तन्त्रालोक 2

Chapter 3

श्रीतन्त्रालोकस्य
श्रीमदाचार्याभिनवगुप्तपादविरचितस्य
आचार्यजयरथकृतविवेकाभिख्यव्याख्योपेतस्य
तृतीयमाह्निकम् ।
स्वात्मत्वेऽपि विचित्रं निखिलमिदं वाच्यवाचकात्म जगत् ।
दर्पणनगरवदात्मनि विभासयन्विजयते विजयः ॥1॥
इदानीमनुपायानन्तर्येण क्रमप्राप्तं शांभवोपायं द्वितीयार्धेन प्रणिगदितुं प्रतिजानीते
अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥ tantraloka.3.0b
ननु यदि नाम परोपायस्यापि अनुत्तरमेव रूपं तत्पूर्वेणैव गतार्थत्वात् किमर्थमिदमाह्निकान्तरमारभ्यते ? इत्याह
प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । tantraloka.3.1a
तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ tantraloka.3.1b
1

प्रकाशमात्रमिति प्राधान्यात्, नहि निर्विमर्शः प्रकाशः समस्ति उपपद्यते वा, प्रोक्तमित्यनुपायाह्निके, अधिकमिति कल्पनामात्रेण, नहि वस्तुतो वस्तुनः स्वभावोऽतिरिच्यते -- तथात्वे वा स स्वभाव एव न स्यात्, स्वतन्त्रतेति प्रकाशनक्रियाकर्तृत्वं, तस्य चेयत्तत्वं -- यत् स्वभित्तावेव स्वेच्छया सर्वं प्रकाशयतीति ॥1॥
तदेवाह
यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति । tantraloka.3.2a
यः खलु प्रकाशनक्रियायां कर्ता परप्रमात्रात्मानुत्तरशब्दाभिधेयः प्रकाशः स सर्वस्य प्रमातृप्रमेयात्मनो विश्वस्य प्रकाशत्वं प्रकाशमानतां प्रयच्छति -- स्वात्मैकात्म्येन अवभासयतीत्यर्थः । नहि विश्वं नाम प्रकाशमानत्वात्तदतिरिक्तं किंचित्संभवति --


पं॰ 5 घ॰ पु॰ स्वतन्त्रे प्रकाशकर्तृत्वमिति पाठः ।
पं॰ 6 घ॰ पु॰ स्वभित्तौ स्वेच्छया यत्सर्वं प्रकाशयतीति पाठः ।
पं॰ 9 `यः प्रकाश' इति पदद्वयं क. घ. पुस्तकयोः `प्रविविच्यते' इत्यतोऽनन्तरमेघोपन्यस्तमस्ति ।
पं॰ 14 घ॰ पु॰ स्वात्मैक्येनेति पाठः ।

2


तदतिरेकाभ्युपगमे ह्यस्य प्रकाशमानत्वायोगाद्भानमेव न स्यात् इति ॥
तदाह
न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥ tantraloka.3.2b
वा शब्दोऽभ्युपगमे ॥2॥
ननु यद्येवं तर्हि प्रकाश एव प्रकाशते इति विश्वस्य अवभास एव न स्यात्, अथ च भासते विश्वमिति किमेतत् ? इत्याशंक्याह
अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः । tantraloka.3.3a
इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥ tantraloka.3.3b
अत इति -- प्रकाशातिरिक्तस्य विश्वस्य भानायोगात्, परमेश्वरो हि अनर्गलत्वलक्षणस्वस्वातन्त्र्यमाहात्म्यात् स्वात्मभित्तावेव अनतिरिक्तमप्यतिरिक्तायमानम्


पं॰ 5 ख॰ पु॰ सद्वा न भासते इति पाठः ।
पं॰ 15 ग॰ पु॰ अनर्गलस्वलक्षणस्वातन्त्र्येति पाठः ।

3


इयद्विश्ववैचित्र्यं प्रदर्शयति इति । इत्येवं विश्ववैचित्र्योल्लासेऽपि प्रकाशमात्रस्वभावे स्वात्मनि अस्य नाधिकं किंचित् जातम् -- इति कटाक्षयितुमत्र व्योम्ना निरूपणं कृतम्, अत एव चानेन विश्वस्य चित्प्रतिबिम्बत्वम् -- इत्यनुजोद्देशोद्दिष्टस्य प्रतिबिम्बवादस्य अवकाशो दत्तः । यथा हि दर्पणादौ परस्परव्यावृत्तात्मानः प्रतिबिम्बिता आकारविशेषाः ततोऽनतिरिक्तगत्वेऽपि अतिरिक्ता इव भासन्ते तद्वदिहापीति ॥3॥
तदाह
निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । tantraloka.3.4a
अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ tantraloka.3.4b
सुबोधमञ्जर्याम्
`रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि ।
गृह्यते पञ्चभिस्तगच्च चक्षुरादिभिरिन्द्रियैः ॥'


पं॰ 3 क॰ पु॰ अस्यानाधिकं जातमितीति पाठः ।
पं॰ 5 क॰ पु॰ विश्वं चित्प्रतिबिम्बत्वे इत्यनुजोद्दिष्टस्येति पाठः ।
पं॰ 8 क॰ पु॰ ततोऽनतिरिक्ता इह भासन्ते इति पाठः ।


4


इत्याद्युक्तयुक्त्या पञ्चैव रूपादयस्तावत्सर्वमिति ॥4॥
तेषां प्रतिबिम्बेन व्यवस्थया विषयभागं दर्शयति
सदृशं भाति नयनदर्पणाम्बरवारिषु । tantraloka.3.5a
सदृशमिति सजातीयम्, अम्बरेति अम्बरस्थं नातितीव्रं नातिमन्दं -- सौरं चान्द्रं वा तेजः, तत्र हि छायापुरुषोपदेशविद्भिः शरीरसंस्थानप्रतिबिम्बं दृश्यते । यदाहुः
`नभस्थे च तेजसि रूपप्रतिबिम्बयोगः ।'
इति । यद्वा विषयान्तरोपलक्षणपरतया शब्दप्रतिबिम्बविषयत्वेन व्याख्येयम्, तेन -- नभसि प्रतिश्रुत्का तथा परानुभूयमानस्य कटुतिक्तादे रसस्य स्त्र्यादिस्पर्शस्य गम्धस्य च दन्तोदके कन्दादौ स्पर्शक्षेत्रे त्वचि घ्राणे गन्धक्षेत्रे च क्रमेण प्रतिबिम्बनमिति ॥
एतदेव दर्शयति


पं॰ 9 क॰ पु॰ तेजसि प्रतिबिम्बनयोग इति पाठः ।
पं॰ 10 क॰ पु॰ विषयेनोपलक्षणेति पाठः ।
पं॰ 14 क॰ पु॰ स्पर्शल्षेत्रे गन्धक्षेत्रे घ्राणक्षेत्रे चेति पाठः ।


5


तथा हि निर्मले रूपे रूपमेवावभासते ॥ tantraloka.3.5b
इह पृथिव्यप्तेजसां त्रयाणामेव रूपवत्त्वमिति -- पार्थिवे दर्पणादौ, आप्ये स्तिमिते जलाशयादौ, तैजसे चक्षुरादौ च रूपाख्योऽस्ति स्वच्छo गुणः संनिवेशस्य संस्थानात्मा -- इति तत्प्रतिबिम्बनमेव तत्रावभासते न स्पर्शादेः, तत् खलु आनन्दस्थानाद्यात्मकेषु कन्दाद्याधारादिषु स्पर्शादेः संभवात् प्रतिसंक्रामति, तेन य एव यत्र स्वच्छोऽस्ति गुणः स एव तत्र प्रतिसंक्रामतीत्याशयः ॥5॥
न चैतदसंबद्धमित्यवधारयितुमत्र दृष्टान्तमाह
प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् । tantraloka.3.6a
दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ tantraloka.3.6b


पं॰ 5 क॰ पु॰ रूपत्वमिति पाठः ।
पं॰ 7 क॰ पु॰ स्पर्शनादेरिति पाठः ।
पं॰ 11 क॰ पु॰ चैतदप्रतिवद्धमिति पाठः ।
पं॰ 13 क॰ पु॰ प्रतिबिम्बनसुन्दरमिति पाठः ।


6


अत्र तावत्प्रच्छन्नरागिण्याः कान्ताया गुरुसंनिधानादेरन्तरायप्रायत्वात् साक्षात् दर्शनाद्यप्राप्तावपि दर्पणप्रतिबिम्बद्वारेणापि अनन्यसंचेत्यं `दृष्टो मया कान्तः' इति सन्तoषाभिमानात् कान्तदर्शनं वृत्तम्, अत एव सुन्दरमित्यनेन दर्शनवशोन्मिषिताह्लादातिशयकारित्वाद्यपि सूचितम् । एवमन्यासंवेद्य एतत्स्पर्शोऽपि मे भूयादिति तत्र कृतप्रयत्नापि सा दर्पणे स्पर्शाप्रतिसंक्रमात्तमलभमाना न तृप्यति न प्रीयत इत्यर्थः ॥6॥
ननु यद्यत्र रूपं प्रतिबिम्बितं तत्तदव्यभिचरितस्वभावः स्पर्शोऽपि किं न प्रतिबिम्बितः ? इत्याशंक्याह
न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः । tantraloka.3.7a
नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥ tantraloka.3.7b
अस्येति दर्पणस्य, तथेति विमलं, स्वच्छमेव हि अस्वच्छस्य दर्पण इव मुखस्य प्रतिबिम्बं स्वीकरोतीति



पं॰ 5 क॰ पु॰ इत्यनेना दर्शवशोन्मेषाह्नादेति पाठः ।
पं॰ 6 क॰ पु॰ एवमन्यसंवेद्य इति पाठः ।
पं॰ 17 ख॰ पु॰ अस्वच्छस्य मुखं दर्पणस्य प्रतीति, घ॰ पु॰ दर्पणस्येव मुखं दर्पणस्येति पाठः ।

7


भावः । नैर्मल्यं नाम च एतत्किमुच्यते ? इत्याह -- नैर्मल्यं चेति, अतिशयेन निविडाः विजातीयभावैरकलुषिता ये सजातीयाः, यथा -- दर्पणे रूपपरमाणवः, तेषां एका विजातीयाभावादसहाया या संगतिः -- नैरन्तर्येणावस्थानात्स्थ 1पुटत्वादिपरिहारेण श्लक्ष्णत्वात्म संहतत्वं नैर्मल्यम् । यदैव हि विजातीयैः सजातीयाभावैश्चाकलुषितं दर्पणादे रूपमुपलभ्यते तदा रूपप्रतिबिम्बयोगः । यदा तु विजातीयैर्बाष्परजोरूपादिभिस्तत्कालुष्यमुपनीयते तदा न -- इत्यन्वयव्यतिरेकाभ्यां निश्चीयते, यद्यस्यैव प्रतिबिम्बार्पकापेक्षया विशिष्टः स्वच्छताख्यो गुणः स एव तत्प्रतिबिम्बं गृह्णाति इति, अत एव च `रूप एव रूपमवभासते' इत्यादौ प्रतिज्ञातो दर्पणोऽपि


1 स्थपुटत्वादिपरिहारेण, निम्नोन्नतादेः परिहार्यावस्थानादित्यर्थः ।



पं॰ 4 क॰ घ॰ पु॰ रूपरसपरपरेत्यादिः पाठः ।
पं॰ 7 घ॰ पु॰ सजातीयभावेनाकलुषिता इति, क॰ पु॰ विजातीयभावनिःसहायेति, ख॰ पु॰ सजातीयैर्विजातीयाभावैश्चेति पाठः ।
पं॰ 10 घ॰ पु॰ योग्यस्यैव प्रतिबिम्बेति पाठः ।
पं॰ 13 ख॰ पु॰ प्रतिज्ञाते दर्पणेऽपीति पाठः ।

8


मुखे प्रतिबिम्बेत् -- इत्यविशेषेण बिम्बप्रतिबिम्बभावो न भवति -- इत्यप्यावेदितम् ॥7॥
एतदेव प्रकारान्तरेणापि व्याचष्टे
स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । tantraloka.3.8a
अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ tantraloka.3.8b
अत्यक्तप्रतिबिम्बितेऽपि भावान्तरे तस्याविकल्पस्यैव निर्भासादतिरोहितः स्वप्रकाशो यस्य दर्पणादेः स्वात्मन्यभेदमवलम्ब्य यद्भिन्नस्य भिन्नदेशस्य प्रतिबिम्बार्पकस्य पर्वतादेर्दर्शनं गर्भीकृतण्यर्थत्वात्प्रकटीकरणं -- नहि दर्पणदेशादणुमात्रेऽपि बाह्ये देशे प्रतिबिम्बं भवति इति भावः, तत्र या क्षमता -- कुड्यादिवैलक्षण्येन प्रतिबिम्बग्रहणसहिष्णुता तदेव नैर्मल्यम् । न चैतत्स्वोपज्ञमेवास्माभिरुक्तमित्याह



पं॰ 1 क॰ ख॰ घ॰ पु॰ इत्यशेषेणेति पाठः ।
पं॰ 2 ग॰ पु॰ प्रतिबिम्बवाद इति पाठान्तरं चास्ति ।
पं॰ 8 क॰ घ॰ पु॰ अत्यक्तप्रतिबिम्बत्वेपीति, ख॰ पु॰ अत्यक्तस्वप्रभार्कस्येति पाठः ।

9


`गुरूदितमिति' गुरुणा परमगुरुणा श्रीमदुत्पलदेवेन
`अथार्थस्य यथारूपं ॰॰॰'
इत्यादि । तथा
`न च युक्तं जडस्यैवं ॰॰॰'
इत्यादि श्रीप्रत्यभिज्ञाकारिकाद्वयटीकायामेतन्निखिलमेव प्रतिबिम्बसतत्त्वमुदितमुक्तमित्यर्थः ॥8॥
तदेतन्नैर्मल्यं मुख्यामुख्यतया द्विप्रकारमिति दर्शयितुमाह
नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः । tantraloka.3.9a
अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ tantraloka.3.9b
मुख्यमिति सर्वस्यैव रूपाद्यात्मनो विश्वस्य प्रतिबिम्बग्रहणसहिष्णुत्वात्, अत उक्तं -- सर्वत इति ।



पं॰ 3 `यथारूपं' इत्यतोनन्तरं `धत्ते बुद्धिस्तथात्मनः । चैतन्यमजडा सैवं जाड्ये नार्थप्रकाशना ॥' इति पदत्रयं च क॰ घ॰ पुस्तकयोः प्रक्षिप्रमस्ति ।
पं॰ 5 `जडस्यैवं' इत्यतोऽनन्तरं `भेदाभेदविरोधिनः । आभासभेदावैकत्र चिदात्मनि तु युज्यते ॥' इति पदत्रयं च क॰ घ॰ पुस्तकयोः प्रक्षिप्तमस्ति ॥
पं॰ 6 क॰ घ॰ पु॰ टीकायामेव तन्निखिलमिति पाठः ।
पं॰ 11 क॰ ख॰ पु॰ सर्वश इति पाठः ।

10


संवित्संलग्नमेव हि विश्वं संवेद्यते, अत एव अस्याः सर्वतः स्वच्छत्वं, तथा क्वापि दर्पणादौ अंशांशिकातो -- रूपादिलक्षणमंशमंशमवलम्ब्य अन्यदमुख्यं नैर्मल्यम्, तद्धि क्वचिदेव किंचिन्निर्मलम्, अन्यथा `सर्वत्र सर्वं भायात्' इति दर्पणेऽपि स्पर्शः प्रतिबिम्बं गृह्णीयात्, एवं च मुख्यादस्य भेदो न स्यात् । तन्नैर्मल्ये च तत्स्वातन्त्र्यमेव निमित्तमित्याह `विमलं तत्तदिच्छया' इति । तदिति रूपादि, अत एव स्पर्शादि, तत्र अविमलम् इत्यर्थसिद्धं, तेन तच्छक्तिरेव तथा प्रसृतेति भावः ॥9॥
अत आह
भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् । tantraloka.3.10a
तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ tantraloka.3.10b
प्रतीघाति इति, प्रतिहन्तृत्वादन्यानुप्रवेशासहमित्यर्थः, तद्धि मायास्वरूपगोपनाकारित्वात् `येयं


पं॰ 2 क॰ घ॰ पु॰ स्वतः स्वच्छत्वमिति पाठः ।
पं॰ 3 पु॰ लक्षणमंशमवलम्ब्येति पाठः ।

11


पारमेश्वरी क्रियाशक्तिः' तदात्मकम्, अत एव भेदप्राधान्याद्वेद्यतायाः स्थौल्यात् तत्रास्वच्छत्वम् इति प्रतिबिम्बग्रहणासामर्थ्यम् । यत्पुनरप्रतीघाति भावानां वपुः तत्सद्विद्यामयं -- ज्ञानशक्तिस्वभावम्, अत एव तदपेक्षया तत्स्वच्छम् इति तत्र प्रतिबिम्बग्रहणसहिष्णुत्वं, तेन पूर्वं प्रतिबिम्बात्मकम् इदं तु तद्ग्राहि -- इति विशेषः । एवं परमेश्वर एव स्वस्वातन्त्र्यमाहात्म्यात्तत्तद्बिम्बप्रतिबिम्बाद्याभासवैचित्र्येण अवभासते इति तात्पर्यार्थः ॥10॥
तदाह
तदेवमुभयाकारमवभासं प्रकाशयन् । tantraloka.3.11a
विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥ tantraloka.3.11b
उभयाकारमिति प्रतीघात्यप्रतीघात्यात्मकम् आभासमात्रसारमेव एतत्, न तु तात्त्विकमित्युक्तम् -- `अवभासं प्रकाशयन्' इति । उक्तं च


पं॰ 14 क॰ ग॰ पु॰ प्रतिबिम्बतयेति पाठः ।
पं॰ 16 क॰ पु॰ मात्रसारमेतत्तात्त्विकमिति पाठः ।

12


`तस्मादेको महादेवः स्वातन्त्र्योपहितस्थितिः ।
द्वित्वेन भात्यसौ बिम्बप्रतिबिम्बोदयात्मना ॥'
इति ॥11॥
एवं यथाप्रतीति प्रतिबिम्बसतत्त्वमुपपाद्य केषांचन नैयायिकानां प्रत्यावृत्तैर्नयनरश्मिभिः स्वस्यैव मुखस्य ग्रहणेऽपि दर्पणमुखमिति भ्रान्तिरियम् न पुनः सत्यत्वभ्रान्तत्वव्यतिरेकेण तृतीयस्य राश्यन्तरस्य अभावात्प्रतिबिम्बं नाम किंचिदस्ति -- इति मतं निराकर्तुमाह
यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । tantraloka.3.12a
विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ tantraloka.3.12b
य इत्येकवचनेन सूत्रकारासूत्रितत्वात्सर्वेषां नैयायिकानां नैतन्मतम् -- इति सूचितम्, कैश्चिदेव हि आग्रह 1प्रवृत्तैरेतदुक्तमिति भावः । अत एव वृत्तिकारभूषणकारादिभिरेतन्नामापि न स्पृष्टम् ।


1 निर्बन्धस्थितैरित्यर्थः ।



पं॰ 1 क॰ पु॰ एको महोशान इति पाठः ।
पं॰ 2 क॰ घ॰ पु॰ दयात्मता इति पाठः ।
पं॰ 4 ख॰ पु॰ यथा प्रतीति बिम्बसत्त्वमिति पाठः ।
पं॰ 7 घ॰ पु॰ इयम् इति पदं नास्ति ।

13


न स्पृष्टम् । स्वच्छादिति बाह्याद्दर्पणादेः, विपर्यस्य इति परावृत्त्येत्यर्थः । अत्र च प्रतिफलन्तीति विशेषणद्वारेण हेतुः, अन्यथा हि स्वदेहसंमुखीभाव एव एषां न स्यात् इति कथं स्वमपि वक्त्रं गृह्णीयुः, पृच्छ्यते इति एतदभ्युपगमे कस्तवाशय इति ॥12॥
तदेवाह
देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । tantraloka.3.13a
तेनैव तेजसा ज्ञत्वे कोऽर्थः स्याद्दर्पणेन तु ॥ tantraloka.3.13b
उद्घाटितचक्षुषः प्रमातुर्देहाद्बहिः प्रसृतं यन्नायनं तेजः तेनैव विपर्यस्तेन तेजसा स्वाधिष्ठायकस्यात्मनो यदि स्वमुखज्ञातृता जायेत तद्दर्पणेन पुनः कोऽर्थः -- पुरः प्रतिफलनहेतूनामन्येषामपि कुड्यादीनां तत्र संभवात् । अथ दर्पणादय एव प्रतिफलनहेतवो न कुड्यादय ? इति चेत् स्वच्छन्दाभिधानमेतत् --


पं॰ 14 क॰ पु॰ तद्दर्पणे कोऽर्थः प्रतिफलेति पाठः ।
पं॰ 17 क॰ पु॰ इति स्वच्छताभिधानमिति पाठः ।

14


यतः समानेऽपि प्रतिघातहेतुत्वे दर्पणादय एव तथा न कुड्यादय -- इत्यत्र न किंचिन्निमित्तमुत्पश्यामः । अथात्राधिकः स्वच्छत्वाख्यो धर्मोऽस्ति निमित्तम् ? इति चत्, नैतत् -- स्वच्छत्वं हि न प्रतीघाते निमितम्, एवं ह्यालीकस्य स्वच्छत्वात् तस्मिन्सति नभसि न कस्यापि अवकाशः स्यात् प्रत्युत तत्प्रतिबिम्बग्रहणे निमित्तम् -- इति विरुद्धत्वमेव हेतोरावहति, तेन प्रतीघाते मूर्तत्वाद्येव निमित्तं, तच्चोभयत्रापि समानं, यद्वा दर्पणेन प्रतिफलनस्य वृत्तत्वादिदानीं दर्पणं विनापि स्वमुखग्रहणं स्यात् -- इति तेन किं प्रयोजनम् ॥13॥
एवं च प्रतिफलनबलात्प्रत्यावृत्ता यदि नायना रश्मयः स्वकमेव वक्त्रं गृह्णन्ति तन्निज एव देशे तन्न्याय्यं नान्यत्र दर्पणादेरन्तरित्याह
विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । tantraloka.3.14a
रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ tantraloka.3.14b


पं॰ 6 ख॰ पु॰ नभसि कस्याप्यनवकाश इति पाटः ।
पं॰ 17 ग॰ पु॰ वदने न पुनर्मकुरान्तरे इति पाठान्तरं चास्ति ।

15


रूपमिति, स्ववदनसंबन्धि -- वदने निज इति -- स्ववदनदेशे एवेत्यर्थः, स्वदेशावस्थितमेव हि ग्राह्यं ग्राहको गृह्णातीति भावः । न हि नीलदेशं परिहृत्य नीलज्ञानं नीलं परिच्छिन्दत् क्वचिद्दृष्टम्, ग्राहकात्मत्वमिति ग्रहीतृसंबद्धमेव चैतज्ज्ञेयम् -- आत्माधिष्ठितानामेव ह्येषां 1 ग्राहकत्वव्यवहारः । किं च बहिःनिःसृतानां नयनतेजसामात्मनाधिष्ठानं किमशरीरेण सशरीरेण वा ? आद्ये पक्षे शरीरस्य भोगायतनत्वं न स्यात् -- तेन विनापि बहिर्बुद्धिलक्षणस्य भोगस्य उल्लासात्, एवं च तस्य `भोगायतनं शरीरम्' इति स्वसिद्धान्तभङ्गो भवेत् ॥14॥
सशरीरेणाधिष्ठानेन च बिम्बवदेवास्य प्रतिपत्तिः स्यान्न त्वन्यथा इत्याह
स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । tantraloka.3.15a


1 नायनतेजसामित्यर्थः ।



पं॰ 3 क॰ पु॰ परित्यज्येति पाठः ।
पं॰ 5 ख॰ पु॰ संबन्ध एव चेति पाठः ।
पं॰ 7 क॰ पु॰ आत्माधिष्ठानमिति पाठः ।
पं॰ 12 ख॰ पु॰ सशरीराधिष्ठाने चेति पाठः ।

16


न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ tantraloka.3.15b
यदीदं निजमुखाधिकरणत्वेनात्मनो रूपमवभासेत तत् `ममेदं रूपम्' इत्यहन्तास्पदत्वेन पर्यस्ता प्रतिपत्तिः स्यात्, न पुनर्वेद्यैकात्मनो 1ऽस्येदं रूपम् इति इदन्तास्पदत्वेन, अत्र हि अव्युत्पन्नानां बालादीनामयमित्येवैकरसा प्रतिपत्तिः, व्युत्पन्नस्तु `मन्मुखमवेदेमत्र प्रतिबिम्बितम्' इत्यभिमन्यतां नाम, को दोषः ?, बिम्बात्पुनरस्य प्रतिबिम्बत्वे भेदेन प्रतिपत्तिरस्त्येव -- तत्र एवंरूपत्वस्य अपह्नोतुमशक्यत्वात्, किं च स्वमुख एव यद्यात्मनो रूपभानं स्यात् तत्स्पर्शोऽपि भायात्, रूपसंनिवेशौ हि कामं गुरुत्वगन्धवत्त्वादिरहितौ स्याताम्,


1 विषयरूपो वेद्यैकात्मक इति पर्यायः ।



पं॰ 3 ख॰ पु॰ यदिदमिति पाठः ।
पं॰ 5 क॰ पु॰ पर्याप्ता इति, पुनर्बोध्यकर्मात्मनोऽस्येति च पाठः ।
पं॰ 7 ख॰ पु॰ एकैवैकरसा इति पाठः ।
पं॰ 9 ख॰ पु॰ प्रतिबिम्बे भेदेनेति पाठः ।
पं॰ 12 क॰ पु॰ भानरूपमिति पाठः ।

17


न पुनस्तदव्यभिचरितस्वभावत्वात् स्पर्शहीनौ क्वचिद्दृष्टौ, रूपप्रतिबिम्बे तु स्पर्शाद्भिन्नमेव रूपं प्रतीयते, नह्यग्निप्रतिबिम्बभाजो मुकुरस्य क्वचिदुष्णत्वमुपलब्धम्, तद्रूपावभासे यथा तद्धर्मस्य संनिवेशस्य अवश्यं भानं तथा तदव्यभिचारिणः स्पर्शस्यापि स्यात्, यदि स्वमुखमेव गृह्येत तस्मान्न युक्तमुक्तं `स्वकस्यैव वक्त्रस्य ग्रहणम्' इति । ननु अत एव उक्तं `भ्रान्तिरियम्' इति यत्स्वमुखमेव गृह्यमाणं भ्रान्त्याभिमन्यते -- दर्पणे गृहीतमिति, यद्येवं तर्हि सैवास्तु किमसंवेद्यमानस्य सत्यमुखग्रहणस्याभ्युपगमेन, भ्रान्तौ हि आरोप्यमाणमेव परिस्फुरति न वस्तुतत्त्वमपि, शुक्तिकारजतनिर्भासे हि यदि शुक्तिकापि भायात् तत्कृतं रजतनिर्भासेन इति भ्रान्तिरेव न स्यात्, एवं सत्यमेव चेन्मुखं गृहीतं का नाम भ्रान्तिः, भ्रान्तावपि वा किं दर्पण एव मुखत्वेन भाति उत स्वमुखं परमुखत्वेन ? न तावत् आद्यः पक्षो -- दर्पणस्याखण्डस्यैव निर्भासमानत्वात्, नहि रजतनिर्भासावसरे शुक्तिकाया अपि


पं॰ 10 ख॰ पु॰ मैवास्तु ति पाठः ।
पं॰ 18 क॰ पु॰ नहि तावत् रजतमिति पाठः ।

18


भानं भवेत्, नापि द्वितीयः -- एवं हि औदासीन्यमवलम्बमानः सर्वो जनः स्वमुखे भूषणविन्यासप्रसाधनादौ अनादृतः स्यात्, तस्माद्भ्रान्त्यभाबाद्बिम्बविलक्षणं प्रतिबिम्बाख्यं वस्त्वन्तरमेवैतदभ्युपगन्तव्यम् ॥15॥
अत आह
रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । tantraloka.3.16a
न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ tantraloka.3.16b
तत् -- उक्तात् भ्रान्त्यभावादेर्हेतोः, स्पर्शादिशून्यत्वात् केवलं तद्रूपसंस्थानं, तत्र दर्पणादौ प्रतिबिम्बितं सत् वस्त्वेव, न पुनरवस्तु, किं तु स्पर्शादिभिर्न्यग्भूतैरेव तद्युक्तम्, अन्यथा ह्यस्य बिम्बादविशेष एव स्यात्, तस्मादस्त्येव प्रतिबिम्बलक्षणस्तृतीयो राशिरित्याशयः ॥16॥
किं नाम चेदं स्पर्शादीनां न्यग्भूतत्वमित्याह


पं॰ 14 क॰ पु॰ न्यग्भूतैरेतद्युक्तमिति पाठः ।

19


न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः । tantraloka.3.17a
स चार्थसंगमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ tantraloka.3.17b
स इति -- प्रमाणाभावः, अनवस्थितेरित्यर्थात्स्पर्शादीनां, यदि वा नामात्र हि स्पर्शादीनामवस्थानं स्यात् तत्तैः सह इन्द्रियाणि संयुज्येरन्, तत्संनिकर्षादेव चोत्पद्यमानं ज्ञानं तत्र प्रमाणतां यायात् -- इति तत्प्रमीयमाणस्य स्पर्शादेर्ग्राह्याभावो भवेदिति भावः ॥17॥
किं च
अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते । tantraloka.3.18a
नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ tantraloka.3.18b


पं॰ 3 ख॰ पु॰ स चाक्षसंयोगाभावात्सोस्यादर्शेति पाठोऽप्यस्ति ।
पं॰ 13 ख॰ पु॰ नैतस्य भासते इति पाठः ।

20


अत इति -- स्पर्शादीनामनवस्थितेः, यदि ह्येतस्य प्रतिबिम्बितस्य रूपसंस्थानमात्रस्य स्पर्शाद्यपि स्यात् तत्तद्धर्मो गुरुत्वादिरपि भायात्, तदभावे चास्य किं प्रमाणमित्याह `नह्यादर्शो संस्थितोऽसाविति' असाविति गुरुत्वादिर्धर्मः, प्रतिबिम्बितस्य पर्वतादेः, गुरुत्वादिधर्मसंभवे हि तद्योगात् दर्पणोऽप्यचाल्यः स्यात्, न चैवम् -- इति प्रतिबिम्बेऽपि तन्नास्तीत्युक्तं `गुरुत्वादिधर्मो नैतस्य लक्ष्यते' इति । ननु रूपं तावत्स्पर्शाव्यभिचारि सर्वत्रैव दृष्टं, बिम्बे चैवमिति दर्पणे रूपमेव केवलं किमिति प्रतिसंक्रान्तम् ? इत्याशंक्याह `तद्दृष्टौ स उपायक' इति, तद्दृष्टाविति -- तस्य रूपसंस्थानमात्रस्य दृष्टाववभासन इत्यर्थः, दर्पणे हि पूर्वोक्तयुक्त्या रूपमेव स्वच्छमस्तीति तदवभासन एवस्य साधनत्वं, न स्पर्शादेरपीति भावः । उपाय एव उपायकः, इति स्वार्थे कन् ॥18॥
ननु यथा दर्पणस्तद्दृष्टावुपायस्तथान्येऽप्यालोकादयः,


पं॰ 8 घ॰ पु॰ न चानुरूपं तावदिति पाठः ।
पं॰ 9 क॰ पु॰ स्पर्शाद्यव्यभिचारीति पाठः ।
पं॰ 15 ख॰ पु॰ औपयिक इति पाठः ।

21


इत्युपायत्वाविशेषेऽप्येष एव कस्मादस्याधार उच्यते ? इत्याशंक्याह
तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । tantraloka.3.19a
आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥ tantraloka.3.19b
यतः पुनस्तस्मादादर्शादेष प्रतिबिम्बो भेदेन पृथक्तया न भाति ततो हेतोस्तिलेषु तैलमितिवदभिव्यापकतयास्य एष आधार उच्यते, अत्र पुनरुत्पन्नस्य सतः प्रतिबिम्बस्य ज्ञप्तावालोकादय उपाया, इति -- तेभ्योऽस्य विशेषः, तदाह -- तत्र त्विति, क्रमादिति दर्पणाभेदेन उत्पत्त्यवभासात्, उत्तरकालं संनिहितेऽपि दर्पणे जातेऽपि प्रतिबिम्बे दीपं विना कस्तद्व्यवहारः, को हि वेद अन्धतमसे दर्पणे मुखं संक्रान्तमिति, एवमन्धस्य संक्रान्तेऽपि मुखे सत्यपि आलोके न तद्व्यवहारः, अनन्धस्य तु सत्यामपि


पं॰ 1 क॰ ख॰ पु॰ विशेषेऽप्ययमेव कस्मादप्याधार इति पाठः ।
पं॰ 5 क॰ पु॰ तत्र सूपाया इति पाठः ।
पं॰ 15 क॰ पु॰ प्रतिसंक्रान्तमिति पाठः ।

22


एवंसामग्र्यां केनापि वैगुण्येन यदीन्द्रियार्थसंनिकर्षाभावात् तज्ज्ञानं नोत्पन्नं तत्क एवं परिच्छिन्द्यात् -- इत्येतज्ज्ञप्तावेषां समुदितानामुपायत्वम्, अवभासनमात्रसारमेव हि प्रतिबिम्बसतत्त्वम् -- इत्येतदिह प्राधान्येनोक्तम् ॥19॥
ननूक्तयुक्त्या दर्पणात् दीपादीनामपि अविशिष्टमेव प्रतिबिम्बग्रहणसहिष्णुत्वम्, इति किमिति न तेऽपि स्वात्माभेदेन तद्भासयेयुः ? इत्याशंक्याह
दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । tantraloka.3.20a
सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ tantraloka.3.20b
सत्यमस्त्येव दीपादीनां स्वात्मनि प्रतिबिम्बग्रहणसहिष्णुत्वं, किं तु प्रतिबिम्बस्य दर्पणे यथानतिरिक्तत्वेऽपि ततोऽतिरिक्तायमानत्वेन प्रकाशः, तथा


पं॰ 2 क॰ पु॰ एनं परिच्छिन्द्यादिति पाठः ।
पं॰ 5 ख॰ पु॰ इह न प्राधान्येनेति पाठः ।
पं॰ 8 ख॰ पु॰ स्वात्मभेदेनेति पाठः ।
पं॰ 11 ख॰ पु॰ सर्वतश्चापि वैमत्यादिति पाठः ।

23


नात्रेति अत आह `न विभादर्शवत्पृथक्' इति, यतो दीपादीनां काठिन्यस्याभावः, कठिने हि दर्पणादौ प्रतिसंक्रान्तं मुखादि आधारस्य स्थैर्यात् पृथक्प्रतिभासते, दीपादितेजः पुनः काठिन्याभावात् एकवदिति, तत्रास्थैर्यात्तत्तथा न प्रकाशते यथा निर्मलेऽपि जलाशयादावस्तिमितत्वात्प्रतिसंक्रान्तमपि मुखादि न लक्ष्यते तथेहापीति भावः । नन्वेवमप्स्वपि द्रवत्वात्काठिन्याभावात् स्तैमित्येऽपि प्रतिबिम्बस्य पृथक् प्रतिभासो न स्यात् ? न -- अस्त्येव हि अपां काठिन्यम्, नहि यथा नभसि भुजं परिभ्रमयतो न प्रतीघातस्तथात्रापीति, अत एवात्र बाहुभ्यां तरतः पुंसो बाह्वोः परं तद्भेदने परिश्रमः किं तु तदापेक्षिकं, नहि यथा पृथिव्यां काठिन्यमस्ति तथाप्सु, यथा चात्र तथा न तेजसि, नहि तेजसि काठिन्यं नास्तीत्युच्यते किं तु तदपेक्षयापि स्वल्पं प्रतिबिम्बस्य पृथक्प्रकाशनायोग्यमिति, अन्यथा हि अमूर्तत्वादाकाशतुल्या एव दीपादयोऽपि भवेयुः,



पं॰ 3 ख॰ पु॰ आधारस्थैर्यादीति समस्तः पाठः ।
पं॰ 9 क॰ पु॰ अस्त्येव हि एषामिति पाठः ।
पं॰ 10 क॰ पु॰ भुजं भ्रमयति इति पाठः ।

24


संविदि पुनरेतन्नास्त्येव -- इत्यमूर्तत्वात्तत्र न प्रतिबिम्बस्य पृथक्प्रकाशः, किं च दर्पणादि पुरत एव स्वच्छं, न पश्चादिति, तत्र मलिनं पश्चाद्भागं भित्तिन्यायेनाश्रित्य स्वच्छे पुरोभागे प्रतिबिम्बं भासते, इह तु सर्वतः स्वच्छत्वात् एकेन भागेन प्रतिसंक्रान्तमपि मुखादि न लक्ष्यते भागान्तरेण -- अन्ततः आलोकादिना प्रतिसंक्रान्तेन तस्यावृतत्वात् । यद्वा यथा काचस्फटिकशकलादयः सर्वतः स्वच्छत्वात् तद्व्यवहितवस्तुदर्शनान्यथानुपपत्त्या नायनानां रश्मीनां न प्रतिघातकास्तथा दीपादयोऽपि, काठिन्याभावे सति सर्वतः स्वच्छत्वाद्भागान्तरेण निर्गच्छतः प्रतिबिम्बस्येति न तत्र तत्प्ररोहमेति -- मलिनस्य तत्प्रतीघातकस्य भागान्तरस्याभावात्, संवित्पुनः सर्वतो नैर्मल्यात्स्वप्रकाशेति न तस्या वेद्यत्वगन्धोऽप्यस्तीति तत्र कथं प्रतिबिम्बस्य पृथक्प्रकाशः, यत्पुनः प्रसरावसरे दीपे छायापुरुषज्ञाने वा नभस्थे तेजसि प्रतिबिम्बं लक्ष्यते तन्मन्त्रादिमाहात्म्याच्चक्षुप्यपि वा यत्प्रतिबिम्बं


पं॰ 4 क॰ पु॰ भित्तिन्यायेन पश्चादाश्रित्येति पाठः ।
पं॰ 15 ख॰ पु॰ तस्य वेद्यत्वेनेति पाठः ।

25


दृश्यते तन्न तैजसे चक्षुरिन्द्रिये -- तस्य नित्यपरोक्षत्वात्, किं तु आप्ये गोलके इति न कश्चिद्दोषः ॥20॥
न चैतत्प्रतिबिम्बसतत्त्वमस्माभिः स्वोपज्ञमेवोक्तम्, इत्याह
एतच्च देवदेवेन दर्शितं बोधवृद्धये । tantraloka.3.21a
मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ tantraloka.3.21b
प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । tantraloka.3.22a
स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥ tantraloka.3.22b
एतत्प्रतिबिम्बसतत्त्वं कृपालुना देवदेवेन `मूढानाम्' इति वक्ष्यमाणेन प्रकारेण बोधवृद्धये वर्शितमिति संबन्धः । दर्शितमिति सामान्येनोक्तेः सर्वत्रैवेति भावः, तदुक्तम्
`पूजयेद्बिम्बवद्देवीः करणत्वेन दीधितीः ।'
इति । तथा
26

`जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ।'
इति । तथा
`सदसद्वस्तुनिर्भासी दर्पणप्रतिबिम्बवत् ।'
इति । तथा
`यथान्तर्निर्मलादर्शे भान्ति भावा षिरोधिनः ।
अनामिश्रास्तथैतस्मिंश्चिन्नाथे विश्ववृत्तयः ॥'
इति । तथा
`प्रतिबिम्बन्ति यस्यार्थास्त्वन्तः स्वच्छमणेरिव ।'
इति । तथा
`न मे बन्धो न मे मोक्षो जीवस्यैता विभीषिकाः ।
प्रतिबिम्बमिदं बुद्धेर्जलेष्विव विवस्वतः ॥'
इति । तत्र तावदेतत्प्रतिबिम्बं वस्तु भवति -- प्रतिभासमानत्वात्, न च भातमभातं भवति इति हि सर्वेषामेवात्राविवादः, न चात्र कश्चिद्बाधकः प्रत्ययोऽस्ति -- तस्योत्तरकालमनुदयात् । ननु यद्येवं तदेतेन प्रसिद्धतद्वस्तुजातीयेन भवितुं युक्तम्, अन्यथा हि अनियतं वस्तुत्वं भवेत्, तेन `शशस्यारूपस्पर्शाद्यात्मकं


पं॰ 3 क॰ पु॰ वस्तुनिर्भासः इति पाठः ।
पं॰ 6 क॰ पु॰ तथैकस्मिंश्चिन्नाथे इति पाठः ।
पं॰ 10 क॰ पु॰ बालस्यैता विभीषिका इति पाठः ।
पं॰ 16 ख॰ पु॰ प्रसिद्धं तद्वस्तु सजातीयेन इति पाठः ।
पं॰ 17 ख॰ पु॰ वस्तु भवेत् इति ।

27


विषाणं वस्तुभूतमस्ति' इत्यपि स्यात्, न चास्य प्रसिद्धवस्त्वन्तरजातीयत्वमस्तीति कथं वस्तुभूतत्वं स्यात्, बाह्यं खलु उत्पन्नं वस्तु देशाद्देशान्तरमपि व्रजेत्, न चैवमेतत् ? तदाह `ततोऽप्यन्यत्र न' इति, तत इति दर्पणदेशात्, अन्यत्रेति देशान्तरे भवति -- इति सर्वत्रैव संबन्धनीयम्, बाह्यं च रूपादि स्पर्शाद्यव्यभिचारितमेव भवति, नैवमेतादित्याह `नाप्यलमिति' नैतत्पर्याप्तमित्यर्थः, यतोऽत्र स्पर्शादिपरिहारेण रूपसंस्थानमात्रस्यैव प्रतिभासः, न-शब्दोऽत्र काकाक्षिवद्योज्यः, बाह्यं पर्वतादि सर्वस्यैव प्रतिहन्तृ -- सर्वं चास्य मूर्तत्वात्, न चैवमेतत् अत आह `प्रतिघातीति' न-शब्दोऽत्रापि संबन्धनीयः, अन्यथास्य भग्ने दर्पणे कथं तदन्तः प्रवेशः स्यात्, न चैतद्दर्पणस्य पृष्ठतो युज्यते, तथात्वे हि दर्पणस्यादर्शनं भवेत्, बाह्यस्य च सर्वस्यैवोत्पत्तौ कारणापेक्षास्ति, नहि स्वयंभु किंचित् वस्तु संभवति, उत्पन्नं पुनरन्यनिरपेक्षमेवास्ते, यथा चक्रादिपरिहारेण घटः,



पं॰ 10 क॰ पु॰ प्रतिहन्तृभूतं तत् सर्वमिति पाठः ।
पं॰ 12 ख॰ पु॰ अन्यथा ह्यस्य भाने दर्पणे कथमिति पाठः ।

28


इदं पुनरुत्पत्तिनिमित्तं दर्पणादि उपेक्ष्य स्वातन्त्र्येण न किंचिदपि सत्तां लभते, न हि दर्पणादिपरिहारेण प्रतिबिम्बं क्वचिद्दृश्यते तदुक्तं `न स्वतन्त्रमिति' अत एव च नैतत्स्वयं स्थिरमस्थिरं वापीत्याह `न स्थाय्यस्थायि चापि नेति' बाह्यं हि वस्तु उत्पन्नं सत् बहुकालयोगित्वात्स्थायीत्युच्यते अन्यथा तु अस्थायि, एतत्पुनर्दर्पणादेरतिरेकेण सत्तामेव नोपलभत इति कस्य कालयोगो येन स्थायित्वमस्थायित्वं वापि भवेत्, तस्मात्प्रसिद्धतद्वस्तुजातीयत्वाभावात् शशविषाणादिवदेतदवस्त्वेवेति नास्य प्रतिभासो न्याय्यः । अथ चास्ति प्रतिभास इति किमेतदुच्यते ? इत्याह `स्वच्छस्यैवैष कस्यापि महिमेति' स्वच्छस्य दर्पणादेरेवैष प्रभावो यद्वस्तु अवस्तुविलक्षणमाभासमात्रसारं प्रतिबिम्बं नामेदं प्रतिभासते इति, तेन भगवता यथा दर्पणादौ आभासमात्रसारा एव भावा अवभास्यन्ते


पं॰ 1 क॰ पु॰ दर्पणमपेक्ष्येति पाठः ।
पं॰ 3 क॰ पु॰ प्रतिबिम्बं किंचिदिति पाठः ।
पं॰ 13 क॰ पु॰ स्वच्छस्यैवैष प्रभावो यद्वस्तु वस्तु इति पाठः ।
पं॰ 16 क॰ पु॰ अवभासन्ते इति पाठः ।

29


तथा संवित्तावपीति न बहीरूपत्वेनैषां सत्त्वमस्तीति बोधं वर्धयितुं बाह्यार्थाभिनिवेशिनामेतदुपादिष्टम्, अतः सर्वमेवैतदाभासमात्रसारमेवेति, न बाह्येऽर्थेऽभिनिवेष्टव्यं येन द्वैतमोहः शाम्येत् ॥21॥22॥
अत एवाह
न देशो नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता । tantraloka.3.23a
न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ tantraloka.3.23b
प्रतिबिम्बं तावद्दर्पणातिरेकेण स्वतन्त्रतया पृथक् सत्तां नोपलभत इत्युपपादितम्, ततश्च नास्त्यस्य दर्पणात्पृथग्देश इत्युक्तं `न देश इति' एवं चास्य न घनता -- काठिन्यलक्षणा मूर्तिरपि नास्तीत्यर्थः, अन्यथा हि दर्पणादस्य पृथग्देशः स्यात् -- एकस्यैव नभोदेशस्य मूर्तेन दर्पणेनाक्रान्तस्य मूर्तान्तरेणाक्रमितुमशक्यत्वात् मूर्तानां समानदेशत्वविरोधात्, अत एव चास्य नो रूपं -- रूपाख्यगुणयोगो


पं॰ 1 क॰ पु॰ एषां स्वत्वमिति पाठः ।

30


नास्ति इत्यर्थः स हि मूर्त एव भवतीति भावः, अत एव चास्य न कालेन संबन्धः, स हि कंचित्पूर्वापरभाविनमपेक्ष्य पृथग्लब्धसत्ताकस्य स्यात्, अस्य पुनर्दर्पणात् पृथक् सत्तैव नास्तीत्युक्तं बहुशः, अत एव चास्य `न परिमा' परिमाणं नास्ति -- सत एव तद्योगोपपत्तेः, अन्यथा हि पारामते दर्पणदेशे महाकरं पर्वतादि कथं प्रतिसंक्रान्तं भवेत्, नापि दर्पणान्तरनेकेषामर्थानां सहप्रतिभासेऽपि परस्परं नैबिड्येन संश्लेष इत्याह `न चान्योन्यासंग इति' । ननु नगरप्रतिभासादौ यद्यनेकेषां भिन्नदेशानामर्थानामेकस्मिन्नेव परिमिते दर्पणदेशे प्रतिभासः तदेतेषामेकदेशत्वान्यथानुपपत्त्या परस्परं संमेलनेनैकपिण्डीभावेनैवासौ न्याय्यः, न चेदेवं तर्हि तत्र नगरप्रतिभास एव न भवेदित्याह `न च तदपहानिरिति' सर्वेषामेवर्थानां परस्परं वैविक्त्येनैव प्रतिभासात्, न


पं॰ 3 ख॰ पु॰ पूर्वापरादि भावीति पाठः ।
पं॰ 5 ख॰ पु॰ अत एव च नास्त्यत्र परिमाणमिति पाठः ।
पं॰ 8 क॰ पु॰ दर्पणान्तरे केषामिति पाठः ।
पं॰ 12 क॰ पु॰ प्रतिभासत्वं तदा एषामिति पाठः ।
पं॰ 16 क॰ पु॰ वैचित्र्येण भानादिति पाठः ।

31


च भातमभातं भवतीत्युक्तं बहुशः, अत एव च नास्य अवस्तुत्वमित्याह `न चावस्तुत्वं स्यात् इति' सर्वेषामेवार्थानां प्रतिभासात्, एवमप्यस्य वस्तुत्वोपपादकमल्पमपि निजं तथ्यं रूपं नास्तीत्याह `न च किमपि सारं निजमिति' इत्येवमाभासमात्रसारं प्रतिबिम्बसतत्त्वं बाह्यार्थवादिनो निश्चितमेव द्वैतप्रथात्मकं संकुचितं ज्ञानं शाम्यतामित्येतदर्थं दर्पणविधिः -- कुड्यादिवैलक्षण्येन प्रतिबिम्बसहिष्णुवस्तुप्रकारो, निरदिशत् निर्दिष्टवान् । एवं च सत्ययमर्थः प्रदर्शितो भवति -- यद्विश्वमिदं संविदि दर्पणप्रतिबिम्बन्यायेन अवस्थितं न तु तदतिरिक्ततया बहीरूपत्वेन वस्तुसदिति न तत्राभिनिवेष्टव्यमिति ॥23॥
तदेवमुपपादिते प्रतिबिम्बमार्गे यच्छब्दस्य प्रतिबिम्बं तत्सामवायिकेन अभिधानान्तरेणाप्यभिधीयते इत्याह


पं॰ 3 ख॰ पु॰ एवं वस्तुत्वेनेति पाठः ।
पं॰ 8 ख॰ पु॰ सहिष्णुर्वस्तुविकार इति पाठः ।
पं॰ 10 ख॰ पु॰ अर्थोऽप्रदर्शित इति पाठः ।
पं॰ 11 ख॰ पु॰ दर्पणन्यायेनेति पाठः ।
पं॰ 15 क॰ पु॰ अभिधान्तरेणेति पाठः ।

32


इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बनवर्त्मनि । tantraloka.3.24a
शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥ tantraloka.3.24b
न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् । tantraloka.3.25a
तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥ tantraloka.3.25b
पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ । tantraloka.3.26a
चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥ tantraloka.3.26b
प्रतिसंक्रमणेन श्रुत् श्रवणमस्या इति `प्रतिश्रुत्का' यद्वा प्रति सदृशं श्रवणं प्रतिश्रुत् सैवेति । इह खलु नैयायिकानां दर्पणादौ चाक्षुषाणां



पं॰ 1 इत्थं प्रदर्शिते इति पद्याद्यार्धं ग॰ पुस्तकात्पूरितम् ।
पं॰ 6 क॰ पु॰ संश्रयात् इति पाठः ।
पं॰ 7 ख॰ पु॰ वक्राद्दूरस्थैरिति पाठः ।
पं॰ 11 ग॰ पु॰ छिद्रत्वाञ्चास्येति पाठान्तरं चास्ति ।

33


रश्मीनां प्रतिफलनात् स्वकवक्त्रग्रहणेन रूपस्य प्रतिबिम्बे श्रोत्रादेः प्रतिफलनाद्ययोगात् प्रतिश्रुत्कादौ मुख्यशब्दादिरूपतापरिकल्पनेनापि तदपह्नव इति न क्वचिदपि प्रतिबिम्बमस्तीत्याशयः । तत्र रूपप्रतिबिम्बं तावदस्तीत्युपपादितम् । एवं शब्दादीनामपि प्रतिबिम्बास्तित्वोपपादनाय तन्मतमाशंक्य दूषयति -- `न चासौ' इत्यादिना, असाविति प्रतिश्रुत्का, शब्दज इति न पुनः संयोगजो विभागजो वा -- स्वत एव स्वहेतुसमुत्थत्वादयं मुख्यः शब्द इति भावः, स च वक्त्रदेशात् गच्छन्नेव प्रतीयते अत एव तत्सविधवर्तिभिः प्रमातृभिराद्य एव शब्दस्तीव्रतमप्रायः श्रूयते, न पुनरन्त्यो मन्दतमप्रायः, दूरदेशवर्तिभिः पुनरन्त्य एव न त्वाद्य इति, प्रतिश्रुत्का पुनस्तेनैव वक्त्रा तत्समीपस्थैर्वा प्रमातृभिरागच्छत्त्वेन स्वसंमुखं प्रवर्तमानत्वेन संश्रूयते, अत एव च दूरस्थैः गह्वरगुहाप्रायदेशस्थैः प्रमातृभिर्न श्रूयते -- तदाभिमुख्येन


पं॰ 1 क॰ पु॰ रूपप्रतिबिम्बमिति पाठः ।
पं॰ 5 क॰ पु॰ प्रतिबिम्बनमस्तीति पाठः ।
पं॰ 12 क॰ ख॰ पु॰ पुनरन्त्यतमप्राय इति पाठः ।
पं॰ 14 क॰ पु॰ वक्त्रसमीपस्थैरिति, ख॰ पु॰ वक्त्रात्समीपस्थैरिति पाठः ।

34


तस्याः प्रवर्तमानत्वाभावात्, मुख्यः शब्दश्च बहूनां श्रोतॄणां श्रोत्राकाशदेशमधिशयानो न भिन्नभिन्नस्वरूपतामभ्येति, तथात्वे हि सर्वेषामेव श्रोतॄणामेकविषयत्वेन प्रवृत्तिर्न स्यात्, प्रतिश्रुत्का पुनरधःस्थितक्वथितसशब्दपानीयभाण्डाच्छादनरूपाः पिठिरादयो ये उपादानविशेषास्तेषां यानि विशिष्टानि स्थूलसूक्ष्मादिरूपाणि छिद्राणि -- सुषिरा भागास्तत्र संगतौ तदाकाशमेलनेन एकशब्दात्मवैचित्र्यं यायादिति वस्तुभूतशब्दजशब्दजातीयत्वानुपलब्ध्या नासौ शब्दजः शब्दः, तस्माद्यथा मुखस्य दर्पणादौ प्रतिबिम्बमस्ति तथास्य मुख्यस्य शब्दस्यापि नभसीत्याह -- `अस्य शब्दस्य प्रतिबिम्बं मुखादिवत्' इति ॥24॥25॥26॥
न केवलं वस्तुभूतमुख्यशब्दजातीयत्वाभावात् अत्र प्रतिबिम्बत्वं यावद्रूपप्रतिबिम्बजातीयत्वादपीत्याह
इदमन्यस्य वेद्यस्य रूपमित्यवभासते । tantraloka.3.27a


पं॰ 8 क॰ पु॰ तदेकांशमेलनैकशब्देति, ख॰ पु॰ मेलने नैकशब्देति पाठः ।
पं॰ 18 क॰ पु॰ रूपमित्यभिधीयते इति पाठः ।

35


यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥ tantraloka.3.27b
यथा दर्पणादावहन्ताप्रत्ययस्यापि स्वमुखसंबन्धिनो रूपस्यान्यसंबिन्धित्वेन वेद्यतया प्रतीतिः तथा `मयैतदुक्तम्' इति परामर्शनीयस्यापि स्वयमुच्चारितस्य शब्दस्य `केनाप्युक्तम् अहमाकर्णये' इति, अतश्च प्रतिबिम्बान्तरजातीयत्वादप्यत्र प्रतिबिम्बत्वमित्याशयः । तु-शब्दश्चार्थे स च पूर्वापेक्षया, इतिशब्दो वाक्यसमाप्तौ ॥27॥
ननु केनचिद्वक्त्रा यद्युच्चारितः शब्दो दूरे गुहाद्याकाशे प्रतिसंक्रान्तिमेति तत्तद्देशवर्तिनामेव तच्छ्रवणं भवेत् न त्वन्येषाम् ? इत्याह
नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः । tantraloka.3.28a
तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥ tantraloka.3.28b


पं॰ 2 क॰ पु॰ आकर्णयत्विति इति पाठः ।
पं॰ 6 क॰ पु॰ केनाप्युक्तस्याकर्णयेति इति पाठः ।
पं॰ 10 क॰ ख॰ पु॰ वक्त्रोच्चरितशब्द इति पाठः ।
पं॰ 14 क॰ पु॰ यत्नत इति पाठः ।

36


यस्माद्दर्पणादाविव प्रतिबिम्बस्य नियमेन बिम्बसांमुख्यमेव भवति तस्मात्तयोः बिम्बप्रतिबिम्बयोरन्तर्वर्तिन एव प्रमातारस्तं बिम्बसांमुख्येन प्रवर्तमानं प्रतिशब्दं शृण्वन्ति, न पुनर्दूरगास्तदतिरिक्तगह्वरगुहादिदेशस्थाः -- तदाभिमुख्येन तस्याप्रवर्तनात् ॥28॥
ननु यद्येवं तर्हि तन्मध्यगत्वेऽपि केनापि निमित्तेनाश्रुतबिम्बाभिमतशब्दाकाराः प्रमातारः कथं बिम्बाभिमुख्येन प्रवर्तमानं प्रतिशब्दं गृह्णीयुः ? इत्याशंक्याह
मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् । tantraloka.3.29a
स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥ tantraloka.3.29b
`भवेदिति' प्रतिबिम्बग्रहणयोग्यदेशावस्थानत्, `स्वपश्चात्स्थमिति' अतर्कितोपनतबिम्बभूतप्रियादर्शने विशेषणद्वारेण हेतुः ॥29॥


पं॰ 1 क॰ पु॰ प्रतिशब्दवन्नियमेन इति पाठः ।
पं॰ 11 क॰ पु॰ बिम्बग्रहं त्वपि विनेति पाठः ।
पं॰ 15 क॰ पु॰ विम्बग्रहे देशेति, ख॰ पु॰ ग्रहणदेशावस्थानात् इति पाठः ।
पं॰ 16 क॰ पु॰ प्रियदर्शनेन विशेषणेति पाठः ।

37


ननूक्तयुक्त्या दर्पणादेरतिरेकेण प्रतिबिम्बं पृथक्सत्तामेव नोपलभत इति कथं तस्य बिम्बसांमुख्यं भवति ? इत्याशंक्याह
सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥ tantraloka.3.30a
तादृग्बिम्बसंमुखो योऽसौ दर्पणः, तेनाभेदो दर्पणैकात्म्यं, तेन या प्रतिबिम्बस्य संस्थितिरवस्थानं, तेन एतदेवास्य सांमुख्यं -- यद्दर्पणो बिम्बसांमुख्येन वर्तते, तदनधिकवृत्तित्वात् तस्य दर्पणादेः पुनरवश्यंभाविबिम्बसांमुख्यम्, अन्यथा हि प्रतिबिम्बस्योत्पत्तिरेव न स्यात्, एवमाकाशादेरपि बिम्बसांमुख्येनैव हि शब्दादिप्रतिबिम्बग्राहित्वमित्यवगन्तव्यम् ॥30॥
तदाह
अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् । tantraloka.3.31a



पं॰ 2 क॰ पु॰ इति तस्येति, ख॰ पु॰ इति न तस्येति पाठः ।
पं॰ 5 क॰ पु॰ भेदसंस्थितिः इति पाठः ।
पं॰ 8 क॰ पु॰ दर्पणे बिम्बेति पाठः ।

38


वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तृवत् ॥ tantraloka.3.31b
अतो -- यथोक्ताद्बिम्बसंमुखाधारविशेषैकात्म्याद्धेतोः, कूपाद्याकाशे तद्बिम्बभूतं सशब्दं वक्तुः संबन्ध्याकाशं प्रतिबिम्बितं जाततदभेदवृत्ति सत् भाति प्रतिभासते इत्यर्थः । शब्दस्य गुणत्वेन गुणिनि समवेतत्वात्तत्परतन्त्रत्वमेवेति गुणिनैव सह अस्य गुणिनि प्रतिबिम्बनं युक्तमित्युक्तम् -- `आकाशे आकाशम्' इति । कूपाद्याकाशस्य वक्त्राकाशसांमुख्यं हृदयङ्गमीकर्तुं दृष्टान्तयति `तत्परवक्तृवत्' इति -- ततः प्रकृताद्वक्तुः परो वक्ता प्रतिवक्ता तस्मिन्निवेत्यर्थः, यथा वक्रृसंमुखीन एव प्रतिवक्तृसंबन्धी श्रोत्राकाशो वक्तृसंबन्धिनः सशब्दस्याकाशस्य प्रतिबिम्बं गृह्णाति तथा कूपाद्याकाशोऽपीति । इह खलु तत्तदिन्द्रियजं ज्ञानं गृहीततत्तत्प्रतिबिम्बमेव विषयं परिच्छिन्द्यात् अन्यथा हि निराकारस्य ज्ञानस्य नीलपीताद्यनेकविषयसाधारणत्वात्


पं॰ 2 ख॰ पु॰ परवक्तृगम् इति पाठः ।
पं॰ 3 क॰ पु॰ विशेषैक्याद्धेतोरिति पाठः ।
पं॰ 7 क॰ पु॰ गुणिसमवेतात्परतन्त्रमिति पाठः ।

39


`इदं नीलज्ञानम्, इदं पीतज्ञानम्' इति नियमो न स्यात्, अतश्च साकारं ज्ञानम् -- आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानुपपत्तेः, न च यदेवास्य जनकं तदेव विषय इति प्रतिकर्मव्यवस्थापि सिद्ध्येत्, इति वक्तुं युक्तं -- जनकत्वाविशेषाच्चक्षुरादीनामपि तद्विषयत्वप्रसंगात् । अथैतन्नीलेन कर्मणा सत्ता जन्यते न त्वेवं चक्षुरादिना इत्यस्य तदेकविषयत्वम् ? इति चेत् नैतत् -- कर्मत्वं हि कारकत्वं तच्च क्रियावेशवशाद्भवति, अन्यथा हि तद्वस्तुमात्रं स्यात्, न कारकं, नीलस्य चेह ज्ञानाख्यक्रियावेश एव विचारयितुं प्रस्तुत इति कथं तत्पूर्वमपि अस्य कर्मत्वं स्यात् इति । न जनकत्वेनापि तदेकविषयत्वं सिद्ध्येत् यत्पुनर्जनकत्वाविशेषेऽपि वस्तुस्वभावकृत एवायं विशेष इत्युच्यते तत्पलायनप्रकारासूत्रणम्, इत्यलं बहुना । एतेन इन्द्रियाण्यपि गृहीततत्प्रतिबिम्बान्येव तत्तद्विषयपरिच्छेदमाधातुमुत्सहन्ते इति साधु दृष्टान्तितम् -- `तत्परवक्तृबदिति' यद्यप्येतत् श्रोतृमात्रे संभवति तथाप्यभिनिवेशादिना


पं॰ 2 क॰ पु॰ साकारज्ञानं साकारवत्तामिति पाठः ।
पं॰ 3 क॰ पु॰ अस्य कर्मव्यवस्थयेति पाठः ।

40


वक्तृप्रतिवक्त्रोः परस्परमवश्यंभावि सांमुख्यमित्येतन्निदर्शनीकृतम् । श्रोतॄणां पुनरसांमुख्यमपि संभाव्यते, तथाहि -- एवं वदन्तो लौकिकाः श्रोतारो दृश्यन्ते `न मया श्रुतमनेनोक्तमिति' । यद्वा सामन्येन कूपाद्याकशे प्रतिबिम्बितो वक्त्राकाशः पर इव वक्ता भाति -- वक्त्रन्तरेण इव उच्चारितः शब्दः श्रूयते इत्यर्थः । एवं प्रतिबिम्बमपि तद्भेदवृत्तित्वाद्बिम्बसंमुखमेवेति युक्तमुक्तम् `नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्येति' ॥31॥
अत एव च बिम्बप्रतिबिम्बयोर्मध्यदेशग एव प्रमाता तत्तद्गृह्णाति नान्य इत्याह
यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् । tantraloka.3.32a
तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥ tantraloka.3.32b
मुखमित्यन्यसंबन्धिमुखप्रतिबिम्बं, तथाविधेति बिम्बसंमुखीनः पश्चात्स्थो -- गह्वरगुहाप्रायदेशस्थ


पं॰ 10 ख॰ पु॰ मध्यदेशे एवेति पाठः ।
पं॰ 14 क॰ पु॰ तथा भूताकाशपार्श्वस्थमिति पाठः ।
पं॰ 17 क॰ पु॰ पश्चाद्भागस्थो गुहेसि पाठः ।

41


इत्यर्थः, ध्वनिमिति प्रतिश्रुत्कालक्षणं, नो वेत्ति इति वेदनमात्रनिषेधात्प्रतिबिम्बस्य वस्तुतोऽवस्थानमस्तीति सूचितम्, न हि ज्ञानाभावाज्ज्ञेयस्याप्यभाव इति भावः -- तेनोत्पन्नमपि प्रतिबिम्बं योग्यदेशावस्थानाभावान्न जानातीत्यर्थः, यद्यपि चैतन्नियमाद्बिम्बसांमुख्यमित्यादिनैव गतार्थं तथापि रूपप्रतिबिम्बसाजात्योपोद्बलनाय पुनरुपात्तम् ॥32॥
नन्वत्र रूपप्रतिबिम्बजातीयत्वं किमंशांशिकया सर्वंसर्विकया वा ? तत्राद्ये पक्षे वस्तुभूतशब्दजशब्दजातीयत्वमपि प्रतिभासमानत्वादिना केनाप्यंशेनास्तीति तद्रूपतापि प्रसक्ता स्यात्, सर्वंसर्विकया चैतन्नास्ति -- यदुत्पन्नेऽपि रूपप्रतिबिम्बे हस्तादेर्बिम्बस्य प्रतीतिः, इह तु न तथा, -- इत्याशंकां दर्शयति
शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् । tantraloka.3.33a



पं॰ 2 क॰ ख॰ पु॰ मात्रप्रतिषेधात्प्रतिबिम्बितस्यैव वस्तुन इति पाठः ।
पं॰ 11 क॰ पु॰ दिनाप्यंशेन नास्ति इति पाठः ।

42


अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥ tantraloka.3.33b
क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका । tantraloka.3.34a
इह शब्दस्तावत् अनभिव्यक्तोऽनुच्चारितः प्रतिबिम्बात्मतां नाभ्येति इति नूनमसौ प्रथमे क्षणे स्थानकरणाभिघातादभिव्यक्तः सन् श्रोत्रेन्द्रियग्राह्यतामवगाहते, द्वितीये क्षणे पुनः प्रतिबिम्बतामश्नुवानः श्रूयते, इति -- नास्योच्चारितप्रध्वंसिनो बिम्बसंमतस्य प्रतिबिम्बात्मतावसरे प्रतीतिः, अतश्च नात्र रूपप्रतिबिम्बजातीयत्वं -- तत्र प्रतिबिम्बकालेऽपि बिम्बस्य प्रतीतेः ॥33॥
तदेतन्नेत्याह
तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥ tantraloka.3.34b


पं॰ 5 ख॰ पु॰ तावदनुच्चरितो वक्त्रा इति पाठः ।
पं॰ 6 क॰ पु॰ बिम्बतामेतीति पाठः ।
पं॰ 10 क॰ पु॰ प्रतिबिम्बावसरे, अतो नात्रेति च पाठः ।

43


निश्चय इति विमर्शात्मावभासः, तत्रापि न प्रतिबिम्बकाले बिम्बस्य प्रतीतिः, न हि प्रतिबिम्बप्रतीतौ बिम्बस्यापि हस्तादेः प्रतीतिर्युक्ता -- युगपत्प्रतीतिद्वयोदयविरोधात्, न चेयं चित्रज्ञानवदेकैव उभयालम्बना -- बिम्बप्रतिबिम्बयोर्विदूरदेशवर्तित्वात् अविच्छेदेन प्रतिभासाभावात् । ननु हस्तादेः प्रतिभासाभावेऽपि वस्तुनोऽवस्थानमस्ति ? इति चेन्नैतत् -- आभास एव हि सर्ववस्तुव्यवस्थापकः तमन्तरेण अर्थानां सत्त्वासत्त्वनिश्चयायोगात्, स एव चात्र नास्ति, इति हस्तादेर्बिम्बस्य वस्तुतः सद्भावे किं प्रमाणं, शब्दस्य च द्वितीये क्षणेऽपि नश्यदवस्थस्य वस्तुतः सद्भावोऽस्ति किं तु प्रतिबिम्बात्मतावसरे तस्य प्रतीतिरेव न भवेदित्यत्रापि न बिम्बप्रतिबिम्बयोर्युगपत्प्रतीतिरितिस्थितमेवास्य तज्जातीयत्वम् ॥34॥
एवं नैयायिकमतापहस्तनेन प्रतिबिम्बपरमार्थमुपपाद्य प्रकृतमेवोपक्रमते


पं॰ 4 क॰ पु॰ द्वयाविरोधात् इति पाठः ।
पं॰ 7 ख॰ पु॰ हस्तादेरप्रतिभासेपि इति पाठः ।
पं॰ 13 ख॰ पु॰ बिम्बनावसरे इति पाठः ।

44


इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बसतत्त्वके । tantraloka.3.35a
प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥ tantraloka.3.35b
शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः । tantraloka.3.36a
स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः । tantraloka.3.36b
परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥ tantraloka.3.36c
तदाह -- तत्रेत्यादि, तत्रेति एवंस्थिते सतीत्यर्थः । नभसीति तत्रैव शब्दस्य नैर्मल्यात्, स च परस्थः सन् प्रतिबिम्बनमर्हतीत्यन्वयः, एतच्च सर्वत्रैव योज्यम्, सानन्द इति आनन्दस्थानात्मके कन्दहृत्तालुतलादौ आधारविशेषे, तत्रैव हि स्पर्शस्य नैर्मल्यान्मिथुनोपभोगसमुचितः स्पर्शः प्रतिसंक्रामति येन धातुनिःष्यन्दसुखाद्यपि स्यात् । अत एवानन्दातिशयकारित्वात्
45

`सुन्दर' इत्युक्तम् । अन्यो दुःखादिकारित्वादसुन्दरोऽपि स्पर्शोऽर्थात् दुःखाद्यात्मके मत्तगन्धजठरकूर्मनाडीकण्ठप्रभृतौ आधारविशेषे प्रतिसंक्रामति येन मूर्च्छाद्यपि स्यात्, परस्थ इति परानुभूयमानः, तत्र हि स मुख्य इति भावः, एतच्चोपलक्षणं -- तेन स्मर्यमाणोत्प्रेक्ष्यमाणादिरूपोऽप्यसौ एवं स्यात् -- प्रतिबिम्बत्वं च अस्य कुतो लक्ष्यते ? इत्याह -- `प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकर' इति, एतच्च सुखदुःखयोरनुभवे समानमित्यविशेषेणोपात्तम् ॥35॥36॥
नन्वेवमर्थक्रियाकारित्वादेष मुख्य एव स्पर्शः किं न भवति इत्याशंक्याह
न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥ tantraloka.3.37a
मुख्य इति बिम्बरूपः, तस्य स्पर्शस्य यत्कार्यमानन्दादि तस्य यत् पारम्पर्यं -- प्रबन्धेन प्रवृत्तिः तस्यानवभासनात्, साक्षाद्धि संनिहिते कारणे कार्यमविच्छेदेनैव उद्गच्छद्भवति, न चैवमिह, इत्यस्य न मुख्यत्वम् ॥37॥
46

एतदेवान्यत्राप्यतिदिशति
एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥ tantraloka.3.38a
दन्तोदक इति निर्मलरसगुणयुक्ते -- रसनेन्द्रियाधिष्ठानभूत इत्यर्थः ॥38॥
एवं प्रतिश्रुत्कावद्रसादिप्रतिबिम्बानामपि रूपप्रतिबिम्बजातीयत्वं कटाक्षयन् यथासंभवं व्यवस्थां दर्शयति
यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते । tantraloka.3.39a
तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेऽक्षेण विना स्थितं त्वपि ॥ tantraloka.3.39b
इह अवभासनमात्रसारमेव प्रतिबिम्बसतत्त्वमित्युक्तं बहुशः, अवभासनं च तत्तद्विषयग्राहकेन्द्रियानुग्राहकान्तःकरणाधिष्ठानायत्तम्, यतः संनिहितेऽपि दर्पणादौ यदि चक्षुरादीन्द्रियजातमन्तःकरणाधिष्ठितं


पं॰ 13 ख॰ पु॰ भासमात्रेति पाठः ।
पं॰ 14 क॰ पु॰ अवभासमानं चेति पाठः ।

47


न जातं तत्को नाम मुखादिप्रतिबिम्बावभासः ततश्च दृशोः दृगिन्द्रियाधिष्ठेययोः गोलकयोः प्रतिसंक्रान्तं रूपमन्येन अन्यसंबन्धिना चक्षुरिन्द्रियेण विना नाभिलक्ष्यते -- चक्षुरिन्द्रियान्तरव्यापारमन्तरेण न निर्भासत इत्यर्थः । न केवलं तत्परिच्छेदकौशलशून्ये दर्पणादौ प्रतिसंक्रान्तस्य रूपस्यावभासने अन्यसंबन्धिचक्षुरिन्द्रियोपयोगो यावत्स्वयमेवं कुशलयोर्दृशोरपि इति दर्शयितुमुक्तं `दृशोरिति' । न खलु चक्षुरञ्जनादिवदतिसंनिकृष्टं परिच्छेत्तुमलमिति भावः, तेन न इन्द्रियव्यापारमन्तरेणैतन्निर्भासत इति तात्पर्यम् । एवं यथैतत्तथा रसादि प्रतिसंक्रान्तं सत् स्थितमपि स्वेन्द्रियव्यापारमन्तरेण पुनर्न लक्ष्यते नावभासत इत्यर्थः । अत्र चक्षुरादीन्द्रियाणामवभासनान्यथानुपपत्त्या अन्तःकरणाधिष्ठानं लक्ष्यते इति न स्वकण्ठेनैतदुपात्तम्, अन्यथा हि व्याप्रियमाणमपि चक्षुरादि न किंचित्परिच्छिन्द्यात् । ननु इह रूपशब्दयोरन्तश्चक्षुःश्रोत्रादौ बहिश्च


पं॰ 2 ख॰ पु॰ दृशोः इति पदं नास्ति ।
पं॰ 14 ख॰ पु॰ धिष्ठानं लभ्यते इति पाठः ।

48


दर्पणाकाशादौ प्रतिबिम्बयोग इति बाह्यं प्रतिबिम्बमन्यसंबन्धिभ्यां चक्षुःश्रोत्राभ्यां परिच्छिद्यते इत्युपपन्नम् । स्पर्शादि पुनरन्तर्देह एव कन्दादौ प्रतिसंक्रामति इति तत्र स्थितं, तत्परसंतानस्य नित्यानुमेयत्वाच्च अन्यस्य संबन्धिनो बाह्येन्द्रियज्ञानस्य विषयो न भवेत्, तत्कथमुक्तं -- रूपप्रतिबिम्बवदेतदक्षेण विना न लक्ष्यते इति ॥39॥
तदाह
न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥ tantraloka.3.40a
आन्तरे इति अन्तर्देहवृत्तित्वात्, स्पर्शनधामनीत्युपलक्षणम् तेन गन्धरसक्षेत्रयोरपि ग्रहणम्, अन्याक्षधियश्चान्तरस्पर्शाद्यग्रहणे `बहिःस्पृश' इति विशेषणद्वारको हेतुः, स इति गोचरशब्दापेक्षो निर्देशः । एवमन्तर्देहवृत्तित्वात्कन्दादेः स्पर्शादिक्षेत्रस्य च



पं॰ 1 क पु॰ प्रतिबिम्बनयोग इति पाठः ।
पं॰ 6 क॰ पु प्रतिबिम्बनवदिति पाठः ।
पं॰ 10 ख॰ पु॰ स गोचर इत्यनन्तरमेव `अतोऽन्तिकेति' उत्तरपद्यमयत्रैव न्यस्तमस्ति ।
पं॰ 13 क॰ पु॰ धियश्चान्तःस्पर्शेति पाठः ।
पं॰ 15 क॰ पु॰ अन्तर्देहवर्तित्वादिति पाठः ।

49


चक्षुर्गोलकादिवत् प्रमात्रन्तरे इन्द्रियगोचरता नास्तीति ॥40॥
तत्र स्थितं स्पर्शादि अन्तःकरणाधिष्ठितस्वेन्द्रियव्यापारादेव निर्भासत इत्याह
अतोऽन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता । tantraloka.3.41a
तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥ tantraloka.3.41b
अतो -- यथोक्तादान्तरत्वादेर्हेतोः, मनःप्रभृतीनामन्तःकरणानां क्रमेण सर्वेन्द्रियसंयोगसंभवादन्तिकस्थं संयुक्तं स्वकं विषयौचित्येन नियतं तादृगिन्द्रियघाताद्यभावाददुष्टं च तदिन्द्रियं त्वगादि तस्य प्रयोजनान्तःकरणकर्तृका स्पर्शादौ विषये प्रेरणा यदा भवेत् तदार्थाद्बिम्बिभूतबाह्यस्पर्शादिसंनिकर्षात् जाते इन्द्रिये -- इन्द्रियज्ञाने, गृहीताकरस्यैव ज्ञानस्य तत्तन्नियतविषयपरिच्छेदोपपत्तेः पूर्वमुक्तत्वात् स्पर्शाद्यात्म प्रतिबिम्बमात्तं गृहीतं सत् तादृशीमानन्दादिलक्षणं स्वकां बिम्बसंमतामर्थक्रियां


पं॰ 7 क॰ पु॰ तदा तदा तत्प्रतिबिम्बेति पाठः ।

50


सूयते करोतीत्यर्थः । अत एव चात्र वास्तवत्वं -- सर्वत्रैव ग्राह्यग्राहकभावस्यैवं भावात् ॥41॥
बाह्यबिम्बाभावे पुनः स्मर्यमाणं स्पर्शादि स्वक्षेत्रे प्रतिसंक्रान्तमपि न सत्यार्थक्रियाकारि इत्याह
न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः । tantraloka.3.42a
अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥ tantraloka.3.42b
स्मृतादिति बहिरस्यासंभव उक्तः -- तस्या अतीतार्थविषयत्वात्, मानसज्ञानस्य हि सुगन्धिबन्धूकादि बहिरसंभवदपि विषयो भवेदिति भावः । ऋता भवेत्, न तु न भवेदेव इत्यभिप्रायः । स्मर्यमाणादपि हि स्पर्शादेः सुखादि स्यात्, किंतु न तत्सत्यं -- प्राबन्धिन्यास्तत्प्रवृत्तेरभावात्, अत्र हेतुः -- सा किल वर्तमानत इति, किलेति हेतौ,



पं॰ 4 ख॰ पु॰ कारीत्यर्थ इत्याहेति पाठः ।
पं॰ 9 क॰ पु॰ बहिरसंभव इति पाठः ।
पं॰ 10 क॰ पु॰ बन्धूकादिरसंभवदिति पाठः ।
पं॰ 12 क॰ पु॰ ऋता भवेन्न भवत्येवेति, ख॰ पु॰ भवेदेवेति, पाठः ।
51


यतः सा अर्थक्रिया वर्तमानतो बहिः संभवत एवार्थाद्भवतीत्यर्थः, तदाह अत इत्यादि, अत उक्ताद्बहिर्बिम्बात्मना संभवन् उत्कृष्टः स्पर्शः तदिन्द्रिये -- स्पर्शनेन्द्रियज्ञाने, समागतो -- दत्तप्रतिबिम्बः, अत एव विदितः सन्, तथाक्रियः -- सत्यनिजार्थक्रियाकारी भवतीत्यर्थः ॥42॥
नन्वेवं सत एवार्थस्य प्रतिबिम्बार्पणक्षमत्वात् बहिरसंभवन् स्पर्शादिः प्रतिसंक्रान्तिमेव नैतीति स्मृत्यादौ को नामार्थक्रियामेव कुर्यात् यस्या असत्यत्वमपि परिकल्प्येत ? इत्याशंक्याह
असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा । tantraloka.3.43a
करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ ॥ tantraloka.3.43b
बाह्यबिम्बाभावे तत्सदृशः स्मृत्यादिविकल्पैरुल्लिखितः स्व एवाकारीभूतः स्पर्शादिर्न तु बाह्यः


पं॰ 1 ख॰ पु॰ बहिःसम्भाविन इति पाठः ।
पं॰ 13 ख्॰ पु॰ सुखात्मक इति पाठः ।
पं॰ 14 ख॰ पु॰ सा चापीति पाठः ।
पं॰ 15 ख॰ पु॰ तत्सदृशस्मृत्यादीति समस्तः पाठः ।

52


तस्मिन् स्पर्शक्षेत्रादौ प्रतिबिम्बितः सन् तथा स्वौचित्यादसत्यां सुखलक्षणां तामर्थक्रियां करोतीति वाक्यार्थः । ननु कन्दादीनां बहूनां स्पर्शक्षेत्राणां संभवात् किं सर्वत्रैव स्पर्शः प्रतिसंक्रामति उत कुत्रचिदेव ? इत्याशंक्याह `स चापि कस्यामपि नाडिसंतताविति' कस्मिंश्चिदेव नाडीसंतत्यात्मके कन्दादावाधारविशेष इत्यर्थः, कन्दादिप्राधान्याद्धि केषांचित्केचिदेवाधारविशेषाः संभवन्तीति -- यत्रैवैषां नैर्मल्यातिशयः तालुतल इव षण्ठानां तत्रैव तेषां स्पर्शप्रतिसंक्रान्तिरिति भावः ॥43॥
एवं प्रतीम्बसतत्त्वमुपपाद्य प्रकृते योजयति
तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् । tantraloka.3.44a
नाथस्य वदतेऽमुष्य विमलां विश्वरूपताम् ॥ tantraloka.3.44b
तेन समनन्तरोक्तेन हेतुना, विश्वं संवित्तिरेव स्वच्छतातिशयान्मकुरः तस्मिन्नात्मानमर्पयत् --


पं॰ 7 ख॰ ग॰ पु॰ कन्दाधिपत्यादिति पाठः ।
पं॰ 11 क॰ पु॰ सतत्त्वं प्रतिपाद्येति पाठः ।

53


प्रतिबिम्बं दददमुष्य संवित्त्यात्मनो नाथस्य विमलां युक्त्यनुभवोपपादितत्वान्निरवद्यां विश्वरूपतांस्वात्माभिन्नतां वदते -- भासयति, संवित्तेरतिरेकेण न स्फुरति इति यावत्, न खलु दर्पणादेः स्वाधारान्मुखादेः पृथक् स्वातन्त्र्येण प्रतिभासो भवतीति भावः, तेन निखिलमिदं जगत् संवित्त्यात्मनः परमेश्वरस्यैवैकस्य रूपमिति पिण्डार्थः ।
यदुक्तं प्रज्ञालंकारे
`एवं तर्हि जगत् एकस्यैव कस्यचिदनंशस्य यथोक्तविधिना रूपमस्तु किं नः क्षीयते ।'
इति । वदत इति `भासनोपसंभाषा॰' (पा॰ सू॰ 1।3।47) इत्यादिना भासने आत्मनेपदम् ॥44॥
ननु संवित्तेरनतिरिक्तमेव चेद्विश्वं तत्संवित्त्यात्मकत्वात्तस्य तद्धर्मधर्मित्वमपि स्यात् ? सत्यम् -- अस्त्येव तत्, इति बाह्यदृष्टान्तपुरःसरमाह
यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः । tantraloka.3.45a


पं॰ 2 क॰ पु॰ उपपादितां निरवद्यामिति पाठः ।
पं॰ 4 ख॰ पु॰ स्फुरन्तीति पाठः ।
पं॰ 7 ख॰ पु॰ एकस्यैकस्येति पाठः ।

54


तदाधारोपरागेण भान्ति खड्गे मुखादिवत् ॥ tantraloka.3.45b
तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् । tantraloka.3.46a
प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥ tantraloka.3.46b
इह खलु रूपादयः प्रतिबिम्बिताः सन्तः स्वाधारोपाधिवैशिष्ट्येनैव अवभासन्ते, यथा खड्गे तद्धर्मोर्ध्वताद्युपरक्ततया मुखं तथा महति सूक्ष्मे वा दर्पणे तथात्वेनेति, तद्वद्विश्वमपीदं प्रकाशे प्रतिबिम्बितं सत् प्रकाशमानत्वादि तद्धर्मजातमाश्रयेत् -- स्वीकुर्यादेवेत्यर्थः । प्रकाशादनतिरिक्तत्व एव हि विश्वस्य प्रकाशमानत्वं स्यात् अन्यथा हि प्रकाशमानत्वायोगात् न किंचिदपि स्फुरेत्, अत एव च स्वयं प्रकाशमानत्वादस्य स्वातन्त्र्यं, प्रकाशादतिरिक्तत्वे हि जडस्य नीलसुखाद्यात्मनो विश्वस्य


पं॰ 2 क॰ पु॰ खड्गमुखादिवदिति पाठः ।
पं॰ 9 ख॰ पु॰ उपरक्ततया महति सूक्ष्मे वेति पाठः ।

55


स्वयमप्रकाशरूपत्वात् स्वात्मना न प्रकाशः अपि तु परेण इति परापेक्षायां पारतन्त्र्यं भवेदिति भावः, अत एव च सर्वमेवेदं वेद्यजातं प्रकाशात्मनः परमेश्वरस्य शरीरीभूतम् -- इति प्रकाशात्मत्वाद्विश्वात्मैव, तदुक्तम्
`प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च'
इति । तथा
'एकैकस्यापि तत्त्वस्य षट्त्रिंशत्तत्त्वरूपता' ।
इति च ॥45॥46॥
ननु रूपादीनां मध्यात्क्वचिदेव किंचित्प्रतिबिम्बमेतीति प्रतिपादितं प्राक्, तत्कथं रूपाद्यात्मकं निखिलमेव विश्वमेकस्मिन्बोधे प्रतिसंक्रान्तिमियात् ? इत्याशंक्याह
यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् । tantraloka.3.47a
प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥ tantraloka.3.47b


पं॰ 1 क॰ पु॰ स्वयंप्रकाशरूपत्वाभावात् स्वात्मनेति पाठः ।
पं॰ 4 क॰ पु॰ शरीरीभूतप्रायमिव इति पाठः ।
पं॰ 11 क॰ पु॰ इत्युपपादितमिति पाठः ।

56


सर्वत इति स्फटिकपक्षे सर्वस्याः पूर्वापरादिकाया दिशः बोधपक्षे सर्वस्माद्रूपादेः, यद्यपि सर्वतः स्वच्छे स्फटिके सर्वतो रूपमात्रप्रतिबिम्बमेव भवेदिति नास्य दृष्टान्तस्य रूपादिप्रतिबिम्बग्रहणसहिष्णौ बोधे साम्यं तथापि यथायथं स्वच्छतातिशयसंभवात् भावानां प्रतिबिम्बग्रहणोत्कर्षप्रतिपिपादयिषया एतदुपात्तम्, तथाहि दर्पणस्य पुरोभाग एव खड्गस्य पूर्वापरभागयोरेव स्फटिकस्य च सर्वत एव स्वच्छतातिशय इत्येषां यथायथं प्रतिबिम्बग्रहणे तारतम्यं संभवति, एवं बोधस्यापि सर्वतः स्वच्छत्वाद्रूपादिप्रतिबिम्बग्रहणे सामर्थ्यमिति, एवं च स्फटिकादपि अत्यन्तस्वच्छो बोध इति तात्पर्यार्थः ॥47॥
ननु का नामास्य ततोऽप्यत्यन्तस्वच्छता ? इत्याह
अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् । tantraloka.3.48a


पं॰ 3 ख॰ पु॰ मात्रबिम्बमेव भवतीति पाठः ।
पं॰ 11 ख॰ पु॰ ग्रहणेऽप्यसामर्थ्यमिति पाठः ।

57


अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥ tantraloka.3.48b
इह खलु प्रकाशः स्वप्रकाशत्वात् स्वात्मन एव प्रकाशते न परस्य इत्यन्यानपेक्षणात् वेद्यत्वगन्धमात्रमपि न स्पृशति इति नास्य स्फटिकादिवज्ज्ञानान्तरग्राह्यत्वं येनाकारावभासोऽपि स्यात्, इह स्वच्छमेव हि अस्वच्छस्य प्रतिबिम्बं स्वीकर्तुं शक्नुयात् सितदुकूलमिव स्फटिकमणिः, न च परप्रमात्रेकरूपं प्रकाशमपेक्ष्य अन्यदधिकस्वच्छं किंचिदस्ति यदस्याप्याकारग्रहणनिपुणं स्यात् इति युक्तमुक्तम् `अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम्' इति । स्फटिकादि पुनर्ग्राह्यत्वादेतदपेक्षया न स्वच्छं -- यथा यथा हि स्फुटावेद्यता तथा तथा स्वच्छत्वस्याभाव इति भावः, अनेनैव चाभिप्रायेण पूर्वं
`नैर्मल्यं मुख्यमेतस्य संविन्नाथस्य सर्वतः ॥
अंशांशिकातः क्वाप्यन्यत्॰॰॰ ॥'


पं॰ 2 क॰ पु॰ न रत्नं स्वाकृतीति पाठः ।
पं॰ 4 क॰ पु॰ इत्यन्योन्यापेक्षणात् इति पाठः ।
पं॰ 8 क॰ पु॰ स्फटिकमणेरिति पाठः ।

58


इत्यादिना बोधस्य तदितरेषां केषांचन भावनां च स्वच्छत्वस्य मुख्यामुख्यतया द्वैविध्यमुक्तम् । एवं दर्पणादि स्वच्छं स्फटिकं स्वच्छतरं बोधस्तु स्वच्छतम इत्याशयः ॥48॥
तदेवं संवित्प्रतिबिम्बेन विश्वस्य सर्वतः संभवत्यपि बाह्यप्रतिबिम्बसाम्ये अस्ति कश्चित्ततो युक्तिबलानीतo विशेष इत्याह
प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते । tantraloka.3.49a
तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ tantraloka.3.49b
इह खलु मुखादिना बाह्येन बिम्बेन दर्पणादौ प्रतिबिम्बं समर्प्यते इत्यत्र तावन्न कस्यापि विमतिः, यदा पुनस्तस्य बिम्बत्वेन संमतस्य बाह्यस्यैव प्रतिबिम्बत्वमुपगम्यते तदा किं नाम बिम्बं प्रतिबिम्बार्पणक्षमं वस्तु अवशिष्यताम्, न किंचिदपि संभवतीत्यर्थः । नहि यथा ज्ञानाद्विच्छिन्नो नीलसुखादिरर्थस्तथा ततोऽपि विच्छिन्नमर्थान्तरमस्तीति कस्याप्यभ्युपगमः ॥49॥
59

ननु यद्यप्येतदेवं तथापि निर्निमित्तमेव कथं प्रतिबिम्बमुदियात् इति, तत्र बिम्बभूतं किंचित्कारणं वक्तव्यम् ? इत्याशंक्याह
यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते । tantraloka.3.50a
तदपि प्रतिबिम्बत्वमेति बोधेऽन्यथा त्वसत् ॥ tantraloka.3.50b
अत्र खलु बिम्बत्वेन यत्किंचन प्रतिबिम्बार्पणक्षमं कारणमिष्यते तत्किं बोधादनतिरिक्तमतिरिक्तं वा ? अनतिरिक्तत्वे तत् उक्तयुक्त्या प्रतिबिम्बमेव न बिम्बम्, अतिरिक्तत्वे च बुद्ध्यमानत्वाभावात् तन्न किंचिदेव इति युक्तमुक्तं `तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम्' इति ॥50॥
एतदेवोपसंहरति
इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् । tantraloka.3.51a
साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥ tantraloka.3.51b


पं॰ 10 क॰ पु अतिरिक्ते तु इति पाठः ।

60


एवकारो भिन्नक्रमः -- तेन प्रतिबिम्बस्यैव, न पुनर्बिम्बस्यापीत्यर्थः, विश्वत्रेति -- न पुनर्बाह्ये मुखादौ, तत्र हि बिम्बप्रतिबिम्बयोर्द्वयोरपि सामर्थ्यमिति भावः ॥51॥
ननु तयोः परस्परसापेक्षत्वात् कथं बिम्बाभावे प्रतिबिम्बस्यैव सद्भावः ? इत्याह
ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् । tantraloka.3.52a
किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥ tantraloka.3.52b
एतदेव समाधत्ते -- किं कुर्म इत्यादिना, दृश्यते इति -- नहि दृष्टेऽनुपपन्नं नामेति भावः । ननु न खलु वयं दृष्टमपह्नुमहे यदेवमुच्यते किं तु दृश्यमानमिदं विश्वं प्रतिबिम्बतया न वाच्यमपि तु बिम्बतया इत्यभिदध्म इत्याह `ननु तद्बिम्बमुच्यताम् इति ॥52॥
एतदेव निराकतोरि
नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते । tantraloka.3.53a
61

अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥ tantraloka.3.53b
तल्लक्षणाभावादिति -- बिम्बलक्षणायोगात्, किं नाम बिम्बलक्षणम् ? इत्याह (बिम्बमित्यादि) अन्यामिश्रमिति -- सजातीयविजातीयव्यावृत्तमित्यर्थः । अत एव `स्वतन्त्रं' स्वरूपमात्रनिष्ठं -- परस्य परनिष्ठतानुपपत्तेः, तथात्वे हि स ततः पृथगेव न भवेदिति भावः । एवंरूपत्वे चास्याबाधितत्वमेवास्ति प्रमाणामित्युक्तं `भासमानमिति' ॥53॥
एवं बिम्बलक्षणानन्तरं तत्तुल्यकक्ष्यतया लक्षणीयस्य प्रतिबिम्बस्य पीठिकाबन्धं कर्तुं तदाधारस्य तावत् सर्ववादिसिद्धतां द्योतयितुम्
`निजधर्माप्रहाणेन पररूपानुकारिता ।
प्रतिबिम्बात्मता सोक्ता खड्गादर्शतलादिवत् ॥'
इति प्रज्ञालङ्कारकारिकार्थगर्भीकारेण लक्षणमाह
स्वरूपानपहानेन पररूपसदृक्षताम् । tantraloka.3.54a


पं॰ 7 ख॰ पु॰ निष्ठितत्वोपपत्तेरिति हि सत इति च पाठः ।
*पं॰ 13 क॰ पु॰ धर्मापहानेनेति पाठः ।

62


प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥ tantraloka.3.54b
इह दर्पणादेस्तनुत्वपरिमण्डलत्वाद्यात्मनः स्वस्यासाधारणस्य रूपस्यापरित्यागेऽपि परस्य मुखादेः संबन्धिना रूपेण यत् सादृश्यं तदेव प्रतिबिम्बात्मत्वं न तु तद्रूपतासादनमेव इति सर्व एव वादिन आहुः, नात्र कस्यापि विप्रतिपत्तिरिति भावः । ताद्रूप्ये हि श्लक्ष्णैकवपुषोऽपि दर्पणस्य निम्नोन्नतमुखप्रतिबिम्बपरिग्रहे श्लक्ष्णत्वाभावो भवेत् -- नगरादिप्रतिबिम्बयोगेऽपि अनेकरूपपरिग्रहात् दर्पणस्य आनैक्यं स्यात्, तेन यथा चित्रज्ञानस्य अनेकवेदनेऽपि चित्रपतङ्गादौ एकत्वानपायात् अनेकसदृशाकारतया एकत्वमेव नानेकत्वम्, एवं दर्पणादेरप्यनेकप्रतिबिम्बयोगे न अनेकरूपत्वमिति नानैक्यप्रसङ्गः अपि तु तत्सादृश्यमात्रमेव, न च सादृश्यमात्रादेव ताद्रूप्यं, न हि गवयसादृश्यादेव गौर्गवयः, तस्माद्बिम्बसदृशाकारत्वमेव प्रतिबिम्बधारित्वमिति तात्पर्यार्थः ॥54॥


पं॰ 3 क॰ पु॰ परिमण्डलाद्यात्मन इति पाठः ।
पं॰ 6 ख॰ पु॰ रूपत्वापादनमिति शोधितपाठश्चास्ति ।
पं॰ 11 क॰ पु॰ अनेकत्वं स्यादिति पाठः ।

63


एतदेवार्थद्वारेण संवादयति
उक्तं च सति बाह्येऽपि धीरेकानेकवेदनात् । tantraloka.3.55a
अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥ tantraloka.3.55b
उक्तमिति प्रज्ञालंकारादौ । तदुक्तं तत्र
`तस्मात्सत्यपि बाह्येऽर्थे धीरेकानेकवेदनात् ।
अनेकसदृशाकारा नानेकैव प्रसज्यते ॥'
इति ॥55॥
नन्वेवमपि प्रतिबिम्बस्य लक्षणं न किंचिदुक्तं स्यात् ? इत्याशंकां प्रदर्श्य तल्लक्षणमेवाह
नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते । tantraloka.3.56a
अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् । tantraloka.3.56b
प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ tantraloka.3.56c
इह खलु सर्व एव वादिनस्तत्प्रतिबिम्बमाहुः यदन्येन स्वाधिकरणभुतेन दर्पणादिना य व्यामिश्रणा
64

तादात्म्यं, तया योगात्तदनतिरिक्तत्वाद्धेतोः, ततोऽन्यस्मात् तदाकारग्रहणसहिष्णोर्दर्पणादेर्भेदेन पृथक्स्वातन्त्र्येणाशक्यं भासनं यस्य तत्, तत्परतन्त्रमित्यर्थः । अनेन चास्य बिम्बवैपरीत्यं दर्शितम्, तद्धि अन्यामिश्रं स्वतन्त्रं चेत्युक्तम् । एतच्च पूर्वमेव बहूक्तम् इतीह न पुनरायस्तम् ॥56॥
एतदेव प्रकृते योजयति
बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् । tantraloka.3.57a
परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥ tantraloka.3.57b
इदं खलु तत्त्वभुवनाद्यात्मकं विश्वं बोधे प्रतिबिम्बं किं न भण्यते -- अवश्यमेवाभिधातव्यमित्यर्थः, यस्मादिदमपि दर्पणेनेव मुखं बोधेन प्राप्ततदैकात्म्यम्, अत एव दर्पणादिव मुखस्य बोधाद्भेदेन पृथगशक्यं भासनं यस्य तत्, नहि प्रकाशमन्तरेण


पं॰ 1 क॰ पु॰ तथायोगात्तदतिरिक्तत्वहेतोरिति पाठः ।
पं॰ 10 क॰ पु॰ पुरतत्त्वादीति पाठः ।
पं॰ 12 ख॰ पु॰ तत्त्वभुवनाद्यारम्भकमिति पाठः ।

65


किंचिदपीदं भावजातं स्फुरेदिति भावः, यदुक्तम्
`तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्त ज्ञानरूपं ततो जगत् ॥
नहि ज्ञानादृते भावः केनचिद्विषयीकृताः ।
ज्ञानं तदात्मतां प्राप्तमेतस्मादवसीयते ॥'
इति । तथा
`युगपद्वेदनाज्ज्ञानज्ञेययोरेकरूपता ।'
इति ॥57॥
तदेवं प्रतिबिम्बलक्षणयोगेऽपि विश्वस्य यदि निर्निमित्तमेव बिम्बत्वमुच्यते तदुच्यतां को दोषः,एष खलु नास्ति विवादः -- न चात्र विदुषां भरः, ते हि वस्तुन्येवाभिनिविष्टाः, तच्च नान्यथा कर्तुं शक्यं -- प्रतिबिम्बलक्षणयोगस्यैवात्रोपपादितत्वात्, बिम्बलक्षणस्य च योजयितुमशक्यत्वात् तदाह
लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् । tantraloka.3.58a


पं॰ 10 ख॰ पु॰ प्रतिबिम्बग्रहणयोगेऽपि बिम्बस्येति पाठः ।

66


प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥ tantraloka.3.58b
अकस्मादिति निर्हेतुकमित्यर्थः ॥58॥
ननु तल्लक्षणयोगाद्विश्वस्य प्रतिबिम्बत्वं यदुच्यते तदास्तां, नास्माकमत्र अभिनिवेशः, तस्य पुनर्बिम्बाख्यं कारणमन्तरेण सद्भाव एव कथं स्यात् ? इत्याशंक्याह
ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः । tantraloka.3.59a
एतदेव प्रतिविधत्ते
किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥ tantraloka.3.59b
किं तत इति -- बिम्बं चेन्नास्ति ततः किं, न किंचिदपीत्यर्थः, न हि प्रतिबिम्बे शिंशिपात्व इव वृक्षत्वं बिम्बमैकात्म्येन वर्तते, येन बिम्बाभावे प्रतिबिम्बमपि न स्यात् ॥59॥
तदाह



पं॰ 1 क॰ पु॰ युध्यन्ते इति, ख॰ पु॰ बुध्यन्ते इति पाठः ।

67


अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे । tantraloka.3.60a
न हानिर्हेतुमात्रे तु प्रश्नोऽयं पर्यवस्यति ॥ tantraloka.3.60b
अत इति -- बिम्बप्रतिबिम्बयोस्तादात्म्यवृत्तित्वाभावात्, प्रोक्तस्येति अर्थाद्विश्वविषये, तदसंभव इति बिम्बाभावे । ननु न वयं प्रतिबिम्बलक्षणे विवदामहे, किं तु बिम्बं विना तत्कथं भवेदिति ब्रूमः, नहि निर्निमित्तमेव भावानां संभवो न्याय्य ? इत्याशंक्याह, हेतुमात्र इत्यादिना, हेतुश्च द्विविधः -- उपादानं निमित्तं च, उपादानं यथा घटादौ मृदादि, निमित्तं यथा तत्रैव दण्डादि, प्रतिबिम्बस्य च बिम्बं नोपादानकारणं, तद्धि घट इव मृत्स्वरूपविकारमासाद्य कार्यानुगामित्वेन वर्तते, नैवमत्र बिम्बं -- प्रतिबिम्बोदयेऽपि तस्याविकृतस्यैव पृथगुपलम्भात्, तेनात्र दण्ड इव घटे निमित्तकारणं बिम्बम् ॥60॥
ततश्च निमित्तकारणविषय एवायं प्रश्नो नान्यत्र, इत्याह
68

तत्रापि च निमित्ताख्ये नोपादाने कथंचन । tantraloka.3.61a
निमित्तकारणानां च कदाचित्क्वापि संभवः ॥ tantraloka.3.61b
न च निमित्तकारणानां सर्वंसर्विकयैव संभवो भवेत्, इत्याह -- निमित्त इत्यादि, इह खलु दण्डपरिहारेणापि स्वकराहत्यैव चक्रं भ्रामयन् कुम्भकारः कुम्भं कुर्यात्, मृत्परिहारेण पुनरतिनिपुणोऽपि कुम्भकारः कुम्भं कर्तुं न शक्नुयात्, अतश्चोपादानकारणवत् नावश्यं निमित्तकारणोपयोगः, तेन बिम्बं विनापि प्रतिबिम्बं भवेत् -- तदुत्पादनसमर्थस्य तत्प्रतिनिधिभूतस्य कारणान्तरस्यापि भावात् ॥61॥
तदाह
अत एव पुरोवर्तिन्यालोके स्मरणादिना । tantraloka.3.62a
निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥ tantraloka.3.62b
69

अत इति -- बिम्बाभावेऽपि निमित्तान्तरेण प्रतिबिम्बोत्पादस्य संभवात्, आलोक इति -- तस्य रूपप्रतिबिम्बग्रहणसहिष्णुत्वात्, घनेनेति -- भावनात्मतामापन्नेनेत्यर्थः, अन्यथा हि सर्वस्यैव स्मर्तुः सर्वदैव पुरः स्मर्यमाणं भायात् । अत्र तावद्बिम्बं नास्ति दयिताया देशादिविप्रकृष्टत्वेन असंनिहितत्वात्, अथ च तत्कार्यं प्रतिबिम्बं दृश्यते इत्यत्र स्मरणादिना निमित्तान्तरेणावश्यं भाव्यम् नहि निर्निमित्तमेव प्रतिसंक्रान्तायाः कान्ताया विच्छेदेन कादाचित्कः प्रतिभासो भवेत् ॥62॥
तदाह
अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी । tantraloka.3.63a
कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता ॥ tantraloka.3.63b
अन्यथा इति -- स्मरणादिना निमित्तान्तरेण यदि प्रतिसंक्रान्ता कान्ता न स्यादित्यर्थः, संविदारूढेति -- नहि संविदमारूढस्य वस्तुनो विच्छेदेन भानं भवेदिति भावः, संविदो विच्छेदे हि जाड्यापत्तेर्न किंचिदपि स्फुरेत्, इति सर्वमिदमन्धं स्यात् ।
70

संविदारूढं च वस्तु संवेद्यमानत्वादेव, न ततोऽधिकम्, इति न तदपि विच्छेदेन भायात्, अत आह `न वै संविद्विच्छेदं पुरतो गता' इति ॥63॥
ननु यद्येवं तर्हि ग्राह्यग्राहकभाव एव न भवेत्, इति समग्रव्यवहारविप्रलोपः स्यात् ? सत्यं -- नहि परां संविदमपेक्ष्य भेदगन्धमात्रमप्यस्तीति सर्वं संविदेव, इति -- किं नाम ग्राह्यं ग्राहकं वापि स्यात्, सैव पुनः स्वस्वातन्त्र्यात्स्वं रूपं गोपयित्वा यदा संकुचितज्ञानात्मतामवभासयति तदायं सकलो ग्राह्यग्राहकात्मा भेदव्यवहारः, तदाह
अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् । tantraloka.3.64a
यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥ tantraloka.3.64b
अत एव -- परसंविदपेक्षया विच्छेदासंभवाद्धेतोः, किंचित्संकुचितप्रमात्रात्म सुस्फुटं निर्विकल्परूपं ज्ञानसंज्ञमान्तरं परसंवित्प्रमेययोर्मध्यवर्ति भवतु,


पं॰ 15 ख॰ पु॰ विच्छिदां संभवादिति पाठः ।
पं॰ 17 ख॰ पु॰ ज्ञानमान्तरमिति पाठः ।

71


यत्रास्य प्रतिबिम्बस्य, विच्छिदा भेदेन, संकल्पस्वप्नादौ भानं भवेत् -- विरहिणो हि संकल्पादावपि बिम्बाभावात्तीव्रतरस्मरणादिनिमित्तान्तरसंनिधापितमेव कान्ताप्रतिबिम्बं भायादिति भावः ॥64॥
एवं बहिः स्मृत्यादौ यथा बिम्बाभावेऽपि निमित्तन्तरेण प्रतिबिम्बं भवेत्तथा इहापि, इत्याह
अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे । tantraloka.3.65a
अतः -- उक्तात् निमित्तकारणमात्रसव्यपेक्षत्वलक्षणाद्धेतोः, देवस्य द्योतनात्मनश्चित्तत्त्वस्य, तादृशे विश्वप्रतिबिम्बने, ज्ञानक्रियाद्याः शक्तयो निमित्तं भवन्तु, एवं न कश्चिद्दोषः संभाव्यते इत्यर्थः ।
शक्तयश्च
`बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्ता ।'
इत्याद्युक्तयुक्त्या स्वातन्त्र्यशक्तिमात्रपरमार्था एव, इति निजैश्वर्यमात्रादेव अस्य स्वात्मनि विश्वाकारधारित्वम् -- इति पिण्डार्थः, यदुक्तं श्रीप्रत्यभिज्ञाकृता
`तत्र त्वर्पकादुपाधेस्तदाकारत्वं,
चित्तत्त्वस्य तु निजैश्वर्यात्।'
72

इति । अनुप्रत्यभिज्ञाकृताप्यनेनैवाभिप्रायेण
`नाथ त्वया विना बिम्बं स्वच्छे स्वात्मनि दर्शितम् ।
प्रसेना दर्पणेनैव प्रभावाद्भावमण्डलम्'
इत्याद्युक्तम् ॥
तदेवं विश्वचित्प्रतिबिम्बत्वमेवोपसंहरति
इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे । tantraloka.3.65b
प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥ tantraloka.3.65c
अन्येति -- अन्यमुखप्रेक्षित्वे ह्यस्य स्वातन्त्र्यं खण्ड्येतेति भावः, स्वातन्त्र्यं हि विमर्श इत्युच्यते, स चास्य मुख्यः स्वभावः, नहि निर्विमर्शः प्रकाशः संभवत्युपपद्यते वा, अयमेव ह्यस्य विश्वाकारधारित्वे जडेभ्यो विशेषः -- यत्सर्वमामृशतीति, यदुक्तमनेवैव अन्यत्र
`अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले ।
बोधः पुनर्निजविमर्शनसारवृत्त्या विश्वं परामृशति नो मकुरस्तथा तु ॥'
इति ॥65॥
73

स चायमामर्शो न सांकेतिकः, अपि तु `चित्स्वभावतामात्रनान्तरीयकः स्वरसोदितः परावाग्रूप' इति सर्वैरुद्घोष्यते, इत्याह
अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः । tantraloka.3.66a
तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥ tantraloka.3.66b
अनुत्तरामिति -- निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारमयीमित्यर्थः, अत एव अनुत्तराद्यनन्तशक्तिव्रातोल्लेखशालिनीं प्रतिभामित्यर्थः । अनेन परामर्शोदयक्रमस्याप्यवकाशो दत्तः ॥66॥
इह हि विश्वस्य वाच्यवाचकात्मना द्विधा अवभासः, तत्र `प्रकाश एव प्राधान्येन वाच्यात्मविश्वरूपत्वेन परिस्फुरति' इति विश्वचित्प्रतिबिम्बत्वोट्टङ्कनेनोक्तम्, `विमर्शोऽपि तत्तदनुत्तरानन्दाद्यामर्शात्मनोदेति' इति परामर्शोदयक्रममप्याह
अकुलस्यास्य देवस्य कुलप्रथनशालिनी । tantraloka.3.67a
74

कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥ tantraloka.3.67b
इह खलु पूर्णः शिवशक्त्यादिप्रतिनियतव्यपदेशासहिष्णुः अनाख्यः परपरामर्शात्मा अनुत्तरः प्रकाश एव परं तत्त्वं, स एव च स्वस्वातन्त्र्याद्विश्वमवबिभासयिषुः प्रथमं शिवशक्तिरूपतां स्वात्मन्यवभासयति, यदाहुः --
`नौम्यनुत्तरनाथस्य रश्मिचक्रमहं सदा ।
शिवशक्तीति विख्यातं परापरफलप्रदम् ॥'
इति । अनेनैव चाभिप्रायेण
`रुद्रश्च रुद्रशक्तिश्च अमनस्के लयं गतौ ।'
इत्याद्यन्यत्रोक्तं । ततश्च
`यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च ।
तत्कुलं विद्धि सर्वज्ञ शिवशक्तिविवर्जितम् ॥'
इत्यादिलक्षितात्पूर्णपरसंवित्तत्त्वलक्षणात् कुलात् यदन्यदवभासितं शिवलक्षणमकुलं तस्य प्रकाशैकरूपत्वेन द्योतमानस्य सा परा विश्वापूरणस्वभावा, अत एव


पं॰ 4 क॰ पु॰ अनाख्यपरामर्शात्मेति पाठः ।
पं॰ 15 ख॰ पु॰ लक्षणात्पूर्णेति पाठः ।
पं॰ 16 ख॰ पु॰ शिवशक्तिलक्षणमिति पाठः ।

75


`शक्तयोऽस्य जगत्कृत्स्नं॰॰॰ ।'
इत्याद्युक्त्या कुलस्य शाक्तप्रसरात्मनो जगतो यत्प्रथनं तेन शालते तच्छीला, अत एव कुले
भवम् अकुलात्म कौलं तद्यस्यामन्तस्तादात्म्येन अस्तीति `कौलिकी शक्तिः' यया समनन्तरोक्तरूपः प्रभुरवियुक्तः -- तदव्यभिचरितस्वभाव इत्यर्थः, एवं चाकारलक्षणं कुलं शरीरमस्य -- इत्याद्यवर्णोऽप्यभिहितः, सोऽपि हि देवः
`नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते देवि प्राणिनामुरसि स्थितः ॥'
इत्याद्युक्तस्वरूपादनाहतात् स्थानकरणाभिघातोत्थाच्च हतात् शब्दात् उत्तीर्णत्वेन परपरामर्शशालिसिततरप्रकाशात्मतया सर्वदैवे द्योतमानः, तदुक्तम्
`अनाहतहतोत्तीर्णो महाविषमचिद्गतिः ।
वीरहृद्घट्टनोद्युक्तो रावो देव्या विजृम्भते ॥'
इति । तस्य च परैव सा शक्तिः कुलस्य शरीरस्य यत् प्रथनं तेन श्लाघमाना, तच्छरीरारम्भिकेत्यर्थः,


पं॰ 12 ख॰ पु॰ शालीतरेतरेति पाठः ।
पं॰ 15 ग॰ पु॰ विषमसद्गतिरिति द्वितीयपाठोप्यस्ति ।

76


अत एव `कौलिकी' इत्युक्तम्, तथाहि -- परैव सूक्ष्मा कुण्डलिनी शक्तिः शिवेन सह परस्परसामरस्यरूपमथ्यमन्थकभावात्मकं संघट्टमासाद्य उत्थिता सती इच्छाज्ञानक्रियारूपतामाश्रित्य रौद्रीत्वमुन्मुद्रयन्ती शृङ्गाटकाकारतामम्बिकात्वमवलम्बमाना उकारात्मकशशाङ्कशकलाकारतां ज्येष्ठात्वमधितिष्ठन्ती च शशिबिन्दूदितकालाग्निरूपरेफात्मकबिन्दुविश्रान्तस्पष्टरेखाकारतामाभासयति -- इत्याद्यवर्णशरीरमुल्लासयतीति, तदुक्तं श्रीतन्त्रसद्भावे
`या सा शक्तिः परा सूक्ष्मा निराचारेति कीर्तिता ।'
इत्याद्युपक्रम्य
`उत्थिता तु यदा तेन कला सूक्ष्मा तु कुण्डली ।
चतुष्कलमयो बिन्दुः शक्तेरुदरगः प्रभुः ॥
मथ्यमन्थनयोगेन ऋजुत्वं जायते प्रिये ।
ज्येष्ठा शक्तिः स्मृता सा तु बिन्दुद्वयसुमध्यगा ॥
बिन्दुना क्षोभमायाता रेखेवामृतकुण्डली ।
रेखिनी नाम सा ज्ञेया उभौ बिन्दू यदन्तगौ ॥
त्रिपथा सा समाख्याता रौद्री नाम्ना तु गीयते ।
रोधिनी सा समुद्दिष्टा मोक्षमार्गनिरोधनात् ॥
शशाङ्कशकलाकारा अम्बिका चार्धचन्द्रिका ।
एकैवेत्थं परा शक्तिस्त्रिधा सा तु प्रजायते ॥'


पं॰ 7 क॰ ग॰ पु॰ शिवबिन्दूदितेति पाठः ।

77


इति । श्रीवामकेश्वरीमतेऽपि
`त्रिपुरा परमा शक्तिराद्या जातेह सा प्रिये ।'
इत्याद्युपक्रम्य
`कवलीकृतनिःशेषबीजाङ्कुरतया स्थिता ।
वामा शिखा ततो ज्येष्ठा शृङ्गाटाकारतां गता ॥
रौद्री तु परमेशानि जगद्ग्रसनरूपिणी ।
एवं सा परमा शक्तिरेकैव परमेश्वरी ॥
त्रिपुरा त्रिविधा देवी ब्रह्मविष्ण्वीशरूपिणी ।
ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये ॥
त्रैलोक्यं संसृजत्यस्मात्त्रिपुरा पीरकीर्तिता ।'
इति । अनेनैव चाभिप्रायेण अन्यत्रापि अस्य सृष्टिस्थितिसंहारात्मकं धामत्रयमयत्वं चोक्तम्, तदुक्तं
`ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्ददायिनी ।
पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥
अधः संहारकृज्ज्ञेयो महानग्निः कृतान्तकः ।
घोरो ज्वालावलीयुक्तो दुर्धर्षो ज्योतिषां निधिः ॥
तयोर्मध्ये परं तेज उभयानन्दसुन्दरम् ।
अवतारः स विज्ञेय उभाभ्यां व्यापकः शिवः ॥


पं॰ 15 ग॰ पु॰ शांभवी परमेति पाठः ।

78


परस्परसमाविष्टौ चन्द्रेऽग्निष्टीटिभे शशी ।
चन्द्रं सृष्टिं विजानीयादग्निः संहार उच्यते ॥
अवतारो रविः प्रोक्तो मध्यस्थः परमेश्वरः ।'
इति । तथा
`कालाग्निरुद्रात्प्रसृतं च तेजो भूरि स्फुटं दीप्ततरं विचिन्त्यम् ।
ऊर्ध्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवि ॥
तदोभयोर्वह्निविषानुयोगात्तेजःशशाङ्कौ द्रवितौ च यस्मात् ।
तेजःशशाङ्कस्फुटमिश्रितत्वाद्भवेत्तदार्कं त्ववताररूपम् ॥
ततः सकाशात्प्रभवाप्ययौ स्तो यस्मादयं विश्वसमग्रभेदः ।
एतच्च विद्वान्विदितार्थभावो ध्यायेत युक्त्यात्मचिदर्करूपम् ॥'
इति । तथा
`ततोऽस्वरोऽर्कसोमाग्निकलाबीजप्रसूतिभाक् ।
उदेत्येकः समालोकः प्रमाणार्थप्रमातृदः ॥'


पं॰ 1 क॰ पु॰ चन्द्रेऽग्निस्तेजिते शशी इति, ख॰ पुस्तकस्य बाह्यदेशे परस्परं समाविष्टौ चन्द्रोऽग्निर्ज्वलने शशी इति' पाठः कस्यचित्कल्पितः संभवति ।
पं॰ 5 ग॰ पु॰ प्रसृतं स्वतेज इति पाठः ।

79


इति । इह च तिस्र एव परमेश्वरस्य मुख्याः शक्तयः संभवन्ति इत्यस्य प्राधान्येन तद्रूपत्वमेवोक्तम्, अन्यत्र पुनः
`अकारस्य शिरो रौद्री वक्त्रं वामा प्रकीर्तिता ।
अम्बिका बाहुरित्युक्ता ज्येष्ठा चैवायुधं स्मृता ॥'
इत्याद्युक्त्या अभिप्रायान्तरेण अस्य चतूरूपत्वमप्युक्तम्, तदेवमेवंविधा परैव कुण्डलिनी शक्तिरस्य स्वरूपादनतिरिक्ता, इत्युक्तम् `अवियुक्तो यया प्रभुः' इति, तदुक्तम्
`अकारश्च हकारश्च द्वावेतौ युगपत्स्थितौ ।
विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ॥'
इति, एवमविभागेऽप्यनयोरेकैकप्राधान्येन स्वरूपमात्रविश्रान्तेरेकवीरत्वं चिच्छक्तिरूपत्वं च ॥67॥
यदा पुनः
`न शिवः शक्तिरहितो न शक्तिः शिववर्जिता ।
यामलं प्रसरं सर्वं॰॰॰ ॥'
इत्यादि -- महागुरूदितनीत्या अनयोः परस्परौन्मुख्यात्मकं यामलं रूपं स्यात्, तदा विश्वसर्ग इत्याह
80

तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः । tantraloka.3.68a
आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥ tantraloka.3.68b
तयोरिति -- अकुलकौलिकीशब्दव्यपदेश्ययोः शिवशक्त्योः, संघट्ट इति -- सम्यक् घट्टनं चलनं स्पन्दरूपता स्वात्मोच्छलत्ता इत्यर्थः, अतश्च प्रकाशविमर्शात्मनोरनुत्तरयोरेव संघट्टादानन्दशक्त्यात्मनो द्वितीयवर्णस्य उदयो, यतः -- इच्छाद्यात्मनो विश्वस्य सर्गः । चर्याक्रमेऽपि स्त्रीपुंसयोः संघट्ट एवानन्दोदयाद्विसर्गः । इह शिवस्य शक्तेश्च विश्वोत्तीर्णत्वेन विश्वमयत्वेन च विच्छिन्नं रूपम्, इदं पुनः विश्वमयत्वेऽपि विश्वोत्तीर्णम्, इति नियतावच्छेदाभावात् पूर्णं रूपम् ॥68॥
अत एव सर्वशास्त्रेषु परमोपेयत्वेनोद्घोष्यते, इत्याह
परापरात्परं तत्त्वं सैषा देवी निगद्यते । tantraloka.3.69a
81

तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥ tantraloka.3.69b
देवीयामलशास्त्रे सा कथिता कालकर्षिणी । tantraloka.3.70a
महाडामरके यागे श्रीपरा मस्तके तथा ॥ tantraloka.3.70b
श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता । tantraloka.3.71a
परात् -- विश्वोत्तीर्णात् शैवात् रूपात्, अपरात् -- विश्वमयात् शाक्ताद्रूपात्, परं पूर्णं, सारमिति श्रीसारभट्टारकाद्युक्तम्, हृदयमिति श्रीहृदयनयरहस्यं, पर इति परापरस्य अपरस्य च विसर्गस्य वक्ष्यमाणत्वात्, महाडामरके यागे इति देवीयामलशास्त्रसामानाधिकरण्येन योज्यम्, तेन तत्प्रतिपादके प्राथमिके ग्रन्थैकदेश इत्यर्थः । तदुक्तं तत्र
`तन्मध्ये तु परा देवी दक्षिणे च परापरा ।
अपरा वामशृङ्गे तु मध्यशृङ्गोर्ध्वतः शृणु ॥
या सा संकर्षिणी देवी परातीता व्यवस्थिता ।'


पं॰ 6 ग॰ मस्तके स्थितेति पाठः ।

82


इति । मातृसद्भावत्वेनेति यद्युक्तं तत्र,
`सद्भावः परमो ह्येष मातॄणां परिपठ्यते ।'
इति ॥69॥70॥
एवं चिदानन्दशक्ती अभिधाय इच्छाशक्तिमाह
संघट्टेऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ॥ tantraloka.3.71b
इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः । tantraloka.3.72a
अस्मिन् समनन्तरोक्तरूपे संघट्टे
`आनन्दो ब्रह्मणो रूपम् ॰॰॰ ।'
इत्याद्युक्त्या चितः प्राधान्यात् योऽयं परस्य प्रमातुः सिसृक्षात्मा परामर्श उदेति सेयमिच्छाख्या शक्तिः, या खलु
`पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः ।
पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः ॥'
इत्याद्युक्तानामघोराणां शुद्धस्वातन्त्र्यमात्ररूपत्वादविद्यमानभेदाद्यात्मकघोररूपाणां शक्तीनां, प्रभुः प्रभवनिमित्तं -- गर्भीकृतानन्तशक्तिव्राता, इति यावत्, अत एव परा सर्वोत्कर्षयोगिनी तदाख्या
83

चेत्यर्थः । प्रकृतेऽपि अनेन तृतीयवर्णोदय उक्तः । सा च इच्छशक्तिः
`यदा तु तस्य विद्धर्मविभवामोदजृम्भया ।
विचित्ररचनानानाकार्यसृष्टिप्रवर्तने ॥
भवत्युन्मुखिताचिन्ता सेच्छायाः प्रथमा तुटिः ।'
इत्याद्युक्ताद्यस्पन्दात्मिका बहिरौन्मुख्यमात्ररूपिणी स्रष्टव्यानारूषितेच्छामात्ररूपा वा स्यात् तत्तदीषणीयविषयारूषणया प्रक्षोभात्मप्रयत्नरूपतां श्रयन्ती बहीरूपतया ऐश्वर्यं भजमाना वा इत्यस्या द्वैधम्, तदुक्तं श्रीप्रत्यभिज्ञायाम्
सा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा, काचित्पुनः प्रयत्नतामापन्ना संनिकृष्टा ॥'
इति ॥71॥
तत्र प्राच्यायाः स्वरूपं निरूपितं द्वितीयस्या निरूपयितुमाह
सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥ tantraloka.3.72b
तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः । tantraloka.3.73a
84

तदा -- प्रक्षुब्धरूपत्वेनेच्छाशक्तेरैश्वर्ये सति परा अघोरा देव्यो जाताः -- बहीरूपतया प्रस्फुरिता इत्यर्थः, एतदेव हि अस्या ऐश्वर्यं -- यत्तत्तदनन्तशक्तिरूपतया बहिरवभासनमिति, ताश्च तथा भेदस्य स्फुटत्वाभावात् स्वस्वरूपावभासनव्यापारशालिन्य एव, इत्याह `शैवाध्वदैशिका' इति, अत एव न घोरादिशक्तिवन्मुक्तिमार्गनिरोधिन्य इति भावः । प्रकृतेऽपि अनेन चतुर्थवर्णोदय उक्तः ॥72॥
एवमिच्छाशक्तिं द्विप्रकारामभिधाय ज्ञानशक्तिमप्याह
स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥ tantraloka.3.73b
ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः । tantraloka.3.74a
इह खलु प्राक् प्रक्षुब्धत्वरूपत्वात्पूर्वं व्यतिरिक्तविमृश्याभावात् स्वात्ममात्रनिष्ठः, अत एव, एकवीरको' यः परामर्शः आसीत्, स एव ज्ञानशक्तित्वेन अन्तर्विजिज्ञास्यतया इष्टस्य विश्वस्य योऽसौ


पं॰ 16 ख॰ पु॰ विमर्शाभावादिति पाठः ।

85


उन्मेषः -- आद्यः परिस्पन्दः, तद्रूपः सन् अवस्थितः, इति पञ्चमबीजनिर्णय इति ॥73॥
एतदेव स्वदर्शनभङ्ग्या योजयति
इयं परापरा देवी घोरां या मातृमण्डलीम् ॥ tantraloka.3.74b
सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् । tantraloka.3.75a
घोरामिति । यदुक्तम्
`मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः ।
मुक्तिमार्गनिरोधिन्यस्ताः स्युर्घोराः परापराः ॥'
इति । शुद्धाशुद्धेति -- न पुनर्घोरतर्यादिवदधोधःपातिनीम् इति भावः ॥74॥
इहेच्छाशक्तिवत् ज्ञानश्क्तेरपि ज्ञेयाधिक्यानाधिक्याभ्यां द्वैधं, तत्र यज्ज्ञेयस्यानाधिक्ये स्वरूपं निर्णीतम्, आधिक्ये पुनः स्वरूपं निरूपयति
ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥ tantraloka.3.75b
ऊनताभासनं संविन्मात्रत्वे जायते तदा । tantraloka.3.76a
86

ज्ञानापेक्षया ज्ञेयरूपोऽंश उद्रिक्तत्वात् प्रस्फुटीभवन्, यदा क्षोभं -- तत्तन्नीलसुखाद्यात्मना चित्राकारधारितामेति तदा ज्ञेयस्याधिक्यात् ज्ञानस्य ज्ञानमात्ररूपतायामूनत्वस्य -- अपूर्णत्वस्य आभासनं जायते -- संकोचाधिगमो भवेत्, इति षष्ठवर्णोदयः ॥
एतदेव प्रपञ्चयति
रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥ tantraloka.3.76b
रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः । tantraloka.3.77a
इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥ tantraloka.3.77b
तत् -- संविन्मात्रोनताभासनं, रूढं जातप्ररोहं सत्, तत्तन्नीलसुखाद्यात्मनो ज्ञेयवर्गस्य स्थितेः प्रारम्भ उच्यते, न पुनः साक्षात्स्थितिरेव -- तस्याः क्रियाशक्तौ भावात्, को नाम अस्याः प्ररोहः ? इत्याह `रूढिरेषेत्यादि' अनेन ज्ञानादतिरिक्तं न किंचिन्नाम ज्ञेयमस्ति अपि तु तदेव तत्तद्भासात्मना स्फुरति, इति सूचितम् ।
87

तत् -- तस्माद्बोधस्यैव चित्राकारधारित्वाद्धेतोरिदमेव व्याख्यातं संविन्मात्रोनत्वं षष्ठं च भेदसंदर्भस्य कारणत्वेन, योगिनो -- न पुनरयोगिनः, तेषां क्रियाशक्त्यात्मस्थूलभेदचेतयितृत्वात्, चिन्वन्ति जानन्तीत्यर्थः । इह खलु एतदेव परविमर्शात्ममुख्यं परामर्शषट्कं यतः परस्परं प्रमेयेण वा संघट्टे सति निखिलपरामर्शोदयः, यद्वक्ष्यति
`स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ।'
इति । तत्र अनुत्तरानन्दयोः शुद्धसंविन्मात्ररूपत्वात् तदपेक्षया भेदाभावात् प्रमेयवार्तापि नास्तीति ॥77॥
इच्छाशक्तेरेव इष्यमाणारूषणया चातूरूप्यं दर्शयितुमुपक्रमते
इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या । tantraloka.3.78a
इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥ tantraloka.3.78b
इष्यमाणस्य प्रकाशमात्रात्मकत्वात् विश्रान्त्यात्मकत्वाच्च,
88

अत एव अत्र रलयोः श्रुतिः -- तयोः प्रकाशस्तम्भस्वभावत्वात् ॥78॥
तदाह
अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया । tantraloka.3.79a
इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥ tantraloka.3.79b
`शक्तयोऽस्य जगत्सर्वं ॰॰॰ ।'
इत्याद्युक्तेर्ज्वलनरूपा धरात्मा च येयं द्विप्रकारा शक्तिः, तदात्मकं यदिष्यमाणं तेन, अर्थात् -- द्विप्रकाराया अपि इच्छाशक्तेर्या समापत्तिः -- अपृथग्भावेनावभासनम्, अतोऽस्याश्चातूरूप्यमित्यर्थः, यद्यपि प्रागपीच्छाया इष्यमाणसमापत्तिरुक्ता येनास्याः क्षुब्धत्वं प्रतिपादितं तथापि तन्न तथा स्फुटेन रूपेण, यथेदानीम्, इत्युक्तं `स्थैर्येण' इति, न चात्रैवमपि बाह्यवत् स्थैर्येणेष्यमाणं प्रतीयते, तथात्वे हि तत्कार्यं स्यात्, नेष्यमाणम्, अत एवात्र अस्फुटत्वात् रलयोः श्रुतिमात्रं, न तु साक्षाद्व्यञ्जनवत्स्थितिः, तदाह `अचिरद्युतिभासिन्येति' यथाहि विद्युत्
89

क्षणिकत्वादिचिरमेव कालमवभासते तथात्र इष्यमानमपि छायामत्रेणैवेति, अत एव चात्र -- वर्णश्रुतिमात्रं, न साक्षाद्वर्णः, नहि वर्णश्रुतिरेव वर्णः, अत एव नरसिंहवत् जात्यन्तरमिदमिति श्रीमहाभाष्यकारः, अत एव चैतद्वर्णचतुष्टयमुभयच्छायाधारित्वात्
`ऋ ॠ ऌ ॡ चतुष्कं च नपुंसकगणस्तथा ।'
इत्याद्युक्त्या सर्वत्रैव नपुंसकत्वेन व्यपदिश्यते, तेन अक्षुब्धा ज्वलनशक्त्याच्छुरिता इच्छा `ऋ' क्षुब्धा तु `ॠ' एवं धराशक्त्याच्छुरिता `ऌ ॡ' इति, ज्वलनाद्यात्मनश्चात्रेष्यमाणस्य स्वरूपमात्रोपादानादेव स्थिरात्मकत्वं लभ्यते -- इति न तदर्थं विशेषणान्तरोपादानम् ॥79॥
ननु यदीच्छाशक्तेरिष्यमाणसमापत्त्या परामर्शान्तरोदय इष्यते, तज्ज्ञानशक्तेरपि किं न ज्ञेयसमापत्त्या ? इत्याशंक्याह
उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा । tantraloka.3.80a
तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥ tantraloka.3.80b
90

यद्यपि ज्ञानशक्तावेतज्ज्वलनाद्यात्म ज्ञेयं भूयसा विद्यते तथापि सा ज्ञानशक्तिः ज्ञेयस्य विभवस्थानं,न तु प्राच्येच्छाशक्तिलक्षणा जन्मभूः -- इच्छाशक्तिवत् नेयमुत्पत्तिस्थानमित्यर्थः, इच्छाशक्तौ खलु इष्यमाणात्मतया उत्पन्नस्य सतो भावजातस्य ज्ञानशक्तावभिव्यक्तिः, यस्य क्रियाशक्तौ बहीरूपतया परिस्फुरणम्, अतो ज्ञानशक्तौ ज्ञेयस्य नापूर्वतया उत्पाद, इति न तत्र तत्समापत्त्या परामर्शान्तरोदयः, तेनेच्छाशक्ताविष्यमाणस्यापूर्वतयोत्पादादेवमभिधानम्, यद्यपि सर्वभावनिर्भरत्वात्परस्यामपि संविदि सर्वे भावाः संभवन्ति तथापि तत्र तेषां संविन्मात्रतयावस्थानम् ॥80॥
इह पुनः किंचिदुच्छूनतासमापत्त्या पृथगिवावभास इति इत्येतदुक्तम् अत आह
इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् । tantraloka.3.81a
क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥ tantraloka.3.81b
91

परामृतमिति -- स्वात्ममात्रविश्रान्त्या परचमत्कारात्मकमित्यर्थः, यद्वक्ष्यति
`आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् ।'
इति । ननु
`॰॰॰ बीजं स्वरा मताः ।'
इत्यादिना स्वरान्तःपातित्वादेषां बीजत्वमुक्तं, तच्च प्रक्षोभकत्वमुच्यते न च स्वात्ममात्रविश्रान्तिरूपत्वादत्र तत् संगच्छते, तद्धि क्षोभान्तरसद्भावे स्यात् ? इत्याशंक्याह `नेदं बीजमिति' स्वात्ममात्रविश्रान्तेः क्षोभान्तरानुल्लासकतया स्वकार्याकरणात् दग्धप्रायत्वात्, न तु सर्वंसर्विकया बीजरूपत्वाभावात्, नहि शिवशक्त्यात्मबीजयोन्यतिरेकिणः
`बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः ।
कादिभिश्च स्मृता योनिः ॰॰॰ ॥'
इत्याद्यभिधानात् राश्यन्तरस्य सद्भावोऽस्ति, येनैवं स्यात्, यत्तु
`या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रस्थिरयोगतः ।
द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् ॥'
इत्यादि पुरस्ताद्वक्ष्यते, तत्तत्रैव समाधास्यत इति युक्तमुक्तं -- नेदं बीजमिति ॥81॥
92

ननु यद्येवमेषां बीजत्वं नास्ति तर्हि पारिशेष्याद्योनित्वं स्यात् ? इत्याशंक्य -- तत्परिहारार्थमेषां बीजयोनिवैलक्षण्यं प्रतिपादयितुं तत्स्वरूपं तावदाह
प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता । tantraloka.3.82a
ननु कारणत्वाभिमतं बीजं जडं, तस्य कथं निरपेक्षस्य रूपान्तराविर्भावने सामर्थ्यम् ? इत्याशंक्याह
क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥ tantraloka.3.82b
क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः । tantraloka.3.83a
यतः संविद एव मुख्यतया क्षोभकं रूपम्, अतः क्षुभेः ण्यन्ताण्यन्तार्थगर्भीकारात्सा संवित् क्षुभ्यति, मयूराण्डरसन्यायेन अन्तरासूत्रितप्रायं बहिर्भावोन्मुखमिव ज्ञेयजातं धारयति, तच्च तथा क्षुभ्यत् क्षोभयति -- बहीरूपतयावभासयतीर्त्यर्थः, तदाह `क्षोभ' इत्यादि, क्षोभणा -- क्षोभ्यस्य प्रेषणादिरूपा प्रेरणेत्यर्थः ॥82॥
93

एतदेव रहस्यप्रक्रियागर्भीकारेणापि सूत्रयति
अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥ tantraloka.3.83b
क्षोभोऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः । tantraloka.3.84a
अन्तःस्थं -- प्रमात्रैकात्म्येन वर्तमानं यद्विश्वम् ईषणीयादिभावजातं, तत्राभिन्नमीषणादि संविद्रूपत्वेन अनुद्भिन्नविशेषम्, अत एवैकमद्वितीयं यत् सविदो रूपं, तदेव सर्वभावनिर्भरत्वात् विश्वाविर्भावकतया बीजांशः -- कारणविशेषः, तस्य या परानपेक्षत्वेन विशिष्टा स्रष्ट्टत्वेच्छा -- ग्राह्यग्राहकात्मनो विश्वस्य भिन्नकल्पतयावबिभासयिषा, तया योऽसौ संबन्धः, स एव क्षोभः, तथा `शरं गमयति' इत्यादिवत् अतदिच्छेऽपि औदासीन्यात् बहिर्भावानुन्मुखे देहनीलादौ भावजाते यत्तत्त्वेच्छाभासनम् -- औदासीन्यच्यावनेन बहिर्भावौन्मुख्येन अवभासनं, तां क्षोभणाम्, एतद्गुरुप्रभृतयो विदुः जानीयुरित्यर्थः । चर्याक्रमे हि बीज सिसृक्षुः पुमान् स्वयं क्षुभ्यति प्रमदां तु क्षोभयति इति । इह चैतदतिरहस्यत्वादप्रस्तुतत्वाच्च
94

न प्रपञ्चितं, यथोपयोगमूह्यत एव केवलम् ॥83॥
एवं बीजस्वरूपमभिधाय योनिस्वरूपमाह
यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥ tantraloka.3.84b
क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः । tantraloka.3.85a
येन -- इदन्ताविमृश्येन देहनीलादिना भावजातेन, कादिना च ऐकात्म्यमासाद्य तस्य परस्य प्रमातुः संबन्धिनी इच्छा, -- कृतिनी
`ममैव भैरवस्यैता विश्वभङ्ग्यो विनिर्गताः ।'
इत्यादिन्यायेन स्वात्ममात्रविश्रान्त्या कृतार्था पूर्णा जायते । तमेतं क्षोभस्य संवित्स्वातन्त्र्यस्य आधारं विषयं श्रीसोमानन्दस्यानुकम्प्याः पुत्राः -- श्रीमदुत्पलदेवप्रभृतयः शिष्याः, प्राहुः -- आचक्षत इत्यर्थः । चर्याक्रमेऽपि हि यत्सामरस्यमासाद्य पौंस्नोऽभिलाषः कार्तार्थ्यमेति स योनिलक्षणः क्षोभाधारः इति ॥84॥
एतच्च बीजयोनिस्वरूपम् `अन्तःस्थ' इत्यादिना
95

सूत्रितम्, रहस्यप्रक्रियागर्भीकारेण परमोपादेयत्वादनुग्राह्याणां हृदयंगमीकर्तुं स्वयमेव व्याचष्टे
संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥ tantraloka.3.85b
यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे । tantraloka.3.86a
ईषणादीनां संविदामसंजातविभागं, यज्ज्ञेयमवश्यं ज्ञातव्यं पारमार्थिकं संविद्रूपमेवेच्छादिसंविद्विशेषरूपत्वानुपग्रहात्केवलमनवच्छिन्नं पारमेश्वरं रूपं, तदेव
`चिदात्मैव हि देवोन्तःस्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥'
इत्याद्युक्त्या सर्वभावनिर्भरत्वात् अन्तःस्थस्य विश्वस्य स्वेच्छयैव बहिराविर्भावनाद्बीजं -- मुख्यकारणमित्यर्थः । ननु येद्येवं तत्कथं स्वराणामपि बीजत्वमित्याशंक्योक्तं `यद्योगाद्बीजता स्वरे' इति, यद्योगादिति -- यदनुप्राणितत्वादित्यर्थः, अत एव स्वराणां तत्तद्वर्णाविर्भावकत्वादुचितं बीजत्वम् -- इत्याशयः, नहि संवित्स्वातन्त्र्यमन्तरेण अन्यस्य
96

कस्यचित् रूपान्तराविर्भावने सामर्थ्यम्, इति भावः ॥85॥
एवं बीजशब्दार्थं व्याख्याय विसिसृक्षात्मकं ण्यन्ताण्यन्ततया द्विप्रकारं क्षोभमपि व्याचष्टे
तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः । tantraloka.3.86b
यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥ tantraloka.3.86c
एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् । tantraloka.3.87a
हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥ tantraloka.3.87b
उद्भव इत्युद्यन्तृतेत्यर्थः, यतो हेतोरिदं ग्राह्यं देहनीलादि भावजातं कादि च, चिदात्मनः सकाशाद्भिन्नकल्पम् -- अनतिरिक्तमपि अतिरिक्तायमानं भास्यत् -- उत्तरकालं भासिष्यमाणं स्यात् स एष उद्यन्तृतामात्ररूपः क्षोभः । चर्याक्रमेऽपि हि क्षोभानन्तरमेवानन्दादि भवेत्, क्षोभणा तु तूष्णींभूता --
97

औदासीन्यात् बहिर्भावानुन्मुखा, ये अन्ये नीलाद्यपोहेन अवस्थिता देहादयो मातारः अर्थान्नीलादयः प्रमेयाश्च, तद्गतं बलात् स्वातन्त्र्यलक्षणं स्वं वीर्यमवलम्ब्य संवित्कर्तृकं हठात् -- अतदिच्छेऽपि तत्त्वेच्छाभासनलक्षणात् बलात्कारात् यदौदासीन्याद्बहिर्भावोन्मुखतायामप्रवर्तनात्, च्यावनं बहिर्भावौन्मुख्येनैवावभासनं नामेति ॥ 86-87॥
एवं बीजसूत्रं व्याख्याय योनिसूत्रमपि व्याचष्टे
जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः । tantraloka.3.88a
कृतार्था जायते क्षोभाधारोऽत्रैतत्प्रकीर्तितम् ॥ tantraloka.3.88b
यत्परस्य प्रमातुरुत्पन्नापि क्षोभलक्षणा स्रष्ट्टत्वेच्छा -- चिन्मात्रनिष्ठात् प्रकृतादहन्ताविमर्शादन्य इदन्तात्मा विमर्शो -- विमृश्यविमर्शयोरभेदोपचारात्, तत्परामृश्यं देहनीलादि भावजातं कादि च, तेनैकात्म्यमवलम्ब्य, कृतार्था -- स्वात्ममात्रविश्रान्त्या पूर्णा जायते, तदेतदत्र `यदैक्यापत्तिमासाद्य'
98

इत्यादौ योनिसूत्रे क्षोभाधारः, प्रकीर्तितं -- सम्यगुक्तमित्यर्थः ॥88॥
एवमेतत्पदार्थद्वारेण व्याख्याय तात्पर्यमुखेनाप्यभिधत्ते
ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति । tantraloka.3.89a
विश्वबीजादतः सर्वं बाह्यं बिम्बं विवर्त्स्यति ॥ tantraloka.3.89b
ततः -- समनन्तरोक्तात् सिसृक्षालक्षणात् क्षोभाद्धेतोः, आन्तरं -- प्रमात्रैकात्म्येन वर्तमानं सत् तत् आसूत्रितप्रायं ज्ञेयं भिन्नकल्पत्वम् -- अतिरिक्तायमानत्वमेति, अतो -- विश्वबीजादादिवर्णान्महामायातश्चारभ्य सर्वमानन्दादि तत्त्वभुवनादि च भावजातं, बाह्यं -- विच्छेदेनावभासमानं, बिम्बं -- ज्ञानीयाकारलक्षणप्रतिबिम्बात्मकं, विवर्त्स्यति --तत्तद्देहनीलाद्यात्मना पदवाक्यादितया च यथायथं स्फुटीभविष्यतीत्यर्थः । चर्याक्रमेऽपि हि बीजमेव भेदेन प्रसृतं सत् स्त्रीपुंनपुंसकादिरूपतामेष्यतीति ॥89॥
99

न चैतत्स्वोपज्ञमेवोक्तम्, इत्याह
क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया । tantraloka.3.90a
श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥ tantraloka.3.90b
`तदपरमूर्तिर्भगवान् महेश्वर' इत्यादिना प्राङ्नमस्कृतेन गुरुणा यत्सतत्त्वमुक्तं, तन्मया दर्शितम्, इति संबन्धः ॥90॥
एवमेतत्प्रसंगादभिधाय प्रकृतमेवावतारयति
प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् । tantraloka.3.91a
नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥ tantraloka.3.91b
नहि कादिवदेतदैक्यमासाद्य कस्यचिदपीच्छा कार्तार्थ्यमियादित्यस्य क्षोभाधारत्वागमनम् । नेदं बीजमित्यत्र पुनः `क्षोभान्तरस्यासंभवात्' इत्यादिना प्रागुपादानाद्धेतोरनिर्देशः, अत एव चास्य
100

वर्णचतुष्टयस्य प्रक्षोभकत्वाभावात् स्वात्ममात्रविश्रान्त्या परचमत्कारमयत्वम् ॥91॥
तदाह
आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् । tantraloka.3.92a
न केवलमेषां यथासंभवं प्रमेयेण संघट्टे परामर्शान्तरोदयो, यावत्परस्परमपि, इत्याह
इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥ tantraloka.3.92b
उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् । tantraloka.3.93a
पञ्चकमिति -- अनुत्तरेच्छेशनोन्मेषोनतारूपम्, आनन्दशक्तिर्हि
`आनन्दो ब्रह्मणो रूपम् ॰॰॰ ।'
इत्याद्युक्त्या चिदव्यतिरिक्तैव, इति नास्याः पृथगभिधानम्, तदेतत्, परस्पर्ं -- न पुनरेकैकम्, उच्छलद्विविधाकारं -- प्रादुर्भवन्नानावर्णरूपं भवेत्, न चैतत्पारम्पर्येऽपि स्वात्ममात्रावस्थाने किं तु
101

संघट्टे सति, इत्याह -- व्यतिमिश्रणादिति, तद्यथा -- अकारस्याकारस्य वा इकारेणेकारेण वा व्यतिमिश्रणे `ए' इति रूपं भवेत्, तयोरेव उकारेणोकारेण वा व्यतिमिश्रणे `ओ' इति रूपं भवेत्, इकारस्यापि अकारेण `य' इति, उकारस्यापि अकरेण `व' इति, व्यतिमिश्रणं च न पञ्चकादतिरिक्तेन परामर्शान्तरेण केनचित्, इत्युक्तम् -- अन्योन्येति । यत्तु
`सैव शीघ्रस्थिरोपात्तज्ञेयकालुष्यरूषिता ।
विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥'
इत्यादि वक्ष्यति, तत् परामर्शान्तरोदयविषयमिति नात्र मेलनीयं -- संध्यक्षरोदयस्यैव इह प्रकान्तत्वात् ॥92॥
एतदेव दर्शयति
योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् ॥ tantraloka.3.93b
ताविच्छोन्मेषसंघट्टाद्गच्छतोऽतिविचित्रताम् । tantraloka.3.94a
102

तावनुत्तरानन्दशब्दव्यपदेश्यौ `अकाराकारौ' इच्छोन्मेषाभ्याम् `इकारोकाराभ्यां' यः संघट्टः -- `आद्गुण' इत्येवंरूपः संधिः, तस्मादतिशयेन संधीयमानवर्णद्वयविलक्षणतया, विचित्रताम् `एकारौकारलक्षणां' वैचित्रीं गच्छतः -- प्राप्नुत इत्यर्थः ॥93॥
एवमेकारस्योदयमात्रमुक्त्वा गर्भिकारेण स्वरूपमप्यभिधत्ते
अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥ tantraloka.3.94b
त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् । tantraloka.3.95a
यदनुत्तरानन्दौ अर्थाद्विकल्पेन, इच्छायां निहितसंधी तत् -- संधीयमानावयवमेकारलक्षणमक्षरं त्रिकोणं
`त्रिकोणमेकादशमं वह्निगेहं योनिकम् ।
शृंगाटं चैव एकारं नामभिः परिकीर्तितम् ॥'
इत्याद्युक्तेः, इच्छाज्ञानक्रियाख्यकोणत्रयमयत्वाच्च, लिपिक्रमेऽपि तथा संनिवेशात् `त्रिकोणम्'
103

इति -- त्रिकोणशब्दव्यपदेश्यमाचक्षते इति वाक्यर्थः, तच्च
`विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ।'
इत्यादिवक्ष्यमाणनीत्या, विसर्गः -- परा शक्तिः, तस्या आमोदः -- आनन्दोदयक्रमेण क्रियाशक्तिपर्यन्तमुल्लासः, तेन सुन्दरं -- तत्र नित्योदितत्वाच्छक्तेः परानन्दमयमित्यर्थः । त्रिकोणमित्यनेन योगिनीवक्त्रापरपर्यायजन्माधाररूपत्वमप्यस्य सूचितम् । तत एव हि परा शक्तिरुदेतीति भावः, यदुक्तम्
`यदोल्लसति शृंगाटपीठात्कुटिलरूपिणी ।'
इति । तथा
`त्रिकोणं भगमित्युक्तं वियत्स्थं गुप्तमण्डलम् ।
इच्छाज्ञानक्रियाकोणं तन्मध्ये चिञ्चिनीक्रमम् ॥'
इति । अनेनैवाशयेन च इतो बाह्यैरपि
`एकाराकृति यद्दिव्यं मध्ये षट्कारभूषितम् ।
आलयः सर्वसौख्यानां बोधरत्नकरण्डकम् ॥'
इत्याद्युक्तम् । चर्याक्रमेऽपि हि विसर्गस्यानन्दफलस्य संबन्धिना स्फारेण परानन्दमयं प्रसरस्थानम्, इति ॥94॥
104

न केवलमनुत्तरानन्दयोरिच्छायां योगे संध्यक्षरलक्षणपरामर्शान्तरोदयो, यावदत्रापि, इत्याह
अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥ tantraloka.3.95b
त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् । tantraloka.3.96a
तत्र त्रिकोणेऽपि यदा अनुत्तरानन्दौ रूढिं -- `वृद्धिरेचि' इति संधिक्रमेण प्ररोहं प्राप्तौ, तदा अनुत्तरस्य पूर्वोक्तनीत्या रौद्र्यादिशक्तित्रयमयत्वेन आनन्दस्यापि तत्स्फारमात्रसारत्वेन त्रिकोणरूपत्वात् अकारैकारलक्षणत्रिकोणद्वययोगेन, षडरां -- षट्कोणां स्थितिं व्रजतः -- ऐकाररूपतामवभासयत इत्यर्थः । लिपौ पुनरेवंरूपत्वमतिरहस्यत्वात् न प्रदर्श्यते -- इत्येकारस्यैव द्विगुणीभावोन्मीलनायोपरि रेखाविन्यासः । चर्याक्रमेऽपि हि सिद्धयोगिनीत्रिकोणद्वयसंपुटीभावेन षडरमुद्रामयी स्थितिर्जायते, इति ॥95॥
एवमनुत्तरानन्दयोरेकारेण संघट्टे यथा परामर्शान्तरोदयः, तद्वदोकारेणापि, इत्याह
105

त एवोन्मेषयोगेऽपि पुनस्तन्मयतां गते ॥ tantraloka.3.96b
क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् । tantraloka.3.97a
ते एव -- अनुत्तरानन्दशक्ती, उन्मेषेण -- उकारेण यो योगः -- ओकारापत्तिलक्षणः संधिः, तस्मिन्सत्यपि पुनर्यदा तन्मयताम् -- ओकारात्मतां संधिक्रमेण तदेकीभावं गच्छतः, तदा परस्परमनुत्तरानन्दौ औकारात्मना संभूय, क्रियाशक्तेरौकारलक्षणं स्फुटं रूपम्, अभितः -- समन्तात्, व्यङ्क्तः -- प्रकाशयत इत्यर्थः, `अभितः स्फुटं रूपं व्यङ्क्त' इत्यनेन क्रियाशक्तेः संध्यक्षरेषु यथाक्रमम् अस्फुटं, स्फुटं, स्फुटतरं, स्फुटतमं च, रूपमस्ति -- इत्यावेदितम् ॥96॥
नन्वनुत्तरानन्दयोरिच्छोन्मेषाभ्यां संघट्टे यथा परामर्शान्तरोदय उक्तः, तथा तत्क्षोभरूपाभ्यामीशनोनताभ्यामपि किमिति न ? इत्याशङ्क्याह
इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥ tantraloka.3.97b
106

ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते । tantraloka.3.98a
यः -- इच्छोन्मेषसत्क ईषणोनतालक्षणः क्षोभः पूर्वमुक्तः, तं गते -- तेन सह `आद्गुणः' इत्यादिना संधिं प्राप्ते अपि, ते -- अनुत्तरानन्दाख्ये शक्ती, ताद्रूप्यभागिन्यावेव -- तदेव ऐकारौकारलक्षणं रूपमवश्यं भजेते, अत एव `नान्यथास्थिते' परामर्शान्तरात्मकत्वेन न तिष्ठतः, इति न तत्संघट्टेन अनुत्तरानन्दयोः परामर्शान्तरोदय उक्तः ॥97॥
ननु `अनुत्तरः प्रकाश एवैकः प्रकाशते' इति ततोऽन्यन्न किंचिदपि संभवेत् -- तस्यातिरेकानतिरेकविकल्पोपहतत्वात्, तत्कथमिदमुक्तं -- यदियता क्रियाशक्तिपर्यन्तेन वैचित्र्येण स एव परिस्फुरेत्, इति ? तदाह
नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥ tantraloka.3.98b
कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ । tantraloka.3.99a
107

तदेव प्रतिविधत्ते
शृणु तावदयं संविन्नाथोऽपरिमितात्मकः ॥ tantraloka.3.99b
अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः । tantraloka.3.100a
अयं खलु अनुत्तरानन्दात्मा संविन्नाथः
`शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।'
इत्याद्युक्तेरनन्तस्य शक्तिवैचित्र्यस्य, लयोदययोः -- निमेषोन्मेषयोर्यत्कलनं -- स्वात्मनो भेदेन क्षेपः, तत्र स्वतन्त्रत्वात् अपरिमितात्मको -- नियतरूपानुपग्रहात् अनविच्छिन्नस्वभावः, इत्यर्थः ॥99॥
नन्वयं संविन्नाथः किमिति नाम न नियतेन रूपेण परिस्फुरेत् ? इत्याशंक्याह
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ tantraloka.3.100b
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्घटादिवत् । tantraloka.3.101a
108

यदि नाम महेश्वरः प्रतिनियतेन केनाचिद्रूपेण अवतिष्ठेत, तदास्य घटादिन्यायेन माहेश्वर्यं संविद्रूपत्वं च न स्यात्, एतदेव हि अस्य माहेश्वर्यं संविद्रूपत्वं च -- यत् तत्तदनियतवाच्यवाचकात्मना परिस्फुरेत् इति, तथाहि -- `एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः तत्र यथेष्टं संज्ञाः क्रियन्ताम्' इत्याद्युक्तयुक्त्या संवित् तावदनेकाकारतया परिस्फुरति, इति नास्त्यत्र विवादः, न चास्यास्तत्तदाकारतया परिस्फुरणे `तस्यातिरेकानतिरेकविकल्पोपहतत्वात्' अविद्यादि निमित्तं, किं तु स्व एव स्वभावो यः `स्वातन्त्र्यम्' इति `माहेश्वर्यम्' इति च सर्वत्रोद्घोष्यते, तत्प्रतिनियतेऽस्य स्वरूपे प्रकाशमाने `माहेश्वर्यं संविद्रूपत्वं च' न स्यात्, इति -- जाड्यमेवापतेत्, जड एव हि घटादिः `इदमिदानीमत्र भाति' इत्येवमात्मनियतावभासो भवेत्, न परः प्रकाशः ॥100॥
एतदेव हि तस्य जडाद्वैलक्षण्यं -- यत् स्वप्रकाशत्वात् अन्येन केनचिन्न परिच्छिद्यते, अन्यप्रमीयमाणत्वमेव हि परिच्छिन्नप्रकाशत्वं यन्नाम सर्वत्रैव जडस्य लक्षणमुच्यते, तदाह
109

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ tantraloka.3.101b
जडाद्विलक्षणो बोधो यतो न परिमीयते । tantraloka.3.102a
यतश्चैवम्, अतस्तत एव इयान् विश्वप्रसरः, इत्याह
तेन बोधमहासिन्धोरुल्लासिन्यः स्वशक्तयः ॥ tantraloka.3.102b
आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् । tantraloka.3.103a
तेन -- उक्तानेकाकारतया परिस्फुरणेन हेतुना, सिन्धोरिवोर्मयो बोधात् उल्लसनशीलाः, स्वाः -- आत्मभूता इच्छाद्याः शक्तयः, स्वात्मसंघट्टेन -- परस्परलोलीभावेन, चित्रतामाश्रयन्ति -- तत्तद्ग्राह्यग्राहकात्मना तत्तत्परामर्शरूपतया च परिस्फुरन्ति, इत्यर्थः ॥102॥
एतदेव च परं क्रियाशक्ते रूपम्, इत्याह
110

स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥ tantraloka.3.103b
एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः । tantraloka.3.104a
परं स्फुटमिति -- स्फुटतममित्यर्थः, अतः एव भेदप्राधान्यात् अस्याः
`विषयेष्वेव संलीनानधोधः पातयन्त्यणून् ।
रुद्राणून्याः समालिंग्य घोरतर्योऽपरास्तु ताः ॥'
इत्यादिलक्षितानाम् - अशुद्धाध्वाधिष्ठात्रीणां घोरतरीणामपि शक्तीनां निमित्तत्वम्, इत्यवगन्तव्यम्, अघोरादीनां हि शक्तीनामिच्छाशक्तेर्ज्ञानशक्तेश्च जन्म, इत्युक्तम् ॥103॥
शक्तित्रयसंघट्टात्मकत्वादेव चास्य भगवतः त्रिशूलत्वमुक्तम्, इत्याह
अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥ tantraloka.3.104b
त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने । tantraloka.3.105a
111

अत इति -- क्रियाशक्तेः परं स्फुटत्वात्, `स्फुटीभूतत्रिशक्तिके' इत्यत्र चायं हेतुः, स्फुटीभूतत्रिशक्तित्वं च त्रिशूलत्वोक्तौ हेतुः -- यदिच्छाज्ञानक्रियात्मकमरात्रयम् अत्रास्तीति भावः, यदुक्तं तत्र
`॰॰॰ त्रिशूलेन चतुर्थकम् ।'
इति ॥104॥
न केवलमत्र शक्तित्रयसमावेशात्त्रिशूलत्वं भगवतोक्तं, यावन्निरञ्जनत्वमपि अधिगततत्तदागमार्थैर्गुरुभिः, इत्याह
निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥ tantraloka.3.105b
शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् । tantraloka.3.106a
चो भिन्नक्रमः, तेनेदम् `औकारलक्षणं' चतुर्दशं धाम निरञ्जनं चोक्तम्, इत्यन्वयः, यतः
`यथालोकेन दीपस्य किरणैर्भास्करस्य च ।
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥'
इत्याद्युक्त्या शक्तिमान् -- परः प्रकाशः, शक्त्या अञ्ज्यते -- परिमितान् प्रमातॄन्प्रति व्यक्तीक्रियते
112

उपाधीयते इत्यर्ह्थः, स्वप्रकाशस्य हि परस्य प्रकाशस्य परकर्तृका व्यक्तिरेवोपाधिः, शक्तिः पुनरभिव्यक्तैव तदञ्जने उपायः -- इति न तस्या अपि केनचिदञ्जनं संभवेत्, नहि असंविदितं करणं कारणतामेव यायात्, इति भावः ॥105॥
ननु इच्छादिशक्तिरिष्यमाणादिना स्वविषयेणाप्युपाधीयते एव, इति कथमुक्तं `न शक्तिः केनचिदञ्ज्यते' ? इत्याशंक्याह
इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥ tantraloka.3.106b
तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् । tantraloka.3.107a
यत् खलु इच्छाज्ञानक्रियालक्षणाः शक्तयः, स्वैः स्वैः -- प्रातिस्विकैरिष्यमाणज्ञेयकार्यात्मभिः विषयैः, पृथक् पृथक् भेदेन उपरञ्ज्यते, तदेव स्फुटं -- पूर्णस्वरूपं, शक्तिमत् -- स एव गर्भीकृतानन्तशक्तिः परः प्रकाशः इत्यर्थः, शक्तिर्हि नाम शक्तिमत एव स्वं रूपं, किं तु फलभेदादारोपितभेदं
113

येन इष्यमाणाद्युपरागात् `इच्छा' इत्यादिव्यवहारः ॥106॥
ननु यदि इच्छादीनामेकैकशः इष्यमाणादिना उपरञ्जने शक्तिमद्रूपत्वं, तत्समुदितानामासां किं रूपम् ? इत्याशंक्याह
एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥ tantraloka.3.107b
न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः । tantraloka.3.108a
एतत्पुनः -- इच्छाज्ञानक्रियालक्षणं त्रितयं, यदा क्रियाशक्त्यात्मना सामरस्येन प्रस्फुरेत्, तदा केनचिदपीष्यमाणादिना विषयेण इच्छादीनामीषणीयादीनां च स्वेन स्वेन विप्रतिषेधात् ईषणीयेन ज्ञानक्रिययोः नाञ्जनं `ज्ञेयेनापि न इच्छाक्रिययोः, कार्येणापि न इच्छाज्ञानयोः' इत्येवंरूपात् परस्परव्याहतत्वात् नोपाधेयं -- नाञ्जनीयमित्यर्थः, यद्वक्ष्यति
`॰॰॰ क्रिया देवी निरञ्जनम् ।' ॥
इति ॥107॥
114

अत एव च एतत्त्रिशूलशब्देनोक्तम्, इत्याह
लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् । tantraloka.3.108b
यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥ tantraloka.3.108c
अतः -- अनुपहितत्वाद्धेतोर्लोलीभूतं -- स्पर्धित्वेऽप्यविभागमाप्तम्, एतच्छक्तित्रितयं त्रिशूलशब्दस्य व्यपदेश्यम्, यस्मिन्ननुपाधौ रूपे न केवलं स्वयं निरञ्जनत्वं यावत्तत्सत्तासमावेशात् प्राप्तदैकात्म्यो योग्यपि निरञ्जनो भवेत् ॥108॥
अथैतदेव प्रमेयान्तरावापेन उपसंहरति
इत्थं परामृतपदादारभ्याष्टकमीदृशम् । tantraloka.3.109a
ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥ tantraloka.3.109b
यदेतत् परामृतपदात् -- पण्ठवर्णचतुष्टयादारभ्य शूलबीजपर्यन्तमीदृशं -- यथोक्तरूपमष्टकं, तद्ब्राह्म्यादेरष्टकस्य
115

यत्सर्वसर्वात्मकं रूपं, तेन प्रतिवर्णं देव्यष्टकस्य वाच्यत्वेन मिश्रीभावात्, अष्टाष्टकतां स्फुटं याति -- चतुःषष्टिरूपतया प्रस्फुरतीत्यर्थः, तेन ब्राह्मी `ऋकारः' एवं क्रमेण यावत् `औकारो' योगीश्वरी, पुनर्माहेश्वरी `ऋकारः' अत्र ब्राह्मी `औकारः' यद्वा `ऋकार' एवमन्यत्र ज्ञेयम् ॥109॥
तदेवं क्रियाशक्तिपर्यन्तेन वैचित्र्येण परिस्फुरन्त्या अपि परस्याः संविदः स्वरूपविप्रलोपो न जातः, इत्येव द्योतयितुं बिन्दुस्वरूपं दर्शयति
अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् । tantraloka.3.110a
कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥ tantraloka.3.110b
अत्र -- एवं संस्थितेऽपि, सा -- समनन्तरोक्तस्वरूपा अनुत्तरशक्तिः, स्वस्वातन्त्र्यात् ज्ञेयस्य -- ग्राह्यग्राहकात्मनो भावजातस्य यत्कलनम् -- इयत्तापरिच्छेदः, तेन यत्कालुष्यं -- स्वरूपगोपनात्मा संकोचः, तदवलम्ब्य स्वं स्वप्रकाशं वपुः प्रकटस्थितं
116

सर्वसंवेद्यतया अवतिष्ठमानं कुर्वाणापि, विन्दुरूपिणी -- वेत्तीति विन्दुः विदिक्रियायां स्वतन्त्रः प्रमाता, तस्य रूपम् -- अविभागः परः प्रकाशः, तदेव विद्यते यस्याः -- तत्स्वभावैवेत्यर्थः, एवमपि स्वरूपान्न प्रच्युता, इति भावः ॥110॥
अत आह
उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि । tantraloka.3.111a
अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ tantraloka.3.111b
इह ह्लादतैक्ष्ण्याद्यवच्छिन्नत्वेन नियतात्मनां प्रमाणाद्यात्मनां सूर्यादीनामाश्रयभूतायां क्रियाशक्तावुदितायां -- तत्तद्वैचित्र्यात्मना परिस्फुरन्त्यामपि, अविभागो -- ह्लादतैक्ष्ण्याद्युपाध्यवच्छेदशून्यः पूर्णो यः प्रकाशः स परमः, एवमपि अप्रच्युतस्वरूपत्वादत्युत्कृष्टोऽस्मद्दर्शने `विन्दुः' विदिक्रियायां स्वतन्त्रः परप्रमात्रेकरूपः परमेश्वरः शिव इत्यर्थः, यद्वक्ष्यति
117

`अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ।
उक्तं बिन्दुतया शास्त्रे शिवविन्दुरसौ मतः ॥'
इति ॥111॥
न चैतत्स्वोपज्ञमेवोक्तम्, इत्याह
तत्त्वरक्षाविधाने च तदुक्तं परमेशिना । tantraloka.3.112a
हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥ tantraloka.3.112b
बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः । tantraloka.3.113a
तदेवाह -- हृत्पद्मेत्यादि, बिन्दुः -- वेदयिता परः प्राकाशः, स्वस्वातन्त्र्याद्विश्वमवबिभासयिषुः
`त्रिषु स्थानगतो विन्दुमेकत्रैव विभावयेत् ।'
इत्याद्युक्त्या द्वादशान्तभ्रूमध्यहृदयलक्षणेषु स्थानेषु, लयस्य विश्रान्तेर्भेदात्, नरशक्तिशिवात्मको बोद्धव्यः -- इच्छाद्यात्मकशिवविद्यात्मलक्षणतत्त्वत्रयरूपतया प्रस्फुरितः इत्यर्थः । एवमप्यसौ हृत्पद्ममण्डलान्तःस्थः संकुचितात्मतायाः प्राधान्यात्
118

भेदभूमावेव प्राप्तप्ररोहः इत्यर्थः । एवमपि नासौ स्वस्वरूपात्प्रच्युतः इत्याह -- विमलतारक इति, विमलः -- तत्तद्वैचित्र्योल्लासेऽपि संविन्मात्ररूपत्वात् शुद्धः, अत एव संसाराब्धेस्तारकः ॥112॥
न केवलं परामर्शनीयविश्ववैचित्र्यात्मना परिस्फुरतोऽस्य न स्वस्वरूपात् प्रच्यावो, यावत्तत्तत्परामर्शात्मनापि, इत्याह
योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥ tantraloka.3.113b
अधऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते । tantraloka.3.114a
इह योऽसौ विन्दुः, स तत्तत्परामर्शात्मतामुल्लिलासयिषुः `नादात्मकः शब्दः' तद्रूपतया स्फुरतीत्यर्थः, शब्दयति -- स्वाभेदेन विश्वं परामृशतीति शब्दः, परावाग्रूपो विमर्शः, स च नादात्मकः -- नदति सर्वेषामेव जीवकलात्वेन परिस्फुरतीति नादो `हकारार्धार्धरूपिणी अमा कला' यैव मुख्यया वृत्त्या सर्वत्र अस्वरत्वेन व्यपदिश्यते,
119

तस्यात्मा -- तद्रूपतया अवभासते इति यावत्, स एव च
`अकारः सर्ववर्णानामन्तर्यामितया स्थितः ।'
इत्याद्युक्त्या सर्वेषामेव वर्णानाम्, अधऊर्ध्वविभागेन -- अनुत्तरात् शूलबीजपर्यन्तं, हकारपर्यन्तं वा, प्राणनरूपत्वेनावस्थितः -- सर्व एव परामर्शराशिस्तत्स्फारसार एवेत्यर्थः । अथ च स एव सर्वेषां प्राणिनामधऊर्ध्वविभागेन -- सूर्याचन्द्रात्मप्राणापानप्रवाहरूपतत्याप्यवस्थितः, सैव हि `परा जीवकला' इति भावः । एवमप्यसौ निष्क्रियेण रूपेणावतिष्ठते -- क्रियाशक्तिपर्यन्तं तत्तद्वैचित्र्यात्मना परिस्फुरणेऽपि नास्य स्वस्वरूपात् प्रच्याव इत्यर्थः ॥113॥
ननु उदितायां क्रियाशक्तौ, ह्लादतैक्ष्ण्याद्यवच्छिन्नः सोमसूर्यादिः प्रतिनियतः प्रकाशः प्रकाशते, यः स्वमन्यच्च निखिलमेव प्रकाशयति, यः पुनरविभागः परः प्रकाश उक्तः, स किं तदात्मकः उत तत्प्रकाश्योऽन्यो वा ? इत्याशंक्याह
ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥ tantraloka.3.114b
120

स्वयं तन्निरपेक्षोऽसौ प्रकाशो गुरुराह च । tantraloka.3.115a
यत्खलु चन्द्रसूर्यादिगतं ह्लादतैक्ष्ण्याद्यात्म सितरक्ताद्यात्म च वैचित्र्यं, तदसौ परः प्रकाशः स्वात्मना नापेक्षते -- नियतरूपत्वाभावात्तदेकात्मको न भवेत्, नापि स्वप्रकाशत्वात्तत्प्रकाश्यः, तेन नासौ सूर्यादिरूपः तत्प्रकाश्यो वा, अपि तु सूर्यादिधामत्रयानुप्राणकः परप्रमात्रेकरूपः, आदिशब्दद्वयाच्च दाहकत्वं दाह्यभेदोत्थं नानावर्णत्वं च ग्राह्यम् । एतच्च केवलं नास्माभिरेवोक्तं यावद्भगवता वासुदेवेनापि, इत्युक्तं `गुरुराह च' इति, यद्गीतम्
`न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥'
इति ॥114॥
एतदेवार्थद्वारेण ददर्शयति
यन्न सूर्यो न वा सोमो नाग्निर्भासयतेऽपि च ॥ tantraloka.3.115b
121

न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः । tantraloka.3.116a
किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥ tantraloka.3.116b
यत्परमं धाम न प्रतिनियतसूर्याद्येकरूपमपि भासयते च -- स्वाभासत्वात् सूर्याद्यवभास्यो न स्यात्, प्रत्युत सूर्यादीनां प्रकाश्यत्वात् तत्प्रकाशमन्तरेण प्रकाशमानतैव न स्यात्, इति -- पर एव प्रकाशः तत्तत्सूर्याद्यात्मना प्रस्फुरेत्, अत एवोक्तं `किं तु संविदित्थं प्रकाशते' इति ॥115-116॥
ननु यद्येवं तर्हि त्रयाणामपि तेजोरूपत्वाविशेषेऽपि तैक्ष्ण्याद्यात्म वैचित्र्यं कुतस्त्यम्? इत्याशङ्क्याह
स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः । tantraloka.3.117a
प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥ tantraloka.3.117b
122

स्वस्वातन्त्र्यमाहात्म्यात् उद्यत्पार्थिवाप्यद्रव्यादिरूपो योऽसौ उपाधिः, तेन वैशिष्ट्यमापादितः -- अर्थात्तेजोरूपतामप्युपगतः प्रकाशः, तैक्ष्ण्याद्यात्म वैचित्र्यान्तरं याति -- तद्रूपतया प्रस्फुरतीत्यर्थः । पर एव हि प्रकाशः पार्थिवादिद्रव्याभाससंभिन्नो बह्न्यात्मना, आप्यद्रव्यावभासोपहितश्चन्द्रात्मना, शुद्धतेजोमात्रावभासoपरक्तश्च सूर्यात्मना प्रस्फुरन् दाहकत्वह्लादकत्वतीक्ष्णत्वादिरूपां विचित्रतामवभासयेत् ॥117॥
ननु उपाधियोगमात्रादेव कथमेवं स्वरूपातिशायकमपि वैचित्र्यं भवेत् ? इत्याशंकां दृष्टान्तोपदर्शनेन उपशमयति
दुर्दर्शनोऽपि घर्मांशुः पतितः पाथसां पथि । tantraloka.3.118a
नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥ tantraloka.3.118b
दृष्टिघातकृदपि तीक्ष्णांशुः स्तैमित्यभाजि जलाशयादौ प्रतिबिम्बितो दुर्दर्शनत्वपरिहारेण सुखावलोकनीयतामेति, इति दृष्ट एव सर्वत्रायम्
123

उपाधेः प्रभावो, यदुपाधेयस्य स्वरूपमतिशाययतीति ॥118॥
एवमुपहितस्वरूपत्वादेव सूर्यादिप्रकाशः स्वप्रकाशने संवित्प्रकाशमपेक्षते, इत्याह
सूर्यादिषु प्रकाशोऽसावुपाधिकलुषीकृतः । tantraloka.3.119a
संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥ tantraloka.3.119b
संविच्छब्देनात्र जडात् सूर्यादिप्रकाशात् परस्य प्रकाशस्य वैलक्ष्ण्यं दर्शितम् ॥119॥
एवमप्येषां यथासंभवं स्वरूपं दर्शयति
प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् । tantraloka.3.120a
प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥ tantraloka.3.120b
सुव्यक्तमिति -- आप्यद्रव्याद्यनुपहितमित्यर्थः, सूर्यस्य शुद्धं प्रकाशमात्रमेव रूपमिति भावः ।
124

अत एव चास्य प्रमाणत्वं, तस्य हि ज्ञानमात्रमेव विवक्षितं रूपं, स्फुटं -- सर्वजनसाक्षिकम् । प्रकाश्यानि मेयानि यानि वस्तूनि तेषां सुखदुःखमोहमयत्वात् अंशद्वयापेक्षया यः सारः -- सुखकार्याह्लादादिरूप उत्कृष्टोऽंशः
`॰॰॰ सोमो वर्षति चामृतम् ।'
इत्याद्युक्त्या, तं वर्षति -- तेन सर्वमिदं भावजातं सिञ्चति, आह्लादमयमेव करोति इत्येवंविधं सत् तत्प्रकाशमात्रं `सोम' उच्यते -- सोमशब्देन व्यपदिश्यत इत्यर्थः । अत एव च आह्लादात्ममेयांशप्राधान्यात् अस्य मेयत्वं, यदभिप्रायेण अनयोः
`ज्ञानशक्तिः परस्यैषा तपत्यादित्यविग्रहा ।'
इति । तथा
`चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु ।
इत्याद्युक्त्या ज्ञानक्रियाशक्तिरूपत्वमुक्तम् ॥120॥
एवं च
सूर्यं प्रमाणमित्याहुः सोमं मेयं प्रचक्षते । tantraloka.3.121a
एवं सूर्यसोमयोः स्वरूपमभिधाय वह्नेरप्यभिधत्ते
125

अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥ tantraloka.3.121b
भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् । tantraloka.3.122a
ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥ tantraloka.3.122b
योऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् । tantraloka.3.123a
तौ उभौ सूर्याचन्द्रौ, स्वतन्त्रौ -- परस्परनैरपेक्ष्येण प्रमाणप्रमेयात्मना पृथग्व्यवहार्यौ अपि, अन्योन्यमविप्युक्तौ -- सहोपलम्भनियमादभेदमापन्नावित्यर्थः, न खलु ज्ञानं ज्ञेयानारूषितं क्वचिदपि उपलभ्यते ज्ञानं विना वा ज्ञेयमिति, यदाहुः
`स्फटिकस्येव ह्युपाश्रयशून्यस्य ज्ञानस्य स्वरूपमनिरूप्यम्' ।
इति । तथा
`नावेदनमतो वेद्यम् ॰॰॰ ।'
इति, अत एव एतत्सूर्याचन्द्रात्म द्वयं ग्राह्यग्राहकरूपत्वात्परस्परौन्मुख्यं प्राप्तं सत्, भोक्ता - बुद्ध्याद्यात्मा
126

संकुचितः प्रमाता तन्मयत्वात् प्रमाणमपि भोक्ता, भोग्यं च नीलसुखादि तयोर्यत् लोलीभावमापन्नं सत् उभयं, तदात्मा यस्य तत् -- भोक्तृभोग्यसंघट्टस्वभावमित्यर्थः । यतश्चैवं भोक्तृभोग्यसंघट्टलक्षणाद्धेतोश्चित्राः -- नानाकारा मानमेयादिरूपा भानवो यस्यासौ अग्निरुक्तः, यदुक्तम्
`शुचिर्नामाग्निरुद्भूतः संघट्टात्सोमसूर्ययोः ।'
इति, स च प्रमाणप्रमेयविभागात्मनो भेदस्य दाहकत्वात् ज्वलनप्रधाना चिद् रूपं यस्य सः -- परिमितप्रमातृरूप इत्यर्थः, तस्य हि प्रमाणप्रमेययोः संमेलनमेव रूपमित्यर्थः, वह्नेरप्येवम् इति तस्य प्रमातृत्वम्, अत आह -- योयमित्यादि, परमित्यसाधारणम् ॥121-122॥
ननु वह्नेः परापेक्षप्रकाशत्वात् समनन्तरमेव जाड्यमुक्तं, तत्कथमसौ चेतनैकवपुषः प्रमातुस्तत्त्वं स्यात् ? इत्याशंक्याह
संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥ tantraloka.3.123b
127

स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः । tantraloka.3.124a
संविदेव हि स्वस्वातन्त्र्यात् विज्ञेयेन भोक्तृभोग्यात्मना वह्निना ऐकात्म्यासादनात् `प्रमाता' इति उच्यते, अत एवोक्तम् -- अनपेक्षिणीति, वह्निरूपतामासाद्यापि संविदो न स्वरूपप्रच्याव इति भावः । ननु यदि संविद एव प्रमातृत्वं तत्तस्या आखण्ड्यात् तद्रूपस्यापि प्रमातुः कथं वैचित्र्यं संगच्छते ? इत्याशंक्याह `विचित्रो ज्ञेयभेदत' इति, ज्ञेयस्य -- कलाद्यात्मनः तत्त्वव्रातस्य भेदात् -- वैचित्र्यादित्यर्थः, कलादीनीं हि किंचित्कर्तृत्वाद्यविशेषेऽपि तत्तत्कर्माधिपत्यादस्त्येव सर्वसंवेद्यं तारतम्यं येनायमुपाधिमाहात्म्यापन्नः प्रमातृभेदः इति ॥123॥
अत एवाग्निरपि तथा, इत्याह
सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥ tantraloka.3.124b
128

तत एवाग्निरुदितश्चित्रभानुर्महेशिना । tantraloka.3.125a
ततः प्रमातुर्विचित्रत्वादेव, प्रभुणाग्निरपि -- चित्रा भोक्तृभोग्यादिरूपा भानवो यस्य स तत्तन्मानमेयादिविचित्रस्फार उक्तः, यतो -- मेयात्मनः सोमस्य कलादिरूपा अंशा एव दाह्यानि आत्मसात्कार्याणि वस्तूनि तेभ्यः तारतम्यादिना उत्थितेन वैचित्र्याभासेन बृंहितो वैशिष्ट्यमापादित इत्यर्थः ॥124॥
ननु प्रमातुः प्रमेयोपाधिवैचित्र्यमुक्तं, प्रमेयं च प्रमात्रपेक्षया पृथगेव न प्रकाशते इति -- वैचित्र्यचर्चा दूर एवास्तां, प्रमातृत्वमेव पुनरस्याः संविदः कथं घटते ? इत्याशंक्याह
ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ॥ tantraloka.3.125b
स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः । tantraloka.3.126a
ज्ञातृतोपायभूततत्तन्नीलसुखाद्यात्मज्ञेयनिरपेक्षैव संविदः `अहमस्मि' इत्यामर्शमयी या स्थितिः,
129

स `माता' -- पराहंपरामर्शस्वभावो ज्ञातेत्यर्थः । ज्ञेयनैरपेक्ष्येण च अहंपरामर्शस्य विकल्पात् वैल्क्ष्ण्यं दर्शितम्, `कृशोऽहम्' इत्यादौ अहंप्रत्यवमर्शो हि विकल्प एव -- प्रतियोगिभूतस्य अकृशत्वादेरपोह्यस्य संभवात्, तस्य हि तदतद्रूपधर्मिप्रतियोगिसापेक्षित्वमेव रूपम् । परप्रमात्रात्मनि प्रकाशे पुनरहंप्रत्यवमर्शः प्रवर्तमानोऽतिरेकानतिरेकविकल्पोपहतत्वात् प्रतियोगिनः कस्यापि असंभवात् न विकल्पः, यदाहुः
`अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः स ह्युक्तो द्वयापेक्षी विनिश्चयः ॥'
इति । ननु प्रमातुरहंविमर्श एव स्वभावोऽस्तु, तस्यापि वा विकल्पाद्वैलक्ष्ण्यं, किमनेन नः प्रयोजनं, ज्ञेयं विना पुनरस्य ज्ञातृत्वं न स्यात् ? इत्याशंक्य उक्तं `शास्त्रज्ञवद्यतः' इति, यथा शास्त्रज्ञस्य व्याचिख्यासादिविरहेऽपि शास्त्राणां स्वात्माभेदेन वर्तमानत्वात् तत्र ज्ञातृत्वमुच्यते, तथा परस्यापि प्रमातुः सर्वभावनिर्भरत्वात् आत्मसंस्थ एव ज्ञेयजात इति ॥125॥
130

ननु प्रमासंबन्धात् प्रमाता उच्यते, प्रमा च व्यतिरिक्तज्ञेयविषयात्प्रमाणाद्भवति -- इति व्यतिरिक्तं ज्ञेयादि परिहृत्य कथमस्य ज्ञातृत्वं स्यात् ? इत्याशंक्याह
अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥ tantraloka.3.126b
न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते । tantraloka.3.127a
यो हि प्रतिनियतज्ञानात्म प्रमाणादिकमपेक्ष्य `ज्ञाता' इत्युच्यते सोऽज्ञ एव -- न प्रमातैव भवति इत्यर्थः, प्रमातुः खलु अनन्योन्मुखत्वादन्यनिरपेक्षमेव रूपं यथोक्तं, न पुनरस्य सापेक्षं रूपं भवितुमर्हति -- परस्य परनिष्ठत्वानुपपत्तेः, तदाह `न तु' इत्यादि ॥126॥
ननु यद्येवं तर्हि कथमस्य सर्वत्रैव ज्ञातृत्वमुच्यमानमपह्नूयताम् ? इत्याशंक्याह
तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥ tantraloka.3.127b
131

मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता । tantraloka.3.128a
तस्यामिति -- संकुचितप्रमातृरूपायामित्यर्थः, योग्यतावशादिति -- ज्ञेयपरिच्छेदकारित्वलक्षणात्, सा पुनरियं दशा प्राच्येन आदिसिद्धेन परेण प्रमात्रा प्रमाणरूपत्वेन परिकल्पिता -- संकुचितज्ञानात्मकत्वात्तथात्वेनावभासितेत्यर्थः । पर एव हि प्रमाता स्वस्वातन्त्र्यात् स्वं स्वरूपं गोपयित्वा संकुचितज्ञानात्मतामवभास्य ज्ञेयमपि पृथगुल्लासयेत् ॥ 127॥
ननु परा संविदेव यदि मानादिरूपेणापि प्रस्फुरेत् तत्तस्या अस्तमय एव किं न स्यात् ? इत्याशंक्याह
उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥ tantraloka.3.128b
उदितैव सती पूर्णा मातृमेयादिरूपिणी । tantraloka.3.129a


पं 17 ख॰ पु॰ मेयादिकारिणी इति पाठः ।

132


मातृमेयादिरूपत्वेन बहिरुल्लसन्त्यपि संवित्तिः `सकृद्विभातोऽयमात्मा' इति न्यायेन अवभासनक्रियाविच्छेदाभावात्कालानवच्छेदादुदितैव -- संविन्मात्ररूपत्वाप्रच्यावात् नियमेन अनस्तमितरूपा इत्यर्थः, अत एव पूर्णा -- स्वात्ममात्रविश्रान्तिरूपत्वादनन्यापेक्षिणीत्यर्थः ॥128॥
ननु संविन्नाम क्रिया, तस्याश्च क्रियान्तरवत् कालावच्छेदोऽवश्यसंभाव्यः, इति कथमस्याः कालक्रमविवर्जितत्वमुक्तम् ? तियाशंक्य लौकिक्या एव पाकादेः क्रियायाः कालावच्छेदोऽस्ति, न तु अस्याः, इति दर्शयितुमाह
पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥ tantraloka.3.129b
मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते । tantraloka.3.130a
इह पाकादिः लौकिकी क्रिया कालावच्छेदात् क्रमव्याप्ताभिमता, यतः सा अन्त्यः क्षणो, यत्समनन्तरमेव द्वितीये क्षणे फलनिष्पत्तिस्तेनापि यदा


पं॰ 1 ग॰ पु॰ मानमेयादीति पाठान्तरं चास्ति ।

133


शून्या भवेत् तदानेकक्षणप्रचयवत्त्वेऽपि स्वस्वरूपापरिपूर्तेस्तथा व्यवहारं न भजते यदि नाम हि साप्यवभासनक्रियावत्कालानवच्छिन्ना स्यात्, तत् प्रथम एव क्षणे पाकादिक्रियात्वेन व्यवहारमियात्, अतश्च पाकादेर्लौकिक्या एव क्रियायाः सक्रमत्वं, न पुनः शाश्वत्याः `संविल्लक्षणाया' इति, यदाहुः
`सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥'
इति, अतश्च अकालकलितत्वात् प्रमातृप्रमाणप्रमेयरूपत्वेन अवतिष्ठमानमपि संवित्तत्त्वं संविन्मात्रलक्षणात् मुख्याद्रूपात् नाम्पोढं स्यात् ॥129॥
तदाह
इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥ tantraloka.3.130b
अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते । tantraloka.3.131a
ननु वाच्यात्मविश्वावभासदशायामेवमास्तां, वाचकात्मविश्वावभासे पुनः सोमसूर्याग्नीनां रूपमेव
134

किं नामोक्तं -- यदवभासनेनास्य प्रकाशतत्त्वस्य न स्वस्वरूपापोहः, इति चिन्तापि स्यात् ? इत्याशंक्याह ॥130॥
एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥ tantraloka.3.131b
क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते । tantraloka.3.132a
यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥ tantraloka.3.132b
प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः । tantraloka.3.133a
एषां -- समनन्तरोक्तानां बीजानां यत्प्रथममासाद्यमक्षुब्धं रूपं, तत्सूक्ष्मत्वात् एकमात्रात्म `ह्रस्वं' प्रकाशमात्रप्राधान्याच्च सूर्यः । तथा क्षोभानन्दयोः वशाद्बहीरूपतायां विश्रान्त्या क्षुब्धत्वेन स्थौल्यात् द्विमात्रं `दीर्घम्' आह्लादकारित्वाच्च सोम उच्यते -- सामान्येनोक्तेः सर्वैः शास्त्रकोविदैरेवं


पं॰ 12 ख॰ पु॰ प्रथमसमाख्यप्रक्षुब्धमिति पाठः ।

135


व्यपदिश्यत इत्यर्थः । तथा ताभ्यामेकमात्रद्विमात्राभ्यां ह्रस्वदीर्घाभ्यां परमन्यत् यत्त्रिमात्रं प्लुतं नाम तच्छास्त्रकोविदा आग्नेयं प्रामात्रं रूपं प्राहुः, यतः प्रकाशे मानात्मनि सूर्ये रूढं जातप्ररोहं सत् मेयात्मकं सोमानन्दमवलम्ब्य परमत्यर्थं स्थितं -- मातृरूपतया प्रस्फुरितमित्यर्थः, मातुर्हि `मानमेयसंघट्टात्मकमेव रूपम्' इत्युक्तं प्राक्, तदेषां -- ह्रस्वत्वं सूर्यत्वं, दीर्घत्वं सोमत्वं, प्लुतत्वमग्नित्वमिति धामत्रयमयत्वम् ॥131-132॥
एवमप्यत्र परस्य प्रकाशस्य न स्वस्वरूपात् प्रच्यावः, इति विन्दुरूपत्वमुक्तम्, इत्याह
अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥ tantraloka.3.133b
उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः । tantraloka.3.134a
न चायं विन्दुः परप्रमात्रेकरूपत्वान्मन्त्रप्रमेयान्तर्वर्ती इत्याह `शिवविन्दुरसौ मत' इति -- अविभागपरप्रकाशात्मकत्वेन


पं॰ 16 क॰ ख॰ पु॰ रूपत्वान्मानप्रमेयेति पाठः ।

136


विदिक्रियायां स्वतन्त्रः परः प्रमातेत्यर्थः, यदुक्तं प्राक्
`उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि ।
अविभागः प्रकाशो यः स विन्दुः परमो हि नः ॥'
इति ॥133॥
ननु न विन्दुर्नाम परामर्शान्तरं किंचिद्युज्यते -- वक्ष्यमाणेन मकाराख्येन परामर्शविशेषेणैवास्य संग्रहात्, नहि अनयोः प्रतीतौ कश्चिद्विशेषः -- प्रत्येयभेदाद्धि प्रतीतिभेदः, तत्कथमयं ततो भिन्नः स्यात् ? इत्याशंक्याह
मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥ tantraloka.3.134b
रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः । tantraloka.3.135a
यथा षण्ठविसर्गार्णतामाश्रिता रेफलकारहकारास्तच्छ्रुतिमात्रधारित्वेऽपि वक्ष्यमाणेभ्यो रेफादिभ्योऽतिरिक्ताः, तथायं विन्दुरपि मकारात् -- इति वाक्यार्थः । `न च वर्णश्रुतिरेव वर्ण' इत्युपपादितं प्राक् ॥134॥
137

ननु इष्यमाणरूपाभ्यां रेफलकाराभ्यामिच्छशक्तेरारूषितत्वम्, इति तत्र तच्छायामात्रधारित्वात् युक्तं परामर्शान्तरत्वं, मकारहकाराभ्यां पुनरारूषणैव कस्याधीयते, यस्यापि परामर्शान्तरत्वं स्यात् ? इत्याशंक्याह
इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥ tantraloka.3.135b
तथैव महलेशादः सोऽन्यो द्वेधास्वरोऽपि सन् । tantraloka.3.136a
इकार एव यथा रेफांशच्छायया षण्ठात्मस्वरान्तररूपो भवेत्, तथैवास्वरोऽपि सन् अनुत्तरप्रकाशात्मकोऽपि भवन्नसौ `अः' चिच्छक्त्यात्मा आदिवर्णो मकारहकारलेशमुपाधित्वेनावलम्ब्य तच्छ्रुतिमात्रधारित्वेन द्वेधा -- बिन्दुविसर्गरूपतयान्यः परामर्शान्तररूपभाक् भवतीत्र्यर्थः । अनुत्तर एव हि प्रकाशः स्वस्वातन्त्र्यात् स्वं स्वरूपं गोपयित्वा शक्तिदशामाभास्य संकुचितप्रमातृरूपतामवभासयेत्, अतश्चास्य
138

`अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ।'
इत्याद्युक्त्या
`हकाररूपया शक्त्या मकारो ना हृदि स्थितः ।'
इत्याद्युक्त्या संकुचितप्रमात्रात्मना च मकारेणारूषणा -- इति न कश्चित् दोषः ॥135॥
ननु अनुत्तर एव कस्मादेवमारूषणया विसर्गाद्यात्मकतामियात् ? इत्याशंक्याह
अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥ tantraloka.3.136b
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् । tantraloka.3.137a
अस्य -- अनुत्तरप्रकाशात्मन आदिवर्णस्य प्राक्
`कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ।'
इत्यादौ `कौलिकीति, परेति' चोक्ता अन्तः प्रमात्रैकात्म्येन वर्तमाना विमर्शात्मा यासौ विसिसृक्षा, सैव निश्चितं बहिरौन्मुख्यलक्षणात् क्षोभवशात् विसर्गात्मकतामेत्य, आनन्दोदयक्रमेण क्रियाशक्तिपर्यन्तं


पं॰ 15 ख॰ पु॰ विमर्शात्मनेति पाठः ।

139


प्रोच्छलन्तीं स्थितिमवभासयति, इत्यर्थः ॥136॥
न चैतदस्मदुपज्ञमेव, इत्याह
उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥ tantraloka.3.137b
कला सप्तदशी तस्मादमृताकाररूपिणी । tantraloka.3.138a
परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥ tantraloka.3.138b
प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा । tantraloka.3.139a
शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥ tantraloka.3.139b
विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च । tantraloka.3.140a
शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥ tantraloka.3.140b
140

विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः । tantraloka.3.141a
कलाव्याप्त्यन्तचर्चने, इति -- अमाख्यकलास्वरूपस्फारसिद्धान्तविचारावसरे इत्यर्थः, तत्र हि
`कलाव्याप्तिर्महादेव पदसंज्ञा महेश्वर ।
अतिसंक्षेपतो ब्रूहि ॰॰॰ ॥'
इति भगवत्या पृष्टे, तन्निर्णयार्थं
`कला सप्तदशी यासौ ॰॰॰ ॥'
इत्यादि भगवतोक्तम्, यदिह क्वचिच्छब्दद्वारेण क्वचिदर्थद्वारेण च संवादितम्, तत्र
`पुरुषे षोडशकले तामाहुरमृतां कलाम् ।'
इत्याद्युक्त्या अन्तःकरणप्रभृतीनां षोडशानामपि कलानामाप्यायकारित्वात् नित्योदितत्वेन च अनस्तमितरूपत्वात् अमृताकाररूपिणी येयं चिन्मात्रस्वभावा `कौलिकीति, परेति' एवमादिशब्दव्यपदेश्या हकारार्धार्धरूपिणी अमाख्या सप्तदशी कला, परस्य आनन्दात्मनो विसर्गस्य उक्तत्वात् अपरस्य च ह्कारात्मनो वक्ष्यमाणत्वात् परापरो योऽसौ विसर्गः तस्य स्वरूपस्थौ यावात्मभूतौ
141

विसर्जनीयशब्दवाच्यौ बिन्दू, तयोर्गतिः -- तद्रूपावभासनेन प्रसरणं, तया विसर्पिता -- तत्तद्रूपावबिभासयिषया प्रोच्छलन्तीत्यर्थः, अत एव च सर्वेषां प्रमातृप्रमाणप्रमेयात्मनां वस्तूनां अनतिरेकेऽपि अतिरिक्तत्वेनेव प्रकाश्यं -- तत्तन्नियतप्रकाशात्मिकेत्यर्थः, सैव पुनर्विसर्गेण -- बहिर्भावौन्मुख्येन विरहिता सती, प्रसुप्तभुजगाकारत्वात् स्वात्ममात्रविश्रान्ता शक्तिकुण्डलिनी -- परा संविन्मात्ररूपेति यावत्, अत एव विसर्गस्य बहिर्भावौन्मुख्यात्मकादिकोटिरूपे प्रान्तदेशे प्राणकुण्डलिका
`प्राक् संवित्प्राणे परिणता ।'
इति नीत्या प्रथममेव प्राणरूपतामवभासयन्तीत्यर्थः, तथा प्रत्यावृत्तिक्रमेण अन्तर्भावौन्मुख्यरूपान्तकोट्यात्मनि प्रान्ते स्वरूपे `परा कुण्डलिनी' स्वात्मविश्रान्तपरसंविन्मात्ररूपेत्यर्थः, एवं त्वियमेव संविन्मात्ररूपा सप्तदशी कला -- शिवव्योमेति, परमं ब्रह्मेति शुद्धात्मस्थानम् इति चोच्यते -- तैस्तैः सामयिकैः शब्दैर्व्यपदिश्यते इत्यर्थः, तथाहि श्रीत्रिशिरोभैरवे एव
`शिवव्योमेति या संज्ञा परं ब्रह्मेति यत्पदम् ।'
142

इति । यथा
`आत्मस्थानं किमाख्यातं ॰॰॰ ।'
इति भगवत्या पृष्टे
`कुण्डल्याख्या तु सा ज्ञेया सर्वाध्वोपरिवर्तिनी ।'
इत्युपक्रम्य
`प्रमाणोत्थानरहितमुपमाभेदवर्जितम् ।
भूतव्योमपदातीतं चिद्व्योमान्तपदं परम् ॥
भावप्रत्ययसंरम्भमभावं परमा गतिः ।
शिवव्योम तु तज्ज्ञेयं सर्वाधारत्वलक्षणम् ॥
बृहत्त्वं बृंहकत्वं च सूक्ष्मं तच्चान्तवर्ति च ।
परं ब्रह्मेति तत्प्रोक्तं लक्ष्यभूतमलक्ष्यकम् ॥'
इति ॥ तथा
`पूर्वं पदविभागं तु कीर्तितं तदहेयकम् ।
तथापि भूमिकातीतमात्मस्थानं निगद्यते ॥'
इत्यादिना स्वरूपमेषां भगवतोक्तम् । तदेवं परैव पारमेश्वरी संवित् तत्तत्प्रमातृप्रमेयात्मनो विश्वस्य सृष्टिसंहारविभ्रमाविर्भावनिबन्धनम्, इत्युक्तं स्यात्, अत एव आह -- विसर्गमात्रमित्यादि ॥137-138-139-140॥


पं॰ 6 ख॰ पु॰ प्रमाणोक्तेन सहितमिति पाठः ।
पं॰ 7 ख॰ पु॰ व्योमान्तं परं पदमिति पाठः ।

143


ननु एकैव अखण्डा संवित् अस्ति, इति तदतिरिक्तं किंचिदपि न संभवेत्, तत्कस्य नाम सृष्टिः संहारो वा स्यात्, येनास्यास्तत्कारित्वमपि भवेत् ? इत्याशंक्याह
स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥ tantraloka.3.141b
इयमेव नाम वैसर्गिकी -- सृष्टिसंहारकारित्वलक्षणा स्थितिः, यत् स्वात्मन एव न पुनर्मायाप्रकृत्यादेरुपादानात्, स्वात्मन्येव न पुनस्ततो विच्छिन्ने कुत्रचिद्देशे काले वा, स्वात्मन एव न पुनरन्यस्य कस्यचित् प्रमातृप्रमेयादेः, क्षेपः -- तत्तदाभासवैचित्र्येणान्तर्बहीरूपतया परिस्फुरणमिति, तेनानन्यापोक्षित्वेन पूर्णा परैव संवित् कादिहान्तरूपतया परिस्फुरिता, इति भावः ॥141॥
अत एवाह
विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः । tantraloka.3.142a
हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥ tantraloka.3.142b
144

इह विसर्ग एव तत्तद्वैचित्र्योपारोहक्रमेण हकारात्म स्थौल्यमुपागतः सन् `हंस' इत्येवमाद्यैः शब्दैः परिभाष्यते -- सर्वेष्वेव शास्त्रेष्वेवमुच्यत इत्यर्थः, तदुक्तं श्रीतन्त्राजभट्टारके
`हंसं शून्यं तथा प्राणं हकारं नामभिः स्मृतम् ।'
इति, निघण्टावपि
`त्रयस्त्रिंशो व्यञ्जनं च द्विकुब्जः स्पर्श एव च ॥'
इति । एवं च विसर्गस्यैव स्थूलं रूपं `हकारः' इत्युक्तं स्यात् ॥142॥
ननु
`शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।'
इत्याद्युक्त्या परस्य अनुत्तरस्य प्रकाशस्य `स्वशक्तिमात्रस्फारो विश्वम्' इत्यविवादः, इह पुनः
`विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः ।'
इत्याद्यन्यथोक्तम्, इति किमेतत् ? इत्याशंक्याह
अनुत्तरं परं धाम तदेवाकुलमुच्यते । tantraloka.3.143a
विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥ tantraloka.3.143b
145

एवम्
`अकुलस्यास्य देवस्य ॰॰॰ ।'
इत्याद्युपक्रान्तमेव इह निर्वाहितं, न तु अपूर्वं किंचिदुक्तम्, इति भावः ॥143॥
ननु विसर्गशब्दः शक्तौ केन निमित्तेन प्रवृत्तः ?
इत्याशंक्याह
विसर्गता च सैवास्या यदानन्दोदयक्रमात् । tantraloka.3.144a
स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥ tantraloka.3.144b
सैव अस्याः -- कौलिक्याः शक्तेः, विसर्गताविसर्जनक्रियायां कर्तृत्वं -- यदानन्देच्छाद्युदयक्रमेण भिन्नावभासरूपत्वात् स्पष्टीभूता - स्पष्टतामाप्ता येयं क्रियाशक्तिः, तत्पर्यन्ता प्रोच्छलन्ती स्थितिः -- तत्तत्परामर्शान्तरवैचित्र्यरूपतया परिस्फुरणम्, इति ॥144॥
ननु इयतो वैचित्र्यस्य विसर्गः कारणमस्तु, स एव पुनस्तत्, इति कथं युज्यते ? इत्याशंकां दृष्टान्तोपदर्शनद्वारेण उपशमयति
146

विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः । tantraloka.3.145a
इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥ tantraloka.3.145b
तावान् -- तत्परिमाणो, विसर्ग एव न तु तावतः कारणं, भेदनिबन्धनो हि कार्यकारणभावः, भेद एव चात्र नास्ति, इति कथमेतद्भवेत् इति भावः, यस्मादाक्षिप्तो -- गर्भीकृतः, एतावान् -- क्रियाशक्तिपर्यन्तो येनैवंविध आत्मा यस्यासौ -- तत्तद्वाच्यवाचकाद्यात्मना अनन्ताभासमय इत्यर्थः ॥145॥
एवमस्य विसर्जनक्रियाकर्तृत्वादेव व्यपदेशान्तरमप्यन्यत्रास्ति, इत्याह
अत एव विसर्गोऽयमव्यक्तहकलात्मकः । tantraloka.3.146a
कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥ tantraloka.3.146b
अतः -- उक्ताद्धेतोः, अव्यक्ता -- नादमात्ररूपत्वादनुद्भिन्नवर्णप्रविभागा, येयं हकला -- हकारार्धार्धभागः,
147

तदात्मकोऽयं विसर्गः, श्रीमत्कुलगुह्वराख्ये शास्त्रे `कामतत्त्वं' कामः -- इच्छा, तस्य तत्त्वं -- सर्वत्रैव अप्रतिहतस्वभावं पूर्णं रूपम् इत्युच्यते, इति वाक्यार्थः ॥146॥
तत्रत्यमेव ग्रन्थं पठति
यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् । tantraloka.3.147a
ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥ tantraloka.3.147b
तत्र चित्तं समाधाय वशयेद्युगपज्जगत् । tantraloka.3.148a
तत्र च
`इदानीं कामतत्त्वं तु विषतत्त्वं परं तथा ।
कथ्यते तव सुश्रोणि भक्तिस्नेहाद्विशेषतः ॥'
इत्युपक्रम्य
`यत्तदक्षरम् ॰॰॰ ।'
इत्यादि चाभिधाय
`तत्र चित्तं नियुञ्जीत साधकेन महात्मना ।
देवकिन्नरगन्धर्वसिद्धविद्याधराङ्गनाः ॥
148

यक्षकन्यास्तथा नाग्यः पिशाच्यः सुरयोषितः ।
वशमायान्ति सुभगे नरनारीषु का कथा ॥'
इत्युक्तम् । यदिह `तत्र चित्तं समाधाय वशयेद्युगपज्जगत्' इत्यर्थद्वारेण पठितम्, यत्तत् -- सर्वदैव स्फुरद्रूपत्वात्स्वानुभूत्येकसिद्धम्, अक्षरं -- नित्योदितत्वादप्रच्युतप्राच्यस्वरूपम्, अत एव अनिच्छम्
`नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयम्चुच्चरते देवः प्राणिनामुरसि स्थितः ॥'
इत्याद्युक्त्या स्वयमुच्चरद्रूपत्वात् अन्यसंबन्धिनीमुच्चिचारयिषां नापेक्षत इत्यर्थः, तदपेक्षित्वे हि तस्याः कादाचित्कत्वात् अस्य नित्योदितत्वं न स्यादिति भावः, अत एव `सहजमिति, स्वयंभु' इति च अन्यत्रैतदुक्तम्, अत एवाव्यक्तम्, व्यक्तत्वं हि स्थानकरणाभिघातादिना भवेत्, तच्च इच्छाधीनम्, इति कथमस्यैतत्स्यात्, अत एव ध्वनिरूपम्
`नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् ।
इति ।
सुसूक्ष्मो व्यापकः शुद्धः प्राणतत्त्वस्य वाचकः ॥'
इत्याद्युक्त्या सततोदितनादमात्रस्वभावमित्यर्थः, अत एव -- सुसूक्ष्मत्वव्यापकत्वादेः, तच्च तत्र स्थूलध्येयादिनिष्ठं
149

यत् ध्यानादि तेन वर्जितं -- नैयत्यनिबन्धनध्येयादिरूपत्वेन अक्षोभ्यमित्यर्थः, एवंरूपत्वेऽपि उपभोगावसरे रतिसौख्यसमावेशवैवश्येन विगलितवेद्यान्तःकरणत्वात् निरस्तवैकल्यायाः कान्तायाः कण्ठान्तः स्वरसत एव उद्यत् अभिव्यज्यमानम्, अत एव सततोदितत्वेऽपि तत्कालमस्य विशेषेणावस्थानम् । एवं च विसर्गस्य अनाहतरूपत्वात् सौक्ष्म्येऽपि कान्ताकण्ठान्तः किंचिदुच्छूनतापत्त्या `हा-हा' इति स्फुटमवस्थानम्, येनास्य एतदुपलभ्यमानं निदर्शनीकृतं, तेन न योगिमात्रगम्यमेवैतत् अपि तु सर्वैरपि उपलभ्यत इति भावः । अतश्च अनेनैव हकारस्यापि प्रसङ्गात्स्वरूपं निर्दिष्टं, किं तु तस्य स्थौल्यात् -- स्फुटत्वेनावस्थानम्, अस्य तु सौक्ष्म्यात् न तथा, इति इयानेव विशेषः, अत एव समनन्तरमेव
`विसर्ग एव सुस्पष्टमाश्यानत्वमुपागतः ।'
इत्याद्युक्तम् । यदभिप्रायेणैव अनयोः परापरत्वमपरत्वं चोक्तम्, अत एव अग्रे हकारस्य स्वरूपं न उक्तम्, उक्तं चान्यत्र
150

`यत्तदक्षरमक्षोभ्यं प्रियाकण्ठोदितं परम् ।
सहजं नाद इत्युक्तं तत्त्वं नित्योदितो जपः ॥'
इति । तथा
`नित्यानन्दरसास्वादाद्धाहेति गलकोदरे ।
स्वयंभूः सुखदोच्चारः कामतत्त्वस्य वेदकः ॥'
इति । तत्र अनाहतात्मनि एवंविधे विसर्गे साधकश्चित्तं सम्यक्
`अतिसौख्यसमावेशविवशीकृतचेतसः ।
अविच्छिन्नं जपन्त्येनमङ्गनासंगमोत्सवे ॥
अत्रासक्तधियो यान्ति योगं योगीश्वराः परम् ।
स शिरोरहितः कामः कामिनीहृदयालयः ॥
नेत्रारूढेन तेनाथ शक्तिदृष्टिं समाहरेत् ।
क्षोभयेन्नात्र संदेहो दृप्तामपि वरस्त्रियम् ॥'
इत्याद्युक्तनीत्या कामशब्दाभिधेयम् अनच्ककलात्मकं विसर्गं स्वनेत्राभ्यां निर्गतं साध्यनेत्रयोरनुप्रविष्टं ध्यायेत्, साध्यनेत्राभ्यां च निर्गतं स्वनेत्रयोरनुप्रविष्टं ध्यायेत्, इत्येवं क्रमेण आ -- समन्तात् दोलायन्त्रक्रमेण गमागमयोः पौनःपुन्येन धृत्वा -- अनन्यापेक्षेण अवहितं कृत्वा, जगत् -- जायमानं जन्तुचक्रं, युगपत् न तु क्रमेण, वशयेत् -- स्वात्ममयतयैव सर्वमाभासयेत्, स्वात्मायत्तं वा कुर्यादित्यर्थः ॥147॥
151

इदानीं यथोक्तविसर्गस्वरूपमेव दृष्टान्तीकृत्य कादीनामुदयं वक्तुमुपक्रमते
अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥ tantraloka.3.148b
तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः । tantraloka.3.149a
अतः -- समनन्तरोक्ताद्धेतोः, विसर्गस्यैव यथा हकारात्मतया स्थूलेन रूपेणावस्थानं, तथैव अनुत्तरादीनामपि कादिसान्तत्वेन अनुत्तरादय एव तथा अवभासन्ते इत्यर्थः ॥148॥
तदेवाह
अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥ tantraloka.3.149b
पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः । tantraloka.3.150a
पञ्चात्मत्वे हेतुः -- पञ्चशक्त्यात्मतावेश इति, एकैकत्रेति -- अनुत्तरेच्छादौ, अनुत्तरस्य हि चिच्छक्तिप्राधान्येऽपि `सर्वत्र सर्वमस्ति' इतिन्यायेन
152

पञ्चशक्तिमयत्वम्, इति तत्सूतेः कवर्गस्यापि पञ्चात्मत्वम्, एवमन्यत्रापि ज्ञेयम् ॥149॥
इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥ tantraloka.3.150b
चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः । tantraloka.3.151a
या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥ tantraloka.3.151b
द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् । tantraloka.3.152a
उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥ tantraloka.3.152b
स्वस्वरूपसंस्थाया इति -- इष्यमाणानारूषितायाः, एकरूपत इति -- अक्षुब्धाया एव इच्छाशक्तेः, न पुनः क्षुब्धाया अपीत्यर्थः, चिदादीनामपि शक्तीनां यथायथं बाह्योन्मुखतया स्फुटत्वमस्ति, इत्यौचित्यात्तत्स्फाररूपाणां कवर्गादीनामपि तथात्वमित्युक्तं `क्रमप्रस्फुटतात्मक' इति, येति -- इच्छाशक्तिः,
153

ज्ञेयम् अर्थादिष्यमाणं, द्विरूपाया -- ऋकारqqकाररूपायाः, एवमनेनानुत्तरादिभ्य एव पञ्चभ्यः कवर्गादीनां पञ्चानां वर्गानामुदय इत्यभिहितम्, अत एवैषां `अकुहविसर्जनीयानां कण्ठः' इत्यादिना सस्थानत्वमुक्तम्, उक्तं चान्यत्र
`अकुलात्पञ्चशक्त्यात्मा द्वितीयो वर्ग उत्थितः ।
अनारूषितरूपाया इच्छायाश्च ततः परः ॥
वह्निक्षमाजुषस्तस्याष्ट -- ताद्यं च द्वयं ततः ।
पादिरुन्मेषतो जात इति स्पर्शाः प्रकीर्तिताः ॥'
इति ॥152॥
ननु
`पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ।
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥'
इत्याद्युक्त्या कादयो मावसानाः पञ्चविंशतिर्वर्णाः पृथ्वीतत्त्वादारभ्य पुरुषतत्त्वान्तं यावत्स्थिताः, तत् तत्त्वान्तराणामपि संभवाद्विश्वमवशिष्यत इति कथमेतावतैवोक्तं `यतो विश्वं समाप्यत' इति ? इत्याशङ्क्याह


पं॰ क॰ पु॰ प्रथमो वर्ग इति पाठः प्रक्रिययासंगतोऽस्ति, यत आगमेषु कादित आरम्य द्वितीयवर्गस्याम्नायोऽस्ति ।

154


ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् । tantraloka.3.153a
ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥ tantraloka.3.153b
यत इदं -- विश्वं पृथ्वीतत्त्वादि, पञ्चविंशत्यन्तं
`पुरुषः पञ्चविंशकः'
इत्याद्युक्त्या पुरुषतत्त्वान्तं विश्वं स्फुटत्वाज्ज्ञेयरूपम्, अत उक्तं `यतो विश्वं समाप्यते' इति । नियत्यादि हि
`मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ।'
इत्याद्युक्त्या ज्ञातुरत्यन्तं कण्ठसंलग्नत्वेन अभिन्नमेव, इति न व्यतिरिक्तस्थूलज्ञेयात्मविश्वरूपतयोक्तमिति भावः, अत एव चैतावत्तत्त्वपञ्चविंशकान्तं विश्वं स्फुटाज्ज्ञेयत्वादेव हेतोः, इन्द्रियैः स्पृश्यन्त इति `स्पर्शाः' तद्रूपं, प्रकर्षेण `कादयो मावसानाः स्पर्शाः, इति वाचकाभिप्रायेण
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ॥'
इति च वाच्याभिप्रायेण उक्तम्, अत्र च पुंसः
155

प्रमातृत्वेऽपि करणानां च करणत्वादेव प्रमाणत्वेऽपि यज्ज्ञेयत्वमुक्तं तच्छून्यादिप्रमात्रन्तराभिप्रायेण, इति न कश्चिद्दोषः ॥153॥
एवं स्पर्शानामुदयमभिधाय अन्तःस्थानामप्यभिधत्ते
इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः । tantraloka.3.154a
सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥ tantraloka.3.154b
सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता । tantraloka.3.155a
विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥ tantraloka.3.155b
तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा । tantraloka.3.156a
वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥ tantraloka.3.156b
156

क्षुभिताक्षुभितरूपत्वेन द्विविधा येयमिच्छाशक्तिः सा, विजातीयश्चिद्रूपो योऽयं शक्त्यंशोऽनुत्तरस्तत्र प्रोन्मुखी -- तेन समं `इको यणचि' इति प्राप्तसंधिः सती यात्मतां याति -- यकारात्मना प्रस्फुरतीत्यर्थः, सैव द्विरूपापीच्छाशक्तिः `अचिरद्युतिभासिन्या' इत्याद्युक्तगत्या शीघ्रं स्थिरं च कृत्वा, उपात्तं यत् ज्ञेयं -- अर्थादिष्यमाणं, तत्कालुष्येणारूषिता सती अनुत्तरात्मनि विजातीये यदुन्मुखत्वं -- तेन समं `इको यणचि' इति संधिः, तेन रत्वं लत्वं च गच्छति -- तदात्मना भासत इत्यर्थः, एवमुन्मेषशक्तिरपि द्विप्रकारा `वैजात्यशक्तिगा' -- अनुत्तरेण सह प्राग्वदेव कृतसन्धिर्वकारत्वमवभासयेत्, तदुक्तम्
`विभिन्नशक्तिसंयोगादिच्छा य-र-लतां गता ।
उन्मेषशक्तिरायाति वत्वमेव वरानने ॥'
इति । `सृष्टिसारप्रवर्षकम्' इत्यनेन अस्य वरुणबीजत्वादाप्यायकारित्वं दर्शितम्, एवं य-र-लानामपि शोषकारित्वं दाहकत्वं स्तम्भकत्वं च क्रमेणावगन्तव्यम् ॥156॥
ननु इष्यमाणारूषणायामपि वक्ष्यमाणनीत्या इच्छाशक्तिरेव परामर्शान्तरजननसमर्था, इत्यनुत्तरसंघट्टभाजः
157

तस्याः परामर्शान्तरलक्षणं कार्यमुत्पद्यतां नाम, तस्य पुनर्यकारादिरूपत्वेन भेदः कथं स्यात् `कारणभेदाद्धि कार्यभेदः' कारणं चात्रेच्छानुत्तरसंघट्टात्मकमेकमेव, इति किमेतत् ? इत्याशङ्क्याह
इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः । tantraloka.3.157a
वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥ tantraloka.3.157b
इह इच्छैव, न पुनरिष्यमाणमपि, अनुत्तरानन्दाभ्याम्, अर्थाद्विकल्पेन, याता -- मिलिता सती, शीघ्रत्वयोगतः -- संस्कारलक्षणं वेगमुपाधित्वेन स्वीकृत्य, वायुरित्युच्यते -- वायुबीजयकाररूपतां प्राप्तेत्यर्थः, एवं भासनाद्भास्वत्तालक्षणं धर्मं, तथा स्थैर्यतो धृतिहेतु स्थिरत्वाख्यं धर्मम् उपरञ्जकत्वेन अवलम्ब्य, क्रमेण वह्निः -- वह्निबीजरेफात्मतां, धरा -- धराबीजलकाररूपतां चाभासयतीत्यर्थः, आनन्देति चोन्मेषादिविजातीयशक्त्यन्तराभिव्यञ्जनपरतयोक्तम्, तेनानुत्तरादिसंघट्टभाज
158

इच्छाया एवमुपाधियोगेन भेदात्कार्यस्यापि भेद इति यथोक्तमेव युक्तम् ॥157॥
अत्र चान्तःस्थशब्दस्य प्रवृत्तौ निमित्तं दर्शयति
इदं चतुष्कमन्तःस्थमत एव निगद्यते । tantraloka.3.158a
इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥ tantraloka.3.158b
अत एव -- प्रागुक्ताद्धेतोः, `इच्छादि' इति आदि शब्देन उन्मेषस्य ग्रहणादिच्छोन्मेषयोरन्तर -- अभेदेनावस्थानात्, तथा स्वस्य -- प्रमात्रेकरूपस्य आत्मनः, सम्यगाप्तिः -- ऐकात्म्येनावभासः, तत्र संस्थितेः -- प्रमात्रैकात्म्येन वर्तमानत्वादिदं यादि -- वान्तं चतुष्कमन्तःस्थं निगद्यते -- सर्वशास्त्रेषु एवमुच्यते इत्यर्थः, यदुक्तम्
`इच्छाद्यन्तःप्रवेशेन तेऽन्तस्था इति कीर्तिताः'
इति ॥158॥
नन्विच्छाद्याः शक्तयो विजातीयशक्तिसंभिन्ना
159

यथा परामर्शान्तराणि आविर्भावयन्ति, तथैव सजातीयशक्तिसंबन्धेऽपि किं, न वा ? इत्याशंक्याह
सजातीयकशक्तीनामिच्छाद्यानां च योजनम् । tantraloka.3.159a
क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥ tantraloka.3.159b
क्षोभात्मनां -- दीर्घाणाम्, अक्षोभात्मनां -- ह्रस्वानाम्, इच्छादीनां शक्तीनामेवंरूपाणां सजातीयानामपि शक्तीनां यदा योजनं -- `अकः सवर्णे दीर्घः' इति सन्ध्यात्मा योगो भवेत्, तदा `क्षोभात्मकम्' इति प्राहुः -- सजातीयदीर्घरूपपरामर्शस्वभावत्वं, न पुनर्विजातीयपरामर्शान्तररूपत्वं शास्त्रकोविदाः कथयन्तीत्यर्थः, तेन इ इ-ई, ई इ-ई, ई ई-ई इत्येवंप्राये योगे क्षोभात्म -- दीर्घरूपमीकारत्वमेव भवेदिति तात्पर्यम् ॥159॥
अनुत्तरे पुनरेवंरूपत्वेऽपि विशेषोऽस्तीत्याह
अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः । tantraloka.3.160a
160

अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥ tantraloka.3.160b
प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः । tantraloka.3.161a
अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥ tantraloka.3.161b
न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता । tantraloka.3.162a
अनुत्तरस्य पुनः सजातीययोगे द्विप्रकारा गतिर्भवेत्, यत् -- यस्मात्तत्र तदेकमनुत्तरं चेत्, आनन्दसूतये प्रभविष्णुतामेष्यति, तदा तेनापरेणानुत्तरेणैव योगे -- संबन्धे, क्षोभात्मक आनन्दरूप एव स्फुट योगः -- प्राग्वदेव निर्बाधः सन्धिः, यथा `दण्डाग्रम् -- इत्यादावेकः प्रकारः, अथापि -- अर्थादेकस्यानुत्तरस्य' द्वितीयमप्यनुत्तरं संघट्टमानम् आनन्दजन्मने न पर्याप्तं स्यात्, तदा क्षोभात्मकानन्दप्रादुर्भावमन्तरेण `अतो गुणे' इति पररूपे कृते सति, अनुत्तरात्मतैव भवेत्, यथा `सीमन्तम्' इत्यादाविति द्वितीयः ॥161॥
161

एवमेतत् प्रसंगादभिधाय प्रकृतमेव ऊष्मणामुदयमभिधत्ते ।
इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥ tantraloka.3.162b
शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता । tantraloka.3.163a
अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥ tantraloka.3.163b
इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः । tantraloka.3.164a
तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥ tantraloka.3.164b
बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् । tantraloka.3.165a
एवमत्रैष्टव्यस्यापि विभज्यावस्थानं दर्शयति -- अनुन्मिषितमित्यादिना, एतस्यां त्रिधाभावमुपागतायामिच्छायामिष्यमाणमपि त्रिधैवावस्थितं, यतः
162

`तत्सा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा'
इत्यादिनीत्या शुद्धायामिकाररूपायाम् `अनुन्मिषितम्' अनुल्लसितं शीघ्ररूपेण एष्टव्येनारूषितायामृकाररूपायाम् `उन्मीलत्' उल्लसद्रूपं, स्थैर्यात्मना चैष्टव्येनारूषितायां ऌकाररूपायां `प्रोन्मीलितम्' उल्लसितमिति । ननु इष्यमाणस्य शीघ्रत्वादिभेदेन वैशिष्ट्यात्मस्वरूपप्रच्यावः प्राप्तः, इति त्रयोऽत्र विषया इति वाच्यं, न पुनरेक एव त्रिधा ? इत्याशङ्क्योक्तं `ताद्रूप्यस्यापरिच्युतेरिति' नहि शीघ्रत्वादिभेदेऽपीष्यमाणतालक्षणाद्रूपादस्य प्रच्याव इति भावः, तदेवं त्रिविधमपीष्यमाणं स्वातन्त्र्यलक्षणेन स्वोष्मणा बहीरूपतया समुल्लासितं सत् ऊष्मसंज्ञश-ष-सत्रितयात्मना प्रस्फुरेत्, अत आह `तदेवेत्यादि' एवमेषणीयस्य तदतिरेकासंभवान्त्रिप्रकारापीच्छैव स्वोष्मवशात् एवं परामर्शत्रयात्मना प्रस्फुरिता इति तात्पर्यार्थः, यदुक्तं
`इच्छैव स्वोष्मणाक्रान्ता कलात्रयसमाश्रिता ।'
इति, अत एवैषामिच्छायाश्च `इचुयशानां तालु' `ऋटुरषाणां मूर्धा' `ऌतुलसानां दन्ताः' इत्यादिना
163

सस्थानत्वमुक्तम्, इयदन्तमेव विस्फार इत्यप्यनेन प्रकाशितम् ॥164॥
अत आह
तत एव सकारेऽस्मिन्स्फुटं विश्वं प्रकाशते ॥ tantraloka.3.165b
अमृतं च परं धाम योगिनस्तत्प्रचक्षते । tantraloka.3.166a
तत इति -- प्रोन्मीलितस्यापीष्यमाणस्य बहीरूपतया समुल्लासितत्वात्, अनेनैव चाभिप्रायेण
`सार्णेनाण्डत्रयं व्याप्तं'
इत्याद्युक्तम्, अत एव चेयद्विश्वाप्यायकारित्वात्
`सोमं चामृतनाथं च सुधासारं सुधानिधिम् ।
सकारं षड्साधारं नामभिः परिकीर्तितम् ॥'
इत्यादिदृशा अमृतबीजतयोक्तेश्च गुरवस्तत्परामृतं धाम प्रचक्षते -- सर्वशास्त्रेषु कथयन्तीत्यर्थः ॥165॥
ननु चास्य किमेवंरूपत्वं क्वचिद्विभाव्यते, न वा ? इत्याशङ्क्याह
क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥ tantraloka.3.166b
164

सीत्कारसुखसद्भावसमावेशसमाधिषु । tantraloka.3.167a
क्षोभस्य -- आदियागरूपस्य ये आद्यन्तविरामाः, तेषु ये सीत्कारादयः, तेषु तदेवामृतं परं धाम अर्थादभिव्यज्यत इति संबन्धः, एवमस्य परानन्दमयतोद्रेचनेन
`करणमरीचिचक्रमुदयं कुरुते रभसात्स्थितिमुपयाति तत्र परसौख्यरसान्ततया ।
विलयमुपैति चात्र परबोधभरक्षपणात्परमकलात्र केवलतया विलसत्यमला ॥'
इत्याद्युक्तयुक्त्या प्रथमं करणचक्रस्य क्षोभौन्मुख्यात् उदितसीत्कारादौ, अनन्तरं तत्रैव विश्रान्त्या परसामरस्यात्मसौख्यसमावेशे, तदनु च तत्रैव दार्ढ्येन निरूढ्या
`सदिति ब्रह्म परमम्'
इत्याद्युक्त्या सतः परस्य ब्रह्मणो भावः सत्ता, तत्र यः समावेशो -- देहादिप्रमातृतानिमज्जनेन चित्प्रमातृताया उन्मज्जनं, स एव समाधिः -- परसंवित्कलारूपत्वेन परिस्फुरणं, तत्रेति -- एवमादिष्वानन्दस्थानेष्वभिव्यक्तिरित्यर्थः ॥166॥
165

एवं चास्य परब्रह्मरूपत्वमेवेत्युक्तं स्यादत आह
तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥ tantraloka.3.167b
ब्रह्मेति
`सर्वं खल्विदं ब्रह्म'
इत्याद्युक्त्या व्यापकं रूपमित्यर्थः, अत एव `अविभक्तमित्युक्तं' -- नियतरूपस्य हि विभागो भवेदिति भावः, प्रचक्षत इति -- श्रीपरात्रिंशकादौ, तथाहि तत्र, पराबीजोद्धारे
`तृतीयं ब्रह्म सुश्रोणि'
इत्युक्तं, तृतीयं ब्रह्म सकारः, यद्गीतं
`ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।'
इति ॥167॥
यत एव चास्य व्यापकमामृतं च रूपम्, अत एव अन्यत्र `विषतत्त्वमिति' व्यपदेशान्तरमप्यस्ति, इत्याह
उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे । tantraloka.3.168a
166

शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥ tantraloka.3.168b
काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् । tantraloka.3.169a
विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥ tantraloka.3.169b
अन्वर्थाभिधानके इति, यदुक्तं तत्रैव
`कुलं शक्तिः समाख्याता गह्वरं शक्तिमानपि ।
उभयोर्वेदनैकत्वं कथ्यते कुलगुह्वरम् ॥'
इति । तत्रत्यमेव ग्रन्थं पठति `काकचञ्चु' इत्यादि । संबोधनसारत्वाद्युष्मदर्थस्य -- `हे देवि तव स्नेहात्' -- शासनीयत्वेनानुकम्प्यत्वात्, विषस्य -- व्यापकस्य रूपस्य, यत्तत्त्वं -- सर्वत्राप्रतिहतत्वं, तत्प्रकाशितम् -- अन्योन्यसंघट्टात्मसामरस्यावसरेऽनुभवगोचरतामापादितमित्यर्थः, तच्चानाहतरूपत्वादनच्कशब्दाभिधेयम्, अत एव सततोदितत्वेन ध्यानादिनिरपेक्षं, तद्धि नियतध्येयादिनिष्ठमिति भावः, एवमपि काकचञ्चुपुटवदाकारो यस्य तत्तथाविधम्
167

-- अनच्कस्य द्विकुब्जतया तथासंनिवेशात् ॥168॥169॥

नन्विह अमृतबीजमुपक्रान्तं वर्तते, न च तस्यैवंरूपं संभवति -- तस्य कामाक्षरविषयत्वेनोक्तत्वात्, तत्किमर्थमत्रैतत्संवादितं, भगवतोऽपि
`यदेतत्कामतत्त्वं तु विषतत्त्वं तदेव हि ।
तदिदानीं समासेन शृणु त्वं मृगलोचने ॥'
इत्यादिना कामतत्त्वस्यैव पुनर्विषतत्त्वत्वेनाभिधाने क आशयः ? इत्याशङ्क्याह
कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते । tantraloka.3.170a
विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ॥ tantraloka.3.170b
ननु भगवता श्रीकुलगुह्वरे कामतत्त्वविषतत्त्वयोः प्राणनामात्ररूपां प्राणादिवायुपञ्चकसामान्यभूतां षष्ठीं प्राणकलामधिकृत्य स्वरूपं निरूपितं, न पुनः प्राणमात्रं -- तस्यैवंरूपासंभवात्, तस्य हि रेचकादिदशासु परेच्छाधीनवृत्तित्वादुच्चार्यमाणत्वप्रतिहन्यमानत्वाद्यपि संभवेत्, विशिष्टत्वं पुनः कामतत्त्वस्य
168

प्राणरूपत्वं, विषतत्त्वस्य च अपानरूपत्वम्, अत एवानयोर्हकारसकारात्मत्वम्, तदुक्तम्
`स-हौ क्षपादिनामानावधरोत्तरचारिणौ ।
परस्परद्वेषरतौ मतौ नगहुडूपमौ ॥
कस्तौ रोधयितुं शक्तो वीर्यं मुक्त्त्वा स्वयं महत् ।'
इति । तथा
`ऊर्ध्वे बिन्दू रविः प्राणो दिनं भागार्धमेव च ।
सिद्धैरधिष्ठितो भागः खेचर्याराधनात्मकः ॥
अधो नादस्तथापानो मत्तगन्धः क्षपा शशी ।
खेचर्यधिष्ठितो भागः सिद्धसेव्यो लयात्मकः ॥'
इति । एवं वैशिष्ट्येऽपि अनयोः सामान्यस्य विशेषनिष्ठत्वात् प्राणनमात्ररूपत्वम् उभयत्रापि संभवतीति ऐकरूप्येण निर्देशः, यदभिप्रायेण कामतत्त्वस्यैव विषतत्त्वत्वेन भगवतोऽभिधानम्, इह चैतत्संवादनम्, अत एव कामस्य कामतत्त्वस्यापि पूर्णता -- स्वात्ममात्रविश्रान्तेरनन्याकाङ्क्षिता नाम, तत्त्वं -- पारमार्थिकं रूपं, संघट्टे प्रविभाव्यते -- परस्परसामरस्यात्मसंक्षोभावसरे सर्वैरेव साक्षात्क्रियते इत्यर्थः, विषतत्त्वस्याप्यणोः परिमितस्य देहादिमातुः स्वाभाविकपूर्णदृक्क्रियावारके पारिमित्यात्मनि
169

छाद्यत्वे, च्युते -- वेद्यवेदकविभागविगलनात्पूर्णे रूपे समुदिते सति, आमृतं -- विकासदशामयं तत्त्वं संघट्टे प्रविभाव्यते इति पूर्वेणैव संबन्धः ॥170॥
ननु चास्य स्वाभाविकपूर्णदृक्क्रियावरणेऽपि किं निमित्तम् ? इत्याशङ्क्याह
व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः । tantraloka.3.171a
शक्तिरिति -- पारमेश्वरी स्वरूपगोपनारूपा मायाख्या, मह इति -- स्वाभाविकपूर्णदृक्क्रियारूपं, विषमपि हि बहिर्व्यापकत्वादव्याप्तुरण्वात्मनो दृक्क्रियावरणमेव कुर्यादित्यत्र तदारोपः ॥
एवं न केवलमस्य कामतत्त्वत्वमस्ति, विषतत्त्वत्वं वा, यावन्निरञ्जनत्वमपि, इत्याह
निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥ tantraloka.3.171b
क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः । tantraloka.3.172a
170

प्रोन्मीलितस्यापि इष्यमाणस्य बहीरूपतया समुल्लासितत्वात्क्रियाशक्त्यात्मकम्, अत एव विश्वमयं यत्परम् -- आपूरकं, धाम -- सकारात्म चान्द्रं तेजः, तन्निरञ्जनं
`एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ।
न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः ॥'
इत्यादिपूर्वोक्तयुक्त्या न केनचिदप्युपाधेयमित्यर्थः, तस्य पुनः क्रियाशक्त्यात्मनः चान्द्रस्य धाम्नो यत्तत्त्वं -- परमप्रकाशात्म शक्तिमल्लक्षणं विश्रान्तिस्थानं, तत्साञ्जनं
`शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् ।'
इत्यादिप्रागुपपादितयुक्त्या शक्तिकर्तृकेन व्यक्तीकरणेन युक्तमित्यर्थः, अत आह `तस्मात्स्फुरेद्यतः' इति, तस्माद्धेतोः, यतः -- शक्तेः सकाशात्, स्फुरेत् --
`॰॰॰ शैवी मुखमिहोच्यते ।'
इत्याद्युक्त्या स्वशक्त्यैवाभिव्यज्यत इत्यर्थः ॥171॥
ननु कामादेस्तत्त्वत्रयस्य इच्छादिशक्तित्रयरूपत्वमस्ति, तत्कथमेकस्यैव अमृतबीजस्य एतद्रूपत्वमुक्तम् ? इत्याशङ्क्य विभागावेदनपूर्वमेषामविभागमेव द्रढयति
171

इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥ tantraloka.3.172b
एतत्त्रयसमावेशः शिवो भैरव उच्यते । tantraloka.3.173a
भैरव इति -- विश्वमयत्वेन पूर्णत्वात्, अत एव `तदेव ब्रह्म परमं' इत्याद्युक्तम् ॥172॥
एवमेतत्प्रसंगादभिधाय प्रकृतमेवाह
अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥ tantraloka.3.173b
विषतत्त्वे संप्रविश्य न भूतं न विषं न च । tantraloka.3.174a
ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥ tantraloka.3.174b
अत्रेति -- विषतत्त्वात्मनि व्यापके रूपे, रूढिमिति -- अनुप्रवेशं, किं चात्र रूढ्या भवेत् ? इत्याशंक्याह `विषतत्त्वे' इत्यादि, भूतमिति -- यक्षादि, ग्रह इति -- अनात्मनि आत्माभिमानः, तद्धि परिमितस्य
172

प्रमातुर्भवेदित्याभिप्रायः, परप्रमात्रात्मनि व्यापके रूपे समावेशाभाजः पुनर्भावनाभ्यासात् `अहम्' इत्येव परमाद्वयमयतोल्लसेत्, येनास्य तदतिरिक्तमुपद्रवनिमित्तं न किंचिदपि भायादिति भावः । यदुक्तं श्रीकुलगुह्वरे
`यदा शून्यं निरालम्बं ध्यानधारणवर्जितम् ।
सर्ववर्णधरं शान्तं सर्ववर्णविवर्जितम् ॥
चिन्मात्रं केवलं शुद्धं विषनिर्वाहकारकम् ।
न विषं न ग्रहः पापं न यक्षो न च राक्षसः ॥
न पिशाचादिकं किंचिन्नायं नाहं विभावयेत् ॥
केवलं भावमात्रेण ॰॰॰ ॥'
इत्यादि ॥173-174॥
ननु इष्यमाणरूषिताया इच्छायाः पूर्वं क्षोभान्तरस्यासंभवात्
`॰॰॰ नेदं बीजं च कस्यचित्'
इत्याद्युक्त्या षण्ठत्वं प्रतिज्ञातम्, अनन्तरं चात्र
`या तूक्ता ज्ञेयकालुष्य ॰॰॰'
इत्यादि, तथा
`सैव शीघ्रतरोपात्त॰॰॰'
इत्यादि, तथा
`॰॰॰ सा चैष्टव्येन रूषिता'
173

इत्यादिवाक्यैः षण्ठवर्णेभ्यः क्षोभान्तरस्यापि सद्भाव उक्तः, इत्येषां पूर्वप्रतिज्ञातं षण्ठत्वं कथं निर्वहेत् ? इत्याशङ्क्य प्रतिविधत्ते
नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता । tantraloka.3.175a
कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥ tantraloka.3.175b
तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता । tantraloka.3.176a
सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥ tantraloka.3.176b
यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः । tantraloka.3.177a
भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥ tantraloka.3.177b
जन्मोक्तमिति -- टवर्गादीनां, ब्रह्म इति `नात्र षण्ठस्य सोतृता' इत्युत्तरम्, एतदेवोपपादयति `तथाहीत्यादिना'
174

यतः षण्ठगता येयमिच्छाशक्तिरुक्ता सैव अन्तःस्थं स्वाभेदेन वर्तमानमपि यथास्वं नियतं रूपमात्मीयं कार्यं `टवर्गादि' बहिरुल्लासयेत्, न पुनस्तद्गतं रूषणानिमित्तं चिरक्षिप्रस्वभावमेषितव्यं, तद्धि कालुष्यमेव जनयेत्, एतावतैव च एतच्चरितार्थम्, इति न कार्यान्तराविर्भावनायापि प्रभवतीति भावः, तच्च कालुष्यं तन्निमित्तमेषितव्यं वा अस्या इच्छायाः एव वपुः -- तदेकात्मकमित्यर्थः, नहि प्रकाशैकस्वभावाया इच्छाया अन्यदतिरिक्तं नाम किंचित्संभवेदिति भावः, तेन वस्तुत इच्छाया एव प्राधान्यात् तत्तत्स्वकार्याविर्भावकत्वम् इति युक्तमुक्तं `सैव सूत' इति ॥177॥
नन्वेवमपि षण्ठानां सर्वंसर्विकया न बीजत्वमपास्तं भवेत् ? इत्याशङ्क्याह
ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः । tantraloka.3.178a
षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥ tantraloka.3.178b
175

इष्यमाणस्य इच्छायाश्च मेलनारूपं हि षण्ठं विदुः, यतोऽत्र न क्षोभकत्वं क्षोभाधारत्वं चेति, तेन केवलाया इच्छाया एव क्षोभान्तराविर्भावकत्वेऽपि नैषां बीजत्वमपास्तं भवेत् -- समुदायात्मकत्वात्षण्ठत्वस्य, इति युक्तमुक्तं `नात्र षण्ठस्य सोतृतेति' ॥178॥
एवमेतत्प्रसंगादभिधाय प्रकृतमेवाह
एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् । tantraloka.3.179a
ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥ tantraloka.3.179b
चतुष्कस्येति हकारेण सह, तस्य ह्यनुत्तराज्जन्म, इति भङ्ग्या प्रागेवोक्तम्, अनुत्तरस्य हि शाक्तिर्विसर्गः, तस्यैव चाश्यानं रूपम् अयम् इति, अत एवानुत्तरेणास्य सस्थानत्वम्, स्वोष्मणेति -- स्वातन्त्र्यलक्षणेन स्वात्मतेजसेत्यर्थः, नहि इच्छाया अनुत्तरस्य वा परामर्शान्तरवदन्यापेक्षया एतदाभासमानम्, अपि तु स्वमाहात्म्यादेवेति भावः । यद्यपि कवर्गादीनामनुत्तरादेरेकैकस्मादेव जन्मोक्तं
176

तथापि तच्छक्त्यन्तरप्रयोजकीकारेण, इति युक्तमुक्तं `स्वोष्मणाभासनावशादिति' ॥179॥
न केवलं कादि-हान्तस्य वर्णजातस्य स्पर्शादितया पृथक् पृथगभिधानं, यावदपृथक्त्वेनापि, इत्याह
कादि-हान्तमिदं प्राहुः क्षोभाधारतया बुधाः । tantraloka.3.180a
क्षोभाधारतया इति -- योनितयेत्यर्थः, यदुक्तं
`कादिभिश्च स्मृता योनिः ॰॰॰'
इति ॥
न केवल उक्तनीत्या बीजानामेव बीजान्तरयोगे क्षोभान्तराविर्भावो भवेत्, यावद्योनेरपि योन्यन्तरयोगेन, इत्याह
योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥ tantraloka.3.180b
तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता । tantraloka.3.181a
177

तस्येति -- योनिरूपस्य कादेः, तथा च तस्य क्षोभान्तरस्य निदर्शनयुक्त्या तदेव क्षोभान्तरमुदाहर्तुं मातृकायां पञ्चाशता पूरणेन वर्णेन `क्षकाराख्येन कूटबीजेन' संबन्धः, स हि आद्यन्तभूतयोरनुत्तरविसर्गानुप्राणितयोः ककारसकारयोः प्रत्याहारतयोपात्तो, येन निखिलमेव यौगपद्येन मातृकायाः सतत्त्वं प्रदर्शितं भवतीति, तदुक्तं श्रीक्षेमराजपादैः
`तदियत्पर्यन्तं यन्मातृकायास्तत्त्वं, तदेव ककारसकारप्रत्याहारेणानुत्तरविसर्गसंघट्टसारेण कूटबीजेन प्रदर्शितमन्ते'
इति ॥180॥
ननु
`ज्ञेयरूपमिदं पंचविंशत्यन्तं यतः स्फुटम् ।'
इत्याद्युक्त्या कादयो मावसानाः पञ्चविंशतिर्वर्णा ज्ञेयरूपतया भेदैकस्वभावा निर्दिष्टाः, तदनन्तरभावि पुनश्चतुष्कद्वयं कीदृग्रूपम् ? इत्याशङ्क्याह
पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥ tantraloka.3.181b
178

चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् । tantraloka.3.182a
एतदेव प्रपञ्चयति
आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥ tantraloka.3.182b
भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् । tantraloka.3.183a
भेदेति -- संविदः सकाशाद्विच्छिन्नमित्यर्थः, अत एवास्य स्थूलवाय्वादिभूतरूपत्वमुक्तम्, अभेदेति -- इच्छाशक्तिसमुत्थत्वेन शाक्ततेजोमात्ररूपत्वात् ॥182॥
इदानीमेवमुपपादितं कादिहान्तं वर्णजातं स्वरानुप्राणितमेव भवति, इति दर्शयितुमाह
इत्थं यद्वर्णजातं तत्सर्वं स्वरमयं पुरा ॥ tantraloka.3.183b
व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल । tantraloka.3.184a
179

इत्थं -- समनन्तरोक्तनीत्या, वर्णजातं यदुक्तं तत्सर्वमुदयात्पूर्वं `स्वरमयं' स्वराणामेवान्तः शक्त्यात्मना रूपेणावस्थितमित्यर्थः, अन्यथा ह्येषां तत्तत्संयोजनवियोजनेनैवंरूपतयाभिव्यक्तिरेव न भवेदिति भावः, अत एव तद्वर्णजातं बहिरभिव्यक्तं सत् व्यज्यत इति `व्यञ्जनं' न पुनरपूर्वतयैव उत्पाद्यं -- पूर्वमपि स्वरात्मनास्यावस्थानात्, व्यङ्ग्यस्य च व्यञ्जकसंनिधावेव तत्त्वं भवेत् नान्यथा ? इत्याशङ्क्याह `स्वरप्राणं यत' इति, अभिव्यक्तमेव एतद्वर्णजातं स्वरानुप्राणितमेव भवेत्, अन्यथा हि अनच्कतया अस्य उच्चार एव न भवेत् ॥183॥
एवं च `स्वरा एव सर्ववर्णानां मूलकारणम्' इत्युक्तं भवेत्, तदाह
स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥ tantraloka.3.184b
षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः । tantraloka.3.185a
षट्कमित्यकारादूकारान्तम्, एवकारेण स्वरान्तराणां
180

व्यवच्छेदः, तेषामप्येतत्स्फारमात्रमेव हि रूपमित्याशयः । एवमेषां षण्णामेव वर्णान्तराभिव्यञ्जने प्रकाशरूपत्वमित्युक्तं स्यात्, अतश्च प्रकाशरूपत्वादेव एषामन्यत्र `षड्देवतात्मकं सूर्यरश्मित्वम्' अप्युक्तमित्याह `षड्देवता' इत्यादि, यदुक्तं
`दहनी पचनी धूम्रा कर्षिणी वर्षिणी रसा ।'
इति, मुख्या इति -- दाहकत्वादीनां शक्तीनां प्रकाशैकनिष्ठत्वात्, यदुक्तं
`षडेवेह स्वरा मुख्याः कथिता मूलकारणम् ।
ते च प्रकाशरूपत्वाद्विज्ञेयाः सूर्यरश्मयः ॥'
इति ॥184-॥
न केवलमेषां सौरमेव रूपं संभवेद्यावच्चान्द्रमपि, इत्याह
सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥ tantraloka.3.185b
अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः । tantraloka.3.186a
एतच्च पूर्वमेवोपपादितम्, इति नेह पुनरायस्तम् ॥185-॥
181

ननु परस्परव्यावृत्तत्वात्सर्वभावानां कथं सौराणां रश्मीनामन्तश्चान्द्र्यः कलाः संभवन्ति ? इत्याशङ्क्याह
चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥ tantraloka.3.186b
भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः । tantraloka.3.187a
घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥ tantraloka.3.187b
अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते । tantraloka.3.188a
चन्द्रो हि नाम न सूर्यादन्यो यतस्तद्भोग्यं, भोग्यं हि नाम प्रमेयमुच्यते, न च प्रमेयं तदुपसर्जनवृत्तित्वात्प्रमाणादतिरिच्यते इत्याशयः, तच्चैवंविधं भोग्यं भोक्तुरप्यतिरिक्तं न भवेत् -- वस्तुतः सर्ववस्तूनां प्रमातर्येव विश्रान्तेः, अतश्च भोक्तैव तदुभयात्मना रूपेण प्रस्फुरतीति भावः, अत आह `भोक्तैव भोग्यभावेन' इत्यादि, ननु विप्रतिषेधात्कथं
182

भोग्यभोक्त्रोरेकत्वमित्याशङ्क्याह `घटस्येति' नहि ज्ञेयत्वं नाम घटादेर्ज्ञेयता तस्यात्मीयो धर्मः, तथात्वे हि -- तस्य सर्वान्प्रत्यविशेषात्सर्वे सर्वज्ञाः स्युः, तेन ज्ञातुरेव स धर्मः -- तस्यैव तत्त्वज्ञानोदयेनातिशयदर्शनात्, अतोऽस्य घटादेर्या ज्ञातरि विश्रान्तिस्तदेव ज्ञेयत्वं नाम उच्यते इति, यदुक्तम् `भोक्तुर्भोग्यं नापरमिति' ॥186-187-॥
एतदेव प्रकृते योजयति
अनुत्तरं परामृश्यपरामर्शकभावतः ॥ tantraloka.3.188b
संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा । tantraloka.3.189a
अनुत्तरम् -- आदिवर्णलक्षणं परं रूपं स्वात्मनि भोक्तृभोग्यभावमाभास्य परस्परौन्मुख्येन संघट्टरूपतां प्राप्तं सत्, `भोग्यम्' इत्युच्यते, अन्यथा न भोक्तृत्वं भोग्यत्वं च भवेत् -- अन्योन्यापेक्षत्वात्तयोः, तेनाकारद्वयस्य संघट्टादाकारलक्षणं भोग्यं जातमिति तात्पर्यम्, भोग्यं चात्र वक्तुमुपक्रान्तमिति प्राधान्येन तदेवोपात्तम्, एवमिच्छोन्मेषावपि स्वात्मनि
183

भोक्तृभोग्यभावेन संघट्टमासाद्यैषणोनतात्मभोग्यरूपतामाप्ताविति युक्तमुक्तम् `अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः' इति ॥188-॥
नन्वेवं भोग्यं तावदास्तां न कश्चिद्दोषो, भोक्तुः पुनरनेकरूपतायामद्वयहानिः -- इति स्वसिद्धान्तभङ्गो भवेत् ? इत्याशङ्क्य इच्छादेर्भोग्यत्वमेवास्ति, न पुनर्भोक्तृत्वम्, इति दर्शयति
अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥ tantraloka.3.189b
संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते । tantraloka.3.190a
यद्यपीच्छादीनां स्वापेक्षया भोक्तृत्वमस्ति, तथापि अनुत्तरापेक्षया एषां भोग्यता विश्रान्तिमेति, तदा संध्यक्षराणामुदयः -- सृष्टिर्भवेत्, `अनुत्तरानन्दभुवाम्' इति बहुवचननिर्देशो व्यक्त्यपेक्षो ज्ञेयः, स चोदयो भोक्तृप्राधान्ये भवेदित्युक्तं `भोक्तृरूपं च कथ्यत' इति, अत एवात्र इच्छाद्यं गुणभूतम्, अत एवानुत्तरेच्छादिसंघट्टमयत्वाविशेषेऽपि
184

अन्तःस्थानां संध्यक्षरेभ्योऽयमेव विशेषः -- यत्संध्यक्षराणि गुणीभूतेच्छाकानि अनुत्तरप्रधानानि, अन्तःस्थास्तु गुणीभूतानुत्तरा इच्छादिप्रधाना इति, एवमनुत्तर एव एकः पारमार्थिको भोक्तेति सिद्धम्, स हि स्वप्रकाशत्वात्स्वात्मनि प्रमेयत्ववार्तामपि न सहते -- इति तस्य कथं भोग्यत्वं भवेत्, इच्छादिकं पुनर्भोग्यमेवेत्यस्य भोग्यत्वम् ॥189-॥
अत आह
अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥ tantraloka.3.190b
इच्छादिकं भोग्यमेव तत एवास्य शक्तिता । tantraloka.3.191a
आनन्दस्य भोग्यत्वेऽपि अनुत्तराव्यतिरेकाद्भोक्तृत्वमप्यस्ति, इत्यवद्योतयितुमिहानन्दग्रहणं, `भोग्यमेव' इत्येवकारेण भोक्तृत्वव्यवच्छेदः, यत्पुनरेषणाद्यपेक्षया भोक्तृत्वमुक्तं तन्न पारमार्थिकं -- भोग्यस्यैव सतः तथात्वेन कल्पनात्, `तत' इति -- भोग्यत्वात्, भोग्यत्वमेव हि शक्तित्वं, यदभिप्रायेणैव
185

`शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।
इत्युक्तम् ॥190॥
नन्वेवं पुनरपि भोक्ता भोग्यं चेति द्वयमेवापतितम् ? इत्याशङ्क्याह
भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥ tantraloka.3.191b
अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् । tantraloka.3.192a
इह भोग्यं तावद्भोक्तारमन्तरेण स्वात्मनि सत्तामेव लब्धुं नोत्सहते, इति भोग्यत्वमपि तस्य कथं स्यात्, भोक्तरि चेद्विश्रान्तं तद्भोक्तैवावशिष्यते, न तदतिरिक्तं भोग्यं नाम किंचित्, इति भोक्तैव साक्षाद्विजृम्भते, न काचिदद्वयवादहानिः, एवं भोग्यात्मदीर्घत्रयं भोक्त्रात्मनि ह्रस्वत्रये प्रत्येकं विश्रान्तम् -- इति ह्रस्वत्रयमेव प्रधानभूतमिति तात्पर्यम्, तदाह `अत' इत्यादि, चिदनुत्तरम्, इषिरिच्छा ॥191॥
नन्वेवमपि भोक्तुरानैक्यादद्वयवादहानिरिति तदवस्थ एव स दोषः ? इत्याशङ्क्याह
186

तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥ tantraloka.3.192b
तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते । tantraloka.3.193a
तदेव -- समनन्तरोक्तमनुत्तरेच्छोन्मेषात्मकं, `त्रितयं', भैरवस्य -- अनन्यापेक्षत्वात्पूर्णस्य तत्त्वस्य, परं -- विश्वापूरकं शाक्तं तेजः प्राहुः, यतः
`बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ।'
इत्याद्युक्तयुक्त्या तदेव त्रिकं पूर्णं संघट्टितं सत् परमेश्वरस्य स्वातन्त्र्यलक्षणा शक्तिः सर्वत्रैवेष्यते, यतोऽयं वाच्यवाचकात्मनो विश्वस्य प्रसरः, एतदेव हि त्रिकं सर्वाक्षेपेण वर्तते इत्यभिप्रायः ॥192॥
तदाह
तेनाक्षिप्तं यतो विश्वमतोऽस्मिन्समुपासिते ॥ tantraloka.3.193b
विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् । tantraloka.3.194a
187

यतस्तेन त्रिकेण सर्वमिदमाक्षिप्तम् अतोऽस्मिन्नेव स्वातन्त्र्यशक्तिमात्रपरमार्थे त्रिके समावेशशालिनः
`॰॰॰ शैवी मुखमिहोच्यते ।'
इत्याद्युक्त्या तद्द्वारेणैव अनवच्छिन्नस्वभावत्वात्पूर्णे शक्तिमद्रूपेऽपि अयत्नेनैव समावेशो जायते इति वाक्यार्थः ॥193॥
सर्वं चैतदाक्षेप्यमेतत्स्फारसारमपरिच्छेद्यं चेत्याह
इत्येष महिमैतावानिति तावन्न शक्यते ॥ tantraloka.3.194b
अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् । tantraloka.3.195a
न शक्यते इति -- अर्थात्परिच्छेत्तुम् ॥194॥
अत एव च स एव भगवाननुत्तरः स्वस्वातन्त्र्याद्विश्वरूपतामाप्तः, इत्याह
तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥ tantraloka.3.195b
188

विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः । tantraloka.3.196a
विसर्गशक्तियोगे स्वाच्छन्द्यमनुत्तरत्वं च हेतुः, स्वतन्त्रस्यैव हि पञ्चविधकृत्यकारित्वाद्विसर्गे सामर्थ्यम्, अनुत्तरस्यैव च शक्तिः विसर्गशब्दव्यपदेश्येति, यदुक्तं प्राक्
`अनुत्तरं परं धाम तदेवाकुलमुच्यते ।
विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥'
इति ॥195॥
नन्वेवं विश्वरूपतायामस्यानैक्यं स्यात्, इत्यद्वयहानिः ? इत्याशङ्क्याह
एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥ tantraloka.3.196b
विमर्शात्मैक एवान्याः शक्तयोऽत्रैव निष्ठिताः । tantraloka.3.197a
पञ्चाशदामर्शा -- आदि -- क्षान्ताः, एक इति शक्तिशक्तिमतोरभेदात्, ननु समनन्तरमेव शक्तीनामपरिच्छिन्नत्वमुक्तं तत्कथं तासां पञ्चाशदिति
189

नियतावच्छेदः संगच्छते ? इत्याशङ्क्योक्तम् `अन्याः शक्तयोऽत्रैव निष्ठिता' इति, अन्या इति -- तत्संयोगवियोगसमुत्थाः `घटः पट' इत्येवमादयः, अत्रैव निष्ठिताः -- पञ्चाशतोऽतिरिक्तस्य परामर्शस्यानुपपत्तेः ॥196॥
अत एव चार्धमात्रागणनाक्रमेण एकाशीतिपदापि देवी वर्णपञ्चाशत्येवान्तर्भावयिष्यते, इत्याह
एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥ tantraloka.3.197b
अत्रान्तर्भावयिष्यते इति -- एतन्निष्ठतयैव पर्यवसाययिष्यते, यद्वक्ष्यति
`कालोऽर्धमात्राः कादीनां त्रयस्त्रिंशत उच्यते ।
मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु ॡ ॥
एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ।
यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् ॥
एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ।'
इति ॥197॥
नन्वेवं परामर्शान्तराणामत्रैव निष्ठितत्वात्पञ्चाशदेव परामर्शा मुख्या, इति पुनरपि नियतावच्छेद
190

एवापतेत् ? इत्याशङ्क्य अवच्छेदाधानासामर्थ्यं द्योतयितुमवास्तवत्वप्रकटीकाराय आमर्शविशेषाणां तत्तदुपाधियोगोत्थापितत्वं दर्शयति
एकामर्शस्वभावत्वे शब्दराशिः स भैरवः । tantraloka.3.198a
आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥ tantraloka.3.198b
सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी । tantraloka.3.199a
प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥ tantraloka.3.199b
एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका । tantraloka.3.200a
एकः -- आमृश्यशून्यत्वान्निःसहायः, आमर्शनमामर्शः परामर्शकः प्रमाता, तत्स्वभावत्वे पञ्चाशतोऽपि वर्णानां संकलनया `शब्दराशिरिति, भैरव' इति व्यपदेशः, आमृश्येनापि योगात् `शक्तिरितिमातृकेति' च, सैव मातृका शब्दराशिसंघट्टाच्छक्तिशक्तिमदैक्यात्म्यलक्षणात्
191

लवणारनालवत्परस्परमेलनात्, भिन्ना बीजैर्भेदिता योनयो व्यञ्जनानि यस्याः सा तथाविधा सती, `म' इति -- वाच्यस्य प्रतियोग्यभावस्यालिनी विमर्शिका, मलते -- विश्वं स्वरूपे धत्ते, मालयति -- अन्तःकरोति कृत्स्नमिति च मालिनीति व्यपदिश्यते, भिन्नयोनित्वादेव च अस्या बीजयोनीनां विसंस्थुलत्वात् नादि-फान्तत्वम्, प्राग्वदिति -- षोडशकपञ्चपञ्चकचतुष्कद्वयैकरूपतया यथापूर्वम्, उक्तमित्यर्थः, तदुक्तम्
`॰॰॰ नवधा वर्गभेदतः ।
पृथग्वर्गविभेदेन शतार्धकिरणोज्ज्वला ॥'
इति ॥199॥
तदेवमत्र वर्णपञ्चाशतः प्रत्येकं भेदेन स्वरूपमभिधाय अभेदेनापि अभिदधदेव तदनुषक्तमनुजोद्देशोद्दिष्टं मन्त्राद्यभिन्नरूपत्वमपि आसूत्रयति
इत्थं नादानुवेधेन परामर्शस्वभावकः ॥ tantraloka.3.200b
शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः । tantraloka.3.201a
192

इत्थम् -- उक्तेन वक्ष्यमाणेन च प्रकारेण, नादेन हकारात्मना शक्त्या, योऽसावनुवेधः -- तादात्म्यापत्तिः, तेन अनुत्तरः परमेश्वरः शिव एव
`अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ।
विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ॥'
इत्याद्युक्त्या परमन्त्रवीर्यस्वभाव -- अकारहकारात्मपरामर्शरूपो भवेत्, यतः स एव कर्ता परप्रमात्रेकरूपो वर्णपञ्चाशदात्मनि विश्वत्र, मातापितृत्वेन संस्थितः -- अनुत्तरविसर्गरूपतया प्रस्फुरित इत्यर्थः ॥200॥
नन्वेवमपि भेदेनैव वर्णपञ्चाशतो रूपमुक्तं स्यात् नाभेदेन ? इत्याशङ्क्याह
विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः ॥ tantraloka.3.201b
गर्भीकृतानन्तविश्वः श्रयतेऽनुत्तरात्मताम् । tantraloka.3.202a
इह खलु अनुत्तरस्य परमेश्वरस्य शाक्त एवायं विसर्गो -- हकारपर्यन्तेन स्थूलेन रूपेण परिस्फुरणं, पुनः प्रत्यावृत्त्य शिवबिन्दुतया निर्विभागात्मपरप्रकाशात्मप्रमात्रेकरूपतया
193

क्रोडीकृतनिखिलवाच्यवाचककलापः सन्, अनुत्तरात्मतां श्रयते -- निर्विभागपरप्रकाशस्वभावबिन्दुरूपतामाश्रयते, येन `अहम्' इति परामर्शो भवेत् -- यदनुत्तर एव हकारात्मशक्तिरूपतामाभास्य स्वात्मन्येव अविभागप्रकाशरूपे विश्राम्यतीति भावः । यद्वक्ष्यति
`संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा ।
तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥
एकमेव परं रूपं भैरवस्याहमात्मकम् ।' (3।207)
इति ॥201॥
ननु अविभागपरप्रकाशविश्रान्तावपि अहंपरामर्शस्य भेदमयत्वमेवास्ति ? इत्याह
अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥ tantraloka.3.202b
परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः । tantraloka.3.203a
प्रभोः -- अनुत्तरस्य परमेश्वरस्य, अनन्तजगन्मध्यसातिशये स्वात्मनि यः `अहम्' इति परामर्शः, स एव प्रतियोगिभूतस्यापोह्यस्य इदन्तापरामर्शस्यापि
194

संभवात् `द्वयसंपत्तिलक्षण उक्तो' भेदनिबन्धनत्वेन प्रतिभासते इत्यर्थः ॥202॥
ननु इह शरीरादावहंप्रत्यवमर्शः सप्रतियोगित्वाद्भवतु नाम भेदनिबन्धनं, परप्रमात्रात्मनि प्रकाशे प्रवर्तमानः अतिरेकानतिरेकविकल्पोपहतत्वात् प्रतियोगिनो [अप्रतियोगी॰ न तथा ? इत्याह
अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥ tantraloka.3.203b
परामर्शो निर्भरत्वादहमित्युच्यते विभोः । tantraloka.3.204a
अनुत्तरविसर्गात्मिके ये शिवशक्ती, तयोरद्वयं सामरस्यं, यत्र `शिव इति, शक्तिरित्यपि' पृथक् परामर्शो नास्ति, तथात्वे हि प्रतियोगिनः संभावनामात्रमपि भवेदिति भावः । एवंविधे परप्रकाशस्वभावे विभोः अनुत्तरस्यात्मनि निर्भरत्वात्परस्य कस्यचिदपेक्षणीयस्याविद्यमानत्वेन पूर्णत्वात्
`प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।' (अ. प्र. 22 श्लो. )
इत्यादिदृशा अहमिति स्वात्ममात्रस्फुरत्तारूपः परामर्श उच्यते -- सर्वशास्त्रेषु अविगानेन अभिधीयते इत्यर्थः ॥203॥
195

ननु भवतु नाम स्वात्ममात्रस्फुरत्तारूपोऽहंपरामर्शः, किमनेन नः प्रयोजनं, वर्णपञ्चाशतः पुनरभेदेन स्वरूपमनेनोक्तं न भवेत् ? इत्याशङ्क्याह
अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥ tantraloka.3.204b
प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते । tantraloka.3.205a
अनुत्तरात् आदिवर्णादानन्दादिपरामर्शान्तराविर्भावकारित्वाच्छक्तिस्वरूपिणी, या हान्ता प्रसृतिर्हकारपर्यन्तेन स्थूलेन रूपेण स्फुरत्ता, सैव पुनः `आदिरन्त्येन सहेता' (पा॰ 2।2।72) इति नीत्या अकारहकारात्मना रूपेण, प्रत्याहृतं गर्भीकृतमशेषमानन्दाद्यमृतबीजपर्यन्तं विश्वं यया तथाभूता सती, अनुत्तरे निर्विभागप्रकाशात्मनि परस्मिन्रूपे, निलीयते विश्राम्यति, येनाहंपरामर्शो जायते, येन अभेदेनैव प्रत्याहारनीत्या सर्वेषामपि वर्णानां परामर्शः स्यात् ॥204॥
ननु यदि पाणिनीयप्रक्रियया प्रत्याहारक्रमेणैव युगपत्सर्वेषां वर्णानां परामर्शो विवक्षितः, तदकारहकारात्मनैव
196

परामर्शविशेषेण भवेत्;् यत्तु पुनरपि `अनुत्तरे एव विश्रान्तिः' इत्युक्तं तत्किमर्थम् ? इत्याशङ्क्याह
तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥ tantraloka.3.205b
तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः । tantraloka.3.206a
यद्यपि अकारहकारात्मनैव रूपेण प्रत्याहारनीत्या समस्तवर्णपरामर्शः सिद्ध्येत्, तथापि हकलात्मनो विश्वरूपायाः शक्तेरनुत्तरकर्तृकं संपुटीकारं प्रदर्शयितुमेवमुक्तम् । तथाहि
`शक्तयोऽस्य जगत्कृत्स्नं ॰॰॰ ।'
इत्यादिनीत्या विश्वं तावच्छक्त्येकात्मकं, शक्तिरपि `शक्तिमतः खलु शक्तिरनन्या' इत्यादिनीत्या अनुत्तर एव विश्रान्ता, अत एव च परस्परावियोगात् शक्तिशक्तिमतोः, तत् शक्तिमद्रूपमप्यनुत्तरं, तस्यां शक्तावेवान्तःस्थम्, -- इत्यनुत्तरादेव शक्तेरुदयस्तत्रैव च विश्रान्तिः, -- इत्यनुत्तरेणैव विभुना नूनं शक्तेराद्यन्तयोगात्संपुटीकृतिः ॥205॥
197

अत एव चागमोऽप्येवमित्याह
तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥ tantraloka.3.206b
त्रयाणां परादिशक्तिप्रतिपादकानां शास्त्राणामीशेति त्रीशिका श्रीपरात्रिंशिका । यदुक्तं तत्र
`तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः ।
संपुटीकृत्य सृष्टिं तु पश्चाद्यजनमारभेत् ॥' (परात्री॰ 29 श्लो.)
इति ॥206॥
तदेवोपसंहरति
संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा । tantraloka.3.207a
तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥ tantraloka.3.207b
एकमेव परं रूपं भैरवस्याहमात्मकम् । tantraloka.3.208a
यदिदं हकलात्म शक्तिरूपं विश्वं संवित्तावनुत्तरात्मनि परस्मिन्रूपे भाति तत एवोदितमित्यर्थः । तत्रापि एवंरूपतायामपि, संविदैव खलु भाति तत्रानुत्तरात्मन्येव रूपे तद्विश्रान्तमित्यर्थः । यदुक्तम्
198

`यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च ।'
इति । तदेतत् संवित्तिर्विश्वं संविदेति त्रितयं, द्वन्द्वयोगात्परस्परसंघट्टात्संघाततां गतं मेलनां प्राप्तं सत्, अहमिति प्रतियोगिभूतपरामर्शान्तराभावादेकमेव प्रमातृप्रमेयादिप्रकाशविश्रान्तिधामतया, परम् उत्कृष्टं, भैरवस्य सर्वभावनिर्भरत्वादनन्यापेक्षिणः पूर्णवृत्तेः प्रकाशैकवपुषः स्वात्मनो रूपं परविमर्शात्मा स्वभाव इत्यर्थः ॥207॥
ननु `परस्याकुलस्य धाम्नः कौलिकी शक्तिर्विसर्ग' इति प्रागुक्तं, सा च न शक्तिमतोऽतिरिक्तेति तस्यास्तदतिरेकेण परिस्फुरणमेव न युज्यते, -- इति का वार्ता पुनरपि तत्र विश्रान्तौ ? इत्याशङ्क्याह
विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥ tantraloka.3.208b
तत एव समस्तोऽयमानन्दरसविभ्रमः । tantraloka.3.209a
या खलु निःश्रेयसात्मपरश्रेयः कारणस्य अकुलस्य धाम्नो विसर्गशक्तिरुक्ता, सैवेत्थं वक्ष्यमाणेन प्रकारेण, सर्वत्र वर्तते भेदभेदाभेदाभेदात्मना
199

प्रस्फुरतीत्यर्थः । यद्वशादेव वाच्यवाचकात्मा बाह्योऽयमानन्दमयः समुज्जृम्भते स्फारः ॥208॥
ननु बाह्यस्य सुखदुःखादिरूपत्वादानन्दमयत्वमेव कथमुक्तम् ? इत्याशङ्कां गर्भीकृत्य तदेवोपपादयति
तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥ tantraloka.3.209b
माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता । tantraloka.3.210a
आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥ tantraloka.3.210b
इह खलु यस्य कस्यचन प्रमातुः, गीतादौ विषये यदा माध्यस्थ्यविगमः ताटस्थ्यपरिहारेण तदेकतानता, तदा येयं हृदये विश्वप्रतिष्ठास्थाने बोधे, स्पन्दमानता तन्मयतया परिस्फुरद्रूपता, सैवेयमानन्दशक्तिरुक्ता सर्वशास्त्रेषु अभिहितेत्यर्थः । यदुक्तम्
`गीतादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥' (वि. भै. 73 श्लो. )
200

इति । भागस्य सुखदुःखाद्याभाससाधारण्यमनुश्नुवाना ।
`सा स्फुरत्ता महासत्ता देशकालाविशेषिणी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥' (ई.प्र. 1।5।18।)
इत्यादिनिरूपितस्वरूपा परिस्फुरद्रूपतैव `स्वातन्त्र्यमिति विमर्श इति आनन्द इति च' सर्वत्रैव उद्घोष्यते, यन्माहात्म्यादेव च जडोऽपि निखिलोऽयं जनः सचेतन इत्युच्यते, अत एव लोकेऽप्यानन्दातिशयकार्येव जनः `सहृदय' इति प्रसिद्धिः । यद्यपि सर्व एवायं विश्वप्रपञ्च आनन्दशक्तिस्फारः तथापि स्फुटोपलम्भादत्र तस्या एवमुक्तम् ॥210॥
तदेवं विसर्गशक्तेरेवायं महिमा -- यदियान्भेदभेदाभेदाभेदात्मा विश्वस्फारः, यदुपाधिवशादेव विसर्गशक्तेरपि त्रैविध्यं, तदाह
पूर्वं विसृज्यसकलं कर्तव्यं शून्यतानले । tantraloka.3.211a
चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ॥ tantraloka.3.211b
दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि । tantraloka.3.212a
201

चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥ tantraloka.3.212b
तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि । tantraloka.3.213a
रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥ tantraloka.3.213b
प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् । tantraloka.3.214a
चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥ tantraloka.3.214b
शून्यता भावप्रक्षयात्मकं निष्कलं रूपं, तस्या अनले तद्विलापकत्वात्तद्विरुद्धे निखिले भावमयेसकले रूपे, पूर्वम् अनिदंप्रथमतया प्रवृत्तं, विसृज्यं न तु स्थाप्यं संहार्यं वा, सकलं प्रमातृप्रमेयात्म विश्वं यत्र, एवंविधं यत्कर्तव्यं तेन तेन रूपेण परिस्फुरणं, तदेव नाम चित्तं
`चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम्' (प्र॰ हृ॰ 5 सू॰)
202

इत्यादिनीत्या चितिचेत्ययोः संघट्टरूपं संकुचितं ज्ञानं, तस्य विश्रान्तिः भेदौन्मुख्ये परा काष्ठा, तदभिधानोऽयं भेदप्राधान्यादाणवो नरसंबन्धी हकारात्मा स्थूलो विसर्गः । एतदनन्तरमपि दृष्टश्रुते आदौ यत्र, आदिग्रहणात् स्पृष्टघ्राताद्यपि, एवंविधं यत्तच्चराचरात्मना प्रसिद्धं जगल्लक्षणं वस्तु, तस्य यदात्मसंविदि प्रकर्षेणोन्मुखत्वं ग्राह्यग्राहकभेदात्म सकलरूपापहस्तनेन निष्कलरूपतोद्रेचनेन स्वात्मसंविदेकीभावेनावभासनं, तदेव नाम चित्तस्य संकुचितात्मनो ज्ञानस्य, स्वात्मसंविद्विश्रान्तेः संबोधः सम्यग्बोधः, तन्नामायं सूक्ष्मो विसर्जनीयात्मा भेदाभेदप्रधानः शाक्तो विसर्ग उक्तः । तथा तत्र आत्मसंविदि, उन्मुखत्वेन तस्य जगल्लक्षणस्य वस्तुनोऽर्थात्तयैव संघट्टात्परस्परौन्मुख्यात्तस्यैव च वस्तुनो हृदि तत्रैव संविल्लक्षणे पारमार्थिके रूपे, प्ररोहात्, शिवे चिदात्मनि बोधे, पूर्णतया कर्तृत्वाद्युत्तेजनेन, मितस्य शून्यादेः संकुचितस्य परिमितस्य प्रमातुर्गुणीभावात्, य आवेशस्ततः प्राग्वदाणववद्भविष्यदपि यदौन्मुख्यं बहीरूपतया परिस्फुरणं, तेन संभाव्यमाना येयं मितता संकुचितज्ञानरूपता
203

तस्या लयः संभाव्यमानस्यापि संकोचस्याभावः, ततश्चित्तस्य प्रकर्षेण लयः संकुचिततापासनेन पूर्णतावलम्बनेन च स्वात्मसंविन्मात्रतया परिस्फुरणं, तन्नामायमभेदप्रधान आनन्दात्मा परः शैवो विसर्गः । तदेवं पारमेश्वरी विसर्गशक्तिरेव तथा तथा परिस्फुरति, -- इति नरशक्तिशिवात्मना अस्यास्त्रैविध्यमुक्तं, तेन युक्तमुक्तं -- यद्विसर्गशक्तिः सर्वत्र वर्तत इति ॥214॥
अत एव भगवताप्येवमुक्तमित्याह
तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते । tantraloka.3.215a
अत इति यथोक्तन्यायात् ॥
तदेव शब्दद्वारेण अर्थद्वारेण च पठति
हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥ tantraloka.3.215b
विसर्गोऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः । tantraloka.3.216a
द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥ tantraloka.3.216b
204

एकीभूतं विभात्यत्र जगदेतच्चराचरम् । tantraloka.3.217a
ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥ tantraloka.3.217b
तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः । tantraloka.3.218a
ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥ tantraloka.3.218b
तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः । tantraloka.3.219a
एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥ tantraloka.3.219b
हृत् बोधभूः, तदेव बहिर्विकस्वरत्वात्पद्मं, तस्य कोशमध्यं परा काष्ठा, तत्रस्थो योऽयं चितिचेत्ययोः संकुचितज्ञानात्मा संघट्टः, स एव चित्तविश्रान्तिनामा विसर्गयोः शैवशाक्तयोरन्तः तृतीयः प्रथमो वा आणवो विसर्गः, प्रकर्षेण भेदप्रधानतयोक्तः । द्वितीयः शाक्तः पुनः स विसर्गश्चित्तसंबोधनामा,
205

यतोऽत्र चराचरं ग्राह्यग्राहकरूपमेतद्विचित्रावभासं जगदेकीभूतं विभाति स्वात्मसंविन्मात्ररूपतया परिस्फुरति, यतोऽसौ शाक्तो विसर्गो ग्राह्यग्राहकभेदावभासे सकलो विश्वमयः प्रोक्तः, परनिःश्रेयसात्मश्रेयस्करस्वात्मसंविदेकीभावे पुनर्निष्कलो विश्वोत्तीर्णो, येनायं भेदाभेदप्रधानः । तृतीयः शैवः पुनः स विसर्गः चित्तप्रलयनामा, यतोऽयं ग्राह्यग्राहकयोः संविन्मात्ररूढ्या येयं विच्छित्तिः त्रोटः, तया सम्यक् शून्यादिनियतावच्छेदाभावात्पूर्णं यद्ग्रहणं, तदात्मकः परप्रकाशरूप इत्यर्थः, अत एवैकीभावात्मकः स्वात्मसंविन्मात्रावेशरूपः, अत एव सूक्ष्मः -- प्रमात्रेकरूपत्वात्परासंवेद्यः, अत एव संभाव्यमानस्यापि संकुचितज्ञानरूपस्याभावाद्विज्ञानात्मा पूर्णज्ञानस्वभावः, अत एव परस्य कस्यचिदपि आकाङ्क्षणीयस्याभावादात्मनिर्वृतः स्वात्ममात्रविश्रान्तः, अत एव चायमभेदप्रधानः । तदेवं पारमेश्वरी कौलिक्यादिशब्दव्यपदेश्या विसर्गशक्तिरेव तत्तदामर्शात्मना स्फुरतीति तात्पर्यार्थः ॥219॥
न चैतदस्माभिः स्वोपज्ञमेवोक्तमित्याह
206

निरूपितोऽयमर्थः श्रीसिद्धयोगीश्वरीमते । tantraloka.3.220a
तदेवार्थद्वारेण पठति
सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥ tantraloka.3.220b
तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः । tantraloka.3.221a
सा पारमेश्वरी संविन्मात्ररूपा विसर्गशक्तिरेव गर्भीकृतनिखिलविश्वत्वात् कुण्डलिनीशब्दव्यपदेश्या अनच्ककलारूपा वाच्यवाचकात्मन्यत्र विश्वत्र अविद्यादेस्तत्कारणत्व दूरापास्तत्वात् बीजभूता, तत्त्वेऽपि संविन्निष्ठत्वात्सर्वव्यवस्थितीनां जीवभूता, नहि संविदमन्तरेण किंचिदपि स्फुरेदिति भावः । तदुक्तं तत्र
`या सा कुण्डलिनी सात्र जगद्योनिः प्रकीर्तिता ।
तुटिरूपा तु सा ज्ञेया जीवभूता जगत्यपि ॥
बीजरूपा समाख्याता चिद्रूपापि प्रकीर्तिता ।'
इति । मात्रेत्यपपाठः -- नह्यनेन कश्चिदप्यागमिकोऽर्थः संग्राह्यो वर्तते यदर्थोऽयमेतत्प्रयोगः, प्रत्युतासंगतार्थत्वमसाधुशब्दत्वं
207

च प्रसज्यते, -- इत्यलं बहुना । तदेवंभूतायाश्च तस्याः सकाशादनुत्तरेच्छाज्ञानाख्यं परामर्शत्रयं जातं, ततश्च परामर्शत्रयादुक्तवक्ष्यमाणनीत्या निखिलपरामर्शान्तरोदयः । तदुक्तं तत्र
`शक्तित्रयसमुद्भूतिस्ततो वर्णसमुद्भवः ।'
इति ॥220॥
एतदेव विभजति
आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥ tantraloka.3.221b
ककारादिसकारान्ता विसर्गात्पञ्चधा स च । tantraloka.3.222a
बहिश्चान्तश्च हृदये नादेऽथ परमे पदे ॥ tantraloka.3.222b
बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः । tantraloka.3.223a
एक `इतिशब्दः' स्वरूपपरामर्शकः, अपरः प्रकारे, तेनानुत्तरादानन्दो यथा जातः एवमिच्छातः ईशित्री उन्मेषादूनता यावत्ककारादिः
208

सकारोऽन्ते यस्या एवंविधा हकारात्मा वैसर्गिकी कला जाता, निखिलमेव वर्णजातमुदितमित्यर्थः । तदुक्तं तत्र
`अकाराज्जात आकार इकारादी इति स्मृतः ।
ऊकारश्च उकारात्स्यादृकाराच्च नपुंसकम् ॥
एकार ऐस्वरश्चैव ओकार औकार एव च ।
अंकारश्च अनुस्वारः अः विसर्ग इति स्मृतः ॥'
इति । तथा
`ककारादिसकारान्ता द्वात्रिंशत्ताः कलाः स्मृताः ।'
इति । मकारान्तेति वक्तव्ये ककारादीत्यत प्रभृति व्यञ्जनरूपत्वं कवर्गस्य च अकाराज्जन्म द्योतयितुमुक्तम् `अकुहविसर्जनीयानां कण्ठः' इत्यादिनीत्या कवर्गहकारविसर्जनीयानामकारादेवोत्पत्तिः । वैसर्गिकी कला इति सामान्येनोक्तेः परापरो हि विसर्जनीयात्मा विसर्गः कटाक्षितः । एतच्च सर्वं विसर्गादुत्पन्नं विसर्ग एव तत्तदामर्शात्मना प्रस्फुरित इत्यर्थः । स एव हि परप्रमात्रेकरूपोऽशेषविश्वक्रोडीकारेण अनुत्तरहकारात्मना प्रस्फुरन्नन्तर्बहीरूपतया नरशक्तिशिवात्मतामाभासयेत् । तदुक्तं तत्र
209

`तदेवं बिन्दुरुद्दिष्टो व्याप्नुवन्स जगत्स्थितः ।
अष्टात्रिंशत्कलाभेदाद्बिन्दुमाला व्यवस्थिता ॥
बिन्दुना क्रमिताः सर्वे आदिमान्त्ययुताः स्मृताः ।'
इति । अत एवाह `पञ्चधा स च' इति । चो हेतौ यतः स विसर्ग एव बिन्दुः विदिक्रियायां स्वतन्त्रः प्रमाता, बहीरूपतया हृदये नरतया -- बहीरूपत्वेऽपि अन्तारूपतायामेव विश्रान्तेः, नादे शक्तितया, अन्तारूपतया परमे पदे, द्वादशान्ते शिवतया प्रस्फुरन्पञ्चप्रकारः । अत एव शरीरेऽपि हृदयान्मूर्धान्तं हृत्कण्ठललाटशक्त्यन्तद्वादशान्तेषु अर्थादवस्थितः । एवं पञ्चधात्वेऽपि अस्य वस्तुतस्त्रैरूप्य एव पर्यवसानम्, -- इति न पूर्वापरव्याहतत्वं किंचिदाशङ्कनीयम् । नन्वेक एवासौ कथं हृदादौ वर्तते ? इत्याह `व्यापको हि स' इति । यदुक्तं तत्र
`बाह्यात्मा तु भवेदेको ह्यन्तरात्मा द्वितीयकः ।
तृतीयो हृदयात्मा तु नादात्मा तु चतुर्थकः ॥
एवमेते महावीरे पञ्चमः परात्मकः ।
बिन्दुः पञ्चविधो देवि हृत्कण्ठे तु ललाटके ॥
नासान्ते च तथा चान्ते बिन्दुस्तेनैव व्यापकः ।'
इति । तदेवमनुत्तरैव इयं पारमेश्वरी विसर्गशक्तिर्हकारपर्यन्तं स्थूलं रूपमाभास्य पुनरपि
210

स्वस्वरूपाप्रच्यावादनुत्तरे स्वात्मन्येव विश्राम्यति, यदवद्योतनाय प्रत्याहृताशेषविश्वः प्रमात्रेकरूपः परमन्त्रवीर्यात्मा अयमहंपरामर्शः
`प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।' (अजड प्र॰ सि॰ 22 श्लो॰ )
इत्यादिसर्वशास्त्रेषु उद्घोष्यते, तदेव च परं तत्त्वं मातृकायाः, यदभिप्रायेणैव
`॰॰॰ न विद्या मातृकापरा ।' (स्व. 11 प. 197 श्लो.)
इत्याद्याम्नातम् । एवं परिज्ञानवतामेव च इयं योगिनां भुक्तिमुक्तिलक्षणां सिद्धिं यच्छेत्, अन्यथा पुनः तत्तद्वाचकानुवेधद्वारेण हर्षशोकादिरूपतामादधाना बन्धकारिण्येव पशूनाम्, -- इति भुक्तिमुक्तिलक्षणफलायोगात् निष्फलैव भवेदिति पिण्डार्थः । तदुक्तम्
`सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥' (स्पन्द. 4।18)
इति ॥222॥
न केवलमेवमस्या एव संभवेत्, यावन्मननत्राणधर्माणां मन्त्राणामपीत्याह
211

आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ tantraloka.3.223b
तु-शब्दश्चार्थे, आदिमोऽनुत्तरः, अन्त्यो हकारः, तेन मन्त्रा अपि अहंपरामर्शरूपाभ्यामादिमान्त्याभ्यां विहीनाः तद्रूपत्वेनापरिज्ञायमानाः, शरदभ्रवत् स्युः, अकिंचित्करा एवेत्यर्थः । तदुक्तं तत्र
`आदिमान्त्यविहीनास्तु मूलयोनिमजानतः ।
न ते सिद्धिकरा मन्त्रा निष्फलाः शरदभ्रवत् ॥
खपुष्पं निष्फलं यद्वच्छशकस्य विषाणकम् ।
वन्ध्यायाः प्रसवो देवि क्लीवस्य द्रवमेव च ॥
अग्निमुक्ता यदा विप्रास्तदा एते तु निष्फलाः ।
आदिमान्त्यविहीनानि मन्त्राणि च तथैव च ॥
निष्फलानि भवन्त्येवं पिवतो मृगतृष्णिकाम् ।'
इति । अन्यथा पुनरहंपरामर्शात्मकपरमन्त्रवीर्यात्मत्वेन परिज्ञायमानाः तत्तत्स्वकार्यकारिण एव भवेयुरिति तात्पर्यार्थः, यद्वक्ष्यति
`एतद्रूपपरामर्शमकृत्रिममनाबिलम् ।
अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥
एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् ।
विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥
अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् ।
प्राण्याद्वा विमृशेद्वापि स सर्वोऽस्य जपो मतः ॥' (4।294)
212

इति ॥223॥
अत एव च एतत्परिज्ञानमेव गुरोर्मुख्यं लक्षणम्, इत्याह
गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् । tantraloka.3.224a
पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥ tantraloka.3.224b
अत एव स ज्ञानित्वादियोगात् द्योतनस्वभावो, विश्वनिर्भरोऽहमिव सर्वेषां पूज्य इति भगवदुक्तिः । यदुक्तं तत्र
`आदिं चैव तथा चान्त्यमाचार्यो यस्तु विन्दति ।
स भवेद्योगिसंघस्य पूज्यः पूज्यतरो भवे ॥
अच्छिद्रं तस्य कुर्वन्ति कुर्वन्ति च अनुग्रहम् ।
वरं तस्य प्रयच्छन्ति पुत्रवत्पालयन्ति च ॥
पूज्यः सर्वत्र जायेत अहं देवि यथा तव ।
स ज्ञानी वै वरारोहे स भवेत्साधकोत्तमः ॥
सर्वेषामुत्तमः प्रोक्तो दैवज्ञः सर्वसिद्धिदः ।
स यतिः पण्डितश्चैव भैरवेशः प्रकीर्तितः ॥'
इति ॥224॥
अत एव च एवंविधो गुरुर्न केवलं स्वभावत
213

एव परिस्फुरत्परशक्तिवीर्यात्मनो मन्त्रानेव वेत्ति यावत् यत्किंचन लौकिकमपि श्लोकादि, इत्याह
श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः । tantraloka.3.225a
तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥ tantraloka.3.225b
स खलु गुरुः, तस्मात् निरतिशयज्ञानयोगात्, सर्वं यत्किंचन बाह्यं श्लोकादि, तथा अहंपरामर्शरूपत्वेन परामृशन्मन्त्रत्वेनैव
`मननं सर्ववेत्तृत्वं त्राणं संसार्यनुग्रहः ।'
इत्येवं -- कार्यकारितया साक्षात्करोति, यतस्तदपि आदिमान्त्ययुतमहंपरामर्शरूपमेवेत्यर्थः । नहि प्रकाशात्मपरप्रमातृरूपतामन्तरेण किंचिदपि स्फुरेदिति भावः । तदुक्तं तत्र
`श्लोकगाथा तथा वृत्तं गीतकं वचनं तथा ।
स्तुतिर्वै दण्डकं चैव आदिमान्त्ययुता यदा ॥
तेऽपि मन्त्रा भवन्त्येव किं पुनस्तद्ग्रहस्य तु ।'
इति ॥225॥
विसर्गशक्तिरेव च इयान्विश्वस्फारः, -- इति न
214

केवलमस्मन्नयसहोदरेषु शास्त्रेषु भगवता उक्तं यावदितो बाह्येष्वपि, इत्याह
विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता । tantraloka.3.226a
ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥ tantraloka.3.226b
परमेशेनेति गृहीतैतरीयकमुनिभूमिकेन, विस्तरादिति निखिलस्यास्य हि ग्रन्थस्य एतदेव प्राधान्यादभिधेयमिति भावः ॥226॥
तदेव अर्थद्वारेण संवादयति
यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् । tantraloka.3.227a
अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ tantraloka.3.227b
लोहितं प्रकाशैकात्मकत्वात् दीप्तं यदनुत्तरं धाम तदेव प्रमात्रेकरूपत्वादग्निः, यच्चास्य वीर्यं ज्ञानक्रियात्मा शाक्तः स्फारः तदेव प्रमाणप्रमेयादिरूपतया सूर्येन्दुविग्रहम्, इत्येवंरूपयोस्तयोः -- लोहितवीर्ययोः, यः संघट्टः ऐकात्म्यं, तस्य
215

उदयः सततमेवानस्तमितत्वेन प्रस्फुरद्रूपत्वं, तत्स्वभावमिदम् अकारहकारात्मकशिवशक्तिसामरस्यरूपं परं ब्रह्मोच्यते, यतोऽयम् `अहम्' इति परप्रमात्रेकरूपः परः परामर्श उदियात्, यन्माहात्म्यान्निखिलोऽयं वाच्यवाचकात्मा सृष्ट्यवभासः स्यात् । यद्गीतम्
`अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥' (गी. 8अ. 3 श्लो.)
इति । एतदेव स्वरूपं प्राग्वितत्योक्तं, न पुनरिहायस्तम् । चर्याक्रमे च यल्लोहितं पक्वान्नरसरूपमार्तवं तदग्निस्तत्परिपाकोऽन्नं, यद्वा सर्वस्य आर्तवस्य यच्च वीर्यम् आनन्दफलं षष्ठग्रहपर्यायं
`तद्यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूयात्मन्येवात्मानं बिभर्ति' (ऐ॰ उ॰ 4।2)
इत्यादितत्रत्योक्त्या तेजोमयत्वादाप्यायकत्वाच्च सूर्याचन्द्ररूपम्, अत एव धामत्रयात्मकत्वादेतदुभयमपि कुण्डगोलकादिशब्दव्यपदेश्यं परं पावनं, येनास्य
`॰॰॰ तत्रार्घः शक्तिसंगमात् ।' (29।15)
इत्यादिवक्ष्यमाणनीत्या परमोपादेयत्वमुक्तम्, तत्संघट्टादेव च नित्योदितं परं ब्रह्मापि नियते
216

देहादौ गृहीताहंभावं भवेत्, येनायं स्त्रीपुंनपुंसकरूपादिः सर्गः, यदुक्तं तत्र
`यदेतत्स्त्रियां लोहितं भवत्यग्रेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेत, अथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत ॥' (ऐ॰ उ॰ )
इति, तथा
`अः इति ब्रह्म, तत्रागतमहमिति ।' (ऐ॰ उ॰ )
इति ॥227॥
अतश्च अस्यैव विश्वं वैभवमित्याह
तस्यापि च परं वीर्यं पञ्चभूतकलात्मकम् । tantraloka.3.228a
भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥ tantraloka.3.228b
यदेतत्पञ्चानां पृथिव्यादीनां भूतानामंशांशरूपं शब्दादिविषयपञ्चकं, तत् तथोक्तरूपस्य परब्रह्मणः परं वीर्यम्
`शक्तयोऽस्य जगत्कृत्स्नं ॰॰॰ ।'
इत्याद्युक्त्या विश्ववैभवात्मना परां कोटिं प्राप्तः शाक्तः स्फार इत्यर्थः । ननु शब्दादि यद्येतत्स्फार एव तदस्य भोक्त्रेकरूपत्वात् तदपि तथैव
217

किं न स्यात् ? इत्याशङ्क्योक्तं `भोग्यत्वेन' इति, न तु भोक्तृत्वेन, अन्नरूपमिति न पुनरन्नादरूपम् । चर्याक्रमे च -- लोहितवीर्यसंघट्टादस्यैव पाञ्चभौतिकशरीरादिपरिग्रहः इति । एतच्च तत्रैव
`यो ह वात्मानं पञ्चविधमुक्तं वेद यस्मादिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुराकाश आपो ज्योतींषि ।' (ऐ॰ उ॰ )
इत्याद्युपक्रम्य
`तस्माद्योऽन्नं च अन्नादं च वेद अहमस्मिन्नन्नादौ जायते (?) भवत्यस्य अन्नमापश्च पृथिवी चान्नम् ।' (ऐ॰ उ॰ )
इत्यादि बहूक्तम् ॥228॥
ननु `शब्दादयोऽस्यैव स्फारः' इत्यत्र किं प्रमाणम् ? इत्याशङ्क्याह
शब्दोऽपि मधुरो यस्माद्वीर्योपचयकारकः । tantraloka.3.229a
तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥ tantraloka.3.229b
शब्द इति शब्दादयः पञ्चापि हृद्याः सन्तो, यस्मात्परब्रह्मात्मनो वीर्यस्य उपचयहेतवः, तदवहितचेतसां
218

झगित्येव परसंविदुल्लासः स्यात् इत्यर्थः । यदुक्तम्
`गीतादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥' (वि. भै. 73 श्लो. )
इति । अनेनैवाभिप्रायेण श्रीप्रशस्तिभूतिपादैरपि
`ये ये भावा ह्लादिन इह दृश्याः सुभगसुन्दराकृतयः ।
तेषामनुभवकाले स्वस्थितिपरिपोषणं सतामर्चा ॥'
इत्याद्युक्तम् । एवं यदि एषां परब्रह्मरूपत्वं न स्यात् तत्तदवहितचेतसां कथं नाम तद्विकासो भवेदिति भावः । नन्वेवंविधं तत्परं ब्रह्म किं शान्तं किं वा चित्रम् ? इत्याशङ्क्याह -- तद्धीत्यादि । हिशब्द आशङ्कानिवृत्त्यर्थः, विसिसृक्षात्मकमिति निर्मित्सात्मकत्वेन सदैव तत्तद्विश्ववैचित्र्योल्लासस्वभावमेवेत्यर्थः । मतमिति सर्वेषां, न पुनरत्र कश्चिदपि विमतिं कर्तुं शक्नुयादित्याशयः ॥229॥
एवमप्यस्य किं विश्वोत्तीर्णं रूपमुत विश्वमयम् ? इत्याशङ्क्याह
तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता । tantraloka.3.230a
तदेव तत्तद्रूपतया प्रस्फुरतीत्यर्थः । यदुक्तं तत्र
219

`स एषोऽसुः स एव प्राणः स एष भूतिश्च' । (ऐ॰ उ॰ )
इति, तथा
`स एष मृत्युश्चैवामृतं च' । (ऐ॰ उ॰ )
इति, तथा
`एष ब्रह्मैष इन्द्र प्रजापतिः' । (ऐ॰ उ॰ )
इति । गीतं च
`तद्वीर्यं सर्ववीर्याणां तद्वै बलवतां बलम् ।
तदोजश्चौजसां सर्वं शाश्वतं ह्यचलं ध्रुवम् ॥'
इति ॥
विश्वरूपतया चास्य स्फुरणे प्रक्रियाबन्धं दर्शयति
तस्माद्वीर्यात्प्रजास्ताश्च वीर्यं कर्मसु कथ्यते ॥ tantraloka.3.230b
यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः । tantraloka.3.231a
वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥ tantraloka.3.231b
प्रजा इति स्त्रीपुमादिरूपाः, ताश्च प्रजा यज्ञादिकेषु कर्मसु, वीर्यं कारणं कथ्यते इति संबन्धः । एवमुत्तरत्रापि योज्यम् । तदिति यज्ञादिकं कर्म, ओषधीष्वन्नादिरूपासु,
220

वीर्य इति शुक्रशोणितात्मनि । एवं परब्रह्मण एवाजवञ्जवीभावेन तत्तद्रूपतया विश्वकारणत्वम्, इति तस्यैव एतद्विश्वं रूपमित्युक्तम् । `एवं विसर्गेऽपि विश्वरूपतेति' । यदुक्तं तत्र
`अथातो रेतसः सृष्टिः, प्रजापतेरेव रेतो देवा, देवानां रेतो वर्षं, वर्षस्य रेत ओषधयः, ओषधीनां रेतो अन्नमन्नस्य रेतो रेतः, रेतसो रेतः प्रजाः' । (ऐ॰ उ॰ )
इति । तथान्यत्रापि
`अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥' (म. स्मृ. 3।77)
इति । गीतं च
`अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥' (गी. 3 अ. 14 श्लो. )
इति ॥231॥
तदेवं विसर्गशक्तिरेव तत्तदामर्शात्मना स्वात्मनि विश्वरूपतामाभासयन्ती आगमेषु तत्तच्छब्दव्यपदेश्या भवतीत्याह
शब्दराशिः स एवोक्तो मातृका सा च कीर्तिता । tantraloka.3.232a
क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥ tantraloka.3.232b
221

पदवाक्याद्यात्मना विभक्तानां स्थूलानां शब्दानामविभागस्वभावः कारणात्मा राशिः, मातृकेति पशुभिः,
`सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि ।
इयं योनिः समाख्याता सर्वमन्त्रेषु सर्वदा ॥'
इत्यादिनिरूपितेन स्वेन रूपेण अज्ञाता माता इत्यर्थः । तदेवं स्वात्ममात्रावस्थानादक्षुब्धाया विसर्गशक्तेरागमिको द्विधा व्यपदेशो दर्शितः, क्षुब्धायाः पुनर्व्यपदेशान्तरमस्ति इत्याह क्षोभ्येत्यादि । क्षोभ्या योनयः, क्षोभकाणि बीजानि तेषां भावः क्षुभिक्रियायां कर्तृकर्मरूपः संबन्धस्तत्र य आवेशः परस्परसंघट्टात्मा लोलीभावः, ततो भिन्ना बीजैर्भेदिता, योनयो व्यञ्जनानि यस्याः सा तथाविधा सती, मालिनी -- मलते विश्वं स्वरूपं धत्ते इति विश्वस्वरूपिणी इत्यर्थः ॥232॥
ननु कथमेतावतैवास्या विश्वरूपत्वम् ? इत्याह
बीजयोनिसमापत्तिविसर्गोदयसुन्दरा । tantraloka.3.233a
222

मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥ tantraloka.3.233b
अनुत्तरप्रकाशात्मपरशक्तिरूपा हि मालिनी तद्रश्मिभूतशिवशक्तिरूपयोर्बीजयोन्योर्या समापत्तिः परस्परसंघट्टात्म सामरस्यं, तया योऽयं विसर्गोदयः तेन तेन रूपेण परिस्फुरणं, तेन सुन्दरा निरतिशया, येन श्रीपूर्वशास्त्रादौ विश्वरूपत्वमस्या निर्णीतम् ॥233॥
ननु एकैवानुत्तरा परा संविदस्ति तदतिरिक्तस्य अन्यस्य कस्यचित्संवेद्यमानतायोगात्, तत् तदतिरेकेण शिवशक्तिरूपत्वमपि न युज्यते, का पुनर्वार्ता विश्वरूपताया ? इत्याशङ्क्याह
एषा वस्तुत एकैव परा कालस्य कर्षिणी । tantraloka.3.234a
शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥ tantraloka.3.234b
एषा इत्यनुत्तरा संवित्, कलयति शिवादिक्षित्यन्तं जगत्सृजति इति कालः भैरवः, तस्य कर्षिणी स्वात्मायत्ततयावभासयन्तीत्यर्थः । नहि
223

तदिच्छामन्तरेण किंचिदपि प्रस्फुरेदिति भावः । यदुक्तम्
`भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् ।
इच्छावशेन यस्याः सा त्वं भुवनाम्बिके जयसि ॥'
इति, किं तु प्रकाशविमर्शलक्षणमौपाधिकं भेदमवभास्य यामलतामेति, येन शक्तिरिति शक्तिमानिति च व्यपदिश्यते, वस्तुतो हि न प्रकाशाद्विमर्शः स वा तस्मादतिरिच्यते, -- इति बहुश उक्तम् ॥234॥
ननु यद्येवं तर्हि एतदेवास्तु, विश्वरूपतायाः पुनः कोऽवकाशः ? इत्याशङ्क्याह
तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः । tantraloka.3.235a
स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥ tantraloka.3.235b
तस्येति यामलस्य, अहमात्मक इति असांकेतिकपरपरामर्शरूप इत्यर्थः । परिपूर्ण इति पारिमित्ये ह्यस्य विकल्परूपत्वं स्यादिति भावः । विभागमिति विश्वरूपतामित्यर्थः ॥235॥
224

तथात्वे चास्य पश्यन्त्यादिशब्दाभिधेयं त्रैविध्यं भवेदित्याह
विभागाभासने चास्य त्रिधा वपुरुदाहृतम् । tantraloka.3.236a
पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥ tantraloka.3.236b
अस्येति परावाग्रूपस्य अहमात्मनः परामर्शस्य, स्थूलेति अपरयोः परत्वं सूक्ष्मत्वं चार्थाक्षिप्तं, परस्या वाचः पुनरन्यानपेक्षं परत्वम्, इत्यस्याः परतरं रूपं, सैव हि परमेश्वरी स्वस्वातन्त्र्याद्बहीरूपतामुल्लिलासयिषुर्वाच्यवाचकक्रमानुदयाद्विभागस्यास्फुटत्वाच्चिज्ज्योतिष एव प्राधान्याद्द्रष्ट्टरूपतया पश्यन्तीशब्दव्यपदेश्या;् तदनु वाच्यवाचकक्रमस्य आसूत्रितविभागत्वेऽपि स्फुटास्फुटरूपत्वेन बुद्धिमात्रनिष्ठतया दर्शनप्राधान्याद्द्रष्ट्टदृश्ययोरन्तरालवर्तित्वेन मध्यमापदवाच्या;् ततोऽपि स्थानकरणप्रयत्नबलात्तत्तद्वर्णक्रमोपग्रहाद्विभागस्य स्फुटत्वात् दृश्यस्यैव प्राधान्यात् विखरे शरीरे भवत्वाद्वैखरीशब्दाभिधेया,
225

-- इत्यस्या विश्वरूपतावभासने त्रैविध्यम् ॥236॥
एवं न केवलमासामेकैकस्य स्थूलत्वादिना त्रैरूप्यं यावत्प्रत्येकमपि, -- इत्याह
तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः । tantraloka.3.237a
एतदेव वाक्त्रयस्यापि स्थूलोपक्रमं विभजति
तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥ tantraloka.3.237b
सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः । tantraloka.3.238a
तत्र स्वराणां षड्जादीनां यः परस्परं लोलीभावात्मा सन्दर्भः, अत एव षड्जाद्येकतमत्वे नियतोऽनुद्भिन्नवर्णादिविभाग आलापः, तेन सुभगा माधुर्यातिशयादाह्लादरूपा, अत एव प्राथमिकनादमात्रस्वभावा या वाक् सा खलु स्थूला पश्यन्ती भवतीति शेषः । ननु एवमात्मन आलापस्य स्थानवाय्वादिसंघर्षोत्थत्वमपि संभवेदिति वैखर्येव किं
226

न स्यात् ? इत्याशङ्क्याह `वर्णाद्यप्रविभागतः' इति । वर्णाद्यप्रविभागहेतुकमेवास्या माधुर्यं, यद्वशादेवात्र सर्वेषामासक्तिः -- मधुर एव हि लोको रज्यतीत्यविवादः । अन्यत्र पुनर्वर्णादिविभागात्पारुष्यं, पुरुषे च न कस्यचिदप्यासक्तिस्तदियाननयोः स्वानुभवसिद्धो भेद इति भावः ॥237॥
तदाह
अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥ tantraloka.3.238b
स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी । tantraloka.3.239a
तदेवमत्र आसक्तिभाजां योगिनां सहसैव संविन्मयीभावो भवतीत्याह
तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥ tantraloka.3.239b
साजात्यान्तर्म[त्तन्म॰ यीभूतिर्झगित्येवोपलभ्यते । tantraloka.3.240a
संवित्सविधवृत्तित इति मध्यमादिवद्बहीरूपतया दूरदूरमनुल्लासात्, अत एव
227

`गीतादिविषयास्वादा' ॰॰॰ । (वि॰ भै॰ 73 श्लो॰ )
इत्याद्यन्यत्रोक्तम् ॥239॥
ननु केषांचिद्गीतादाववहितचेतसामपि न तन्मयीभावो भवेदिति कथमेतदुक्तम् ? इत्याशङ्क्याह
येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥ tantraloka.3.240b
अविदन्तो मग्नसंविन्मानास्त्वहृदया इति । tantraloka.3.241a
लोके हि सातिशये गीतादौ विषये तन्मयीभावेन सचमत्काराणां `सहृदया' इति, अन्यथा `परहृदयगा' [अहृदयाः॰ इति प्रसिद्धिः ॥240॥
एवं पश्यन्त्याः स्थूलं रूपं विचार्य मध्यमाया अप्यभिधत्ते
यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥ tantraloka.3.241b
स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी । tantraloka.3.242a
तत्र चर्मावनद्धे मृदङ्गादावेष यो ध्वनिः कराघाताद्युत्थः षड्जाद्येकतमरूपत्वेन अभिव्यक्तेः
228

पूर्वापेक्षया स्फुटो वर्णादिविभागानुल्लासाच्चास्फुटः अत एव मध्यमाशब्दव्यपदेश्यः ॥241॥
तदेवमत्राविभागांशस्य सद्भावान्माधुर्यमपि संभवेदिति लोकस्याप्यत्रासक्तिः, इत्याह
मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥ tantraloka.3.242b
अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् । tantraloka.3.243a
ननु किमियमपि पश्यन्तीवदासक्तिं जनयेत् ? इत्याशङ्क्याह `अविभागेत्यादि' यत्र क्वचिदविभागस्वरमयी अर्थाद्वाक् स्यात् तत्सुष्ठु रञ्जकमासक्तिजननयोग्यमित्यर्थः । तेनात्राप्यासक्त्या तन्मयीभावो भवेदिति भावः । अनेनास्या अपि वैखरीतो भेदः सूचितः ॥242॥
नन्वविभाग एवासक्तौ निमित्तमित्यत्र किं प्रमाणम् ? इत्याशङ्क्याह
अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥ tantraloka.3.243b
229

किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति । tantraloka.3.244a
अविभाग एव हि निर्वृतिनिमित्तं दृश्यतां साक्षात्क्रियतामित्यर्थः । नहि दृष्टमदृष्टं भवतीति भावः, किलेति हेतौ, यतस्तालानां चञ्चुपुटादीनां पाठं गानमाश्रित्य अव्यक्तध्वन्यात्मनि तस्मिन्नविभागरूपे वादने अर्थात्सर्वोऽप्ययं लोकः परितुष्यति निर्वृतिं भजत इत्यर्थः । तेनात्र स्वानुभव एव प्रमाणमिति तात्पर्यम् ॥243॥
एवं मध्यमायाः स्थूलं रूपमुक्त्वा वैखर्या अप्यभिधत्ते
या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥ tantraloka.3.244b
सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा । tantraloka.3.245a
स्फुटानामिति परस्परवैलक्षण्यावस्थानेन श्रोत्राकर्ण्यमानानाम्, अत एव पारुष्यादत्र लोकस्य नासक्तिः ॥244॥
230

एवं स्थूलं भेदत्रयमभिधाय सूक्ष्ममप्याह
अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥ tantraloka.3.245b
पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते । tantraloka.3.246a
अस्मिन्समनन्तरोक्ते स्थूले भेदत्रये यदाद्यं जिगासाद्यात्मेच्छारूपमनुसन्धानं, तदेव पृथक् पृथक् पश्यन्तीमध्यमावैखरीगतं सूक्ष्मं भेदत्रयमुच्यते ॥245॥
एतदेव क्रमेणोदाहरति
षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥ tantraloka.3.246b
तेन जिगासाविवादयिषाविवक्षात्मकानुसन्धानत्रयरूपमेतत्सूक्ष्मं भेदत्रयमिति तात्पर्यार्थः ॥246॥
किं चात्र प्रमाणम् ? इत्याशङ्क्याह
पृथगेवानुसन्धानत्रयं संवेद्यते किल । tantraloka.3.247a
संवेद्यते इति स्वानुभवसिद्धमेतदित्यर्थः ॥
एवं सूक्ष्मं भेदत्रयमुक्त्वा परमप्याह
231

एतस्यापि त्रयस्याद्यं यद्रूपमनुपाधिमत् ॥ tantraloka.3.247b
तत्परं त्रितयं तत्र शिवः परचिदात्मकः । tantraloka.3.248a
एतस्य जिगासाद्यात्मनोऽनुसन्धानत्रयस्यापि यदनुपाधिमत् -- जिगासाद्युपरञ्जकरहितमाद्यं रूपमिच्छाया अपि पूर्वकोटिभूतं संवित्तत्त्वं, तदेतत्परं भेदत्रयम् । नन्वनुपाधिमति अत्र संवित्तत्त्वे भेदस्यावकाशमात्रमपि न संभवेत् तत्कथमत्र त्रिरूपत्वमुक्तम् ? इत्याशङ्क्याह `शिवः परचिदात्मकः' इति । परचिन्मात्ररूपशिवैकात्म्येनात्र पश्यन्त्यादित्रयमवभासत इत्यर्थः, यदुक्तम्
`स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥' ई. प्र. 9।5।20
इति ॥247॥
ननु परस्य निरंशस्य प्रकाशस्य विभागेन प्रकाशनमेव नोपपद्यते, तत्रापि त्रैरूप्ये किं निमित्तम् ? इत्याशङ्क्याह
232

विभागाभासनायां च मुख्यास्तिस्रोऽत्र शक्तयः ॥ tantraloka.3.248b
कास्ताः ? इत्याह
अनुत्तरा परेच्छा च परापरतया स्थिता । tantraloka.3.249a
उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ tantraloka.3.249b
ह्रस्वत्रयमेव च भैरवात्मनः परस्य तत्त्वस्य शक्तिरूपतया पूर्वं निर्णीतम्, तदुक्तम्
`अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् ।
तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥' (3।92)
इति ॥249॥
इदानीं विभागाभासनमेव प्रपञ्चयति
क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदोऽमलाः । tantraloka.3.250a
तासामिति तिसृणां शक्तीनां क्षुब्धं रूपमाश्रित्य, पुनः षट् ऊनतान्ताः संविदः पूर्वमुक्ताः, ताश्च क्षुब्धत्वेऽपि स्वस्वरूपाप्रच्यावादमलाः, अत एव
233

च परस्परसंघट्टेन संविदन्तरावभासनेऽपि योग्याः । तदुक्तम्
`स्वराणां षट्कमेवेह मूलं स्याद्वर्णसन्ततौ ।
षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः ॥' (3।184)
इति ॥
अत आह
आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥ tantraloka.3.250b
संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते । tantraloka.3.251a
तासामेव षण्णां संविदां क्रियाशक्तितयोदितेन परस्परसंघट्टेन द्वादश संविदः प्रोक्ताः -- षण्ठवर्जं सन्ध्यक्षरादिरूपोपग्रहात्स्वरद्वादशकात्मनावभासिता इत्यर्थः । एतास्वेव च संवित्सु वक्ष्यमाणनीत्या प्रमेयादिक्रमेण परमात्रन्तमवस्थितत्वात् अतोऽतिरिक्तस्य चाभावात् सर्वस्य परिपूर्तिः `यासु सर्वं समाप्यते' इति । इयदेव च मुख्यं शक्तिचक्रम् -- अत्रैवोक्तवक्ष्यमाणनीत्या शक्त्यन्तराणामन्तर्भावात् ॥250॥
तदाह
234

एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥ tantraloka.3.251b
एतावता देवदेवः पूर्णशक्तिः स भैरवः । tantraloka.3.252a
एता एव द्वादशापि संविदः क्रमदर्शनादौ अन्वर्थेनापि अभिधानेन दर्शिताः, -- इति दर्शयितुमाह
परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥ tantraloka.3.252b
इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् । tantraloka.3.253a
`कलशब्दे' `कल किल बिल क्षेपे' `कल संख्याने' `कल गतौ' इति धात्वर्थानुगमात्क्रमेण कलयन्ति परामृशन्ति, क्षिपन्ति, विसृजन्ति संहरन्ति च गणयन्ति जानते चेति काल्यः, ता एव कालिकाः ॥252॥
न केवलमेताः क्रमदर्शनादावेवोक्ता यावदस्मन्नयसहोदरेषु शास्त्रेष्वपीत्याह
235

श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥ tantraloka.3.253b
पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् । tantraloka.3.254a
साराशास्त्रे इति श्रीत्रिकसारे, यदुक्तं तत्र
`परां त्वेकाक्षरां मध्ये शंखकुन्देन्दुसुन्दराम् ।
चतुर्भुजां चतुर्वक्त्रां योगिनीद्वादशावृताम् ॥'
इति । भैरवात्माख्यामिति विश्वस्यान्तर्बहीरूपतया, पालनपूरणात्मकात् `परा' इत्यन्वर्थानुसरणात्पूर्णेनात्मना समन्तात्ख्याति अवभासते इत्यर्थः । कालिकानां च योगिनीत्यनेन नाममात्र एवायं भेदो न वस्तुनि इति, -- सूचितम् । तत्तदनुत्तराद्यामर्शरूपत्वमप्यासां संविदां श्रीत्रिकसार एव भङ्ग्याभिहितम् । तत्र हि
`अथातः संप्रवक्ष्यामि वाग्विधानमनुत्तमम् ।'
इति वाच एव प्राधान्यमुपक्रम्य
`तद्बीजं तु विभिन्नं वै स्वरैर्द्वादशभिः क्रमात् ।
ताश्चैव तु तथा देव्यः ॰॰॰ ॥'
इत्याद्युक्तम् । एतच्च शाक्तोपायाह्निक एव वितत्य विचारयिष्यते, -- इति नेहायस्तम् ॥253॥
236

आसां च यत्प्रोक्तं मुख्यत्वं तदेव प्रपञ्चयति
ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥ tantraloka.3.254b
एकारतः समारभ्य सहस्रारं प्रवर्तते । tantraloka.3.255a
तासां च कृत्यभेदेन नामानि बहुधागमे ॥ tantraloka.3.255b
उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः । tantraloka.3.256a
श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥ tantraloka.3.256b
इह नो लिखितं व्यासभयाच्चानुपयोगतः । tantraloka.3.257a
आगम इति सामान्येनोक्तेः श्रीमत्त्रैशिरस इत्यनेन विशेषो दर्शितः, तत्तत एव प्रथमपटलादेतदनुसर्तव्यमिति भावः ॥256॥
ननु यद्येवं तदघोराद्याः सृष्ट्यादिक्रमेष्वप्यवस्थिता
237

याः शक्तयः, किमासामेव स्फारो न वा ? इत्याशङ्क्याह
ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥ tantraloka.3.257b
घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः । tantraloka.3.258a
सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥ tantraloka.3.258b
तासामेव स्थितं रूपं बहुधा प्रविभज्यते । tantraloka.3.259a
प्रक्षीणमलत्वेऽपि उद्रिक्तदृक्क्रिया इत्युक्तं `निर्मलाः शुद्धा' इति । तस्य सृष्ट्याद्यात्मन उपाधित्रयस्य अत्ययोऽनाख्यं, यथैवासां द्वादशानामपि संविदामनाख्यक्रमे रूपं प्रविभक्तं तथैव सृष्ट्यादिक्रमेष्वपीति समुच्चितत्वमभिधातुं `तदुपाधित्रयात्यय' इत्युपात्तम् ॥258॥
ननु अनाख्यक्रमे योऽयं सृष्ट्याद्यात्मन उपाधित्रयस्य
238

अत्यय उक्तः स किं प्रागभावरूपः प्रध्वंसाभावरूपो वा ? इत्याशङ्क्याह
उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥ tantraloka.3.259b
अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः । tantraloka.3.260a
अनुल्लासादिति प्रागभावरूपात्, प्राक्कोटौ हि निस्तरङ्गजलधिप्रख्यं परं तत्त्वं, यतः स्वस्वातन्त्र्याद्बाह्योन्मुखतायामुपाधीनामुल्लासः स्यात्, प्रशमयोगत इति प्रध्वंसाभावरूपात् ॥259॥
प्रशमो हि द्विधेत्याह
प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥ tantraloka.3.260b
अलंग्रासरसाख्येन सततं ज्वलनात्मना । tantraloka.3.261a
शान्त्येति शान्तेन मधुरपाकक्रमेण गुर्वाद्याराधनपूर्वं समय्यादिदीक्षासाधनेन तत्तन्नित्यनैमित्तिकाद्यनुष्ठाननिष्ठतया देहान्ते सृष्ट्याद्युपाधीनामत्ययो
239

भवेदित्यर्थः । शान्तिः पुनः स्वारसिक एव सृष्ट्याद्युपाधीनां प्रशमो न वाच्यः, तथात्वे हि शास्त्रोपदेशादेरानर्थक्यं स्यात् स्वरसत एवोपाधीनां कादाचित्कस्य प्रशमस्याभावात्;् तथालम् अत्यर्थं सार्वात्म्येन, यः सृष्ट्यादीनां ग्रासः स्वात्मसात्कारस्तत्र रसो गृध्नुता तत्त्वेनालंग्रासभैरवादावाख्या यस्य, अत एव सततमविच्छिन्नतया ज्वलन् यथायथं दाह्यनिष्ठतया दीप्यमान आत्मा स्वरूपं यस्य, एवंविधेन हठेन क्रमव्यतिक्रमरूपेण सकृदुपदेशात्मना बलात्कारेण यः पाकः चिदग्निसात्कारः, तस्य क्रमः परिपाटी, तेन सृष्ट्याद्युपाधीनामत्ययो भवेत् इत्यर्थः । इह खलु सर्वेषामेव सृष्ट्याद्युपाधित्रयात्यय एव समभिलषणीयः, -- इति तत्कार्यक्षमः कश्चनोपायविशेषोऽवश्यानुसन्धातव्यः, स च त्रिधेत्युक्तं;् तत्र यो नामानुल्लास एवोपाधीनामुक्तः स दूरापास्तः, समुल्लसितानामेवैषामत्ययस्येष्टेः, शान्त्याख्यश्च उपायविशेषो यद्यपि शनैः शनैर्देहान्ते तदत्ययक्षमः तथापि स मन्दशक्तिपाताधिकारेण प्रवृत्तः, -- इति तीव्रशक्तिपाताधिकारेण
240

तृतीयस्य हठपाकप्रशमस्यैवोपायविशेषस्योपदेशो युक्तो येन झटित्येवोपाधिविगलनं भवेत् ॥260॥
तदाह
हठपाकप्रशमनं यत्तृतीयं तदेव च । tantraloka.3.261b
उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥ tantraloka.3.261c
युज्येतेत्यत्र हेतुः `भेदेन्धनविदाहकम्' इति । अस्यैव हि सहसैव भेदविलापने परं सामर्थ्यमिति भावः ॥261॥
अत आह
निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः । tantraloka.3.262a
विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥ tantraloka.3.262b
241

सर्व एव हि सृष्ट्यादयो भावा बोधाग्नौ हठेन समर्पिता भेदविभागं विजहति, बोधैकरूपतया परिस्फुरन्तीत्यर्थः । ननु यदि नाम सर्वे भावास्तत्तद्रूपतया बोधादतिरिक्तास्तत्किमिति तदेकरूपतया परिस्फुरन्ति ? इत्याशङ्क्याह `निजशक्त्या तं समिन्धाना' इति । तेऽपि बोधरूपतया निजशक्त्या तमेव बोधमुद्दीपयन्तोऽवभासन्त इत्यर्थः । अबोधरूपत्वे हि तेषामबुध्यमानत्वमेव भवेदिति भावः ॥262॥
नन्वेवं किं स्यात् ? इत्याशङ्क्याह
हठपाकेन भावानां रूपे भिन्ने विलापिते । tantraloka.3.263a
अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥ tantraloka.3.263b
चिदग्न्युद्बोधनपूर्वं हठपाकक्रमेण सृष्ट्यादीनां भावानां भेदस्य विलापनात् अमृतसाद्भूतं बोधैकरूपतामापन्नं सत् विश्वं, संवित्तिदेव्यः करणेश्वर्योऽश्नन्ति परबोधैकरूपतया परामृशन्तीत्यर्थः ।
242

अथ च लौकिको भोक्तृभोग्यव्यवहारोऽपि अत्राक्षिप्तः, तद्विशिष्टत्वेनैव प्रकृतस्यार्थस्यावगतेः ॥263॥
ततोऽपि किम् ? इत्याह
तास्तृप्ताः स्वात्मनः पूर्णं हृदयैकान्तशायिनम् । tantraloka.3.264a
चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥ tantraloka.3.264b
ताश्च संवित्तिदेवतास्तृप्ताः परबोधैकरूपतासादनेनानन्यापेक्षाः सत्यो हृदयैकान्तशायिनं सारभूतपरामर्शैकविश्रान्तम्, अत एव पूर्णमनन्याकाङ्क्षम्, अत एव च देवं द्योतनैकसतत्त्वं, चिद्व्योमभैरवं परप्रकाशात्म परं तत्त्वं, स्वात्मनः स्वस्वरूपस्याभेदेनाधिशेरते तदेकरूपतया परिस्फुरन्तीत्यर्थः । अथ चात्र पूर्ववल्लौकिकनायकव्यवहार आक्षिप्तः ॥264॥
नन्वासां चिदात्मनि परस्मिन्रूपे विश्रान्तत्वात् तदतिरिक्तस्यान्यस्याभावात् द्वादशविधं रूपं कुतस्त्यम् ? इत्याशङ्क्याह


पं॰ 10 क॰ पु॰ अनाकाङ्क्षमिति पाठः ।

243


एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः । tantraloka.3.265a
आसां बहुविधं रूपमभेदेऽप्यवभासते ॥ tantraloka.3.265b
कृत्यं रूपाद्यालोचनादि, नाम चक्षुरादिदेवतादि, उपासा रूपाद्यालोचनात्मवृत्तिविलापनादिरूपा । `अभेदेऽपि बहुविधमवभासत' इत्यनेन काल्पनिकत्वमुक्तम् ॥265॥
ननु यदि कृत्यादिभेदादासां बहुविधत्वं तद्रूपाद्यालोचनात्मकृत्यमपि द्वादशविधमेव तदतिरिक्तस्य कृत्यान्तरस्त्याभावात्, -- इत्यासां द्वादशविधादेव रूपान्न्यूनमधिकं वा रूपं न स्यात्, -- इति `ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम्' (3।54) इत्यादि कथमुक्तम् ? इत्याशङ्क्याह
आसामेव च देवीनामावापोद्वापयोगतः । tantraloka.3.266a
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥ tantraloka.3.266b
244

रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः । tantraloka.3.267a
आवापः संक्षेपः, उद्वापो विकासः । आसामेव हि स्वस्वातन्त्र्यात् कमलवदनवरतं संकोचविकाससंभव इति भावः । उत्तरे दश, अन्ये त्रoदश, कलाः षोडश, सेना अष्टादशाक्षौहिण्यः ॥266॥
तदेवं प्रसक्तानुप्रसक्त्यागतमेतदुपसंहरन्प्रकृतमेवावतारयति
अलमन्येन बहुना प्रकृतेऽथ नियुज्यते ॥ tantraloka.3.267b
अन्येनेत्यवान्तरेण शाम्भवोपायप्रतिपादनेन, तस्य हि मुख्यतया विश्वचित्प्रतिबिम्बत्वादिना त्रिधा रूपं निरूपितं येन तदुपासन्नानां झटित्येवाविकल्पस्वरूपावाप्तिः स्यात्;् तदनेकप्रमेयसंकुलतया विश्वचित्प्रतिबिम्बत्वाद्येवोपदेश्या मा विस्मार्षुः, -- इति तदेव तान्प्रति संक्षेपेणोच्यते, इत्याह `प्रकृतेऽथ नियुज्यते' इति । अथेत्यानन्तर्ये, तदितोऽनन्तरं प्रकृतं विश्वचित्प्रतिबिम्बत्वाद्येव प्रस्तूयते इत्यर्थः ॥267॥
245

अत आह
संविदात्मनि विश्वोऽयं भाववर्गः प्रपञ्चवान् । tantraloka.3.268a
प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥ tantraloka.3.268b
एवमात्मनि यस्येदृगविकल्पः सदोदयः । tantraloka.3.269a
परामर्शः स एवासौ शांभवोपायमुद्रितः ॥ tantraloka.3.269b
पूर्णाहन्तापरामर्शो योऽस्यायं प्रविवेचितः । tantraloka.3.270a
मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥ tantraloka.3.270b
यस्य तीव्रशक्तिपातवतः साधकादेर्विश्वः प्रमातृप्रमेयात्मा तद्भेदोपभेदादिना प्रपञ्चवानप्ययं भाववर्गः संविदात्मनि प्रतिबिम्बतया भाति दर्पणनगरन्यायेनातिरिक्तायमानत्वेऽपि अनतिरिक्त्वेन


पं॰ 7 ख॰ पु॰ सदोदित इति पाठः ।

246


स्वात्ममात्ररूपतयैवावभासते, स खलु विश्वेश्वरः परप्रकाशात्मभगवदैकात्म्येन प्रकाशत इत्यर्थः । यस्याप्येवं भाववर्गस्य प्रतिबिम्बकल्पतयावभासने सति स्वात्मनीदृगहमेव भाववर्गात्मना प्रस्फुरित इत्येवमात्मसाक्षात्काररूपः सततोदितः परामर्शः स्यात्, स एवासौ शांभवोपायेन मुद्रितः स्वसमुचितोपेयासादनेन नियमित इत्यर्थः । अत एवास्य सर्वविषयतया पूर्णो योऽयमहन्तापरामर्शः प्रविवेचितः, अर्थात्तस्यैवात्र शांभवोपाये काश्चन मन्त्रमुद्राक्रियोपासा न ततः पूर्णाहन्तापरामर्शादन्याः, परप्रमात्रेकरूपस्वात्माभेदेनैव प्रस्फुरन्तीत्यर्थः । न ह्येतत्पदमधिशयानस्यैतदुपयोग इति भावः । यदुक्तम्
`अयं रसो येन मनागवाप्तः स्वच्छन्दचेष्टानिरतस्य तस्य ।
समाधियोगव्रतमन्त्रमुद्राजपादिचर्या विषवद्विभाति ॥'
इति । वक्ष्यति च
`स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना ।
अध्वकॢप्तिर्यागविधिर्होमजप्यसमाधयः ॥
इत्यादिकल्पना कापि नात्र भेदेन युज्यते ।' (तं॰ 3।290)
इति ॥270॥
247

तदेवं त्रिविधमपि शांभवोपायमुपासन्नो महात्मा जीवन्नेव मुक्तिमासादयेदित्याह
भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः । tantraloka.3.271a
अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥ tantraloka.3.271b
ननु पूर्वम्
`तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।' (तं॰ 2।8)
इत्यादिना नित्योदितत्वेनादिसिद्धत्वाद्भैरवीयायां संविदि ज्ञापकः कारको वा न कोऽप्युपायः समस्तीत्युक्तं तत्कथमिदमिदानीमुक्तमयं निर्विकल्पः समावेशोऽत्राभ्युपायः ? इत्याशङ्क्याह
इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते । tantraloka.3.272a
यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥ tantraloka.3.272b
प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो । tantraloka.3.273a


पं॰ 2 क॰ पु॰ जीवन्मुक्तिमिति पाठः ।
पं॰ 10 क॰ पु॰ अभ्युपाय इति पाठः ।

248


तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥ tantraloka.3.273b
सूत्रणयापीति, आह्निकान्तरेषु पुनः स्फुटैव भविष्यतीति भावः । भेदस्येति कर्तृकरणापादानादेः, अत एकोक्तं `कः कथं कुत' इति ॥273॥
उपायोपेयभावमेव चात्र दर्शयति
निर्विकल्पे परामर्शे शाम्भवोपायनामनि । tantraloka.3.274a
पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥ tantraloka.3.274b
धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् । tantraloka.3.275a
पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥ tantraloka.3.275b
यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् । tantraloka.3.276a
249

व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥ tantraloka.3.276b
पूर्वेति प्रथमाह्निके । युदुक्तम्
`पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ।
तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः ॥' (तं॰ 1।187)
इत्यादि, योजयेदित्येकैकध्येन उपायतया परिकल्पयेदित्यर्थः । तदाह धरामित्यादि । एकमेव धरातत्त्वमविकल्पज्ञानेन न तु विकल्पमात्रेण स्वात्मनि प्रतिबिम्बितं पश्यन् स्वात्मसंविन्मात्ररूपतया साक्षात्कुर्वन् सर्वस्य सर्वात्मकत्वाद्भैरवतां याति परप्रकाशरूपतया परिस्फुरतीत्यर्थः । एतदेव च तत्त्वान्तरेष्वप्यतिदिशति `जलादिष्वपि' इत्यादिना । अयं विधिरिति जलादिशिवतत्त्वपर्यन्तं तत्त्वजालमविकल्पवृत्त्या स्वात्मनि प्रतिबिम्बितं पश्यन् भैरवतां यातीति । ननु यदि नाम परं तत्त्वं व्यापि तत्कथं पञ्चत्रिंशत्तत्त्वीमुज्झित्वा षट्त्रिंशद्रूपतयैवोक्तमित्याशङ्क्याह `समस्तावरणोर्ध्वगं परिकल्पितम्'


पं॰ 1 ख॰ पु॰ सर्वस्वमिति पाठः ।
पं॰ 4 क॰ पु॰ समावेशस्य कल्पितेति पाठः ।
पं॰ 13 क॰ पु॰ तत्त्वजातमिति पाठः ।

250


इति । वस्तुतो हि तज्ज्ञातृकर्तृस्वभावपरप्रमात्रेकरूपमित्युक्तं `स्वतन्त्रं सर्वज्ञम्' इति ॥276॥
ननु यदि नाम परप्रमात्रेकरूपं भैरवात्मकं परं तत्त्वं तत्कथं दर्शनक्रियायां भैरवात्मत्वे चोपायतां यायात् ? इत्याशङ्क्याह
तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् । tantraloka.3.277a
पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥ tantraloka.3.277b
न केवलं तत्त्वान्तराणि यावत्तत्प्रमात्रेकरूपं भैरवात्मकं च परं तत्त्वमपि
`स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥' (ई॰ 1।5।16)
इत्याद्युक्तयुक्त्या स्वस्वातन्त्र्यात्स्वात्मनि परिकल्पितोपायोपेयभावं सत् विकल्पविकलः शाम्भवोपायसमाविष्टः साधकादिरकल्पितत्वादेव तत्तदुपाधिसंकोचाभावादुदारा येयं संवित् सैव स्वच्छतातिशयाद्दर्पणस्तत्र प्रतिबिम्बितं पश्यन् तन्मात्ररूपतया साक्षात्कुर्वन् स्वयमनन्यापेक्षमेव भैरवीभवति, अविकल्पितोदारसंविदात्मना परिस्फुरतीत्यर्थः ॥277॥
251

ननु परतत्त्वद्वारेण पूर्णस्वरूपावेशो यद्युच्यते तदास्तां धराद्यंशांशिकामुखेन पुनः कथमसौ स्यात् ? इत्याशङ्क्याह
यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा । tantraloka.3.278a
तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥ tantraloka.3.278b
तद्वद्धरादिकैकैकसंघातसमुदायतः । tantraloka.3.279a
परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥ tantraloka.3.279b
इह खलु सर्व एव द्रष्टा यथा निर्विकल्पकेन ज्ञानेन रक्तं लोहितं गुणं तदुपलक्षितं पृथुबुध्नोदराकारादिसन्निवेशाद्यपि पुरः पुरतः प्रथममेव वा साक्षात्कुर्वंस्ते ते स्वेच्छादिनावभासमाना रक्ततादयोऽंशा द्वारमुपायो यस्यास्तथाविधा येयं निरंशस्य अनेकसामान्याभाससंमेलनात्मकस्वलक्षणरूपस्य अखण्डस्य, अत एवांशापेक्षयैकस्य प्रधानस्य


पं॰ 1 क॰ पु॰ पूर्णसमावेश इति पाठः ।
पं॰ 15 क॰ पु॰ स्वच्छादिनेति पाठः ।

252


सम्यगन्यूनातिरिक्तत्वेन वित्तिरवबोधस्तया सुष्ठु `ज्ञातोऽयं मया घटः' इत्यादिसन्तोषाधानात् नैराकाङ्क्ष्येण स्थितः स्वात्ममात्रविश्रान्तो भवेत्;् तथैव धरादि पृथ्वीजलादि यदेकमेकं तत्त्वं, तथा धरादिर्यो भूताद्यात्मा संघातः, तथा धरादिर्यः पञ्चाशदात्मा समुदायस्तदवलम्बनेन स्वमात्मानं निर्विकल्पकवृत्त्या परामृशन् पूर्ण एवावभासते स्वात्मसंवित्तिमात्ररूपतया प्रस्फुरतीत्यर्थः ॥279॥
ननु धरादितत्त्वसमुदायात्मकं विश्वं नामेदं भिन्नमेवावभासते तत्कथमेवं परामर्शेनैव स्वात्मसंविन्मात्ररूपता ? इत्याशङ्क्याह
मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । tantraloka.3.280a
मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥ tantraloka.3.280b
मत्त इति
`सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः ।' (तं॰ 1।132)
इत्याद्युक्त्या परस्माद्बोधात् न पुनरविद्यादेरिदं प्रमातृप्रमेयात्म विश्वमुदितम्, एवंभूतमपि तन्मयिबोधे प्रतिबिम्बितमनतिरिक्तत्वेऽपि अतिरिक्तायमानत्वेन
253

न पुनर्विच्छिन्नतयैवावस्थितमेवमपि संह्रियमाणामिदं ममैवाभिन्नं बोधात्मनैव पारमार्थिकेन रूपेण सत् न पुनरवयवविभागक्रमेण द्व्यणुकत्वाद्यापत्त्या पारमाणवेन रूपेण, -- इति युक्तमेव परामर्शमात्राद्विश्वस्य संविन्मात्ररूपत्वमित्येवं परामर्श एव चास्य शांभवस्योपायस्य स्वरूपमित्युक्तम् `इति त्रिधोपायः स शाम्भवः' इति ॥280॥
एवमहंपरामर्शस्य च सृष्ट्यादयो निबन्धनमिति तदासूत्रणमपि अनेन कृतमित्याह
सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् । tantraloka.3.281a
यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥ tantraloka.3.281b
न चैतदस्माभिरेवोक्तं यावद्गुरुभिरपीत्याह यत्रेत्यादि । तदुक्तं तत्र
`यत्र स्थितमिदं विश्वं कार्यं यस्माच्च निर्गतम् ।
तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥' (स्प॰ 1 का॰ 2)


पं॰ 3 ख॰ पु॰ मुक्तमुक्तमेवमिति पाठः ।

254


यतो निर्गतमिति सृष्टिरुक्ता, यत्र स्थितमित्यनतिरिक्तत्वेन चातिरिक्तायमानत्वेन, -- इति स्थितिसंहारौ ॥281॥
ननु किमिदं नाम संविदः सृष्ट्यादिकारित्वमुक्तं
`यानुभूतिरजामेयानन्तात्मानन्दविग्रहा' ।
इत्यादिलक्षणान्तरं किंचिद्ब्रह्मवादिवदभिधानीयं येनास्या वाद्यन्तरसिद्धमसाधारणं रूपमभिहितं स्यात् ? इत्याशङ्क्याह
एतावतैव ह्यैश्वर्यं संविदः ख्यापितं परम् । tantraloka.3.282a
विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥ tantraloka.3.282b
एतावता सृष्ट्यादिकारित्वेनैव हि संविद ऐश्वर्यं विश्वात्मकत्वं च परं वाद्यन्तरवैलक्षण्येन अत्यर्थं ख्यापितमुक्तं भवेदित्यर्थः । एतदेव ह्यस्या मुख्यमसाधारणं लक्षणं यत्स्वातन्त्र्याद्विश्वात्मकत्वेन परिस्फुरतीति, अत एव किंनु नाम लक्षणान्तरमस्याः कथ्यतां, तेन कथितेन न किंचिदुक्तं भवेदिति


पं॰ 8 ख॰ पु॰ परं वाद्येति पाठः ।

255


भावः । तथात्वे हि प्रत्युत अविद्यादेरतिरेकानतिरेकविकल्पोपहतत्वाद्विश्ववैचित्र्ये कारणमेव न सिद्ध्येत्, तेनास्याः सृष्ट्यादिकारित्वमेव मुख्यं लक्षणमिति यथोक्तमेव युक्तम् ॥282॥
अत एव स्वात्मनि सृष्ट्यादिकारित्वमेव परामृशन् परसंविदैकात्म्यमेति, -- इत्याह
स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् । tantraloka.3.283a
स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥ tantraloka.3.283b
षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् । tantraloka.3.284a
स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥ tantraloka.3.284b
सदोदितमहाबोधज्वालाजटिलतात्मनि । tantraloka.3.285a
विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥ tantraloka.3.285b
256

नन्वेवमपि विश्वस्य सृज्यमानत्वादिरूपतया संस्कारेणावस्थानात्कथमस्य प्रशान्ततोदियात् ? इत्याशङ्क्याह
अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः । tantraloka.3.286a
प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ tantraloka.3.286b
देशाध्ववक्ष्यमाणनीत्या निःसंख्याकत्वादनन्ता नानासंनिवेशात्मकत्वाच्च चित्राः, अत एव सन्तः शोभना गर्भा भुवनानि यस्यैवंविधो यः संसारस्तत्तत्तत्त्वात्मा विश्वस्फारः स एवासारत्वात् स्वप्नसद्म, जागरासद्मनो हि प्लोषेऽवशेषसंभावनापि स्यादिति भावः । तस्य प्लोषकः स्रष्टास्मीत्यादिपरामर्शबलोपनीतः, अत एव सतताभ्यासादुल्लसनशीलोऽनवच्छिन्नसंविदात्मकः शिव एवाहमिति परामर्श एव हुताशनो विश्वसंस्कारस्यापि स्वात्मसंवित्सात्कारक इत्यर्थः । यथा ह्यग्नावुदयति अनेकावरकप्रायेऽपि
257

सद्मनि न किंचिदवशिष्यते तथैव शिवात्मतायामप्युल्लसितायां विश्वस्येति ॥286॥
ननु सृष्ट्यादिकारित्वेन स्वात्मनि यः संवित्सात्कारः स सृष्ट्याद्यवच्छिन्नः, -- इति कथं तन्मुखेनानवच्छिन्नसंविदैकात्म्यं स्यात् ? इत्याशङ्क्याह
जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः । tantraloka.3.287a
तदित्थं यः सृष्टिस्थितिविलयमेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदमितः ॥ tantraloka.3.287b
बहुप्रकारं निखिलमिदं जगत्परस्मादेव बोधाद्विच्छिन्नतयोदेति, तथोदितमपि तत्रैव बोधे विश्रान्तम्, एवमपि संहृते तस्मिञ्जगति न परः कश्चिदवशिष्यते


पं॰ 16 क॰ पु॰ न पुनः किंचिदिति पाठः ।

258


अपितु बोध एवेति । इत्थमुक्तेन प्रकारेण बोधस्यैव सर्वदशास्वनुस्यूतत्वाद्यः सृष्ट्यादि बोधैकात्म्यलक्षणादेकीकाराद्धेतोरनंशं पश्येत्सृष्ट्यादिविभागविगलनेन अखण्डबोधैकरूपतया साक्षात्कुर्यात् स शाम्भवोपायसमाविष्ट एव हि तुरीयं पदं प्राप्तः सन् स्फुरति, अनाख्यपरसंविद्रूपत्वेनावभासत इत्यर्थः । स इत्येकवचनेन बहूनामत्र नाधिकार, -- इति सूचितम् ॥287॥
अत एवाह
तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि । tantraloka.3.288a
केऽप्येव यान्ति विश्वासं परमेशेन भाविताः ॥ tantraloka.3.288b
भाविता इति तीव्रतीव्रशक्तिपातत्वेन भगवतात्राधिकृतत्वेनाधिवासिता इत्यर्थः । अत एव केऽप्येवेत्युक्तं, न हि एवंविधशक्तिपातपात्रत्वं सर्वेषामेव भवेदिति भावः । यदाहुः
259

`पूजकाः शतशः सन्ति भक्ताः सन्ति सहस्रशः ।
प्रसादपात्रमाश्वस्ताः प्रभोर्द्वित्रा न पञ्चषाः ॥'
इति । परमत्वे चास्य शाम्भवाद्वैतशालित्वं हेतुः, अन्ये ह्याणवादयो भेदरूपत्वादपरमा एव, इत्याशयः । अत एवात्र स्नानादि भिन्नमुपायजातं न किंचिदुपयुक्तम् ॥288॥
तदाह
स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना । tantraloka.3.289a
अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥ tantraloka.3.289b
इत्यादिकल्पना कापि नात्र भेदेन युज्यते । tantraloka.3.290a
ननु यद्यत्र भिन्नमुपायजातं नोपयुक्तं तदेतदुपायाविष्टः कथं नामाचार्यः परानुग्रहं कुर्यात् ? इत्याशङ्क्याह
परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥ tantraloka.3.290b


पं॰ 2 क॰ पु॰ द्वित्राः सन्ति न पञ्चषा इति पाठः ।
पं॰ 7 ख॰ पु॰ एवाहेति पाठः ।

260


यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति । tantraloka.3.291a
तादृगिति शाम्भवोपायभाजनं, तस्य हि तद्दर्शनसंभाषणमात्रादिनैव
`॰॰॰ दीपाद्दीपमिवोद्यतम् ।'
इत्याशयेन स्वात्मनि कृतकृत्यत्वं जायते, -- इति किं नाम भिन्नेनोपायजातेन प्रयोजनमिति भावः ॥290॥
नन्वनेवंविधश्चेत् कश्चित्तदाराधनाय प्रवृत्तः स्यात्तत्तत्रानेन किं प्रतिपत्तव्यम् ? इत्याशङ्क्याह
अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥ tantraloka.3.291b
तं चाराधयते भावितादृशानुग्रहेरितः । tantraloka.3.292a
तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविदः ॥ tantraloka.3.292b
तादृश इति शाम्भवोपायभाजनं, न स्यादिति तीव्रतीव्रशक्तिपाताभावात् । अथ च
`तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला ।' (मा॰ वि॰ 2।14)
261

इत्यादिनीत्या शक्तिपातावेदकेन भवभक्त्याख्येन प्रथमेन चिह्नेनाधिष्ठितः, शक्तिपातस्य चात्र भवभक्त्याख्यस्यैकस्य तच्चिह्नस्य निर्देशाच्चिह्नान्तराणां चानिर्देशान्मन्दमन्दादिरूपत्वं सूचितम् । एवं मन्दमन्दादिशक्तिपातवत्त्वेऽपि स न समुचितमाणवाद्युपायमात्राभिज्ञं गुरुमाराधयितुं प्रवृत्तोऽपि तु शाम्भवोपायाविष्टमित्युक्तं `तं चाराधयते' इति । यतः स भावितादृशानुग्रहेरितः, न ह्याणवोपायमात्राभिज्ञाद्गुरोर्भाविनमपि शाम्भवोपायसमुचितमनुग्रहं लभते इति भावः, तेन
`न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ।'
इत्याद्युक्तेः शिष्यस्य चोक्तयुक्त्या गत्यन्तराभावादवश्यमेव अस्य तदुद्दिधीर्षया भिन्नमुपायजातमुपयुक्तमित्याह तदा विचित्रमित्यादि । अत एव पूर्वं
`सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥' (तं॰ 2।44)
इत्याद्युक्तम् । विचित्रमिति अनुग्राह्यभेदात् । यदुक्तं प्राक्
262

`अनुग्राह्यानुसारेण विचित्रः स च वक्ष्यते ।' (तं॰ 2।45)
इति ॥292॥
नन्वेवंविधस्यानुग्राह्यस्य शाम्भवोपायसमावेशभाजो गुरोः सकाशादाणवोपायप्रक्रियया चेदनुग्रहो वृत्तस्तर्हि `शाणसूत्रवानाभ्यासे त्रसरतन्तुवानवैचित्र्यलाभः' इत्यादिन्यायेन हेतुफलभावस्य नैयत्याद्भाव्यपि शांभवोपायसमुचितोऽनुग्रहः कथं नामास्य स्यात् ? इत्याशङ्क्याह
भाविन्योऽपि ह्युपासास्ता अत्रैवायान्ति निष्ठितिम् । tantraloka.3.293a
एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यते शिवम् ॥ tantraloka.3.293b
भाविन्य आणवादौ वक्ष्यमाणाः, तासां हि द्वारद्वारिभावेनैतदतिरिक्तस्य मृग्यस्याभावात् शाम्भवोपाय एव प्ररोह इत्युक्तम् `अत्रैवायान्ति निष्ठितिम्' इति । अत एवैतन्मयत्वमेव नामासां श्रेयोरूपं परमुपेयं सर्वत्रैवोद्घोष्यते, न हि एदद्विश्रान्तिमन्तरेण


पं॰ 1 ग॰ पु॰ स च कथ्यते इति पाठः ।
पं॰ 10 ख॰ पु॰ शायान्ति निवुंतिमिति पाठः ।

263


किंचिदपि भवेदिति भावः । अत एवोपायनानात्वेऽपि नोपेयनानात्वं यदभिप्रायेणैव
`द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति ।
प्रयात एव तद्रूढिं विना नैव हि किंचन ॥
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् ।' (तं॰ 1।227)
इत्यादि प्रागुक्तम् ॥293॥
एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति
इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥ tantraloka.3.294a
शैवावेशवशोल्लसदसमरसास्वादसामरस्यमयः ।
कश्चिज्जयरथनामा तृतीयमिदमाह्निकं व्यवृणोत् ॥
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके
श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते शांभवोपायप्रकाशनं नाम तृतीयमाह्निकं समाप्तम् ॥3॥
श्रिमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम्।
मधुसूदनकौलेन संपाद्यायं प्रकाशितः ॥
ओंतत्सत् ।
264