श्रीशिवमहापुराणम्

अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते ॥

अस्य पुस्तकस्य पुनर्मुद्रणादयस्सर्वे ऽधिकाराः `श्रीवेङ्कटेश्वर' मुद्रणालयाध्यक्षेण स्वयतीकृताः सन्ति
श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रिसरस्वत्यै नमः ॥ अथ शिवपुरणे प्रथमा विद्येश्वरसंहिताप्रारभ्यते ॥ आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ॥
पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ॥ 1 ॥

Chapter 1

व्यास उवाच ॥
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ॥ 1ab
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ 1cd
मुनयः शंसितात्मनस्सत्यव्रतपरायणाः ॥ 2ab
महौजसो महाभागा महासत्रं वितेनिरे ॥ 2cd
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ 3ab
आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥ 3cd
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ॥ 4ab
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ 4cd
ततो विनयसंयुक्ता प्रोचुः सांजलयश्चते ॥ 5ab
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ 5cd
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ॥ 6ab
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ 6cd
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ॥ 7ab
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ 7cd
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ 8ab
न त्वया ऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ 8cd
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ 9ab
कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ 9cd
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ 10ab
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ 10cd
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ 11ab
तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत् ॥ 11cd
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ 12ab
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ 12cd
परापवादनिरताः परद्रव्याभिलाषिणः ॥ 13ab
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ 13cd
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ॥ 14ab
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ 14cd
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ 15ab
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ 15cd
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ॥ 16ab
त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ 16cd
अदयाः पंडितंमन्यास्स्वाचारव्रतलोपकाः ॥ 17ab
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ 17cd
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ 18ab
असत्संगाः पापरता व्यभिचारपरायणाः ॥ 18cd
अशूरा अरणप्रीताः पलायनपरायणाः ॥ 19ab
कुचौरवृत्तयः शूद्राः कामकिंकरचेतसः ॥ 19cd
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ 20ab
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ 20cd
प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ 21ab
1a

प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ 21cd
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ 22ab
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ 22cd
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ 23ab
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ 23cd
कामिनीजारभावेषु सुरता मलिनाशयाः ॥ 24ab
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ 24cd
तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ 25ab
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ 25cd
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ 26ab
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ 26cd
शालिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ 27ab
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ 27cd
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ॥ 28ab
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ 28cd
सुभूपाकृतयो दंभाः सुदातारो महामदाः ॥ 29ab
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ 29cd
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ॥ 30ab
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ 30cd
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ 31ab
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ 31cd
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ 32ab
श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ 32cd
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ 33ab
जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ 33cd
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ 34ab
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ 34cd
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ 35ab
परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ 35cd
इति चिंताकुलं चित्तं जायते सततं हि नः ॥ 36ab
परोपकारसदृशो नास्ति धर्मो परः खलु ॥ 36cd
लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ 37ab
सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ 37cd
व्यास उवाच ॥
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ 38ab
मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ 38cd


इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनोनामप्रथमो ऽध्यायः ॥ 1 ॥

Chapter 2

सूत उवाच ॥
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ 1ab
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ 1cd
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ 2ab
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ 2cd
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ॥ 3ab
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ 3cd
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ 4ab
सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ 4cd
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ 5ab
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ 5cd
1b

तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ 6ab
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ 6cd
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ 7ab
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ 7cd
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ 8ab
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ 8cd
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ 9ab
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ 9cd
तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ 10ab
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ 10cd
तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ 11ab
यावछिवपुराणं हि नोदेष्यति जगत्यहो ॥ 11cd
तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ 12ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 12cd
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ 13ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 13cd
तावत्सर्वाणि पीठानि विवदंति महीतले ॥ 14ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 14cd
तावत्सर्वाणि दानानि विवदंति महीतले ॥ 15ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 15cd
तावत्सर्वे च ते देवा विवदंति महीतले ॥ 16ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 16cd
तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ 17ab
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ 17cd
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ 18ab
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ 18cd
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ 19ab
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ 19cd
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ॥ 20ab
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ 20cd
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रितः ॥ 21ab
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ 21cd
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ 22ab
दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् । 22cd
एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ 23ab
अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात् ॥ 23cd
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ 24ab
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ 24cd
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ 25ab
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ 25cd
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ 26ab
यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ 26cd
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ 27ab
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ 27cd
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ॥ 28ab
2a

इह भुक्त्वाखिलान्कामानंते निर्वाणतां व्रजेत् ॥ 28cd
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ 29ab
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ 29cd
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ 30ab
आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे ॥ 30cd
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ 31ab
तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ 31cd
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ 32ab
आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्रपुरोगमाः ॥ 32cd
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ 33ab
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ 33cd
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ॥ 34ab
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ 34cd
तां रुद्रसंहितां यस्तु भैरवप्रतिमांतिके ॥ 35ab
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँल्लभेत् ॥ 35cd
तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः ॥ 36ab
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ 36cd
कैलाससंहिता तत्र ततोऽपि परमस्मृता ॥ 37ab
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ 37cd
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ 38ab
कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ 38cd
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ 39ab
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ 39cd
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ 40ab
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ 40cd
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ 41ab
कुमारायार्पितां तां वै सुधां पीत्वा ऽमरो भवेत् ॥ 41cd
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ 42ab
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ 42cd
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ 43ab
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ 43cd
शिवालये बिल्ववने संहितां तां पठेत्तु यः ॥ 44ab
स तत्फलमवाप्नोति यद्वाचो ऽपि न गोचरे ॥ 44cd
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ 45ab
तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ 45cd
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ 46ab
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ 46cd
अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ 47ab
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ 47cd
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ 48ab
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ 48cd
विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ 49ab
मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ 49cd
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ॥ 50ab
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ 50cd
संहिता द्वादशमिता महापुण्यतरा मता ॥ 51ab
2b

तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ 51cd
विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा ॥ 52ab
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ 52cd
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ॥ 53ab
षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ 53cd
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ 54ab
सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ 54cd
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ 55ab
तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ 55cd
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ 56ab
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ 56cd
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ 57ab
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ 57cd
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ 58ab
चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ 58cd
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ 59ab
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ 59cd
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ 60ab
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ 60cd
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ 61ab
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ 61cd
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ 62ab
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ 62cd
एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ 63ab
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ 63cd
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ 64ab
एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ 64cd
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् ॥ 65ab
संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ 65cd
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ 66ab
अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ 66cd
शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् ॥ 67ab
यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै ॥ 67cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्विदीयो ऽध्यायः ॥ 2 ॥

Chapter 3

व्यास उवाच ॥
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ 1ab
वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ 1cd
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ 2ab
संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ 2cd
सूत उवाच ॥
शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ 3ab
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ 3cd
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ 4॥ 4ab
3a

वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ 5॥ 5ab
सूत उवाच ॥
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ 6ab
पुरा कालेन महता कल्पे ऽतीते पुनःपुनः ॥ 6cd
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ 7ab
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ 7cd
इदं परमिदं नेति विवादः सुमहानभूत् ॥ 8ab
ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ 8cd
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयो ऽब्रुवन् ॥ 9ab
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ 9cd
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ 10ab
ब्रह्मोवाच ॥
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ 10cd
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेंद्रपूर्वकम् ॥ 11ab
सहभूतेंद्रियैः सर्वैः प्रथमं संप्रसूयते ॥ 11cd
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ 12ab
अयं तु परया भक्त्या दृश्यते ना ऽन्यथा क्वचित् ॥ 12cd
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ 13ab
भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ 13cd
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ॥ 14ab
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ 14cd
यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ 14॥ 14ef
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ 15ab
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ 15cd
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ 16ab
वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ 16cd
मुनय ऊचुः ॥
अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ 17ab
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ 17cd
ब्रह्मोवाच ॥
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ 18ab
साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ 18cd
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ 19ab
परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ 19cd
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ 20ab
तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ 20cd
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ 21ab
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ 21cd
मनसा मननं तस्य महासाधनमुच्यते ॥ 22ab
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ 22cd
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ॥ 23ab
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ 23cd
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ 24ab
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ 24cd
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ 25ab
ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ 25cd
क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते ॥ 26ab
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ 26cd
3b

सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ 27ab
अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ 27cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयो ऽध्यायः ॥ 3 ॥

Chapter 4

मुनय ऊचुः ॥
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ 1ab
कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ 1cd
ब्रह्मोवच ॥
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ 2ab
तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ 2cd
गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ 3ab
वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ॥ 3cd
येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण ॥ 4ab
स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ 4cd
सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ 5ab
सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ 5cd
सूत उवाच ॥
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ 6ab
युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ 6cd
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ 7ab
तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ 7cd
गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ 8ab
सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ 8cd
ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् ॥ 9ab
प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ 9cd
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् 10ab
प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा ॥ 10cd
सनत्कुमार उवाच ॥
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ 11ab
स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ 11cd
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ 12ab
धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ 12cd
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ 13ab
एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ 13cd
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ 14ab
तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ 14cd
इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः ॥ 15ab
समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ 15cd
श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ 16ab
त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ 16cd
पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ 17ab
अचले मंदरे शैले तपश्चरणमाचरम् ॥ 17cd
शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः ॥ 18ab
स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ 18cd
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ 19ab
श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ 19cd
4a

त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ 20ab
श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः ॥ 20cd
एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ 21ab
जगाम स्वविमानेन पदं परमशोभनम् ॥ 21cd
एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ 22ab
ऋषय ऊचुः ॥
श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ 22cd
श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः ॥ 23ab
अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ 23cd


इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थो ऽध्यायः ॥ 4 ॥

Chapter 5

सूत उवाच ॥
श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् ॥ 1ab
संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ 1cd
अपि द्रव्यं वहेदेव यथाबलमवंचयन् ॥ 2ab
अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ 2cd
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ 3ab
वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ 3cd
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ 4ab
छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ 4cd
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ 5ab
प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ 5cd
आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ 6ab
इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ 6cd
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ 7ab
लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ 7cd
मनुय ऊचुः ॥
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ 8ab
लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ 8cd
सूत उवाच ॥
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ 9ab
अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित् ॥ 9cd
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ 10ab
शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ 10cd
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ 11ab
निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ 11cd
सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ 12ab
सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ 12cd
अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ 13ab
अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ 13cd
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ 14ab
अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ 14cd
तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ 15ab
जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ 15cd
वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ 16ab
एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः ॥ 16cd
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता । 17ab
सनत्कुमार उवाच ॥
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ 17cd
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ 18ab
4b

शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ 18cd
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ 19ab
नंदिकेश्वर उवाच ॥
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ 19cd
कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ ॥ 20ab
शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ 20cd
लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ 21ab
तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ 21cd
सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ 22ab
शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ 22cd
बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ 23ab
स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ 23cd
शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ 24ab
सनत्कुमार उवाच
उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ 24cd
शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ 25ab
तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ 25cd
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ 26ab
नंदिकेश्वर उवाच ॥
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ 26cd
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ 27ab
आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ 27cd
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ 28ab
निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ 28cd
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः ॥ 29ab
स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ 29cd
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ 30ab
सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् ॥ 30cd
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ 31ab
तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ 31cd
शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ 31॥ 31ef


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमो ऽध्यायः ॥ 5 ॥

Chapter 6

नंदिकेश्वर उवाच ॥
पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ 1ab
सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ 1cd
यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ 2ab
अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ 2cd
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ 3ab
उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ 3cd
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ 4ab
द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ 4cd
इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ 5ab
स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ 5cd
किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ 6ab
ब्रह्मोवाच ॥
वत्स विष्णो महामानमागतं कालवेगतः ॥ 6cd
पितामहश्च जगतः पाता च तव वत्सक ॥ 7ab
विष्णुरुवाच ॥
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ 7cd
5a

मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ॥ 8ab
नंदिकेश्वर उवाच ॥
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ 8cd
अहमेव बरो न त्वमहं प्रभुरहं प्रभुः ॥ 9ab
परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ 9cd
युयुधाते ऽमरौ वीरौ हंसपक्षींद्रवाहनौ ॥ 10ab
वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ 10cd
तावद्विमानगतयः सर्वा वै देवजातयः ॥ 11ab
दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ 11cd
क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ 12ab
सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ 12cd
मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ 13ab
मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ 13cd
बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ 14ab
तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ 14cd
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ 15ab
ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ 15cd
माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ 16ab
ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ 16cd
अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ 17ab
ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ 17cd
सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ 18ab
अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ 18cd
इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ 19ab
ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ 19cd
ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ 19॥ 19ef
सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ 20ab
यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ 20cd
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ 21ab
इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ 22ab
जग्मुः कैलासशिखरं यत्रास्ते चंद्रशेखरः ॥ 22cd
दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ 23ab
प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ 23cd
तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ 24ab
विराजमानमुमया ददृशुर्देवपुंगवम् ॥ 24cd
सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ 25ab
स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ 25cd
वीज्यमानं विशेषजैः स्त्रीजनैस्तीव्रभावनैः ॥ 26ab
शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ 26cd
दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ 27ab
दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ 27cd
तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ 28ab
अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ 28cd
अवोचदर्थगंभीरं वचनं मधुमंगलम् ॥ 28॥ 28ef


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठो ऽध्यायः ॥ 6 ॥

Chapter 7

ईश्वर उवाच ॥
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ 1ab
जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ 1cd
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ 2ab
5b

भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ 2cd
इति सस्मितया माध्व्या कुमारपरिभाषया ॥ 3ab
समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ 3cd
अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ 4ab
आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ 4cd
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ 5ab
गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ 5cd
प्रणवाकारमाद्यंतं पंचमंडलमंडितम् ॥ 6ab
आरुरोह रथं भद्रमंबिकापतिरीश्वरः ॥ 6cd
ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः ॥ 6॥ 6ef
चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः ॥ 7ab
संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ 7cd
समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ॥ 8ab
समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ 8cd
अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ 9ab
माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ 9cd
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ 10ab
ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ 10cd
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ 11ab
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ 12ab
निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ 12cd
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ 13ab
किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ 13cd
अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ 14ab
अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ॥ 14cd
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ 15ab
तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ 15cd
आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ 16ab
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ 16cd
तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ 17ab
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ 17cd
नाऽप्श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ 18ab
श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम् ॥ 18cd
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ 19ab
ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ 19cd
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ 20ab
अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ 20cd
परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ 21ab
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ 21cd
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ॥ 22ab
आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ 22cd
न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ 23ab
अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ 23cd
इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ 24ab
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ 24cd
स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ 25ab
6a

इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ 25cd
असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ 25॥ 25ef
समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ 26ab
उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम् ॥ 26cd
स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ 27ab
ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ 27cd
हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ 28ab
षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ 28cd
विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ 29ab
समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ 29cd
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ 30ab
स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ 30cd
ईश्वर उवाच ॥
वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ 31ab
ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ 31cd
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ 32 ॥ 32ab
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ 33ab
ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ 33cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः ॥ 7 ॥

Chapter 8

नंदिकेश्वर उवाच ॥
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ 1ab
भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ 1cd
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ 2ab
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ 2cd
वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ 3ab
नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥ 3cd
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् ॥ 4ab
छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ 4cd
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ 5ab
प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ 5cd
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ 6ab
निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ 6cd
अच्युत उवाच ॥
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम् ॥ 7ab
तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ 7cd
इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ 8ab
निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ 8cd
अथाह देवः कितवं विधिं विगतकंधरम् ॥ 9ab
ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ 9cd
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ 10ab
ब्रह्मोवच ॥
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥ 10cd
नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ 11ab
6b

सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ 11cd
ईश्वर उवाच ॥
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ 12ab
ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ 12cd
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ 13ab
वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ 13cd
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ 14ab
अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ 14cd
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ 15ab
ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ 15cd
इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ 16ab
सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ 16cd
केतक उवाच ॥
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ 17ab
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ 17cd
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ 18ab
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ 18cd
तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ 19ab
न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ 19cd
मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः ॥ 20ab
त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ 20cd
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ 21ab
विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ 21cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमो ऽध्यायः ॥ 8 ॥

Chapter 9

नंदिकेश्वर उवाच ॥
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ 1ab
बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ 1cd
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ॥ 2ab
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ 2cd
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ 3ab
हारनूपुरकेयूरकिरीटमणिकुंडलैः ॥ 3cd
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ॥ 4ab
पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ॥ 4cd
धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ 5ab
अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ 5cd
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ 6ab
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ 6cd
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ 7ab
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ 7cd
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ 8ab
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ॥ 8cd
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ 9ab
ईश्वर उवाच ॥
तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने ॥ 9cd
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ 10ab
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ 10cd
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ॥ 11ab
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ 11cd
शिवरात्रावहोरात्रं निराहारो जितेंद्रियः । 12ab
अर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥ 12cd
7a

यत्फलं मम पूजायां वर्षमेकं निरंतरम् ॥ 13ab
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ 13cd
मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः ॥ 14ab
प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥ 14cd
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ॥ 15ab
स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ ॥ 15cd
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ 16ab
मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥ 16cd
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ 17ab
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ 17cd
रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा ॥ 18ab
जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥ 18cd
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ॥ 19ab
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ 19cd
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ॥ 20ab
दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् ॥ 20cd
अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ॥ 21ab
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ 21cd
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ 22ab
मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ॥ 22cd
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ 23ab
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ 23cd
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ 24ab
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ 24cd
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ॥ 25ab
सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥ 25cd
अर्चयित्वा ऽत्र मामेव लिंगे लिंगिनमीश्वरम् ॥ 26ab
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ 26cd
सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ॥ 27ab
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ 27cd
नंदिकेश्वर उवाच ॥
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ 28ab
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ 28cd
तदुत्थापयदत्यर्थं स्वशक्त्या ऽमृतधारया ॥ 29ab
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ 29cd
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ 30ab
नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः ॥ 30cd
पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ॥ 31ab
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ 31cd
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ 32ab
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ 32cd
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ 33ab
तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ ॥ 33cd
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ 34ab
मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ 34cd
गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ॥ 35ab
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ 35cd
7b

अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ 36ab
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ 36cd
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ 37ab
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ 37cd
अनात्मानः परे सर्वे जीवा एव न संशयः ॥ 38ab
अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम् ॥ 38cd
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ 39ab
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ॥ 39cd
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ 40ab
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ 40cd
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ 41ab
यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ॥ 41cd
लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ॥ 42ab
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ 42cd
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ 43ab
महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ॥ 43cd
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ॥ 44ab
तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ 44cd
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ॥ 45ab
द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ॥ 45cd
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ 46ab
लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ 46cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमो ऽध्यायः ॥ 9 ॥

Chapter 10

ब्रह्मविष्णू ऊचतुः ॥
सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ 1ab
शिव उवाच ॥
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ 1cd
सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः ॥ 2ab
पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ 2cd
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ 3ab
संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ 3cd
तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम् ॥ 4ab
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ 4cd
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ 5ab
पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ 5cd
तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः ॥ 6ab
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ 6cd
तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ 7ab
सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ॥ 7cd
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ 8ab
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ 8cd
पंचकृत्यमिदं बोढुं ममास्ति मुखपंचकम् ॥ 9ab
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ॥ 9cd
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ 10ab
सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ 10cd
तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ 11ab
अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ 11cd
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ 12ab
8a

न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ 12cd
रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ 13ab
आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ 13cd
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ 14ab
मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ 14cd
तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमोंकारनामकम् ॥ 15ab
इतः परं प्रजपतं मामकं मानभंजनम् ॥ 15cd
उपादिशं निजं मंत्रमोंकारमुरुमंगलम् ॥ 16ab
ओंकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ 16cd
वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः ॥ 17ab
तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ 17cd
अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ 18ab
मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा ॥ 18cd
नादो मध्यमुखादेवं पंचधा ऽसौ विजृंभितः ॥ 19ab
एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ 19cd
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ 20ab
व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः ॥ 20cd
अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ 21ab
आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ 21cd
अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः ॥ 22ab
तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ 22cd
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ 23ab
तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ 23cd
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ 24ab
सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ 24cd
नंदिकेश्वर उवाच ॥
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ 25ab
निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः ॥ 25cd
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ 26ab
शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ 26cd
प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ 27 ॥ 27ab
ब्रह्माच्युतावूचतुः ॥
नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ 28ab
नमः सकलनाथाय नमस्ते सकलात्मने ॥ 28cd
नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ 29ab
नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते ॥ 29cd
पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः ॥ 30ab
आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये ॥ 30cd
सकलाकलरूपाय शंभवे गुरवे नमः ॥ 31ab
इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ॥ 31cd
ईश्वर उवाच ॥
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ॥ 32ab
जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ 32cd
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ 33ab
आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ 33cd
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ॥ 34ab
8b

मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ 34cd
आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ 35ab
दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ 35cd
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ 36ab
प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ 36cd
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ 37ab
तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ 37cd
लिंगमोंकारमंत्रेण बेरं पंचाक्षरेण तु ॥ 38ab
स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ 38cd
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ 39ab
इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ॥ 39cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमो ऽध्यायः ॥ 10 ॥

Chapter 11

ऋषय ऊचुः ॥
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ 1ab
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ 1cd
सूत उवाच ॥
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ 2ab
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ 2cd
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ 3ab
पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ 3cd
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ 4ab
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ 4cd
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ 5ab
सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ 5cd
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ 6ab
खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ 6cd
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ 7ab
येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ 7cd
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ 8ab
लिंगप्रमाणं कर्तॄणां द्वादशांगुलमुत्तमम् ॥ 8cd
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ 9ab
कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ 9cd
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ 10ab
तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे ॥ 10cd
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ 11ab
नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ 11cd
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् 12ab
मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ 12cd
संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ॥ 13ab
अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ 13cd
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ 14ab
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ 14cd
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ 15ab
सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ 15cd
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ 16ab
उदीर्य च महामंत्रमोंकारं नादघोषितम् ॥ 16cd
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ 17ab
लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ 17cd
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ 18ab
9a

पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ 18cd
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ 19ab
एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ 19cd
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ 20ab
स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥ 20cd
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ 21ab
स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ 21cd
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ 22ab
पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ 22cd
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ 23ab
तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ 23cd
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ 24ab
नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ 24cd
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ 25ab
अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ 25cd
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ 26ab
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ 26cd
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ 27ab
वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ 27cd
नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ 28ab
अथवा ऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ 28cd
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ 29ab
यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ 29cd
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ 30ab
स्थापिते ऽपूर्वके लिंगे सोपचारं यथा तथा ॥ 30cd
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ 31ab
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ 31cd
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ 32ab
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ 32cd
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ 33ab
लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ 33cd
अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ 34ab
लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ 34cd
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ 35ab
अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ 35cd
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ 36ab
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ 36cd
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ 37ab
जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ 37cd
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ 38ab
समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ 38cd
अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ॥ 39ab
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ 39cd
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ 40ab
दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥ 40cd
9b

कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ 41ab
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ 41cd
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् 42ab
स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ 42cd
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ 43ab
पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ 43cd
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ 44ab
जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ 44cd
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ 45ab
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ 45cd
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ 46ab
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ 46cd
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ 47ab
वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ 47cd
एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ 48ab
अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ 48cd
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ 49ab
अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ 49cd
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ॥ 50ab
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ 50cd
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ 51ab
नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ 51cd
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ 52ab
पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ 52cd
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ 53ab
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ 53cd
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ 54ab
तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ 54cd
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ 55ab
सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ 55cd
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ 56ab
धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ 56cd
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ॥ 57ab
शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ 57cd
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ 58ab
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ 58cd
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ 59ab
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ 59cd
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ 60ab
अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् ॥ 60cd
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ 61ab
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ 61cd
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ 62ab
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ 62cd
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ 63ab
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ 63cd
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ 64ab
सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ 64cd
10a

कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ 65ab
शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा ॥ 65cd
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ 66ab
कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ 66cd
उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ 67ab
सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ 67cd
ऋषय ऊचुः ॥
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ 68ab
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ 68cd
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ 69ab
सूत उवाच ॥
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ 69cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशो ऽध्यायः ॥ 11 ॥

Chapter 12

सूत उवाच ॥
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ 1ab
तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ 1cd
पंचाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ 2ab
शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ 2cd
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ 3ab
मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ 3cd
परिग्रहादृषीणां च देवानां परिग्रहात् ॥ 4ab
स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ 4cd
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ 5ab
अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ 5cd
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ 6ab
स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ 6cd
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ 7ab
पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ 7cd
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ 8ab
सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ 8cd
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ 9ab
तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ 9cd
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ 10ab
तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ 10cd
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ॥ 11ab
शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ 11cd
तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ 12ab
चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ 12cd
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ 13ab
तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ 13cd
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ 14ab
एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ 14cd
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ 15ab
साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ 15cd
तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ 16ab
सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ 16cd
तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ 17ab
सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ 17cd
एतासां तीरवासेन इंद्रलोकमवाप्नुयात् ॥ 18ab
सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ 18cd
10b

सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ 19ab
तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ 19cd
शिवलोकप्रदा शैवास्तथा ऽभीष्टफलप्रदाः ॥ 20ab
नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ 20cd
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ 21ab
सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ 21cd
केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ 22ab
गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ 22cd
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ 23ab
यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ 23cd
धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ 24ab
कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ 24cd
विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ 25ab
वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ 25cd
नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ॥ 26ab
सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ 26cd
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ 27ab
मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ 27cd
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ 28ab
ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ 28cd
गंगायां माघमासे तु तथाकुंभगते रवौ ॥ 29ab
श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ 29cd
वंशद्वयपितॄणां च कुलकोट्युद्धरं विदुः ॥ 30ab
कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ ॥ 30cd
तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् ॥ 31ab
गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ 31cd
तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ 32ab
रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ 32cd
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ 33ab
तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ 33cd
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ 34ab
तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ 34cd
सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ 35ab
वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ 35cd
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ 36ab
पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ 36cd
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ 37ab
पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ 37cd
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ 38ab
मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ 38cd
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ 39ab
वाचिकं जपजालेन कायिकं कायशोषणात् ॥ 39cd
दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः ॥ 40ab
क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ 40cd
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ 41ab
ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ 41cd
भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ 42ab
11a

बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ 42cd
देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ 43ab
तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ 43cd
तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥ 43॥ 43ef


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशो ऽध्यायः ॥ 12 ॥

Chapter 13

ऋषय ऊचुः ॥
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ 1ab
धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ 1cd
सूत उवाच ॥
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ 2ab
वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ 2cd
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ 3ab
किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ 3cd
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ 4ab
असूयालुः परद्रोही चंडालद्विज उच्यते ॥ 4cd
पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ 5ab
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ 5cd
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ 6ab
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ 6cd
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ 7ab
धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ 7cd
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ 8ab
व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ 8cd
निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ 9ab
तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ 9cd
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ 10ab
उदङ्मुखः समाविश्य प्रतिबंधे ऽन्यदिङ्मुखः ॥ 10cd
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ 11ab
लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ 11cd
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ 12ab
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ 12cd
अथवा देवपित्रार्षतीर्थावतरणं विना ॥ 13ab
सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ 13cd
लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ 14ab
तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ 14cd
येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ 15ab
कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ॥ 15cd
जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ 16ab
अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ 16cd
आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ 17ab
देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ 17cd
धौतवस्त्रं समादाय पंचकच्छेन धारयेत् ॥ 18ab
उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ 18cd
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ 19ab
वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ 19cd
शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ 20ab
संशोध्य पीडयेद्वस्त्रं पितॄणां तृप्तये द्विजाः ॥ 20cd
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ 21ab
11b

अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ 21cd
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ 22ab
यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ 22cd
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ 23ab
हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ 23cd
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च ॥ 24ab
अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ 24cd
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ 25ab
अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ 25cd
गायत्र्या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ॥ 26ab
मंत्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा ॥ 26cd
अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ॥ 27ab
उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ 27cd
अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ 28ab
आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ 28cd
सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ 29ab
अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम् ॥ 29cd
दिवा ऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ 30ab
आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् ॥ 30cd
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ 31ab
ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्रश्च वै यमः ॥ 31cd
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ 32ab
ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ 32cd
तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ 33ab
तत्र देवालये वापि गृहे वा नियतस्थले ॥ 33cd
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ 34ab
प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ 34cd
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ 35ab
त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ॥ 35cd
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ 36ab
ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा ॥ 36cd
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ 37ab
इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ 37cd
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ 38ab
सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ 38cd
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ॥ 39ab
सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ 39cd
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ 40ab
विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ 40cd
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ 41ab
तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ 41cd
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ 42ab
एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ 42cd
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ 43ab
शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ 43cd
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ 44ab
सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः ॥ 44cd
12a

इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ 45ab
दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ 45cd
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ 46ab
गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत् ॥ 46cd
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ 47ab
प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ 47cd
दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ 48ab
मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि ॥ 48cd
अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ 49ab
एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ 49cd
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ 50ab
ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥ 50cd
धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ 51ab
धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ 51cd
विपरीतार्थभोगेन राग एव प्रजायते ॥ 52ab
धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ 52cd
द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ 53ab
धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ 53cd
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ 54ab
कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे ॥ 54cd
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ 55ab
द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ 55cd
यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ 56ab
द्रव्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ 56cd
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ 57ab
अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ 57cd
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ 58ab
धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ 58cd
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ 59ab
शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ 59cd
चांद्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ 60ab
सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ 60cd
इंद्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ 61ab
यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ 61cd
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ 62ab
अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ 62cd
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ 63ab
अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ 63cd
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ 64ab
अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ 64cd
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ 65ab
न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ 65cd
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ 66ab
मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ 66cd
सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ 67ab
धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ 67cd
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ 68ab
तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ 68cd
12b

जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ 69ab
क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ॥ 69cd
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ 70ab
तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ 70cd
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ 71ab
पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ 71cd
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ 72ab
नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ 72cd
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ 73ab
हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ 73cd
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ 74ab
शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ 74cd
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ 75ab
वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ 75cd
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ 76ab
अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ 76cd
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ 77ab
आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ 77cd
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः 78ab
जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ 78cd
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ 79ab
विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ 79cd
न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ 80ab
संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ 80cd
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ 81ab
तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ 81cd
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ 82ab
प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ 82cd
नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ 83ab
अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ 83cd
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ 84ab
ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ 84cd
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ 85ab
ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ 85cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशो ऽध्यायः ॥ 13 ॥

Chapter 14

ऋषय ऊचुः ॥
अग्नियज्ञं देवयज्ञं ब्रह्मयज्ञं तथैव च ॥ 1ab
गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ 1cd
सूत उवाच ॥
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ 2ab
ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ 2cd
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ 3ab
प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ 3cd
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ 4ab
हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ 4cd
औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ 5ab
कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ 5cd
13a

अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ 6ab
अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ 6cd
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ 7ab
आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ 7cd
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ 8ab
इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् 8cd
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ 9ab
चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ 9cd
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ 10ab
ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् ॥ 10cd
नित्यानंतरमासोयं ततस्तु न विधीयते ॥ 11ab
अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ 11cd
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ 12ab
सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ 12cd
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 13ab
आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ 13cd
संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ 14ab
जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ 14cd
आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ 15ab
रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ 15cd
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ 16ab
आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ 16cd
त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ 17ab
जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ 17cd
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ 18ab
तयोः कर्त्रोस्ततो वारमिंद्रस्य च यमस्य च ॥ 18cd
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ 19ab
आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ 19cd
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ 20ab
स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ 20cd
आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ 21ab
पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ 21cd
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ 22ab
अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ 22cd
देवानां प्रीतये पूजापंचधैव प्रकल्पिता ॥ 23ab
तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ 23cd
स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ 24ab
समाराधनमित्येवं षोडशैरुपचारकैः ॥ 24cd
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ 25ab
नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ 25cd
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ 26ab
दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ 26cd
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् ॥ 27ab
जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ 27cd
पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ 28ab
आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ 28cd
13b

सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ 29ab
आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ 29cd
काल्यादीन्भौम वारे तु यजेद्रोगप्रशांतये ॥ 30ab
माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् ॥ 30cd
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ 31ab
पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ 31cd
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ 32ab
उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ 32cd
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ 33ab
षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ 33cd
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ 34ab
अपमृत्युहरे मंदे रुद्राद्रींश्च यजेद्बुधः ॥ 34cd
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ 35ab
इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ 35cd
देवानां नित्ययजने विशेषयजनेपि च ॥ 36ab
स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ 36cd
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ 37ab
आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ 37cd
तत्तद्रूपेण सर्वेषामारोग्यादिफलप्रदः ॥ 38ab
देशकालानुसारेण तथा पात्रानुसारतः ॥ 38cd
द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः 39ab
तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ 39cd
शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ 40ab
आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ 40cd
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ 41ab
समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ 41cd
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ 42ab
सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ 42cd
दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ॥ 43ab
पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ 43cd
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ 44ab
छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ 44cd
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ 45ab
कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ 45cd
य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः ॥ 46ab
श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ 46cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशो ऽध्यायः ॥ 14 ॥

Chapter 15

ऋषय ऊचुः ॥
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ 1ab
सूत उवाच ॥
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ 1cd
ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ 2ab
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ 2cd
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ 3ab
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ 3cd
सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ॥ 4ab
गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ 4cd
सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ॥ 5ab
14a

ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ 5cd
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ 6ab
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ 6cd
त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् ॥ 7ab
कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके ॥ 7cd
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ 8ab
तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ 8cd
विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ 9ab
तद्दश मृगसंक्रांतौ तच्चंद्रग्रहणे दश ॥ 9cd
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ 10ab
जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ 10cd
अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ॥ 11ab
विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ 11cd
जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ॥ 12ab
महतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ 12cd
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ 13ab
पूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ 13cd
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ 14ab
ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ 14cd
पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ 15ab
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ 15cd
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ 16ab
यथाऽर्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति ॥ 16cd
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ 17ab
स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति ॥ 17cd
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ 18ab
तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ 18cd
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ 19ab
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ 19cd
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ 20ab
तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ 20cd
इच्छावतः प्रदानं च संपूर्णफलदं विदुः ॥ 21ab
यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः ॥ 21cd
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ 22ab
जातिमात्रस्य विप्रस्य दीनवृर्त्तेर्द्विजर्षभाः ॥ 22cd
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ 23ab
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ 23cd
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ 24ab
विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ॥ 24cd
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ 25ab
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ 25cd
दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ॥ 26ab
परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ 26cd
बहुमानमथाह्वानमभ्यंगं पादसेवनम् ॥ 27ab
वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ॥ 27cd
षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ॥ 28ab
नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ॥ 28cd
दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ 29ab
अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते ॥ 29cd
14b

सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ 30ab
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ 30cd
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ॥ 31ab
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ 31cd
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ 32ab
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ 32cd
सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते ॥ 33ab
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ 33cd
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ 34ab
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ 34cd
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ 35ab
अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ 35cd
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ 36ab
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ 36cd
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ 37ab
बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ 37cd
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ 38ab
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ 38cd
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ 39ab
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ 39cd
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ 40ab
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ 40cd
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ 41ab
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ 41cd
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ 42ab
गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ 42cd
संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ 43ab
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ 43cd
रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ॥ 44ab
गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ 44cd
धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ 45ab
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ 45cd
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ 46ab
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ 46cd
भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ॥ 47ab
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ 47cd
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ 48ab
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ 48cd
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ 49ab
रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ 49cd
सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ॥ 50ab
प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः ॥ 50cd
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ 51ab
पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ 51cd
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ 52ab
15a

माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ 52cd
मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ 53ab
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ 53cd
श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ॥ 54ab
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ 54cd
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ 55ab
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ 55cd
बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ 56ab
सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ 56cd
वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ॥ 57ab
तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ 57cd
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ 58ab
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ 58cd
तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ 59ab
प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ 59cd
देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ 60ab
इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ 60cd
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ 69॥ 60ef
य इमं पठते ऽध्यायं यः शृणोति सदा नरः ॥ 61ab
तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ 61cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः ॥ 15 ॥

Chapter 16

ऋषय ऊचुः ॥
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ 1ab
येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ 1cd
सूत उवाच ॥
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ 2ab
सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ 2cd
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ 3ab
सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ 3cd
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ 4ab
ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ 4cd
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ 5ab
नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ 5cd
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ 6ab
हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ 6cd
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ 7ab
पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ 7cd
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ 8ab
शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ 8cd
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ 9ab
पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ 9cd
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ 10ab
गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ 10cd
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम् ॥ 11ab
एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ 11cd
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ 12ab
द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम् ॥ 12cd
प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम् ॥ 13ab
15b

अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ 13cd
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ 14ab
दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ 14cd
जलतैलादिगंधानां यथायोग्यं च मानतः ॥ 15ab
मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ 15cd
अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ 16ab
आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ 16cd
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ 17ab
तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ 17cd
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ 18ab
पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ 18cd
संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ 19ab
देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ 19cd
तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ 20ab
तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ 20cd
विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् ॥ 21ab
शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ 21cd
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ 22ab
शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ 22cd
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ 23ab
सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ 23cd
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ 24ab
तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ 24cd
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ 25ab
उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ 25cd
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ 26ab
पूर्वभागः पितॄणां तु निशि युक्तः प्रशस्यते ॥ 26cd
परभागस्तु देवानां दिवा युक्तः प्रशस्यते ॥ 27ab
उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ 27cd
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ 28ab
सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ 28cd
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ 29ab
पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ 29cd
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ 30ab
पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ 30cd
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ 31ab
नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ 31cd
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ 32ab
महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ 32cd
पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ 33ab
चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ 33cd
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ॥ 34ab
श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ 34cd
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ 35ab
ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ 35cd
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ 36ab
16a

श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ 36cd
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ 37ab
तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ 37cd
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ 38ab
षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ 38cd
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ 39ab
द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ 39cd
कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ 40ab
अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ 40cd
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ 41ab
आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ 41cd
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ 42ab
माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ 42cd
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ 43ab
ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ 43cd
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ 44ab
तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ 44cd
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ 45ab
वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ 45cd
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ 46ab
दानेन तपसा होमैर्जपेन नियमेन च ॥ 46cd
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ 47ab
ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ 47cd
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ 48ab
व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ 48cd
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ 49ab
तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ 49cd
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ 50ab
ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ 50cd
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ 51ab
कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ 51cd
महादारिद्र्यशमनं सर्वसंपत्करं भवेत् ॥ 52ab
गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ 52cd
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ 53ab
दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ 53cd
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ 54ab
दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ 54cd
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ 55ab
मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ 55cd
कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् 1 56ab
गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ 56cd
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ 57ab
कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ 57cd
दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ 58ab


1 गजकोमेडो गजवक्त्रः ।

16b


त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ 58cd
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ 59ab
रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ 59cd
लवणायसतैलानां माषादीनां च दानतः ॥ 60ab
त्रिकटुफलगंधानां जलादीनां च दानतः ॥ 60cd
द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ 61ab
स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ 61cd
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ 62ab
शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ 62cd
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ 63ab
मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ 63cd
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ 64ab
सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ 64cd
इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ 65ab
वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ 65cd
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ 66ab
यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ 66cd
यावत्संगवकालं तु धनुर्मासो विधीयते ॥ 67ab
धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ 67cd
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ 68ab
पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ 68cd
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ 69ab
अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ 69cd
सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ 70ab
इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत् ॥ 70cd
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ 71ab
शालितंडुलभारेण मरीचप्रस्थकेन च ॥ 71cd
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ 72ab
द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ 72cd
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ 73ab
द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ 73cd
नारिकेलफलादीनां तथा गणनया सह ॥ 74ab
द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ 74cd
कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम् ॥ 75ab
तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ 75cd
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ 76ab
वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ 76cd
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ 77ab
महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ 77cd
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ 78ab
सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ 78cd
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ 79ab
तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ 79cd
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ 80ab
तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ 80cd
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ 81ab
जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ 81cd
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ 82ab
संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ 82cd
17a

अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ 83ab
मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ 83cd
मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ॥ 84ab
जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ॥ 84cd
जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि ॥ 85ab
इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ॥ 85cd
योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः ॥ 86ab
तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ॥ 86cd
बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम् ॥ 87ab
बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥ 87cd
नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत् ॥ 88ab
जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ॥ 88cd
विन्दुनादयुतं सर्वं सकलीकरणं भवेत् ॥ 89ab
सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ 89cd
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते ॥ 90ab
बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते ॥ 90cd
तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत् ॥ 91ab
माता देवी बिंदुरूपा नादरूपः शिवः पिता ॥ 91cd
पूजिताभ्यां पितृभ्यां तु परमानंद एव हि ॥ 92ab
परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ॥ 92cd
सा देवी जगतां माता स शिवो जगतः पिता । 93ab
पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ॥ 93cd
कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि ॥ 94ab
तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ॥ 94cd
पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत् ॥ 95ab
भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते ॥ 95cd
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ 96ab
सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ॥ 96cd
पुरुषत्वादिगर्भो ह् इगर्भवाञ्जनको यतः ॥ 97ab
पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ॥ 97cd
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ॥ 98ab
जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ 98cd
अन्यतो भाव्यते ऽवश्यं मायया जन्म कथ्यते ॥ 99ab
जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ 99cd
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ॥ 100ab
जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् ॥ 100cd
भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ॥ 101ab
प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ 101cd
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ 102ab
मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ 102cd
भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः ॥ 103ab
भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः ॥ 103cd
भगेन सहितं लिंगं भगंलिंगेन संयुतम् ॥ 104ab
इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ॥ 104cd
भगवंतं महादेवं शिवलिंगं प्रपूजयेत् ॥ 105ab
लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ 105cd
17b

लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् ॥ 106ab
लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते ॥ 106cd
लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः ॥ 107ab
शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते ॥ 107cd
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ 108ab
चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते ॥ 108cd
प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः ॥ 109ab
षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् ॥ 109cd
एवमादित्यवारे हि पूजा जन्मनिवर्तिका ॥ 110ab
आदिवारे महालिंगं प्रणवेनैव पूजयेत् ॥ 110cd
आदिवारे पंचगव्यैरभिषेको विशिष्यते ॥ 111ab
गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् ॥ 111cd
क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः ॥ 112ab
गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ॥ 112cd
प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः ॥ 113ab
बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ॥ 113cd
उकारं चरलिंगं स्यादकारं गुरुविग्रहम् ॥ 114ab
षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ॥ 114cd
शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ॥ 115ab
रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात् ॥ 115cd
त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ 116ab
शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ 116cd
य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ॥ 117ab
तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ॥ 117cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः ॥ 16 ॥

Chapter 17

ऋषय ऊचुः ॥
प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने ॥ 1ab
शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो ॥ 1cd
सूत उवाच ॥
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ 2ab
अस्योत्तरं महादेवो जानाति स्म न चापरः ॥ 2cd
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ॥ 3ab
शिवो ऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ॥ 3cd
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ॥ 4ab
नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ 4cd
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः ॥ 5ab
प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ 5cd
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च ॥ 6ab
सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ 6cd
तमेव मायारहितं नूतनं परिचक्षते ॥ 7ab
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ 7cd
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ 8ab
प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ 8cd
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः ॥ 9ab
सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ॥ 9cd
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ॥ 10ab
मंत्रेणार्थानुसंधानं स्वदेहविलयावधि ॥ 10cd
18a

स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः ॥ 11ab
केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः ॥ 11cd
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ॥ 12ab
सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ 12cd
अकारश्च उकारश्च मकारश्च ततः परम् ॥ 13ab
बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ 13cd
दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ॥ 14ab
मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ 14cd
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ॥ 15ab
ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ 15cd
भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश ॥ 16ab
आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते ॥ 16cd
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ॥ 17ab
व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् ॥ 17cd
वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि ॥ 18ab
नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ॥ 18cd
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ॥ 19ab
पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् ॥ 19cd
पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात् ॥ 20ab
पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ॥ 20cd
आकाशजयमाप्नोति नवकोटिजपेन वै ॥ 20॥ 20ef
गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ 21ab
अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ 21cd
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ 22ab
ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ 22cd
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ॥ 23ab
प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ 23cd
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ॥ 24ab
सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ 24cd
समाधिस्थो महायोगीशिव एव न संशयः ॥ 25ab
ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् ॥ 25cd
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ॥ 26ab
दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ 26cd
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ॥ 27ab
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ 27cd
धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः ॥ 28ab
क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ 28cd
पूजायुक्तश्च मितभुग्बाह्येंद्रियजयान्वितः ॥ 29ab
परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ 29cd
एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः ॥ 30ab
सदा जपपरः शांतोजपयोगीति तं विदुः ॥ 30cd
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ 31ab
सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ॥ 31cd
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ॥ 32ab
तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ 32cd
शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम् ॥ 33ab
स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ॥ 33cd
पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ 34ab
प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ॥ 34cd
18b

गुरूपदेशं संगम्य सुखवासे सुभूतले ॥ 35ab
पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ 35cd
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ॥ 36ab
एकवारं मिताशीतु वाग्यतो नियतेंद्रियः ॥ 36cd
स्वस्य राजपितॄणां च शुश्रूषणं च नित्यशः ॥ 37ab
सहस्रजपमात्रेण भवेच्छुद्धो ऽन्यथा ऋणी ॥ 37cd
पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन् ॥ 38ab
पद्मासनस्थं शिवदं गंगाचंद्रकलान्वितम् ॥ 38cd
वामोरुस्थितशक्त्या च विराजं तं महागणैः ॥ 39ab
मृगटंकधरं देवं वरदाभयपाणिकम् ॥ 39cd
सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन् ॥ 40ab
संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले ॥ 40cd
जपेत्पंचाक्षरीं विद्यां प्राङ्मुखः शुद्धकर्मकृत् ॥ 41ab
प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ॥ 41cd
मनोरमे शुचौ देशे नियतः शुद्धमानसः ॥ 42ab
पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ॥ 42cd
वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान् ॥ 43ab
एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम् ॥ 43cd
ईशानं चाथ पुरुषमघोरं वाममेव च ॥ 44ab
सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान् ॥ 44cd
पूजाद्रव्याणि संपाद्य शिवपूजां समारभेत् ॥ 45ab
शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ॥ 45cd
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् ॥ 46ab
दशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ 46cd
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ॥ 47ab
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ 47cd
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ॥ 48ab
ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च ॥ 48cd
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ॥ 49ab
षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ॥ 49cd
दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम् ॥ 50ab
पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु ॥ 50cd
परमान्नेन संपूज्य यथाविभवविस्तरम् ॥ 51ab
रुद्राक्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ॥ 51cd
बलिदानं ततः कृत्वा भूरिभोजनमाचरेत् ॥ 52ab
ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत् ॥ 52cd
पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः ॥ 53ab
पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ॥ 53cd
अतलादि समारभ्य सत्यलोकावधिक्रमात् ॥ 54ab
पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ 54cd
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् ॥ 55ab
पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ॥ 55cd
पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ 56ab
आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ॥ 56cd
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ॥ 57ab
यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि ॥ 57cd
पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते ॥ 58ab
19a

पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ॥ 58cd
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ॥ 59ab
पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश ॥ 59cd
सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश ॥ 60ab
क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने ॥ 60cd
कार्यलक्ष्म्या महाभोगिरक्षां कृत्वा ऽधितिष्ठति ॥ 61ab
तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः ॥ 61cd
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ॥ 62ab
षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः ॥ 62cd
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ॥ 63ab
कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ॥ 63cd
तदंते कालचक्रं ह् इकालातीतस्ततः परम् ॥ 64ab
शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ॥ 64cd
माहिषं धर्ममास्थाय सर्वान्कालेन युंजति ॥ 65ab
असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ॥ 65cd
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ॥ 66ab
नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ॥ 66cd
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् ॥ 67ab
तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ॥ 67cd
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ॥ 68ab
तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ॥ 68cd
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ॥ 69ab
मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ॥ 69cd
तदूर्ध्वं नित्यभोगो हि तदर्वाङ्नश्वरं विदुः ॥ 70ab
तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् ॥ 70cd
तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम् ॥ 71ab
तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः ॥ 71cd
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ॥ 72ab
तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः ॥ 72cd
तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः ॥ 73ab
तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः ॥ 73cd
शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते ॥ 74ab
तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ॥ 74cd
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ 75ab
तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः ॥ 75cd
तदूर्ध्वं हि व्रजंत्येते पौरुषद्रव्यपूजकाः ॥ 76ab
तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ 76cd
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ 77ab
तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ 77cd
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ 78ab
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ 78cd
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ 79ab
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ 79cd
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः ॥ 80ab
जनिजं वै तिरोधानं नानिषिद्ध्यातते इति ॥ 80cd
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ 81ab
19b

तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः ॥ 81cd
आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै ॥ 82ab
तावद्वै वेदिभागं तन्महालोकात्मलिंगके ॥ 82cd
प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः ॥ 83ab
एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ॥ 83cd
अधर्ममहिषारूढं कालचक्रं तरंति ते ॥ 84ab
सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ॥ 84cd
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ॥ 85ab
सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ॥ 85cd
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ 86ab
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ 86cd
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ 87ab
तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ 87cd
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ 88ab
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ 88cd
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ 89ab
गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ 89cd
सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश ॥ 90ab
पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश ॥ 90cd
पुनःकारणरुद्रस्य लोकाष्टाविंशका मताः ॥ 91ab
पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ॥ 91cd
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ 92ab
तत्रैव ज्ञानकैलासे पंचावरणसंयुते ॥ 92cd
पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम् ॥ 93ab
आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ॥ 93cd
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ॥ 94ab
परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ॥ 94cd
सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः ॥ 95ab
पंचकृत्यप्रवीणो ऽसौ सच्चिदानंदविग्रहः ॥ 95cd
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ॥ 96ab
समाध्यासनमासीनः स्वात्मारामो विराजते ॥ 96cd
तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात् ॥ 97ab
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ 97cd
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ॥ 98ab
तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ॥ 98cd
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ॥ 99ab
क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ 99cd
शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ॥ 100ab
यथा रविः स्वकिरणादशुद्धिमपनेष्यति ॥ 100cd
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति ॥ 101ab
अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ 101cd
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ 102ab
आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ 102cd
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ॥ 103ab
पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ 103cd
पुनश्च शतलक्षेण रुद्रस्य पदमाप्नुयात् ॥ 104ab
20a

पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ 104cd
पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ 105ab
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ 105cd
कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे ॥ 106ab
सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ॥ 106cd
कोपमोहौ रौद्रचक्रं भ्रमणं चैश्वरं विदुः ॥ 107ab
शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः ॥ 107cd
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ॥ 108ab
पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ 108cd
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ॥ 109ab
क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ 109cd
शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रितः ॥ 110ab
शिवलोकमवाप्नोति पंचमावरणाद्बहिः ॥ 110cd
राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम् ॥ 111ab
तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ॥ 111cd
सद्योजातस्य तत्स्थानं पंचमावरणं परम् ॥ 112ab
वामदेवस्य च स्थानं चतुर्थावरणं पुनः ॥ 112cd
अघोरनिलयं पश्चात्तृतीयावरणं परम् ॥ 113ab
पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ॥ 113cd
ईशानस्य परस्यैव प्रथमावरणं ततः ॥ 114ab
ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ॥ 114cd
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ॥ 115ab
चतुर्थं मंडपं पश्चाच्चंद्रशेखरमूर्तिमत् ॥ 115cd
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् ॥ 116ab
द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ॥ 116cd
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ॥ 117ab
ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ॥ 117cd
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् ॥ 118ab
नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ॥ 118cd
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः ॥ 119ab
ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ॥ 119cd
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् ॥ 120ab
विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ 120cd
एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रियः ॥ 121ab
अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ॥ 121cd
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमो ऽंतकम् ॥ 122ab
पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः ॥ 122cd
स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः ॥ 123ab
मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः ॥ 123cd
क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ 124ab
पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ॥ 124cd
मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ॥ 125ab
वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति ॥ 125cd
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते ॥ 126ab
पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ 126cd
पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते ॥ 127ab
शूद्रश्चैव नमोंतेन पंचविंशतिलक्षतः ॥ 127cd
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ 128ab
20b

नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ 128cd
नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत् ॥ 129ab
ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ 129cd
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ 130ab
महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ 130cd
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ 131ab
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ 131cd
शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि ॥ 132ab
शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ 132cd
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ॥ 133ab
यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् ॥ 133cd
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ॥ 134ab
देवीलिंगं भवेद्रूपं शिवभक्तस्त्रियास्तथा ॥ 134cd
यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ 135ab
शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ 135cd
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ॥ 136ab
शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत् ॥ 136cd
शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ॥ 137ab
शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ 137cd
शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ॥ 138ab
उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ 138cd
पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात् ॥ 139ab
शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् ॥ 139cd
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ॥ 140ab
येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः ॥ 140cd
आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ॥ 141ab
शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् ॥ 141cd
पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम् ॥ 142ab
धने देहे च मंत्रे च भावनायामवंचकः ॥ 142cd
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ॥ 143ab
नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम् ॥ 143cd
मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम् ॥ 144ab
मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ॥ 144cd
उद्दिश्य पूजयेदादिपितरं शिवमेव हि ॥ 145ab
पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ॥ 145cd
पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः ॥ 146ab
क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ॥ 146cd
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ॥ 147ab
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ 147cd
शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते ॥ 148ab
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ 148cd
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ 149ab
फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ॥ 149cd
तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः ॥ 150ab
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ 150cd
21a

कुरुते यो नरो भक्त्या स शिवः शिवमेधते ॥ 151ab
य इमं पठते ऽध्यायमर्थवद्वेदसंमतम् ॥ 151cd
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ॥ 152ab
श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ॥ 152cd
शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः ॥ 153 ॥ 153ab


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः ॥ 17 ॥

Chapter 18

ऋष्य ऊचुः ॥
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ 1ab
सूत उवाच ॥
बंधमोक्षं तथोपायं वक्ष्ये ऽहं शृणुतादरात् ॥ 1cd
प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ॥ 2ab
प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ 2cd
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ॥ 3ab
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ 3cd
प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ॥ 4ab
पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ 4cd
प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ॥ 5ab
पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥ 5cd
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ॥ 6ab
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रियभोगदम् ॥ 6cd
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ॥ 7ab
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ 7cd
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ 8ab
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ 8cd
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ 9ab
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ 9cd
चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ॥ 10ab
पिबति वाथ वमति जीवन्बालो जलं यथा ॥ 10cd
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ 11ab
सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ॥ 11cd
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ 20॥ 11ef
सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ 12ab
अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ 12cd
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ॥ 13ab
शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥ 13cd
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ॥ 14ab
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ 14cd
लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत् ॥ 15ab
कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥ 15cd
पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ 16ab
प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥ 16cd
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ॥ 17ab
कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ॥ 17cd
तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ॥ 18ab
प्रसादात्परमेशस्य कर्म देहो यदावशः ॥ 18cd
तदा वै शिवलोके तु वासः सालोक्यमुच्यते ॥ 19ab
21b

सामीप्यं याति सांबस्य तन्मात्रे च वशं गते ॥ 19cd
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ 20ab
महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥ 20cd
बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ॥ 21ab
पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥ 21cd
शिवस्य मानसैश्वर्यं तदा ऽयत्नं भविष्यति ॥ 22ab
सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥ 22cd
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ॥ 23ab
एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ॥ 23cd
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ॥ 24ab
शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ 24cd
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ 25ab
आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ॥ 25cd
सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ॥ 26ab
ऋषय ऊचुः ॥
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ॥ 26cd
सूत उवाच ॥
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ॥ 27ab
तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ 27cd
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम् ॥ 28ab
स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ॥ 28cd
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ॥ 29ab
पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ॥ 29cd
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ॥ 30ab
भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥ 30cd
स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम् ॥ 31ab
प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ॥ 31cd
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ॥ 32ab
पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥ 32cd
स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ 33ab
स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ 33cd
तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते ॥ 34ab
सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ॥ 34cd
स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ 35ab
यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ 35cd
बिंदुनादमयं लिंगं स्थावरं जंगमं च यत् ॥ 36ab
भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ 36cd
यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः ॥ 37ab
स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ 37cd
आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः ॥ 38ab
स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥ 38cd
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ॥ 39ab
समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ॥ 39cd
शुद्धभावनया चैव स्थापितं लिंगमुत्तमम् ॥ 40ab
तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ 40cd
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ॥ 41ab
महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥ 41cd
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् ॥ 42ab
22a

प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥ 42cd
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ॥ 43ab
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ 43cd
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् ॥ 44ab
कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ॥ 44cd
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ॥ 45ab
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ 45cd
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ 46ab
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ 46cd
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ 47ab
प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ 47cd
रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ॥ 48ab
बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥ 48cd
स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम् ॥ 49ab
शिलालिंगं तु शूद्राणां महाशुद्धिकरं शुभम् ॥ 49cd
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् ॥ 50ab
स्वीयाभावे ऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥ 50cd
स्त्रीणां तु पार्थिवं लिंगं सभर्तॄणां विशेषतः ॥ 51ab
विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥ 51cd
विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ 52ab
बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ॥ 52cd
शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम् ॥ 53ab
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥ 53cd
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ॥ 54ab
अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ 54cd
पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे ॥ 55ab
करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ॥ 55cd
निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते ॥ 56ab
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ 56cd
पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा ॥ 57ab
विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥ 57cd
लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् ॥ 58ab
मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥ 58cd
तिलादीनां च द्रव्याणां वस्त्रादीनां तथैव च ॥ 59ab
तथा पर्युषितानां च भस्मना शिद्धिरिष्यते ॥ 59cd
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ॥ 60ab
सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥ 60cd
वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत् ॥ 61ab
मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥ 61cd
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ 62ab
अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ॥ 62cd
शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम् ॥ 63ab
कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ 63cd
शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान् ॥ 64ab
शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥ 64cd
दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन् ॥ 65ab
22b

सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ॥ 65cd
दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ 66ab
भस्मशब्दार्थ एवं हि शिवः पूर्वं तथा ऽकरोत् ॥ 66cd
यथा स्वविषये राजा सारं गृह्णाति यत्करम् ॥ 67ab
यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ॥ 67cd
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ॥ 68ab
दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥ 68cd
तथा प्रपंचकर्तापि स शिवः परमेश्वरः ॥ 69ab
स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ॥ 69cd
दग्ध्वा प्रपंचं तद्भसम् अस्वात्मन्यारोपयच्छिवः ॥ 70ab
उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ॥ 70cd
स्वरत्नं स्थापयामास स्वकीये हि शरीरके ॥ 71ab
केशमाकाशसारेण वायुसारेण वै मुखम् ॥ 71cd
हृदयं चाग्निसारेण त्वपां सारेण वैकटिम् ॥ 72ab
जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ॥ 72cd
ब्रह्मविष्ण्वोश्च रुद्राणां सारं चैव त्रिपुंड्रकम् ॥ 73ab
तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥ 73cd
भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ ॥ 74ab
प्रपंचसारसर्वस्वमनेनैव वशीकृतम् ॥ 74cd
तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ॥ 75ab
यथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥ 75cd
अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ॥ 76ab
शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ॥ 76cd
वकारः शक्तिरमृतं मेलनं शिव उच्यते ॥ 77ab
तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥ 77cd
तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम् ॥ 78ab
पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥ 78cd
दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा ॥ 79ab
पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ॥ 79cd
त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ॥ 80ab
शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥ 80cd
भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ॥ 81ab
शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥ 81cd
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ॥ 82ab
ललाटे ऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥ 82cd
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ॥ 83ab
गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ 83cd
सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ॥ 84ab
गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ 84cd
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ॥ 85ab
विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥ 85cd
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ॥ 86ab
गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ 86cd
श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ॥ 87ab
उक्तं यद्गुरुणा पूर्वं शक्यं वा ऽशक्यमेव वा ॥ 87cd
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ॥ 88ab
तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ 88cd
23a

शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ॥ 89ab
अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ 89cd
शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ 90ab
जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥ 90cd
जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ॥ 91ab
निमज्जयति पुत्रं वै संसारे जनकः पिता ॥ 91cd
संतारयति संसाराद्गुरुर्वै बोधकः पिता ॥ 92ab
उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥ 92cd
अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ 93ab
पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥ 93cd
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ 94ab
स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ 94cd
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ॥ 95ab
गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥ 95cd
गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ॥ 96ab
शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥ 96cd
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ॥ 97ab
गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥ 97cd
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ॥ 98ab
आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥ 98cd
निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ॥ 99ab
तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥ 99cd
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ॥ 100ab
ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥ 100cd
पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ॥ 101ab
अकस्मादेव गोधादिजंतूनां पतनेपि च ॥ 101cd
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ॥ 102ab
वृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥ 102cd
भाविदुःखं समायाति तस्मात्ते भौतिका मता ॥ 103ab
अमेध्या शनिपातश्च महामारी तथैव च ॥ 103cd
ज्वरमारी विषूचिश्च गोमारी च मसूरिका ॥ 104ab
जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥ 104cd
दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः ॥ 105ab
शवचांडालपतितस्पर्शाद्येंतर्गृहे गते ॥ 105cd
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ॥ 106ab
शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥ 106cd
देवालये ऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ॥ 107ab
प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥ 107cd
भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ॥ 108ab
मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥ 108cd
तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ॥ 109ab
मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥ 109cd
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ 110ab
पूरयेन्मंत्रपूतेन पंचद्रव्ययुतेन हि ॥ 110cd
प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ॥ 111ab
कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥ 111cd
सुवर्णप्रतिमां विष्णोरिंद्रादीनां च निक्षिपेत् ॥ 112ab
23b

सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥ 112cd
प्रागादिषु यथामंत्रमिंद्रादीन्क्रमशो यजेत् ॥ 113ab
तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥ 113cd
आवाहनादिकं सर्वमाचार्येणैव कारयेत् ॥ 114ab
आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ 114cd
कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ॥ 115ab
कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ 115cd
एकाहं वा नवाहं वा तथा मंडलमेव वा ॥ 116ab
यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ 116cd
शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ॥ 117ab
समिदन्नाज्यकैर्द्रव्यैर्नाम्ना मंत्रेण वा हुनेत् ॥ 117cd
प्रारंभे यत्कृतं द्रव्यं तत्क्रियांतं समाचरेत् ॥ 118ab
पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥ 118cd
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ 119ab
आचार्यश्च हविष्याशीqत्विजश्च भवेद्बुधाः ॥ 119cd
आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ॥ 120ab
ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥ 120cd
दशदानं ततः कुर्याद्भूरिदानं ततः परम् ॥ 121ab
बालानामुपनीतानां गृहिणां वनिनां धनम् ॥ 121cd
कन्यानां च सभर्तॄणां विधवानां ततः परम् ॥ 122ab
तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥ 122cd
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ॥ 123ab
तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥ 123cd
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ 124ab
पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ 124cd
तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ॥ 125ab
तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥ 125cd
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ॥ 126ab
सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ॥ 126cd
वित्ताभावे दरिद्रस्तु यथाशक्ति समाचरेत् ॥ 127ab
भैरवस्य महापूजां कुर्याद्भूतादिशांतये ॥ 127cd
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् ॥ 128ab
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ 128cd
एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ॥ 129ab
शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ 129cd
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ॥ 130ab
महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ 130cd
महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत् ॥ 131ab
सर्वभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ 131cd
तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत् ॥ 132ab
दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥ 132cd
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ॥ 133ab
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ 133cd
त्वत्स्वरूपेर्पिता बुद्धिर्नते ऽशून्ये च रोचति ॥ 134ab
या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ॥ 134cd
24a

नम्रो ऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ॥ 135ab
न शून्यो मत्स्वरूपो वै तव दासो ऽस्मि सांप्रतम् ॥ 135cd
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ॥ 136ab
अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ॥ 136cd
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ॥ 137ab
सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥ 137cd
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ॥ 138ab
दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ 138cd
धर्मेणैव हि पापानामपनोदनमीरितम् ॥ 139ab
शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ 139cd
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ 140ab
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ 140cd
जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ॥ 141ab
शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ 141cd
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ॥ 142ab
पदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ 142cd
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ॥ 143ab
निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ 143cd
जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ 144ab
शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ 144cd
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते ॥ 145ab
देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥ 145cd
मायाचक्रप्रणेता हि शिवः परमकारणम् ॥ 146ab
शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ॥ 146cd
शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत् ॥ 147ab
शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥ 147cd
प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ॥ 148ab
षोडशैरुपचारैश्च कृतपूजा फलप्रदा ॥ 148cd
प्रदक्षिणा ऽविनाश्यं हि पातकं नास्ति भूतले ॥ 149ab
तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥ 149cd
शिवपूजापरो मौनी सत्यादिगुणसंयुतः ॥ 150ab
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ 150cd
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः ॥ 151ab
शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ॥ 151cd
करणेन फलं याति तमसः परिहापनात् ॥ 152ab
जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ॥ 152cd
यथादेशं यथाकालं यथादेहं यथाधनम् ॥ 153ab
यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ 153cd
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ॥ 154ab
जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ 154cd
पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ॥ 155ab
अथवा ऽहुर्दरिद्रस्य भिक्षान्नंज्ञानदं भवेत् ॥ 155cd
शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम् ॥ 156ab
शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ॥ 156cd
येन केनाप्युपायेन यत्र कुत्रापि भूतले ॥ 157ab
शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ॥ 157cd
24b

प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ॥ 158ab
रहस्यं शिवमंत्रस्य शिवो जानाति नापरः ॥ 158cd
शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः ॥ 159ab
स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ॥ 159cd
पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम् ॥ 160ab
सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥ 160cd
व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा ॥ 161ab
भद्रमस्तु हि वो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा ॥ 161cd
य इमं पठते ऽध्यायं यः शृणोति नरः सदा ॥ 162ab
शिवज्ञानं स लभतेशिवस्य कृपया बुधाः ॥ 162cd


इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशो ऽध्यायः ॥ 18 ॥

Chapter 19

ऋषय ऊचुः ॥
सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान् ॥ 1ab
सम्यगुक्तस्त्वयाव्लिंगमहिमाव्सत्फलप्रदः ॥ 1cd
यत्र पार्थिवमाहेशलिंगस्य महिमाधुना ॥ 2ab
सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः ॥ 2cd
सूत उवाच ॥
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ 3ab
शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ॥ 3cd
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ 4ab
तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥ 4cd
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ 5ab
संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ॥ 5cd
देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ॥ 6ab
अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ॥ 6cd
कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ॥ 7ab
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ 7cd
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ॥ 8ab
अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥ 8cd
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ॥ 9ab
एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते ॥ 9cd
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ॥ 10ab
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ 10cd
यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ॥ 11ab
तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥ 11cd
यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ॥ 12ab
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ 12cd
यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ॥ 13ab
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ 13cd
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ॥ 14ab
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते ॥ 14cd
यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ॥ 15ab
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ 15cd
प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ 16ab
वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ 16cd
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ॥ 17ab
तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः ॥ 17cd
यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ॥ 18ab
पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ 18cd
25a

यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ॥ 19ab
इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते ॥ 19cd
त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ॥ 20ab
दशैकादशकंयावत्तस्य पुण्यफलं शृणु ॥ 20cd
अनेनैव स्वदेहेन रुद्रलोके महीयते ॥ 21ab
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ 21cd
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ॥ 22ab
तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥ 22cd
शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ॥ 23ab
यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ 23cd
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ 24ab
सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥ 24cd
निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ 25ab
शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ 25cd
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ 26ab
स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥ 26cd
यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ॥ 27ab
पंचसूत्रविधानां च पार्थिवेन विचारयेत् ॥ 27cd
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ॥ 28ab
द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥ 28cd
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ 29ab
पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ 29cd
अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ॥ 30ab
खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥ 30cd
वेदिका तु महाविद्या लिंगं देवो महेश्वरः ॥ 31ab
अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ॥ 31cd
द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ॥ 32ab
अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः ॥ 32cd
द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ॥ 33ab
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ 33cd
अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ॥ 34ab
येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ 34cd
तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ॥ 35ab
द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ 35cd
अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ॥ 36ab
द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ 36cd
अखंडे स्थावरे पूजा न कामफलदायिनी ॥ 37ab
प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥ 37cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः ॥ 19 ॥

Chapter 20

सूत उवाच ॥
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ 1ab
वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ 1cd
सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ॥ 2ab
ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ॥ 2cd
नैत्यिकं सकलं कामं विधायानंतरं पुमान् ॥ 3ab
शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ 3cd
25b

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ॥ 4ab
पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ॥ 4cd
नदीतीरे तडागे च पर्वते कानने ऽपि च ॥ 5ab
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ 5cd
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ॥ 6ab
शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ 6cd
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ 7ab
वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ 7cd
संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ॥ 8ab
अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ॥ 8cd
संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ॥ 9ab
विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ॥ 9cd
ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ॥ 10ab
तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः ॥ 10cd
नमः शिवाय मंत्रेणार्चनद्रव्यं च प्रोक्षयेत् ॥ 11ab
भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥ 11cd
आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ॥ 12ab
नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते ॥ 12cd
शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ॥ 13ab
नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ॥ 13cd
नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ॥ 14ab
चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ॥ 14cd
भक्तितस्तत एतत्ते रुद्रायेति च मंत्रतः ॥ 15ab
आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥ 15cd
मानो महन्तमिति च मंत्रेणावाहनं चरेत् ॥ 16ab
याते रुद्रेण मंत्रेण संचरेदुपवेशनम् ॥ 16cd
मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ॥ 17ab
अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥ 17cd
मनुना सौजीव इति देवतान्यासमाचरेत् ॥ 18ab
असौ योवसर्पतीति चाचरेदपसर्पणम् ॥ 18cd
नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ 19ab
अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च ॥ 19cd
पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ॥ 20ab
दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् ॥ 20cd
घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ॥ 21ab
मधुवाता मधुनक्तं मधुमान्न इति त्र्यृचा ॥ 21cd
मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ॥ 22ab
अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ॥ 22cd
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ 23ab
नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ 23cd
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ 24ab
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ 24cd
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ॥ 25ab
नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ 25cd
नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ॥ 26ab
नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ 26cd
26a

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ॥ 27ab
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ 27cd
नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ॥ 28ab
मनुना त्र्यम्बकमिति पुनराचमनं स्मृतम् ॥ 28cd
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ॥ 29ab
नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ 29cd
मानो महांतमिति च मानस्तोके इति ततः ॥ 30ab
मंत्रद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥ 30cd
हिरण्यगर्भ इति त्र्यृचा दक्षिणां हि समर्पयेत् ॥ 31ab
देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ॥ 31cd
दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ॥ 32ab
पुष्पांजलिं चरेद्भक्त्या इमा रुद्राय च त्र्यृचा ॥ 32cd
मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ 33ab
मानस्तोकेति मंत्रेण साष्टाङ्गं प्रणमेत्सुधीः ॥ 33cd
एषते इति मंत्रेण शिवमुद्रां प्रदर्शयेत् ॥ 34ab
यतोयत इत्यभयां ज्ञानाख्यां त्र्यंबकेण च ॥ 34cd
नमःसेनेति मंत्रेण महामुद्रां प्रदर्शयेत् ॥ 35ab
दर्शयेद्धेनुमुद्रां च नमो गोभ्य ऋचानया ॥ 35cd
पंचमुद्राः प्रदर्श्याथ शिवमंत्रजपं चरेत् ॥ 36ab
शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥ 36cd
ततः पंचाङ्गपाठं च कुर्य्याद्वेदविचक्षणः ॥ 37ab
देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥ 37cd
इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ॥ 38ab
समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥ 38cd
ऋचा सद्योजातमिति मृदाहरणमाचरेत् ॥ 39ab
वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ 39cd
अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ॥ 40ab
तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि ॥ 40cd
संयोजयेद्वेदिकायामीशानमनुना हरम् ॥ 41ab
अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ॥ 41cd
पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ॥ 42ab
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ 42cd
भवाय भवनाशाय महादेवाय धीमहि ॥ 43ab
उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ 43cd
अनेन मनुना वापि पूजयेच्छंकरं सुधीः ॥ 44ab
सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥ 44cd
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ 45ab
प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ॥ 45cd
पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ॥ 46ab
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ 46cd
हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ॥ 47ab
शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥ 47cd
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ॥ 48ab
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ 48cd
ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ॥ 49ab
कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ॥ 49cd
कृत्वा न्यासविधिं सम्यक्षडङ्गकरयोस्तथा ॥ 50ab
26b

षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् ॥ 50cd
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ॥ 51ab
भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ॥ 51cd
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रावतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ 52ab
पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥ 52cd
इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ॥ 53ab
जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ॥ 53cd
स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ॥ 54ab
नानाभिधाभिर्विप्रेन्द्राः पठेद्वै शतरुद्रियम् ॥ 54cd
ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ॥ 55ab
प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ॥ 55cd
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ॥ 56ab
कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ॥ 56cd
अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ॥ 57ab
कृतं तदस्तु सफलं कृपया तव शंकर ॥ 57cd
अहं पापी महानद्य पावनश्च भवान्महान् ॥ 58ab
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥ 58cd
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ 59ab
न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ॥ 59cd
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ 60ab
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ 60cd
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ 61ab
प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥ 61cd
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ 62ab
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ 62cd
ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ॥ 63ab
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ 63cd
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ 64ab
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥ 64cd
इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ॥ 65ab
सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ 65cd
आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ॥ 66ab
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ 66cd


इति श्रीशिवमहापुराणे प्र॰ विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशो ऽध्यायः ॥ 20 ॥

Chapter 21

ऋषय ऊचुः ॥
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ 1ab
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥ 1cd
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ॥ 2ab
शिवपार्थिवलिंगानां कृपया दीनवत्सल ॥ 2cd
सूत उवाच ॥
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ॥ 3ab
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ 3cd
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ 4ab
27a

वृथा भवति सा पूजा दमदानादिकं वृथा ॥ 4cd
संख्या पार्थिवलिंगानां यथाकामं निगद्यते ॥ 5ab
संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥ 5cd
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ॥ 6ab
लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥ 6cd
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ॥ 7ab
पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ॥ 7cd
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ॥ 8ab
पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ॥ 8cd
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ॥ 9ab
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥ 9cd
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ॥ 10ab
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् ॥ 10cd
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ॥ 11ab
स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ॥ 11cd
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ॥ 12ab
महाराजभये पंचशतं ज्ञेयं विचक्षणैः ॥ 12cd
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ॥ 13ab
डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् ॥ 13cd
दारिद्र्ये पंचसाहस्रमयुतं सर्वकामदम् ॥ 14ab
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ 14cd
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ॥ 15ab
त्रिलिंगं सर्वकामानां कारणं परमीरितम् ॥ 15cd
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ॥ 16ab
मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः ॥ 16cd
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ॥ 17ab
निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥ 17cd
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ॥ 18ab
डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ॥ 18cd
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ॥ 19ab
लिंगानामयुतेनैव कन्यकासंततिं लभेत् ॥ 19cd
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ॥ 20ab
लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् ॥ 20cd
कोटिमेकां तु लिंगानां यः करोति नरो भुवि ॥ 21ab
शिव एव भवेत्सोपि नात्र कार्य्या विचारणा ॥ 21cd
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ 22ab
भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् ॥ 22cd
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ॥ 23ab
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥ 23cd
एकतः सर्वदानानि व्रतानि विविधानि च ॥ 24ab
तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता ॥ 24cd
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ॥ 25ab
तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ 25cd
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ॥ 26ab
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥ 26cd
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ॥ 27ab
यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः ॥ 27cd
27b

उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ 28ab
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ 28cd
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ॥ 29ab
उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः ॥ 29cd
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ॥ 30ab
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् ॥ 30cd
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ॥ 31ab
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥ 31cd
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ॥ 32ab
विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ॥ 32cd
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ॥ 33ab
भक्त्या परमया विद्वाँल्लिंगमेकं प्रपूजयेत् ॥ 33cd
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ॥ 34ab
संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ॥ 34cd
अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ॥ 35ab
प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ॥ 35cd
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ॥ 36ab
गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ॥ 36cd
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ॥ 37ab
सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥ 37cd
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ॥ 38ab
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥ 38cd
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ॥ 39ab
पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ॥ 39cd
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ॥ 40ab
अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः ॥ 40cd
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ॥ 41ab
अन्येषामपि जंतूनां वैदिकेन न संमतम् ॥ 41cd
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ॥ 42ab
कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ॥ 42cd
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ॥ 43ab
द्विजानां जायते श्रद्धानैव वैदिककर्मणि ॥ 43cd
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ॥ 44ab
अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ॥ 44cd
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ॥ 45ab
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥ 45cd
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ॥ 46ab
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥ 46cd
शर्वो भवश्च रुद्रश्च उग्रोभीम इतीश्वरः ॥ 47ab
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ 47cd
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ॥ 48ab
ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ॥ 48cd
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ॥ 49ab
वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥ 49cd
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ॥ 50ab
तत एकादशान्रुद्रान्पूजयेद्विधिना ततः ॥ 50cd
ततः पंचाक्षरं जप्त्वा शतरुद्रियमेव च ॥ 51ab
28a

स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ॥ 51cd
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ 52ab
इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥ 52cd
रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि ॥ 53ab
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः ॥ 53cd
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ 54ab
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥ 54cd
विना भस्मत्रिपुंड्रेण विना रुद्राक्षमालया ॥ 55ab
बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ 55cd
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ 56ab
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ॥ 56cd


इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशो ऽध्यायः ॥ 21 ॥

Chapter 22

ऋष्य ऊचुः ॥
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ 1ab
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ 1cd
सूत उवाच ॥
शृणुध्वं मुनयः सर्वे सावधानतयाधुना ॥ 2ab
सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥ 2cd
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ 3ab
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ 3cd
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ॥ 4ab
भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥ 4cd
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ 5ab
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ 5cd
यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते ॥ 6ab
तद्गृहं पावनं सर्वमन्यपावनकारणम् ॥ 6cd
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ॥ 7ab
भक्षणीयं प्रयत्ने न शिवस्मरणपूर्वकम् ॥ 7cd
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ 8ab
विलंबे पापसंबंधो भवत्येव हि मानवे ॥ 8cd
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते ॥ 9ab
सपापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥ 9cd
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ॥ 10ab
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते ॥ 10cd
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् ॥ 11ab
सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥ 11cd
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ॥ 12ab
शृणुध्वं निर्णयंप्रीत्याशिवनैवेद्यभक्षणे ॥ 12cd
शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः ॥ 13ab
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते ॥ 13cd
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः ॥ 14ab
चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥ 14cd
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ॥ 15ab
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति ॥ 15cd
चंडाधिकारो यत्रास्ति तद्भाक्तव्यं न मानवैः ॥ 16ab
28b

चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः ॥ 16cd
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि ॥ 17ab
प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत् ॥ 17cd
स्नापयित्वा विधानेन यो लिंगस्नापनोदकम् ॥ 18ab
त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ 18cd
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ॥ 19ab
शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ 19cd
लोंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ॥ 20ab
सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥ 20cd
नैवेद्यनिर्णयः प्रोक्त इत्थं वो मुनिसत्तमाः ॥ 21ab
शृणुध्वं बिल्वमाहात्म्यं सावधानतया ऽदरात् ॥ 21cd
महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः ॥ 22ab
यथाकथंचिदेतस्य महिमा ज्ञायते कथम् ॥ 22cd
पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि ॥ 23ab
तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि ॥ 23cd
बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ॥ 24ab
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ 24cd
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति ॥ 25ab
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥ 25cd
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ॥ 26ab
जलाकुलं महादेवो दृष्ट्वा तु ष्टोभवत्यलम् ॥ 26cd
पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः ॥ 27ab
शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम् ॥ 27cd
बिल्वमूले दीपमालां यः कल्पयति सादरम् ॥ 28ab
स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥ 28cd
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ 29ab
गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥ 29cd
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ 30ab
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ 30cd
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ 31ab
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ 31cd
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ॥ 32ab
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ 32cd
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ 33ab
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ 34ab
पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥ 34cd
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ 35ab
निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ॥ 35cd
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ 36ab
पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा ॥ 36cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशो ऽध्यायः ॥ 22 ॥

Chapter 23

ऋषय ऊचुः ॥
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ 1ab
तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ 1cd
तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ 2ab
29a

त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ 2cd
सूत उवाच ॥
साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ॥ 3ab
भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ 3cd
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ॥ 4ab
सदा शिवकथा लोके वल्लभा भवतां सदा ॥ 4cd
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ॥ 5ab
उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ 5cd
मुखे यस्य शिवनाम सदाशिवशिवेति च ॥ 6ab
पापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ 6cd
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ॥ 7ab
तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ 7cd
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ॥ 8ab
तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ 8cd
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ॥ 9ab
तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ॥ 9cd
शिवनामविभूतिश्च तथा रुद्राक्ष एव च ॥ 10ab
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥ 10cd
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ॥ 11ab
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ 11cd
तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ॥ 12ab
एवं योनविजानाति सपापिष्ठो न संशयः ॥ 12cd
विभूतिर्यस्य नो भाले नांगे रुद्राक्षधारणम् ॥ 13ab
नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ 13cd
शैवं नाम यथा गंगा विभूतिर्यमुना मता ॥ 14ab
रुद्राक्षं विधिना प्रोक्ता सर्वपापाविनाशिनी ॥ 14cd
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ॥ 15ab
एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ 15cd
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ॥ 16ab
समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ 16cd
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ॥ 17ab
धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ 17cd
ऋष्य ऊचुः ॥
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ॥ 18ab
तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ 18cd
सूत उवाच ॥
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ॥ 19ab
तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ 19cd
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ॥ 20ab
भवत्स्नेहान्मया विप्राः प्रकाशः क्रियते ऽधुना ॥ 20cd
कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ॥ 21ab
महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ 21cd
वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ॥ 22ab
शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ 22cd
शिवेति नामदावाग्नेर्महापातकपर्वताः ॥ 23ab
भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः ॥ 23cd
पापमूलानि दुःखानि विविधान्यपि शौनक ॥ 24ab
शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ 24cd
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ॥ 25ab
शिवनामजपासक्तो यो नित्यं भुवि मानव ॥ 25cd
29b

भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ॥ 26ab
येषां भवति विश्वासः शिवनामजपे मुने ॥ 26cd
पातकानि विनश्यंति यावंति शिवनामतः ॥ 27ab
भुवि तावंति पापानि क्रियंते न नरैर्मुने ॥ 27cd
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ॥ 28ab
शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ 28cd
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ॥ 29ab
संसारमूलपापानि तानि नश्यंत्यसंशयम् ॥ 29cd
संसारमूलभूतानां पातकानां महामुने ॥ 30ab
शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ 30cd
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ 31ab
पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ 31cd
शिवेति नामपीयूषवर्षधारापरिप्लुताः ॥ 32ab
संसारदवमध्येपि न शोचंति कदाचन ॥ 32cd
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ॥ 33ab
तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ 33cd
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ॥ 34ab
शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥ 34cd
यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ॥ 35ab
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ 35cd
कृत्वाप्यनेकपापानि शिवनामजपादरः ॥ 36ab
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ 36cd
भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ॥ 37ab
तथा तावंति दग्धानि पापानि शिवनामतः ॥ 37cd
यो नित्यं भस्मपूतांगः शिवनामजपादरः ॥ 38ab
संतरत्येव संसारं सघोरमपि शौनक ॥ 38cd
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ 39ab
न लिप्यते नरः पापैः शिवनामजपादरः ॥ 39cd
विलोक्य वेदानखिलाञ्छिवनामजपः परम् ॥ 40ab
संसारतारणोपाय इति पूर्वैर्विनिश्चितः ॥ 40cd
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ॥ 41ab
शिवनाम्नो महिमानं सर्वपापापहारिणम् ॥ 41cd
पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ॥ 42ab
शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ 42cd
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ 43ab
इन्द्रद्युम्ननृपः पूर्वं महापापः पुरामुने ॥ 43cd
तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ॥ 44ab
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ 44cd
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ॥ 45ab
शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ 45cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः ॥ 23 ॥

Chapter 24

सूत उवाच ॥
द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ॥ 1ab
तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ 1cd
एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ॥ 2ab
महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ 2cd
तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ॥ 3ab
30a

भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ 3cd
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ॥ 4ab
अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ 4cd
धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः ॥ 5ab
केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ॥ 5cd
आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ॥ 6ab
तदापि द्रव्यमित्युक्तं त्रिपुंड्रस्य महामुने ॥ 6cd
अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः ॥ 7ab
अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ 7cd
अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ॥ 8ab
सप्तभिधूलनं कार्यं भस्मना सजलेन च ॥ 8cd
वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च ॥ 9ab
त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ॥ 9cd
भस्मनोद्धूलनं चैव यथा तिर्यक्त्रिपुंड्रकम् ॥ 10ab
प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः ॥ 10cd
शिवेन विष्णुना चैव तथा तिर्यक्त्रिपुंड्रकम् ॥ 11ab
उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ॥ 11cd
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च संस्करैः ॥ 12ab
अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना ॥ 12cd
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ॥ 13ab
तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ 13cd
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ॥ 14ab
तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः ॥ 14cd
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ 15ab
तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ 15cd
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ 16ab
ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ 16cd
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ 17ab
तेषामाचरितं सर्वं विपरीतफलाय हि ॥ 17cd
महापातकयुक्तानां जंतूनां शर्वविद्विषाम् ॥ 18ab
त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ 18cd
शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ॥ 19ab
मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ 19cd
सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ॥ 20ab
सर्वपापविनिर्मुक्तः शिवेन सह मोदते ॥ 20cd
सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् ॥ 21ab
यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ॥ 21cd
अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ॥ 22ab
त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ 22cd
अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ 23ab
उषःपापान्वितो वापि मूर्खो वा पतितोपि वा ॥ 23cd
यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः ॥ 24ab
सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा ॥ 24cd
त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ 25ab
पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ 25cd
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ 26ab
गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ 26cd
30b

बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ॥ 27ab
लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः ॥ 27cd
ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिः सुरैः ॥ 28ab
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ 28cd
इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च ॥ 29ab
पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते ॥ 29cd
ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः ॥ 30ab
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ 30cd
ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम् ॥ 31ab
येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ॥ 31cd
ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम् ॥ 32ab
तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ 32cd
मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत् ॥ 33ab
ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ॥ 33cd
वैश्यस्त्रियं बकेनैव शूद्रः पंचाक्षरेण तु ॥ 34ab
अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्रवत् ॥ 34cd
पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ॥ 35ab
त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ॥ 35cd
अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ॥ 36ab
यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ॥ 36cd
अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात् ॥ 37ab
शिवयोगी च नियतमीशानेनापि धारयेत् ॥ 37cd
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ 38ab
अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ 38cd
भस्मस्नानेन यावंतः कणाः स्वाङ्गे प्रतिष्ठिताः ॥ 39ab
तावंति शिवलिंगानि तनौ धत्ते हि धारकः ॥ 39cd
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि च संकराः ॥ 40ab
स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा ॥ 40cd
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ॥ 41ab
नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ॥ 41cd
ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ॥ 42ab
ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥ 42cd
नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः ॥ 43ab
एनोभुङ्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥ 43cd
त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते ॥ 44ab
धारयंति च ये भक्त्या धारयन्ति तमेव ते ॥ 44cd
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ 45ab
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ 45cd
ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ 46ab
ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ 46cd
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्रसूक्तजपतो मुच्येत तेनादृताः ॥ 47ab
31a

सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ 47cd
न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने ॥ 48ab
संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः ॥ 48cd
तत्रैते बहवो लोका बृहज्जाबालचोदिताः ॥ 49ab
ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ॥ 49cd
यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना ॥ 50ab
विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः ॥ 50cd
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम् ॥ 51ab
तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ॥ 51cd
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ॥ 52ab
महापातकसंघातैर्मुच्यते चोपपातकैः ॥ 52cd
ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः ॥ 53ab
ब्रह्मक्षत्त्राश्च विट्शूद्रास्तथान्ये पतिताधमाः ॥ 53cd
उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च ॥ 54ab
भस्मनो विधिना सम्यक्पापराशिं विहाय च ॥ 54cd
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ 55ab
वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ॥ 55cd
परद्रव्यापहरणं परदाराभिमर्शनम् ॥ 56ab
परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ 56cd
सस्यारामादिहरणं गृहदाहादिकर्म च ॥ 57ab
गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ 57cd
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ॥ 58ab
दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥ 58cd
रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ 59ab
मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ 59cd
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ 60ab
एवमादीन्यसंख्यानि पापानि विविधानि च ॥ 60cd
सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥ 60॥ 60ef
शिवद्रव्यापहरणं शिवनिंदा च कुत्रचित् ॥ 61ab
निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ॥ 61cd
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ 62ab
सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ॥ 62cd
यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः ॥ 63ab
स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम् ॥ 63cd
सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः ॥ 64ab
तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥ 64cd
अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने ॥ 65ab
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥ 65cd
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ 66ab
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत् ॥ 66cd
इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ 67ab
जीवितांते च मरणं सुखेनैव प्रपद्यते ॥ 67cd
31b

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम् ॥ 68ab
दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ॥ 68cd
विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम् ॥ 69ab
इंद्रादिलोकपालानां लोकेषु च यथाक्रमम् ॥ 69cd
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ 70ab
ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् ॥ 70cd
तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ॥ 71ab
विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः ॥ 71cd
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ 72ab
शिवसायुज्यमाप्नोति संशयो नात्र जायते ॥ 72cd
सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ॥ 73ab
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥ 73cd
विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः ॥ 74ab
याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः ॥ 74cd
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ॥ 75ab
धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ॥ 75cd
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ॥ 76ab
मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥ 76cd
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ 77ab
तत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥ 77cd
भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने ॥ 78ab
भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ॥ 78cd
न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ॥ 79ab
त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ॥ 79cd
वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ॥ 80ab
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥ 80cd
एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः ॥ 81ab
शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ॥ 81cd
यस्यांगेनैव रुद्राक्ष एकोपि बहुपुण्यदः ॥ 82ab
तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ॥ 82cd
एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ॥ 83ab
रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया ॥ 83cd
तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः ॥ 84ab
ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥ 84cd
भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः ॥ 85ab
तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ॥ 85cd
मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः ॥ 86ab
अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ॥ 86cd
मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः ॥ 87ab
त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ॥ 87cd
तिसृणामपि रेखानां प्रत्येकं नवदेवताः ॥ 88ab
सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ॥ 88cd
अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ 89ab
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ 89cd
महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ 90ab
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ 90cd
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ 91ab
मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ 91cd
32a

महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ 92ab
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥ 92cd
मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ 93ab
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ 93cd
शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ 94ab
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ॥ 94cd
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ 95ab
त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ॥ 95cd
इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः ॥ 96ab
तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम् ॥ 96cd
द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च ॥ 97ab
अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत् ॥ 97cd
उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ 98ab
नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम् ॥ 98cd
कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः ॥ 99ab
नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ॥ 99cd
जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ॥ 100ab
अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ 100cd
धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः ॥ 101ab
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥ 101cd
एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः ॥ 102ab
कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ 102cd
शीर्षके च ललाटेच कंठे चांसद्वये भुजे ॥ 103ab
कूर्परे मणिबंधे च हृदये नाभिपार्श्वके ॥ 103cd
पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते ॥ 104ab
शिवशक्तिं तथा रुद्रमीशं नारदमेव च ॥ 104cd
वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ 105ab
नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥ 105cd
अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा ॥ 106ab
बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥ 106cd
जानुद्वये च पदयोः पृष्ठभागे च षोडश ॥ 107ab
शिवश्चन्द्रश्च रुद्रः को विघ्नेशो विष्णुरेव वा ॥ 107cd
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ॥ 108ab
नागश्च नागकन्याश्च उभयोरृषिकन्यकाः ॥ 108cd
पादयोश्च समुद्राश्च तीर्थाः पृष्ठे विशालतः ॥ 109ab
इत्येव षोडशस्थानमष्टस्थानमथोच्यते ॥ 109cd
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ 110ab
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ 110cd
ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः ॥ 111ab
इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ 111cd
अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ 112ab
पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ 112cd
यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया ॥ 113ab
उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ 113cd
त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ॥ 114ab
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ 114cd
ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ 115ab
32b

बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ 115cd
कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ॥ 116ab
भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ 116cd


इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः ॥ 24 ॥

Chapter 25

सूत उवाच ॥
शैनकर्षे महाप्राज्ञ शिवरूपमहापते ॥ 1ab
शृणु रुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ 1cd
शिवप्रियतमो ज्ञेयो रुद्राक्षः परपावनः ॥ 2ab
दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ 2cd
पुरा रुद्राक्षमहिमा देव्यग्रे कथितो मुने ॥ 3ab
लोकोपकरणार्थाय शिवेन परमात्मना ॥ 3cd
शिव उवाच ॥
शृणु देविमहेशानि रुद्राक्षमहिमा शिवे ॥ 4ab
कथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ 4cd
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ॥ 5ab
तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ 5cd
स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ 6ab
लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ 6cd
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः ॥ 7ab
तत्राश्रुबिन्दवो जाता वृक्षा रुद्राक्षसंज्ञकाः ॥ 7cd
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ 8ab
ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ 8cd
भूमौ गौडोद्भवांश्चक्रे रुद्राक्षाञ्छिववल्लभान् ॥ 9ab
मथुरायामयोध्यायां लंकायां मलये तथा ॥ 9cd
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ॥ 10ab
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ 10cd
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ॥ 11ab
रुद्राक्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ 11cd
श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ॥ 12ab
स्वजातीयं नृभिर्धार्यं रुद्राक्षं वर्णतः क्रमात् ॥ 12cd
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ॥ 13ab
शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ 13cd
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ 14ab
बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ 14cd
अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ॥ 15ab
शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ 15cd
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ॥ 16ab
तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ॥ 16cd
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ॥ 17ab
गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ 17cd
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ॥ 18ab
एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ 18cd
रुद्राक्षधारणं प्रोक्तं पापनाशनहेतवे ॥ 19ab
तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ॥ 19cd
यथा च दृश्यते लोके रुद्राक्षफलदः शुभः ॥ 20ab
न तथा दृश्यते ऽन्या च मालिका परमेश्वरि ॥ 20cd
समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ॥ 21ab
रुद्राक्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा॥ 21cd
33a

क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ॥ 22ab
व्रणयुक्तमवृत्तं च रुद्राक्षान्षड्विवर्जयेत् ॥ 22cd
स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ 23ab
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ 23cd
रुद्राक्षधारणं प्राप्तं महापातकनाशनम् ॥ 24ab
रुद्रसंख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ 24cd
एकादशशतानीह धृत्वा यत्फलमाप्यते ॥ 25ab
तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ 25cd
शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ॥ 26ab
रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ 26cd
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ 27ab
रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ 27cd
शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि ॥ 28ab
कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥ 28cd
शतमेकोत्तरं कंठे बाह्वोर्वै रुद्रसंख्यया ॥ 29ab
कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ॥ 29cd
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ॥ 30ab
शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ॥ 30cd
एतत्संख्या धृता येन रुद्राक्षाः परमेश्वरि ॥ 31ab
तद्रूपं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ 31cd
एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ॥ 32ab
शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ 32cd
शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ॥ 33ab
तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ॥ 33cd
शिखायामेकरुद्राक्षं शिरसा त्रिंशतं वहेत् ॥ 34ab
पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥ 34cd
मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ॥ 35ab
अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ 35cd
एवं सहस्ररुद्राक्षान्धारयेद्यो दृढव्रतः ॥ 36ab
तं नमंति सुराः सर्वे यथा रुद्रस्तथैव सः ॥ 36cd
एकं शिखायां रुद्राक्षं चत्वारिंशत्तु मस्तके ॥ 37ab
द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ 37cd
एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ॥ 38ab
करयोरविमानेन द्विगुणेन मुनीश्वर ॥ 38cd
संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ॥ 39ab
शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ॥ 39cd
शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ॥ 40ab
अघोरेण गले धार्यं तेनैव हृदयेपि च ॥ 40cd
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ 41ab
पंचदशाक्षग्रथितां वामदेवेन चोदरे ॥ 41cd
पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ॥ 42ab
अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ 42cd
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ॥ 43ab
श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ 43cd
वलक्षं रुद्राक्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ॥ 44 ॥ 44ab


छिन्नं खंडितं भिन्नं विदीर्ण ।

33b


ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रैः श्रुतिगदितमार्गोयमगजे ॥ 44cd
वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्रहस्यपरमो न हि जातु तिष्ठेत् ॥ 45ab
रुद्राक्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ 45cd
आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा ॥ 46ab
धार्या नैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततो रुद्राक्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ॥ 46cd
सर्वाश्रमाणां वर्णानां स्त्रीशूद्राणां शिवाज्ञया ॥ 47ab
धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ॥ 47cd
दिवा बिभ्रद्रात्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ॥ 48ab
प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ 48cd
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ॥ 49ab
ये रुद्राक्षधरास्ते वै यमलोकं प्रयांति न ॥ 49cd
रुद्राक्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ॥ 50ab
पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ॥ 50cd
यस्याङ्गे नास्ति रुद्राक्षस्त्रिपुण्ड्रं भालपट्टके ॥ 51ab
मुखे पंचाक्षरं नास्ति तमानय यमालयम् ॥ 51cd
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्राक्षधारिणः ॥ 52ab
ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ 52cd
एवमाज्ञापयामास कालोपि निजकिङ्करान् ॥ 53ab
तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ 53cd
अत एव महादेवि रुद्राक्षोत्यघनाशनः ॥ 54ab
तद्धरो मत्प्रियः शुद्धो ऽत्यघवानपि पार्वति ॥ 54cd
हस्ते बाहौ तथा मूर्ध्नि रुद्राक्षं धारयेत्तु यः ॥ 55ab
अवध्यः सर्वभूतानां रुद्ररूपी चरेद्भुवि ॥ 55cd
सुरासुराणां सर्वेषां वंदनीयः सदा स वै ॥ 56ab
पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ 56cd
ध्यानज्ञानावमुक्तोपि रुद्राक्षं धारयेत्तु यः ॥ 57ab
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ 57cd
रुद्राक्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ॥ 58ab
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ 58cd
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ॥ 59ab
तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ 59cd
त्रिपुंड्रेण च संयुक्तं रुद्राक्षाविलसांगकम् ॥ 60ab
मृत्युंजयं जपंतं च दृष्ट्वा रुद्रफलं लभेत् ॥ 60cd
पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ॥ 61ab
सर्वमन्त्राञ्जपेद्भक्तो रुद्राक्षमालया प्रिये ॥ 61cd
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ॥ 62ab
रुद्रभक्तो विशेषेण रुद्राक्षान्धारयेत्सदा ॥ 62cd
रुद्राक्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ 63ab
शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ 63cd
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ 64ab
तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ॥ 64cd
यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि ॥ 65ab
34a

नश्यंत्युपद्रवाः सर्वे सर्वकामा भवंति हि ॥ 65cd
द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः ॥ 66ab
विशेषतः स रुद्राक्षो गोवधं नाशयेद्द्रुतम् ॥ 66cd
त्रिवक्त्रो यो हि रुद्राक्षः साक्षात्साधनदस्सदा ॥ 67ab
तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ 67cd
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ 68ab
दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ 68cd
पंचवक्त्रः स्वयं रुद्रः कालाग्निर्नामतः प्रभुः ॥ 69ab
सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ 69cd
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ॥ 70ab
इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति ॥ 70cd
षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे ॥ 71ab
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ 71cd
सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः ॥ 72ab
धारणात्तस्य देवेशिदरिद्रोपीश्वरो भवेत् ॥ 72cd
रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ 73ab
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ 73cd
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ॥ 74ab
दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ॥ 74cd
तं धारयेद्वामहस्ते रुद्राक्षं भक्तितत्परः ॥ 75ab
सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ 75cd
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ 76ab
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ 76cd
एकादशमुखो यस्तु रुद्राक्षः परमेश्वरि ॥ 77ab
स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ 77cd
द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके ॥ 78ab
आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ 78cd
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ 79ab
सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ 79cd
चतुर्दशमुखो यो हि रुद्राक्षः परमः शिवः ॥ 80ab
धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ 80cd
इति रुद्राक्षभेदा हि प्रोक्ता वै मुखभेदतः ॥ 81ab
तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ 81cd
ॐ ह्रीं नमः 1 ॐ नमः 2 ॐ क्लीं नमः 3 ॐ ह्रीं नमः 4 ॐ ह्रीं नमः 5 ॐ ह्रीं हुं नमः 6 ॐ हुंनमः 7 ॐ हुं नमः 8 ॐ ह्रीं हुं नमः 9 ॐ ह्रीं नमः नमः 10 ॐ ह्रीं हुं नमः 11 ॐ क्रौं क्षौं रौं नमः 12 ॐ ह्रीं नमः 13 ॐ नम 14
भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये ॥ 82ab
रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ 82cd
विना मंत्रेण हो धत्ते रुद्राक्षं भुवि मानवः ॥ 83ab
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ 83cd
रुद्राक्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ॥ 84ab
डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः ॥ 84cd
कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ॥ 85ab
तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ॥ 85cd
रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ 86ab
34b

देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ॥ 86cd
एवं ज्ञात्वा तु माहात्म्यं रुद्राक्षस्य महेश्वरि ॥ 87ab
सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ॥ 87cd
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ॥ 88ab
भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ 88cd
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्राक्षधारिणौ ॥ 89ab
तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ 89cd
भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते ॥ 90ab
पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ 90cd
विना भस्मत्रिपुंड्रेण विना रुद्राक्षमालया ॥ 91ab
पूजितोपि महादेवो नाभीष्टफलदायकः ॥ 91cd
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ॥ 92ab
भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ 92cd
एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ॥ 93ab
रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ 93cd
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ 94ab
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ 94cd
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ 95ab
सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ 95cd


इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशो ऽध्यायः ॥ 25 ॥
35a