श्रीशिवमहापुराणम्

अथ श्रीशिवमहापुराणे सप्तमी वायवीयसंहिता प्रारभ्यते ॥

श्रीगणेशाय नमः ॥ श्रीगौरीशंकराभ्यां नमः ॥ अथ सप्तमी वायवीयसंहिता प्रारभ्यते ॥

Chapter 1

व्यास उवाच ॥
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ 1ab
प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ 1cd
शक्तिरप्रतिमा यस्य ह्यैश्वर्य्यं चापि सर्वगम् ॥ 2ab
स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ 2cd
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ 3ab
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ 3cd
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ 4ab
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ 4cd
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ 5ab
महौजसो महाभागा महासत्रं वितेनिरे ॥ 5cd
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ 6ab
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ 6cd
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ 7ab
पंचावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ 7cd
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ 8ab
मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ 8cd
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ 9ab
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ 9cd
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ 10ab
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ 10cd
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ 11ab
उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ 11cd
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ 12ab
सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ 12cd
तदा तमनुकूलाभिर्वाग्भिः पूज्य 1 महर्षयः ॥ 13ab
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ 13cd
ऋषय ऊचुः ।
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ 14ab
संप्राप्तोद्य महाभाग शैवराज महामते ॥ 14cd
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ 15ab
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ 15cd
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ 16ab
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ 16cd
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ 17ab
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ 17cd
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ 17॥ 17ef
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ 18ab
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ 18cd
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ 19ab
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ 19cd


1 ल्यबार्षः ।

502a


सूत उवाच ॥
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ 20ab
कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ 20cd
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ 21ab
नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ 21cd
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ 22ab
शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ 22cd
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ 23ab
श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ 23cd
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ 24ab
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ 24cd
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ 25ab
पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ 25cd
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ 26ab
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ 26cd
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ 27ab
आदिकर्त्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ 27cd
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ 28ab
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ 28cd
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ 29ab
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ 29cd
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ 30ab
मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ 30cd
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ 31ab
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ 31cd
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ 32ab
प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ 32cd
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ 33ab
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ 33cd
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ 34ab
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ 34cd
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ 35ab
निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ 35cd
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ 36ab
अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ 36cd
संक्षिप्य स पुनर्वेदांश्चतुर्द्धा कृतवान्मुनिः ॥ 37ab
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ 37cd
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ 38ab
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ 38cd
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ 39ab
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ 39cd
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ 40ab
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ 40cd
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ 41ab
वंशानुचरितं चैव पुराणं पंचलक्षणम् ॥ 41cd
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ 42ab
502b

बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ 42cd
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ 43ab
भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ 43cd
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ 44ab
स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ 44cd
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ 45ab
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ 45cd
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ 46ab
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ 46cd
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ 47ab
तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ 47cd
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ 48॥ 48ab
यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ 49ab
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ 49cd
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ 50ab
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ 50cd
कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ 51ab
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ 51cd
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ 52ab
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ 52cd
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ 53ab
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ 53cd
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ 54ab
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ 54cd
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ 55ab
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ 55cd
चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ 56ab
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ 56cd
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ 57ab
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ 57cd
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ 58ab
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ 58cd
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ 59ab
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ 59cd
पंचमी कथिता चोमा षष्ठी कैलाससंहिता ॥ 60ab
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ 60cd
विद्येश्वरं द्विसाहस्रं रौद्रं पंचशतायुतम् ॥ 61ab
त्रिंशत्तथा द्विसाहस्रं सार्द्धैकशतमीरितम् ॥ 61cd
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ 62ab
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ 62cd
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ 63ab
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ 63cd
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ 64ab
503a

श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ 64cd
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ 65ab
तदिदं वर्त्तयिष्यामि भागद्वयसमन्वितम् ॥ 65cd
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ 66ab
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ 66cd
परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ 67ab
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ 67cd
पुराणसंहिता यस्य प्रसादान्मयि वर्त्तते ॥ 68ab
नमो भगवते तस्मै व्यासायामिततेजसे ॥ 68cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नामप्रथमो ऽध्यायः ॥ 1 ॥

Chapter 2

सूत उवाच ॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ 1ab
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ 1cd
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ 2ab
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ 2cd
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ 3ab
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ 3cd
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ 4ab
यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ 4cd
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ 5ab
सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ 5cd
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ 6ab
निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ 6cd
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ 7ab
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ 7cd
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ 8ab
मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ 8cd
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ 9ab
दुर्द्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ 9cd
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ 10ab
निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ 10cd
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ 11ab
महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ 11cd
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्द्धं प्रजापतिः ॥ 12ab
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ 12cd
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ 13ab
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ 13cd
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ 14ab
दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ 14cd
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ 15ab
सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ 15cd
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ 16ab
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ 16cd
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ 17ab
शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ 17cd
मुनय ऊचुः ॥
503b

नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ 18ab
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ 18cd
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ 19ab
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ 19cd
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ 20ab
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ 20cd
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ 21ab
सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ 21cd
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ 22ab
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ 22cd
सूत उवाच ॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ 23ab
प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ 23cd
ब्रह्मोवाच ॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ 24ab
किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ 24cd
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ 25ab
वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ 25cd
मुनय ऊचुः ॥
भगवन्नंधकारेण महता वयमावृताः ॥ 26ab
खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ 26cd
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ 27ab
त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ 27cd
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ 28ab
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ 28cd
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ 29ab
तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ 29cd
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ 30ab
देवानां दानवानां च मुनीनामपि सन्निधौ ॥ 30cd
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ 31ab
आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ 31cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः ॥ 2 ॥

Chapter 3

ब्रहमोवाच ॥
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ 1ab
आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ 1cd
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ 2ab
सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ 2cd
कारणानां च यो धाता ध्याता परमकारणम् ॥ 3ab
न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ 3cd
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ 4ab
सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ 4cd
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ 5ab
तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ 5cd
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ 6ab
येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ 6cd
504a

एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ 7ab
य एको बहुधा बीजं करोति स महेश्वरः ॥ 7cd
जीवैरेभिरिमाँल्लोकान्सर्वानीशो य ईशते 1 8ab
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ 8cd
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ 9ab
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ 9cd
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ 10ab
अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ 10cd
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ 11ab
स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ 11cd
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ 12ab
तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ 12cd
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ 13ab
भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्त्तते ॥ 13cd
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ 14ab
यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ 14cd
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ 15ab
न तस्य परमं किंचित्पदं समधिगम्यते ॥ 15cd
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ 16ab
स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ 16cd
अप्राकृतवपुः श्रीमाँल्लक्ष्यलक्षणवर्जितः ॥ 17ab
अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ 17cd
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ 18ab
षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ 18cd
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ 19ab
अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ 19cd
अखंडजगदंडानां पिंडीकरणपंडितः ॥ 20ab
औदार्यवीर्यगांभीर्य्यमाधुर्य्यमकरालयः ॥ 20cd
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ 21ab
अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ 21cd
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ 22ab
अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ 22cd
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ 23ab
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ 23cd
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ 24ab
कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ 24cd
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ 25ab
तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ 25cd
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ 26ab
भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ 26cd
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ 27ab
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ 27cd


1 शपो लुगभाव आर्ष ।

504b


ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ 28ab
तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ 28cd
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ 29ab
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ 29cd
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ 30ab
यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ 30cd
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ 31ab
स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ 31cd
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ 32ab
तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ 32cd
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ 33ab
धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ 33cd
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ 34ab
सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ 34cd
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ 35ab
प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ 35cd
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ 36ab
स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ 36cd
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ 37ab
शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ 37cd
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ 38ab
ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ 38cd
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ 39ab
ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ 39cd
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ 40ab
प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ 40cd
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ 41ab
यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ 41cd
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ 42ab
बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ 42cd
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ 43ab
अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ 43cd
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ 44ab
कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ 44cd
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ 45ab
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ 45cd
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ 46ab
ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ 46cd
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ 47ab
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ 47cd
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ 48ab
सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ 48cd
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ 49ab
505a

ततो वाराणसी पुण्या पुरी परमशोभना ॥ 49cd
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ 50ab
सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ 50cd
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ 51ab
ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ 51cd
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ 52ab
अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ 52cd
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ 53ab
यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ 53cd
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ 54ab
प्रणिपत्य महादेवं विससर्ज पितामहः ॥ 54cd
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ 55ab
प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ 55cd
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ 56ab
विमलस्वादुपानीये निजपात वने क्वचित् ॥ 56cd
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ 57ab
अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ 57cd
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ 58ab
विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ 58cd
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ 59ab
मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ 59cd
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ 60ab
सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ 60cd
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ 61ab
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ 61cd
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ 62ab
वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ 62cd
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ 63ab
अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ 63cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः ॥ 3 ॥

Chapter 4

सूत उवाच ॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ 1ab
अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ 1cd
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् 1 2ab
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ 2cd
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ 3ab
पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ 3cd
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ 4ab
आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ 4cd


1 दीर्घाभाव आर्षः ।

505b


प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ 5ab
सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ 5cd
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ 6ab
तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ 6cd
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ 7ab
तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ 7cd
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ 8ab
पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ 8cd
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ 9ab
चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ 9cd
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ 10ab
प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ 10cd
वायुरुवाच ॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ 11ab
कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ 11cd
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ 12ab
स्तोत्रशस्त्रगृहैर्देवान् पितॄन् पित्र्यैश्च कर्मभिः ॥ 12cd
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ 13ab
निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ 13cd
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ 14ab
प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ 14cd
मुनय ऊचुः ॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ 15ab
अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ 15cd
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ 16ab
उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ 16cd
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ 17ab
सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ 17cd
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ 18ab
भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ 18cd
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ 19ab
यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ 19cd
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ 20ab
तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ 20cd
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ 21ab
अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ 21cd
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ 22ab
अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ 22cd
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ 23ab
वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ 23cd
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ 24ab
सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ 24cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः ॥ 4 ॥
506a

Chapter 5

सूत उवाच ॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ 1ab
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ 1cd
नैमिषीया ऊचुः ॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ 2ab
कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ 2cd
वायुरुवाच ॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ 3ab
तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ 3cd
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ 4ab
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ 4cd
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ 5ab
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ 5cd
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ 6ab
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ 6cd
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ 7ab
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ 7cd
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ 8ab
ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ 8cd
मुनय ऊचुः ॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ 9ab
यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ 9cd
वयुरुवाच ॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ 10ab
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ 10cd
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्त्तते ॥ 11ab
ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ 11cd
अजडं च जडं चैव नियंतृ च तयोरपि ॥ 12ab
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ 12cd
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ 13ab
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ 13cd
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ 14ab
क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ 14cd
मुनय ऊचुः ॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ 15ab
तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत ॥ 15cd
वायुरुवाच ॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ 16ab
ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ 16cd
मुनय ऊचुः ॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ 17ab
अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ 17cd
वायुरुवाच ॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ 18ab
संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ 18cd
मुनय ऊचुः ॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ 19ab
मूलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ 19cd
वायुरुवाच ॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ 20ab
506b

मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ 20cd
मुनय ऊचुः ॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ 21ab
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ 21cd
वायुरुवाच ॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ 22ab
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ 22cd
मुनय ऊचुः ॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ 23ab
तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ 23cd
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ 24ab
मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान् ॥ 24cd
वायुरुवाच ॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ 25ab
कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ 25cd
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ 26ab
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ 26cd
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ 27ab
बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ 27cd
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ 28ab
क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ 28cd
मुनय ऊचुः ॥
कलादिपंचतत्त्वानां किं कर्म पृथगुच्यते ॥ 29ab
भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ 29cd
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ 30ab
किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ 30cd
वायुरुवाच ॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ 31ab
कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ 31cd
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ 32ab
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ 32cd
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ 33ab
सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ 33cd
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ 34ab
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ 34cd
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ 35ab
राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ 35cd
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ 36ab
मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ 36cd
तन्मात्रापञ्चकं चैव भूतपंचकमेव च ॥ 37ab
ज्ञानेंद्रियाणि पंचैक्यं पंच कर्मेन्द्रियाणि च ॥ 37cd
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ 38ab
समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ 38cd
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ 39ab
व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ 39cd
507a

यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ 40ab
शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ 40cd
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ 41ab
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ 41cd
मुनय ऊचुः ॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ 42ab
आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ 42cd
वायुरुवाच ॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्द्ध्रुवम् ॥ 43ab
अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ 43cd
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ 44ab
स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ 44cd
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ 45ab
अन्तर्य्यामीति वेदेषु वेदांतेषु च गीयते ॥ 45cd
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ 46ab
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ 46cd
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ 47ab
मनसैव प्रदीप्तेन महानात्मावसीयते 1 47cd
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ 48ab
नैवोर्द्ध्वं नापि तिर्यक् नाधस्तान्न कुतश्चन ॥ 48cd
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ 49ab
सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ 49cd
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ 50ab
अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ 50cd
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ 51ab
अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ 51cd
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ 52ab
सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ 52cd
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ 53ab
आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ 53cd
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ 54ab
अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ 54cd
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ 55ab
अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ 55cd
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ 56ab
चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ 56cd
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ 57ab
अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ 57cd
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ 58ab
पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ 58cd
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ 59ab
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ 59cd
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ 60ab
तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ 60cd


1 निश्चीयते ।

507b


ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ 61ab
पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ 61cd
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ 62ab
लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ 62cd
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ 63ab
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ 63cd
सूत उवाच ॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ 64ab
प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ 64cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पंचमो ऽध्यायः ॥ 5 ॥

Chapter 6

मुनय ऊचुः ॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ 1ab
अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ 1cd
॥ वायुरुवाच ॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ 2ab
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ 2cd
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ 3ab
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ 3cd
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ 4ab
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ 4cd
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ 5ab
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ 5cd
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ 6ab
अयथाकरणज्ञानमंधस्य गमनं यथा ॥ 6cd
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ 7ab
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ 7cd
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ 8ab
ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ 8cd
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ 9ab
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ 9cd
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ 10ab
नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ 10cd
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ 11ab
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ 11cd
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ 12ab
सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ 12cd
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ 13ab
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते 1 13cd
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ 14ab
संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ 14cd


1 शब्लुगभाव आर्ष ।

508a


विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ 15ab
तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ 15cd
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ 16ab
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ 16cd
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ 17ab
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ 17cd
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ 18ab
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ 18cd
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ 19ab
नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ 19cd
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ 20ab
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ 20cd
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ 21ab
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ 21cd
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ 22ab
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ 22cd
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ 23ab
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ 23cd
अणोरणीयान्महतो महीयानयमव्ययः ॥ 24ab
गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ 24cd
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ 25ab
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ 25cd
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ 26ab
निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ 26cd
एको ऽपि त्रीनिमाँल्लोकान् बहुधा शक्तियोगतः ॥ 27ab
विदधाति विचेत्यंते 1 विश्वमादौ महेश्वरः ॥ 27cd
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ 28ab
तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ 28cd
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ 29ab
तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ 29cd
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ 30ab
एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ 30cd
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ 31ab
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ 31cd
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ 32ab
छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ 32cd
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ 33ab
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ 33cd
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ 34ab
सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ 34cd


1 विचेतोति प्रयोगस्त्वार्षत्वेन, `व्यत्ययो बहुलम्' इति स्मरणेन साधुः ।

508b


स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ 35ab
शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ 35cd
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ 36ab
तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ 36cd
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ 37ab
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ 37cd
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ 38ab
हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ 38cd
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ 39ab
केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ 39cd
नैनमूर्द्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ 40ab
न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ 40cd
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ 41ab
रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ 41cd
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ 42ab
विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ 42cd
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ 43ab
ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ 43cd
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ 44ab
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ 44cd
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् ॥ 45ab
यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ 45cd
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ 46ab
गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ 46cd
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ 47ab
ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ 47cd
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ 48ab
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ 48cd
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ 49ab
देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ 49cd
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ 50ab
तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ 50cd
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ 51ab
तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ 51cd
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ 52ab
कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम् ॥ 52cd
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ 53ab
तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ 53cd
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ 54ab
स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ 54cd
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ 55ab
सर्ववित् त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ 55cd
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ 56ab
509a

देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ 56cd
कालादिभिः परो यस्मात्प्रपंचः परिवर्तते ॥ 57ab
धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ 57cd
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ 58ab
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ 58cd
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ 59ab
न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ 59cd
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ 60ab
ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ 60cd
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ 61ab
कारणं कारणानां च स तेषामधिपाधिपः ॥ 61cd
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ 62ab
न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ 62cd
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ 63ab
सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ 63cd
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ 64ab
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ 64cd
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ 65ab
एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ 65cd
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ 66ab
ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ 66cd
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ 67ab
प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ 67cd
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ 68ab
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ 68cd
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ 69ab
निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ 69cd
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ 70ab
यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ 70cd
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ 71॥ 71ab
तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ 72ab
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ 72cd
वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ 73ab
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ 73cd
नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ 74ab
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ 74cd
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ 75ab
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ 75cd
अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ 76ab
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ 76cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः ॥ 6 ॥
509b

Chapter 7

मुनय ऊचुः ॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ 1ab
न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ 1cd
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ 2ab
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ 2cd
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ 3ab
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ 3cd
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ 4ab
अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ 4cd
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ 5ab
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ 5cd
वायुरुवाच ॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ 6ab
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ 6cd
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ 7ab
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ 7cd
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ 8ab
ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ 8cd
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ 9ab
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ 9cd
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ 10ab
महती तेन कालस्य मर्यादा हि दुरत्यया ॥ 10cd
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ 11ab
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ 11cd
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ 12ab
ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ 12cd
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ 13ab
न जयंत्यपि ते कालं कालो जयति तानपि ॥ 13cd
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ 14ab
न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ 14cd
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ 15ab
अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ 15cd
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ 16ab
संयोजयति भूतानि वियोजयति चेश्वरः ॥ 16cd
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ 17ab
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ 17cd
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ 18ab
यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ 18cd
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ 19ab
भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ 19cd
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ 20ab
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ 20cd
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ 21ab
तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ 21cd
510a

नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ 22ab
नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ 22cd
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ 23ab
कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ 23cd
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ 24ab
कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ 24cd
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ 25ab
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ 25cd
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ 26ab
विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ 26cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः ॥ 7 ॥

Chapter 8

ऋषय ऊचुः ॥
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ 1ab
संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ 1cd
वायुरुवाच ॥
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ 2ab
संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ 2cd
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ 3ab
तादृशानां निमेषाणां काष्ठा दश च पंच च ॥ 3cd
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ 4ab
मुहूर्त्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ 4cd
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ 5 ॥ 5ab
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ 6॥ 6ab
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ 7ab
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ 7cd
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ 8ab
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ 8cd
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ 9ab
संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ 9cd
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ 10ab
दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ 10cd
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ 11ab
चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ 11cd
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ 12ab
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ 12cd
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ 13ab
तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ 13cd
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ 14ab
एकापायेन वर्तंते सहस्राणि शतानि च ॥ 14cd
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ 15ab
510b

चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ 15cd
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ 16ab
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ 16cd
एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ 17ab
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ 17cd
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ 18ab
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ 18cd
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ 19ab
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ 19cd
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ 20ab
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ 20cd
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ 21ab
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ 21cd
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ 22ab
शतानि मासे चत्वारि विंशत्या सहितानि च ॥ 22cd
अब्दे पंच सहस्राणि चत्वारिंशद्युतानि च ॥ 23ab
चत्वारिंशत्सहस्राणि पंच लक्षाणि चायुषि ॥ 23cd
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ 24ab
ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ 24cd
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ 25ab
चत्वारिंशत्सहस्राणि पंचलक्षाणि चायुषि ॥ 25cd
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ 26ab
यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ 26cd
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ 26 ॥ 26ef
रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ 26 ॥ 26gh
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ 27ab
अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ 27cd
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ 28ab
प्रजाः प्रजानां पतयो मूर्त्तयश्च सुरासुराः ॥ 28cd
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पंच च ॥ 29ab
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ 29cd
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ 30ab
अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ 30cd
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ 31ab
यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ 31cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः ॥ 8 ॥

Chapter 9

मुनय ऊचुः ॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ 1ab
आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ 1cd
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ 2ab
केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ 2cd
॥ वायुरुवाच ॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ 3ab
ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ 3cd
511a

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ 4ab
ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ 4cd
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ 5ab
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ 5cd
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ 6ab
अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ 6cd
कलाभिः पंचभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ 7ab
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ 7cd
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ 8ab
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ 8cd
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ 9ab
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ 9cd
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ 10ab
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ 10cd
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ 11ab
अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ 11cd
स एव जगतः कर्ता महादेवो महेश्वराः ॥ 12ab
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ 12cd
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ 13ab
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ 13cd
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ 14ab
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ 14cd
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ 15ab
तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ 15cd
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ 16ab
तत्पराख्यं तदर्द्धं च परार्द्धमभिधीयते ॥ 16cd
परार्द्धद्वयकालांते प्रलये समुपस्थिते ॥ 17ab
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ 17cd
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ 18ab
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ 18cd
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ 19ab
अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ 19cd
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ 20ab
शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ 20cd
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ 21ab
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ 21cd
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ 22ab
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ 22cd
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ 23ab
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ 23cd
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ 24ab
आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ 24cd
511b


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमो ऽध्यायः ॥ 9 ॥

Chapter 10

वायुरुवाच ॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ 1ab
बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ 1cd
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ 2ab
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ 2cd
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ 3ab
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ 3cd
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ 4ab
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ 4cd
कल्पान्तरे पुनस्तेषामस्पर्द्धा बुद्धिमोहिनाम् ॥ 5ab
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ 5cd
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ 6ab
परस्परेण वर्धंते परस्परमनुव्रताः ॥ 6cd
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ 7ab
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ 7cd
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ 8ab
यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ 8cd
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ 9ab
सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ 9cd
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ 10ab
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ 10cd
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ 11ab
स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ 11cd
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ 12ab
सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ 12cd
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ 13ab
महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ 13cd
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ 14ab
वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ 14cd
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ 15ab
बुद्धीन्द्रियाणि पंचैव पंचकर्मेंद्रियाणि च ॥ 15cd
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ 16ab
तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ 16cd
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ 17ab
भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ 17cd
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ 18ab
वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ 18cd
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ 19ab
गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ 19cd
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ 20ab
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ 20cd
512a

तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ 21ab
तदंडे सुप्रवृद्धो ऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ 21cd
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ 22ab
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ 22cd
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ 23ab
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ 23cd
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ 24ab
वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ 24cd
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते ॥ 25ab
सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ 25cd
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ 26ab
सहस्रमूर्द्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ 26cd
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ 27ab
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ 27cd
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ 28ab
पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ 28cd
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ 29ab
चतुर्द्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ 29cd
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ 30ab
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ 30cd
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ 31ab
गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ 31cd
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ 32ab
चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ 32cd
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ 33ab
आपो दशगुणेनैव तेजसा बहिरावृताः ॥ 33cd
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ 34ab
आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ 34cd
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ 35ab
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ 35cd
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ 36ab
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ 36cd
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ 37ab
आधाराधेयभावेन विकारास्तु विकारिषु ॥ 37cd
कूर्मोंगानि यथा पूर्वं प्रसार्य्य विनियच्छति ॥ 38ab
विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ 38cd
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ 39ab
प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ 39cd
गुणाः कालवशादेव भवंति विषमाः समाः ॥ 40ab
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ 40cd
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ 41ab
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ 41cd
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ 42ab
सर्वगत्वात्प्रधानस्य तिर्य्यगूर्ध्वमधः स्थिताः ॥ 42cd
512b

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ 43ab
सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ 43cd
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ 44ab
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ 44cd
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ 45ab
आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ 45cd
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ 46ab
अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ 46cd
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ 47ab
अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ 47cd
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ 48ab
तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ 48cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः ॥ 10 ॥

Chapter 11

मुनय ऊचुः ॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ 1ab
तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ 1cd
वायुरुवाच ॥
कालसंख्याविवृत्तस्य परार्द्धो ब्रह्मणस्स्मृतः ॥ 2ab
तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ 2cd
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ 3ab
चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ 3cd
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ 4ab
मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ 4cd
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ 5ab
किमिहास्ति फलं तस्मान्न पृथक् वक्तुमुत्सहे ॥ 5cd
य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ 6ab
तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ 6cd
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ 7ab
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ 7cd
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ 8ab
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ 8cd
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ 9ab
प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ 9cd
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ 10ab
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ 10cd
जगंति तृणवक्त्रीणि देवे दहति पावके ॥ 11ab
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ 11cd
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ 12ab
तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ 12cd
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ 13ab
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ 13cd
513a

इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ 14ab
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ 14cd
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ 15ab
अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ 15cd
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ 16ab
बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ 16cd
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ 17ab
यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ 17cd
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ 18ab
उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ 18cd
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ 19ab
सविस्मय इवासीनः परां चिंतामुपागमत् ॥ 19cd
क्व सा भगवती या तु मनोज्ञा महती मही ॥ 20ab
नानाविधमहाशैलनदीनगरकानना ॥ 20cd
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ 21ab
तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ 21cd
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ 22ab
ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ 22cd
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ 23ab
जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ 23cd
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ 24ab
नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ 24cd
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ 25ab
ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ 25cd
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ 26ab
वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ 26cd
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ 27ab
विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ 27cd
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ 28ab
विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ 28cd
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ 29ab
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ 29cd
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ 30ab
लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ 30cd
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ 31ab
उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ 31cd
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ 32ab
मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ 32cd
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ 33ab
पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ 33cd
ततः संस्थानमानीय वराहो महतीं महीम् ॥ 34ab
स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ 34cd
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ 35ab
513b

भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ 35cd
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ 36ab
उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ 36cd


इति श्रीशिवमहापुराणे सप्तम्यां वा॰ पू॰ सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः ॥ 11 ॥

Chapter 12

वायुरुवाच ॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥ 1ab
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ 1cd
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥ 2ab
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ 2cd
पंचधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥ 3ab
सर्व्वतस्तमसातीव बीजकुम्भवदावृतः ॥ 3cd
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥ 4ab
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ 4cd
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ 5ab
तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ 5cd
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥ 6ab
तस्याभिधायतः सर्गं तिर्य्यक्स्रोतो ऽभ्यवर्त्तत ॥ 6cd
अन्तःप्रकाशास्तिर्य्यंच आवृताश्च बहिः पुनः ॥ 7ab
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ 7cd
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥ 8ab
तदोर्द्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ 8cd
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥ 9ab
प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ 9cd
ततो ऽभिध्यायतोव्यक्तादर्व्वाक्स्रोतस्तु साधकः ॥ 10ab
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ 10cd
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥ 11ab
पंचमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ 11cd
विपर्य्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ 12ab
ते ऽपरिग्राहिणः सर्व्वे संविभागरताः पुनः ॥ 12cd
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्त्तिताः ॥ 13ab
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ 13cd
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥ 14ab
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ 14cd
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ 15ab
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ 15cd
तिर्य्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥ 16ab
तदूर्द्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ 16cd
ततो ऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः ॥ 17ab
अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ 17cd
प्राकृताश्च त्रयः पूर्व्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥ 18ab
514a

बुद्धिपूर्व्वं प्रवर्त्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ 18cd
अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान् ॥ 19ab
सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ 19cd
ऋभुं सनत्कुमारञ्च पूर्व्वमेव प्रजापतिः ॥ 20ab
सर्व्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ 20cd
इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥ 21ab
तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ 21cd
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥ 22ab
तस्यैवं तप्यमानस्य न किंचित्समवर्त्तत ॥ 22cd
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥ 23ab
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ 23cd
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥ 24ab
सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ 24cd
तस्य तीव्रा ऽभवन्मूर्च्छा क्रोधामर्षसमुद्भवा ॥ 25ab
मूर्च्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ 25cd
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥ 26ab
प्रसादमतुलं कर्त्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ 26cd
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ 27ab
ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ 27cd
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥ 28ab
तस्मात्सर्व्वस्य लोकस्य स्थापनाय हिताय च ॥ 28cd
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥ 29ab
एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ 29cd
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ 30ab
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ 30cd
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥ 31ab
घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ 31cd
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥ 32ab
अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ 32cd
माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥ 33ab
मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ 33cd
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥ 34ab
हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ 34cd
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥ 35ab
उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ 35cd
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥ 36ab
को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ 36cd
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥ 37ab
स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ 37cd
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥ 38ab
एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ 38cd
तस्मात्तीव्रामिमाम्मूर्च्छां विधूय मदनुग्रहात् ॥ 39ab
प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ 39cd
514b

एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥ 40ab
नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ 40cd
ब्रह्मोवाच ॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ 41ab
नमो भवाय देवाय रसायाम्बुमयात्मने ॥ 41cd
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ 41 ॥ 41ef
ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥ 42ab
पशूनां पतये चैव पावकायातितेजसे ॥ 42cd
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ 42 ॥ 42ef
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥ 43ab
महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ 43cd
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥ 44ab
प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ 44cd
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥ 45ab
सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ 45cd
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥ 46ab
सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ 46cd
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥ 47ab
बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ 47cd
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥ 48ab
स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ 48cd
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥ 49ab
दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ 49cd
पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ 49 ॥ 49ef
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥ 50ab
सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ 50cd
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥ 51ab
प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ 51cd
अथ देवासुरपितॄन् मनुष्यांश्च चतुष्टयम् ॥ 52ab
सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ 52cd
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥ 53ab
मुखादजनयद्देवान् पितॄंश्चैवोपपक्षतः ॥ 53cd
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥ 54ab
अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ 54cd
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥ 55ab
सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ 55cd
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥ 56ab
मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ 56cd
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान् मृगान् ॥ 57ab
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः 1 57cd
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥ 58ab
गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ 58cd
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ 59ab
यजूंषि त्रैष्टुभं छंदःस्तोमं पंचदशं तथा ॥ 59cd


1 प्रथमार्षो ।

515a


बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ 60ab
सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ 60cd
वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात् ॥ 61ab
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ 61cd
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥ 62ab
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ 62cd
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥ 63ab
नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ 63cd
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥ 64ab
तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ 64cd
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥ 65ab
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ 65cd
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥ 66ab
महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ 66cd
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥ 67ab
नाम रूपं च भूतानां प्राकृतानां प्रपंचनम् ॥ 67cd
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥ 68ab
आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ 68cd
शर्वर्य्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥ 69ab
यथर्तावृतुलिंगानि नानारूपाणि पर्य्यये ॥ 69cd
दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥ 70ab
इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ 70cd
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥ 71ab
चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ 71cd
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥ 72ab
परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ 72cd
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ 73ab
अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ 73cd
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥ 74ab
महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ 74cd
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥ 75ab
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ 75cd
द्यां मूर्द्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥ 76ab
दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ 76cd
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥ 77ab
वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ 77cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः ॥ 12 ॥

Chapter 13

ऋषय ऊचुः ॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ 1ab
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ 1cd
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ 2ab
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ 2cd
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ 3ab
515b

यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ 3cd
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ 4ab
लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ 4cd
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ 5ab
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ 5cd
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ 6ab
पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ 6cd
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ 7ab
सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ 7cd
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ 8ab
गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ 8cd
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ 9ab
भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ 9cd
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ 10ab
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ 10cd
वायुरुवाच ॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ 11ab
इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ 11cd
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ 12ab
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ 12cd
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ 13ab
चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ 13cd
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ 14ab
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ 14cd
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ 15ab
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ 15cd
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ 16ab
तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ 16cd
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ 17ab
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ 17cd
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ 18ab
विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ 18cd
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ 19ab
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ 19cd
परस्परेण जायंते परस्परहितैषिणः ॥ 20ab
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ 20cd
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ 21ab
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ 21cd
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ 22ab
पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ 22cd
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ 23ab
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ 23cd
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ 24ab
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ 24cd
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ 25ab
516a

विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ 25cd
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ 26ab
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ 26cd
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ 26 ॥ 26ef
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ 27ab
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ 27cd
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ 28ab
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ 28cd
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ 29ab
एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ 29cd
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ 30ab
तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ 30cd
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ 31ab
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ 31cd
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ 32ab
त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ 32cd
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ 33ab
तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ 33cd
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ 34ab
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ 34cd
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ 35ab
त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ 35cd
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ 36ab
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ 36cd
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ 37ab
चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ 37cd
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ 38ab
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ 38cd
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ 39ab
क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ 39cd
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ 40ab
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ 40cd
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ 41ab
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ 41cd
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ 42ab
उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ 42cd
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ 43ab
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ 43cd
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ 44ab
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ 44cd
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ 45ab
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ 45cd
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ 46ab
प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ 46cd
516b

भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ 47ab
सादरं पश्यतोरेव तयोरंतरधीयत ॥ 47cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः ॥ 13 ॥

Chapter 14

वायुरुवाच ॥
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ 1ab
यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ 1cd
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ 2ab
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ 2cd
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ 3ab
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ 3cd
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ 4ab
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ 4cd
स एव भगवानीशस्तेजोराशिरनामयः ॥ 5ab
अनादिनिधनोधाता भूतसंकोचको विभुः ॥ 5cd
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ 6ab
तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ 6cd
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ 7ab
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ 7cd
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ 8ab
भुजंगहारकेयूरवलयो मुंजमेखलः ॥ 8cd
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ 9ab
गङ्गातुंगतरंगार्द्धपिंगलाननमूर्द्धजः ॥ 9cd
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ 10ab
सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ 10cd
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ 11ab
महानलसमप्रख्यो महाबलपराक्रमः ॥ 11cd
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ 12ab
विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ 12cd
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ 13ab
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ 13cd
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ 14ab
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ 14cd
कपर्द्दिनो निरातंकान्नीलग्रीवाँस्त्रिलोचनान् ॥ 15ab
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ 15cd
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ 16ab
तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ 16cd
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ 17ab
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ 17cd
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ 18ab
नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ 18cd
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ 19ab
चरिष्यंति मया सार्द्धं सर्व एव हि याज्ञिकाः ॥ 19cd
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ 20ab
सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ 20cd
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ 21ab
517a

ऊर्द्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ 21cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः ॥ 14 ॥

Chapter 15

वायुरुवाच ॥
यदा पुनः प्रजाः सृष्टा न व्यवर्द्धन्त वेधसः ॥ 1ab
तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ 1cd
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ 2ab
तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ 2cd
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ 3ab
प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ 3cd
प्रसादेन विना तस्य न वर्द्धेरन्निमाः प्रजाः ॥ 4ab
एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ 4cd
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ 5ab
आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ 5cd
निर्गुणा निष्प्रपंचा च निष्कला निरुपप्लवा ॥ 6ab
निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ 6cd
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ 7ab
संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ 7cd
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ 8ab
अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ 8cd
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ 9ab
अर्द्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ 9cd
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ 10ab
अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ 10cd
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ 11ab
सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ 11cd
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ 12ab
अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ 12cd
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ 13ab
सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ 13cd
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ 14ab
श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ 14cd
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ 15ab
तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ 15cd
ब्रह्मोवाच ॥
जय देव महादेव जयेश्वर महेश्वर ॥ 16ab
जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ 16cd
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ 17ab
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ 17cd
जयामोघमहामाय जयामोघ मनोरथ ॥ 18ab
जयामोघमहालील जयामोघमहाबल ॥ 18cd
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ 19ab
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ 19cd
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ 20ab
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ 20cd
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ 21ab
517b

जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ 21cd
जयावलोकनायत्तजगत्कारणबृंहण ॥ 22ab
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ 22cd
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ 23ab
जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ 23cd
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ 24ab
जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ 24cd
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ 25ab
जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ 25cd
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ 26ab
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ 26cd
जय प्रणीतपंचार्थप्रयोगपरमामृत ॥ 27ab
जय पंचार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ 27cd
जयति घोरसंसारमहारोगभिषग्वर ॥ 28ab
जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ 28cd
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ 29ab
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ 29cd
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ 30ab
जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ 30cd
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ 31ab
तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ 31cd
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ 32ab
नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ 32cd
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ 33ab
अर्द्धनारीश्वरं नाम शिवयोर्हर्षवर्द्धनम् ॥ 33cd
य इदं कीर्त्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ 34ab
स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ 34cd
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ 35ab
नरवरयुवतीवपुर्द्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ 35cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू॰ शिवशिवास्तुतिवर्णनं नाम पंचदशो ऽध्यायः ॥ 15 ॥

Chapter 16

वायुरुवाच ॥
अथ देवो महादेवो महाजलदनादया ॥ 1ab
वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥ 1cd
अर्थसंपन्नपदया राजलक्षणयुक्तया ॥ 2ab
अशेषविषयारंभरक्षाविमलदक्षया ॥ 2cd
मनोहरतरोदारमधुरस्मितपूर्वया ॥ 3ab
संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥ 3cd
ईश्वर उवाच ॥
वत्स वत्स महाभाग मम पुत्र पितामह ॥ 4ab
ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ 4cd
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ 5ab
तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥ 5cd
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥ 6ab
ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ 6cd
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥ 7ab
परस्य परमां शक्तिं भवस्य परमात्मनः ॥ 7cd
518a

यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥ 8ab
या भवानी भवस्यांगात्समाविरभवत्किल ॥ 8cd
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥ 9ab
सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ 9cd
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥ 10ab
शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ 10cd
सर्वं जगदिदं चैषा संमोहयति मायया ॥ 11ab
ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥ 11cd
न यस्या परमो भावः सुराणामपि गोचरः ॥ 12ab
विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥ 12cd
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥ 13ab
सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ 13cd
परमां निखिलं भासा भासयन्तीमिदं जगत् ॥ 14ab
प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ 14cd
ब्रह्मोवाच ॥
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥ 15ab
प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ 15cd
मनसा निर्मिताः सर्वे देवि देवादयो मया ॥ 16ab
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ 16cd
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ 17ab
संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ 17cd
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ 18ab
तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ 18cd
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ 19ab
तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ 19cd
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥ 20ab
चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ 20cd
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥ 21ab
एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ 21cd
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ 22ab
तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥ 22cd
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥ 23ab
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ 23cd
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ 24ab
दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ 24cd
विवेश देहं देवस्य देवश्चांतरधीयत ॥ 25ab
तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ 25cd
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥ 26ab
ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥ 26cd
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥ 27ab
पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥ 27cd
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥ 28ab
पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ 28cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः ॥ 16 ॥
518b

Chapter 17

वायुरुवाच ॥
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ 1ab
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ 1cd
स्वयमप्यद्भुतो नारी चार्द्धेन पुरुषो ऽभवत् ॥ 2ab
यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ 2cd
विराजमसृजद्ब्रह्मा सो ऽर्द्धन पुरुषो ऽभवत् ॥ 3ab
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ 3cd
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ 4ab
भर्त्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ 4cd
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ 5ab
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ 5cd
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ 6ab
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ 6cd
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ 7ab
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् । 7cd
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ 8ab
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ 8cd
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः 1 9ab
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ 9cd
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ 10ab
बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ 10cd
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ 11ab
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ 11cd
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ 12ab
सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा ॥ 12cd
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥ 13ab
पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ 13cd
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ 14ab
कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥ 14cd
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ 15ab
दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥ 15cd
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ 16ab
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ 16cd
स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ 17ab
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ 17cd
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ 18ab
दक्षं च दक्षभार्य्यां च विनिंद्य सह बन्धुभिः ॥ 18cd
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ 19ab


1 प्रथमार्षी ।

519a


रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ 19cd
यथासृजदसंख्यातांस्तथा कथितमेव च ॥ 20ab
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ 20cd
देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥ 21ab
तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ 21cd
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥ 22ab
मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ 22cd
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ 23ab
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ 23cd
स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥ 24ab
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ 24cd
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ 25ab
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ 25cd
पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे ॥ 25 ॥ 25ef
तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥ 26ab
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ 26cd
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ 27ab
त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ 27cd
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ 28ab
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ 28cd
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ 29ab
अनूरोरग्रतो यांति परिवार्य्य दिवाकरम् ॥ 29cd
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ 30ab
कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ 30cd
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ 31ab
सोमश्च पंचमस्त्वेते पंचात्रेयाः प्रकीर्तिताः ॥ 31cd
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ 32ab
स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥ 32cd
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ 33ab
ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥ 33cd
रजो गात्रोर्द्ध्वबाहू च सवनश्चानयश्च यः ॥ 34ab
सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ 34cd
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ 35ab
स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥ 35cd
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥ 36ab
समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ 36cd
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ 37ab
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ 37cd
पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ 38ab
निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ 38cd
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ 39ab
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ 39cd
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ 40ab
519b

एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ 40cd
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ 41ab
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ 41cd
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ 42ab
तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ 42cd
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ 43ab
इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ 43cd
नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ 44ab
यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ 44cd
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ 45ab
युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ 45cd
तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ 46ab
एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ 46cd
आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥ 47ab
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ 47cd
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ 48ab
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ 48cd
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ 49ab
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ 49cd
मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥ 50ab
गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥ 50cd
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ 51ab
मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ 51cd
स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ 52ab
साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ 52cd
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ 53ab
वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ 53cd
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ 54ab
स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥ 54cd
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥ 55ab
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ 55cd
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ 56ab
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ 56cd
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥ 57ab
त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥ 57cd
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ 58ab
नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ 58cd
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ 59ab
क्रियावंतः प्रजावंतो महर्द्धिभिरलंकृताः ॥ 59cd
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥ 60ab
न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ 60cd
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ 61ab
सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ 61cd
520a

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ 62ab
पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ 62cd
अन्ये च राजqषयो नानावीर्यसमन्विता ॥ 63ab
किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ 63cd
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ 64ab
न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ 64cd
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ 65ab
सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ 65cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः ॥ 17 ॥

Chapter 18

ऋषय ऊचुः ॥
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ 1ab
कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ 1cd
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ 2ab
निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ 2cd
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ 3ab
चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ 3cd
वायुरुवाव ॥
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ 4ab
वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ 4cd
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ 5ab
कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ 5cd
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ 6ab
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ 6cd
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ 7ab
जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ 7cd
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ 8ab
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ 8cd
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ 9ab
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ 9cd
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ 10ab
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ 10cd
अन्याञ् 1जामातरस्सर्वानाहूय स यथाक्रमम् ॥ 11ab
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ 11cd
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ 12ab
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ 12cd
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ 13ab
लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ 13cd
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ 14ab
मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ 14cd
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ 15ab
वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ 15cd


1 प्रथमान्तः प्रयोग आर्षः ।

520b


पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ 16ab
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ 16cd
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ 17ab
अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ 17cd
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ 18ab
अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ 18cd
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ 19ab
विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ 19cd
आरुरोह महादेवी सह प्रियसखीजनैः ॥ 20ab
चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ 20cd
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ 21ab
तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ 21cd
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ 22ab
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ 22cd
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ 23ab
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ 23cd
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ 24ab
अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ 24cd
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ 25ab
सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ 25cd
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ 26ab
अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ 26cd
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ 27ab
काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ 27cd
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ 28ab
काचिदाभरणाधारं बभार कमलेक्षणा ॥ 28cd
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ 29ab
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ 29cd
आवृत्त्या तां महादेवीमसेवंत समंततः ॥ 30ab
अतीव शुशुभे तासामंतरे परमेश्वरी ॥ 30cd
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ 31ab
ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ 31cd
प्रास्थानिको महानादः पटहः समताड्यत ॥ 32ab
ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ 32cd
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ 33ab
सायुधानां गणेशानां महेशसमतेजसाम् ॥ 33cd
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ 34ab
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ 34cd
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ 35ab
देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ 35cd
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ 36ab
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ 36cd
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ 37ab
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ 37cd
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ 38ab
तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ 38cd
521a

तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ 39ab
अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ 39cd
देव्युवाच ॥
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ 40ab
स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ 40cd
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ 41ab
असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ 41cd
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ 42ab
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ 42cd
तासां तु ये च भर्त्तारस्ते मे बहुमता मुदा ॥ 43ab
गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ 43cd
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ 44ab
तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ 44cd
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ 45ab
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ 45cd
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ 46ab
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ 46cd
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ 47ab
त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ 47cd
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ 48ab
सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ 48cd
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ 49ab
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ 49cd
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ 50ab
तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ 50cd
स पर्वतपरः श्रीमाँल्लब्धपुण्यफलोदयः ॥ 51ab
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ 51cd
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ 52ab
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ 52cd
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ 53ab
तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ 53cd
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ 54ab
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ 54cd
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ 55ab
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ 55cd
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ 56ab
उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ 56cd
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ 57ab
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ 57cd
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ 58ab
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ 58cd
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ 59ab
स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ 59cd
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ 60ab
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ 60cd
521b

भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ 61ab
अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ 61cd
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ 62ab
महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ 62cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः ॥ 18 ॥

Chapter 19

ऋषय ऊचुः ॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ 1ab
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ 1cd
वायुरुवाच ॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ 2ab
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ 2cd
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ 3ab
संकीडति तया सार्द्धं काले बहुतरे गते ॥ 3cd
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ 4ab
अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ 4cd
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ 5ab
गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ 5cd
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ 6ab
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ 6cd
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ 7ab
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ 7cd
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ 8ab
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ 8cd
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ 9ab
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ 9cd
दधीच उवाच ॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ 10ab
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ 10cd
असतां संमतिर्यत्र सतामवमतिस्तथा ॥ 11ab
दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ 11cd
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ 12ab
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ 12cd
दक्ष उवाच ॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ 13ab
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ 13cd
दधीच उवाच ॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ 14ab
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ 14cd
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ 15ab
ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ 15cd
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ 16ab
चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ 16cd
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ 17ab
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ 17cd
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ 18ab
522a

तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ 18cd
दक्ष उवाच ॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ 19ab
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ 19cd
दधीच उवाच ॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ 20ab
तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ 20cd
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ 21ab
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ 21cd
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ 22ab
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ 22cd
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ 23ab
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ 23cd
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ 24ab
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ 24cd
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ 25ab
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ 25cd
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ 26ab
चक्रवज्रधरं घोरं चंद्रार्द्धकृतशेखरम् ॥ 26cd
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम् ॥ 27ab
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ 27cd
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ 28ab
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ 28cd
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ 29ab
वरामरशिरोमालावलीकलितशेखरम् ॥ 29cd
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ 30ab
रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ 30cd
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ 31ab
प्रशस्तमत्तमातंगसमानगमनालसम् ॥ 31cd
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ 32ab
सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ 32cd
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ 33ab
तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ 33cd
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ 34ab
पार्श्वतो देवदेवस्य पर्य्यतिष्ठद्गणेश्वरः ॥ 34cd
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ 35ab
आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ 35cd
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ 36ab
भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ 36cd
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ 37ab
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ 37cd
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ 38ab
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ 38cd
देवदेव उवाच ॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ 39ab
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ 39cd
522b

अहमप्यनया सार्द्धं रैभ्याश्रमसपीपतः ॥ 40ab
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ 40cd
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ 41ab
सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ 41cd
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ 42ab
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ 42cd
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ 43ab
भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ 43cd
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ 44ab
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ 44cd
देव्युवाच ॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ 45ab
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ 45cd
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ 46ab
दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ 46cd
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ 47ab
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ 47cd
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ 48ab
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ 48cd
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ 49ab
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ 49cd
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ 50ab
दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ 50cd
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ 51ab
गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ 51cd
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ 52ab
संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ 52cd
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ 53ab
रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ 53cd
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ 54ab
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ 54cd
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ 55ab
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ 55cd
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ 56ab
कालानलशतैर्युक्तो यथांते कालभैरवः ॥ 56cd
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ 57ab
जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ 57cd
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ 58ab
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ 58cd
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ 59ab
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ 59cd
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ 60ab
बालसोमेन सौम्येन यथा शूलवरायुधः ॥ 60cd
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ 61ab
भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ 61cd
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ 62ab
523a

ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ 62cd
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ 63ab
मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ 63cd
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ 64ab
ननृतुर्मुमुदुर् 1नेदुर्जहसुर्जगदुर्जगुः ॥ 64cd
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ 65ab
यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ 65cd
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ 66ab
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ 66cd
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ 67ab
प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ 67cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः ॥ 19 ॥

Chapter 20

वायुरुवाच ॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ 1ab
ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ 1cd
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ 2ab
कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ 2cd
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ 3ab
विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ 3cd
देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ 4ab
वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ 4cd
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ 5ab
सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ 5cd
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ 6ab
गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ 6cd
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ 7ab
दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ 7cd
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ 8ab
किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ 8cd
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ 9ab
श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ 9cd
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ 10ab
मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ 10cd
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ 11ab
ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ 11cd
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ 12ab
संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ 12cd
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ 13ab
क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ 13cd
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ 14ab
वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ 14cd


1 परस्मैपदमार्षम् ।

523b


स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ 15ab
अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ 15cd
वीरभद्र उवाच ॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ 16ab
भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ 16cd
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ 17ab
कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ 17cd
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ 18ab
ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ 18cd
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ 19ab
येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ 19cd
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ 20ab
भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ 20cd
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ 21ab
तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ 21cd
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ 22ab
मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ 22cd
यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः ॥ 23ab
तस्माद्वो जीवितैस्सार्द्धमपनेष्यामि गर्वितम् ॥ 23cd
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ 24ab
यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ 24cd
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ 25ab
यूपानुत्पाट्य होतॄणां कंठेष्वाबध्य रज्जुभिः ॥ 25cd
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ 26ab
गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ 26cd
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ 27ab
क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ 27cd
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ 28ab
रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ 28cd
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ 29ab
वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ 29cd
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ 30ab
उद्धतांस्त्रिदशान्सर्वाँल्लोकपालपुरस्सरान् ॥ 30cd
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ 31ab
छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ 31cd
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ 32ab
संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ 32cd
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ 33ab
विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ 33cd
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ 34ab
स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ 34cd
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ 35ab
गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ 35cd
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ 36ab
524a

निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ 36cd
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ 37ab
नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ 37cd
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ 38 ॥ 38ab
केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ 39ab
केचित्प्रसर्तुं पवनेन सार्द्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ 39cd
आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ 40ab
भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ 40cd
उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ 41ab
विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ 41cd
उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ 42ab
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ 42cd
हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ 43ab
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ 43cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः ॥ 20 ॥

Chapter 21

वायुरुवाच ॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ 1ab
सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ 1cd
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ 2ab
दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ 2cd
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ 3ab
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ 3cd
अमरानपि दुद्राव द्विरदानिव केसरी ॥ 4ab
तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ 4cd
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ 5ab
ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ 5cd
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ 6ab
विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ 6cd
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ 7ab
छिन्दन्भिन्दन्नुद 1क्लिन्दन्दारयन्प्रमथन्नपि ॥ 7cd
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ 8ab
तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ 8cd
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ 9ab
भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ 9cd
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ 10ab
स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ 10cd
प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ 11ab
भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ 11cd


1 नलोप आर्षः ।

524b


कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ 12ab
तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ 12cd
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ 13ab
असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ 13cd
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ 14ab
परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ 14cd
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ 15ab
सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ 15cd
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ 16ab
चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ 16cd
चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ 17ab
अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ 17cd
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ 18ab
चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ 18cd
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ 19ab
प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ 19cd
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ 20ab
जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ 20cd
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ 21ab
क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ 21cd
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ 22ab
क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ 22cd
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ 23ab
सा देवी कंडुकक्रीडां चकार समरांगणे ॥ 23cd
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ 24ab
पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ 24cd
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ 25ab
बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ 25cd
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ 26ab
भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ 26cd
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ 27ab
यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ 27cd
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ 28ab
प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ 28cd
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ 29ab
प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ 29cd
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ 30ab
शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ 30cd
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ 31ab
विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ 31cd
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ 32ab
प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ 32cd
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ 33ab
दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ 33cd
स विस्फार्य्य महच्चापं दृढज्याघोषणभीषणम् ॥ 34ab
525a

भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ 34cd
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ 35ab
नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ 35cd
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ 36ab
शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ 36cd
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ 37ab
मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ 37cd
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ 38ab
विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ 38cd
तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ 39ab
सर्वेषां वयसां राजा गरुडः पन्नगाशनः । 39cd
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ 40ab
प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ 40cd
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ 41ab
दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ 41cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः ॥ 21 ॥

Chapter 22

तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ 1ab
सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ 1cd
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ 2ab
सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ 2cd
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ 3ab
यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ 3cd
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ 4ab
हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ 4cd
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ 5ab
आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ 5cd
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ 6ab
सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ 6cd
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ 7ab
आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ 7cd
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ 8ab
भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ 8cd
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ 9ab
प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ 9cd
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ 10ab
श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ 10cd
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ 11ab
क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ 11cd
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ 12ab
महता बाणवर्षेण तुतोद गणगोवृषम् ॥ 12cd
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ 13ab
स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ 13cd
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ 14ab
525b

शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ 14cd
तस्य विस्फार्य्यमाणस्य धनुषो ऽभून्महास्वनः ॥ 15ab
तेन स्वनेन महता पृथिवीं समकंपयत् ॥ 15cd
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ 16ab
जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ 16cd
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ 17ab
प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ 17cd
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ 18ab
महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ 18cd
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ 19ab
विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ 19cd
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ 20ab
चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ 20cd
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ 21ab
विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ 21cd
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ 22ab
विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ 22cd
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ 23ab
स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ 23cd
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ 24ab
द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ 24cd
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ 25ab
हाहाकारो महानासीदाकाशे खेचरेरितः ॥ 25cd
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ 26ab
विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ 26cd
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ 27ab
महतीं रुजमासाद्य निपपात विमोहितः ॥ 27cd
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ 28ab
सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ 28cd
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ 29ab
सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ 29cd
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ 30ab
ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ 30cd
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ 30 ॥ 30ef
अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ 31ab
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ 31cd
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ 32ab
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ 32cd
शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ 33ab
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ 33cd
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ 34ab
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ 34cd
तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ 35ab
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ 35cd
स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ 36ab
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ 36cd
526a

इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ 37ab
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ 37cd
अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ 38ab
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ 38cd
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ 39ab
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ 39cd
समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ 39 ॥ 39ef
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ 40ab
तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ 40cd
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ 41ab
अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ 41cd
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ 42ab
सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ 42cd
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ 43ab
अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ 43cd
एवं भगवता तेन व्याहताशेषवैभवात् ॥ 44ab
अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ 44cd
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ 45ab
स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ 45cd
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः । 46ab
विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ 46cd
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ 47ab
शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ 47cd
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ 48ab
विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ 48cd
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ 49ab
तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ 49cd
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ 50ab
उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ 50cd
महांतस्ते सुरगणान् मंडूकानिवडुंडुभाः ॥ 51ab
प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ 51cd
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ 52ab
पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ 52cd
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ 53ab
विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ 53cd
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ 54 ॥ 53ef
अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ 54ab
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ 54cd
अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ 55ab
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ 55cd
परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ 56ab
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ 56cd
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ 57ab
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ 57cd
तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ 58ab
526b

प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ 58cd
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ 59ab
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ 59cd
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ 60ab
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ 60cd
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ 61ab
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ 61cd
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ 62ab
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ 62cd
यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ 62 ॥ 62ef
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ 63ab
भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ 63cd
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ 64ab
सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ 64cd
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ 65ab
नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ 65cd
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ 66ab
न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ 66cd
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ 67ab
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ 67cd
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ 68ab
वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ 68cd
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ 69ab
गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ 69cd
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ 70ab
पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ 70cd
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ 71ab
निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ 71cd
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ 72ab
बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ 72cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः ॥ 22 ॥

Chapter 23

वायुरुवाच ॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ 1ab
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ 1cd
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ 2ab
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ 2cd
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ 3ab
बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ 3cd
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ 4ab
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ 4cd
527a

अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ 5ab
प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ 5cd
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ 6ab
शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ 6cd
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ 7ab
धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ 7cd
देवा ऊचुः
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ 8ab
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ 8cd
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ 9ab
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ 9cd
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ 10ab
शासिताः समरे वीर त्वया वयमनिन्दिता ॥ 10cd
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ 11ab
त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ 11cd
वायुरुवाच ॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ 12ab
आनयद्देवदेवस्य समीपममरानिह ॥ 12cd
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ 13ab
सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ 13cd
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ 14ab
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ 14cd
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ 15ab
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ 15cd
महादेव उवाच ॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ 16ab
अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ 16cd
भवतां निर्ज्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ 17ab
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ 17cd
वायुरुवाच ॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ 18ab
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ 18cd
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ 19ab
स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ 19cd
देवा ऊचुः ॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ 20ab
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्त्ते ॥ 20cd
सर्वमूर्त्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ 21ab
अमूर्त्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ 21cd
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ 22ab
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ 22cd
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ 23ab
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ 23cd
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ 24ab
सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ 24cd
मेदुरं तारयामास सदारं च घृणानिधिः ॥ 25ab
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ 25cd
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ 26ab
527b

सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ 26cd
विष्णुरुवाच ॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ 27ab
कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ 27cd
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ 28ab
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ 28cd
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ 29ab
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ 29cd
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ 30ab
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ 30cd
ब्रह्मोवाच ॥
जय देव महादेव प्रणतार्तिविभंजन ॥ 31ab
ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ 31cd
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ 32ab
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ 32cd
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ 33ab
तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ 33cd
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ 34ab
विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ 34cd
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ 35ab
देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ 35cd
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ 36ab
तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ 36cd
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ 37ab
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ 37cd
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ 38ab
भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ 38cd
दक्ष उवाच ॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ 39ab
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ 39cd
कर्त्ता भर्त्ता च हर्ता च त्वमेव जगतां प्रभो ॥ 40ab
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ 40cd
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ 41ab
न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ 41cd
वायुरुवाच ॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ 42ab
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति 1 घृणानिधिः ॥ 42cd
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ 43ab
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ 43cd
ततो ब्रह्मादयो देवा अभिवंद्य कृत 2अंजलिः ॥ 44ab
तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ 44cd
ब्रह्मादय ऊचुः ॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ 45ab


1 सिज्लोप आर्षः ।
2 एकवचनमार्षम् ।

528a


कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ 45cd
मखपाल मखाधीश मखविध्वंसकारक ॥ 46ab
कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ 46cd
देवदेव परेशान भक्तप्राणप्रपोषक ॥ 47ab
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ 47cd
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ 48ab
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ 48cd
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ 49ab
सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ 49cd
वायुरुवाच ॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ 50ab
स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ 50cd
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ 51ab
ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ 51cd
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ 52ab
अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ 52cd
शिव उवाच ॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ 53ab
शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ 53cd
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ 54ab
हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ 54cd
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ 55ab
सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ 55cd
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ 56ab
सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ 56cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः ॥ 23 ॥

Chapter 24

ऋषय ऊचुः ॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ 1ab
क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ 1cd
वायुरुवाच ॥
महीधरवरः श्रीमान् मंदरश्चित्रकंदरः ॥ 2ab
दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ 2cd
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ 3ab
चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ 3cd
तस्य शैलस्य सौन्दर्य्यं सहस्रवदनैरपि ॥ 4ab
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ 4cd
शक्यमप्यस्य सौन्दर्य्यं न वर्णयितुमुत्सहे ॥ 5ab
पर्वतान्तरसौन्दर्य्यं साधारणविधारणात् ॥ 5cd
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ 6ab
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ 6cd
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ 7ab
अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ 7cd
528b

मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ 8ab
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ 8cd
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ 9ab
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ 9cd
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ 10ab
अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ 10cd
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ 11ab
चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ 11cd
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ 12ab
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ 12cd
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ 13ab
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ 13cd
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ 14ab
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ 14cd
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ 15ab
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ 15cd
अधोमुखैरूर्द्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ 16ab
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ 16cd
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ 17ab
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ 17cd
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ 18ab
अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ 18cd
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ 19ab
वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ 19cd
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ 20ab
तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ 20cd
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ 21ab
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ 21cd
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ 22ab
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ 22cd
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ 23ab
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ 23cd
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ 24ab
दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ 24cd
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना ॥ 25ab
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ 25cd
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ 26ab
अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ 26cd
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ 27ab
इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ 27cd
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ 28ab
निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ 28cd
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ 29ab
विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ 29cd
529a

तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ 30ab
निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ 30cd
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ 31ab
कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ 31cd
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ 32ab
स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ 32cd
देव्युवाच ॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ 33ab
एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ 33cd
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ 34ab
न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ 34cd
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ 35ab
इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ 35cd
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ 36ab
सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ 36cd
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ 37ab
तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ 37cd
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ 38ab
वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ 38cd
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ 39ab
ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ 39cd
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ 40ab
पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ 40cd
ईश्वर उवाच ॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ 41ab
रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ 41cd
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ 42ab
कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ 42cd
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ 43ab
यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ 43cd
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ 44ab
ततः कथमुपालब्धः कामदाहादहं त्वया ॥ 44cd
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ 45ab
मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ 45cd
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ 46ab
ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ 46cd
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ 47ab
क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ 47cd
देव्युवाच ॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ 48ab
येनैवमतिधीराहमपि प्रागभिवंचिता ॥ 48cd
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ 49ab
कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ 49cd
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ 50ab
क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ 50cd
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ 51ab
529b

अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ 51cd
शिव उवाच ॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ 52ab
ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ 52cd
देव्युवाच ॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ 53ab
ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ 53cd
ईश्वर उवाच ॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ 54ab
तमाहूय महादेवि तपसा किं करिष्यसि ॥ 54cd
देव्युवाच ॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ 55ab
तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ 55cd
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ 56ab
जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ 56cd
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ 57ab
गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ 57cd
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ 58ab
न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ 58cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः ॥ 24 ॥

Chapter 25

वायुरुवाच ॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ 1ab
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ 1cd
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ 2ab
तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ 2cd
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ 3ab
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ 3cd
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ 4ab
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ 4cd
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ 5ab
सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ 5cd
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ 6ab
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ 6cd
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ 7ab
प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ 7cd
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ 8ab
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ 8cd
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ 9ab
गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ 9cd
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ 10ab
न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ 10cd
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ 11ab
ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ 11cd
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ 12ab
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ 12cd
530a

देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ 13ab
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ 13cd
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ 14ab
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ 14cd
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ 15ab
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ 15cd
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ 16ab
सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ 16cd
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ 17ab
स एव द्रावको भूत्वा विचचार तपोवने ॥ 17cd
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ 18ab
देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ 18cd
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ 19ab
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ 19cd
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ 20ab
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ 20cd
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ 21ab
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ 21cd
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ 22ab
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ 22cd
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ 23ab
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ 23cd
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ 24ab
अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ 24cd
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ 25ab
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ 25cd
ब्रह्मोवाच ॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ 26ab
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ 26cd
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ 27ab
भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ 27cd
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ 28ab
इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ 28cd
देव्युवाच ॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ 29ab
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ 29cd
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ 30ab
उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ 30cd
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ 31ab
तदा पितामहस्त्वं मे जातो लोकपितामह ॥ 31cd
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ 32ab
वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ 32cd
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ 33ab
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ 33cd
530b

ब्रह्मोवाच ॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ 34ab
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ 34cd
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ 35ab
अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ 35cd
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ 36ab
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ 36cd
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ 37ab
शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ 37cd
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ 38ab
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ 38cd
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ 39ab
काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ 39cd
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ 40ab
शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ 40cd
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ 41ab
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ 41cd
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ 42ab
निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ 42cd
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ 43ab
प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ 43cd
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ 44ab
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ 44cd
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ 45ab
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ 45cd
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ 46ab
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ 46cd
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ 47ab
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ 47cd
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ 48ab
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ 48cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पंचविंशो ऽध्यायः ॥ 25 ॥

Chapter 26

वायुरुवाच ॥
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ 1ab
तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ 1cd
देव्युवाच ॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ 2ab
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ 2cd
मय्यर्पितमना एष भजते मामनन्यधीः ॥ 3ab
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ 3cd
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ 4ab
गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ 4cd
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ 5ab
प्रदीयतामनुज्ञा मे प्रजानां पतिना 1 त्वया ॥ 5cd


1 धित्वमार्षम् ।

531a


इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ 6ab
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् 1 6cd
ब्रह्मोवाच ॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ 7ab
आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ 7cd
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ 8ab
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ 8cd
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ 9ab
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ 9cd
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ 10ab
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ 10cd
देव्युवाच ॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ 11ab
तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ 11cd
ब्रह्मोवाच ॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ 12ab
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ 12cd
पुण्यकर्मापि किं कुर्य्यात्त्वदीयाज्ञानपेक्षया ॥ 13ab
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ 13cd
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ 14ab
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ 14cd
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ 15ab
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ 15cd
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ 16ab
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ 16cd
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ 17ab
अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ 17cd
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ 18ab
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ 18cd
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ 19ab
सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ 19cd
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ 20ab
अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ 20cd
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ 21ab
क्रीडसे 2 विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ 21cd
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ 22ab
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ 22cd
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ 23ab
ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ 23cd
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ 24ab
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ 24cd
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ 25ab


1 परस्मैपदमार्षम् ।
2 आत्मनेपदमार्षम् ।

531b


तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ 25cd
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ 26ab
तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ 26cd
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ 27ab
सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ 27cd
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ 28ab
देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ 28cd
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ 29ab
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ 29cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः ॥ 26 ॥

Chapter 27

ऋषय ऊचुः ॥
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ 1ab
कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ 1cd
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ 2ab
गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ 2cd
वायुरुवाच ॥
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ 3ab
येन प्रणयगर्भेण भावो भाववतां हृतः ॥ 3cd
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ 4ab
शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ 4cd
तैस्तैः प्रणयभावैश्च भवनान्तरवर्त्तिभिः ॥ 5ab
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ 5cd
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ 6ab
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ 6cd
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्य्यंके न्यषीदत ॥ 7ab
पर्य्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ 7cd
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ 8ab
तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ 8cd
देवदेव उवाच ॥
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ 9ab
यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ 9cd
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ 10ab
त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ 10cd
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ 11ab
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ 11cd
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ 12ab
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ 12cd
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ 13ab
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ 13cd
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ 14ab
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ 14cd
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ 15ab
वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ 15cd
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ 16ab
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ 16cd
532a

विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ 17ab
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ 17cd
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ 18ab
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ 18cd
आज्ञैकसारमैश्वर्य्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ 19ab
आज्ञया विप्रयुक्तस्य चैश्वर्य्यं मम कीदृशम् ॥ 19cd
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ 20ab
देवानां कार्य्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ 20cd
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ 21ab
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ 21cd
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ 22ab
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ 22cd
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ 23ab
स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ 23cd
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ 24ab
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ 24cd
देव्युवाच ॥
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ 25ab
तादृशी कन्यका लोके न भूता न भविष्यति ॥ 25cd
तस्या वीर्य्यं बलं विन्ध्यनिलयं विजयं तथा ॥ 26ab
शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ 26cd
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ 27ab
लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ 27cd
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ 28ab
व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ 28cd
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ 29ab
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ 29cd
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ 30ab
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ 30cd
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ 31ab
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ 31cd
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ 32ab
रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ 32cd
वायुरुवाच ॥
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ 33ab
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ 33cd
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ 34ab
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ 34cd
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ 35ab
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ 35cd
इत्थं देव्याः प्रियं कृत्वा देवश्चर्द्धेन्दुभूषणः ॥ 36ab
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ 36cd
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ 37ab
532b

पर्य्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ 37cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः ॥ 27 ॥

Chapter 28

ऋषय ऊचुः ॥
देवीं समादधानेन देवेनेदं किमीरितम् ॥ 1ab
अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ 1cd
आज्ञैकसारमैश्वर्य्यमाज्ञा त्वमिति चोदितम् ॥ 2ab
तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ 2cd
वायुरुवाच ॥
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ 3ab
सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ 3cd
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ 4ab
भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ 4cd
द्विविधा तेजसो वृत्तिसूर्य्यात्मा चानलात्मिका ॥ 5ab
तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ 5cd
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ 6ab
तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ 6cd
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ 7ab
अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ 7cd
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ 8ab
वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ 8cd
अग्निरूर्द्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ 9ab
यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ 9cd
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्द्ध्वतः ॥ 10ab
यावदादहनं चोर्द्ध्वमधश्चाप्लावनं भवेत् ॥ 10cd
आधारशक्त्यैव धृतः कालाग्निरयमूर्द्ध्वगः ॥ 11ab
तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ 11cd
शिवश्चोर्द्ध्वमधश्शक्तिरूर्द्ध्वं शक्तिरधः शिवः ॥ 12ab
तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ 12cd
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ 13ab
अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ 13cd
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ 14ab
अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ 14cd
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ 15ab
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ 15cd
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ 16ab
शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ 16cd
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ 17ab
शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ 17cd
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ 18ab
अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ 18cd
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ 19ab
प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ 19cd
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ 20ab
अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ 20cd
533a


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः ॥ 28 ॥

Chapter 29

वायुरुवाच ॥
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ 1ab
षडध्ववेदनं सम्यक् समासान्न तु विस्तरात् ॥ 1cd
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ 2ab
ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ 2cd
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ 3ab
तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ 3cd
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ 4ab
स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ 4cd
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ 5ab
या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ 5cd
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ 6ab
सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ 6cd
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ 7ab
सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ 7cd
सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ 8ab
तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ 8cd
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ 9ab
लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ 9cd
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ 10ab
परस्याः प्रकृतेरादौ पंचधा परिणामतः ॥ 10cd
कलाश्च ता निवृत्त्याद्याः पर्य्याप्ता इति निश्चयः ॥ 11ab
मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ 11cd
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ 12ab
अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ 12cd
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ 13ab
वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ 13cd
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ 14ab
भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ 14cd
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ 15ab
अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ 15cd
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ 16ab
सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ 16cd
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ 17ab
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ 17cd
परस्याः प्रकृतेरादौ पंचधा परिणामतः ॥ 18ab
कलाश्च ता निवृत्त्याद्या व्याप्ताः पंच यथोत्तरम् ॥ 18cd
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ 19ab
परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ 19cd
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ 20ab
व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ 20cd
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ 21ab
533b

व्यापिका ऽव्यापिका शक्तिः पंचतत्त्वविशोधनात् ॥ 21cd
निवृत्त्या रुद्रपर्य्यन्तं स्थितिरण्डस्य शोध्यते ॥ 22ab
प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ 22cd
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ 23ab
शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ 23cd
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ 24ab
एतानि पंचतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 24cd
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ 25ab
अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ 25cd
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ 26ab
वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ 26cd
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ 27ab
तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ 27cd
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ 28ab
शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ 28cd
नात्मनो नैव मायैषा न विकारो विचारतः ॥ 29ab
न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ 29cd
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ 30ab
समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ 30cd
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ 31ab
तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ 31cd
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ 32ab
एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ 32cd
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ 33ab
अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ 33cd
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ 34ab
तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ 34cd
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ 35ab
महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ 35cd
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ 36ab
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ 36cd
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ 37॥ 37ab


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः ॥ 29 ॥

Chapter 30

ऋषय ऊचुः ॥
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ 1ab
दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ 1cd
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ 2ab
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ 2cd
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ 3ab
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ 3cd
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ 4ab
अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ 4cd
534a

यद्येवमीदृशैश्वर्य्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ 5ab
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ 5cd
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ 6ab
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ 6cd
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ 7ab
परमापरमौ भावौ कथमेकत्र संगतौ ॥ 7cd
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ 8ab
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ 8cd
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ 9ab
न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ 9cd
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ 10ab
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ 10cd
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ 11ab
तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ 11cd
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ 12ab
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ 12cd
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ 13ab
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ 13cd
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ 14ab
ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ 14cd
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ 15ab
अणिमादिगुणैश्वर्य्यवशीकारानतिक्रमात् ॥ 15cd
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ 16ab
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ 16cd
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ 17ab
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ 17cd
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ 18ab
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ 18cd
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ 19ab
शिवनिन्दां प्रकुर्व्वंतं पुत्रेति कुमतेर्हठात् ॥ 19cd
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ 20ab
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ 20cd
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ 21ab
वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ 21cd
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ 22ab
क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ 22cd
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ 23ab
क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ 23cd
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ 24ab
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ 24cd
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ 25ab
बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ 25cd
तमेव जलसंधायी शूलेनैव जघान सः ॥ 26ab
तच्चक्रं तपसा लब्ध्वा लब्धवीर्य्यो हरिस्सदा ॥ 26cd
534b

जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ 27ab
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ 27cd
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ 28ab
कौशिकीं जनयित्वा तु गौर्य्यास्त्वक्कोशगोचराम् ॥ 28cd
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ 29ab
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ 29cd
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ 30ab
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ 30cd
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ 31ab
रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ 31cd
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ 32ab
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ 32cd
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ 33ab
तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ 33cd
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ 34ab
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ 34cd
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ 35ab
रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ 35cd
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ 36ab
कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ 36cd
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ 37ab
सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ 37cd
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ 38ab
सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ 38cd
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ 39ab
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ 39cd
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ 40ab
अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ 40cd
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ 41ab
तवावतारो जगतां हितायेत्यनुशास्य च ॥ 41cd
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ 42ab
ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ 42cd
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ 43ab
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ 43cd
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ 44ab
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ 44cd
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ 45ab
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ 45cd
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ 46ab
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ 46cd
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ 47ab
पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ 47cd
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ 48ab
535a

त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ 48cd
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ 49ab
सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ 49cd
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ 50ab
अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ 50cd
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ 51ab
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ 51cd
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ 52ab
कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ 52cd
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ 53ab
यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ 53cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः ॥ 30 ॥

Chapter 31

वायुरुवाच ॥
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ 1ab
जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ 1cd
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ 2ab
असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ 2cd
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ 3ab
न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ 3cd
स्वभाव एव पर्य्याप्तः परानुग्रहकर्मणि ॥ 4ab
अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ 4cd
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ 5ab
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ 5cd
पतिराज्ञापकः सर्वमनुगृह्णाति सर्व्वदा ॥ 6ab
तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ 6cd
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ 7ab
अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ 7cd
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ 8ab
अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ 8cd
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ 9ab
अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ 9cd
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ 10ab
स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ 10cd
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ 11ab
साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ 11cd
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ 12ab
न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ 12cd
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ 13ab
शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ 13cd
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ 14ab
एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ 14cd
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ 15ab
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ 15cd
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ 16ab
535b

मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ 16cd
लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ 17ab
तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ 17cd
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ 18ab
तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ 18cd
लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ 19ab
सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ 19cd
आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ 20ab
तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ 20cd
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ 21ab
न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ 21cd
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ 22ab
निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ 22cd
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ 23ab
ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ 23cd
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ 24ab
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ 24cd
सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ 25ab
ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ 25cd
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ 26ab
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ 26cd
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ 27ab
न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ 27cd
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ 28ab
आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ 28cd
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ 29ab
विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ 29cd
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ 30ab
निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ 30cd
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ 31ab
अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ 31cd
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ 32ab
स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ 32cd
अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ 33ab
यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ 33cd
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ 34ab
न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ 34cd
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ 35ab
तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ 35cd
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ 36ab
हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ 36cd
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ 37ab
536a

इति निर्बंधयंत्येके नियमो नेति चापरे ॥ 37cd
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ 38ab
न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ 38cd
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ 39ab
तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ 39cd
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ 40ab
शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ 40cd
सर्पस्या ऽऽस्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ 41ab
दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ 41cd
तस्माद् घृणा गुणायैव सर्वथेति न संमतम् ॥ 42ab
संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ 42cd
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ 43ab
तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ 43cd
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ 43 ॥ 43ef
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ 44ab
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ 44cd
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ 45ab
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ 45cd
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ 46ab
अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ 46cd
मूर्त्तात्मन्येवमैश्वर्य्यमीश्वरस्यैव नात्मनाम् ॥ 47ab
न हि काष्ठं ज्वलत्यूर्द्ध्वमग्निरेव ज्वलत्यसौ ॥ 47cd
काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ 48ab
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ 48cd
शिवावेशवशादेव शिवत्वमुपचर्यते ॥ 49ab
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ 49cd
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ 50ab
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ 50cd
न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ 50 ॥ 50ef
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ 51ab
संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ 51cd
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ 52ab
सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ 52cd
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ 53ab
तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ 53cd
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ 54ab
स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ 54cd
यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ 55ab
समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ 55cd
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ 56ab
न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ 56cd
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ 57ab
एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ 57cd
536b

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ 58ab
विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ 58cd
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ 59ab
स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ 59cd
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ 60ab
कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ 60cd
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ 61ab
स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ 61cd
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ 62ab
यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ 62cd
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ 63ab
बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ 63cd
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ 64ab
केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ 64cd
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्द्धसु स्थिताः ॥ 65ab
मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ 65cd
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ 66ab
तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ 66cd
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ 67ab
वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ 67cd
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ 68ab
शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ 68cd
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ 69ab
निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ 69cd
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ 70ab
पक्ष्यादयो ऽधमाः पंचयोनयस्ताश्चतुर्दश ॥ 70cd
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ 71ab
यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ 71cd
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ 72ab
आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ 72cd
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ 73ab
अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ 73cd
त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ 73 ॥ 73ef
त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ 74ab
इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ 74cd
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ 75ab
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ 75cd
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ 76ab
अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ 76cd
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ 77ab
अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ 77cd
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ 78ab
537a

अनाश्रितान्तैरध्वान्तर्वर्त्तिभिस्समधिष्ठिताः ॥ 78cd
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ 79ab
पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ 79cd
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ 80ab
निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ 80cd
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ 81ab
भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ 81cd
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ 82ab
कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ 82cd
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ 83ab
कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ 83cd
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ 84ab
रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ 84cd
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ 85ab
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ 85cd
न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ 86ab
इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ 86cd
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ 87ab
स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ 87cd
संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ 88ab
तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ 88cd
यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ 89ab
अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ 89cd
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ 90ab
अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ 90cd
न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ 91ab
तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ 91cd
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ 92ab
तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ 92cd
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ 93ab
ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ 93cd
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ 94ab
तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ 94cd
एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ 95ab
सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ 95cd
ततो हृष्टतराः सर्व्वे विनष्टाशेषसंशयाः ॥ 96ab
मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ 96cd
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ 97ab
नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ 97cd
वायुरुवाच्व ॥
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ 98ab
परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ 98cd
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ 99ab
537b

अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ 99cd
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ 100ab
श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ 100cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः ॥ 31 ॥

Chapter 32

ऋषय ऊचुः ॥
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ॥ 1ab
तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ 1cd
वायुरुवाच ॥
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ 2ab
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ 2cd
स तु पंचविधो ज्ञेयः पंचभिः पर्वभिः क्रमात् ॥ 3ab
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ 3cd
तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ॥ 4ab
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ 4cd
परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ 5ab
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ 5cd
परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ॥ 6ab
धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ 6cd
अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ॥ 7ab
साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः ॥ 7cd
स चायं परमो धर्मः परधर्मस्य साधनम् ॥ 8ab
धर्मशास्त्रादिभिस्सम्यक् सांग एवोपबृंहितः ॥ 8cd
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ 9ab
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ 9cd
शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ॥ 10ab
तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ 10cd
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ 11ab
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ 11cd
स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ॥ 12ab
कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः ॥ 12cd
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ 13ab
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ 13cd
युगावर्तेषु शिष्येत योगाचार्य्यस्वरूपिणा ॥ 14ab
तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ 14cd
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ 15ab
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ 15cd
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ 16ab
तत्संततीया गुरवः शतशो ऽथ सहस्रशः ॥ 16cd
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ॥ 17ab
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ 17cd
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ 18ab
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ 18cd
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ 19ab
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ 19cd
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ 20ab
538a

प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ 20cd
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ 21ab
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ 21cd
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ 22ab
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ 22cd
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ 23ab
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ 23cd
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥ 24ab
आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ 24cd
संज्ञा सदाशिवादीनां पंचोपाधिपरिग्रहात् ॥ 25ab
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ 25cd
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ 26ab
पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ 26cd
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ 27ab
आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ 27cd
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ 28ab
त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ 28cd
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ 29ab
अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ 29cd
अथवाशेषकल्याणगुणैकधन ईश्वरः ॥ 30ab
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ 30cd
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ॥ 31ab
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ 31cd
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥ 32ab
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ 32cd
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ 33ab
तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ 33cd
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ॥ 34ab
मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ 34cd
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥ 35ab
कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ 35cd
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ 36ab
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ 36cd
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ 37ab
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ 37cd
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ 38ab
पितृभावेन सर्वेषां पितामह उदीरितः ॥ 38cd
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ 39ab
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ 39cd
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ 40ab
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ 40cd
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ॥ 41ab
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ 41cd
अणवो नैव जानन्ति माययैव मलावृताः ॥ 42ab
असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ 42cd
538b

यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ 43ab
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ 43cd
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ 44ab
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ 44cd
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ॥ 45ab
निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पंचनामभिः ॥ 45cd
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ 46ab
गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ 46cd
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ 47ab
छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ 47cd
द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ 48ab
संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ 48cd
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ 49ab
अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ 49cd
द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ 50ab
समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ 50cd
अर्द्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ॥ 51ab
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ 51cd
ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ॥ 52ab
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ 52cd
अभ्यर्च्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ 53ab
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ 53cd
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥ 54ab
अष्टपुष्पप्रदानेन कृत्वाभ्यर्च्चनमंतिमम् ॥ 54cd
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥ 55ab
एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम् ॥ 55cd
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥ 56ab
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ 56cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः ॥ 32 ॥

Chapter 33

ऋषय ऊचुः ॥
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥ 1ab
ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ 1cd
वायुरुवाच ॥
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥ 2ab
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ 2cd
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥ 3ab
क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥ 3cd
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ 4ab
अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ॥ 4cd
पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥ 5ab
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ 5cd
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ 6ab
539a

प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥ 6cd
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ 6 ॥ 6ef
व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ॥ 7ab
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ 7cd
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥ 8ab
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ 8cd
दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥ 9ab
तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥ 9cd
अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥ 10ab
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ 10cd
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन्॥ 11ab
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ 11cd
तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् 1इत्यनुस्मरन् ॥ 12ab
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ 12cd
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥ 13ab
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥ 13cd
मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ 14ab
रागो विद्याकले चैव नियतिः काल एव च ॥ 14cd
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥ 15ab
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ 15cd
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥ 16ab
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ 16cd
अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ॥ 17ab
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ 17cd
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ 18ab
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ 18cd
प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥ 19ab
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ 19cd
ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥ 20ab
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ 20cd
अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥ 21ab
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ 21cd
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ 22ab
संकुलीकृत्य तद्भस्म विरजानलसंभवम् ॥ 22cd
अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ॥ 23ab
विभृज्यांगानि मूर्द्धादिचरणांतानि तैस्स्पृशेत् ॥ 23cd
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥ 24ab
सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ 24cd
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ 25ab
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ 25cd
कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ 26ab


1 आत्मनेपदमार्षम् ।

539b


भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ 26cd
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ 27ab
पूजनीयो महादेवो लिंगमूर्तिस्सनातनः ॥ 27cd
पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ॥ 28ab
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ 28cd
विभवे तदभावे तु रक्तं सितमथापि वा ॥ 29ab
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ 29cd
तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ॥ 30ab
स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ 30cd
प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ॥ 31ab
परिकल्प्यासनं मूर्तिं पंचवक्त्रप्रकारतः ॥ 31cd
पंचगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ॥ 32ab
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ 32cd
गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ॥ 33ab
सवेदिकं समालिप्य लिंगं भूषणभूषितम् ॥ 33cd
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥ 34ab
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः ॥ 34cd
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥ 35ab
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ 35cd
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥ 36ab
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ 36cd
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥ 37ab
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ 37cd
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ॥ 38ab
प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥ 38cd
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ 39ab
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ 39cd
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥ 40ab
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ 40cd
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ 41ab
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ 41cd
ईशाने भसितं केचिदालेपनमितीदृशाम् ॥ 42ab
न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥ 42cd
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ 42 ॥ 42ef
पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ॥ 43ab
ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥ 43cd
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ 44ab
चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥ 44cd
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥ 45ab
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ 45cd
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥ 46ab
ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते ॥ 46cd
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥ 47ab
तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ 47cd
540a

महादेवादयस्तत्र तथैकादशमूर्तयः ॥ 48ab
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ 48cd
बहिरेव तु पद्मस्य पंचमावरणे क्रमात् ॥ 49ab
दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ 49cd
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥ 50ab
सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ 50cd
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ 51ab
योगिनो हि सखास्सर्वे पतंगा मातरस्तथा ॥ 51cd
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥ 52ab
पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत् ॥ 52cd
अथावरणपूजांते संपूज्य परमेश्वरम् ॥ 53ab
साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ 53cd
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥ 54ab
अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥ 54cd
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ॥ 55ab
चषकं सोपकारं च शयनं च समर्पयेत् ॥ 55cd
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ॥ 56ab
आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ 56cd
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ 57ab
स्तोत्रं व्यपोहनं जप्त्वा विद्यां पंचाक्षरीं जपेत् ॥ 57cd
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥ 58ab
ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ 58cd
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ॥ 59ab
अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ 59cd
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥ 60ab
ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम् ॥ 60cd
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥ 61ab
संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥ 61cd
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ 62ab
स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥ 62cd
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥ 63ab
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ 63cd
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥ 64ab
ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ 64cd
अर्कवारे तथार्द्रायां पंचदश्यां च पक्षयोः ॥ 65ab
अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ 65cd
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥ 66ab
वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ 66cd
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥ 67ab
संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ 67cd
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ 68ab
पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ 68cd
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ 69ab
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ 69cd
540b

उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥ 70ab
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ 70cd
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ॥ 71ab
भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ 71cd
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥ 72ab
प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ 72cd
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ॥ 73ab
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ 73cd
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥ 74ab
आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम् ॥ 74cd
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ॥ 75ab
पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥ 75cd
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥ 76ab
सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ 76cd
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥ 77ab
मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ 77cd
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ॥ 78ab
व्रतावसानसमये समाचरितनित्यकः ॥ 78cd
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥ 79ab
संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ 79cd
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥ 80ab
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ 80cd
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥ 81ab
अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ 81cd
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥ 82ab
इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ 82cd
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥ 83ab
पुनराचम्य विधिवत्पंचाक्षरमुदीरयेत् ॥ 83cd
यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ॥ 84ab
व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ 84cd
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥ 85ab
स एव तपतां श्रेष्ठ स एव च महाव्रती ॥ 85cd
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥ 86ab
यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ 86cd
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥ 87ab
सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ 87cd
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ 88ab
द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ 88cd
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ 89ab
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ 89cd
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥ 90ab
पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥ 90cd
रुद्राग्निर्यत्परं वीर्य्यन्तद्भस्म परिकीर्तितम् ॥ 91ab
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ 91cd
541a

भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ॥ 92ab
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ 92cd
भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ॥ 93ab
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ 93cd
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥ 94ab
भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः ॥ 94cd
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ 95ab
भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥ 95cd
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ 96ab
व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥ 96cd
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ 97ab
धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ 97cd
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥ 98ab
धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥ 98cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः ॥ 33 ॥

Chapter 34

ऋषय ऊचुः ॥
धौम्याग्रजेन शुशुना क्षीरार्थं हि तपः कृतम् ॥ 1ab
तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ 1cd
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ 2ab
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ 2cd
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ 3ab
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ 3cd
वायुरुवाच ॥
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ 4ab
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ 4cd
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ 5ab
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ 5cd
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥ 6ab
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ 6cd
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥ 7ab
सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥ 7cd
तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ॥ 8ab
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ 8cd
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥ 9ab
कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥ 9cd
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥ 10ab
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ 10cd
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥ 11ab
ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम् । 11cd
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥ 12ab
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ 12cd
उपमन्युरुवाच ॥
मातर्मातर्महाभागे मम देहि तपस्विनि ॥ 13ab
541b

गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ 13cd
वायुरुवाच ॥
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥ 14ab
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ 14cd
उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ॥ 15ab
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ 15cd
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥ 16ab
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ 16cd
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥ 17ab
शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥ 17cd
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥ 18ab
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ 18cd
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥ 19ab
आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ 19cd
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥ 20ab
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ 20cd
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्द्धनि ॥ 21ab
समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ 21cd
जनन्युवाच ॥
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ 22ab
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ 22cd
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ 23ab
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ 23cd
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ 24ab
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ 24cd
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ 25ab
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ 25cd
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥ 26ab
मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥ 26cd
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥ 27ab
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ 27cd
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥ 28ab
प्रसादेन विना शंभो पयस्तव न विद्यते ॥ 28cd
पादपंकजयोस्तस्य साम्बस्य सगणस्य च ॥ 29ab
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ 29cd
अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥ 30ab
सकामानां यथाकामं यथोक्तफलदायकः ॥ 30cd
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥ 31ab
अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः ॥ 31cd
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥ 32ab
तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥ 32cd
वायुरुवाच ॥
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥ 33ab
बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत् ॥ 33cd
542a

उपमन्युरुवाच ॥
शोकेनालमितो मतः सांबो यद्यस्ति शंकरः ॥ 34ab
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ 34cd
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥ 35ab
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ 35cd
वायुरुवाच ॥
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥ 36ab
प्रय्तुवाच तदा माता सुप्रसन्ना मनस्विनी ॥ 36cd
मातोवाच ॥
शुभं विचारितं तात त्वया मत्प्रीतिवर्द्धनम् ॥ 37ab
विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम् ॥ 37cd
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥ 38ab
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः ॥ 38cd
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥ 39ab
तं विनान्यं न जानीमश्शंकरं लोकशंकरम् ॥ 39cd
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥ 40ab
तमेव सांबं सगणं भज भावपुरस्सरम् ॥ 40cd
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ 41ab
साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ 41cd
सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ 42ab
तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ 42cd
सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ 43ab
सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ 43cd
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ 44ab
क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ 44cd
प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ 45ab
सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ 45cd
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पंचाक्षरपरो भव ॥ 46ab
तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम् ॥ 46cd
अधोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥ 47ab
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ 47cd
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥ 48ab
विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ 48cd
मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥ 49ab
अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ 49cd
वायुरुवाच ॥
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥ 50ab
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ 50cd
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥ 51ab
तमाह च तदा माता शुभं कुर्वंतु ते सुराः ॥ 51cd
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥ 52ab
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ 52cd
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ॥ 53ab
तत्रावाह्य महादेवं सांबं सगणमव्ययम् ॥ 53cd
542b

भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥ 54ab
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ 54cd
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥ 55ab
उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ 55cd
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ 56ab
संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ 56cd
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ 57ab
सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ 57cd
तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ 58ab
ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ 58cd
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ 59ab
चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ 59cd


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः ॥ 34 ॥

Chapter 35

वायुरुवाच ॥
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ॥ 1ab
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ 1cd
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥ 2ab
किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः ॥ 2cd
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ 3ab
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः ॥ 3cd
विष्णुरुवाच ॥
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ 4ab
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ 4cd
वायुरुवाच ॥
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥ 5ab
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ 5cd
तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ॥ 6ab
जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥ 6cd
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥ 7ab
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ 7cd
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥ 8ab
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ 8cd
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥ 9ab
दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम् ॥ 9cd
रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥ 10ab
तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥ 10cd
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥ 11ab
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ 11cd
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥ 12ab
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ 12cd
उपमन्युरुवाच ॥
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥ 13ab
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ 13cd
वायुरुवाच ॥
एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ॥ 14ab
543a

प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥ 14cd
शक्र उवाच ॥
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ 15ab
ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥ 15cd
वायुरुवाच ॥
एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ॥ 16ab
वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ 16cd
तन्निशम्य हरिः 1 प्राह मां न जानासि लेखपम् ॥ 17ab
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ 17cd
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ 18ab
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ 18cd
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥ 19ab
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ 19cd
वायुरुवाच ॥
तच्छ्रुत्वा प्राह स मुनिर्जपन्पंचाक्षरं मनुम् ॥ 20ab
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ 20cd
उपमन्युरुवाच ॥
त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ 21ab
प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ 21cd
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ 22ab
ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ 22cd
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ 23ab
नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ 23cd
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ 24ab
उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ 24cd
नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ 25ab
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ 25cd
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥ 26ab
भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ 26cd
श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥ 27ab
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ 27cd
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥ 28ab
निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ 28cd
वायुरुवाच ॥
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥ 29ab
क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ 29cd
भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ॥ 30ab
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ 30cd
स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ॥ 31ab
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ 31cd
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥ 32ab
वारयामास सौम्येन धारणां तस्य योगिनः ॥ 32cd
तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ॥ 33ab
जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः ॥ 33cd


1 इन्द्रः ।

543b


स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥ 34ab
दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ 34cd
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥ 35ab
दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ 35cd
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ 36ab
अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ 36cd
एवं स ददृशे देवो देव्या सार्द्धं वृषोपरि ॥ 37ab
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ 37cd
दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ 38ab
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ 38cd
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ 39ab
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ 39cd
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ 40ab
एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ 40cd
शिव उवाच ॥
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥ 41ab
सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥ 41cd
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ 42ab
मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ 42cd
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥ 43ab
आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ 43cd
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥ 44ab
एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ 44cd
पिता तव महादेवो माता वै जगदम्बिका ॥ 45ab
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ 45cd
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ 46ab
प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ 46cd
वायुरुवाच ॥
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ 47ab
मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ 47cd
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ 48ab
विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ 48cd
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ 49ab
उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ 49cd
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ 50ab
समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ 50cd
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥ 51ab
पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ 51cd
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ 52ab
ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ 52cd
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥ 53ab
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥ 53cd
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ॥ 54ab
ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ 54cd
उपमन्युरुवाच ॥
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ 55ab
स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥ 55cd
544a

श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥ 56ab
स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ 56cd
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥ 57ab
सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ 57cd
उपमन्युरुवाच ॥
देवदेव महादेव शरणागतवत्सल ॥ 58ab
प्रसीद करुणासिंधो साम्ब शंकर सर्वदा ॥ 58cd
वायुरुवाच
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥ 59ab
प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ 59cd
शिव उवाच ॥
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥ 60ab
दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ 60cd
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥ 61ab
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ 61cd
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ 62ab
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ 62cd
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ 63ab
उपकंठं मम त्वं वै सानन्दं विहरिष्यसि ॥ 63cd
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥ 64ab
ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ 64cd
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥ 65ab
जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ 65cd


इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः ॥ 35 ॥
समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥ श्रीः ॥
544b

श्रीगणेशाय नमः ॥ श्रीगौरीशंकराभ्यां नमः ॥ अथ सप्तम्यां वायवीयसंहितायामुत्तरखण्डः प्रारभ्यते ॥

Chapter 1


नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ 1ab
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ 1cd
सूत उवाच ॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ 2ab
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ 2cd
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ 3ab
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ 3cd
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ 4ab
भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ 4cd
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ 5ab
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ 5cd
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ 6ab
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ 6cd
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ 7ab
विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ 7cd
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ 8ab
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ 8cd
ऋषय ऊचुः ॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ 9ab
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ 9cd
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ 10ab
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ 10cd
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ 11ab
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ 11cd
वायुरुवाच ॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ 12ab
निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ 12cd
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ 13ab
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ 13cd
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ 14ab
रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ 14cd
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ 15ab
शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ 15cd
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ 16ab
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ 16cd
स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ 16 ॥ 16ef
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ 17ab
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ 17cd
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ 18ab
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ 18cd
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ 19ab
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ 19cd
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ 20ab
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ 20cd
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ 21ab
545a

तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ 21cd
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ 22ab
श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ 22cd
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ 23ab
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ 23cd
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ 24ab
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ 24cd
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ 25ab
तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ 25cd
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ 26ab
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ 26cd
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ 27ab
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ 27cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः ॥ 1 ॥

Chapter 2

ऋषय ऊचुः ॥
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ 1ab
कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ 1cd
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ 2ab
तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ 2cd
सूत उवाच ॥
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ 3ab
संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ 3cd
वायुरुवाच ॥
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ 4ab
देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ 4cd
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ 5ab
पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ 5cd
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ 6ab
तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ 6cd
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ 7ab
प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ 7cd
श्रीकृष्ण उवाच ॥
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ 8ab
दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ 8cd
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ 9ab
कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ 9cd
इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ 10ab
प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ 10cd
उपमन्युरुवाच ॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ 11ab
पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ 11cd
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ 12ab
मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ 12cd
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ 13ab
चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ 13cd
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ 14ab
ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ 14cd
545b

पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ 15ab
तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ 15cd
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ 16ab
इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ 16cd
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ 17ab
तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ 17cd
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ 18ab
ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ 18cd
महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ 19ab
अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ 19cd
चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ 20ab
श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ 20cd
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ 21ab
वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ 21cd
यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ 22ab
शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ 22cd
अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ 23ab
अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ 23cd
आकाशः परमेशस्य शासनादेव सर्वगः ॥ 24ab
प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ 24cd
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ 25ab
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ 25cd
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ 26ab
संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ 26cd
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ 27ab
देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति । 27cd
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ 28ab
आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ 28cd
पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ 29ab
ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ 29cd
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ 30ab
करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ 30cd
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ 31ab
धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ 31cd
यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ 32ab
सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ 32cd
अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ 33ab
विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ 33cd
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ 34ab
हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ 34cd
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ 35ab
कालः करोति सकलं कालस्संहरति प्रजाः ॥ 35cd
कालः पालयते विश्वं कालकालस्य शासनात् ॥ 36ab
546a

त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ 36cd
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ 37ab
पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ 37cd
देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ 38ab
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ 38cd
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ 39ab
पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ 39cd
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ 40ab
वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ 40cd
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ 41ab
ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ 41cd
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ 42ab
दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ 42cd
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ 43ab
तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ 43cd
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ 44ab
ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ 44cd
उपमन्युरुवाच ॥
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ 45ab
आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ 45cd
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ 46ab
असुरान्समरे जित्वा जेताहमहमित्युत ॥ 46cd
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ 47ab
स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ 47cd
स तानाह सुरानेकं तृणमादाय भूतले ॥ 48ab
य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ 48cd
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ 49ab
किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ 49cd
न तत्तृणमुपदातुं मनसापि च शक्यते ॥ 50ab
यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ 50cd
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ 51ab
तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ 51cd
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ 52ab
ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ 52cd
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ 53ab
प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ 53cd
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ 54ab
व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ 54cd
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ 55ab
ततस्स पश्यतामेव तेषामंतरधादथ ॥ 55cd
तदंतरे हैमवती देवी दिव्यविभूषणा ॥ 56ab
आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ 56cd
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ 57ab
546b

प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ 57cd
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ 58ab
तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ 58cd
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ 59ab
न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ 59cd
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ 60ab
देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ 60cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः ॥ 2 ॥

Chapter 3

उपमन्युरुवाच ॥
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥ 1ab
मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ 1cd
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥ 2ab
अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ 2cd
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥ 3ab
मूर्त्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ 3cd
अथान्याश्चापि तनवः पंच ब्रह्मसमाह्वयाः ॥ 4ab
तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ 4cd
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ 5ab
ब्रह्माण्येतानि देवस्य मूर्त्तयः पंच विश्रुताः ॥ 5cd
ईशानाख्या तु या तस्य मूर्त्तिराद्या गरीयसी ॥ 6ab
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ 6cd
स्थाणोस्तत्पुरुषाख्या या मूर्त्तिर्मूर्त्तिमतः प्रभोः ॥ 7ab
गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ 7cd
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ 8ab
अधितिष्ठत्यघोराख्या मूर्त्तिरत्यंतपूजिता ॥ 8cd
वामदेवाह्वयां मूर्त्तिं महादेवस्य वेधसः ॥ 9ab
अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ 9cd
सद्यो जाताह्वयां मूर्त्तिं शम्भोरमितवर्चसः ॥ 10ab
मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ 10cd
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ 11ab
ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ 11cd
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ 12ab
पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ 12cd
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ 13ab
अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ 13cd
रमनायाश्च पायोश्च रसस्यापां तथैव च ॥ 14ab
ईश्वरीं वामदेवाख्यां मूर्त्तिं तन्निरतां विदुः ॥ 14cd
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ 15ab
सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ 15cd
मूर्तयः पंच देवस्य वंदनीयाः प्रयत्नतः ॥ 16ab
श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ 16cd
तस्य देवादिदेवस्य मूर्त्त्यष्टकमयं जगत् ॥ 17ab
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ 17cd
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः 1 18ab


1 अलुक्समास आर्षः ।

547a


ईशानश्च महादेवो मूर्त्तयश्चाष्ट विश्रुताः ॥ 18cd
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥ 19ab
अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्त्तिभिः ॥ 19cd
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥ 20ab
शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ 20cd
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥ 21ab
भावीति गीयते मूर्त्तिभवस्य परमात्मनः ॥ 21cd
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥ 22ab
रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ 22cd
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥ 23ab
औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ 23cd
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ 24ab
मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ 24cd
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ 25ab
मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ 25cd
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ 26ab
ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ 26cd
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ 27ab
महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ 27cd
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥ 28ab
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ 28cd
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥ 29ab
शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ 29cd
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥ 30ab
सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ 30cd
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ 31ab
तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ 31cd
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥ 32ab
अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ 32cd
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥ 33ab
भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ 33cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः ॥ 3 ॥

Chapter 4

कृष्ण उवाच ॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥ 1ab
मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ 1cd
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥ 2ab
स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ 2cd
उपमन्युरुवाच ॥
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥ 3ab
वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ 3cd
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥ 4ab
तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ 4cd
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥ 5ab
547b

द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ 5cd
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥ 6ab
तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ 6cd
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥ 7ab
शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ 7cd
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ 8ab
ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ 8cd
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥ 9ab
नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ 9cd
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥ 10ab
न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ 10cd
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥ 11ab
प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ 11cd
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥ 12ab
न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ 12cd
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥ 13ab
आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ 13cd
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥ 14ab
समानधर्मिणीमेव शिवस्य परमात्मनः ॥ 14cd
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥ 15ab
विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ 15cd
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥ 16ab
शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ 16cd
एकधा च द्विधा चैव तथा शतसहस्रधा ॥ 17ab
शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ 17cd
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ 18ab
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ 18cd
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥ 19ab
तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ 19cd
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥ 20ab
तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ 20cd
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥ 21ab
या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ 21cd
अथानंतसमावेशान्माया कालमवासृजत् ॥ 22ab
नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ 22cd
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥ 23ab
त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ 23cd
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥ 24ab
गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्त्तयः ॥ 24cd
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥ 25ab
तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥ 25cd
548a

अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ 25॥ 25cd
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥ 26ab
नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ 26cd
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ 27ab
ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ 27cd
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥ 28ab
शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ 28cd
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥ 29ab
कला या परमा शक्तिः कथिता परमात्मनः ॥ 29cd
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥ 30ab
स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ 30cd
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥ 31ab
शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ 31cd
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥ 32ab
इच्छाशक्तिर्महेशस्य नित्या कार्य्यनियामिका ॥ 32cd
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥ 33ab
प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ 33cd
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥ 34ab
कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ 34cd
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥ 35ab
शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ 35cd
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥ 36ab
शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ 36cd
यथा न जायते पुत्रः पितरं मातरं विना ॥ 37ab
तथा भवं भवानीं च विना नैतच्चराचरम् ॥ 37cd
स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ 37 ॥ 37ef
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥ 38ab
परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ 38cd
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥ 39ab
शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ 39cd
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥ 40ab
रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ 40cd
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ 41ab
ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ 41cd
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥ 42ab
महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ 42cd
जातवेदा महादेवः स्वाहा शर्वार्द्धदेहिनी ॥ 43ab
यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ 43cd
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥ 44ab
वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ 44cd
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥ 45ab
यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ 45cd
548b

चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ 46ab
ईशानः परमेशानस्तदार्या परमेश्वरी ॥ 46cd
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥ 47ab
कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ 47cd
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥ 48ab
दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ 48cd
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥ 49ab
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ 49cd
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥ 50ab
गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ 50cd
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥ 51ab
पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ 51cd
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥ 52ab
त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ 52cd
कश्यपः कालहा देवो देवमाता महेश्वरी ॥ 53ab
वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ 53cd
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥ 54ab
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ 54cd
विषयी भगवानीशो विषयः परमेश्वरी ॥ 55ab
श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ 55cd
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥ 56ab
प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ 56cd
द्रष्टव्यं वस्तुरूपं तु बिभर्त्ति वक्तवल्लभा ॥ 57ab
द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ 57cd
रसजातं महादेवी देवो रसयिता शिवः ॥ 58ab
प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ 58cd
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥ 59ab
मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ 59cd
बोद्धव्यवस्तुरूपं तु बिभर्त्ति भववल्लभा ॥ 60ab
देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ 60cd
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥ 61ab
प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ 61cd
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥ 62ab
क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ 62cd
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥ 63ab
आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ 63cd
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥ 64ab
वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ 64cd
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥ 65ab
स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ 65cd
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥ 66ab
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ 66cd
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥ 67ab
सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ 67cd
549a

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥ 68ab
तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ 68cd
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥ 69ab
तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ 69cd
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥ 70ab
सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ 70cd
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥ 71ab
पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ 71cd
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥ 72ab
कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ 72cd
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥ 73ab
महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ 73cd
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥ 74ab
अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ 74cd
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥ 75ab
अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ 75cd
यतो वाचो निवर्त्तंते मनसा चेन्द्रियैस्सह ॥ 76ab
अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ 76cd
सैवेह परमं धाम सैवेह परमा गतिः ॥ 77ab
सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ 77cd
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥ 78ab
गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ 78cd
संसाराशीविषालीढमृतसंजीवनौषधम् ॥ 79ab
विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ 79cd
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥ 80ab
सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ 80cd
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥ 81ab
रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ 81cd
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥ 82ab
व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ 82cd
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥ 83ab
त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ 83cd
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥ 84ab
संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ 84cd
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥ 85ab
त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ 85cd
नश्यंत्यनिष्टरिपवो वर्द्धन्ते सुहृदस्तथा ॥ 86ab
विद्या च वर्द्धते शैवी मतिस्सत्ये प्रवर्तते ॥ 86cd
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥ 87ab
यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ 87cd
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥ 88ab
प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥ 88cd
पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ 88 ॥ 88ef
549b

एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः ॥ 4 ॥

Chapter 5

उपमन्युरुवाच ॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ 1ab
तदेवं न विजानंति पशवः पाशगौरवात् ॥ 1cd
तमेकमेव बहुधा वदंति यदुनंदन ॥ 2ab
अजानन्तः परं भावमविकल्पं महर्षयः ॥ 2cd
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ 3ab
केचिदाहुर्महादेवमनादिनिधनं परम् ॥ 3cd
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ 4ab
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ 4cd
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ 5ab
उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ 5cd
विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ 5 ॥ 5ef
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ 6ab
विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ 6cd
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ 7ab
भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ 7cd
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ 8ab
यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ 8cd
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ 9ab
वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ 9cd
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ 10ab
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ 10cd
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ 11ab
उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ 11cd
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ 12ab
समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ 12cd
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ 13ab
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ 13cd
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ 14ab
तयोः कारणभावेन शिवं परमकारणम् ॥ 14cd
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ 15ab
जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ 15cd
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ 16ab
व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ 16cd
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ 17ab
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ 17cd
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ 18ab
प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ 18cd
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ 19ab
कालः कार्य्यप्रपंचस्य परिणामैककारणम् ॥ 19cd
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ 20ab
आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ 20cd
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ 21ab
550a

हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ 21cd
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ 22ab
हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ 22cd
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ 23ab
प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ 23cd
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ 24ab
माता मानं च मेयं च मतिं चाहुरथापरे ॥ 24cd
कर्ता क्रिया च कार्य्यं च करणं कारणं परे ॥ 25ab
जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ 25cd
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ 26ab
तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ 26cd
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ 27ab
स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ 27cd
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ 28ab
रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ 28cd
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ 29ab
निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ 29cd
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ 30ab
अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ 30cd
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ 31ab
वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ 31cd
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ 31 ॥ 31ef
केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ 32ab
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ 32cd
केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ 33ab
परमेके तमेवाहुरपरं च तथा परे ॥ 33cd
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ 34ab
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ 34cd
ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ 35ab
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ 35cd
यावत्पशुर्नैव पश्यत्यनीशं 1 पुराणं भुवनस्येशितारम् ॥ 36ab
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ 36cd
यदा 2 पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ 37ab
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ 37cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पंचमो ऽध्यायः ॥ 5 ॥


1 नास्तीशो यस्मात्सो ऽनीश इति बहुव्रीहिः परन्तु क्लिष्टकल्पनापेक्षया यावत्पशुश्चेश्वरं न प्रपश्येदिति पाठे ऽर्थस्सुगमः ।
2 यदा पश्यो वीक्षते रुक्मेति पाठे तु भग्नप्रक्रमस्तस्मादात्मनेपदमार्षमित्येव समाधिः ।
550b


Chapter 6

उपमन्युरुवाच ॥
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ 1ab
प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ 1cd
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ 2ab
न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ 2cd
न च कालः कला चैव न विद्या नियतिस्तथा ॥ 3ab
न रागो न च विद्वेषः शंभोरमिततेजसः ॥ 3cd
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ 4ab
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ 4cd
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ 5ab
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ 5cd
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ 6ab
न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ 6cd
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ 7ab
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ 7cd
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ 8ab
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ 8cd
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ 9ab
कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ 9cd
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ 10ab
अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ 10cd
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ 11ab
सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ 11cd
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ 12ab
हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ 12cd
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ 13ab
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ 13cd
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ 14ab
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ 14cd
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ 15ab
सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ 15cd
स पुंविशेषः परमो भगवानन्तकांतकः ॥ 16ab
चेतनचेतनोन्मुक्तः प्रपंचाच्च परात्परः ॥ 16cd
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ 17ab
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ 17cd
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ 18ab
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ 18cd
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ 19ab
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ 19cd
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ 20ab
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ 20cd
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ 21ab
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ 21cd
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ 22ab
परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ 22cd
551a

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ 23ab
शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ 23cd
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ 24ab
या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ 24cd
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ 25ab
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ 25cd
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्द्धनि ॥ 26ab
अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ 26cd
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ 27ab
मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ 27cd
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ 28ab
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ 28cd
मकारः पुरुषो बीजं तमः संहारको हरः ॥ 29ab
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ 29cd
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ 30ab
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ 30cd
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ 31ab
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ 31cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः ॥ 6 ॥

Chapter 7

उपमन्युरुवच ॥
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ 1ab
एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ 1cd
अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ 2ab
मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ 2cd
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ 3ab
अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ 3cd
महदादिविशेषांतास्त्वजाद्याश्चापि मूर्त्तयः ॥ 4ab
यच्चान्यदस्ति तत्सर्वं तस्याः कार्य्यं न संशयः ॥ 4cd
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ 5ab
शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ 5cd
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ 6ab
धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ 6cd
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ 7ab
शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ 7cd
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ 8ab
असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ 8cd
सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ 9ab
मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ 9cd
अनया सह सर्वेशः सप्तविंशप्रकारया ॥ 10ab
विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ 10cd
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ 11ab
संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ 11cd
551b

किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ 12ab
कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ 12cd
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ 13ab
अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ 13cd
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ 14ab
भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ 14cd
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ 15ab
सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ 15cd
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ 16ab
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ 16cd
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ 17ab
शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ 17cd
यः कारणान्यशेषाणि कालात्मसहितानि च ॥ 18ab
अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ 18cd
ततः प्रसादयोगेन योगेन परमेण च ॥ 19ab
दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ 19cd
तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ 20ab
तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ 20cd
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ 21ab
तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ 21cd
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ 22ab
प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ 22cd
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ 23ab
कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ 23cd
गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ 24ab
वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ 24cd
पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ 25ab
प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ 25cd
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ 26ab
प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ 26cd
प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ 27ab
अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ 27cd
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ 28ab
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ 28cd
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ 29ab
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ 29cd
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ 30ab
अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ 30cd
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ 31ab
तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ 31cd
परया च तया भक्त्या प्रसादो लभ्यते परः ॥ 32ab
प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ 32cd
552a

अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ 33ab
नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ 33cd
सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ 34ab
सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ 34cd
शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ 35ab
जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ 35cd
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ 36ab
स तु पंचविधः प्रोक्तः शिवेन परमात्मना ॥ 36cd
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ 37ab
कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ 37cd
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ 38ab
शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ 38cd
श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ 39ab
शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ 39cd
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ 40ab
त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ 40cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः ॥ 7 ॥

Chapter 8

कृष्ण उवाच ॥
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ 1ab
वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ 1cd
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ 2ab
अर्थैर्दशर्द्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ 2cd
वर्णाश्रमकृतैर्द्धर्मैर्विपरीतं क्वचित्समम् ॥ 3ab
वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ 3cd
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ 4ab
कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ 4cd
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ 5ab
तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ 5cd
उपमन्युरुवाच ॥
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ 6ab
स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ 6cd
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ 7ab
कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ 7cd
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ 8ab
सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ 8cd
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ 9ab
देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ 9cd
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ 10ab
तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ 10cd
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ 11ab
वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ 11cd
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ 12ab
धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ 12cd
552b

ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ 13ab
प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ 13cd
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ 14ab
तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ 14cd
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ 15ab
आसं प्रथममेवाहं वर्तामि 1 च सुरोत्तमाः ॥ 15cd
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ 16ab
अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ 16cd
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ 17ab
इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ 17cd
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ 17 ॥ 17ef
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ 18ab
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ 18cd
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ 19 ॥ 19ab
सगणश्चोमया सार्द्धं सान्निध्यमकरोत्प्रभुः ॥ 20ab
यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ 20cd
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ 21ab
यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ 21cd
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ 22ab
ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ 22cd
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ 23ab
अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ 23cd
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ 24ab
देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ 24cd
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ 25ab
अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ 25cd
अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ 25 ॥ 25ef
देवा ऊचुः ॥
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ 26ab
कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ 26cd
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ 27ab
स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ 27cd
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ 28ab
शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ 28cd
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ॥ 29ab
दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ 29cd
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ 30ab
पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ 30cd
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ 31॥ 31ab
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ 32ab
पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ 32cd
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ 33ab
प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ 33cd
नमश्शिवाय शांताय सगणायादिहेतवे ॥ 34ab


1 परस्मैपदमार्षम् ।

553a


रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ 34cd
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ 35ab
प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ 35cd
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ 36ab
न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ 36cd
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ 37ab
धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ 37cd
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ 38ab
सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ 38cd
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ 39ab
ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ 39cd
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ 40ab
भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ 40cd
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ 41ab
अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ 41cd
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ 42ab
मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ 42cd
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ 43ab
स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ 43cd
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ 44ab
मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ 44cd
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ 45ab
शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ 45cd
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ 46ab
कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ 46cd
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ 47ab
तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ 47cd
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ 48ab
व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ 48cd
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ 49ab
योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ 49cd
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ 50ab
शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ 50cd
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ 51ab
भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ 51cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः ॥ 8 ॥

Chapter 9

कृष्ण उवाच ॥
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ 1ab
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ 1cd
उपमन्युरुवाच ॥
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ 2ab
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ 2cd
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ 3ab
553b

सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ 3cd
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ 4ab
जटामाली चाट्टहासो दारुको लांगुली तथा ॥ 4cd
महाकालश्च शूली च डंडी मुण्डीश एव च ॥ 5ab
सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ 5cd
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ 6ab
अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ 6cd
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ 7ab
श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ 7cd
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ 8ab
दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ 8cd
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ 9ab
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ 9cd
सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ 10ab
सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ 10cd
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ 11ab
कपिलश्चासुरिः पंचशिखो बाष्कल एव च ॥ 11cd
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ 12ab
बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ 12cd
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ 13ab
सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ 13cd
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ 14ab
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ 14cd
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ 15ab
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ 15cd
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ 16ab
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ 16cd
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ 17ab
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ 17cd
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ 18ab
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ 18cd
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ 19ab
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ 19cd
अक्षपादः कणादश्च उलूको वत्स एव च ॥ 20ab
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ 20cd
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ 21ab
संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ 21cd
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ 22ab
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ 22cd
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ 23ab
सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ 23cd
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ 24ab
ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ 24cd
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ 25ab
शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ 25cd
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ 26ab
554a

शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ 26cd
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ 27ab
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ 27cd
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ 28ab
स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ 28cd
एॐ इति श्रीशिवमहापु॰ सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः ॥ 9 ॥

Chapter 10

कृष्ण उवाच ॥
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥ 1ab
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ 1cd
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥ 2ab
महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ 2cd
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥ 3ab
त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ 3cd
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥ 4ab
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ 4cd
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥ 5ab
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ 5cd
उपमन्युरुवाच ॥
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥ 6ab
भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ 6cd
महीधरवरे दिव्ये मंदरे चारुकंदरे ॥ 7ab
देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ 7cd
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥ 8ab
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ 8cd
ततः स्वमंकमारोप्य देवीं देववरोरहः ॥ 9ab
अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ 9cd
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥ 10ab
अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ 10cd
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥ 11ab
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ 11cd
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥ 12ab
त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ 12cd
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥ 13ab
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ 13cd
देव्युवाच ॥
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥ 14ab
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ 14cd
ईश्वर उवाच ॥
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥ 15ab
न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ 15cd
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥ 16ab
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ 16cd
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥ 17ab
श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ 17cd
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥ 18ab
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ 18cd
554b

आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ 19ab
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ 19cd
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥ 20ab
नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ 20cd
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ 20 ॥ 20ef
वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ 21ab
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ 21cd
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ 22ab
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ 22cd
अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ 23ab
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ 23cd
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ 24ab
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥ 24cd
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ 24 ॥ 24ef
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥ 25ab
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ 25cd
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥ 26ab
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ 26cd
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥ 27ab
सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ 27cd
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥ 28ab
दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ 28cd
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥ 29ab
यदन्यत्र श्रमं कुर्य्यान्मोक्षमार्गबहिष्कृतः ॥ 29cd
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥ 30ab
चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ 30cd
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ 31ab
षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ 31cd
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ 32ab
ममार्च्चनादिधर्मस्य चर्य्या चर्य्येति कथ्यते ॥ 32cd
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥ 33ab
वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ 33cd
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥ 34ab
मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ 34cd
विजितेंद्रियवर्गस्य यमेन नियमेन च ॥ 35ab
पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ 35cd
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ 36॥ 36ab
योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ 37ab
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ 37cd
सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ 38ab
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ 38cd
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ 39ab
य एवं वर्त्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ 39cd
अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥ 40ab
555a

दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ 40cd
प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति ॥ 41ab
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ 41cd
तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ 41 ॥ 41ef
फलकामनया कर्मकरणात्प्रतिबध्यते ॥ 42ab
न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ 42cd
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ 43ab
ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ 43cd
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥ 44ab
न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ 44cd
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ 45ab
ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ 45cd
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ 46ab
ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्य्युस्तदर्हकाः ॥ 46cd
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥ 47ab
वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ 47cd
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥ 48ab
पंचधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ 48cd
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥ 49ab
तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ 49cd
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥ 50ab
मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ 50cd
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ 51ab
ममोपचारनिरतः कायः कायो न चेतरः ॥ 51cd
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥ 52ab
मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ 52cd
जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव च ॥ 53ab
रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ 53cd
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ 54ab
ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ 54cd
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥ 55ab
प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ 55cd
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥ 56ab
असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ 56cd
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥ 57ab
अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ 57cd
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥ 58ab
न भावरहितं देवि विप्रलंभैककारणम् ॥ 58cd
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥ 59ab
बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ 59cd
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥ 60ab
मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ 60cd
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥ 61ab
फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ 61cd
555b

फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥ 62ab
भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ 62cd
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥ 63ab
प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ 63cd
प्राक् संस्कारवशादेव ये विचिंत्य फलाफले ॥ 64ab
विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ 64cd
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ 65ab
ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ 65cd
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥ 66ab
फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ 66cd
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥ 67ab
अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ 67cd
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥ 68ab
स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ 68cd
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ 69ab
ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ 69cd
एवमष्टविधं चिह्नं यस्मिन् म्लेच्छे ऽपि वर्तते ॥ 70ab
स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ 70cd
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥ 71ab
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ 71cd
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥ 72ab
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 72cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः ॥ 10 ॥

Chapter 11

ईश्वर उवाच ॥
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ 1ab
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ 1cd
त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ 2ab
दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ 2cd
सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ 3ab
ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ 3cd
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ 4ab
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ 4cd
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ 5ab
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ 5cd
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ 6ab
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ 6cd
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ 7ab
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ 7cd
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ 8ab
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ 8cd
क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ 9ab
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ 9cd
556a

सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ 10ab
लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ 10cd
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ 11ab
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ 11cd
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ 12ab
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ 12cd
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ 13ab
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ 13cd
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ 14ab
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ 14cd
सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ 15ab
सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ 15cd
राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ 16ab
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ 16cd
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ 17ab
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ 17cd
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ 18ab
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ 18cd
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ 19ab
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ 19cd
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ 20ab
सा नारी नरकं याति नात्र कार्या विचारणा ॥ 20cd
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ 21ab
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ 21cd
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ 22ab
शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ 22cd
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ 23ab
एकादश्यां च विधिवदुपवासोममार्चनम् ॥ 23cd
इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ 24ab
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ 24cd
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ 25ab
शूद्राणामथ नारीणां धर्म एष सनातनः ॥ 25cd
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ 26ab
वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ 26cd
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ 27ab
भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ 27cd
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ 28ab
पापैर्न ते विलिंपंते 1 पद्मपत्रमिवांभसा ॥ 28cd
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ 29ab
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ 29cd
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ 30ab
न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ 30cd


1 आत्मनेपदमार्षम् ।

556b


तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ 31ab
तथैव कृतकृत्यानां तेषामपि न संशयः ॥ 31cd
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ 32ab
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ 32cd
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ 33ab
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ 33cd
ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ 34ab
तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ 34cd
प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ 35ab
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ 35cd
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ 36ab
आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ 36cd
स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ 37ab
मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ 37cd
यथायोग्निसमावेशान्नायो भवति केवलम् ॥ 38ab
स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ 38cd
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ 39ab
प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ 39cd
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ 40ab
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ 40cd
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ 41ab
मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ 41cd
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ 42ab
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ 42cd
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ 43ab
मयि चित्तसमासंगो येन केनापि हेतुना ॥ 43cd
उपमन्युरुवाच ॥
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ 44ab
हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ 44cd
विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ 45ab
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ 45cd
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ 46ab
साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ 46cd
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ 47ab
लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ 47cd
साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ 48ab
षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ 48cd
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ 49ab
बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ 49cd
रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ 50ab
न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ 50cd
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ 51ab
नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ 51cd
तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ 52ab
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ 52cd
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ 53ab
557a

एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ 53cd
तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ 54ab
येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ 54cd
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ 55ab
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ 55cd
इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ 56ab
स तस्मादधिगंतव्यः परावरविभूतये ॥ 56cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः ॥ 11 ॥

Chapter 12

श्रीकृष्ण उवाच ॥
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ 1ab
पंचाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ 1cd
उपमन्युरुवाच ॥
पंचाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ 2ab
अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ 2cd
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ 3ab
सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ 3cd
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ 4ab
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ 4cd
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ 5ab
सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ 5cd
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ 6ab
प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ 6cd
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ 7ab
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ 7cd
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ 8ab
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ 8cd
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ 9ab
मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ 9cd
मंत्रे षडक्षरे सूक्ष्मे पंचब्रह्मतनुः शिवः ॥ 9 ॥ 9ef
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ 10ab
वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ 10cd
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ 11ab
यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ 11cd
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ 12ab
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ 12cd
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ 13ab
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ 13cd
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ 14ab
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ 14cd
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ 15ab
धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ 15cd
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ 16ab
वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ 16cd
557b

तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ 17ab
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ 17cd
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ 18ab
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ 18cd
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ 19ab
अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ 19cd
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ 20ab
यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ 20cd
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ 21ab
यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ 21cd
लोकानुग्रहकर्त्ता च स मृषार्थं कथं वदेत् ॥ 22ab
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ 22cd
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ 23ab
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ 23cd
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ 24ab
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ 24cd
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ 24 ॥ 24ef
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ 25ab
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ 25cd
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ 26ab
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ 26cd
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ 27ab
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ 27cd
संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ 28ab
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ 28cd
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ 29ab
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ 29cd
बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ 30ab
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ 30cd
सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ 31ab
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ 31cd
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ 32ab
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ 32cd
शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ 33ab
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ 33cd
किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ 34ab
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ 34cd
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ 35ab
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ 35cd
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ 36ab
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ 36cd
अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ 37ab
पंचाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ 37cd
558a

इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ 38ab
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ 38cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पंचाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः ॥ 12 ॥

Chapter 13

देव्युवाच ॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ 1ab
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ 1cd
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ 2ab
सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ 2cd
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ 3ab
केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ 3cd
ईश्वर उवाच ॥
आश्रित्य परमां विद्यां हृद्यां पंचाक्षरीं मम ॥ 4ab
भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ 4cd
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ 5ab
दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ 5cd
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ 6ab
मम पंचाक्षरी विद्या संसारभयतारिणी ॥ 6cd
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ 7ab
पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ 7cd
देव्युवाच ॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ 8ab
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ 8cd
ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ 8 ॥ 8ef
ईश्वर उवाच ॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ 9ab
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ 9cd
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ 10ab
नारकी स्यान्न सन्देहो मम पंचाक्षरं विना ॥ 10cd
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ 11ab
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ 11cd
भक्त्या पंचाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ 12ab
सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ 12cd
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ 13ab
पंचाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ 13cd
बद्धो वाप्यथ मुक्तो वा पाशात्पंचाक्षरेण यः ॥ 14ab
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ 14cd
अरुद्रो वा सरुद्रो वा सकृत्पंचाक्षरेण यः ॥ 15ab
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ 15cd
षडक्षरेण वा देवि तथा पंचाक्षरेण वा ॥ 16ab
स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ 16cd
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ 17ab
मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ 17cd
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ 18ab
तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ 18cd
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ 19ab
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ 19cd
558b

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ 20ab
मम पंचाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ 20cd
पंचाक्षरप्रभावेण लोकवेदमहर्षयः ॥ 21ab
तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ 21cd
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ 22ab
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ 22cd
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ 23ab
तदा वेदाश्च शास्त्राणि सर्वे पंचाक्षरे स्थिताः ॥ 23cd
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ 24ab
ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ 24cd
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ 25ab
तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ 25cd
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ 26ab
तन्नाभिपंकजाज्जातः पंचवक्त्रः पितामहः ॥ 26cd
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ 27ab
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ 27cd
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ 28ab
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ 28cd
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ 29ab
पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ 29cd
स पञ्चवदनैस्तानि गृह्णँल्लोकपितामहः ॥ 30ab
वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ 30cd
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ 31ab
पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ 31cd
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ 32ab
तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ 32cd
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ 33ab
मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ 33cd
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ 34ab
दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ 34cd
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ 35ab
ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ 35cd
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ 36ab
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ 36cd
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ 37ab
सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ 37cd
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ 38ab
आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ 38cd
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ 39ab
सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ 39cd
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ 40ab
तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ 40cd
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ 41ab
पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ 41cd
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ 42ab
सितपद्मासनासीना नीलकुंचितमूर्द्धजा ॥ 42cd
559a

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ 43ab
पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ 43cd
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ 44ab
अर्द्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ 44cd
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ 45ab
दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ 45cd
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ 46ab
देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ 46cd
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ 47ab
भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ 47cd
गायत्र्यनुष्टुप् त्रिष्टुप् च छंदांसि बृहती विराट् ॥ 48ab
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ 48cd
मम पंचमुखान्याहुः स्थाने तेषां वरानने ॥ 49ab
पूर्वादेश्चोर्द्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ 49cd
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ 50ab
पंचमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ 50cd
मूलविद्या शिवं शैवं सूत्रं पंचाक्षरं तथा ॥ 51ab
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ 51cd
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ 52ab
शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ 52cd
यकारो ऽस्त्रं नमस्स्वाहा वषट् हुंवौषडित्यपि ॥ 53ab
फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ 53cd
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ 54ab
तत्रापि पंचमो वर्णो द्वादशस्वरभूषितः ॥ 54cd
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ 55ab
आवयोरर्चनं कुर्य्याज्जपहोमादिकं तथा ॥ 55cd
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ 56ab
यथाशक्ति यथासंपद्यथायोगं यथारति ॥ 56cd
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ 57ab
येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ 57cd
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ 58ab
मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ 58cd
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ 59ab
तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ 59cd
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ 60ab
यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ 60cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पंचाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः ॥ 13 ॥

Chapter 14

ईश्वर उवाच ॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥ 1ab
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ 1cd
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥ 2ab
एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ 2cd
559b

उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥ 3ab
जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ 3cd
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥ 4ab
वाचा च मनसा चैव कायेन द्रविणेन च ॥ 4cd
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥ 5ab
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ 5cd
भूषणानि च वासांसि धान्यानि च धनानि च ॥ 6ab
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ 6cd
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥ 7ab
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ 7cd
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥ 8ab
आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ 8cd
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥ 9ab
शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ 9cd
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥ 10ab
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ 10cd
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥ 11ab
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ 11cd
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥ 12ab
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ 12cd
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥ 13ab
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ 13cd
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥ 14ab
उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ 14cd
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥ 15ab
एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ 15cd
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥ 16ab
संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ 16cd
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥ 17ab
अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ 17cd
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥ 18ab
नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ 18cd
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥ 19ab
तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ 19cd
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥ 20ab
त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ 20cd
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥ 21ab
विशोध्य पंचतत्त्वानि दहनप्लावनादिभिः ॥ 21cd
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥ 22ab
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ 22cd
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥ 23ab
बीजं शक्तिं तथा वाक्यं स्मृत्वा पंचाक्षरीं जपेत् ॥ 23cd
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥ 24ab
अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ 24cd
560a

उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥ 25ab
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ 25cd
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥ 26ab
मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ 26cd
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥ 27ab
अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ 27cd
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ 28ab
शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ 28cd
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥ 29ab
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ 29cd
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥ 30ab
आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ 30cd
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥ 31ab
मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ 31cd
पंचकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥ 32ab
अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ 32cd
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥ 33ab
एषु पंचविधेष्वेकः कर्त्तव्यः शक्तितो जपः ॥ 33cd
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥ 34ab
रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ 34cd
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥ 35ab
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ 35cd
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥ 36ab
कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ 36cd
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥ 37ab
सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ 37cd
पंचविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥ 38ab
अक्षैस्तु पंचदशभिरभिचारफलप्रदा ॥ 38cd
अंगुष्ठं मोक्षदं विद्यात्तर्ज्जनीं शत्रुनाशिनीम् ॥ 39ab
मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ 39cd
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥ 40ab
शतसंख्योत्तमा माला पंचाशद्भिस्तु मध्यमा ॥ 40cd
चतुः पंचाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥ 41ab
इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ 41cd
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥ 42ab
अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ 42cd
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥ 43ab
गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ 43cd
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥ 44ab
अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ 44cd
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥ 45ab
सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ 45cd
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥ 46ab
560b

तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ 46cd
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥ 47ab
सूर्य्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ 47cd
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥ 48ab
उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ 48cd
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥ 49ab
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ 49cd
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥ 50ab
आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ 50cd
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥ 51ab
अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ 51cd
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥ 52ab
प्रसार्य्य न जपेत्पादौ कुक्कुटासन एव वा ॥ 52cd
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥ 53ab
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ 53cd
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥ 54ab
सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ 54cd
आचारः परमो धर्म आचारः परमं धनं ॥ 55ab
आचारः परमा विद्या आचारः परमा गतिः ॥ 55cd
आचारहीनः पुरुषो लोके भवति निंदितः ॥ 56ab
परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ 56cd
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥ 57ab
तस्य तेन समाचारः सदाचारो न चेतरः ॥ 57cd
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥ 58ab
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ 58cd
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥ 59ab
न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ 59cd
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥ 60ab
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ 60cd
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥ 61ab
न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ 61cd
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥ 62ab
पंचाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ 62cd
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥ 63ab
अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ 63cd
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥ 64ab
अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ 64cd
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥ 65ab
निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ 65cd
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥ 66ab
सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ 66cd
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥ 67ab
अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ 67cd
561a

न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥ 68ab
सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ 68cd
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥ 69ab
असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ 69cd
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥ 70ab
श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ 70cd
तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् 1अधिकारतः ॥ 71ab
आश्रमेत्परमां विद्यां साक्षात्पंचाक्षरीं बुधः ॥ 71cd
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥ 72ab
सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ 72cd
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥ 73ab
मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ 73cd
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥ 74ab
अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ 74cd
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥ 75ab
सहसा विनियुंजीत तस्मादेष महाबलः ॥ 75cd
उपमन्युरुवाच ॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥ 76ab
हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ 76cd
य इदं कीर्त्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥ 77ab
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ 77cd


1 नाशयुक्तानित्यर्थः ।

एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पंचाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः ॥ 14 ॥

Chapter 15

श्रीकृष्ण उवाच ॥
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ 1ab
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ 1cd
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ 2ab
मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ 2cd
उपमन्युरुवाच ॥
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ 3ab
संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ 3cd
सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ 4ab
संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ 4cd
दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ 5ab
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ 5cd
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ 6ab
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ 6cd
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ 7ab
सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ 7cd
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ 8ab
तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ 8cd
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ 9ab
561b


तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ 9cd
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ 10ab
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ 10cd
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ 11ab
मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ 11cd
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ 12ab
शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ 12cd
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ 13ab
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ 13cd
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ 14ab
ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ 14cd
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ 15ab
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ 15cd
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ 16ab
सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ 16cd
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ 17ab
यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ 17cd
शिष्योपि लक्षणैरेभिः कुर्य्याद्गुरुपरीक्षणम् ॥ 18ab
तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ 18cd
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ 19ab
तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ 19cd
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ 20ab
गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ 20cd
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ 21ab
शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ 21cd
सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ 22ab
तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ 22cd
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ 23ab
गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ 23cd
गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ 24ab
समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ 24cd
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ 25ab
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ 25cd
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ 26ab
यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ 26cd
तथैव गुरुसंपर्क्कात्पापं त्यजति मानवः ॥ 27ab
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ 27cd
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ 28ab
यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ 28cd
तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ 29ab
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ 29cd
तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ 30ab
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ 30cd
562a

यमश्च नियमाश्चैव नात्र कार्य्या विचारणा ॥ 31ab
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ 31cd
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ 32ab
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ 32cd
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ 33ab
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ 33cd
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ 34ab
इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ 34cd
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ 35ab
गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ 35cd
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ 36ab
संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ 36cd
तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ 37ab
न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ 37cd
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ 38ab
एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ 38cd
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ 39ab
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ 39cd
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ 40ab
पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ 40cd
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ 41ab
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ 41cd
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ 42ab
यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ 42cd
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ 43ab
तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ 43cd
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ 44ab
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ 44cd
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ 45ab
ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ 45cd
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ 46ab
यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ 46cd
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ 47ab
गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ 47cd
गुरोर्भ्रातॄंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ 47 ॥ 47ef
तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ 48ab
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ 48cd
सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ 49ab
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ 49cd
तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ 50ab
तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ 50cd
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ 51ab
भूषणानि च वासांसि यानशय्यासनानि च ॥ 51cd
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ 52ab
562b

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ 52cd
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ 53ab
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ 53cd
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ 54ab
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ 54cd
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ 55ab
तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ 55cd
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ 56ab
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ 56cd
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ 57ab
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ 57cd
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ 58ab
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ 58cd
अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ 59ab
अमानिनो बुद्धिमंतस्त्यक्तस्पर्द्धाः प्रियंवदाः ॥ 59cd
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ 60ab
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ 60cd
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ 61ab
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ 61cd
नाधिकारः स्वतो नार्य्याः शिवसंस्कारकर्मणि ॥ 62ab
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ 62cd
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ 63ab
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ 63cd
शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ 63 ॥ 63ef
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ 64ab
तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ 64cd
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ 65ab
अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ 65cd
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ 66ab
या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ 66cd
सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ 67ab
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ 67cd
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ 68ab
यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ 68cd
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ 69ab
यथा नारायणं देवं तपसाराध्य पांडवान् ॥ 69cd
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ 70ab
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ 70cd
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ 71ab
बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ 71cd
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ 72ab
गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ 72cd
563a

यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ 73ab
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ 73cd
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ 74ab
क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ 74cd
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ 74 ॥ 74ef
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः ॥ 15 ॥

Chapter 16

उपमन्युरुवाच ॥
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥ 1ab
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ 1cd
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ 2ab
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ 2cd
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥ 3ab
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ 3cd
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥ 4ab
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ 4cd
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥ 5ab
वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ 5cd
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥ 6ab
सिंदूरशालिनीवारचूर्णैरेवाथ निर्द्धनः ॥ 6cd
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥ 7ab
एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ 7cd
केसराणि तदर्द्धानि शेषं चाष्टदलादिकम् ॥ 8ab
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ 8cd
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥ 9ab
एकहस्तं तदर्द्धं वा पुनर्वेद्यः तु मंडलम् ॥ 9cd
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥ 10ab
तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ 10cd
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥ 11ab
गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ 11cd
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥ 12ab
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ 12cd
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥ 13ab
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ 13cd
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥ 14ab
अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ 14cd
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥ 15ab
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ 15cd
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥ 16ab
देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ 16cd
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥ 17ab
मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ 17cd
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥ 18ab
सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ 18cd
563b

महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥ 19ab
शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ 19cd
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥ 20ab
अर्चयेदस्त्रवर्द्धन्यामस्त्रमीशस्य दक्षिणे ॥ 20cd
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥ 21ab
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ 21cd
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥ 22ab
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ 22cd
आचार्यात्पादमर्द्धं वा होमस्तेषां विधीयते ॥ 23ab
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ 23cd
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम्॥ 24ab
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ 24cd
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥ 25ab
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ 25cd
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥ 26ab
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ 26cd
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥ 27ab
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ 27cd
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥ 28ab
आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ 28cd
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥ 29ab
जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ 29cd
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥ 30ab
दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ 30cd
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥ 31ab
संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्द्धन्यस्त्रेण मुद्रया ॥ 31cd
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥ 32ab
दुकूलार्द्धेन वस्त्रेण मंत्रितेन नवेन च ॥ 32cd
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥ 33ab
सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ 33cd
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥ 34ab
प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ 34cd
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥ 35ab
संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ 35cd
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥ 36ab
अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ 36cd
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥ 37ab
आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ 37cd
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥ 38ab
शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ 38cd
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥ 39ab
शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ 39cd
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥ 40ab
हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ 40cd
564a

दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥ 41ab
नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ 41cd
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥ 42ab
शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ 42cd
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥ 43ab
देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ 43cd
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥ 44ab
पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ 44cd
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥ 45ab
हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ 45cd
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥ 46ab
कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ 46cd
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥ 47ab
रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ 47cd
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥ 48ab
शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ 48cd
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥ 49ab
निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ 49cd
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥ 50ab
स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ 50cd
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥ 51ab
न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ 51cd
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥ 52ab
तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ 52cd
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥ 53ab
हुत्वा ऽऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ 53cd
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥ 54ab
कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ 54cd
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥ 55ab
वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ 55cd
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ 56ab
ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ 56cd
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥ 57ab
आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ 57cd
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥ 58ab
संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ 58cd
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥ 59ab
समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ 59cd
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥ 60ab
सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ 60cd
ततः शिवासनं ध्यात्वा शिष्यमूर्द्ध्नि देशिकः ॥ 61ab
तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ 61cd
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥ 62ab
इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ 62cd
564b

संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥ 63ab
कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ 63cd
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥ 64ab
शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ 64cd
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥ 65ab
उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ 65cd
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥ 66ab
समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ 66cd
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥ 67ab
भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ 67cd
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥ 68ab
न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ 68cd
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥ 69ab
तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ 69cd
ततः स समयो नाम भविष्यति शिवाश्रमे ॥ 70ab
लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ 70cd
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥ 71ab
दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ 71cd
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥ 72ab
पूजाहोमजपध्यानसाधनानि च संभवे॥ 72cd
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥ 73ab
आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ 73cd
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥ 74ab
रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ 74cd
अतः परं शिवाचारमादिशेदस्य देशिकः ॥ 75ab
भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ 75cd
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥ 76ab
शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ 76cd
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥ 77ab
देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ 77cd
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥ 78ab
साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ 78cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशो ऽध्यायः ॥ 16 ॥

Chapter 17

उपमन्युरुवाच ॥
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ 1ab
षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये ॥ 1cd
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥ 2ab
मंत्रश्चेति समासेन षडध्वा परिपठ्यते ॥ 2cd
निवृत्त्याद्याः कलाः पंच कलाध्वा कथ्यते बुधैः ॥ 3ab
व्याप्ताः कलाभिरितरे त्वध्वानः पंच पंचभिः ॥ 3cd
565a

शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ॥ 4ab
षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ 4cd
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ॥ 5ab
विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः ॥ 5cd
पंचाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ 6ab
अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ 6cd
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ 7ab
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ 7cd
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ 8ab
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ 8cd
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ 9ab
षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ 9cd
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ 10ab
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ 10cd
यथावदवगम्यैव कुर्य्यादध्वविशोधनम् ॥ 11ab
कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ 11cd
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ 12ab
ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ 12cd
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ 13ab
तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ 13cd
अर्द्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ 14ab
पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ 14cd
स्थापयेत्पंचकलशान्दिक्षु मध्ये च देशिकः ॥ 15ab
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ 15cd
नमआद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ॥ 16ab
ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते ॥ 16cd
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥ 17ab
रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम् ॥ 17cd
कृत्वा शिवानलैर्होमं प्रारभेत् यथा पुरा ॥ 18ab
यदर्द्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ 18cd
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥ 19ab
तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा ॥ 19cd
हुत्वा पूर्णाहुतिं तेषां ततः कुर्य्यात्प्रदीपनम् ॥ 20ab
ॐकारादनु हुंकारं ततो मूलं फडंतकम् ॥ 20cd
स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ॥ 21ab
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ 21cd
मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥ 22ab
त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥ 22cd
सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ॥ 23ab
चरणांगुष्ठपर्य्यंतमूर्द्ध्वकायस्य तिष्ठतः ॥ 23cd
लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥ 24ab
शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित् ॥ 24cd
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥ 25ab
हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ 25cd
565b

चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ 26ab
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ 26cd
अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ 27ab
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ 27cd
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ 28ab
व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ 28cd
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ 29ab
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ 29cd
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ 30ab
कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ 30cd
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ 31ab
शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ 31cd
एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ 32ab
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ 32cd
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ 33ab
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ 33cd
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ 34ab
भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ 34cd
अपरे मण्डले दद्यात्पंचगव्यं तथा गुरुः ॥ 35ab
सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ 35cd
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥ 36ab
प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम् ॥ 36cd
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥ 37ab
वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत् ॥ 37cd
प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥ 38ab
प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम् ॥ 38cd
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥ 39ab
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ 39cd
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ॥ 40ab
शतमर्द्धं तदर्द्धं वाजुहुयान्मूलमन्त्रतः ॥ 40cd
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥ 41ab
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ 41cd
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥ 42ab
मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥ 42cd
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥ 43ab
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ 43cd
रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥ 44ab
कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥ 44cd
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥ 45ab
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ 45cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः ॥ 17 ॥
566a

Chapter 18

उपमन्युरुवाच ॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ 1ab
गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ 1cd
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ 2ab
नेत्रबंधनपर्य्यंतं दर्शयेन्मण्डलं गुरुः ॥ 2cd
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ 3ab
यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ 3cd
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ 4ab
पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ 4cd
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ 5ab
शतमर्द्धं तदर्द्धं वा जुहुयान्मूलविद्यया ॥ 5cd
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ 6ab
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ 6cd
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ 7ab
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ 7cd
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ 8ab
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ 8cd
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ 9ab
कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ 9cd
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ 10ab
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ 10cd
देवानां जातयश्चाष्टौ तिरश्चां पंच जातयः ॥ 11ab
जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ 11cd
तासु सर्वासु युगपत्प्रवेशाय शिशोर्द्धिया ॥ 12ab
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ 12cd
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ 13ab
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ 13cd
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ 14ab
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ 14cd
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ 15ab
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ 15cd
भोक्तृत्वविषयासंगमलं 1 तत्कायशोधनम् ॥ 16ab
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ 16cd
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ 17ab
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ 17cd
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ 18ab
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ 18cd
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ 19ab
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ 19cd
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ 20ab


1 त्याजयित्वेति शेषः ।

566b


समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ 20cd
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ 21ab
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ 21cd
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ 22ab
कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ 22cd
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ 23ab
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ 23cd
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ 24ab
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ 24cd
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ 25ab
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ 25cd
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ 26ab
प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ 26cd
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ 27ab
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ 27cd
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ 28ab
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ 28cd
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ 29ab
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ 29cd
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ 30ab
बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ 30cd
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ 31ab
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ 31cd
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ 32ab
शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ 32cd
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ 33ab
नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ 33cd
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ 34ab
तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ 34cd
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ 35ab
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ 35cd
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ 36ab
विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ 36cd
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ 37ab
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ 37cd
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ 38ab
प्रक्षाल्य कर्त्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ 38cd
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ 39ab
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ 39cd
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ 40ab
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ 40cd
567a

ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ 41ab
प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ 41cd
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ 42ab
वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ 42cd
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ 43ab
पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ 43cd
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ 44ab
तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ 44cd
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ 44 ॥ 44ef
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ 45ab
कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ 45cd
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ 46ab
पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ 46cd
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ 47ab
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ 47cd
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ 48ab
भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ 48cd
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ 49ab
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ 49cd
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ 50ab
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ 50cd
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ 51ab
जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ 51cd
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ 52ab
बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ 52cd
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ 53ab
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ 53cd
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ 54ab
तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ 54cd
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ 55ab
अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ 55cd
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ 56ab
अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ 56cd
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ 57ab
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ 57cd
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ 58ab
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ 58cd
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ 59ab
पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ 59cd
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ 60ab
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ 60cd
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ 61ab
प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ 61cd
567b

ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ 62॥ 62ab
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ 63ab
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ 63cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः ॥ 18 ॥

Chapter 19

उपमन्युरुवाच ॥
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ 1ab
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ 1cd
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ 2ab
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ 2cd
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ 3ab
संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ 3cd
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ 4ab
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ 4cd
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ 5ab
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ 5cd
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ 6ab
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ 6cd
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ 7ab
साधनं शिवयोगं च साधकाय समादिशेत् ॥ 7cd
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ 8ab
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ 8cd
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ 9ab
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ 9cd
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ 10ab
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ 10cd
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ 11ab
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ 11cd
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ 12ab
सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ 12cd
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ 13ab
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ 13cd
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ 14ab
संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ 14cd
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ 15ab
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ 15cd
कोटिवारं तदर्द्धं वा तदर्द्धं वा जपेच्छिवम् ॥ 16ab
लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ 16cd
ततश्च पायसाक्षारलवणैकमिताशनः ॥ 17ab
अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ 17cd
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ 18ab
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ 18cd
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ 19ab
568a

शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ 19cd
अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ 20ab
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ 20cd
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ 21ab
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ 21cd
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ 22ab
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ 22cd
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ 23ab
तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ 23cd
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ 24ab
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ 24cd
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ 25ab
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ 25cd
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ 26ab
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ 26cd
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ 27ab
धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ 27cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः ॥ 19 ॥

Chapter 20

उपमन्युरुवाच ॥
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ 1ab
आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ 1cd
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ 2ab
स्थापयत्पंचकलशान्दिक्षु मध्ये च पूर्ववत् ॥ 2cd
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ 3ab
विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ 3cd
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ 4ab
अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ 4cd
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ 5ab
तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ 5cd
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ 6ab
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ 6cd
सकलीकृत्य तं पश्चात्कलापंचकरूपिणम् ॥ 7ab
न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ 7cd
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ 8ab
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ 8cd
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ 9ab
शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ 9cd
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ 10ab
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ 10cd
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ 11ab
शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ 11cd
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ 12ab
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ 12cd
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ 13ab
568b

शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ 13cd
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ 14ab
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ 14cd
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ 15ab
अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ 15cd
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ 16ab
आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ 16cd
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ 17ab
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ 17cd
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ 18ab
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ 18cd
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ 19ab
अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ 19cd
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ 20ab
शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ 20cd
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ 21ab
तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ 21cd
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ 22ab
कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ 22cd
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ 23ab
तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ 23cd
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ 24ab
समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ 24cd
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ 25ab
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ 25cd
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ 26ab
स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ 26cd
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ 27ab
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ 27cd
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ 28ab
विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ 28cd
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ 29ab
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ 29cd
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ 30ab
चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ 30cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः ॥ 20 ॥

Chapter 21

कृष्ण उवाच ॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ 1ab
शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ 1cd
उपमन्युरुवाच ॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ 2ab
विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ 2cd
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ 3ab
569a

कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ 3cd
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ 4ab
अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ 4cd
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ 5ab
नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ 5cd
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ 6ab
व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ 6cd
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ 7ab
सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ 7cd
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ 8ab
न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ 8cd
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ 9ab
अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ 9cd
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ 10ab
उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ 10cd
गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ 11ab
पाद्मेन वाथ पाणिभ्यां पंचकृत्वस्त्रिरेव वा ॥ 11cd
उद्यानादौ गृहे चैव वर्द्धन्या कलशेन वा ॥ 12ab
अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ 12cd
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ 13ab
आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ 13cd
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ 14ab
शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ 14cd
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ 15ab
आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ 15cd
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ 16ab
दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ 16cd
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ 17ab
करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ 17cd
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ 18ab
कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ 18cd
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ 19ab
वामनासापुटेनैव देवं संभावयेत्सितम् ॥ 19cd
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ 20ab
कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ 20cd
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ 21ab
भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ 21cd
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ 22ab
सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ 22cd
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ 23ab
स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ 23cd
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ 24ab
तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ 24cd
569b

पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ 25ab
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ 25cd
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ 26ab
जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ 26cd
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ 27ab
अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ 27cd
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ 28ab
कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ 28cd
बुद्ध्वेशानादिसद्यांतं पंचब्रह्ममयं शिवम् ॥ 29ab
गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ 29cd
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ 30ab
ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ 30cd
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ 31ab
जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ 31cd
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ 32ab
अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ 32cd
वृत्तं वा चतुरस्रं वा बिन्दुमर्द्धेन्दुमेव वा ॥ 33ab
ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ 33cd
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ 34ab
सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ 34cd
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ 35ab
रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ 35cd
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ 36ab
विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ 36cd
तदलाभे यथालाभं धारणीयमदूषितम् ॥ 37ab
तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ 37cd
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ 38ab
इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ 38cd
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ 39ab
प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ 39cd
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ 40ab
श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ 40cd
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ 41ab
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ 41cd
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ 42ab
अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ 42cd
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ 43ab
प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ 43cd
प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ 43 ॥ 43ef
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः ॥ 21 ॥

Chapter 22

उपमन्युरुवाच ॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥ 1ab
स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ 1cd
570a

यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥ 2ab
स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ 2cd
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥ 3ab
अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ 3cd
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥ 4ab
उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ 4cd
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥ 5ab
अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ 5cd
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥ 6ab
निवृत्त्यादिकलाः पंच पंचभूतस्वरूपिणीः ॥ 6cd
पंचभूताधिपैस्सार्द्धं ततच्चिह्नसमन्विताः ॥ 7ab
हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः॥ 7cd
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥ 8ab
तासां विशोधनार्थाय विद्यां पंचाक्षरीं जपेत् ॥ 8cd
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥ 9ab
भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ 9cd
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥ 10ab
निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ 10cd
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ 11ab
ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ 11cd
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥ 12ab
प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ 12cd
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥ 13ab
अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ 13cd
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥ 14ab
शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ 14cd
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥ 15ab
पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ 15cd
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥ 16ab
देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ 16cd
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥ 17ab
वर्णन्यासं ततः कुर्य्याद्धस्तपादादिसंधिषु ॥ 17cd
षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥ 18ab
दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ 18cd
यद्वा मूर्द्धादिपंचांगं न्यासमेव समाचरेत् ॥ 19ab
तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ 19cd
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥ 20ab
शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ 20cd
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥ 21ab
स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ 21cd
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥ 22ab
तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ 22cd
पंचमः कथ्यते सद्भिर्न्यासः पंचाक्षरात्मकः ॥ 23ab
570b

एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ 23cd
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥ 24ab
इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा ॥ 24cd
ऋं ॠं कपोलयोश्चैव ऌं ॡं नासापुटद्वये ॥ 25ab
एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ 25cd
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥ 26ab
कवर्गं दक्षिणे हस्ते न्यसेत्पंचसु संधिषु ॥ 26cd
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥ 27ab
टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ 27cd
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥ 28ab
न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ 28cd
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥ 29ab
हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ 29cd
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥ 30ab
अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ॥ 30cd
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥ 31ab
शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ 31cd
ततश्चोर्द्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ 32ab
ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ 32cd
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ 33ab
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ 33cd
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ 34ab
अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ 34cd
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥ 35ab
जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ 35cd
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ 36ab
अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ 36cd
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥ 37ab
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ 37cd
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥ 38ab
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ 38cd
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥ 39ab
बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ 39cd
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥ 40ab
कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ 40cd
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पंचांगवर्त्मना ॥ 41ab
हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ 41cd
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥ 42ab
नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ 42cd
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥ 43ab
तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ 43cd
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥ 44ab
कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ 44cd
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ 44 ॥ 44ef
571a

कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ 45ab
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ 45cd
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥ 46ab
क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ 46cd
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ 47ab
अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ 47cd
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ 48ab
तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ 48cd
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥ 49ab
जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ 49cd
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥ 50ab
तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ 50cd
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ 51ab
तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ 51cd
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ 52ab
हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ 52cd
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥ 53ab
बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ 53cd
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ 54ab
ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ 54cd
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ 55ab
ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ 55cd
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥ 56ab
आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ 56cd
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ 57ab
ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ 57cd
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥ 58ab
द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ 58cd
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥ 59ab
नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ 59cd
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥ 60ab
अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ 60cd
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥ 61ab
अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥ 61cd
अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ 61 ॥ 61ef
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशो ऽध्यायः ॥ 22 ॥

Chapter 23

उपमन्युरुवाच ॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ 1ab
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ 1cd
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ 2ab
विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ 2cd
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ 3ab
571b

ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ 3cd
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ 4ab
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ 4cd
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ 5ab
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ 5cd
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ 6ab
सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ 6cd
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ 7ab
रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ 7cd
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ 8ab
चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ 8cd
वरदाभयहस्तं च मृगटंकधरं हरम् ॥ 9ab
भुजंगहारवलयं चारुनीलगलांतरम् ॥ 9cd
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ 10ab
ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ 10cd
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ 11ab
पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ 11cd
नीलोत्पलदलप्रख्यां चन्द्रार्द्धकृतशेखराम् ॥ 12ab
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ 12cd
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ 13ab
सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ 13cd
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ 14ab
सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ 14cd
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ 15ab
दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ 15cd
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ 16ab
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ 16cd
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ 17ab
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ 17cd
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ 18ab
षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ 18cd
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ 19ab
अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ 19cd
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्त्तयेद्धिया ॥ 20ab
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ 20cd
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ 21ab
इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ 21cd
अग्निकार्य्यावसानं च सर्वत्रैव समो विधिः ॥ 22ab
अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ 22cd
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ 23ab
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः ॥ 23 ॥
572a

Chapter 24

उपमन्युरुवाच ॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ 1ab
गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ 1cd
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ 2ab
अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ 2cd
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ 3ab
संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ 3cd
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ 4ab
तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ 4cd
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ 5ab
पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ 5cd
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ 6ab
फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ 6cd
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ 7ab
शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ 7cd
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ 8ab
जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ 8cd
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ 9ab
एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ 9cd
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ 10ab
आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ 10cd
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ 11ab
प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ 11cd
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ 12ab
पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ 12cd
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ 13ab
सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ 13cd
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ 14ab
साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ 14cd
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ 15ab
पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ 15cd
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ 16ab
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ 16cd
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ 17ab
दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ 17cd
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ 18ab
उत्तरे द्वारपार्श्वस्य भार्य्यां च मरुतां सुताम् ॥ 18cd
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ 19ab
पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ 19cd
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ 20ab
प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ 20cd
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ 21ab
ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ 21cd
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ 22ab
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ 22cd
572b

तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ 23ab
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥ 23cd
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ 24ab
धर्म्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ 24cd
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ 25ab
अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ 25cd
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ 26ab
अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ 26cd
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ 27ab
केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ 27cd
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ 28ab
कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ 28cd
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ 29ab
त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ 29cd
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ 30ab
आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ 30cd
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ 31ab
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ 31cd
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ 32ab
धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ 32cd
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ 33ab
सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ 33cd
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ 34ab
शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ 34cd
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ 35ab
अंतर्बहिःस्थितं व्याप्य ह्यणोरणु 1 महत्तरम् 2 35cd
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ 36ab
ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ 36cd
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ 37ab
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ 37cd
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ 38ab
पंचोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ 38cd
लिंगमूर्त्तिर्महेशस्य शिवस्य परमात्मनः ॥ 39ab
स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ 39cd
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ 40ab
मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ 40cd
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ 41ab
संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ 41cd
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ 42ab
पुनः संस्नाप्य सलिलैश्चक्रवर्त्त्युपचारतः ॥ 42cd


1 क्लीबत्वमार्षम् ।
2 महत इति क्षेष- ।

573a


सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ 43ab
ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ 43cd
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ 44ab
हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ 44cd
असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ 45ab
केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ 45cd
कलशेनाथ शंखेन वर्द्धन्या पाणिना तथा ॥ 46ab
सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ 46cd
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ 47ab
लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ 47cd
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पंचभिः ॥ 48ab
स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ 48cd
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ 49ab
न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ 49cd
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ 50ab
देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ 50cd
अर्द्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ 51ab
तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ 51cd
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ 52ab
संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ 52cd
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ 53ab
धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ 53cd
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ 54ab
मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ 54cd
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ 55ab
व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ 55cd
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ 56ab
गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ 56cd
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ 57ab
पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ 57cd
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ 58ab
श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ 58cd
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ 59ab
तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ 59cd
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ 60ab
धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ 60cd
अथवारोपयेत्पात्रे पंचदीपान्यथाक्रमम् ॥ 61ab
विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ 61cd
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ 62ab
त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ 62cd
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ 63ab
कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ 63cd
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ 64ab
573b

पंचसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ 64cd
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ 65ab
लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ 65cd
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ 66ab
विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ 66cd
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ 67ab
पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ 67cd
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ 68ab
पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ 68cd
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ 69ab
असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ 69cd
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ 70ab
प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ 70cd
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ 71ab
शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ 71cd
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ 72ab
शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ 72cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशो ऽध्यायः ॥ 24 ॥

Chapter 25

उपमन्युरुवाच ॥
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ 1ab
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ 1cd
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ 2ab
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ 2cd
तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ 3ab
शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ 3cd
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ 4ab
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ 4cd
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ 5ab
गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ 5cd
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ 6ab
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ 6cd
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ 7ab
ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ 7cd
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ 8ab
बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ 8cd
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ 9ab
देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ 9cd
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ 10ab
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ 10cd
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ 11ab
गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ 11cd
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ 12ab
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ 12cd
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ 13ab
574a

एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ 13cd
गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ 14ab
भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च॥ 14cd
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ 15ab
मृदु एलारसाक्तं च खण्डं पूगफलस्य च॥ 15cd
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ 16ab
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ 16cd
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ 16 ॥ 16ef
कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ 17ab
आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ 17cd
कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ 18ab
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ 18cd
निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ 19ab
स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ 19cd
वासांसि च मृदून्येव तपनीयमयानि च ॥ 20ab
विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ 20cd
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ 21ab
आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ 21cd
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ 22ab
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ 22cd
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ 23ab
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ 23cd
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ 24ab
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ 24cd
आसनानि च भद्राणि गजदंतमयानि च ॥ 25ab
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ 25cd
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ 26ab
उच्चावचानि रम्याणि शयनानि सुखानि च ॥ 26cd
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ 27ab
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ 27cd
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ 28ab
नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ 28cd
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ 29ab
राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ 29cd
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ 30ab
समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ 30cd
गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ 31ab
आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ 31cd
काहलानि च रम्याणि नानानादकराणि च ॥ 32ab
सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ 32cd
भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ 33ab
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ 33cd
भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ 34ab
574b

तदाधाराणि 1 सर्वाणि सौवर्णान्येव साधयेत् ॥ 34cd
आलयं च महेशस्य शिवस्य परमात्मनः ॥ 35ab
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ 35cd
उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ 36ab
अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ 36cd
तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ 37ab
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ 37cd
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ 38ab
अलंकृतशिरोभागमस्त्र 2राजेन चिह्नितम् ॥ 38cd
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ 39ab
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ 39cd
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ 40ab
अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ 40cd
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ 41ab
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ 41cd
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ 42ab
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ 42cd
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ 43ab
वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ 43cd
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ 44ab
शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ 44cd
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ 45ab
एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ 45cd
स्थाने शिलामये दांते दारवे चेष्टकामये ॥ 46ab
केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ 46cd
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ 47ab
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ 47cd
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्च्चयेत् ॥ 47 ॥ 47ef
अथान्यायार्ज्जितैश्चापि भक्त्या चेच्छिवमर्च्चयेत् ॥ 48ab
न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ 48cd
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ 49ab
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ 49cd
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ 50ab
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ 50cd
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ 51ab
महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ 51cd
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ 52ab
न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ 52cd
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ 53ab
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ 53cd


1 सम्बन्धमनुवर्तते इति भाष्यात्क्वचिद्घञान्तस्यापि क्लीबतात एव शेषं रामवदित्यादि संगच्छते ।
2 त्रिशूलेनेति भावः ।

575a


गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ 54ab
शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ 54cd
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ 55ab
दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ 55cd
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ 56ab
भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ 56cd
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ 57ab
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ 57cd
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ 58ab
तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ 58cd
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ 59ab
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ 59cd
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ 60ab
ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ 60cd
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ 61ab
आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ 61cd
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ 62ab
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ 62cd
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ 63ab
शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ 63cd
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ 64ab
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ 64cd
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ 65ab
वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ 65cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पंचविंशो ऽध्यायः ॥ 25 ॥

Chapter 26

उपमन्युरुवाच ॥
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ 1ab
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ 1cd
संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ 2ab
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ 2cd
तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ 3ab
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ 3cd
कृत्वापि सुमहत्पापं भक्त्या पंचाक्षरेण तु ॥ 4ab
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ 4cd
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ 5ab
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ 5cd
भक्त्या पंचाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ 6ab
सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ 6cd
तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ 7ab
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ 7cd
बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ 8ab
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ 8cd
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ 9ab
यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ 9cd
575b

षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ 10ab
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ 10cd
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ 11ab
स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ 11cd
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ 12ab
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ 12cd
ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ 13ab
ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ 13cd
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ 14ab
दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ 14cd
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ 15ab
दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ 15cd
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ 16ab
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ 16cd
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ 17ab
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ 17cd
धनं चातृप्तिपर्य्यन्तं शिवपूजाविधेः फलम् ॥ 18ab
ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ 18cd
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ 19ab
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ 19cd
शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ 20ab
तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ 20cd
शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ 21ab
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ 21cd
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ 22ab
यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ 22cd
यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ 23ab
न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ 23cd
इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ 24ab
द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ 24cd
नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ 25ab
हविर्निवेदनादूर्द्ध्वं स्वयं चानुचरो ऽपि वा ॥ 25cd
प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ 26ab
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ 26cd
पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ 27ab
ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ 27cd
ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ 28ab
तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ 28cd
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ 29ab
कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ 29cd
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ 30ab
576a

विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ 30cd
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ 31ab
शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ 31cd
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ 32ab
प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ 32cd
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ 33ab
प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ 33cd
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ 34ab
पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ 34cd
आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत् ततः ॥ 34 ॥ 34ef
प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ 35ab
आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ 35cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः ॥ 26 ॥

Chapter 27

उपमन्युरुवाच ॥
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ 1ab
वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ 1cd
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ 2ab
तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ 2cd
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ 3ab
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ 3cd
कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ 4ab
चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ 4cd
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ 5ab
मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ 5cd
अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ 6ab
मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ 6cd
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ 7ab
अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ 7cd
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ 8ab
शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ 8cd
अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ 9ab
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ 9cd
मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ 10ab
कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ 10cd
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ 11ab
स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ 11cd
संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ 12ab
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ 12cd
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ 13ab
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ 13cd


1 अदन्तत्वमार्षम् ।

576b


अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ 14ab
त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ 14cd
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ 15ab
योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ 15cd
नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ 16ab
स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ 16cd
निर्गम्य पावके बह्ये लीनं बिंबाकृति स्मरेत् ॥ 17ab
आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ 17cd
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ 18ab
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ 18cd
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ 19ab
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ 19cd
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ 20ab
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ 20cd
संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ 21ab
पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ 21cd
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ 22ab
भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ 22cd
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ 23ab
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ 23cd
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ 24ab
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ 24cd
स्वबिजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ 25ab
जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ 25cd
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ 26ab
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ 26cd
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ 27ab
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ 27cd
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ 27 ॥ 27ef
ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ 28ab
अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ 28cd
दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ 29ab
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ 29cd
दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ 30ab
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ 30cd
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ 31ab
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ 31cd
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ 32ab
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ 32cd
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ 33ab
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ 33cd
द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ 34ab
प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ 34cd
577a

ततो होमविशिष्टेन घृतेनापूर्य्य वै स्रुचम् ॥ 35ab
निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ 35cd
सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ 36ab
वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ 36cd
इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ 37ab
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ 37cd
तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ 38ab
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ 38cd
वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ 39ab
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ 39cd
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ 40ab
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ 40cd
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ 41ab
आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ 41cd
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ 42ab
कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ 42cd
त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ 43ab
मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ 43cd
रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् ॥ 44ab
सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ 44cd
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ 45ab
तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ 45cd
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ 46ab
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ 46cd
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ 47ab
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ 47cd
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ 48ab
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ 48cd
रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ 49ab
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ 49cd
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ 50ab
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ 50cd
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ 51ab
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ 51cd
संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ 52ab
अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ 52cd
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ 53ab
शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ 53cd
वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ 54ab
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ 54cd
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ 55ab
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ 55cd
पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ 56ab
577b

अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ 56cd
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ 57ab
तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ 57cd
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ 58ab
समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ 58cd
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ 59ab
न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ 59cd
तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ 60ab
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ 60cd
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ 61ab
उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ 61cd
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ 62ab
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ 62cd
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्दले ॥ 63ab
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ 63cd
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ 64ab
तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ 64cd
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ 65ab
ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ 65cd
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ 66ab
श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ 66cd
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ 67ab
न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ 67cd
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ 68ab
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ 68cd
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ 69ab
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ 69cd
भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ 70ab
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ 70cd
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ 71ab
गृहस्थो भार्यया सार्द्धं तदन्ये ऽपि तु केवलाः ॥ 71cd
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ 72ab
प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ 72cd
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ 73ab
शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ 73cd
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ 74ab
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ 74cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशो ऽध्यायः ॥ 27 ॥

Chapter 28

उपमन्युरुवाच ॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ 1ab
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ 1cd
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ 2ab
578a

अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ 2cd
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ 3ab
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ 3cd
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ 4ab
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ 4cd
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ 5ab
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ 5cd
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ 6ab
माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकंबलम् ॥ 6cd
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ 7ab
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ 7cd
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ 8ab
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ 8cd
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ 9ab
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ 9cd
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ 10ab
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ 10cd
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ 11ab
अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ 11cd
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ 12ab
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ 12cd
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ 13ab
आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ 13cd
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ 14ab
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ 14cd
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ 15ab
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ 15cd
निर्मितानुगुणाः कार्य्याः पुरश्चरणपूर्विकाः ॥ 16ab
शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ 16cd
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ 17ab
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ 17cd
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ 18ab
दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ 18cd
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ 19ab
कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ 19cd
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ 20ab
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ 20cd
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ 21ab
श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ 21cd
अर्द्धचर्य्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ 22ab
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ 22cd
अर्द्धार्द्धचरितो यस्तु देही देहक्षयात्परम् ॥ 23ab
अंडांतं वोर्द्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ 23cd
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ 24ab
578b

अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ 24cd
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ 25ab
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ 25cd
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ 26ab
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ 26cd
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ 27ab
तत्र विद्येश्वरैस्सार्द्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ 27cd
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ 28ab
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ 28cd
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ 29ab
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ 29cd
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ 30ab
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ 30cd
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ 31ab
तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ 31cd
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ 32ab
नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ 32cd
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ 33ab
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ 33cd
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ 34ab
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ 34cd
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ 35॥ 35ab
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः ॥ 28 ॥

Chapter 29

श्रीकृष्ण उवाच ॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ 1ab
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ 1cd
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ 2ab
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ 2cd
उपमन्युरुवाच ॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ 3ab
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ 3cd
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ 4॥ 4ab
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ 5ab
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ 5cd
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ 6ab
शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ 6cd
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ 7ab
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ 7cd
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ 8ab
शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ 8cd
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ 9ab
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ 9cd
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ 10ab
579a

तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ 10cd
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ 11ab
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ 11cd
मनोभिलषिते तत्र वितानविततांबरे ॥ 12ab
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ 12cd
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ 13ab
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ 13cd
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ 14ab
रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ 14cd
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ 15ab
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ 15cd
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ 16ab
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ 16cd
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ 17ab
कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ 17cd
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ 18ab
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ 18cd
पंचावरणसंयुक्तं पूजयेदंबया सह ॥ 19ab
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ 19cd
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ 20ab
शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ 20cd
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ 21ab
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ 21cd
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ 22ab
पंचवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ 22cd
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ 23ab
त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ 23cd
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ 24ab
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ 24cd
दंष्ट्राकरालं दुर्द्धर्षं स्फुरिताधरपल्लवम् ॥ 25ab
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ 25cd
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ 26ab
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ 26cd
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ 27ab
पंचमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ 27cd
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ 28ab
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ 28cd
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ 29ab
निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ 29cd
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ 30ab
तदूर्द्ध्वं शांत्यतीताख्यकलया परया तथा ॥ 30cd
पंचाध्वव्यापिनं साक्षात्कलापंचकविग्रहम् ॥ 31ab
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ 31cd
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ 32ab
579b

सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ 32cd
मातृकामयमीशानं पंचब्रह्ममयं तथा ॥ 33ab
ॐकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ 33cd
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ 34ab
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ 34cd
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ 35ab
मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ 35cd
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ 36ab
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ 36cd
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ 37ab
पंचोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ 37cd
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ 38ab
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ 38cd
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ 39ab
पूजयेत्परमं देवं केवलेन शिवेन वा ॥ 39cd
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ 40ab
पंचावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ 40cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमो ऽध्यायः ॥ 29 ॥

Chapter 30

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ 1ab
गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ 1cd
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ 2ab
सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ 2cd
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ 3ab
शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ 3cd
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ 4ab
अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ 4cd
प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ 5ab
द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ 5cd
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ 6ab
सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ 6cd
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ 7ab
तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ 7cd
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ 8ab
त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ 8cd
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ 9ab
तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ 9cd
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्त्तिनः ॥ 10ab
तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ 10cd
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ 11ab
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ 11cd
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ 12ab
अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ 12cd
शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्त्तयः ॥ 12 ॥ 12ef
580a

महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ 13ab
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ 13cd
कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ 14ab
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ 14cd
देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ 15ab
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ 15cd
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ 16ab
नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ 16cd
शास्तारं वह्निदिक्पत्रे मातॄर्दक्षिणदिग्दले ॥ 17ab
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ 17cd
ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ 18ab
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ 18cd
महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ 19ab
शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ 19cd
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ 20ab
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ 20cd
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्च्चिताम् ॥ 21ab
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ 21cd
गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ 22ab
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ 22cd
रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ 23ab
शिवायाश्च सखीवर्ग्गं जपेद्ध्यात्वा समाहितः ॥ 23cd
एवं तृतीयावरणे वितते पूजिते सति ॥ 24ab
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्च्चयेत् ॥ 24cd
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ 25ab
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ 25cd
चतुर्णामपि देवानां पृथगावरणान्यथ ॥ 26ab
तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ 26cd
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ 27ab
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ 27cd
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ 28ab
पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ 28cd
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ 29ab
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ 29cd
विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ 30ab
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ 30cd
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ 31ab
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ 31cd
सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ 32ab
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ 32cd
शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ 33ab
समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ 33cd
अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ 34ab
580b

तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ 34cd
सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ 35ab
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ 35cd
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ 36ab
सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ 36cd
एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ 37ab
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ 37cd
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ 38ab
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ 38cd
हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ 39ab
कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ 39cd
त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ 40ab
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ 40cd
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ 41ab
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ 41cd
तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ 42ab
अष्टौ पूर्वांश्च पूर्व्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ 42cd
दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ 43ab
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ 43cd
वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ 44ab
तेषां भार्य्याश्च तैस्सार्द्धं पूजनीया यथाक्रमम् ॥ 44cd
प्रसूतिश्च तथा ऽऽकूतिः ख्यातिः सम्भूतिरेव च ॥ 45ab
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ 45cd
देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ 46ab
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ 46cd
प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ 47ab
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ 47cd
तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ 48ab
वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ 48cd
पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ 49ab
अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ 49cd
एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ 50ab
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ 50cd
तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ 51ab
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ 51cd
तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ 52ab
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ 52cd
त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ 53ab
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ 53cd
तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ 54ab
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ 54cd
एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ 55ab
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ 55cd
वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ 56ab
581a

अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ 56cd
सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ 57ab
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ 57cd
मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ 58ab
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ 58cd
तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ 59ab
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ 59cd
पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ 60ab
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ 60cd
महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ 61ab
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ 61cd
पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ 61 ॥ 61ef
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ 62ab
गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ 62cd
एवं भान्वादिमूर्त्तीनां तच्छक्तीनामनंतरम् ॥ 63ab
पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ 63cd
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ 64ab
वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ 64cd
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ 65ab
आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ 65cd
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ 66ab
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ 66cd
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ 67ab
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ 67cd
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ 68ab
पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ 68cd
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ 69ab
पञ्चमे मातृभिस्सार्द्धं महोक्ष पुरतो यजेत् ॥ 69cd
ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ 70ab
खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ 70cd
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ 71ab
डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ 71cd
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ 72ab
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ 72cd
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ 73ab
नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ 73cd
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ 74ab
बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ 74cd
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ 75ab
यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ 75cd
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ 76ab
तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ 76cd
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ 77ab
581b

प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ 77cd
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ 78ab
पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ 78cd
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ 79ab
सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ 79cd
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ 80ab
साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ 80cd
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ 81ab
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ 81cd
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ 82ab
वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ 82cd
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ 83ab
न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ 83cd
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ 84ab
कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ 84cd
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ 85ab
भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ 85cd
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ 86ab
जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ 86cd
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ 87ab
यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ 87cd
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ 88ab
मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ 88cd
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ 89ab
अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ 89cd
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ 90ab
समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ 90cd
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ 91ab
न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ 91cd
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ 92ab
ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ 92cd
इदमस्य फलं नेदमिति नैव नियम्यते ॥ 93ab
श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ 93cd
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ 94ab
चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ 94cd
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ 95ab
लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ 95cd
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ 96ab
महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ 96cd
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ 97ab
फलेषु दृष्टादृष्टेषु कुर्य्यादेतद्विचक्षणः ॥ 97cd
महत्स्वपि च पातेषु महारागभयादिषु ॥ 98ab
दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्य्यादनेन तु ॥ 98cd
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ 99ab
आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ 99cd
582a

तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ 100ab
इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ 100cd
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ 101ab
सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ 101cd
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ 102ab
अष्टाभ्यां वा चतुर्दश्यां फलमर्द्धं समाप्नुयात् ॥ 102cd
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ 103ab
मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ 103cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशो ऽध्यायः ॥ 30 ॥

Chapter 31

उपमन्युरुवाच ॥
स्तोत्रं वक्ष्यामि ते कृष्ण पंचावरणमार्गतः ॥ 1ab
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ 1cd
जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ 2ab
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ 2cd
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ 3ab
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ 3cd
अनन्तकांतिसंपन्न जयासदृशविग्रह ॥ 4ab
अतर्क्यमहिमाधार जयानाकुलमंगल ॥ 4cd
निरंजन निराधार जय निष्कारणोदय ॥ 5ab
निरन्तरपरानन्द जय निर्वृतिकारण ॥ 5cd
जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ 6ab
जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥ 6cd
जयावृतमहाविश्व जयानावृत केनचित् ॥ 7ab
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ 7cd
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ 8ab
जयामेय जयामाय जयाभाव जयामल ॥ 8cd
महाभुज महासार महागुण महाकथ ॥ 9ab
महाबल महामाय महारस महारथ ॥ 9cd
नमः परमदेवाय नमः परमहेतवे ॥ 10ab
नमश्शिवाय शांताय नमश्शिवतराय ते ॥ 10cd
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ 11ab
अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ 12ab
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ 13ab
भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥ 13cd
जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥ 14ab
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ 14cd
जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥ 15ab
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ 15cd
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ 16ab
जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ 16cd
जय मंगलदिव्यांगि जय मंगलदीपिके ॥ 17ab
जय मंगलचारित्रे जय मंगलदायिनि ॥ 17cd
नमः परमकल्याणगुणसंचयमूर्तये ॥ 18ab
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ 18cd
582b

त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ 19ab
जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ 19cd
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ 20ab
पंचवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ 20cd
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ 21ab
शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥ 21cd
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ 21 ॥ 21ef
सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥ 22ab
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ 22cd
शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥ 23ab
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ 23cd
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ 24ab
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ 24cd
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ 25ab
स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥ 25cd
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ 26ab
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ 26cd
शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥ 27ab
मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ 27cd
शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥ 28ab
पंचाक्षरांतिमं बीजं कलाभिः पंचभिर्युतम् ॥ 28cd
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ 29ab
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ 29cd
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ 30ab
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ 30cd
शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ 31ab
प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ 31cd
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ 32ab
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ 32cd
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ 33ab
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ 33cd
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ 34ab
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ 34cd
शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ 35ab
पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ 35cd
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ 36ab
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ 36cd
वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ 37ab
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ 37cd
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ 38ab
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ 38cd
शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ 39ab
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ 39cd
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ 40ab
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ 40cd
583a

देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ 41ab
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु॥ 41cd
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ 42ab
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ 42cd
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ 43ab
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ 43cd
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ 44ab
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ 44cd
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ 45ab
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ 45cd
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ 46ab
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ 46cd
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ 47ab
बलो विकरणश्चैव बलप्रमथनः परः ॥ 47cd
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ 48ab
प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥ 48cd
अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ 49ab
एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥ 49cd
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ 50ab
ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥ 50cd
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ 51ab
महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ 51cd
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ 52ab
सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥ 52cd
वृक्षराजो महातेजा महामेघसमस्वनः ॥ 53ab
मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥ 53cd
सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ 54ab
महाभोगींद्रकल्पेन वालेन च विराजितः ॥ 54cd
रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥ 55ab
पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥ 55cd
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ 56ab
शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ 56cd
तथा तच्चरणन्यासपावितापरविग्रहः ॥ 57ab
गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ 57cd
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ 57 ॥ 57ef
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ 58ab
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥ 58cd
शर्वस्यांतःपुरद्वारि सार्द्धं परिजनैः स्थितः ॥ 59ab
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ 59cd
सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ 60ab
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ 60cd
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ 61ab
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ 61cd
महाकालो महाबाहुर्महादेव इवापरः ॥ 62ab
583b

महादेवाश्रितानां 1 तु नित्यमेवाभिरक्षतु ॥ 62cd
शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ 63ab
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ 63cd
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ 64ab
महामोहात्मतनयो मधुमांसासवप्रियः ॥ 64cd
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ 64 ॥ 64ef
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ 65ab
वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥ 65cd
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ 66ab
प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ 66cd
मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ 67ab
आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ 67cd
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ 68ab
शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ 68cd
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ 69ab
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ 69cd
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ 70ab
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ 70cd
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥ 71ab
विशाखेन च शाखेन नैगमेयेन चावृतः ॥ 71cd
इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥ 72ab
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ 72cd
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ 73ab
कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ 73cd
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ 74ab
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ 74cd
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ 75ab
तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ 75cd
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥ 76ab
जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ 76cd
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ 77ab
दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ 77cd
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ 78ab
अपर्णायाश्च जननी पाटलायास्तथैव च ॥ 78cd
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ 79ab
सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥ 79cd
चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥ 80ab
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ 80cd
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ 81ab
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ 81cd
भृंगीशो नाम गणपः शिवराधनतत्परः ॥ 82ab


1 सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी ।

584a


प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ 82cd
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥ 83ab
भद्रकालीप्रियो नित्यं मातॄणां चाभिरक्षिता ॥ 83cd
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ 84ab
उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥ 84cd
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ 85ab
शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥ 85cd
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ 86ab
शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ 86cd
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ 87ab
शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥ 87cd
महामोटी महादेव्याः पादपूजापरायणा ॥ 88ab
तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ 88cd
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ 89ab
विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ 89cd
निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥ 90ab
सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥ 90cd
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ 91ab
भूताख्याश्च महावीर्य्या महादेवसमप्रभाः ॥ 91cd
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ 92ab
सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ 92cd
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ 93ab
परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ 93cd
परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ 94ab
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ 94cd
सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥ 95ab
विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ 95cd
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥ 96ab
देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ 96cd
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ 97ab
तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥ 97cd
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ 98ab
दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥ 98cd
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ 99ab
अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ 99cd
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ 100ab
एवं त्रिधा चतुर्द्धा च विभक्ताः पंचधा पुनः ॥ 100cd
चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥ 101ab
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ 101cd
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ 102ab
दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥ 102cd
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ 103ab
अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ 103cd
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ 104ab
584b

उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥ 104cd
सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥ 105ab
शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥ 105cd
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ 106ab
ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥ 106cd
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ 107ab
सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥ 107cd
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ 108ab
सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ 108cd
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ 109ab
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ 109cd
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ 110ab
अविकारात्मको देवस्ततस्साधारणः पुरः ॥ 110cd
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ 111ab
भुवं त्रिधा चतुर्द्धा च विभक्तः पंचधा पुनः ॥ 111cd
चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥ 112ab
शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ 112cd
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ 113ab
हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥ 113cd
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ 114ab
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ 114cd
एकादश सपत्नीका धर्मस्संकल्प एव च ॥ 115ab
शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ 115cd
शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥ 116ab
चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ 116cd
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ 117ab
परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ 117cd
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ 118ab
अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥ 118cd
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ 119ab
शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥ 119cd
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ 120ab
अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ 120cd
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ 121ab
ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ 121cd
जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ 122ab
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ 122cd
अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ 123ab
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ 123cd
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ 124ab
तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥ 124cd
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ॥ 125ab
शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ 125cd
585a

शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥ 125 ॥ 125ef
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ 126ab
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ 126cd
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ 127ab
अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ 127cd
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ 128ab
दक्षिणांगभवेनापि स्पर्द्धमानः स्वयंभुवा ॥ 128cd
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ 129ab
अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ 129cd
असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥ 130ab
प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ 130cd
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ 131ab
अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ 131cd
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ 132ab
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ 132cd
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ 133ab
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ 133cd
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ 134ab
संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ 134cd
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ 135ab
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ 135cd
चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥ 136ab
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ 136cd
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ 137ab
शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥ 137cd
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ 138ab
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ 138cd
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ 139ab
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ 139cd
त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ । 140ab
खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥ 140cd
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ 141ab
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥ 141cd
वृषरूपधरो देवः सौरभेयो महाबलः ॥ 142ab
वडवाख्यानलस्पर्द्धां पञ्चगोमातृभिर्वृतः ॥ 142cd
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ 143ab
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ 143cd
नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥ 144ab
पंचगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ 144cd
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ 145ab
शिवयोः शासनादेव दिशंतु मम वांछितम् ॥ 145cd
क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ 146ab
दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ 146cd
रक्तोर्द्ध्वमूर्द्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ 147ab
585b

रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ 147cd
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ 148ab
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ 148cd
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ 149ab
शिवप्रणामपरमः शिवसद्भावभावितः ॥ 149cd
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ 150ab
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ 150cd
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ 151ab
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ 151cd
भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥ 152ab
ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥ 152cd
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ 153ab
साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ 153cd
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ 154ab
सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ 154cd
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ 155ab
शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् 1 155cd
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥ 156ab
सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ 156cd
असुरा राक्षसाश्चैव पातालतलवासिनः ॥ 157ab
अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ 157cd
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ 158ab
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ 158cd
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ 159ab
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ 159cd
गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥ 160ab
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ 160cd
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ 161ab
अण्डान्यावरणैस्सार्द्धं मासाश्च दश दिग्गजाः ॥ 161cd
वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥ 162ab
ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ 162cd
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ 163ab
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ 163cd
अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ 164ab
पंचार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ 164cd
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ 165ab
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥ 165cd
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ 166ab
शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ 166cd


1 सर्वाभिलाषमित्यर्थः ।

586a


ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ 167ab
कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ 167cd
श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥ 168ab
तत्संततीया गुरवो विशेषाद्गुरवो मम ॥ 168cd
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ 169ab
कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ 169cd
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ 170ab
वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ 170cd
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ 171ab
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ 171cd
शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥ 172ab
कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥ 172cd
शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥ 173ab
शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ 173cd
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ 174ab
सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥ 174cd
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ 175ab
अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥ 175cd
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ 176ab
पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥ 176cd
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ 177ab
सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥ 177cd
नमश्शिवाय सांबाय ससुतायादिहेतवे ॥ 178ab
पंचावरणरूपेण प्रपंचेनावृताय ते ॥ 178cd
इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ 179ab
जपेत्पंचाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ 179cd
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ 180ab
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ 180cd
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥ 181ab
सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ 181cd
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ 182ab
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ 182cd
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ 183ab
शरणागतघाती च मित्रविश्रंभघातकः ॥ 183cd
दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ 184ab
स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ 184cd
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ 185ab
यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ 185cd
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ 186ab
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ 186cd
असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ 187ab
संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ 187cd
586b

आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥ 188ab
सार्द्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ 188cd
तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥ 189ab
कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ 189cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः ॥ 31 ॥

Chapter 32

उपमन्युरुवाच ॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ 1ab
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ 1cd
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ 2ab
पूजाहोमजपध्यानतपोदानमयं महत् ॥ 2cd
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ 3ab
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ 3cd
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ 4ab
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ 4cd
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ 5ab
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ 5cd
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ 6ab
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ 6cd
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ 7ab
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ 7cd
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ 8ab
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ 8cd
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ 9ab
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ 9cd
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ 10ab
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ 10cd
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ 11ab
सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ 11cd
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ 12ab
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ 12cd
आलिप्य शकृता 1 भूमिं हस्तमानावरां यथा ॥ 13ab
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ 13cd
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ 14ab
मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ 14cd
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ 15ab
तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ 15cd
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ 16ab
रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ 16cd
लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ 16 ॥ 16ef
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ 17ab
तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ 17cd


1 गोरिति शेषः ।

587a


चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ 18ab
शार्दूलचर्मवसना किंचिद्विहसितानना ॥ 18cd
वरदाभयहस्ता च मृगटंकधरा तथा ॥ 19ab
अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ 19cd
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ 20ab
वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ 20cd
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ 21ab
तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ 21cd
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ 22ab
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ 22cd
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ 23ab
तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ 23cd
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ 24ab
मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ 24cd
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ 25ab
स्नानार्थे कल्पयेत्तत्र पंचगव्यं तु कापिलम् ॥ 25cd
पंचामृतं च पूर्णानि बीजानि च विशेषतः ॥ 26ab
पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ 26cd
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ 27ab
सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ 27cd
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ 28ab
तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ 28cd
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ 29ab
दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ 29cd
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ 30ab
स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ 30cd
पंचगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ 31ab
ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ 31cd
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ 32ab
उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ 32cd
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ 33ab
पलावरः स्यादालेप एकादशपलोत्तरः ॥ 33cd
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ 34ab
नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ 34cd
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ 35ab
कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ 35cd
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ 36ab
पंचब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ 36cd
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ 37ab
पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ 37cd
पंचसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ 38ab
सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ 38cd
587b

वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ 39ab
दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ 39cd
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ 40ab
एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ 40cd
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ 41ab
घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ 41cd
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ 42ab
चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ 42cd
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ 43ab
तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ 43cd
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ 44ab
चरुणा सघृतेनैव केवलं पयसापि वा ॥ 44cd
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ 45ab
घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ 45cd
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ 46ab
जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ 46cd
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ 47ab
तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ 47cd
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ 48ab
ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ 48cd
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ 49ab
विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ 49cd
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ 50ab
रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ 50cd
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ 51ab
कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ 51cd
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ 52ab
ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ 52cd
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ 53ab
क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ 53cd
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ 54ab
द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा । 54cd
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ 55ab
बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ 55cd
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ 56ab
करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ 56cd
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ 57ab
निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ 57cd
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ 58ab
आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ 58cd
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ 59ab
यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ 59cd
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ 60ab
मनसा कर्म्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ 60cd
588a

स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ 61ab
कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ 61cd
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ 62ab
न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ 62cd
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ 63ab
पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ 63cd
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ 64ab
स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ 64cd
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ 65ab
मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ 65cd
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ 66ab
सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ 66cd
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ 67ab
द्विस्त्रिर्वावर्त्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ 67cd
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ 68ab
तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ 68cd
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ 69ab
अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ 69cd
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ 70ab
सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ 70cd
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ 71ab
कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ 71cd
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ 72ab
गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ 72cd
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ 73ab
फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ 73cd
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ 74ab
अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ 74cd
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ 75ab
पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ 75cd
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ 76ab
शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ 76cd
विषायते यदमृतं विषमप्यमृतायते ॥ 77ab
स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ 77cd
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ 78ab
पद्माकरायते वह्निः सरो वैश्वानरायते ॥ 78cd
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ 79ab
सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ 79cd
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ 80ab
स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ 80cd
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ 81ab
महावातायते शक्तिर्बलं मत्तगजायते ॥ 81cd
588b

स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ 82ab
शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ 82cd
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ 83ab
आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ 83cd
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ 84ab
अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ 84cd
अनागतादिकं सर्वं करस्थामलकायते ॥ 85ab
यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ 85cd
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ 86ab
अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ 86cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः ॥ 32 ॥

Chapter 33

उपमन्युरुवाच ॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ 1ab
नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ 1cd
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ 2ab
ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ 2cd
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ 3ab
विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ 3cd
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ 4ab
नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ 4cd
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ 5ab
सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ 5cd
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ 6ab
अनेन विधिना सर्वे देवा देवत्वमागताः ॥ 6cd
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ 7ab
रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ 7cd
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ 8ab
सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ 8cd
श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ 8 ॥ 8ef
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ 9ab
विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ 9cd
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ 10ab
अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ 10cd
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ 11ab
अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ 11cd
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ 12ab
सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ 12cd
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ 13ab
वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ 13cd
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ 14ab
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ 14cd
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ 15ab
सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ 15cd
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ 16ab
एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ 16cd
589a

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 17ab
एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ 17cd
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ 18ab
देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ 18cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः ॥ 33 ॥

Chapter 34

उपमन्युरुवाच ॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ 1ab
सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ 1cd
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ 2ab
तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ 2cd
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ 3ab
लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ 3cd
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ 4ab
पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ 4cd
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ 5ab
स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ 5cd
श्रीकृष्ण उवाच ॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ 6ab
कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ 6cd
उपमन्युरुवाच ॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ 7ab
अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ 7cd
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ 8ab
तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ 8cd
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ 9ab
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ 9cd
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ 10ab
अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ 10cd
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ 11ab
ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ 11cd
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ 12ab
लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ 12cd
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ 13ab
लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ 13cd
तयोः संपूजनादेव स च सा च समर्चितौ ॥ 14ab
न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ 14cd
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ 15ab
तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ 15cd
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ 16ab
न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ 16cd
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ 17ab
पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ 17cd
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ 18ab
589b

यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ 18cd
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ 19ab
मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ 19cd
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ 20ab
स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ 20cd
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ 21ab
तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ 21cd
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ 22ab
इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ 22cd
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ 23ab
वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ 23cd
मां न जानासि किं नाथं प्रपंचो यस्य मे कृतिः ॥ 24ab
त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ 24cd
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ 25ab
इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ 25cd
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ 26ab
भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ 26cd
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ 27ab
सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि॥ 27cd
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ 28ab
तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ 28cd
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ 29ab
मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ 29cd
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ 30ab
कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ 30cd
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ 31ab
अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ 31cd
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ 32ab
तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ 32cd
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ 33ab
ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ 33cd
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ 34ab
तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ 34cd
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ 35ab
न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ 35cd
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ 36॥ 36ab
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः॥ 37ab
मनोनिलजवो भूत्वा गतस्तूर्द्ध्वं प्रयत्नतः ॥ 37cd
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ 38ab
वाराहममितं रूपमस्थाय गतवानधः ॥ 38cd
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ 39ab
नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ 39cd
तावत्कालं गतश्चोर्द्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ 40ab
श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ 40cd
590a

तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ 41ab
क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ 41cd
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ 42ab
मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ 42cd
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ 43ab
प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ 43cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशो ऽध्यायः ॥ 34 ॥

Chapter 35

उपमन्युरुवाच ॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ 1ab
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ 1cd
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ 2ab
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ 2cd
तदा विभक्तमभवच्चतुर्द्धैकं तदक्षरम् ॥ 3ab
अ उ मेति त्रिमात्राभिः परस्ताच्चार्द्धमात्रया ॥ 3cd
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ 4ab
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ 4cd
अर्द्धमात्रात्मको नादः श्रूयते लिंगमूर्द्धनि ॥ 5ab
विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ 5cd
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ 6ab
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ 6cd
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ 7ab
मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ 7cd
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ 8ab
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ 8cd
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ 9ab
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पंचसु ॥ 9cd
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ 10ab
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ 10cd
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ 11ab
अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ 11cd
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ 12ab
स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ 12cd
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पंचसु ॥ 13ab
मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ 13cd
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ 14ab
ततोपस्थापयामास सामार्थं दशधात्मनः ॥ 14cd
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ 15ab
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ 15cd
विद्याकलास्वघोरं च तथा ब्रह्मसु पंचसु ॥ 16ab
लिंगभागेषु पीठोर्द्ध्वं बीजिनं कारणत्रये ॥ 16cd
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ 17ab
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ 17cd
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ 18ab
590b

क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ 18cd
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ 19ab
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ 19cd
तदूर्द्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ 20ab
सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ 20cd
तदूर्द्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ 21ab
शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ 21cd
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पंचसु ॥ 22ab
मूर्द्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ 22cd
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ 23ab
तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ 23cd
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ 24ab
कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ 24cd
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ 25ab
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ 25cd
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ 26ab
पंचवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ 26cd
तस्मादपि पराद्बिंदोरर्द्धेदोश्च ततः परात् ॥ 27ab
ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ 27cd
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ 28ab
ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ 28cd
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ 29ab
कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ 29cd
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ 30ab
सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ 30cd
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ 31ab
अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ 31cd
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ 32ab
परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ 32cd
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ 33ab
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ 33cd
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ 34ab
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ 34cd
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ 35ab
यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ 35cd
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ 36ab
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ 36cd
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ 37ab
अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ 37cd
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ 38ab
अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ 38cd
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ 39ab
591a

अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ 39cd
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ 40ab
द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ 40cd
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ 41ab
यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ 41cd
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ 42ab
सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ 42cd
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ 43ab
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ 43cd
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ 44ab
चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ 44cd
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ 45ab
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ 45cd
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ 46ab
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ 46cd
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ 47ab
वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ 47cd
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ 48ab
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ 48cd
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ 49॥ 49ab
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ 50ab
कारणत्रयहेतुश्च शिवः परमकारणम् ॥ 50cd
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ 51ab
युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ 51cd
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ 52ab
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ 52cd
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ 53ab
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ 53cd
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ 54ab
लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ 54cd
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ 55ab
प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ 55cd
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ 56ab
ततः परतरं धाम धामवंतं च पूरुषम् ॥ 56cd
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ 57ab
पशुपाशमयस्यास्य प्रपंचस्य सदा पतिम् ॥ 57cd
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ 58ab
वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ 58cd
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ 59ab
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ 59cd
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ 60ab
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ 60cd
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ 61ab
रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ 61cd
591b

ब्रह्मोवाच ॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ 62ab
ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ 62cd
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ 63ab
निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ 63cd
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ 64ab
पादप्रणामफलदो नाथस्य भवतो यतः ॥ 64cd
विष्णुरुवाच ॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ 65ab
प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ 65cd
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ 66ab
अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ 66cd
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ 67ab
मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ 67cd
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ 68ab
यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ 68cd
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ 69ab
अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ 69cd
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ 70ab
प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ 70cd
ईश्वर उवाच ॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ 71ab
युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ 71cd
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ 72ab
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ 72cd
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ 73ab
तन्निवर्तयितुं युष्मद्दर्प्पमोहौ मयैव तु ॥ 73cd
एवं निवारितावद्यलिंगाविर्भावलीलया ॥ 74ab
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ 74cd
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ 75ab
पुरा ममाज्ञया सार्द्धं समस्तज्ञानसंहिताः ॥ 75cd
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ 76ab
मंत्ररत्नं च सूत्राख्यं पंचाक्षरमयं परम् ॥ 76cd
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ 77ab
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ 77cd
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ 78ab
एवमुक्त्वा महादेवो नारायणपितामहौ ॥ 78cd
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ 79ab
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ 79cd
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ 80ab
दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ 80cd
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ 81ab
एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ 81cd
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ 82ab
ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ 82cd
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ 83ab
अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ 83cd
592a

अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ 84ab
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ 84cd
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ 85ab
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ 85cd
लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ 85 ॥ 85ef
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पंचत्रिंशो ऽध्यायः ॥ 35 ॥

Chapter 36

श्रीकृष्ण उवाच ॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ 1ab
लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ 1cd
उपमन्युरुवाच ॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ 2ab
शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ 2cd
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ 3ab
दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ 3cd
तेषां दशोपचाराणां पूर्वं पूज्य 1 विनायकम् ॥ 4ab
स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ 4cd
शलाकया कांचनया 2 कुंकुमादिरसाक्तया ॥ 5ab
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ 5cd
अष्टमृत्सलिलैर्वाथ पंचमृत्सलिलैस्तथा ॥ 6ab
लिङ्गं पिंडिकया सार्द्धं पंचगव्यैश्च शोधयेत् ॥ 6cd
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ 7ab
नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ 7cd
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ 8ab
सतोरणे सावरणे दर्भमालासमावृते ॥ 8cd
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ 9ab
अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ 9cd
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ 10ab
विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ 10cd
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ 11ab
समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ 11cd
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ 12ab
सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ 12cd
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ 13ab
प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ 13cd
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ 14ab
पंचरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ 14cd
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ 15ab
संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ 15cd
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ 16ab
शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ 16cd
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ 17ab


1 ल्यबार्षः ।
2 डिढ्ढणञिति ड़ीबभाव आर्षः ।

592b


शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ 17cd
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ 18ab
तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ 18cd
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ 19ab
प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ 19cd
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ 20ab
रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ 20cd
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ 21ab
पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ 21cd
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्द्धनीम् ॥ 22ab
परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ 22cd
ते चाष्टमूर्त्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ 23ab
चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ 23cd
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ 24ab
दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ 24cd
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ 25ab
आचार्य्यात्पादमर्द्धं वा जुहुयुश्चापरे द्विजाः ॥ 25cd
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ 26ab
पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ 26cd
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ 27ab
शतमर्द्धं तदर्द्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ 27cd
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ 28ab
पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ 28cd
आचार्यात्पादमर्द्धं वा होतॄणां स्थपतेरपि ॥ 29ab
तदर्द्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ 29cd
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ 30ab
मृदंभसा पंचगव्यैः पुनः शुद्धजलेन च ॥ 30cd
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ 31ab
करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ 31cd
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ 32ab
शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ 32cd
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ 33ab
स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ 33cd
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ 34ab
पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ 34cd
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ 35ab
दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ 35cd
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ 36ab
आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ 36cd
महापूजामथारभ्य संपूज्य कलशान्दश ॥ 37ab
शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ 37cd
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ 38ab
न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ 38cd
593a

शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ 39ab
लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ 39cd
वर्द्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ 40ab
अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ 40cd
कृत्वा पंचकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ 41ab
आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ 41cd
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ 42ab
अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ 42cd
सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ 42 ॥ 42ef
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ 43ab
आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ 43cd
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ 44ab
ततः पंचोपचारांश्च कृत्वा पूजां समापयेत् ॥ 44cd
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ 45ab
प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ 45cd
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ 46ab
जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ 46cd
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ 47ab
कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ 47cd
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ 48ab
अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ 48cd
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ 49ab
गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ 49cd
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ 50ab
अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ 50cd
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ 51ab
विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ 51cd
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ 52ab
पंच ब्रह्माणि तद्बीजैस्तेषु पंचसु पंचभिः ॥ 52cd
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ 53ab
विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ 53cd
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ 54ab
निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ 54cd
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ 55ab
कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ 55cd
ततः पंचकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ 56ab
नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ 56cd
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ 57ab
न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ 57cd
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ 58ab
संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ 58cd
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ 59ab
तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ 59cd
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ 60ab
स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ 60cd
593b

अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ 61ab
यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ 61cd
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ 62ab
संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ 62cd
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ 63ab
उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ 63cd
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ 64ab
द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ 64cd
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ 65ab
प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ 65cd
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ 66ab
अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ 66cd
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ 67ab
प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ 67cd
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ 68ab
पंचवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ 68cd
ततो मूलेन मूर्द्धादिपीठांतं संस्पृशेदपि ॥ 69ab
पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ 69cd
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ 70ab
वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ 70cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्ततिष्ठाविधिवर्णनं नाम षट्त्रिंशो ऽध्यायः ॥ 36 ॥

Chapter 37

शीकृष्ण उवाच ॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ 1ab
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ 1cd
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ 2ab
साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ 2cd
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ 3ab
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ 3cd
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ 4ab
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ 4cd
उपमन्युरुवाच ॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ 5ab
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ 5cd
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ 6ab
या वृत्तिः स समासेन योगः स खलु पंचधा ॥ 6cd
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ 7ab
अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ 7cd
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ 8ab
अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ 8cd
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ 9ab
स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ 9cd
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ 10ab
594a

अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ 10cd
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ 11ab
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ 11cd
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ 12ab
यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ 12cd
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ 13ab
दर्शनादेव सततं विरक्तं जायते मनः ॥ 13cd
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ 14ab
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ 14cd
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ 15ab
समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ 15cd
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ 16ab
ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ 16cd
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ 17ab
शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ 17cd
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ 18ab
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ 18cd
यम इत्युच्यते सद्भिः पंचावयवयोगतः ॥ 18 ॥ 18ef
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ 19ab
इति पंचप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ 19cd
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ 20ab
पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ 20cd
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ 21ab
तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ 21cd
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ 22ab
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ 22cd
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ 23ab
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ 23cd
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ 24ab
संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ 24cd
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ 25ab
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ 25cd
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ 26ab
स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ 26cd
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ 27ab
तच्चतुर्द्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ 27cd
कन्यकस्तु चतुर्द्धा स्यात्स च द्वादशमात्रकः ॥ 28ab
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ 28cd
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ 29ab
स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ 29cd
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ 30ab
जल्पभ्रमणमूर्च्छाद्यं जायते योगिनः परम् ॥ 30cd
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ 31ab
अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ 31cd
594b

मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ 32ab
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ 32cd
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ 33ab
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ 33cd
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ 34ab
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ 34cd
प्राणस्य विजयादेव जीयंते देह 1वायवः ॥ 35ab
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ 35cd
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ 36ab
प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ 36cd
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ 37ab
व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ 37cd
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ 38ab
समं नयति सर्वांगं समानस्तेन गीयते ॥ 38cd
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ 39ab
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ 39cd
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ 40ab
क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ 40cd
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ 41ab
प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत् ॥ 41cd
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ 42ab
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ 42cd
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ 43ab
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ 43cd
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ 44ab
तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ 44cd
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ 45ab
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ 45cd
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ 46ab
नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ 46cd
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ 47ab
तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ 47cd
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ 48ab
धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ 48cd
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ 49ab
कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ 49cd
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ 50ab
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ 50cd
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ 51ab
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ 51cd
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ 52ab
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ 52cd


1 दश वायव इति पाठान्तरम् ।

595a


प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ 53ab
सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ 53cd
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ 54ab
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ 54cd
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ 55ab
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ 55cd
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ 56ab
इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ 56cd
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ 57ab
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ 57cd
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ 58ab
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ 58cd
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ 59ab
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ 59cd
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ 60ab
ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ 60cd
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ 61ab
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ 61cd
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ 62ab
स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ 62cd
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ 63ab
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ 63cd
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ 64ab
न च स्पर्शं विजानाति न संकल्पयते मनः ॥ 64cd
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ 65ab
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ 65cd
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ 66ab
तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ 66cd
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ 67ab
तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ 67cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशो ऽध्यायः ॥ 37 ॥

Chapter 38

उपमन्युरुवाच ॥
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ 1ab
अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ 1cd
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ 2ab
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ 2cd
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ 3ab
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ 3cd
प्रमादो नाम योगस्य साधना नाम भावना ॥ 4ab
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ 4cd
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ 5ab
595b

अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ 5cd
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ 6ab
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ 6cd
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ 7ab
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ 7cd
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ 8ab
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ 8cd
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ 9ab
उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ 9cd
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ 10ab
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ 10cd
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ 11ab
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ 11cd
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ 12ab
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ 12cd
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ 13ab
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ 13cd
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ 14ab
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ 14cd
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ 15ab
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ 15cd
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ 16ab
सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ 16cd
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ 17ab
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ 17cd
कृशता स्थूलता बाल्यं वार्द्धक्यं चैव यौवनम् ॥ 18ab
नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ 18cd
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ 19ab
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ 19cd
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ 20ab
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ 20cd
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ 21ab
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ 21cd
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ 22ab
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ 22cd
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ 23ab
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ 23cd
शरीरादग्निनिर्माणं तत्तापभयवर्ज्जनम् ॥ 24ab
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ 24cd
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ 25ab
दग्धे सर्गे यथापूर्व्वं मुखे चान्नादिपाचनम् ॥ 25cd
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ 25 ॥ 25ef
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ 26ab
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ 26cd
596a

पर्व्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ 27ab
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ 27cd
अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ 28ab
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ 28cd
द्वात्रिंशद्गुणमैश्वर्य्यं मारुतं कवयो विदुः ॥ 29ab
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ 29cd
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ 30ab
आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ 30cd
आकाशपिण्डीकरणमशरीरत्वमेव च ॥ 31ab
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ 31cd
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ 32ab
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ 32cd
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ 33ab
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ 33cd
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ 34ab
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ 34cd
छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ 35ab
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ 35cd
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ 36ab
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ 36cd
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ 37ab
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ 37cd
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ 38ab
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ 38cd
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ 39ab
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ 39cd
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ 40ab
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ 40cd
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ 40 ॥ 40ef
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ 41ab
विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ 41cd
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ 42ab
निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ 42cd
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ 43ab
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ 43cd
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ 44ab
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ 44cd
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ 45ab
यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ 45cd
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ 46ab
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ 46cd
विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ 46 ॥ 46ef
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ 47ab
मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ 47cd
कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ 48ab
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ 48cd
596b

न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ 49ab
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ 49cd
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ 50ab
नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ 50cd
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ 51ab
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ 51cd
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ 52ab
न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ 52cd
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ 53ab
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ 53cd
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ 54ab
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ 54cd
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ 55ab
अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ 55cd
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ 56ab
किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ 56cd
दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ 57ab
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ 57cd
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ 58ab
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ 58cd
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ 59ab
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 59cd
संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ 60ab
स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ 60cd
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ 61ab
मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ 61cd
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ 62ab
परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ 62cd
तत्र सावरणं वापि निरावरणमेव वा ॥ 63ab
द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ 63cd
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ 64ab
भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ 64cd
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ 65ab
विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ 65cd
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ 66ab
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ 66cd
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ 67ab
भानुवर्णस्य पद्मस्य ध्येयं तद् 1धृदयान्तरे ॥ 67cd
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ 68ab
अधो दलस्याम्बुजस्य एतस्य 2 च दलानि षट् ॥ 68cd
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ 69ab
मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ 69cd


1 रूपमिति शेषः ।
2 सन्ध्यभाव आर्षः ।

597a


वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ 69 ॥ 69ef
एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ 70ab
तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ 70cd
अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ 71ab
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ 71cd
इन्दुरेखासमाकारं तारारूपमथापि वा ॥ 72ab
नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ 72cd
कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ 73ab
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ 73cd
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ 74ab
सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ 74cd
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ 75ab
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ 75cd
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ 76ab
घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ 76cd
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ 77ab
सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ 77cd
सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ 78॥ 78ab
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशो ऽध्यायः ॥ 38 ॥

Chapter 39

उपमन्युरुवाच ॥
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ 1ab
प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ 1cd
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ 2ab
स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ 2cd
शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ 3ab
मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ 3cd
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ 4ab
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ 4cd
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ 5ab
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ 5cd
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ 6ab
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ 6cd
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ 7ab
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ 7cd
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ 8ab
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ 8cd
निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ 9ab
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ 9cd
अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ 10ab
प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ 10cd
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ 11ab
शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ 11cd
597b

तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ 12ab
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ 12cd
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ 13ab
कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ 13cd
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ 14ab
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ 14cd
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ 14 । 14ef
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ 15ab
श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ 15cd
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ 16॥ 16ab
योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ 17ab
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ 17cd
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ 18ab
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ 19ab
ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ 19cd
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ 20ab
शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ 20cd
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ 21ab
तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ 21cd
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ 22ab
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ 22cd
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्ज्जितम् ॥ 23ab
योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ 23cd
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ 24ab
पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ 24cd
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ 25ab
तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ 25cd
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ 26ab
योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ 26cd
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ 27ab
यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ 27cd
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ 28ab
नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ 28cd
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ 29ab
योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ 29cd
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ 30ab
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ 30cd
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ 31ab
तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ 31cd
बहिस्करा यथा लोके नातीव फलभोगिनः ॥ 32ab
598a

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ 32cd
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ 33ab
योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ 33cd
अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ 34ab
ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्त्तते ॥ 34cd
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ 35ab
न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ 35cd
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ 36ab
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ 36cd
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ 37ab
योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ 37cd
ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ 38ab
श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ 38cd
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ 39ab
तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ 39cd
ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ 39 ॥ 39ef
ते विदंति महाभोगानंते योगं च शांकरम् ॥ 40ab
भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ 40cd
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ 41ab
योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ 41cd
वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ 42ab
न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ 42cd
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ 43ab
सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ 43cd
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ 44ab
सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ 44cd
सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ 45ab
भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ 45cd
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ 46ab
त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ 46cd
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ 47ab
स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ 47cd
स तत्र निवसन्नेव यदि धीरमना नरः ॥ 48ab
प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ 48cd
कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ 49ab
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ 49cd
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ 50ab
सद्य एव विमुच्येत नात्र कार्या विचारणा 2 50cd
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ 51ab
म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ 51cd


1 उद्योगं कुर्वत इत्यर्थः ।
2 न चासावात्मघातक इति पाठान्तरम् ।

598b


यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ 52ab
शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ 52cd
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ 53ab
यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ 53cd
शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ 54ab
सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ 54cd
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ 55ab
न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ 55cd
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ 56ab
एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ 56cd
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ 57ab
पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ 57cd
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ 58ab
शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ 58cd
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ 58 ॥ 58ef
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ 59ab
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ 59cd
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ 60ab
धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ 60cd
नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ 60 ॥ 60ef
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशो ऽध्यायः ॥ 39 ॥

Chapter 40

श्रीसूत उवाच
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ 1ab
प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ 1cd
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ 2ab
सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ 2cd
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ 3ab
प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ 3cd
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ 4ab
समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ 4cd
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ 5ab
स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ 5cd
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ 6ab
दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ 6cd
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ 7ab
तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ 7cd
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ 8ab
प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ 8cd
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ 9ab
आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ 9cd
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ 10ab
मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ 10cd
599a

तथा विलीयमानेषु तपस्विषु महात्मसु ॥ 11ab
सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ 11cd
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ 12ab
किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ 12cd
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ 13ab
दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ 13cd
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ 14ab
समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ 14cd
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ 15ab
स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ 15cd
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ 16ab
परस्पर स्पर्द्धितयोर्गाने विवदमानयोः ॥ 16cd
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ 17ab
गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ 17cd
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ 18ab
मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ 18cd
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ 19ab
साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ 19cd
त्यक्त्वा परस्परस्पर्द्धां मैत्रीं च परमां गतः ॥ 20ab
सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ 20cd
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ 21ab
भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ 21cd
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ 22ab
प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ 22cd
स चावसर एवायमितोंतर्गम्यतामिति ॥ 23ab
वदन्ययावन्यपरस्त्वरया परया युतः ॥ 23cd
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ 24ab
तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ 24cd
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ 25ab
समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ 25cd
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ 26ab
वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ 26cd
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ 27ab
इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ 27cd
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ 28ab
दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ 28cd
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ 29ab
आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ 29cd
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ 30ab
याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ 30cd
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ 31ab
मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ 31cd
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ 32ab
प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ 32cd
599b

भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ 33ab
प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ 33cd
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ 34ab
तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ 34cd
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ 35ab
मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ 35cd
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ 36ab
स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ 36cd
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ 37ab
प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ 37cd
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ 38ab
प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ 38cd
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ 39ab
अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ 39cd
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ 40ab
ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ 40cd
अथ कालेन महता तदर्थे शोचता मया ॥ 41ab
उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ 41cd
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ 42ab
प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ 42cd
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ 43ab
अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ 43cd
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ 44ab
ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ 44cd
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ 45ab
धर्माध्यक्षाभिषेकं च तव निर्वर्त्तयिष्यति ॥ 45cd
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ 46ab
यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ 46cd
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ 47ab
प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ 47cd
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ 48ab
तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ 48cd
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ 49ab
कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ 49cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशो ऽध्यायः ॥ 40 ॥

Chapter 41

सूत उवाच ॥
तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ॥ 1ab
अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥ 1cd
समंततः संघटितं स्फटिको पलसंचयैः ॥ 2ab
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ 2cd
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥ 3ab
तरंगैरभ्रसंकाशैराकाशमिव भूमिगम् ॥ 3cd
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥ 4ab
सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥ 4cd
600a

तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥ 5ab
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ 5cd
जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ॥ 6ab
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ 6cd
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥ 7ab
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ 7cd
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥ 8ab
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ 8cd
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ॥ 9ab
आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः ॥ 9cd
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥ 10ab
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ 10cd
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥ 11ab
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान्॥ 11cd
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥ 12ab
सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम् ॥ 12cd
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥ 13ab
क्वचिच्च तृषयायातमृगीमृगतुरंगमम् ॥ 13cd
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥ 14ab
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ 14cd
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ॥ 15ab
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ 15cd
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ॥ 16ab
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ 16cd
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥ 17ab
आतपोपहतान्सर्वान्नामंत्रयदिवानिशम् ॥ 17cd
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥ 18ab
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ 18cd
सनत्कुमारमासीनं शश्वद्बालवपुर्द्धरम् ॥ 19ab
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ 19cd
उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ॥ 20ab
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ 20cd
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥ 21ab
तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः ॥ 21cd
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥ 22ab
गणेश्वरैरसंख्येयैः संवृतं च समंततः ॥ 22cd
अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ॥ 23ab
मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ 23cd
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥ 24ab
मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः ॥ 24cd
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥ 25ab
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ 25cd
कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥ 26ab
तस्य मध्ये विमानस्य चामरद्वितयांतरे ॥ 26cd
छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ॥ 27ab
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ 27cd
600b

श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥ 28ab
प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ 28cd
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ॥ 29ab
सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम् ॥ 29cd
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥ 30ab
विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ 30cd
विश्वस्यापि विधातॄणां निग्रहानुग्रहक्षमम् ॥ 31ab
चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम् ॥ 31cd
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ॥ 32ab
सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ 32cd
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ॥ 33ab
दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ 33cd
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥ 34ab
अथ तत्रांतरे तस्मिन्विमाने चावनिं गते ॥ 34cd
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥ 35ab
षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥ 35cd
आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया ॥ 35 ॥ 35ef
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥ 36ab
शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ 36cd
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥ 37ab
व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ 37cd
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥ 38ab
नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ 38cd
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥ 39ab
तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति ॥ 39cd
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्ग्गयोगात् ॥ 40ab
अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ 40cd
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥ 41ab
काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ 41cd
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥ 42ab
अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः ॥ 42cd
व्यास उवाच ॥
एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥ 43ab
पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ 43cd
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥ 44ab
अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ 44cd
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥ 45ab
अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ 45cd
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥ 46ab
तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ 46cd
601a

पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥ 47ab
परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ 47cd
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ 48ab
सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ 48cd
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥ 49ab
इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः ॥ 49cd
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥ 50ab
भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्द्धनम् ॥ 50cd
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥ 51ab
सगणस्ससुतस्सांबश्शं करोतु स शंकरः ॥ 51cd
एॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशो ऽध्यायः ॥ 41 ॥
समाप्तो ऽयं ग्रन्थः ॥
601b