तन्त्रालोकः

अथ
श्री
तन्त्रालोकः

Chapter 1

श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचितः । श्रीमदाचार्यवर्यजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः ।
प्रथमाह्निकम् ।
यस्मादेषणवित्क्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् ।
तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे ॥1॥


पं॰ 1 ख॰ पु॰ यस्मादीषणवत्क्रिया यदुचितास्तास्ता जगद्व्यक्तय इति, ग॰ पु॰
॰. ॰. ॰. यदुचितास्तत्तत्प्रथाशक्तयो यद्धाम त्रिकतत्त्वमद्वयमयं मायाविमोहोत्थितम् ।
यन्नैवंविधतां कदाप्युपगतं यद्वा यदेवंविधं ध्वान्तं स्वान्तनिशान्तसंस्थितमपाकुर्यात्समन्तान्मम ॥
इति पाठः ।
1


देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः ।
यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥2॥
मूर्ध्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम् ।
हृदये भवसंभारकर्कशोऽप्याशु शिश्रिये ॥3॥
न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः ।
किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्चितं नः ॥4॥


पं॰ 1 ग॰ पु॰
एवास्मि यत्प्रसत्तीक्षणेक्षणात् ।
श्रीमत्कल्याणराजानं वन्दे जनकं गुरुम् ॥
इति पाठः ।
पं॰ 2 ख॰ पु॰ श्रिये इति पाठः । एतच्छ्लोकानन्तरं ग॰ पु॰ श्लोकद्वयमाधिक्येन दृश्यते यथा
शिवशासनागमरहस्यकोविदैर्गुरुभिर्गभीरहृदयैर्दयोदयैः ।
करुणारुणा विदधिरे दृशस्तथा मयि दीनबन्धुभिरमोघभाषितैः ॥
यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् ।
भाववासनया स्थानं कर्कशोऽप्याशु शिश्रिये ॥ युग्मम्
इति ।
पं॰ 3 क॰ पु॰ मुर्ध्नि तंस इव, ख॰ पु॰ उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः ।
पं॰ 5 ग॰ माप्तुमनाप्तपूर्वमिति पाठः ।
पं॰ 6 ग॰ पु॰ स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः ।
पं॰ 8 ग॰ पु॰ वाञ्छितं मे इति पाठः ।
2


यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे ।
संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः ॥5॥
तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् ।
साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः ॥6॥
अत्र मद्वागश्क्तमपि यन्निर्यन्त्रणमुल्लसेत् ।
तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् ॥7॥
इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्यमाणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्रकारः परामृशति
विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः । tantraloka.1.1a
तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ tantraloka.1.1b


पं॰ 2 ख॰ पु॰ ब्रूयादिति पाठः ।
3


`मम' आत्मनो `हृदयं' जगदानदादिशब्दवाच्यं 1 तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्यक्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यकलिततया `स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन विकसतात् -- इत्यर्थः । तच्च कीदृक् ? -- इत्युक्तं `तदुभय' इति । `तत्' आद्यार्धव्याख्यास्यमानं च तत् `उभयं' तस्य `यामलं'
`तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।'
इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा संघट्टः, ततः `स्फुरितभावः' परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ
`अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।'



1 षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपरमार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एव उत्तरत्र
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ।
यदनाहृतसंवित्तिपरमामृतबृंहितम्॥
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ।
तदेतज्जगदानन्दमस्मभ्यं शंभुरूचिवान् ॥
इति ।


पं॰ 9 ग॰ पु॰ सामरस्यरूपः इति पाठः ।
4


इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो `विसर्गो' बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्;् अत एवाह `अनुत्तरामृतकुलम्' इति । `अनुत्तरं' कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत्
`यत्रास्ति न भयं किंचिन्न जरा व्याधयोऽपि वा ।
न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ॥'
इत्यकालकलितत्वात् अविद्यमानं मृतं यत्र तत् `कुलं' शरीरं यस्य तत् अमाख्यकलास्वरूपम् -- इत्यर्थः । तदुक्तम्
`कला सप्तदशी यासावमृताकाररूपिणी ।'
इति । किं च तदुभयम् ? -- इत्याह `जननी जनकश्च' इति । कीदृशी जननी ? `विमलकलाश्रया' इति । विगता `मला' अवच्छेदका यस्यास्तादृशी या `कला' परविमर्शैकस्वभावकर्तृतालक्षणा, सा `आश्रय' आलम्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्तिरूपा -- इत्यर्थः ।


पं॰ 1 क॰ पु॰ हकारार्धरूप इति पाठः ।
पं॰ 2 क॰ पु॰ यत्र तत् इति पाठः ।
5


अत एव `अभिनवायाम्' आद्यायां `सृष्टौ' शुद्धाध्वमार्गे
`शुद्धोऽध्वनि कर्ता ॰. ॰. ॰. ॰. ॰. ॰. ।'
इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् `महः' पारिपूर्ण्यलक्षणं तेजःस्फारो यस्याः सा -- इत्युक्तम् । इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात् आभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यतिरिक्तत्वेनेव जगत् आभासयति, -- इत्यनन्यापेक्षिणः स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम्, अविद्यावासनादीनां भेदाभेदविकल्पोपहतत्वात् जगद्वैचित्र्यनिमित्तत्वाभिधानानुपपत्तेः, अत एव भगवतश्चिदाद्यनन्तशक्तिसंभवेऽपि तत्स्फुरणमात्रत्वात् तासां तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति
`तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।'
इति । जनकश्च कीदृक् ? -- इत्युक्तं `भरिततनुः' इति । `भरिता' सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन
6

पूरिता `तनुः' स्वभावो यस्य सः, अनन्योन्मुखतया स्वतन्त्रः -- इति यावत् । अत एव `पञ्चभिः' चिदानन्देच्छाज्ञानक्रियात्मभिः `मुखैः'
`॰॰॰ शैवी मुखमिहोच्यते ।'
इत्युक्त्या शक्तिभिः `गुप्ता' परिपूरिता प्रबन्धेनानुवर्तमाना `रुचिः' अभिलाषो विशेषानुपादनात् कृत्यपञ्चकविषयो यस्यासौ, सदैव पञ्चविधकृत्यकारी -- इत्यर्थः । तदुक्तम्
`सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥'
इति । तदेवं अत्र विसर्गप्रसरस्वभावत्वेन जगद्वैचित्र्यबीजभूतं शिवशक्तिसंघट्टात्मकपरत्रिकशब्दवाच्यम् अनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्टम् । तदुक्तम्
`तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः ।
यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् ॥


पं॰ 7 क॰ पु॰ पञ्चकविशेष इति पाठः ।
पं॰ 15 क॰ पु॰ तत्रापि मर्त्यरहितः स्वात्मशक्त्या महेश्वरः इति, ख॰ पु॰ तत्रापि शक्त्या रहितः इति मौलिकः पाठः प्रथमोपन्यस्त आसीत् इति संदृश्यते ।
7


तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ।
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ॥
भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् ।
हृत्स्पन्दोद्यत्परासारनिर्नामोर्म्यादि तन्मतम् ॥
एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् ।'
इति ।
अथ च `हृदयं'
`हृदयं शक्तिसूत्रं तु ॰॰॰ ।'
इत्याद्युक्त्या श्रीसृष्टिकाल्याद्यखिलशक्तिचक्रासूत्रणेन प्रस्फुरद्रूपं श्रीकालसंकर्षणीधाम `संस्फुरतात्' तादात्म्येनैकः स्याम् -- इत्यर्थः । तच्च कीदृशम् ? -- इत्युक्तम् `अनुत्तरामृतकुलम्' इति । सृष्ट्यादीनामत्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत एव `अमृतं' स्वात्मचमत्कारमात्रपरमार्थम्, अत एव च `कुलं'


पं॰ 2 ख॰ पु॰ अनुत्तरविकासांशुजगदिति पाठः ।
पं॰ 3 ख॰ पु॰ वक्त्रादिभागेनेति पाठः ।
पं॰ 4 ख॰ पु॰ हृत्स्पन्दो दृक्परासारमूर्तिर्निर्नामतन्मयम्, इति पाठः ।
पं॰ 9 ख॰ पु॰ सृष्टिकालाद्यखिलशक्तिचक्रासूत्रेणेति पाठः ।
पं॰ 11 ख॰ पु॰ तदैकात्म्येन एक इति पाठः ।
8


`कुलं पदमनामाख्यं ॰॰॰ ।'
इत्यानाख्यरूपम् -- इत्यर्थः । अन्यच्च कीदृक् ? -- इत्याह `तदुभय' इति । तच्च तत् व्याख्यास्यमानं सृष्टिसंहारात्मकम् `उभयम्' तस्य `यामलं' लोलीभावः, ततः
`चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।'
इति । तथा
`प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः।'
इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम् । परैव हि अनाख्या भगवती संवित् स्वस्वातन्त्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति विलाययति च -- इत्यभिप्रायः । यदुक्तम्
`यस्य नित्योदिता ह्येकाभासा कालक्षयंकरी ।
राजते हृदयाम्भोजविकासिगगनोदरे ॥
सृष्टिस्थित्युपसंहाररूपा तद्भरणे रता ।'


पं॰ 1 ख॰ पु॰ कुलाकुलं पदमनामकमिति पाठः ।
पं॰ 2 ख॰ पु॰ इत्यनामाख्यरूपमिति पाठः ।
पं॰ 10 ख॰ पु॰ विलापयतीति पाठः ।
9


इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे `जननी जनकश्च' इति । जनयति विश्वम् -- इति `जननी' परा पारमेश्वरी सृष्ट्यादिचक्राद्या, सा च शुद्धबोधमात्रस्वभावत्वात् `विमला' येयम् आदिभूता चान्द्रसमी `कला' सा `आश्रयः' आलम्बनं गतिर्यस्याः सा, सकलजगदाप्यायकारिपरामृतमयी -- इत्यर्थः । तदुक्तम्
`ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी ।
पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥'
इति । तथा
`ऊर्ध्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवी ।'
इति । अत एव `अभिनवायां'
`सदा सृष्टिविनोदाय ॰॰॰ ।'
इत्यादिनीत्या सदा द्योतमानायां `सृष्टौ' बहीरूपतायां स्वातन्त्र्यलक्षणं `महः' तेजो यस्याः सा -- इत्युक्तम् । जनयति भावसंहारम् -- इति `जनकः' अभिरूपः


पं॰ 3 ख॰ पु॰ पारमेश्वरी सृष्टिचक्रः सा चेति इयानेव पाठः ।
पं॰ 14 क॰ पु॰ सदा द्योतनायामिति, ख॰ ग॰ पु॰ सदातनायामिति पाठः ।
10


परः प्रमाता, स च `पञ्चानां' वामेश्यादिवाहशक्तीनां `मुखैः' चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः
`येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते ।
स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ॥'
इत्यादिनीत्या तत्तद्विषयाहरणेन `गुप्ता' स्वावष्ठम्भबलेन परिरक्षिता `रुचिः' दीप्तिर्यस्यासौ, निखिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः -- इत्यर्थः। अत एव `भरिततनुः' तत्तद्भावसंचर्वणेन निराकाङ्क्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः -- इत्यर्थः । तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूपतामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमाक्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परामृष्टा, -- इत्युक्तं स्यात् । यदुक्तमस्मत्परमेष्ठिगुरुभिः
`क्रमत्रयसमाश्रयव्यतिकरेण या संततं क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।
क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हृदि तामहं भगवतीं परां संविदम् ॥


पं॰ 1 ख॰ पु॰ वामेशादिवाहनशक्तीनामिति पाठः ।
पं॰ 13 क॰ पु॰ अस्मद्गुरुभिरिति पाठः ।
11


इति ।
अथ च `हृदयं' निजबलसमुद्भीतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण `स्फुरतात्' विकसतात् -- इत्यर्थः । तच्च कीदृक्? `तदुभय'इति । तत् आद्यार्धव्याख्यास्यमानं मातापितृलक्षणम्, `उभयं' तस्य यत् `यामलम्' आद्ययागाधिरूढं मिथुनं, तस्य परस्परौन्मुख्येन चमत्कारतारतम्ययोगात् `स्फुरितः' सोल्लासो योऽसौ `भावः' आशयविशेषः, तेन यो `विसर्गः' क्षेपः कुण्डगोलाख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ;् अत एव च `अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधानेन पशुशुक्रशोणितवैलक्षण्यादुत्कृष्टे `अमृते'सारे
`॰॰॰कुलमुत्पत्तिगोचरः'
इत्युक्त्या `कुलम्' आकारो यस्य तत् । किं तदुभयम् ? -- इत्याह `जननी जनकश्च' इति । कीदृशी


पं॰ 2 ख॰ पु॰ लक्षणं सतत्त्वमिति पाठः ।
पं॰ 4 क॰ ख॰ पु॰ तच्च तदाद्यार्धेति `कीदृक् -- तदुभयेति' वाक्यद्वयहीनश्च पाठः ।
पं॰ 9 क॰ पु॰ आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति च पाठः ।
पं॰ 12 क॰ पु॰ वैलक्षण्याद्युत्कृष्टे इति पाठः ।
पं॰ 13 ख॰ पु॰ कुल उत्पत्तिगोचरे इति पाठः ।
12


जननी ? `विमलकलाश्रया' इति । `विमला' इति वर्णकला `आश्रयः' आलम्बनं यस्याः सा, विमलकलाभिधाना -- इत्यर्थः । तथा `अभिनवसृष्टिमहा' इति । `अभिनवस्य' श्रीमदभिनवगुप्तस्य `सृष्टिः' जन्म सैव
`नन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः ।
अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ॥'
इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्कारातिशयकारित्वेन `महः' उत्सवो यस्याः सा तथा । तथा जनकश्च कीदृशः ? `पञ्चमुखगुप्तरुचिः' । `पञ्चमुखः' सिंहः, सिंहगुप्तेति संज्ञया `रुचिः' दीप्तिः सर्वत्र प्रथा यस्यासौ
`तस्यात्मजश्चुखुलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः ।'


पं॰ 2 क॰ पु॰ वर्णकलास्वरूप आश्रय इति पाठः ।
पं॰ 9 क॰ पु॰ चमत्कारत्वेनेति इयानेव पाठः ।
13


इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः -- इत्यर्थः । अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमलाख्यौ पितरौ, -- इति गुरवः ।
`सन्ति[न्तो॰ हि पदेषु पदैकदेशान्प्रयुञ्जानाः ।'
इति नीत्या `भीमो भीमसेनः' इतिवत् अत्रापि नरसिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । `भरिततनुः' इति
`शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् ।
न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥
ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः ।'
इत्याद्युक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वाभिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् । तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया
`तादृङ्मेलककलिकाकलिततनुर्यो भवेद् गर्भे ।
उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥'
14

इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपात्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसारसंग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्यान्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् । एवं हि
`॰॰॰ तस्यै हेतुं 2 न चाचरेत् ।'
इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनाम् महागुरूणां 3 निन्दाबीजमासूत्रितम्, --


2 हेतुः आक्षेपः ।
3 समयलोपावहम् आचारभ्रष्टतासंपादकम् । महागुरूणां निन्दाबीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते, -- विमलकला विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्थादमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रिस्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः अमावस्यादिनप्रारम्भ इत्यर्थः । निन्दाबीजमिति सविचिकित्सज्योतिषशास्त्रदृशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्षणीयत्वाद्वरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥


पं॰ 8 ख॰ पु॰ तस्यैव हेतुमिति एव पदाधिकः पाठः ।
15


इति भवेत् ;् को नाम शान्तिकर्मारभमाणो वेतालोत्थापनं कुर्यात्, इह चास्माभिस्तद्व्याख्यासारोच्चयनस्यैव प्रतिज्ञातत्वात् तदेव क्रियते, -- इति तदितरत्स्वयमेव सर्वत्रासारतया चिन्वन्तु सचेतसः, -- इत्यलमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः ॥1॥
तदेवं परं त्रिकं परामृश्य परापरमपि पराभ्रष्टुमुपक्रममाणः प्रथमं तावत् परां देवीं परामृशति
नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् । tantraloka.1.2a
मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ tantraloka.1.2b
`परां' पूर्णाम्, अत एव भिन्नमपि जगत् स्वात्मनि अभेदरूपतया पालयन्तीम् अनन्योन्मुखतया च प्रकृष्टां
`या सा शक्तिर्जगद्धातुः कथिता समवायिनी'
इत्याद्युक्त्या `भैरवयोगिनीं' नित्यमेव परप्रमात्रवियुक्तत्वात् तदात्मभूताम्, अत एव


पं॰ 4 ख॰ पु॰ इत्यमलेनापीति पाठः ।
पं॰ 11 क॰ ख॰ पु॰ अभेदतयेति पाठः ।
16


`इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते'
इत्याद्युक्त्या चिद्रूपा चासौ `प्रतिभा' प्रज्ञा, ताम् आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्, अत एव `देवीं' प्रमातुरपि विश्रान्तिधामत्वात् प्रमितिरूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाणप्रमेयाण्येव `अंशा' अरारूपा भागा यस्य `शूलस्य' तत्र यानि औन्मनसानि अम्बुजानि, तत्र `कृतास्पदां' तदुत्तीर्णतया भासमानां `नौमि' देहप्राणादिप्रमातृरूपन्यग्भावेन तत्स्वरूपमाविशामि -- इत्यर्थः ॥2॥
एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । tantraloka.1.3a
प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ tantraloka.1.3b


पं॰ 2 ख॰ पु॰ प्रज्ञापदं नास्ति ।
पं॰ 6 क॰ पु॰ अणुरूपा भागा इति पाठः ।
पं॰ 8 ख॰ पु॰ प्राणाभिमातृरूपेति पाठः ।
पं॰ 11 क॰ पु॰ परापरस्वरूपस्येति पाठः ।
पं॰ 12 क॰ पु॰ परापरदेवीमिति पाठः ।
17


`नृत्यतो'
`नर्तक आत्मा'(शि॰ 3 उ॰ 9 सू॰)
इति शिवसूत्रदृष्ट्या निगूहितस्वरूपावष्टम्भमूलं तत्तद्विश्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो `भैरवाकृतेः' पूर्णस्वरूपस्य परमात्मनः `शरीरस्थाम्'
`एवंभूतमिदं वस्तु भवत्विति यदा पुनः ।
जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ॥'
इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्यकारितया स्वरूपाविष्टाम्, अत एव `देवीं' जगदुल्लासनक्रीडाकारिणीम् अपरां भगवतीं `नौमि' इति सम्बन्धः । अत एव बहिरपि विश्वात्मना द्योतमानत्वेऽपि
`भेदभावकमायीयतेजोंशग्रसनाच्च तत् ।
सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥'
इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्वात् कृष्णपिङ्गलरूपाम् इत्युक्तं `प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्' इति ॥3॥


पं॰ 4 क॰ ख॰ पु॰ ततद्वैचित्र्येति पाठः ।
18


अथ परापरोभयस्वरूपमयीं परापरां देवीं परामृशति ।
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । tantraloka.1.4a
स्ताज्ज्ञानशलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ 4॥ tantraloka.1.4b
`ज्ञानं'
`एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् ।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥'
इत्याद्युक्तज्ञानशक्तिस्वरूपभावमपि अन्तरासूत्रितेच्छाक्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत एव तत्
`लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् ।'
इति वक्ष्यमाणनीत्या `त्रिशूलम्' अत एव `दीप्ताभिः' अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः `ज्योतिश्छटाभिः
`यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते ।'
इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोषकम्,


पं॰ 1 क॰ ख॰ पु॰ परापरदेवीमिति समस्तः पाठः ।
19


अत एव `स्फुरत्' शुद्धबोधैकरूपतया स्फुरत्तासारम्, अत एव `सन्' च असौ `पक्षो' जगदानन्दस्तस्य `विपक्षाः' तदप्रथारूपा निजानन्दाद्या आनन्दा 4 अनानन्दाश्च तेषाम् `उत्कर्तनं' पूर्णप्रथात्मकत्वेन क्षपणं, तत्र `क्षमं' समर्थं `स्तात्' इति वाक्यार्थः । तदुक्तं
`जयन्ति जगदानन्दविपक्षक्षपणक्षमाः ।
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥'
इति ॥4॥
इदानीमपरमपि त्रिकं पराम्रष्टुमाह
स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । tantraloka.1.5a
तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥ tantraloka.1.5b
`स्वातन्त्र्यरूपा शक्तिः' यस्यासौ अनन्तशक्तिर्भगवान् शिवः, `क्रमस्य'


4 शून्यप्रभृतिव्यानान्ता विश्रान्तिरूपनिजानन्द-निरानन्द-परानन्द-ब्रह्मानन्द-महानन्द-चिदानन्दरूपाः षडानन्दभूमय इति ।


पं॰ 14 ख॰ पु॰ प्रथयत्प्रकाशमिति पाठः ।
20


`मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।
क्रियावैचिर्त्र्यनिर्भासात् कालक्रममपीश्वरः ॥' (ई॰ 2।1।5)
इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य, सम्यग्भेदेन `सिसृक्षा' जगत्सृष्टिनिमित्तं पारमेश्वरी इच्छारूपा शक्तिः, `क्रमात्मता'
`क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः ।' (ई॰ 2।1।4)
इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवात्मिका `विभोः' भगवतः परस्यानुत्तरस्य प्रकाशस्य `विभूतिः' तत्तत्स्फुरणात्मत्वेन ऐश्वर्यं `तदेव' क्रमेण तत्स्फारसारत्वात् समनन्तरोक्तस्वरूपं `देवीत्रयं' परप्रकाशात्मकत्वात् `अनुत्तरं' `स्वं' सर्वकर्तृत्वादेरसाधारणं `रूपं' `प्रथयत्' तत्तद्भेददशोदयेऽप्यतिरोदधत् मम आत्मनः `अन्तरास्ताम्' ऐकात्म्येन स्फुरतात् -- इत्यर्थः ॥5॥
एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपानुप्रवेशेनैव युगपद् गणेशवटुकावपि अभिमुखयति


पं॰ 10 ख॰ पु॰ तत्तत्स्फुटात्मत्वेनेति पाठः ।
21


तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव । tantraloka.1.6a
देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ tantraloka.1.6b
`एक एव' अनन्यापेक्षतया निःसहायो `गणस्य' करणचक्रस्य
`दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।'
इत्यादिदृशा `पतिः' अहङ्काररूपः प्रभु, अत एव `तासां' समनन्तरोक्तानां `देवतानां' `विभवेन' परप्रकाशात्मना स्फारेण
`यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ।'
इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या `महामरीचयः' तत्तदिन्द्रियदेवताः तासां यत् `चक्रं' तत्रेश्वरवदाचरन् निजस्थितिर्यो `मम' आत्मनः `संविद्' एव अनवगाह्यत्वात् `अब्धिः' `सम्यक्' विषयकालुष्यविलायनेन समन्तात् सर्वत एव


पं॰ 14 ग॰ पु॰ निजस्थितिमिति पाठः ।
22


तत्तदिन्द्रियप्रसृतसंविद्द्वारेण `उच्छलयतात्' विकासयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः । अब्धिसमुच्छलनसमुचितत्वाच्च `स्फुरदिन्दुकान्तिः' इत्युक्तम् । वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः ।
अथ च `देवीसुतो' वटुकोऽप्येवंविधः, किंतु शरीरस्य धवलिम्ना `स्फुरदिन्दुकान्तिः' । अस्य हि प्राणव्याप्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । `देवीसुत' इत्युभयोरपि कुलशास्त्रोचितो ऽयं व्यपदेशः । तदुक्तम्
`देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः ।'
इति।
`गणेशो विघ्नहर्तासौ देवीपुत्रः ॰॰॰।'
इति च ॥6॥
इह खलु शास्त्रादौ
`॰॰॰ स्रोतोभेदं संख्यानमेव च ।
प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥'


पं॰ 2 ग॰ पु॰ उत्पादयतामिति पाठः ।
पं॰ 5 क॰ पु॰ अत एव देवीति पाठः ।
पं॰ 7 ख॰ पु॰ व्याप्तिरस्तीति गुरव इति `एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।
23


इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्रप्रक्रियात्मकत्वेन द्वैविध्येऽपि
`नमःस्थिता यथा तारा न भ्राजन्ते रवौ स्थिते ।
एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥
तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति ।'
इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधान्यात्
`भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये ।
तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥
कामरूपे महापीठे मच्छन्देन महात्मना ।'
इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं कीर्तयति


पं॰ 2 क॰ ख॰ पु॰ वक्ष्यमाणस्य शास्त्रस्येति पाठः ।
पं॰ 7 क॰ पु॰ इत्याद्युक्तः कुलप्रक्रियाया अधिकारः कुलप्रक्रियायास्तु प्रक्रियान्तरेभ्य इति पाठः ।
पं॰ 9 ख॰ पु॰ योगं व्यापि ततः इति पाठः ।
पं॰ 11 क॰ पु॰ कामपीठे महापीठे इति पाठः ।
24


रागारुणं ग्रन्थिबिलावकीर्णं यो जालमातानवितानवृत्ति । tantraloka.1.7a
कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ tantraloka.1.7b
`स' सकलकुलशास्त्रावतारकतया प्रसिद्धः
`मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः ।
छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥'
इत्याद्युक्त्या पाशाखण्डनस्वभावो मच्छन्द एव परमेश्वरसमावेशशालित्वात् `विभुः' मम प्रसन्नः `स्तात्' स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः । यो `जालं' मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां `बाह्यपथे चकार'
`अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः ।'
इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचापहस्तनादनवधेयतां च निन्ये इत्यर्थः । तच्च `रागेण' गौरिकादिद्रव्येण रागतत्त्वेन च `अरुणं' लोहितीकृतम्


पं॰ 11 क॰ पु॰ इन्द्रियजालप्रायामिति पाठः ।
पं॰ 14 ख॰ पु॰ इत्याद्युक्तोत्तरीयतेति पाठः ।
पं॰ 15 ख॰ पु॰ हस्तनादवधेयतामिति च पाठः ।
25


इयर्ति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्रसररूपं च, तथा `ग्रन्थिभिः' बन्धनैः `बिलैः' च सलिलनिर्गमनस्थानैः `ग्रन्थौ' मायाया द्वितीयस्मिन् भेदे `बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च `अवकीर्णं' व्याप्तम्, तथा `आतानवितानवृत्तिः' आयामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा `कलया' विच्छित्तिविशेषेण कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन `उम्भितम्' आरब्धम् । यदुक्तम्
`मायारूपं भवेज्जालं दारयेत्कुलचिन्तकः।
विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥
भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकृतम् ।
कलारागयुतं चैव ॰॰॰ ॥'
इत्यादि ॥7॥
`श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् ।
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥
द्वयाद्वये च निपुणाः क्रमेण शिवशासने ।
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥
स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः ।
अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥'


पं॰ 9 क॰ पु॰ धारयेत्कुलेति पाठः ।
26


इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामर्दकत्रैयम्बकार्धत्रैयम्बकाख्यसु सार्धासु तिसृषु मठिकासु, मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयणेन आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरूनभिमुखयति
त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः । tantraloka.1.8a
पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥ tantraloka.1.8b
`त्रैयम्बक' इति `अभिहिता' `सन्ततिः' मठिका इत्यर्थः ॥8॥
एवं
`शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् ।
ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥
कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् ।
कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥


पं॰ 1 क॰ पु॰ इत्यादिवक्ष्यमाणेति पाठः ।
पं॰ 3 ख॰ पु॰ मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।
27


कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया ।
अनुग्रहायावतीर्णश्चोदयामास भूतले ॥
मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् ।
नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ॥
ततः स भगवान्देवादादेशं प्राप्य यत्नतः ।
ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥'
इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिलशास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बकसन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्रीकण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरूंश्चोत्कर्षयति
जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । tantraloka.1.9a
तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ tantraloka.1.9b
`एक एव गुरुः' इत्यनेन अस्य अवतारकत्वं सूचितम् । `महेश्वर' इति यः श्रीसन्तत्यर्धत्रैयम्बकाख्यमाठिकयोर्गुरुतया


पं॰ 4 क॰ पु॰ न च्छिद्यते इति पाठः ।
पं॰ 5 क॰ पु॰ प्राप्य तत्त्वतः इति पाठः ।
28


अनेन अन्यत्रोक्तः परमेश इति ईश इति च । यदाह
`भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः ।
भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ॥
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुक्रमः ।
त्रिकरूपस्त्रिकार्थे मे धियं वर्धयतांतराम् ॥'
इति । `तदपरमूर्तिः' इत्यनयोर्भगवदावेशमयत्वं दर्शितम् । यद्यपि
`यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः ॰॰॰ ।'
इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि
`तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।'
इत्यादिदृशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् । यद्वक्ष्यति


पं॰ 5 ख॰ पु॰ श्रीमद्भट्टादिरिति शोधितः पाठः ।
पं॰ 6 क॰ पु॰ त्रिकार्थो मे इति पाठः ।
पं॰ 11 ख॰ तथापि इति वाक्यं नास्ति ।
29


`अध्युष्टसन्ततिस्रोतः सारभूतरसाहृतिम् ।
विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥'
इति ॥9॥
`पूर्वे जयन्ति गुरवः' इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि
`॰॰॰ तर्को योगाङ्गमुत्तमम् ।'
इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्यभिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरु-परम-गुरु-परमेष्ठिनः पुनरपि पराम्रष्टुमाह
श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । tantraloka.1.10a
जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ tantraloka.1.10b
तदास्वादभरावेशबृंहितां मतिषट्पदीम् । tantraloka.1.11a
गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ tantraloka.1.11b


पं॰ 1 क॰ पु॰ रसान्वितम् इति, ख॰ पु॰ रसाहृतमिति पाठः ।
पं॰ 7 क॰ पु॰ प्रत्यभिज्ञापरस्येति पाठः ।
30


इदानीम्
`उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता ।'
इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृतेर्निजमपि पितरमाशीर्वादमुखेन परामृशति
यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः । tantraloka.1.12a
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ tantraloka.1.12b
`चुखुलक' इति लोकप्रसिद्धमस्य नामान्तरम् ।
`गुरुरुत्तम' इति उत्तमत्वस्य आचार्यगौरवातिरेकस्मृतिरेव निमित्तम्, अत एव अन्यत्रापि
`गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम् ।'
इत्याद्युक्तम् ॥12॥
एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति
जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः । tantraloka.1.13a
यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥ tantraloka.1.13b


पं॰ 2 उपाध्यायादिति पद्यस्य `सहस्रं' तु पितुर्माता गौरवेणातिरिच्यते ।' इति उत्तरार्धं ग॰ पु॰ अधिकं वर्तते ।
31


भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूतीमन्तरेण क्वचिदपि कर्मणि नाधिकारः इत्यतस्तत्सहभावोपनिबन्धः ।
`योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् ।
सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ॥
अतः सुरूपां सुभगां सरूपां भाविताशयाम् ।
आदाय योषितं कुर्यादर्चनं यजनं हुतम् ।'
इति । `शास्त्रमार्गो' विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् । यदुक्तमनेनैव
`इत्यागमं सकलशास्त्रमहानिधानाच्छ्रीशंभुनाथवदनादधिगम्य सम्यक् ।
शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन् गम्भीरवाचि रचिता विवृतिर्मयेयम् ॥'
इति॥13॥
इदानीं स्वप्रवृत्तियोजनादि आचक्षाणो ग्रन्थकारो ग्रन्थकरणं प्रतिजानीते


पं॰ 6 ख॰ पु॰ सुरूपां भाविताशयामिति पाठः ।
32


सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । tantraloka.1.14a
अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ tantraloka.1.14b
न चात्र अन्यथा संभाव्यम् -- इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति
इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । tantraloka.1.15a
अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् ॥ tantraloka.1.15b
श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । tantraloka.1.16a
बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ tantraloka.1.16b
तस्य गुरुपरम्परागतस्य ज्ञानस्य `उपासनं' पुनः पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुपदेष्टव्यविषयो `बोधः' साक्षात्कारस्तेन `उज्ज्वलः' सम्यगवगतधर्मा सन् `इदं' गुरूपदेशात्संशयविपर्यासादिरहितत्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं



पं॰ 3 क॰ ख॰ पु॰ न चान्यथेति पाठः ।
पं॰ 5 क॰ पु॰ `इत्यहं' इति पद्यं नास्त्येव । ख॰ पु॰ इत्यलं बहुश इति पाठः ।
पं॰ 15 क॰ पु॰ त्रिकार्थं प्रक्रियालक्षणलक्षितमिति पाठः ।
33


परान्प्रति चिख्यापयिषया `करोति' उपदिशति इत्यर्थः । `अभिनवगुप्त' इति सकललोकप्रसिद्धनामोदीरणेनापि आप्तत्वमेव उपोद्वलितम् । उक्तं हि
`साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चाप्तः ।'
इति । तच्छब्दपरामृष्टं व्याचष्टे `या गुरुसन्ततिः' इति, `गुरुसन्ततिः' गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं ज्ञानमित्यर्थः, सा च कीदृक् ? इत्युक्तं -- `बोधान्यपाशविषनुत्' इति
`यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् ।
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥'
इत्यादिवक्ष्यमाणनीत्या `बोधात्' पराच्छिवाद्यदख्यात्यात्म भेदप्रथात्मकम् `अन्यत्' तदेव `पाशः' स एव मोहकत्वात् `विषं' तत् नुदति या सा । तथा `श्रीभट्टनाथ' इति श्रीशंभुनाथः । `श्रीभट्टारिका' इति भगवत्याख्या अस्य दूती । यदुक्तमनेनैव
`भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम् ।
भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम् ॥
नानाभिधानमाद्यन्तं वन्दे शंभुं महागुरुम् ।'


पं॰ 12 ख॰ पु॰ यदनाख्यात्मभेदप्रथेति पाठः ।
पं 18 क॰ पु॰ कलाश्रया इति पाठः ।
34


इति ।
`स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः ।'
इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्धतया उपादानम् ॥16॥
ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय, संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते इत्याशङ्क्याह
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । tantraloka.1.17a
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ tantraloka.1.17b
`श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया मालिन्या `विजयेन' सर्वोत्कर्षेण उत्तरति सर्वस्रोतोभ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥17॥
एतदेवाह
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । tantraloka.1.18a
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ tantraloka.1.18b


पं॰ 6 क॰ पु॰ सामाध्येनेति पाठः ।
35


इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकतयैव उज्जृम्भमाणं सत्, पश्यन्तीदशायां वाच्यवाचकाविभागस्वभावत्वेन असाधारणतया अहंप्रत्यवमर्शात्मा अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो वाच्यो ऽर्थो ऽहन्ताच्छादित एव स्फुरति, तदनु तदेव मध्यमाभूमिकायामन्तरेव वेद्यवेदकप्रपञ्चोदयाद्भिन्नवाच्यवाचकस्वभावतया उल्लसति । तत्र हि परमेश्वर एव चिदानन्देच्छाज्ञानक्रियात्मकवक्त्रपञ्चकासूत्रणेन सदाशिवेश्वरदशामधिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयम् अभेद-भेदाभेद-भेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्मनिखिलं शास्त्रमवतारयति, यद्बहिर्वैखरीदशायां स्फुटतामियात् । तथाहि -- प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्य उद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम् उद्भूतैश्च -- इत्येकैकभेदाः षट्, त्रिभिरप्येभिः संभूय उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातौ


2 पं॰ ख॰ पु॰ परविबोधेति पाठः ।
पं॰ 17 क॰ पु॰ ईशानतत्पुरुषाविति पाठः ।
36


सद्योजात-तत्पुरुषौ इति द्व्यात्मना संभूयापि एभिः त्रिभिर्भेदत्रयं समुल्लासितम् -- इत्येते भेदप्रधाना दश शिवभेदाः । तदुक्तम्
ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः ।
एकैकः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः ॥
तदित्थं शिवभेदानां दशानामभवत्स्थितिः ।'
इति । एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति । तथा च तत्रैककेन वामदेवाघोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि ईशादेर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च पुनर्वचनानुपपत्तेः, तथा द्व्यात्मकत्वेन भेदत्रयस्य, तेन पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु उक्तत्वात् । तत्पुरुष-सद्योजातयोस्तु एवं स्वभावाभावात्, ताभ्यां सह असङ्गतेर्भेदचतुष्टयाभावादीशवामौ,


पं॰ 6 क॰ पु॰ उभयस्थितिरिति पाठः ।
पं॰ 8 क॰ पु॰ एकैकेनेति पाठः ।
पं॰ 11 क॰ पु॰ नुपपत्तेरित्यनन्तरं `तथा द्व्यात्मकत्वेन भेदत्रयस्य, इति वाक्यं नास्ति ।
पं॰ 13 क॰ पु॰ स्वभावभावादिति पाठः ।
37


ईशाघोरौ, अघोर-वामौ -- इति द्व्यात्मकं भेदत्रयमेव अवशिष्यत -- इति त्रयो द्विकभेदाः । तथा पञ्चानामपि ईश-तत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतरवक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव -- इति दशविधत्वे ऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषु उक्तत्वात् ईश-वामाघोरात्मनः शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मकभेदाष्टकमेवावशिष्यते -- इत्यष्टावेव त्रिकभेदाः । अत एव एकककथनं चिन्त्यमिति न वाच्यम्, -- तत्पुरुषाजात-वामाघोराणां हि द्व्यात्मकतया चतुरात्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसज्यते -- इति भेदसप्तककथनमपि न्याय्यं


पं॰ 1 क॰ पु॰ द्व्यात्मकभेदत्रयमिति समस्तः पाठः ।
पं॰ 7 ख॰ पु॰ जातात्मान इति पाठः ।
पं॰ 8 ख॰ पु॰ घोरात्मान इति पाठः ।
पं॰ 11 क॰ पु॰ अत एव एकैककथनमिति पाठः ।
38


न स्यात् -- इत्यलं बहुना । तथा पञ्चानामप्येषां चतुरात्मकत्वेन संमीलनाया पञ्चविधत्वेऽपि नराजातवामाघोराणामुक्तयुक्त्या संगत्यभावाच्चत्वारश्चतुर्भेदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक एव -- इत्येवम् `अष्टादश' भेदाभेदप्रधाना रुद्रभेदाः ।
तदुक्तं
`यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ।
तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः ॥
चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः ।
इति विंशतिमध्यात्तु नराजातावसंगतिम् ॥
वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ ।
ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् ॥
तत्रापि वामदेवीयमेकं तदुपरि स्थितम् ।
स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः ॥
रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता ।'
इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तं, तद्यथा


पं॰ 8 क॰ पु॰ सप्तद्विका भेदा इति पाठः ।
पं॰ 10 ख॰ पु॰ विंशकमध्यान्तनर इति पाठः ।
पं॰ 17 क॰ पु॰ उक्तमित्यनन्तरं `तद्यथा' इति वाक्यं नास्ति ।
39


`स्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा ।
कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥
दीप्त॰॰॰॰. न्तरं पुनः ।
शिवभेदाः समाख्याता रुद्रभेदांस्त्विमाञ्छृणु ॥
विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् ।
मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥
चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम् ।
विसरं रौरवाः पञ्च विमलं किरणं तथा ॥
ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि ।
अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥'
अत्र चानेनैव
`॰॰॰. शिवैरुक्तः शिवाभिधः ।
भेदो रुद्रैश्च रुद्राख्य इति भेदा निरूपितः ॥'
`वसुभिः' अष्टभिर्गुणिता `अष्टौ' चतुःषष्टिर्भैरवभेदाः । तथा च अद्वयस्वभावे स्वरूपे शिवशक्तितत्संघट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येकमुद्बुभूषूद्भूत-तिरोधित्सु-तिरोहितात्मकतया चतूरूपत्वेन


पं॰ 4 क॰ ख॰ पु॰ भेदाञ्छृणु प्रिये इत्येवंविधः पाठः ।
पं॰ 5 ख॰ पु॰ सद्गीतमिति पाठः ।
पं॰ 6 ख॰ पु॰ नारसिंहिकमिति पाठः ।
पं॰ 15 ख॰ पु॰ स्वरूपशिवशक्तीति समस्तः पाठः ।
40


भेदषोडशात्मकमितरद्वक्त्रचतुष्टयं यदा युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुःषष्टिरद्वयप्रधाना भैरवभेदाः । तदुक्तं
`यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् ।
तदप्यन्तःकृताशेषस्प[सृ॰ष्टभावसुनिर्भरम् ॥
सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् ।
भेदभावकमायीयतेजो ऽंशग्रसनात्मकम् ॥
तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् ।
उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ॥
इत्थं युगपदेवैतद्भेदषोडशकात्मकम् ।
दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् ॥
अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम् ।'
इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तम् । तद्यथा
`अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना ।
तच्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः ॥


पं॰ 3 ग॰ पु॰ उक्तं च इत्येवंविधः पाठः ।
पं॰ 12 ग॰ पु॰ अष्टाष्टकात्मकं शास्त्रमिति पाठः ।
पं॰ 14 ग॰ पु॰ तथाहीति पाठः ।
पं॰ 16 क॰ पु॰ चतुःषष्टिविभागश इति पाठः ।
41


भैरवं यामलं चैव मताख्यं मङ्गलं तथा ।
चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ॥
वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते ।
एतत्सादाशिवं चक्रं कथयामि समासतः ॥
स्वच्छन्दो भैरवश्चण्डः क्रोध उन्मत्तभैरवः ।
असिताङ्गो महोच्छुष्मः कपालीशस्तथैव च ॥
एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः ।
ब्रह्मयामलमित्युक्तं विष्णुयामलकं तथा ॥
स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् ।
सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् ॥
अतः परं महादेवि मतभेदाञ्छृणुष्व मे ।
रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च ॥
पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् ।
उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टमं स्मृतम् ॥
चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते ।
भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा ॥
सा द्विधा भेदतः ख्याता तृतीया तत उच्यते ।
ब्राह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी ॥


पं॰ 12 ख॰ पु॰ लम्पटाद्यं च इति पाठः ।
पं॰ 13 ख॰ पु॰ पञ्च पञ्चालिका इति पाठः ।
पं॰ 14 ख॰ पु॰ उल्फुल्लकमतमिति समस्तः पाठः ।
पं॰ 15 ख॰ पु॰ वीरवत्सले इति पाठः ।
42


चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला ।
एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः ॥
प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् ।
तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥
पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् ।
सप्तमं गुह्यचक्रं तु खचक्रं चाष्टमं स्मृतम् ॥
एष वै चक्रभेदोऽयमसिताङ्गेन भाषितः ।
अन्धकं रुरुभेदं च अजाख्यं मूलसंज्ञकम् ॥
वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम् ।
कीर्त्तिताः परमेशेन रुरुणा परमेश्वरि ॥
भैरवी चित्रिका चैव हंसाख्या च कदम्बिका ।
हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥
एते वागीशभेदास्तु कपालीशेन भाषिताः ।
भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥
वीणामणिस्तृतीया तु संमोहं तु चतुर्थकम् ।
पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥
कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः ।
एते देवि शिखाभेदा उन्मत्तेन च भाषिताः ॥
एतत्सादाशिवं चक्रमष्टाष्टकविभेदतः ॥'


पं॰ 8 क॰ पु॰ अजाद्यमिति पाठः ।
पं॰ 9 ख॰ पु॰ वर्णामठम् इति पाठः ।
पं॰ 16 क॰ पु॰ प्यवर्धकम् इति पाठः ।
43


इति । तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकारमित्यर्थः । यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य
`अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा ।'
इत्यादि । तथा
`पश्चिमे भूततन्त्राणि ॰॰॰ ।'
तथा
`दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः।'
इत्यादि । तथा
`वामदेवात्तु यज्जातमन्यत्तत्सामृ[म्प्र॰तं शृणु ।'
इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तं, तदेकैकस्य वक्त्रस्य पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदात्मकमेव -- इति तत एव संगृहीतम् इति न पृथगिह आयस्तम् । तदुक्तं
`एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते ।
दशाष्टादशभेदस्य ततो भेदेष्वसंख्याता ॥'


पं॰ 1 क॰ पु॰ भेदोपभेदनानावैचित्र्येत्यादिपाठः ।
पं॰ 10 क॰ पु॰ एकैकवक्त्रस्येति समस्तः पाठः ।
पं॰ 12 क॰ पु॰ पृथगिह नायस्तमित्येवंविधः पाठः ।
44


इति । अतश्च भेद-भेदाभेदाभेदप्रतिपादकं शिवरुद्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः । तदुक्तं
`तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा ।
वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥
भेदेन भेदाभेदेन तथैवाभेदभागिना ।'
इति । एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेशवामाघोरात्मकं षष्टं त्रिकं परादिदेवीत्रयविश्रान्तिधामतया क्रोडीकृत्य,
`पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः ।
यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम् ॥'
इत्याद्युत्तया परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तं


पं॰ 7 ख॰ पु॰ द्व्यात्मकमप्येतदिति पाठः ।
पं॰ 8 ख॰ पु॰ षष्ठन्निकमिति समस्तः पाठः ।
पं॰ 10 क॰ पु॰ जलेऽमृतम् इति, ख॰ पु॰ जले घृतमिति पाठः ।
पं॰ 12 क॰ पु॰ परिप्लुतमिति पाठः । अन्यथा हत्यतो न स्यादित्यन्तः वाक्यपाठः
क॰ ग॰ पुस्तकयोर्नास्ति ।
45


`ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ।
भैरवः परमार्थोद्यद्द्रवबृंहितशक्तिकः ॥
ईशान-वाम-दक्षासु तासु शक्तित्रयम् क्रमात् ।
अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः ॥
ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च ।
तद्धाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥'
इति । ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम् । ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम् । यदाह
`इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा ।
शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् ॥'
इति । ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवोत्तरीकृतम् -- इत्यपूर्वमिदं पाण्डित्यं, तेनागमः कश्चन संवादनीयो येनैतत्समाहितं स्यात्, नैतत् अविगीतैव हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तं


पं॰ 1 ख॰ पु॰ भावोपाधिषु निर्भर इति पाठः ।
पं॰ 2 ख॰ पु॰ परमार्थोद्यध्रुवेति पाठः ।
पं॰ 4 क॰ पु॰ पराक्रान्तमिति पाठः ।
पं॰ 6 क॰ पु॰ उद्धारप्रान्तेति, क॰ पु॰ भेदभूमिकाः इति च पाठः ।
पं॰ 8 ग॰ पु॰ न तूक्तमेवात्रानेनेति पाठः ।
पं॰ 12 क॰ पु॰ चोद्यं तत्कृतमितीति पाठः ।
पं॰ 14 क॰ पु॰ सामाहित्यं स्यादिति पाठः ।
46


`प्रसिद्धिरागमो लोके युक्तिमानथवेतरः ।
विद्यायामप्यविद्यायां प्रमाणमविगानतः ॥
प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता ।
तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः ॥'
इति । सा चात्र विद्यत एवाविगानेन महात्मनां महागुरूणाम् इति किमत्र प्रमाणान्तरान्वेषणेन । यदि चार्वाग्दृशां भवादृशामेवंविधा श्रुतिः कर्णगोचरं न गता -- तावतैव एतन्नोपपद्यते, इति न वक्तुं शक्यं, नहि प्रमाणाभावात्प्रमेयस्याप्यभावः स्यात् । न चैते विप्रलम्भका येनैवमन्यथोपदिशेयुः, एतदुपदेशमूलतयैव निखिलस्य शैवशास्त्रागमार्थस्य प्रयोगदर्शनात् । तेन यथा मन्वादिस्मृतौ उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः कल्प्यते तथा इहापि ज्ञेयम् । नह्येवंविधां श्रुतिमदृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमुपदिशेयुः


पं॰ 1 क॰ पु॰ अथ नेतर इति पाठः ।
पं॰ 3 ग॰ पु॰ वागीश्वरी इति पाठः ।
पं॰ 12 ख॰ पु॰ प्रयोगप्रदर्शनादिति पाठः ।
पं॰ 13 क॰ पु॰ उत्पन्नशाखामूलेति च पाठः ।
47


इत्यलं महागुरूणामुपदेशपरीक्षणदुःशिक्षया ।
ननु शास्त्राणां
`यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः ।'
इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह किंनिबन्धनमेषामेवं नानात्वमुक्तं ? सत्यं -- किन्तु अनुग्राह्याशयभेदादेषां नानात्वं कल्पितम् । यदुक्तं
`सर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः ।
अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ॥
फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम् ।'
इति । ननु यद्येवं तत्
`वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम् ।
दक्षिणाच्च परं कौलं कौलात्परतरं नहि ॥'
इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात् ? नैतत् -- द्वारद्वारिभावेन एषामुपायोपेयभावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादकमेव


पं॰ 1 क॰ पु॰ महागुरूपदेशेति पाठः ।
पं॰ 4 ख॰ पु॰ एकत्वनियामकं कारणं फलयोरित्याद्यसमस्तवाक्यात्मा पाठः ।
पं॰ 12 क॰ पु॰ दक्षिणात्तत्परमिति पाठः ।
पं॰ 14 ख॰ पु॰ द्वारिद्वारभावेनेति, उपायोपायभावस्येति च पाठः ।
48


शास्त्रं शिवसद्भावलाभैकफलम् -- इत्यवसेयम् । तदेव परमपदप्राप्तौ साक्षादुपायभूतत्वादुत्कृष्टम् । एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य उक्तं, तत्तत एव स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम् । अत एवाह `तत्सारं त्रिकशास्त्रम्' इति । तदुक्तं
`वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥'
इति । अनेनैवाशयेन च
`वाममार्गाभिषिक्तो ऽपि दैशिकः परतत्त्ववित् ।
संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ॥'
इत्यादि श्रीनिशाचारादावुक्तम् । तच्च सिद्धा-नामक-मालिन्याख्यखण्डत्रयात्मकत्वात्त्रिविधम् । तत्र क्रिया प्रधानं सिद्धातन्त्रं, ज्ञानप्रधानं नामकं तन्त्रं, तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह `तत्सारं मालिनीमतम्' इति । एवं च, `न तदस्तीह यन्न' इत्यादि युक्तमेवोक्तम् ॥18॥


पं॰ 4 ख॰ पु॰ उक्तमित्यत एवेति पाठः ।
पं॰ 14 ख॰ पु॰ ज्ञानप्रधानमनामकम् इति पाठः ।
49


अतश्च सर्वंसहत्वात्तदधिकारेणैव च प्रतिज्ञया अपि निर्वाहो युक्त इत्याह
अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः । tantraloka.1.19a
अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ tantraloka.1.19b
`अत' इति उक्तयुक्त्यास्यैव शास्त्रस्य प्राधान्यात् । `प्रकटीकुर्म' इति प्रक्रियाकरणेन । अतश्च `प्रधाने हि कृतो यत्नः फलवान्भवति' इति भावः । `गुरुनाथाज्ञया' इति -- नहि तदाज्ञां विनात्र अधिकार एव भवेदिति भावः ॥19॥
अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तम् इति दर्शयितुमाह
अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या । tantraloka.1.20a
त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ tantraloka.1.20b


पं॰ 6 ख॰ पु॰ प्रधानो हि यत्नः फलवानित्येवंविध एव पाठः ।
पं॰ 8 ख॰ पु॰ नहि तदाज्ञायामत्राधिकार इति पाठः ।
पं॰ 10 क॰ पु॰ प्रकटीकारे चेति, ख॰ अन्यादृष्टार्थप्रकटीत्यादि च पाठः ।
पं॰ 14 ख॰ पु॰ त्रिनयनचरणसदोदितचिन्तनेति पाठः ।
50


त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासाध्यम् इति भावः ॥20॥
एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति प्रतिपादयितुमाह
श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । tantraloka.1.21a
अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ tantraloka.1.21b
---
आदिवाक्यं
---
हृदयं शास्त्रात्मसतत्त्वं, महेश्वरस्य पूजनं
`पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादरालुयः ॥'
इत्याद्युक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम् । अतश्च महावाक्यार्थेन एकमेवादिवाक्यात्मकं


पं॰ 1 क॰ पु॰ आसादितस्याष्टसिद्धेरिति, ख॰ पु॰ प्रसादादासादितप्रकृष्टसिद्धेरित्यभिप्राय इति पाठः ।
पं॰ 9 आदिवाक्यमिति पदं ख॰ पुस्तकात् प्रक्षिप्तम् ।
51


वाक्यम् इति दर्शयितुमाह `आदिवाक्यम्' इति ।
इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्रश्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि शास्त्रकाराणामियं शैली -- इत्यभिधेयप्रयोजनादि प्रतिपादयितुं प्रवृत्तिहेतुतया अयमादिवाक्योपनिबन्धः । तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्धार्थक्रम इत्यनेन साक्षादभिहितश्च पर-परापरापरात्मतादिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः । तस्यैव च कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्तशास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं `श्रीभट्टनाथ'इत्यादि श्लोकपञ्चकमुपात्तम् । स च गुरुपरम्परागतः
`तस्माद्गुरुक्रमायातं दिशन्नेति परं शिवम् ।'
इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्येतदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसंकीर्तनपरं श्लोकसप्तकमुट्टङ्कितम् ।


पं॰ 14 क॰ पु॰ मृशन्नेति परमिति पाठः ।
पं॰ 15 निजेत्याद्यारम्भ्य संदर्शनार्थमित्यन्तः पाठः ख॰ पु॰ नास्ति ।
52


अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतता प्रत्यभिज्ञानाज्जीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि `श्रीशम्भुनाथ' इत्यादिश्लोकेन साक्षादुक्तम् । एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्तते इत्यस्य प्रवृत्तिनिमित्तत्वं, प्रवृत्तस्याप्येतदुपलब्धौ
`तमनित्येषु भोगेषु योजयन्ति विनायकाः ।'
इत्याद्युक्तेर्विघ्नाः संभवन्ति इत्येतन्निरासाय गणेशवटुकयोः स्तुतिः । `अर्थितो रचये' इति प्रतिज्ञातायाः प्रक्रियायाश्च
`तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ।'
इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभिधानम् । एवमभिधानाभिधेययोरभिधेयप्रयोजनयोश्च वाच्यवाचकसाध्यसाधनभावलक्षणः संबन्धश्चार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादिवाक्यं प्रवृत्तिहेतुतया उक्तम् इति पिण्डार्थः ॥21॥


पं॰ 14 ख॰ पु॰ साधनभावाभावलक्षणेति पाठः ।
पं॰ 15 ख॰ पु॰ संमेलनात्मकमेकमेवेदमादिवाक्यप्रवृत्तिहेतु इत्यादिरूपः पाठः ।
53


इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः, तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम् -- इति तत्साक्षात्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः, तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न ज्ञातम् इति
`भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।'
इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति -- इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परीक्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुपक्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः
इह तावत्समस्तेषु शास्त्रेषु परिगीयते । tantraloka.1.22a
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ tantraloka.1.22b
न चैतदस्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । tantraloka.1.23a
इति प्रोक्तं तथा व श्रीमालिनीविजयोत्तरे ॥ tantraloka.1.23b
54

`अज्ञानं' तिमिरं पारमेश्वरस्वातन्त्र्यमात्रसमुल्लासितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमानस्वभावम् अपूर्णं ज्ञानं, तदेव चाणवं `मलं', न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च
`स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥'
इति । तच्च कीदृक् ? इत्याह -- संसार इति । `संसारस्य'
`भिन्नवेद्यप्रथात्रैव मायाख्यम् ॰॰॰ ।'
इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य
`संसारकारणं कर्म संसाराङ्कुर उच्यते ।'
इति वक्ष्यमाणनीत्या `अङ्कुरः' कारणं कार्ममलं तस्य `कारणं' । तदुक्तं
`मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।'
इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधिकारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्वलितम् ॥23॥
अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्ये ऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह


पं॰ 1 ख॰ पु॰ अज्ञानतिमिरमिति समस्तः पाठः । क॰ पु॰ समुल्लासितं स्वरूपेति च व्यस्तः पाठः ।
55


विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । tantraloka.1.24a
संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ tantraloka.1.24b
`विशेषणेन' `संसाराङ्कुरकारणम् इत्यनेन' नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत् 5तस्य -- इति कथमेतद्विशेषणं संगच्छतां, तद्धि सति कर्मकारणके शरीरे संभवति तस्य कार्यकरणात्मकत्वात्, बुद्धेश्च करणवर्गान्तःपातित्वात्, अत एवोक्तं `संसारोत्तरकालिक' इति,
`शरीरभुवनाकारो मायीयः परिकीर्तितः ।'
इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि इत्यर्थः । किं तत्संभावनानिरासेन इत्युक्तं -- `एतदभावे मोक्षमब्रवीत्' इति । नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति' तस्य च शुद्धविकल्पात्मत्वेऽपि
`सर्वो विकल्पः संसारः॰॰॰।'
इति नीत्या संसाराविर्भावकत्वमेव इति कथमेतदभावे ऽपि एवं स्यात् । यदभिप्रायादितो बाह्यैरपि


5 तदिति कर्म, तस्येति बौद्धाज्ञानस्येत्यर्थः, एतत् -- बौद्धमज्ञानमित्यर्थः ।


पं॰ 5 ख॰ पु॰ कथमस्यैतत् इति पाठः ।
56


`परमार्थविकल्पेऽपि नावलीयेत पण्डितः ।
को हि भेदो विकल्पस्य शुभे वा ऽप्यथ वा ऽशुभे ।'
इत्याद्युक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुनस्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् । पौरुषं पुनर्ज्ञानमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं
`पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः ।
तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥'
इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्तात्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम् -- `एतदभावे मोक्षमब्रवीत्' इति ॥24॥
ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशङ्क्याह


पं॰ 2 ख॰ पु॰ शुभे वाप्यशुभे ऽथ वा इति पाठः ।
पं॰ 5 क॰ पु॰ केवलेन पुनर्न किंचिदिति पाठः ।
पं॰ 12 क॰ पु॰ युक्तमेतदभावे मोक्षमिति पाठः ।
57


अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । tantraloka.1.25a
स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ tantraloka.1.25b
कोऽसावतिसङ्ग इत्याह -- `स हि' इत्यादि । तद्युक्तमुक्तमज्ञानशब्दस्य अपूर्णं ज्ञानमर्थ इति ॥25॥
तदाह

अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । tantraloka.1.26a
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥ tantraloka.1.26b
`अतो' यथोक्ताद्धेतोः `ज्ञेयस्य' नीलसुखादेः,
`ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।'
इत्यादिवक्ष्यमाणस्वरूपस्य `तत्त्वस्य' `सामस्त्येन' तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन `अप्रथात्मकं' यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वादपूर्णं `ज्ञानं' तदेव `अज्ञानं' न पुनर्ज्ञानाभावमात्रम् इत्येतच्छिवसूत्रेषु `भाषितम्' उक्तमित्यर्थः ॥26॥
तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह


पं॰ 11 ख॰ पु॰ वक्ष्यमाणसतत्त्वस्येति पाठः ।
पं॰ 14 क॰ पु॰ शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।
58


चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । tantraloka.1.27a
संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ tantraloka.1.27b
`संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा च अकारप्रश्लेषविश्लेषाभ्यां, तेन `ज्ञानं बन्धः, अज्ञानं बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञानाभिधानलक्षणः ॥27॥

एतदेव व्याचष्टे

चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । tantraloka.1.28a
अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥ tantraloka.1.28b
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । tantraloka.1.29a
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥ tantraloka.1.29b
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते । tantraloka.1.30a
तत एव समुच्छेद्यमित्यावृत्त्या निरूपितम् ॥ tantraloka.1.30b
इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्णज्ञानक्रियावान्, तस्य भावः `चैतन्यं' पूर्णज्ञानक्रियावत्त्वं,


पं॰ 16 ख॰ पु॰ पूर्णज्ञानवान् इति पाठः ।
59


तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते । तदाह `स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव केवलं स्वातन्त्र्यमात्रकम्, अत एवाह `अनाक्षिप्तविशेषम्' इति, `अनाक्षिप्ताः' स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो `विशेषा' भेदा येन तत् । भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्तिमेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः । यदाहुः
`धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ।
संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।'
इति । `द्वितीयेन' इति अर्थाद् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं च इति व्युत्पत्त्या `क्रियां, कारणं' च प्राधान्येनाभिदधता `तस्य' -- चैतन्यमात्मा -- इत्युक्तस्वरूपस्य, अत एव चेतयते इति `चित्' चितिक्रियायां कर्ता, तन्मात्रमेव केवलं `रूपं' यस्य तस्य `द्वैतमुच्यते' कर्तृकर्मणोः


पं॰ 7 क॰ पु॰ अत एवेत्याभिधायिनः शब्दस्येति पाठः ।
पं॰ 10 क॰ पु॰ भेदस्य परमित्येवंविधः पाठः ।
60


कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदकानामागूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्याति इत्यर्थः । `तत्' तस्मात्संविदद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् `द्वैतप्रथा' एव `अज्ञानम्' अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभाशुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचितज्ञानरूपतया मलत्रयात्मा `बन्ध' इति उच्यते, बन्धरूपत्वादेव च तदज्ञानं `समुच्छेद्यम्'
`मलं कर्म च मायीयमाणवमखिलं च यत् ।
सर्वं हेयमिति प्रोक्तं ॰॰॰ ॥'
इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वादपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् इत्याशङ्क्योक्तम् `इत्यावृत्त्या निरूपितम्' इति । `आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरावर्तनेन इत्यर्थः ॥28॥29॥30॥


पं॰ 6 क॰ पु॰ भुवनाकारविविधेति पाठः ।
पं॰ 7 क॰ पु॰ बन्ध इत्युच्यते इति पाठः ।
पं॰ 11 ख॰ पु॰ इत्याद्युक्त्या इति पाठः ।
61


नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्क्याह

स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन । tantraloka.1.31a
न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ tantraloka.1.31b
न कश्चिदन्यो ऽस्ति इति वाक्यशोषः । यदि तुच्छस्तत्पुर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पारमार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति
`मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संवित् ॰॰॰ ॥'
इत्यादि । किमुक्तं भवति, -- इह तावदात्मज्ञानं मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः पृथक्लक्षणं न कृतं, अत एव `नामापि' इति अपिशब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥31॥


पं॰ 7 ख॰ पु॰ यतो यदि तुच्छ इति पाठः ।
62


एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरोक्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते
यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् । tantraloka.1.32a
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ tantraloka.1.32b
`यत्' पुनः `ज्ञेयस्य' कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत् `सतत्त्वम्' ऊर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं, तस्य `उत्तरोत्तरम्' उपर्युपरिभावेन तत्तद्भुवनाद्युल्लङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिशयाद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि `पूर्णपूर्णप्रथात्मकं ज्ञानम्'[उदेति तदधरीकृततत्त्वजालोल्लङ्घनात्॰
`चतुर्दशविधं 6 यच्च प्रोक्तं संसारमण्डलम् ।'
इत्याद्युक्तेः `तस्य तस्य' चतुर्दशविधयोन्यात्मनः `संसारस्य' `शान्तिप्रदं' तत उन्मोचकमित्यर्थः ।


6 चतुर्दशविधत्वं संसारस्योक्तं यथा --
`अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥'
इति ।
63


ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासंकुचितत्वम् ॥32॥
एतदेव दर्शयति
रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः । tantraloka.1.33a
इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ tantraloka.1.33b
`इत्थं' प्रथमार्धनिरूपितस्वरूपं `ज्ञानं' `तावतः' परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति संबन्धः । तत्र `रागाद्यकलुषोऽहं भवामि' इति ज्ञानं योगाचाराणाम् । यदाहुः
`रागादिकलुषं चित्तं संसारस्तद्विमुक्तता ।
संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥'
इति । तथा
`प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥'


पं॰ 1 क॰ पु॰ किं तु पदं नास्ति,
पं॰ 12 ख॰ पु॰ संसारस्तद्विविक्तता इति पाठः ।
पं 15 ख॰ ग॰ पु॰ प्रकृत्या तनवो मला इति पाठः ।
64


इति । अयमत्रार्थः -- प्रकृतिप्रभास्वरस्य चित्तस्य अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वरज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं, -- भावना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थिरैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि -- स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभिर्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्तक्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः । समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भणशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षणभङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत


पं॰ 7 ख॰ पु॰ विशेषमभिधातुमिति पाठः ।
पं॰ 17 ख॰ पु॰ भावना प्रगल्भते इति पाठः ।
65


इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवादिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदाभेदविकल्पोपहतत्वात् । `अन्तः' संविद्रूपतायामपि `शून्योऽहं' भवामि इति ज्ञानं माध्यमिकानाम् । ते खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वाभाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्षमाचक्षीरन् । यदाहुः
`चित्तमात्रमिदं विश्वमिति यादेशना मुनेः ।
तत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥
सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।'
इति, तदप्ययुक्तं, -- संविदो हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि संविदात्मतयाऽस्त्यवस्थानं,



पं॰ 1 ग॰ पु॰ आशयपरावृत्तेरिति पाठः ।
पं॰ 4 ख॰ पु॰ संतानश्चैकेन विद्यते इति पाठः ।
पं॰ 7 ख॰ पु॰ स्वभाववादिन इति, नैःस्वभावादिति पाठः ।
66


संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत् इति मूर्च्छैव स्यात् इति । न च संविदः स्फुरत्तामात्रसाररूपाया अपह्नवः शक्यक्रियः इति यत्किंचिदेतत् । अथ
`सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः ।
सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥'
इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पितेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन
`इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः ।
अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥'
इत्याद्युक्तेर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति


पं॰ 3 क॰ पु॰ सूत्कैव स्यादिति, ग॰ पु॰ स्फुरत्तासाररूपाया इति च पाठः ।
पं॰ 8 क॰ पु॰ भावनादिना इति पाठः ।
पं॰ 13 क॰ पु॰ अवभासिततत्त्वस्येति पाठः ।
पं॰ 14 क॰ पु॰ परमार्थमभ्युपागमदिति पाठः । ग॰ पु॰ विज्ञप्तमेव परमार्थसत्त्वमभ्युपगतमिति पाठः ।
67


न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः `अकर्ताहं भवामि' इति ज्ञानं सांख्यानाम् । ते हि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य चैतन्यं न स्यात् -- अचेतनानामेव क्षीरादीनां क्रियावत्त्वोपलब्धेः । अयुक्तं चैतत्, -- अकर्तृत्वे हि पुरुषस्य अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्पन्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्, -- प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्, तं प्रत्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः `दृष्टाहमनेन' इति `न पुनरेतदर्थमहं प्रवर्ते' इत्यनुसन्धानमस्त्याचैतन्यादस्याः -- प्रेक्षाकारित्वाभावात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थं प्रवर्तते, तथा कृतायामपि विवेकाख्यातौ पुनरपि तदर्थं प्रवर्तिष्यते, -- स्वभावस्यानपेतत्वात् । एवमपि कृतमकृतं न भवति -- इति संकुचितमपि


पं॰ 1 क॰ पु॰ चोक्तदोष इति समस्तः पाठः ।
पं॰ 6 क॰ पु॰ उत्पन्ने ऽपि प्रकृतिपुरुषविवेकेति पाठः ।
पं॰ 15 क॰ पु॰ अकृतं भवति इति पाठः ।
68


ज्ञानं बौद्धादीनां निजोचितामर्थक्रियां विदध्यात् । तथाहि बौद्धाः
`एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः ॥'
इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रतिपन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
`ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः ।
सर्वज्ञः च तमेवाहुर्बौद्धानां परमं पदम् ॥'
इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः । एवं च `ज्ञानं मुञ्चति तावतः' इति युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं पतिपन्नाः इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
`पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम् ।'
इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सांख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धितत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमुत्तरोत्तरं


पं॰ 5 क॰ पु॰ प्राप्तिरेषां इति पाठः ।
पं॰ 6 ख॰ पु॰ ब्रह्मैवात्राधिपत्येनेति पाठः ।
69


ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भावेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामीश्वरप्रणिधानात् तद्विशिष्यते इति तेषां पुंस्तत्त्वोर्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता ।
`षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।'
इति । एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति । तदुक्तं
`मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।'
इति । तथा
`व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।'
इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशांशिकया, मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात् आणवादपि मलान्मोचकं ज्ञानम् इत्युक्तं `समासव्यासाभ्याम्' इति ॥33॥


पं॰ 4 क॰ पु॰ प्रणिधानाद्विशिष्यते इति पाठः ।
पं॰ 6 क॰ पु॰ षड्विंशकं महादेवीति पाठः ।
पं॰ 15 ख॰ पु॰ आत्मताभिमानादिति पाठः ।
70


ननु स्वदर्शनैचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशंक्याह

तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः । tantraloka.1.34a
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ tantraloka.1.34b
`॰॰॰ अध्वा बन्धस्य कारणम्।'
इत्युक्तेः अध्वा तावद्बन्धकः । तत्र बौद्धादयो बुद्धितत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्यध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो, -- बन्धकारणस्य निःशेषेणाप्रक्षयात् । यद्वक्ष्यति
`सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे ।
सृज्यत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥'
इति । श्रीस्वच्छन्दशास्त्रे ऽपि


पं॰ 6 ख॰ पु॰ इत्याद्युक्तेरिहाध्वा तावदिति पाठः ।
पं॰ 7 ख॰ पु॰ तत्त्वान्तर्बन्धविगलनात् इति पाठः । क॰ पु॰ विगलनान्मुक्ता इति पाठः ।
पं॰ 8 ख॰ पु॰ अवच्छेदावस्थितेरिति पाठः ।
पं॰ 10 ख॰ पु॰ निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते ।
पं॰ 12 क॰ पु॰ पुनस्तस्मादिति, ख॰ पु॰ न सदृङ्मुक्तिरिति पाठः ।
71


`लौकिकानां पुनः सृष्टिः पुनः संहार एव च ।
संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥'
इत्यादि समान्येनाभिधाय
`मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।
बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥
इति बद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशेषेणोक्तम् । यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह `मुक्तस्तु सर्वावच्छेदवर्जितः' इति । यदुक्तं
`सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदम् ।'
इति । तथा
`शैवः सिद्धो भाति मूर्ध्नातरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः ।'
इति ॥34॥
अत्र चैवं-विधमेव पूर्णं ज्ञानं निमित्तम् इत्याह

यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । tantraloka.1.35a
अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ tantraloka.1.35b


पं॰ 1 क॰ पु॰ पुनः संसार इति पाठः ।
पं॰ 5 ख॰ पु॰ यावद्वेहं न विन्दति इति पाठः ।
पं॰ 6 क॰ पु॰ लक्षणतयेति पाठः ।
72


`अवच्छेदैः' संकोचाधायिभिरिदन्तापरामर्शैः `सर्वात्मना' सर्वप्रकारं वासनामात्रेणापि यत् `उज्झितं' पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्णप्रथात्मकत्वात् `न तत् कुत्राप्यज्ञानम्' अतश्च `सत्यां' मुक्त्याभासविलक्षणां `मुक्तिं' ददाति, अहंपरामर्शसारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥35॥
इदानीमुद्दिष्टयोर्ज्ञानयोरेव स्वरूपं विभजति

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । tantraloka.1.36a
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ tantraloka.1.36b
`शिवशासने' इति पञ्चस्रोतोरूपे पारमेश्वरदर्शने इत्यर्थः । एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥36॥
तदेव लक्षयति
तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ । tantraloka.1.37a
स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥ tantraloka.1.37b
संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् । tantraloka.1.38a


पं॰ 11 क॰ पु॰ सर्वत्राविशेषेणेति पाठः ।
पं॰ 14 क॰ पु॰ सुपूर्णेति पाठः ।
पं॰ 15 क॰ ख॰ पु॰ संकोचदृगिति पाठः । क॰ पु॰ पशोरविकल्पकमिति पाठः ।
73


अथ-शब्द आनन्तर्ये, उद्देशानन्तरं 7 हि लक्षणपरीक्षयोरवसरः इत्याशयः । `तत्र' द्विविधयोर्ज्ञानाज्ञानयोर्मध्यात्
`॰॰॰ पुंसः प्रादुर्भवत्परम् ।'
इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मलाख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि परप्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः । परमेश्वर एव हि स्वस्वातन्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपहस्तनेन अख्यात्यात्मकाणवमलाविर्भावेन स्वात्मानमावृणुयात् । तदुक्तं
`परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य ।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥(पा॰ सा॰ 15 का॰)
मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति ।'(पा॰ सा॰ 16 का॰)
इति । वक्ष्यति च


7 नाममात्रेण वस्तुसंकीर्तनमुद्देशः, सजातीयविजातीयासाधारणनिरूपकं कारणं लक्षणम्, युक्त्ययुक्तिविवेकः परीक्षा इति ।
74


`तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ।'
इति । तदेव पशोराणवादिमलत्रययोगिनो ऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासालोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यपहस्तेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कलादियोगं कृतवान्, येनास्य नियतं ज्ञत्व-कर्तृत्वाद्यभियुक्तं । तदुक्तं
`असूत सा कलातत्त्वं तद्योगादभवत्पुमान् ।
जातकर्तृत्वसामर्थ्यो विद्यारोगौ ततोऽसृजत् ॥
विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे ।
रागो ऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥
नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् ।
कालो ऽपि कलयत्येनं तुट्यादिभिरवस्थितः ॥'
इति । ज्ञानस्वरूपस्य प्रथममुद्देशो ऽपि अवश्योच्छेद्यत्वप्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥
ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम्


पं॰ 8 क॰ पु॰ अभवत्पुन इति पाठः ।
पं॰ 9 ख॰ पु॰ ज्ञातकर्तृत्वेति पाठः ।
पं॰ 10 ख॰ पु॰ विवेदयत्यस्येति पाठः ।
पं॰ 14 क॰ पु॰ अवच्छेद्यत्वेति पाठः ।
75


इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात् इत्याशंक्याह
तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः ॥ tantraloka.1.38b
एवमपि हि बुद्धेः
`अध्यवसायो बुद्धिः'
इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य एतदभावे तद्धर्मत्वं स्यात् ॥38॥
अत एवाह
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । tantraloka.1.39a
षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ tantraloka.1.39b
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । tantraloka.1.40a
बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च ॥ tantraloka.1.40b
अस्याश्चैवमध्यवसाययोगित्वे हेतुः `षट्कञ्चुक' इति । षट्कञ्चुकैः
`कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ।


पं॰ 3 ख॰ पु॰ बुद्ध्यंशो व्यवसायेति पाठः ।
पं॰ 11 ख॰ पु॰ धीर्जायेतेति पाठः ।
पं॰ 15 क॰ पु॰ सम्बन्ध इति पाठः ।
76


अधुनैव किंचिदेवेदमेव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥'(प॰ सा॰ 16 उ॰ 17)
इत्यादिना निरूपितस्वरूपैः `आबिलः' प्रतिनियतज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो यो ऽसौ `अणुः' परिमितात्मा, ततो जातात् `प्रतिबिम्बनात्' चिच्छायासंक्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वादेवंस्वभावो भवेत् इति भावः । `तादृक्' इति एवमध्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह `तस्य' इत्यादि, `तस्य' इति बौद्धस्य, `पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । `पोषणीयं' कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मयतानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् । यदाहुः
`कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥'
इति । `पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव


पं॰ 16 क॰ पु॰ पुरतो ऽवस्थितानि वेति पाठः ।
77


एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत् ॥39॥40॥
एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितुमाह
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः । tantraloka.1.41a
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ tantraloka.1.41b
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । tantraloka.1.42a
तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ tantraloka.1.42b
पशोराणवस्यापि वासनामात्रक्षयाभिधानात् `निमिताभावे नैमित्तिकस्याप्यभावः' इति न्यानेन कार्ममायीययोरपि प्रक्षयान्निवृत्तनिखिलबन्धस्य `पुंसः' अत एव प्राप्तपरमचिदैकात्म्यस्य `विकस्वरं' पराहन्ताविमर्शात्मकं `निर्विकल्पकं' कृत्त्रिमाहंकारादिविकल्पविलक्षणं


पं॰ 5 ख॰ पु॰ प्राप्तपुरस्थितिरपि पाठः ।
पं॰ 10 क॰ पु॰ पशोरावरणस्यापि इति पाठः ।
पं॰ 13 ख॰ पु॰ प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।
78


ज्ञानं पौरुषं भवति इति वाक्यार्थः । `औचित्येन' इति तद्वत्पूर्णेनात्मना इत्यर्थः । अतश्च `सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । `यस्य' इति बौद्धज्ञानस्य । `प्राग्वत्' इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णापूर्णत्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञानाज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥41॥42॥
नन्वेवंविधमज्ञानं तावदनाद्येनावस्थितम् इति नास्ति विवादः, एतदभावात्मकं ज्ञानं पुनः कदा समुदियात्, एतदभावे च किं निमित्तम् ? इत्याशङ्क्याह
तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि । tantraloka.1.43a
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ tantraloka.1.43b
यद्यप्युक्तस्वरूपं `पौंस्नमज्ञानं'



पं॰ 3 क॰ पु॰ सर्वोऽयं मम विभव इत्येवंरूपः पाठः ।
पं॰ 13 क॰ पु॰ तथापि तु शरीरान्ते इति पाठः ।
79


`दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासिनाः ।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ॥'
इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव `तथापि' `तत्' अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि
`॰॰॰ प्रारब्ध्रेकं न शोधयेत् ।'
इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् `तस्य' वर्तमानशरीरस्य `अन्ते स्फुटं व्यज्यते'
`॰॰॰देहपाते शिवं व्रजेत् ।'
इत्याद्युक्त्या साक्षात्कारात्मा स्फुरति इत्यर्थः । आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्तिपातादेः, तद्धि वीक्षायां निमित्तम् इति तद्वचनेनैवास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचिन्मुक्तौ निमित्तम् । तदुक्तं
`तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥'


पं॰ 5 क॰ पु॰ प्रारब्धं केन शोधयेदिति पाठः ।
पं॰ 10 ख॰ पु॰ तीव्रतमशक्तिपातादेव इति पाठः ।
पं॰ 11 ख॰ ग॰ पु॰ तद्वदनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।
80


इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं
`तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।'
इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न संभाव्यम्, एवं श्रुतिविरोधः स्यात् ।
`तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः ।
सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥''
इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं संगच्छतां इत्यलं बहुना ॥43॥
ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्, तत्कथं `जीवन्नेव विमुक्तो ऽससु' इत्याद्युक्तम् इत्याशङ्क्याह

बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । tantraloka.1.44a
विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ tantraloka.1.44b



पं॰ 3 क॰ पु॰ तत्क्षणादपव्यज्यत इति पाठः ।
पं॰ 6 ख॰ पु॰ संस्कारपरिपाकत इति पाठः ।
पं॰ 8 क॰ पु॰ पुनर्वाक्यक्रियेति ख॰ पु॰ पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः ।
81


`बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणाद्युद्भूतेन । तदुक्तं
`गुरुणैव यदा काले संप्रदायो निरूपितः ।
तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलं ॥'
इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणे ऽप्याधिकारः इति कुतस्तदवबोधनिमित्तको ऽपि तज्ज्ञानाविर्भावः स्यात् । तदुक्तं
`अदीक्षितानां पुरतो नोच्चारेच्छिवपद्धतिम् ।'
इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचिद्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात् -- साध्यस्यार्थस्य अत एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिलास्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारणत्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मुखमपि न तदैव मुक्तिप्रदं -- देहान्ते तदभिव्यक्तेरुक्तत्वात्, इदं पुनस्तदैव इति ततो ऽस्य प्राधान्यमपि कटाक्षितम् ॥44॥


पं॰ 5 क॰ पु॰ दीक्शाधिकारेणैवेति पाठः ।
82


न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं यावदन्यदपि इत्याह
दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका । tantraloka.1.45a
तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ tantraloka.1.45b
इह
`सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।'
इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य
`शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।'
इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः
`शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।'
इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥45॥
न चैतदस्मदुपज्ञमेव इत्याह


पं॰3 ग॰ पु॰ दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः ।
पं॰ 9 क॰ पु॰ शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।
83


ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ । tantraloka.1.46a
मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ tantraloka.1.46b
तदुक्तं श्रीस्वायम्भुवे
`अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥'
इति ।
`अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् ।
तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥
तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता ।'
इति च । श्रीरुरावपि
`यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः ।
गुरुतन्त्राद्यनुज्ञातदीक्षासिच्छिन्नसंशयाः ॥'
इति ।
`न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः ।
प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥


पं॰ 1 क॰ पु॰ ज्ञानाज्ञानकृतमिति पाठः ।
पं॰ 13 ख॰ पु॰ जयन्तीति पूर्वतनः पाठश्च दृश्यते, क॰ पु॰ मन्त्रतन्त्रविशरदा इति च पाठः ।
पं॰ 14 क॰ पु॰ दीक्षाविच्छिन्नसंशया इति पाठः ।
पं॰ 16 क॰ पु॰ न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः ।
84


सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः ।
शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥'
इति च । श्रीमतङ्गे ऽपि
`ततः स भगवानीशः स्फुरन्माणिक्यशेखरः ।
वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥
प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् ।'
इति ।
`शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥
शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् ।
अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥'
इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रहणम् । तदुक्तं तत्र
`बौद्धं व पौरुषेयं च द्विविधं तन्मलं स्मृतम् ।
तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥
बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् ।
यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥


पं॰ 1 ख॰ पु॰ सर्वे वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः पाठोऽस्ति ।
पं॰ 2 क॰ पु॰ शिवात्मकमिदं कृत्वेति पाठः ।
पं॰ 15 ख॰ पु॰ बौद्धमक्षतमिति पाठः ।
85


ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् ।'
इति । पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्यावदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य ततो ऽपि प्राधान्यमुक्तम् ॥46॥
एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात् इति तदेव मूलकारणत्वादिह प्रधानम् इत्याह
तथाविधावसायात्मबौद्धविज्ञानसम्पदे । tantraloka.1.47a
शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ tantraloka.1.47b
`संपदे' इति तां जनयितुम् इत्यर्थः । यतो `ज्ञेयस्य' नीलसुखादेः `तत्त्वं' प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयोपदेशकारित्वात्तदभिधायकम् इत्यर्थः । अत एव चास्य तदप्रदर्शकतया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम् ॥47॥


पं॰ 3 ख॰ पु॰ बौद्धमपि ज्ञानमिति पाठः ।
पं॰ 11 ग॰ पु॰ प्रधानं यञ्ज्ञेयतत्त्वप्रकाशकमिति पाठः ।
86


ननु भवत्वेवं, अत्र पुनः किं निमित्तं यत्पौंस्नाज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव इत्याशङ्क्याह
दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि । tantraloka.1.48a
धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत ॥ tantraloka.1.48b
`धीगतस्य' इति अज्ञानस्य । `विकल्पो हि' भेदप्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥48॥
ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम् इत्याशङ्क्याह
देहसद्भावपर्यन्तमात्मभावो यतो धियि । tantraloka.1.49a
देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ tantraloka.1.49b


पं॰ 2 क॰ पु॰ देहान्ते निवृत्तिरिति पाठः ।
पं॰ 6 क॰ पु॰ निवृत्तित्वादिति पाठः ।
पं॰ 9 क॰ ख॰ पु॰ सा चैवेति पाठः ।
पं॰ 13 क॰ पु॰ देवसद्भावेति पाठः ।
87


दीक्षितस्यापि हि नियतकालं बुद्धात्मग्रहो भेवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं संभवेत् इति भावः । अत एव देहान्ते बुद्धावात्मग्रहव्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं `तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥46॥
एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः इत्याह

बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । tantraloka.1.50a
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ tantraloka.1.50b
न चैतदप्रमाणकम् इत्याह `इत्युक्तम्'इत्यादि ॥50॥

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं ब्रजेत् । tantraloka.1.51a
इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ tantraloka.1.51b


पं॰ 5 क॰ पु॰ ततः शरीरान्ते इति पाठः ।
88


`इतर' इति निर्विकल्पः । `तदैव'इति देहसद्भावे इत्यर्थः । यदुक्तं तत्रैव
`विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।'
विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥
पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ।'
इति । इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति -- इति इत्यादिना, `इतिशब्धः' काकाक्षिन्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः । स च `ज्ञेयतत्त्वप्रदर्शकम्' इत्यादिना प्रागप्युक्तः ॥51॥
ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्रप्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह
ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । tantraloka.1.52a
नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ tantraloka.1.52b


पं॰ 1 ख॰ पु॰ देवसद्भावे इति पाठः ।
पं॰ 3 ख॰ पु॰ विकल्पक्षीणचित्तस्तु इति पाठः ।
पं॰ 9 क॰ पु॰ ज्ञेयतत्त्वप्रकाशकमिति पाठः ।
89


`ज्ञेयस्य' नीलादेर्नीलतैव प्रकाशमानता न तावदात्मभूता, तथात्वे हि सर्वदैव सवान्प्रति च स्यान्न तु कदाचित्किंचित्प्रति इति सर्वे ऽपि सर्वज्ञाः स्युः । अतश्च अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसंलग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसितस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्, अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव परमार्थः इत्युक्तं `प्रकाशात्मकः शिवः परं तत्त्वम्' इति । नन्वसौ स्वयमतथारूपो ऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह `नहि' इत्यादि । प्रकाशसंबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाशरूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रकाशते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामपहाय अन्यद्वस्तु संभवेत् इति भावः ॥52॥


पं॰ 1 क॰ पु॰ नीलसुखादेरिति पाठः ।
पं॰ 5 क॰ पु॰ पर्यवस्थितरूपेति पाठः ।
पं॰ 12 क॰ पु॰ प्रकाशनरूपः प्रकाशते इति पाठः ।
90


एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाशमानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्यापि इत्याह
अवस्तुतापि भावानां चमत्कारैकगोचरा । tantraloka.1.53a
यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ tantraloka.1.53b
यतो `नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्वभावात्कुड्यादिजडपदार्थविलक्षणा अत एव घटाद्यभावो ऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधात्मकशिवस्वभाव एव इत्यर्थः । तदाहुः
`अबोधो ऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।'
इति ॥53॥
ननु सिद्धे प्रकाशे भावाभावारूपस्य ज्ञेयस्य तदेकपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः इत्याशङ्क्याह


पं॰ 9 क॰ पु॰ घटाभावोपीति पाठः ।
91


प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । tantraloka.1.54a
अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥ tantraloka.1.54b
अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः
`अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा'
इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेन `अनपह्नवनीयत्वात्' इति व्यर्थं तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाशमानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्पद्यते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानुभवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति


पं॰ 11 क॰ पु॰ तदभावश्चेति पाठः ।
पं॰ 12 क॰ पु॰ एवंरूपानुभवमिति समस्तः पाठः ।
पं॰ 15 ख॰ पु॰ य एव हि प्रकाश इति पाठः ।
92


कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभासमानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सिद्धिः । स एव च `प्रकाश एव प्रकाशकः प्रमाता' इति नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्तमुक्तम् `ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।' इति ॥54॥
न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्रत्युत एषां तदधीना सिद्धिः इत्याह

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । tantraloka.1.55a
तेषामपि परो जीवः स एव परमेश्वरः ॥ tantraloka.1.55b
इह वस्तूनां नीलपीतादीनाम् प्रकाशनिरपेक्षेण स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः । नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदिनाम


पं॰ 1 ख॰ पु॰ सर्वमस्यावभासेति पाठः ।
पं॰ 14 ख॰ पु॰ नास्ति कश्चिद्विशेष इति पाठः ।
पं॰ 15 क॰ पु॰ यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव विरुद्धमिति पाठः ।
93


हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलं, तत्किमिव न विरुद्धमापतेत् । अथ यथैव यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठितं स्यात् इति न नीलं पीतं, पीतं वा नीलम्, इति चेत् -- एवं तर्ह्येषां स्वात्मनि विशेषो न कश्चिदुक्तः स्यात्, अपि तु प्रकाशते इति -- इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्रतिष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन नीलमिदं पीतमिदम् इति सिद्ध्येत् । स च नीलाद्युपरागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्यपदेश्यो भवेत् । न चास्य स्वात्मसिद्धिं प्रति अन्यदपेक्षणीयं -- प्रकाशरूपत्वात्, प्रकाशस्य च स्वपरप्रकाशकत्वात्, तथा-भूतोऽप्यसौ प्रकाशो विमर्शरूपतां विना नार्थस्य आत्मनो वा प्रकाशरूपतायां प्रतिष्ठास्पदं स्यात्, नहि प्रकाशः इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेत्, एवं हि नीलमपि न नीलम् इत्येव कृत्वा तथा स्यात् । तस्मात्स्वपरप्रकाशतासिद्धौ


पं॰ 4 क॰ पु॰ स्वात्मनि न कश्चिदर्थ इति पाठः ।
पं॰ 5 ख॰ पु॰ अपि तु प्रकाश इति पाठः ।
पं॰ 16 ख॰ पु॰ स्वप्रकाशात्मतासिद्धाविति पाठः ।
94


तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रकाशोऽभ्युपगमनीयो -- येन सर्वं सिद्ध्येत् ।
यदुक्तं
`प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।'
इति । स एव च परप्रकाशात्मा परमेश्वरः शिवः इत्युक्तं `तेषामपि परो जीवः स एव परमेश्वरः' इति ॥55॥

एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणमकिंचित्करं, यावद्बाधकमपि इत्याह
सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते । tantraloka.1.56a
ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ tantraloka.1.56b
`सर्वेषां' ज्ञातृज्ञानज्ञेयानाम् `अपह्नवो' निराकरणं तत्र `हेवाक' एव `धर्मः' स्वभावो यस्यासौ बौद्धः । तत्र त्रयाभाववादिनो माध्यमिकाः । ज्ञातृज्ञेयाभाववादिनो योगाचाराः । ज्ञात्रभाववादिनो वैभाषिकाः । सोऽपि `ह्येवं ज्ञानमात्मार्थम्' इत्येतत् मां संवेदनस्वभावत्वाद्
95

विचारयितारं प्रति नेति भासते -- नास्ति इति प्रतीतिरूपो वर्तते अवतिष्ठते इत्यर्थः, तेन आत्मादेर्निराकरणे साधने वापि अवश्यमेव साधयिता पूर्वकोटावाक्षिप्तः सिद्धः । नहि साधयितारमन्तरेण अर्थानां साध्यतैव स्यात्, स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥56॥
अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परिकल्पनम् इत्याह

अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् । tantraloka.1.57a
यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ tantraloka.1.57b
`वस्तूनां' ज्ञातृज्ञानज्ञेयात्मनाम् `आद्यम्' आद्यसिद्धत्वात् `ईदृशं' परप्रमातृरूपं `तत्र' इति आदिसिद्धे प्रमातरि । प्रमेयं खलु प्रमिण्वत्प्रमाणमुच्यते, प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं



पं॰ 1 ख॰ पु॰ नास्तीति प्रत्येति रूपेति पाठः ।
पं॰ 6 क॰ पु॰ परमार्थरूप इति वाक्यं नास्ति ।
पं॰ 7 क॰ पु॰ व्यक्तमेवेति, प्रमाणस्यापरिकल्पनमिति च पाठः ।
96


च भवति । न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाशरूपत्वान्न प्रकाशाद्भिन्नो, नापीदन्ताविमृश्यः -- अहंप्रत्यवमर्शमयत्वात्, स च यदि प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायां प्रमाता अपरेण भाव्यं, तत्राप्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमाणस्य प्रवृत्तौ काचिदुपपत्तिः । यस्तु भावनोपदेशादौ `सकृद्विभातो ऽयमात्मा प्रमाता' इत्यादिरिदन्तया व्यवहारः स न वास्तवः -- तत्र तस्य साक्षादप्रतीतेः, अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम्, एतद्धि पदे पदे वितनिष्यते । प्रमाणानुपयोगस्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुनर्वितानितः ॥58॥
न केवलमत्र युक्तिरेवास्ति यावदागमो ऽपि इत्याह
कामिके तत एवोक्तं हेतुवादविवर्जितम् । tantraloka.1.59a


पं॰ 3 ख॰ पु॰ अहंविमर्शमयत्वादिति पाठः ।
पं॰ 5 ख॰ पु॰ प्रमात्रन्तरेणेति पाठः ।
पं॰ 8 ख॰ पु॰ प्रमेत्यादिरिति पाठः ।
97


तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ tantraloka.1.59b
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः । tantraloka.1.60a
ततः इति तत्र प्रमाणानामुपपत्त्युपयोगयोरभावात्, हेतोः अनुमानस्य वादेन विवर्जितम् । अत एवाह -- तस्य इत्यादि, परस्य प्रमाणादेः, अतः इति परानपेक्षत्वलक्षणाद्धेतोः ॥59॥
एवमस्य परानपेक्षत्वाद्यथा न प्रमाणान्यवच्छेदकानि, तथा प्रमेयाण्यपि इत्याह
अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ tantraloka.1.60b
नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः । tantraloka.1.61a
वशिनः स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः ।


पं॰ 8 क॰ पु॰ परानपेक्षणाद्धेतोरिति पाठः ।
पं॰ 9 क॰ पु॰ यथा प्रमाणाद्यवच्छेदेति पाठः ।
98


अत्रापीति परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि देशकालाकारैर्भेदाभेदविकल्पोपहतत्वादवच्छेदाधानमशक्यम् इत्युक्तं -- नियता न इति । अत एव च स एवंविधः इत्याह -- विभुर्नित्यो विश्वाकृतिः इति । विभुः इति देशावच्छेदशून्यत्वात् । नित्य इति अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः इति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥60॥
एतदेव प्रपञ्चयति
विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ tantraloka.1.61b
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः । tantraloka.1.62a
अत एवास्यागमेषु नानारूपत्वमुच्यते इत्याह
ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ tantraloka.1.62b
तदेवाह


पं॰ 1 ख॰ पु॰ पेक्ष्यस्येति प्रकाशेति पाठः ।
पं॰ 5 क॰ पु॰ नित्य इति कलावच्छेदेति पाठः ।
99


भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । tantraloka.1.63a
बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ tantraloka.1.63b
भुवनं तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् । विग्रहशब्देन उपचाराद्विग्रहिणो लक्ष्यन्ते । तेषां च रुद्र-क्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसामर्थ्यादिह रुद्रादीनि कारणान्येव । ज्योतिः बिन्दुः
`कदम्बगोलकाकारः स्फुरत्तारकसन्निभः ।'
इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् । खं शून्यं -- शक्ति-व्यापिनी-समनालक्षणम् । शब्दो नादात्मा । मन्त्रः अकारोकार-मकारात्मा । अस्य विशेषणं-- बिन्दुनादादिसंभिन्नः इति । यदुक्तं
`बिन्दुर्नादस्तथा व्योम मन्त्रो भुवनविग्रहौ ।
षड्वस्त्वात्मा शिवो ध्येयः फलभेदेन साधकैः ॥'
इति । तथा


पं॰ 9 ख॰ पु॰ तारकसप्रभ इति पाठः ।
पं॰ 14 ख॰ पु॰ भुवनविग्रहे इति पाठः ।
100


`उन्मना तु परो भावः स्थूलस्तस्यापरो मतः ।
पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् ॥
शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च ।'
इति । तथा
`व्योम-विग्रह-बिन्द्वर्ण-भुवनाध्वविभेदतः ।
लक्ष्यभेदः स्मृतः षोढा ॰॰॰ ॥'
इत्यादि ॥63॥
अत्र च
`यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ।
सिद्धिभाक् ॰॰॰ ॥'
इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भवति इत्याह
यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते । tantraloka.1.64a
व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥ tantraloka.1.64b
यः साधको, यस्य भुवनादेः, आत्मकतायां तद्रूपताया, निष्ठितः, स तद्भावं -- तत्तद्भुवनादिरूपत्वेन नियतां सिद्धिमेति इत्यर्थः । तदुक्तं



पं॰ 2 ख॰ पु॰ व्योमात्मा च पुनः शून्यं संस्पर्शमिति पाठः ।
पं॰ 5 ख॰ पु॰ भुवनेष्वनिभेदत इति पाठः ।
101


`भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् ।
भुवनेशत्वमाप्नोति ॰॰॰ ॥'
इत्युपक्रम्य
`ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् ।
पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् ॥
मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् ।
पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः ॥
ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् ।
तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् ॥
शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् ।
समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥'
इति । एषां च षण्णामपि शिवात्मत्वात्
`॰॰॰ शिवं ध्यात्वा तु तन्मयः ।'
इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवात्मकस्वस्वरूपलाभो भवेत् इत्याह व्योमादिशब्दविज्ञानात् इत्यादि । व्योमादीनाम् एषां षण्णां शब्दानां शब्दनं शब्दः -- परो विमर्शः, तदात्मकतया


पं॰ 8 क॰ पु॰ ज्योतिर्ध्यानाच्चेति पाठः ।
पं॰ 9 क॰ पु॰ अधिको भवेदिति पाठः ।
पं॰ 10 क॰ पु॰ सर्वगतो भवेदिति पाठः ।
पं॰ 14 क॰ पु॰ शिवैकानुप्रवेश इति इयानेव पाठः ।
पं॰ 17 क॰ पु॰ शब्दः परविमर्शेति समस्तः पाठः ।
102


यत् विज्ञानम् -- अनुभवः, तस्मात् परो -- विमर्शैकसारशिवैकात्म्यापत्तिलक्षणो, मोक्षो निःसंशयं भवेत् इति वाक्यार्थः । व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात् इति व्याख्येयम् । न च अत्र भुवनादीनां क्रमो विवक्षितः इतीह व्योमादि इति प्रयुक्तम् ॥64॥
ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षडविधत्वमेवोक्तम् इत्याशङ्क्याह
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । tantraloka.1.65a
अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च ॥ tantraloka.1.65b
उपलक्षणम् एव भवति, अनेनैव निखिलविश्वसंग्रहसिद्धेः । न केवलमेतद्विश्वाकारतायामेवास्योपलक्षणं यावदन्यत्रापि इत्याह -- अनवच्छिन्नतारूढौ


पं॰ 4 क॰ पु॰ अनवच्छिन्नादिति ज्ञानशब्दविहीनः पाठः ।
पं॰ 13 ख॰ पु॰ उपलक्षणमिव इति पाठः ।
पं॰ 15 क॰ पु॰ एवोपलक्षणं यावदत्रापीति पाठः ।
103


इत्यादि । अवच्छेदलये इति अवच्छेदानां संकोचाधायिनां भुवनादीनां लये विश्वोत्तीर्णतायाम् इत्यर्थः । विश्वमयत्वे ऽप्यस्य स्वस्वरूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत् इत्याशङ्क्योक्तम् अनवच्छिन्नतारूढाविति । अस्य हि विश्वमयत्वे ऽपि विश्वोत्तीर्णत्वादनवच्छिन्नतायामेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोधस्तथा तथा प्रस्फुरेत् इति ॥65॥
ननु कथमेकदैव एकस्य विश्वमयत्वे ऽपि विश्वोत्तीर्णत्वं संगच्छते इत्याशङ्क्याशान्त्यर्थमागमं संवादयति
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । tantraloka.1.66a
जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥ tantraloka.1.66b
दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पणादिव्यतिरेकेण


पं॰ 17 क॰ पु॰ दर्पणान्तः इति आदिशब्दहीनः ख॰ पु॰ दर्पणातिरेकेणेति च पाठः ।
104


प्रकाशमानमपि दर्पणाद्यनतिरिक्तमेव, अन्यथा दर्पणघटयोरन्योयं वैविक्त्येन भानं स्यात्, तथैव प्रकाशात्मा शिवेनापि स्थावरजङ्गमात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्तायमानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्यथानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्. अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवोक्तं -- सर्वाकृतिर्निराaकृतिरिति । सर्वाकृतिः विश्वमयः, निराकृतिः विश्वोत्तीर्णः । आवृत्या तत्त्वे ऽपि तदुत्तीर्णः -- इति च । तदेवमयमेक एव प्रकाशात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव परमार्थतः ॥66॥
ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया


पं॰ 1 ख॰ पु॰ दर्पणानतिरिक्तमिति पाठः ।
पं॰ 3 क॰ पु॰ तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः ।
पं॰ 4 ग॰ पु॰ इदं जगत् स्वेच्छयेति पाठः ।
पं॰ 5 क॰ पु॰ अवसितमिति पाठः ।
पं॰ 6 क॰ पु॰ स्वरूपानतिरिक्तत्वेनैवेति पाठः ।
पं॰ 13 क॰ पु॰ परमार्थ इति पाठः ।
105


प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् । यत्पुनर्विभुत्वादि धर्मजातम् तस्योक्तं, तदपेक्षया धर्मधर्मिणोर्धर्माणां च परस्परं भेदस्य अनपह्नवनीयत्वाद् योऽयं भेद उल्लसितः स कथं वार्यते येन एक एवेश्वरः इत्यद्वयवादनिर्वाहः स्यात् इत्याशङ्क्याह
न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते । tantraloka.1.67a
न च विभुताद्यो ऽयं अस्य स्वरूपातिरिक्तस्तदतिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् । विभुत्वं हि व्यापकत्वमुचुयते, तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि किंचित्संभवेत् इति किं नाम व्याप्नुयात् । नित्यत्वमपि नास्य धर्मः -- तस्य कालत्रयानुगामिरूपत्वात्, अस्य चाकालकलितत्वात् । यदभिप्रायेणैव `सकृद्विभातो ऽयमात्मा' इत्याद्युक्तम् । एवं विश्वाकृतित्वमपि ।


पं॰ 3 ख॰ पु॰ परस्परस्य भेदस्येति पाठः ।
पं॰ 5 क॰ पु॰ निर्वाह इत्याशङ्क्येति पाठः ।
पं॰ 6 ख॰ पु॰ अतिरिक्ताधिशायक इति पाठः ।
पं॰ 13 क॰ पु॰ नित्यत्वमस्य नापि धर्मः तत्र कालत्रयानुगामित्वादस्येति पाठः ।
106


नहि एतदपेक्षया विश्वं नाम किंचिदस्ति, यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशापेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति इत्युक्तं -- न चान्योयं विभिद्यते इति ॥
ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः इत्यादिधर्मभेदः उक्तः इत्याशङ्क्याह

एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥ tantraloka.1.67b
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो 1 विधिः । tantraloka.1.68a
अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादिधर्मजातमाक्षिपेत् । अत्रायमर्थः -- अयं हि नाम प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य


1 तात्त्विक इत्यर्थः ।


पं॰ 2 क॰ पु॰ कारत्वमस्य इति अपिशब्दहीनः पाठः ।
पं॰ 10 क॰ पु॰ अञ्जसो विधिरिति पाठः ।
पं॰ 12 क॰ पु॰ सर्वविभुत्वादिधर्मेति पाठः ।
पं॰ 13 क॰ पु॰ अहं हि नाम प्रकाशस्य विमर्श इति पाठः ।
107


स्वातन्त्र्यरूपं तत्तद्देशकालाद्यभाससहस्रोल्लासनसामर्थ्यं स्यात्, येनास्य स्वसमुल्लासितोऽपि संकुचितः प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यवहरेत्, वस्तुतः पुनरप्यहंप्रत्यवमर्शाख्या स्वातन्त्र्यशक्तिरेवास्यास्ति येन
`स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ।'(प्र॰ 1 अ॰ 5 आ॰ 13 श्लो॰)
इत्याद्युक्तम् । अत एवाह तेन इत्यादि ॥67॥
ननु सर्वत्रैवास्य इच्छाद्यनन्तशक्तियोगित्वमुक्तमिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग उच्यते ? इत्याशङ्क्याह
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥ tantraloka.1.68b
स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्नानात्वेन व्यवह्रियते इति तच्छक्तियोगितैवास्यानन्तशक्तित्वम् । यदुक्तम्



पं॰ 1 ख॰ पु॰ कालाद्याभासेनेति पाठः ।
पं॰ 13 क॰ पु॰ तत्तदीषणाद्युपाधीति पाठः ।
108


`या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छात्वं तस्य स देवि सिसृक्षोः प्रतिपद्यते ॥
एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।'
इत्याद्युपक्रम्य
`एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् ।
अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी ॥'
इति ॥68॥
ननु एवमपीश्वराद्वयवादो न निर्व्यूढस्तदतिरिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानात् इत्याशंक्याह
शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । tantraloka.1.69a
तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ tantraloka.1.69b
यतो भावस्य यस्य कस्यचन सतः पदार्थस्य स्वमेव रूपं फलभेदात् भेदारोपेण शक्तिः इति



पं॰ 3 क॰ पु॰ सैकापि सत्यनन्तत्वमिति पाठः ।
पं॰ 5 क॰ पु॰ अनेकतामिति पाठः ।
पं॰ 6 क॰ पु॰ इवैश्वरी इति पाठः ।
पं॰ 15 क॰ पु॰ भावस्य कस्यचन इति यस्येति पदविहीनः पाठः ।
109


प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं किंचित्, अतः शक्तिशक्तिमत्परिकल्पने ऽपि क्रियमाणे, स एव अद्वयमयो विभुः -- न काचिदद्वयखण्डना इति यावत् । तदुक्तं
`फलभेदादारोपितभेदः पदार्थात्मा शक्तिः'
इति ॥69॥
नन्वेवमस्तु, यन्न शक्तिशक्तिमतोर्भेद इति, शक्तीनां पुनः परस्परं भेद एव भवति इति पुनः स दोषस्तदवस्थ एव इत्याशङ्क्याह
मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम् । tantraloka.1.70a
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥ tantraloka.1.70b
यथा वह्नेः दाह-पाकादिफलभेदाद् दाहिका पाचिका च शक्तिर्भेदेन कल्पितापि, वस्तुतः शक्तिमदेकस्वभावत्वान्न


पं॰ 1 ख॰ पु॰ परिकल्पते इति, क॰ पु॰ पदान्तरमिति पाठः ।
पं॰ 5 क॰ पु॰ फलाभेदारोपितभेद इति पाठः ।
पं॰ 8 क॰ पु॰ एव भवति शक्तीनां पुनरिति पाठः ।
110


परस्परस्य स्वरूपं भेत्तुममलम् । पृथक्सिद्धं हि वस्तु वस्त्वन्तं भिनत्ति, नहि शक्तेः शक्तिमदतिरेकेण पृथक्सिद्धिरेवास्ति इति किं केन भेद्यं, वह्नेरेव हि दाहादिसमर्थं स्वरूपं तथा परिकल्पितम् । एवं परमेश्वरस्य परिकल्पिते ऽपि शक्तीनामानन्त्ये न कश्चिद्भेदः इति न कदाचिदीश्वराद्वयवादक्षतिः ॥70॥
ननु एवं-परिकल्पितोऽपि शक्तीनां भेदो भासत एव इति कथं तदपह्नवः इत्याशंक्याह
न चासौ परमार्थेन न किंचिद्भासनादृते । tantraloka.1.71a
नह्यस्ति किंचित्तच्छक्तितद्वद्भेदोऽपि वास्तवः ॥ tantraloka.1.71b
भानमन्तरेण अन्यत्किंचिन्नास्ति इत्यसौ भेदोऽपि भासमानत्वाद्वस्तुतो न न किंचित्, अपि तु


पं॰ 2 ख॰ पु॰ भिनत्ति न शक्तिः शक्तिमदित्यादिः पाठः ।
पं॰ 6 क॰ पु॰ किंचिद्भेद इति पाठः ।
पं॰ 8 क॰ पु॰ भेद एव भासत इति पाठः ।
पं॰ 9 क॰ पु॰ कथमपह्नव इति तत्पदहीनः पाठः ।
पं॰ 14 क॰ पु॰ अन्तरेण यत्किंचिन्नास्ति इति पाठः ।
111



परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदो ऽपि पारमार्थिक एव इति वाक्यार्थः । एवं भेदस्य भानैकस्वभावत्वान्न ततोऽतिरेकः इति नाद्वयवादक्षतिः, नापि शक्तीनां, तद्वतश्च भेदेन स्थितस्य व्यवहारस्यापह्नवः इति सर्वं सुस्थम् ॥71॥
ननु परमेश्वरस्य स्वातन्त्राख्या शक्तिरेकैवास्ति इत्युक्तम्, इच्छादयस्तु किं तद्विस्फूर्जितमात्रम्, उत स्वतन्त्राणि शक्त्यन्तराणि ? इत्याशङ्क्याह

स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् । tantraloka.1.72a
शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥ tantraloka.1.72b
यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्न्यादेः वस्तुनः -- स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनिमित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्यलक्षणायाः शक्तेः उद्रेको दाहपाकादिविशेषरूपशक्त्यन्तरात्मतयोच्छलनं


पं॰ 4 ख॰ पु॰ व्यवहारस्यानपह्नव इति पाठः ।
पं॰ 11 क॰ पु॰ देवीयं भात्यपीति पाठः ।
112


तस्य जनकम् अवभासकं, तदपि तादात्म्यात् एवं-विधस्वशक्त्येकरूपत्वाद्यथोक्तरूपा स्वैव शक्तिः इति संबन्धः । समर्थो हि वह्निः सर्वं दाहादिकार्यजातं कुर्यात् इत्यभिप्रायः । एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयावभासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशाभिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव इति युक्तमुक्तम् -- `एक एवास्य धर्मो ऽसौ सर्वाक्षेपेण वर्तते ।' इति । एवमेकैवास्य स्वातन्त्र्याख्या शक्तिस्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् ॥72॥
न केवलं शक्तिरेवास्यैवंकल्पितेन भेदेनावभासते यावत्स्वयमपीत्याह
शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते । tantraloka.1.73a


पं॰ 5 क॰ पु॰ रूपतयावभासनापीति पाठः ।
पं॰ 9 क॰ पु॰ शक्तिस्तथा सृष्टेनेति द्वितीयतथापदहीनः पाठः ।
पं॰ 10 ग॰ पु॰ भेदेन भातीति इति पाठः ।
पं॰ 11 ख॰ पु॰ न केवलमस्य शक्तिरेवंकल्पितेनेति पाठः ।
113


स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥ tantraloka.1.73b
शिवश्च स्वा संकुचिता संवित् लक्षणं यस्यासौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः तस्मिन् भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्यमानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापादित इव अवभासते, न चैवमप्यसौ प्रमात्रेकरूपत्वात् तथा भवति इत्युक्तम् -- अलुप्तविभव इति अपरिहृतप्रमातृभावः इत्यर्थः । तदुक्तं
`स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥'(ई॰ प्र॰ 1-5-16)
इति ॥73॥
एतदेवोपसंहरति
तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा । tantraloka.1.74a


पं॰ 4 क॰ ग॰ पु॰ परिनिष्ठितप्रभावः प्रमाता इति पाठः ।
पं॰ 9 ग॰ पु॰ अविलुप्तविभव इति अपरित्याजितप्रमातृभाव इति पाठः ।
पं॰ 11 `स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।' इत्येवं विधः पाठो मूलग्रन्थे ऽस्ति ।
114


शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥ tantraloka.1.74b
तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन भेदेन अवभासनोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रैकरूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांशलक्षणेन मुखेन भावनादौ भासते तत् मुखं
` ॰॰॰ शैवी मुखमिहोच्यते ।'
इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव, नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते वा । अतश्च शक्तिशक्तिमतोरुपायोपेयभावात्मा क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः इत्यर्थः ॥74॥
अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र आगमेषु उद्धोष्यते इत्याह


पं॰ 4 क॰ पु॰ प्रकाशमात्ररूपत्वात् इति पाठः ।
पं॰ 9 ख॰ पु॰ उपायान्तरमप्युपपद्यते इति पाथः ।
पं॰ 13 ख॰ पु॰ अत एव चानयोरिति पाठः ।
115


श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । tantraloka.1.75a
अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥ tantraloka.1.75b
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । tantraloka.1.76a
तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति वाक्यशेषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्यादिना । तत्र गरुडेन
`शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः ।
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥'
इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति पृष्टे, भगवता
`माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः ।
मायाधर्मैः शिवः शून्यः ॰॰॰ ॥'
इत्यादिना
`अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् ।
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ॥'


पं॰ 18 ख॰ पु॰ अनुभवेन किम् इत्येवंविधः पाठः ।
116


इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि मानसप्रत्यक्षविषयत्वात् किंचित्त्वेन प्रतिसमाहितम् । एतच्च पुनरप्यागूर्य गरुडेन
`अनुभावो विकल्पोत्थो विकल्पो(*) मानसः स च ।
समनस्कं च तज्ज्ञेयममनस्कमरूपकम् ॥
अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ ।
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥'
इत्यादिना पृष्टम् । एतत्प्रश्नार्थ एव ग्रन्थकृता संक्षेपचिकीर्षया स्ववचसोपनिबद्धः । अत्रायमर्थः -- यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्षविषयत्वमुक्तं तत्र मानसोऽनुभवः
`संकल्पकमत्र मनः ॰॰॰ ।



* तदिति मानसविकल्पनं समनस्कं, शिवतत्त्वं पुनरमनस्कमरूपकं च, अर्थ इति दीक्षादिः प्रवर्तते इत्यर्थः ।
पं॰ 10 बुभुक्षादि हि चक्षुरादिप्रत्यक्षागोचरमपि मनोगोचरतामेति तद्वदिहापि ।


पं॰ 3 क॰ पु॰ पुनरागूर्येति पाठः ।
पं॰ 6 ग॰ पु॰ दैशिकस्तत्रेति पाठः ।
117


इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य चार्थासंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत् इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत एव `गुरौ ज्ञानम्' इत्याद्युक्तम् । इति शब्दः प्रश्नसमाप्तौ । अत्र इति गरुडोक्ते प्रश्ने । उत्तरम् इति भगवदुक्तं प्रतिसमाधानम् ॥75॥
तदेवाह
क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥ tantraloka.1.76b
न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो बुभुक्षादीनां विकल्पात्मक एव मानसो ऽनुभवो न भवति इत्यर्थः । आसां हि प्रथममविकल्पकमानसप्रत्यक्षविषयत्वमप्यस्ति,


पं॰ 4 क॰ पु॰ अज्ञापितेऽपि शिवतत्त्वे इति, ख॰ पु॰ अविज्ञाते इति पाठः ।
118


अन्यथा तत्पृष्ठभाविनो बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सविकल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः, तस्य वस्त्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे
`क्षुधाद्यनुभवो यत्र विकल्पस्तत्र(*) नो भवेत् ।
वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः ।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तविवर्जितः ॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया ।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥'
इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचारेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्



* यदुक्तं, तस्य चार्थासंस्पर्शित्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्त्वाश्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्त्वाश्रय इति हेतुत्वेनोक्तः, यदि वस्त्वाश्रयत्वं तर्हि घटवत् किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम्, तत्र हेतुः विकल्पो इत्यादि ।


पं॰ 3 ख॰ पु॰ मानसप्रत्यक्षगोचरत्वे इति पाठः ।
पं॰ 5 क॰ पु॰ मानसगोचरो भवेत् इति पाठः ।
पं॰ 13 क॰ ग॰ पु॰ यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।
119


इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् । अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया दीक्ष्यं योजयति इति न काचित्क्षतिः ॥76॥
ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति -- नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरीभावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह
रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् । tantraloka.1.77a
विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥ tantraloka.1.77b
विकल्पः अत्र निविकल्पकपृष्ठभावी ग्राह्यः । तेन स 1 तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव गृह्णाति न रसाद्यात्मनापि नियतत्वात् 2तद् 3ग्रहणस्य,



(1) स, विकल्पः ।
(2) रसस्य हि जिह्वेन्दियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ।
(3) रसरूपादेरित्यर्थः ।


पं॰ 1 ख॰ पु॰ अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः ।
पं॰ 6 क॰ पु॰ नियताभिनिवेशित्वादिति पाठः ।
120


नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत् नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव भवति इति सिद्धान्तः । तदुक्तं तत्रैव
`प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते ।
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥
गृह्यते तत्त्वभावेन वस्तुभावविवर्जनात् ।'
इति । तथा
`बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः ।
चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥
अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः ।
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥'
इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः इति सिद्धम् । सा च भुवनादिरूपतया अनन्तप्रकारा इत्युक्तप्रायम् ॥77॥
एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं परमेश्वरस्य शक्तिस्फार एव इत्याह


पं॰ 17 क॰ पु॰ जाग्रदवस्थादि इति पाठः ।
121


बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । tantraloka.1.78a
कलातत्त्वपुरार्णा 1णु 2पदादिर्भेदविस्तरः ॥ tantraloka.1.78b
सृष्टिस्थितितिरोधानसंहारानुग्रहादि च । tantraloka.1.79a
तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥ tantraloka.1.79b
जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि । tantraloka.1.80a
तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥ tantraloka.1.80b
महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः । tantraloka.1.81a
अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥ tantraloka.1.81b


(1) अर्णः वर्णाध्वा, (2) अणुः मन्त्राध्वा ।


पं॰ 7 ग॰ पु॰ उक्तमित्यपीति पाठः ।
पं॰ 9 ख॰ पु॰ सुषुप्तानि तदतीतानीति पाठः ।
122


पदादि इति आदिशब्देन भूतभावग्रहणम् । सृष्टिस्थिति इत्यनेन कृत्यभेद उक्तः । तुर्यमित्यन्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् । अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतं, तेन स्थितौ संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैतत्स्यात्, अन्यत्तुर्यं, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद उक्तः । अकलौ इति विज्ञानाकलप्रलयाकलौ । अनेन प्रमातृभेदः ॥78॥79॥80॥81॥
तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगतश्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया वर्तते इत्याह
तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । tantraloka.1.82a
आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥ tantraloka.1.82b


पं॰ 2 क॰ पु॰ इत्यन्यशब्दवाच्यमिति पाठः ।
पं॰ 4 क॰ पु॰ चतुष्टयस्याप्यासूत्रणमिति पाठः ।
पं॰ 10 ख॰ पु॰ परामात्मा शिव इति पाठः ।
पं॰ 12 क॰ पु॰ तत्त्वग्रामस्य शार्वस्येति पाठः ।
123


द्विविधो हि धर्मः पदार्थस्य -- प्राणप्रदो विशेषाधानहेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्लादिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः इस्युक्तम् । हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याशङ्क्योक्तम् `इत्युक्तं त्रिशिरोमत' इति ॥82॥

तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह
हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । tantraloka.1.83a
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ tantraloka.1.83b
समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थवृत्तिः ।
`कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।'
इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्यो देहे


पं॰ 14 क॰ पु॰ ग्रामशब्दो ऽपि इति पाठः ।
124


चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं, तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् अपरिच्छेद्यम् ॥83॥
तत्त्वग्रामस्य चास्य न संकुचित आत्मा धर्मः, अपि तु परः इत्याह
आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । tantraloka.1.84a
शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः इत्यर्थः । सर्वं स एव परमुपेयः इति तत्रैवावधातव्यम् इत्यपि सूचितम् ।
कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत् इत्याह


पं॰ 4 ख॰ पु॰ ऐकात्म्येन स्फुरदिति पाठः ।
पं॰ 10 ख॰ पु॰ शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।
125


प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ tantraloka.1.84b
स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । tantraloka.1.85a
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ tantraloka.1.85b
ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति । tantraloka.1.86a
आदिशब्दाद्भावोऽपि, तेन भावाभावयोः भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः स्थाने स्थितौ वर्तनं ज्ञेयं -- ग्रामधर्मविषये वृत्तिर्ज्ञातव्या इत्यर्थः । इदमत्र तात्पर्यम् -- भावद्वयस्य भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव


पं॰ 10 क॰ पु॰ तदवलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।
126


सावधानस्य परमोपेये शिवामृतपरिप्लुते परमात्मनि वृत्तिर्जायते इति । तदुक्तं
`उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥
भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥'
इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् । तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं ज्ञेयम्, तच्च विगतावृति विगता निवृत्ता भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्. बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च विगता परापरात्मना कालेन रहिता कलनात्मिका आवृतिः यस्य तत्, अकालकलितम् इत्यर्थः । तदुक्तं
`अपरः षोडशो यावत्कालः सप्रदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥
प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।'


पं॰ 1 क॰ पु॰ भावेन्यक्ते परमे शिवेति पाठः ।
पं॰ 5 ख॰ पु॰ भावे न्यक्ते निरुद्धा चेदिति पाठः ।
127


इति । तथा विगता पदैकादशकात्मिका आवृतिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्माद्याकारोज्झितम् इति यावत् । यदुक्तं
`पदैकादशिका सा च प्राणे चरति नित्यशः ।
अकारश्च उकारश्च मकारो बिन्धुरेव च ॥
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ।
शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥'
इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थसाक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं
`उन्मना तु ततो ऽतीता तदतीतं निरामयम् ।'
इति । अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं, तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्यापत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः
`भैरवाद्भैरवीं प्राप्तः ॰॰॰ ।'


पं॰ 16 क॰ ख॰ पु॰ भैरवीप्राप्त इत्युक्तेरिति पाठः ।
128


इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्येयमुक्तिः । तदुक्तं तत्र
`चतुर्थं संप्रवक्ष्यामि ग्रामधर्मविभेदतः ।'
इत्याद्युपक्रम्य
`हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥
आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते ।
वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते ।
प्रबद्धं तद्विजातीयाद्बाह्यावरणवर्जितम् ।
परापरविनिर्मुक्तमेकादशपदोज्झितम् ॥
स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥
ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।'
इति । एतदेव च
`अथ वा शिवमन्विच्छेत्साधकः परतत्त्ववित् ।'
इत्यादि
`स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।'


पं॰ 6 ग॰ पु॰ सामूह्यं सर्वतत्त्वानामिति पाठः ।
पं॰ 7 क॰ पु॰ आत्मैव धर्म इत्युक्तो ग्रामो धर्म इति पाठः ।
129


इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षेप्तुकामो ग्रन्थकारः स्वोक्त्या योजयति `तस्य सर्वं प्रसिद्ध्यति' इति -- तस्य ग्रामधर्मवृत्तेः प्राणापानगतित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामरस्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदमयत्वेन सिद्ध्यति प्रथते इत्यर्थः । तदुक्तं
`शिवभावनयौषध्या बद्धे मनसि संसृते ।
काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ॥'
इति ॥84॥85॥
अत आह
ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥ tantraloka.1.86b
ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोटयित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनीडीं प्रविशेत् । स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या


पं॰ 6 क॰ पु॰ प्रसिद्ध्यतीति पाठः ।
130


देशः अन्तर्व्योमरूपा एकदेशस्तं गच्छति जानाति यः सः -- तदेकतानतया तन्निष्ठः इति यावत् । तदुक्तं
`मध्यनाडी मद्यसंस्थबिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥'
इति । अत एवोक्तं रामस्थः इति
`॰॰॰ एकाकी न रमाम्यहम् ।'
इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्यात्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे
`सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः ।
ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥'
तत्रैवागूरणेन 1 भगवता
`रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो ।
तस्याभ्यासः कथं नाम ब्रूहि सर्वं महेश्वर ॥'


1 आगूरणमाक्षेपः


पं॰ 4 ख॰ पु॰ बिससूत्राभसूत्रयेति पाठः ।
पं॰ 14 क॰ पु॰ यत्रस्थः स च क इति पाठः ।
131


इति पृष्टे, भगवता
`रामस्थं परमेशानि योगं यत्कीर्तितं मया ।
कथयामि यथातथ्यमभ्यासस्तस्य योगतः ॥'
इत्यनेन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम् ॥86॥
इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति
गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे । tantraloka.1.87a
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ tantraloka.1.87b
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः । tantraloka.1.88a
एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥ tantraloka.1.88b
स्वप्नः विकल्पः, जाग्रत् ज्ञानं, उन्मेषणम् ईश्वरदशा, निमेषणं सदाशिवदशा, आयासः `अय गतौ' गत्यर्थो ज्ञानार्थः तेन अयः अयनं ज्ञानं तस्यासः क्षेपो निवृत्तिः -- अज्ञानम् इत्यर्थः । धर्माद्या -- अष्टौ
132

बुद्धिधर्माः, संज्ञाः -- यादृछिका डित्थादयः, कर्मणि -- व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकलविश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष रामः -- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तं `व्यापको ऽत्र शिवः परमकारणम्' इति, अत्र इति गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं
`विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः ।
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥'
इति ॥87॥88॥
कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति इत्याह
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । tantraloka.1.89a
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ tantraloka.1.89b


पं॰ 6 क॰ पु॰ शिवस्यैव हृदयमशेषेति पाठः ।
पं॰ 15 क॰ पु॰ ध्यायते सकलं ध्येयमिति पाठः ।
133


परं शिवं तु व्रजति भैरवाख्यं जपादपि । tantraloka.1.90a
येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो यस्य तेन
`सर्वो विकल्पः स्मृतिः ॰॰॰'
इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीरमुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम् -- आकाराद्युल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नियताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परमकारणं ध्यायते स्वात्माभेदेन परामृशति । यदुक्तं
`ध्यानं या बुद्धिर्निराकारा निराश्रया ।
न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥'
इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च अगतिः स्थानं. ताभ्यामुपलक्षिते पदे समनन्तरोक्ते


पं॰ 4 क॰ पु॰ मनो मतिरिति विमर्शात्मेति पाठः ।
पं॰ 12 ख॰ ग॰ पु॰ निश्चला चिन्ता इति पाठः ।
पं॰ 13 क॰ पु॰ मुखचिन्तादिकल्पना इति पाठः ।
134


चतुर्दशविधे आश्रये स्थितम्, अत एव परं पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति-- तत्समावेशमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं व्रजति यावज्जपादपि इत्युक्तं -- जपादपि इति ॥89॥
कोऽसौ जपो नाम इत्याशङ्क्याह
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥ tantraloka.1.90b
तस्य शिवस्य, स्वरूपं परावाक्स्वभावम् आत्मरूपम् अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव भावाभावपदच्युतः -- पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवित्परामर्शमात्रसारः इत्यर्थः । तदुक्तं
`भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥'


पं॰ 1 ग॰ परिपूर्णमिति पाठः ।
पं॰ 6 ख॰ पु॰ तत्स्वरूपो जपः प्रोक्त इति पाठः ।
पं॰ 7 ख॰ पु॰ पदाच्युत इति, पदाच्च्युत इति पाठान्तरं चास्ति ।
पं॰ 11 क॰ पु॰ परामर्शसार इति पाठः ।
पं॰ 12 ग॰ पु॰ परे तत्त्वे इति पाठः । क॰ पु॰ साध्यते हि या इति पाठः ।
पं॰ 14 क॰ पु॰ जप ईदृश इति पाठः ।
135


इति । एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात् । तदुक्तं श्रीत्रिशिरोभैरवे
`गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा ।
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः ।
एतच्चतुर्दशाविधं रामं तु परिकीर्तितम् ॥
व्यापितं देवदेवेन शिवेन परमात्मना ।
सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥
परं शिवं तु व्रजति भैरवाख्यं जपादपि ।
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥'
इति ॥90॥
ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकारध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यजप्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्शमात्रमेवोभयो रूपम् इति किमेतद् इत्याशङ्क्याह


पं॰ 1 क॰ पु॰ रामस्येति पाठः ।
पं॰ 12 क॰ पु॰ तत्स्वरूपो जप इति पाठः ।
पं॰ 14 क॰ पु॰ व्यतिरिक्ताकारध्येयेति पाठः ।
136


तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । tantraloka.1.91a
दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥ tantraloka.1.91b
इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रकाशात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उपदेश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एवमपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् -- उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥91॥

एतदेवोपसंहरति
एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् । tantraloka.1.92a
केन नाम न रूपेण भासते परमेश्वरः ॥ tantraloka.1.92b


पं॰ 5 क॰ पु॰ इह अहंपरामर्शमात्रसारत्वादिति पाठः ।
137


रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥92॥
अत एवाह
निरावरणमाभाति भात्यावृतनिजात्मकः । tantraloka.1.93a
आवृतानावृतो भाति बहुधा भेदसंगमात् ॥ tantraloka.1.93b
इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । tantraloka.1.94a
इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥ tantraloka.1.94b
निरावरणम् इति शुद्धप्रकाशमयत्वात्, आवृत इति भेदकालुष्योदयात्, आवृतानावृतः इति शुद्धज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात्, अत एव परापरपरापरत्वं, बहुधा इति एषणीयादिनानात्वात् अनेकप्रकारम् इत्यर्थः । निरावरणत्वे ऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् ।


पं॰ 6 क॰ ख॰ पु॰ भेदसंगम इति पाठः ।
पं॰ 14 क॰ पु॰ एषणीयत्वादिनानात्वादिति पाठः ।
138


इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अवभासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं गुरुभिः एतच्छास्त्रावतारकैः इच्छादिसंज्ञादिभिः परमेश्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभिधानमेव इति `बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता' इति निर्वाहितम् ॥93॥94॥
बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्तिनिमित्तम् इत्याह
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । tantraloka.1.95a
महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥ tantraloka.1.95b
अन्वर्थैः व्युत्पन्नैः निरुक्तैः, शास्त्रोक्तैः सामयिकैः ॥95॥

तदेवाह
विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते । tantraloka.1.96a


पं॰ 1 ख॰ पु॰ एतदेवाभासमानमिति पाठः ।
139


सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥ tantraloka.1.96b
संसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः । tantraloka.1.97a
प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥ tantraloka.1.97b
नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च । tantraloka.1.98a
कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥ tantraloka.1.98b
संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । tantraloka.1.99a
अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥ tantraloka.1.99b
तस्य स्वामी संसारवृत्तिविघटनमहाभीमः । tantraloka.1.100a


पं॰ 1 क॰ पु॰ स्वविमर्शतयेति पाठः ।
पं॰ 14 ख॰ ग॰ पु॰ भूचर्यादिकगणस्यापीति पाठः ।
140


बिभर्ति -- धारयति पोषयति च स्वात्मभित्तिसंलग्नत्वेन तदुल्लासनात् । तेन इति विश्वेन, भ्रियते इति धार्यते पोष्यते च -- तस्य विश्वमयत्वेनैव सर्वत्र स्फुरणात् । रवरूपतः इति शब्दनस्वाभाव्यात्, तेन भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः । भीरूणाम् अयं हितकृत् इति भैरवः, भीरुत्वे च निमित्तं संसारः तेन संसारिणामभयप्रदः इत्यर्थः । भयं भीः संसारत्रासः, तया जनितो योऽसौ रवः भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः इति भैरवः, तेनाक्रन्दवतां परामर्शवतां च हृदि परमार्थभूमौ स्फुरितः इति यावत् । भवाद्भयं भीस्तस्य रवो विवेचनं विमर्शनं तस्य शक्तिपातमुखेन अयं कारणम् इति भैरवः, संसारवैमुख्येऽपि अयमेव निमित्तम् इति भावः । भानि नक्षत्राणि ईरयति प्रेरयति इति भेरः कालः तस्य तत्त्वं क्षणाद्यात्मकं स्वरूपं, तस्य सम्यङ् निःशेषेण



पं॰ 2 क॰ ख॰ पु॰ तदुल्लासादिति पाठः ।
पं॰ 5 ख॰ पु॰ निरुक्तिरिति पाठः ।
141


शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति इति भेरवाः -- कालग्राससमाधिरूढावधाना योगिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुजनस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्रमातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्यादिको गुणः खेचरी-गोचरी-दिक्चरी-भूचर्यो भीरवास्तासामयं स्वामी भैरवः । महाभीम इति भीषणः, तेनात्र भैरवशब्दः संकेतितः इति भावः ॥96॥97॥98॥99॥

एतदेवोपसंहरति

भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥ tantraloka.1.100b


पं॰ 1 क॰ पु॰ वाहयन्ति इति भैरवा इति पाठः ।
पं॰ 2 क॰ समधिरूढावधाना इति, ख॰ पु॰ समारूढा, इति पाठान्तरोपेतश्च पाठः ।
पं॰ 3 क॰ पु॰ अयं स्वरूपीति पाठः ।
142


गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः समनन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्थादुक्तः । अथ च अन्वर्थैः सम्यक् सकलजगद्भरणादिसामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तं
`भ्रियात्सर्वं रवयति सर्वदो व्यापको ऽखिले ।
इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥'
इति । तथा
`॰॰॰ भरणाद्भरितस्थितिः ।'
इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु श्रेष्ठः पाठः ॥100॥
हेयेत्यादिना देवशब्दस्य निर्वचनमाह
हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् । tantraloka.1.101a


पं॰ 4 क॰ पु॰ असौ चान्वर्थैः सकलजगद्भरणादिति पाठः ।
पं॰ 6 ख॰ पु॰ रचयतीति पाठः ।
पं॰ 7 ख॰ पु॰ समन्ततोच्चारणाच्छिव इति पाठः ।
पं॰ 11 ख॰ पु॰ स्पष्टः पाठः इति ।
पं॰ 14 ख॰ पु॰ स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।
143


क्रीडा सर्वोत्कर्षेण वर्तनेच्छा तथा स्वतन्त्रत्वम् ॥ tantraloka.1.101b
व्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन संजल्पः । tantraloka.1.102a
निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥ tantraloka.1.102b
तत्प्रवणमात्मलाभात्प्रभृति समस्तेऽपि कर्तव्ये । tantraloka.1.103a
बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥ tantraloka.1.103b
स्वस्वातन्त्र्यमाहात्म्यात् शिवादिक्षित्यन्ताशेषविश्वात्मनोल्लासनमेव अस्य क्रीडा सर्वोत्कर्षेण वर्तनेच्छा, तथा स्वतन्त्रत्वं व्यवहरणम् इति अभिन्नेऽपि स्वात्मनि भेदेन संजल्पः, क्रीडेति देव्यति क्रीडति इति देवः । न चात्र क्रीडातिरिक्तं निमित्तम् इत्याह हेय इत्यादिना । नहि किंचिदुपादातुं हातुं वा जगत्सर्गादौ


पं॰ 5 क॰ ख॰ अखिलेति पाठः ।
पं॰ 9 क॰ पु॰ बोधात्मकसमस्तक्रियामये इति पाठः ।
पं॰ 10 क॰ ख॰ पु॰ गुणमयश्च गतिरिति पाठः ।
144


ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्वमेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव, सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि कथं नु नाम सर्वानेवाभिभूय अहं वर्ते इतीयमेव इच्छा भवति । तथा-शब्दः पूर्वापेक्षया समुच्चये तेन दीव्यति विजिगीषते इति देवः । देवशब्दस्य सर्वस्मात् अभिन्नेऽपि स्वात्मनि भेदेन `अहमिदं जानामि' इति योऽयमस्य संजल्पः तद्व्यवहरणम् अपारमार्थिकेन रूपेण स्फुरणम् इत्यर्थः, तेन दीव्यति व्यवहरति इति देवः । निखिलस्य प्रमातृप्रमेयात्मनो निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन दीव्यति द्योतते द्योतयति इति वा देवः । यतः सकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेतिकर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः । सर्वे हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मुखतया प्रह्वा एव इति भावः । अस्य इति कर्मणि


पं॰ 6 क॰ पु॰ इति भाव इति पाठः ।
पं॰ 8 ख॰ पु॰ योऽस्येति पाठः ।
पं॰ 15 ख॰ पु॰ शिवे मन्त्रमहेश्वरेति शोधितः पाठः ।
145


षष्टी, तेन दीव्यति स्तूयते इति देवः । समस्ता पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृक्क्रिये गुणः शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य गतिः -- विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम् तेन दीव्यति, जानाति, प्रसरति च इति वा देवः ॥101॥102॥103॥
एतदेवोपसंहरति
इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः । tantraloka.1.104a
गुरुभिः इति बृहस्पतिपादैः स्मृत इति
`एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् ।'
इत्यादिना
`अविहृतगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः ।'
इत्यन्तेन ग्रन्थेन व्यावर्णितः इत्यर्थः ॥
शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह


पं॰ 12 क॰ ख॰ पु॰ क्रीडति प्रभुर्यः स्यादिति पाठः ।
146


शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते । tantraloka.1.104b
तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥ tantraloka.1.104c

शासनं शास्त्रोपदेशादिना बोध्यानां बोधनं । रोधनं संसारिणां विलयशक्त्या आघ्रातत्वात् तत्रैवावस्थापनं । पालनं यथास्थितस्य विश्ववैचित्र्यस्य नियतनियन्त्रणया तथैव स्थापनात्मकं संरक्षणं । पाचनं कर्मणां कर्मिणः प्रति फलदानौन्मुख्यजननम् । उक्तं हि
`स्वापोऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन्कर्मिकर्म ।
मायाशक्तोर्व्यक्तियोग्याः प्रकुर्वन् सर्वं पश्यन् यद्यथावस्तुजातम् ॥'
इति । तेन इति रक्षणार्थपर्यवसायिनोऽपि पतिशब्दस्य शासनादिकारकत्वेन हेतुना इत्यर्थः । अत एव


पं॰ 9 ख॰ पु॰ फलदानौन्मुख्येति पाठः ।
पं॰ 14 ग॰ पु॰ पश्यन्सर्वं यद्यथेति पाठः ।
पं॰ 15 ख॰ पु॰ पर्यवसायिनोपकारकत्वेन हेतुनेत्येवंविधः पाठः ।
147


पाति रक्षति इति पतिः । श्रेयोमयः पराद्वयस्वभावत्वात् । अशिवम् इति द्वैतम् ॥104॥
ननु एवमपि किं विशेषणयोगेन, इत्याशङ्क्याह
ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । tantraloka.1.105a
तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥ tantraloka.1.105b
ईदृक् इति भैरवादिशब्देष्वन्वर्थगत्या दार्शितम् । कियत् इति किंचिदेव, न तु सर्वम्, एतत् हि अंशांशिकया सर्वत्रैव संभवेत् इति भावः । अत एव अन्यव्यवच्छेदेन सर्वातिशयप्रतिपादनार्थं परममहत्पदलक्षणं विशेषणमुक्तम् ॥105॥
ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे, स्वस्वरूपाख्यातिश्चाज्ञानं, तत्ख्यातिश्च ज्ञानं, स्वात्मनश्च


पं॰ 1 क॰ पु॰ परमाद्वयेति पाठः ।
पं॰ 3 ख॰ पु॰ विशेषेण योगेनेति पाठः ।
पं॰ 7 ख॰ पु॰ महत्पदमुपात्तमिति पाठः ।
पं॰ 11 क॰ पु॰ महत्पदविशेषणमिति लक्षणपदहीनः पाठः ।
पं॰ 14 क॰ पु॰ तद्व्याख्यातिश्चेति पाठः ।
148


स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वेच्छया प्रच्छाद्य विश्वरूपतामवभासयेत् । एवमपि तदधिगमे तच्छक्तिरेवोपायो, येन स्वरूपख्यातिर्भवेत्, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विरन्तव्यम् इत्याशङ्क्याह
इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । tantraloka.1.106a
मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ tantraloka.1.106b
`इत्युपोद्धातः' । इति -- उक्तेन प्रकारेण यत् ज्ञेयस्य बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वं पारमर्थिकं रूपम् अर्थादिह संक्षेपेण उट्टङ्कितम्, तन्मया शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते -- विस्तरेण उच्यते इत्यर्थः । शिवोऽत्र गुरुः ।
`यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥'


पं॰ 14 ख॰ पु॰ अवलम्ब्य चर्च्यते इति पाठः ।
149


इति, नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत् इति भावः । स्वसंवित् स्वानुभवः । सत्तर्को युक्तिः । पतिशास्त्रं भेदप्रधानं शैवम् । त्रिकं परादिशक्तित्रयाभिधायकं शास्त्रम् । क्रमः चतुष्टयार्थः । समाहारेऽयं द्वन्द्वः । इह सर्वमेव स्वानुभवेन युक्त्या सामान्यागमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः । उपोद्घात इति उप -- आशु संक्षेपेण ऊर्ध्वमादौ हन्यते टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन् स तथा ॥106॥
तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण संप्रति अवतारयितुमाह
तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः । tantraloka.1.107a
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ tantraloka.1.107b
तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः


पं॰ 2 क॰ पु॰ स्वसंविदनुभव इति पाठः ।
पं॰ 7 ख॰ पु॰ उपांशु संक्षेपेणेति पाठः ।
150


निखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपादिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये संहारे, तुर्ये, अनाख्ये च भान्ति -- सर्वसर्वात्मकेन रूपेण स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्याद्यात्मकतया द्वादशधोदय इति वाक्यार्थः । तदुक्तं
`धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः ।
भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः ॥
स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः ।'
इति ॥107॥
ननु एक एव परप्रकाशात्मको भैरवादिशब्दव्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव स्वातन्त्र्याख्या शक्तिः इत्युपपादितं, तत्कथमस्य इह द्वादशधोदय इत्युक्तम् ? , इत्याशङ्क्याह
तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते । tantraloka.1.108a
तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥ tantraloka.1.108b


पं॰ 3 क॰ पु॰ भवन्ति सर्वसर्वात्मकत्वेन स्फुरन्तीति पाठः ।
पं॰ 11 ख॰ पु॰ तस्य चैके वाभिन्ना इति पाठः ।
151


तावन् इति -- द्वादश शक्तयः परिमाणमस्य, स तथा, अत एव पूर्णस्वभावः इत्युक्तं । पूर्णे सर्वमस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पुर्णतैव न स्यात् । अत एव अत्र द्वादशात्मके चक्रे ये उपासकाः ते तत्र परमशिवे एव परिनिष्ठिताः -- तदैकात्म्यभाजो भवन्ति इत्यर्थः । एतच्च बहुप्रघट्टकवक्तव्यम्, इति शाक्तोपायाह्निक एव वितत्य विचारयिष्यते, इति नेहायस्तम् ॥108॥

ननु कथमेतद्युक्तं -- यतो ऽत्र संख्यायाः तत्र तत्र न्यूनतवमाधिक्यं च संभवति ?, इत्याशङ्क्याह

तासामपि च भेदांशन्यूनाधिक्यादियोजनम् । tantraloka.1.109a
तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ tantraloka.1.109b
तदेवाह
एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः । tantraloka.1.110a


पं॰ 16 ख॰ पु॰ यामलोक्त इति, यामलोत्थ इति च पाठः ।
152


पञ्चमूर्तिः षडात्मायं सप्तकोऽष्टकभूषितः ॥ tantraloka.1.110b
नवात्मा दशदिक्छक्तिरेकादशकलात्मकः । tantraloka.1.111a
द्वादशारमहाचक्रनायको भैरवस्त्विति ॥ tantraloka.1.111b
यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः । चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादितया । तदुक्तं
`सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे ।
त्रिकं तु भैरवे तन्त्रे ॰॰॰ ॥'
इति । षडात्मा इति, यद्वक्ष्यति
`विश्वा तद्दीशिका रौद्री वीरका त्र्यम्बिका तथा ।
गुर्वीत षडरे देव्यः ॰॰॰ ॥'
इति । सप्तकः इति, यदुक्तं


पं॰ 8 क॰ पु॰ तत्रैव प्रक्रियायामिति पाठः ।
पं॰ 11 ख॰ पु॰ चतुर्थे वामेति पाठः ।
153


`ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ॥'
इति । अष्टकेन अधोरादिना । स एव एतदष्टकमध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं
`उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी ।
श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥'
इति । एकादश इति खण्डचक्रोक्ता । इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः । अनेन अधिकसंख्यासूत्रणम् ॥110॥111॥
तच्च अधिकसंख्याकत्वं निरवधि, इत्याह
एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः । tantraloka.1.112a
विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥ tantraloka.1.112b
सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थविस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्यतिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं



पं॰ 8 क॰ ग॰ पु॰ न्यूनस्वीकार इति, ख॰ पु॰ त्रयोदशकथनेन अधिकेति च पाठः ।
154


`शक्तिश्च शक्तिमांश्च पदार्थद्वयमुच्यते ।
शक्तयो ऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥'
इति ॥112॥
ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः तदेकेनैव कार्तार्थ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि ? इत्याशङ्क्याह
तेषामपि च चक्राणा स्ववर्गानुगमात्मना । tantraloka.1.113a
ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥ tantraloka.1.113b
ऐक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना साजात्येन । तच्च नियतकृत्यकारित्वादेव अस्य स्ववर्गानुगमात्मकत्वमुक्तम्, अत एव चक्रगो भेद इति शास्त्रेषु चक्राणामानन्त्यम् ॥113॥

तदेव दर्शयति
चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते । tantraloka.1.114a


पं॰ 12 क॰ पु॰ अस्य स्वर्गानुगमेति पाठः ।
155


षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥ tantraloka.1.114b
चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोडश, षण्णां द्विगुणनायोगेन द्वादश, पुनस्तथात्वेन चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्समुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा -- नानाकारा, तदतिरिक्तस्यान्यस्य अनुपलम्भात् निजाकृतिः यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्राधिष्ठातुः प्रभोः त्रैशिरसे मते त्रिशिरोभैरवे उक्ता अभिहिता इत्यर्थः । तदुक्तं तत्र
`चतुष्कं षट्कोष्टकं द्वादशारं षोडशारकम् ।
चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ॥'
इत्यादि ॥114॥
बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरोभैरव एवोक्तम्, इत्याह


पं॰ 3 क॰ पु॰ तथात्वे षोडश इति पाठः ।
पं॰ 6 क॰ पु॰ समुल्लासस्य चक्रेति पाठः ।
पं॰ 11 क॰ पु॰ चतुष्कषट्कोष्ठकेति पाठः ।
पं॰ 12 क॰ पु॰ प्रविभक्त्या तथाष्टकमिति पाठः ।
156


नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । tantraloka.1.115a
सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥ tantraloka.1.115b
उक्ता इति पूर्वश्लोकाल्लिङ्गादिविपरिणामाद् योज्यम् । एक एव हि परमेश्वरः तत्तत्साधककामानुसारं नियतां सौम्यरौद्रादिरूपाम् आकृतिमाभास्य तां तां सिद्धिं नियच्छेत् । तदुक्तं
`येन येन हि रूपेण साधकः संस्मरेत्सदा ।
तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥'
इति । श्रीत्रिशिरोभैरवप्रथमपटलाच्च अयमर्थः स्वयमेवाधिगन्तव्यः । अस्माभिस्तु ग्रन्थविस्तारभयात् न प्रातिपाद्येन संवादितम् ॥115॥
तदेवाह
एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः । tantraloka.1.116a


पं॰ 6 ख॰ पु॰ साधकशमानुसारमिति पाठः ।
157


सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥ tantraloka.1.116b
आन्तरी प्रतिभा स्वातन्त्र्यशक्तिः । अन्यत् इति रौद्रम् । अत एव तत्तत्सौम्यरौद्रादिनियताकारावच्छिन्नत्वात् मितम् ॥116॥

एतदेव विभज्य दर्शयति
अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् । tantraloka.1.117a
ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥ tantraloka.1.117b
स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा । tantraloka.1.118a
पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥ tantraloka.1.118b
अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते । tantraloka.1.119a


पं॰ 2 ख॰ पु॰ उपासते इति पाठः ।
पं॰ 7 ख॰ पु॰ अस्य स्यात्सृष्टिरिति प्रथमः पाठः ।
पं॰ 13 ख॰ पु॰ सरसीभावे इति पाठः ।
158


ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥ tantraloka.1.119b
दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । tantraloka.1.120a
तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥ tantraloka.1.120b
पुष्टिं कुरु रसेनैनमाप्यायय तरामिति । tantraloka.1.121a
संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥ tantraloka.1.121b
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् । tantraloka.1.122a
तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥ tantraloka.1.122b
ध्यानाद्येव क्रमेण निरूपयति -- पुष्टिरित्यादिना । ततः इति समनन्तरोक्ताद्धेतोः । अतः इति पुष्टेः



पं॰ 7 क॰ पु॰ पुष्टिं कुरु रसो ऽनेन ध्याययन्तु ततस्तरामिति पाठः ।
पं॰ 9 ख॰ पु॰ संकल्पोऽपि इति पाठः ।
पं॰ 13 ख॰ पु॰ पुष्णीयादिति पाठः ।
159


शुष्खस्य सररीभावापादानलक्षणत्वात् । जलं हि आप्यायकं तत्प्रधानं पुष्टिप्रयोजकम् पूर्णमित्यादिरूपम् । संप्रति संजल्पमपि लौकिकालौकिकभेदेन द्विधा व्याचष्टे -- ये च इत्यादिना । ते इति दन्त्योष्ट्यदन्त्यप्राया वर्णाः । तां संविदि पुष्टिरूपां । बीजभावं मन्त्रभावम् । अत एवास्य संजल्पस्यालौकिकत्वम् । दन्त्योष्ट्या वकारादयः । दन्त्या अमृतबीजादयः । कैश्चिद्वैर्णैरिति अदन्त्योष्ट्यप्रायादिभिः । यदुक्तं
`वषडाप्यायने शस्तः ॰॰॰ ।'
इति । तथा
`पुष्टावाप्यायने वर्गैः ॰॰॰ ।'
इति । एवं मूर्धन्यादीनामपि ग्रहणम् । विकल्पात्मा इत्यनेन अस्य लौकिकत्वं दर्शितम् । तामिति पुष्टिरूपां संविदम् । इदानीं बाह्यमपि होमादिरूपं व्यापारं


पं॰ 1 ख॰ पु॰ शुष्कसरसीति पाठः ।
पं॰ 2 क॰ पु॰ पूर्णमितादीति पाठः ।
पं॰ 8 क॰ पु॰ वर्णैरिति दन्त्योष्ठ्येति पाठः ।
पं॰ 11 ख॰ वर्णैरिति पाठः ।
पं॰ 13 ख॰ पु॰ अस्या लौकिकत्वं दर्शितं तामिति सृष्टिरूपामिति पाठः ।
160


विभजति अमृता इत्य्तादिना । क्षीरं दधि । तदुक्तं
`दधिहोमात्परा पुष्टि ॰॰॰ ।'
इति । बलावहशब्देन प्रत्येकं संबन्धः । तेन इति गडूच्यादिना द्रव्यजातेन । बीजम् इति शरीरकारणभूतं शुक्रशोणितादि धातुव्रातम् । एनाम् इति पुष्टिरूपां क्रियाम् ॥117॥118॥119॥120॥121॥122॥
एतदेव प्रमेयान्तरमुपक्षिपन् उपसंहरति
तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते । tantraloka.1.123a
अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥ tantraloka.1.123b
अवच्छेदानवच्छिद्भ्याम् इति, अवच्छेदः समनन्तरोक्तनीत्या


पं॰ 1 क॰ पु॰ विभजयतीति पाठः ।
पं॰ 3 क॰ पु॰ दधिहोमात्मना पुष्टिरिति पाठः ।
पं॰ 4 ख॰ पु॰ प्रत्येकमभिसंबन्ध इति, क॰ पु॰ तेनेति अमृतादिना द्रव्यजातेऽर्पणबीजमिति पाठः ।
पं॰ 10 क॰ पु॰ तस्माद्विकस्वरो बोधेति पाठः ।
पं॰ 14 क॰ पु॰ अवच्छेदानवच्छिद्भ्यामिति वाक्यं नास्ति ।
161


ध्यानादिनियतविधिनियन्त्रितत्वं, तदन्यथात्वमनवच्छेदः यद्वक्ष्यति
`साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ।
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥'
इति । भगवतश्च एतत्सावच्छेदमपि रूपम् अनवच्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं विना किंचिदपि सिद्ध्येत् ॥123॥
एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति
येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । tantraloka.1.124a
इत्यतः -- इत्येवमादिकात् वाक्यकदम्बकादित्यर्थः । गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः । तत्र हि
`त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥'


* निरर्गलो नियतियन्त्रणारहित इत्यर्थः ।


पं॰ 3 क॰ पु॰ नियतयन्त्रित इति पाठः ।
162


इत्यादिना ।
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।'
इत्यादिना च भोगार्थिनाम्
`अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥'
इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां क्रमेण स्वरूपमभिधाय पुनः सावच्छेदे ऽपि रूपे ऽनवच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम्
`येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥'
इत्यादिना तेनोपदिष्टम् ॥
एतदेव व्याचष्टे
ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ tantraloka.1.124b


इत्यादिना इति, क्षीणे पुण्ये इति च 1-2 पंक्तिद्वयस्थपाठः ग॰ पु॰ न वर्तते तथात्वे 3 पंक्तिस्थः `च' इति नास्ति अतः अनुमीयते पुस्तकान्तरेषु पश्चात्प्रक्षिप्तोऽधिकश्चोक्तपाठोऽस्तीति ।
पं॰ 13 ख॰ पु॰ बोधाद्यतिरिक्तमिति प्रथमः, बोधादतिरिक्तमिति लक्ष्यमाणशोधनः पाठो ऽप्यस्ति ।
पं॰ 14 क॰ ख॰ पु॰ किंचित्पूज्यतयेति पाठः ।
163


तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते । tantraloka.1.125a
ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्मरूपाद्व्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकारवत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययोगाद् गाढगाढं विमृशन्तः
वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् ।
संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत्' ॥
इत्यादिन्यायेन बोधाभेदेन -- परप्रमात्रकरूपस्वात्ममयत्वेन अवबुद्ध्यन्ते इत्यर्थः ॥
ननु देवतोद्देशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्यत्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति, कथमस्य याज्यत्वम् ? इत्याशङ्क्याह


पं॰ 1 क॰ ख॰ पु॰ तेऽपि बोधमिति पाठः ।
पं॰ 4 ख॰ अन्यत्तत्र नियताकारमिति पाठः ।
पं॰ 7 क॰ पु॰ मृशन्तोऽपि ते च इति पाठः ।
पं॰ 9 ख॰ पु॰ संवित्त्वदात्म चेदिति पाठः ।
पं॰ 10 क॰ पु॰ प्रमात्रेकस्वात्मेति पाठः ।
164


तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥ tantraloka.1.125b
स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । tantraloka.1.126a
वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ tantraloka.1.126b
अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका । tantraloka.1.127a
तेन बोधात्मत्वेन हेतुना, अस्य -- स्वात्मतत्त्वस्य, `सकृद्विभातोऽयमात्मा'इति न्यायेन अनवच्छिन्नतया प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य, अत एव स्वयंप्रथस्य -- प्रमाणादिनैरपेक्ष्येण स्वतः सिद्धस्य, विधिः -- अप्रवृत्तप्रवर्तनात्मा, पूर्वभावी, तथा सृष्ट्यात्मा -- तत्तत्सिद्धिसाधनस्वभावो न भवतीत्यर्थः । न खलु बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते -- तस्य


पं॰ 5 `वेद्या हि' इति संपूर्णपद्यं ग॰ पुस्तकात्पूरितमस्ति ।
पं॰ 9 क॰ ख॰ पु॰ बोधात्महेतुनेति पाठः, क॰ ख॰ पु॰ स्वात्मतत्त्वस्य इति वाक्यं नास्ति ।
पं॰ 10 क॰ ख॰ पु॰ अनवच्छिन्नतया अविरतेनेति पाठः ।
165


विधिप्राप्त्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च स्वात्मनः
कदाचित् अप्राप्तिरस्ति -- आदिसिद्धतया सर्वदैव स्फुरणात् । ननु
विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य
विधेर्विषयतां न भजते ? इत्याशङ्क्याह
विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ tantraloka.1.127b
विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः । यदाहुः
`विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥'
इति । स्वर्गयागयोश्च साध्यसाधनभावमवबोधयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं -- यत् सप्रत्ययस्य पुंसः `प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च `नियोग'


पं॰ 3 क॰पु॰ सर्वस्फुरणादिति पाठः ।
पं॰ 4 ख॰ पु॰ कस्य तावद्विषयेत्येवंविधः पाठः ।
पं॰ 6 ख॰ पु॰ नियोगस्त्र्यंशश्चेति पाठः ।
पं॰ 11 ख॰ पु॰ न ज्ञातज्ञापनं विधिरिति पाथः ।
पं॰ 12 ख॰ पु॰ अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः ।
पं॰ 13 क॰ पु॰ प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग॰ पुस्तकात्पूरितोऽस्ति ।
166


इति प्राभाकरैरुक्तः, `भावना'इति भाट्टैः । तत्र तिङादिप्रत्ययवाच्यः `प्रवर्तितोऽहम्'इति प्रेरणात्मकः कार्यात्मा अनुष्ठेयो धर्मो नियोगः । स च
`दार्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।'
इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्यादिना हि अस्य विषयानुबन्ध उच्यते । `स्वर्गकामः' इत्यनेन च अधिकारानुबन्धः, अत एव च द्व्यनुबन्धबान्धवो `नियोगः'इत्युद्घोष्यते । कंचित् क्वचिन्नियुक्ते इति नियोगस्वरूपम् इति । `भावना' च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलं तन्निष्ठस्तदुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते । सा च द्विविधा -- शब्दभावना अर्थभावना च इति । तस्याश्च किं, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम्
`सा धातोः प्रत्ययाद्वापि भावनावगता सती ।
अपेक्षतेऽंशत्रितयं किं केन कथमित्यदः ॥'
इति । त्र्यंशा इति, तत्रार्थभावनायां `किम्' इत्यपेक्षायां स्वर्गः, `केन' इत्यपेक्षायां यागः, `कथम्' इत्यपेक्षायां
167

च ब्रीह्यादि संबन्धनीयम् । एवं शब्दभावनायामपि, `किम्' इत्यपेक्षायां भाव्या पुरुषप्रवृत्तिः, `केन' इत्यपेक्षायां शब्दः, `कथम्' इत्यपेक्षायाम् अर्थवादवाक्यव्यापारः संबन्धनीयः । चोदना वैदिकं विधायकं वाक्यम् । यदाहुः
`चोदनेति क्रियायाः प्रवर्तकं वचनम् ।'
इति । एतच्चोभयत्रापि संबन्धनीयम् । तच्च प्रमाणान्तरप्रतिपन्नमेव अर्थमभिदधत् प्रमाणतां लभते, तं चार्थं साधयति ।
`ऐन्द्राग्रमेकादशकपालं निर्वपेत् ।'
इत्यादौ निर्वपणादिवदुद्दिष्टा इन्द्राद्या देवता अपि विधेयाः -- द्रव्यदेवतासंबन्धस्यैव साक्षात्प्रतिपाद्यत्वात् ॥124-125-126-127॥
तदेवाह
तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः । tantraloka.1.128a
अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ tantraloka.1.128b


पं॰ 18 क॰ पु॰ संवेद्यरूपिण इति ख॰ पु॰ रूपितामिति पाठः ।
168


उन्मग्नामेव पश्यन्तस्तं विदन्तोऽपि नो विदुः । tantraloka.1.129a
तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ tantraloka.1.129b
विधिपूर्वाः -- विधिरेव पूर्वं पूर्वभावि अनधिगतार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः, स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणान्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः । अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते इति युक्तमुक्तम् -- अविधिपूर्वकमिति । तदेवाह अहंबोधः इति । तथा इति विधिपूर्व इत्यर्थः । ननु याद प्रमाणादिनैरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते किमिति न सर्वदैव सर्वेषाम् ? इत्याशङ्क्याह -- ते तु इत्यादि । त इति स्वात्मव्यतिरिक्तेन्द्रादिदेवतायाजकाः, तं सर्वदैव प्रकाशमानं स्वात्मानं -- वेद्यवेदनान्यथानुपपत्त्या


पं॰ 2 क॰ पु॰ तं वदन्तोऽपीति पाठः ।
पं॰ 4 ख॰ पु॰ मूलगीतास्वपि च्यवन्ति ते इति पाठः ।
पं॰ 9 ख॰ पु॰ स चैवेति पाठः ।
पं॰ 13 क॰ पु॰ प्रमाणान्तरनैरपेक्ष्येणैवेति पाठः ।
169


तदतिरिक्तस्य च अन्तस्य देवतात्वानुपपत्तेः, वस्तुनो विदन्तोऽपि न विदुः -- वेद्यताया एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया च जानीयुः इत्यर्थः । अतश्च नियततत्तद्देवतादिरूपग्रहणेन च्यवन्ते इत्यर्थः । तदुक्तं तत्र
`न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।'
इति ॥128-129॥
तदेव व्याचष्टे
चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या । tantraloka.1.130a
एतदपि तत्रत्येन ग्रन्थेनैव संवादयति
देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥ tantraloka.1.130b
तेन इति व्यवच्च्छिन्नरूपतापत्तिलक्षणेन हेतुना इत्यर्थः । यदुक्तं
`यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥'
इति ॥130॥


पं॰ 2 क॰ पु॰ वदन्तोऽपीति पाठः ।
170


ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति इत्युक्तम् ? इत्याशङ्क्याह
निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । tantraloka.1.131a
विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥ tantraloka.1.131b
131
तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् । तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः । माम् इति परबोधैकस्वभावम् आत्मनाम् । अस्मिन् परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्समापत्तिरेव च फलम् ॥131॥
ननु भगवद्वासुदेवेन उक्तस्य `माम्' इति अस्मच्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधायकत्वमुच्यते ? इत्याशङ्क्याह
सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः । tantraloka.1.132a


पं॰ 16 क॰ पु॰ मात्रैकगोचर इति पाठः ।
171


स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥ tantraloka.1.132b
अत्र इति गीताग्रन्थे अनवच्छिन्नस्यैव बोधमात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवलस्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् । नहि प्रकाशाद्द्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽप्यस्ति -- तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पोपहतत्वात् । यस्तु शरीरादौ `कृशोऽहम्' इत्यादिः अहंविमर्शः स विकल्प एव -- शरीराद्यपेक्षया परस्य अपोह्यस्य प्रतियोगिनः संभवात् । ननु यदि बोध एव अप्रतिपक्ष एकोऽस्ति, तत्कथं `मां यजन्ति' इत्यादौ याज्ययष्ट्टतया भेदः पारमार्थिकः स्यात् ? इत्याशङ्क्याह -- स भोक्तृ इत्यादि । बोध एव उभयात्मना स्फुरितः इति भावः । तदुक्तं तत्र
`अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।'
इति ॥
ननु एकश्च उभयात्मा च इति कथं संगच्छताम् ? इत्याशङ्क्याह
172

याजमानी संविदेव याज्या नान्येति चोदितम् । tantraloka.1.133a
न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥ tantraloka.1.133b
संविदेव याज्या, इति उदितं -- प्रतिज्ञातम् । न पुनः कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च संवित् याजमान्येव, न पुनः अन्या -- भिन्ना, याजमानी संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृतिमती वा संविद्देवता नोचिता -- संविदि भेदानुपपत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्वप्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति युक्तमुक्तं `स एव याज्ययष्ट्टतयोदितः' इति ॥133॥
अत एव च आदिसिद्धत्वात् संविदि न किंचिद्विध्यादि सिद्धिनिमित्तमुक्तम्,
इत्याह


पं॰ 8 क॰ पु॰ सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः ।
पं॰ 11 क॰ पु॰ द्योतमानत्वैकस्वभावमिति पाठः ।
173


विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा । tantraloka.1.134a
इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा । ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति व्यापारः । यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः क्रियाया धाम आश्रयः -- तेन विना क्रियाया असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजकभावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदिसिद्धो बोधः इति सिद्धम् ॥
ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ? इत्याशङ्क्याह
सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥ tantraloka.1.134b
आवृतानावृतात्मा तु देवादिस्थावरान्तगः । tantraloka.1.135a


पं॰ 2 क॰ पु॰ धाम या इति, ख॰ पु॰ मन्त्रादिर्वृत्तिर्धाम वा इति पाठः ।
पं॰ 3 क॰ पु॰ ब्राह्मणत्वेनेति पाठः ।
174


जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ tantraloka.1.135b
आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति परप्रकाश्यभावराशिस्वरूपताम् इत्यर्थः । विश्वनिर्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा भवति तदा स्वस्वातन्त्र्यात् स्वात्मदर्पणे अनन्तग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूपभावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वगताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमणेन ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां च । अत एव चैषां जडाजडव्यपदेशः, तदाह `आवृतानावृतात्मा'इति । एवमपि चास्य प्रकारवैचित्र्येण


पं॰ 10 क॰ ख॰ पु॰ संततीरुल्लासयतीति, ख॰ पु॰ स्वाङ्गभूतेति पाठः ।
पं॰ 16 ख॰ पु॰ जडाजडशब्दव्यपदेश इति पाठः ।
175


आनन्त्यम् इत्याह `जड' इत्यादि, चित्रता इति तत्र जडस्य तावच्छब्दादिभेदेन , तस्यापि तारमन्द्रादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तानभेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशयानुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि स्वात्मानं धर्मधर्मादिबुद्धिभावरहितत्वेन तत्तदिच्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण जानते, जडं व विषयं सुखदुःखादिकारितया नानात्वेन परिविन्दन्ति इति ॥134-135॥
एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह
तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । tantraloka.1.136a
तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ tantraloka.1.136b
एतदेवार्थद्वारकं संवादयति -- तदुक्तम् इत्यादिना ।


पं॰ 7 ख॰ पु॰ बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः ।
पं॰ 15 ख॰ पु॰ स बुद्ध इति पाठः ।
176


इति वैचित्र्यं यो वेत्ति स संबद्धः -- सम्यग्बुद्ध इत्यर्थः । त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे । तत्र हि
`अन्यथा स्वल्पबोधस्तु तन्तुभिः कीटवद्यथा ।
मलतन्तुसमारूढः क्रीडते देहपञ्जरे ॥'
इत्युपक्रम्य
`सम्यग्बुद्धस्तु विज्ञेयः ॰॰॰ ।'
इत्यादिना च
`नानाकारैर्विभावैश्च भ्राम्यते नटवद्यथा ।
स्वबुद्धिभावरहितमिच्छाक्षेमबहिष्कृतम् ॥।'
इत्यन्तं बहूक्तम् ॥135॥
ननु देहादिर्ग्राहकतया अभिमतोऽपि जाड्याज्ज्ञेय एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह
ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥ tantraloka.1.136c
136च् ।
ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थं जानामि इत्यर्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञानरूपता । तदुक्तमत्रापि च


पं॰ 1 ख॰ पु॰ स बुद्ध इति पाठः ।
पं॰ 6 ख॰ पु॰ बुद्धः स विज्ञेय इति पाठः ।
पं॰ 6 क॰ ख॰ पु॰ इच्छाज्ञेयबहिष्कृतमिति, ग॰ पु॰ परिष्कृतमित्यपि पाठः ।
177


`॰॰॰ज्ञेयस्य ज्ञेयता ज्ञानमेव' ।
इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमाच्छादयेत् -- आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्, तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपताहानिः । तदुक्तं तत्रैव
`ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ॥'
इति ॥136॥
अत एवाह
तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । tantraloka.1.137a
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ tantraloka.1.137b
तेन इति चिदनाच्छादनेन हेतुना । अनावरण इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि संभवेत् ॥137॥


पं॰ 1 क॰ पु॰ संज्ञित इति पाठः ।
178


ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं संगच्छताम् ? इत्याशङ्क्याह
संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे । tantraloka.1.138a
तथाप्यावृतिनिर्ह्रासतारतम्यात्स लक्ष्यते ॥ tantraloka.1.138b
आवृत्तेः -- आणवस्य मलस्य, निर्ह्रासः परिक्षयस्तस्य तारतम्यं मृदुमध्याधिमात्रात्मा अतिशयः ततो लक्ष्यते, इति -- न तु साक्षात् संभवति इत्यर्थः, अत एव पूर्वं `वास्तवः' इति विशेषणमुपात्तम् ॥138॥
किं च तत्तारतम्यम् ? इत्याशङ्क्याह
तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये । tantraloka.1.139a
समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥ tantraloka.1.139b
वक्ष्यामः इति । यद्वक्ष्यति


पं॰ 14 क॰ पु॰ स चाप्यपरतामिति, ग॰ पु॰ समाप्य स्थिरतामिति पाठः ।
पं॰ 16 वक्ष्याम इति आरभ्य बहुप्रकारम् इत्यन्तः पाठो ग॰ पुस्तकात् पूरितोऽस्ति ।
179


`तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ।
ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ॥'
इत्यादि बहुप्रकारम्, चर्चयिष्यते इति -- लक्ष्यते परीक्ष्यते च इत्यर्थः । इह हि सर्वस्यैव वक्ष्यमाणस्य प्रमेयजातस्य उद्देश एव भवेत् इति भावः । यद्वक्ष्यति
`विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् ।'
इति । तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन न दर्शितम् इति स्वयमेव अवधार्यम् ॥139॥
एवं मलनिर्ह्रासतारतम्यानुसारमेव आत्मनां भगवत्स्वरूपमपि प्रथते इत्याह
अतः कंचित्प्रमातारं प्रति प्रथयते विभुः । tantraloka.1.140a
पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥ tantraloka.1.140b
कंचित् इति -- तीव्रनिर्ह्रासतावृतितारतम्यम्, अंशांशिकाक्रमात्


पं॰ 14 क॰ पु॰ नित्यरूपमिति पाठः ।
पं॰ 16 क॰ क॰ पु॰ निर्ह्रासिनेति पाठः ।
180


इति -- आवृतिनिर्ह्रासतारतम्यमन्दादिप्रायत्वात् ॥140॥
ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्णत्वं च ? इत्याशङ्क्याह
विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् । tantraloka.1.141a
अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥ tantraloka.1.141b
विश्वेषां नीलसुखादीनां भावानां य एको भावः -- प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्रधाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य यत्प्रथनम् -- अविकल्पवृत्त्या साक्षात्करणं, तत् एव अणूनां परं पूर्णं पारमेश्वरं ज्ञानं, तत एवं-विधात् पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्, अपरं -- चित्स्वरूपप्रथाविरहादपूर्णं, बहु -- वक्ष्यमाणप्रकारेण अनेकप्रकारम् इत्यर्थः ॥141॥
तदेव बहुप्रकारत्वं दर्शयति
तच्च साक्षादुपायेन तदुपायादिनापि च । tantraloka.1.142a
181

प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥ tantraloka.1.142b
तत् इति परमपरं वा ज्ञानं । साक्षादुपायेन इति शाम्भवेन । तदेव हि अव्यवहितं परज्ञानावाप्तौ निमित्तं, स एव परां काष्ठां प्राप्तश्चानुपाय इत्युच्यते । अत एव अनुपायः इति नोपायनिषेधमात्रम् इति वक्ष्यते । तस्य शाम्भवस्य उपायः शाक्तः, आदिशब्दात् तस्यापि उपाय आणवः । भिद्यते इति औपचारिकं भेदमेति इत्यर्थः ॥142॥
न केवलमेवं, यावदन्यदपि एतद्वैचित्र्ये निमित्तमस्ति इत्याह
तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः । tantraloka.1.143a
व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥ tantraloka.1.143b
स्वेन, यथा -- शाम्भवेन शाम्भवम्, अत एव स्वपरलक्षणेन द्वारेण, द्वारि सोपायम् । सर्वशः इति --


पं॰ 6 क॰ पु॰ उपायविधिनिषेधमात्रेति पाठः ।
पं॰ 9 ख॰ पु॰ औपाधिकं भेदमिति पाठः ।
182


पूर्णात्मना । अंशश इति -- अपूर्णेन । व्यवधान इति साक्षादुपायत्वाभावात् । एवं प्रथमं तावदुपायस्त्रेधा -- शाम्भवादिभेदात्, तेषां च द्वारद्वारिभावेन प्रत्येकं द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश, तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्विंशतिः । व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां भूयस्त्वम् ॥143॥
ननु ज्ञानं तावदुपेयतया प्रतिज्ञातम् इति, तत्र उपायेन केनचिद्भाव्यं, स च न ज्ञानमेव -- उपेयत्वात्, नापि अज्ञानं -- तदनौपायिकत्वात् तस्य, इति किं नाम उपायस्वरूपम् ? इत्याशङ्क्याह
ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते । tantraloka.1.144a
ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥ tantraloka.1.144b
किं तु तत्सूक्ष्मं वैकल्पिकस्थूलशाक्तादिज्ञानविलक्षणं मतम् इति संबन्धः । अत एव परं -- शाम्भवम्


पं॰ 10 क॰ पु॰ तावदनौपाधिकत्वादिति पाठः ।
पं॰ 12 क॰ पु॰ चाप्युपायो य इति, ख॰ पु॰ चाभ्युपेय इति पाठः ।
183


इत्यर्थः । अत एव `इच्छात्मकम्' इत्युक्तम् । शाक्ताणवयोर्हि ज्ञानक्रियात्मकत्वं भवेत् इति भावः ॥144॥
ननु एवमपि कथमेकस्यैव उपायोपेयभावः संगच्छते ? इत्याशङ्क्याह
उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविभ्रमः । tantraloka.1.145a
एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥ tantraloka.1.145b
स्थौल्यं -- चिदानन्दैकघनपरसूक्ष्मस्वरूपनिमज्जनादनन्तग्राह्यग्राहकात्मना भेदेन उल्लसनं, तत्कृतोऽयं भ्रमः -- यत् `इदमुपेयम् अयमुपाय'इति । वस्तुतो हि परप्रकाशात्मा शिव एव उपेयः, स च सर्वत एवावभासते -- तस्य क्वचिदपि अनपायात् । अत एव नात्र उपायानां किंचित्प्रयोजनम्
-- अज्ञातज्ञापकत्वात् तेषाम् । तदुक्तम्
`अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥'


पं॰ 17 क॰ पु॰ प्रकटस्थिते इति पाठः ।
184


इति । अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते । ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ? इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति -- तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् । तेन परमेश्वरस्फार एवायम् इत्याशयः । अत एवायं तथात्वेन अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह `बन्धमोक्षैककारणम्' इति । यदुक्तं
`सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥'
इति ॥145॥
ननु एवमपि अत्र किं नाम उपायतया संमतम् ? इत्याशङ्क्याह
तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । tantraloka.1.146a
यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्त्तितम् ॥ tantraloka.1.146b
तत्र -- एवं सति, आद्ये -- प्राथामिकालोचनज्ञानात्मनि,


पं॰ 17 क॰ पु॰ प्राथमिककाले च ज्ञानात्मनीति पाठः ।
185


अत एव निर्विकल्पोत्थे, अत एव भिन्नस्य परामृश्यस्य अनुल्लासात् स्वपरामर्शे -- स्फुरत्तामात्ररूपे यत् प्रकटं स्फुरेत्, साक्षात्कारात्मतया यत् स्फुरणं तत् साक्षात् इच्छाख्यं प्रकीर्तितम् -- उपायान्तरनिरपेक्षत्वात्, अव्यवधानेच्छाशक्तिस्फाररूपः शाम्भवाख्य उपाय उक्तः इत्यर्थः ॥146॥
एतदेव दृष्टान्तोपदेशेन स्फुटीकर्तुमाह
यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् । tantraloka.1.147a
भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥ tantraloka.1.147b
भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् । tantraloka.1.148a
यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ tantraloka.1.148b
तथैव `आत्मैवेदं सर्वम्' इत्येवमात्मनो विकल्पस्य


पं॰ 1 क॰ पु॰ निर्विकल्पोत्थे इति, ग॰ पु॰ निर्विकल्पैकनामनि इति प्रथमः पाठः ।
पं॰ 3 क॰ पु॰ साक्षात्कारतयेति पाठः ।
186


आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगिनिषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य यत् क्रमेण चर्चनं -- यथायथं स्फुटताभावित्वादिना संस्करणं, ततो यत् विकल्प्यमानमात्मस्वरूपपरामर्शम् `इत्थमेव इदम्' इत्येवं प्रतीतिमभिन्नां -- साक्षात्कारात्मतामभ्येति, तज्ज्ञानोपायं विदुः -- ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः इत्यर्थः । तु-शब्दः पूर्वस्माद्व्यतिरेचकः । इह हि विकल्प एव क्रमेण निर्विकल्पतामेति इत्युक्तम् । तत्र पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम्, अत एव च अनयोर्द्वारिद्वारभावः ॥147॥148॥
यत्तु तत्कल्पनाकॢप्तबहिर्भूतार्थसाधनम् । tantraloka.1.149a
क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥ tantraloka.1.149b
तथा तत् आत्मस्वरूपं क्रियोपायमाम्नातं -- क्रियाशक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु


पं॰ 1 क॰ ग॰ पु॰ द्वयापेक्षितत्त्वेऽपीति पाठः ।
पं॰ 3 क॰ पु॰ संस्कुरणमिति पाठः ।
पं॰ 17 ख॰ पु॰ समाधिगम्यमिति पाठः ।
187


उक्तम् । यतस्ताभिः -- भेदप्रथामयीभिः कल्पनाभिः, कॢप्तः -- स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो योऽसौ उच्चारादिः अर्थः तत्साधनम्, तुशब्दो व्यतिरेके । शाक्तो हि विकल्प एव अर्थः, इह तु बाह्योऽपि इति, अत एव न तत्र उच्चारादिः । ननु उपायभेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तं `भेदो नात्रापवर्गः' इति । स्वरूपप्रथनं हि अपवर्गः, तच्च सर्वैरेव हि द्वारद्वारिभावेन भवति, इति भावः ॥149॥
ननु ज्ञानमेव उपायः इति सामान्येन प्रतिज्ञातं, तत्कथमाणवे क्रियोपायत्वमुकम् ? इत्याशङ्क्याह
यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । tantraloka.1.150a
रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥ tantraloka.1.150b
अन्या इति अर्थाज्ज्ञानात्, यतः तज्ज्ञानमेव रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्तं सत् तथा `क्रिया' इति सर्वत्र अभिधीयते इत्यर्थः ।


पं॰ 4 क॰ पु॰ विकल्प्य एवार्थ इति पाठः ।
188


ननु अत्र किं प्रमाणम् ? इत्याशङ्क्योक्तम् `इति श्रीगमशासने' इति, अर्थादुक्तम् इति शेषः ॥150॥
तत्रत्यमेव ग्रन्थं पठति
योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । tantraloka.1.151a
स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥ tantraloka.1.151b
इति ॥151॥
एतच्च स्वयमेव व्याचष्टे
स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः । tantraloka.1.152a
तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ tantraloka.1.152b
सा देहारम्भिबाह्यस्थतत्त्वव्राताधिशायिनी । tantraloka.1.153a


पं॰ 6 क॰ ग॰ पु॰ वासनाशान्त्यै इति पाठः ।
पं॰ 10 ख॰ पु॰ स्वाचित्ते वासनेति पाठः ।
189


क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥ tantraloka.1.153b
निमित्तम् इत्यनेन सप्तमी व्याख्याता । संवित्स्वभाविका इत्यनेन मतेर्ज्ञानार्थत्वमुक्तम् । सा मतिः
`प्रणवेन तु तत्सर्वं शरीरोत्पत्तिकारणम् ।
न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ॥'
इत्याद्युक्त्या शुद्धदेहारम्भीणि असाधारणानि, तथा बाह्यस्थानि
`हेयाध्वानमधः कुर्वत्रेचयेत्तं वरानने ।
यावत्सा समना शक्तिः ॰॰॰ ॥'
इत्याद्युक्त्या तत्त्वदीक्षादिना साधारणानि तत्त्वानि अधिशयाना स्वचित्तवासनाशान्तिकारित्वात् क्रिया स्यात् । तथा सैव
`योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना ।'
इत्याद्युक्त्या तत्त्वानां चिति योजनाद्योगः स्यात् इति नानयोर्ज्ञानातिरेकः इति युक्तमुक्तं `योगो नान्यः क्रिया नान्या' इति ॥152॥153॥


पं॰ 2 क॰ ख॰ पु॰ चिल्लयीकृता इति पाठः ।
पं॰ 9 क॰ पु॰ अधः कृत्येति पाठः ।
पं॰ 16 क॰ पु॰ योगो नान्यत्क्रियेति पाठः ।
190


ननु कथं ज्ञानमेव क्रिया भवेत् ? इति दृष्टान्तोपदर्शनेन उपपादयति
लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या । tantraloka.1.154a
सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥ tantraloka.1.154b
अन्तः आत्मनि `गच्छामि' इति या स्फुरास्फुरणम् उद्यन्तृतात्मिका संवित्, सैव देहाद्याविशन्ती वैवश्याविष्करणेन स्वमयतामापादयन्ती गमनक्रिया भवति, इति युक्तमुक्तं `ज्ञानमेव हि तत्तथा' इति । गन्तुर्हि `गच्छामि' इति स्फुरणायां सत्यां कर्तृकरणकर्मात्मकशरीरपादग्रामाद्यावेशेन गमनक्रियासंपत्तिः स्यात् ॥154॥
तदेवोपसंहरति
तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । tantraloka.1.155a
ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥ tantraloka.1.155b


पं॰ 16 क॰ पु॰ ज्ञानमेव हि मोक्षायेति पाठः ।
191


ततः इति क्रियाया ज्ञानात्मकत्वात् । तेन
`दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि'
इत्यादिना क्रियाया अपि अपवर्गनिमित्तत्वमुक्तम् । एवं च युक्तमुक्तं `ज्ञानं मोक्षैककारणम्' इति । तदाह `युक्तं चैतदुदाहृतम्' इति ॥155॥
ननु `स्वतन्त्रात्मातिरिक्तस्तु' इत्यादिना प्राक् आत्मज्ञानातिरिक्तो मोक्षो नाम न कश्चिदस्ति इत्युक्तम्, इति ज्ञानमेव विमोक्षाय इत्यनेन हेतुफलभावोऽनयोरुच्यमानः कथं संगच्छते ? इत्याशङ्क्याह
मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । tantraloka.1.156a
स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥ tantraloka.1.156b
क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि । tantraloka.1.157a
असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥ tantraloka.1.157b


पं॰ 1 क॰ पु॰ क्रियाया अपवर्गेति अपि शब्दहीनः पाठः ।
पं॰ 14 क॰ पु॰ क्रियाधिकाः शक्तय इति पाठः ।
192


ननु स्वरूपमेव नाम किं यस्यापि प्रथनं मोक्षः स्यात् ? इत्याह स्वरूपम् इति, तेन स्वस्य आत्मनो रूपं संविच्चैतन्यं, तस्य प्रथनं यथातत्त्वं ज्ञानं, स एव मोक्षः इति यथोक्तमेव युक्तं । यः पुनरयं हेतुफलभाव उक्तः स काल्पनिक एव, न तात्त्विकः, यद्वक्ष्यति
`यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता ।
न सा मुख्या ॰॰॰ ॥'
इति । अन्यत् इति संविदतिरिक्तम् इत्यर्थः । ननु आत्मनः संविदतिरिक्तं यदि रूपं नास्ति, तत्कथमस्य शक्त्यन्तरयोगित्वं स्यात् ? इत्याशङ्क्याह तत्र इत्यादि, तु-शब्दः चार्थे ॥156॥157॥
ननु
`पत्युर्धर्माः शक्तयः स्युः ॰॰॰ ।'
इत्याद्युक्त्या साक्षात्पत्युर्धर्मितया शक्तीनां च धर्मतया निरूपणं कृतम् इति धर्मिणश्च अनिरूपणात् इत्यसिद्धोऽयं हेतुः ? इत्याशङ्क्याह


पं॰ 3 क॰ पु॰ तथातत्त्वमिति पाठः ।
193


परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । tantraloka.1.158a
शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते ॥ tantraloka.1.158b
यथा खलु काणादाः
`आत्मत्वाभिसंबन्धादात्मा'
इत्यादिना धर्मिरूपमात्मानं निरूप्य
`तस्य गुणा
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागाः
।'
इत्यादिना तत्समवेतम् आगमापायि भिन्नं धर्मजातम् अभ्युपागमन्, नैवमिह शक्तितद्वतोर्धर्मधर्मिभावः कश्चिद् अभिधीयते । पर एव हि स्वतन्त्रो बोधस्तत्तदुपाधिवशात् तत्तच्छक्तिरूपतया व्यपदिश्यते इति न वस्तुतः कश्चित् शक्तितद्वतोर्भेदः, यदुक्तं प्राक्


पं॰ 1 क॰ पु॰ पारमेश्वरेति, पाठः ।
पं॰ 2 ख॰ पु॰ काणादिदृष्टेति च पाठः ।
पं॰ 10 क॰ पु॰ आगमापायभिन्नमित्येवं रूपः पाठः ।
पं॰ 11 क॰ पु॰ मप्यत्युपागमन् इति, ख॰ पु॰ अप्युपागमन् इति पाठः ।
194


`मातृकॢप्ते हि भावस्य तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥'
इति ॥158॥
ननु यदि काणादादिदर्शनवत् इहापि धर्मधर्मिभावस्य निरूपणं क्रियते, तदा को दोषः स्यात् ? इत्याशङ्क्याह
ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा । tantraloka.1.159a
एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥ tantraloka.1.159b
यदि हि शक्तितद्वतोर्धर्मधर्मिभावन्यायेन वास्तव एव भेदः स्यात्, तदा
`इत्थं नानाविधैः रूपैः स्थावरैः जङ्गमैरपि ।
क्रीडया प्रसृतो नित्यमेक एव शिवः प्रभुः ॥'
इत्यादौ `एक एव शिवः' इति इयमीश्वराद्वयप्रतिज्ञात्मिका वाक् अनेकेषां शक्तितद्वदात्मनाम् अर्थानां


पं॰ 8 क॰ पु॰ भिन्नश्चेच्छक्तयस्ततः इति पाठः ।
पं॰ 12 ख पु॰ स्यादित्याहेत्येवं पाठः ।
पं॰ 15 क॰ पु॰ एक एव इतीयमिति ख॰ पु॰ इतीयमद्वयप्रतिज्ञात्मिकानेकेषामिति पाठः ।
195


संभवाद् वस्तुशून्या -- अभिधेयरहिता स्यात्, अद्वयवादखण्डना भवति इति यावत् ॥159॥
ननु यदि वस्तुतः संवित्स्वभावः शिव एव एकोऽस्ति, तत्कथमयं चिदादिनानाशक्त्यात्मा व्यवहारेऽन्यथा क्रियते ? इत्याशङ्काम् उपसंहारभङ्ग्या उपशमयितुमाह
तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् । tantraloka.1.160a
विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥ tantraloka.1.160b
एतच्च निर्णीतपूर्वम् इति पुनरिह नायस्तम् । यथोक्तं
`बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ।'
इति ॥160॥
इह `आत्मज्ञानमेव मोक्षः' इति ज्ञानमोक्षयोः कार्यकारणभाव एव वस्तुतो नास्ति -- इति `नावश्यं कारणानि कार्यवन्ति भवन्ति' इति न्यायेन ज्ञानिनां


पं॰ 1 क॰ पु॰ अद्वयखण्डनेति पाठः ।
196


सत्यपि ज्ञानाख्ये कारणे कार्यात्मा मोक्षो न स्यात् -- इत्यानिष्टापादनात्मायं प्रसङ्गो नाशङ्कनीयः ? इत्याह
यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् । tantraloka.1.161a
नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥ tantraloka.1.161b
ज्ञानिनो हि अवश्यभाविनी मुक्तिः इति भावः । अत एव च
`तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥'
इति । तथा
`॰॰॰ ज्ञानी त्वात्मैव मे मतः ।'
इत्यादि गीतम् ॥161॥
ननु
`ज्ञानमेव विमोक्षाय ॰॰॰ ।'
इत्यादिना ज्ञानमोक्षयोः कार्यकारणभाव उक्त एव, इति कथं नायं प्रसंगः ? इत्याह
यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । tantraloka.1.162a
197

न सा मुख्या, ततो नायं प्रसंग इति निश्चितम् ॥ tantraloka.1.162b
एतच्च निर्णीतचरम् इति नेह पुनरायस्तम् ॥162॥
एतदुपसंहरन्नन्यदवतारयति
एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि । tantraloka.1.163a
यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥ tantraloka.1.163b
ज्ञानस्वभावा इति क्रियाया ज्ञानाविनाभावित्वात् । यदुक्तं
`॰॰॰ न ज्ञानरहिता क्रिया ।'
इति । स्थूलत्वम् इति अन्तर्ग्राह्यग्राहकात्मना भेदेन उल्लासात् । तेन इति स्थूलतावहनेन हेतुना । चित्रता इति तत्तद्ग्राह्यादिभेदवैचित्र्यात् ॥163॥
अत एवाह
क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् । tantraloka.1.164a
198

भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥ tantraloka.1.164b
ग्राह्याः उच्चाराद्याः । बाह्याः कुण्डमण्डलादयः । उच्चारादयो हि ग्राह्यभूमिगताः बाह्यत्वेन अवसिता अपि चक्षुरादिबाह्येन्द्रियागोचरत्वात् प्रमात्रन्तरासाधारणत्वाच्च न बाह्याः । कुण्डमण्डलादयः पुनर्बाह्येन्द्रियगोचरत्वात् साधारण्याच्च बाह्याः सन्तो ग्राह्याः इत्युक्तम् `ग्राह्यबाह्यविभेदिनाम्' इति । एवं नियतभेदवत्त्वेऽपि एषामेव अवान्तरभेदात् भेदोपभेदनानात्वात् निःसंख्यत्वं बहुप्रकारत्वम् इत्यर्थः । तथाहि -- उच्चारस्य प्राणादिभेदात् प्रथमे पञ्च भेदाः, तत्रापि विन्दुनादादयो बहव उपभेदाः, एवमपि उच्चार्यमाणानां मन्त्राणामानन्त्यम् इत्यसंख्यभेदत्वम् ॥164॥
एवं च
`यतो नान्या क्रिया नाम ॰॰॰'


पं॰ 2 ख॰ पु॰ निःसंख्यात्वमिति पाठः ।
पं॰ 5 क॰ पु॰ इन्द्रियगोचरादिति पाठः ।
पं॰ 9 ख॰ पु॰ एषमेवान्तरभेदादिति पाठः ।
पं॰ 11 क॰ पु॰ प्रथमं पञ्च भेदा इति पाठः ।
199


इत्यादिना उपक्रान्तं क्रियाया ज्ञानात्मकत्वं युक्त्यागमाभ्यां निर्वाहितम् इत्येक एव ज्ञानात्मा मोक्षावाप्तावुपाय इति न उपायनानात्वम्, अत एव तत्फलभूते मोक्षेऽपि न कश्चिद्भेदः इत्याह
अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे । tantraloka.1.165a
उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥ tantraloka.1.165b
यत्केचन सूरय इति शशङ्किरे इति संबन्धः । केचन सूरय इति भेदवादिनः । तत्र हि हेतुफलयोर्वास्तव एव भेदः इति हेतुभेदात् फलभेदोऽपि स्यात् । इह पुनः
`प्रदेशो ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।'
इत्यादिनीत्या `संविदेव सर्वम्' इति को नाम हेतुफलभेदः, काल्पनिकेऽपि हेतुफलयोर्भेदे ज्ञानात्मा एक एव उपायोऽभ्युपगतः इति उपायनानात्वस्यैव


पं॰ 1 ख॰ पु॰ ज्ञानात्मत्वमिति पाठः ।
पं॰ 13 क॰ पु॰ प्रादेशोऽपीति, अविकल्पश्चेति च पाठः ।
पं॰ 15 क॰ पु॰ काल्पनिके हेत्वेति अपिशब्दहीनः पाठः ।
200


अभावात् को नाम फलभूतेऽपि मोक्षे भेदः स्यात् ॥165॥
ननु
`तच्च साक्षादुपायेन ॰॰॰ ।'
इत्यादिना साक्षात् उपायनानात्वमुक्तम् इति कथं न तद्भेदादुपेयेऽपि भेदः ? इत्याशङ्क्याह
मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः । tantraloka.1.166a
हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ tantraloka.1.166b
यत्र वास्तव एव हेतुफलभावोऽस्ति तत्रापि हेतोः दीक्षादेः भेदेऽपि तत्फलभूतस्य मलतच्छक्त्योर्विध्वंसादेः न कश्चिद्भेदः -- कलातत्त्वभुवनादिना भेदेऽपि दीक्षायाः तस्य अविशेषात्, तथा च घटस्य मुद्गरकरभित्तिधटाद्युपायभेदेऽपि अविशिष्ट एव ध्वंसतिरोभावादिः । अतश्च अवश्यमेव हेतुभेदात् फलभेदः इति नायमेकान्तः । यत्र पुनः


पं॰ 5 ख॰ पु॰ साक्षादेवोपायनानात्वमिति पाठः ।
पं॰ 15 क॰ पु॰ अवशिष्ट एवेति पाठः ।
201


काल्पनिक एव उपायोपेयभावः, तत्र का नाम इयं वार्ता इति भावः । तदेवम् इच्छाज्ञानक्रियात्मकत्वाद् उपायस्य त्रैविध्येऽपि तदुपेयभूतेऽपवर्गे न कश्चित् भेदः इति सिद्धम् ॥166॥
न केवलं युक्तित एव एतत्सिद्धं यावदागमतोऽपि इत्याह
तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । tantraloka.1.167a
आदेशि परमेशित्रा समावेशविनिर्णये ॥ tantraloka.1.167b
तत्रत्यमेव ग्रन्थं पठति
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । tantraloka.1.168a
उत्पद्यते य आवेशः शाम्भवोऽसावुदीरितः ॥ tantraloka.1.168b
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । tantraloka.1.169a


पं॰ 9 क॰ पु॰ परमेशेनेति पाठः ।
पं॰ 12 ख॰ पु॰ चिन्तकस्येवेति, प्रतिबोधित इति च पाठः ।
202


यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ tantraloka.1.169b
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः । tantraloka.1.170a
यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ tantraloka.1.170b
व्यत्यासपाठे च अयमाशयः -- यद् उपायोपेयादिना द्वारद्वारिभावेन शाम्भवोपाये एव प्रधान्येन विश्रान्तिः इति ॥168॥169॥170॥
तदेव क्रमेण व्याचष्टे
अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता । tantraloka.1.171a
तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥ tantraloka.1.171b
तया इति विकल्पानुपयोगितया । विकल्पोपयोगे हि तदैव
`यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।'


पं॰ 4 क॰ पु॰ स्थान-विकल्पनैरिति पाठः ।
203


इत्यादिदृष्ट्या ज्ञेयस्य अवश्यज्ञातव्यस्य पारमार्थिकस्य चिदात्मनो रूपस्य समापत्तिर्न स्यात्, विकल्पो हि अभ्यासबलात् स्वतुल्यविकल्पान्तराविर्भावकतया विगलदस्फुटत्वादिना यथायथं सातिशयविकल्पजननाक्रमेण अविकल्पात्मकसंवित्तादात्म्यम् अभ्येति । यद्वक्ष्यति
`प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ।'
इत्याद्युपक्रम्य
`संविदभ्येति विमलामविकल्पस्वरूपताम् ।'
इति । अत एव शाक्तोपायादस्य भेदः ॥171॥
ननु कथं विकल्पानुपयोगितयैव एतत् स्यात् ? इत्याशङ्कां दर्शयितुमाह
सा कथं भवतीत्याह गुरुणातिगरीयसा । tantraloka.1.172a
ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥ tantraloka.1.172b


पं॰ 1 ख॰ पु॰ ज्ञातव्या पारमार्थिकस्येति पाठः ।
पं॰ 4 क॰ पु॰ विकल्पजननाक्रमेणाविकल्पकात्मकेति पाठः ।
पं॰ 13 क॰ पु॰ स कथं भवतीति पाठः ।
204


प्रतिः आभिमुख्ये, आभिमुख्यं च वस्त्वन्तरापेक्षं, तच्च अत्र औचित्यात् चिन्मात्रम् इत्युक्तं `ज्ञेयाभिमुखेति' । अतिगरीयस्त्वमेव व्याख्यातुं द्राक्प्ररूढत्वेत्याद्युक्तम्, द्राक् इत्यनेन यथोक्तविकल्पक्रमोपारोहाभावः सूचितः ॥172॥
ननु कथमनयोर्भिन्नविभक्तिकयोः सामानाधिकरण्यम् ? इत्याशङ्क्याह
तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । tantraloka.1.173a
तृतीयर्थे तसि, इति इत्यनुबन्धलोपे प्रयोगः । तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात् तस्येष्टेः । वा शब्दः पक्षान्तरे । वैयधिकरण्यतः इति गुरुणा कृतोः यः प्रतिबोधः ततः इत्यर्थः ॥
आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ tantraloka.1.173b
परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः । tantraloka.1.174a


पं॰ 7 ख॰ पु॰ इत्याह इति पाठः ।
पं॰ 10 क॰ पु॰ तृतीयार्थे तस् तसीति पाठः ।
पं॰ 13 क॰ पु॰ यो बोध इति पाठः ।
पं॰ 16 ख॰ पु॰ तद्रूपमिति शोधितः पाठः ।
205


अस्वतन्त्रस्य जडस्य बुद्ध्यादेर्मितस्य प्रमातुः, स्वम् असाधारणं, तत् संकुचितं यत् रूपं तस्य निमज्जनं -- गुणीभावः, तदलम्ब्य परेण स्वतन्त्रेण बोधेन या तद्रुपता -- तादात्म्यं, स आवेशः इति संबन्धः । यदुकतं
`मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥'
इति । कुतः पुनरयमागतः ? इत्याह शम्भोः इति । न पुनः शक्तेरणोर्वा । आद्यात् इति -- तत एव हि शक्तेरणोश्च प्रभवः इति भावः । अत एव शक्तिरत्र इच्छा, न तु ज्ञानं क्रिया वा -- तयोः समावेशान्तरगतत्वेन अभिधास्यमानत्वम् ॥173॥
इह पदार्थावगमपुरःसरीकारेण वाक्यार्थावगमः इति पदार्थयोजनानन्तरं वाक्यार्थमपि योजयितुमाह
तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥ tantraloka.1.174b
विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् । tantraloka.1.175a


पं॰ 6 क॰ पु॰ तद्गुणज्ञानमिति समस्तः पाठः ।
पं॰ 11 क॰ पु॰ गतत्वेन व्याख्यास्यमानत्वात् इति पाठः ।
206


मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥ tantraloka.1.175b
आस्ते हृदयनैर्मल्यातिशये तारतम्यतः । tantraloka.1.176a
विज्ञेयं -- चिन्मात्राख्यं पारमार्थिकं रूपं, माता -- सकलकरणग्रामप्रसवनिमित्तत्वाद् बुद्धिः, सैव चिच्छायासंक्रान्तिसहिष्णुत्वाद् दर्पणः, तत्र प्रतिबिम्बितं गृहीतात्मग्रहं परिमितं प्रमातारम् अधरीकुर्वत् -- बुद्ध्यादौ आत्माभिनिवेशनं गुणीभावमापादयत् । एवं तरतमभावेन अनन्यसाधारणां विभूतिं -- बोधात्मताप्रधानतां रचयत्, समनन्तरोक्तयुक्त्या विकल्पोपारोहमन्तरेण अनन्यापेक्षित्वात् झटिति
`सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ।'
इत्याद्युक्तेः हृदयं -- विमर्शः, तस्य नैर्मल्यं -- अनन्योन्मुखत्वादपरिम्लानत्वं, तस्य अतिशयः -- परा


पं॰ 5 ख॰ पु॰ चिन्मात्रात्म पारमार्थिकेति पाठः ।
पं॰ 9 ख॰ पु॰ आत्माभिनिवेशमिति पाठः ।
पं॰ 12 क॰ पु॰ नन्यापेक्षत्वादिति पाठः ।
पं॰ 14 क॰ ग॰ प॰ हृदयं विसर्ग इति पाठः ।
207


काष्ठा, तत्र स्वयं प्रोन्मिषदास्ते -- स्वप्रकाशतया प्रकाशते इत्यर्थः ॥174॥175॥
ननु ज्ञेयं तावत् जडाजडात्म द्विधा संभवति, तत्र संविदि जडेन नीलादिना आवेशोऽस्ति इति कथं `बोधात्मैव समावेशः' इत्युक्तम् ? इत्याह
ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥ tantraloka.1.176b
इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः । tantraloka.1.177a
जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥ tantraloka.1.177b
चैतन्येन समावेशस्तादात्म्यं नापरं किल । tantraloka.1.178a
ननु कथं स्वप्रकाशायाः चितोऽपरप्रकाश्यत्वं ज्ञेयत्वं नाम ? इत्याशङ्क्योक्तम् `आद्यं च कल्पितम्' इति । चः शङ्काद्योतकः, परमेश्वर एव हि स्वातन्त्र्याद् अपरिहृतवेदकभावमपि स्वात्मानं भावनोपदेशादौ


पं॰ 5 क॰ पु॰ बोधैकात्मेति पाठः ।
208


शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शैः अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति । इदमेव हि परं स्वातन्त्र्यं -- यत् स्वं स्वरूपं वेदकमेव सत् वेद्यत्वेन अवभासयति । अत एव कल्पितं वस्तुशून्यम् इत्युक्तम् । इतरत् इति जडं नीलादि । तथा इति ज्ञेयतया । तत्र नीलज्ञानम् इत्यादौ चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बनमात्रमेव समावेशार्थो न तु तादात्म्यं, तथात्वे हि नीलादेर्ज्ञानात्मीभूतत्वात् ज्ञानमेव अविशिष्यते इति प्रतिच्छन्दव्यवस्थैव न स्यात् । संकुचितायाः चितः पुनरसंकुचितया चितैकात्म्यमेव तस्या एव वस्तुतो भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति युक्तमुक्तम् अस्वतन्त्रस्य परतद्रूपता नामावेशः इति ॥176॥177॥
तदेवोपसंहरति
तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥ tantraloka.1.178b


पं॰ 2 क॰ पु॰ अधरीकृत्येति पाठः ।
पं॰ 10 क॰ ख॰ पु॰ प्रतिकर्मव्यवस्थैवेति पाठः ।
पं॰ 11 क॰ पु॰ असंकुचितचिदैकात्म्यमेवेति पाठः ।
209


शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः । tantraloka.1.179a
संवित्तिः अर्थात् संकुचितरूपा ॥178॥
ननु अत्र उत्पत्तौ विकल्पापेक्षित्वं मा भूत् तथात्वे हि शाक्तोपायादस्य भेदो न स्यात्, औत्तरकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ? इत्याशङ्क्याह
तत्प्रसादात्पुनः पश्चाद्भाविनोऽत्र विनिश्चयाः ॥ tantraloka.1.179b
सन्तु तादात्म्यमापन्ना न तु तेषामुपायता । tantraloka.1.180a
तच्छब्देन निर्विकल्पकपरामर्शः । अविकल्पकयैव संवित्त्या शिवात्मताधिगमः कृतः इति कृतस्य करणायोगात् तत्पृष्ठभाविनां विकल्पानां तत्र अकिंचित्करत्वम् इत्याह न तु `तेषामुपायता' इति ॥179॥


पं॰ 4 ख॰ पु॰ विकल्पापेक्षत्वमिति पाठः ।
पं॰ 6 क॰ ख॰ पु॰ अपेक्षन्ते इति पाठः ।
पं॰ 13 क॰ पु॰ शिवात्मनाभिगम इति पाठः ।
210


अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं वदन्तो निरस्ताः इत्याह
विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥ tantraloka.1.180b
प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते । tantraloka.1.181a
अनधिगतार्थविषयं खलु प्रमाणम् । यदाहुः
`अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा ।'
इति । निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात् स्वात्मन्येव प्रामाण्यं नास्ति -- इति कथमन्यस्यापि प्रामाण्ये निमित्ततां यायात् । अत आह `सिद्धं हि विकल्पेनानुगम्यते' इति । सिद्धम् इति अधिगतम् । अनुगम्यते इति अनु पश्चात् गम्यते अधिगम्यते इत्यर्थः ॥180॥
ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तत्र पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते


पं॰ 8 क॰ ख॰ पु॰ अज्ञातार्थविषयो वा इति पाठः ।
211


इति `गृहीतं गृह्णामि' इति प्रतिपत्तिरस्य कथं स्यात् ? इत्याशङ्क्याह
गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ tantraloka.1.181b
गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते । tantraloka.1.182a
गृहीतमिति प्रथा हि विकल्पस्य भावादौपपत्तिकीगृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रतिपद्यते तत् दृश्यविकल्प्यार्थैकीकारादिना निर्विकल्पकैकात्म्यावलम्बनबलात् इति युक्तमुक्तं `विकल्पेन गृहीतं गृह्यते' इति ॥181॥
ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तं `सिद्धं विकल्पेनानुगम्यते' ? इत्याशङ्क्याह
अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ tantraloka.1.182b


पं॰ 4 ग॰ पु॰ यथा प्रथेति पाठः ।
पं॰ 7 क॰ पु॰ प्रथा हि विकल्पभावादौ प्रतिपत्तिगृहीत एवार्थ इति पाठः ।
पं॰ 8 क॰ पु॰ अस्याः प्रवृत्तेर्यत्तु गृह्णामीत्यविकल्पैकबलात्तं प्रतीति पाठः ।
212


सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् । tantraloka.1.183a
आभासवादे हि आभासमानतैव सुद्धिः इत्युक्तं स्फुरत्तैव वस्तुनः सिद्धिः । ननु विकल्पानामपि स्वात्मनि अविकल्पकत्वात् स्फुरद्रूपता अस्ति इति किमिति न ततोऽपि वस्तुनः सिद्धिः स्यात् ? इत्याशङ्क्याह `न विकल्पात्' इति, `सर्वो विकल्पः स्मृतिः' इति नीत्या विकल्पानां तावत् स्मृतिरेव रूपं, सा च असंनिहिते पूर्वानुभूत एव अर्थे प्रवर्तते इति विकल्पानां वस्त्वनपेक्षित्वं, यद्यपि च स्वतन्त्रविकल्पादौ क्षेत्रज्ञनिर्मितानां योजनास्ति तथापि पूर्वानुभवसंस्कारजा एव तेऽर्थाः इत्युक्तं `वस्त्वपेक्षाविवर्जितात्' इति । यस्य च यदपेक्षा नास्ति स कथं तत्सिद्धौ निमित्ततां यायात् इति भावः ॥182॥
यद्येवं निर्विकल्पकसिद्ध एव अर्थे विकल्पः प्रवर्तते न अधिकं किंचित्करोति तत्किमिति तेन स क्वचिदपेक्ष्यते इत्याह
केवलं संविदः सोऽयं नैर्मल्येतरविभ्रमः ॥ tantraloka.1.183b
213

यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि । tantraloka.1.184a
एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्पसापेक्षत्वं परिहृत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तुमुदाहरति
निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥ tantraloka.1.184b
तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि । tantraloka.1.185a
वैकटिको हि अचिरस्थायिनि परिमितेऽपि आलोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्परविशेषान् अवसायं विनापि अनुभवातिशयादेव जानीते, येन `इदमल्पम्, इदं महत्,' इदमितोऽपि महद्रत्नम्' इत्यस्य विवेकः स्यात् ॥184॥
किं चात्र अनुभवातिशये निमित्तं, येन विकल्पनैरपेक्ष्येणापि वस्तुतः सिद्धिः स्यात् ? इत्याह
नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ tantraloka.1.185b
214

अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते । tantraloka.1.186a
पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयिष्यते त्रयोदशाह्निकादौ ॥185॥
न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति, यावदवान्तरप्रकारत्वमपि इत्याह
पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ tantraloka.1.186b
तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः । tantraloka.1.187a
वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र
रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।
भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥
पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्वा तु तथापरः ।
आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः ॥
द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः ।
पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥'


पं॰ 5 ग॰ पु॰ अस्याविशेषस्य इति पाठान्तरं च ।
पं॰ 6 ख॰ पु॰ प्रकारत्वमेवाहेति पाठः ।
215


इति । अत्र च हेतुः -- तत्त्व इति । तत्त्वषट्त्रिंशकं च एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो वक्ष्यमाणप्रकारः स्फुटो भेदः तस्य अनुसंधानम् ॥186॥
तमेव भेदं निरूपयति
एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥ tantraloka.1.187b
अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् । tantraloka.1.188a
तद्भिन्नम् इत्यध्याहारः, अतस्तत्र पुमान्
`आत्मा चतुर्विधा ह्येषः ।'
इत्याद्युक्त्या अम्भोधिभिः -- सकलप्रलयाकलविज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैर्भन्नः, तथा विद्या काष्ठाभिः -- वर्णबिन्द्वर्धचन्द्रनिरोधिनीनादनादान्तशक्तिव्यापिनीसमनोन्मनात्मभिर्दशभिः भेदैर्भिन्ना, तथा शक्तिः ज्वलनैः -- इच्छाज्ञानक्रियात्मभिः त्रिभिर्भेदैः ॥187॥


पं॰ 1 ख॰ पु॰ अत्रैव हेतुरिति पाठः ।
216


ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ? इत्याशङ्क्याह
पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥ tantraloka.1.188b
अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल । tantraloka.1.189a
अव्यापकेभ्यः इति व्याप्येभ्यस्तत्त्वान्तरेभ्यः इत्यर्थः । मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं विद्यातत्त्वस्य, शिवान्तम् च शक्तितत्त्वस्य व्याप्तिः । यदुक्तं
`माया-सदाशिव-शिवप्रान्तव्याप्त्री ननु क्रमात् ।'
इति ॥188॥
न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्योन्यमपि इत्याह
अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोऽपि तत् ॥ tantraloka.1.189b
पुमान् अशुद्धो -- भेदमयत्वात्, विद्या शुद्ध्यमाना --


पं॰ 11 ख॰ पु॰ व्याप्तीन्यनुक्रमादिति पाठः ।
217


भेदाभेदमयत्वात्, शुद्धा शक्तिः -- अभेदमयत्वात् ॥189॥
ननु अस्तु एवं, भूतानां पुनः पृथक् निर्देशो किं निमित्तम् ? इत्याशङ्क्याह
भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । tantraloka.1.190a
तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥ tantraloka.1.190b
भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तं, तानि हि नित्यानुमेयान्येव, तदाह `कार्यहेत्वनुमेयतः तत्त्ववर्गात्' इति । तथा चात्र भूतानि कारणपूर्वकाणि आचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत् इत्यनुमानम् । यच्चैषां कारणं तानि
`तन्मात्रेभ्यश्च भूतानि ॰॰॰ ।'
इत्याद्युक्तेः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य एषाम् अनुमेयत्वम् । एवम् अनेनैव अनुमानेन मायान्तः सकलतत्त्ववर्गोऽनुमातव्यः । एतच्च तत्त्वाध्वनि
218

भविष्यति इति नेहायस्तम् । अत एव इति प्रत्यक्षसिद्धत्वात् ॥190॥
ननु भूतानाम् प्रत्यक्षसिद्धत्वम् अनुमेयात् तत्त्ववर्गात् पृथक्त्वेऽस्तु निमित्तं, कथं पुनर्भूतत्वेऽपि तदेव ? इत्याशङ्क्याह
सर्वप्रतीतिसद्भावगोचरं भूतमेव हि । tantraloka.1.191a
विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥ tantraloka.1.191b
सर्वेषां विदुषामविदुषां वा प्रतीतौ सता पारमार्थिकेन सत्ताया गोचरमेव हि भूतम् उच्यते । भूतं हि सत्यं, तच्च सत्यं, यत्र न कदाचिदपि कस्यचिदपि विप्रतिपत्तिः, अनुमेये पुनरविदुषां तावत् प्रतीतिर्नास्त्येव, विदुषां च प्रतीतावपि बहुप्रकारं परस्परं विप्रतिपत्तिः इति तत्र असत्यत्वसंभावनापि भवेत् इति भावः । चो हेतौ, अतश्च सर्व एवात्र अवकाशः तद्दातृत्वादाकाशः, तत्सहिते वाय्वन्ते चतुष्टये


पं॰ 17 ग॰ पु॰ तत्तादृक्त्वादाकाश इति पाठान्तरं च वर्तते ।
219


पृथिव्यादिभूतपञ्चके सर्वप्रतीतिसद्धावगोचरत्वात् तस्य भुतत्वस्य आस्थितिम् अवस्थानं विदुः इति युक्तमुक्तं `भूतसमाख्यान्यत एव' इति । एवं भौत आवेशः पञ्चधा, आत्मावेशश्च त्रिधा । एकोऽपि पुंस्तत्त्वरूप आत्मभेदः तत्त्वमध्येऽवस्थाप्यः, अन्यथा हि तात्त्व आवेशः त्रिंशुद्धा न स्यात् । विद्यायाश्च समनन्तरोक्तेन सामान्यात्मना मन्त्रेण रूपेण दशधावेशः । विशिष्टेन तु मन्त्र-मन्त्रेश-मन्त्रमहेशात्मना रूपेण अस्यास्तत्त्वमध्ये परिगणनम् । एवं शक्तेरपि एकं भेदं तत्त्वमध्ये व्यवस्थाप्य तदीय आवेशो द्विधा । शिवस्तु समावेश्य एव इति न तत्रावेशोऽस्ति -- तस्य परमाद्वयस्वभावत्वात्, तदपेक्षया समावेश्यसमावेशकलक्षणभेदानुपपत्तेः तद्युक्तमुक्तम् `अस्य समावेशस्य पञ्चाशद्विधत्वम्' इति ॥191॥
ननु श्रीपूर्वशास्त्रे रुद्रशक्तिसमावेशस्य पञ्चधात्वचर्चनं प्रतिज्ञाय भूतादीनां स्वरूपनिरूपणं कृतम् ? इत्याह ।


पं॰ 2 क॰ ख॰ पु॰ भूततत्त्वस्थितिमिति पाठः ।
पं॰ 10 ग॰ पु॰ तत्त्वमध्ये अवस्थापि इति पाठः ।
220


रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । tantraloka.1.192a
कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥ tantraloka.1.192b
प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् । tantraloka.1.193a
नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥ tantraloka.1.193b
कोऽवकाश इति -- भौतावेशादीनाम् अप्रस्तुतत्वात्, इदमेव हि तदप्रस्तुताभिधानं यदन्यदुपक्रम्य अन्यदभिधीयते इत्यतश्चोदितं `कोऽवकाशो भौतावेशादिवर्णने' इति । अथ रुद्रशक्तिसमावेशवर्णने प्रतिज्ञातेऽपि प्रसंगादेतदुक्तम्, इति पुनस्तदप्ययुक्तम् इत्याह `प्रसंगादेतत्' इति । निर्णीतप्राये प्रक्रान्तेऽर्थे यत्किंचिदनुषक्तत्वेन अप्रकृतम् अभिधीयते तत्रायं समाधिः `प्रसंगादेतदुक्तम्' इति । इह तु उद्दिष्टेऽपि प्रकृते लक्षणपरीक्षादि अनुक्त्वैव भूतावेशादीनाम्


पं॰ 11 ख॰ ग॰ पु॰ भौताद्यावेशवर्णने इति पाठः ।
पं॰ 12 ग॰ पु॰ प्रस्तुतेऽपि प्रसङ्गादित्युक्तम् ।
221


आकस्मिकमेव अभिधानं कृतम् इति को नामायं प्रसंगः । एवं हि अप्राकरणिकानां प्रमेयाणामानन्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ? इत्युक्तं `नास्माकं मानसावर्जी' इति ॥192॥193॥
यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह
उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । tantraloka.1.194a
भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥ tantraloka.1.194b
अत्र इति अद्वयशास्त्रे श्रीश्रीपूर्वे । सा इति विभिन्नता । तन्निषेधे तु द्वयवर्जितत्वं हेतुः ॥194॥

ततश्च किं स्यात् ? इत्याशङ्क्याह
यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन । tantraloka.1.195a
एतावती महादेवी रुद्रशक्तिरनर्गला ॥ tantraloka.1.195b
अन्यत् इति -- तद्भेदा एव भुवनाद्याः । अनर्गला इति -- व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं
222

`तच्छक्तिचक्रात्मकमेव विश्वं ग्राह्यग्रहीतृग्रहणात्मनैतत् ।
अन्तादिमध्येषु सदा विभाति नात्यन्तभिन्नं भवतोऽस्ति किंचन ॥'
इति ॥195॥
एतच्च तत्रत्येनैव अर्थेन संवादयति
तत एव द्वितीयेऽस्मिन्नधिकारे न्यरूप्यत । tantraloka.1.196a
धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥ tantraloka.1.196b
तत एव इति -- रुद्रशक्तेरेव तावत्स्फाररूपत्वात् । अस्मिन् इति -- श्रीपूर्वशास्त्रे । यदुक्तं तत्रैव
`शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥'
इत्यादि
`॰॰॰ शिवः साक्षान्न भिद्यते ।'
इत्यन्तम् । एतच्च तत्त्वभेदने भविष्यति, इति ग्रन्थविस्तरभयात् नेह आयस्तम् ॥196॥
ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां

223


गर्भीकृत्य, एतदेव उपसंहारभङ्ग्या दृष्टान्तं दर्शयन् उपपादयति

तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुखात् । tantraloka.1.197a
निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥ tantraloka.1.197b
यथा संनिहिते घटादौ अर्थे लौहित्याद्यंशाभासद्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत् तथैव अत्रापि भूताद्यंशमुखेन निखिलरुद्रशक्त्यवभासः इत्यधिगन्तव्यम् ॥197॥

एवमपि किं स्यात् ? इत्याशङ्क्याह
अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः । tantraloka.1.198a
अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥ tantraloka.1.198b
सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् । tantraloka.1.199a



पं॰ 13 क॰ पु॰ अत एव विकल्पेति पाठः ।
224


उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥ tantraloka.1.199b
ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् । tantraloka.1.200a
धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥ tantraloka.1.200b
अत एव इति -- धर्ममात्रावगममुखेन धर्मिण्यवगमात् । ध्रुवस्य भावो ध्रौव्यं -- नित्यत्वम् । अन्यैः इति -- पूर्णत्वादिभिः, स्वसमवायिभिः इति -- शक्तिरूपत्वादभिन्नैरित्यर्थः । ये केचन श्रुतचिन्ताद्युत्थिततत्तन्नियतधर्मविषयस्य विकल्पौघस्य संस्कारम् अवलम्ब्य परमेश्वरं समनन्तरोद्दिष्टाभिः सर्वाभिरेव शक्तिभिः एकयैव वा शक्त्या समाविशन्ति, ते समाविष्टाः सन्तः, ते ते ये विकल्पाः तेषाम् अन्तः स्वाकारतया स्फुरन्तः, ते नियता अनियता वा धर्माः शक्तयः, तेषां पाटवं प्रबोधः, तदाश्रित्य पूर्णधर्मौघम् अनन्तशक्तिखचितत्वेन पूर्णस्वभावं


पं॰ 3 ख॰ पु॰ तेन तत्स्वविकल्पेति पाठः ।
225


धर्मिणं शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते -- तद्रूपतया स्फुरन्ति इत्यर्थः ॥198॥199॥200॥
ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य आखण्ड्येनैव प्रतीतिगोचरीभावः संभवति न तु इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम् एतदेव संवादयति
ऊचिवानत एव श्रीविद्याधिपतिरादरात् । tantraloka.1.201a
तदेव पठति
त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् । tantraloka.1.201b
अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥ tantraloka.1.201c
यदि नाम ऐन्द्रियिकी निर्विकल्पप्रतीतिः अविकल्पम् -- अविभागमपि त्वत्स्वरूपं, कल्पने नियततत्तद्धर्मविषयत्वेन


पं॰ 3 क॰ पु॰ अखण्डेनैवेति पाठः ।
पं॰ 11 क॰ पु॰ कल्पनमिति पाठः ।
पं॰ 13 क॰ पु॰ बभूवुरिति पाठः ।
पं॰ 15 क॰ पु॰ त्वत्स्वरूपकल्पने इति समस्तः पाठः ।
226


भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा -- नियतैकतरधर्मावभासमुखेन धर्मिस्वरूपावभासमय्यः, अन्तः -- अस्फुटाकारत्वेन, उल्लिखिताः चित्राः -- अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः -- अनुभवा, नो भवेयुः न उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माक्रान्त्या धर्मिणि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकैकस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियतधर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम् -- एकतरशक्त्यवभासमुखेन अनन्तशक्तावपि परमेश्वरेऽवभासः इति ॥201॥
एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि इत्याह
तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् । tantraloka.1.202a
अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥ tantraloka.1.202b


पं॰ 11 क॰ पु॰ शक्त्यवभासेनानन्तशक्ताविति पाठः ।
227


तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । tantraloka.1.203a
काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥ tantraloka.1.203b
प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । tantraloka.1.204a
आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥ tantraloka.1.204b
स्वशक्तिकिरणात्मकं यद्वस्तु तत् `पत्युरधिष्ठानम्' इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति संबन्धः । `अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम् ।' इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभावदर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं `तस्याम्' इत्यादि `उपचर्यते' इत्यन्तमागमः पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः


पं॰ 12 क॰ पु॰ मौलः, ग॰ पु॰ पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थमिति पाठः ।
228


तदात्मकं, पत्युः -- शक्तिमतः, अधिष्ठानम् -- अभिव्यक्तिस्थानम् इत्यर्थः । शक्तिरेव तज्ज्ञप्तावुपायः, यदुक्तं
`यथालोकेन दीपस्य किरणैर्भास्करस्य वा ।
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥'
इति । अत एव तस्यां शक्तौ, दिवि द्योतमानायां, सोऽपि सुष्ठु दीप्तात्मा -- महाप्रकाशवपुः, अत एव निष्कम्पः -- स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्रकाशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्, अत एव च अचलया -- महाप्रकाशमय्या प्रशस्यया मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवंविधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः, अत एव सूक्ष्मा परिच्छेत्तुमशक्त्या -- परप्रमात्रेकरूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके रूपे अतिशयेन लालसा -- तत्स्फुरत्तात्मिका इति यावत् । एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि बाह्यावरणानि यया सा प्रशान्तभेदो इत्यर्थः, अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि


पं॰ 5 ख॰ ग॰ पु॰ शक्तौ विद्योतमानायामिति पाठः ।
पं॰ 8 ख॰ पु॰ सर्वमिदमेतदिति पाठः ।
पं॰ 9 क॰ पु॰ अत एवाचलतयेति पाठः ।
229


सर्वदिक्षु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्रस्वभावा इति यावत्, तदपि अमृतात्मिका नित्या, अत एव आद्यन्तोपरता, अनित्ये हि आद्यन्तौ भवतः, अत एव साध्वी -- अनित्यत्वादिदोषकालुष्यरहिता इत्यर्थः, एवं-विधा च एषा शक्तिमतः परमेश्वरस्य मूर्तित्वेन उपचर्यते -- गौण्या वृत्त्या तद्रूपतया अभिधीयत इत्यर्थः ॥102॥103॥204॥
ननु उपचारे मुख्यार्थबाधादिना त्रितयेन अवश्यभाव्यं, तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह
तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् । tantraloka.1.205a
निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो भवेत् इति भावः । तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायोपेयभावः ॥

तदाह

तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥ tantraloka.1.205b


पं॰ 13 क॰ पु॰ शक्तिमद्रूपत्वाभिमाने इति, ख॰ पु॰ रूपत्वाभिमानेनेति पाठः ।
230


त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः । tantraloka.1.206a
आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥ tantraloka.1.206b
सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम किमुच्यते इत्युक्तम् `आशु तन्मयतास्थितिः' इति, आसादितायां शक्तावासादित एव शिवः इत्याशयः । एतदेव च मुख्यं प्रयोजनम् ॥206॥
अत एवाह

तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा । tantraloka.1.207a
आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥ tantraloka.1.207b
अनन्ता मिताश्च इत्यर्थाच्छक्तिः । धवतासत्त्वन्यायात् इति -- धवता हि अधवव्यावृत्ताः स्वव्यक्तीरेव


पं॰ 6 ख॰ पु॰ तद्युक्तमिति पाठः ।
पं॰ 12 ख॰ पु॰ आक्षिपेद्ध्रुवतेति, अन्तिकात्तत इति च पाठः । ग॰ पु॰ अन्तिकास्तत इति पाठः ।
पं॰ 14 ख॰ पु॰ ध्रुवतासत्त्वेति पाठः ।
231


आक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपित्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति इत्यस्यानन्तवस्त्वाक्षेपित्वम् अत एव च मितवस्त्वाक्षेपिण्यो दूरा -- अव्यापकत्वेन सर्वत्र असन्निहितत्वात्, अनन्तवस्त्वाक्षेपिण्यस्तु आसन्ना -- व्यापकत्वात् सर्वत्रैव संनिहितत्वात् ॥207॥
एतदेव प्रकृते योजयति
तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । tantraloka.1.208a
भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥ tantraloka.1.208b
सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः । tantraloka.1.209a
शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥ tantraloka.1.209b


पं॰ 3 क॰ पु॰ इत्यस्यानन्तरवस्त्विति पाठः ।
पं॰ 4 ख॰ पु॰ ध्रुवा अव्यापकेति पाठः ।
पं॰ 5 क॰ पु॰ क्षेपिण्यस्त्वसत्त्वव्यापकेति, ख॰ पु॰ क्षेपिण्यस्तु सत्त्वाव्यापकेति पाठः ।
232


अधोजुषः इति -- ईश्वरादिकाः शक्तीः, तदिति पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्वभावत्वाद्धेतोः । पूर्णस्वभावे हि रूपे उपासन्नाः पूर्णमेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्णस्वभावे पुनरपूर्णत्वमेव इत्युक्तम् `उपासान्तिकदूरत' इति । अत एव च दर्शनभेदः ॥208॥209॥

ननु विकल्प एव तत्कल्पनाबलान्नियतः सामान्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मणि अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात् न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे शाम्भवे इति कथमिहैतदुक्तम्? इत्याशङ्क्याह
इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । tantraloka.1.210a
इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥ tantraloka.1.210b


पं॰ 2 क॰ पु॰ शिवत्वादेः व्यापकस्वभावत्वाद्धेतोरिति पाठः ।
पं॰ 12 क॰ पु॰ शाक्ताख्ये इति पाठः ।
पं॰ 15 क॰ पु॰ योगाविकल्पनम् इति पाठः ।
233


इह इति शाम्भवावसरे, तस्मात् इति विकल्पात्, प्रतिपक्षे हि निरूपिते सुष्ठु पक्षनिरूपणं कृतं स्यात् इति -- नैतदप्रस्तुतं किंचिदभिहितमिति भावः । विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति अविकल्पे पुनरक्रमेण इति -- प्राप्ताविकल्पस्थितिर्यत्र कुत्रचिदवधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात् ॥120॥

तदाह
अविकल्पपथारूढो येन येन पथा विशेत् । tantraloka.1.211a
धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥ tantraloka.1.211b
एतदेव उदाहरति
निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि । tantraloka.1.212a
प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥ tantraloka.1.212b


पं॰ 5 क॰ ग॰ पु॰ प्राप्तिविकल्पस्थितिरिति पाठः ।
पं॰ 10 ग॰ पु॰ यथा व्रजेदिति पाठः ।
पं॰ 14 क॰ ख॰ पु॰ प्राग्रस्फुरदिति पाठः ।
234


इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत एव प्राग्र्यम् -- अखण्ड्येन प्रकृष्टं कृत्वा, स्फुरद्भूमिलक्षणः तत्त्वान्तरापेक्षया अंशः -- षट्त्रिंशो भागः, तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन संवित्परशिवात्मता -- तदावेशः स्यादित्यर्थः ॥212॥
एतदेव उपसंहरति
एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः । tantraloka.1.213a
शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ tantraloka.1.213b
परा भट्टादिकारूपा च असौ इच्छाशक्तिः, तदात्मकश्च असौ अंशः
`॰॰॰ परं त्विच्छात्मकं मतम् ।'
इत्याद्युक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ उपायः तं, सुमत्यन्तेनिवासिनः इति -- श्रीसोमदेवादयः ।


पं॰ 2 क॰ ख॰ पु॰ प्राग्रमाखण्ड्येनेति पाठः ।
पं॰ 4 क॰ पु॰ प्रकाशेन भूम्यंशात्मनैवेति पाठः ।
पं॰ 6 क॰ पु॰ तदेवोपपातयतीति पाठः ।
235


श्रीसुमतिनास्थस्य श्रीशोमदेवः शिष्यः, तस्य श्रीशम्भुनाथः इति हि आयातिक्रमविदः । यद्वक्ष्यति
`श्रीसोमतः सकलवित्किल शम्भुनाथः ॰॰॰. ।'
इति । यत्तु
`कश्चिद्दक्षिणभूमिपीठवसतिः श्रीमान्विभुर्भैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः ।
लोकेऽभूत्सुमतिस्ततः समुदभूत्तस्यैव शिष्याग्रणीः श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः ॥'
इत्यन्यत्रोक्तं, तत्परमगुर्वभिप्रायेणैव योज्यम् । यद्वा
`यावानस्य हि सन्तानस्तावानेको गुरुर्मतः ।'
इत्यादिवक्ष्यमाणनीत्यवलम्बनेन एतद्व्याख्येयम् । एवं
`इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः ।
श्रीशम्भुनाथः सद्भावं जाग्रद्दादौ न्यरूपयत् ॥'
इत्यादावपि ज्ञेयम् ॥213॥
इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह
शाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम् । tantraloka.1.214a


पं॰ 11 क॰ पु॰ यावान्यस्येति पाठः ।
पं॰ 13 ग॰ पु॰ चन्द्रिकाशान्ततामस इति पाठः ।
236


सविकल्पतया मायामयमिच्छादि वस्तुतः ॥ tantraloka.1.214b
एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति इति । अत एव स्फुटं -- साक्षादभिव्यक्तस्वरूपम् इत्यर्थः । ततश्च
`सर्वो विकल्पः संसार॰॰॰. ।'
इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं -- `सविकल्पतया मायामयम्' इति । एवमपि परमार्थतो यथायोगम् एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् `इच्छादिवस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्तिभिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्यन्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्त्रयाधीनमेव इत्येवमुक्तम् ॥214॥


पं॰ 3 ग॰ पु॰ एतच्च नात्र मनोमात्रमिति पाठः ।
पं॰ 5 क॰ ग॰ पु॰ तच्चेति पाठः ।
पं॰ 11 क॰ पु॰ निर्मीयते इति पाठः ।
पं॰ 13 ख॰ पु॰ क्षेत्रज्ञस्य हीति पाठः ।
237


अत आह
अभिमानेन संकल्पाध्यवसायक्रमेण यः । tantraloka.1.215a
शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥ tantraloka.1.215b
इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभिमन्य बाह्यमेषणीयादि तदतद्रूपतया संकल्प्य तदेव च अन्यापोहेन निश्चित्य `अहमेव सर्वत्र स्थितः' `सर्वं वा मय्येव स्थितम्' इत्येवमात्मा यः शाक्तो वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयविकल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः । यद्वक्ष्यति
`अनन्तराह्निकोक्तेऽस्मिन् स्वभावे पारमेश्वरे ।
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥'


पं॰ 6 क॰ पु॰ अहङ्कारग्रहणकर्तृत्वेति पाठः ।
पं॰ 7 ख॰ पु॰ तदेवान्त्यापोहेति पाठः ।
पं॰ 9 क॰ पु॰ स्थितः एवं च मय्येवेति पाठः ।
238


इत्याद्युपक्रम्य
`ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता ।
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥'
इति । अत एव हि शाक्तोपायस्य उपायोपायत्वमुक्तम् ॥215॥
ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वारसिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ? इत्याशङ्क्याह
पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् । tantraloka.1.216a
अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥ tantraloka.1.216b
सा इति अविकल्पा भूः । यदुक्तं
`तस्यां दशायामैश्वरो भावः पशोरपि ।'
इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परपूर्णा इति । संकुचितस्य हि मातुः


पं॰ 4 क॰ पु॰ शाक्तस्य उपायस्येति असमस्तः पाठः । ग॰ पु॰ शाक्तस्योपायोपायत्वमिति ।
पं॰ 10 क॰ पु॰ पशोर्यैवाविकल्पेति पाठः ।
236


संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः, अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशालिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यपहस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनार्थम् अवश्योपादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥216॥
तदेव प्रकृते योजयति
एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । tantraloka.1.217a
यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥ tantraloka.1.217b
तथा संकोचसंभारविलायनपरस्य तु । tantraloka.1.218a
सा यथेष्ठान्तराभासकारिणी शक्तिरुज्ज्वला ॥ tantraloka.1.218b


पं॰ 2 क॰ पु॰ साक्षाच्छम्भुत्वं भवेदिति भावः ।
पं॰ 11 ख॰ पु॰ यस्यां स्फुटमिति पाठः ।
पं॰ 14 ख॰ पु॰ विलापनपरस्येति पाठः ।
240


इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौरात्म्यात् ते संकुचित एव, इति अत्रापि उपदेशादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः प्रमात्रैकात्म्यस्वभावम् आभासं करोति -- परप्रमात्रेकरूपतया स्फुरति इत्यर्थः ॥217॥218॥

ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते ।

ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा । tantraloka.1.219a
अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥ tantraloka.1.219b
तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः ।



पं॰ 5 ख॰ पु॰ विलापनपरतयेति पाठः ।
पं॰ 7 ख॰ पु॰ परप्रमात्रैकात्म्यरूपेति पाठः ।
पं॰ 13 क॰ पु॰ यत्र सा इति पाठः ।
पं॰ 16 क॰ पु॰ अत्र इत्यादिनेति पाठः ।
241


आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पिकी बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति विशेषः, अत एव चेतसैव इति सावधारणं चिन्तनमात्रम् अत्रोक्तम् ॥219॥
नन्वत्र किमुच्चारमात्रेणैव रहितत्वम्, उत करणादिभिरपि ? इत्याह
उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः । tantraloka.1.220a
शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥ tantraloka.1.220b
बह्वन्तेन इति बहुवचनादाद्यर्थो हि लभ्यते इति भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयितव्यः । एते इति उच्चारकरणादयः । न सन्ति इति भेदैकनिष्ठत्वादेषाम् । अत्र हि बाह्योच्चारादिरहितत्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि संभवः इत्युभयमयत्वम्, तदाह `भेदाभेदौ हि शक्तिता' इति, आणवे पुनर्भेदस्यैव प्राधान्यम् ॥220॥



पं॰ 5 क॰ पु॰ उच्चारणमात्रेणैवेति पाठः ।
पं॰ 8 क॰ पु॰ बह्वन्तेनैतदादय इति पाठः ।
पं॰ 10 क॰ पु॰ भेदाभेदौ चेति पाठः ।
242


तदाह
अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः । tantraloka.1.221a
विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥ tantraloka.1.221b
पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव एव विश्रान्तिरिति दर्शितम् ॥221॥

ननु
`सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधो जुषः ।
शक्तीः समाक्षिपेयुः' ॰॰॰. 206
इत्याद्युक्तयुक्त्या बुद्ध्यादीनां शिवे व्यापृतिरेव नास्ति इति कथमेषां तदवाप्तावुपायत्वमपि उक्तम् ? इत्याह
ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् । tantraloka.1.222a
नाधोवर्तितया तेन कथितं कथमीदृशम् ॥ tantraloka.1.222b
एतदेव समाधत्ते


पं॰ 14 ग॰ पु॰ व्याप्नुयुश्चिरमिति पाठः ।
243


उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः । tantraloka.1.223a
स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥ tantraloka.1.223b
वस्तुतो हि शिव एव अस्माकम् अद्वैतवादिनां मते
`शिव एव गृहीतपशुभावः ।'
इत्याद्युक्तयुक्त्या स्वस्वातन्त्र्यमाहात्म्यादात्मानं प्रच्छाद्य तथाविधे बुद्ध्यादिरूपः परिमितः प्रमाता स्यात्, स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्याद्यपायासादनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति न कश्चिद्दोषः ॥223॥
न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि इत्याह
द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् । tantraloka.1.224a
अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥ tantraloka.1.224b


पं॰ 9 ग॰ बुद्ध्याद्युपायसाधनेति पाठः ।
पं॰ 17 क॰ पु॰ प्रभोर्व्याप्तुरिति पाठः ।
244


येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥ tantraloka.1.225a
यदुक्तं तत्र
`इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् ।
स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् ॥'
इति । एतदेव निगमयति `अधोव्याप्तुः' इत्यादिना । स इति बुद्ध्यादिरूपः, येन इति बुद्ध्यादीनां शिवप्रकाशैकरूपत्वेन हेतुना ॥224॥225॥
एवमेतत्प्रसंगादभिधाय प्रकृतमेवाह
द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति । tantraloka.1.226a
प्रयात एव तद्रूढिं विना नैव हि किंचन ॥ tantraloka.1.226b
प्रतिः आभिमुख्ये, तेन एतदुभयमपि परप्रकाशात्मनि शाम्भवावेशे एव विश्रान्तम् इत्यर्थः । यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न किंचित् स्यात् इत्युक्तं `तद्रूढिं विना नैव हि किंचन'


पं॰ 6 क॰ पु॰ प्रभोर्व्याप्तुरिति पाठः ।
पं 15 क॰ पु॰ विश्रान्तिरिति इति पाठः ।
245


इति । एवं च निर्विकल्पात्मा परः प्रकाश एव सर्वेषामेषामुपायः इत्युक्तं स्यात् ॥226॥
न चैतदस्मदुपज्ञमेव इत्याह
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् । tantraloka.1.227a
कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥ tantraloka.1.227b
अतः इति एकस्यामेव निर्विकल्पात्मिकायां संवित्तौ अनुप्रवेशात् । तदुक्तं
`संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।'
इति । अत्र च उपायानां नानात्वात् प्राप्तं तावत्फलभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्वत्वात् स एवात्र न स्यात् इति `न प्रकल्प्या' इत्युक्त्या एतदाक्षिप्तम् इत्याह -- कल्पनाया इति । मुख्यत्वम् इति अभिधेयत्वं । सूचितम् इति -- न तु साक्षादभिहितम् इति भावः ॥227॥
न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं, यावदितो बाह्यानां मतेऽपि इत्याह


पं॰ 10 ग॰ पु॰ संवित्तिः फलभेदेन न प्रकल्प्या मनीषिभिरिति पाठान्तरं च ।
246


विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते । tantraloka.1.228a
तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥ tantraloka.1.228b
तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनो वैभाषिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः -- परम्परा, तया उपात्ता -- जनिता, निर्विकल्पस्यैव प्रमाणता -- विकल्पोपारोहेण निर्विकल्प एव विश्रान्तिः इत्यर्थः ॥228॥

एतदेव उदाहरति

रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् । tantraloka.1.229a
अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥ tantraloka.1.229b
यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्या रत्नस्वरूपमजानानोऽपि `किमेवमस्य तत्त्वं न वा' इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषयतत्त्वं


पं॰ 18 क॰ पु॰ रत्नज्ञस्तद्विषयमन्त्रनिर्विकल्पज्ञानम् इति ख॰ पु॰ तद्विषयो मन्त्रेति पाठः ।
247



निर्विकल्पं जानानः इत्युच्यते इति वाक्यार्थः । एवमाणवाद्यभिज्ञेऽपि वाच्यम् ॥229॥
इह खलु भेदभेदाभेदाभेदात्मना त्रिधा ज्ञानं, यदुक्तं

`वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ।
भेदेन भेदाभेदेन तथैवाभेदभागिना ॥'
इति । तत्र आणवं भेदप्रधानमुक्तम्, शाक्तं च भेदाभेदप्रधानं, शाम्भवं पुनः किं प्रधानम् ? इत्याशङ्क्याह

अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । tantraloka.1.230a
भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥ tantraloka.1.230b
ननु
`॰॰॰ मुक्तिश्च शिवदीक्षया ।'
इत्याद्युक्तेः दीक्षादेः क्रियाया अपि मुक्त्युपायत्वमुक्तम्


पं॰ 3 क॰ पु॰ खलु भेदाभेदौ तदात्मना त्रिधा इति पाठः ।
पं॰ 6 क॰ पु॰ अभेदभागिनीति पाठः ।
पं॰ 8 क॰ पु॰ किं प्रमाणमिति पाठः ।
248


इति सा किमुपायान्तरमतिरिक्तम्, उत अत्रैव कुत्रचिदन्तर्भावमेति ? इत्याशङ्क्याह
अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः । tantraloka.1.231a
प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥ tantraloka.1.231b
सोपाये इति उच्चाराद्युपायसहभूते इत्यर्थः । अत एव तत्र `सोपाये' इति प्रागुक्तम् । समस्तः कर्मविस्तरः इति -- दीक्षादिर्विचित्रः क्रियाकलापः, भावी वक्ष्यमाणः । अन्तर्भविष्यति इत्यनेन -- नैतदतिरिक्तम् उपायान्तरमस्ति इत्यावेदितम् ॥231॥

ननु सजातीये सजातीयस्य अन्तर्भावो न्याय्यो न तु इतरथा, इति कथं दीक्षादेः क्रियाया आणवज्ञानान्तर्भावः स्यात् ? इत्याशङ्क्याह
क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् । tantraloka.1.232a


पं॰ 1 क॰ पु॰ अतिरिक्तं वा स्यात् सात्रैव कुत्रचिदिति, ख॰ पु॰ सा तत्रैवेति पाठः ।
249


उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥ tantraloka.1.232b
तत् इति विज्ञानं, पुरा इति `यतो नान्या क्रिया नाम' इत्यादौ ॥232॥

ननु `ज्ञानं मोक्षैककारणम्' इत्यादिना `ज्ञानान्मुक्तिः' इति तावत्प्रतिज्ञातं, तत्किं स्वाधिकरणं मोचकम्, उत पराधिकरणम्, स्वाधिकरणत्वे च तस्य किं दीक्षायां सत्यामसत्यां वा मोचकत्वम्, असत्यां चेत्
`न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।'
इत्याद्युक्त्या ज्ञानाधिगमे एव अधिकारो नास्ति इति किं कस्य मोचकं स्यात्, सत्यां चेत् परापेक्षात्मनैव स्वात्मनि दीक्षाकरणानुपपत्तेः, पराधिकरणत्वे च कारणमन्यत्र कार्यं च अन्यत्र इति महान् दोषः ? इत्याशङ्क्याह
सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् । tantraloka.1.233a
यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥ tantraloka.1.233b


पं॰ 17 ग॰ घ॰ पु॰ स्वपरिस्थितिमिति पाठः ।
250


कल्पनामात्रम् इति, वस्तुतो हि एकैव संवित् तत्तत्स्वपराद्याभासतया प्रस्फुरति इत्यभिप्रायः ॥233॥

अत एवाह
तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः । tantraloka.1.234a
गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥ tantraloka.1.234b
गुर्वगुर्वाद्यपेक्षया स्वपरकल्पनायाः साम्येऽपि येन शिष्येण गुरुणा वा यदैक्यम् एकीकारः तेन स्फुरणं स्वपराद्याभासविभागाभावेन एकघनसंविद्रूपतया विमर्शनं तदात्मा यो गुरुः स तावान् ऐक्यस्फुरणावधिः एक आत्मा यस्य तथाभूतः सन् सिद्धो मुक्तश्च पारमैश्वर्यमात्रमुच्यते इत्यर्थः । इदमुक्तं भवति -- यावदस्य हि स्वसंविदेकात्मत्वेन परामर्शः तावदयम् एक एव प्राप्तपरप्रकाशैकात्म्यः परिस्फुरति इति । तदुक्तं



पं॰ 2 क॰ पु॰ स्वपराभासात्मतया प्रस्फुरतीति भावः इति पाठः ।
पं॰ 10 क॰ पु॰ स्वपराद्यवभासेति पाठः ।
पं॰ 13 पारमैश्वर्यपात्रमिति पाठः संगतोऽनुमन्यते ।
पं॰ 14 क॰ पु॰ संविदात्मकत्वेनेति पाठः ।
251


`एवं व्याप्तिं तु यो वेत्ति परापरविभागतः ।
स भवेन्मोचकः साक्षाच्छिवः परमकारणम् ॥'
इति ॥234॥
अत एवाह
यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः । tantraloka.1.235a
सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥ tantraloka.1.235b
तत एव स्वसंतानं ज्ञानी तारयतीत्यदः । tantraloka.1.236a
युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥ tantraloka.1.236b
संतानः शिष्यप्रशिष्यादिरूप इति, इति तावदात्मत्वेन एकस्यैवास्य स्फुरणात् । तात् इति तावतः संतानात् । तावन्तं हि संतानमवलम्ब्य संविदैकात्म्यात् एक एवायं गुरुः इति यत् संतानिनो मुच्यन्ते, तत् स एव स्वात्मना मुच्यते इति स्वपरविभागस्य काल्पनिकत्वात् न कश्चिद्दोषः । अत एवाह `तत एव' इत्यादि, तारयति इति । तदुक्तं



पं॰ 6 ग॰ पु॰ तावदेको गुरुर्मत इति पाठान्तरं च ।
252


`आचार्यः स्वजनानां च कुलकोटिसहस्रशः ।
ज्ञानज्ञेयपरिज्ञानात्सर्वान्संतारयिष्यति ॥'
इति। अत्र हेतुः `तावानेको यतो मुनिः' मुनिः इति गुरुः ॥235॥236॥
एवं च सति अयत्नेन परोक्तदूषणोद्धारः सिद्धः इत्याह
तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता । tantraloka.1.237a
दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥ tantraloka.1.237b
ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । tantraloka.1.238a
अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । tantraloka.1.238b
इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥ tantraloka.1.238c


पं॰ 11 क॰ पु॰ ज्ञानात्मा वेति चेज्ज्ञानमिति, ख॰ पु॰ ज्ञानात्सा चेदिति ज्ञानमिति पाठः ।
पं॰ 14 क॰ पु॰ नाम साञ्जसम् इति पाठः ।
253


ये इति भेदवादप्रकाराः, ते इति एवं चोद्यविधायिनः, क्षिप्ताः प्रतिक्षिप्ताः । यन्मूलत एव ज्ञानक्रिययोरैक्यमभ्युपगतं स्वपरविभागस्य च काल्पनिकत्वम् इति तदेव च अत्र प्रतिसमाधानं नान्यत् इत्याह `यत्तु' इत्यादि । यदन्यैर्भेदेश्वरवादिभिर्निरूपितं तत् पुरस्तात् निषेत्स्यामः इति संबन्धः ॥237॥238॥

ननु यदि भेदवाद्युक्तं मलस्य द्रव्यरूपत्वं नाभ्युपेयते, तत्तस्य किं रूपम् ? इत्याशङ्क्याह
मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् । tantraloka.1.239a
तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥ tantraloka.1.239b
तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । tantraloka.1.240a
मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥ tantraloka.1.240b


पं॰ 3 क॰ पु॰ ऐक्यमुपगतमिति पाठः ।
पं॰ 11 क॰ पु॰ विहर्न्नीति, ग॰ पु॰ त्वाञ्जनादीति च पाठः ।
254


एतदेव अधिकावापेन उपसंहरति
एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । tantraloka.1.241a
मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ tantraloka.1.241b
पश्चिममिति आणवम्, मूलमिति, तस्यैव शाक्तक्रमेण शांभवे विश्रान्तिः तदाह तदुत्तरम् इति, तस्मादाणवात्, उत्तरं विश्रान्तिस्थानत्वादधिकं शाक्तम् उत्तरात् शाक्तादपि उत्तरं शांभवम् । यदुक्तं
`विभुशक्त्यणुसंबन्धात्समावेशस्त्रिधा मतः ।
इच्छा-ज्ञान-क्रियायोगादुत्तरोत्तरसंभृतः ॥'
इति ॥241॥
न केवलमाणवादेः विश्रान्तिधामतया शांभवमेव ज्ञानमुत्कृष्टं, यावदस्मादनुपायाख्यम् अन्यत् इत्याह
ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् । tantraloka.1.242a


पं॰ 4 क॰ पु॰ पूर्वं यदुत्तरमिति पाठः ।
पं॰ 6 ग॰ पु॰ आणवमूलमिति, क॰ पु॰ आणवमलमिति तस्येति पाठः ।
पं॰ 7 विश्रान्तिरित्यारभ्य उत्तरं विश्रान्तिस्थानेत्यन्तः पाठः ग॰ पुस्तकात् पूरितोऽस्ति ।
255


आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥ tantraloka.1.242b
परमम् इति उपेयैकरूपत्वात्, अत एवोक्तम् `उपायादिविवर्जितम्' इति । अत एव च `आनन्दशक्तिविश्रान्तम्' इत्युक्तम् । इच्छादीनां हि एषणीयादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसंभावनापि स्यात्, आनन्दशक्तिः पुनः
`आनन्दो ब्रह्मणो रूपम् ॰॰॰ ।'
इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र उपायगन्धोऽस्ति इति तात्पर्यम् ॥242॥
एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु उक्तम् इत्याह
तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । tantraloka.1.243a
अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥ tantraloka.1.243b
मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम् । tantraloka.1.244a
256

न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ tantraloka.1.244b
इत्यनेनैव पाठेन मालिनीविजयोत्तरे । tantraloka.1.245a
तत्र हि
`अनायासमनारम्भमनुपायं महाफलम् ।
श्रोतुमिच्छामि योगेश योगं योगविदांवर ॥'
इति देव्या पृष्टे
`शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् ।
यत्प्राप्य शिवतां मर्त्या लभन्त्यायासवर्जिताः ॥
न चैतदप्रसन्नेन शंकरेणोपदिश्यते ।
कथंचिदुपलब्धेऽपि वासना न प्रजायते ॥'
इत्याद्युपक्रम्य
`तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा ।
स विसर्गो महादेवि यत्र विश्रान्तिमर्हति ॥
गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते ।
तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ॥'
इत्याद्युक्तम् ॥243॥244॥


पं॰ 1 न चैतदप्रसन्नेन इति पद्यं ग॰ पुस्तकात् पूरितमिति ।
पं॰ 11 क॰ पु॰ उपलभ्यत इति पाठः ।
पं॰ 14 क॰ पु॰ अभ्यसन्नित्यं सुविरक्तेनेति पाठः ।
257


अयमेव च शास्त्रार्थः इत्याह
इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् । tantraloka.1.245b
तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥ tantraloka.1.245c
इतीति तन्त्रालोके -- तन्त्राणां पारमेश्वराणाम् आलोक इव आलोकः, तानि आलोकयति प्रकाशयति इति वा । इति -- उक्तस्वरूपं यत् ज्ञानचतुष्कं, किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने तन्त्र्यते -- विस्तरेण प्रकाश्यते इत्यर्थः ॥245॥

अथ
`तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते ।
किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥'
इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णयात्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तदङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते


पं॰ 14 क॰ पु॰ न्यायो न्यायाङ्गं तेनेति पाठः ।
258


तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । tantraloka.1.246a
अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥ tantraloka.1.246b
अन्तः -- मानसविज्ञानादौ, अनुद्घाटितरूपमिति -- अनुल्लिखितविशेषं, सामान्यधर्मात्मकम् इत्यर्थः ॥246॥

अयमेव च प्रायः `संशयः' इत्युच्यते इत्याह
तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । tantraloka.1.247a
संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥ tantraloka.1.247b
तथा -- प्राथमिकत्वेन अनुद्घाटितः करचरणादिविशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वतादिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्यतरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन


पं॰ 15 क॰ पु॰ अन्यतरधर्मे विशेषेति पाठः ।
259


नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण विशिष्टा या प्रथा -- प्रतीतिः सा संशयः, स हि ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्त्रकोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति उदियात् । तदाह `कुत्रचित्' इत्यादि -- कस्मिंश्चित् सामान्यधर्मावच्छेदिनि धर्मिणि इत्यर्थः । नान्यथा इति -- सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा इति यावत् ॥247॥
एतदेव विभज्य दर्शयति
एतत्किमिति मुख्येऽस्मिन्नेतदंशः सुनिश्चितः । tantraloka.1.248a
संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥ tantraloka.1.248b
एतत्किमिति -- परामर्शात्मा संशयः, `स्थाणुर्वा पुरुषो वा' इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात् सुष्ठु निश्चितः । ननु



पं॰ 3 क॰ पु॰ धर्मव्याप्त्यधिगमे वक्त्रकोटरत्वेति च पाठः ।
260



`नियतोभयांशावलम्बी विमर्शः संशयः ।'
इति संशयस्य लक्षणं, तत्र चेत् एकः कश्चिदंशो निश्चितः तत्कृतं तेन, इत्याह `संशयः' इत्यादि । अस्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादिर्येषां विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रित आत्मा स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का वार्ता अन्येषां धर्माणाम् ? इति सर्वेषामेव धर्माणाम् अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकाराभिधायक एव इति भावः ॥248॥
तदाह
किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते । tantraloka.1.249a

अधिकः इति एतच्छब्दार्थात् ॥
तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह


पं॰ 2 क॰ पु॰ चेत् य एतदंश इति पाठः ।
पं॰ 4 क॰ पु॰ तदस्तित्वनास्त्यादि इति पाठः ।
पं॰ 7 क॰ पु॰ निश्चितत्वाद् दुर्घटनं न वृत्तमिति पाठः ।
पं॰ 10 क॰ पु॰ लिखिताकारत्वाभिधायके एव इति पाठः ।
261


किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥ tantraloka.1.249b
अयम् इति किं-शब्दः ॥249॥
संशयसय च मुख्यत्वं क्वचिदमुख्यत्वे सात युज्यत इत्यस्यामुख्यत्वमपि दर्शयितुमाह
स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः । tantraloka.1.250a
भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥ tantraloka.1.250b
न मुख्यः इति -- पूर्ववत् सर्वेषामेव धर्माणाम् अनुद्घाटितरूपत्वाभावात्, यतः स्थाण्वादिनियतपरामर्शान्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां धर्माणाम् एष निश्चयात्मा प्रत्ययः ॥250॥

ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसंभवात् नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन विकल्प एव भवेत् ? इत्याशङ्क्याह


पं॰ 7 क॰ पु॰ मुख्यस्त्वेव संशय इति पाठः ।
पं॰ 8 क॰ पु॰ भूयःसुधर्मेति पाठः ।
पं॰ 13 क॰ पु॰ धर्माणामेव निश्चयेति पाठः ।
262


आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः । tantraloka.1.251a
संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥ tantraloka.1.251b
आमर्शनीयं स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य अनुद्घाटनं -- वक्त्रकोटरत्वादि विशेषरूपतयानाविष्करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय एव । `स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः किं पुरुषः इत्येव तात्त्विकः संशयार्थः. यदि परमेतत् किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च नियतविशेषधर्मानवगमात् अमुख्यत्वम् -- इति विशेषः । विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति नानुद्घाटितरूपत्वम्, तदाह `विकल्पस्त्वन्यथा स्फुटः' इति । अन्यथा इति -- आमर्शनीययोर्द्वयोरपि व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं


पं॰ 3 क॰ पु॰ किमप्यंशे इति पाठः ।
पं॰ 13 ख॰ पु॰ उभयोरिन्दोरिति पाठः ।
पं॰ 14 क॰ पु॰ नाद्यतद्रूपत्वमिति पाठः ।
263


संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम् । शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात् यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य त्रिविधा प्रवृत्तिः -- उद्देशो, लक्षणं, परीक्षा च इति, नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च प्रथममवश्यमुपादानं कार्यम् -- अनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षात्मशास्त्रस्य प्रणयनमेव न घटते -- इत्यस्यापि तत्र अङ्गत्वम् ॥251॥
ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ? इति चेत्, न चैतत् -- परस्परानुषक्ततयैव अत्र एषां


पं॰ 4 क॰ पु॰ धर्मत्वाद्यपि इति पाठः ।
पं॰ 11 क॰ पु॰ अनुद्दिश्य लक्षणेति पाठः ।
पं॰ 15 ख॰ पु॰ प्राणनायनासिद्धेरिति पाठः ।
264


निमित्तत्वाभिधानात् । संशयित एव हि अर्थः केनचिदभिधीयमानः शास्त्रेण उद्देशादिद्वारेण निर्णीयते इति, अत एव च स्वरूपभेदेऽपि एवं शास्त्रप्रवृत्तौ अनुद्घाटितात्मप्रथात्मकेन समानेन रूपेण कारणत्वमस्ति इति प्रतिपादयितुमाह
तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् । tantraloka.1.252a
प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥ tantraloka.1.252b
तेन -- पूर्वोक्तेन न्यायेन अनुद्घाटितात्मत्वेन भावस्य वस्तुमात्रस्य प्रथमं यत् प्रथनं स एव इहोद्देशः -- प्रश्नः संशयश्च इति, तत्र संशयस्य तावदेवंरूपत्वं समनन्तरमेव उक्तम्, उद्देशे च अनुद्घाटितत्वेनैव वस्तुनः प्रथनं रूपं -- नामधेयमात्रेणैव पदार्थानामभिधानात् । प्रश्नेऽपि एवं वाच्यम्, अन्यथा हि निर्णयात्मत्वे प्रतिवचनादयस्य विशेषो न स्यात् ॥252॥


पं॰ 7 ख॰ पु॰ भावाप्रथनमिति पाठः ।
पं॰ 11 क॰ पु॰ प्रथमं रूपमिति पाठः ।
पं॰ 15 क॰ पु॰ प्रश्नस्यैव वाच्यमिति पाठः ।
265


तत्र संशयितेऽर्थे प्रश्नः प्रवर्तते, इति तन्निर्णयानन्तरं निर्णेतव्यः प्रश्नः, इति प्राप्तावसरं तत्सतत्त्वमेव वक्तुमाह
तथानुद्घाटिताकारभावप्रसरवर्त्मना । tantraloka.1.253a
प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥ tantraloka.1.253b
इह अद्वयनये `परमार्थसती संविदेव सर्वम्' इति प्रष्टृप्रतिवक्तृरूपगुरुशिष्याद्यात्मनो भेदस्य तावदनुपपत्तिः इति । तथा पूर्वोक्तेन प्रकारेण अनुद्घाटिताकारः -- सर्वभावनिर्भरत्वात् संविदेकरूपो, योऽसौ भावः -- पारमार्थिकं पूर्णस्वभावं वस्तु, तस्य यः प्रसरः -- पश्यन्त्यादिदशाक्रमणेन अवरोहः. तदेव वर्त्म, तेन प्रसरन्ती -- वैखर्यादिरूपतामासादयन्ती, स्वसंविदेव, संकुचिता, प्रमात्रात्मशिष्यभूमिकाम् अवभासयन्ती `प्रष्ट्री' इत्युच्यते इत्यर्थः ॥253॥

कुत्र कथं चास्याः प्रष्टृत्वम् ? इत्याह


पं॰ 13 क॰ पु॰ क्रमेण नावरोह इति पाठः ।
266


तथान्तरपरामर्शनिश्चयात्मतिरोहितेः । tantraloka.1.254a
प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥ tantraloka.1.254b
यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि । tantraloka.1.255a
अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥ tantraloka.1.255b
तथा -- परमाद्वयमयत्वेन, आन्तरः -- प्रमात्रैकात्म्यरूपो, योऽसौ परामर्शः, तस्य निश्चयो -- दार्ढ्यं, तदात्मनस्तिरोहितेः -- उत्तरोत्तरस्य रूपस्य पूर्वपूर्वत्रानवस्थितेः, प्रसरात् -- बाह्यौन्मुख्यात्, अनन्तरमुद्भूतौ यौ संहारश्च -- पराद्यात्मनो रूपस्य स्वात्मन्येव विश्रान्तिः, उदयश्च -- पश्यन्त्याद्यात्मना रूपेण बहिसुद्भवः तौ भजते, तद्रूपा हि सा संवित् यावति प्रस्फुटात्मनि -- ग्राह्यग्राहकयुगलकाद्याभासस्वभावे


पं॰ 6 क॰ पु॰ अस्फुटात्मता इति पाठः ।
पं॰ 13 ख॰ पु॰ संहार उदयश्च पराद्यात्मना रूपेण बहिरुद्भवस्तावितीयान् पाठः ।
267


बाह्यप्रसरे, अनुन्मीलितरूपा -- संविद्रूपत्वेन अनवभासमाना भवेत्, तावत्येव अनुद्घाटितत्मत्वेन प्रथनात् `प्रष्ट्री' इत्युच्यते इत्यथः ॥254॥255॥
न केवलं संविदः प्रष्टृत्वमेव अस्ति, यावत् प्रश्नादिरूपत्वमपि इत्याह
स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । tantraloka.1.256a
गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥ tantraloka.1.256b
तदुक्तं
`गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥'
इति । यथा
`प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता ।'
इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षादुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ?


पं॰ 1 ख॰ पु॰ रूपेणावभासमानेति पाठः ।
पं॰ 12 क॰ पु॰ वाक्यैस्तन्त्रमाधारभेदत इति पाठः ।
पं॰ 14 क॰ पु॰ द्वयं देवीति पाठः ।
पं॰ 16 क॰ पु॰ अनयोरभेदरूपत्वमिति पाठः ।
268


इत्याह -- एष इत्यादि । अतात्त्विकः इति अवास्तवः । बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तद्देहादिभावम् आभासयति इति भावः ॥256॥
तदाह
बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः । tantraloka.1.257a
बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥ tantraloka.1.257b
बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्षणात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः -- तत्तद्भावजातं, द्राक् -- अनन्यापेक्षितया निर्विलम्बनमेव, सामान्यविशेषरूपत्वेन, बहिः -- विच्छेदेन, अवभासयत्येव इति वाक्यार्थः ॥257॥

तत्र सामान्यस्य किं नाम बहिरवभासनम् ? इत्याह
स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् । tantraloka.1.258a


पं॰ 11 क॰ पु॰ निरवलम्बमेवेति पाठः ।
पं॰ 14 क॰ पु॰ बहिरवभानमिति पाठः ।
269


धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥ tantraloka.1.258b
स्रक्ष्यमाणाः -- स्वालक्षण्येन उल्लासयिष्यमाणा, ये विशेषांशाः, तत्र
`निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।'
इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा -- औन्मुख्यं, तत्र योग्यस्य -- तदौन्मुख्याभावेऽपि सर्वगतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्मप्रथारूपत्वात् `संशयः' इति -- विशेषाकांक्षानुगुणसामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥258॥
एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह
स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । tantraloka.1.259a
निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥ tantraloka.1.259b


पं॰ 16 क॰ पु॰ निर्णये मातृरुचिते इति पाठः ।
270


यदा पुनर्निश्चयोपयोगिना सर्वविशेषाणां सृष्टत्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् -- विशेषविषया दृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथारूपत्वात् `स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् इत्युक्तं `मातृरुचितः' इति । प्रमाता हि यावदेव `ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं भवति इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत् -- प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह `नान्यथा कल्पकोटिभिः' इति ॥259॥
न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्लक्षणादिरूपत्वमपि इत्याह
तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् । tantraloka.1.260a
उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥ tantraloka.1.260b


पं॰ 5 क॰ पु॰ प्रमात्रिच्छयैव निर्बन्ध इति पाठः ।
पं॰ 9 क॰ ग॰ पु॰ मात्रिच्छायामेव विश्रान्तेरिति पाठः ।
पं॰ 11 ख॰ पु॰ निश्चयमात्रत्वमिति पाठः ।
पं॰ 16 क॰ पु॰ निर्णयमिति पाठः ।
271


तस्य -- विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्यं -- तदितरपरावृत्तत्वं, तस्य आक्रमणं -- स्वात्मना विषयीकरणं, तत्र पाटवं -- नैराकांक्ष्यात्तीव्रत्वं, ततो यत् तेनैव आकारेण उन्मुद्रणं -- प्रतिनियतस्वस्वरूपाविष्करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात् `लक्षणम्' इति `उत्तरम्' इति `निर्णय' इति चोच्यते । तत्र -- असाधारणस्तत्त्वावबोधको धर्मो लक्षणं, तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो निर्णयः ॥260॥
ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह
निर्णीततावद्धर्मांशपृष्ठपातितया पुनः । tantraloka.1.261a
भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥ tantraloka.1.261b


पं॰ 1 क॰ पु॰ स्वात्मवीर्यमिति समस्तपाठः ।
पं॰ 5 क॰ पु॰ तदुद्घाटितात्प्रथममयत्वेति पाठः ।
पं॰ 11 क॰ पु॰ नियतवत्कथमिति पाठः ।
पं॰ 12 ख॰ पु॰ निर्णीतं तावदिति पाठः ।
272


निर्णीतो -- निर्णयविषयीकृतः, तावान् -- नियतलक्षणलक्ष्योः, योऽसौ धर्मांशः -- तद्विषयतया पौनःपुन्येन यः समुद्देशः, यच्च लक्षणं -- साधारणासाधारणधर्मनिरूपणं, तदात्मकं, पुनः परितः -- सर्वतो निःशेषप्रतिपक्षप्रतिक्षेपेण ईक्षणं -- परीक्षा इति वाक्यार्थः ॥261॥
एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह
दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः । tantraloka.1.262a
उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥ tantraloka.1.262b
एतदेव क्रमेण दर्शयति
निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । tantraloka.1.263a
परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥ tantraloka.1.263b


पं॰ 2 क॰ पु॰ लक्षणलक्ष्यो योंशो धर्मेति पाठः ।
पं॰ 5 क॰ पु॰ प्रतिक्षेपेण लक्षणमिति पाठः ।
पं॰ 9 क॰ पु॰ सर्वश इति पाठः ।
पं॰ 14 क॰ पु॰ विकल्पे प्रीणितं स्फुरेदिति पाठः
273


नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति । tantraloka.1.264a
लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥ tantraloka.1.264b
उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः । tantraloka.1.265a
इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥ tantraloka.1.265b
स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । tantraloka.1.266a
अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥ tantraloka.1.266b
उद्देशः इति -- आलोचनमात्रस्य अनुद्घाटितात्मप्रथारूपत्वात् । लक्षणम् इति -- नीलमिति विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पानाम् इति -- अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव


पं॰ 6 क॰ पु॰ गोतुल्ये गवयाभिध इति पाठः ।
पं॰ 10 ख॰ पु॰ यजेतेस्य स्वलक्षणमिति पाठः ।
274


च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् । उद्देशः इति -- नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घाटितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति -- साध्यधर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्याप्तिः -- अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयोरविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् । अयमिति -- पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटितात्मत्वेन प्रथनात् । प्राच्यः इति -- प्रथमो धर्मिविशेषानवच्छिन्नः इति यावत् । गोतुल्योऽयम् इति -- प्रमाणदशायां, गवयशब्दवाच्योऽयम् इति -- फलदशायां च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्मप्रथारूपत्वात् लक्षणत्वम् । शेषः इति -- सास्नादिमद्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति -- स्वःकामः इत्येव । अस्य इति -- स्वःकामस्य । लक्षणम्


पं॰ 1 क॰ पु॰ इत्येषा परीक्षोद्देश इति पाठः ।
पं॰ 5 क॰ ख॰ साध्यवर्तिसाधनेति पाठः ।
पं॰ 6 ख॰ पु॰ इत्यस्य परीक्षात्वमिति पाठः ।
पं॰ 11 क॰ पु॰ विशेषावच्छेदभावित्वमिति पाठः ।
पं॰ 13 ख॰ पु॰ सास्नादिमत्वमाह दोहाधिकारीति पाठः ।
275


इति -- अधिकारानुबन्धस्य विषयानुबन्धमन्तरेणानिर्णयात् । शेषवर्तिनी इति
`शेषः परमार्थत्वात् ।'
इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्यता इत्यर्थः । परीक्षात्वं चात्र -- उद्दिष्टलक्षितस्वर्गकामाधिकारनिस्तुषीकरणत्वात् ॥263॥264॥265॥266॥
ननु स्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः `उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमुचितं -- तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानुवादपुरःसरं प्रतिक्षिपति
विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः । tantraloka.1.267a
वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ tantraloka.1.267b


पं॰ 2 क॰ पु॰ शेषवर्तिनेति शेष इति पाठः ।
पं॰ 6 क॰ पु॰ निस्तुषीकरणवदिति पाठः ।
पं॰ 10 क॰ पु॰ तदानीन्तनस्येति पाठः ।
पं॰ 14 क॰ पु॰ सहिष्णव इति पाठः ।
276


तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । tantraloka.1.268a
विकल्पेन -- तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्टत्वात्, तदपेक्षया स्रक्ष्यमाणाः -- लक्षणात् उल्लासयिष्यमाणा, अत एव अन्ये -- ये सामान्यव्यतिरिक्ताः प्रमातुः संतोषादायकत्वाच्च, रुचिता -- इष्टाः, ये अंशा -- विशेषाः, तान् -- अर्थात् व्याप्यत्वेन सहते तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः, तथात्वेन -- स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेषसहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः -- अभिधानं, तत्र यावतः, आकांक्षणीयस्य विसेषस्य स्रक्ष्यमाणता तावत्, तदैव -- उद्देशावसरे, संविच्चिनुते -- अनुसंधत्ते इत्यर्थः ॥267॥

तत्र हेतुः
यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥ tantraloka.1.268b
हि-शब्दो वाक्यालङ्कारे ॥268॥


पं॰ 3 क॰ पु॰ विकल्पे तत्प्रधानेति पाठः ।
277


ननु उद्घाटितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यं ? किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः(*) स्यात् इत्याशंक्याह
स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः । tantraloka.1.269a
अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥ tantraloka.1.269b
इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणं -- व्यवहरणबीजमिति । तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संह्रियमाणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्यत्वम् इत्यस्त्येव विवेकः ॥299॥

ननु
`भूयो भूयः समुद्वेशलक्षणात्म परीक्षणम् ।'


* यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा समान्यविशेषयोर्वैविक्त्येन प्रथनाल्लक्ष्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामान्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति `एकत्र द्वियोगः संकराख्यदोषदूषितः संभवेदिति भावः ।'


पं॰ 10 क॰ ग॰ पु॰ लक्षणव्यवहरणबीजं सा इति पाठः ।
278


इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां प्रतिक्षिपति
तत्पृष्ठपातिभूयोंशसृष्टिसंहारविभ्रमाः । tantraloka.1.270a
परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥ tantraloka.1.270b
ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा-वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशंक्याह
प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः । tantraloka.1.271a
परा परापरा देवी चरमा त्वपरात्मिका ॥ tantraloka.1.271b


पं॰ 7 क॰ पु॰ कल्पितो विधिरिति पाठः ।
पं॰ 9 क॰ पु॰ चमत्कारमात्रविमर्शेति पाठः ।
पं॰ 16 क॰ पु॰ त्वपरा मता इति पाठः ।
279


ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्यन्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशङ्क्याह

इच्छादि(*) शक्तित्रितयमिदमेव निगद्यते । tantraloka.1.272a
पूर्वेण संबन्धः ।
एतत्प्राणित एवायं व्यवहारः प्रतायते ॥ tantraloka.1.272b
सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः संविद्भित्तावेव अवभासते इति भावः । तदुक्तं
`इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥'
इति ॥272॥
न केवलमेषाम् एवं-रूपत्वं, यावत्
`परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः ।
संबन्धः षड्विधस्तन्त्रे ॰॰॰ ॥'
इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह


* तदियानत्रार्थः -- य एव पशुप्रमातृभी रुद्रेशादित्रयरूपतया विकल्पत्वेन व्यवहारो निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एव उपादेतत्वेन कथितः ।


पं॰ 10 क॰ पु॰ इत्थमित्यर्थभिन्नेति , ख॰ पु॰ इत्थमत्यन्तभिन्नार्थेति पाठः ।
पं॰ 14 क॰ पु॰ मिश्रस्त्वमिश्रक इति पाठः ।
280


एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । tantraloka.1.273a
परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥ tantraloka.1.273b
एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते आत्मा स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति इत्यर्थः । प्रष्टृतद्वक्त्रोरेव संबन्धो भवति इति भावः । संबन्धपञ्चके इति महदादिके । षष्ठो हि परः संबन्धः सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति पृथगिह नोक्तः ॥273॥

एतच्च स्वोपज्ञमस्माभिर्नोक्तम्, इत्याह
यथोक्तं रत्नमालायां सर्वः परकलात्मकः । tantraloka.1.274a
महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥ tantraloka.1.274b
रत्नमालायाम् इति -- श्रीकुलरत्नमालायाम्, उक्तम् इति अर्थतो, न तु शब्दतः । तत्र



पं॰ 15 क॰ पु॰ मिश्रोऽन्योऽर्थस्तु पञ्चमेति पाठः ।
281


`अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् ।
तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥
अदृष्टविग्रहश्चैव स शान्त इति गीयते ।
तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥'
इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकलात्मकत्वमुक्तम् । अत एव च एतदेव
`सृष्टिमार्गानुसारेण आयातश्चावनीतले ।
कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥'
इत्यनेन उपसंहृतम् । मिश्रो -- दिव्यादिव्यः । अन्योऽन्यः इति -- दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्योऽपि अदिव्यः इति । दिव्य-दिव्यादिव्य-अदिव्यात्मना त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरेतरशब्देन उक्तः । तदुक्तं
`महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः ।
इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥'
इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य,


पं॰ 1 क॰ पु॰ आमृष्टमिति पाठः ।
पं॰ 6 क॰ पु॰ महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः ।
पं॰ 10 क॰ पु॰ इत्यत्रोपसंहृतमिति पाठः ।
282


तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमारादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्योऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव
`शिवस्य परिपूर्णस्य परस्यामिततेजसः ।
तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥
सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः ।
अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ॥
प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः ।
तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ॥
द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः ।
ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥
चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः ।
व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ।
शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः ।
इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥'
इति ॥274॥
परकलात्मत्वमेव व्याचष्टे
भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते । tantraloka.1.275a


पं॰ 6 क॰ पु॰ सतत्त्वं तेनेति पाठः ।
पं॰ 10 क॰ पु॰ देवात्तमप्येवमिति पाठः ।
पं॰ 12 क॰ पु॰ चतुर्थस्तद्भगवतेति पाठः ।
283


प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे संविद्दार्ढ्यैकात्म्यात् संबन्धः -- तस्य भेदाभेदरूपत्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगलनात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः संबन्धः ॥

तदाह
संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥ tantraloka.1.275b
परता हि पूर्णैकात्म्यप्रथालक्षणा । पूर्णे हि सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि संबन्धेषु अस्ति इति युक्तमुक्तं `सर्वः परकलात्मकः' इति । तदुक्तं
`संबन्धः परमेशानि सर्वः परकलामयः ।
महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥'
इति ॥275॥
संबन्धान्तरेष्वपि एतदेवातिदिशति


पं॰ 4 क॰ पु॰ ऐकात्म्यं च यदेति पाठः ।
पं॰ 5 क॰ पु॰ सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।
284


अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् । tantraloka.1.276a
शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥ tantraloka.1.276b
एतदेव संकलयति
इत्थं संविदियं देवी स्वभावादेव सर्वदा । tantraloka.1.277a
उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥ tantraloka.1.277b
इत्थम् -- उक्तेन प्रकारेण, सर्वदा संविदेव इयं भगवती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना शास्त्रेण स्वरूपिणी -- शास्त्रात्मना संविदेव अवभासते इत्यर्थः ॥277॥

तत्र उद्देशस्वरूपमेव तावदाह
तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । tantraloka.1.278a


पं॰ 1 क॰ पु॰ अनेनैव त्रयेणेति पाठः ।
पं॰ 11 घ॰ पु॰ स्वातन्त्र्यात् आदेशादीति पाठः ।

285


विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥ tantraloka.1.278b
शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः । tantraloka.1.279a
चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥ tantraloka.1.279b
कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । tantraloka.1.280a
दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥ tantraloka.1.280b
प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । tantraloka.1.281a
तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥ tantraloka.1.281b
अन्त्येष्टिः श्राद्धकॢप्तिश्च शेषवृत्तिनिरूपणम् । tantraloka.1.282a
लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥ tantraloka.1.282b


पं॰ 3 क॰ पु॰ शाक्तोपायोऽप्यणूपाय इति पाठः ।
286


रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । tantraloka.1.283a
एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥ tantraloka.1.283b
आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् । tantraloka.1.284a
सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसंज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः । तत्र पूर्वजमुद्देशमाह -- विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भवादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः । पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य । दीक्षा इति पुर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् । यद्वक्ष्यति
`तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।'
इति ॥278-283॥


पं॰ 1 क॰ पु॰रहस्यशौचमन्त्रौघ इति, ख॰ पु॰ रहस्यचर्चेति च पाठः ।
पं॰ 3 क॰ पु॰ एकीकारः स्वरूपेण प्रबोधः शास्त्रेति पाठः ।
पं॰ 6 क॰ पु॰ पादेयत्वे न्यरूपयत् इति पाठः ।
पं॰ 7 क॰ पु॰ आयतिकीर्तनमिति पाठः ।
287


किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह
इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥ tantraloka.1.284b
आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । tantraloka.1.285a
सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥ tantraloka.1.285b
किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः । tantraloka.1.286a
इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥ tantraloka.1.286b
विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् । tantraloka.1.287a
द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥ tantraloka.1.287b
विश्वचित्प्रतिबिम्बत्वं परामर्शोदयक्रमः । tantraloka.1.288a
मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥ tantraloka.1.288b
288

विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् । tantraloka.1.289a
योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥ tantraloka.1.289b
संविच्चक्रोदयो मन्त्रवीर्यं जप्यादि वास्तवम् । tantraloka.1.290a
निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥ tantraloka.1.290b
बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता । tantraloka.1.291a
उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥ tantraloka.1.291b
करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते । tantraloka.1.292a
चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥ tantraloka.1.292b



पं॰ 10 घ॰ पु॰ समुच्चारस्तदात्मना इति पाठः ।
289


संहारचित्रता वर्णोदयः कालाध्वकल्पने । tantraloka.1.293a
चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥ tantraloka.1.293b
परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । tantraloka.1.294a
एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥ tantraloka.1.294b
कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । tantraloka.1.295a
वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥ tantraloka.1.295b
प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते । tantraloka.1.296a
कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥ tantraloka.1.296b
वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् । tantraloka.1.297a


पं॰ 18 क॰ पु॰ शक्तिविकल्पनमिति पाठः ।
290


कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥ tantraloka.1.297b
अभेदभावनाकम्पह्रासौ त्वध्वोपयोजने । tantraloka.1.298a
संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥ tantraloka.1.298b
अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता । tantraloka.1.299a
शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥ tantraloka.1.299b
तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । tantraloka.1.300a
उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥ tantraloka.1.300b
शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । tantraloka.1.301a


पं॰ 11 क॰ पु॰ तिरोभावाद्यपगमे इति पाठः ।
291


सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥ tantraloka.1.301b
द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । tantraloka.1.302a
प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥ tantraloka.1.302b
विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । tantraloka.1.303a
देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥ tantraloka.1.303b
अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । tantraloka.1.304a
क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥ tantraloka.1.304b
अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् । tantraloka.1.305a


पं॰ 5 क॰ घ॰ पु॰ प्रवेशोऽध्यक्षरूपं चेति पाठः ।
पं॰ 9 क॰ पु॰ बुद्धिचेष्टाध्वेति पाठः ।
292


तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥ tantraloka.1.305b
शिवहस्तविधिश्चापि शय्याकॢप्तिविचारणम् । tantraloka.1.306a
स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥ tantraloka.1.306b
समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके । tantraloka.1.307a
मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥ tantraloka.1.307b
अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः । tantraloka.1.308a
अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥ tantraloka.1.308b
दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । tantraloka.1.309a
भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥ tantraloka.1.309b
293

सूत्रकॢप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् । tantraloka.1.310a
अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥ tantraloka.1.310b
जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः । tantraloka.1.311a
इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥ tantraloka.1.311b
कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः । tantraloka.1.312a
ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥ tantraloka.1.312b
अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः । tantraloka.1.313a
इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥ tantraloka.1.313b


पं॰ 9 क॰ पु॰ कालावेक्षेति पाठः ।
पं॰ 13 क॰ पु॰ अधिकारिपरीक्षातः संस्कार इति पाठः ।
294


मृतजीवद्विधिर्जालोपदेशः संस्क्रियागणः । tantraloka.1.314a
बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥ tantraloka.1.314b
श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । tantraloka.1.315a
शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥ tantraloka.1.315b
परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः । tantraloka.1.316a
तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥ tantraloka.1.316b
अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः । tantraloka.1.317a
चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥ tantraloka.1.317b


पं॰ 15 क॰ पु॰ चतुर्विंशतियागाख्ये इति पाठः ।
295


प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः । tantraloka.1.318a
पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥ tantraloka.1.318b
प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा । tantraloka.1.319a
लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥ tantraloka.1.319b
पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने । tantraloka.1.320a
नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥ tantraloka.1.320b
पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् । tantraloka.1.321a
गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥ tantraloka.1.321b


पं॰ 9 क॰ पु॰ इयद्वाच्यमिति पाठः ।
296


मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा । tantraloka.1.322a
व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥ tantraloka.1.322b
नैमित्तिकप्रकाशाख्येऽप्यष्टाविंशाह्निके स्थितम् । tantraloka.1.323a
अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥ tantraloka.1.323b
अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः । tantraloka.1.324a
दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥ tantraloka.1.324b
मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् । tantraloka.1.325a
शूलाब्जभेदो व्योमेशस्वस्तिकादिनिरूपणम् ॥ tantraloka.1.325b


पं॰ 9 ग॰ पु॰ विधिर्मौनिविधी रहस्येति पाठः ।
297


विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके । tantraloka.1.326a
गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ tantraloka.1.326b
कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । tantraloka.1.327a
इत्यादि न केवलमेवं, यावत् अन्यदपि अस्य माहात्म्यं स्यात् इत्याह `इति सप्ताधिकां, संप्रकाशने' इत्यन्तम् । इह ग्रन्थकृता तत्त्वतः समस्तव्यस्तत्वेन सप्रत्रिंशदाह्निकानि उपनिबद्धानि इति । यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण सर्वमस्ति, तथा इहापि वक्ष्यमाणम् इत्युक्तं `सर्वस्योद्देशनं क्रमात्' इति । परोपाये इति -- शाम्भवोपाये, अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं, तच्च भेदाभावे सति भवेत्, स वाच्यवाचकात्मनो विश्वस्य संविदेकरूपत्वे सति स्यात्, तत्र वाच्यात्मनो विश्वस्य चित्प्रतिबिम्बत्वेन सामान्यविशेषात्मतया



पं॰ 16 ख॰ पु॰ विश्वस्य विश्वचिदिति पाठः ।
298


द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदयक्रममन्त्राद्यभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेकरूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः । शाक्तस्य च विकल्पमेव रूपम् इति प्रथमं विकल्पस्यैव संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुपयोगित्वम् -- तर्कस्य च शुद्धविद्यात्मतया भेदभावकमायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेरनादरः तत एवाविकल्पसंस्कारस्य दार्ढ्यात् संविच्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यं, तथामर्श एव च वास्तवं जप्यादि, अत एव च संविदि भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः साक्षात्तदौपयिकत्वम् इत्येतदस्माभिः -- स्पष्टत्वात्


पं॰ 5 क॰ पु॰ स चाहन्ताद्यालोचनद्वारेणेति, ख॰ पु॰ स चोपायाद्यालोचनेति पाठः ।
299


ग्रन्थविस्तरभयात् अग्रे च निर्णेष्यमाणत्वात् न प्रातिपद्येन व्याख्यातम् इति स्वयमेव अवधार्यम् ॥284-326॥
ननु एकीकाराह्निकादौ किमिति न अनुजोद्देशः कृतः ? इत्याशङ्क्याह
द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥ tantraloka.1.327b
न भेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् । tantraloka.1.328a
द्वात्रिंशं तत्त्वं स्वरूपं यस्य तन्मुद्राह्निकं, तस्मात् द्वात्रिंशसंख्यादनन्तरं यत् ईशाख्यं त्रयस्त्रिंशमेकीकाराह्निकं तत आरभ्य भेदस्य प्राधान्याभावात् अनुज उद्देशो न कृतः इत्यर्थः ॥327॥

ननु यद्यतः प्रभृति भेदो नास्ति तत्किमिति आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह
मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥ tantraloka.1.328b
300

एतदुपसंहरन्नन्यदवतारयति
इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । tantraloka.1.329a
अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥ tantraloka.1.329b
अस्य इति -- उद्दिष्टस्य प्रमेयजातस्य ॥329॥
इदानीमाह्निकार्थमेव संचिनोति
आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निजमहसश्छादनाद्बद्धरूपः । tantraloka.1.330a
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥ tantraloka.1.330b
इह आत्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः


पं॰ 4 क॰ पु॰ लक्षणापेक्षया तत्र इति पाठः ।
पं॰ 10 ग॰ पु॰ निजमहिमाच्छादनद्द्वन्द्वरूपः इति पाठः ।
पं॰ 13 क॰ पु॰ स चास्य इति पाठः ।
301


संविद्रूप एव प्रकाशः स्वरूपं, संविच्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् । अत एव च
`शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।'
इत्याद्युक्तयुक्त्या तस्य आत्मनः क्रोडीकृतानन्तशक्तिकं स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अतिदुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य -- अनन्यसाधारणस्य ज्ञत्वकर्तृत्वलक्षणस्य, महसो गोपनात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन्
`॰॰॰ शिव एव गृहीतपशुभावः ।'
इत्याद्युक्तयुक्त्या `बद्धः' इत्युच्यते, एवमपि आत्मनः प्रत्यावृत्त्या
`मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
अवरूपं चात्मनः संवित् ॰॰॰ ॥'
इत्याद्युक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इयान् परिकरः । तदाह `स चायम्' इत्यादि, स चायं मोक्षः -- तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य


पं॰ 8 ग॰ पु॰ महिम्नो गोपनादिति पाठः ।
302


`रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृतोज्झितः ।'
इत्याद्युक्तयुक्त्या चित्रस्वभावस्य, यद्वा
`तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः ।
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥'
इत्यादिनीत्या चित्राकारस्य
`अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः ।
पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥'
इत्याद्युक्त्या चित्रः शाम्भवाद्यावेशात्मा प्रकटितः, इह इति -- अस्मिन्नाह्निके । ययोर्बन्धमोक्षयोः संग्रहेण संक्षेपेण एषोऽर्थः प्रकटितः इत्यनेनैव संबन्धः ॥330॥
ननु आत्मनः स्वरूपप्रथनमेव `मोक्षः' इत्युक्तम्, आत्मा चैक एव अखण्डः इति तत्प्रथात्मनो मोक्षस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते tantraloka.1.331a


पं॰ 3 क॰ पु॰ तेनाजडविभागस्येति , संज्ञित इति च पाठः ।
पं॰ 5 ख॰ पु॰ चित्रस्वभावस्य इति पाठः ।
पं॰ 8 क॰ पु॰ इत्याद्युक्तयुक्त्या इति पाठः ।
303


तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम । tantraloka.1.331a
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ tantraloka.1.331b
तिमिरम् -- आणवमलमेव मिथ्याज्ञानं भेदप्रथात्मकम् अपूर्णं वेदनं, दृष्टेः पूर्णायाः संवित्तेः, असमान् -- आत्मनि अनात्माभिमानादिरूपान् दोषान् जनयति इति मिथ्याज्ञानसद्भावात् विमलं पूर्णमपि तत् ज्ञानं मालिन्यधाम भाति -- स्वस्वातन्त्र्यादपूर्णेन आत्मना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते, यत् पुनरुपेयत्वेन प्रेक्षणीयम् -- अवश्यज्ञातव्यं परप्रमात्रेकात्म पूर्णं ज्ञानं
`नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहङ्कारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेव ॰. ।'


पं॰ 13 क॰ पु॰ पुनरुपमेयत्वेनेति पाठः ।
304


इत्यादीनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत्, मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां दोषमुद्रां दूरं रुन्ध्येत् -- आत्मन्येव आत्माभिमानेन तिरस्कुर्यात्, तत्र का नाम मालिन्यशङ्का तत्र संभावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो वापि न नाम कश्चिदस्ति इति का वा नाम तत्र वैचित्र्यसंभावना स्यात् । अनेन चाभिप्रायेण
`संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया ।
मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ॥'
इत्यादि अन्यत्र उक्तम् । अथ च तिमिरेण नेत्ररोगविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादितं प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनितम् ॥331॥
इदानीमस्य शास्त्रस्य परं गाम्भीर्यं मन्यमानो ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथाबोधेन


पं॰ 4 ख॰ पु॰ का नाम अग्निमात्र संभावना न प्रभवेत् इति पाठः ।
305


यत्किंचित् उत्तानमेव अन्यथा उच्यते, तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह
भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे । tantraloka.1.332a
यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥ tantraloka.1.332b
हे भावव्रात -- नीलाद्यर्थ ? आत्मनो हृदयं तेन आत्मतथ्यं रूपं गोपयित्वा जनस्य जनस्यैव वादिनो हृदयानि आशयान् बलात्कारेण आक्रम्य
`आद्यास्मानसतः करिष्यति सतः किं नु द्विधा वाप्ययं किं स्थास्नूनुत नश्वरानुत मिथोभिन्नानभिन्नानुत ।
इत्थं सद्वदनावलोकनपरैर्भावैर्जगद्वर्तिभिर्मन्ये मौननिरुद्ध्यमानहृदयैर्दुःखेन तैः स्थीयते ॥'


पं॰ 7 ग॰ पु॰ सहृदयंमन्योऽत्र दुःशिक्षित इति पाठः ।
पं॰ 17 ग॰ पु॰ दुःखमतः स्थीयते इति पाठः ।
306


इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे -- नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदयत्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिंचिञ्ज्ञः, त्वां भावव्रातं, जडम् -- अचेतनम् आह, अतोऽस्माभिरुत्प्रेक्ष्यते -- यत् अमुष्य वादिनो वस्तुतश्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात् भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दास्थाने स्तुतिः । भावानां हि वस्तुतश्चैतन्यमेव रूपम् अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अतस्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥332॥
ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन



पं॰ 9 क॰ पु॰ भावानां हि भावना वस्तुत इति पाठः ।
307


परेषां विदुषामभ्यर्थना क्रियतां, यदत्र यथावस्त्वेव बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह
इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । tantraloka.1.333a
गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥ tantraloka.1.333b
इह द्वये पुरुषाः सन्ति -- अनायातशक्तिपाता आयातशक्तिपाताश्च, तत्र पूर्वेषां शतशोऽभ्यर्थितानाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असामर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एतदधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया वैयर्थ्यम् । तदाह `द्वेषकलङ्कहानियाच्ञा' इति । आयातशक्तिपाताश्च किदृशाः ? इत्याह गलितमलाः इति, गलितं मलम् -- अज्ञानं येषां ते तथाविधाः, अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यं विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवीर्यज्ञाः


पं॰ 5 ग॰ पु॰ प्रविचारणे धियस्तदिति च पाठः ।
308



इत्यर्थः, अत एव शिवसद्भावमयाः -- परप्रमात्रेकात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः -- तात्त्विकार्थोपदेशिनः इति -- एतदधिगमाय त एव परमधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रियन्ते इति, यद्वक्ष्यति
`गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् ।
पूज्यः सोऽहमिव ज्ञानि भैरवो देवतात्मकः ॥'
इति ॥333॥
इह आह्निकादाह्निकान्तरस्य संचयन्यायेन परस्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्यन्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति `अस्य ग्रन्थकारस्य शैली' -- इति श्लोकस्य प्रथमार्धेन आह्निकार्थमुपसंहरति


तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः ।


पं॰ 3 क॰ पु॰ अधिगमाय अत एव परमाधिकारिण इति पाठः ।
पं॰ 6 ग॰ पु॰ आद्यमन्त्यं चेति पाठः ।
309


पटौ इति पाक्षिकः पुंवद्भावः । इति शिवम् ॥
श्रीशृङ्गाररथादवाप्य कृतिनो जन्मानवद्यक्रमं श्रीमच्छङ्खधरात्परं परिचयं विद्यासु सर्वास्वपि ।
श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि व्याख्यातं प्रथमाह्निकं जयरथेनात्रावधेयं बुधैः ॥
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके श्रीमद्राजानकजयरथकृतप्रकाशाभिख्यव्याख्योपेते विज्ञानभेदप्रकाशनं नाम प्रथममाह्निकं समाप्तिमगमत् ॥
एतत्कश्मीरभूपालसंश्रितेन प्रकाशितम् ।
सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेर्पितम् ॥
श्रीशिवार्पणमस्तु ॥
310

Chapter 2

अथ
श्रीतन्त्रालोकस्य
श्रीमन्माहेश्वराचार्याभिनवगुप्तपादविरचितस्य श्रीमदाचार्यजयरथकृतप्रकाशाख्यव्यख्योपेतस्य
द्वितीयमाह्निकम्
जयतान्नतजनजयकृत्सजयो रुद्रो विनाभ्युपायं यः ।
पूरयति कं न कामं कामं कामेश्वरत्वेन ॥1॥
इदानीं
`यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते ।'
इति-स्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्वपूर्वमेवाभिधानमिष्यते इत्युपेयैकरूपत्वेन शांभवादप्यनुपायस्योत्कृष्तत्वम्,


पं. 2 क॰ ख॰ पु॰ कः पूरयति किं न कामं कामं वागीश्वरत्वेनेति पाठः ।
पं॰ 6 क॰ पु॰ अभिधानं करिष्यते इति इत्युपायैकेति च पाठः ।
1


इति -- प्रथमं तत्स्वरूपमेवाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते
यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं । tantraloka.2.1a
तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥ tantraloka.2.1b
तन्निर्णयमेवाह
अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै । tantraloka.2.2a
सकृत्स्याद्देशना पश्चादनुपायत्वमुच्यते ॥ tantraloka.2.2b
वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः । अत्रैव समाधत्ते `सकृत्स्यात्' इत्यादिना, देशना इत्युपलक्षणं -- तेन सिद्धदर्शनाद्यपि ग्राह्यं, यदुक्तम्
`सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् ।
कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥
इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने ।'
इति । सकृदिति -- न पुनरुपायानुभवः पौनःपुन्येनेत्यर्थः । अत एवाह `पश्चादनुपायत्वमुच्यते' इति,


पं॰ 3 क॰ पु॰ यत्र त्वाद्यं परमशिवतानुत्तरेति, ख॰ पु॰ यत्त्वन्नाद्यमिति पाठः ।
पं॰ 4 क॰ ख॰ पु॰ मिदं त्वारभेयं द्वितीयमिति पाठः ।
2


आणवादौ असकृद्भाव्यमानो हि देशनादि उपेयप्राप्तिं विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वं, पर्युदासस्य `अनुदरा कन्या' इतिवदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः -- प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारिभिर्भावनादिभिरिति भावः, यदुक्तम्
`उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः ।
स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥
इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः ।
विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः ॥'
इति ॥2॥
नन्वत्र प्रसज्यप्रतीषेधपक्षावलम्बनेनाविद्यमानोपायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः ? इत्याशंक्याह
अनुपायमिदं तत्त्वमित्युपायं विना कुतः । tantraloka.2.3a
स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥ tantraloka.2.3b


पं॰ 12 क॰ पु॰ तेन विद्यमानोपायमेवेति पाठः ।
3


`इदमनुपायं तत्त्वम्'इत्याद्युपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्ध्येत्, इत्युक्तम् `इत्युपायं विना कुतः' तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् । ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद् दृश्यन्ते, इति -- किं सकृदुपदेशाद्यात्मना स्वल्पेनाव्युत्पन्नेन ? इत्याशंक्याह `स्वयमित्यादिना' तदित्यनुपायं परप्रकाशात्मकं रूपं, किं ब्रूम इति -- नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भवेदिति भावः, तदुक्तम्
`तत्त्वज्ञस्य तृणं शास्त्रं ॰॰॰ ।'
इति । यदभिप्रायेणैव
`संसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः ।
नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिकारवान् ॥'
इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरुरुक्षूनायातशक्तिपातान्प्रत्येव


पं॰ 2 ग॰ पु॰ उपायान्तरेण कथमिति पाठः ।
पं॰ 8 ग॰ पु॰ अव्युत्पन्नत्वेन इति पाठः ।
पं॰ 14 संसारेति पदद्वयं ग॰ पुस्तकात्पूरितमस्ति ।
4


किंचन ब्रूमः -- तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्येवमुक्तम्, यद्वक्ष्यति
`नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।'
इति ॥3॥
ननु यद्येवं तर्हि अल्प एव कश्चिदुपायांशः समुपदिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः ? इत्याशंक्याह
यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । tantraloka.2.4a
स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ tantraloka.2.4b
यच्चतुर्धा -- अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेश्वरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्ह्रासतारतम्यादियोगाद्विचित्रेणोपदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपायवैचित्र्यमप्याभासयेत् ।


पं॰ 6 क॰ ख॰ पु॰ समुद्दिश्यतामिति पाठः ।
पं॰ 12 ग॰ पु॰ स हि संविन्मयः प्रभुरिति पाठः ।
पं॰ 15 क॰ पु॰ स्वातन्त्र्यात्तारतम्येति पाठः ।
5


नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत् ? इत्याशंक्याह `स हीत्यादि' नित्योदित इति -- अप्रच्युतप्राच्यस्वरूपः, अत एव `विभुः' व्यापकः -- तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः ॥4॥
अत एवाह
एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । tantraloka.2.5a
केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ tantraloka.2.5b
एतावद्भिरिति -- चतुर्भिः, असंख्यातैरिति -- तत्तदवान्तरभेदात्, तेनेति -- अनेकेन स्वभावेन प्रकाशनात् ॥5॥
न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्तीत्याह
तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः । tantraloka.2.6a
उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ tantraloka.2.6b


पं. 14 क॰ पु॰ सापेक्षत्वान्ययोगत इति पाठः ।
6


उपायस्यापीति अपिशब्दो भिन्नक्रमः, तेन नो वार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम्, इति -- नेह पुनरायस्तम् ॥6॥
एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह
तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । tantraloka.2.7a
निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ tantraloka.2.7b
ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पकलंकान्मुक्ताः, भैरवीयां पूर्णाम्, अत एवानुपायाम् -- अनपेक्षाम्, आत्मसंविदमाविष्टाः, तेषां विधिः -- पूर्णसंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते -- युक्तियुक्तत्वेन भण्यते इत्यर्थः ॥7॥
तदेवह
तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । tantraloka.2.8a


पं॰ 9 क॰ पु॰ शक्तिपातविकल्पान्मुक्ता इति पाठः ।
पं॰ 12 क॰ पु॰ आवेशात्मप्रकार इति पाठः ।
7


उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्यमेव, इति सर्वेषामविवादः, न चात्रैवं -- क्रियादयो हि संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् ॥ अत एवाह
स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ tantraloka.2.8b
तस्मादित्यनुपायात्संवित्तत्त्वात् ॥8॥
अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह ।
ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते । tantraloka.2.9a
प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ tantraloka.2.9b
इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न


पं॰ 3 क॰ पु॰ एवेति संविदः प्रसिद्धत्वात्कथमिति पाठः ।
8


प्रकाशते, अपि तु परस्य, इति -- पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति -- न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्मत्वात् जाड्यं स्यात्, अत एवाह `स्वप्रकाशे तच्च तत्रान्यतः कथम्' इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्तत्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत, इति -- सर्वमिदमन्धं स्यात् ॥9॥
तदाह
संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः । tantraloka.2.10a


पं॰ 2 ख॰ पु॰ अजडस्तद्द्वयं प्रकाशेति पाठः ।
पं॰ 7 क॰ पु॰ स्वप्रकाशकः स्यादिति पाठः ।
पं॰ 8 क॰ पु॰ तथा उत्पद्यतामिति ख॰ पु॰ भाव उद्यतामिति पाठः ।
9


तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ tantraloka.2.10b
किं नु युक्तिभिरिति -- बह्वीभिर्युक्तिभिर्न किंचित्प्रयोजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी -- यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि प्रकाशेत इति ॥10॥
ननु यदि नाम अत्र बाह्यः क्रियादिः प्रगल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्याशंक्याह
यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन । tantraloka.2.11a
स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥ tantraloka.2.11b
यावानिति -- नानाशास्त्रोपदिष्टः, सर्व इति -- बाह्य आन्तरो वा, तन्मुखप्रेक्षीति -- संविदधीनसिद्धिरित्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः ॥11॥


पं॰ 16 क॰ घ॰ पु॰ यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः ।
10


अत एवाह
त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् । tantraloka.2.12a
पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ tantraloka.2.12b
इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु -- प्रतिनियतावधेयविषयनिष्ठम् ऐकाग्र्यम्, अतश्च भेदप्रधानं न किंचित्फलमादातुं समर्थनम् ॥12॥
तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणितस्य भावनादेः ? इत्याह
तेनावधानप्राणस्य भावनादेः परे पथि । tantraloka.2.13a
भैरवीये कथंकारं भवेत्साक्षादुपायता ॥ tantraloka.2.13b


पं॰ 3 ख॰ पु॰ धर्मेऽवधानमिति पाठः ।
पं॰ 8 क॰ पु॰ अवधानं खलु अप्रतिनियतेति पाठः ।
11


भैरवीये इति -- पूर्णे ॥13॥
ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह
येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते । tantraloka.2.14a
नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ tantraloka.2.14b
तदुक्तम्
`अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥'
इति ॥14॥
अत्रैव निमित्तान्तरमप्याह
किं च यावदिदं बाह्यमान्तरोपायसंमतम् । tantraloka.2.15a
तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ tantraloka.2.15b


पं॰ 2 क॰ पु॰ तत्त्वमनुविशन्तीति पाठः ।
पं॰ 7 क॰ पु॰ खद्योतं लिप्सव इति पाठः ।
पं॰ 9 क॰ पु॰ प्रकटोदिते इति पाठः ।
पं॰ 16 क॰ पु॰ परं वपुः इति पाठः ।
12


इह खलु यत्किंचन उपायत्वेनाभीष्टं तदप्रकाशमानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न किंचिदपि रूपं स्यात्, इति किं नाम उपायतां भजतां, प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः, नहि तदतिरिक्तमन्यत्किंचिदुपपद्यते, इति -- कस्योपायभावः, उपायेन हि उपेयाद्व्यतिरिक्तेन भाव्यं, तच्चात्र न युक्तम्, इति को नाम उपायोपेयभावार्थः ॥15॥
न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम्, यावदन्यदपीत्याह
नीलं पीतं सुखमिति प्रकाशः केवलः शिवः । tantraloka.2.16a
अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥ tantraloka.2.16b
उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ tantraloka.2.17a
भावनादेः सुप्रसिद्धोऽपि उपायत्वे निरस्ते अन्यस्य


पं॰ 17 क॰ पु॰ उपायत्वेन निरस्ते अन्यत्र इति पाठः ।
13


कस्यचित्संभावनमात्रमपि माभूत्, इत्येवमुक्तं `कोऽपर' इति, यत्र उपायत्वसंभावनापि स्यात् ॥17॥
ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्यवहारः कथमपह्नूयते ? इत्याशङ्क्याह
इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि । tantraloka.2.18a
प्रकाशवपुरेवायं भासते परमेश्वरः ॥ tantraloka.2.18b
द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्यभिप्रायः, एतच्च बहूनां वादिनां मतम् -- इति द्योतयितुम् `अयं भेद' इति पुनरुपादानम्, यथा चाद्वैतप्रतिभासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् `इदमद्वैतमित्यपि' इत्युपात्तम् ॥18॥
ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्यास्तम्, अन्योन्यं पुनरस्य भेदे किमायातम्, इत्यापतितमेव द्वैतम् ? इत्याशङ्क्याह


पं॰ 13 क॰ पु॰ इत्युक्तमौपम्यमिति पाठः ।
पं॰ 16 क॰ पु॰ किमिदमापतितमिति पाठः ।
14


अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः । tantraloka.2.19a
घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥ tantraloka.2.19b
अस्यां भूमाविति -- परमाद्वयदशायामित्यर्थः, `एकार्था' इति -- एकः प्रकाश एवार्थोऽभिधेयो येषां ते तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्रातिस्विकं नियतं किंचन रूपं यदि स्यात् तदैवं संभावनापि भवेदिति भावः, अत एव
`घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना ।'
इत्यादिरन्यैरुक्तम् । ननु यद्येवं तर्हि तदभिधायकत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह `शब्दास्तेऽप्येकमेव च' इति, एकमिति -- संवेद्यमानत्वात्संवेदनमेवेत्यर्थः ॥19॥
ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश एव तर्हि तत्केन रूपेण प्रकाशते ? इत्याशंक्याह


पं॰ 6 क॰ पु॰ प्रकाशरूपोऽर्थोभिधेय इति पाठः ।
पं. 7 क॰ पु॰ प्रकाशव्यतिरेकेणेति पाठः ।
पं॰ 15 क॰ पु॰ नीलप्रकाशादि इति पाठः ।
15


प्रकाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । tantraloka.2.20a
प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ tantraloka.2.20b
अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते । tantraloka.2.21a
न प्रकाशविशेषत्वमत एवोपपद्यते ॥ tantraloka.2.21b
अप्रकाशांश इति -- सुखादिजडोऽर्थः, कथं नामेति -- केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रकाशते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात् -- नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश एव शिष्येत इति यावत्, अथ अप्रकाशात्मना नियतेनैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एव न भवेत्, नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूपं दृष्टम्, `अप्रकाशात्मना रूपेण प्रकाशते' इति वाचोयुक्तिश्च रिक्ता स्यात्, तदाह `अप्रकाश' इत्यादि


पं॰ 4 ख॰ पु॰ तत्र लोपत इति पाठः ।
पं॰ 16 ग॰ पु॰ अप्रथात्मरूपेणेति पाठः ।
16


प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते, नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामात्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृम्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं स्फुरेत्, अत एवाह `न प्रकाशविशेषत्वमुपपद्यते' इति, अत इति -- एकस्यैव अखण्डस्य प्रकाशस्य तत्तदाभासात्मना स्फुरणात् । ननु `नीलप्रकाशोऽन्यः, पीतप्रकाशश्चान्य' इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं `न प्रकाशविशेषत्वमुपपद्यते' इति ? नैतत् -- औपाधिको ह्ययं भेदः, स च न वास्तवः -- इत्युपपादितं बहुशः, नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येतदुक्तम् `न च प्रकाशैकरूपायां संविदि संविदन्तरमस्ति' एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेदप्रकाशरूपत्वमेवोक्तं


पं॰ 4 क॰ पु॰ महिम्ना तत्तन्नीलाभास इति पाठः ।
पं॰ 10 क॰ पु॰ स एव वास्तव इति पाठः ।
पं॰ 12 क॰ पु॰ भेद्यते इत्येतद्युक्तमिति पाठः ।
पं॰ 13 क॰ पु॰ अस्ति ते एवमिति पाठः ।
पं॰ 14 क॰ पु॰ भेदवते इति पाठः ।
17


भवेत् इति गजस्नानतुल्यत्वं स्यात्, ततश्च पुनरपि `एकैवाखण्डवित्'इत्येव पर्यवस्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथंकारं प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्युपगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधानेऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति -- मतान्तरसिद्धिमभिवाञ्छन्तः परे परं निरस्ताः ॥21॥
तदाह
अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते । tantraloka.2.22a
दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ tantraloka.2.22b
ननु यदि ज्ञानानि विभिन्नानि न संभवन्ति, तत् एकशब्दः किमपोहनायात्र प्रयुक्तः ? इत्याशंक्याह


पं॰ 6 क॰ पु॰ नित्यव्यापकाभ्यां भेदादावसामर्थ्यमिति पाठः ।
पं॰ 7 क॰ पु॰ इति सत्यानन्तरसिद्धिमिच्छन्तः परमिति पाठः ।
18


प्रकाशमात्रमुदितमप्रकाशनिषेधनात् । tantraloka.2.23a
एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥ tantraloka.2.23b
अप्रकाशः -- प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्निषिद्धः, अतः `प्रकाशः केवलोऽस्ति' इत्येकशब्दस्यात्रासहायाद्वृत्तिः, तदुक्तं `एकशब्दस्यार्थः प्रकाशमात्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकद्वित्र्यादिलक्षणः संख्यार्थो, येन -- मतान्तराण्यप्यपोह्यतया संभावनीयानि स्युः ॥23॥
अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते, इत्याह
नैष शक्तिर्महादेवी न परत्राश्रितो यतः । tantraloka.2.24a


पं॰ 3 क॰ पु॰ नन्वर्थ इति पाठः ।
पं॰ 6 क॰ पु॰ एकशब्दस्यासहाया वृत्तिरिति पाठः ।
पं॰ 7 ख॰ पु॰ शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः ।
पं॰ 8 क॰ पु॰ एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।
19


न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ tantraloka.2.24b
नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् । tantraloka.2.25a
न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ tantraloka.2.25b
न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः । tantraloka.2.26a
न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ tantraloka.2.26b
एष इति -- व्याख्यातस्वरूपः परः प्रकाशः, शक्तिशक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसापेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं -- व्यवहारमात्रतां कदाचिदपि स


पं॰ 5 क॰ पु॰ न पूजा पूजकेति पाठः ।
20


न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिमन्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षणमर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वाच्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्तृकर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः ॥24-25-26॥
अत एव यत्किंचन भेदाधायकं तदत्र नास्ति, इत्याह
स्थानासननिरोधार्घसंघानावाहनादिकम् । tantraloka.2.27a
विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥ tantraloka.2.27b


पं॰ 2 ग॰ पु॰ इत्यनाक्षेपादिति पाठः ।
पं॰ 4 क॰ ख॰ पु॰ सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः ।
पं॰ 3 ख॰ पु॰ मन्त्र्य इति मन्त्रणस्येति पाठः ।
21


स्थानं -- स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं -- संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः -- तत्रैवाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रादिविषयम्, आवाहनं -- अनभिमुखस्याभिमुखीकरणं, विसर्जनम् -- अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशेषणं -- `कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थत्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्यत्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुम् शक्यते, इति `नैष शक्तिः' इत्याद्युक्तम् ॥27॥
न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि सिद्धम्, इति श्रीभर्गशिखां संवादयति ।
न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् । tantraloka.2.28a
दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ tantraloka.2.28b


पं॰ 2 ख॰ पु॰ पूज्यं प्रति इति पाठः ।
पं॰ 7 ख॰ पु॰ कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समुचितः प्रतिभाति ।
22


अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः । tantraloka.2.29a
स एव घटवल्लोके संस्तथा नैष भैरवः ॥ tantraloka.2.29b
लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः `अयमिति' पुरोवर्तित्वेनावभासते भावः, स एव `सत्' इत्यभिधीयते, यथा -- घट इति, समनन्तरव्याख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा -- महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः -- सच्छब्दव्यवहार्यो न भवति, इति यावत् ॥28-29॥
एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? इत्याशंक्याह
असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता । tantraloka.2.30a
प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं नामाप्रकाशत्वमकिंचिद्रूपत्वमुच्यते, यथा -- शशविषाणादेः,


पं॰ 2 क॰ पु॰ यो भावो वा चिदात्मक इति पाठः ।
पं॰ 5 क॰ पु॰ व्यावृत्ततायाः कश्चनार्थ इति पाठः ।
पं॰ 8 क॰ ख॰ पु॰ पुनरन्तर्भावेति पाठः ।
पं॰ 9 क॰ पु॰ महासत्तात्मत्वान्नैवमिति पाठः ।
पं॰ 12 ग॰ पु॰ असत्यं चाप्रकाशस्येति पाठः ।
23


अत एव च तन्न कुत्रापि कस्यांचिदपि अर्थक्रियायामुपयुक्तम् -- न कांचिदप्यर्थक्रियां करोति, इति यावत् ॥
प्रकाशः पुनर्न तथा इत्याह
विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ tantraloka.2.30b
विश्वस्य -- चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं जीवितं -- स्फुरत्तात्मकत्वेन अनुप्राणकं, नहि तेन विना किंचिदपीदं प्रकाशते, इत्युकतम् `प्रकाशैकात्मकश्च' इति -- एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि, न भवेदिति भावः ॥30॥
अत एव सदसदात्मापि न, इत्याह
आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः । tantraloka.2.31a
सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ tantraloka.2.31b
आभ्यां -- समनन्तरोक्ताभ्यामनवच्च्छिन्नत्वप्रकाशमानत्वलक्षणाभ्याम्,
24

ननु यद्येवं तर्हि सदसदात्मकरूपद्वयोत्तीर्णः स्यात् ? इत्याशंक्याह `न द्वयेत्यादि' भावाभावावभासकालेऽपि स एव हि परमवभासते, इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह `सर्वात्मना हि भात्येष' इति, -- एवमेतत्परप्रमात्रेकात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचिदपि विकल्पतां न यायात् इति तात्पर्याथः, यदुक्तम्
`सतोऽवश्यं परमसत्सच्च तस्मात्परं विभो ।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥'
इति । तथा
`न शान्तमुदितं वापि तव रूपं न मध्यमम् ।
रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥'
इति, अतश्च केन तावत्कल्पितेन रूपेण एतदुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहतबुद्धीनां मायाप्रमातॄणां दुर्विज्ञेया -- यथोक्तयुक्त्या ज्ञातुमशक्यैवेत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामविकल्पवृत्तीनां


पं॰ 5 क॰ पु॰ परप्रमाणको भवतीति पाठः ।
पं॰ 14 क॰ पु॰ केन तावत्क्रियते केनेति पाठः ।
25


पुनरेतत्स्वानुभूतिमात्ररूपपरानन्दचमत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तं `किमप्येतदनुत्तरम्' इति ॥31॥
न केवलमेतदत्रैवोक्तं यावदन्यत्रापि, इत्याह
श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । tantraloka.2.32a
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं पदम् ॥ tantraloka.2.32b
`परं ज्ञानं कथं देव' इति देवीप्रश्ननिर्णयार्थं ह्येतदत्र परज्ञानरूपं भगवतोक्तमित्याशयः, तदेव पठति `शक्त्या' इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भं, शक्तिरेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य तत्, सा च न तदतिरेकिणी, इत्याह `शक्त्या गर्भान्तर्वर्तिन्या' इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन वर्तते तच्छीला -- तया स्वस्वभावरूपयोपलक्षितमित्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात्, यदुक्तम्


पं॰ 7 क॰ पु॰ गर्भान्तवासिन्या इति पाठः ।
26


`स्वभावमवभासस्य विमर्शं विटुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
इति, अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव एव तिष्ठति -- सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत एव शक्तिगर्भं -- स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थोपाधिवशान्नानात्वेन व्यवह्रियत इति भावः, यदुक्तम्
`तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥'
इति, तेन `स्वतन्त्रो बोधः परमार्थः' इत्याद्युक्तनीत्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्रकाश एव परं तत्त्वम्, इति तात्पर्यम् ॥32॥
अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विकल्प्यतां नैति, इत्याह
न भावो नाप्यभावो न द्वयं वाचामगोचरात् । tantraloka.2.33a
अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ tantraloka.2.33b
27

अगोचरादिति भावप्रधानो निर्देशः, तेन वाचामगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमसकृत्त्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥33॥
ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह
इति ये रूढसंवित्तिपरमार्थपवित्रिताः । tantraloka.2.34a
अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥ tantraloka.2.34b
इति -- उक्तेन गुरूपदेशादिना, रूढा -- तदैकात्म्यलाभादापादितप्ररोहा, या संवित्तिः, तस्या यः परमार्थः -- सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः -- भेदविकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन अनियन्त्रिताः -- तन्निरपेक्षाः सन्तः, अनुत्तरपथे -- पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विकासात्मवृत्तिमार्गे


पं॰ 12 क॰ पु॰ विकारकारककालुष्यापनयेनेति पाठः ।
पं॰ 13 क॰ पु॰ तेनाव्यतिरिक्तेनेति पाठः ।
28


विश्रान्ताः -- स्वरसावस्थानेनैव लब्धतत्सामरस्या इत्यर्थः, तदुक्तम्,
`यथा स्थिततस्तथैवास्स्व मा गा बाह्यमथान्तरम् ।
केवलं चिद्विकासेन विकारनिकराञ्जहि ॥'
इति । तथा
`आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।'
इति । तथा
`उपायो नापरः कश्चित्स्वसत्तावगमादृते ।
तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥'
इति ॥34॥
ततश्च किम् ? इत्याह
तेषामिदं समाभाति सर्वतो भावमण्डलम् । tantraloka.2.35a
पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ tantraloka.2.35b
तेषाम् -- अनुपायसमावेशशालिनां, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं
`मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं च ॰॰॰ ॥'


पं॰ 4 क॰ पु॰ केनचिच्चिद्विकासेनेति पाठः ।
पं॰ 6 क॰ पु॰ योगी स परम इति पाठः ।
29


इत्यादिनीन्त्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः, यदुक्तम्
`यथा रुमायां पतिताः काष्ठपर्णोपलादयः ।
लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥'
इति ॥35॥
अत एवाह
एतेषां सुखदुःखांशशंकातंकविकल्पनाः । tantraloka.2.36a
निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ tantraloka.2.36b
एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । tantraloka.2.37a
न समय्यादिकाचार्यपर्यन्तः कोऽपि विभ्रमः ॥ tantraloka.2.37b
न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह `एषामित्यादि' कल्पना -- स्थानादिका ॥36-37॥


पं॰ 7 क॰ पु॰ सुखदुःखानां शङ्केति पाठः ।
पं॰ 9 क॰ पु॰ परामर्शमात्रेति पाठः ।
पं॰ 13 ग॰ पु॰ चर्यापर्यन्त इति पाठान्तरं चास्ति ।
30


ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्याशंक्याह
समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः । tantraloka.2.38a
नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥ tantraloka.2.38b
समस्ताः -- निखिलाः शास्त्रोक्ता यन्त्रणा -- `इदं कार्यम् इदं न' इत्यादयो नियमाः, ता एव तन्यमानत्वात्तन्त्रं -- पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंकस्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः -- नहि आरूढस्यास्य ततः कश्चित्संकोच इति भावः, शास्त्रं हि आरुरुक्षूनुपदेशयान्प्रत्येव नियामकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह


पं॰ 8 ख॰ पु॰ तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्विदारणधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।
31


`नानुग्रहादिति' किंचिदिति -- समयपरिपालनादि ॥38॥
तदाह
स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । tantraloka.2.39a
यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ tantraloka.2.39b
एष लोकः संकुचितः प्रमातृवर्गः तावत्
`॰॰॰ अभिलाषो मलोऽत्र तु ।'
इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्णंमन्यतया `किमपि' इति सामान्येन निर्देशात्सर्वमात्मीयं कर्तव्यं, यत्नतः -- आकांक्षणीयत्वेन, कलयन्
`तदसिद्धं यदसिद्धेन साध्यते ।'
इत्यादिनीत्या यस्य स्वार्थ एव नसिद्धः स कथं परार्थं प्रत्यपि कांचन स्वल्पामपि स्वप्रवृत्तिं घटयते घटितापि वा तत्प्रवृत्तिर्न किंचित्कुर्यात् इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृतनिखिलबन्धः,


पं॰ 5 ख॰ पु॰ पारक्यमिति पाठः ।
32


अत एव भैरवीभावेन भगवदद्वयज्ञानापत्त्या स्वात्मनि कृतकृत्यत्वेन -- आकांक्षणीयस्यैवाभावात् पूर्णः -- अनन्योन्मुखतया स्वात्मन्येव विश्रान्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् -- अपरिम्लानं कृत्यं -- लोकानुग्रह एवास्य कर्तव्य इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्करणीयमस्तीति भावः, यद्गीतं भगवता
`यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥'
इति ।
`न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥'
इति च ॥39॥
द्विविधाश्च परानुग्रहाः -- निमलसंविदोऽनिर्मलसंविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरणमेवास्यानुग्रहकारित्वम्, इत्याह


पं॰ 1 क॰ पु॰ ज्ञेयज्ञानोपपत्त्या इति पाठः ।
33


तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः । tantraloka.2.40a
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ tantraloka.2.40b
ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रशक्तिपातभाजो वा, तं -- समनन्तरोक्तस्वरूपं, ताद्रूप्यक्रमेण पश्यन्ति `निरुपायसमावेशभागयम्' इति ज्ञानपूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्संवित्संक्रमात्
`॰॰॰ दीपाद्दीपमिवोदितम् ।'
इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन तत्सदृक्षा एव भवन्ति इति शेषः, एवंरूपं सिद्धादिदर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव संवादितम्
`सिद्धानां योगिनीनां च दर्शनम् ॰॰॰ ।'
इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा, इत्यर्तह्ः ॥40॥
34

ननु सर्वत्र दीक्षायाः
`॰॰॰ मुक्तिश्च शिवदीक्षया ।'
इत्याद्युक्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? इत्याशंक्याह
एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते । tantraloka.2.41a
दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ tantraloka.2.41b
एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या `यागहोमादि' श्रीसिद्धयोगीश्वरीमतादौ -- सर्वत्रैवागमे `विभुना' कथ्यते इति संबन्धः, अत एव च बाह्यं यागादि गौणम् -- इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम्
`नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते ।
न च न्यासादिकं पूर्वं स्नानादि यथेच्छया ॥'
इति ॥41॥
तदेव पठति


पं॰ 14 क॰ पु॰ चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।
35


स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । tantraloka.2.42a
पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ tantraloka.2.42b
ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् । tantraloka.2.43a
ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ tantraloka.2.43b
स्थण्डिलं -- यागार्थं गृहीतो भूप्रदेशः, तूरं -- पात्रादावुत्कीर्ण आकारविशेषः । ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह `ज्ञानेन' इति, ज्ञानेन हि योगिनामपीश्वरः स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वरशब्दयोरपि प्रयोगः ॥42-43॥
अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम्, इत्याह
सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् । tantraloka.2.44a
36

अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ tantraloka.2.44b
स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया -- तत्त्रोटनायाः समनन्तरमेवोक्तत्वात् ॥44॥
भावी च विधिः कीदृक् ? इत्याह
अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । tantraloka.2.45a
परापराद्युपायौघसंकीर्णत्वविभेदतः ॥ tantraloka.2.45b
`परापर'इत्येकशेषः, तेन -- परः शाम्भवः, अपरः आणवः, परापरः शाक्तः, संकीर्णत्वमुपायान्तरसाहित्यात् ॥45॥
न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयणमुपयुक्तं, यावत्तदभिधायकं शास्त्राद्यपि, इत्याह
तदर्थमेव चास्यापि परमेश्वररूपिणः । tantraloka.2.46a


पं॰ 3 क॰ पु॰ यन्त्रणायाः तत्त्रोटनस्येति पाठः ।
37


तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ tantraloka.2.46b
न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्यापि, इति अपिशब्दार्थः, यदुक्तम्
`शंकाशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियाम् प्रति ।
न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ॥'
इति ॥46॥
नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात् ? इत्याशंक्याह
नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । tantraloka.2.47a
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥ tantraloka.2.47b
नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वातन्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वात्परार्थमस्य तत्स्वीकारः, यतः परेषामनिर्मलचित्त्वादुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति -- भाविविध्याश्रयणाद्यप्युक्तम्, यद्गीतम्
38

`सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥'
इति ॥47॥
न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति निखिलस्य आह्निकार्थस्याविगीततां दर्शयितुमाह
श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके । tantraloka.2.48a
इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ tantraloka.2.48b
ऊर्मिमहाशास्त्र इति -- श्रीमदूर्मिकौलसिद्धसंतानरूपके, इत्यनेन पादोवल्ल्यां पारम्पर्येऽप्यम्लानत्वं दर्शितम्, तत्र हि
`शून्यं न किंचित्तच्छून्यं त्वशून्यं शून्यता नहि ।
यदकिंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ॥'
इति भगवत्या पृष्टो भगवान्
`आत्मा शून्य इह ज्ञेयः शिवधर्मैर्विनाकृतः ।
शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥'
इत्याद्युपक्रम्य
39

`नास्त्यस्मि नास्ति नास्तीति कोटयो न स्पृशन्ति हि ।
वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥
यदभावि न तद्भावि यद्भावि न तदन्यथा ।
एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥
तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।'
इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशिकैः उक्तमिति -- श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र
`भावनाकरणाभ्यां किं शिवस्य सततोदितेः ।'
इति ।
`सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥'
इति च ॥48॥
तदेव सर्वत्रावधातव्यमित्याह
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । tantraloka.2.49a
विलीने शंकाभ्रे हृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥ tantraloka.2.49b


पं॰ 10 क॰ पु॰ कारणमिति पाठः ।
पं॰ 13 क॰ पु॰ करणे नास्ति कृत्यं चेति पाठः ।
पं॰ 15 क॰ पु॰ तद्देवमत्रापीति पाठः ।
40


गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः `आत्मैवेश्वरः सर्वज्ञः सर्वकर्ता च' इत्यादिकानां युक्तीनां प्रचयस्य या रचना -- परपक्षबाधनस्वपक्षसाधनाधायिका शास्त्रपरिपाटी, तया उन्मार्जनं -- बौद्धाज्ञानोत्पुंसनं, तद्वशात् -- बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्यादित्यर्थः । शास्त्रं -- प्रभुसंमितमद्वैतागमं प्रति समाश्वासात्प्रत्ययादिति, व्यस्तात् -- गुरुतः शास्त्रतः स्वतः तीव्रतीव्रशक्तिभाजां, यद्वा समुदितात् -- समस्तात्कथितात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजां, शंकाविकल्प एवावारकत्वादभ्रं, तस्मिन्विलीने सति, हृदयं -- विमर्श एव अनवच्छिन्नत्वाद्गगनं तत्रोच्चैर्भासनशीलं -- ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव ध्वान्तस्य स्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्मकस्य अज्ञानस्य, जयिनः प्रभोः -- विश्वात्मकत्वेन प्रभवनशीलस्य परमात्मनः, चरणान् -- चरेर्गत्यर्थत्वादाणवादीनि ज्ञानानि, यूयं -- समनन्तरोद्दिष्टाः तीव्रतीव्रादिशक्तिपातभाजः, स्पृशत -- यथोत्तरं स्वात्ममयतयैव


पं॰ 7 ख॰ पु॰ शास्त्रात् स्वस्माद्यदा तीव्र इति पाठः ।
41


भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्यमुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥49॥
इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति
इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ tantraloka.2.50a
उपाय एवैपयिकमिति शिवम् ॥
तत्तद्ग्रन्थाधिगमोपायशतान्वेषणप्रसक्तेन ।
अनुपायाह्निकमेतद्व्याख्यातं जयरथेनाशु ॥
एॐ इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रकाशाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्निकम् ॥2॥
एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् ।
सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥


पं॰ 9 क॰ पु॰ स्वात्मतयेति पाठः ।
पं॰ 7 क॰ पु॰ जयरथेन चित्रम् इति, ग॰ पु॰ जयद्रथेन रचितमिदमिति पाठः ।
42