवहारः । तत उत्पन्नानि लोके प्ररूढानि । मूले तु न । आद्याप्तोपदेशेन नामकरणलक्षणेन समयेन सिद्धानि ।पुंसामिति मनुष्यजातेर्नराणां नारीणां च । नराणां हि पितृसन्तानानुसारि नाम विष्णुशर्मेत्यादि । स्त्रीणां तु मातृवंशानुसारि कनकप्रभाचन्द्रप्रभेति । एवं रसादीनां तच्छास्त्रवेदिवृद्धव्यहारतो निरूढानि प्राक्तनब्रह्माद्याप्तप्रणीतानि नामानि ।
तदेवोपसंहरति -- एवं शृङ्गारो रसः । स आचारव्यवहाराल्लोके ऽपि सिद्धः । कुतो हेतोः । हृद्यादिवेषात्मकत्वात् । एतदुक्तं भवति -- प्रतिशास्त्रसमयानुसारिणो ऽपि शब्दास्तद्वृद्धव्यवहारपरम्परया लोके प्रसिद्धा उपचारतो ऽन्यत्रापि व्यवह्रियन्ते । यथा -- `साङ्ख्यपुरुषो ऽयं न किञ्चित्करोति । पूर्वरङ्गो ऽत्र तेन मे विरचितः । अत्र महत(त्ता)न्योन्यमस्य' इति । तद्वदमी शृङ्गारादिशब्दा इहैव विषये मुख्याः । लोके तु साङ्ख्यपुरुषादिशब्दवत् ।
यस्तु शृङ्गारशब्दस्या(2)न्मीयेन(स्य मत्वर्थीयेन) व्युत्पत्तिमाह तस्य रूपमपि विस्मृतम् । आरकन् हि प्रत्य(3)यो ऽत आरब्धः । (`शृङ्गवृन्दाभ्यामारकन्') (वार्तिक॰ 5-2-121) वृन्दारक इति यथा । एत एवोणादिषु निपातितो ऽयं शब्दः । (शृङारभृङ्गारौ । उ॰ सू॰) ।

[(मू)]

1. न॰ यस्तावद्धृद्योज्ज्वलवेषः । म॰ त॰ वेषात्मकः । य॰ वेषवान् सशृङ्गार इति ।

2. च॰ ब॰ तथैषाम् ।

3. ड॰ ग॰ वेषात्मकः शृङ्गारो ।

4. द॰ अ॰ स्त्रीपुंस ।

5. प॰ म॰ त॰ युवतिप्रकृतिः ।

[(व्या)]

1. म॰ शब्दान्मीयते व्युत्पत्ति । भ॰ शब्दमन्वन्मीयेन ।

2. भ॰ म॰ आरकांगिप्रत्ययो ऽद आरब्धः ।

[page 301]




[NZ]

[ABh]

यस्तु पृथग्भावेन गोत्रादिनामानि व्याचष्टे व्यावर्त्याभावात् ततदीक्षितानि । तस्य प्रकृते न किञ्चिदियमु(दप्यु)पयुज्यते । न च गोत्राचारोत्पन्ने नामनि नियामक आप्तोपदेशो लोके इत्यास्तामेतत् ।
अथ रीतिः स्थायीति सूत्रभागं भाष्येण स्पष्टयति -- स चेत्यादिना । स्त्रीपुरुषशब्देन परस्पराभिलाषसंभोगलक्षणया लौकिक्या `अस्येयं स्त्री' इति या(धिया) । तेनाभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारि(1)रूपाणीतिया(पानीताया) (2)विलक्षणैव इयं स्थायिरूपा प्रारम्भादिफलप्राप्तिपर्यन्ता व्यापिनी परिपूर्णसुखैकफला रतिश(रु)क्ता भवति हेतुरस्य ।
कविर्हि लौकिकरतिवासनानुविद्धस्तथा विभावादीनाहरति नाट्यं चा(नटश्चा)नुभावान् यथा रत्यास्वादः शृङ्गारो भवतीति । आस्वादयितुरपि प्राक्कक्ष्यायां रत्यवगम(3) उपयोगीत्युक्तः प्राक् ।
एतदुक्तं भवति -- रतिक्रीडासार्धं च (रतिः क्रीडा । सा च) परमार्थतः कामिनोरेव । तत्रैव सुखस्य धाराविश्रान्तेः । अपरस्य तु माल्यादिविषयसौन्दर्यस्य (4)कविना कृतस्य संकल्पत्वात्सवंदेनद्वितयान्योन्यनिमज्जनात्मकमीलनाख्यो हि परमो भोगः । संविद एव प्रधानत्वात् । अन्यत्र तु जडस्य भोग्यत्वात् ।
अत एवाह -- `श्वासायासविडम्बनैव वपुषि प्राणाः पुनर्जानकी' इति ।
अत एव यत्कैश्चिदचोद्यत -- रतेराधारभेदेन भेदात्कथमेको रस इति । तदनुभिज्ञतया । एकैव ह्यसौ तावती रतिः । यत्रान्योन्यसंविदा एकवियोगो न भवति । अत एवोत्तमयुवप्रकृतिः । उत्तमश्चोत्तमा चोत्तमौ । एवं युवानौ । तत्रोत्तमयुवशब्देन तत्संविदुच्यते । न तु कायः । चैतन्यस्यैव हि प्रमार्थत उत्तमयुवत्वं विशेषः । स(सा) चावस्थावान् तत्र तत्र (स्था यत्र तत्र) व्यवहारस्य भूतत्वात् तत्प्रकृतिः । सा संविदास्वादयोग्यत्वात् शृङ्गाररसीभवतीति । अनुत्तमत्वे तु (न) दार्ढ्यमयुवत्वे चेति न सा रतिसंवित् । वियोगस्य संभावनात् । अवियुक्तसंवित्प्राणस्तु शृङ्गारः । यथा --
``वारिसिण॰चरिहिअदि हिल॰गणाहुकंहविएक्क ।
हुहिमुळजळमरणिमअळहुतीतिहविप॰सि ॥'' इति (5) ।
व्याख्याता(तः) परस्परं जीवितसर्वस्वाभिमानरूपा(पः) । वेषयति व्यापयति चित्तवृत्तिमन्यत्र

[(मू)]

[(व्या)]

1. म॰ भ॰ रितरूपाणीति ।

2. म॰ भ॰ यापि विल ।

3. म॰ रत्यङ्ग ।

4. म॰ तद्विना ।

5. अस्फुटेयं गाथा ।

[page 302]




[NZ]

तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्या(1)नुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन(2)गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते(3) ।
[ABh]

ज्ञापनया संक्रमयतीति वेषो विभावानुभावात्मा । वेषयति(न्ति) व्याप्नुवन्ति स्थायिनमिति व्यभिचारिणः । ते चोज्ज्वला उत्कृष्टा यस्मिंस्तथाभूत आत्मा यस्येति ।
सूत्रे संक्षिप्य यद्विभावादि निरूपितं तद्विभागेन व्याख्येयमित्याशयेन शृङ्गारस्यावस्थाभेदमाह -- तस्य द्वे इत्यादिना । अधिष्ठाने अवस्थे इत्यर्थः । अधिष्ठीयते ऽवस्थात्र(त्रा)शृङ्गाररूपेण । तेन शृङ्गारस्येमौ भेदौ । गोत्वस्येव शाबलेयत्वबाहुलेयत्वे । अपि तु तद्दशाद्वये ऽप्यनुयायिनी या रतिरास्वाद(1)नात्मिका तस्याश्चास्वाद्यमानं रूपं शृङ्गारः । यदाहुः --
``(एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।) स्नेहानाहुः किमपि विरहह्रासिनस्ते ऽप्यभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥'' इति ॥ (मेघ॰ 2-45)
अत एव सम्भोगे विप्रलम्भसम्भावनाभीरुत्वं विप्रलम्भे ऽपि सम्भोगमनो(2)राज्या(रथा)नुवेध इति इयच्छृङ्गारस्य वपुः । अभिलाषेर्ष्याप्रवासादिदशास्त्वत्रैवान्तर्भूताः । सत्यामास्थाबन्धात्मिकायां रतौ तेन(?)सम्भोगशृङ्गार इत्यादिव्यपदेशो ऽभोगे ऽप्युपचारात् । अत एतद्दशाद्वयमेलन एव सत्यतः सातिशयचमत्कारः । यथा --
``एकस्मिन् शयने पराङ्मुखतया वितोत्तरं ताम्यतोरन्योन्यं हृदयस्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहम् ॥'' (अमरुक॰ 23)
तत्र हीर्ष्याविप्रलम्भसम्भोगमेलनात्मिकैवैकप्राणीभूतोभयगतविभावानुभावव्यभिचारिकृता सातिशया रसा(3)नुभूतिः । तेन यच्चोदितं श्रीशङ्कुकेन पुरूरवस उन्मादे वत्सराजस्य तापसत्वे चानुज्ज्वलवेषत्वं विप्रलम्भशृङ्गारे ऽपि (इति) तदनवकाशमेव । भोगस्य रसत्वाभावात्

[(मू)]

1. ड॰ माल्यालेपन ।

2. ड॰ भोगवन । द॰ अ॰ उपवनभवनानुगमनश्रवणक्रीडालीलाश्रयादिभिः ।

3. त॰ र्भावैः समुत्पद्यते ।

[(व्या)]

1. म॰ रास्थाबन्धा ।

2. म॰ मध्यानुवे ।

3. म॰ भ॰ रसविभक्तृभिस्तेन नयनयोश्चो ।

[page 303]




[NZ]

[ABh]

स्नानाद्यवस्थानमिव । यत्त्वत्रोत्तरं तावद्दत्तं स्थैर्यादुज्ज्वलवेषाभावे ऽपि रतिमुत्तमा न विजहतीति तद्यक्षभाषितम् । प्रकृतचोद्यापरिहारात् ।
न हि(नु) चोदितमनुज्ज्वलवेषे कथं शृङ्गार इति । तदेवास्तु चोद्यमिति चेत् -- न वचनस्यातिभारो ऽस्ति । न तु मुनिनैवमुक्तं सत्युज्ज्वलवेषे शृङ्गार इति । अपि तु विपर्यय इत्यास्तामेतत् ।
तत्रेति । द्वयोरवस्थयोर्मध्ये सम्भोगावस्था तावदुच्यते । तत्रेह वस्तुतः स्त्रीपुंसौ परस्परं विभावौ । तयोरुत्तमत्वे चोपयोगीनि ऋत्वादीनि । उत्तमस्यानवसरे रत्यभावात् । ऋतुर्वसन्तादिः । माल्यं कुसुमादिः । अनुलेपनं समालम्भनं यद्यत्कामस्योद्दीपकम् । अलङ्कारः कटकादिः । इष्टजनः विदूषकादिः । एतदुभयमुत्तमत्वसूचकम् । यदाह --
`असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं किं सन्ध्यां भजते रविः ॥' इति ॥ (राज॰तर॰ 4-442)
विषया गीतादयः । तदन्तर्भूतमपि माल्यादि प्राधान्यात्पृथगुक्तम् । वरभवनं हर्म्यादि । एतद्देशविशेषोपलक्षणम् । एषामुपभोगः । उपवनस्योद्यानस्यानुभवनं श्रवणम् वा प(व)रभवनस्थस्यापि । एतत्सङ्कल्पादेरप्युपलक्षणम् । क्रीडा जलावगाहनादिका । लीला जनस्यानुकृतिः । अनु(आदि)ग्रहणादन्यदपि हृद्यं हंसयुगलकचित्रपुस्तकदर्शनादि । एतच्च समस्तमेव शृङ्गारविभावत्वेन मन्तव्यम् । यावान्कश्चिदयं विषयसंभारो हृद्यतमस्तत्पूर्णतायां सत्यामुत्तमस्य रत्युदयः । अत एव रत्नावल्यां हर्म्यवर्णनमुद्यानगमनं कामदेवपूजा वसन्त इत्यादि सर्वमेवात्र संगृहीतं `राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तम्' इत्यादिना । एवञ्च सर्व एव समुदितो विभाव इति काल्पनिकमालम्बनविभाव उद्दीपनविभाव इति । अत एव मुनिना नायं क्वचिद्विभाग उक्तः सूचितो वा । युक्तञ्चैतत् । यथैकत्रैव रूपके उद्यानर्तुमाल्यादीनां सर्वेषां दर्शनादेको रसः स्यात् । विभावाभेदात् ।
ननु प्रथमं (प्रमा(2)दामात्र)दर्शने नोद्यानभवनादिसम्भवः । क एवमाह । ऐश्वर्यपूर्णस्य हि तावदात्मीयसमृद्धिसम्भारसंस्कारानव(राव)गमात् पूर्णतैव विभाववर्गस्य । तत्प्रधानं हि रूपकं तत्र तत्रोदाहरणम् । तेन पृथक्पृथगुदाहरण(3)दानमनुपपन्नम् ।
या तु मुक्तकादौ पृथक्तया भावे ऽपि रससंवित् तत्रोत्तमे च तापस(तावत्)स्तत्रानुसन्धानाच्चमत्कार इति । (4)इयांस्त्वनुत्तमादिविषये ऽपरिपूर्णोद्दीपनत्वे न चमत्कारो दृश्यते --

[(मू)]

[(व्या)]

1. म॰ तावत्तटस्थैर्यदु । भ॰ तावद्दन्तस्थैर्यादु ।

2. म॰ भ॰ प्रमामात्र ।

3. भ॰ रणमनु ।

4. यस्त्वनु ।

[page 304]




[NZ]

तस्य (1)नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहारवाक्यादिभिरनुभावैरभिनयः (4)प्रयोक्तव्यः ।
[ABh]

यथा हि `वर्धते(1) लुनाहि पणीलुदिंसिगमिहा अमहंह भुवं हचदुघरीदुल्लए लंघा ।' इति तथा `कमसूपे रङ्ग(2)' इत्यादि(?) । तत्रैकाङ्गस्य सौभाग्यस्य प्राधान्याच्चमत्कारोदय इति तात्पर्यम् । न तु तदभावकृता चमत्कृतिः(3) ।
एतैः कविनोपनिबद्धैर्नटेन च साक्षात्कारकल्पतामानीतैः सम्यगित्यविघ्नभोगात्मकसम्भोगो रस उत्पद्यते झटित्येव । न हि गमनक्रियावत् पर्यन्ते रसनाक्रिया निष्पद्यते । अपि तु प्रथम एवावसरे । स च विभावसाक्षात्कारात्मक एव । तस्य तु प्रथमकक्ष्यायामेव रसनागोचरत्वाभिमतस्य नयनचातुर्यादिभी रसै(सो) रसनाद्याभिमुख्यं नीयते । अत एव ते ऽभिनया अनुभावाश्च । आभिमुख्यनयनमनुभावनं च । तद्रसास्वादे समर्थाचरणमुद्दीपनम् । अत एव तदभावे विभावादिवर्णनप्रधाने ऽपि काव्ये न चमत्कारः । रसनायास्तत्राभावात् । यथा विन्दो(कवीन्दो)र्भट्टेन्दुराजस्य --
``उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् .
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥'' इति ।
एवमन्यत्राप्युपपद्यत इति तस्याभिनयादिर(दि यो)जनीयम् ।
ननु विभावानां साधारण्यं कथम् । नियमेनैवं(4) हि न नाट्ये । इयांश्चात्र कविप्रयत्नसमर्प्यमाणः । तेन तद्भावात्प्रयोजकधर्मोद्रेकप्रकाशविशिष्टसमब(5)लात्प्रमुख एव विशेषविश्रान्ततां याति । तथा `हा प्रिये जनकाराजपुत्रीति' इत्ययं श्रुत एव न रतिव्यतिरेकेण भावान्तरविभावता शङ्क्या । `एतेन कुणपं(पे) कामिनी' इत्यादिसम्भावनं प्रत्युक्तम् ।
तत्र नयनचातुर्यादिना कान्ता दृष्टिर्लक्ष्यते । यत्तु भ्रवोर्मूलसमुत्क्षेपश्चतुरमिति (ना॰ शा॰ 8-47) वक्ष्यते । सभ्रूक्षेपेण चोक्तम् -- `विवर्तनं कटाक्ष' (ना॰ शा॰ 8-100) इति ताराकर्म । एवं च योजना -- नयनानां चातुर्येण सम्रूक्षेपेण कटाक्षेण च यद्यत्सञ्चारणं

[(मू)]

1. म॰ नयनचातुरी ।

2. म॰ त॰ सञ्चरण । क॰ सञ्चारि ।

3. न॰ हारैर्वाक्यादिभिः ।

4. ड॰ म॰ भावैरभिनेतव्यः ।

[(व्या)]

1. म॰ वर्धिते ।

2. भ॰ रग्ग ।

3. भ॰ न तु तदा भवतु नाम चमत्कृतिः ।

4. म॰ भ॰ कथं नियममेव न हि ।

5. भ॰ ष्टमद्बला ।

[page 305]




[NZ]

(1)व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः(2) । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रा(3)स्वप्नविबोधव्याध्युन्मादापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः ।
[ABh]

ललितं मन्थरं मधुरं नयनाभिरामं कृत्वा यान्यङ्गानां हरणानि स्वकर्तव्यकाले ललितानि सुकुमाराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि । वाक्यानीत्युपाङ्गाभिनय आङ्गिको वाचिकश्च लक्षितः ।
अत एव सामान्याभिनयाध्याय(ना॰ शा॰ अ॰ 22)वक्ष्यमाणाशेषचेष्टालङ्कारलाभ इति ललितमधुरशब्दौ तदर्थावित्यसत् । आदिग्रहणात्सात्त्विको मुखरागपुलकादिर्गृह्यते । अनुभावकत्वेन ताटस्थ्यपरिहारः । आभिमुख्यनयनेन स्वात्मैकविश्रान्तिशङ्कानिरासः । एवमुत्तरत्रापि ।
एवं विभावसमय एव रसनीयस्यानुभावावसरे ऽवस्थावेशवैरस्यास्पदस्य पश्चाद्व्यभिचारिणः स्वामेव रसनीयतां चित्रयन्तः सातिशयं पुष्यन्तीति पश्चात्ते निरूप्यन्ते -- व्यभिचारिणश्चास्येति । आलस्यौग्र्यजुगुप्सा वर्ज्यमाना येभ्यस्ते सर्वे व्यभिचारिणः । अस्येति दशाद्वयमयस्येत्यर्थः । जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धा स्थायिनामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादि च स्वविभावप्रमा(म)दादिविषयमेव निषिद्धम् । तेन `वपुरलसलसद्बाहु लक्ष्म्याः' (वेणी॰ 1-2) इति तथा `कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः' (विक्र॰ 5-8) । इत्यादिनापि रूपकं मन्तव्यम् । एवं प्रयोगे काव्ये च विभावादीनां क्रम (1)एव समाश्रयणीयः । उत्पूर्वस्य(उद्भूतस्य) लब्धप्रतिष्ठता । तथाभूतस्य परिवारसंघटनमिति हि प्रतीतिक्रमः ।
ननु निर्वेदादयः सम्भोगे न व्यभिचारिण इत्याशङ्क्याह -- विप्रलम्भकृतस्त्विति । तुशब्दो विशेषं द्योतयति(2) ।
वाक्यैकवाक्यतया दुःखप्रायनिर्वेदादि मुक्त्वा(3) आलस्यादिव्यतिरिक्ताश्च मुखमया एव धृत्यादयो ऽत्र व्यभिचारित्वेन(4) सम्भोग उपन्यस्ता इति प्रकटयति । परस्परांशोपजीवनं

[(मू)]

1. म॰ व्यभिचारिणश्चालस्य ।

2. च॰ अ॰ वर्जाः । त॰ वर्जम् ।

3. त॰ न॰ निद्रासुप्तस्वप्न ।

[(व्या)]

1. भ॰ एवं ।

2. भ॰ यतीति यदि वाक्यैः ।

3. भ्॰ मुक्त आल ।

4. भ॰ त्वेन परस्परा

[page 306]




[NZ]

[ABh]

चात्र जीवितमिति दर्शयितुमस्येत्यनुद्भिन्नमेवोक्तम् । तत एव च भगवदनुग्रहपवित्रवाचा कालिदासेन रघुवंशे सम्भोगविप्रलम्भात्मकव्यामिश्ररसनासम्पत्तये प्रत्यनीकोद्देशेन रामभद्रस्य स्वकर्म पूर्वावस्थावर्णनेनादृतम् ।
स्वप्ना(सुप्ता)न्तर्भूतो ऽपि स्वप्नः प्राधान्यादुपात्तः । `क्व नीलकण्ठ व्रजसि(1)' इति (कुमा॰ 5-54) । `सिविणवए विहुदोसुजपउसुमराविउतरूढसंखुआसिपुअगळगाळविउति ।' तथा `आहूतो ऽपि सहायैः(2)' इत्यादौ हि स एव प्राणः । सम्भोगदशायां तु विभावसान्निध्ये निद्राद्यभावाद्विबोधो ऽपि व्यभिचारी । सम्भोगे ऽपि रतिश्रमकृतनिद्रादि यद्यप्यस्ति तथापि न रतौ तच्चित्रतामाधत्ते(3) । विप्रलम्भे तु तद्रतिभावनापरस्परो ऽत(नापरम् । अत) एव निद्रादिबाहुल्यापेक्षं चेत्थमभिधानम् ।
उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया । कुत्सिता तु सम्भवे ऽपि नेति वृद्धाः । वयं तु ब्रूमः । तादृश्यां दशायां स्वजीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मकावस्थाबन्धो ऽपि विच्छिद्यत एवेति सम्भव एव । मरणमचिरकालप्रत्यापत्तिमयमत्र मन्तव्यम् । येन शोको ऽवस्थानमेव न लभते । यथा --
``तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वावस्थाधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥'' (रघु॰ 8-95)
अत एव सुकविना वाक्यभेदेनापि मरणमाख्यातम् । प्रतीतिविश्रान्तिस्थानत्वपरिहाराय तृतीयपादेन विभावानुसन्धानकं दर्शनम् । पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः(4) ।
अन्ये त्वाहुः मरणमिति न जीवितवियोग उच्यते । अपि तु चैतन्यावस्थैव प्राणत्यागकर्तृतात्मिका(5) । या सम्बन्धाद्यवसरगता मन्तव्या व्यभिचारिभावेनेति सुलभोदाहरणमेतदिति । आदिशब्देन दैन्यमोहादयः । एते व्यभिचारिणो ऽपि स्वानुभावैरनुभाविता विप्रलम्भमनुभावयन्ति । तस्मादनुभावैरित्युक्तम् ।

[(मू)]

[(व्या)]

1.

त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत ।

क्व नीलकण्ठ व्रजसीत्यलक्षवागसत्यकण्ठार्पितबाहुबन्धना ॥

2.

`आहूतो ऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रो ऽपि ।

गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥'

3. भ॰ तामभिधत्ते ।

4. म॰ चोदितः ।

5. म॰ कर्तृकात्मिका ।

[page 307]




[NZ]

अत्राह -- यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा(1) भवन्ति । अत्रोच्यते -- (2)पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति ।
[ABh]

अन्ये त्वादिशब्दं करुणवाचिनमाश्रित्य तदीयानुभवान्प्राधान्येन दर्शयति । एकशेषेण द्वयमप्यन्ये । विप्रलम्भो विडम्बनं सिद्धम् । इह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते । न हि परस्परं रतिमतोर्विडम्बनमस्ति । तेन विरहेण कृतः सुष्ठुतमां प्रो(पो)षत इति दर्शयन्मुनिरनेन विना शृङ्गारो न प्रयोगे न काव्ये हृद्यतामवलम्बत इति दर्शयति ।
तथा हि -- सम्भोगे ऽप्येकघनशर्करास्वादस्थानीयतापरिहाराय वैषम्यं गोत्रस्खलितस्पर्धामन्यद्वा कलहविप्रलम्भहेतुभूतं निबध्नन्ति । `वामो हि कामः' (काम॰शा॰ 2-7-1) इति वात्स्यायनादिभिरभिहितम् । मुनिनापि वक्ष्यते `यद्वामाभिनिवेशित्वम्' इति (ना॰ शा॰ 22-207) । एते च व्यभिचारिणो विद्युदुन्मेषनिमेषयुक्त्यैव स्थायिसूत्रमध्ये प्रकटयन्तस्तिरोदधतश्च तद्वैचित्र्यमावहन्ति । न तु स्थिराः । यद्यपि स्थाय्यपि न स्थिरः तथापि संस्काररूपतया धारावाहिसजातीयप्रवाहरूपतया च स्थिर एव । व्यभिचारिणस्तु नैवं क्षणमपि भवन्ति । संस्कारमपि स्वकं स्थायिसंस्कार एव प्रौढयन्ति । तथैव स्मरणाच्च ।
तेन व्यभिचारिषु पृथक्पृथग्यैः कै(थग्यत्कै)श्चिदुदाहृतं तन्न तन्त्रन्यायानुपाति तथा हि -- धृतौ यदुदाहृतं `असम्भाव्यं देवात्' इत्यादि तत्रापि हर्षविस्मयगर्वमति(1)प्रभृतीनां च `तेति माम्' इति(?) वलितेत्यादिसूचितानां सम्भार एव । `किमपरं त्रैलोक्यम्' इत्यादौ चावान्तरवाक्यारम्भे स्मृतिप्रभृतिभिः सर्वत्र भाव्यम् । अन्यथा हि धृत्येकवचनत्वे सर्वत्र श्लोकार्थे दृष्टिरेकैव चित्रन्यस्तेव भवेत् । `अस्यास्सर्गविधौ' (विक्रमोर्व॰ 1-10) इत्यत्राप्यवान्तरवाक्यसमाप्तौ धृतिहर्षविस्मयादयो भवन्त्येव । अत एव विच्छिद्य विच्छिद्य वितर्कान्तरं समुदेति । न तु व्यभिचारी क्षणमप्यवतिष्ठते । चलं हि गुणवृत्तमिति हि तत्रभवन्तः । अत एव प्रयोगवैचित्र्यम् । अन्यथावैचित्र्यात्स एव प्रयोगः स्यात् । मध्ये ऽन्ते चाश्रयाः स्फुटाः । ते च विस्मयधृतिप्रभृती(4)त्यास्तामेतत् ।

[(मू)]

1. अ रसा । त॰ यद्ययं शृङ्गारः तदा कथमिदानीमस्य करुनाश्रयिणो भावः ।

2. त॰ ननु पूर्व ।

[(व्या)]

1. भ॰ यमप्र ।

2. भ॰ तेतितमाम् ।

3. म॰ भ॰ क्यादिमि ।

4. म॰ तीतिनित्या ।

[page 308]




[NZ]

वै(1)शिकशास्त्रकारैश्च(2) दशावस्थो ऽभिहितः । (3)ताश्च सामान्याभिनये वक्ष्यामः ।
(4)करुणस्तु (5)शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः(6) सापेक्षभावो(7) विप्रलम्भकृतः ।
[ABh]

वाक्यैकवाक्यत्वेनावस्थाद्वयस्यूतस्य शृङ्गारस्य यत्स्वरूपमुक्तमेतदेव परिशोधयितुं पूर्वपक्षयति -- अत्राहेति । करुणविषये आश्रयणं विद्यते येषां भूम्ना । अत एव कर्मधारयमत्वर्थीयाभ्यामितीह नाश्रितम् । भूम्ना वहति ह्यत्र (वहतीत्यत्र) पूर्वपक्षस्य प्राणितम् ।
ननु त्वयोक्तमसदेवास्त्वित्याशङ्क्याह -- वैशिक्ये(के)त्यादि । वेशो वेश्यावर्गः । करणं च सम्भोगात्मकम् । तत्प्रयोजनं शास्त्रं कामसूत्रं ये कृतवन्तस्तैः । शृङ्गारो दशभिरभिलषितादिभिर्मरणान्ताभिरवस्थाभिर्युक्तो दर्शितः । अवस्थाग्रहणेन च तावन्तो बहवो विप्रलम्भा इत्याशङ्कां निराकरोति । तेन चिन्तादयो ऽपि व्यभिचारित्वेन रतेस्तैरनु(1)ज्ञाता इति तात्पर्यम् । चकारेणेदमाह -- परस्परास्थाबन्धात्मकत्वे रतिरूपे स्थिते सति तदङ्गभूता दशावस्था विप्रलम्भाङ्गम् । यथोदयनस्य चित्रफलकावलोकनतः प्रभृति ।
ननु तत्रापि [न] रतिः क्व । अ(त)स्य विषयस्यानवगमात् । न हि चित्रमात्रम् । नलिनीसंस्तरादेः साक्षिणो विद्यमानत्वात् । आकृत्या च काम्यमानतौचित्यस्य लाभात् । यदि परं नाम तज्ज्ञास्त(न ज्ञातं त)त्कुत्रोपयोगीति । यदा तु विप्रलम्भाङ्गता न भवति तदा स्वातन्त्र्यं -- यथा रावणस्यापि । तदुक्तमस्मदुपाध्यायभट्टतोतेन --
`स्वातन्त्र्येण प्रवृत्तौ तु सर्वप्राणिषु सम्भवः ।' इति ।

[(मू)]

1. न॰ ब॰ वैशेषिक । द॰ वैशिकशास्त्रकारेण ।

2. म॰ शास्त्रैश्च ।

3. त॰ अ॰ इदं वाक्यं नास्ति । म॰ ताश्चावस्था ।

4. म॰ त॰ करुणः पुनः ।

5. ढ॰ तापक्लेशेष्टजनवियोगविभव । अ॰ द॰ शोकक्लेश ।

6. न॰ त॰ चिन्ताभावसमुत्थः ।

7. द॰ त॰ सापेक्षविप्रलम्भकृतः ।

[(व्या)]

1. भ॰ स्तैराज्ञाता इति तावत् ।

[page 309]




[NZ]

एवमन्यः करुणो ऽन्यश्च(1) विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति(2) ।
अपि च(3)
सुखप्रायेषु4 सम्पन्नः ऋतुमाल्या5दिसेवकः । BhNZ_06_046ab
पुरुषः6 प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ BhNZ_06_046cd
[ABh]

नन्वेवं व्यभिचार्यभेदात्करुणः कथं विप्रलम्भाद्भिद्यत इत्याशङ्क्याह -- करुणस्त्विति । अधमप्रकृतेस्तावन्न विप्रलम्भः । स्थाय्यभावात् । तदभावो विभावसामग्रीवैकल्यादिति । तत्र तावत्करुणः पृथक् लब्धप्रतिष्ठः । एवमुत्तमप्रकृतावपि रतिविपरीतः शोकः करुणे स्थायी । अत एवाह निरपेक्षः । बन्धुजनादिविषये यापेक्षा रताविवालम्बनम् ।
यथोक्तम् -- ``आशाबन्धः कुसुमसदृश(1)प्राणम्'' इति (मेघ॰ 1-10) । ततो निष्क्रान्तो भावः शोकाख्यो यस्मिन् । शापक्लेशे विनिपतितस्येष्टजनस्य यो विभवनाशो वधबन्धो वा ततः समुत्थानं यस्य । शापग्रहणेनाप्रतिकार्यत्वे सत्युत्तमप्रकृतेः शोकोदयस्थानमेतदिति दर्शयति । अन्यथोत्साहक्रोधादिविभावत्वं स्यात् । शोकत्वमेव च पराकर्तुं कविकुलचक्रवर्तिना पुरूरवस उर्वशीशापप्राप्तिरनु(2)रूप(रनुप)लक्षितत्वेन निबद्धा । एवं विभावस्थायिविभेदो दर्शितः । ये ऽपि चैते निर्वेदाद्यास्ते ऽपि वस्तुतो रत्यननुगृहीता निरपेक्षाच्छोकाद्भवन्त्यन्योन्य(न्योऽन्य) एव । ततो ऽ(3)प्याह निरपेक्षभाव इति ।
एवं प्रसङ्गात्करुणस्य स्वरूपमभिधाय प्रकृते योजयति -- औत्सुक्यचिन्तेति । चिन्ताशब्दो ऽशेषनिर्वेदाद्युपलक्षणम् । औत्सुक्यप्रधाना ये चिन्तादयस्तेभ्यः सम्यगुत्थानं विजृम्भो यस्य । अत एव सापेक्षो यत्र रत्याख्यो भावः । ते च सापेक्षाद्रत्याख्याद्भवन्ति । न हि विप्रलम्भे विभावः स्थायी च सम्भोगाद्भिद्यते । एव एवासाविति हि बहुश उक्तम् ।
एतदुक्तं भवति । औत्सुक्यं विषयौन्मुख्यम् । तच्च नष्टे विषये न सम्भवति ।

[(मू)]

1. म॰ त॰ करुणो ऽन्यो ।

2. म॰ भवेत् ।

3. भ॰ अपि चात्र श्लोकः । त॰ अत्र श्लोकः ।

4. म॰ अ॰ त॰ ब॰ प्रायेसष्टम्पन्नः ।

5. म॰ अ॰ माल्यानु ।

6. म॰ अ॰ पुरुषप्रमदा ।

[(व्या)]

1. म॰ सदृशमिति ।

2. म॰ भ॰ रुपल ।

3. भ॰ ततो व्यूह ।

[page 310]




[NZ]

अपि चात्र सूत्रार्थानुविद्धे(1) आर्ये भवतः ।
2ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । BhNZ_06_047ab
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ BhNZ_06_047cd
नयनवदनप्रसादैः 3स्मितमधुरवचोधृतिप्रमोदैश्च4 BhNZ_06_048ab
5मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ BhNZ_06_048cd
[ABh]

एवं परीक्ष्य परीक्षाफलमुपसंहरति -- एवमेष इति । शृङ्गार इत्येकवचनेनैक एव शृङ्गार इत्युपसंहृतम् ।
एवं सूत्रार्थे परीक्ष्य स्थापिते तदर्थस्य सुखग्रहणार्थं सूत्रार्थविवरणरूपत्वात्सूत्रसमीपे ऽप्युपचितपाठात्कारिकामधुना पठति -- अपि चेति । न केवलं सूत्रं परीक्षापि यावदियं कारिकेति समुच्चयार्थः । एवं सर्वत्र मन्तव्यम् ।
तामेव कारिकां पठति -- सुखेति । पुरुष इति भोक्ता संवेदनात्मको ऽभिप्रेतः । भोक्तैव च स्थायिसंविद्रूपः । व्यभिचारिणस्तु भोगस्वभावाः । तेन रतिरेव पुरुषः । तथा चोक्तम् -- `श्रद्धामयो ऽयं पुरुष' इति । एवं प्रमदापि । तत्र भोक्तृत्वे पुरुषस्य प्राधान्यम् । प्रमदायास्तु भोग्यत्वम् । प्राधान्यादेव च तस्य भोग्येनापरतन्त्रीकरणमिति नायिकान्तरयोगेऽपि न शृङ्गारहानिः । भोग्यस्य तु पारतन्त्र्यादेवान्यसम्मीलने शृङ्गारभङ्ग इति दर्शितम् । अत एव न स्थायिभेदः शङ्कनीयः । सुखप्रायेषु सम्पन्न इत्यादिपुरुषविशेषणत्वेन समुदितस्य विभावत्वं दर्शयति । विभावादयो (न) रसोदयं विनास्वादैश्च भोक्तरीति निमग्नत्वे भोक्तृप्रधानत्वं च दर्शयति । विषयसम्भारपूर्णताभिमानजैव रतिरुचिता ।
एतदर्थमेव `जंस(1) अहं तादेण दिण्णेति' `ईरिसव्स कव्णपूरदंसणव्से(2)' ति(?)च । एतत्सर्वसम्पन्नत्वमेव नायिकायाः प्रदर्शितम् । अन्यथा नोत्तमत्वं स्यात् । निजजातिकुलानुरूपसम्पदभावे तु रतिः पुरुषार्थरूपत्वा(भावाद)नुपदेश्या । अत एव तत्र सर्वस्य प्रतीतिवैर(स्य)स्यानन्तरसंभावनमिति श्लोकस्य तात्पर्यार्थः ।

[(मू)]

1. न॰ त॰ सूत्रानुबन्धे । ब॰ सूत्रानुविद्धे । द॰ अ॰ चात्रानुविधे । ज॰ अनुवंश्ये ।

2. ड॰ ऋतुमाला ।

3. द॰ अ॰ स्मृति ।

4. द॰ अ॰ प्रसादैश्च ।

5. म॰ त॰ ललितैश्चाङ्गविलासैः । अ॰ द॰ मधुरैश्चाङ्गविशेषैः । ढ॰ ललितैश्चाङ्गविचारैः । च॰ म॰ मधुरैश्चाङ्गविचारैः ।

[(व्या)]

1. म॰ जंस ए अहं । भ॰ जस्स ए अग्ग ।

2. दंणस्ये ।

[page 311]




[NZ]

अथ हास्यो नाम हासस्थायिभावात्मकः । स च (1)विकृतपरवेषालङ्कारधार्ष्ट्यलौल्य(2)कुहकासत्प्रलापव्यङ्गदर्शन(3)दोषोदाहरणादिभिर्भावैरुत्पद्यते ।
[ABh]

विषयसामग्रीसम्पूर्णो रस इति ये मन्यन्ते तेषाम(1)भ्रान्तकारणमयं श्लोकः । स चेत्थं व्याख्यातो न भ्रान्तिजनकः । संश्रीयत (संज्ञित) इत्यनेनान्वर्थतां पराकरोति । तथा हि -- उणादिषु शृङ्गारशब्दो निपातित इति ।
न केवलं श्लोकवृत्तमिदं सूत्रार्थानुविद्धे यावदार्ये अपीत्यपि चेत्यस्य भीनक्रमस्यार्थः । प्रियो जनो विदूषकादिः । गान्धर्वशब्दो गीतादिहृद्यविषयोपलक्षणम् । काव्यसेवाशेब्देन विषयसङ्कल्पं विबहवत्वेन लक्षयति ।
यस्त्वाह काव्यार्थीभूताद्रसात्काव्यार्थविदो भावान्तरं प्रादुर्भवति । अतः सुखजनकत्वात्काव्यार्थो रस इति । स प्रत्युक्तः । न हि विषयसामग्री रस इति पूर्वं दर्शितम् । धृतिप्रमोदशब्देन व्यभिचारिणो लक्षयति । एक एव च परमार्थतः शृङ्गार इत्यभिप्रायेणादाववस्थोपलक्षणद्वारेण सर्व एवोपसंहृतो मन्तव्यः ॥
:ह् इति शृङ्गाररसप्रकरणम् ॥
:ह् अथहास्यरसप्रकरणम् ॥
अथ हास्यं लक्षयितुमाह -- अथेति । आत्मशब्देनेदमाह -- रतिरास्वादनाख्यां प्रतीतिं विदधाना न तां रतिरूपामेव विधत्ते । प्रमुखे वि(2)भावादौ साधारण्यात् । हासे तु य आस्वादः सो ऽपि विकृतवेषादीनां सामाजिकान्प्रति लोकवृत्तेन हासहेतुतेति विभावसाधारण्यद्वारेण तदेकस्वभाव एवेति हासात्मकरसनाख्यचर्वणाचर्वणीयत्वाच्चास्य । रतिशोकावेव परमतज्जातीयसंविदास्वादौ(3) धारारूढसुखदुःखरूपत्वेन निस्साधारणात्मीयत्वनियमग्रहगृहीतहेतुबलादेवोत्पद्येते यतः अतो ऽनयोर्मुनिना प्रभवग्रहणं कृतम् । अन्येषु तु विभावे साधारण्यसम्भावनात्तदात्मकग्रहणम् । नयविनयादेरन्यायकारिणः समानं कालादेरपूर्ववस्तुनश्च सर्वान्प्रत्युत्साहक्रोधभयजुगुप्साविस्मयहेतुत्वेन साधारण्यविभावत्वादित्यलं बहुना ।

[(मू)]

1. म॰ विकृतवेषालङ्कार । अ॰ विकृतालोकनपरवेषधार्ष्ट्य ।

2. म॰ कलहास । अ॰ कुहनासत्प्र ।

3. भ॰ त॰ दोसाद्युदाहरण ।

[(व्या)]

1. तेषां भ्रान्ति ।

2. भ॰ भावादौ ।

3. म॰ भ॰ दास्वादन ।

[page 312]




[NZ]

(1)तस्यौष्ठनासाकपोलस्पन्दनदृष्टि(2)व्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । (3)व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधासूयादयः(4) । द्विविधश्चायमात्मस्थः परस्थश्च । (5)यदा स्वयं हसति तदात्मस्थः । यदा तु(6) परं हासयति तदा परस्थः ।
[ABh]

तत्र वेषः केशादिरचना । अलङ्कारः कटकादिः । स चोभयोऽपि विकृतो देशकालप्रकृतिवयोऽवस्थाविपरीतो हास्यस्य विभावः । एतन सर्वे रसा हास्ये ऽन्तर्भूता इति दर्शितम् । अथ विदूषको ऽपि तद्वेषं विदधद्घास्याभासं प्रथयतीत्येतच्च प्रागेवोक्तम् । परस्य सम्बन्धी परः । एवंभूतो देवदत्तस्य वेषो ऽयमलङ्कारो वा इत्युद्घट्टक(ना॰ शा॰ 4-187) भाण्डनृत्तादौ दर्श्यमानौ । हासं करोति । वेषालङ्कारौ गतागतिकादेरप्युपलक्षणम् । धार्ष्ट्यं निर्लज्जता । लौल्यं विषयेष्वनियतता । कुहकं कक्षग्रीवादिस्पर्शनं विस्मापनविधिप्रसिद्धं बालानां । अङ्गविगमो विखुनादि व्यङ्गम् । एषां दर्शनमिति समासः । दोषा अतत्प्रकृतेरपि भयादयः अकार्यकरणादयश्च विकृतवेषादय एव वा । तेषामुदाहरणं वर्णनम् । आदिग्रहणात्सङ्कल्पस्मृत्यादि ।
ओष्ठादेः स्पन्दनशब्देन संबन्धः । व्याकोशनं विकासो निमीलनं च । आकुञ्चनं त्वीषत् । एतद्दृष्ट्या योज्यम् । आस्यरागो मुखरागः । पार्श्वयोर्ग्रहणं पीडनम् । तन्द्राशब्देन मोहः । एते च विभावा अनुभावा व्यभिचारिणश्च प्रकृतित्रयभेदेन ये स्मितादिभेदा वक्ष्यन्ते तेषु यथायोगं योजनीयाः ।
द्विविधश्चायमिति । आत्मस्थैर्विभावैर्विकृतवेषादिभिर्विदूषकः स्वयं हसति स तस्यात्मस्थः । देवीं च हासयतीति तस्याः परस्थः -- तदिदमसत् । एवं हि विभावानामात्मस्थत्वविभागः

[(मू)]

1. ड॰ म॰ तस्योष्ठदर्शन । द॰ अ॰ तस्योष्ठविवरसंदर्शननासा ।

2. ड॰ व्याकोचाकुञ्चनस्वेद ।

3. ज॰ व्यभिचारिणश्चास्य ग्लान्यवहित्थ ।

4. म॰ त॰ स्वप्नादयश्च । ब॰ विकृतालङ्कारविकृताश्च ।

5. म॰ त॰ तत्र यदा ।

6. न॰ म॰ अ॰ यदा परम् ।

[page 313]




[NZ]

(1)अत्रानुवंश्ये आर्ये भवतः ।
विपरीतालङ्कारैर्विकृताचाराभिधानवेषैश्च2 BhNZ_06_049ab
विकृतैरर्थवि3शेषैर्हसतीति रसः स्मृतो हास्यः ॥ BhNZ_06_049cd
4विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च5 BhNZ_06_050ab
हासयति जनं यस्मात्तस्माज्ज्ज्ञेयो रसो हास्यः ॥ BhNZ_06_050cd
स्त्रीनीचप्रकृतावेष6 भूयिष्ठं दृश्यते रसः । BhNZ_06_051ab
षड् भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ BhNZ_06_051cd
स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । BhNZ_06_052ab
द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ7 BhNZ_06_052cd
(8)तत्र
स्मितहसिते ज्येष्ठानां9 मध्यानां विहसितोपहसिते च । BhNZ_06_053ab
अधमानामपहसितं ह्यतिहसितं चापि10 विज्ञेयम् ॥ BhNZ_06_053cd
[ABh]

स्यात् । न हासस्य । किञ्च स्वामिनः शोको ऽनुजीविषु शोकं करोतीति परस्थता सर्वत्र स्यात् । स्वयंभूर्हि परत्र देव्यादौ व्यक्तः परस्थ इति चेद्गम्भीरस्य प्रभोरनुजीविगतो ऽनुभावव्यक्तक्रोधो ऽपि परस्थो भवेत् । तद्विभाव आत्मस्थो ऽतो(न्य)विभावकस्त्वन्य इत्यप्यसत् । परहासो ऽपि तद्घासे विभावः स्यात् । एतच्च रत्यादिषु सर्वेष्वप्यस्ति । तस्मादयमत्रार्थः -- परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसन् लोके दृष्टः । तथा विभावादिदर्शने ऽपि गाम्भीर्यादनुदितहासो ऽपि । परकीयहासावलोकेन तत्क्षणं हासविशेषः सम्पद्यत एवेति स्वभावः । यथाम्लदाडिमादिरसास्वादः सङ्क्रमणस्वभावो

[(मू)]

1. न॰ त॰ भवतश्चात्रार्ये ।

2. द॰ अ॰ विकृतावेशाभिधानचेष्टाभिः ।

3. ब॰ विकृतैरङ्गविकारैः ।

4. ड॰ विकृताकारैः ।

5. न॰ त॰ विहारैर्विकृतवेषकृतैः ।

6. न॰ प्रकृतिरयम् । म॰ त॰ प्रकृतिष्वेष ।

7. अ॰ ब॰ प्रकृतेः ।

8. त॰ ब॰ अत्र श्लोकाः । म॰ नास्ति ।

9. प॰ ब॰ श्लेष्टानाम् । द॰ अ॰ स्मितहसितं ज्येष्टानाम् । भ॰ त॰ स्मितहसितमुत्तमानाम् ।

10. ड॰ त॰ तथातिहसितं च ।

[page 314]




[NZ]

अत्र श्लोकाः ----
1ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । BhNZ_06_054ab
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ BhNZ_06_054cd
उत्फुल्लानननेत्रं तु2 गण्डैर्विकसितैरथ । BhNZ_06_055ab
किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते5 BhNZ_06_055cd
अथ मध्यमानाम्(5) --
आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा6 BhNZ_06_056ab
7कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ BhNZ_06_056cd
[ABh]

ऽन्यत्रापि दन्तोदकविकारानु(1)नुरूपसङ्क्रमदर्शनादेव सङ्कामति एवं हासः स्वभावतः सङ्क्रमशील इति(2) काष्ठ(कास्य)भूयिष्ठता । नानाभेदा इत्याह -- षड्भेदाश्चेति । द्वौ द्वाविति । यथाक्रमं विभावतारतम्यमित्यादीति केचित् । तत्त्वसत् । भेदान्तराणामपि प्रसङ्गात्, तस्मात्सङ्क्रमणाभिप्रायेणैतत् । स्मितं हि यदुत्तमप्रकृतौ तत्सङ्क्रान्तं हसितं सम्पद्यते । अत एव त्र्यवस्थो हास इति वक्ष्यते । षडवस्थो ह्यन्यथा स्यात् ।
स्मितस्ये(ञ्चे)षत्तायाम् । हसितं ततो विशेषेण । ततो ऽपि परस्य गतं समीपगतमन्यत् । अपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः ॥ (53)
सौष्ठवमनुल्बणता । द्विजा दन्ताः धीरमिति मन्थरं कृत्वा ईषत्त्वनिर्वाहः । विकसितैरिति । अथेति । स्मितानन्तरं संक्रमणकाल इत्यर्थः । तदिति । स्मितमेव संक्रान्तं सदेवंरूपतामेतीत्यर्थः ।

[(मू)]

1. ज॰ ईषद्व्यवसितैः । ड॰ ब॰ म॰ इषद्विहसितैः ।

2. न॰ त॰ नेत्रं यत् । म॰ नेत्रैस्तु ।

3. न॰ म॰ विहसितैरथ ।

4. म॰ त॰ गण्डश्च हसितं तत्प्रकीर्तितम् ।

5. म॰ मध्यानाम् ।

6. न॰ त॰ स्यात्सत्वरं मधुरं च यत् ।

7. ज॰ द॰ कलागतम् ।

[(व्या)]

1. म॰ भ॰ रानमुरू ।

2. म॰ भ॰ शीलेयीति ।

[page 315]




[NZ]

उत्फुल्लनासिकं यत्तु1 जिह्मदृष्टिनिरीक्षितम्2 BhNZ_06_057ab
3निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ BhNZ_06_057cd
अथाधमानाम्(4) --
अस्थानहसितं यत्तु5 साश्रुनेत्रं तथैव च । BhNZ_06_058ab
उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ॥ BhNZ_06_058cd
6संरब्धसाश्रुनेत्रं च विकृष्टस्वर7मुद्धतम् । BhNZ_06_059ab
करोपगूढपार्श्वं 8च तच्चातिहसितं भवेत् ॥ BhNZ_06_059cd
9हास्यस्थानानि यानि स्युः 10कार्योत्पन्नानि नाटके । BhNZ_06_060ab
उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ BhNZ_06_060cd
11इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । BhNZ_06_061ab
द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ BhNZ_06_061cd
[ABh]

जिह्माख्याया भाविन्या दृष्ट्याः निरीक्षणं यत्र काल उचितं तेन संस्थानादौ ॥ (57)
अस्थान इत्यकाले शोकाद्यवसरे । विकृष्टं श्रवणकटु । नाटक इति । नाटकशब्दो रूपकमात्रवृत्तिः । स्वसमुत्थ इत्यसंक्रान्तस्मितविहितविहसितापहसितलक्षणः । परसमुत्थः संक्रान्तो हसितोपहसितातिहसितरूपः । हसितादिरूपसंक्रमणयो(मेवो)त्कृष्टप्रकृतौ स्मितादिरूपम् । रतिक्रोधशोकादेस्तु न संक्रमणं भवतीत्युक्तमेव । तत्र हि युगपदेव वा स एव विभावस्तच्चित्तवृत्तिमान्वा पुरुषो विभावतामेति । न तु त एव विभावास्तस्य चित्तवृत्तिं प्रस्तूय संक्रमयाद्यस्य(मयन्त्यन्यस्य) प्रस्तुवतः । हासमिव(स एव) सर्वेषामात्मस्थपरस्थभेदोपलक्षणमेतदित्यन्ये । एतच्चासत् । अनुभवचिद्धमेव हीदं हासः संक्रामतीति ।

[(मू)]

1. ड॰ म॰ यच्च ।

2. ड॰ म॰ निरीक्षणम् ।

3. न॰ त॰ निहञ्चित । द॰ अ॰ निकुञ्चिताङ्गकशिरम् ।

4. द॰ म॰ अधमानाम् ।

5. ड॰ म॰ यत्र । न॰ त॰ यच्च ।

6. ढ॰ त॰ संरब्धं सास्रनेत्रम् ।

7. ड॰ विदुष्टस्वन । न॰ त॰ विकृष्टस्वन ।

8. म॰ त॰ पार्श्वं यत् ।

9. ड॰ म॰ हास ।

10. म॰ त॰ काव्योत्पन्नानि ।

11. ड॰ म॰ एवमात्मसमुत्थश्च तथा परसमुत्थितः । द्विविधस्त्रिप्रकृतिकः षड्भेदो ऽथ रसः स्मृतः ।

[(व्या)]

[page 316]




[NZ]

अथ करुणो नाम(1) शोकस्थायिभावप्रभवः(2) । स च (3)शापक्लेशविनिपतितेष्टजनविप्रयोग(4)विभवनाशवधबन्ध(5)विद्रवोपघात(6)व्यसनसंयोगादिभिर्विभावैः समुपजायते । (7)तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्य(8)स्रस्तगात्रतानिश्श्वासस्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोह(9)श्रमभयविषाददैन्यव्याधिजडतोन्मादापस्मार(10)त्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रुस्वरभेदादयः ।
[ABh]

अन्यस्त्वाह -- तिसृषु प्रकृतिषु त्र्यवस्थो विभावतारतम्यात् द्विरूपः । पुनरात्मपरस्थत्वेन द्विधेति द्वादशभेदो ऽयमिति कारिकातात्पर्यमिति । अत्र च पृथग्विभावनमपि भवति । तत्त्वतिप्रसङ्गावहं तन्मतमिति नोदाहृतम् ॥ (61)
:ह् हास्यरसप्रकरणम् ॥
:ह् अथ करुणरसप्रकरणम् ॥
इदानीमवसरायातं करुणं लक्षयति -- अथ करुणो नामेति । अथेति क्रमे । तत्र चायं क्रमः -- सम्भोगेन हास्यो ऽङ्गत्वेनापेक्षितः । विप्रलम्भेन समानव्यभिचारिकत्वात्करुण इति टीकाकारः ।
एतच्च पूर्वापरविरुद्धम् । अस्माभिस्तूद्देशविभाग एव क्रमो दर्शितः । तस्याभिनयः प्रयोज्यो यस्यास्वाद्यमानस्य करुण इति व्यपदेशः । सदयहृदयता हि करुणा लोके प्रसिद्धा । सा च लिङ्गैरनुकार्तरि शोकं प्रतियतां सामाजिकानामिति करुणव्यपदेश इति श्रीशङ्कुकः ।
एतच्च पूर्वापरविस्मरणविजृम्भितमस्य । यतः शोकं प्रतिकृतिस्तस्य (शोकप्रकृतिकस्य) करुणा । दया च नाम परित्राणेच्छा । सा कथं शोकानुकरणम् । किं प्रति च तेषां दयेति न विद्मः ।

[(मू)]

1. द॰ अ॰ अथ करुणः ।

2. ढ॰ त॰ स्थायिभावात्मकः ।

3. म॰ त॰ सापेक्षक्लेश ।

4. म॰ विनिपतनेष्टजनवियोग ।

5. म॰ त॰ बन्धपरिक्लेश ।

6. न॰ म॰ व्यसनसंशयादिभिः ।

7. द॰ अ॰ तस्य चाश्रु । म॰ तस्याश्रुपतन ।

8. म॰ त॰ वैवर्ण्यस्वरमुखभेद ।

9. ब॰ मोहभयश्रम ।

10. ब॰ रालस्य ।

[(व्या)]

[page 317]




[NZ]

अत्रार्ये भवतः ----
इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवा1द्वापि । BhNZ_06_062ab
एभिर्भावविशेषैः करुणरसो नाम संभवति ॥ BhNZ_06_062cd
2सस्वनरुदितैर्मोहागमैश्च परिदेवतैर्विलपितैश्च । BhNZ_06_063ab
अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ BhNZ_06_063cd
[ABh]

तस्मात् करुण इति शोकः । सर्वसाधारणत्वेन प्राग्युक्त्या आस्वाद्यमानस्य संज्ञा । तदर्थमेव नामशब्दः । तत्प्रभवत्वं शृङ्गारवद्व्याख्येयम् । अशक्यप्रतीकारहेतूपलक्षणं शापग्रहणम् । शापक्लेशे पतितस्येष्टजनस्य ये विप्रयोगादयः । तत्र विप्रयोगो ऽयं सङ्गमः (योगो ऽसङ्गमः) । विभवनाशनादि प्रसिद्धम् । विद्रवो देशादुच्चाटनम् । तच्च विप्रयोगे ऽपीति विशेषः । उपघातो ऽग्न्यादिम(1)रणम् । अग्न्यादिकृतो विद्रवः चोरादिकृत उपघात इति त्वसत् । विभावनाशेन गतत्वात् । व्यसनेन मृगयाक्षादिनानर्थजनकेन संयोगः । विभवनाशादयो ऽपि स्वात्मगता नोत्तमप्रकृतेः (2)शोकं कुर्युः । मध्यमाधमप्रकृतीनां तु कुर्युरेवेत्यादिग्रहणम् । परिदेवनमात्मनो दैवस्यान्यस्य चोपलम्भः । निश्वासशब्देन तदनन्तरभावी उच्छ्वासो ऽप्यूर्ध्वश्वसनरूपो लक्ष्यते । स्मृतिलोपेन स्तम्भप्रलयौ लक्ष्येते । वैवर्ण्याश्रुस्वरभेदा अत्र बहिरुद्भिन्नस्वभावाश्चित्तवृत्त्यात्मनो गृह्यन्ते । तथा हि वक्तारो भवन्ति `अश्रुणा पूर्णो ऽस्य कण्ठो न च नयनजलं दृष्टम्' इति । एते ह्यश्रुप्रभृतयो व्यभिचारित्वाभिनेयत्वोपजीवनायैव मध्ये निर्दिष्टा इत्यवोचाम वक्ष्यामश्च । तेन न पौनरुक्त्यम् । एवमन्यत्रापि । व्याधेरुन्मादापस्मारौ भेदेन वक्ष्यामः ।
वधशब्दो बन्धादेरप्युपलक्षणम् । विप्रियमिष्टजनवधादि येन वाक्येनोच्यते तस्य श्रवणात् । तेन चेष्टजनस्य विभवनाशादि दृश्यमानं श्रूयमाणं वा कविभिः करुणविभावत्वेनोपनिबन्धनीयमिति तात्पर्यम् । एभिरित्येवंप्रकारैः । भावशब्दो ऽत्रार्यायां विबहववाची । अनुभावांस्तद्द्वारेण च व्यभिचारिणो ऽप्युपलक्षयितुमार्यान्तरं सस्वनेत्यादि । बहुवचनं प्रकृतिदेशकालदशाहेत्वादिभेदेनानेकप्रकारत्वज्ञापनार्थम् । मोहो जडता । तेनान्ये

[(मू)]

1. ड॰ म॰ संश्रयाद्वापि ।

2. प॰ त॰ सस्वर । न॰ श्वसन ।

3. त॰ मोहप्राप्त्या । म॰ मोहोद्गमैश्च ।

[(व्या)]

1. म॰ भ॰ अत्रादिक्रम ।

2. म॰ भ॰ प्रोक्तं कुर्युः ।

[page 318]




[NZ]

अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः(1) संग्रामहेतुकः । स च क्रोधाघर्षणाधिक्षेपानृत(2)वचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडनच्छेदन(3)भेदनप्रहरणाहरणशस्त्रसंपात(4)संप्रहाररुधिराकर्षणा(1)द्यानि
[ABh]

व्यभिचारिण उपलक्ष्यन्ते । देहस्यायासनं पातनवेष्टनादि । अभिघात उरस्ताडनादिः । एते चानुभावाः प्रकृतिभेदेन यथायोगं विभजनीयाः । करुणो रौद्रादित्युक्तम् । स की(ही)दृग्रौद्र इति क्रमं केचिदाहुः ॥ (63)
:ह् इति करुणरसप्रकरणम् ॥
:ह् अथ रौद्ररसप्रकरणम् ॥
अधुना रौद्ररसं लक्षयति -- अथ रौद्रो नामेति । आत्मग्रहणस्यायमाशयः । अन्यायकारिता प्राधान्येन क्रोधस्य विषयः । तादृशि च जने सर्वो(र्वे) ऽपि मनोरथैरपि रुधिरपानमपि नामाद्रियन्ते । तथा चाह लोकः -- तादृशो यदि लभ्यते तत्तदीयं रुधिरमपि पीत्वा न तृप्यते । महाकविना भासेनापि स्वप्रबन्ध उक्तः --
`त्रेतायुगं तद्धि न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः ।
लब्धा जनस्तु यदि रावणमस्य कायं प्रोत्कृत्य तन्न तिलशो न (1)वितृप्तिगामी ॥' इति ।
तेन हास्यवत्साधारणविभावत्वाच्चर्वणापि क्रोधमय्येवेति तद्रसनाचरणौ(शरणो) रौद्रः क्रोधात्मक एव । उद्रिक्तं हन्तृत्वं येषां तु उद्धताः । तद्वेषधारिणो ये नटास्ते । प्रकृतिश्चर्वणोदयहेतुरस्य । अत्र व्याचक्षते -- युद्धहेतुक उद्धतमनुष्येषु भीमसेनादिषु रुधिरपानादिलक्षणः । रक्षोदानवास्तु स्वभावरौद्रा इति । तदसत् । भीमस्य रुधिरपानं न युद्धहेतुकम् । अपि तु विपर्ययेण । उद्धतस्वभावत्वादेव ह्यसौ क्रोधपरवशः सन्ननुचितमपि प्रतिज्ञातवान् । तन्निर्वाहायैव च

[(मू)]

1. ड॰ त॰ मनुष्यप्रभवः ।

2. न॰ म॰ स च घर्षणाधिक्षेपामर्षकृतानृतवचनोपघात ।

3. न॰ त॰ छेद्यभेद्यप्रहरणापहरण ।

4. ढ॰ सम्पादन ।

[(व्या)]

1. वितृप्तिमेति ।

[page 319]




[NZ]

कर्माणि(2) । पुनश्च रक्तनयनभ्रुकुटीकरण(3)दन्तोष्ठपीडनगण्डस्फुरणह(4)स्ताग्रनिष्पेषादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
[ABh]

राक्षसाधिष्ठानमस्य कविना वेणीसंहारे वर्णितम् । तस्मात्सर्व एवैते स्वभावात् क्रोधनाः । तदनुसारिणि नटे रौद्र आस्वाद्यत इति मनुष्यप्रकृतिः(1) । सङ्ग्रामहेतुक इति चायमर्थः -- युद्धस्य कविनटप्रदर्श्यमान(स्य) हेतुकः कुस्तितहेतुधी(ति)रोहितः । तस्योचितो हेतुर्न क्रोधः । तथा च प्राधान्येन युद्धेन वीर एव व्यपदेक्ष्यते ।
नन्वेते स्वभावक्रोधना अपि किमुद्दीपनमपेक्षन्ते । ओमित्याह -- स चेति । क्रोधादि परकर्तृकम् । आघर्षणं दारादिखलीकरणम् । अधिक्षेपो देशजात्यभिजनविद्याकर्मनिन्दा । अनृतस्य कस्याप्यपसत्यस्य वचनम् । उपघातो गृहभृत्याद्युपमर्दनम् । वाक्पारुष्यं वधाद्युपन्यासेन तर्जनम् । अभिद्रोहो जिघांसा । मात्सर्यं गुणेष्वसूया । आदिग्रहणाद्राज्यापहारणादि । एतैरुत्पद्यते कविना विबहवत्वेन वर्ण्यमानैः ।
अस्य ताडनादीनि कर्माणि रक्तनयनादयो ऽनुभावा इति पृथङ्निरूपणं तुल्ये ऽप्यनुभावत्वे विशेषख्यापनार्थम् । विशेषस्तु पूर्वेषां वचनमात्रेण व्यावर्णनम् । रङ्गे प्रत्यक्षतो ऽप्रदर्शनीयत्वात् । यद्वक्ष्यते --
`युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव ।
अप्रत्यक्षकृतानि प्रवेशकैः संविधेयानि ॥' इति ॥ (ना॰ शा॰ 18-38)
रक्तनयनादि रङ्गे प्रत्यक्षेण कृतम् ।
प्रहरणाहरणं(2) तु पूर्वत्र प्रमादपठितमिति केचित् । इदं तु पृथगभिधाने तुच्छं प्रयोजनम् । अयं चात्राशयः -- रक्षोदानवोद्धतमनुष्या उद्दीपनहेतुभिर्विनापि चेष्टितमात्रं यदपि कुर्वते नर्मगोष्ट्याद्यपि च तत्र ताडनादि प्रधानम् । तद्वक्ष्यति -- `यच्च किञ्चिदारभन्ते' इति । उद्दीपनसम्भवे ताडनादिग्रस्त एव रक्तनयनाद्यधिकीभवति । अत एव पुनश्शब्दः । तत्र ताडनं तलाद्यभिघातः । पाटनं द्विधाकरणम् । पीडनं मर्दनम् । (छेदनं) कर्तनम् । भेदनं परस्परमित्या(रमैत्र्या)दिवियोजनम् । भावे ण्यदन्तौ । प्रहरणानामासमन्ताद्धरणम् ।

[(मू)]

1. प॰ त॰ रुधिरास्रावणाद्यानि । त॰ रुधिराकर्षणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । पुनश्च ।

2. ड॰ म॰ कार्याणि ।

3. ड॰ म॰ मण्डचालन ।

4. त॰ अग्रहस्त ।

[(व्या)]

1. म॰ स तस्य प्रकृ । भ॰ मतस्य प्रकृ ।

2. म॰ भ॰ प्रहरणं तु

[page 320]




[NZ]

(1)भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्व(2)स्वेदवेपथुरोमाञ्चगद्गदादयः(3) ।
अत्राह -- यदभिहितं (4)रक्षोदानवादीनां रौद्रो रसः । किमन्येषां (5)नास्ति । उच्यते -- अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारो ऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । क(6)स्मात् । बहुबाहवो बहुमुखाः(7)
[ABh]

शास्त्रस्य सम्पातनमविदारयतो ऽपि । संप्रहरणं विदारयतः पातनम् । तेन रुधिरस्याकर्षणम् । रक्षःप्रभृतयो हि नर्मणापि प्रहरन्ति । किन्तु रुधिरागमनमात्रफलं न त्वधिकम् । रक्ते च तेन नयने । भ्रुवोर्मूलसमुत्क्षेपो भ्रुकुटी । दन्तोष्ठस्य यथायोगं पीडनम् । हस्ताग्रयोरन्योन्यनिष्पेषः सङ्घर्षणम् ।
भावा इति व्यभिचारिणः । असंमोहः सम्मोहविपरीतः । विरोधे न । तत्रावृत्तिसङ्गृहीतः सम्यग्बोधः । उत्साहो ऽत्र व्यभिचारी । क्रोधस्य प्राधान्येन रसनीयत्वात् । स्वेदादयो बाह्याः । आभ्यन्तराः सात्त्विका(क)भावे ऽपि विषस्पर्शज्वरादिना भवन्ति । ततो ऽनैकान्तिकाः । आन्तरा अनुद्रिक्ता व्यजनग्रहणादिभिरुद्रिक्ताः । बाह्यैः स्वेदादिभिर्व्यक्ता व्यभिचारिरूपाः पठिताः ।
एष्वेव रौद्ररस इत्यभिप्रायं गृहीत्वा चोदक आह -- यदभिहितमिति । सिद्धान्ती त्वेषु रौद्रो भवत्येवेत्यभिप्रायेणाह -- अस्त्यन्येषामिति । अन्येषां कविनटाभ्यां प्रयुज्यमानानां सम्बन्धिजन्यत्वेन । अधिकारो ऽनुवृत्तिः । अत्रेति -- राक्षसादिषु । एतदेव व्यनक्ति -- ते हीति । स्वभावशब्दानन्तरमेवकारेण भवन्त्येवेत्ययोगव्यवच्छेद एव सूचितः । स्वयं तेषां भवनं तत इत्यर्थः । तेनाङ्गरौद्रोपन्यासो ऽप्यविरुद्धः । अन्यथा स्वभावरौद्र एव रक्ताक्षादिभिरभिधेयः स्यात् । न बहुबाहुमुखादि । तत्र राक्षसादयो ऽपि न परिजने सदा क्रुद्धा इति प्रतीयन्त इत्याशयेनाह -- कस्मादिति ।

[(मू)]

1. न॰ म॰ त॰ व्यभिचारिणश्चास्य सम्मो । द॰ अ॰ भावाश्चास्य संमोह ।

2. म॰ तौग्र्यस्वेद ।

3. ब॰ त॰ दरोमाञ्चादयः ।

4. ड॰ म॰ राक्षसादीनाम् । त॰ द॰ क्षोदानवानाम् ।

5. म॰ त॰ रौद्ररसः स किमन्यासां प्रकृतीनां नास्तीति । अत्रोच्यते । न॰ मानवप्रकृतीनां नास्तीति ।

6. अ॰ यस्मात् ।

7. अ॰ बहुशीर्षा बहुमुखाः ।

[(व्या)]

[page 321]




[NZ]

प्रोद्धूतविकीर्णपिङ्गलशिरोजाः रक्तोद्वृत्तविलोचना(1) भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभाव(2)चेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । (3)शृङ्गारश्च तैः प्रायशः प्रसभं सेव्यते । तेषां
चानुकारिणो(4) ये (5)पुरुषास्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसो ऽनुमन्तव्यः ।
अत्रानुवंश्ये आर्ये भवतः ----
[ABh]

अत्रोत्तरं बहुबाहव इति । लोकप्रसिद्धाकारविपरीतो हि तेषामाकारः । तत्र च परविनाशनाभिसन्धिजनितं तपश्चर्यादिकं दृष्टं वा कर्म तेषां व्याप्रियते । अतस्तादृशेष्वदृ(षु दृ)ष्टेषु स एव क्रोधात्मको ऽभिसन्धिर्गम्यत इति सामाजिकानां नान्तर्दृ(कानान्तु दृ)श्यते रौद्रास्वादः । तेन च रागादिव यत्क्रोधकाले दृष्टं तत्सदैव तेषामुद्वृत्तं तारकयोः रक्तविलोचनम् । अत एव भीममसितं कृष्णं सदैव रूपं येषाम् । नित्ययोग इनः । अत एव(1) बहुवचनबहुव्रीहिरत्र कृतः ।
न केवलं कायस्तदीय इत्थं यावच्चेष्टितमपि तदीयं दृश्यमानं रौद्रास्वादजनकमेवेति दर्शयति -- यच्चेति । स्वभावेनेति(वेति) । चित्तस्याविकारे ऽपि यच्चेष्टितं वाचिकं कायिकं वा तदेषां ताडनादिप्रधानमिति दृश्यमानं काव्ये प्रयोगे च रौद्रास्वादहेतु । वागङ्गे आदिकारणे यस्य । मानसं तु चेष्टितमप्रत्यक्षत्वान्नोक्तम् ।
सर्वमिति यदुक्तं तत्स्फुटयति -- शृङ्गारश्चेति । शृङ्गारशब्देनात्र तद्विभावः प्रमदोद्यानादिः । सो ऽपि तैः प्रसभमिति क्रूराकारतया सेव्यते । यत्रौग्र्यस्य वर्जनमुक्तं किं पुनरन्यदिति चशब्दस्यार्थः । तथा `आः सीते पतिगर्वविभ्रमह(भ)रभ्राम्यद्भ्रु' इत्याद्युदाहरणम् । तथा नानादेवावि `गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त'(बाल॰ रामा॰ 5-52) इति रौद्ररसत्वेन कदाचिदनुनयेनापीति दर्शयति -- प्रायश इति ।

[(मू)]

1. त॰ अ॰ ब॰ विलोचनभीमांसित ।

2. त॰ स्वभावे ।

3. म॰ इदं वाक्यं नास्ति ।

4. ड॰ म॰ अनुगामिनो ।

5. न॰ त॰ ये ऽप्युद्धताः पुरुषाः । अ॰ पुरुषा उद्द्धताः ।

[(व्या)]

1. म॰ एव च न बहुव्रीहि ।

[page 322]




[NZ]

1युद्धप्रहारघा2तनविकृतच्छेदनविदारणैश्चैव । BhNZ_06_064ab
संङ्ग्रामसम्भ्रमा3द्यैरेभिः सञ्जायते रौद्रः4 BhNZ_06_064cd
नानाप्रहरणमोक्षैः5 शिरःकबन्धभुजकर्तनैश्चैव । BhNZ_06_065ab
6एभिश्चार्थविशेषैरस्या7भिनयः प्रयोक्तव्यः ॥ BhNZ_06_065cd
इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । BhNZ_06_066ab
शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ BhNZ_06_066cd
[ABh]

ननूद्धतमनुप्येषु तर्हि कथं रौद्रादिविकारः । न हि ते बहुत्वादियुक्ता इत्याशङ्क्याह -- तेषां चेति । राक्षसादीनाम् । अनुकारिण इति । तामसप्रकृतितया तत्सदृशा अनुगामित्वेन मन्तव्या इत्यर्थः । कथमित्याह -- सङ्ग्रामसम्प्रहारग्रहणेन पूर्वोक्तं ताडनपाटनादि गृह्यते । तेन बहुबाहुत्वाद्यभावे ऽप्युद्धतमनुष्या वागङचेष्टितेन क्रोधोचितेन रौद्रप्रकृतय इति लक्ष्यन्ते । एवं रक्षोदानवेत्यादावयोगव्यवच्छेदो निश्चितः । अन्ये ऽपि तु वीरप्रधाना अश्वत्थामजामदग्न्यादयः । तेषु कारणमहिम्ना भवत्येव क्रोधो रौद्रास्वादयग्यः । राक्षसादीनामपि च हासशोकादिः स्वकारणोदितो ऽभिभूतक्रोधः । हास्यकरुणादेश्चेह योगो भवत्येव । तेनैषां न रौद्र एव रसः । अनु सामाजिकानां तथाभूतराक्षसादिदर्शने कथं क्रोधात्मक आस्वादः । उच्यते -- हृदयसंवाद आस्वादः । क्रोधे च हृदयसंवादस्तामसः प्रकृतीनामेव सामाजिकानामिति दानवादिसदृशास्तन्मयीभूता एवान्यायकारिविषयं क्रोधमास्वादयन्तीति न किञ्चिदवद्यम् ।
विकृतं यच्छेदनं व्यङ्गादिकरणं युद्धादीति परेण क्रियमाणौचित्यम् । तेन युद्धाद्यनुमितस्य परक्रोधादेर्विभावत्वमुक्तम् । सङ्ग्रामाय सम्भ्रमः शस्त्राहरणे त्वरा ।
अनुभावानाह -- नानेति । मारणप्राधान्यं नानाप्रहरणेन दर्शयति । शिरःकर्तनादिहृतशरीरस्यापि क्रोधातिशयं सूचयन्वीराद्भेदमाह । युद्धवीरेऽपि हि तन्नास्ति । इह तु

[(मू)]

1. ड॰ म॰ सत्त्व ।

2. ब॰ पात । म॰ घातौ विच्छेदविदारणैश्चैव ।

3. अ॰ सम्भवार्थैः । म॰ सम्भ्रमोत्थैः ।

4. त॰ रौद्ररसो नाम सम्भवति ।

5. अ॰ म॰ सङ्कुलशिरः ।

6. त॰ अ॰ एभिस्त्वर्थ ।

7. त॰ म॰ अ॰ षैस्तस्या ।

[(व्या)]

[page 323]




[NZ]

अथ (1)वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनयविनयबल(2)पराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्याग(3)वैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । (4)भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः(5) ।
अत्रार्ये(6) रसविचारमुखे ----
[ABh]

वक्ष्यते -- उग्रकर्मेति । उग्राण्यौग्र्यप्रधानानि यानि शिरःकर्तनादीनि तेषां या क्रिया अभिनीतिः सा आत्मा प्रधानं यस्येति । भरतमुनिस्त्वेकेन श्लोकेनोपसंहरति -- इति रौद्ररस इति ॥ (66)
:ह् इति रौद्ररसप्रकरणं समाप्तम् ।
:ह् अथ वीररसप्रकरणम् ।
क्रमप्राप्तं वीरं लक्षयति -- (अथ वीरेति) युद्धवीरे हि संग्रामसम्प्रहारयोगो रौद्रे ऽपीति वीरे जिघांसेति । आनन्तर्यमथशब्देनाह । उत्तमानां प्रकृतिः स्वभावो यत उत्साहो ऽतो वीररसो ऽपि तथा । यदि वा काव्ये नाट्ये च प्रयुज्यमान उत्तमप्रकृतिर्हेतुर्यस्य । उत्तमवर्णानां हि सर्वत्रोत्साह आस्वाद्यो भवति । अत एव चतुर्ष्वपि नायकेषु वी(धी)रत्वमनुयायित्वेन वक्ष्यते धीरोदात्त इत्यादि । तत्र सर्वो जन उत्साहवानेव । किन्त्वविषय इत्यनुपदेश्यचरितता(1) । यदीयं तु चरितमुपदेशार्हं तेषामुचित एवावसरे उत्साहाभिव्यक्तिः । उचितत्वं चावसरस्यासंमोहादिसम्पत्तिरिति सैव विभावत्वेनोपदिष्टा । असंमोहेनाध्यवसायो हि उत्साहकारीत्यसत् । अशब्दार्थत्वात् । तत्रापि च पराक्रमनयादिरेव विभावः । सन्ध्यादिगुणानां सम्यक्प्रयोगो नयः । इन्द्रियजयो विनयः । बलं हस्त्यश्वरथपादातम् ।

[(मू)]

1. त॰ वीररसो ।

2. ड॰ म॰ बहुल ।

3. न॰ त॰ धैर्यत्यागशौर्यवीर्यवैशारद्यादिभिः ।

4. ड॰ म॰ सञ्चारिभावाश्चास्य । त॰ म॰ व्यभिचारिणश्च ।

5. ड॰ रोमाञ्चप्रतिबोधादयः ।

6. त॰ म॰ अत्रानुवंश्ये आर्ये भवतः । अ॰ द॰ अत्रार्ये ।

[(व्या)]

1. म॰ भ॰ चरिता ।

[page 324]




[NZ]

उत्साहा(होऽ)ध्यवसायादविषादित्वादविस्मयामोहात् । BhNZ_06_067ab
विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ BhNZ_06_067cd
स्थि1तिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । BhNZ_06_068ab
वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ BhNZ_06_068cd
[ABh]

पराक्रमः परकीयमण्डलाद्याक्रमेणावस्कन्दः । युद्धादिके सामर्थ्यं शक्तिः । प्रतापः शत्रुविषये सन्तापकारिणी प्रसिद्धिः । प्रभावो ऽभिजनधनमन्त्रिसम्पत् । आदिग्रहणेन यशःप्रभृति । एते च सम्पूर्णस्वभावा एव विभावा भवन्ति । उत्तमस्य कदाचित्कश्चिदधिक इति पृथक्पृथगुदाहरणम्(1) । वस्तुतो ह्यत्रोदाहरणं सर्वमेव रामादिचरितम् । सचिवायत्तसिद्धौ च वत्सराजप्राये नायके यथायोगं सचिवगता अप्येते मन्तव्याः । प्रतिनायकगता अपि च ते उत्साहव्यञ्जका इति यथायोगं व्यस्तसमस्तभेदकल्पनं कविना कार्यम् ।
स्थैर्यमचलनम् । गाम्भीर्यकृतं संवरणं धैर्यम् । शौर्यं युद्धादिक्रिया । त्यागो दानम् । वैशारद्यं सामाद्युपायचतुष्कस्यैकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनम् ।
विविधधर्मादिलक्षणमर्थनीयं विशेषमभिसन्धाय (2)अविषादित्वादविस्मयादमोजाच्च यो ऽध्यवसायो निश्चयः स चोत्साहयतीत्युत्साहः ।
एतदुक्तंव् भवति -- आपद्यङ्गक(त्सङ्गति)निमग्नतां स्वल्पे सन्तोषं मिथ्याज्ञानं चापास्य यस्तत्त्वनिश्चयः स एवोत्साहहेतुः प्रधानतया । रौद्रे तु तमःप्राधान्यादशास्त्रीयानुचितबन्धाद्यपीति मोहविस्मयप्राधान्यम् ।
स्थितिः स्थैर्यम् । वीर्यं शौर्यम् । गर्वपदेन तदनुभावो लक्ष्यते । उत्साहनमुत्साहो ऽबलस्य विषण्णप्रायस्योत्तेजनं यथा सेतुबन्धकाव्ये । पराक्रमः पराक्रमणा । इत्थमत्र भवद्भिरासितव्यं योद्धव्यमिति बलस्य व्यापारणादितिकर्तव्यानां भृत्यानां प्रभावना प्रभावसम्पादनम् । आक्षेपो वस्त्वन्तरस्य सूचनं तेन कृतानि तत्प्रधानानि यानि वाक्यानीति गम्भीरदुरवगाहार्थत्वं वाक्यानामित्युक्तम् ॥ (68)
:ह् इति वीररसप्रकरणं समाप्तम् ।

[(मू)]

1. अ॰ ब॰ स्थितिशौर्यवीर्यधैर्यैरु । म॰ स्मृतिशौर्य ।

[(व्या)]

1. भ॰ रणमसत् ।

2. म॰ भ॰ य॰ विषा ।

[page 325]




[NZ]

अथ भयानको नाम भयस्थायिभावात्मकः(1) । स च (2)विकृतरवसत्त्वदर्शनशिवोलूक(3)त्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्धदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरणनयन(4)चपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
(5)भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेगचापलजडतात्रासापस्मारमरणादयः ।
अत्रार्याः(6) ----
[ABh]

:ह् अथ भयानकप्रकरणम् ।
वीरस्य भीतावयव(भीताभय)प्रधानत्वाद्भयानकं लक्षयति -- अथेति । विकृतो रवो ऽट्टहसादिः । सत्त्वानां पिशाचानां दर्शनम् । त्रासोद्वेगौ परगौ । शून्यागारस्यारण्यस्य च गमनं प्राप्तिः । स्वजनस्य यौ वधबन्धौ तयोर्दर्शनं प्रत्यक्षेण । श्रवणमागमेन । कथादि अतिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् ।
वेपितुं प्रवृत्तं यत्करचरणं आ(तदा)दिकर्मैव भयव्यञ्जकं व्याध्यादिवैलक्षण्यसूचनात् । पुलको रोमकूपोन्नतिः । स्वरस्य भेदः स्वभावविपर्ययः ।
गुरुनृपयोरिति । अयमाशयः -- भयं तावत्स्त्रीनीचबालादिषु वक्ष्यते । नोत्तममध्यमप्रकृतिषु । ते ऽपि गुरुभ्यो राज्ञश्च भयं दर्शयेयुः । तदाभा(द्भा)वे ऽप्येवं सुतरामुत्तमत्वं भवति । अप्रभुत्वं चामात्यानाम् । यथाह -- `स्वेच्छाचारी भीत एवास्मि' इति । (रत्ना॰ 1-7) । अनुभावाश्च तथा श्रिष्टास्तत्र क्रियन्ते लोके येन सत्यत एव भीतो ऽयमिति

[(मू)]

1. न॰ त॰ भावप्रभवः ।

2. द॰ अ॰ विकृतवेषदर्शनशिवोलूक । त॰ विqतरससत्त्वदर्शनशिवोलूकोल्कात्रासोद्वेगशून्यागारारण्यश्मशानशून्यभवनगमनमरणस्वजनवधबन्धदर्शनश्रवणकथाभिर्विभावैः समुत्पद्यते ।

3. म॰ त्रासोद्वेगारण्यश्मशानशून्यभवनप्रवेशमरण ।

4. ढ॰ ब॰ चलनमुखगात्रपुलकमुख । द॰ ब॰ नयनवलनपुलकमुख ।

5. म॰ त॰ व्यभिचारिणश्चास्य शङ्कादैन्यावेगचापलजडतात्रासापस्मारमरणादयः । स्तम्भस्वेदरोमाञ्चगद्गदवेपथुस्वरभेदवैवर्ण्यादयः सात्त्विकाश्च । अत्राप्यार्या भवन्ति ।

6. म॰ अत्रानुवंश्या आर्या भवन्ति ।

[(व्या)]

[page 326]




[NZ]

विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । BhNZ_06_069ab
गुरुनृपयोरपराधात्कृतकश्च 1भयानको ज्ञेयः ॥ BhNZ_06_069cd
2गात्रमुखदृष्टिभेदै3रूरुस्तम्भा4भिवीक्षणोद्वेगैः । BhNZ_06_070ab
सन्नमुखशोषहृदय5स्पन्दनरोमोद्गमैश्च भयम् ॥ BhNZ_06_070cd
एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । BhNZ_06_071ab
पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥ BhNZ_06_071cd
करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन6 BhNZ_06_072ab
शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ BhNZ_06_072cd
[ABh]

गुर्वादीनां प्रतीतिर्भवति । अस्वाबहविकत्वाच्च कृतकत्वं बहुतरकालानुवर्तनेनास्वाद्यत्वाच्च रसत्वम् । न च व्यभिचारित्वम् । तद्धि तदा स्याद्यदि स्वभावत एव [न] कि(1)ञ्चित्काललवमुत्पाद्यते [न] ॥ 69)
गात्रादीनां भेदो वर्णकर्मसंस्थानादिविपर्ययः । वीक्ष्यमति(भि)क्र(क्रा)म्यति वीक्षणं का(2)न्दिशीकत्वेन निर्लक्षचक्षुःकृतम्(3) । उद्वेगः चलनम् । सादो गात्राणां स्रस्तता । मुखस्य तालुनि शोषः । हृदयस्पन्दनमतिवेगेन । इह(4) भयमित्यभिनेयमिति वीररस इत्यार्यातः सम्बध्यते ।
ता एता ह्यार्या एकप्रघट्टकतया पूर्वाचार्यैर्लक्षणत्वेन पठिताः । मुनिना तु सुखसङ्ग्रहाय यथास्थानं निवेशिताः ।
सत्त्वसमुत्थमिति । सत्त्वं मनस्समाधानं तज्जन्मकमिति नटस्येयं शिक्षा ।
सा च सर्वविषयेति टीकाकारः । तदिदमसत् । कविनटशिक्षार्थमेव सर्वमिदं प्रकरणम् । लोके विभावानुभावाभिनयादिव्यवहाराभावात् । तस्मादयमत्रार्थः -- एतत्तावद्भयं

[(मू)]

1. ढ॰ तथा बुधैर्ज्ञेयः ।

2. प॰ गोत्र ।

3. न॰ त॰ दृष्टिकम्पै ।

4. न॰ अ॰ स्तम्भादि ।

5. अ॰ हृदये ।

6. न॰ वेपनेन स्तम्भेन च गात्रहृदयकम्पेन । त॰ म॰ करचरणवेपनकृतैर्गात्रस्तम्भैश्च हृदयकम्पेन । ब॰ गात्रसङ्कोचहृदयकम्पेन ।

[(व्या)]

1. भ॰ कश्चित् ।

2. म॰ भ॰ क्षणकादर्शक ।

3. म॰ भ॰ कृताः ।

4. भ॰ गेन । भय ।

[page 327]




[NZ]

अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स(1) चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य स(2)र्वाङ्गसंहारमुखविकूण(3)नोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः(4) ----
[ABh]

स्वभाजनं रजस्तमःप्रकृतीनां नीचानामित्यर्थः । ये ऽपि च सत्त्वप्रधानस्तेषां सत्त्वसमुत्थं प्रयत्नकृतमेभिरेवानुभावैः कार्यम् । किन्तु मृदुचेष्टितैः यतस्तत्कृतकम् । पुनःशब्दो विशेषद्योतकः । ननु च राजादि किमिति गुर्वादिभ्यो भयं कृतं(तकं) दर्शयति । दर्शयित्वा किमिति मृदून् गात्रकम्पनादीन्प्रदर्शयति । किमिति च भयानक एव कृतकत्वमुक्तम् । सर्वस्य हि कृतकत्वमुक्तं भवति । यथा वेश्या धनार्थिनीति कृतकां रतिमादर्शयति -- इत्याशङ्क्य साधारणमुत्तरमाह -- तथैव कार्यमिति । भये हि प्रदर्शिते गुरुर्विनीतं जानाति । मृदुचेष्टितया चाधमप्रकृतिमेनं गणयति । कृतकशृङ्गारा(रात्) वेश्योपदिष्टानां न काचित्पुरुषार्थसिद्धिः । तेनैव ह्युक्तेन प्रकारेण का(1)र्यपुरुषार्थविशेषो लभ्यते । यत्र तु राजा न कृतकं परानुग्रहाय क्रोधविस्मयादीन्दर्शयति तत्र व्यभिचारितैव तेषां न स्थायितेत्येतदर्थसूचिकामेव गुरुवंशान्तरप्रसिद्धामार्यां पठति -- करचरणेति । नित्यमिति । कृतकत्वे ऽकृतकत्वे च ॥ (72)
:ह् इति भयानकप्रकरणम् ॥
:ह् अथ बीभत्सरसप्रकरणम् ॥
अवसरप्राप्तं बीभत्सरसं लक्षयति -- अथेति । हृदयस्यापि किञ्चित्कस्यचिन्निसर्गतो ऽप्रयतं(तो ऽप्रियं)लशुनमिव द्विजानाम् । अप्रियं जात्यादिदोषात् । यथा श्लेष्मोपहतस्य क्षीरम् । अचोक्षं स्वरूपेणादुष्टमपि तु मलाद्युपहतम् । अनिष्टं यत्नानिशं भुक्त्वेनेच्छा(2) निवृत्ता । संहारः पिण्डीकरणम् । मुखस्येति तदङ्गानां सङ्कोचनम् । उल्लेखनमुल्लाघः ।

[(मू)]

1. ड॰ चाहृद्याप्रियापेक्षानि । ब॰ अ॰ हृद्याप्रशस्ताप्रियावेक्षा ।

2. म॰ सर्वाङ्गसंप्रहार । ज॰ सर्वाङ्गसङ्कोच ।

3. म॰ मुखनेत्रविकूणन ।

4. ढ॰ ब॰ अत्रार्ये भवतः ।

[(व्या)]

1. म॰ कार्यः ।

2. म॰ भ॰ च्छादिवृत्ता ।

[page 328]




[NZ]

1अनभिमतदर्शनेन च 2गन्धरसस्पर्शशब्ददोषैश्च । BhNZ_06_073ab
3उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ BhNZ_06_073cd
मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः4 BhNZ_06_074ab
अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः5 BhNZ_06_074cd
अथा(6)द्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्यु(7)पवनदेवकुलादिगमनसभाविमानमायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्धहाहाकारबाहुवदनचेलाङ्गुलि(8)भ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । (9)भावाश् चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रम(1)जडताप्रलयादयः ।
[ABh]

निष्ठीवनं कफनिरासनम् । उद्वेजनं गात्रोद्घूननम् । नासाप्रच्छादनं दुर्गन्धप्राये दृष्टम् । प्रतिघातादव्यक्तानि पादयोः पतनानि । यदि वास्थिकङ्कालाद्याकुले पितृवने सञ्चरतो ऽस्फुटितानि पादपतनानि क्वचिद्दीर्घानि अन्यत्र ह्रस्वानि इति ॥ (74)
:ह् इति बीभत्सरसप्रकरणम् ॥
:ह् अथाद्भुतरसप्रकरणम् ।
सर्वत्रान्ते ऽद्भुत इत्युक्तं लक्षयितुमाह -- अथेति । दिव्या गन्धर्वादयः । ईप्सितः शक्यप्राप्तिरर्थः । अन्यो मनोरथः । तयोः प्राप्तिरुपचयनम् । देवकुले च गमनम् । तस्याद्भुतविभावो येन तत्रत्यं सरसनिवेशादि न क्वचित् दृष्टम् । सभा गृहविशेषः । विमानादीनि दिव्यरथः । माया रूपपरिवर्तनादिका । इन्द्रजालं मन्त्रद्रव्यवस्तुयुक्त्यादिना

[(मू)]

1. त॰ म॰ अनभिहित ।

2. ड॰ म॰ रसगन्ध ।

3. म॰ उद्वेजने च ।

4. म॰ त॰ प्रच्छादनादवनतास्यैः ।

5. म॰ ठ॰ पतनैस्तस्याभिनयः प्रयोक्तव्यः । ड॰ म॰ पतनैः सम्यगभिनयः प्रयोक्तव्यः ।

6. ब॰ अद्भुतो ।

7. ब॰ प्त्युत्तमवनदेवकुलादिगमनसम्भाव्यमानमायेन्द्रजालसंसाधना ।

8. ब॰ कारचेलाङ्गुलि । त॰ प्रमाणादिभिः । ड॰ म॰ करचरणाङ्गुलि ।

9. ड॰ म॰ व्यभिचारिभावाश्चास्य ।

[(व्या)]

[page 329]




[NZ]

अत्रानुवंश्ये आर्ये भवतः ----
यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा2 BhNZ_06_075ab
3तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ BhNZ_06_075cd
4स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । BhNZ_06_076ab
वेपथुगद्गदवचनैः 5स्वेदाद्यैरभिनयस्तस्य6 BhNZ_06_076cd
[ABh]

असम्भवद्वस्तुप्रदर्शनम् । तस्येत्यद्भुतस्य । हर्षशब्देनात्र तदनुभावाः । साध्विति वदनं साधुवादः । दानं धनादेः प्रबन्धं सततं कृत्वा । हाहाशब्दस्य करणम् । चेलस्याङ्गुलेश्च भ्रमणम् ।
अतिशेत इत्यतिशयः । अन्यापेक्षया यो ऽर्थ उत्कृष्टः । तेन वाच्यभूतेन युक्तं यद्वाक्यं यच्च शिल्पं कर्मरूपं कर्मात्मकं, `प्रशंसायां रूपप्' । सर्वमित्येवंप्रकारमिति यावत् । स्पर्शग्रहशब्देन तद्विभावादयः । अभिनयो ल(व)क्ष्यमाणो लक्ष्यते ।
`किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च ।
तथांसगण्डयोः स्पर्शात्स्पर्शमेवं विनिक्षिपेत् ॥' (ना॰ शा॰ 22-77) इति ॥
गात्रस्योर्ध्वं साह्लादं धूननमुल्लुकसनम् । बहुवचनं प्रकृतिभेदेन प्रकारवैचित्र्यं सूचयति ॥ (76)
:ह् इत्यद्भुतरसप्रकरणं समाप्तम् ।
अथ प्रधानभूतविभावानुगुणभावप्रतिपादनं भदप्रदर्शनव्याजेन करोति -- शृङ्गारमित्यादिना । वाक्यरौद्रो हि तत्र स्वभावरौद्र इति व्यवहरिष्यते । स्वभावानुसारित्वाद्वाक्यस्य ।

[(मू)]

1. त॰ संभ्रमप्रहर्षचपलतोन्मादधृति । म॰ जडतामोहमरणादयः ।

2. ड॰ म॰ रूपं च ।

3. ड॰ म॰ एभिस्त्वर्थविशेषै रसो ऽद्भुतो नाम विज्ञेयः । ज॰ तत्संबद्धैः सर्वै रसो ऽद्भुतो नाम ।

4. म॰ त॰ स्पर्शग्रहोग्रहसनै । ब॰ स्पर्शग्रहणैरुल्बकश ।

5. ड॰ म॰ त॰ वचनस्वेदा ।

6. म॰ त॰ नयश्चास्य ।

[(व्या)]

[page 330]




[NZ]

1शृङ्गारं त्रिविधं 2विद्याद्वाङ्नैपथ्यक्रियात्मकम् । BhNZ_06_077ab
अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ 3त्रिधा स्मृतौ ॥ BhNZ_06_077cd
धर्मोपघातजश्4चैव तथार्थापचयोद्भवः । BhNZ_06_078ab
तथा 5शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ BhNZ_06_078cd
दानवीरं धर्मवीरं 6युद्धवीरं तथैव च । BhNZ_06_079ab
रसं7 वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ BhNZ_06_079cd
[ABh]

धर्मोपघातज उत्तमानामपि शोभ(च)नहेतुत्वात् । शोकशब्देन स्वजनादिनासौ चैते(शश्च । एते) त्रयो विभावाः । धर्मशब्देनाग्निष्टोमादिक्रिया । अत एतद्यजनादीनि नि(जनादि नि)यमानुभावात्मकम् । प्रतिनायकगतं तु विभावरूपमपि । व्याजादिति । कृतक इत्यर्थः । अनेनानुभावमार्दवं दर्शितम् । अपराध्यन्तीत्यपराद्धा(धा)श्चोरादयः । यत्तु स्वभावत्रस्तहृदयानां स्त्रीबालादीनां तृणे ऽपि कम्पमाने भयं तद्वित्रासितकम् । विशेषेण त्रास्यत इति वित्रासितो बालादिः । तत्प्रकृतित्वाद्भयानकं तथोक्तम् । ततः संज्ञायां कन् ।
गुर्वाद्यपराधात्परमार्थतो ऽप्युत्तमानां भयावेग(1) इति त्वसत् । भयं हि विनाशशङ्कात्मकं नोत्तमेषु संभवति । यथा च भयं नाम स्त्रीनीचप्रकृतिकमिति सामान्येन ल(मान्ये व)क्ष्यते ।
रुधिरान्त्रादिदर्शनाद्यो बीभत्सः क्षोभणत्वाच्छुद्धः । यस्तु विष्ठादिभ्यः स उद्वेगी हृदयं चलयति सो ऽशुद्धः । अशुद्धविमावकत्वात् । उपाध्यायस्त्वाह -- बीभत्सस्तावद्विभावविशेषात्(2) । यत्र तु संसारनाट्यनायकराग(3)प्रतिपक्षतया मोक्षसाधनत्वाच्छुद्धः । यदाहुः -- `शौचात्स्वाङ्गजुगुप्सा' इति । तथा `वितर्कबाधने प्रतिपक्षभावनम्' (योगसू॰ 2-40,33) इति । तेन सो ऽपि परमार्थतस्त्रिविध एव । द्वितीयक इत्यनेन तस्य दुर्लभत्वेनाप्राचुर्यं सूचयति ।

[(मू)]

1. त॰ पुस्तके इमे श्लोकाः शान्तरसप्रकरणात्परं दृश्यन्ते ।

2. म॰ विद्याद्भूनेपथ्य ।

3. य॰ तथा स्मृतौ ।

4. म॰ घातक ।

5. म॰ योगकृत ।

6. ब॰ युद्धवीरमतस्त्रिधा ।

7. ब॰ रसवीरम । म॰ वीरमपि प्राहुस्तज्ज्ञाः ।

[(व्या)]

1. भ॰ यावह ।

2. म॰ भ॰ षादि ।

3. म॰ भ॰ रङ्ग ।

[page 331]




[NZ]

व्याजाच्चैवापराधाच्च वित्रासितकमेव च । BhNZ_06_080ab
पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ BhNZ_06_080cd
बीभत्सः क्षोभजः1 शुद्ध उद्वेगी 2स्यात् द्वितीयकः । BhNZ_06_081ab
विष्ठाकृमिभिरुद्वेगी क्षोभ3जो रुधिरादिजः ॥ BhNZ_06_081cd
दिव्यश्चानन्दजश्चैव द्विधा ख्यातो ऽद्भुतो रसः । BhNZ_06_082ab
दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ BhNZ_06_082cd
[(4)अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर् विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुभावैर्
[ABh]

दिव्य इति । यत्र सभाविमानादयो ऽनुभावाः । आनन्दयतीत्यानन्दो मनोरथावाप्त्यादिः । स एव हर्षयतीति हर्षः ।
एषु च `शृङ्गारम्' इत्यादिषु श्लोकेषु चकारा वि(1)भावानुभावान्तरनिरासशङ्कां पराकर्तुम् । एवकाराः इयन्त एव तेषां मुख्यत्वेन सङ्गता इति दर्शनार्थाः । तथाशब्दा अनुक्तविभावाद्यूहनार्था इति यथायोगं योज्यम् ॥ (82)
:ह् इत्यद्भुतरसप्रकरणं समाप्तम् ।
:ह् अथ शान्तरसविचारः ।
ये पुनर्नव रसा इति पठन्ति तन्मते शान्तस्वरूपमभिधीयते । तत्र केचिदाहुः -- शान्तः शमस्थायिभावात्मकस्तपस्या(2)योगिसम्पर्कादिभिः विभावैरुत्पद्यते । तस्य कामक्रोधाद्यभावरूपैरनुभावैरभिनयः । व्यभिचारी धृतिमतिप्रभृति (इति) ।
एतदपरे न सहन्ते । शमशान्तयोः पर्यायत्वात् । एकान्नपञ्चाशद्भावा इति सङ्ख्यात्यागात् । किञ्च विभावा ऋतुमाल्यादयस्तत्समनन्तरभाविनि शृङ्गारादावनुसन्धीयन्ते इति युक्तम् । तपो ऽध्ययनादयस्तु न शान्तस्य शमनस्य (शमस्य) [ये] हेतवः ।

[(मू)]

1. त॰ भणः ।

2. म॰ स्यात्तृतीयकः ।

3. त॰ क्षोभणो ।

4. अ॰ म॰ ब॰ पुस्तकेषु शान्तरसग्रन्थो नास्ति । `त'पुस्तक एव विद्यते । न॰ शान्तमिदानीं आख्यास्यामः तत्र --

[(व्या)]

1. म॰ चकाराद्वि ।

2. म॰ भ॰ स्यद्योगि ।

[page 332]




[NZ]

अभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः । अत्रार्याः श्लोकाश्च भवन्ति --
मोक्षाध्यात्म1समुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । BhNZ_06_XXXab
नैःश्रेयसोपदिष्टः2 शान्तरसो नाम सम्भवति3 BhNZ_06_XXXcd
[ABh]

तत्त्वज्ञानस्यानन्तरहेतव इति चेत्पूर्वकरोदित(र्वोदित)तत्त्वज्ञाने तर्हि प्रयोज्यतेति तपोऽध्ययनादीनां विभावता त्यक्ता स्यात् । कामाद्यभावो ऽपि नानुभावः । शा(अशा)न्ताद्विपक्षादव्यावृत्तेः । अगमकत्वात्प्रयोगासममवायित्वाच्च । न हि चेष्टाव्युपरमः प्रयोगयोग्यः । सुप्तमोहादयो ऽपि हि निःश्वासोच्छ्वासपतनभूषणादिभिश्चेष्टाभिरेवानुभाव्यन्ते । धृतिप्रभृतिरपि प्राप्तविपयोपभोगः कथं शान्ते स्यात् । न चाकिञ्चित्करत्वमात्रेण तत्त्वज्ञानोपाये व्युत्पाद्यन्ते । विनेये(1) चैते परदुःखदुःखितमनसो दृश्यन्ते सम्यग्दर्शनसमावस्थां प्राप्ताः । अपि तु संसारे । तन्न शान्तो रस इति ।
अत्रोच्यते -- इह तावद्धर्मादित्रितयमेव(मिव) मोक्षोऽपि पुरुषार्थः । शास्त्रेषु स्मृतीतिहासादिषु च प्राधान्येनोपायतो व्युत्पाद्यत इति सुप्रसिद्धम् । यथा च कामादिषु समुचिताश्चितवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणास्वादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान्प्रतिरसत्वं नानीयत इति वक्तव्यम् । या चासौ तथाभूता चित्तवृत्तिः सैवात्र स्थायिभावः । एतत्तु चिन्त्यम् । किं नामासौ -- तत्त्वज्ञानोत्थितो निर्वेद इति केचित् । तथा हि -- दारिद्र्यादिप्रभवो यो निर्वेदः स ततो ऽन्य एव । हेतोस्तत्त्वज्ञानस्य वैलक्षण्यात् । स्थायिसञ्चारिमध्ये चैतदार्थमेवायं पठितः । अन्यथा माङ्गलिको मुनिस्तथा न पठेत् । जुगुप्सां च व्यभिचारित्वेन शृङ्गारे निषेधन्मुनिर्भावानां सर्वेषामेव स्थायित्व(2)सञ्चारित्वचिन्तनात्ताव(3)त्वानुभावस्थत्वान्नि(भावत्वानि)योग्यतोपनिपातितानिश्श(तानि श)ब्दार्थबलाकृष्टान्यनुजानाति ।
तत्त्वज्ञानजश्च निर्वेदः स्थाप्य्यन्तरोपमर्दकः । भाववैचित्र्यसहिष्णुभ्यो रत्यादिभ्यो यः परमः स्थायिशीलः स एव हि स्थाय्यन्तराणामुपमर्दकः । इदमपि पर्यनुयुञ्जते --

[(मू)]

1. त॰ निमित्तः ।

2. त॰ निःश्रेयससंयुक्तः ।

3. त॰ विज्ञेयः ।

[(व्या)]

1. म॰ विनये ।

2. भ॰ मेव सञ्चारित्व ।

3. भ॰ नात्तापत्वानुभा ।

[page 333]




[NZ]

बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः1 BhNZ_06_XXXab
2सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः3 BhNZ_06_XXXcd
न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । BhNZ_06_XXXab
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ BhNZ_06_XXXcd
भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । BhNZ_06_XXXab
[ABh]

तत्त्वज्ञानजो निर्वेदो[व्यव](दो ऽस्य च) स्थायीति वदता तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यबीजादिषु कथं (1)विभावत्वम् । तदुपायता(त्वा)दिति चेत्कारणकारणो)ऽयं विभावताव्यवहारः । स चातिप्रसङ्गावहः ।
किञ्च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययः । वैराग्यलक्षणस्य च(णः । स च) तत्त्वज्ञानस्य प्रत्युक्तो(तो)पयोगी । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षः । न तु (2)तत्त्वं ज्ञात्वा निर्विद्यते निर्वेदाच्च मोक्ष इति । `वैराग्यात्प्रकृतिलयः ।' इति हि तत्रभवन्तः (ई॰ कृ॰ सांख्यकारिका॰ 45) ।
ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् । तत्रभवद्भिरप्युक्तं -- `तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्' इति (योगसूत्र॰ 1-16) । भवत्येवम् । तादृशं तु `वैराग्यं ज्ञानस्यैव परा काष्ठा ।' इति (व्यासभाष्य॰ 1-16) भुजङ्गविभुनैव भगवताभ्यधायि । ततश्च तत्त्वज्ञानमेवेदं तत्त्वज्ञानमालया परिपोष्यमाणमिति न निर्वेदः स्थायी । किन्तु तत्त्वज्ञानमेव स्थायीति भवेत् । यत्तु व्यभिचारिव्याख्यानावसरे वक्ष्यते तच्चिरकालविभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये । यत्सम्यग्ज्ञानम् --
यथा --
`वृथा दुग्धो ऽनड्वांस्स्तनभरनता गौरिति परं परिष्वक्तः षण्डो युवतिरिति लावण्यरहितः ।
कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥' इति

[(मू)]

1. त॰ तिरोधतो ऽध्यात्मसंज्ञितश्चैव ।

2. त॰ सर्वप्राणिहितः खलु ।

3. ड॰ विज्ञेयः । भवति चात्र श्लोकः --

[(व्या)]

1. म॰ भ॰ उपायम् ।

2. भ॰ तन्त्रं ज्ञा ।

[page 334]




[NZ]

विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ॥ BhNZ_06_XXXcd
स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥ डडड्॥ BhNZ_06_XXXab
पुनर्निमित्तापाये च शान्त एवोपलीयते । BhNZ_06_XXXab
एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विताः ॥ ] BhNZ_06_XXXcd
[ABh]

तन्निर्वेदस्य खेदरूपस्य (1)भावत्वेन । एतच्च तत्रैव वक्ष्यामः ।
ननु मिथ्याज्ञानमूलो विषयगन्धस्तत्त्वज्ञानात्प्रशाम्यतीति दुःखजन्मसूत्रेणाक्षपादपादैर्वदद्भिर्मिथ्याज्ञानापचयकारणं तत्त्वज्ञानं वैराग्यस्य दोषापायलक्षणस्य कारणमुक्तम् । ननु ततः किम् । ननु वैराग्यं निर्वेदः । क एवमाह । निर्वेदो हि शोकप्रवाहप्रसररूपश्चित्तवृत्तिविशेषः । वैराग्यं तु रागादीनां प्रध्वंसः ।
भवतु वा वैराग्यमेव निर्वेदः । तथापि तस्य स्वकारणवशान्मध्यभाविनो ऽपि न मोक्षे साध्ये सूत्रस्थानीयतात्यपादाचारीव (प्रत्यपादि) । किञ्च तत्त्वज्ञानोत्थितो निर्वेद इति शमस्यैवेदं निर्वेदनाम कृतं स्यात् । शमशान्तयोः पर्यायत्वं तु हासहास्याभ्यां व्याख्यातम् । सिद्धसाध्यते यद(तथा लौकिका)लौकिकत्वेन साधारणासाधारणतया च वैलक्ष्यण्यं शमशान्तयोरपि सुलभमेव । तस्मान्न निर्वेदः स्थायीति ।
अन्ये मन्यन्ते रत्यादय एवाष्टौ चित्तवृत्तिविशेषा उक्ताः । त एव कथितविभावविविक्तया(तया) श्रुता(त्या)द्यलौकिकविभावविशेषसंश्रया विचित्रा एव तावत् । ततश्च तन्मध्यादेवान्यतमो ऽत्र स्थायी । तत्राना[(व्या)]हताननमय(तानन्दमय)स्वात्मविषया रतिरेव मोक्षसाधनमिति सैव शास्त्रे(न्ते) स्थायिनीति । यथोक्तम् --
`यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥' इति ॥ (गीता 3-17)
एवं समस्तविषयं वैकृतं पश्यतो विश्वं च शोच्यं विलोकयतः सांसारिकं च वृत्तान्तमपकारित्वेन पश्यतः सातिशयमसम्मोहप्रधानं विनय(वीर्य)माश्रितवतः सर्वस्माद्विषयसार्थाद्बाह्यतः(द्विभ्यतः) सर्वलोकस्पृहणीयादपि प्रमदादेर्जुगुप्समानस्य(स्या)पूर्वस्वात्मातिशयलाभाद्विस्मयमानस्य मोक्षसिद्धिरिति ।

[(मू)]

[(व्या)]

1. भ॰ विभाववत्त्वे ।

2. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः । गौतमन्यायसूत्र (1-1-2) ।

[page 335]




[NZ]

[ABh]

हासा(रतिहासा)दीनां विस्मयान्तानामन्यतमस्य स्थायित्वं निरूपणीयम् । न चैतन्मुनेर्न सम्मतम् । यावदेव हि (1)विशिष्टान्विभावान्परिगणयति आदिशब्देन च तत्प्रकारानेवान्यान्संगृह्णीते तावदेव तद्व्यतिरिक्तालौकिकहेतूपनतानां रत्यादीनामनुजानात्येवापवर्गविषयत्वम् । एवंवादिना तु परस्परमेव विचारयतामेकस्य स्थायित्वं विशीर्यत एव । तदुपायभेदात्तस्य तस्य स्थायित्वमित्युच्यमानं प्रगुणमेव (प्रत्युक्तमेव) । स्थायिभेदेन प्रतिपुरुषं रसस्याप्यानन्त्यापत्तौ मोक्षैकफलत्वादेको रस इति चेत् (2)क्षमै(क्षयै)कफलत्वे वीररौद्रयोरप्येकत्वं स्यात् । अन्ये तु पानकरसवदविभागं प्राप्ताः सर्व एव रत्यादयो ऽत्र स्थायिन इत्याहुः । चित्तवृत्तीनामयुगपद्भावादन्योन्यं च विरोधादेतदपि न मोaनोज्ञम् ।
कस्तर्ह्यत्र स्थायी । उच्यते -- इह तत्त्वज्ञानमेव तावन्मोक्षसाधनमिति तस्यैव मोक्षे स्थायिता युक्ता । तत्त्वज्ञानं च नामात्मज्ञानमेव । आत्मनश्च(श्चा)त्र्यतिरिक्तमिन्द्रिय(क्तं स्याद)स्यैव ज्ञानम् । परो ह्येवमात्मानात्मैव स्यात् । विपञ्चितं चैतदस्मद्गुरुभिः । अस्माभिश्चान्यत्र(1) वितन्यत इतीह नातिनिर्बन्धः कृतः ।
तेनात्मैव ज्ञानानन्दादिविशुद्धधर्मयोगी परिकल्पितविषयोपरागरहितो ऽत्र स्थायी । न चास्य(स्या)स्थायितया स्थायित्वं वचनीयम् । रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमानवि(नि)रुध्यमानवृत्तयः कञ्चित्कालमापेक्षिकतया स्थायिरूपात्मभित्तिसंश्रयाः षट् (सन्तः) स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरभित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वाः रत्यादिकास्स्थायिचित्तवृत्तीर्व्यभिचारीभावयत् निसर्गत एव सिद्धस्थायिभावमिति तन्त्रवचनेन(तन्न वचनीयम्) । अत एव पृथगस्य गणना न युक्ता । न हि खण्डमुण्डयोर्मध्ये तृतीयं गोत्वमिति गण्यते । तेनैकान्नपञ्चाशद्भावा इत्यव्याहतमेव ।
अस्यापि कथं (न) पृथग्गणनेति चेत् पृथगास्वाद(दा)योगादिति ब्रूमहे । न हि रत्यादय इवेतरासम्पृक्तेन(4) वपुषा तथाविधमात्मरूपं लौकिकप्रतीतिगोचरः(रम् ।) स्वगतमप्यविकल(ल्प)रूपं व्युत्थानावसरे ऽनुसन्धीयमानं चित्तवृत्त्यन्तरकलुषमेवावभाति ।
भासतां वा लोके तथा । तथापि न सम्भव(5)न्मात्र(संभावनामात्र)स्थायिनां गणनम् । रसेषूक्तेष्वनुपयोगात् । अपि तु व्यभिचारित्वाल्लक्षणीयत्वं विज्ञायते नेति(नेतरथा) । तथाह्येकान्नपञ्चाशता भावैरित्येतत्प्रघट्टकोपपत्तिः । न चास्यात्मस्वभावस्य व्यभिचारित्व(म)सम्भवादवैचित्र्यावहत्वादनौचित्याच्च । स(श)मा(म आ)त्मस्वभावस्य(वः । स)द(श)म

[(मू)]

[(व्या)]

1. म॰ भ॰ विशेषाद्विभावात् ।

2. म॰ क्षामैक ।

3. भगवद्गीताव्याख्यायाम् ।

4. म॰ रासंवृत्तेन ।

5. भ॰ सम्भावन्भा ।

[page 336]




[NZ]

[ABh]

शब्देन मुनिर्व्य(मुनिव्य)पदिष्टः । यदि तु स एव शमशब्देन(1) व्यपदिश्यते निर्वेदशब्देन(2) वा तन्न कश्चिद्भावः(द्बाधः) । केवलं शमश्चित्तवृत्यन्तरम् । निवेदो ऽपि दारिद्र्यादिविभावान्तरोत्थितनिर्वेदतुल्यजातीयो न भवति तज्जातीय एव । हेतुभेदे ऽपि तद्व्यपदेश्यो रतिभयादिभिरिव ।
तदिदमात्मस्वरूपमेव तत्त्वज्ञानं शमता च(मः । तथा च) यत्कालुष्योपरागविशेषा एवात्मनो रत्यादयः । तदनुगमे ऽपि विशुद्धमस्य रूपमव्यवधानसमाधिबलादधि(3)शय्य व्युत्थाने ऽपि प्रशान्तिता(न्तता) भवति । यथोक्तं -- `(तस्य) प्रशान्तवाहिता संस्कारात्' (योगसू॰ 3-10) इति । तत्त्वज्ञानलक्षणस्य च (4)स्थायिनः समस्तो ऽयं(5) लौकिकालौकिकचित्तवृत्तिकलापो(6) व्यभिचारितामभ्येति । तदनुभावा एव च यमनियमाद्युपकृता अनुभावा(7) उपाङ्गाभिनयस्य (अङ्गिका)ध्यायत्रये च ये स्वभावाभिनया वक्ष्यन्ते । अत एते (8)तद्विषया एव । अयमेव हि स्वभावः । विभावा अपि कथम् । ईश्वरानुग्रहप्रभृतयः । प्रक्षयाश्च(9) रत्र्यादयो ऽस्त्रास्वाद्याः केवलम् । यथा विप्रलम्भे औत्सुक्यं संभोगे ऽपि वा `प्रेमासमाप्तोत्सवम्' (तापसवत्सराज॰ 1-17) इति । यथा च रौद्रे औग्र्यं यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणो ऽपि प्राधान्येनावभासन्ते तथा च जुगुप्सायाम् । सर्वथैव(10) रागप्रतिपक्षत्वात् ।
तथा हि -- महाव्रते नरकपालादिधारणमसु(स्व)भार्यादिसम्मदादिविस्तारसंक्षेपादिकर्मीकृतिर्हि धर्मे जुगुप्साहेतुत्वेनैव । निजाभ्यणं(घृताञ्जनेन) च देवरात्पुत्रजन्माद्युपदिष्टम् ।
स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहो ऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायो ऽभ्यधिको ऽन्तरङ्गः । अत एव तत्केचिद्दयावीरत्वेन व्यपदिशन्ति । अन्ये धर्मवीरत्वेन ।
ननूत्साहो ऽहङ्कारप्राणः । शान्तस्त्वहङ्कारशैथिल्यात् द्वैविध्या(त्तद्विरुद्धा)त्मकः । व्यभिचारित्वं हि विरुद्धस्यापि न नोचितं रताविव निर्वेदादेः ।
`शय्या शाद्वलम्' (आसनं शुचि शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।
इत्यप्रार्थितसर्वलभ्यविभवे दोषो ऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥) (नागानन्द॰ 4-2)

[(मू)]

[(व्या)]

1. म॰ भ॰ शब्दे व्यप ।

2. म॰ भ॰ ब्दे वा ।

3. भ॰ दतिशय्य ।

4. भ॰ णस्यावस्था ।

5. म॰ भ॰ मन्ततो ऽयम् ।

6. म॰ कालोपाध्या ।

7. म॰ भ॰ भावादुपा ।

8. भ॰ एत ।

9. म॰ भ॰ वृक्षयोश्च ।

10. भ॰ सर्वे तथैव ।

[page 337]




[NZ]

[ABh]

इत्यादौ हि परोपकारकरणे ह्युत्साहस्यैव प्रकर्षो लक्ष्यते । न तूत्साहशून्या काचिदप्यवस्था । इच्छाप्रयत्नव्यतिरेकेण पाषाणतापत्तेः । यत एव परिदृष्टपरत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिहानं न शान्तविरोधि । `आत्मानं गोपयेत्' (गौतमधर्मसूत्र॰ 9-35) इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षण(2)मुपदिश्यते । सन्न्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि --
`धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान्निघ्नता किन्न हतं रक्षता किं न रक्षितम् ॥' (हितोपदेश-1-83) इति
सुप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायाः निदानं दर्शितम् । कृतकृत्यस्य `जले `नौ श्वभ्रे वा पतेत्' इति सन्न्यासित्वे श्रवणात् । तद्यथाकथञ्चित्त्याज्यं(2) शरीरं यदि पार्थं न त्यज्यते तत्किमिव[न]सम्पादितं भवति । जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन नः । तत्त्वज्ञानित्वं तावदवश्यमस्ति । अन्यथा देहात्ममानिनां देह एव सर्वस्वभूते(तः) । धर्माद्यनुद्देशेन(3) परार्थे त्यागस्यासम्भावात् । युद्धे ऽपि हि न(4) शरीरस्य त्यागायोद्यमः । परापज(5)योद्देशेनैव प्रवृत्तेः । भृगुपतनादावपि शुभतरदेहान्तरसम्पिपादयिषैवाधिकं विजृम्भते । तत्स्वार्थानुद्देशेन परार्थसम्पत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशादानादि तत्तदलब्धात्मतत्त्वज्ञानानामसम्भाव्यमेवेति ते ऽपि तत्त्वज्ञानिनः । `ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिः' इति स्मार्तेषु श्रुतौ च । यथोक्तम् --
`देवार्चनरतस्तत्त्वज्ञाननिष्ठो ऽतिथिप्रित्यः ।
श्राद्धं कृत्वा(6) ददद्रव्यं गृहस्थो ऽपि हि मुच्यते ॥' इति
केवलं परार्थाभिसन्धिजाद्धर्मात्परोपकारात्मकफलत्वेनैवाभिसंहितात् पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वादीनाम् । तत्त्वज्ञानिनामपि विश्रान्तिलाभस्वभावौचित्यात् । यथा रामस्य वीरोङ्गं पितुराज्ञां पालयितुः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वे ऽप्यप्राधान्यम् ।
जीमूतवाहने त्रिवर्गसम्पत्तेरेव परोपकृतिप्रधानायाः फलत्वात् । अनेनैवाशयेन नाटकलक्षणे वक्ष्यते `ऋद्धिविलासादिभिर्गुणैः' (ना॰ शा॰ 18-11) इति । अनेन हि ऋद्धिविलासप्रधानमर्थकामोत्तरं सर्वं (7)चरितं सकललोकहृदयसंवादसुन्दरप्रयोजनं नाटके निवेशयितव्यमित्युक्तम् । एतच्च तत्रैव वर्णयिष्यामः ।

[(मू)]

[(व्या)]

1. म॰ भ॰ शरीरभूततामुप ।

2. म॰ भ॰ प्राज्यश ।

3. भ॰ द्यनुशेते न ।

4. म॰ युद्धे विहीन । भ॰ बुद्धे विहीनवीरस्य ।

5. म॰ पराजयो ।

6. श्राद्धी चरेदविद्यावित् ।

7. भ॰ सर्वं खल्विदं सक ।

[page 338]




[NZ]

[ABh]

अनेनैव चाशयेन न शान्ते कश्चन (क्वचन) मुनिना जात्यङ्गको(1) विनियोक्ष्यते । तेन जात्यङ्गकविनियोगाभावात्तदसत्त्वमिति प्रत्युक्तम् ।
अन्ये तु जीमूतवाहनः `कस्ते पुत्र त्राता भविष्यति' (नागानन्द॰ 4-9) इति शरणार्थिनीं वृद्धामेव त्रातवान् । शक्तिश्चास्य न काचित् । परहिंसा च न काचिदित्येवमाहुः । तच्चानुमतमेव । न हि बोधिसत्त्वानां पुनरप्युत्थानात्मकजीवितमभिसन्धानानुप्रविष्टं शक्तिश्चेदिति (श्चेति) । न च काकतालीयवृत्त्या शास्त्रमुपदिशति । तत्सिद्धं दयालक्षणो ह्युत्साहो ऽत्र प्रधानम् ।
अन्ये तु व्यभिचारिणो यथायोगं भवन्ति । यथोक्तं `तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।' (योगसू॰ 4-27) इति । अत एव निश्चेष्टत्वादनुभावाभाव इति प्रत्युक्तम् । यदा तु पर्यन्तभूमिकालाभहेतुभावाभाव(हेतुभाव)स्तदास्याप्रयोज्यत्वम् । रतिशोकादावपि पर्यन्तदशायामप्रयोगस्यैव युक्तत्वात् । हृदयसंवादो ऽपि तथाविधतत्त्वज्ञानबीजसंस्कारभावितानां भवत्येव । यद्वक्ष्यति `मोक्षे चापि विरागिणः' (ना॰ शा॰ 27-58) इति । `सर्वस्य तु'(ना॰ शा॰ 1-107) इत्यत्र हृदयसंवादे भयानके वीरप्रकृतेरभावात् ।
ननु तादृशि प्रयोगे वीरस्य क आस्वादः । उच्यते -- यत्रेयं(त्रायं) निबध्यते तत्रावश्यं पुरुषार्थोपयोगि(2)शृङ्गारवीराद्यन्यतममस्त्येव । तन्निष्ठस्तेषामास्वादः । यत्रापि प्रहसनादौ हास्यादेः प्रधानता तत्राप्यनुनिष्पादिर(3)सान्तरनिष्ठ एवास्वादभिन्नादिकार्यम् ... ... धिकादो ऽप्युद्देशे दैवरूपक(एवास्वादो भिन्नभिन्नाधिकारिणः । एतदुद्देश एव रूपक)भेदचिन्तननिमित्तमिति केचित् ।
तस्मादस्ति शान्तो रसः । तथा च चिरन्तनपुस्तकेषु `स्थायिभावान् रसत्वमुपनेष्यामः' (ना॰ शा॰ पु॰299) इत्यनन्त्रं `शान्तो नाम शमस्थातिभावात्मकः' (ना॰ शा॰ पु॰332) इत्यादिशान्तलक्षणं पठ्यते । तत्र सर्वरसानां शान्तप्राय एवास्वादो न विषयेभ्यो विपरिवृत्त्या । तन्मुख्यतालाभात्केवलं वासनान्तरोपहित इत्यस्य(4) सर्वप्रकृतित्वाभिधानाय पूर्वमभिधानम् । लोके(5) च पृथक्पृथक्सामान्यस्य न(6) गणनमिति स्थाय्यस्य पृथग्युक्त(ङ्नोक्तः) । सामान्यमपि तु विवेचकेन पृथगेव गणनीयमिति विवेचकाभिमतसामाजिकास्वादलक्षणप्रतीतिविषयतया स पृथग्भूत एव । इतिहासपुराणाभिधानकोशादौ न नव(7)रसाः श्रूयन्ते श्रीमत्सिद्धान्तशास्त्रेष्वपि । तथा चोक्तम् --

[(मू)]

[(व्या)] 1. म॰ जात्यंशको ।

2. म॰ गिनि ।

3. भ॰ दितर ।

4. म. इत्यत्र ।

5. भ॰ लोकैश्च ।

6. भ॰ न्यस्य गण ।

7. म॰ नवैव ।

[page 339]




[NZ]

[ABh]

`अष्टानामिह देवानां शृङ्गारादीन् (1)प्रदर्शयेत् ।
मध्ये च देवदेवस्य शान्तं रूपं प्रकल्पयेत् ॥' (इति) ।
तस्य च वैराग्यसंसारभीरुतादयो विभावाः । स हि तैरुप(2)निबद्धैर्विज्ञायते । मोक्षशास्त्रचिन्तादयो ऽनुभावाः । निर्वेदमतिस्मृतिधृत्यादयो व्यभिचारिणः । अत एवेश्वरप्रणिधानविषये भक्तिश्रद्धे स्मृतिमतिधृत्युसाहाद्य(3)नुप्रविष्टेभ्यो ऽन्यथैवा(न्ये एवा)ङ्गमिति न तयोः पृथग्रसत्वेन गणनम् । अत्र सङ्ग्रहकारिका --
मोक्षाध्यात्मनिमित्तस्तत्त्वज्ञानार्थहेतुसंयुक्तः ।
निःश्रेयसधर्मयुतः शान्तरसो नाम विज्ञेयः ॥
विभावस्थाय्यनुभावयोगः क्रमाद्विशेषणत्रयेण दर्शितः ।
स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ।
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥
इत्यादिना रसान्तरप्रकृतित्वमुपसंहृतम् ।
यत्तु डिमे हास्यशृङ्गारपरिहारेण षड्रसत्वं च वक्ष्यते तत्रायं भावः । `दीप्तरसकाव्ययोनिः' (ना॰ शा॰ 18-85) इति भाविना लक्षणेन रौद्रप्रधाने तावड्डिमे तद्विरुद्धस्य शान्तस्य सम्भावनैव न । किं निषेधेन । शान्तासम्भवे तु दीप्तरसकाव्ययोनिरित्यनेन किं व्यवच्छेद्यम् । `शृङ्गारहास्यवर्जं षड्रसयुक्तः' (ना॰ शा॰ 18-84) इति ह्युक्ते कस्तत्र प्रसङ्गः ।
ननु करुणबीभत्सभयानकप्राधान्यमनेन पादेन व्यवच्छेद्यते । नैतत् । 'सात्त्वत्यारभटीवृत्तिसम्पन्नः'(18-88) इत्यनेनैव तन्निरासात् । शान्ते तु सात्त्वत्येव वृत्तिरिति तद्व्यवच्छेदकमेवैतत् । तेन डिमलक्षणं प्रत्युत शान्तरसस्य सद्भावे लिङ्गम् । शृङ्गारस्तु प्रसभं सेव्यमानः सम्भाव्य एव । तदङ्गं च हास्य इति तयोरेव प्रतिषेधः कृतः प्राप्तत्वात्सर्वसाम्याच्च । विशेषतो वर्णदेवताभिधानमनुचितमप्यस्य तत्कल्पितमिति ज्ञेयम् । उत्प(4)त्तिस्तु शान्तस्यापि दर्शितैव । सत्त्वाभावो हि हास्यः । सहविभाव(5)त्वेन चास्य वीरबीभत्सौ । अत एवास्य रसस्य यमनियमेश्वरप्रणिधानाद्युपदेशः(6) अनुपयो(भो)गितया महाफलत्वं सर्वप्राधान्यमितिवृत्तव्यापकत्वं चोपपन्नमित्यलमतिप्रसङ्गेन ।
तत्त्वास्वादो ऽस्य कीदृशः । उच्यते -- उपरागदायिभिरुत्साहरत्यादिभिरुपरक्तं यदात्मस्वरूपं तदेव विरलोम्भि(7)तरत्नान्तरालनिर्भासमानसिततर(8)सूत्रवदाभातस्वरूपं सकलेषु

[(मू)]

[(व्या)]

1. म॰ प्रचारयेत् ।

2. भ॰ निबन्धैः ।

3. हान्यनु ।

4. म॰ उपपत्ति ।

5. म॰ भावि ।

6. देशे ऽनु ।

7. भ॰ रलोभीत ।

8. म॰ भ॰ सूतं यदाह तत्स्वरूपम् ।

[page 340]




[NZ]

एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । BhNZ_06_83ab
अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ BhNZ_06_83cd
इति भारतीये नाट्यशास्त्रे रसाध्यायः(1) षष्ठः ॥
[ABh]

रत्यादिषूपरञ्जकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परोन्मुखतात्मसकलदुःखजालहीनं परमानन्दलाभसंविदेकत्वेन काव्यप्रयोगप्रबन्धाभ्यां साधारणतया निर्भासमानमन्तर्मुखावस्थभेदेन लोकोत्तरानन्दानय(न्दाय)नं(1) तथाविधहृदयं विधत्त इति ।
एवं ते नवैव रसाः । पुमर्थोपयोगित्वेन रञ्जनाधिक्येन वा इयतामेवोपदेश्यत्वात् । तेन रसान्तरसंभवे ऽपि(2)चार्षप्रसिद्ध्या सङ्ख्यानियम इति यदन्यैरुक्तं तत्प्रत्युक्तम् । भावाध्याये ऽपि चैतद्वक्ष्यते । आर्द्रतास्थायिकः स्नेहो रस इति त्वसत् । स्नेहो ह्यभिषङ्गः । स च सर्वो रत्युत्साहादावेव पर्यवस्यति । तथा हि -- बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः । यूनोर्मित्रजने रतौ । लक्ष्मणादौ भ्रातरि स्नेहो धर्ममय एव । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । एषैव गन्धस्थायिकस्य लौल्यरसस्य प्रत्याखाने सरणिर्मन्तव्या । हासे वा रतौ वान्यत्र पर्यवसानात् । एवं भक्तावपि वाच्यमिति ।
अध्यायार्थमुपसंहरन् भाविनो ऽवकाशं ददत्सङ्गतिं प्रकqiiकर्तुमाह -- एवमेते रसा ज्ञेया नवेति (स्त्वष्टाविति) । रसवद्गीतमित्यादिव्यपदेशात् स्तूयते । स(शास्तु ये ते रस)मूला एवोपचारा इति दर्शयति -- लक्षणलक्षिता इति । भावानामपि लक्षणं रसलक्षणमेव पूरयति । विभावव्यभिचार्यनुभावलक्षणेन रसलक्षणमेव पूर्यते । रतिस्थायिभावप्रभवः ऋतुमाल्यादिविभावको नयनचातुर्याद्यनुभावक इत्युक्तमपि साकाङ्क्षमेव । कीदृशी हि रतिः कश्च विभावः कश्चनानुभावः । तेन यद्यप्यापाततो भावानां लक्षणमिदं प्रतिभाति महाचार्या(साहचर्यात्) तथापि वाक्यैकवाक्यतया रसलक्षणमेवेदमित्यपिशब्दस्यार्थ इति शिवम् ।
इ(र)त्यादिशक्यष्टकमध्यवृत्तिर्चित्तस्य स्वहृन्मण्डलसम्प्रयोज्या(ज्यः) ।
स्थायी शिवश्चेतसि तेन वृत्तिः कृता रसाध्याय इह क्रमेण ॥


इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदविवृतावभिनवभारत्यां रसाध्यायः षष्टः समाप्तः ॥

[(मू)]

1. म॰ रसविकल्पो नाम । त॰ रसस्वरूपपरिपातनं नाम ।

[(व्या)]

1. भ॰ नन्दनम् ।

2. म॰ पार्षतः प्रसि ।

[page 341]




श्रीः
अथ सप्तमो ऽध्यायः ।

[NZ]

भावानिदानीं व्याख्यास्यामः(1) । अत्राह -- भावा(2) इति कस्मात् । किं भवन्तीति भावाः(3) किं वा भावयन्तीति भावाः(4) । (5)उच्यते -- वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति(6) ।
[ABh]

स्थायी प्रबुद्धहृदये व्यभिचारिभूतः कामाकुलासु जनतासु महानुभावः ।
अन्तर्विभावविषयो रसमात्रमूर्तिः श्रीमान्प्रसन्नहृदयो ऽस्तु मम त्रिणेत्रः ॥
भावानिदानीमिति । नन्वध्यायान्त एवैतदासूत्रितमिति किमनेन पुनरुक्तेन । `भावाश्चापि कथं प्रोक्ताः' (ना॰ शा॰ 6-3) इत्यत्रैव प्रश्ने कृते पुनरिहाध्याये `किं भवन्ति' इत्यादि च किमर्थमुच्यते ।
अत्र केचिदाहुः -- `भावाश्चापि' इत्यध्यायादौ `भावानामपि लक्षणम्' इत्यध्यायान्ते च विभावादीनां सर्वे(षां) साधारण्येन प्रश्नप्रतिज्ञादि । अधुना तु विभावादिषु वक्तव्येषु प्रथमं तावत्प्राधान्याच्चित्तवृत्तिरूपाः स्थायिव्यभिचारिणो लक्षणीया इति तद्विषयैवेयं प्रतिज्ञा प्रश्चश्च ।
वयं तु ब्रूमः -- भावशेब्देन तावच्चित्तवृत्तिविशेषा एव विवक्षिताः । तथा च `एकोनपञ्चाशता भावैः' इत्यादौ तानेवोपसंहरिष्यति । तेषां तु योग्यतावशाद्यथायोगं स्थायिसंचारिविभावानुभावरूपता संभवति । ये त्वेते ऋत्य्माल्यादयो विभावा बाह्याश्च बाष्पप्रभृतयो ऽनुभावा एकान्तजडस्वभावाः ते न भावशब्दव्यपदेश्याः ।
ननु रससंवित्स्वभावे निमज्जनादत एवोन्मज्जनाच्च ते ऽपि संविदात्मकाः । एवं तर्हि विश्वमेव भावमयं स्यादुपचारात् विज्ञानवादाश्रयाद्वेत्यभिनयधर्म्यादीनां

[(मू)]

1. क॰ च॰ द॰ ब॰ म॰ वक्ष्यामः ।

2. ड॰ त॰ भाव ।

3. ड॰ त॰ किं भवतीति भावः ।

4. ड॰ किं वाभावयतीति भावः । ख॰ किं भावयतीति वा ।

5. न॰ अत्रोच्यते ।

6. न॰ त॰ भावयतीति भावः । भवति चात्र श्लोकः । वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ भू इति करणे धातुः ।

[(व्या)]

[page 342]




[NZ]

[ABh]

पृथक्तानुपपत्तिः । तस्मात्स्थायिव्यभिचारिसात्त्विका एव भावाः । विभावानुभावानां च प्रासङ्गिकं लक्षणम् । एतच्च वक्ष्यामः ।
यच्च पौनरुक्त्यं चोदितं तदसत् । तथा हि -- रसाध्यायप्रारम्भे चोदितमङ्गमध्ये भावा अनुद्दिष्टा एव कथं तत्र तत्रोदीरिता इति । तन्निराकरणार्थमाह -- भावानिति । यतो ऽतीताध्यायान्ते भावानां लक्षणं रसलक्षणमेव अत इदानीमपि(1) गतचोद्यांशके ऽवसरे भावान्वक्ष्यामो रसानामङ्गमध्ये पटितत्वादिति ।
ननु चित्तवृत्त्यात्मान एव चेद्भावास्तर्ह्येतेषु व्युत्पत्तिद्वयमपि संभाव्यते । तथा हि `भवति' रतिभूतप्रादुर्भावे । प्रकर्षगतिश्च । पुनरभिधानात्तेन येन तरतमपूर्वतयैव प्रादुर्भवति न तु क्षणं व्यवतिष्ठते । तेभ्यो भावाश्चित्तवृत्त्यात्मा(नो)नुभावज्ञानस्य परिमितकालभावित्वात् । यदि वा भावयन्ति आस्वादनं कुर्वन्ति हृदयं व्याप्नुवन्तीति(2) । ततश्च व्युत्पत्तिद्वयसंभावनात्कथं `भवन्ति' इति पक्षमनाशङ्क्यैव `किं वा ते भावयन्ति' इति प्रश्चो ऽयुक्त इत्यभिप्रायेणानुद्भिन्नमर्थं प्रश्नस्योद्भेदयन् प्रश्नार्थमेवानुभाषते -- किं भवन्तीत्यादि(3) । (4)भवन्ति भावयन्ति वा । भावयन्तीति च किमेतत्कुर्वन्ति व्याप्नुवन्ति वा । तत्र च द्वये ऽपि किं कर्म ।
एवं प्रश्नार्थमनुभाष्योत्तरमाह -- वागङ्गसत्त्वोपेतानित्यादि । कोः कवतेर्वा कववीयं काव्यम् । तत्र च पदार्थवाक्यार्थौ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधाण्याच्च काव्यस्यार्थाः रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः । न त्वर्थशब्दो ऽभिधेयवाची । स्वशब्दानभिधेयत्वं हि रसादीनां ध्वनिकारादिभिर्दर्शितम् । तच्च मदीयादेव तद्विवरणात्सहृदयालोकलोचनादवधारणीयम् । इह तु यथावसरं वक्ष्यत एव ।
एवं काव्यार्थान् रसान् भावयन्ति कुर्वते । स्थायिव्यभिचारिकलापेनैव ह्यास्वाद्यो ऽलौकिकार्थो निर्वर्तते । पूर्वं हि स्थाय्यादिकमवगच्छन्ति ततः सर्वसाधारणतयास्वादयन्ति । तेन पूर्वावगमगोचरीभूतः सन्नुत्तरभूमिकाभागिन आस्वाद्यस्य भावको निष्पादक उच्यते । तेन भावयन्तीति करणे दर्शयति -- वागङ्गेति । वागादयस्तत्कर्मसु वर्तन्ते । तेन वर्णनात्मना(5) वाचिकेन संनिवेशबलादीना(6)ङ्गिकेनान्तर्बहिरात्मना सात्त्विकेन करणभूतेनोपेतान् सम्बद्धान् ।

[(मू)]

[(व्या)]

1. म॰ नीं विगत ।

2. म॰ व्याप्यानुभवन्तीति ।

3. म॰ भ॰ किं भवतीत्यादि ।

4. भ॰ किं भवति ।

5. भ॰ वरणात्मना ।

6. म॰ दीनां गीतेना

[page 343]




[NZ]

भू इति करणे धातुस्तथा च भावितं वासितं कृतमितय् अनर्थान्तरम्(1) । (2)लोके ऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन(3) रसेन वा
[ABh]

करणं हि कर्मणि कर्तरि च यद्यपि संबध्यते तथापि(पी)हास्य प्राधान्यात्संबन्धदृशि करणत्वमेव दर्शयितुं तृतीयादि(यया) निर्दिश्यते -- वागङ्गमुखरागेणेति । अत(त्र) आहार्यं तु यद्यपि नयत्कलताध्रुवयातोरङ्गमत् (नृत्यकलाध्रुवापातयोरन्तरङ्गं) तथापि तदनन्तरचित्तवृत्त्यवगतौ वाचिकादीमेवान्तरङ्गता । तथा हि काव्यादपि रसास्वादो भवतीत्युक्तम् । तत्र च न पूर्णताहार्यस्य । तेनास्य नोपादानम् ।
एतदुक्तं भवति -- चित्तवृत्तय एवालौकिकाः वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यं कुर्वन्तीत्यतस्ता एव भावाः । भवतिर्हि ण्यन्तः प्रकृतं करोत्यर्थमाहेति दर्शयति -- भू इति । त(च)कार उच्चारणार्थः । णिचा संबन्धेनेति(सनाद्यन्तेति) इकारप्रत्यये सति भूधातुः करोत्यर्थे वर्तते । एतदेवोपसंहरति -- भावमिति (भावितमिति) । अनर्थान्तरमिति । एको ऽर्थ इति यावत् ।
नन्वाद्यन्तरान्तर्भाव्ये वाचिकादौ करणमितिकर्तव्यतांशे वक्तव्यमित्याशङ्क्य तन्त्रेण व्युत्पत्त्यन्तरं दर्शयन् तमाह -- लोके ऽपि चेति । न केवलं भावितं कृतमिति लोके प्रसिद्धं यावद्व्याप्तमित्यपि । एतदपि चेत्यनेनोक्तम् । सर्वमित्येतद्गन्धरसमपि ।
ननु तत्रापि कृतमित्येवार्थो ऽस्त्वित्याशङ्क्याह -- तच्च व्याप्त्यर्थमिति । न हि कस्तूरिकागन्धेन वस्त्रं(1) तद्गन्धं क्रियते । गुणस्यासंक्रान्तेः । न च तत्सदृशगुणान्तरोत्पत्तिः । यावद्द्रव्यभावित्वाद्गन्धादीनाम् । वस्त्रादौ च विनाशप्रतिपत्तेः । केवलं कस्तूरिकाद्रव्यमेव तावद्रूपदेशचैतन्याक्रमणस्वभावं वस्त्रादिके ऽपि तथा प्रतिपत्तिमाधत्ते । तद्वत्प्रकृतेऽपि त एव हि वाचिकाद्या अभिनयाः प्रमुखदशायां देशकालविशेषगतत्वेन यद्यपि भान्ति तथापि नटस्य निर्गुणादिह न त(णत्वादिहत)त्त्वात् रामादेः (2)पर(देरपर)मार्थसत्त्वात् भ्रान्तिज्ञानाभावाच्च नियततां विजहतः साधारणीभावमनुप्राप्ताः सामाजिकजनमपि मृगमदामोददिशा

[(मू)]

1. ड॰ म॰ भाव इति कारणसाधनः । यथा भावितः वासितः कृत इत्यर्थान्तरम् । त॰ भाव इति व्याप्तमर्थान्तरम् । ब॰ वासितमिति नास्ति ।

2. ख॰ म॰ लोके ऽपि च सिद्धम् । ड॰ लोके ऽपि सिद्धम् । न लोके ऽपि च दृष्टम् ।

3. न॰ रसेन गन्धेन ।

[(व्या)]

1. म॰ कागन्धेन प्रस्तुतम् । भ॰ कावस्त्रं तद्ग । 2. भ॰ मादेवं पर । म॰ मादेः पर ।

[page 344]




[NZ]

सर्वमेव(1) भावितमिति । तच्च व्याप्त्यर्थम्(2) । श्लोकाश्चात्र --
3विभावेनाहृतो यो ऽर्थो ह्यनुभावैस्तु गम्यते । BhNZ_07_001ab
वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ BhNZ_07_001cd
[ABh]

व्याप्नुवन्ति स्वचित्तवृत्तिव्यापनाद्वारेण । तेन भावयन्ति सामाजिकात्मानमिति भावाः ।
अथ व्युत्पत्त्यन्तरमपि दर्शयितुं प्राक्तनीं च व्युत्पत्तिं संग्रहीतुमाह -- श्लोकाश्चात्रेति । विभावो विषयः । तेन यः आहृतो निष्पादितः । तेन विभावापेक्षया भाव्यते क्रियत इति भावः । अनुभावानेभ्यो निरूपयति -- वागङ्गेति ।
अन्ये तु वागङ्गसत्त्वाद्यभिनया येषामिति तद्गुणसंविज्ञानेन बहुव्रीहिणा स्वाभिनयसहिता व्यभिचारिणो गृहीताः । तैरिति व्यभिचारिभिश्च भाव्यते मिश्रीक्रियत इति व्यभिचारिणामपि च व्यभिचारिणो भवन्ति । यथा निर्वेदस्य चिन्ता श्रमस्य निर्वेद(1) इत्यादि निरूपयन्ति । तच्चासत् । स्थायिनो हि व्यभिचारिता भवति । न तु व्यभिचारिणां स्थायिता । एवं हि सति तदास्वादे रसान्तरमपि स्यात् । यत्रापि व्यभिचारिणि व्यभिचार्यन्तरं संभाव्यते तद्यथा -- पुरूरवस उन्मादे ऽपि तर्कचिन्तादि तत्रापि रतिस्थायिभावस्यैव व्यभिचार्यन्तरयोगः । स केवलममात्यस्थानीयेनोन्मादेन कृतोपरागः । एतच्च `यथा नरेन्द्र'(ना॰ शा॰ 7-10) इत्यत्र वक्ष्यामः ।
एवं लोकानुसारेण कविनटशिक्षोपयोगिना व्युत्पत्त्यन्तरमभिधाय सामाजिकाभिप्रायेण यो व्युत्पत्तिद्वयनिरूपितो ऽर्थः तत्संग्रहाय श्लोकद्वयमाह -- वागङ्गमुखरागेणेति । वागङ्गमुखरागात्मनाभिनयेन सत्त्वलक्षणेन चाभिनयेन करणेन कवेः साधारणं तदपि(रणस्यापि) वर्णनानिपुणस्य यः अन्तर्गतो ऽनादिप्राक्तनसंस्कारप्रतिभानमयो न तु लौकिकविषयजो रागान्त(गस्स) एव देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यस्तं

[(मू)]

1. म॰ त॰ सर्वम् ।

2. न॰ तच्च व्याप्त्यर्थे । उ॰ अपि च व्याप्त्यर्थम् । म॰ त॰ अत्र श्लोका भवन्ति ।

3. ड॰ त॰ विभावैराहृतो यो ऽर्थस्त्वनुभावेन । च॰ विभावेनोद्धृतो यो ऽर्थस्त्वनुभावैश्च ।

[(व्या)]

1. भ॰ निर्वेदादि । म॰ निर्वेदेत्यादि ।

[page 345]




[NZ]

वागङ्गमुखरागेण1 सत्त्वेनाभिनयेन च । BhNZ_07_002ab
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ BhNZ_07_002cd
नानाभिनयसम्बद्धा2न्भावयन्ति रसानिमान् । BhNZ_07_003ab
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ BhNZ_07_003cd
(3)अथ विभाव इति कस्मात् । उच्यते -- विभावो विज्ञानार्थः(4) । विभावः कारणं निमित्तं हेतुरिति पर्यायाः(5) । विभाव्यते ऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञातमित्यनर्थान्तरम् ।
[ABh]

भावयन् आस्वादयोग्यीकुर्वन् भावश्चित्तवृत्तिलक्षण एवोच्यते । सत्त्वं चित्तैकाग्र्यं तज्जनितं च कृतकं बाष्पादिप्राप्त्यवस्थात्मकं (व्यभिचारिपरातिशयप्राप्त्यतिशयात्मकं) चेति यथायोगं मन्तव्यम् । तदन्तर्भूतो ऽपि वैवर्ण्यात्मा मुखरागः प्राधान्यात्पुनरुक्तः । यद्वक्ष्यति --
`शाखाङ्गोपाङ्गसंयुक्तः कृतो ऽप्यभिनयः शुभः ।
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् ॥' (ना॰ शा॰ 8-165) इति ।
अथेतिकर्तव्यतां निरूपयितुं सङ्ग्रहश्लोकमाह -- नानाभिनयेति । रसनयोग्यान् चित्तवृत्तिविशेषात् भावयन्ति गमयन्ति बोधयन्ति बुद्धिविषयान् प्रापयन्ति । इमान् सामाजिकान् । भावयतिः बुद्ध्यार्थत्वाद् द्विकर्मकः । अभिनयसहितानित्यभिनया अपि बुद्धिगोचरं नीयन्ते । इयमेव चासौ अधिवासनात्मा भावना तथा तथा रसान् रसनयोग्यान्निजेन योग्येन रूपेण भावयति यथा निर्वेदोपरक्ता रतिरौत्सुक्योपरक्तेति तथा रसानलौकिकास्वादविषयान् स्थायिनो ऽधिवासयन्ति(ति) । लौकिकरतिवासनानुविद्धो हि शृङ्गाररस इत्यादि ।

[(मू)]

1. म॰ मुखरागैश्च ।

2. ड॰ त॰ संबन्धान् । म॰ सम्बन्धात् ।

3. न॰ अत्राह ।

4. न॰ विञातार्थः । त॰ ड॰ विभावा नाम ।

5. ब॰ इदं वाक्यं नास्ति ।

[(व्या)]

[page 346]




[NZ]

(1)अत्र श्लोकः --
बहवो ऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः2 BhNZ_07_004ab
अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ BhNZ_07_004cd
अथानुभाव इति कस्मात् । उच्यते -- (3)अनुभाव्यते ऽनेन वागङ्गसत्त्वकृतो ऽभिनय इति । अत्र श्लोकः --
4वागङ्गाभिनयेनेह यतस्त्वर्थो ऽनुभाव्यते । BhNZ_07_005ab
5शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ BhNZ_07_005cd
[ABh]

विभावेनाहृत इत्युक्तम् -- तत्र यद्यपि प्रकरणाच्चित्तवृत्त्युद्भवहेतुर्विषयो विभावशब्दस्यार्थ इति ज्ञातम् । तथापि तत्र प्रवृत्तिनिमित्तं जिज्ञासमानः तदेव प्रश्नयति -- विभाव इतीति । कस्मात् । ऋतुमाल्यादयो ऽत्र विभावशब्देन किमिति व्यपदिष्टा इति भावः ।
अत्रोत्तरं विभाव्यन्त इत्यादि । वागादयो ऽभिनया येषां स्थायिव्यभिचारिणां ते वागाद्यभिनयसहिता विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्ते विभावाः । अभिनयानामनेकहेतुजत्वम् । तद्यथा -- हर्षादिभ्यो हासः । धर्मधूमरोगादिभ्यो बाष्पः । तद्बाष्पात्किं प्रतीयताम् । विभावात्तु झडित्येव निश्चयः । अत एव ... ... *

[(मू)]

1. न॰ भवति चात्र ।

2. म॰ त॰ नयोद्भवाः । ड॰ म॰ नयाश्रिताः ।

3. न॰ यदयमनुभावयति नानार्थनिष्पन्नान्वागङ्गसत्त्वकृताभिनयानिति । च॰ यदयमनुभावयति नानार्थाभिनिष्पन्नो वागङ्गसत्त्वकृतोऽभिनय इति । ब॰ यदयमनुभावयति वागङ्गसत्त्वकृतमभिनयम् । त॰ अनुभाव्यतेनेनेनार्थो वागङ्गसत्त्व ।

4. च॰ ब॰ वागङ्गसत्त्वाभिनयैर्यस्मादर्थो विभाव्यते ।

5. च॰ ब॰ वागङ्गोपाङ्ग ।

* एतस्मात्प्रभृति नवमाध्यायपर्यन्तं व्याख्य नोपलब्धा । यदि लब्धभागस्य ग्रन्थान्तं मुद्रणावस्थायामन्वहं प्रयतमानानामस्माकं त्रुटितो व्याख्याभागो नोपलभ्येत तदा महाग्रन्थसूत्रविच्छेदामङ्गलपरिहरणाय सुकुमारजनमनःपरिबोधनाय चास्माभिरेव रचितां व्याख्यां सर्वथानुचितामप्यस्मिन्नेव ग्रन्थान्ते योजयिष्यामः । (प्रथमसम्पादकः)

[(व्या)]

[page 347]




[NZ]

(1)एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः(2) । अतो ह्येषां(3) भावानां सिद्धिर्भवति । तस्मादेषां(4) भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ(5) । लोकस्वभावा(6)नुगतत्वाच्च तयो(7)र्लक्षणं नोच्यते ऽतिप्रसङ्गनिवृत्त्यर्थम् ।
भवति चात्र श्लोकः --
लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः8 BhNZ_07_006ab
9अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः10 BhNZ_07_006cd
तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः(11) । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते ।
(12)अत्र श्लोकः ----
यो ऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । BhNZ_07_007ab
शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ BhNZ_07_007cd
[ABh]


[(मू)]

1. ब॰ एवमेतेषां विभावानुभावसंयुक्तानां लक्षणमिदम् । ड॰ एवं ते । व॰ `एवं ते' इत्यारभ्य `सिद्धिर्भवति' इत्यन्तं नास्ति ।

2. ड॰ म॰ इत्यवगन्तव्व्याः । न॰ इत्यभिव्याख्याताः ।

3. प॰ ड॰ अ॰ अतश्चैषाम् ।

4. ड॰ म॰ तस्मादेतेषाम् ।

5. ड॰ लोके प्रसिद्धावेव । अ॰ द॰ विभावानुभावा लोकप्रसिद्धा एव ।

6. ड॰ भावोपगताच्चैषाम् । अ॰ द॰ लोकस्वभावोपगतत्वात् ।

7. च॰ ब॰ अनयोः ।

8. ड॰ म॰ यायिनः ।

9. म॰ त॰ अनुभाव । द॰ अ॰ विभावाश्चानुभावाश्च ।

10. ड॰ म॰ अभिनयैर्बुधैः ।

11. ब॰ अ॰ `इति भेदाः' इति नास्ति । ड॰ म॰ इति त्रिभेदाः ।

12. द॰ अ॰ ब॰ भवति चात्र ।

[(व्या)]

[page 348]




[NZ]

अत्राह -- यदि काव्यार्थ(1)संश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः(2) सामान्यगुणयोगेनाभिनिष्पद्यन्ते(3) रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुaवन्ति । उच्यते -- यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः(5) समानाङ्गप्रत्यङ्गा अपि(6) पुरुषाः कुलशीलविद्याकर्मशिल्पविच(7)क्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्ये ऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता(8) भवन्ति । बह्वा(9)श्रयत्वात्स्वामिभूताः स्थायिनो भावाः । (10)तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते(11) । स्थायिभावा रसत्वमाप्नुवन्ति(12) । परिजनभूता व्यभिचारिणो भावाः । (13)अत्राह -- को दृष्टान्त इति । (14)यथा नरेन्द्रो बहुजनपरिवारो ऽपि(15) स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते(18) ।
[ABh]


[(मू)]

1. द॰ अ॰ सम्मिश्रैः । च॰ व॰ म॰ यदन्योन्यार्थसम्भूतैः । त॰ संश्रितैः ।

2. द॰ अ॰ ब॰ पञ्चाशता भावैः ।

3. द॰ अ॰ निष्पाद्यन्ते ।

4. ड॰ म॰ अ॰ कथमिदानीमेषां स्थायिनो ऽष्टौ भावाः ।

5. द॰ अ॰ पादशरीरोदराः ।

6. ब॰ त॰ `अपि पुरुषा' इति नास्ति ।

7. द॰ अ॰ विचक्षणाः । ड॰ म॰ विचक्षणत्वयुक्ताः ।

8. द॰ अ॰ स्थायिभावानामनुसंश्रिता । ड॰ म॰ भावानुसृता ।

9. द॰ अ॰ निराश्रयत्वात् । ड॰ म॰ इत्याश्रयत्वात्स्वाभिभूताश्च ।

10. च॰ अ॰ ब॰ तत्स्थानीय ।

11. द॰ अ॰ भावास्तानुपाश्रयन्ते । ड॰ म॰ गुणदत्तयाश्रयन्ते ।

12. इदं वाक्यं त॰ पुस्तक एव दृश्यते ।

13. ब॰ त॰ `अत्राह को दृष्टान्त इति' इति नास्ति ।

14. न॰ अ॰ यथा हि ।

15. म॰ पि सन्स एव ।

16. म॰ तथा च बहुषु गच्छत्सु कश्चित्क्वचित्पृच्छति को ऽयमिति स च तमाह राजेति । एवं हि विभा ।

17. त॰ चारिवृतः । परिष्कृतः ।

18. . न॰ म॰ अ॰ लभते नरेन्द्रवत् । ब॰ रसतां लभते । त॰ रसतां वहते ।

[(व्या)]

[page 349]




[NZ]

भवति चात्र श्लोकः ----
यथा नराणां नृपतिः शिष्याणां च यथा गुरुः1 BhNZ_07_008ab
एवं हि सर्वभावानां भावः स्थायी महानिह ॥ BhNZ_07_008cd
(2)लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र(3) स्थायिभावान्वक्ष्यामः --
(4)रतिर्नाम प्रमोदात्मिका(5) ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानु(6)भवनाप्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । (7)तामभिनयेत्स्मितवदन(8)मधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः । (9)अत्र श्लोकः --
इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । BhNZ_07_009ab
10सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः11 BhNZ_07_009cd
(12)हासो नाम -- परचेष्टानुकरणकुहका(13)सम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः ।
[ABh]


[(मू)]

1. द॰ अ॰ गुरवो यथा ।

2. ब॰ त॰ `लक्षणं खलु' इत्यादिर्नास्ति ।

3. अ॰ इदं वाक्यं नास्ति ।

4. म॰ ड॰ तत्र रतिर्नाम ।

5. ब॰ इदं पदद्वयं नास्ति । ड॰ म॰ आमोदात्मको भावः स । द॰ अ॰ आत्मानात्मिको भावः स च ।

6. ड॰ म॰ ऋतुमाल्यानुलेपनाभरणप्रियजनवरभवनानु ।

7. ड॰ म॰ अ॰ तमभिनयेत् ।

8. ड॰ ब॰ स्मितमधुरवचन ।

9. ड॰ म॰ ब॰ अ॰ भवति चात्र ।

10. न॰ सौम्यत्वात्साभिनेतव्या । ड॰ म॰ सौम्यत्वादभिनेयो ऽसौ ।

11. द॰ अ॰ माधुर्याङ्गविचेष्टितैः ।

12. अ॰ ब॰ तत्र हासो । ड॰ अथ हासो ।

13. अ॰ ब॰ म॰ त॰ `कुहक' इति नास्ति ।

[(व्या)]

[page 350]




[NZ]

भवति चात्र श्लोकः --
परचेष्टानुकरणाद्धासः समुपजायते । BhNZ_07_010ab
1स्मितहासातिहसितैरभिनेयः स पण्डितैः2 BhNZ_07_010cd
शोको नाम -- इष्टजनवियोगविभवनाशवधबन्धदुःखानुभवनादिभिर्विभावैः समुत्पद्यते । तस्यास्रपात(3)परिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतन(4)सस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
रुदितमत्र त्रिविधम् -- आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति(5) । (6)भवन्ति चात्रार्याः --
[7आनन्देप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । BhNZ_07_XXXab
तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥ ] BhNZ_07_XXXcd
हर्षोत्फुल्लकपोलं सानुस्मरणा8दपाङ्गविसृतास्रम् । BhNZ_07_011ab
9रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ BhNZ_07_011cd
पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम्10 BhNZ_07_012ab
11भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ BhNZ_07_012cd
[ABh]


[(मू)]

1. द॰ अ॰ त॰ स्मितहासादि ।

2. क॰ च॰ न॰ द॰ ख॰ ब॰ अ॰ एषु हासलक्षणात्परं रतिलक्षणमुक्तम् ।

3. च॰ म॰ ब॰ विलपितपरिदेवित ।

4. न॰ म॰ ब॰ भूमिपाताक्रन्दितविचेष्टितदीर्घनिश्श्वसितादिभिः । ट॰ अ॰ भूमिपाताक्रन्दितविवेष्टितदीर्घः ।

5. च॰ त॰ ब॰ कृतं चेति ।

6. च॰ ब॰ तत्र । ड॰ म॰ तत्रार्याः ।

7. त॰ संज्ञकादर्श एव वर्तते ।

8. म॰ सानुस्मरणं च वागनिभृतास्रम् ।

9. ग॰ ब॰ रोमाञ्चपुलकसंकुल । ड॰ म॰ रोमाञ्चितगण्डं रोदनमानन्दजम् ।

10. च॰ ब॰ मतिचेष्टम् । त॰ वेषम् ।

11. ग॰ त॰ ब॰ भूमिनिपातविवर्तित । न॰ भूमिपतनविवर्तन । ढ॰ म॰ भूमिनिपातितचेष्टित ।

[(व्या)]

[page 351]




[NZ]

प्रस्फुरितौष्ठकपोलं सशिरःकम्पं 1तथा सनिःश्वासम्2 BhNZ_07_013ab
भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ BhNZ_07_013cd
स्त्रीनीचप्रकृतिष्वेष3 शोको व्यसनसम्भवः । BhNZ_07_014ab
धैर्येणोत्तममध्यानां नीचानां रुदितेन च4 BhNZ_07_014cd
क्रोधो नाम -- (5)आघर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । (6)अस्य विकृष्टनासापुटोद्वृत्तनयनसन्दष्ठोष्ठपुटगण्ड(7)स्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
रिपुजो8 गुरुजश्चैव प्रणयिप्रभवस्तथा । BhNZ_07_015ab
भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः ॥ BhNZ_07_015cd
(9)अत्रार्या भवन्ति --
भ्रुकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः10 स्पृशन्करेण करम् । BhNZ_07_016ab
11क्रुद्धः स्वभुजप्रेक्षी12 शत्रौ निर्यन्त्रणं रुष्येत् ॥ BhNZ_07_016cd
किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च13 BhNZ_07_017ab
अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो14 रुष्येत् ॥ BhNZ_07_017cd
[ABh]


[(मू)]

1. ड॰ तथा च ।

2. प॰ ब॰ निस्वानम् ।

3. ड॰ म॰ प्रकृतिर्ह्येषा । म॰ प्रकृटिरयम् ।

4. न रुदितेन च । आर्या च --

कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः ।

वीररसोत्तरचारी कार्यः कृतको भवति शोकः ॥

म॰ इदं पद्यं स्त्रीनीचेति पद्यात् पूर्वमस्ति ।

5. य॰ आधर्षणकृष्ट । च॰ आधर्षणात्कलह ।

6. ढ॰ ब॰ म॰ तमभिनयेदुत्फुल्लनासा । न॰ तमुत्फुल्लनासा ।

7. च॰ ब॰ गल्लस्फुरणादिभिः ।

8. म॰ ब॰ रिपुजो इति पद्यं नास्ति ।

9. ड॰ ब॰ आर्या भवन्ति ।

10. च॰ म॰ मुखसन्दष्टौष्ठः ।

11. ड॰ म॰ स्पृष्ठभुजशिखरवक्षाः शत्रोर्विनियन्त्रणं कुप्येत् ।

12. न॰ म॰ क्रुद्धः स्वभुजाक्षेपी । च॰ धृष्टः स्वभुजप्रेक्षी शत्रोर्निर्यन्त्रणम् ।

13. ड॰ ब॰ म॰ किञ्चित्स्वेदापमार्जनपरश्च ।

14. ड॰ गुरोर्नियन्त्रणं रुप्येत् । म॰ प॰ म॰ गुरोर्विनययन्त्रिणं रुष्येत् । च॰ ब॰ गुरोर्विनययन्त्रितं रुष्येत् ।

[(व्या)]

[page 352]




[NZ]

अल्पतरप्रविचारो 1विकिरन्नश्रूण्यपाङ्गविक्षेपैः । BhNZ_07_018ab
सभ्रुकुटीस्फुरितोष्ठः2 प्रणयोपगतां3 प्रियां रुष्येत् ॥ BhNZ_07_018cd
4अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । BhNZ_07_019ab
विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः5 BhNZ_07_019cd
कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । BhNZ_07_020ab
6वीररसान्तरचारी कार्यः कृतको भवति कोपः7 BhNZ_07_020cd
उत्साहो नाम -- उत्तमप्रकृतिः । स चाविषादशक्ति(8)धैर्यशौर्यादिभिर्विभावैरुत्पद्यते । (9)तस्य धैर्यात्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोकः ----
10असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः11 BhNZ_07_021ab
उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः12 BhNZ_07_021cd
भयं नाम -- स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वा(13)पदशून्यागाराटवीपर्वतगहनगजाहिदर्शन(14)निर्भर्त्सनकान्तारदुर्दिननिशान्धकारोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रक(11)म्पित-
[ABh]


[(मू)]

1. ग॰ न॰ विरहन् ।

2. ड॰ म॰ स्फुरदोष्ठः ।

3. न॰ ब॰ त॰ प्रणयोपगताश्रयम् । ड॰ म॰ प्रणयाभिगताम् ।

4. ढ॰ म॰ यः परिजने तु ।

5. ट॰ क्रूरतारकितः । ढ॰ म॰ विविधैस्तस्याभिनयः प्रयोक्तव्यः ।

6. ढ॰ म॰ उभयरसान्तर । ब॰ बीभत्सान्तर ।

7. ढ॰ म॰ रोषः ।

8. न॰ स चासंमोहोत्साहशक्तित्यागशौर्यादिभिः । ड॰ म॰ धैर्यशौर्यत्यागादिभिः ।

9. न॰ म॰ तस्य धैर्यत्यागारम्भवैशारद्यादिभिः ।

10. ड॰ त॰ असंमोहादिनिर्वृत्तो । म॰ हादनिष्पत्तौ ।

11. ब॰ मयात्मकः ।

12. ढ॰ म॰ अभिनेयो ऽसौ विप्रमादोत्थितादिभिः । ब॰ योसावप्रमादक्रियादिभिः ।

13. म॰ ब॰ `श्वापद' इति पदं नास्ति ।

14. न॰ गजादिदर्शन । त॰ गजदर्शन । व॰ म॰ पर्वतदर्शन ।

15. च॰ ब॰ काकोलूक ।

16. ढ॰ म,, ब॰ प्रवेपित ।

[(व्या)]

[page 353]




[NZ]

करचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेह्यास्वेदवेपथुत्रास(1)परित्राणान्वेषणधावनोत्क्रुष्टादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोकाः --
2गुरुराजापराधेन रौद्राणां चापि दर्शनात् । BhNZ_07_022ab
श्रवणादपि घोराणां भयं मोहेन जायते ॥ BhNZ_07_022cd
गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः । BhNZ_07_023ab
विस्फारितेक्षणैः कार्यमभिनेयक्रियागुणैः ॥ BhNZ_07_023cd
3सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । BhNZ_07_024ab
स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु4 नर्तकैः ॥ BhNZ_07_024cd
अत्रार्या भवति --
करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः5 BhNZ_07_025ab
सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयो ऽस्य6 BhNZ_07_025cd
जुगुप्सा नाम -- स्त्रीनीचप्रकृतिका(7) । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
[ABh]


[(मू)]

1. ब॰ म॰ `त्रास' इति नास्ति ।

2. इमे त्रयः श्लोकाः ब॰ न॰ त॰ पुस्तकेषु न सन्ति ।

3. इदमेकमेव पद्यं त॰ पुस्तके ।

4. ड॰ निमेषैश्च ह्यभिनेयं तु । य॰ म॰ निमेषैश्चाप्यभिनेयन्तु ।

5. ड॰ ब॰ म॰ स्तम्भनजिह्वोपलेहमुखशेषैः ।

6. ड॰ ब॰ म॰ स्रस्तसुविषण्णगात्रैस्तस्याभिनयः प्रयोक्तव्यः । म॰ पथुरस्याभिनयः सवित्रासैः

7. ब॰ त॰ प्रकृतिः ।

[(व्या)]

[page 354]




[NZ]

(1)भवति चात्र श्लोकः --
नासाप्रच्छादनेनेह2 गात्रसङ्कोचनेन च । BhNZ_07_026ab
3उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत्4 BhNZ_07_026cd
विस्मयो नाम -- (5)मायेन्द्रजालमानुषकर्मातिशय(6)चित्रपुस्त(7)शिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेष(8)प्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
(9)भवति चात्र श्लोकः --
कर्मातिशयनिर्वृत्तो10 विस्मयो हर्षसम्भवः । BhNZ_07_027ab
सिद्धिस्थाने त्वसौ 11साध्यः प्रहर्षपुलकादिभिः ॥ BhNZ_07_027cd
एवमेते (12)स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः ।
(13)व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह ---- व्यभिचारिण इति कस्मात् । उच्यते ---- वि अभि इतय् एतावुपसर्गौ । (14)चर इति गत्यर्थो धातुः । (15)विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । (16)वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह --
[ABh]


[(मू)]

1. ड॰ म॰ भवत्यत्रापि च श्लोकः । च॰ ब॰ पठत्यपि ।

2. ढ॰ प्रच्छादनेनापि ।

3. ढ॰ म॰ उद्वेजनेन हृल्लेखैः ।

4. ढ॰ जुगुप्सामपि निर्दिशेत् ।

5. न॰ माहेन्द्रजालमानुष ।

6. ड॰ म॰ विचित्रपुस्त । प॰ ब. पुस्तकचित्रशिल्प ।

7. ड॰ म॰ शिल्पातिशयद्यैर्विभावैरुत्पद्यते ।

8. ढ॰ म॰ अनैमिषप्रेक्षणभ्रूविक्षेपणरोमहर्षस्वेदसाधुवाद । त॰ रोमहर्षणादिभिः ।

9. ड॰ म॰ अत्र श्लोकः ।

10. न॰ निर्वृत्तौ ।

11. ड॰ म॰ साध्यो हर्षाश्रुप्रलयादिभिः ।

12. ब॰ म॰ स्थायिभावाः प्रत्य ।

13. ब॰ इदं वाक्यं नास्ति ।

14. ड॰ म॰ चर गतौ धातुः ।

15. न वागङ्गसत्त्वोपेतान्प्रयोगे विविधानां रसानामाभिमुख्येन चरन्तीति व्यभिचारिणः । ड॰ म॰ धात्वर्थे वागङ्गसत्त्वोपेतान्विविधमभिमुखेन रसान्प्रति चरन्तीति व्यभिचारिणः ।

16. ब॰ इदं वाक्यं नास्ति ।

[(व्या)]

[page 355]




[NZ]

कथं नयन्तीति । उच्यते -- लोकसिद्धान्त एषः(1) -- यथा सूर्य इदं दिनं(2) नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं(3) दिनं वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्रयस्त्रिंशद्व्यभिचारिणो भावान्वर्णयिष्यामः ।
तत्र निर्वेदो नाम -- दारिद्र्य(5)व्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम्(6) । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् ।
अत्र श्लोकः ----
दारिद्र्येष्टवियोगाद्यैः7 निर्वेदो नाम जायते । BhNZ_07_028ab
सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ BhNZ_07_028cd
अत्रानुवंश्ये आर्ये भवतः ----
इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । BhNZ_07_029ab
ऋद्धिं8 परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ BhNZ_07_029cd
[ABh]


[(मू)]

1. ब॰ `लोकसिद्धान्त एष' इति नास्ति ।

2. न॰ इदं नक्षत्रममुं मासं नयतीति । च॰ ब॰ इदं नक्षत्रममुं वासरं नयतीति ।

3. ब॰ नक्षत्रमिदं वा नयतीति ।

4. ब॰ एतदादि वर्णयिष्याम इत्यन्तं नास्ति ।

5. ड॰ म॰ दारिद्र्योपगममाधिक्षेप । ब॰ दारिद्र्यशापाभिमान ।

6. ड॰ म॰ स्त्रीनीचप्रकृतीनां तमभिनयेद्रुदित ।

7. च॰ ब॰ नियोगेषु । ड॰ म॰ वियोगैश्च । भ॰ त॰ विनाशेन ।

8. ड. ब॰ म॰ परवृद्धिं वा दृष्ट्वा ।

[(व्या)]

[page 356]




[NZ]

बाष्पपरिप्लुतनयनः पुनश्च1 निःश्वासदीनमुखनेत्रः । BhNZ_07_030ab
योगीव ध्यानपरो2 भवति हि निर्वेदवान्पुरुषः ॥ BhNZ_07_030cd
ग्लानिर्नाम -- वान्तविरिक्त(3)व्याधितपोनियमोपवासमनस्ता(4)पातिशयमदनमद्यसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयन(5)कपोलोदरमन्दपदोत्क्षेपणवेप(6)नानुत्साहतनुगात्रवैवर्ण्य(7)स्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्ये भवतः --
वान्तविरिक्त8व्याधिषु तपसा जरसा9 च जायते ग्लानिः । BhNZ_07_031ab
कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन10 BhNZ_07_031cd
गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । BhNZ_07_032ab
11श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद्ग्लानिम्12 BhNZ_07_032cd
शङ्का नाम -- (13)सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभि(14)ग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते(15) । तस्या(16)
[ABh]


[(मू)]

1. न॰ त॰ पुनः पुनः ग्लानदीनमुखवर्णः । ड॰ म॰ दीर्घमुखनेत्रः । च॰ ब॰ पुनः पुनः श्वासदीनमुखनेत्रः ।

2. च॰ ब॰ ध्यानरतो ।

3. ब॰ विरक्त ।

4. च॰ त॰ ब॰ मनस्तापातिपानमदनसेवना ।

5. म॰ ड॰ त॰ ब॰ कपोलमन्द ।

6. ग,, म॰ च॰ ब॰ कम्पना ।

7. ड॰ म॰ ब॰ वैवर्ण्यादिभि ।

8. ब॰विरक्त ।

9. न॰ त॰ जरया । ब॰ तरसा ।

10. ड॰ म॰ क्रमणानुकम्पेन । च॰ ब॰ क्रमणेन कम्पेन ।

11. म॰ श्लथभावाच्चाङ्गानाम् ।

12. ड॰ म॰ निर्विशेद्ग्लानिम् ।

13. त॰ ब॰ म॰ इदं वाक्यं नास्ति ।

14. च॰ त॰ चौर्याभिग्रहनाना । ढ॰ म॰ चौर्याद्यभिगर्हण ।

15. न॰ ब॰ म॰ त॰ उत्पद्यते । सन्देहात्मिका स्त्रीनीचानाम् ।

16. च॰ म॰ ब॰ सा च ।

[(व्या)]

[page 357]




[NZ]

मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वापरिलेहन(1)मुखवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठ(2)कण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
3चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । BhNZ_07_033ab
प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ BhNZ_07_033cd
अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च(4) कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् ।
अत्रार्ये भवतः --
द्विविधा शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च । BhNZ_07_034ab
या तत्रा5त्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ BhNZ_07_034cd
किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते6 च पार्श्वानि । BhNZ_07_035ab
गुरुसज्जमानजिह्वः श्यामास्यः7 शङ्कितः पुरुषः ॥ BhNZ_07_035cd
असूया नाम ---- (8)नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च (9)परिषदि दोषप्रख्यापन(10)गुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैर् अभिनयः प्रयोक्तव्यः ।
[ABh]


[(मू)]

1. च॰ ब॰ मुखवर्णभेदवेपथु । ड॰ म॰ मुखवैवर्ण्यवेपन ।

2. ड॰ म॰ कण्ठावसादादिभिरनुभावैरभिनीयते । च॰ ब॰ त॰ कण्ठवायससाधर्म्यादिभिः । न॰ त॰ कण्ठायाससाधर्म्यादिभिः । ड॰ म॰ अभिनीयते । अत्र श्लोकः ।

3. त॰ पुस्तके इदं पद्यं नास्ति ।

4. ड॰ म॰ कुले रूपादिभिः ।

5. च॰ ब॰ त॰ तत्र परसमुत्था ।

6. न॰ म॰ प्रवेपिताङ्गो मुहुर्मुहुर्वीक्षिते च । च॰ ब॰ तथोन्मुखो वीक्षते ।

7. च॰ म॰ श्यावास्यः ।

8. ड॰ म॰ नानापाराधान्वेषणपरैश्वर्यसौभाग्यलीलाविद्यादिभिर्विभावैरुत्पद्यते ।

9. ड॰ त॰ पर्षदि ।

10. च॰ ब॰ गुणोपघातचतुःप्रधान । त॰ दोषप्रख्यापनचक्षुरादानाकाराधोमु ।

[(व्या)]

[page 358]




[NZ]

(1)अत्रार्ये भवतः --
2परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । BhNZ_07_036ab
3उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च4 BhNZ_07_036cd
भ्रुकुटिकुटिलोत्कटमुखैः5 सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च6 BhNZ_07_037ab
गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः7 BhNZ_07_037cd
(8)मदो नाम -- मद्योपयोगाद् उत्पद्यते । स च त्रिविधः (9)पञ्चविधभावश्च ।
अत्रार्या भवन्ति --
10ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । BhNZ_07_038ab
करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः11 BhNZ_07_038cd
कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । BhNZ_07_039ab
12परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ BhNZ_07_039cd
उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । BhNZ_07_040ab
परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ BhNZ_07_040cd
स्मितवचन13मधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । BhNZ_07_041ab
सुकुमाराविद्ध14गतिस्तरुणमदस्तूत्तमप्रकृतिः ॥ BhNZ_07_041cd
स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः15 BhNZ_07_042ab
कुटिलव्याविद्धगतिर्मध्यमदो16 मध्यमप्रकृतिः ॥ BhNZ_07_042cd
[ABh]


[(मू)]

1. न॰ तत्रार्ये -- ।

2. त॰ विद्यासौभाग्यैश्वरतामेधालीला ।

3. च॰ त॰ ब॰ अभिनेतव्यासूया ।

4. च॰ ब॰ भवेद्यस्तु ।

5. न॰ मुखसेर्ष्या ।

6. म॰ ब॰ क्रोधपरिवर्तिभिश्चित्रैः । ड॰ म॰ परिवृत्तवक्त्राद्यैः । ग॰ त॰ परिवर्तनैश्चित्रैः ।

7. च॰ ब॰ अ॰ तस्याः कार्यः सदाभिनयः ।

8. ड॰ अ॰ म॰ अथ मदो ।

9. च॰ त॰ पञ्चविभावश्च । ड॰ पञ्चविधभावश्च त्रिप्रकृतिः । तत्रार्याः -- ।

10. ट॰ ब॰ अ॰ त्रिविधस्त्रु मदः कार्यः । म॰ इदं पद्यं नास्ति ।

11. ग॰ तस्याभिनये प्रयोक्तव्यम् । अ॰ द॰ तस्याभिनये प्रयोगविदाम् ।

12. न॰ त॰ म॰ पुरुष ।

13. छ॰ त॰ स्मितवदन ।

14. च॰ ब॰ म॰ सुकुमारो विद्ध । द॰ अ॰ स्वप्रचाराविद्ध ।

15. द॰ अ॰ गात्रविक्षेपः । त॰ बाह्यविक्षेपः ।

16. भवति मदो नाम ।

[(व्या)]

[page 359]




[NZ]

नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः1 BhNZ_07_043ab
2गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ BhNZ_07_043cd
रङ्गे पिबतः3 कार्या मदवृद्धिर्नाट्ययोगमासाद्य । BhNZ_07_044ab
कार्यो मदक्षयो वै यः खलु4 पीत्वा प्रविष्टः स्यात् ॥ BhNZ_07_044cd
सन्त्रासाच्छोकाद्वा 5भयात्प्रहर्षाच्च कारणोपगतात्6 BhNZ_07_045ab
7उत्क्रम्यापि हि कार्यो 8मदप्रणाशः क्रमात्तज्ज्ञैः ॥ BhNZ_07_045cd
एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । BhNZ_07_046ab
9अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति10 BhNZ_07_046cd
श्रमो नाम -- (11)अध्वव्यायामसेवना(12)दिभिर्विभावैः समुत्पद्यते । तस्य (13)गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयनवदनविकूणन(14)सीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या --
15नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । BhNZ_07_047ab
16निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ BhNZ_07_047cd
[ABh]


1. ड॰ म॰ हिक्कागतैः स बीभत्सः । द॰ अ॰ हिक्कादिकैः सुबीभत्सः ।

2. न॰ उरु ।

3. ड॰ म॰ रङ्गे ऽपि बहिः ।

4. अ॰ यथा तु ।

5. द॰ ब॰ अ॰ भयाच्च हर्षाच्च । ड॰ म॰ भयात्प्रकर्षाच्च ।

6. म॰ त॰ अ॰ पगत ।

7. च॰ ब॰ उत्क्रान्त्यापि हि । ड॰ म॰ उद्यम्यापि हि ।

8. द॰ अ॰ मदप्रयोगः । ब॰ म॰ मदप्रणाशस्तथा ।

9. च॰ ब॰ अभ्युदयमुखैः । अ॰ द॰ अभ्युदयपरैश्च ।

10. द॰ अ॰ तथैव शोकः क्षयं समुपयाति । म॰ न॰ ब॰ तथैव शोकः । क्षयं याति ।

11. न॰ म॰ अध्वगति ।

12. द॰ अ॰ रोदनादिभिः ।

13. च॰ ब॰ गात्रसंवाहननिःश्वसितमुखविकूणनविजृम्भणाङ्गमर्दमन्दमन्दपादोत्क्षेपणादिभिः । द॰ अ॰ गात्रपरिमर्दनसंवाहनमुखविजृम्भणाङ्गमर्दनमन्दपादोत्क्षेपणादिभिः । ड॰ म॰ गात्रसंवाहननिःश्वसितमुखविकूणनजृम्भणाङ्गमर्दनमन्दपदोत्क्षेपणनयनविकूणनसीस्कारादिभिः ।

14. भ॰ त॰ नयननिकुञ्चनादिभिः ।

15. ड॰ म॰ अध्वगतिव्यायामैः । छ॰ ब॰ अ॰ अध्वगतेर्व्यायामान्नरस्य ।

16. द॰ अ॰ निःश्वासदर्शनस्वेदैः । त॰ खेदजननैः ।

[(व्या)]

[page 360]




[NZ]

आलस्यं नाम -- (1)खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाप(2)शयनासननिद्रातन्द्रीसेवनादिभिरनुभावैः ।
अत्रार्या --
आलस्यं त्वभिनेयं खेदोपगतं 3स्वभावजं चापि । BhNZ_07_048ab
आहारवर्जितानामारम्भाणामनारम्भात् ॥ BhNZ_07_048cd
दैन्यं नाम -- दौर्गत्यमनस्तापादि(4)भिर्विभावैः समुत्पद्यते । (5)तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या --
6चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । BhNZ_07_049ab
सर्वमृजापरिहारैर्विविधो7 ऽभिनयो भवेत्तस्य ॥ BhNZ_07_049cd
चिन्ता नाम -- ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनये(8)न्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्श्यादिभिरनुभावैः ।
अत्रार्ये भवतः --
9ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । BhNZ_07_050ab
हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ BhNZ_07_050cd
[ABh]


[(मू)]

1. ड॰ ब॰ अ॰ म॰ स्वभावखेदश्रमव्याधिसौहित्यगर्भादिभिः ।

2. न॰ म॰ सर्वकर्मप्रदेषण । च॰ ब॰ सर्वकर्मविद्वेष ।

3. म॰ खेदव्याधिस्वभावजं वापि ।

4. ड॰ म॰ मनस्सन्तापादिभिः ।

5. च॰ द॰ तच्चावृत्तिशिरोगात्रगौरवमृजापरिभावनादिभिरनुभावैरभिनेतव्यम् । त॰ तस्याधृतिशिरोरोगगात्रगौरवमृजापरिवर्जनादिभिः । द. अ॰ तच्च धूतशिरोगात्रगौरवमृजापरिमार्जनादिभिर्विभावैरभिनेतव्यम् । 6. द॰ अ॰ चित्तोद्रेकसमुत्थात् । ड॰ म॰ चिन्तौत्सुक्यसमुत्थाद्दुःखाद्वा दीनता भवति पुंसाम् ।

7. न॰ व॰ नानाभिनयो भवेत्तस्य । च॰ त॰ सर्वमृजापरिवर्जनजैः विविधैरभिनयोऽस्य । न॰ सर्वमृजापरिवर्जान्तैश्च विविधैरभिनेयो ऽस्य । छ॰ ब॰ सर्वमृजापरिहारैर्नानाभिनयो भवेत्तर्हि ।

8. च॰ ब॰ त॰ अ॰ निःश्वसितसन्ताप ।

9. ड॰ ब॰ म॰ अ॰

ऐश्वर्येष्टद्रव्यापहारजनिता बहुप्रकारा तु ।

हृदयौत्सुक्यापगता चिन्ता तु नृणां समुद्भवति ॥

[(व्या)]

[page 361]




[NZ]

1सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया2 BhNZ_07_051ab
अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ BhNZ_07_051cd
मोहो नाम -- दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानु(3)स्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैत(4)न्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । (5)अत्र श्लोकस्तावदार्या च --
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि6 BhNZ_07_052ab
तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ BhNZ_07_052cd
7व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः8 BhNZ_07_053ab
सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ BhNZ_07_053cd
स्मृतिर्नाम -- सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनयेच्छिरःकम्पनावलोकन(9)भ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः(10) --
[ABh]


[(मू)]

1. च॰ ब॰ अ॰ सोच्छ्वसितैः ।

2. द॰ अ॰ त॰ शून्यहृदयतया ।

3. च॰ ब॰ व्यसनाभिघातभयावेगपूर्ववैरा । ड॰ व्यसनव्याधिभयावेगपूर्ववैरस्मरणादिभिः ।

4. ड॰ म॰ निश्चेष्टिताङ्गभ्रमण । न॰ निश्चेष्टताभ्रमण । प॰ निश्चेष्टताहृदयभ्रमण ।

5. च॰ ब॰ भवत्यपि च । ड॰ म॰ अत्र श्लोक आर्या च । न॰ अत्र श्लोकौ । द॰ अ॰ भवतश्चात्र -- ।

6. च॰ ब॰ म॰ अ॰ त्रासैर्नवा पृथग्विधैः ।

7. च॰ ब॰ अत्रार्या ।

8. त॰ पूर्वस्मरणरोगजा मोहाः । म॰ स्मरणजो भवति । ब॰ वैरसंस्मरणजो भवति । द॰ अ॰ व्यसनाभिघातपूर्ववैरस्मरणजो भवति मोहः ।

9. ड॰ म॰ भ्रूसमुन्नमनप्रहर्षादिभिः ।

10. ड॰ म॰ अत्र श्लोकार्ये भवतः --

सुखदुःखमतिक्रान्तं तथा मतिविभावितम् ।

विस्मृतं च यथावृत्तं स्मरेद्यः स्मृतिमानसैः ॥

अ॰ द॰ अत्र श्लोकार्ये --

अन्यतत्त्वमतिक्रान्तं तथा मतिविभावितम् ।

विस्मृतं च यथावृत्तं स्मरेद्यः स्मृतिमानसौ ॥

[(व्या)]

[page 362]




[NZ]

सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । BhNZ_07_054ab
चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्यो ऽसौ ॥ BhNZ_07_054cd
स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । BhNZ_07_055ab
शिरउद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ BhNZ_07_055cd
(1)धृतिर्नाम -- (2)शौर्यविज्ञानश्रुतिविभवशौचाचारगुरु(3)भक्त्यधिकमनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्राप्तानां विषयाणामुपभोगाद(4)प्राप्तातीतोपहतविनष्टानामननुशोचनादिभिरनुभावैः ।
अत्रार्ये भवतः --
5विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । BhNZ_07_056ab
भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ BhNZ_07_056cd
प्राप्तानामुपभोगः 6शब्दरसस्पर्शरूपगन्धानाम् । BhNZ_07_057ab
7अप्राप्तैश्च न शोको यस्यां हि भवेद्धृतिः सा तु ॥ BhNZ_07_057cd
व्रीडा नाम -- अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञानप्रतिज्ञातानिर्वहण(8)पश्चात्तापादिभिर्विभावैः समुत्पद्यते । (9)तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्शनखनिकृन्तनादिभिरनुभावैरभिनयेत् ।
[ABh]


[(मू)]

1. ब॰ अ॰ मतिर्नामेत्यादिग्रन्थः पश्चाद्वर्तमानः अत्र पठ्यते ।

2. च॰ विज्ञानश्रुति ।

3. त॰ भक्त्यधिकतया नानार्थलाभजलक्रीडादिभिः । ड॰ भक्त्यधिकार्थलाभविविधक्रीडादिभिः ।

4. न॰ अप्राप्तोपगतविनष्टानामनुशोचनादिभिः ।

5. त॰ अ॰ इयमार्या `प्राप्तानामिति' द्वितीयपद्यात्पूर्वं दृश्यते ।

6. द॰ अ॰ शब्दस्पर्शरूपरसगन्धानाम् । अप्राप्तानामनुशोचनं च न भवेद्धुतिः सा तु ।

7. द॰ अ॰ ड॰ अप्राप्ते न हि शोको । प॰ म॰ अप्राप्तौ हि न ।

8. ड॰ म॰ अ॰ कृतप्रत्यादिष्टपश्चात्तापादिभिः ।

9. द॰ तां च निगूढवदनाधोमुखविचिन्तनवस्त्राभरणमार्गणनखविस्फोटनादिभिः । म॰ त॰ तां निगूढवचन । न॰ चिन्तनोल्लेहनवस्त्राङ्गुलीयकसंस्पर्शन । च॰ ब॰ निस्तोदनादिभिः ।

[(व्या)]

[page 363]




[NZ]

अत्रार्ये भवतः(1) --
किञ्चिदकार्यं कुर्वन्नेवं2 यो दृश्यते शुचिभिरन्यैः । BhNZ_07_058ab
पश्चात्तापेन युतो व्रीडित इति वेदितव्यो ऽसौ ॥ BhNZ_07_058cd
3लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । BhNZ_07_059ab
वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ BhNZ_07_059cd
चपलता नाम -- रागद्वेष(4)मात्सर्यामर्षेर्ष्याप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार(5)ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
(6)अत्रार्या भवति --
7अविमृश्य तु यः कार्यं पुरुषो8 वधताडनं समारभते । BhNZ_07_060ab
9अविनिश्चितकारित्वात् स तु खलु चपलो बुधैर्ज्ञेयः ॥ BhNZ_07_060cd
हर्षो नाम -- मनोरथ(10)लाभेष्टजनसमागमनमनःपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादन(11)लाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गनकण्टकित(12)पुलकितास्रस्वेदादिभिरनुभावैः ।
अत्रार्ये भवतः --
13अप्राप्ये प्राप्ये वा लब्धे ऽर्थे प्रियसमागमे वापि । BhNZ_07_061ab
हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ BhNZ_07_061cd
[ABh]


[(मू)]

1. अ॰ च॰ ब॰ अत्रार्ये -- ।

2. ब॰ द॰ अ॰ कुर्वाण एव । ड॰ म॰ कुर्वन्यो हि नरो दृश्यते ।

3. द॰ अ॰ लज्जाधोगूढमुखो भूमिं च लिखन्नखांश्च । ड॰ त॰ वचनो ।

4. न॰ मात्सर्यमायेर्ष्या । अ॰ द॰ मात्सर्येर्ष्याप्रतिकृतादिभिः ।

5. द॰ अ॰ सम्प्रहारबधबन्धनादिभिः । ड॰ सम्प्रहारवधबन्धनताडनज्ञापनादिभिः ।

6. प॰ अ॰ म॰ अत्रार्या -- ।

7. न॰ त॰ अविमृश्य तु यत्कार्यम् । द॰ अ॰ अविमृष्टं यः कार्यं पुरुषो ऽज्ञानात्समचरति ।

8. ड॰ म॰ वधबन्धनादिकम् ।

9. च॰ ब॰ अविनिश्चितकार्यत्वात्स हि खलु चपलो बुधैर्ज्ञेयः ।

10. च॰ म॰ न॰ लाभेप्सितावाप्तीष्ठ ।

11. म॰ अ॰ ब॰ त॰ धनलाभ ।

12. न॰ म॰ स्वेदोत्कृष्टललितताडनादिभिरनुभावैः । द॰ अ॰ प्रसादकण्टकितपुलकिताश्रुस्वेदालिङ्गनोत्पुष्टललितताडनादिभिरनुभावैः ।

13. द॰ अ॰ ब॰ म॰ प्राप्ये वाप्राप्ये वा ।

[(व्या)]

[page 364]




[NZ]

1नयनवदनप्रसादप्रियभाषालिङ्गनैश्च रोमाञ्चैः । BhNZ_07_062ab
ललितैश्चाङ्गविहारैः2 स्वेदाद्यैरभिनयस्तस्य ॥ BhNZ_07_062cd
आवेगो नाम -- उत्पातवातवर्षाग्निकुञ्जरोद्भ्रमण(3)प्रियाप्रियश्रवण(4)व्यसनाभिघातादिभिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्ग(5)स्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः(6) । अग्निकृतं तु धूमाकुलनेत्रताङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम(7) त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवणकृतं नामाभ्यु(8)त्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम (9)भूमिपतनविषमविवर्तनपरिधावनविलापनाक्रन्दनादिभिः । (10)व्यसनाभिद्यातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहण(11)सम्प्रधारणादिभिः(12) ।
13एवमष्टविकल्पो ऽयमावेगः सम्भ्रमात्मकः । BhNZ_07_063ab
स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः14 BhNZ_07_063cd
[ABh]


[(मू)]

1. अ॰ ब॰ इयमार्या नास्ति ।

2. न॰ त॰ विकारैः ।

3. द॰ अ॰ वर्षकुञ्जरोद्भ्रमण ।

4. त॰ प्रकृतिव्यसना ।

5. ड॰ म॰ अ॰ स्रस्तसविषण्णवैमनस्य ।

6. च॰ ब॰ त॰ अ॰ छन्नाश्रयणादिभिः ।

7. न॰ ब॰ म॰ कृतमपि त्वरितापसर्पणचपलगमन ।

8. अ॰ प॰ कृतमपि प्रत्युत्थानालिङ्गन ।

9. न॰ कृaतमप्युर्वीपतनपरिदेवनविषमपरिवर्तितधावितविलापरोदनादिभिः । च॰ ब॰ कृतमप्युर्वीपतनवलनपरिवर्तितपरिधावितविलापाक्रन्दादिभिः । द॰ अ॰ म॰ कृतं तु भूमिपतनपरिदेवितपरिवर्तितपरिधावितविलापाक्रन्दितादिभिः । ड॰ कृतो नाम भूमिपतनपरिदेवनविषमपरिवर्तितधावितविलापरुदितादिभिः ।

10. ड॰ म॰ व्यसनाभिघातकृतं तु सहसापक्रमणशस्त्रवर्म । ब॰ व्यसनकृतं तु । त॰ प्रकृतिव्यसनकृतं नाम ।

11. च॰ ब॰ अ॰ शस्त्रधर्मधारणस्फुरणवेपनगजतुरगारोहणा ।

12. ड॰ म॰ सम्प्रहरणादिभिः ।

13. प॰ म॰ अ॰ ब॰ इत्येषो ऽष्टविधो ज्ञेय आवेगः ।

14. ड॰ अ॰ चापसर्पणात् ।

[(व्या)]

[page 365]




[NZ]

अत्रार्ये भवतः --
अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य1 BhNZ_07_064ab
2शस्त्राक्षेपात् त्रासादावेगो नाम सम्भवति ॥ BhNZ_07_064cd
अप्रियनिवेदनाद्यो विषादभावाश्रयो ऽनुभावो ऽस्य । BhNZ_07_065ab
3सहसारिदर्शनाच्चेत्प्रहरणपरिघट्टनैः कार्यः ॥ BhNZ_07_065cd
जडता नाम -- सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन(4)व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण(5)तूष्णीम्भावाप्रतिभानिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः ।
अत्रार्या भवति --
इष्टं वानिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । BhNZ_07_066ab
तूष्णीकः परवशगो भवति स जडसन्ज्ञितः पुरुषः ॥ BhNZ_07_066cd
गर्वो नाम -- ऐश्वर्यकुलरूपयौवनविद्या(6)बलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञा(7)घर्षणानुत्तरदानासम्भाषणाङ्गावलोकनविभ्रमापहसनवाक्पारुष्य(8)गुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या भवति --
9विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । BhNZ_07_067ab
गर्वः खलु10 नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ BhNZ_07_067cd
[ABh]


[(मू)]

1. ड॰ त॰ धारितारिवचनेन । अ॰ श्रवणादवधारितारि । न॰ विवेदनाद्वा प्रायो ऽभ्यवतारितारिवचनस्य ।

2. प॰ ब॰ त॰ म॰ शस्त्रक्षेपत्रासात् ।

3. ड॰ म॰ सहसारिदर्शनं चेत् । न॰ ब॰ सहसा विदर्शनाद्यैः प्रहरणपरिघट्टनं कार्यम् ।

4. त॰ दर्शनविभावैः ।

5. न॰ त॰ अकथनाभिभाषण । ब॰ आकम्पनाभाषण ।

6. च॰ ब॰ त॰ बलादिभिर्विभावैः समुत्पद्यते । तमसूया ।

7. न॰ धर्षणोत्तरादानासम्भाषण ।

8. ड॰ गुरुव्यतिक्रमणाधिक्षेपादिभिः । त॰ पारुष्यवचनवि । ब॰ हसनपारुष्य ।

9. ड॰ म॰ विद्यायौवनरूपात् ।

10. प॰ ब॰ स च ।

[(व्या)]

[page 366]




[NZ]

विषादो नाम -- कार्यानिस्तरण(1)दैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमन(2)स्यनिःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यानादिभिरनुभावैः ।
अत्रार्याश्लोकौ(3) --
कार्यानिस्तरणाद्वा4 चौर्याभिग्रहणराजदोषाद्वा5 BhNZ_07_068ab
दैवादर्थविपत्तेर्भवति6 विषादः सदा पुंसाम् ॥ BhNZ_07_068cd
वैचित्र्योपायचिन्ताभ्यां कार्य उत्त7ममध्ययोः । BhNZ_07_069ab
निद्रानिःश्वसि8तध्यानैरधमानां तु योजयेत् ॥ BhNZ_07_069cd
औत्सुक्यं नाम -- इष्टजनवियोगानु(9)स्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते । (10)तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रा(11)तन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
(12)अत्रार्या भवति --
इष्टजनस्य13 वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । BhNZ_07_070ab
चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयो ऽस्य ॥ BhNZ_07_070cd
निद्रा नाम -- (14)दौर्बल्यश्रमक्लममदालस्यचिन्तात्याहारस्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन(15)गौरवशरीरावलोकननेत्रघूर्णनगात्रविजृम्भनमान्द्योच्छ्वसितसन्नगात्रताक्षिनिमीलनादिभिरनुभावैः ।
[ABh]


[(मू)]

1. ड॰ म॰ कार्यारम्भानिस्तरण ।

2. ब॰ त॰ वैमनस्यादिभिरुत्तम ।

3. प॰ म॰ अत्रार्या श्लोकश्च ।

4. च॰ ब॰ म॰ कार्यानिस्तरणकृतः ।

5. च॰ व॰ म॰ दोषाद्यैः ।

6. च॰ ब॰ म॰ दैवादिष्टो यो ऽर्थस्तदसम्प्राप्तौ विषादः स्यात् ।

7. न॰ म॰ त॰ कार्यमुत्तम ।

8. च॰ ब॰ निःश्वसितैर्ध्यानैरधमानां तु दर्शयेत् ।

9. च॰ ब॰ त॰ स्मरणादिभिः ।

10. च॰ ब॰ तद्दीर्घ ।

11. च॰ त॰ तन्द्र्यभिलाषा ।

12. प॰ ब॰ भवत्यपि च ।

13. ड॰ त॰ इष्टजनविप्र ।

14. न॰ श्रमक्लम ।

15. ड॰ म॰ गौरवगात्रपरिलोलननेत्रविघूर्णनजृम्भणगात्रपरिमर्दनोच्छ्वसितनिःश्वसितसन्नतगात्रताक्षिनिमीलनसंमोहनादिभिरनुभावैः । न॰ घूर्णनजृम्भणगात्रपरिमर्दनोच्छ्वसितसन्नगात्रताक्षिनिमीलनादिभिः । च॰ ब॰ शरीरालोलननेत्रघृर्णविजृम्भणगात्रमदोच्छ्वसितनिःश्वसितसन्नगात्रताक्षिनिमीलनसर्वक्रियासंमोहादिभिः ।

[(व्या)]

[page 367]




[NZ]

अत्रार्ये भवतः --
आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । BhNZ_07_071ab
रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ BhNZ_07_071cd
तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः1 BhNZ_07_072ab
जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः2 BhNZ_07_072cd
अपस्मारो नाम -- देव(3)यक्षनागब्रह्मराक्षस(4)भूतप्रेतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यागारसेवनाशुचि(5)कालान्तरापरिपतनव्याध्यादिभिर्विभावैः समुत्पद्यते । तस्य (6)स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भनवदनफेन(7)जिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्ये भवतः --
भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् । BhNZ_07_073ab
कालान्तरातिपातादशुचेश्च8 भवत्यपस्मारः ॥ BhNZ_07_073cd
सहसा भूमौ पतनं प्रवेपनं9 वदनफेनमोक्षश्च । BhNZ_07_074ab
10निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ BhNZ_07_074cd
सुप्तं नाम -- निद्राभिभ(11)वविषयोपगमनमोहनक्षितितलशयनप्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तद्
[ABh]


[(मू)]

1. च॰ गात्रपरिलोलनयनमीलनजडत्वैः । छ॰ ब॰ गात्रपरिलोलनिमीलनाक्षिविनिमेषैः । ड॰ म॰ गात्रैर्नयननिमीलनविघूर्णजडत्वैः ।

2. ड॰ अभिनयेत्प्रयोगज्ञः;् ।

3. च॰ ब॰ म॰ नागयक्ष ।

4. च॰ ब॰ भूतपिशाचादीनां ग्रहणानुस्मरणोच्छिष्ट । ड॰ म॰ राक्षसपिशाचादीनां ग्रहणादनुस्मरणादुच्छिष्ट । न॰ म॰ भूतप्रेतपिशाचादीनां ग्रहणमनुस्मरणसोच्छिष्ट ।

5. च॰ ब॰ कालान्तरापातधातुवैषम्यादिभिः । ड॰ कान्तारातिवातधातुवैषम्यादिभिः । न॰ कालान्तरावपातधातुवैषम्यादिभिः ।

6. ड. ब॰ म॰ स्फुरितकम्पितनिःश्वसितधावनखेदवदनफेनहिक्कापरिलेहनदिभिः । च॰ स्फुरितकम्पितनिःश्वसितधावन ।

7. न॰ ब॰ फेनता ।

8. च॰ ब॰ लोकोत्तरातिपातादशुचिषु च ।

9. च॰ म॰ प्रकम्पनम् ।

10. ड॰ म॰ निस्संज्ञाभ्युत्थानम् ।

11. . ब॰ म॰ इतः `समुत्पद्यते' इत्यन्तं नास्ति । त॰ पुस्तक एवास्ति ।

[(व्या)]

[page 368]




[NZ]

उच्छ्वसित(1)सन्नगात्राक्षिनिमीलनसर्वेन्द्रिय -- सम्मोहनोत्स्वप्नायितादिभि(2)रनुभावैरभिनयेत् ।
(3)अत्रार्ये भवतः --
निद्राभिभवेन्द्रियोपरमणमोहनैर्भवेत्सुप्तम् । BhNZ_07_075ab
अक्षिनिमीलोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ BhNZ_07_075cd
4सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । BhNZ_07_076ab
सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत5 BhNZ_07_076cd
विबोधो नाम -- (6)आहारपरिणामनिद्राच्छेद(7)स्वप्नान्ततीव्रशब्दस्पर्शश्रवणादिभिर्विभावैः समुत्पद्यते । (8)तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः ।
अत्रार्या भवति --
9आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । BhNZ_07_077ab
प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः10 BhNZ_07_077cd
अमर्षो नाम -- (11)विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । (12)तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
[ABh]


[(मू)]

1. म॰ च॰ ब॰ उच्छ्वसितनिःश्वसित ।

2. च॰ ब॰ त॰ संमोहस्वप्नायतादिभिः ।

3. च॰ ब॰ म॰ अत्रार्या । ब॰ म॰ निद्राभिभवेति पद्यं नास्ति ।

4. प॰ ब॰ निश्वासैः सोच्छ्वासैः ।

5. ड॰ म॰ स्वप्ने प्रयुञ्जीत ।

6. च॰ ब॰ म॰ निद्राच्छेदाहारपरिणाम ।

7. ड॰ म॰ दुःस्वप्नतीव्रशब्दस्पर्शरूपादिभिः । न॰ ब॰ स्वप्नान्तशब्दस्पर्शादिभिः ।

8. च॰ म॰ ब॰ तं जृम्भणाक्षिमर्दनशयनमोक्षणाङ्गवलनभुजविक्षेपाङ्गुलित्रोटनादिभिरनुभावैरभिनयेत् ।

9. न॰ त॰ शयनपरिणामयोगाच्छब्द ।

10. ड॰ म॰ वलनाक्षिपरिमर्दैः ।

11. ड॰ म॰ त॰ विद्यैश्वर्यधनबलाधिकैरधिक्षिप्तस्यावमानितस्य ।

12. ड॰ म॰ तस्य शिरःकम्पस्वेदाधोमुखविचिन्तनाध्यवसायोपायान्वेषणादिभिरभिनयः प्रयोक्तव्यः । प॰ ब॰ त॰ शिरःकम्पनप्रस्वेदाधोमुखविचिन्तनोत्साहाध्यवसायस्थानोपायान्वेषणादिभिरभिनयेत् ।

[(व्या)]

[page 369]




[NZ]

अत्र श्लोकौ ----
1आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः2 BhNZ_07_078ab
नॄणामुत्साह3संयोगादमर्षो नाम जायते ॥ BhNZ_07_078cd
उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः4 BhNZ_07_079ab
शिरःप्रकम्प5स्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः5 BhNZ_07_079cd
अवहित्थं नाम -- आकारप्रच्छादनात्मकम्(6) । तच्च(7) लज्जाभयापजयगौरवजैह्म्यादिभिर्विभावैः समुत्पद्यते । (8)तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोको भवति --
धार्ष्ट्यजैह्म्यादि9सम्भूतमवहित्थं भयात्मकम्10 BhNZ_07_080ab
11तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ BhNZ_07_080cd
(12)उग्रता नाम -- चौर्याभिग्रहण(13)नृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत् ।
अत्रार्या भवति --
14चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । BhNZ_07_081ab
वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ BhNZ_07_081cd
[ABh]


[(मू)]

1. द॰ ब॰ अ॰ भवतश्चात्र श्लोकौ । न॰ त॰ भवति चात्र श्लोक आर्या च । म॰ तत्र श्लोकौ ।

2. च॰ ब॰ म॰ अ॰ विद्यैश्वर्यबलाधिकैः ।

3. ड॰ ब॰ म॰ अ॰ संपन्नो ह्यमर्षो ।

4. प॰ ब॰ अधोमुखविलोकनैः ।

5. न॰ अ॰ म॰ नाट्यवित् ।

6. द॰ अ॰ अवहित्था नाम आकारप्रच्छादनात्मिका ।

7. प॰ ब॰ तच्च लज्जाभयगौरवलेह्यादिभिः । द॰ अ॰ सा च लज्जाभयगौरव । भ॰ त॰ तच्च लज्जाभयगौरवजेर्ष्यादिभिः ।

8. द॰ अ॰ तस्या अन्यथाकथनाविलोकिता । ड॰ म॰ तस्यान्यथाकथनावलोकितकथाभङ्गकृतैरनुभावैः ।

9. व॰ लेह्यादि ।

10. ब॰ भयानकम् ।

11. अ॰ तच्चाङ्गाभिनयैः कार्यम् ।

12. प॰ ब॰ अ॰ अथोग्रता नाम ।

13. त॰ हणवशान्नृपापराधादिभिर्विभावैः ।

14. ज॰ अ॰ ब॰ चौर्याभिग्रहयोगात् । त॰ म॰ चौर्यग्रहणनियोगात् ।

[(व्या)]

[page 370]




[NZ]

मतिर्नाम -- (1)नानाशास्त्रविचिन्तनोहापोहादिभिर्विभावैः समुत्पद्यते । तामभिजयेच्छिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिरनुभावैः । भवति चात्र श्लोकः --
2नानाशास्त्रार्थबोधेन मतिः संजायते नृणाम् । BhNZ_07_082ab
3शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥ BhNZ_07_082cd
व्याधिर्नाम -- वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो (4)विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम -- प्रवेपितसर्वाङ्गोत्कम्पन(5)निकुञ्चनाग्न्यभिलाषरोमाञ्चहनुवलननासाविकूणनमुखशोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो(6) नाम -- विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभिलाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्ते ऽपि खलु मुखविकूणन(8)गात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावैरभिनेयाः ।
अत्र श्लोको भवति --
समासतस्तु9 व्याधीनां कर्तव्यो ऽभिनयो बुधैः । BhNZ_07_083ab
स्रस्ताङ्गगात्रविक्षेपैस्तथा10 मुखविकूणनैः ॥ BhNZ_07_083cd
[ABh]


[(मू)]

1. प॰ अ॰ नानाशास्त्रार्थचिन्तन । ब॰ शास्त्रचिन्तन ।

2. ब॰ न॰ नानाशास्त्रविनिष्पन्ना सम्म । न॰ अ॰ म॰ नानाशास्त्रार्थनिष्पन्ना ।

3. द॰ अ॰ शिष्योपदेशाच्च ततस्तस्या अभिनयो भवेत् ।

4. न॰ ज्वरादयो ऽभिनयविशेषाः ।

5. द॰ अ॰ उत्कम्पितहनुचलनास्यविकूणत । ड॰ त॰ कुञ्चितहनुविचलननासाविकूणनमुखशोषणरोमाञ्चास्रनेकपरिदेवितादिभिः ।

6. ड॰ म॰ सदाहः पुनर्विक्षिप्तवस्त्रकरः । ब॰ सदाहस्तु । त॰ विक्षिप्ताङ्गचरण ।

7. न॰ म॰ लेपनसशीतलाभिलाषपरिदेवितोत्क्रुष्टादिभिः । भ॰ ब॰ लाषपरिदेवितोत्कृष्टवेपनादिभिः ।

8. ड॰ गात्रस्तम्भनिःश्वानसनिस्तनितोत्क्रुष्टानुलेपनपरिदेवितादिभिरनुभावैरभिनेयाः । भवति चात्र -- उत्क्रुष्टानुलेपनपरिदेवनादिभिरनुभावैरभिनयेत् ।

9. म॰ सामान्यतस्तु ।

10. द॰ अ॰ म॰ रुहा । प॰ ब॰ कूजन्मुख ।

[(व्या)]

[page 371]




[NZ]

उन्मादो नाम -- इष्टजनवियोगविभवनाशाभिघात(1)वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टा(2)सम्बद्धप्रलाप(3)शयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलन(4)तृणनिर्माल्यकुचेलचीरघटकपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत् ।
(5)अत्रार्ये भवतः --
इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । BhNZ_07_084ab
विविधाच्चि6त्तविकारादुन्मादो नाम सम्भवति ॥ BhNZ_07_084cd
अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । BhNZ_07_085ab
7अन्यैश्च विकारकृतैरुन्मादं सम्प्रयुञ्जीत ॥ BhNZ_07_085cd
मरणं नाम(8) -- व्याधिजमभिघातजञ्च । (9)तत्र यदान्त्रयकृच्छूलदोषवैषम्यगण्डपिटकज्वर(10)विषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजन्तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथ(11)पशुयानपातविनाशप्रभवम् । (12)एतयोरभिनयविशेषान् वक्ष्यामः -- तत्र व्याधिजं विष(13)ण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् ।
(14)अत्र श्लोको भवति --
व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । BhNZ_07_086ab
विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः ॥ BhNZ_07_086cd
[ABh]


[(मू)]

1. न॰ म॰ विनाशव्यसनाभिघात । च॰ ब॰ इष्टजनविभववियोग ।

2. म॰ त॰ हसितोत्कृष्टा ।

3. ड॰ अ॰ ब॰ शयनोपवि ।

4. अ॰ द॰ ब॰ पांस्वतिधूलननिर्माल्यवीरघटचक्रशरावाभरणस्पर्शनोपभोगैरन्यैश्चानवस्थितचेष्टाकरणादिभिः ।

5. च॰ अ॰ ब॰ भवति चात्र ।

6. ब॰ त्पित्तवि ।

7. म॰ त॰ अन्योन्यविकारकृतैः ।

8. प॰ ब॰ तद्द्विविधम् ।

9. न॰ च॰ अ॰ त॰ तत्र यद्दोषवैषम्य ।

10. अ॰ द॰ विषूचिकाविषविकारादिभिः ।

11. ड॰ म॰ रथयानपतन ।

12. च॰ म॰ एतयोरिदानीमभिनयविशेषं वक्ष्यामि ।

13. ड॰ अ॰ ब॰ म॰ विषण्णगात्रमव्यायताङ्गविचेष्ठितं निमीलितनयनं हिक्काश्वासोपेतमनवेक्षितपरिजनमव्यक्ताक्षर ।

14. ड॰ ब॰ अत्र श्लोकः -- द॰ अ॰ भवति चात्र ।

[(व्या)]

[page 372]




[NZ]

अभिघातजे तु नानाप्रकारा(1) अभिनयविशेषाः (2)शस्त्रक्षताहिदष्टविषपीतगजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते(3) तावत्सहसाभूमिपतन(4)वेपनस्फुरणादिभिरभिनयः प्रयोक्तव्यः । (5)अहिदष्टविषपीतयोर्विषवेगो यथा -- कार्श्यवेपथुविदाह(6)हिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः ।
(7)अत्र श्लोकौ भवतः --
कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत्8 BhNZ_07_087ab
दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ BhNZ_07_087cd
फेनञ्च पञ्चमे कुर्यात् षष्ठे स्कन्धस्य भञ्जनम्9 BhNZ_07_088ab
जडतां सप्तमे कुर्यादष्टमे मरणं भवेत्10 BhNZ_07_088cd
(11)अत्रार्या भवति --
श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वापि । BhNZ_07_089ab
12शस्त्रक्षतवत्कुर्यादनवेक्षित13गात्रसञ्चारम् ॥ BhNZ_07_089cd
इत्येवं14 मरणं ज्ञेयं नानावस्थान्तरात्मकम् । BhNZ_07_090ab
प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः15 BhNZ_07_090cd
त्रासो नाम -- विद्युदुल्काशनिपातनि(16)र्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भ(17)रोमाञ्चगद्गदप्रलापादिभिरनुभावैः ।
[ABh]


[(मू)]

1. अ॰ नानाभिनयविशेषाः ।

2. ब॰ म॰ इदं वाक्यं नास्ति ।

3. न॰ म॰ यथा शस्त्रक्षते तावत् । च॰ ब॰ यथा शस्त्रकृते तावत् ।

4. न॰ म॰ स्फुरणादिभिरनुभावैरभिनयेत् । च॰ ब॰ विकम्पनस्हुरणादिभिः ।

5. ड॰ विषदष्टे तु विषपीते वा विषवेगे यथा । च॰ ब॰ अहिदष्टे विषपीते नानाविषवेगैर्यथा । प॰ म॰ अहिदष्टे विषपीते वा ननाविषवेगैः ।

6. ड॰ ब॰ म॰ दाह ।

7. ढ॰ ब॰ अत्रानुवंश्यौ ।

8. ड॰ म॰ वैपथुस्तथा ।

9. च॰ ब॰ स्यात् षष्ठे स्कन्धभञ्जनम् । ड॰ षष्ठे तु स्कन्धभञ्जनम्।

10. ड॰ म॰ तथा ।

11. ब॰ म॰ इदं नास्ति ।

12. न॰ म॰ शस्त्रक्षतं च ।

13. च॰ य॰ अनपेक्षित ।

14. ब॰ त॰ इत्येतन्म ।

15. प॰ भाषाङ्गचेष्टितैः । ड॰ म॰ वागङ्गचेष्टितैः । म॰ वागङ्गचेष्टितम् ।

16. ड॰ म॰ निर्घाताम्बुदरवसत्त्वदर्शनपश्वारवादिभिः । न॰ अशनिपातनिर्घाताम्बुधररसनवातमहासत्त्वदर्शन ।

17. ड॰ म॰ न॰ तं संक्षिप्ता ... ... अनुभावैरभिनयेत् । प॰ त॰ तमभिनयेत्संक्षिप्ताङ्गानुत्कम्पन ।

[(व्या)]

[page 373]




[NZ]

(1)अत्र श्लोको भवति --
महाभैरवनादाद्यैस्त्रासः समुपजायते । BhNZ_07_091ab
2स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ BhNZ_07_091cd
वितर्को नाम -- सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिनये(4)द्विविधविचारित(5)प्रश्नसम्प्रधारणमन्त्रसंगूहनादिभिरनुभावैः ।
(6)अत्र श्लोको भवति --
विचारणादिसम्भूतः सन्देहातिशयात्मकः7 BhNZ_07_092ab
8वितर्कः सो ऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ BhNZ_07_092cd
(9)एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्येणात्मगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति ।
त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः10 BhNZ_07_093ab
सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ BhNZ_07_093cd
अत्राह -- किमन्ये भावाः (11)सत्त्वेन विनाभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति ।
अत्रोच्यते --
इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वाद्
[ABh]


[(मू)]

1. ड॰ म॰ अत्र श्लोकाः । च॰ ब॰ भवति चात्र ।

2. ड॰ त॰ स्रस्ताङ्गार्धनिमेषाद्यैः ।

3. च॰ न॰ विप्रत्ययादिभिः । ड॰ म॰ प्रत्ययादिभिः ।

4. न॰ त॰ विहृत । प॰ ब॰ विहित ।

5. ड॰ संज्ञासंप्रधारण । प॰ म॰ प्रज्ञासंप्रधारण । ज॰ प्रज्ञानप्रधारणमन्त्रसंग्रहादिभि ।

6. ड॰ म॰ अत्र श्लोकः । च॰ ब॰ भवति चात्र ।

7. ज॰ त॰ ससन्देहक्रियात्मकः । च॰ ब॰ ससंदेहोभयात्मकः ।

8. ड॰ म॰ वितर्कस्त्वभिनेयस्तु । ड॰ ब॰ वितर्कस्त्वभिनेयो वै शिरोभ्रूपक्ष ।

9. व॰ इदं वाक्यं नास्ति ।

10. प॰ ब॰ संविज्ञेयाः प्रयोक्तृभिः ।

11. ड॰ म॰ सत्त्वेन विनाभिधीयन्ते यत एते सात्त्विका इत्युच्यन्ते । प॰ ब॰ सत्त्वेन नाभिनीयन्ते येनेiते सात्त्विका इत्युच्यन्ते ।

[(व्या)]

[page 374]




[NZ]

(1)उच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति(2) । तस्य च यो ऽसौ (3)स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्यो ऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च(4) नाट्यस्य सत्त्वमीप्सितम् । (5)को दृष्टान्तः -- इह हि (6)नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्याः यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन(7) वाभिनेयम् । एतदेवास्य सत्त्वं यत्दुःखितेन सुखितेन वाश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः(8) ।
त इमे(9) ----
स्तम्भः स्वेदो ऽथ रोमाञ्चः स्वरभेदो ऽथ वेपथुः । BhNZ_07_094ab
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ BhNZ_07_094cd
(10)अत्रार्याः । तत्र --
क्रोधभयहर्षलज्जादुःखश्रमरोगतापघातेभ्यः । BhNZ_07_095ab
11व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ BhNZ_07_095cd
हर्षभयशोक12विस्मयविषादरोषादिसम्भवः13 स्तम्भः । BhNZ_07_096ab
शीतभयहर्षरोषस्पर्शजरारोगजः14 कम्पः ॥ BhNZ_07_096cd
[ABh]


[(मू)]

1. ड॰ ब॰ म॰ त॰ मनस्त्वादुत्पद्यते । न मनस्त्वमुच्यते ।

2. प॰ समाधानाच्च सत्त्वनिर्वृतिरिति । ड॰ म॰ मनःसमाधानाच्च सत्त्वनिर्वृतिर्भवति । न॰ मनःसमाधानेन च तन्निष्पत्तिर्भवतीति । च॰ त॰ मनःसमाधानाच्च सद्योनिर्वृतिरिति ।

3. ड॰ म॰ स्वभावः स्तम्भस्वेदरोमाञ्चास्रवैवर्ण्यादिकः न शक्यते मनस कर्तुमिति । प॰ ब॰ स्वभावो रोमाञ्चास्रादिकृतः ।

4. प॰ म॰ कारणत्वच्च नाट्यस्य ।

5. ड॰ म॰ अत्राह -- को दृष्टान्त इति चेदुच्यते ।

6. ड॰ म॰ नाट्यः सर्वः प्रवृत्तः सुखदुःखकृतो भावः तथा सत्त्वविशुद्ध्यधिष्ठितः कार्यो यथा स्वरूपो भवति । न॰ नाट्यधर्मीप्रवृत्तौ ... ... स्वरूपो भवति । प॰ ब॰ नाट्यधर्मप्रवृत्ताः ... ... सरूपा भवन्ति ।

7. म॰ नाभ्नेतुं शक्यत इति ।

8. म॰ त॰ अभिविख्याता ।

9. च॰ ब॰ `इमे' इत्यारभ्य `तत्र' इत्यन्तं नास्ति ।

10. द॰ ब॰ तत्र ।

11. प॰ ब॰ व्यायामात्क्लमधर्मात् ।

12. त॰ अ॰ म॰ रोगवि ।

13. ड॰ ब॰ मदरोषसम्भवः । च॰ रोगवशसम्भवः ।

14. त॰ म॰ अ॰ सम्भवः ।

[(व्या)]

[page 375]




[NZ]

आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणा1द्भयाच्छोकात् । BhNZ_07_097ab
अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु2 BhNZ_07_097cd
शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम्3 BhNZ_07_098ab
स्पर्शभयशीतहर्षात्4 क्रोधाद्रोगाच्च रोमाञ्चः ॥ BhNZ_07_098cd
स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोग5मदजनितः । BhNZ_07_099ab
श्रममूर्छामदनिद्राभिघातमोहादिभिः प्रलयः ॥ BhNZ_07_099cd
एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । BhNZ_07_100ab
कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम्7 BhNZ_07_100cd
8निःसज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः9 BhNZ_07_101ab
10स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥ BhNZ_07_101cd
व्यजनग्रहणाच्चापि स्वेदापनयनेन च । BhNZ_07_102ab
11स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ BhNZ_07_102cd
मुहुःकण्टकितत्वेन तथोल्लुकसनेन च । BhNZ_07_103ab
12पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ BhNZ_07_103cd
स्वरभेदो ऽभिनेतव्यो13 भिन्नगद्गदनिस्वनैः । BhNZ_07_104ab
वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ BhNZ_07_104cd
मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । BhNZ_07_105ab
वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्कर14म् ॥ BhNZ_07_105cd
[ABh]


[(मू)]

1. ड॰ म॰ जृम्भणभयाच्च शोकात् ।

2. च॰ दास्रम् । द॰ अ॰ अस्रम् ।

3. न॰ शीतभयकामरोगैस्तापात्क्लामाच्च वैवर्ण्यम् ।

4. ड॰ पातहर्षात् । ड॰ अ॰ गीतहर्षात् । त॰ हर्षैः ।

5. ड॰ स्वरसादो जयहर्षक्रोध । ध॰ मोहमदजनितः ।

6. न॰ निघात ।

7. प॰ ब॰ ह्यनुभावानुभावकम् । म॰ ह्यनुभावानुभवनम् । द॰ अ॰ महाभावानुभावकम् ।

8. ड॰ म॰ निश्चेष्टो ।

9. द. अ॰ स्थितशून्यजडाकृतिः । म॰ स्मितशून्यज ।

10. ड॰ ब॰ म॰ निःसंज्ञः स्तब्धगात्रश्च । त॰ स्तब्धगात्रतया चैव ।

11. त॰ स्वेद एवाभिनेतव्यः ।

12. ड॰ म॰ ब॰ अ॰ रोमाञ्चस्त्वभिनेयो ऽसौ गात्रसंस्पर्शनेन च ।

13. ड॰ म॰ अ॰ स्वरभेदस्तथा चैव । प॰ ब॰ स्वरभेदं तथा चैव ... ... विस्वरैः ।

14. ड॰ म॰ प्रयत्नादङ्गसंश्रयम् ।

[(व्या)]

[page 376]




[NZ]

1बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । BhNZ_07_106ab
2मुहुरश्रुकणापातैरास्रं त्वभिनयेद्बुधः ॥ BhNZ_07_106cd
3निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । BhNZ_07_107ab
4महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ BhNZ_07_107cd
एकोनपञ्चाशदिमे5 यथाव6द्भावास्त्र्यवस्था गदिता मयेह । BhNZ_07_108ab
7भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ BhNZ_07_108cd
[(8)अत्र श्लोकाः ----
शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । BhNZ_07_XXXab
विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ BhNZ_07_XXXcd
रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । BhNZ_07_XXXab
स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ BhNZ_07_XXXcd
विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । BhNZ_07_XXXab
मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ BhNZ_07_XXXcd
क्रोधामर्षौ च हासश्च शोको ऽपस्मार एव च । BhNZ_07_XXXab
दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ BhNZ_07_XXXcd
त्रासवैवर्ण्यरुदितैः स्वरभेदः शमो ऽपि च । BhNZ_07_XXXab
जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥ ] BhNZ_07_XXXcd
[ABh]


[(मू)]

1. न॰ म॰ ब॰ अ॰ नेत्रसम्मार्जनैर्बाष्पैरास्रं चाभिनयेद्बुधः ।

2. त॰ बहिरश्रुकण ।

3. प॰ ब॰ अ॰ निश्चेष्टो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । न॰ निश्चेष्टो निष्प्रकम्पश्च अव्यक्तोच्छ्वासितादपि ।

4. ड॰ म॰ मेदिनीपतनाच्चापि । द॰ अ॰ महीनिपतनाद्वापि ।

5. च॰ ब॰ पञ्चाशदमी ।

6. ड॰ भावव्यवस्था गदिता मया वः ।

7. च॰ ब॰ एषां च ये । ड॰ अ॰ येषां च ये ।

8. ब॰ म॰ अ॰ एतदाद्याः पञ्च श्लोकाः न सन्ति । त॰ पुस्तक एव दृश्यन्ते ।

[(व्या)]

[page 377]




[NZ]

1आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । BhNZ_07_109ab
2उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ BhNZ_07_109cd
[3यथावसरमेते हि स्थायिसञ्चारिसत्त्वजाः । BhNZ_07_XXXab
उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ॥ ] BhNZ_07_XXXcd
ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । BhNZ_07_110ab
सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ BhNZ_07_110cd
निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च । BhNZ_07_111ab
जडता मरणं चैव व्याधिश्च करुणे स्मृताः4 BhNZ_07_111cd
गर्वो ऽसूया 5मदोत्साहावावेगो ऽमर्ष एव च । BhNZ_07_112ab
क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ BhNZ_07_112cd
असम्मोहस्तथोत्साह आवेगो हर्ष एव च । BhNZ_07_113ab
6मतिश्चैव तथोग्रत्वममर्षो मद एव च7 BhNZ_07_113cd
रोमाञ्चः स्वरभेदश्च क्रोधो ऽसूया धृतिस्तथा । BhNZ_07_114ab
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ BhNZ_07_114cd
स्वेदश्च वेपथुश्चैव8 रोमाञ्चो गद्गदस्तथा । BhNZ_07_115ab
9त्रासश्च मरणञ्चैव वैवर्ण्यं च भयानके ॥ BhNZ_07_115cd
अपस्मारस्तथोन्मादो विषादो मद एव च । BhNZ_07_116ab
10मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ BhNZ_07_116cd
[ABh]


[(मू)]

1. म॰ अ॰ ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च शृङ्गारे वेपथुस्तथा । इति पद्यमधिकं दृश्यते । द॰ म॰ ब॰ अ॰ जुगुप्साभिभावैस्तु परिवर्जितः ।

2. द॰ अ॰ तद्भासयन्ति ते सर्वे रसं शृङ्गारसंज्ञकम् ।

3. इदं पद्यं `त॰'पुस्तकेऽधिकम् ।

4. ड॰ म॰ रसे ।

5. ड॰ ब॰ म॰ तथोत्साह आवेगो मद एव च । क्रोधश्चपलताहर्षे रौद्रे तूग्रत्वमेव च । अ॰ जडता हर्षो रौद्रे तूग्रत्वमेव च ।

6. द॰ अ॰ म॰ रोमाञ्चः प्रतिबोधश्च क्रोधो ऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च मतिश्चैव तथोग्रता । अमर्षो ऽथ मदश्चैव वीरे भावा भवन्ति हि ।

7. ड॰ म॰ उग्रत्वं हर्ष-उन्माद एव च ।

8. त॰ वेपथुः स्वरभेदश्च ।

9. त॰ स्तम्बह्श्च मरणं स्वेदो ।

10. ड॰ म॰ मतिर्व्याधिः ।

[(व्या)]

[page 378]




[NZ]

स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । BhNZ_07_117ab
आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः1 BhNZ_07_117cd
2ये त्वेते सात्त्विका भावा नानाभिनय3संश्रिताः । BhNZ_07_118ab
4रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ BhNZ_07_118cd
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः5 BhNZ_07_119ab
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च6 BhNZ_07_119cd
[7बहूनां समवेतानां रूपं यस्य भवेद् बहु । BhNZ_07_XXXab
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ BhNZ_07_XXXcd
8दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं9 रसम् । BhNZ_07_XXXab
ते 10तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वम् आगताः ॥ BhNZ_07_XXXcd
11विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । BhNZ_07_XXXab
संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ BhNZ_07_XXXcd
स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । BhNZ_07_XXXab
सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ BhNZ_07_XXXcd
ये त्वेते12 सात्त्विका भावा नानाभिनययोजिताः । BhNZ_07_XXXab
रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ BhNZ_07_XXXcd
न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । BhNZ_07_XXXab
विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ BhNZ_07_XXXcd
भावा वापि रसा वापि प्रवृत्तिर्वृत्तिरेव वा । BhNZ_07_XXXab
बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ BhNZ_07_XXXcd
[ABh]


[(मू)]

1. त॰ ड॰ य॰ चैवाद्भुते रसे ।

2. न॰ त॰ ये चान्ये ।

3. द॰ ब॰ अ॰ नानाभावसमाश्रयाः ।

4. अ॰ द॰ ब॰ रसेषु तेषु सर्वेषु ते ज्ञेयाः ।

5. च॰ ब॰ प्रयोगजम् ।

6. न॰ ब॰ वा ।

7. ड॰ म॰ सर्वेषाम् । ब॰ अ॰ इतः प्रभृति `विदित्वा हि विराजन्ते' इत्यन्तं पद्यानि न सन्ति ।

8. म॰ इदं पद्यं नास्ति ।

9. त॰ नो रसाः ।

10. त॰ न ते ।

11. त॰ इदं पद्यं नास्ति ।

12. म॰ एतत्पद्यस्थाने `चित्राणि न विरज्यन्ते लोके चित्रं हि दुर्लभम् । विमर्दे रागमायाति प्रयुक्तमपि यत्नतः ॥' इति पद्यं पठ्यते । ततः परं `नानार्था भाव' इति पद्यम् ।

[(व्या)]

[page 379]




[NZ]

षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । BhNZ_07_XXXab
सत्त्वप्रयोजितो ह्यर्थः प्रयोगो ऽत्र विराजते ॥ BhNZ_07_XXXcd
विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥ ] BhNZ_07_XXXab
1नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः2 BhNZ_07_120ab
पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः3 BhNZ_07_120cd
4एवं रसाश्च भावाश्च त्र्यवस्था नाटके स्मृताः । BhNZ_07_121ab
य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ BhNZ_07_121cd


इति श्रीभारतीये नाट्यशास्त्रे भाव(5)व्यञ्जको नाम सप्तमो ऽध्यायः ॥
[ABh]


[(मू)]

1. ड॰ म॰ नानर्था भावनिष्पन्ना । अ॰ न॰ नानार्थभावनिष्पन्ना । ब॰ नानार्थभावसम्पन्नाः ।

2. ड॰ म॰ अ॰ विचारिणः । प॰ ब॰ स्थायिभावा विचारिणः ।

3. ड॰ म॰ काव्ये सत्त्वरसाश्रयाः । न॰ अ॰ काव्येषु हि रसाश्रयाः ।

4. ब॰ अ॰ अत्र सर्वेषां सम्वेतानामिति पद्यं पठ्यते । त॰ एवं रसानां भावानां त्र्यवस्था नातके स्मृताः ।

5. न॰ त॰ भावविकल्पो नाम ।

[(व्या)]

[page 380]