अग्निपुराण 3

अग्निपुराणम् ।
महर्षिश्रीमद्वेदव्यासेन प्रणीतम् ।
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम् ।
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च ।
संवत् 1933
Image-P.0


अथाग्निपुराणस्य तृतीयखण्डस्यानुक्रमणिका

अध्याये विषयः पृष्ठे
269 विष्णुपञ्जरं 1
270 वेदशाखादयः 3
271 दानादिमाहात्म्यं 5
272 सूर्य्यवंशः 8
273 सोमवंशः 12
274 यदुवंशः 14
275 द्वादशसंग्रामाः 19
276 राजवंशः 22
277 पुरुवंशः 24
278 सिद्धौषधानि 28
279 सर्व्वरोगहराण्यौषधानि 34
280 रसादिलक्षणं 39
281 वृक्षायुर्वेदः 42
282 नानारोगहराण्यौषधानि 44
283 मन्त्ररूपौषधानि 49
284 मृतसञ्जीवनीकरसिद्धयोगः 50
285 कल्पसागरः 58
286 गजचिकित्सा 61
287 अश्ववाहनसारः 64
288 अश्वचिकित्सा 71
289 अश्वशान्तिः 76
290 गजशान्तिः 77
291 शान्त्यायुर्वेदः 80
292 मन्त्रपरिभाषा 84
293 नागलक्षणानि 89
294 दष्टचिकित्सा 93
295 पञ्चाङ्गरुद्रविधानं 97
296 विषहृन्मन्त्रौषधं 99
297 गोनसादिचिकित्सा 101
298 बालग्रहहरबालतन्त्रं 104
299 ग्रहहृन्मन्त्रादिकं 109
300 सूर्य्यार्च्चनं 112
301 नानामन्त्राः 114
302 अङ्गाक्षरार्च्चनं 117
303 पञ्चाक्षरादिपूजामन्त्राः 119
304 पञ्चपञ्चाशद्विष्णुनामानि 123
305 नारसिंहादिमन्त्राः 125
306 त्रैलोक्यमोहनमन्त्राः 127
307 त्रैलोक्यमोहनीलक्ष्म्यादिपूजा 131
308 त्वरितापूजा 134
309 त्वरितामन्त्रादिः 136
310 त्वरितामूलमन्त्रादिः 140
311 त्वरिताविद्या 144
312 नानामन्त्राः 146
Image-P.1


अध्याये विषयः पृष्ठे
313 त्वरिताज्ञानं 150
314 स्तम्भनादिमन्त्राः 152
315 नानामन्त्राः 154
316 सकलादिमन्त्रोद्धारः 155
317 गणपूजा 159
318 वागीश्वरीपूजा 161
319 मण्डलानि 162
320 अघोरास्त्रादिशान्तिकल्पः 167
321 पाशुपतशान्तिः 169
322 षड़ङ्गान्यधोरास्त्राणि 171
323 रुद्रशान्तिः 174
324 अंशकादिः 177
325 गौर्य्यादिपूजा 180
326 देवालयमाहात्म्यं 182
327-328-329 छन्दःसारः 184
330 छन्दोजातिनिरूपनं 188
331 विषमकथनं 190
332 अर्धसमनिरूपणं 191
333 समवृत्तनिरूपणं 192
334 प्रस्तारनिरूपणं 195
335 शिक्षानिरूपणं 196
336 काव्यादिलक्षणं 199
337 नाटकनिरूपणं 203
338 शृङ्गारादिरसनिरूपणं 205
339 रीतिनिरूपणं 211
340 नृत्यादावङ्गकर्म्मनिरूपणं 212
341 अभिनयादिनिरूपणं 214
342 शब्दालङ्काराः 218
343 अर्थालङ्काराः 224
344 शब्दार्थालङ्काराः 227
345 काव्यगुणविवेकः 229
346 काव्यदोषविवेकः 233
347 एकाक्षराभिधानं 236
348 व्याकरणं 239
349 सन्धिसिद्धरूपं 240
350 पुंलिङ्गशब्दसिद्धरूपं 241
351 स्त्रीलिङ्गशब्दसिद्धरूपं 248
352 नपुंसकशब्दसिद्धरूपं 250
353 कारकं 251
354 समासः 253
355 तद्धितं 255
356 उनादिसिद्धरूपं 258
357 तिङ्विभक्तिसिद्धरूपं 260
358 कृत्सिद्धरूपं 263
359 स्वर्गपातालादिवर्गाः 264
360 अव्ययवर्गाः 272
361 नानार्थवर्गाः 276
362 भूमिवनौषध्यादिवर्गाः 280
363 नृवर्गाः 287
364 ब्रह्मवर्गाः 290
365 क्षत्रबिठ्शूद्रवर्गाः 291
366 सामान्यनामलिङ्गानि 296
367 नित्यनैमित्तिकप्राकृतप्रलयाः 299
368 आत्यन्तिकलयगर्भोत्पत्त्यादयः 301
Image-P.2


अध्याये विषयः पृष्ठे
369 शरीरावयवाः 306
370 नरकनिरूपनं 310
371 यमनियमाः 314
372 आसनप्राणायामप्रत्याहाराः 318
373 ध्यानं 320
374 धारणा 324
375 समाधिः 326
376 ब्रह्मज्ञानं 329
377 समाधिः 333
378 ब्रह्मज्ञानं 338
379 अद्वैतब्रह्मज्ञानं 339
380 गीतासारः 345
381 यमगीता 351
382 आग्नेयपुराणमाहात्म्यं 355
Image-P.3


अग्निपुराणम्

Chapter 269

अथोनसप्तत्यधिकद्विशततमो ऽध्यायः ।

विष्णुपञ्जरं ।
पुष्कर उवच ।
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं । 1ab
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ॥ 1cd
वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः । 2ab
तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥ 2cd
विष्णुः प्राच्यां स्थितश्चक्री हरिर्दक्षिनणतो गदी । 3ab
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड़्गी ममोत्तरे ॥ 3cd
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः । 4ab
क्रोड़रूपी हरिर्भूमौ नरसिंहो ऽम्बरे मम ॥ 4cd
क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं । 5ab
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥ 5cd
गदा चेयं सहस्रार्च्चिःप्रदीप्तपावकोज्ज्वला । 6ab
रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी ॥ 6cd
शार्ङ्गविस्फूर्ज्जितञ्चैव वासुदेवस्य मद्रिपून् । 7ab
तिर्य्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ॥ 7cd
Image-P.1


खड़्गधारोज्ज्वलज्योत्स्नानिर्द्धूता ये समाहिताः । 8ab
ते यान्तु शाम्यतां सद्यो गरुड़ेनेव पन्नगाः ॥ 8cd
ये कुष्माण्डास्था यक्षा ये दैत्या ये निशाचराः । 9ab
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥ 9cd
सिंहादयश्च पशवो दन्दशूकाश्च पन्नगाः । 10ab
सर्व्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥ 10cd
चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः । 11ab
बलौजसाञ्च हर्त्तारश्छायाविभ्रंशकाश्च ये ॥ 11cd
ये चोपभोगहर्त्तारो ये च लक्षणनाशकाः । 12ab
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥ 12cd
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा । 13ab
ममास्तु देवदेवस्य वासुदेवस्य कीर्त्तनात् ॥ 13cd
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः । 14ab
तमीड़्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥ 14cd
यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः । 15ab
सत्येन तेनाच्युतनामकीर्त्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभं ॥ 15cd


इत्याग्नेये महापुराणे विष्णुपञ्जरं नामोनसप्तत्यधिकद्विशततमो ऽध्यायः ।
Image-P.2


Chapter 270

अथ सप्तत्यधिकद्विशततमो ऽध्यायः ।

वेदशाखदिकीर्त्तनं ।
पुष्कर उवाच ।
सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः । 1ab
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ॥ 1cd
भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः । 2ab
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥ 2cd
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः । 3ab
एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस्तथा ॥ 3cd
शतानि दश विप्राणां षड़शीतिश्च शाखिकाः । 4ab
काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा ॥ 4cd
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका । 5ab
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥ 5cd
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी । 6ab
गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥ 6cd
उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः । 7ab
सचतुःशतकाश्चैव ब्रह्मसङ्घटकाः स्मृताः ॥ 7cd
पञ्चविंशतिरेवात्र साममानं प्रकीर्त्तितं । 8ab
सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्व्वके ॥ 8cd
शौनकः पिप्पलादश्च मुञ्जकेशादयो ऽपरे । 9ab
मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥ 9cd
व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् । 10ab
Image-P.3


शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥ 10cd
प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः । 11ab
सुमतिश्चाग्निवर्च्चाश्च मित्रयुःशिंशपायनः ॥ 11cd
कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् । 12ab
शांशपायनादयश्चक्रुः 1 पुराणानान्तु संहिताः ॥ 12cd
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च । 13ab
महापुराणे ह्याग्नेये विद्यारूपो हरिः स्थितः ॥ 13cd
सप्रपञ्चो निष्प्रपञ्चो मूर्त्तामूर्त्तस्वरूपधृक् । 14ab
तं ज्ञात्वाभ्यर्च्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥ 14cd
विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्य्यादिरूपवान् । 15ab
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥ 15cd
वेदेषु सपुराणेषु यज्ञमूर्त्तिश्च गीयते । 16ab
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥ 16cd
आग्नेयाख्यपुराणस्य कर्त्ता श्रोता जनार्दनः । 17ab
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥ 17cd
सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम् 2 18ab
सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥ 18cd
विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम् 3 19ab
राज्यार्थिनां राज्यदञ्च धर्म्मदं धर्मकामिनाम् ॥ 19cd
स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां । 20ab
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥ 20cd


1 शिंशपायनादयश्चक्रुरिति ख ॰ ।
2 परमिति ञ ॰ ।
3 श्रीबलप्रदमिति ञ ॰ ।
Image-P.4


कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् । 21ab
गुणकीर्त्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥ 21cd
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां । 22ab
पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥ 22cd
इत्याग्नेये महापुराणे वेदशाखादिकीर्त्तिनं नाम सप्तत्यधिकद्विशततमो ऽध्यायः ।

Chapter 271

अथैकसप्तत्यधिकद्विशततमो ऽध्यायः ।

दानादिमाहत्म्यं ।
पुष्कर उवाच ।
ब्रह्मणाभिहितं पूर्व्वं यावन्मात्रं मरीचये । 1ab
लक्षार्द्धाद्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदापयेत् ॥ 1cd
वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् । 2ab
पाद्मं द्वादशसाहस्रं ज्यैष्ठे दद्याच्च धेनुमत् ॥ 2cd
वराहकल्पवृत्तान्तमधिकृत्य पराशरः । 3ab
त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ॥ 3cd
जलधेनुमदाषाढ्यां विष्णोः पदमवाप्नुयात् । 4ab
चतुर्दशसहस्राणि वायवीयं हरिप्रियं ॥ 4cd
श्वेतकल्पप्रसङ्गेन धर्म्मान् वायुरिहाब्रवीत् । 5ab
दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुड़धेनुमत् ॥ 5cd
यत्राधिकृत्य गायत्रीं कीर्त्त्यते धर्म्मविस्तरः । 6ab
Image-P.5


वृत्रासुरबधोपेतं तद्भागवतमुच्यते ॥ 6cd
सारस्वतस्त कल्पस्य प्रोष्ठपद्यान्तु तद्ददेत् । 7ab
अष्टादशसहस्राणि हेमसिंहसमन्वितं ॥ 7cd
यत्राह नारदो धर्म्मान् वृहत्कल्पाश्रितानिहं । 8ab
पञ्चविंशसहस्राणि नारदीयं तदुच्यते ॥ 8cd
सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् । 9ab
यत्राधिकृत्य शत्रूनान्धर्म्माधर्म्मविचारणा ॥ 9cd
कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् । 10ab
अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् ॥ 10cd
लिखित्वा पुस्तकं दद्यान्मार्गशीर्ष्यां स सर्वदः । 11ab
द्वादशैव सहस्राणि सर्वविद्यावबोधनं 1 11cd
चतुर्दशसहस्राणि भविष्यं सूर्य्यसम्भवं । 12ab
भवस्तु मनवे प्राह दद्यात् पौष्यां गुड़ादिमत् ॥ 12cd
सावर्णिना नारदाय ब्रह्मवैवर्त्तमीरितं । 13ab
रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ॥ 13cd
माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मलोकभाक् । 14ab
यत्राग्निलिङ्गमध्यस्थो धर्म्मान्प्राह महेश्वरः ॥ 14cd
आग्नेयकल्पे तल्लिङ्गमेकादशसहस्रकम् । 15ab
तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् ॥ 15cd
चतुर्द्दशसहस्राणि वाराहं विष्णुणेरितम् । 16ab
भूमौ वराहचरितं मानवस्य प्रवृत्तितः ॥ 16cd
सहेमगरुड़ञ्चैत्र्यां पदमाप्नोति वैष्णवम् । 17ab


1 सर्व्वविद्यावधारणमिति ञ ॰ ।
Image-P.6


चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ॥ 17cd
अधिकृत्य सधर्म्मांश्च कल्पे तत्पुरुषे ऽर्पयेत् । 18ab
वामनं दशसाहस्रं धौमकल्पे हरेः कथां ॥ 18cd
दद्यात् शरदि विषुवे धर्मार्थादिनिबोधनम् । 19ab
कूर्मञ्चाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ॥ 19cd
इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् । 20ab
त्रयोदशसहस्राणि मात्स्यं कल्पादितो ऽब्रवीत् ॥ 20cd
मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् । 21ab
गारुड़ञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ॥ 21cd
विश्वाण्डाद्गरुड़ोत्पत्तिं तद्दद्याद्धेमहंसवत् । 22ab
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रबीत्तु यत् ॥ 22cd
तच्च द्वादशसाहस्रं ब्रह्माण्डं तद्द्विजे ऽर्पयेत् । 23ab
भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः ॥ 23cd
वाचकं पूजयेदादौ भोजयेत् पायसैर्द्विजान् । 24ab
गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ॥ 24cd
समाप्ते भारते विप्रं संहितापुस्तकान्यजेत् । 25ab
शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ॥ 25cd
नरनारयणौ पूज्यौ पुस्तकाः कुसुमादिभिः । 26ab
गो ऽन्नभूहेम दद्वाथ भोजयित्वा क्षमापयेत् ॥ 26cd
महादानानि देयानि रत्नानि विविधानि च । 27ab
मासकौ द्वौ त्रयश्चैव मासे मासे प्रदापयेत् ॥ 27cd
अयनादौ श्राबकस्य दानमादौ विधीयते । 28ab
श्रोतृभिः सकलैः कार्य्यं श्रावके पूजनं द्विज ॥ 28cd
Image-P.7


इतिहासपुराणानां पुस्तकानि प्रयच्छति । 29ab
पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् ॥ 29cd
इत्यग्नेये महापुराणे दानादिमाहत्म्यं नामैक सप्तत्यधिकद्विशततमो ऽध्यायः ।

Chapter 272

अथ द्विसप्तत्यधिकद्विशततमो ऽध्यायः ।

सूर्य्यवंशकीर्त्तनं ।
अग्निरुवाच ।
सूर्य्यवंशं सोमवंशं राज्ञां वंशं वदमि ते । 1ab
हरेर्ब्रह्मा पद्मगो ऽभून्मरीचिर्ब्रह्मणः सुतः ॥ 1cd
मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि । 2ab
संज्ञा राज्ञी 1 प्रभा तिस्रो राज्ञी रैवतपुत्रिका ॥ 2cd
रेवन्तं सुषुवे पुत्रं प्रभातञ्च प्रभा रवेः । 3ab
त्वाष्ट्री संज्ञा मनुं पुत्रं यमलौ यमुनां यमम् ॥ 3cd
छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् । 4ab
शनिञ्च तपतीं विष्टिं संज्ञायाञ्चाश्विनौ पुनः ॥ 4cd
मनोर्वैवस्वतस्यासन् पुत्रा वै न च तत्समाः । 5ab
इक्ष्वाकुश्चैव नाभागो धृष्टःशर्य्यातिरेव च ॥ 5cd
नरिष्यन्तस्तथा प्रांशुर्नाभागादिष्टसत्तमाः । 6ab
करुषश्च पृषध्रश्च अयोध्यायां महाबलाः ॥ 6cd
कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः । 7ab
पुरूरवसमुच्पाद्य सेला सुद्युम्नताङ्गता ॥ 7cd


1 अत्र छायेतिपाठो युक्तः ।
Image-P.8


सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः । 8ab
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमा ॥ 8cd
दिक् सर्व्वा राजवर्य्यस्य गयस्य तु गयापुरी । 9ab
वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह ॥ 9cd
तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु । 10ab
नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ॥ 10cd
अम्वरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् । 11ab
सुकल्पानर्त्तौ शर्य्यार्तेर्वैरोह्यानर्त्ततो नृपः ॥ 11cd
आनर्त्तविषयश्चासीत् पुरी चासीत् कुशस्थली । 12ab
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ 12cd
ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् । 13ab
स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणो ऽन्तिके ॥ 13cd
मुहूर्त्तभूतं देवस्य मर्त्ये बहुयुगं गतम् । 14ab
आजगाम जवेनाथ स्वां पुरीं यादवैर्वृताम् ॥ 14cd
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । 15ab
भोजवृष्ण्यन्धकैर्गुर्प्तां वासुदेवपुरोगमैः ॥ 15cd
रेवतीं बलदेवाय ददौ ज्ञात्वा ह्यनिन्दिताम् । 16ab
तपः सुमेरुशिखरे तप्त्वा विष्ण्वालयं गतः ॥ 16cd
नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । 17ab
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः ॥ 17cd
शूद्रत्वञ्च पृषध्रो ऽगाद्धिंसयित्वा गुरोश्च गाम् । 18ab
मनुपुत्रादथेक्षाकोर्विकुक्षिर्देवराड़भूत् ॥ 18cd
विकुक्षेस्तु ककुत्स्थो ऽभूत्तस्य पुत्रः सुयोधनः । 19ab
Image-P.9


तस्य पुत्रः पृथुर्न्नाम विश्वगश्वः पृथोः सुतः ॥ 19cd
आयुस्तस्य च पुत्रो ऽभूद्युवनाश्वस्तथा सुतः । 20ab
युवनाश्वाच्च श्रावन्तः पूर्वे श्रावन्तिका पुरी ॥ 20cd
श्रावन्ताद् वृहदश्वो ऽभूत् कुबलाश्वस्ततो नृपः । 21ab
धुन्धुमारत्वमगमद्धुन्धोर्न्नाम्ना च वै पुरा ॥ 21cd
धुन्धुमारास्त्रयो भूपा दृढ़ाश्वो दण्ड एव च । 22ab
कपिलो ऽथ दृढ़ाश्वात्तु हर्य्यश्वश्च प्रमोदकः ॥ 22cd
हर्यश्वाच्च निकुम्भो ऽभूत् संहताश्वो निकुम्भतः । 23ab
अकृशाश्वो रणाश्वश्च संहताश्वसुतावुभौ ॥ 23cd
युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः । 24ab
मान्धातुः पुरुकुत्सो ऽभून्मुचुकुन्दो द्वितीयकः ॥ 24cd
पुरुकुत्सादसस्युश्च सम्भूतो नर्मदाभवः । 25ab
सम्भूतस्य सुधन्वा ऽभूत्त्रिधन्वाथ सुधन्वनः ॥ 25cd
त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः । 26ab
सत्यव्रतात्सत्यरथो हरिश्चन्द्रश्च तत्सुतः ॥ 26cd
हरिश्चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृको ऽभवत् । 27ab
वृकाद्वाहुश्च वाहोश्च सगरस्तस्य च प्रिया ॥ 27cd
प्रभा षष्टिसहस्राणां सुतानां जननी ह्य ऽभूत् । 28ab
तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् ॥ 28cd
खनन्तः पृथिवीं दग्धा विष्णुना 1 बहुसागराः । 29ab
असमञ्जसो ऽंशुमांश्च दिलीपों ऽंशुमतो ऽभवत् ॥ 29cd
भगीरथो दिलीपात्तु येन गङ्गावतारिता । 30ab


1 मुनिनेति ज॰ ।
Image-P.10


भगीरथात्तु नाभागो नाभागादम्बरीषकः ॥ 30cd
सिन्धुद्वीपो ऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः । 31ab
श्रुतायोरृतपर्णो ऽभूत्तस्य कल्माषपादकः ॥ 31cd
कल्माषाङ्घ्रेः सर्व्वकर्म्मा 1 ह्यनरण्यस्ततो ऽभवत् । 32ab
अनरण्यात्तु निघ्नो ऽथ अनमित्रस्ततो रघुः ॥ 32cd
रघोरभुद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः । 33ab
दीर्घवाहुरजात् कालस्त्वजापालस्ततो ऽभवत् ॥ 33cd
तथ दशरथो जातस्तस्य पुत्रचतुष्टयम् । 34ab
नारायणात्मकाः सर्वे रामस्तस्याग्रजो ऽभवत् ॥ 34cd
रावणान्तकरो राजा ह्ययोध्यायां रघूत्तमः । 35ab
वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ॥ 35cd
रामपुत्रौ कुशलवौ सीतायां कुलवर्द्धनौ । 36ab
अतिथिश्च कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ 36cd
निषधात्तु नलो जज्ञे नभो ऽजायत वै नलात् । 37ab
नभसः पुण्डरीको ऽभूत् सुधन्वा च ततो ऽभवत् ॥ 37cd
सुधन्वनो देवानीको ह्यहीनाश्वश्च तत्सुतः । 38ab
अहीनाश्वात् सहस्राश्वश्चन्द्रालोकस्ततो ऽभवत् ॥ 38cd
चन्द्रावलोकतस्तारापीड़ो ऽस्माच्चन्द्रपर्व्वतः । 39ab
चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः । 39cd
इक्ष्वाकुवंशप्रभवाः सूर्य्यवंशधराः स्मृताः ॥ 39॥ 39ef


इत्याग्नेये महापुराणे सुर्य्यवंशकीर्त्तनं नाम द्विसप्तत्यधिकद्विशततमो ऽध्यायः ।


1 सकर्म्माभूदिति ख॰ , छ॰ , च ।
Image-P.11


Chapter 273

अथ त्रिसप्तत्यधिकद्विशततमो ऽध्यायः ।

सोमवंशवर्णनं ।
अग्निरुवाच ।
सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् । 1ab
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः ॥ 1cd
सोमश्चक्रे राजसूयं त्रैलोक्यं दक्षिणान्ददौ । 2ab
समाप्ते ऽवभृथे सोमं तद्रूपालोकनेच्छवः ॥ 2cd
कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे । 3ab
लक्ष्मीर्न्नरायणं त्यक्त्वा सिनीवाली च कर्द्दमम ॥ 3cd
द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् । 4ab
प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ॥ 4cd
कीर्त्तिर्जयन्तम्भर्त्तारं वसुर्म्मारीचकश्यपम् । 5ab
धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा ॥ 5cd
स्वकीया इव सोमो ऽपि कामयामास तास्तदा । 6ab
एवं कृतापचारस्य तासां भर्त्तृगणस्तदा ॥ 6cd
न शशाकापचाराय 1 शापैः शस्त्रादिभिः पुनः । 7ab
सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्युत ॥ 7cd
विवभ्राम मतिस्तस्य विनयादनया हता । 8ab
वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम् ॥ 8cd
जहार तरसा सोमो ह्यवमन्याङ्गिरःसुतम् । 9ab
ततस्तद्युद्धमभवत् प्रख्यातं तारकामयम् ॥ 9cd


1 न शशाकापकारायेति ञ॰ ।
Image-P.12


देवानां दानवानाञ्च लोकक्षयकरं महत् । 10ab
ब्रह्मा निवार्य्योशनसन्तारामङ्गिरसे ददौ ॥ 10cd
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः । 11ab
गर्भस्त्यक्तः प्रदीप्तो ऽथ प्राहाहं सोमसन्भवः ॥ 11cd
एवं सोमाद्बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः । 12ab
स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ॥ 12cd
तया सहाचरद्राजा दशवर्षाणि पञ्च च । 13ab
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने ॥ 13cd
एको ऽग्निरभवत् पूर्व्वं तेन त्रेता प्रवर्त्तिता । 14ab
पुरूरवा योगशीलो गान्धर्व्वलोकमीयिवान् ॥ 14cd
आयुर्दृढ़ायुरश्वायुर्धनायुर्धृतिमान् वसुः । 15ab
दिविजातः शतायुश्च सुषुवे चोर्व्वशी नृपान् ॥ 15cd
आयुषो नहुषः पुत्रो वृद्धशर्म्मा रजिस्तथा । 16ab
दर्भो विपाप्मा पञ्चाग्न्यं 1 रजेः पुत्रशतं ह्यभूत् ॥ 16cd
राजेया इति विख्याता विष्णुदत्तवरो रजिः । 17ab
देवासुरे रणे दैत्यानबधीत्सुरयाचितः ॥ 17cd
गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः । 18ab
रजेः पुत्रैर्हृतं राज्यं शक्रस्याथ सुदुर्म्मनाः ॥ 18cd
ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ । 19ab
मोहयित्वा रजिसुतानासंस्ते निजधर्म्मगाः ॥ 19cd
नहुषस्य सुताः सप्त यतिर्य्ययातिरुत्तमः । 20ab
उद्भवः पञ्चकश्चैव शर्य्यातिमेघपालकौ ॥ 20cd


1 पञ्चाग्न्या इति ज॰ । पञ्चाग्न्यमिति ञ॰ ।
Image-P.13


यतिः कुमारभावे ऽपि विष्णुं ध्यात्वा हरिं गतः । 21ab
देवयानी शक्रकन्या ययातेः पत्न्य ऽभूत्तदा ॥ 21cd
वृषपर्व्वजा शर्म्मिष्ठा ययातेः पञ्च तत्सुताः । 22ab
यदुञ्च तुर्व्वसुञ्चैव देवयानी व्यजायत ॥ 22cd
द्रुह्यञ्चानूञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी । 23ab
यदुः पूरुश्चाभवतान्तेषां वंशविवर्द्धनौ ॥ 23cd


इत्याग्नेये महापुराणे सोमवंशवर्णनं नम त्रिसप्तत्यधिकद्विशततमो ऽध्यायः ।

Chapter 274

अथ चतुःसप्तत्यधिकद्विशततमो ऽध्यायः ।
यदुवंशवर्णनं ।
अग्निरुवाच ।
यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् । 1ab
नीलाञ्जको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ॥ 1cd
शतजिद्धैहयो रेणुहयो हय इति त्रयः । 2ab
धर्म्मनेत्रो हैहयस्य धर्म्मनेत्रस्य संहनः ॥ 2cd
महिमा संहनस्यासीन्महिम्नo भद्रसेनकः । 3ab
भद्रसेनाद् दुर्गमो ऽभूद्दुर्गमात्कनको ऽभवत् ॥ 3cd
कनकात् कृतवीर्य्यस्तु कृताग्निः करवीरकः । 4ab
कृतौजाश्च चतुर्थो ऽभूत् कृतवीर्य्यात्तु सो ऽर्जुनः ॥ 4cd
दत्तो ऽर्ज्जुनाय तपते सप्तद्वीपमहीशताम् । 5ab
ददौ बाहुसहस्रञ्च अजेयत्वं रणे ऽरिणा ॥ 5cd
Image-P.14


अधर्म्मे वर्त्तमानस्य विष्णुहस्तान्मृतिर्ध्रुवा । 6ab
दश यज्ञसहस्राणि सो ऽर्ज्जुनः कृतवान्नृपाः ॥ 6cd
अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् । 7ab
न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति वै नृपः ॥ 7cd
यज्ञैर्द्दानैस्तपोभिश्च विक्रमेण श्रुतेन च । 8ab
कार्त्तवीर्यस्य च शतं पुत्राणां पञ्च वै पराः ॥ 8cd
सूरसेनश्च सूरश्च धृष्टोक्तः कृष्ण एव च । 9ab
जयध्वजश्च नामासीदावन्त्यो नृपतिर्महान् ॥ 9cd
जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः । 10ab
हैहयानां कुलाः पञ्च भोजाश्चावन्तयस्तथा ॥ 10cd
वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च । 11ab
वीतिहोत्रादनन्तो ऽभुदनन्ताद्दुर्ज्जयो नृपः ॥ 11cd
क्रोष्टोर्व्वंशं प्रवक्ष्यामि यत्र जातो हरिः स्वयम् । 12ab
क्रोष्टोस्तु वृजिनीवांश्च स्वाहा ऽभूद्वृजिनीवतः ॥ 12cd
स्वाहापुत्रo रुषद्गुश्च 1 तस्य चित्ररथः सुतः । 13ab
शशविन्दुश्चित्ररथाच्चक्रवर्त्ती हरौ रतः ॥ 13cd
शशविन्दोश्च पुत्त्राणां शतानामभवच्छतम् । 14ab
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् ॥ 14cd
पृथुश्रवाः प्रधानो ऽभूत्तस्य पुत्रः सुयज्ञकः । 15ab
सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनःसुतः ॥ 15cd
तितिक्षोस्तु मरुत्तो ऽभूत्तस्मात्कम्बलवर्हिषः । 16ab
पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः ॥ 16cd


1 विषांशुश्चेति ज॰ ।
Image-P.15


हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितो ऽभवत् । 17ab
सेव्यायां ज्यामघादासीद्विदर्भस्तस्य कौशिकः ॥ 17cd
लोमपादः क्रथः श्रेष्ठात् कृतिः 1 स्याल्लोमपदतः । 18ab
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ॥ 18cd
क्रथाद्विदर्भपुत्राश्च कुन्तिः कुन्तेस्तु धृष्टकः । 19ab
धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः ॥ 19cd
दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते । 20ab
जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः ॥ 20cd
भीमरथान्नवरथस्ततो दृढ़रथो ऽभवत् । 21ab
शकुन्तिश्च दृढ़रथात् शकुन्तेश्च करम्भकः ॥ 21cd
करम्भाद्देवलातो ऽभूत् 2 देवक्षेत्रश्च तत्सुतः । 22ab
देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसो ऽभवत् ॥ 22cd
द्रवरसात् पुरुहूतो ऽभूज्जन्तुरासीत्तु तत्सुतः । 23ab
गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्वतः ॥ 23cd
सात्त्वताद्भजमानस्तु वृष्णिरन्धक एव च । 24ab
देवावृधश्च चत्वारस्तेषां वंशास्तु विश्रुताः 3 24cd
भजमानस्य वाह्यो ऽभूद्वृष्टिः कृमिर्निमिस्तथा । 25ab
देवावृधाद्वभ्रुरासीत्तस्य श्लोको ऽत्र गीयते ॥ 25cd
यथैव शृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् । 26ab
वभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥ 26cd
चत्वारश्च सुता वभ्रोर्वासुदेवपरा नृपाः । 27ab


1 धृतिरिति ञ॰ ।
2 देवरातो ऽभुदिति ख॰ , ग॰ , घ॰ , ज॰ , ञ॰ , ट॰ , च ।
3 विस्तृता इति क॰ , छ॰ , च ।
Image-P.16


कुहुरो भजमानस्तु 1 शिनिः कम्बलवर्हिषः ॥ 27cd
कुहुरस्य 2 सुतो धृष्णुर्धृष्णोस्तु तनयो धृतिः । 28ab
धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः ॥ 28cd
तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः । 29ab
पुनर्वसुस्तस्य पुत्र आहुकश्चाहुकीसुतः ॥ 29cd
आहुकाद्देवको जज्ञे उग्रसेनस्ततो ऽभवत् । 30ab
देववानुपदेवश्च देवकस्य सुताः स्मृताः ॥ 30cd
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ । 31ab
देवकी श्रुतदेवी च मित्रदेवी यथोधरा ॥ 31cd
श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी । 32ab
नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः ॥ 32cd
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूमिपः । 33ab
सुतनूराष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिकः ॥ 33cd
भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः । 34ab
राजाधिदेवः शूरश्च विदूरथसुतो ऽभवत् ॥ 34cd
राजाधिदेवपुत्रौ द्वौ शोणाश्चः श्वेतवाहनः । 35ab
शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादयः 3 35cd
शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः । 36ab
भोजस्य हृदिकः पुत्रो ह्यदिकस्य दशात्मजाः ॥ 36cd
कृतवर्म्मा शतधन्वा देवार्हो भीषणादयः । 37ab


1 कुकुरो भजमानस्त्विति क॰ । सुन्दरो भजमानस्त्विति ज॰ ।
2 कुकुरस्येति क॰ ।
3 शक्रजिदादय इति ख॰ ।
Image-P.17


देवार्हात् कम्बलवर्हिरसमौजास्ततो ऽभवत् ॥ 37cd
सुदंष्ट्रश्च सुवासश्च धृष्टो ऽभूदसमौजसः । 38ab
गान्धारी चैव माद्री च धृष्टभार्य्ये बभूवतुः ॥ 38cd
सुमित्रो ऽभूच्च गान्धार्य्यां माद्री जज्ञे युधाजितम् 1 39ab
अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः ॥ 39cd
अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः । 40ab
सत्राजितः प्रसेनो ऽथ मणिं सूर्य्यात्स्यमन्तकम् ॥ 40cd
प्राप्यारण्ये चरन्तन्तु सिंहो हत्वा ऽग्रहीन्मणिं । 41ab
हतो जाम्बवता सिंहो जाम्बवान् हरिणा जितः ॥ 41cd
तस्मान्मणिं जाम्बवतीं प्राप्यागाद्दारकां पुरीम् । 42ab
सत्राजिताय प्रददौ शतधन्वा जघान तम् ॥ 42cd
हत्वा शतधनुं कृष्णो मणिमादाय कीर्त्तिभाक् । 43ab
बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् ॥ 43cd
मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् । 44ab
सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया ॥ 44cd
अनमित्राच्छिनिर्ज्जज्ञे सत्यकस्तु शिनेः सुतः । 45ab
सत्यकात्सात्यकिर्ज्जज्ञे युयुधानाद्धुनिर्ह्यभूत् ॥ 45cd
धुनेर्युगन्धरः पुत्रः स्वाह्यो ऽभुत् 2 स युधाजितः । 46ab
ऋषभक्षेत्रकौ तस्य ह्यृषभाच्च स्वफल्ककः ॥ 46cd
स्वफल्कपुत्रो ह्यक्रूरो अकूराच्च सुधन्वकः । 47ab
शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रिया ऽभवत् ॥ 47cd


1 सुधाजितमिति ख॰ , छ॰ च ।
2 स्वान्धोभूदिति ख॰ , छ॰ च । साक्षो ऽभूदिति ज॰ ।
Image-P.18


धर्म्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः । 48ab
इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः ॥ 48cd
वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ । 49ab
वसुदेवाच्च देवक्यामादौ जातः सुसेनकः ॥ 49cd
कीर्त्तिमान् भद्रसेनश्च जारुख्यो विष्णुदासकः । 50ab
भद्रदेहः कंश एतान् षड्गर्भान्निजघान ह ॥ 50cd
ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी । 51ab
चारुदेष्णश्च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः ॥ 51cd


इत्याग्नेये महापुराणे यदुवंशवर्णनं नाम चतुःसप्तत्यधिकद्विशततमो ऽध्यायः ।

Chapter 275

अथ पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः ।

द्वादशसङ्ग्रामाः ।
अग्निरुवाच ।
कश्यपो वसुदेवो ऽभूद्देवकी चादितिर्व्वरा । 1ab
देवक्यां वसुदेवात्तु कृष्णो ऽभूत्तपसान्वितः ॥ 1cd
धर्म्मसंरक्षणार्थाय ह्यधर्म्महरणाय च । 2ab
सुरादेः पालनार्थञ्च दैत्यादेर्म्मथनाय च ॥ 2cd
रुक्मणी सत्यभामा च सत्या नग्नजिती प्रिया । 3ab
सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा ॥ 3cd
मित्रविन्दा 1 च कालिन्दी देवी जाम्बवती तथा । 4ab
सुशीला च तथा माद्री कौशल्या विजया जया ॥ 4cd


1 चित्रविन्देति ख॰ , छ॰ च ।
Image-P.19


एवमादीनि देवीनां सहस्राणि तु षोड़श । 5ab
प्रद्युम्नाद्याश्च रुक्मिण्यां भीमाद्याः सत्यभामया ॥ 5cd
जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस्तथापरे । 6ab
शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥ 6cd
अशीतिश्च सहस्राणि यादवाः कृष्णरक्षिताः । 7ab
प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ॥ 7cd
अनिरुद्धस्य वज्राद्या यादवाः सुमहाबलाः । 8ab
तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ॥ 8cd
मनुष्ये बाधका ये तु तन्नाशाय बभूव सः । 9ab
कर्त्तुं कर्मव्यवस्थानं मनुष्यो जायते हरिः ॥ 9cd
देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् । 10ab
प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ॥ 10cd
सङ्ग्रामस्त्वथ वाराहश्चतुर्थो ऽमृतमन्थनः । 11ab
तारकामयसङ्ग्रामः षष्ठो ह्याजीवको रणः ॥ 11cd
त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः । 12ab
जितो हालाहलश्चाथ घोरः कोलाहलो रणः ॥ 12cd
हिरण्यकशिपोश्चोरो विदार्य्य च नखैः पुरा । 13ab
नारसिंहो देवपालः प्रह्नादं कृतवान् नृपम् ॥ 13cd
देवासुरे वामनश्च छलित्वा बलिमूर्ज्जितम् । 14ab
महेन्द्राय ददौ राज्यं काश्यपो ऽदितिसम्भवः ॥ 14cd
वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् । 15ab
उज्जहार भुवं मग्नां देवदेवैरभिष्टुतः ॥ 15cd
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । 16ab
Image-P.20


सुरासुरैश्च मथितं 1 देवेभ्यश्चामृतं ददौ ॥ 16cd
तारकामयसङ्ग्रामे तदा देवाश्च पालिताः । 17ab
निवार्य्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृतम् ॥ 17cd
विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् । 18ab
अपालयन्ते निर्वार्य्य रागद्वेषादिदानवान् ॥ 18cd
पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः । 19ab
ददाह त्रिपुरं देवपालको दैत्यमर्दनः ॥ 19cd
गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः । 20ab
अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ॥ 20cd
अपां फेनमयो भूत्वा देवासुररणे हरन् 2 21ab
वृत्रं देवहरं विष्णुर्देवधर्म्मानपालयत् ॥ 21cd
शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः । 22ab
अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च ॥ 22cd
हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् । 23ab
भयं निर्णाशयामास देवानां मधुसूदनः ॥ 23cd
देवासुरे रणे यश्च दैत्यः कोलाहलो जितः । 24ab
पालिताश्च सुराः सर्व्वे विष्णुना धर्म्मपालनात् ॥ 24cd
राजानो राजपुत्राश्च मुनयो देवता हरिः । 25ab
यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे ॥ 25cd


इत्याग्नेये महापुराणे द्वादशसङ्ग्रामा नाम पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः ।


1 सुरासुरैरमन्थाब्धिमिति क॰ , छ॰ च॰ ।
2 देवासुरहरो ऽभवदिति क॰ , घ॰ , ञ॰ , ट॰ च॰ ।
Image-P.21


Chapter 276

अथ षट्सप्तत्यधिकद्विशततमो ऽध्यायः ।

राजवंशवर्णनं ।
अग्निरुवाच ।
तुर्व्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः 1 1ab
गोभानोरासीत् 2 त्रैशानिस्त्रैशानेस्तु करन्धमः ॥ 1cd
करन्धमान्मरुत्तोभू ऽद्दुष्मन्तस्तस्य चात्मजः । 2ab
दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः ॥ 2cd
गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः । 3ab
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला 3 महाबलाः ॥ 3cd
द्रुह्यस्तु वभ्रुसेतुश्च बभ्रुसेतोः पुरोवसुः । 4ab
ततो गान्धारा गान्धारैर्धर्म्मो धर्म्माद् घृतो ऽभवत् ॥ 4cd
घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् । 5ab
आनद्रश्च सभानरश्चाक्षुषः परमेषुकः ॥ 5cd
सभानरात् कालानलः कालानलजस्रृञ्जयः । 6ab
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥ 6cd
तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभून्महामनाः । 7ab
तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः ॥ 7cd
नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः । 8ab


1 शोभानुस्तस्य चात्मज इति ख ॰ ।
2 शोभानोरासीदिति ख ॰ ।
3 कर्णा इति ज॰ , ट॰ च॰ ।
Image-P.22


दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ॥ 8cd
शिवेः पुत्रास्तु चत्वारः पृथुदर्भश्च वीरकः । 9ab
कैकेयो भद्रकस्तेषां नाम्ना जनपदाः शुभाः ॥ 9cd
तितिक्षुरुशीनरजस्तितिक्षोश्च रुषद्रथः । 10ab
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥ 10cd
महायोगी बलिस्तस्मादङ्गो वङ्गश्च मुख्यकः । 11ab
पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः ॥ 11cd
अङ्गाद्दधिवाहनो ऽभूत् 1 तस्माद्दिविरथो नृपः । 12ab
दिविरथाद्धर्म्मरथस्तस्य चित्ररथः सुतः ॥ 12cd
चित्ररथात्सत्यरथो लोमपादश्च तत्सुतः । 13ab
लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ॥ 13cd
पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्य्यङ्गको ऽभवत् । 14ab
हर्य्यङ्गाच्च भद्ररथो बृहत्कर्म्मा च तत्सुतः ॥ 14cd
तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् । 15ab
तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्वृहद्रथः ॥ 15cd
वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् । 16ab
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः । 16cd
एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे ॥ 16॥ 16ef


इत्याग्नेये महापुराणे राजवंशवर्णनं नाम षट्सप्तत्यधिकद्विशततमो ऽध्यायः ।


1 दधिवामनोभूदिति ख॰ , छ॰ , ञ॰ , च॰ ।
Image-P.23


Chapter 277

अथ सप्तसप्रत्यधिकद्विशततमो ऽध्यायः ।

पुरुवंशवर्णनं ।
अग्निरुवाच ।
पुरोर्जनमेजयो ऽभूत्प्राचीन्नन्तस्तु तत्सुतः । 1ab
प्राचीन्नन्तान्मनस्त्युस्तु तस्माद्वीतमयो नृपः ॥ 1cd
शुन्धुर्वीतमयाच्चा ऽभूच्छुन्धोर्बहुविधः 1 सुतः । 2ab
बहुविधाच्च संयातिरहोवादी च तत्सुतः ॥ 2cd
तस्य पुत्रो ऽथ भद्राश्वो भद्राश्वस्य दशात्मजाः । 3ab
ऋचेयुश्च कृषेयुश्च सन्नतेयुस्तथात्मजः ॥ 3cd
घृतेयुश्च चितेयुश्च स्थण्डिलेयुश्च सत्तमः । 4ab
धर्म्मेयुः सन्नतेयुश्च कृचेयुर्म्मतिनारकः ॥ 4cd
तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः । 5ab
आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् ॥ 5cd
तंसुरोघाच्च चत्वारो दुष्मन्तो ऽथ प्रवीरकः । 6ab
सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतो ऽभवत् ॥ 6cd
शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः । 7ab
सुतेषु मातृकोपेन नष्टेषु भरतस्य च ॥ 7cd
ततो मरुद्भिरानीय पुत्रः स तु वृहस्पतेः । 8ab
संक्रामितो भरद्वाजः क्रतुभिर्व्वितथो ऽभवत् ॥ 8cd
स चापि वितथः पुत्रान् जनयामास पञ्च वै । 9ab


1 शग्भुर्वीतमयाश्चाभूच्छम्भोर्बहुविध इति ख॰ , ज॰ , च॰ ।
Image-P.24


सुहोत्रञ्च सुहोतारङ्गयङ्गर्भन्तथैव च ॥ 9cd
कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् । 10ab
कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः ॥ 10cd
ब्राह्माणाः क्षत्रिया वैश्याः काशे दीर्घतमाः 1 सुताः । 11ab
ततो धन्वन्तरिश्चासीत्तत्सुतो ऽभूच्च केतुमान् ॥ 11cd
केतुमतो हेमरथो दिवोदास इतिश्रुतः । 12ab
प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् ॥ 12cd
वत्सादनर्क्क आसीच्च अनर्क्कात् क्षेमको ऽभवत् । 13ab
क्षेमकाद्वर्षकेतुश्च वर्षकेतोर्विभुः स्मृतः 2 13cd
विभोरानर्त्तः पुत्रो ऽभूद्विभोश्च सुकुमारकः । 14ab
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ॥ 14cd
सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः । 15ab
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ॥ 15cd
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् 3 16ab
जह्नोरभूदजकाश्वो बलाकाश्वस्तदात्मजः ॥ 16cd
वलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः । 17ab
गाधेः सत्यवती कन्या विश्वामित्रः सूतोत्तमः ॥ 17cd
देवरातः कतिमुखा विश्वामित्रस्य ते सुताः । 18ab
शुनःशेफो ऽष्टकश्चान्यो ह्यजमीढात् सुतो ऽभवत् ॥ 18cd
नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः । 19ab


1 काशदीर्घतमा इति ज॰ ।
2 सुत इति ख॰ , छ॰ , ज॰ , च ।
3 प्रभाववानिति ख॰ ।
Image-P.25


पुरुजातेस्तु वाह्याश्वो वाह्याश्च्वात् पञ्च पार्थिवाः ॥ 19cd
मुकुलः सृञ्जयश्चैव राजा वृहदिषुस्तथा । 20ab
यवीनरश्च 1 कृमिलः पाञ्चाला इति विश्रुताः ॥ 20cd
मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः । 21ab
चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्यभुत् ॥ 21cd
दिवोदासो ह्यहल्या च अहल्यायां शरद्वतात् । 22ab
शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः ॥ 22cd
कृपः कृपी किवोदासान्मैत्रेयः सोमपस्ततः । 23ab
सृञ्जयात् पञ्चधनुषः सोमदत्तश्च तत्सुतः ॥ 23cd
सहदेवः सोमदत्तात् सहदेवात्तु सोमकः । 24ab
आसीच्च सोमकाज्जन्तुर्ज्जन्तोश्च पृषतः सुतः ॥ 24cd
पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नो ऽथ तत्सुतः । 25ab
धृष्ठकेतुश्च धूमिन्यामृक्षो ऽभूदजमीढतः ॥ 25cd
ऋक्षात्सम्वरणो जज्ञे कुरुः सम्वरणात्ततः । 26ab
यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह ॥ 26cd
कुरोः सुधन्वा सुधनुःपरिक्षिच्चारिमेजयः । 27ab
सुधन्वनः सुहोत्रो ऽभूत् सुहोत्राच्च्यवनो ह्यभूत् ॥ 27cd
वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः । 28ab
वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः ॥ 28cd
मत्स्यकाली कुशाग्रो ऽतो ह्यासीद्राज्ञो वृहद्रथात् । 29ab
कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः ॥ 29cd
सुधन्वा तत्सुतश्चोर्ज्ज ऊर्ज्जादासीच्च सम्भवः । 30ab


1 यवीनचश्चेति ख॰, छ॰ , ञ॰ , च ।
Image-P.26


सम्भवाच्च जरासन्धः सहदेवश्च तत्सुतः ॥ 30cd
सहदेवादुदापिश्च उदापेः श्रुतकर्मकः । 31ab
परिक्षितस्य दायादो धार्मिको जनमेजयः ॥ 31cd
जनमेजयात्त्रसदस्युर्जह्नोस्तु सुरथः सुतः । 32ab
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ॥ 32cd
जनमेजयस्य पुत्रौ तु सुरथो महिमांस्तथा । 33ab
सुरथाद्विदूरथो ऽभूदृक्ष आसीद्विदूरथात् ॥ 33cd
ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत् सुतः । 34ab
प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ॥ 34cd
देवापिर्व्वाह्लिकश्चैव सोमदत्तस्तु शान्तनोः । 35ab
वाह्लिकात्सोमदत्तो ऽभुद्भूरिर्भूरिस्रवाःशलः ॥ 35cd
गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्य्यकः । 36ab
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्य्यके ॥ 36cd
धृतरष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् । 37ab
पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश्चैवार्जुनस्त्रयः ॥ 37cd
नकुलः सहदेवश्च पाण्डोर्म्माद्य्राञ्च दैवतः । 38ab
अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः ॥ 38cd
द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् । 39ab
प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्त्तिर्द्धनञ्जयात् 1 39cd
सहदेवाच्छ्रुतकर्म्मा शतानीकस्तु नाकुलिः । 40ab
भीमसेनाद्धिड़िम्बायामन्य आसीद् घटीत्कचः ॥ 40cd
एते भूता भविष्याश्च नृपाः संख्या न विद्यते । 41ab


1 अत्र पाठः पतितः धनञ्जयात् क उत्पन्न इति विशेषाप्राप्तेः ।
Image-P.27


गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज ॥ 41cd
होममग्नौसमुद्दिश्य कुरु सर्व्वप्रदं यतः ॥ 41॥ 41ef


इत्याग्नेये महापुराणे पुरुवंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 278

अथाष्टसप्तत्यधिकद्विशततमो ऽध्यायः ।

सिद्धौषधानि ।
अग्निरुवाच ।
आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् । 1ab
देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ॥ 1cd
सुश्रुत उवाच ।
आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् । 2ab
सिद्धयोगान्सिद्धमन्त्रान्मृतसञ्जीवनीकरान् ॥ 2cd
धन्वन्तरिरुवाच ।
रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् । 3ab
सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं शृतं जलम् ॥ 3cd
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः । 4ab
षड़हे च व्यतिक्रान्ते तित्तकं पाययेद्ध्रुवं ॥ 4cd
स्नेहयेत्तक्तदोषन्तु 1 ततस्तञ्च विरेचयेत् । 5ab
जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ॥ 5cd
तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस्तथा । 6ab
मुद्गा मसूराश्च णकाः कुलत्थाश्च सकुष्ठकाः ॥ 6cd


1 पक्वदोषन्त्विति ञ॰ ।
Image-P.28


आटक्यो नारकाद्याश्च कर्क्कोटककटोल्वकम् । 7ab
पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ॥ 7cd
अधोगे वमनं शस्तमूर्द्ध्वगे च विरेचनम् । 8ab
रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्ज्जितम् ॥ 8cd
शक्तुगोधूमलाजाश्च यवशालिमसूरकाः । 9ab
सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ॥ 9cd
साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु । 10ab
अतीसारे पुराणानां शालीनां भक्षणं हितं ॥ 10cd
अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् । 11ab
मारुतं वर्ज्जयेद् यत्नः कार्य्यो गुल्मेषु सर्वथा ॥ 11cd
वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं । 12ab
गोधूमशालयस्तिक्ता हिता जठरिणामथ ॥ 12cd
गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरो ऽभया । 13ab
पञ्चकोलञ्जाङ्गलाश्च निम्बधात्र्यः पटोलकाः ॥ 13cd
मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः । 14ab
कुष्ठिनाञ्च तथा शस्तं पानार्थे खदिरोदकं ॥ 14cd
मसूरसुद्गौ पेयार्थे भोज्या जिर्णाश्च शालयः । 15ab
निम्बपर्पटकैः शाकैर्ज्जाङ्गलानां तथा रसः ॥ 15cd
विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्च्चिका । 16ab
मनःशिला च वालेयः कुष्ठहा मूत्रपेषितः ॥ 16cd
अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः । 17ab
यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ॥ 17cd
तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च । 18ab
Image-P.29


तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ॥ 18cd
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितञ्च यत् । 19ab
जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ॥ 19cd
कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः । 20ab
पूपैर्वा विस्करैः सिद्धैर्दधिदाड़िमसाधितैः ॥ 20cd
मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः । 21ab
यवगोधूमशाल्यन्नैर्भोजयेच्छ्वासकासिनं ॥ 21cd
दषमूलवलारास्नाकुलत्थैरुपसाधिताः । 22ab
पेयाः पूपरसाः क्वाथाः श्वासहिक्कानिवारणाः ॥ 22cd
शुष्कमूलककौलत्थमूलजाङ्गलजैरसैः । 23ab
यवगोधूमशाल्यन्नं जीर्णं सोशीरमाचरेत् ॥ 23cd
सोथवान् सगुड़ां पथ्यां खादेद्वा गुडनागरम् । 24ab
तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ॥ 24cd
पुराणयवगोधूमशालयो जङ्गलो रसः । 25ab
मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥ 25cd
मधु सर्पिः पयः शक्रं निम्बपर्पटकौ वृषम् । 26ab
तक्रारिष्टाश्च 1 शस्यन्ते सततं वातरोगिणाम् ॥ 26cd
हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः । 27ab
तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ॥ 27cd
मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये 2 28ab
सक्षौद्रपयसा लाक्षां पिवेच्च क्षतवान्नरः ॥ 28cd


1 भद्राविष्टाश्चेति ख॰ ।
2 सदामये इति ञ॰ । दमात्यये इति ट॰ ।
Image-P.30


क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् । 29ab
शालयो भोजने रक्ता नीवारकलमादयः ॥ 29cd
यवान्नविकृतिर्म्मां शाकं सौवर्च्चलं शटी । 30ab
पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा 1 30cd
मुस्ताभ्यासस्तथा लेपश्चित्रकेण हरिद्रया । 31ab
यवान्नविकृतिः शालिर्व्वास्तूकं ससुवर्च्चलम् ॥ 31cd
त्रपुषर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः । 32ab
मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥ 32cd
लाजाः शक्तुस्तथा क्षौद्रं शून्यं मांसं परूषकम् । 33ab
वार्त्ताकुलावशिखिनश्छर्द्दिघ्नाः पानकानि च ॥ 33cd
शाल्यन्नन्तोयपयसी केवलोष्णे शृते ऽपि वा । 34ab
तृष्णाघ्ने मुस्तगुड़योर्गुटिका वा मुखे धृता ॥ 34cd
यवान्नविकृतिः पूपं 2 शुष्कमूलकजन्तथा । 35ab
शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ॥ 35cd
मुद्गाढ़कमसूराणां सतिलैर्जाङ्गलैरसैः । 36ab
ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ॥ 36cd
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् । 37ab
विसर्पी ससिताक्षौद्रमृद्वीकादाड़िमोदकम् ॥ 37cd
रक्तयष्टिकगोधूमयवमुद्गादिकं लघु । 38ab
काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्च्चला ॥ 38cd
वातशोणितनाशाय तोयं शस्तं सितं मधु । 39ab


1 पथ्या तथैव काशस्य मण्डं तक्रञ्च वारुणमिति ख॰ , ञ॰ , च ।
2 यूषमिति ख॰ , ज॰ च ।
Image-P.31


नाशारोगेशु च हितं घृतं दुर्व्वाप्रसाधितम् ॥ 39cd
भृङ्गराजरसे सिद्धं तैलं धात्रीरसे ऽपि वा । 40ab
नश्यं सर्व्वामयेष्विष्टं मूर्द्धजन्तूद्भवेषु च ॥ 40cd
शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् । 41ab
द्विजदार्ढ्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ॥ 41cd
गण्डूषं तिलतैलेन द्विजदार्ढ्यकरं परं । 42ab
विड़ङ्गचूर्णं गोमूत्रं सर्व्वत्र कृमिनाशने ॥ 42cd
धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् । 43ab
शिरोरोगविनाशाय स्निग्धमुष्णञ्च भोजनम् ॥ 43cd
तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् । 44ab
कर्णशूलविनाशाय सर्वशुक्तानि 1 वा द्विज ॥ 44cd
गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा । 45ab
संयोज्या या कृता वर्त्तिः क्षतशुक्रहरी तु सा ॥ 45cd
व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् । 46ab
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनं ॥ 46cd
आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जिकसैन्धवैः । 47ab
आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ॥ 47cd
गिरिमृच्चन्दनैर्ल्लेपो वहिर्नेत्रस्य शस्यते । 48ab
नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा ॥ 48cd
रात्रौ तु मधुसर्पिर्भ्यां दीर्घमायुर्ज्जिजीविषुः । 49ab
शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥ 49cd
कलम्बिकानि माषाश्च वृष्यौ क्षीरघृतौ तथा । 50ab


1 सर्व्वशुक्लानीति ख॰ ।
Image-P.32


आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ॥ 50cd
मधुकादिरसोपेता बलीपलितनाशिनी । 51ab
वचासिद्धघृतं विप्र भूतदोषविनाशनम् ॥ 51cd
कव्यं बुद्धिप्रदञ्चैव 1 तथा सर्वार्थसाधनम् । 52ab
वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ॥ 52cd
रास्नासहचरैर्वापि तैलं वातविकारिणाम् । 53ab
अनभिष्यन्दि यच्चान्नं तद्व्रणेषु प्रशस्यते ॥ 53cd
शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते । 54ab
पक्वस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ॥ 54cd
तथा शूच्युपचारश्च 2 बलिकर्म विशेषतः । 55ab
सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ॥ 55cd
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् । 56ab
तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवाघृतम् ॥ 56cd
धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा । 57ab
अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं ॥ 57cd
वृश्चिकार्त्तस्य कृष्णा वा शिवा च फलसंयुता 3 58ab
अर्कक्षीरं तिलं तैलं पललञ्च गुड़ं समम् ॥ 58cd
पानाज्जयति दुर्वारं श्वविषं शीघ्रमेव तु । 59ab
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ॥ 59cd
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि । 60ab
चन्दनं पद्मकङ्कुष्ठं लताम्बूशीरपाटलाः ॥ 60cd


1 कन्ठ्यं वृद्धिप्रदञ्चैवेति ख॰ ।
2 प्रत्युपचारैश्चेति ख॰ ।
3 कलसंयुतेति ज॰ ।
Image-P.33


निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः । 61ab
शिरोविरेचनं शस्तं गुड़नागरकं द्विज ॥ 61cd
स्नेहपाने तथा वस्तौ तैलं धृतमनुत्तमम् । 62ab
स्वेदनीयः परो वह्निः शीताम्भःस्तम्भनं परम् ॥ 62cd
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा । 63ab
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु । 63cd
वातपित्तबलाशानां क्रमेण परमौषधं ॥ 63॥ 63ef


इत्याग्नेये महापुराणे सिद्धौषधानि नामाष्टसप्तत्यधिकद्विशततमो ऽध्यायः ।

Chapter 279

अथैकोनाशीत्यधिकद्विशततमो ऽध्यायः ।

सर्वरोगहराण्यौषधानि ।
धन्वन्तरिरुवाच ।
शारीरमानमागन्तुसहजा व्याधयो मताः । 1ab
शारीरा ज्वरकुष्ठाद्या क्रोधाद्या मानसा मताः ॥ 1cd
आगन्तवो विघातोत्था सहजाः क्षुज्जरादयः । 2ab
शारीरागन्तुनाशाय सूर्य्यवारे घृतं गुड़म् ॥ 2cd
लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् । 3ab
चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते ॥ 3cd
तैलं शनैश्चरे दद्यादाश्विने गोरसान्नदः । 4ab
घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः ॥ 4cd
Image-P.34


गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् । 5ab
यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ॥ 5cd
मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् । 6ab
वातपित्तकफा दोषा धातवश्च तथा शृणु ॥ 6cd
भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत । 7ab
अंशेनैकेन किट्टत्वं रसताञ्चापरेण च ॥ 7cd
किट्टभागो मलस्तत्र विन्मूत्रस्वेददूषिकाः । 8ab
नासामलङ्कर्णमलं तथा देहमलञ्च यत् ॥ 8cd
रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् । 9ab
मांसं रक्तात्ततो मेदो मेदसो ऽस्थ्नश्च सम्भवः ॥ 9cd
अस्थ्नो मज्जा ततः शुक्रं शुकाद्रागस्तथौजसः । 10ab
देशमार्त्तिं बलं शक्तिं कालं प्रकृतिमेव च ॥ 10cd
ज्ञात्वा चिकित्सितं कुर्य्याद्भेषजस्य तथा बलम् । 11ab
तिथिं रिक्तान्त्यजेद् भौमं मन्दभन्दारुणोग्रकम् ॥ 11cd
हरिगोद्विजचन्द्रार्क्कसुरादीन् प्रतिपूज्य च । 12ab
शृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ॥ 12cd
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्क्का ऽनिलानलाः । 13ab
ऋषयश्चौषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥ 13cd
रसायनमिवर्षीणां देवानाममृतं यथा । 14ab
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ 14cd
वातश्लेष्मातको देशो बहुवृक्षो बहूदकः । 15ab
अनूपइतिबिख्यातो जाङ्गलस्तद्विवर्ज्जितः ॥ 15cd
किञ्चिद्वृक्षोदको देशस्तथा साधारणः स्मृतः । 16ab
Image-P.35


जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ॥ 16cd
रूक्ष्मः शीतश्चलो वायुः पित्तमुष्णं कटुत्रयम् । 17ab
स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ॥ 17cd
वृद्धिः समानैरेतेषां विपरीतैर्विपर्य्ययः । 18ab
रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥ 18cd
कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः । 19ab
कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्द्धनाः ॥ 19cd
तिक्तस्वादुकषायाश्च तथा पित्तविनाशनाः । 20ab
रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते ॥ 20cd
वीर्य्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः । 21ab
प्रभावतस्तथा कर्म्म ते कुर्वन्ति च सुश्रुत ॥ 21cd
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् । 22ab
चयप्रकोपप्रशमाः कफस्य तु प्रकीर्त्तिताः ॥ 22cd
निदाघवर्षारात्रौ च तथा शरदि सुश्रुत । 23ab
चयप्रकोपप्रशमाः पवनस्य प्रकीर्त्तिताः ॥ 23cd
मेघकाले च शरदि हेमन्ते च यथाक्रमात् । 24ab
चयप्रकोपप्रशमास्तथा पित्तस्य कीर्त्तिताः ॥ 24cd
वर्षादयो विसर्गस्तु हेमन्ताद्यास्तथा त्रयः । 25ab
शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥ 25cd
सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्त्तितम् । 26ab
वर्षादींस्त्रीनृतून् सोमश्चरन् पर्य्यायशो रसान् ॥ 26cd
जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् । 27ab
शिशिरादीनृतूनर्कश्चरन् पर्य्यायशो रसान् ॥ 27cd
Image-P.36


विवर्द्धयेत्तथा तिक्तकषायकटुकान् क्रमात् । 28ab
यथा रजन्यो वर्द्धन्ते वलमेकं हि वर्द्धते ॥ 28cd
क्रमशो ऽथ मनुष्याणां हीयमानासु हीयते । 29ab
रात्रिभुक्तदिनानाञ्च वयसश्च तथैव च ॥ 29cd
आदिमध्यावसानेषु कफपित्तसमीरणाः । 30ab
प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः ॥ 30cd
प्रकोपोत्तरके काले शमस्तेषां प्रकीर्त्तितः । 31ab
ऐइभोजनतो विप्र तथा चाभोजनेन च ॥ 31cd
रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः । 32ab
अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् ॥ 32cd
आश्रयं पवनादीनां तथैकमवशेषयेत् । 33ab
व्याधेर्न्निदानस्य तथा विपरीतमथौषधम् ॥ 33cd
कर्त्तव्यमेतदेवात्र मया सारं प्रकीर्त्तितम् । 34ab
नाभेरूर्द्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥ 34cd
बलाशपित्तवातानां देहे स्थानं प्रकीर्त्तितं । 35ab
तथापि सर्वगाश्चैते देहे वायुर्विशेषतः ॥ 35cd
देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् । 36ab
कृशो ऽल्पकेशश्चपलो बहुवाग्विषमानलः ॥ 36cd
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते । 37ab
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥ 37cd
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते । 38ab
दृढ़ाङ्गः स्थिरचित्तश्च सुप्रभः स्निग्धमूर्द्ध्वजः ॥ 38cd
शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः । 39ab
Image-P.37


तामसा राजसाश्चैव सात्विकाश्च तथा स्मृताः ॥ 39cd
मनुष्या मुनिर्शादूल वातपित्तकफात्मकाः । 40ab
रक्तपित्तं व्यवायाच्च गुरुकर्म्मप्रवर्त्तनैः ॥ 40cd
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति । 41ab
विदाहिनां तथोल्कानामुष्णान्नाध्वनिसेविनां 1 41cd
पित्तं प्रकोपमायाति भयेन च तथा द्विज । 42ab
अत्यम्बुपानगुर्व्वन्नभोजिनां भुक्तशायिनाम् ॥ 42cd
श्लेष्माप्रकोपमायाति तथा ये चालसा जनाः । 43ab
वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्षणैः ॥ 43cd
अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा । 44ab
जृम्भणं लोमहर्षश्च वातिकव्याधिलक्षणम् ॥ 44cd
नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे । 45ab
तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् ॥ 45cd
आलस्यञ्च प्रसेकश्च गुरुता मधुरास्यता । 46ab
उष्णाभिलाषिता चेति श्लैष्मिकव्याधिलक्षणम् ॥ 46cd
स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् । 47ab
आज्यं क्षीरं सिताद्यञ्च चन्द्ररश्म्यादि पित्तनुत् ॥ 47cd
सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् । 48ab
सर्वरोगप्रशान्त्यै स्याद्विष्णोर्ध्यानञ्च पूजनम् ॥ 48cd


इत्याग्नेये महापुराणे सर्वरोगहराण्यौषधानि नामोनाशीत्यधिकद्विशततमो ऽध्यायः ।


1 तथोल्कानामुष्मणामध्वसेविनामिति ख॰ ।
Image-P.38


Chapter 280

अथाशीत्यधिकद्विशततमो ऽध्यायः ॥

रसादिलक्षणं ।
धन्वन्तरिरुवाच ।
रसादिलक्षणं वक्ष्ये भेषजानां गुणं शृणु । 1ab
रसवीर्य्यविपाकज्ञो नृपादीन्रक्षयेन्नरः ॥ 1cd
रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्तिताः । 2ab
कटुतिक्तकषायानि तथाग्नेया महाभुज ॥ 2cd
त्रिधा विपाको द्रव्यस्य कट्वम्ललवणात्मकः । 3ab
द्विधा वीर्य्यं समुद्दिष्टमुष्णं शीतं तथैव च ॥ 3cd
अनिर्देश्यप्रभावश्च ओषधीनां द्विजोत्तम । 4ab
मधुरश्च कषायश्च तिक्तश्चैव तथा रसः ॥ 4cd
शीतवीर्य्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्त्तिताः । 5ab
गुडुची तत्र तिक्तापि भवत्युष्णातिवीर्यतः ॥ 5cd
उष्णा कषायापि तथा पथ्या भवति मानद । 6ab
मधुरोपि तथा मांस उष्ण एव प्रकीर्त्तितः ॥ 6cd
लवणो मधुरश्चैव विपाकमधुरौ स्मृतौ । 7ab
अम्लोष्णश्च तथा प्रोक्तः शेषाः कटुविपाकिनः ॥ 7cd
वीर्य्यपाके विपर्य्यस्ते प्रभावात्तत्र निश्चयः । 8ab
मधुरो ऽपि कटुः पाके यच्च क्षौद्रं 1 प्रकीर्त्तितं ॥ 8cd
क्वाथयेत् षोड़शगुणं विवेद्द्रव्याच्चतुर्गुणम् । 9ab


1 यवक्षौद्रमिति ख॰ ।
Image-P.39


कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ॥ 9cd
कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं 1 10ab
द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः ॥ 10cd
तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् । 11ab
तोयवर्ज्जन्तु यद्द्रव्यं स्नेहद्रव्यं तथा भवेत् ॥ 11cd
संवर्त्तितौषधः पाकः स्नेहानां परिकीर्त्तितः । 12ab
तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत 2 12cd
स्वच्छमल्पौषधं क्वाथं कषायञ्चोक्तवद्भवेत् । 13ab
अक्षं चूर्णस्य निर्द्दिष्टं कषायस्य चतुष्पलं ॥ 13cd
मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना । 14ab
वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ॥ 14cd
समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् । 15ab
सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्द्धनाः ॥ 15cd
मधुरास्तु विशेषेण विज्ञेया धातुवर्द्धनाः । 16ab
दोषाणाञ्चैव धातूनां द्रव्यं समगुणन्तु यत् ॥ 16cd
तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् । 17ab
उपस्तम्भत्रयं प्रोक्तं देहे ऽस्मिन्मनुजोत्तम ॥ 17cd
आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् । 18ab
असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् ॥ 18cd
क्षयस्य बृंहणं कार्यं स्थूलदेहस्य कर्षणम् । 19ab
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥ 19cd


1 स्नेहपाके च तद्गुणमिति ख॰ ।
2 तत्तुल्यताप्यस्य तथा यथा भवति सुश्रुत इति ख॰ ।
Image-P.40


उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं । 20ab
हिताशी च मिताशी च जीर्णाशी च तथा भवेत् ॥ 20cd
ओषधीनां पञ्चविधा तथा भवति कल्पना । 21ab
रसः कल्कः शृतः शीतः फाण्डश्च मनुजोत्तम ॥ 21cd
रसश्च पीडको ज्ञेयः कल्क आलोड़िताद् भवेत् । 22ab
क्वथितश्च शृतो ज्ञेयः शीतः पर्युषितो निशां ॥ 22cd
सद्योभिशृतपूतं यत् तत् फाण्टमभिधीयते । 23ab
करणानां शतञ्चैव षष्टिश्चैवाधिका स्मृता ॥ 23cd
यो वेत्ति स ह्यजेयः स्थात्सम्बन्धे वाहुशौण्डिकः । 24ab
आहारशुद्धिरग्न्यर्थमग्निमूलं बलं नृणां ॥ 24cd
ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां । 25ab
जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयःकणां ॥ 25cd
रसाधिकं समं कुर्य्यान्नरो वाताधिको ऽपि वा । 26ab
निदाघे मर्द्दनं प्रोक्तं शिशिरे च समं बहु ॥ 26cd
वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं । 27ab
त्वचन्तु प्रथमं मर्द्द्यमङ्गञ्च तदनन्तरं ॥ 27cd
स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं । 28ab
स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी ॥ 28cd
अरिवन्मर्द्दयेत् प्रज्ञो जत्रु वक्षश्च पूर्ववत् । 29ab
अङ्गसन्धिषु सर्व्वेषु निष्पीड्य बहुलं तथा ॥ 29cd
प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् । 30ab
नाजीर्णे तु श्रमं कुर्य्यान्न भुक्त्वा पीतवान्नरः ॥ 30cd
दिनस्य तु चतुर्भाग ऊर्द्ध्वन्तु प्रहरार्द्धके । 31ab
Image-P.41


व्यायामं नैव कर्त्तव्यं स्नायाच्छीताम्बुना सकृत् ॥ 31cd
वार्य्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् । 32ab
व्यायामश्च कफं हन्याद्वातं हन्याच्च मर्द्दनम् ॥ 32cd
स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः । 33ab
आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः ॥ 33cd


इत्याग्नेये महापुराणे रसादिलक्षणं नामाशीत्यधिकद्विषततमो ऽध्यायः ॥

Chapter 281

अथैकाशीत्यधिकद्विशततमो ऽध्यायः ।

वृक्षायुर्वेदः ।
धन्वन्तरिरुवाच ।
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः । 1ab
प्राग्वटो याम्यतस्त्वाम्र आप्ये ऽश्वत्थः कर्मेण तु ॥ 1cd
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः । 2ab
उद्यानं गृहवासे 1 स्यात् तिलान् वाप्यथ पुष्पितान् ॥ 2cd
गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च । 3ab
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥ 3cd
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे । 4ab
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु 2 कारयेत् ॥ 4cd


1 गृहवामे इति ञ॰ ।
2 पुष्करिण्यान्त्विति पाठो न सम्यक् प्रतिभाति ।
Image-P.42


हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं । 5ab
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥ 5cd
संपूज्य वरुणं विष्णुं पर्ज्जन्यं तत् समाचरेत् । 6ab
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥ 6cd
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः । 7ab
सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे ॥ 7cd
वर्षारात्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः । 8ab
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥ 8cd
स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशावरं । 9ab
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥ 9cd
विड़ङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा । 10ab
फलनाशे कुलत्थैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥ 10cd
घृतशीतपयःसेकः फलपुष्पाय सर्वदा । 11ab
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥ 11cd
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् । 12ab
उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ 12cd
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः । 13ab
विड़ङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं । 13cd
सर्वेषामविशेषेण वृक्षाणां रोगमर्द्दनम् ॥ 13॥ 13ef


इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमो ऽध्यायः ॥
Image-P.43


Chapter 282

अथ द्व्यशीत्यधिकद्विशततमो ऽध्यायः ।

नानारोगहराण्यौषधानि ।
धन्वन्तरिरुवाच ।
सिंही शटी 1 निशायुग्मं वत्सकं क्वाथसेवनं । 1ab
शिशोः सर्व्वातिसारेषु स्तन्यदोषेषु शस्यते ॥ 1cd
शृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् । 2ab
एका चातिविशा काशच्छर्द्दिज्वरहरी शिशोः ॥ 2cd
बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् । 3ab
यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत् ॥ 3cd
वाग्रूपसम्पद्युक्तायुर्म्मेधाश्रीर्वर्द्धते शिशोः । 4ab
वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं ॥ 4cd
सयष्टिसैन्धवं बालः प्रातर्मेधाकरं पिवेत् । 5ab
देवदारुमहाशिग्रुफलत्रयपयोमुचां ॥ 5cd
क्वाथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् । 6ab
त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः ॥ 6cd
मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः । 7ab
नासारक्तहरो नस्याद्दुर्व्वारस इहोत्तमः ॥ 7cd
लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् । 8ab
तैलमार्द्रकजात्यं वा शूलहा 2 चौष्ठरोगनुत् 3 8cd


1 सिंही षष्टीति ख॰ ।
2 शूलहा इत्यत्र पुंस्त्वनिर्देश आर्षः ।
3 मूत्रहा शोषरोगनुदिति ञ॰ ।
Image-P.44


जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा । 9ab
दुग्धक्वाथे ऽभयाकल्के सिद्धं तैलं द्विजार्त्तिनुत् ॥ 9cd
धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् । 10ab
क्वाथितं कबलं कार्य्यमधिजिह्वाधिशान्तये ॥ 10cd
साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः । 11ab
गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा ॥ 11cd
पल्लवैरर्क्कपूतीकस्नुहीरुग्घातजातिकैः । 12ab
उद्वर्त्तयेत् सगोमूत्रैः सर्वत्वग्दोषनाशनैः ॥ 12cd
वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी । 13ab
पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् ॥ 13cd
यूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् । 14ab
तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुड़ा ऽभया ॥ 14cd
फलदार्व्वीविषाणान्तु क्वाथो धात्रीरसो ऽथवा । 15ab
पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा ॥ 15cd
वासागर्भो व्याधिघातक्वाथ एरण्डतैलयुक् । 16ab
वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी ॥ 16cd
सेव्या जठरिणा कृष्णा स्नुक्क्षीरवहुभाविता । 17ab
पयो वा रच्यदन्त्याग्निविड़ङ्गव्योषकल्कयुक् ॥ 17cd
ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते स्थिता । 18ab
सांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् ॥ 18cd
फलत्रयामृता वासा तिक्तभूनिम्वजस्तथा । 19ab
क्वाथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं ॥ 19cd
रक्तपित्ती पिवेद्वासासुरसं ससितं मधु । 20ab
Image-P.45


वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् ॥ 20cd
वरी विदारी पथ्या बलात्रयं सवासकं । 21ab
श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान् ॥ 21cd
पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् । 22ab
समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ॥ 22cd
त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं । 23ab
तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ॥ 23cd
रुग्घातरजनीलाक्षाचूर्णाजक्षौद्रसंयुता । 24ab
वासोवत्तिर्व्रणे योज्या शोधनीगतिनाशनी ॥ 24cd
श्यामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः । 25ab
समरीचैः शृतं तैलं क्षीरे स्याद्व्रणरोहणं ॥ 25cd
श्रीकार्पासदलैर्भस्मफलोपलवणा निशा । 26ab
तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ॥ 26cd
कुम्भीसारं पयोयुक्तं वह्निदग्धं व्रणे लिपेत् । 27ab
तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ॥ 27cd
विष्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया । 28ab
तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ॥ 28cd
वत्सकातिविषाविश्वविल्लमुस्तशृतं जलं । 29ab
सामे पुराणे ऽतीसारे सासृक्शूले च पाययेत् ॥ 29cd
अङ्गारदग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् । 30ab
शूलवानथ वा तद्धि सिन्धुहिंगुकणाभया ॥ 30cd
कटुरोहोत्कणातङ्कलाजचूर्णं 1 मधुप्लुतं । 31ab


1 कटुरोहोत्पलातङ्कलाजचूर्णमिति ट॰ ।
Image-P.46


वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ॥ 31cd
पाठादार्व्वीजातिदलं द्राक्षामूलफलत्रयैः 1 32ab
साधितं समधु क्वाथं कवलं मुखपापहृत् ॥ 32cd
कृष्णातिविषतिक्तेन्द्रदारूपाठापयोमुचां । 33ab
क्वाथो मूत्रे शृतः क्षौद्री सर्वकण्ठगदापहः ॥ 33cd
पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां । 34ab
कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति ॥ 34cd
वंशत्वग्वरुणक्वाथः शर्क्कराश्मविघातनः । 35ab
शाखोटक्वाथसक्षौद्रक्षीराशी श्लीपदी भवेत् ॥ 35cd
मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं । 36ab
पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा ॥ 36cd
शुण्ठीसीवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर्घृतम् । 37ab
रुजं हरेदथ क्वाथो विद्धि वद्धाग्निसाधने ॥ 37cd
सौवर्च्चलाग्निहिङ्गूनां सदीप्यानां रसैर्युतं । 38ab
विड़दीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् ॥ 38cd
धात्रीपटोलमुद्गानां क्वाथः साज्यो विसर्पहा । 39ab
शुण्ठीदारुनवाक्षीरक्वाथो मूत्रान्वितो ऽपरः ॥ 39cd
सव्योषायोरजःक्षारः फलक्वाथश्च शोथहृत् । 40ab
गुड़शिग्रुत्रिवृद्धिश्च सैन्धवानां रजोयुतः ॥ 40cd
त्रिवृताफलकक्वाथः सगुड़ः स्याद्विरेचनः । 41ab
वचाफलकषायोत्थं पयो वमनकृद्भवेत् ॥ 41cd
त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् । 42ab


1 द्राक्षामृतफलत्रयैरिति ञ॰ , ट॰ च ।
Image-P.47


विड़ङ्गं लोहचूर्णञ्च दशभागसमन्वितम् ॥ 42cd
शतावरीगुड़ुच्यग्निपलानां शतविंशतिः 1 43ab
मध्वाज्यतिलजैर्लिह्याद्बलीपलितवर्ज्जितः ॥ 43cd
शतमब्दं हि जीवेत सर्वरोगविवर्ज्जितः । 44ab
त्रिफला सर्वरोगघ्नी समधुः शर्क्वरान्विता ॥ 44cd
सितामधुघृतैर्युक्ता सकृष्णा त्रिफला तथा । 45ab
पथ्याचित्रकशुण्ठ्यश्च गुडुचीमुषलीरजः ॥ 45cd
सगुडं भक्षितं रोगहरं त्रिशतवर्षकृत् । 46ab
किञ्चिच्चूर्णं जवापुष्पं पिण्डितं विसृजेज्जले ॥ 46cd
तैलं भवेद् घृताकारं किञ्चिच्चूर्णं जलान्वितं । 47ab
धूपार्थं दृश्यते चित्रं वृषदंशजरायुना ॥ 47cd
पुनर्म्माक्षिकधूपेन दृश्यते तद्यथा पुरा । 48ab
कर्पूरजलकाभेकतैलं 2 पाटलिमूलयुक् ॥ 48cd
पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः । 49ab
तृणौत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं ॥ 49cd
विषग्रहरुजध्वंसक्षुद्रनर्म्म च कामिकं । 50ab
तत्ते षट्कर्म्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं ॥ 50cd
मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः । 51ab
चतुर्व्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥ 51cd


इत्याग्नेये महापुराणे नानारोगहराण्यौषधानि नाम द्व्यशीत्यधिकद्विशततमो ऽध्यायः ॥


1 पञ्चविंशतिरिति ञ॰ , ट॰ च ।
2 कर्पूरजहुकातैलमिति ख॰ । कर्पूरजानुकातैलमिति ज॰ ।
Image-P.48


Chapter 283

अथ त्र्यशीत्यधिकद्विशततमो ऽध्यायः ।

मन्त्ररूपौषधकथनं ।
धन्वन्तरिरुवाच ।
आयुरारोग्यकर्त्तर ओंकारद्याश्च नाकदाः । 1ab
ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ॥ 1cd
गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् । 2ab
ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ॥ 2cd
ओं नमो भगवते वासुदेवाय सर्वदः । 3ab
ओं हूं नमो विष्णवे मन्त्रोयञ्चौषधं परं ॥ 3cd
अनेन देवा ह्यसुराः सश्रियो निरुजो ऽभवत् । 4ab
भूतानामुपकारश्च तथा धर्मो महौषधम् ॥ 4cd
धर्म्मः सद्धर्म्मकृद्धर्म्मी एतैर्धर्म्मैश्च निर्म्मलः । 5ab
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ॥ 5cd
श्रियः पतिः श्रीपरम एतैः श्रियमवाप्नुयात् । 6ab
कामी कामप्रदः कामः कामपालस्तथा हरिः ॥ 6cd
आनन्दो माधवश्चैव नाम कामाय वै हरेः । 7ab
रामः परशुरामश्च नृसिंहो विष्णुरेव च ॥ 7cd
त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः । 8ab
विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ॥ 8cd
दामोदरो बन्धहरः पुष्कराक्षो ऽक्षिरोगनुत् । 9ab
हृषीकेशो भयहरो जपेदौषधकर्म्मणि ॥ 9cd
Image-P.49


अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः । 10ab
जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ॥ 10cd
चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् । 11ab
नारायणं सर्वकाले नृसिंहो ऽखिलभीतिनुत् ॥ 11cd
गरुड़ध्वजश्च विषहृत् वासुदेवं सदा जपेत् । 12ab
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् ॥ 12cd
नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं । 13ab
हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये । 13cd
बलभद्रं शौरकार्य्ये 1 एकं नामार्थसाधकम् 2 ॥ 13॥ 13ef


इत्याग्नेये महापुराणे मन्त्ररूपौषधकथनं नाम त्र्यशीत्यधिकद्विशततमो ऽध्यायः ।

Chapter 284

अथ चतुरशीत्यधिकद्विशततमो ऽध्यायः ।

मृतसञ्जीवनीकरसिद्धयोगः ।
धन्वन्तरिरुवाच ।
सिद्धयोगान् पुनर्वक्षे मृतसञ्जीवनीकरान्। 1ab
आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान् 3 1cd
आत्रेय उवाच ।
विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे । 2ab
पावनं पिप्पलीमूलं गुडूची विष्वजो ऽथ वा ॥ 2cd


1 वीरकार्य्ये इति ख॰ ।
2 एकनामाथ सार्थकमिति ख॰ , ञ॰ च ।
3 सर्व्वव्याधिविनाशकानिति ख॰ ।
Image-P.50


आमलक्यभया कृष्ण वह्निः सर्वज्वरान्तकः । 3ab
विल्वाग्निमन्थश्योनाककाश्मर्य्यः पारला स्थिरा ॥ 3cd
त्रिकण्टकं पृश्निपर्णी वृहती कण्टकारिकाः । 4ab
ज्वराविपाकपार्श्वार्त्तिकाशनुत् कुशमूलकम् ॥ 4cd
गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् । 5ab
वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् ॥ 5cd
त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः । 6ab
संस्कारो भेदनक्वाथः पेयः सर्वज्वरापहः ॥ 6cd
देवदारुबलावासात्रिफलाव्योपपद्मकैः 1 7ab
सविड़ङ्गैः सितातुल्यं तच्चुर्णं पञ्चकाशजित् ॥ 7cd
दशमूलीशटीरास्नापिप्पलीविल्वपौष्करैः । 8ab
शृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ॥ 8cd
यवाग्रं विधिना सिद्धं कषायं वा पिवेन्नरः । 9ab
काशहृद्ग्रहणीपार्श्वहिक्वाश्वासप्रशान्तये ॥ 9cd
मधुकं मधुना युक्तं विप्पलीं शर्करान्वितां । 10ab
नागरं गुड़संयुक्तं हिक्वाघ्नं लावणत्रयम् ॥ 10cd
कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाड़िमम् । 11ab
सौवर्च्चलं गुड़ं क्षौद्रं सर्वारोचननाशनम् ॥ 11cd
शृङ्गवेररसञ्चैव मधुना सह पाययेत् । 12ab
अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ॥ 12cd
वटं शृङ्गी शिलालोध्रदाड़िमं मधुकं मधु । 13ab
पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ॥ 13cd


1 देवदारुबलारास्नात्रिफलाव्योषपद्मकैरिति ख॰ ।
Image-P.51


गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् । 14ab
कफान्वितञ्जयेद्रक्तं तृष्णाकासज्वरापहम् ॥ 14cd
वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः । 15ab
शिरीषपुष्पसुरसभावितं मरिचं हितं ॥ 15cd
सर्व्वार्त्तिनुन्मसूरो ऽथ पित्तमुक् तण्ड्लीयकं । 16ab
निर्ग्गुण्डी शारिवा शेलु रङ्गोलश्च 1 विषापहः ॥ 16cd
महौषधं मृतां क्षुद्रां पुष्करं 2 ग्रन्थिकोद्भवं 3 17ab
पिवेत् कणायुतं क्वाथं मूर्च्छायाञ्च मदेषु च ॥ 17cd
हिङ्गुसौर्च्चलव्योषैर्द्विपलांशैर्घृताढकं । 18ab
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं ॥ 18cd
शङ्खपुष्पीवत्ताकुष्ठैः सिद्धं ब्राह्मीरसैर्युतं । 19ab
पुराणं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं ॥ 19cd
पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभयायुतं । 20ab
पटोलत्रिफलानिम्बगुडुचीधावणीवृषैः ॥ 20cd
सकरञ्जैर्घृतं सिद्धं कुष्ठनुद्वज्रकं स्मृतं । 21ab
निम्बं पटोलं व्याघ्री च गुडूची वासकं तथा ॥ 21cd
कुर्य्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् । 22ab
जलद्रोणे विपक्तव्यं यावत्पादावशेषितं ॥ 22cd
घृतप्रस्थम्पचेत्तेन त्रिफलागर्भसंयुतं 4 23ab
पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं ॥ 23cd
अशीतिं वातजान्रोगान् चत्वारिंशच्च पैत्तिकान् । 24ab


1 वङ्कोलश्चेति ख॰ , ञ॰ , च ।
2 पुष्पकमिति ज॰ ।
3 ग्रन्थिलोद्भवमिति ख॰ ।
4 त्रिफलाशर्करायुतमिति ख॰ , ञ॰ च ।
Image-P.52


विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् ॥ 24cd
हन्त्यन्यान् योगराजो ऽयं यथार्कस्तिमिरं खलु । 25ab
त्रिफलायाः कषायेन भृङ्गराजरसेन च ॥ 25cd
व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये । 26ab
पटोलदलचूर्णेन दाडिमत्वग्रजो ऽथ वा ॥ 26cd
गुण्डयेच्च गजेनापि 1 त्रिफलाचूर्णकेन च । 27ab
त्रिफलायोरजोयष्ठिमार्कवोत्पलमारिचैः ॥ 27cd
समैन्धवैः पचेत्तैलमभ्यङ्गाच्छर्द्दिकापहं । 28ab
सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ॥ 28cd
पचेत्तु तैलकुडवं तन्नस्यं पलितापहं । 29ab
निम्बम्पटोलं त्रिफला गुडूची स्वदिरं वृषं ॥ 29cd
भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं । 30ab
योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ॥ 30cd
पटोलामृतभूनिम्बवासारिष्टकपर्पटैः । 31ab
खदिरान्तयुतैः क्वाथो विस्फोटज्वरशान्तिकृत् ॥ 31cd
दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा । 32ab
ज्वरविद्रधिशोथेषु शिग्रुविश्वजिता हिताः ॥ 32cd
मधूकं निम्बपत्राणि लेपः स्यद्व्रणशोधनः । 33ab
त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ॥ 33cd
निम्बमूलकपत्राणां कषायाः शोधने हिताः । 34ab
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रमीन् ॥ 34cd


1 गुण्डयेन्नगजेनापीति ख॰ , ञ॰ च ।
Image-P.53


धातकीचन्दनबलासमङ्गामधुकोत्पलैः । 35ab
दार्वीमेदोन्वितैर्लेपः समर्पिर्व्रणरोपणः ॥ 35cd
गुग्गुलुत्रिफलाव्योषसमांर्शैर्घृतयोगतः । 36ab
नाडी दुष्टव्रणं शूलम्भगन्दरमुखं हरेत् ॥ 36cd
हरितकीं मूत्रसिद्धां सतैललवणान्वितां । 37ab
प्रातः प्रातश्च सेवेत कफवातामयापहां 1 37cd
त्रिकटुत्रिफलाक्वाथं 2 सक्षारलवणं पिवेत् । 38ab
कफवातात्मकेष्वेव विरेकः कफवृद्धिनुत् ॥ 38cd
पिप्पलीपिप्पलीमूलवचाचित्रकनागरैः । 39ab
क्वाथितं वा पिवेत्पेयमामवातविनाशनं ॥ 39cd
रास्नां गुडुचीमेरण्डदेवदारुमहौषधं । 40ab
पिवेत् सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे ॥ 40cd
दशमूलकषायं वा पिवेद्धा नागराम्भसा । 41ab
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्न्निषेवितः ॥ 41cd
सामवातकटीशूलपाचनो रुक्प्रणाशनः । 42ab
समूलपत्रशाखायाः प्रसारण्याश्च तैलकं ॥ 42cd
गुडुच्याः सुरसः कल्कः चूर्णं वा क्वाथमेव च । 43ab
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ॥ 43cd
पिप्पली वर्द्धमानं वा सेव्यं पथ्या गुडेन वा । 44ab
पटोलत्रिफलातीव्रकटुकामृतसाधितं 3 44cd
पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं । 45ab


1 कफवातविनाशिनीमिति ज॰ ।
2 त्रिकटुत्रिफलाकुष्ठमिति ञ॰ ।
3 पटोलत्रिफलाभीरुकटुकामृतसाधितमिति ख॰ , छ॰ , ञ॰ च ।
Image-P.54


गुग्गुलं कोष्णशीते 1 तु गुडुची त्रिफलाम्भसा ॥ 45cd
बलापुनर्न्नवैरण्डवृहतीद्वयगोक्षुरैः । 46ab
सहिङ्गु लवनैः पीतं सद्यो वातरुजापहं ॥ 46cd
कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च । 47ab
पिप्पली चित्रकं शुण्ठी त्रिफला त्रिवृता वचा ॥ 47cd
द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका । 48ab
कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां ॥ 48cd
शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके । 49ab
क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् ॥ 49cd
सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथजित् । 50ab
व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ॥ 50cd
साधितं पिवतः सर्पिः पतत्यर्शो न संशयः । 51ab
विश्वक्सेनावनिर्ग्गुण्डीसाधितं चापि लावणं ॥ 51cd
विड़ङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः । 52ab
तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा ॥ 52cd
गण्डमालापहं तैलमभ्यङ्गात् गलगण्डनुत् । 53ab
शटीकुनागबलयक्वाथः क्षीररसे युतम् ॥ 53cd
पयस्यापिप्पलीवासाकल्कं सिद्धं क्षये हितम् । 54ab
वचाविड़भयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् ॥ 54cd
द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् । 55ab
चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् ॥ 55cd
पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् । 56ab


1 क्रोष्टुशीते ऽथेति ख॰ ।
Image-P.55


मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्द्दनी ॥ 56cd
वासानिम्बपटोलानि त्रिफला वातपित्तनुत् 1 57ab
लिह्यात् क्षौद्रेण विड़ङ्गं चूर्णं कृमिविनाशनम् ॥ 57cd
विड़ङ्गसैन्धवक्षारमूत्रेनापि हरीतकी । 58ab
शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः ॥ 58cd
पीताः क्षीरेण मध्वक्ताः पृथक्शोणितवारणाः । 59ab
विल्वाम्रघातकीपाठाशुण्ठीमोचरसाः समाः ॥ 59cd
पीता रुन्धन्त्यतीसारं गुड़तक्रेण दुर्जयम् । 60ab
चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् ॥ 60cd
घृतयुक्क्वाथितं पेयं गुदभ्रंसे रुजापहम् । 61ab
विड़ङ्गातिविषामुस्तं दारुपाठाकलिङ्गकम् ॥ 61cd
मरीचेन समायुक्तं शोथातीसारनाशनम् । 62ab
शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुड़ेन वा ॥ 62cd
द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी । 63ab
त्रिफला पिप्पलीयुक्ता समध्वाज्या तथैव सा ॥ 63cd
चूर्णमामलकं तेन सुरसेन तु भवितम् । 64ab
मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत् ॥ 64cd
मासपिप्पलिशालीनां यवगोधूमयोस्तथा । 65ab
चूर्णभागैः समांशैश्च पचेत् पिप्पलिकां शुभां ॥ 65cd
तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः । 66ab
नवश्चटकवज्जम्भेद् दशवारान् स्त्रियं ध्रुवम् ॥ 66cd
समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च । 67ab


1 त्रिफला चाम्लपित्तनुदिति ख॰ , ञ॰ च ।
Image-P.56


एतत् क्षीरेन दातव्यं स्त्रीणां प्रदरनाशनं ॥ 67cd
वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं । 68ab
पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् ॥ 68cd
द्रवमाणेषु गर्भेषु गर्भस्थापनमुत्तमं । 69ab
देवदारु नभः कुष्ठं 1 नलदं विश्वभेषजं ॥ 69cd
लेपः काञ्चिकमम्पिष्टस्तैलयुक्तः शिरोर्त्तिनुत् । 70ab
वस्त्रपूतं क्षिपेत् कोष्णं सिन्धूत्थं कर्णशूलनुत् ॥ 70cd
लशुनार्द्रकशिग्रूणां कदल्या वा रसःपृथक् । 71ab
बलाशतावरीरास्नामृताः मैरीयकैः पिवेत् ॥ 71cd
त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं । 72ab
त्रिफलाव्योषसिन्धूप्त्यैर्घृतं सिद्धं पिवेन्नरः ॥ 72cd
चाक्षुष्यम्भेदनं हृद्यं 2 दीपनं क्रफरोगनुत् । 73ab
नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं ॥ 73cd
गुटिकाञ्जनमेतत् स्यात् दिनरात्र्यन्धयोर्हितं । 74ab
यष्टीमधुवचाकृष्णावीजानां कुटजस्य च ॥ 74cd
कल्केनालोड्य निम्बस्य कषायो वमनाय सः । 75ab
स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् ॥ 75cd
अन्यथा योजितं कुर्य्यात् मन्दाग्निं गौरवारुचिं । 76ab
पथ्यासैन्धवकृष्णानां 3 चूर्णमुष्णाम्बुना पिवेत् ॥ 76cd
विरेकः सर्व्वरोगघ्नः श्रेष्ठो नाराचसंज्ञकः । 77ab


1 कृष्णमिति ख॰ ।
2 कुष्ठमिति ञ॰ ।
3 पथ्यासैन्धवकुष्ठानामिति ख॰ ।
Image-P.57


सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः । 77cd
सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ॥ 77॥ 77ef


इत्याग्नेये महापुराणे मृतसञ्जीवनीकरसिद्धयोगो नाम चतुरशीत्यधिकद्विशततमो ऽध्यायः ।

Chapter 285

अथ पञ्चाशीत्यधिकद्विशततमो ऽध्यायः ।

कल्पसागरः ।
धन्वन्तरिरुवाच ।
कल्पाम्मृत्युञ्चयान्वक्ष्ये ह्यायुर्द्दान्रोगसर्द्दनान् । 1ab
त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ॥ 1cd
पलं पलार्द्धं कर्षं वा त्रिफलां सकलां तथा । 2ab
विल्वतैलस्य नस्यञ्च मासं पञ्चशती कविः ॥ 2cd
रोगापमृत्युबलिजित् तिलं 1 भल्लातकं तथा । 3ab
पञ्चाङ्गं वाकूचीचूर्णं षण्मासं खदिरोदकैः ॥ 3cd
क्वाथैः कुष्ठञ्जयेत् सेव्यं चूर्णं नीलकुरुण्टजम् । 4ab
क्षीरेण मधुना वापि शतायुः खण्डदुग्धभुक् ॥ 4cd
मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः समृद्युजित् । 5ab
बलीपलितजिज्जीवेन्माण्डकीचूर्णदुग्धपाः ॥ 5cd
उच्चटामधुना कर्षं पयःपा मृत्युजिन्नरः । 6ab
मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ॥ 6cd


1 तैलमिति ञ॰ ।
Image-P.58


पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् । 7ab
दुग्धभोजी पञ्चशती सहस्रायुर्भवेन्नरः ॥ 7cd
ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् । 8ab
मधुनाज्यन्ततस्तद्वत् शतावर्य्या रजः पलं ॥ 8cd
क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् । 9ab
पञ्चाङ्गं निम्बचूर्णस्य खदिरक्वाथभावितं ॥ 9cd
कर्षं भृङ्गरसेनापि रोगजिच्चामरो 1 भवेत् । 10ab
रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् ॥ 10cd
कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः । 11ab
घृतेन मधुना सेव्य त्रिशतायुश्च रोगजित् ॥ 11cd
वाराहिका भृङ्गरसं लोहचूर्णं शतावरी । 12ab
साज्यं कर्षं 2 पञ्चशती कर्त्तचूर्णं शतावरी ॥ 12cd
भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् । 13ab
ताम्रं मृतं 3 सृततुल्यं 4 गन्धकञ्च कुमारिका ॥ 13cd
रसैर्विमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् । 14ab
अश्वगन्धा पलं तैलं साज्यं खण्डं शताब्दवान् ॥ 14cd
पलम्पुनर्न्नवाचूर्णं मध्वाज्यपयसा पिवन् । 15ab
अशोकचूर्णस्य पलं मध्वाज्यं पयसार्त्तिनुत् ॥ 15cd
तिलस्य तैलं समधु नस्यात् कृष्णकचः शती । 16ab
कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ॥ 16cd


1 रोगनुच्चामरो भवेदिति ञ॰ ।
2 साज्यं सर्व्वमिति ख॰ ।
3 ताम्रामृतमिति ख॰ ।
4 सुरतुस्यमिति ज॰ , ञ॰ च ।
Image-P.59


अभयं सगुडञ्चग्ध्वा घृतेन मधुरादिभिः । 17ab
दुग्धान्नभुक् कृष्णकेशो ऽरोगी पञ्चशताब्दवान् ॥ 17cd
पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् । 18ab
मासं दुग्धान्नभोजी च सहस्रायुर्विरोगवान् ॥ 18cd
शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृत् । 19ab
कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ॥ 19cd
त्रिफला पिप्पली शुण्ठी सेविता त्रिशताब्दकृत् । 20ab
शतावर्य्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ॥ 20cd
चित्रकेन तथा पुर्वस्तथा शुण्ठीविडङ्गतः । 21ab
लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ॥ 21cd
खदिरेण च निर्गुण्ड्या कण्टकार्य्याथ वासकात् । 22ab
वर्षाभुवा तद्रसैर्वा भावितो वटिकाकृतः ॥ 22cd
चूर्णङ्घृतैर्वा मधुना गुडाद्यैर्वारिणा तथा । 23ab
ॐ ह्रूं स इतिमन्त्रेण मन्त्रतो योगराजकः ॥ 23cd
मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् । 24ab
सुरासुरैश्च मुनिभिः सेविताः कल्पसागराः ॥ 24cd
गजायुर्वेदं प्रोवाच पालकाप्यो ऽङ्गराजकं ॥ 24॥ 24ef


इत्याग्नेये महापुराणे कल्पसागरो नाम पञ्चाशीत्यधिकद्विशततमो ऽध्यायः ।
Image-P.60


Chapter 286

अथ षडशीत्यधिकद्विशततमो ऽध्यायः ।

गजचिकित्सा ।
पालकाप्य उवाच 1
गजलक्ष्म चिकित्साञ्च लोमपाद यदामि ते । 1ab
दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः ॥ 1cd
विंशत्यष्टादशनखाः शीतकालमदाश्च ये । 2ab
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥ 2cd
कर्णौ च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ । 3ab
ते धार्य्या न तथा धार्य्या वामना ये च सङ्कुशाः 2 3cd
हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः । 4ab
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥ 4cd
सप्तस्थितो गजश्चेदृक् सङ्ग्रामेरीञ्जयेत्स च । 5ab
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥ 5cd
आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां । 6ab
पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ॥ 6cd
घृततैलपरीपाकं स्थानं वातविवर्जितं । 7ab
स्कन्धेषु च क्रिया कर्य्या तथा पालकवन्नृपाः ॥ 7cd
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज । 8ab
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥ 8cd
लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी । 9ab


1 धन्वन्तरिरुवाचेति ञ॰ ।
2 मर्द्दना इति ञ॰ ।
Image-P.61


विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥ 9cd
मूर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् । 10ab
अभ्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ॥ 10cd
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् । 11ab
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ॥ 11cd
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः । 12ab
रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते ॥ 12cd
बालविल्वं तथा लोध्रं धातकी सितया सह । 13ab
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥ 13cd
नस्यं करग्रहे देयं घृतं लयणसंयुतम् । 14ab
मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥ 14cd
उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् । 15ab
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥ 15cd
तैलमूषणसंयुक्तं गलग्रहगदापहम् । 16ab
अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम् ॥ 16cd
मूत्रभङ्गे ऽथ वा वीजं क्वथितं त्रपूषस्य च । 17ab
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः ॥ 17cd
गवां मूत्रं विड़ङ्गानि कृमिकोष्ठेषु शस्यते । 18ab
शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥ 18cd
क्षतक्षयकरं पानं तथा मांसरसः शुभः । 19ab
मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥ 19cd
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली । 20ab
एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ॥ 20cd
Image-P.62


भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः । 21ab
सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ॥ 21cd
यष्टिकं मुद्गसूपेन 1 शारदेन तथा पिवेत् । 22ab
बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ॥ 22cd
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् । 23ab
पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपशान्तये ॥ 23cd
प्रधानभोजने तेषां यष्टिकव्रीहिशालयः । 24ab
मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥ 24cd
यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः । 25ab
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥ 25cd
मदक्षिणस्य नागस्य पयःपानं प्रशस्यते । 26ab
दीपनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः ॥ 26cd
वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः । 27ab
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि 2 27cd
कटुमत्स्यविड़ङ्गानि क्षारः कोषातकी पयः । 28ab
हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः ॥ 28cd
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकम् तथा । 29ab
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥ 29cd
पूरीषञ्चटकायाश्च तथा पारावतस्य च । 30ab
क्षीरवृक्षकरीषाश्च 3 प्रसन्नयेष्टमञ्जनं ॥ 30cd


1 मुद्ग्यूषेणेति ज॰ , ञ॰ च ।
2 मदाय हीति ञ॰ ।
3 क्षीरवृक्षकरीराश्चेति ञ॰ ।
Image-P.63


अनेनाञ्जितनेत्रस्तु करोति कदनं रणे । 31ab
उत्पलानि च नीलानि सुस्तन्तगरमेव च ॥ 31cd
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् । 32ab
नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ॥ 32cd
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा । 33ab
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥ 33cd


इत्याग्नेये महापुराणे गजचिकित्सा नाम षड़शीत्यधिकद्विशततमो ऽध्यायः ।

Chapter 287

अथ सप्ताशीत्यधिकद्विशततमो ऽध्यायः ।

अश्ववाहनसारः ।
धन्वन्तरिरुवाच ।
अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् । 1ab
वाजिनां संग्रहः कार्य्यो धर्म्मकमार्थसिद्धये ॥ 1cd
अश्विनी श्रवणं हस्तं उत्तरात्रितयन्तथा । 2ab
नक्षत्राणि प्रशस्तानि हयानामादिवाहने ॥ 2cd
हेमन्तः शिशिरश्चैव वसन्तश्चाश्ववाहने । 3ab
ग्रीष्मेशरदि वर्षासु निषिद्धं वाहनं हये ॥ 3cd
तीव्रैर्न्न च परैर्द्दण्डैरदेशे न च ताडयेत् । 4ab
कीलास्थिसंकुले चैव विषमे कण्टकान्विते ॥ 4cd
Image-P.64


वालुकापङ्गसंच्छन्ने गर्त्तागर्त्तप्रदूषिते । 5ab
अचित्तज्ञो विनोपायैर्वाहनं कुरुते तु हः ॥ 5cd
स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना 1 6ab
छन्दं विज्ञापयेत् कोपि सकृती धीमतां वरः ॥ 6cd
अभ्यासादभियोगाच्च विनाशास्त्रं स्ववाहकः । 7ab
स्नातस्य प्राङ्मुखस्याथ देवान् वपुषि योजयेत् ॥ 7cd
प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् । 8ab
ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे ॥ 8cd
पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाथ मर्मसु । 9ab
दृगावर्त्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा ॥ 9cd
जठरे ऽग्निः स्वधा स्वेदे वाग्जिह्वायां जवे ऽनिलः । 10ab
पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वताः ॥ 10cd
ताराश्च रोमकूपेषु हृदि चान्द्रमसी कला । 11ab
तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः ॥ 11cd
ग्रहाश्च हेषिते चैव तथैवोरसि वासुकिः । 12ab
उपोषितो ऽर्च्चयेत् सादी हयं दक्षश्रुतौ जपेत् ॥ 12cd
हय गन्धर्वराजस्त्वं शृणुष्व वचनं गम । 13ab
गन्धर्वकुलजातस्त्वं माभूस्त्वं कुलदूषकः ॥ 13cd
द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च । 14ab
रुद्रस्य वरुणस्यैव पवनस्य बलेन च ॥ 14cd
हुताशनस्य दीप्त्या च स्मर जातिं तुरङ्गम । 15ab
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ॥ 15cd


1 कणिकां विनेति ज॰ , ञ॰ च ।
Image-P.65


स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं । 16ab
क्षिरोदसागरे चैव मथ्यमाने सुरासुरैः ॥ 16cd
तत्र देवकुले जातः स्ववाक्यं परिपालय । 17ab
कुले जातस्त्वमश्वानां मित्रं मे भव शास्वतम् ॥ 17cd
शृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन । 18ab
विजयं रक्ष माञ्चैव समरे सिद्धिमावह ॥ 18cd
तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा । 19ab
अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं ॥ 19cd
कर्णजापन्ततः कृत्वा विमुह्य च तथा प्यरीन् 1 20ab
पर्य्यानयेद्धयं सादी वाहयेद्युद्धतो जयः ॥ 20cd
सञ्जाताः स्वशरीरेण 2 दोषाः प्रायेण वाजिनां । 21ab
हन्यन्ते ऽतिप्रयत्नेन गुणाः सादिवरैः पुनः ॥ 21cd
सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः । 22ab
नाशयन्ति गुणानन्ये सादिनः सहजानपि ॥ 22cd
गुणानेको विजानाति वेत्ति दोषांस्तथा ऽपरः । 23ab
धन्यो धीमान् हयं वेत्ति नोभयं वेत्ति मन्दधीः ॥ 23cd
अकर्म्मज्ञो ऽनुपायज्ञो वेगासक्तो ऽतिकोपनः । 24ab
घनदण्डरतिच्छिद्रे यः ममोपि न शस्यते ॥ 24cd
उपायज्ञो ऽथ चित्तज्ञो विशुद्धो दोषनाशनः । 25ab
गुणार्ज्जनपरो नित्यं सर्वकर्म्मविशारदः ॥ 25cd
प्रग्रहेण गृहीत्वा ऽथ प्रविष्टो वाहभूतलम् । 26ab
सव्यापसव्यभेदेन वाहनीयः स्वसादिना ॥ 26cd


1 तथासुरनिति ज॰ , ञ॰ , ट॰ च ।
2 सह जाताः शरीरेणेति ञ॰ ।
Image-P.66


आरुह्य सहसा नैव ताड़्नीयो हयोत्तमः । 27ab
ताड़नाद्भयमाप्नोति भयान्मोहश्च जायते ॥ 27cd
प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् । 28ab
मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ॥ 28cd
प्रोक्तमाश्वसनं सामभेदो ऽश्वेन नियोज्यते । 29ab
कषादिताड़्नं दण्डो दानं कालसहिष्णुता ॥ 29cd
पर्व्वपूर्व्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् । 30ab
जिह्वातले विनायोगं विदध्याद्वाहने हये ॥ 30cd
गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् । 31ab
विस्मार्य्य वाहनं कुर्य्याच्छिथिलानां शनैः शनैः ॥ 31cd
हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् । 32ab
गाटतां मोचयेत्तावद्यावत् स्तोभं न सुञ्चति ॥ 32cd
कुर्य्याच्छतमुरस्त्राणमविलालञ्च मुञ्चति । 33ab
ऊर्द्धाननः स्वभाद्यस्तस्योरस्त्राणमश्लथम् ॥ 33cd
विधाय वाहयेद्दृष्ट्या लीलया सादिसत्तमः । 34ab
तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ॥ 34cd
यः कुर्य्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः । 35ab
क्रमेणानेन यो सेवां कुरुते वामवल्गया ॥ 35cd
पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि । 36ab
अग्रे चेच्चरणे त्यक्ते जायते सुदृढ़ासनं ॥ 36cd
यौ हृतौ दुष्करे चैव मोटके नाटकायनं । 37ab
सव्यहीनं खलीकारो हनने गुणने तथा ॥ 37cd
स्वहावं हि तुरङ्गस्य मुखव्यावर्त्तनं पुनः । 38ab
Image-P.67


न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ॥ 38cd
विश्वस्तं हयमालोक्य गाढ़मापीड्य चासनं । 39ab
रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ॥ 39cd
गाढ़मापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते । 40ab
तद्बन्धनाद् युग्मपादं 1 तद्वद्वक्वनमुच्यते ॥ 40cd
संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् । 41ab
वाह्यपार्ष्णिप्रयोगात्तु 2 यत्र तत्ताड़नं मतम् ॥ 41cd
प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् । 42ab
मोटनेन चतुर्थेन विधिरेष बिधीयते ॥ 42cd
नाधत्ते ऽधश्च पादं यो ऽश्वो लघुनि मण्डले । 43ab
मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं ॥ 43cd
वटयित्वासने 3 गाटं मन्दमादाय यो ब्रजेत् । 44ab
ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते ॥ 44cd
हत्वा पार्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् । 45ab
वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम् 4 45cd
उत्थितो यो ऽङ्घ्रणानेन पार्ष्णिपादात्तुरङ्गमः । 46ab
गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते ॥ 46cd
गतित्रये पियः पादमादत्ते नैव वाञ्छितः । 47ab
हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् ॥ 47cd
खलीकृत्य चतुष्केण तुरङ्गो वल्गयान्यया । 48ab
उच्छास्य ग्राह्यते ऽन्यत्र तत्स्यादुच्छासनं पुनः ॥ 48cd


1 भठकालाद्यनुत्पादमिति ज॰ ।
2 बाह्यपार्श्वे प्रयोगात्त्विति ख॰ ।
3 वण्टयित्वासने इति ख॰ ।
4 ग्राहकण्टकपायनमिति ख॰ ।
Image-P.68


स्वभावं बहिरस्यन्तं तस्यां दिशि पदायनं । 49ab
नियोज्य ग्राहयेत्तत्तु मुखव्यापर्त्तनं मतम् ॥ 49cd
ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् । 50ab
साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु ॥ 50cd
आजनोर्द्धाननं वाहं शिथिलं वाहयेत् सुधीः । 51ab
अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं ॥ 51cd
मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु । 52ab
यदा स सादिनो वश्यः सङ्गृह्णीयात्तदा हयं ॥ 52cd
न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा । 53ab
तदाकृष्टिर्व्विधातव्या पाणिभ्यामिह बल्गया ॥ 53cd
तत्र त्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः । 54ab
धरायां पश्चिमौ पादौ अन्तरीक्षे यदाश्रयौ ॥ 54cd
तदा सन्धरणं कुर्य्याद्गाठवाहञ्च मुष्टिना । 55ab
सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति ॥ 55cd
शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः । 56ab
क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया ॥ 56cd
गोमयं लवणं मूत्रं क्वथितं मृत्समन्वितम् । 57ab
अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः ॥ 57cd
मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना । 58ab
दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः ॥ 58cd
यथा वश्यस्तथा शिक्षा विनश्यन्त्यतिवाहिताः । 59ab
अवाहिता न सिध्यन्ति तुङ्गवक्त्रांश्च वाहयेत् ॥ 59cd
सम्पीड्य जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं । 60ab
Image-P.69


गोमूत्राकुटिला वेणी पद्ममण्डलमालिका ॥ 60cd
पञ्चोलूखलिका कार्य्या गर्वितास्ते ऽतिकीर्त्तिताः 1 61ab
संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम् 2 61cd
वल्गितावल्गितौ चैव षोटा चेत्थमुदाहृतम् । 62ab
वीथीधनुःशतं यावदशीतिर्न्नवतिस्तथा ॥ 62cd
भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः । 63ab
मृगजङ्घो 3 मृगो वाजी सङ्कीर्णस्तत्समन्वयात् ॥ 63cd
शर्क्करामधुलाजादः सुगन्धो ऽश्वः शुचिर्द्विजः । 64ab
तेजस्वी क्षत्रियश्चाश्वो विनीतो बुद्धिमांश्च यः ॥ 64cd
शूद्रो ऽशुचिश्चलो मन्दो विरूपो विमतिः खलः । 65ab
वल्गया धार्य्यमाणो ऽश्वो लालकं यश्च दर्शयेत् ॥ 65cd
धारासु योजनीयो ऽसौ प्रग्रहग्रहमोक्षणैः । 66ab
अश्वादिलक्षणं वक्ष्ये शालिहोत्रो यथा ऽवदत् ॥ 66cd


इत्याग्नेये महापुराणे अश्ववाहनसारो नाम सप्ताशीत्यधिकद्विशततमो ऽध्यायः ॥


1 गर्जितास्ते ऽतिकीर्त्तिता इति ख॰ ।
2 यथाञ्चितमिति ञ॰ ।
3 मृगञ्जय इति ख॰ , ञ॰ च ।
Image-P.70


Chapter 288

अथाष्टाशीत्यधिकद्विशततमो ऽध्यायः ।

अश्वचिकित्सा ।
शालिहोत्र उवाच ।
अश्वानां लक्षणं वक्ष्ये चिकित्साञ्चैव 1सुश्रुत 1ab
हीनदन्तो विदन्तश्चकराली कृष्णतालुकः ॥ 1cd
कृष्णजिह्वश्च यमजोजातमुष्कश्च यस्तथा । 2ab
द्विशफश्च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः ॥ 2cd
खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी । 3ab
श्वित्री च काकसादी च खरसारस्तथैव च ॥ 3cd
वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च । 4ab
कृष्णप्रोथश्च शूकश्च यश्च तित्तिरिसन्निभः ॥ 4cd
विषमः श्वेतपादश्च ध्रुवावर्त्तविवर्जितः । 5ab
अशुभावर्त्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥ 5cd
रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः । 6ab
प्रयाणे च ललाटे च कण्ठावर्त्ताः शुभा दश ॥ 6cd
सृक्कण्याञ्च ललाटे च कर्णमूले निगालके । 7ab
बाहुमूले गले श्रेष्ठा आवर्त्तास्त्वशुभाः परे ॥ 7cd
शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः । 8ab
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यास्तु सदैव हि ॥ 8cd
दीर्घग्रीवाक्षिकूटाश्च ह्रस्वकर्णाश्च शोभनाः । 9ab


1 चिकित्सान्तवेति ञ॰ ।
Image-P.71


राक्षान्तुरङ्गमा यत्र 1 विजयं वर्जयेत्ततः ॥ 9cd
पालितस्तु हयो दन्ती शुभदो दुःखदो ऽन्यथा । 10ab
श्रियः पुत्रास्तु गन्धर्व्वा वाजिनो रत्नमुत्तमम् ॥ 10cd
अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते । 11ab
वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ॥ 11cd
सिंहा गन्धकारी पिण्डी स्वेदश्च शिरसस्तथा । 12ab
हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ॥ 12cd
पिप्पलीसैन्धवयुतं शूलघ्नं चीष्णवारिणा । 13ab
नागरातिविषा मुस्ता सानन्ता विल्वमालिका ॥ 13cd
क्वाथमेषां पिवेद्वाजी सर्व्वातीसारनाशनम् । 14ab
प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं शृतं 2 पयः ॥ 14cd
पर्य्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते । 15ab
द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ॥ 15cd
कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् । 16ab
दाड़िमं त्रिफला व्योषं गुड़ञ्च समभाविकम् ॥ 16cd
पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् । 17ab
प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः ॥ 17cd
क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते । 18ab
प्रस्कन्धेषु च सर्व्वेषु श्रेय आदौ विशोधणम् ॥ 18cd
अभ्यङ्गोद्वर्त्तनैः स्नेहं नस्यवर्त्तिक्रमः स्मृतः । 19ab
ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः ॥ 19cd
लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः । 20ab


1 राज्ञीतुरङ्गमा यत्रेति ख॰ ।
2 घृतमिति ख॰ ।
Image-P.72


कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः ॥ 20cd
मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् । 21ab
त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् ॥ 21cd
अजापयःशृतमिदं सुशीतं शर्करान्वितं । 22ab
पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते ॥ 22cd
मन्याहनुनिगालस्थशिराशोथो गलग्रहः । 23ab
अभ्यङ्गः कटुतैलेन 1 तत्र तेष्वेव शस्यते ॥ 23cd
गलग्रहगदो शोथः प्रायशो गलदेशके । 24ab
प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः ॥ 24cd
कृष्णाहिङ्गुयुतैरेभिः कृत्वा नस्यं न सीदति । 25ab
निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु ॥ 25cd
जिह्वास्तम्भे च लेपो ऽयं गुड़मूत्रयुतो हितः । 26ab
तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता ॥ 26cd
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी । 27ab
अभिघातेन खञ्जन्ति ये ह्यश्चास्तीव्रवेदनाः ॥ 27cd
परिषेकक्रिया तेषां तैलेनाशु रुजापहा । 28ab
दोषकोपाभिघाताभ्यां पक्वभिन्ने व्रणक्रमः ॥ 28cd
अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥ 29॥ 29ab
प्रभूतसलिलः क्वाथः सुखोष्णः व्रणशोधनः । 30ab
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥ 30cd
देवदारुवचायुग्मरजनीरक्तचन्दनैः । 31ab
तैलसिद्धं कषायेण गुडूच्याः पयसा सह ॥ 31cd


1 तिलतैलेनेति ख॰ ।
Image-P.73


म्रक्षेण वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने । 32ab
रक्तस्रावो जलौकाभिर्न्नेत्रान्ते नेत्ररोगितः ॥ 32cd
खादितोडुम्बराश्वत्थकषायेण च साधनम् । 33ab
धात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः समैः ॥ 33cd
गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने । 34ab
उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ॥ 34cd
क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते 1 35ab
गोशकृन्मञ्जिकाकुष्ठरजनीतिलमर्षपैः ॥ 35cd
गवां मूत्रेण पिष्टैश्च मर्द्दनं कण्डुनाशनम् । 36ab
शीतो मधुयुतः क्वाथो नाशिकायां सशर्करः ॥ 36cd
रक्तपित्तहरः पानादश्वकर्णैस्तथैव च । 37ab
सप्तमे सप्तमे देयमश्वानां लवणं दिने ॥ 37cd
तथा भुक्तवतान्देया अतिपाने तु वारुणी । 38ab
जीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः ॥ 38cd
सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः । 39ab
विड़ङ्गापिप्पलीधान्यशताह्वालोध्रसैन्धवैः ॥ 39cd
मचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे । 40ab
लोध्रप्रियङ्गुकामुस्तापिप्पलीविश्वभेषजैः ॥ 40cd
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् । 41ab
प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ॥ 41cd
निदाघे सगुड़ा देया मदिरा प्रतिपानके । 42ab


1 वेधनमिष्यत इति ज॰ , ञ॰ च ।
Image-P.74


लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ॥ 42cd
भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे । 43ab
निदाघोद्वृतपित्तार्त्ताः शरत्सु पुष्टशोणिताः ॥ 43cd
प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् । 44ab
पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ॥ 44cd
स्नेहव्यापद्भवो येषां कार्य्यं तेषां विरूक्षणम् । 45ab
त्र्यहं यवागूरूक्षा स्याद् भोजनं तक्रसंयुतम् ॥ 45cd
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः । 46ab
वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ॥ 46cd
गुर्वभिष्यन्दिभक्तानि व्यायामं स्नाजमातपम् । 47ab
वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ॥ 47cd
स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे । 48ab
अत्यर्थं दुर्द्दिने काले पानमेकं प्रशस्यते ॥ 48cd
युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् । 49ab
ग्रीष्मे त्रिस्नानपानं स्यच्चिरं तस्यायगाहनम् ॥ 49cd
निस्तूषाणां प्रदातव्या यवानां चतुराटकी । 50ab
चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ॥ 50cd
अहोरात्रेण चार्द्धस्य यवसस्य तुला दश । 51ab
अष्टौ शुष्कस्य दातव्याश्चतस्रो ऽथ वुषस्य वा ॥ 51cd
दूर्वा पित्तं यवः कासं वुषश्च श्लोष्मसञ्चयम् । 52ab
नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ॥ 52cd
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः । 53ab
न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ॥ 53cd
Image-P.75


द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि । 54ab
पश्चाद्धनुश्च कर्त्तर्व्यो दूरकीलव्यपाश्रयः ॥ 54cd
वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः । 55ab
यत्रोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः । 55cd
कृकवाक्वजकपयो धार्य्यश्चाश्वगृहे मृगाः ॥ 55॥ 55ef


इत्याग्नेये महापुराणे अश्वायुर्वेदो नामाष्टाशीत्यधिकद्विशततमो ऽध्यायः ।

Chapter 289

अथोननवत्यधिकद्विशततमो ऽध्यायः ।

अश्वशान्तिः ।
शालिहोत्र उवाच ।
अश्वशान्तिं प्रवक्ष्यामि वजिरोगविमर्द्दनीं । 1ab
नित्यां नैमित्तिकीं काम्यां त्रिविधां शृणु सुश्रुत ॥ 1cd
शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं । 2ab
हयराजं समभ्यर्च्य सावित्रैर्जुजुयाद्घृतं ॥ 2cd
द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस्तथा भवेत् । 3ab
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ॥ 3cd
वहिः कुर्य्याद्विशेषेण नासत्यौ वरुणं यजेत् । 4ab
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ॥ 4cd
घटान्सर्व्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् । 5ab
यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश्च साश्विनान् ॥ 5cd
Image-P.76


विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः शृणु । 6ab
मकरादौ हयानाञ्च पद्मैर्विष्णुं श्रियं यजेत् ॥ 6cd
ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ । 7ab
रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ॥ 7cd
प्रत्येकं पूर्णकुम्भैश्च वेद्यान्तत्सौम्यतः स्थले । 8ab
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं । 8cd
उपोषितेन कर्त्तव्यं कर्म्म चाश्वरुजापहं ॥ 8॥ 8ef


इत्याग्नेये महापुराणे अश्वशान्तिर्नामोननवत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 290

अथ नवत्यधिकद्विशततमो ऽध्यायः ।

गजशान्तिः ।
शालिहोत्र उवाच ।
गजशान्तिं प्रवक्ष्यामि गजरोगविमर्द्दनीम् । 1ab
विष्णुं श्रियञ्च पञ्चम्यां नागमैरावतं यजेत् ॥ 1cd
ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्नवणं यमं । 2ab
चन्द्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं ॥ 2cd
शेषं शैलान् कुञ्जरांश्च ये ते ऽष्टौ देवयोनयः । 3ab
विरुपाक्षं महापद्मं भद्रं सुमनसन्तथा ॥ 3cd
कुमुदैरावणः पद्मः पुष्पदन्तो ऽथ वामनः । 4ab
सुप्रतीकोञ्जनो नागा अष्टौ होमो ऽथ दक्षिणां ॥ 4cd
Image-P.77


गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं सृणु । 5ab
गजानाम्मकरादौ च ऐशान्यां नगराद्वहिः ॥ 5cd
स्थण्डिले कमले मध्ये विष्णुं लक्ष्मीञ्च केशरे । 6ab
ब्रह्माणं भास्करं पृथ्वीं यजेत् स्कन्दं ह्यनन्तकं ॥ 6cd
खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् । 7ab
वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां ॥ 7cd
शूलं पद्मम्बहिर्वृन्ते चक्रे सूर्य्यन्तथाश्विनौ । 8ab
वसूनष्ठौ तथा साध्यान् याम्ये ऽथ नैरृते दले ॥ 8cd
देवानाङ्गिरसश्चाश्विभृगवो मरुतो ऽनिले 1 9ab
विश्वेदेवांस्तथा दक्षे रुद्रा शैद्रे ऽथ मण्डले ॥ 9cd
ततो वृत्तया रेखया तु देवान् वै वाह्यतो यजेत् । 10ab
सूत्रकारानृषीन् वाणीं पूर्व्वादौ सरितो गिरीन् ॥ 10cd
महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् । 11ab
पद्मं चक्रं गदां शङ्खं चतुरश्रन्तु मण्डलं ॥ 11cd
चतुर्द्धारं ततः कुम्भाः 2 अग्न्यादौ च पताकिकाः 3 12ab
चत्वारस्तोरणा द्वारि नागानैरवतादिकान् ॥ 12cd
पूर्व्वादौ चौषधीभिश्च देवानां भाजनं पृथक् । 13ab
पृथक्शताहुतीश्चाज्यैर्गजानर्च्य प्रदक्षिणं ॥ 13cd
नागं वह्निं देवतादीन् वाह्यैर्जग्मुः स्वकं गृहम् । 14ab
द्विजेभ्यो दिक्षिणां दद्यात् हयवैद्यादिकस्तथा ॥ 14cd
करिणीन्तु समारुह्य वदेत् कर्णन्तु कालवित् । 15ab


1 मरुतो ऽनल इति ज॰ ।
2 चतुःकुम्भा इति ञ॰ ।
3 पताकिन इति ज॰ ।
Image-P.78


नागराजे ऽमृते शान्तिं कृत्वा ऽमुस्मिन् 1 जपेन्मनुम् ॥ 15cd
श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः । 16ab
प्रभूर्माल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः ॥ 16cd
लोकस्तदाज्ञया पूजां करिष्यति तदा तव । 17ab
पालनीयस्त्वया राजा युद्धे ऽध्वनि तथा गृहे ॥ 17cd
तिर्य्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर । 18ab
देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥ 18cd
ऐरावणसुतः श्रीमानरिष्टो नाम वारणः । 19ab
श्रीगजानान्तु तत् तेजः सर्व्वमेवोपतिष्ठते ॥ 19cd
तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं । 20ab
उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे ॥ 20cd
इत्येवमभिषिक्तैनमारोहेत शुभे नृपः । 21ab
तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः ॥ 21cd
शालास्वसौ स्थण्डिले ऽब्जे दिकपालादीन् यजेद्वहिः । 22ab
केशरेषु बलं नागं भुवञ्चैच सरस्वतीं ॥ 22cd
मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः । 23ab
हुत्वा देयस्तु कलसो रसपूर्णो द्विजाय च ॥ 23cd
गजाध्यक्षं हस्तिपञ्च गणितज्ञञ्च पूजयेत् । 24ab
गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् । 24cd
शुभगम्भीरशब्दैः स्याज्जघनस्थो ऽभिवादयेत् ॥ 24॥ 24ef


इत्याग्नेये महापुराणे गजशान्तिर्नाम नवत्यधिकद्विशततमो ऽध्यायः ॥


1 कृत्वान्यस्मिन्निति ख॰ , ज॰ , ञ॰ च ।
Image-P.79


Chapter 291

अथैकनवत्यधिकद्विशततमो ऽध्यायः ।

शान्त्यायुर्वेदः ।
धन्वन्तरिरुवाच ।
गोविप्रपालनं कार्य्यं रज्ञा गोशान्तिमावदे । 1ab
गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥ 1cd
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परं । 2ab
गवां कण्डूयनं वारि शृङ्गस्याघौघमर्द्दनम् ॥ 2cd
गोमूत्रं गोमयं क्षीरं दधि सर्पश्च रोचना । 3ab
षडङ्गं परमं पाने दुःस्वप्नाद्यादिवारणं ॥ 3cd
रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां । 4ab
यद्गृहे दुःखिता गावः स याति नरकन्नरः ॥ 4cd
परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् । 5ab
गोदानात्कीर्त्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ॥ 5cd
गवां श्वासात् पवित्रा भूः स्पर्शनात्किल्विषक्षयः । 6ab
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ 6cd
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् । 7ab
सर्व्वाशुभविनाशाय पुराचरितमीश्वरैः ॥ 7cd
प्रत्येकञ्च त्र्यहाभ्यम्तं महासान्तपनं स्मृतं । 8ab
सर्वकामप्रदञ्चैतत् सर्व्वाशुभविमर्द्दनम् ॥ 8cd
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं । 9ab
निर्म्मलाः सर्व्वकामाप्त्या स्युर्गगाः स्पुर्न्नतोत्तमाः ॥ 9cd
Image-P.80


त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् । 10ab
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥ 10cd
तप्तकृच्छ्रव्रतं सर्व्वपापघ्नं ब्रह्मलोकदं । 11ab
शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं ॥ 11cd
गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्य्याच्च गोरसैः । 12ab
गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती ॥ 12cd
मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् । 13ab
विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत् ॥ 13cd
गीतैर्न्नृत्यैरप्सरोभिर्विमाने तत्र मोदते । 14ab
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥ 14cd
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं । 15ab
अन्नमेव परं गावो देवानां हविरुत्तमम् ॥ 15cd
पावनं सर्व्वभूतानां क्षरन्ति च वदन्ति च । 16ab
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥ 16cd
ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः । 17ab
सर्व्वेषामेव भूतानां गावः शरणमुत्तमं ॥ 17cd
गावः पवित्रं परमं गावो माङ्गल्यमुत्तमं । 18ab
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ॥ 18cd
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च । 19ab
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥ 19cd
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् । 20ab
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ 20cd
Image-P.81


देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् । 21ab
धार्य्यते वै सदा तस्मात् सर्व्वे पूज्यतमा मताः ॥ 21cd
पिवन्ति यत्र तत्तीर्थं गङ्गाद्या गाव एव हि । 22ab
गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा शृणु ॥ 22cd
शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं । 23ab
शृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं ॥ 23cd
कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः । 24ab
सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः ॥ 24cd
विल्वमूलमपामार्गन्धातकी च सपाटला । 25ab
कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं ॥ 25cd
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितं । 26ab
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं ॥ 26cd
शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे । 27ab
हृच्छूले वस्तिशूले च वातरोगे क्षये तथा ॥ 27cd
त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते । 28ab
अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् ॥ 28cd
सर्वेषु कोष्ठरोगेषु तथाशाखागदेषु च । 29ab
शृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत् ॥ 29cd
दातव्या भग्नसन्धाने प्रियङ्गुर्लबणान्विता । 30ab
तैलं वातहरं पित्ते मधुयष्टीविपाचितं ॥ 30cd
कफे व्योषञ्च समधु सपुष्टकरजो ऽस्रजे । 31ab
तैलाज्यं हरितालञ्च भग्नक्षतिशृतन्ददेत् ॥ 31cd
मासास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा । 32ab
Image-P.82


एषां पिण्डी सलवणा वत्सानां पुष्टिदात्वियं ॥ 32cd
बलप्रदा विषाणां स्याद्ग्रहनाशाय धूपकः । 33ab
देवदारु वचा मांसी गुग्गुलुर्हिङ्गुसर्षपाः ॥ 33cd
ग्रहादिगदनाशाय एष धूपो गवां हितः । 34ab
घण्ठा चैव गवां कार्य्या धूपेनानेन भूपिता ॥ 34cd
अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् । 35ab
रसायनञ्च पिन्याकं मत्तो यो धार्य्यते गृहे ॥ 35cd
भवां पुरीषे पञ्चभ्यां नित्यं शान्त्यै श्रियं यजेत् । 36ab
वासुदेवञ्च गन्धाद्यैरपरा शान्तिरुच्यते ॥ 36cd
अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं । 37ab
हरिरुद्रमजं सूर्य्यं श्रियमग्निं घृतेन च ॥ 37cd
दधि सम्प्राश्य गाः पूज्य कार्य्यं वाह्निप्रदक्षिणं । 38ab
वृषाणां योजेयेद् युद्धं गीतवाद्यरवैर्वहिः ॥ 38cd
गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा । 39ab
नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया ॥ 39cd
स्थण्डिलेब्जे मध्यगते दिक्षु केशरगान् सुरान् । 40ab
सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः ॥ 40cd
खं विश्वरूपा सिद्धिश्च ऋद्धिः शान्तिश्च रोहिणी । 41ab
दिग्धेनवो हि पूर्वाद्याः कृशरैश्चन्द्र ईश्वरः ॥ 41cd
दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् । 42ab
क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् ॥ 42cd
शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् । 43ab
गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः ॥ 43cd
Image-P.83


अग्निरुवाच ।
शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् । 44ab
पालकाप्यो ऽङ्गराजाय गजायुर्वेदमव्रवीत् ॥ 44cd


इत्याग्नेये महापुराणे शान्त्यायुर्वेदो नामैकनवत्यधिकद्विशततमो ऽध्यायः ।

Chapter 292

अथ द्विनवत्यधिकद्विशततमो ऽध्यायः ।

मन्त्रपरिभाषा ।
अग्निरुवाच ।
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु । 1ab
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥ 1cd
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः । 2ab
वर्द्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवेन ॥ 2cd
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे । 3ab
स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्म्मन्त्रजातयः ॥ 3cd
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः । 4ab
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च 1 4cd
क्षुद्रक्रियामयध्वंसे स्त्रियो ऽन्यत्र 2 नपुंसकाः । 5ab
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥ 5cd
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते । 6ab
शिष्टः सौम्यः प्रशस्तौ तौ कर्म्मणोः क्रूरसौम्ययोः ॥ 6cd


1 बन्धोच्चाटवशेषु चेति ज॰ ।
2 स्त्रियो नात्रेति ख॰ ।
Image-P.84


आग्नेयमन्त्रः सौम्यः स्यात्प्रायशो ऽन्ते नमो ऽन्वितः । 7ab
सौम्यमन्त्रस्तथाग्नेयः फट्कारेणान्ततो युतः ॥ 7cd
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति । 8ab
श्वापकालो महावाहो जागरो दक्षिणावहः ॥ 8cd
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्य्ययात् । 9ab
प्रबोधकालं जानीयादुभयोरुभयोरहः ॥ 9cd
दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्ज्जयेन्मनून् । 10ab
राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥ 10cd
गोपालककुटीं प्रायात् पूर्णामित्युदिता लिपिः । 11ab
नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ ॥ 11cd
वेला गुरुः स्वराः शोणः कर्म्मणैवेतिभेदिताः । 12ab
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश्च योजयेत् ॥ 12cd
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः । 13ab
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥ 13cd
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि 1 14ab
सिद्धे सिद्धो जपात् साध्यो जपपूजाहुतादिना 2 14cd
सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः । 15ab
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्व्वविनिन्दितः ॥ 15cd
प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् । 16ab
श्रुत्वा तन्त्रं गुरोर्ल्लब्धं साधयेदीप्सितं मनुम् ॥ 16cd
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः । 17ab


1 सिद्धाद्यन्तदलैरपीति ज॰ ।
2 जपपूर्णाहुतादिनेति ख॰ ।
Image-P.85


सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥ 17cd
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते । 18ab
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्य्यो हविष्यभुक् ॥ 18cd
कुर्वन्नाचार्य्यशुश्रूषां सिद्धोत्साही स शिष्यकः । 19ab
स तूपदेश्यः पुत्रश्च विनयी वसुदस्तथा ॥ 19cd
मन्त्रन्दद्यात् सुसिद्धौ तु सहस्रं देशिकं जपेत् । 20ab
यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ॥ 20cd
पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् । 21ab
मन्त्रं यः साधयेदेकं जपहोमार्च्चनादिभिः ॥ 21cd
क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् । 22ab
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ॥ 22cd
बहुमन्त्रवतः पुंसः का कथा शिव एव सः । 23ab
दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति ॥ 23cd
वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् । 24ab
वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ॥ 24cd
सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु । 25ab
जपाद्दशांशं सर्व्वत्र साभिषेकं हुतं विदुः ॥ 25cd
द्रव्यानुक्तौ घृतं होमे जपो ऽशक्तस्य सर्व्वतः । 26ab
मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् ॥ 26cd
जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः । 27ab
साधकस्य भवेत् तृप्ता ध्यानहोमार्च्चनादिना ॥ 27cd
उच्चैर्ज्जपाद्विशिष्टः स्यादुपांशुर्द्दशभिर्गुणैः । 28ab
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ॥ 28cd
Image-P.86


प्राङ्मुखो ऽवाङ्मुखो वापि मन्त्रकर्म्म समारभेत् । 29ab
प्रणवाद्याः सर्व्वमन्त्रा वाग्यतो विहिताशनः ॥ 29cd
आसीनस्तु जपेन्मन्त्रान्देवताचार्य्यतुल्यदृक् । 30ab
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥ 30cd
सिद्धौ यवागूपूपैर्व्वा पयो भक्ष्यं हविष्यकम् । 31ab
मन्त्रस्य देवता तावत् 1 तिथिवारेषु वै जपेत् ॥ 31cd
कृष्णाष्टमीचतुर्द्दश्योर्ग्रहणादौ च साधकः । 32ab
दस्रो यमो ऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥ 32cd
सर्पाः पितरो ऽथ भगो ऽर्यमा शोतेतरद्युतिः । 33ab
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निरृतिर्ज्जलम् ॥ 33cd
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः । 34ab
अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः ॥ 34cd
अग्निदस्रावुमा निघ्नो नागश्चन्द्रो दिवाकरः । 35ab
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥ 35cd
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः । 36ab
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ॥ 36cd
एते सुर्य्यादिवारेशा लिपिन्यासो ऽथ कथ्यते । 37ab
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥ 37cd
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्द्धस्ययोः क्रमात् । 38ab
वर्णान् पञ्चसुवर्गानां 2 बाहुचरणसन्धिषु ॥ 38cd
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् । 39ab


1 तारेति ख॰ ।
2 पञ्चस्वरवर्गाणामिति ख॰ ।
Image-P.87


यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥ 39cd
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः । 40ab
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥ 40cd
श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्त्तिरमरेश्वरः । 41ab
अग्नीशो भावभूतिश्च तिथीशः स्थानुको हरः ॥ 41cd
दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । 42ab
अक्रूरश्च महासेनः शरण्या देवता अमूः ॥ 42cd
ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ । 43ab
तथैव रुद्रकूर्म्मौ च त्रिनेत्रौ चतुराननः ॥ 43cd
अजेशः शर्म्मसोनेशौ तथा लाङ्गलिदारुकौ । 44ab
अर्द्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥ 44cd
अत्रिर्म्मीनश्च मेषश्च लोहितश्च शिखी तथा । 45ab
छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ ॥ 45cd
भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः । 46ab
श्वेतो भृगुर्लगुडीशाक्षश्च सम्बर्त्तकः स्मृतः ॥ 46cd
रुद्रात्मशक्तान् लिख्यादीन् नमोन्तान् विन्यसेत् क्रमात् । 47ab
अङ्गानि विन्यसेत्सर्व्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥ 47cd
हृल्लेखाव्योमसपूर्व्वाण्येतान्यङ्गानि विन्यसेत् । 48ab
हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्धृदये नमः ॥ 48cd
स्वाहा शिरस्यथ वषट्शिखायां कवचे च् हूं । 49ab
वौषट् नेत्रे ऽस्त्राय फटस्यात् पञ्चाङ्गं नेत्रवर्जितम् ॥ 49cd
निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् । 50ab
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥ 50cd
Image-P.88


लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् । 51ab
कवित्वादि प्रयच्छेत कर्म्मादौ सिद्धये न्यसेत् । 51cd
निष्कविर्निर्म्मलः सर्व्वे मन्त्राःसिध्यन्ति मातृभिः ॥ 51॥ 51ef


इत्याग्नेये महापुराणे मन्त्रपरिभाषा नाम द्विनवत्यधिकद्विशततमो ऽध्यायः ।

Chapter 293

अथ त्रिनवत्यधिकद्विशततमो ऽध्यायः ।

नागलक्षणानि ।
अग्निरुचाच ।
नागादयो ऽथ भावादिदशस्थानानि कर्म्म च । 1ab
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ॥ 1cd
शेषवासुकितक्षाख्याः कर्कटो ऽब्जो महाम्बुजः । 2ab
शङ्खपालश्च कुलिक इत्यष्टौनागवर्य्यकाः ॥ 2cd
दशाष्टपञ्चत्रिगुणशतमूर्द्धान्वितौ क्रमात् । 3ab
विप्रौ नृपौ विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ ॥ 3cd
तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः । 4ab
फणिमण्डलिराजीलवातपित्तकफात्मकाः ॥ 4cd
व्यन्तरा दोषमिश्रास्ते सर्पां दर्व्वीकराः स्मृताः । 5ab
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः 1 5cd
गोनसा मन्दगा दीर्घा मण्डलैर्विधैश्चिताः 2 6ab


1 रथाङ्गलाङ्गलच्छत्रमुष्टिकाङ्कुशधारिण इति ख॰ ।
2 स्थिता इति ख॰ ।
Image-P.89


राजिलाश्चित्रिताः स्निग्धास्तिर्य्यगूर्द्ध्वञ्च वाजिभिः ॥ 6cd
व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः । 7ab
चतुर्विधास्ते षड्विंशभेदाः षोड़श गोनसाः ॥ 7cd
त्रयोदश च राजीला व्यन्तरा एकविंशतिः । 8ab
ये ऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ॥ 8cd
आषाढादित्रिमासैः स्याद्गर्भो माषचतुष्टये । 9ab
अण्ड्कानां शते द्वे च चत्वारिंशत् प्रसूयते ॥ 9cd
सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् । 10ab
उन्मीलते ऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ॥ 10cd
द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्य्यदर्शनात् । 11ab
द्वात्रिंशद्दिनविंशत्या चतस्रस्तेषु दंष्ट्रिकाः ॥ 11cd
कराली मकरी कालरात्री च यमदूतिका । 12ab
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ॥ 12cd
षन्मासान्मुच्यते कृत्तिं जोवेत्षष्टिसमाद्वयं । 13ab
नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवा निशि ॥ 13cd
स्वेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु । 14ab
शङ्खेन वा महाब्जेन सह तस्योदयो ऽथवा ॥ 14cd
द्वयीर्व्वा नाड़िकामन्त्रमन्त्रकं 1 कुलिकोदयः । 15ab
दुष्टः स कालः सर्व्वत्र सर्पदंशे विशेषतः 2 15cd
कृत्तिका भरणी स्वाती मूलं पूर्व्वत्रयाश्विनी । 16ab
विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी ॥ 16cd
हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः । 17ab


1 नाडिकामात्रसन्त्रकमिति ञ॰ ।
2 विनिर्द्दिशेदिति क॰ , ख॰ , ज॰ , ट॰ च ।
Image-P.90


षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ॥ 17cd
सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः । 18ab
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ॥ 18cd
अदंशमवगुप्तं 1 स्याद्दंशमेवं चतुर्विधम् । 19ab
त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा ॥ 19cd
नक्तन्त्वेकाङ्घ्रिकूर्म्माभा दंशाश्च यमचोदिताः । 20ab
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः 2 20cd
सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः । 21ab
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ॥ 21cd
रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे । 22ab
द्वीपे चतुष्पथे सौधे गृहे ऽब्जे पर्व्वताग्रतः ॥ 22cd
विलहद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके । 23ab
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरेणेषु च ॥ 23cd
वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि । 24ab
तालौ शङ्खे गले मूर्द्ध्नि चिवुके नाभिपादयोः ॥ 24cd
दंशो ऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः । 25ab
लिङ्गवर्णसमानश्च शुक्लवस्त्रो ऽमलः शुचिः ॥ 25cd
अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः । 26ab
विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् ॥ 26cd
शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ॥ 27॥ 27ab
आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः ॥ 28ab
कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः । 28cd


1 सदंशमवलुप्तमिति ञ॰ ।
2 कण्ठशोषरुजान्त्रित इति ञ॰ ।
Image-P.91


केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ॥ 28॥ 28ef
इड़ान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः । 29ab
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ॥ 29cd
दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् । 30ab
दूताङ्घ्रिचलनं दुष्ठमुत्थितिर्निश्चला शुभा ॥ 30cd
जीवपार्श्वे शुभो दूतो दुष्टो ऽन्यत्र समागतः । 31ab
जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ॥ 31cd
दूतस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता । 32ab
विभक्तैस्तस्य वाक्यान्तैर्विषर्निर्व्विषकालता ॥ 32cd
आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा । 33ab
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ॥ 33cd
वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् । 34ab
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ॥ 34cd
दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः । 35ab
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ॥ 35cd
प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः । 36ab
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ॥ 36cd
शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये । 37ab
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ॥ 37cd
वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ । 38ab
क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः ॥ 38cd
तण्डुला हेम रुप्यञ्च सिद्धये ऽभिमुखा अमी । 39ab
सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ॥ 39cd
Image-P.92


गलस्थटङ्गो गोमायुगृध्रोलूककपर्द्दिकाः । 40ab
तैलं कपालकार्पासा निषेधे भस्म नष्टये ॥ 40cd
विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः । 41ab
विषदंशो ललाटं यात्यतोनेत्रं ततो मुखम् । 41cd
आस्याच्च वचनीनाड्यौ धातून प्राप्नोति हि क्रमात् ॥ 41॥ 41ef


इत्याग्नेये महापुराणे नागलक्षणदिर्नाम त्रिनवत्यधिकद्विशततमो ऽध्यायः ।

Chapter 294

अथ चतुर्नवत्यधिकद्विशततमो ऽध्यायः ।

दष्टचिकित्सा ।
अग्निरुवाच ।
मन्त्रध्यानौषधैर्दष्टचिकित्सां प्रवदामि ते । 1ab
ॐ नमो भगवते नीलकण्ठायेति । 1cd
जपनाद्विषहानिः स्यदौषधं जीवरक्षणं ॥ 1॥ 1ef
साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते । 2ab
जङ्गमं सर्पभूषादि शृङ्ग्यादि स्थावरं विषं ॥ 2cd
शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं 1 शिवः । 3ab
वियतेर्नाममन्त्रो ऽयं तार्क्षः शब्दमयः स्मृतः ॥ 3cd
ॐ ज्वल महामते हृदयाय गरुडविरालशिरसे 2 गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय वित्रासय विम-[!!!॰


1 तारकः इति ख॰ ।
2 गरुडविलासशिरसे इति ख॰ ।
Image-P.93


र्द्दय विमर्द्दय कवचाय अप्रतिहतशामनं वं हूं फट् अस्त्राय उग्ररूपवारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय ।
सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं वह्निराभूतकर्णिकं मातृकाम्बुजं ।
कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् । 4ab
अङ्गष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः 1 4cd
पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं । 5ab
वृत्तार्द्धमाप्यपद्मार्द्धं शुक्लं वरूणदैवतं ॥ 5cd
त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं । 6ab
वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् ॥ 6cd
अङ्गुष्ठाद्यङ्गुलीमध्ये पर्य्यस्तेषु स्ववेश्मसु । 7ab
सुवर्णनागवाहेन वेष्ठितेषु न्यसेत् क्रमात् ॥ 7cd
वियतेश्चतुरो वर्णान् सुमण्डलसमत्विषः । 8ab
अरूपे रवतन्मात्रे 2 आकाशेशिवदेवते ॥ 8cd
कनिष्ठामध्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् । 9ab
नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ॥ 9cd
भूतादिवर्णान् विन्यसेदङ्गुष्टाद्यन्तपर्वसु । 10ab
तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः ॥ 10cd
स्पर्शनादेवतार्क्षेण हस्ते हन्याद्विषद्वयं । 11ab
मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ॥ 11cd
श्रेष्ठद्व्यङ्गुलिभिर्द्देहनाभिस्थानेषु पर्वसु । 12ab


1 भेदिकास्तथेति ख॰ ।
2 वरतन्मात्रे इति ख॰ ।
Image-P.94


आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ॥ 12cd
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं । 13ab
ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ॥ 13cd
नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः । 14ab
एवन्तात्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ॥ 14cd
सुष्टिस्तार्क्षकरस्यान्तःस्थिताङ्गुष्ठविषापहा । 15ab
तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ॥ 15cd
कुर्य्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया । 16ab
आकाशादेष भूवीजः पञ्चार्णाधिपतिर्म्मनुः ॥ 16cd
संस्तम्भयेतिविषतो भाषया स्तम्भ्येद्विषम् । 17ab
व्यत्यस्तभूषया वीजो मन्त्रो ऽयं साधुसाधितः ॥ 17cd
संप्लवः प्लावय यमः 1 शब्दाद्यः संहरेद्विषं । 18ab
दण्डमुत्थापयेदेष सुजप्ताम्भो ऽभिषेकतः ॥ 18cd
सुजप्तशङ्खभेर्य्यादिनिस्वनश्रवणेन वा । 19ab
संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ॥ 19cd
भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ । 20ab
अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ॥ 20cd
एतत् कर्म्म नयेन्मन्त्री गरुड़ाकृतिविग्रहः । 21ab
तार्क्षवर्णगेहस्थस्तज्जपान्नाशयेद्विषम् ॥ 21cd
जामुदण्डीदमुदितं स्वधाश्रीवीजलाञ्छितं । 22ab
स्नानपानात्सर्व्वविषं ज्वरातोगापमृत्युजित् ॥ 22cd
पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा । 23ab


1 यश इति ञ॰ ।
Image-P.95


पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ॥ 23cd
द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् ।
पक्षिराजाय विध्महे पक्षिदेवाय धीमहि तत्रो गरुड़ प्रचोदयात् ।
वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ॥
सकालो लाङ्गली चेति नीलकण्ठाद्यमीरितं । 24ab
वक्षःकण्ठशिखाश्वेतं न्यसेत्स्तम्भे सुसंस्कृतौ ॥ 24cd
हर हर हृदयाय नमः कपर्द्दिने च शिरसे नीलकण्ठाय वै शिखां कालकूटविषभक्षणाय स्वाहा ।
अथ वर्म्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैराननैर्युक्तं श्वेतपीतारुणासितैः ।
अभयं वरदं चापं वासुकिञ्च दधद्भुजैः । 25ab
यस्योपरीतपार्श्वस्थगौरीरुद्रो ऽस्य देवता ॥ 25cd
पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु । 26ab
मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥ 26cd
तर्ज्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर्न्न्यसेत् । 27ab
ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया ॥ 27cd
कनिष्ठा ज्येष्ठया वद्धा तिश्रो ऽन्याः प्रसृतेर्ज्जवाः । 28ab
विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ॥ 28cd
ॐ नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः ।
सर्वज्ञकण्ठाय चिः क्षिप ॐ स्वाहा ।
अमलनीलकण्ठाय नैकसर्वविषापहाय ।
नमस्ते रुद्रमन्यव इतिसर्म्मार्ज्जनाद्विषं विनश्यति न सन्देहः कर्णजाप्या उपानहावा ।
Image-P.96


यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् । 29ab
विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं ॥ 29cd


इत्याग्नेये महापुराणे दष्टचिकित्सा नाम चतुर्णवत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 295

अथ पञ्चनवत्यधिकद्विशततमो ऽध्यायः ।

पञ्चाङ्गरुद्रविधानं ।
अग्निरुवाच ।
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं । 1ab
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ॥ 1cd
शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च । 2ab
शतरुद्रियमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ॥ 2cd
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्तः क्रमात् । 3ab
यज्जाग्रत इति सूक्तं यदृचं मानसं विदुः ॥ 3cd
ऋषिः स्याच्छिवमङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं । 4ab
शिवः सहस्रशीर्षेति तस्य नारायणो ऽप्यृषिः ॥ 4cd
देवता पुरुषो ऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् । 5ab
अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः 1 5cd
आद्यानान्तिमृणां त्रिष्टुप्छन्दो ऽनुष्ठुव्द्वयोरपि । 6ab


1 उत्तरगोनस इति ज॰ , ट॰ च ।
Image-P.97


छन्दस्त्रिष्टुभमन्त्यायाः पुरुषो ऽस्यापि देवता ॥ 6cd
आशुरिन्त्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं । 7ab
ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्च्चके ॥ 7cd
पृथक् पृथक् देवताः स्युः पुरुविदङ्गदेवता । 8ab
अवशिष्टदैवतेषु छन्दो ऽनुष्टुवुदाहृतं ॥ 8cd
असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः 1 9ab
पङ्क्तिच्छन्दो ऽथ मर्म्माणि त्वपलिङ्गोक्तदेवताः ॥ 9cd
रौद्राध्याये च सर्व्वस्मिन्नार्षं स्यात् परमेष्वपि । 10ab
प्रजापतिर्व्वा देवानां कुत्सस्य तिसृणां पुनः ॥ 10cd
मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः । 11ab
आद्योनुवाको ऽथ पूर्व्व एकरुद्राख्यदैवतः ॥ 11cd
छन्दो गायत्र्यमाद्याया अनुष्टुप् तिसृणामृचाम् । 12ab
तिसृणाञ्च तथा पङ्क्तिरनुष्टुवथ संस्मृतम् ॥ 12cd
द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः । 13ab
हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च ॥ 13cd
पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाककः 2 14ab
विंशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता ॥ 14cd
ऋग्द्वितीया त्रिजगती त्रिष्टुवेव च । 15ab
अनुष्टुभो यजुस्तिस्र आर्य्यादिज्ञः सुसिद्धिभाक् ॥ 15cd
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं 3 16ab


1 भवित्रीति त्रिष्टुब् लिङ्गोक्तदेवतेति ख॰ ।
2 रुद्रात्मवाचक इति ज॰ , ट॰ च ।
3 विषव्याधिविमर्द्दनमिति ज॰ ।
Image-P.98


इं श्रीं ह्रीं ह्रौं हूं 1 त्रैलोक्यमोहनाय विष्णवे नमः । 16cd
अनुष्टुभं नृसिंहेन विषव्याधिविनाशनं ॥ 16॥ 16ef
ॐ इं इं 2 उग्रवीरं मंहाविष्णुं ज्वलन्तं सर्वतोमुखं । 17ab
नृसिंहं भीषणं मृत्युमृत्युन्नमाम्यहं ॥ 17cd
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः । 18ab
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ॥ 18cd
कुब्जिका त्रिपुरा गौरी चन्द्रिका 3 विषहारिणी । 19ab
प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनः ॥ 19cd
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ॥ 19॥ 19ef


इत्याग्नेये महापुराणे पञ्चाङ्गरुद्रविधानंनाम पञ्चनवत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 296

अथ षन्नवत्यधिकद्विशततमो ऽध्यायः ।

विषहृन्मन्त्रौषधं ।
अग्निरुवाच । ओं नमो भगवते रुद्राय छिन्द 2 विषं ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं उत्थापय 2 दष्टकं कम्पय 2 जल्पय 2 सर्प्पदष्टमुत्थापय लल 2 बन्ध 2 मोचय 2 वररुद्र गच्छ 2 बध 2 त्रुट 2 बुक् 2 भीषय 2 मुष्टिना संहर विषं ठ ठ ।


1 ॐ ह्रां ह्रीं ह्रूमिति ञ॰ ।
2 ॐ हौं हं इति ज॰ ।
3 चण्डिका इति ञ॰ ।
Image-P.99


पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ।
ॐ नमो भगवते रुद्र नाशय विषं स्थावरजङ्गमं कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं नाशय धम 2 दम 2 वम 2 मेघान्धकारधाराकर्षनिर्विषयीभव संहर 2 गच्छ 2 आवेशय 2 विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ॐ क्षिप ॐ क्षिप स्वाहा ।
ॐ ह्रां ह्रीं खीं सः ठन्द्रौं ह्रीं ठः ।
जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ॥ 1॥ 1ab
एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः । 2ab
गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ॥ 2cd
ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व 2 1 गर्ज्ज 2 भ्रामय 2 मुञ्च 2 मुह्य 2 कट 2 आविश 2 सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ 2 ।
पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः । 3ab
दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ॥ 3cd
विषशान्त्यै दहेद्दंशं ज्वालकोकनदादिना 2 4ab
शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ॥ 4cd
विषं विनाशयेत् पानलेपनेनाञ्जनादिना । 5ab
शिरीषपुश्पस्य रसभावितं मरिचं सितं ॥ 5cd
पाननस्याञ्जनाद्यैश्च विषं हन्यान्न संशयः । 6ab
कोषातकीवचाहिङ्गुशिरीषार्कपयोयुतं ॥ 6cd


1 गुलु 2 इति ञ॰ ।
2 ज्वालको कलदालिनेति ख॰ ।
Image-P.100


कुटुत्रयं समेषाम्भो हरेन्नस्यादिना विषं । 7ab
रामठेक्ष्वाकुसर्वाङ्गचूर्णं नस्याद्विषापहं ॥ 7cd
इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा । 8ab
तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्ययिषापहं । 8cd
पञ्चाङ्गं कृष्णपञ्चभ्यां शिरीषस्य विषापहं ॥ 8॥ 8ef


इत्याग्नेये महापुरणे विषहृन्मन्त्रौषधं नाम षन्नवत्यधिकद्विशततमो ऽध्यायः ।

Chapter 297

अथ सप्तनवत्यधिकद्विशततमो ऽध्यायः ।

गोनसादिचिकित्सा ।
अग्निरुचाच ।
गोनसादिचिकित्साञ्च वशिष्ठ शृणु वच्मि ते । 1ab
ह्रीं ह्रीं अमलपक्षि स्वाहा ।
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥ 1cd
लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे । 2ab
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वा ऽहिजे विषे ॥ 2cd
अथ राजिलदष्टे च पेया कृष्णा समैन्धवा । 3ab
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥ 3cd
सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं । 4ab
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥ 4cd
चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः । 5ab
Image-P.101


रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ॥ 5cd
मुनिपत्रैः कृतस्वेदं दष्टं काञ्चिकपाचितैः । 6ab
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत् ॥ 6cd
सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा । 7ab
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥ 7cd
चिकित्सा विंशतिर्भूता लूताविषहरो गणः । 8ab
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥ 8cd
निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः । 9ab
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥ 9cd
करञ्जास्थि च तत्पङ्कैः 1 वृश्चिकार्त्तिहरं शृणु । 10ab
मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं ॥ 10cd
संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः । 11ab
ॐ नमो भगवते रुद्राय चिवि 2 2 छिन्द 2 किरि 2 भिन्द 2 खड्गे न छेदय 2 शूलेन भेदय 2 चक्रेण दारय 2 ॐ ह्रूं फट् ।
मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ॥ 11cd
त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं । 12ab
अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ॥ 12cd
हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं । 13ab
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥ 13cd
व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् । 14ab


1 तत्पक्षैरिति ज॰ , ञ॰ , ट॰ च ।
2 चिरि 2 इति ज॰ ।
Image-P.102


क्षारव्योषवचाडिङ्गुविडङ्गं सैन्धवन्नतं ॥ 14cd
अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् । 15ab
यष्टिव्योषगुडक्षीरयोगः 1 शूनो विषापहः ॥ 15cd
ॐ सुभद्रायै नमः ॐ सुप्रभायै नमः । 16ab
यान्यौषधानि गृह्यन्ते विधानेन विना जनैः ॥ 16cd
तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्मा ऽब्रवीच्च ताम् । 17ab
ताम्प्रणम्यौषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ॥ 17cd
दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं । 18ab
त्वामुद्धराम्यूर्द्ध्वनेत्रामनेनैव च भक्षयेत् ॥ 18cd
नमः पुरुषसिंहाय नमो गोपालकाय च । 19ab
आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥ 19cd
एतेन सत्यवाक्येन अगदो मे ऽस्तु सिध्यतु । 20ab
नमो वैदूर्य्यमाते तन्न 2 रक्ष मां सर्वविषेभ्यो गौरि गान्धारि चाण्डालि मातङ्गिनि स्वाहा हरिमाये ।
औषधादौ प्रयोक्तव्यो मन्त्रो ऽयं स्थावरे विषे ॥ 20cd
भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं । 21ab
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥ 21cd


इत्याग्नेये महापुराणे गोनसादिचिकित्सा नाम सप्तनवत्यधिकद्विशततमो ऽध्यायः ।


1 षष्टिव्योषगुड़क्षीरयोग इति क॰ , ज॰ , ञ॰ , ट च ।
Image-P.103


Chapter 298

अथाष्टनवत्यधिकद्विशततमो ऽध्यायः ।

बालग्रहहरबालतन्त्रम् ।
अग्निरुवाच ।
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं । 1ab
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ॥ 1cd
गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं । 2ab
तच्चेष्टितमिदं तत्स्यान्मातॄणाञ्च बलं हरेत् ॥ 2cd
सत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः । 3ab
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ॥ 3cd
महिषाक्षेण धूपश्च द्विरात्रे भौषणी ग्रही । 4ab
तच्चेष्टा कासनिश्वासौ गात्रसङ्कोचनं मुहुः ॥ 4cd
आजमूत्रैर्लिपेत् कृष्णासेव्यापामार्गचन्दनैः । 5ab
गोशृङ्गदन्तकेशैश्च धूपयेत् पूर्ववद्बलिः ॥ 5cd
ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः । 6ab
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ॥ 6cd
केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् । 7ab
नखराजीविल्वदलैर्धूपयेच्च बलिं हरेत् ॥ 7cd
ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं । 8ab
फेनोद्गारो दिशो दृष्टिः कुल्माषैः सासवैर्बलिः ॥ 8cd
गजदन्ताहिनिर्म्मोकवाजिमूत्रप्रलेपनं । 9ab
सराजीनिम्बपत्रेण धूतकेशेन धूपयेत् ॥ 9cd
हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोर्द्धधारिणी । 10ab
Image-P.104


मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ॥ 10cd
मेषशृङ्गबलालोध्रशिलातालैः शिशुं लिपेत् । 11ab
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ॥ 11cd
निराहारो ऽङ्गविक्षेपो हरेन्मत्स्यादिना बलिं । 12ab
राजीगुग्गुलुकुष्ठेभदन्ताद्यैर्धूपलेपनैः ॥ 12cd
सप्तमे मुक्तकेश्यार्त्तः पूतिगन्धो विजृम्भणं । 13ab
सादः प्ररोदनङ्कासो धूपो व्याघ्रनखैर्लिपेत् ॥ 13cd
वचागोमयगोमूत्रैः श्रीदण्डी चाष्टमे ग्रही । 14ab
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ॥ 14cd
बलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च 1 हिङ्गुला । 15ab
वचासिद्धार्थलशुनैश्चोर्द्ध्वग्राही महाग्रही ॥ 15cd
उद्वेजनोर्द्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं । 16ab
रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ॥ 16cd
कपिरोमनखैर्धूपो दशमी रोदनी ग्रही । 17ab
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ॥ 17cd
धूपो निम्बेन भूतोग्रराजीसर्ज्जरसैर्ल्लिपेत् । 18ab
बलिं वहिर्हरेल्लाजकुल्माषकवकोदनम् 2 18cd
यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया । 19ab
गृह्णाति मासिकं वत्सं पूतनासङ्कुली ग्रही ॥ 19cd
काकवद्रोदनं श्वासो मूत्रगन्धो ऽक्षिमीलनं । 20ab
गोमूत्रस्नपनं तस्य गोदन्तेन च धूपनम् ॥ 20cd


1 धूपदीपे चेति ट॰ ।
2 करकोदनमिति ख॰ ।
Image-P.105


पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः । 21ab
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्व्विधम् ॥ 21cd
करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् । 22ab
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ॥ 22cd
छर्द्धिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च । 23ab
अपूपमोदनं दीपः कृष्णं नीरादि धूपकम् ॥ 23cd
तृतीये गोमुखी निद्रा सविन्मूत्रप्ररोदनम् । 24ab
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ॥ 24cd
क्षीरं पूर्व्वे ददेन्मध्ये ऽहनि धूपश्च सर्पिषा । 25ab
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्त्तिहृत् ॥ 25cd
तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् । 26ab
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ॥ 26cd
अपानः पीतवर्णश्च मत्स्याद्यैर्द्दक्षिणे बलिः । 27ab
षण्मासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ॥ 27cd
मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः । 28ab
सप्तमे तु निराहारा पूतिगन्धादिदन्तरुक् ॥ 28cd
पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे । 29ab
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ॥ 29cd
नवमे कुम्भकर्ण्यार्त्तो ज्वरी च्छर्द्दति पालकम् । 30ab
रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ॥ 30cd
दशमे तापसी चेष्टा निराहारोक्षिमीलनम् । 31ab
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ॥ 31cd
राक्षस्येकादशी पीड़ा नेत्राद्यं न चिकित्सनम् । 32ab
Image-P.106


चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ॥ 32cd
बलिः पूर्वे ऽथ मध्याह्ने कुल्मापाद्यैस्तिलादिभिः । 33ab
यातना तु द्वितीये ऽब्दे यातनं रोदनादिकम् ॥ 33cd
तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् । 34ab
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ॥ 34cd
गुड़ौदनं तिलापूपः प्रतिमा तिलपिष्टजा । 35ab
तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ॥ 35cd
चतुर्थे चटकाशोफो ज्वरः सर्व्वाङ्गसादनम् । 36ab
मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ॥ 36cd
चञ्चला पञ्चमे ऽब्दे तु ज्वरस्त्रासो ऽङ्गसादनम् । 37ab
मांसौदनाद्यैश्च बलिर्मेषशृङ्गेण धूपनम् ॥ 37cd
पलाशोदुम्बराश्वत्थवटविल्वदलाम्बुधृक् । 38ab
षष्ठे ऽब्दे धावनीशोषो वैरस्यं 1 गात्रसादनम् ॥ 38cd
सप्ताहोभिर्बलिः पूर्वैर्धुपस्नानञ्च भङ्गकैः 2 39ab
सप्तमे यमुनाच्छर्दिरवचोहासरोदनम् ॥ 39cd
मांसपायसमद्याद्यैर्बलिः स्नानञ्च धूपनम् । 40ab
अष्टमे वा जातवेदा निराहारं प्ररोदनम् ॥ 40cd
कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् । 41ab
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ॥ 41cd
बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः । 42ab
दशमे ऽब्दे कलहंसी दाहो ऽङ्गकृशता ज्वरः ॥ 42cd


1 वैवर्ण्यमिति ठ॰ ।
2 भागकैरिति ख॰ ।
Image-P.107


पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् । 43ab
निम्बधूपकुष्ठलेप एकादशमके ग्रही ॥ 43cd
देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् । 44ab
बलिका द्वादशे श्वासो बलिर्लेपादि पूर्ववत् ॥ 44cd
त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् । 45ab
रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ॥ 45cd
राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे । 46ab
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ॥ 46cd
स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्त्तिस्त्रिपञ्चके । 47ab
तच्चेष्टासृक्श्रवः शश्वत्कुर्य्याम्मातृचिकित्सनम् ॥ 47cd
वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः । 48ab
पायसाद्यैस्त्रिरात्रञ्च वलिः स्नानादि पूर्ववत् ॥ 48cd
गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् । 49ab
कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ॥ 49cd
दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः । 50ab
ओं नमः सर्वमातृभ्यो बालपीड़ासंयोगं भुञ्ज भुञ्ज चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हरे हरे निर्दोषं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा सर्वग्रहाणामुपक्रमात् ।
चामुण्डे नमो देव्यै ह्रूं ह्रूं ह्रीं अपसर अपसर दुष्टग्रहान् ह्रूं तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति ।
सर्वबालग्रहेषु स्यान्मन्त्रो ऽयं सर्वकामिकः ॥ 50cd
ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा ।
Image-P.108


बलिं गृह्ण गृह्ण जय जय वस वस । 51ab
सर्वत्र बलिदाने ऽयं रक्षाकृत् पठ्यते मनुः । 51cd
ब्रह्मा विष्णुः शिवः स्कन्दो गौरो गौरी लक्ष्मीर्गणादयः । 51ef
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ॥ 51॥ 51gh


इत्याग्नये महापुराणे बालग्रहहरं बालतन्त्रं नाम अष्टनवत्यधिकद्विषततमो ऽध्यायः ।

Chapter 299

अथ नवनवत्यधिकद्विशततमो ऽध्यायः ।

ग्रहहृन्मन्त्रादिकम् ।
अग्निरुवाच ।
ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् । 1ab
हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् ॥ 1cd
गुरुदेवादिकोपाच्च पञ्चोन्मादा भवनतय्ऽथ । 2ab
त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः ॥ 2cd
देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा । 3ab
सरित्सरस्तड़ागादौ शैलोपवनसेतुषु ॥ 3cd
नदीसङ्गे शून्यगृहे विलद्वार्य्येकवृक्षके । 4ab
ग्रहा गृह्णन्ति पुंसश्च श्रियः 1 सुप्ताञ्च गर्भिणीम् ॥ 4cd
आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या । 5ab
अवमानं नृणां वैरं विघ्नं भाग्यविपर्य्ययः ॥ 5cd
देवतागुरुधर्म्मादिसदाचारादिलङ्घनम् । 6ab


1 स्त्रिय इति ञ॰ , ट॰ च ।
Image-P.109


पतनं शैलवृक्षादेर्विधुन्वन्मूर्द्धजं मुहुः ॥ 6cd
रुदन्नृत्यति रक्ताक्षो हूंरूपो ऽनुग्रही नरः । 7ab
उद्विग्नः शूलदाहार्त्तः क्षुत्तृष्णार्त्तः शिरोर्त्तिमान् ॥ 7cd
देहि दहीति याचेत बलिकामग्रही नरः । 8ab
स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः ॥ 8cd
महासुदर्शनो व्योमव्यापी विटपनासिकः 1 9ab
पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः ॥ 9cd
पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् । 10ab
पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ॥ 10cd
खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् । 11ab
अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले ॥ 11cd
आदित्यादियुतं प्रार्च्य उदितेर्के ऽर्घ्यकं ददेत् । 12ab
श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः ॥ 12cd
अर्काय भूर्भुवःस्वश्च ज्वालिनीं कुलमुद्गरम् । 13ab
पद्मासनो ऽरुणो रक्तवस्त्रसद्युतिविश्वकः ॥ 13cd
उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्व्वाङ्गभूषितः । 14ab
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ॥ 14cd
विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्यो ऽरुणः कुजः । 15ab
बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश्चरः ॥ 15cd
कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः । 16ab
वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा ॥ 16cd
स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः । 17ab


1 विपिटनासिक इति ञ॰ ।
Image-P.110


अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् ॥ 17cd
मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् । 18ab
प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य्य वारिणा ॥ 18cd
गन्धपुष्पाक्षतं न्यस्य दूर्व्वामर्घ्यञ्च मन्त्रयेत् । 19ab
आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् ॥ 19cd
प्रभूतं विमलं सारमाराध्यं परमं सुखम् । 20ab
पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ॥ 20cd
पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च । 21ab
पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः ॥ 21cd
वां दीप्तां वीं तथा सूक्ष्मां वुञ्जयां वूञ्च भद्रिकां । 22ab
वें विभूतीं वैं विमलां वोमसिघातविद्युताम् ॥ 22cd
वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् । 23ab
आवाह्य दद्यात् पाद्यादि हृत्षड़ङ्गेन सुव्रत ॥ 23cd
खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता । 24ab
मांसदीर्घा जरद्वायुहृदैतत् सर्वदं रवेः ॥ 24cd
वह्नीशरक्षो मरुतां दिक्षु पूज्या हृदादयः । 25ab
स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् ॥ 25cd
पूर्व्वादिदिक्षु सम्पूज्याश्चन्द्रज्ञगुरुभार्गवाः । 26ab
नस्याञ्जनादि कुर्वीत साजमूत्रैर्ग्रहापहैः ॥ 26cd
पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक् फलैः । 27ab
अजाक्षीराढके पक्वसर्पिः सर्वग्रहान् हरेत् ॥ 27cd
वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् । 28ab
अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् ॥ 28cd
Image-P.111


विदारीकुशकाशेक्षुक्वाथजं पाययेत् पयः । 29ab
द्रोणे सयष्टिकुष्माण्डरसे सर्पिश्च संस्कृतौ ॥ 29cd
पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु । 30ab
ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः प्रचोदयात् ।
कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् ॥ 30cd
श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा । 31ab
पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् ॥ 31cd
धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी । 32ab
पिवरश्चेति हिक्काघ्नं तत् त्रयं मधुना लिहेत् ॥ 32cd
कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् । 33ab
व्योषपद्मकत्रिफलाकिड़ङ्गदेवदारवः । 33cd
रास्नाचूर्णं समं खण्डैर्जग्ध्वा कासहरं ध्रुवम् ॥ 33॥ 33ef


इत्याग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम नवनवत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 300

अथ त्रिशततमो ऽध्यायः ।

सूर्य्यार्च्चनम् ।
अग्निरुवाच ।
शय्या तु दण्डिसाजेशपावकश्चतुराननः । 1ab
सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ॥ 1cd
स्वयं दीर्घस्वराद्यञ्च वीजेष्वङ्गानि सर्वशः । 2ab
खातं साधु विषञ्चैव सविन्दुं सकलं तथा ॥ 2cd
Image-P.112


गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् । 3ab
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्त्राय महोदरहस्ताय ।
पञ्चाङ्गं सर्व्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतेः ॥ 3cd
गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय ।
दिग्दले पूजयेन्मूर्त्तीः पुरावच्चाङ्गपञ्चकम् । 4ab
वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय ।
विकटाय विघ्नराजाय धूम्रवर्णाय ।
दिग्विदिक्षु यजेदेताल्लोकांशांश्चैव मुद्रया ॥ 4cd
मध्यमातर्ज्जनीमध्यगताङ्गुष्ठौ समुष्टिकौ । 5ab
चतुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ॥ 5cd
दन्तभक्षधरं रक्तं साब्जं पाशाड्कुशैर्वृतम् । 6ab
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ॥ 6cd
श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः । 7ab
तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ॥ 7cd
घोषासृक्प्राणधात्वर्दी दण्डी गार्त्तण्डभैरवः । 8ab
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ॥ 8cd
ह्रस्वाः स्युर्मूर्त्तर्यः पञ्च दीर्घा अङ्गानि तस्य च । 9ab
सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ॥ 9cd
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः । 10ab
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ॥ 10cd
कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं । 11ab
रोचना कुङ्कुमं वारि रक्तगन्धाक्षताङ्कुराः ॥ 11cd
Image-P.113


वेणुवीजयवाः शालिश्यामाकतिलराजिकाः । 12ab
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् 1 12cd
जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् । 13ab
स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै ग्रहान् ॥ 13cd
ग्रहादिशान्तये स्नानं जप्त्वार्क्कं सर्वमाप्नुयात् । 14ab
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ॥ 14cd
न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया । 15ab
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ॥ 15cd
ध्यानञ्च मारणस्तम्भे पीतगाप्यायने सितम् । 16ab
रिपुघातविधौ 2 कृष्णं मोहयेच्छक्रचापवत् ॥ 16cd
यो ऽभिषेकजपध्यानपूजाहोमपरः सदा । 17ab
तेजस्वी हृजयः श्रीमान् समुद्रादौ जयं लभेत् ॥ 17cd
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं । 18ab
न्यस्तुवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतं ॥ 18cd


इत्याग्नेये महापुराणे सूर्य्यार्च्चनं नाम त्रिशततमो ऽध्यायः ॥

Chapter 301

अथैकाधिकत्रिशततमो ऽध्यायः ।

नानामन्त्राः ।
अग्निरुवाच ।
वाक्कर्म्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः । 1ab
हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती ॥ 1cd


1 धार्य्य चेति ख॰ ।
2 विद्युत्पातविधाविति घ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.114


अक्षाराशी वर्णलक्षं जपेत् समतिमान् भवेत् । 2ab
अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः ॥ 2cd
वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् । 3ab
नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् ॥ 3cd
नृपादिर्भ्रष्टरज्यादीन्राज्यपुत्रादिमाप्नुयात् । 4ab
हृल्लेखा शक्तिदेवाख्या दोषाग्निर्द्दण्डिदण्डवान् ॥ 4cd
शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्द्दशीं । 5ab
चक्रपाशाङ्कुशधरां साभयां वरदायिकां ॥ 5cd
होमादिना च सौभाग्यं कवित्वं पुत्रवान् भवेत् । 6ab
ओं ह्रीं ओं नमः कामाय सर्व्वजनहिताय सर्व्वजनमोहनाय प्रज्वलिताय सर्व्वजनहृदयं ममात्मगतं कुरु 2 ओं ।
एतज्जपादिना मन्त्रo वशयेत् सकलं जगत् ॥ 6cd
ओं ह्रीं चामुण्डे अमुकन्दह 2 पच 2 मम वशमानय 2 ठ 2 ।
वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्त्तितः । 7ab
फलत्रयकषायेण वराङ्गं क्षालयेद्वशे ॥ 7cd
अश्वगन्धायवैः स्त्री तु निशाकर्पूरकादिना । 8ab
पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः ॥ 8cd
वृहतीरसलेपश्च वशे स्यान्मरणान्तिकं । 9ab
कटीरमूलत्रिकटुक्षौद्रलेपस्तथा भवेत् ॥ 9cd
हिमं कपित्थकरभं मागधी मधुकं मधु । 10ab
तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ॥ 10cd
सशर्क्करयोनिलेपात् कदम्बरसको मधु । 11ab
सहदेवी महालक्ष्मीः पुत्रजीवी कृताञ्जलिः ॥ 11cd
Image-P.115


एतच्चूर्णं शिरःक्षिप्तं लिकस्य वशमुत्तमम् । 12ab
त्रिफलाचन्दनक्वाथप्रस्था द्विकुड़वम् पृथक् ॥ 12cd
भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु । 13ab
घृतैः पक्वा निशा छाया शुष्का लोप्या तु रञ्जनी ॥ 13cd
विदारीं सोच्चटामाषचूर्णीभूतां सशर्करां । 14ab
गथितां यः विपेत् क्षीरैर्नित्यं स्त्रीशतकं व्रजेत् ॥ 14cd
गुल्ममाषतिलव्रीहिचूर्णक्षीरसितान्वितं । 15ab
अश्वत्थवंशदर्भाणां मूलं वै वैष्णवीश्नियोः ॥ 15cd
मूलं दूर्व्वाश्वगन्धोत्थं पिवेत् क्षीरैः सुतार्थिनी । 16ab
कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोघ्नं वटाङ्कुरम् ॥ 16cd
आज्यक्षीरमृतौ पेयं पुत्रार्थं त्रिदिवं स्त्रिया । 17ab
पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं सवटाङ्कुरम् ॥ 17cd
श्रीवटाङ्कुरदेवीनां रसं नस्ये विपेच्च सा । 18ab
श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक् ॥ 18cd
तरलं पयसा युक्तं कार्पासफलपल्ल्वं । 19ab
अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः ॥ 19cd
पुत्रार्थञ्चार्द्धषट्शाकैर्योगाश्चत्वार ईरिताः । 20ab
शर्करोत्पलपुष्पाक्षलोध्रचन्दनसारिवाः ॥ 20cd
स्रवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा । 21ab
लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत् ॥ 21cd
अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् । 22ab
नाभेरधः समालिप्य प्रसूते प्रमदा सुखम् ॥ 22cd
रक्तं शुक्लं जावापुष्पं रक्तशुक्लस्त्रुतौ पिवेत् । 23ab
Image-P.116


केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम् ॥ 23cd
साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् । 24ab
शीर्य्यमाणेषु केशेषु स्थापनञ्च भवेदिदम् ॥ 24cd
धात्रीभृङ्गरसप्रस्थतैलञ्च क्षिरमाढकम् । 25ab
ओं नमो भगवते त्र्यम्बकाय उपशमय 2 चुलु 2 मिलि 2 भिद 2 गोमानिनि चक्रिणि ह्रूं फट् ॥
अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु 2 शान्तिं कुरु 2 ॥ 25cd
घण्डाकर्णो महासेनो वीरः प्रोक्तो महाबलः ॥ 25ef
मारीनिर्नाशनकरः स मां पातु जगत्पतिः । 26ab
श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक् ॥ 26cd


इत्याग्नेये महापुराणे नानामन्त्रा नामैकाधिकत्रिशततमो ऽध्यायः ॥

Chapter 302

अथ द्व्यधिकत्रिशततमो ऽध्यायः ।

अङ्गाक्षरार्च्चनम् ।
अग्निरुवाच ।
यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तसराशिगः । 1ab
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ॥ 1cd
कण्टोष्ठौ चलतः स्थानाद्यस्य वक्रा च नासिका । 2ab
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ॥ 2cd
तारो मेषो विषं दन्ती नरो दीर्घो घणा रसः । 3ab
क्रूद्धोल्काय महोल्काय वीरोल्काय शिखा भवेत् ॥ 3cd
Image-P.117


ह्यल्काय साहसोल्काय वैष्णवोष्टाक्षरो मनुः । 4ab
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ॥ 4cd
ज्येष्ठाग्रेण क्रमात्तावन् मूर्द्धन्यष्टाक्षरं न्यसेत् । 5ab
तर्ज्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ॥ 5cd
तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् । 6ab
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रयः ॥ 6cd
एवं रूपानिमान् वर्णान् भावबुद्धान्न्यसेत् क्रमात् । 7ab
हृदास्यनेत्रमूर्द्धाङ्घ्रितालुगुह्यकरादिषु 1 7cd
अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः । 8ab
यथात्मनि तथा देवे न्यासः कार्य्यः करं विना ॥ 8cd
हृदादिस्थानगान् वर्णान् गन्धपुष्पै समर्च्चयेत् । 9ab
धर्म्माद्यग्न्याद्यधर्मादि गात्रे पीठे ऽम्बुजे न्यसेत् ॥ 9cd
यत्र केशरकिञ्जल्कव्यापिसूर्य्येन्दुदाहिनां । 10ab
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ॥ 10cd
गुणाश्च तन्त्रसत्वाद्याः केशरस्थाश्च शक्तयः । 11ab
विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ॥ 11cd
प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः । 12ab
योगपीठं समभ्यर्च्य समावह्य हरिं यजेत् ॥ 12cd
पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं । 13ab
एतत् पञ्चोपचारञ्च सर्व्वं मूलेन दीयते ॥ 13cd
वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्त्तयः । 14ab
विदिक्षु श्रीसरस्वत्यै रतिशान्त्यै च पूजयेत् ॥ 14cd


1 हृदास्यनेत्रमूर्द्धाङ्घ्रिजानुगुह्यकरादिष्विति ख॰ ।
Image-P.118


शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके । 15ab
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ॥ 15cd
अभ्यर्च्य च वहिस्तार्क्ष्यं देवस्य पुरतो ऽर्च्चयेत् । 16ab
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः 1 16cd
इन्द्रादिपरिचारेण पूज्य सर्व्वमवाप्नुयात् ॥ 16॥ 16ef


इत्याग्नेये महापुराणे अङ्गाक्षरार्च्चनं नाम द्व्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 303

अथ त्र्यधिकत्रिशततमो ऽध्यायः ।

पञ्चाक्षरादिपूजामन्त्राः ।
अग्निरुवाच ।
मेषः संज्ञा विषं साज्यमस्ति दीर्घोदकं रसः । 1ab
एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ॥ 1cd
तारकादि समभ्यर्च्च्य देवत्वादि समाप्नुयात् । 2ab
ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ॥ 2cd
तच्छक्तिभूतः सर्व्वेशो भिन्नो ब्रह्मादिमूर्त्तिभिः । 3ab
मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास्तथा ॥ 3cd
प्राणादिवायवः पञ्च ज्ञानकर्म्मेन्द्रियाणि च । 4ab
सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ॥ 4cd
गव्येन प्रक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं । 5ab
तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ॥ 5cd


1 मध्येषु तोरणाद्वहिरिति ख॰ , ज॰ , ञ॰ च ।
Image-P.119


मूलमूर्त्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् । 6ab
कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा ॥ 6cd
निवेद्यैकं परं हुत्वा सशिष्यो ऽन्यद्भजेद्गुरुः । 7ab
आचम्य सकलीकृत्य दद्याच्छिष्याय देशिकः ॥ 7cd
दन्तकाष्ठं हृदा जप्तं क्षीरवृक्षादिसम्भवम् । 8ab
संशोध्य दन्तान् संक्षिप्त्वा प्रज्ञाल्यैतत् क्षिपेद्भुवि ॥ 8cd
पूर्व्वेण सौम्यवारीशगतं शुभमतौ शुभम् । 9ab
पुनस्तं शिष्यमायान्तं 1 शिश्वाबन्धादिरक्षितं ॥ 9cd
कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः । 10ab
सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद्गुरुं ॥ 10cd
शुभैः सिद्धिपदैर्भक्तिस्तैः पुनर्म्मण्डलार्च्चनम् । 11ab
मण्डलं भद्रकाद्युक्तं पूजयेत्सर्व्वसिद्धिदं ॥ 11cd
स्नात्वाचम्य मृदा देहं मन्त्रैरालिप्य कल्प्यते । 12ab
शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ॥ 12cd
हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः । 13ab
मूलेनाब्जासनं कुर्य्यात्तेन पूरककुम्भकान् ॥ 13cd
आत्मानं योजयित्वोर्द्ध्वं शिखान्ते द्वादशाङ्गुले । 14ab
संशोष्य दग्ध्वा स्वतनुं प्लावयेदमृतेन च ॥ 14cd
ध्मात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् । 15ab
कृत्वैवं चात्मशुद्धिः स्याद्विन्यस्यार्च्चनमारभेत् ॥ 15cd
क्रमात् कृष्णसितश्यामरक्तपीता नगादयः । 16ab
मन्त्रार्णा दण्डिनाङ्गानि तेषु सर्व्वास्तु मूर्त्तयः ॥ 16cd


1 शिष्यमाचान्तमिति ञ॰ ।
Image-P.120


अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्व्वतः । 17ab
न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्द्धसु ॥ 17cd
व्यापकं न्यस्य मूर्द्धादि मूलमङ्गानि विन्यसेत् । 18ab
रक्तपीतश्यामसितान् पीठपादान् स्वकालजान् ॥ 18cd
स्वाङ्गान्मन्त्रैर्न्यसेद्गात्राण्यधर्म्मादीनि दिक्षु च । 19ab
तत्र पद्मञ्च सुर्य्यादिमण्डले त्रितयं गुणान् ॥ 19cd
पूर्व्वादिपत्रे कामाद्या नवकं कर्णिकोपरि । 20ab
वामा ज्येष्ठा क्रमाद्रौद्रो काली कलविकारिणी ॥ 20cd
बलविकारिणी चार्थ बलप्रमथनी तथा । 21ab
सर्व्वभूतदमनी च नवमी च मनोन्मनी ॥ 21cd
श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता । 22ab
कृष्णारुणाश्च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् ॥ 22cd
अनन्तयोगपीठाय आवाह्याथ हृदब्जतः । 23ab
स्फटिकाभं चतुर्व्वाहुं फलशूलधरं शिवम् ॥ 23cd
साभयं वरदं पञ्चवदंनञ्च त्रिलोचनम् । 24ab
पत्रेषु मुर्त्तयः पञ्च स्थाप्यास्तत्पुरुषादयः ॥ 24cd
पूर्व्वे तत्पुरुषः श्वेतो अघोरो ऽष्टभुजो ऽसिताः । 25ab
चतुर्व्वाहुमुखः पीताः सद्योजातश्च पश्चिमे ॥ 25cd
वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजो ऽरुणः । 26ab
सौम्ये पञ्चास्य ईशाने ईशानः सर्व्वदः सितः ॥ 26cd
इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्ममर्च्चयेत् । 27ab
सिद्धेश्वरं त्वेकनेत्रं पूर्व्वादौ दिश पूजयेत् ॥ 27cd
एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् । 28ab
Image-P.121


ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः 1 28cd
श्वेतः पीतः सितो रक्तो धूम्रो रक्तो ऽरुणः शितः । 29ab
शूलाशनिशरेश्वासवाहवश्चतुराननाः ॥ 29cd
उमा वण्डेशनन्दीशौ महाकालो गणेश्वरः । 30ab
वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ॥ 30cd
कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां । 31ab
शूलं चक्रं यजेत् पद्मं पूव्वादौ देवमर्च्य च ॥ 31cd
ततो ऽधिवासितं शिष्यं पाययेद्गव्यपञ्चकम् । 32ab
आचान्तं प्रोक्ष्ये नेत्रान्तैर्नेत्रे नेत्रेण बन्धयेत् ॥ 32cd
द्वारं प्रवेशयेच्छिष्यं मण्डपस्याथ दक्षिणे । 33ab
सासनादिकुशासीनं तत्र संशोधयेद्गुरुः ॥ 33cd
आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् । 34ab
पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ॥ 34cd
न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् । 35ab
पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ॥ 35cd
यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्द्दिशेत् । 36ab
पार्श्वेयागभुवः खाते कुण्डे सन्नाभिमेखले 2 36cd
शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्च्चयेत् । 37ab
ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् ॥ 37cd
पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश्च मन्त्रितान् । 38ab
पृथिव्यादीनि तत्त्वानि जुहुयाद्धृदयादिभिः ॥ 38cd


1 कमलानना इति ञ॰ ।
2 सन्धादिमेखले इति ख॰ ।
Image-P.122


एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् । 39ab
हुत्वा पूर्णाहुतिं कुर्य्यादस्त्रेणाष्टाहुतीर्हुनेत् ॥ 39cd
प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् । 40ab
कुम्भं समन्त्रितं प्रार्च्य शिशुं पीठे ऽभिषेचयेत् ॥ 40cd
शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् । 41ab
दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि ॥ 41cd


इत्याग्नेये महापुराणे पञ्चाक्षरादिपूजामन्त्रा नाम त्र्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 304

अथ चतुरधिकत्रिशततमो ऽध्यायः ।

पञ्चपञ्चाशद्विष्णुनामाणि ।
अग्निरुवाच ।
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः । 1ab
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ॥ 1cd
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् । 2ab
राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥ 2cd
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे । 3ab
वाराहं वर्द्धमाने च काश्मीरे चक्रपाणिनम् ॥ 3cd
जनार्द्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् । 4ab
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥ 4cd
शालग्रामे महायोगं हरिं गोबर्द्धनाचले । 5ab
Image-P.123


पिण्डारके चतुर्व्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥ 5cd
वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् । 6ab
विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ॥ 6cd
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे । 7ab
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥ 7cd
काशीतटे महायोगं विरजायां रिपुञ्जयम् । 8ab
विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥ 8cd
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् । 9ab
लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥ 9cd
पुरुषं पूरुषवटे विमले च जगत्प्रभुं । 10ab
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ 10cd
उत्पलावर्त्तके शौरीं नर्म्मदायां श्रियः पतिं । 11ab
दामोदरं रैवतके नन्दायां जलशायिनं ॥ 11cd
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विटुः । 12ab
सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ 12cd
सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् । 13ab
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥ 13cd
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । 14ab
पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ॥ 14cd
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् । 15ab
वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥ 15cd
नामान्येतानि विष्णीश्च जप्त्वा सर्वमवाप्नुयात् । 16ab
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥ 16cd
Image-P.124


तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् । 17ab
यः पठेत् शृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ॥ 17cd


इत्याग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमो ऽध्यायः ॥

Chapter 305

अथ पञ्चाधिकत्रिशततमो ऽध्यायः ।

नारसिंहादिमन्त्राः ।
अग्निरुवाच ।
स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे । 1ab
व्याधिश्चेति स्मृतं क्षुद्रं तन्मोक्षो वक्ष्यते शृणु ॥ 1cd
ओं नमो भगवते उन्मत्तरुद्राय भ्रम 2 भ्रामय 2 अमुकं वित्रासय उद्भ्रामय 2 रौद्रेण रूपेण हूं फठ् ठ 2 ।
श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् । 2ab
चिताग्नौ धूर्त्तसमिदुभिर्भ्राम्यते सततं रिपुः ॥ 2cd
हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः । 3ab
जप्त्वा विध्येच्च तत्कण्ठे हृदि वा मियते रिपुः ॥ 3cd
खरबालचिताभस्म ब्रह्मदण्डी च मर्कटी । 4ab
गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत् क्षिपेत् ॥ 4cd
भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश्च वर्म्म फट् । 5ab
एवं सहस्रारे हूं फट् आचक्राय स्वाहा हृदयं विचक्राय शिवः ।
शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् ॥ 5cd
Image-P.125


सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् । 6ab
शार्ङ्गं सुदर्शनं क्षुद्रग्रहहृत् सर्व्वसाधनम् ॥ 6cd
मूर्द्धाक्षिमुखहृद्गुह्यपादे ह्यस्याक्षरान्न्यसेत् । 7ab
चक्राब्जासनमग्न्याभं दंष्ट्रिणञ्च चतुर्भुजम् ॥ 7cd
शङ्खचक्रगदापद्मशलाकाङ्कुशपाणिनम् । 8ab
चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं ॥ 8cd
नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः । 9ab
पीतञ्चक्रं गदा रक्ताः स्वराः श्याममवान्तरं ॥ 9cd
नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी । 10ab
मध्येतरेमरे वर्णानेवं चक्रद्वयं 1 लिखेत् ॥ 10cd
आदावानीय कुम्भोदं गोचरे सन्निधाय च । 11ab
दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात् ॥ 11cd
आज्यापामार्गसमिधो ह्यक्षतं तिलसर्षपौ । 12ab
पायसं गव्यमाज्यञ्च सहस्राष्टकसंख्यया ॥ 12cd
हुतशेषं क्षिप्तेत् कुम्भे प्रतिद्रव्यं विधानवित् । 13ab
प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् ॥ 13cd
विष्णादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे । 14ab
नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः ।
दद्यादनेन मन्त्रेण हुतशेषाम्भसा बलिं ॥ 14cd
फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः । 15ab
गव्यपूर्णे निवेश्यैव दिक्ष्वेवं होमयेद्द्विजैः ॥ 15cd
सदक्षिणमिदं होमद्वयं भूतादिनाशनम् । 16ab


1 वर्णद्वयमिति ख॰ ।
Image-P.126


गव्याक्तपत्रलिखितैर्निष्पर्णैः क्षुद्रमुद्धृतम् ॥ 16cd
दूर्वाभिरायुषे पद्मैः श्रिये पुत्रा उडुग्बरैः । 17ab
गोसिद्ध्यै सर्पिषा गोष्ठे मेधायै सर्वशाखिना ॥ 17cd
ओं क्षौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्व्वज्वरविनाशाय दह 2 पच 2 रक्ष 2 हूं फट् ।
मन्त्रोयं नारसिंहस्य मकलाघ्निवारणः । 18ab
जप्यादिना हरेत् क्षुद्रग्रहमारीविषामयान् । 18cd
चूर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत् ॥ 18॥ 18ef


इत्याग्नेये महापुराणे नारसिंहादिमन्त्रा नाम पञ्चाधिकत्रिशततमो ऽध्यायः ।

Chapter 306

अथ षष्ठाधिकत्रिशततमो ऽध्यायः ।

त्रैलोक्यमोहनमन्त्राः ।
अग्निरुवाच ।
वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलिक्यमोहनम् । 1ab
ओं श्रीं ह्रीं ह्रूं ओं नमः पुरुशोत्तमः पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर सुरमनुजसुन्दरोजनमनांसि तापय 2 दोपय 2 शोडय 2 मारय 2 स्तम्भय 2 द्रावय 2 आकर्षय 2 परमसुभग सर्वसौमाग्यकर कामप्रद अमुकं हन 2 चक्रेण गदया खड्गेण सर्व्व-[!!!॰
Image-P.127


वाणैर्भिद 2 पाशेन हट्ट 2 अङ्कुशेन ताड़्य 2 तुरु 2 किन्तिष्ठसियावत्तावत् समीहितं मे सिद्धं भवति हूं फट् नमः ।
ॐ पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फट् हृदयाय नमः कर्षय महाबल हूं फट् अस्त्राय त्रिभुवनेश्वर सर्व्वजनमनांसि हन 2 दारय 2 मम वशमानय 2 हूं फट् नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप सर्वस्त्रीहृदयाकर्षण आगच्छ 2 नमः ॥
सङ्गाक्षिण्यायकेन न्यासं मूलवदीरितं ॥ 1cd
इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च । 2ab
कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत् ॥ 2cd
पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं । 3ab
द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् ॥ 3cd
यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं । 4ab
हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं ॥ 4cd
सम्भोज्य विप्रानाचार्य्यं तोषयेत्सिध्यते मनुः । 5ab
स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं ॥ 5cd
गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः । 6ab
रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् ॥ 6cd
पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् । 7ab
अशेषं कल्मषं देहात् विश्लेषयदनुस्मरेत् ॥ 7cd
रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् । 8ab
उर्द्ध्वाधस्तिर्य्यगाभिस्तु मूर्द्ध्नि संप्लावयेद्वपुः ॥ 8cd
ध्यात्वामृतैर्वहिश्चान्तःसुषुम्नामार्गगामिभिः । 9ab
एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा ॥ 9cd
Image-P.128


विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः । 10ab
गुह्ये गले दिक्षु हृदि कुक्षौ देहे च सर्व्वतः ॥ 10cd
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्य्यमण्डलात् । 11ab
तारेण सम्परात्मानं स्मरेत्तं सर्व्वलक्षणं ॥ 11cd
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् ।
आत्मार्चनात् क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं । 12ab
कृत्वात्मपूजां विधिना स्थण्डिले तं समर्च्चयेत् ॥ 12cd
कर्म्मादिकल्पिते पीठे पद्मस्थं गरुड़ोपरि । 13ab
मर्व्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं ॥ 13cd
मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं । 14ab
दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं ॥ 14cd
विष्णुं नानाविधानेकपरिवारपरिच्छदम् । 15ab
लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं ॥ 15cd
पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् । 16ab
देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् ॥ 16cd
चक्रं शङ्खं धनुः खड्गं गदां मुषलमङ्कुशं । 17ab
पाशञ्च विभ्रतं चार्च्चेदावाहादिविसर्गतः ॥ 17cd
श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं । 18ab
साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ॥ 18cd
मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् । 19ab
ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद 2 छिन्द 2 विदारय 2 परममन्त्रान् ग्रस 2 भक्षय 2 भूतानि चाशप 2 हूं
Image-P.129


फट् ओं जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द 2 खड्गाय नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय विद्महे चतुर्व्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्त्तक श्वसन पोथय 2 हूं फट् स्वाहा । पाश बन्ध 2 आकर्षय 2 हूं फट् । अङ्कुशेन कट्ट हूं फट् ।
क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् ॥ 19cd
ओं पक्षिराजाय ह्रूं फट् ।
तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि । 20ab
शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ॥ 20cd
शक्तयो ऽन्ते प्रयोज्यादौ सुरेशाद्याश्च दण्डिना । 21ab
पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः ॥ 21cd
कीर्त्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते । 22ab
लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ॥ 22cd
ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् । 23ab
ओं श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे नमः ।
एतत्पूजादिना सर्व्वान् कामानाप्नोति पूर्व्ववत् ॥ 23cd
तोयैः सम्मोहनी पुष्पैर्नित्यन्तेन च तर्पयेत् । 24ab
ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ॥ 24cd
जप्त्वा त्रिलक्षं हुत्वा च लक्षं विल्वैश्च साज्यकैः । 25ab
तण्डुलैः फलगन्धाद्यैः 1 दूर्वाभिस्त्वायुराप्नुयात् ॥ 25cd
तयाभिषेकहोमादिक्रियातुष्टो ह्यभीष्टदः । 26ab


1 फलपुष्पाद्यैरिति ट॰ ।
Image-P.130


ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतित्वं मे देहि हृदयाय स्वाह ।
पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ॥ 26cd


इत्याग्नेये महापुराणे त्रैलोक्यमोहनमन्त्रो नाम षष्ठाधिकत्रिशततमो ऽध्यायः ॥

Chapter 307

अथ सप्ताधिकत्रिशततमो ऽध्यायः ।

त्रैलोक्यमोहनीलक्ष्म्यादिपूजा ।
अग्निरुवाच ।
वक्षः सवह्निर्यामाक्षौ दण्डीः श्रीः सर्व्वसिद्धिदा । 1ab
महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः ॥ 1cd
श्रिये देवि विजये नमः । गौरि महाबले बन्ध 2 नमः । हूं महाकाये पद्महस्ते हूं फट् श्रियै नमः । श्रियै फट् श्रियै नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः स्वाहा श्रीफट् ॥
अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् । 2ab
त्रिलक्षमेकलक्षं वा जप्त्वाक्षाब्जैश्च भूतिदः ॥ 2cd
श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् । 3ab
आज्याक्तैस्तण्डुलैर्ल्लक्षं जुहुयात् खादिरानले ॥ 3cd
राजा वश्यो भवेद्वृद्धिः श्रीश्च स्यादुत्तरोत्तरं । 4ab
सर्षपाम्भोभिषेकेण नश्यन्ते सकला ग्रहाः ॥ 4cd
विल्वलक्षहुता लक्ष्मीर्वित्तवृद्धिश्च जायते । 5ab
शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ॥ 5cd
Image-P.131


बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् । 6ab
ऊर्द्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ॥ 6cd
उर्द्ध्वीकृतेन हस्तेन रक्तपङ्कजधारिणीं । 7ab
श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिनीम् ॥ 7cd
हरितां दोर्द्वयेनोर्द्धमुद्वहन्तीं सिताम्बुजम् । 8ab
ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ॥ 8cd
शाङ्करीमुत्तरे द्वारि तन्मध्ये ऽष्टदलपङ्कजम् । 9ab
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ 9cd
ध्येयास्ते पद्मपत्रेषु शङ्खचक्रगदाधराः । 10ab
अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ॥ 10cd
आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः । 11ab
दमकः सलिलश्चेति हस्तिनी रजतप्रभाः ॥ 11cd
हेमकुम्भधराश्चैते कर्णिकायां श्रियं स्मरेत् । 12ab
चतुर्भुजां सुवर्णाभां सपद्मोर्द्ध्वभुजद्वयां ॥ 12cd
दक्षिणाभयहस्ताभां वामहस्तवरप्रदां । 13ab
श्वेतगन्धांशुकामेकरौम्यमालास्त्रधारिणीं ॥ 13cd
ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् । 14ab
द्रोणाब्जपुष्पश्रीवृक्षपर्णं मूर्द्ध्नि न धारयेत् ॥ 14cd
लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् । 15ab
पायसाशी जपेत् सूक्तं श्रियस्तेनाभिषेचयेत् ॥ 15cd
आवाहादिविसर्गान्तां मूर्द्ध्नि ध्यात्वार्च्चयेत् श्रियम् । 16ab
विल्वाज्याब्जपायसेन पृथक् योगः श्रिये भवेत् ॥ 16cd
विषं महिषकान्ताग्निरुद्रिज्योतिर्वकद्वयम् । 17ab
Image-P.132


ओं ह्रीं महामहिषमर्द्दिनि ठ ठ मूलमन्त्रं भहिषहिंसके नमः । महिषशत्रुं भ्रामय 2 हूं फट् ठ ठ महिषं हेषय 2 हूं महिषं हन 2 देवि हूं महिषनिसूदनि फट् ।
दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् ॥ 17cd
यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यगम् । 18ab
ओं ह्रीं दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै नमः । आर्य्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै सुरूपायै ॥
पत्रस्थाः पूजयेदेता मूर्त्तीराद्यैः स्वरैः क्रमात् ॥ 18cd
चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय । 19ab
अष्टम्याद्यैरिमां दुर्गां लोकेशान्तां यजेदिति । 19cd
दुर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत् ॥ 19॥ 19ef
समाध्येशानमन्त्रेण तिलहोमो वशीकरः । 20ab
जयः पद्मैस्तु दुर्व्वाभिः शान्तिः कामः पलाशजैः ॥ 20cd
पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् । 21ab
ग्रहक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् ॥ 21cd
ओं दुर्गे दुर्गे रक्षणि स्वाहा ।
रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता । 22ab
श्यामां त्रिलोचनां देवीं ध्यात्वात्मानं चतुर्भुजम् ॥ 22cd
शङ्खचक्राब्जशूलादित्रिशूलां रौद्ररूपिणीं । 23ab
युद्धादौ सञ्जयेदेतां यजेत् खड़्गादिके जये ॥ 23cd


इत्याग्नेये महापुराणे त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नाम सप्ताधिकत्रिशततमो ऽध्यायः ।
Image-P.133


Chapter 308

अथाष्टाधिकत्रिशततमो ऽध्यायः ।

त्वरितापूजा ।
अग्निरुवाच ।
त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् । 1ab
ओं आधारशक्त्यै नमः । ओं ह्रीं पुरु 2 महासिंहाय नमः । ओं पद्माय नमः । ओं ह्रीं ह्रूं खेचछेक्षः । स्त्रीं ओं ह्रूं क्षैं ह्रूं फट् त्वरितायै नमः । खे च हृदयाय नमः । चछे शिरसे नमः । छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीं ह्रूं नेत्राय नमः । ह्रूं खे अस्त्राय फट् नमः । ओं त्वरिताविद्यां विद्महे तूर्णविद्याञ्च धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूं कारायै नमः । ओं खेच हृदयाय नमः । खेचर्य्यै नमः । ओं चण्डायै नमः । छेदन्यै नमः क्षेपण्यै नमः । स्त्रियै ह्रूं कार्य्यै नमः । क्षेमङ्कर्य्यै जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट् ।
तोतला त्वरिता तूर्णेत्येवं विद्येयमीरिता ॥ 1cd
शिरोभ्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके । 2ab
उर्व्वोश्च जानुजङ्घोरुद्वये चरणयोः क्रमात् ॥ 2cd
न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् । 3ab
पार्वती शवरी चेशा वरदाभयहस्तिका ॥ 3cd
मयूरबलया पिच्छमौलिः किसलयांशुका । 4ab
सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ॥ 4cd
त्रिनेत्रा श्यामला देवी वनमालाविभूषणा । 5ab
Image-P.134


विप्राहिकर्णाभरणा चत्रकेयूरभूषणा ॥ 5cd
वैश्यनागकटीबन्धा वृषलाहिकृतनूपुरा । 6ab
एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ॥ 6cd
ईशः किरातरूपो ऽभूत् पुरा गौरी च तादृशी । 7ab
जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ॥ 7cd
अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् । 8ab
अङ्गगायत्री प्रणीता हूङ्काराद्या दलाग्रके ॥ 8cd
फट्कारी चाग्रतो देव्याः श्रीवीजेनार्च्चयेदिमाः । 9ab
लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्द्धरा ॥ 9cd
जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके । 10ab
किङ्करा वर्वरी मुण्ड़ी लगुड़ी च तयोर्वहिः ॥ 10cd
इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् । 11ab
हेमलाभो ऽर्जुनैर्द्धान्यैर्गोधूमैः पुष्टिसम्पदः ॥ 11cd
यवैर्द्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् । 12ab
अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ॥ 12cd
जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि । 13ab
रक्तात्पलैर्म्महापुष्टिः कुन्दपुष्पैर्म्महोदयः ॥ 13cd
मल्लिकाभिः पुरक्षोभः कुमुदैर्जनवर्ल्लभः । 14ab
अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ॥ 14cd
आम्रैरायुस्तिलैर्ल्लक्ष्मीर्विल्वैः श्रीश्चम्पकैर्द्धनम् । 15ab
इष्टं मधुकपुष्पैश्च विल्वैः सर्वज्ञतां लभेत् ॥ 15cd
त्रिलक्षजप्यात्सर्व्वाप्तिर्होमाद्ध्यानात्तथेज्यया । 16ab
मण्डले ऽभ्यर्च्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ॥ 16cd
Image-P.135


दद्याच्छतत्रयं मूलात् पल्लवैर्दीक्षितो भवेत् । 17ab
पञ्चगव्यं पुरा पीत्वा चरुकं प्राशयेत्सदा ॥ 17cd


इत्याग्नेये महापुराणे त्वरितापूजा नामाष्टाधिकत्रिशततमो ऽध्यायः ।

Chapter 309

अथ नवाधिकत्रिशततमो ऽध्यायः ।

त्वरितामन्त्रादिः ।
अग्निरुवाच ।
अपरां त्वरिताविद्यां वक्ष्ये ऽहं भुक्तिमुक्तिदां । 1ab
पुरे वज्राकुले 1 देवीं रजोभिर्लिखिते यजेत् ॥ 1cd
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां । 2ab
द्वारशोभोपशोभाञ्च लिखेच्छ्रीघ्रं स्मरेन्नरः ॥ 2cd
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता । 3ab
दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ॥ 3cd
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां करमात् । 4ab
शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ॥ 4cd
धनुः पाशं शरं घण्टां तर्ज्जनीं शङ्खमङ्कुशम् । 5ab
अभयञ्च तथा वर्जं वामपार्श्वे धृतायुधम् ॥ 5cd
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया । 6ab
दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिव्यादिसिद्धिभाक् ॥ 6cd


1 वज्रार्गले इति ञ॰ ।
Image-P.136


तलेतिसप्तपातालाः कालाग्निभुवनान्तकाः । 7ab
ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ॥ 7cd
ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः । 8ab
प्रस्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ॥ 8cd
तालुर्वर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः । 9ab
चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ॥ 9cd
षष्ठो ऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः । 10ab
ऊष्माणः स्याच्छ्वर्गस्तु उद्धरेच्च मनुं ततः ॥ 10cd
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् । 11ab
तालुवर्गद्वितीयन्तु स्वरैकादशयोजितम् ॥ 11cd
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् । 12ab
तदेव च द्वितीयन्तु अधस्ताद्विनियोजयेत् ॥ 12cd
एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः । 13ab
ऊष्माणस्य 1 द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ॥ 13cd
षोड़शस्वरसंयुक्तमूष्माणस्य द्वितीयकम् । 14ab
जिह्वादन्तसमायोगे प्रथमं योजयेदधः ॥ 14cd
मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु । 15ab
चतुर्थस्वरसम्भिन्नं तालुवर्गादिसंयुतम् ॥ 15cd
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् । 16ab
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ॥ 16cd
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः । 17ab
द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ॥ 17cd


1 ऊष्माणस्येत्ययं पाठो न साधुः ।
Image-P.137


प्रथमं पञ्चमे योज्यं स्वरार्द्धेनोद्धृता इमे । 18ab
ओंकाराद्या नमोन्ताश्च जपेत् स्वाहाग्निकार्य्यके ॥ 18cd
ओं ह्रीं ह्रूं ह्रः हृदयं हां हृश्चेति शिरः । ह्रीं ज्वल ज्जलशिखा स्यात् कवचं हनुद्वयम् । ह्रीं श्रीं क्षून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्त्तितम् क्षौं हः खौं हूं फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् ।
त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि शृणुष्व मे । 19ab
आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ॥ 19cd
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् । 20ab
तारकन्तु भवेन्नेत्रं नवार्द्धाक्षरलक्षणं ॥ 20cd
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् । 21ab
ख ख हूं दशवीजा स्याद्वज्रतुण्डेन्द्रद्रूतिका ॥ 21cd
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश । 22ab
वर्च्चे शरविभीषणि खखेति च शवर्य्यपि ॥ 22cd
छे छेदनि करालिनि खखेति च कराल्यपि । 23ab
वक्षःश्रवद्रवप्लवनी ख ख 1 दूतीप्लवं ख्यपि ॥ 23cd
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका । 24ab
क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ॥ 24cd
ह्रूं तेजोवति रौद्री च मातङ्गरौद्रिदूतिका । 25ab
पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका ॥ 25cd
वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् । 26ab
हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः ॥ 26cd
पादादरभ्य मूर्द्दान्तं शिर आरभ्य पादयोः । 27ab


1 वक्षःश्रवद्रवप्लवनीथथेति ख॰ , छ॰ च ।
Image-P.138


अङ्घ्रिजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः ॥ 27cd
वज्रमण्डलमूर्द्ध्वे च अघोर्द्धे चादिवीजतः । 28ab
सोमरूपं ततो गावं धारामृतसुवर्षिणम् ॥ 28cd
विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् । 29ab
मूर्द्धास्यकण्ठहृन्नाभौ गुह्योरुजानुपादयोः ॥ 29cd
आदिवीजं न्यसेन्मन्त्री तर्ज्जन्यादि पुनः पुनः । 30ab
ऊर्द्धं सोममधः पद्मं शरीरं वीजविग्रहं ॥ 30cd
यो जानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वरा । 31ab
यजेज्जपेत्तां विन्यस्य ध्यायेद्देवीं शताष्टकम् ॥ 31cd
मुद्रा वक्ष्ये प्रणीताद्याः प्रणीताः पञ्चधा स्मृताः । 32ab
ग्रथितौ तु करौ कृत्वा मध्ये ऽङ्गुष्ठौ निपातयेत् ॥ 32cd
तर्ज्जनीं मूर्द्ध्निसंलग्नां विन्यसेत्तां शिरोपरि । 33ab
प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ॥ 33cd
ऊर्द्धन्तु कन्यसामध्ये सवीजान्तां विदुर्द्विजाः । 34ab
नियोज्य तर्ज्जनीमध्ये ऽनेकलग्नां परस्पराम् ॥ 34cd
ज्येष्टाग्रं निक्षिपेन्मध्ये भेदनी सा प्रकीर्त्तिता । 35ab
नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठावुत्क्षिपेत्ततः ॥ 35cd
कराली तु महामुद्रा हृदये योज्य मन्त्रिणः । 36ab
पुनस्तु पूर्व्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् ॥ 36cd
वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् । 37ab
उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ॥ 37cd
त्रीणि त्रीणि प्रसार्य्येति 1 वज्रमुद्रा प्रकीर्त्तिता । 38ab


1 प्रसार्य्या चेति ट॰ ।
Image-P.139


दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ॥ 38cd
अङ्गुष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोर्द्ध्वतो भवेत् । 39ab
एका तु मध्यमोर्द्ध्वा तु शक्तिरेव विधीयते ॥ 39cd
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया । 40ab
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ॥ 40cd
मोहणी मोक्षणी चैव ज्वालिनी चा ऽमृताभया । 41ab
प्रणीताः पञ्चमुद्रास्तु पूजाहोमे च योजयेत् ॥ 41cd


इत्याग्नेये महापुराणे त्वरितामन्त्रादिर्नाम नवाधिकत्रिशततमो ऽध्यायः ।

Chapter 310

अथ दशाधिकत्रिशततमो ऽध्यायः ।

त्वरितामूलमन्त्रादिः ।
अग्निरुवाच ।
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुले ऽब्जके । 1ab
हे 2 हुति वज्रदन्त पुरु 2 लुलु 2 गर्ज्ज 2 इह सिंहासनाय नमः ।
तिर्य्यगूर्द्ध्वगता रेखाश्चत्वारश्चतुरो भवेत् ॥ 1cd
नवभागविभागेन कोष्ठकान् कारयेद्बुधः । 2ab
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ॥ 2cd
वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् । 3ab
वाह्यकोष्ठस्य वाह्ये तु मध्ये यावत् समानयेत् ॥ 3cd
वज्रस्य मध्यमं शृङ्गं वाह्यरेखा द्विधार्द्धतः । 4ab
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ॥ 4cd
Image-P.140


मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् । 5ab
कृष्णेन रजसा लिख्य कुलिशासिशितोर्द्धता ॥ 5cd
वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् । 6ab
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ॥ 6cd
पद्मनाम भवेद्वामवीथी चैव समा भवेत् । 7ab
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ॥ 7cd
जयेच्च परराष्ट्राणि क्षिप्रं राज्यमवाप्नुयात् । 8ab
मूर्त्तिं प्रणवसन्दीप्तां हूंकारेण नियोजयेत् ॥ 8cd
मूलविद्यां समुच्चार्य्य मरुद्व्योमगतां द्विज । 9ab
प्रथमेन पुनश्चैव कर्णिकायां प्रपूजयेत् ॥ 9cd
एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः । 10ab
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैरृतम् 1 10cd
मध्ये नेत्रं दिशास्त्रञ्च गुह्यकाङ्गे तु रक्षणम् । 11ab
हुतयः केशरस्थास्तु वामदक्षिणपार्श्वतः ॥ 11cd
पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् । 12ab
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ॥ 12cd
वर्णान्तमग्निमारूटं षष्ठस्वरविभेदितं 2 13ab
पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत् 3 13cd
शीघ्रं 4 सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये 5 14ab


1 आग्नेयावन्नैरृतमिति ञ॰ ।
2 ज्येष्ठस्वरविभूषितमिति ख॰ , छ॰ च ।
3 नामभिर्योजयेदित्ययं पाठः समीचीनो भवितुमर्हति ।
4 नीलेति ञ॰ ।
5 श्रियमिति ञ॰ ।
Image-P.141


अष्टाभिर्वेष्टयेत् कुम्भैर्म्मन्त्राष्टशतमन्त्रितैः ॥ 14cd
मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् । 15ab
होमं कुर्य्यादग्निकुण्डे वह्निमन्त्रेण चालयेत् ॥ 15cd
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्ये ऽग्निगां स्मरेत् । 16ab
गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ॥ 16cd
हृदयेन शतं ह्येकं गुह्येकं गुह्याङ्गे जनयेच्छिखिम् । 17ab
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलितो भवेत् ॥ 17cd
होमयेम्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः । 18ab
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ॥ 18cd
अस्त्रेण ताड़नं कृत्वा गुह्याङ्गानि ततो न्यसेत् । 19ab
विद्याङ्गैश्चैव सन्नद्धं विद्याङ्गेषु नियोजयेत् ॥ 19cd
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् । 20ab
यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ॥ 20cd
स्थावरत्वं पुरा होमं सरीसृपमतः परं । 21ab
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ॥ 21cd
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् । 22ab
एकया चैव ह्याह्त्या शिष्यः स्याद्दीक्षितो भवेत् ॥ 22cd
अधिकारो भवेदेवं शृणु मोक्षमतः परम् । 23ab
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ॥ 23cd
परे च होमयेत् स्वस्थो ऽकर्म्मकर्म्मशतान् दश । 24ab
पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ॥ 24cd
मोक्षं याति परंस्थानं यद्गत्वा न निवर्त्तते । 25ab
यथा जले जलं क्षिप्तं जलं देही शिरस्तथा ॥ 25cd
Image-P.142


कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्व्वभाक् । 26ab
कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणां ददेत् ॥ 26cd
यजेत् सहस्रमेकन्तु पूजां कृत्वा दिने दिने । 27ab
तिलाज्यपुरहोमेन 1 देवी श्रीः कामदा भवेत् ॥ 27cd
ददाति विपुलान् भोगान् यदन्यच्च समीहते । 28ab
जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ॥ 28cd
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी । 29ab
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ॥ 29cd
षड़्गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा । 30ab
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ॥ 30cd
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् । 31ab
शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ॥ 31cd
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् । 32ab
महिषाजमेषमांसेन नरजेन पुरेण 2 वा ॥ 32cd
तिलैर्यवैस्तथा लाजैर्व्रीहिगोधूमकाम्रकैः । 33ab
श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ॥ 33cd
अर्द्धरात्रेषु सन्नद्धः खड़्गचापशरादिमान् । 34ab
एकवासा विचित्रेण रक्तपीतासितेन वा ॥ 34cd
नीलेन वाथ वस्त्रेण देवीं तैरेव चार्च्चयेत् । 35ab
व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ॥ 35cd


1 तिलाज्यप्लवहोमेनेति ख॰ , छ॰ च ।
2 प्लवेनेति ख॰ , छ॰ च ।
Image-P.143


दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके । 36ab
एवञ्च सर्व्वकामाप्तिर्भुङ्क्ते सर्व्वां महीं नृपः ॥ 36cd


इत्याग्नेये महापुराणे त्वरितामूलमन्त्रो नाम दशाधिकत्रिशततमो ऽध्यायः ।

Chapter 311

अथैकादशाधिकत्रिशततमो ऽध्यायः ।

त्वरिताविद्या ।
अग्निरुवाच ।
विद्याप्रस्तावमाख्यास्ये धर्म्मकामादिसिद्धिदम् । 1ab
नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ॥ 1cd
अनुलोमविलोमेन समस्तव्यस्तयोगतः । 2ab
कर्णाविकर्णयोगेन अत ऊर्द्ध्वं विभागशः ॥ 2cd
त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः । 3ab
जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ॥ 3cd
शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्ल्लभाः । 4ab
गुरुः स्यात् प्रथमो वर्णः पूर्व्वेद्युर्न च वर्ण्यते ॥ 4cd
प्रस्तावे तत्र चैकार्णा द्व्यर्णास्त्र्यर्णादयो ऽभवन् । 5ab
तिर्य्यगूर्द्ध्वगता रेखाश्चतुरश्चतुरो भजेत् ॥ 5cd
नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् । 6ab
प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ॥ 6cd
प्रस्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति । 7ab
करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ॥ 7cd
Image-P.144


त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् । 8ab
कपाले तु समालिख्य शिवतत्त्वं समन्ततः ॥ 8cd
श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् । 9ab
तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ॥ 9cd
तापयेत्खादिराङ्गारैर्भूर्जमाक्रम्य पादयोः । 10ab
सप्ताहादानयेत् सर्व्वं त्रेलोक्यं सचराचरम् ॥ 10cd
वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् । 11ab
मध्ये गर्भगतं नाम सदाशिवविदर्भितम् ॥ 11cd
कुड्ये 1 फलकके वाथ शिलापट्टे हरिद्रया । 12ab
मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ॥ 12cd
विषरक्तेन संलिख्य श्मशाने कर्परे बुधः । 13ab
षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ॥ 13cd
मारयेदचिरादेष श्मशाने निहतं रिपुं । 14ab
छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ॥ 14cd
चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् । 15ab
तार्क्ष्येणैव तु वीजेन खड़्गमध्ये तु लेखयेत् ॥ 15cd
विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् । 16ab
सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना ॥ 16cd
भेदने छेदने चैव मारणेषु शिवो भवेत् । 17ab
तारकं नेत्रमुद्दिष्टं शान्तिपुष्टौ नियोजयेत् ॥ 17cd
दहनादिप्रयोगोयं शाकिनीञ्चैव कर्पयेत् । 18ab
मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः 2 18cd


1 कुण्ड इति क॰ ।
2 वज्रतुण्दसमन्वित इति ट॰ ।
Image-P.145


कुष्ठाद्या व्याधयो ये तु नाशयेत्तान्न संशयः । 19ab
मध्यादिuत्तरान्तन्तु करालीबन्धनाज्जपेत् ॥ 19cd
रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः । 20ab
वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ॥ 20cd
सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे । 21ab
पूर्व्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ॥ 21cd
भूर्ज्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् । 22ab
क्रमस्थैर्म्मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ॥ 22cd
वेष्टिता भावहेम्ना च 1 रक्षेयं मृत्युनाशिनी । 23ab
विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ॥ 23cd
द्यूते रेणे च जयदा शक्रसैन्ये न संशयः । 24ab
बन्ध्यानां पुत्रदा ह्येषा चिन्तामणिरिवापरा ॥ 24cd
साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् । 25ab
फट् स्त्रीं क्षें हूं लक्षजप्याद्यक्षादिर्वशगो भवेत् ॥ 25cd


इत्याग्नेये महापुराणे त्वरिताविद्या नामैकादशाधिकत्रिशततमो ऽध्यायः ।

Chapter 312

अथ द्वादशाधिकत्रिशततमो ऽध्यायः ।

नानामन्त्राः ।
अग्निरुवाच ।
ओं विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् । 1ab
धर्म्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम् ॥ 1cd


1 तारहेम्ना चेति ख॰ ।
Image-P.146


केशरं त्रिगुनं पद्मं तीव्रञ्च ज्वलिनीं यजेत् । 2ab
नन्दाञ्च सुयशाञ्चोग्रां तेजोवतीं विन्ध्यवासिनीं 1 2cd
गणमूर्त्तिं गणपतिं हृदयं स्याद्गणं जयः । 3ab
एकदन्तोत्कटशिरःशिखायाचलकर्णिने ॥ 3cd
गजवक्त्राय कवचं हूं फडन्तं तथाष्टकं । 4ab
महोदरो दण्डहस्तः पूर्व्वादौ मध्यतो यजेत् ॥ 4cd
जयो गणाधिपो गणनायको ऽथ गणेश्वरः । 5ab
वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ॥ 5cd
वक्त्रो विकटाननो ऽथ हूं पूर्व्वो विघ्ननाशनः । 6ab
धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूजनम् ॥ 6cd
त्रिपुरापूजनं 2 वक्ष्ये असिताङ्गो रुरुस्तथा । 7ab
चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् ॥ 7cd
संहारो भैरवो ब्राह्मीर्मुख्या ह्रस्वास्तु भैरवाः । 8ab
ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् ॥ 8cd
समयपुत्रो वटुको योगिनीपुत्रकस्तथा । 9ab
सिद्धपुत्रश्च वटुकः कुलपुत्रश्चतुर्थकः ॥ 9cd
हेतुकः क्षेत्रपालश्च त्रिपुरान्तो द्वितीयकः । 10ab
अग्निवेतालो ऽग्निजिह्वः कराली काललोचनः ॥ 10cd
एकपादश्च भीमाक्ष ऐं क्षें प्रेतस्तयासनं । 11ab
ऐं ह्रीं द्वौश्च त्रिपुरा पद्मासनसमास्थिता ॥ 11cd
विभ्रत्यभयपुस्तञ्च वामे वरदमालिकाम् । 12ab


1 विवासिनीमिति ख॰ ।
2 त्रिपुरायजनमिति ख॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.147


मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् ॥ 12cd
गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः । 13ab
श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् ॥ 13cd
चिताङ्गारपिष्टकेन मूर्त्तिं ध्यात्वा तु तस्य च । 14ab
क्षिप्त्वोदरे नीलसूत्रैर्वेष्ट्य चोच्चाठनं भवेत् ॥ 14cd
ओं नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा ।
युद्धेगच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् । 15ab
ओं श्रीं ह्रीं क्लीं श्रियै नमः ।
उत्तरादौ च घृणिनी सूर्य्या पूज्या चतुर्द्दले ॥ 15cd
आदित्या प्रभावती च हेमाद्रिमधुराश्रयः । 16ab
ओं ह्रीं गौर्य्यै नमः ।
गौरीमन्त्रः सर्व्वकरः होमाद्ध्यानाज्जपार्च्चनात् ॥ 16cd
रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे । 17ab
अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान् ॥ 17cd
जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् । 18ab
क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः ॥ 18cd
अञ्जनं तिलकं वश्ये जिह्वाग्रे कविता भवेत् । 19ab
तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणम् ॥ 19cd
स्पर्शाद्वशी तिलहोमात्सर्व्वञ्चैव तु सिध्यति । 20ab
सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा ॥ 20cd
अर्द्धनारीशरूपो ऽयं लक्ष्म्यादिवैष्णवादिकः । 21ab
अनङ्गरूपा शक्तिश्च द्वितीया मदनातुरा ॥ 21cd
पवनवेगा भुवनपाला वै सर्व्वसिद्धिदा । 22ab
Image-P.148


अनङ्गमदनानङ्गमेखलान्ताञ्चपेच्छ्रिये ॥ 22cd
पद्ममध्यदलेषु ह्रीं स्वरान् कादींस्तितः स्त्रियाः । 23ab
षट्कोणे वा घटे वा ऽथ लिखित्वा स्याद्वशीकरं ॥ 23cd
ओं ह्रीं छं नित्यक्लिन्ने मदद्रवे ओं ओं ।
मूलमन्त्रः षडङ्गoयं रक्तवर्णे त्रिकोणके । 24ab
द्रावणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका ॥ 24cd
ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा । 25ab
कपालकल्पकतरुं वीणा रक्ता च तद्वती ॥ 25cd
नित्याभया मङ्गला च नववीरा च मङ्गला । 26ab
दुर्भगा मनोन्मनी पूज्या द्रावा पूर्व्वादितः स्थिता ॥ 26cd
ओं ह्रीं अनङ्गाय नमः ओं ह्रीं ह्रीं स्मराय नमः ।
मन्मथाय च माराय कामायैवञ्च पञ्चधा । 27ab
कामाः पाशाङ्कुशौ चापवाणाः ध्येयाश्च विभ्रतः ॥ 27cd
रतिश्च विरतिः प्रीतिर्विप्रीतिश्च मतिर्धृतिः । 28ab
विधृतिः पुष्टिरेभिश्च क्रमात् कामादिकैर्युताः । 28cd
ओं छं नित्यक्लिन्ने मदद्रवे ओं ओं । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छं नित्यक्लिन्ने मदद्रवे स्वाहा ।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु ॥ 28॥ 28ef
ओं ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट् स्वाहा ।


इत्याग्नेये महापुराणे नानामन्त्रा नाम द्वादशाधिकत्रिशततमो ऽध्यायः ॥
Image-P.149


Chapter 313

अथ त्रयोदशाधिकत्रिशततमो ऽध्यायः ।

त्वरिताज्ञानम् ।
अग्निरुवाच ।
ओं ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट् त्वरितायैनमः ।
त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां । 1ab
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ॥ 1cd
पूर्व्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया । 2ab
हुंकारां खेचरीं चण्डां छेदनीं क्षेपणीं स्त्रियाः ॥ 2cd
हुंकारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् । 3ab
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ॥ 3cd
लिलैहीमैश्च सर्व्वाप्त्यै नामव्याहृतिभिस्तथा । 4ab
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ॥ 4cd
स्वाहा वासुकिराजाय शङ्खपालाय वौषट् । 5ab
तक्षकाय वषन्नित्यं महापद्माय वै नमः ॥ 5cd
स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः । 6ab
लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर्न्नरः ॥ 6cd
वस्ते पटे तरौ भूर्ज्जे शिलायां यष्टिकासु च । 7ab
मध्ये कोष्ठे साध्यनाम पूर्व्वादौ पट्टिकासु च ॥ 7cd
ओं ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान् कालरात्रिकां ।
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः । 8ab
कालीनारवमाली कालीनामाक्षमालिनी ॥ 8cd
Image-P.150


मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा । 9ab
यमपाटटयामय मटमो टट मोटमा ॥ 9cd
वामो भूरिविभूमेया टट रीश्व श्वरी टट । 10ab
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं ॥ 10cd
कज्जलं निम्बनिर्य्यासमज्जासृग्विषसंयुतम् । 11ab
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ॥ 11cd
निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् । 12ab
विभीतद्रुमशास्वाधो यन्त्रं सर्व्वारिमर्द्दनम् ॥ 12cd
लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्ज्जके । 13ab
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ॥ 13cd
भुवि भित्तौ पूर्व्वदले 1 नाम मध्यमकोष्ठके । 14ab
खण्डे तु वारिमध्यस्थं ओं हंसो वापि पट्टिशम् ॥ 14cd
लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् । 15ab
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ॥ 15cd
माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया । 16ab
यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः ॥ 16cd
पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं । 17ab
शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् ॥ 17cd
रुद्रे रुद्रसमाः कार्य्याः कोष्ठकास्तत्र ता लिखेत् । 18ab
ओमाद्याह्रूंफडन्ता च आदिवर्णमथानुतः ॥ 18cd
विद्यावर्णक्रमेनेव संज्ञाञ्च वषडन्तिकां । 19ab


1 पूर्व्वपदे इति ञ॰ ।
Image-P.151


अधस्थात् प्रत्यङ्गिरैषा सर्व्वकामार्थसाधिका ॥ 19cd
एकाशीतिपदे सर्व्वामादिवर्णक्रमेण तु । 20ab
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ॥ 20cd
एषा प्रत्यङ्गिरा चान्या सर्व्वकार्य्यादिसाधनी । 21ab
निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर्लिखेत् ॥ 21cd
अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः । 22ab
फट्काराद्यां पत्रगतां त्रिह्रींकारेण वेष्टयेत् ॥ 22cd
कुम्भवद्धारिता सर्व्वशत्रुहृत् सर्व्वदायिका । 23ab
विषन्नश्येत् कर्णजपादक्षराद्यैश्च दण्डकैः ॥ 23cd


इत्याग्नेये महापुराणे त्वरिताज्ञानं नाम त्रयोदशाधिकत्रिशततमो ऽध्यायः ।

Chapter 314

अथ चतुर्दशाधिकत्रिशततमो ऽध्यायः ।

स्तम्भनादिमन्त्राः ।
अग्निरुवाच ।
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे । 1ab
विषव्याधिमरोगञ्च मारणं शमनं पुनः ॥ 1cd
भूर्ज्जे कूर्म्मं समालिख्य ताड़नेन षड़्ङ्गुलम् । 2ab
मुखपादचतुष्केषु ततो मन्त्रं न्यसेद्द्विजः ॥ 2cd
चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः । 3ab
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ॥ 3cd
Image-P.152


मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यसेत् । 4ab
विधाय कूर्म्मपृष्ठेन करालेनाभिसम्पठेत् ॥ 4cd
महाकूर्म्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् । 5ab
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ॥ 5cd
ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः । 6ab
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ॥ 6cd
ओं शत्रुसुखस्तम्भनी कामरूपा आलीढकरी
ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां मुखं स्तम्भय 2 मम सर्व्वविद्वेषिणां मुखस्तम्भनं कुरु 2 ओं हूं फें फेत्कारिणि स्वाहा ।
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं । 7ab
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ॥ 7cd
लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् । 8ab
ओं नमो भगवत्यै भगमालिनि विस्फुर 2 स्पन्द 2 नित्यक्लिन्ने द्रव 2 हूं सः क्रीं काराक्षरे स्वाहा ॥
एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् ॥ 8cd
ओं फें हूं फट् फेत्कारिणि ह्रीं ज्वल 2 त्रैलोक्यं मोहय 2 गुह्यकालिके स्वाहा ।
अनेन तिलकं कृत्वा राजादीनां वशीकरं । 9ab
गर्द्धभस्य रजो गृह्य कुसुमं सूतकस्य च ॥ 9cd
नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् । 10ab
गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा ॥ 10cd
शिरः सर्पस्य संक्षिप्तं हृहेषूच्चाटनं भवेत् । 11ab
Image-P.153


करवीरशिफा पीता ससिद्धार्था च मारणे ॥ 11cd
व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् । 12ab
सरटं षट्पदञ्चापि तथा कर्क्कटवृश्चिकम् ॥ 12cd
चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश्च कुष्ठकृत् । 13ab
ओं नवग्रहाय सर्व्वशत्रून् मम साधय 2 मारय 2 ओं सों मं वुं चुं ओं शं वां कें ओं स्वहा ।
अनेनार्क्कशतैरर्च्य श्मशाने तु निधापयेत् ॥ 13cd
भूर्ज्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः । 14ab
ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी । ओं वेताली कौमारी ओं काली वैष्णवी । ओं अघोरा वाराही । ओं वेताली इन्द्राणी उर्व्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम शत्रुं गृह्णत 2 ।
भूर्ज्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ॥ 14cd


इत्याग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम चतुर्द्दशाधिकत्रिशततमो ऽध्यायः ।

Chapter 315

अथ पञ्चदशाधिकत्रिशततमो ऽध्यायः ।

नानामन्त्राः ।
अग्निरुवाच ।
आदौ हूंकारसंयुक्ता खेचछे पदभूषिता । 1ab
वर्गातीतविसर्गेण स्त्रीं हूंक्षेपफड़न्तका ॥ 1cd
सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी । 2ab
Image-P.154


ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ॥ 2cd
ओं हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः । 3ab
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥ 3cd
खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत् 1 4ab
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः ॥ 4cd
खे स्त्रीं खे च प्रयोगो ऽयं वशाय विजयाय च । 5ab
ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ओं भं तं वशनमो अघोराय मुखे व्रां व्रीं किलि किलि विच्चा स्फ्रौं हे स्फ्रं श्रौं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता ।
भूयः स्कन्दाय यानाह मन्त्रानीशश्च तान् वदे ॥ 5cd


इत्याग्नेये महापुराणे नानामन्त्रा नाम पञ्चदशाधिकत्रिशततमो ऽध्यायः ।

Chapter 316

अथ षोड़शाधिकत्रिशततमो ऽध्यायः ।

सकलादिमन्त्रोद्धारः ।
ईश्वर उवाच ।
सकलं निष्कलं शून्यं कलाढ्यं स्वमलङ्कृतम् । 1ab
क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ॥ 1cd
प्रासादस्य 2 पराख्यस्य स्मृतं रूपं 3 गुहाष्टधा । 2ab


1 रिपुदुष्टादि वारयेदिति क॰ , ट॰ च ।
2 प्रसादस्येति ख॰ ।
3 स्मृतिरूपमिति ख॰ ।
Image-P.155


सदाशिवस्य शब्दस्य रूपस्याखिलसिद्धये ॥ 2cd
अमृतश्चांशुभांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः । 3ab
एकपादेन ओजाख्य औषधश्चांशुमान् वशी ॥ 3cd
अकारादेः क्षकारश्च ककारादेः क्रमादिमे । 4ab
कामदेवः शिखण्डी च गणेशः कालशङ्करौ ॥ 4cd
एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घबाहुकः 1 5ab
एकपादर्द्धचन्द्रश्च बलपो योगिनीप्रियः ॥ 5cd
शक्तीश्वरो महाग्रन्थिस्तर्पकः स्थाणुदन्तुरौ । 6ab
निधीशो नन्दी पद्मश्च तथान्यः शाकिनीप्रियः ॥ 6cd
सुखविम्बो भीषनश्च कृतान्तः प्राणसंज्ञकः । 7ab
तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च ॥ 7cd
शशाङ्को विश्वरूपश्च क्षश्च स्यान्नरसिंहकः । 8ab
सूर्य्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ॥ 8cd
अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् । 9ab
ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ॥ 9cd
तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा । 10ab
सप्तमं वामदेवन्तु सद्योजातन्ततःपरं ॥ 10cd
रसयुक्तन्तु नवमं ब्रह्मपञ्चपञ्चकमीरितम् । 11ab
ओंकाराद्याश्चतुर्थ्यन्ता नमोन्ताः सर्व्वमन्त्रकाः ॥ 11cd
सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् । 12ab
चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ॥ 12cd
ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता । 13ab


1 त्रिशिखी चोर्द्ध्ववाहुक इति ख॰ , छ॰ च ।
Image-P.156


तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ॥ 13cd
अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्यजः । 14ab
नमः स्वाहा तथा वौषट् हूं च फत्कक्रमेण तु ॥ 14cd
जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे 1 15ab
ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्जितम् ॥ 15cd
औषधाक्रान्तशिरसमूहकस्योपरिस्थितं । 16ab
अर्द्धचन्द्रोर्द्ध्वनादश्च विन्दुद्वितयमध्यगं ॥ 16cd
तदन्ते विश्वरूपन्तु कुटिलन्तु त्रिधा ततः । 17ab
एवं प्रासादमन्त्रश्च सर्व्वकर्म्मकरो मनुः ॥ 17cd
शिखावीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् । 18ab
अर्द्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ॥ 18cd
महापाशुपतास्त्रन्तु सर्व्वदुष्टप्रमर्द्दनम् । 19ab
प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ॥ 19cd
औषधं विश्वरूपन्तु रुद्राख्यं सूर्य्यमण्डलम् । 20ab
चन्द्रार्द्धं नादसंयोगं 2 विसंज्ञं कुटिलन्ततः ॥ 20cd
निष्कलो भुक्तिमुक्तौ स्यात्पञ्चाङ्गो ऽयं सदाशिवः । 21ab
अंशुमान् विश्वरूपञ्च आवृतं शून्यरञ्जितम् ॥ 21cd
ब्रह्माङ्गरहितः शून्यस्तस्य मूर्त्तिरसस्तरुः । 22ab
विघ्ननाशाय भवति पूजितो बालबालिशैः ॥ 22cd
अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् । 23ab
कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्व्वतः ॥ 23cd
नरसिंहं कृतान्तस्थं तेजस्विप्राणमूर्द्ध्वगम् । 24ab


1 मन्त्रमादरेदिति ञ॰ ।
2 चन्द्रार्द्धनादसंयुक्तमिति ख॰ ।
Image-P.157


अंशुमानूहकाक्रान्तमधोर्द्धं स्वसलङ्घृतम् ॥ 24cd
चन्द्रार्द्धनादनादान्तं ब्रह्मविष्णुविभूषित । 25ab
उदधिं नरसिंहञ्च सूर्य्यमात्राविभेदितम् ॥ 25cd
यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्व्ववत् । 26ab
ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् ॥ 26cd
अशुमच्चांशुनाक्रान्तं द्वितीयं वर्णनायकम् । 27ab
अंशुमानीश्वरन्तद्वत् तृतीयं मुक्तिदायकम् ॥ 27cd
ऊहकञ्चांशुनाक्रान्तं वरुणप्रानतैजसम् । 28ab
पञ्चमन्तु समाख्यातं कृतान्तन्तु ततः परम् ॥ 28cd
अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् । 29ab
पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ॥ 29cd
प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् । 30ab
अस्यार्द्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ॥ 30cd
सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् । 31ab
दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ॥ 31cd
नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा । 32ab
द्वितीयादष्टमं यावदष्टौ विद्येश्वरा मताः ॥ 32cd
अनन्तेशश्च सूक्ष्मश्च तृतीयश्च शिवोत्तमः । 33ab
एकमूर्येकरूपस्तु त्रिमूर्त्तिरपरस्तथा ॥ 33cd
श्रीकण्ठश्च शिखण्डी च अष्टौ विद्येश्वराः स्मृताः । 34ab
शिखण्डिनो ऽप्यनन्तान्तं मन्त्रान्तं मूर्त्तिरीरिता ॥ 34cd


इत्याग्नेये महापुराणे सकलादिमन्त्रोद्धारो नाम षोड़शाधिकत्रिशततमो ऽध्यायः ।
Image-P.158


Chapter 317

अथ सप्तदशाधिकत्रिशततमो ऽध्यायः ।

गणपूजा ।
इश्वर उवाच ।
विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् । 1ab
नरसिंहं ततो ऽधस्तात् कृतान्तं तदधो न्यसेत् ॥ 1cd
प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः । 2ab
अंशुमान् विश्वमूर्त्तिस्थं कण्ठोष्ठप्रणवादिकम् ॥ 2cd
नमो ऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् । 3ab
सूर्य्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत् 1 3cd
उद्धरेत् प्रणवं पूर्व्वं प्रस्फुरद्वयमुच्चरेत् । 4ab
घोरघोरतरं पश्चात् तत्र रूपमतः स्मरेत् ॥ 4cd
चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् । 5ab
दहेति च द्विधा कार्य्यं वमेति च द्विधा गतम् 2 5cd
घातयेति द्विधाकृत्य हूंफडन्तं समुच्चरेत् । 6ab
अघोरास्त्रन्तु नेत्रं स्याद् गायत्री चोच्यते ऽधुना ॥ 6cd
तन्महेशाय विद्महे महादेवाय धीमहि
तन्नः शिवः प्रचोदयात् गायत्री सर्वसाधनी ॥
यात्रायां विजयादौ च यजेत् पूर्वङ्गणं श्रिये । 7ab
तुर्य्यांशे तु पुरा क्षेत्रे समन्तादर्क्कभाजिते ॥ 7cd
चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् । 8ab


1 सर्व्वत इति ख॰ ।
2 द्विधाकृतमिति ख॰ ।
Image-P.159


तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक् ॥ 8cd
वसुदेवसुतैः साब्जैस्त्रिदलैः पादपट्टिका । 9ab
तदूर्द्ध्वे वेदिका देया भगमात्रप्रमाणतः ॥ 9cd
द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् । 10ab
द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम् ॥ 10cd
आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः । 11ab
सिता तु वीथिका कार्य्या द्वाराणि तु यथेच्छया ॥ 11cd
कर्णिका पीतवर्णा स्यात् केशराणि तथा पुनः । 12ab
मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत् ॥ 12cd
नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् । 13ab
शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमो ऽन्तकम् ॥ 13cd
गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् । 14ab
त्रिरावर्त्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम् ॥ 14cd
विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् । 15ab
लम्बोदरं महाभागं विकृतं पार्वतीप्रियम् ॥ 15cd
भयावहञ्च भद्रञ्च भगणं भयसूदनम् । 16ab
द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे ॥ 16cd
महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् । 17ab
उद्भटस्वानभश्चण्डौ महाशुण्डञ्च भीमकम् ॥ 17cd
मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् । 18ab
सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम् ॥ 18cd
लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा । 19ab
कृतान्तं कालदडञ्च यजेत् कुम्भञ्च पूर्व्ववत् ॥ 19cd
Image-P.160


श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः । 20ab
शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत् ॥ 20cd
पूर्णां दत्वा ऽभिषेकन्तु कुर्य्यात्सर्वन्तु सिध्यति । 21ab
भूगो ऽश्वगजवस्त्राद्यैर्गुरुपूजाञ्चरेन्नरः ॥ 21cd


इत्याग्नेये महापुराणे गणपूजा नाम सप्तदशाधिकत्रिशततमो ऽध्यायः ।

Chapter 318

अथाष्टादशाधिकत्रिशततमो ऽध्यायः ।

वागीश्वरीपूजा ।
ईश्वर उवाच ।
वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् । 1ab
ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम् 1 1cd
निषाद ईश्वरं कार्य्यं मनुना चन्द्रसूर्यवत् । 2ab
अक्षरन्न हि देयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां ॥ 2cd
पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् । 3ab
वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां ॥ 3cd
लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां । 4ab
अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत् ॥ 4cd
कुर्य्याद् गुरुश्च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् । 5ab
सूर्य्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं 2 5cd


1 चन्द्रमसायुतमिति ञ॰ ।
2 कृतमिति ख॰ ।
Image-P.161


वीथिका पदिका कर्य्या पद्मान्यष्टौ चतुष्पदे । 6ab
वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु ॥ 6cd
उपद्वाराणि तद्वच्च कोणबान्धं द्विपट्टिकम् 1 7ab
सितानि नव पद्मानि कर्णिका कनकप्रभा ॥ 7cd
केशराणि विचित्राणि कोणान्रक्तेन पूरयेत् । 8ab
व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः ॥ 8cd
मध्ये सरस्वतीं पद्मे वागीशी पूर्व्वपद्मके । 9ab
हृल्लेखा चित्रवागीशी गायत्री विश्वरूपया ॥ 9cd
शाङ्करी मतिर्धृतिश्च पूर्व्वाद्या ह्रीं स्ववीजकाः । 10ab
ध्येया सरस्वतीवच्च कपिलाज्येन होमकः । 10cd
संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत् ॥ 10॥ 10ef


इत्याग्नेये महापुराणे वागीश्वरीपूजा नामाष्टादशाधिकत्रिशततमो ऽध्यायः ।

Chapter 319

अथोनविंशत्यधिकत्रिशततमो ऽध्यायः ।

मण्डलानि ।
ईश्वरउवाच
सर्व्वतो भद्रकान्यष्टमण्डलानि वदे गुह । 1ab
शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः ॥ 1cd
चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः । 2ab
पूर्व्वापरायतं सूत्रमास्फाल्य मध्यतो ऽङ्कयेत् ॥ 2cd


1 द्विपर्णकमिति ख॰ ।
Image-P.162


कोटिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् । 3ab
मध्ये द्वयं प्रकर्त्तव्य स्फालयेद्दक्षिनोत्तरम् ॥ 3cd
शतक्षेत्रार्द्धमानेन कोणसम्पातमादिशेत् । 4ab
एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ॥ 4cd
जायते तत्र कर्त्तव्यं भद्रस्वेदकरं शुभम् । 5ab
वसुभक्तेन्दु द्विपदे क्षेत्रे वीथी च भागिका ॥ 5cd
द्वारं द्विपदिकं पद्ममानाद्धै सकपोलकम् । 6ab
कीणबन्धविचित्रन्तु द्विपदं तत्र वर्त्तयेत् ॥ 6cd
शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम् । 7ab
रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ॥ 7cd
रक्तकोणं विधौ नित्ये नैमित्तिक ऽब्जकं शृणु । 8ab
असंसक्तन्तु संसक्तं द्विधाब्जं भुक्तिमुक्तिकृत् ॥ 8cd
असंसक्तं मुमुक्षूणां संसक्तं तत्त्रिधा पृथक् । 9ab
बालो युवा च वृद्धश्च नामतः फलसिद्धिदाः ॥ 9cd
पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् । 10ab
वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ॥ 10cd
प्रथमे कर्णिका तत्र पुष्करैर्न्नवभिर्युता । 11ab
केशराणि चतुर्व्विंशद्वितीये ऽथ तृतीयके ॥ 11cd
दलसन्धिर्गजकुम्भ निभान्तर्यद्दलाग्रकम् । 12ab
पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ॥ 12cd
असंसक्ते दलाग्रे तु दिग्भागैर्विस्तराद्भजेत् । 13ab
भागद्वयपरित्यागाद्वस्वंशैर्वर्त्तयेद्दलम् ॥ 13cd
सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम् । 14ab
Image-P.163


सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ॥ 14cd
अथ वा सन्धिमध्यात्तु भ्रामयेदर्द्धचन्द्रवत् । 15ab
सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ॥ 15cd
सन्धिसूत्रार्द्धमानेन पृष्ठतः परिवर्त्तयेत् । 16ab
तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ॥ 16cd
भुक्तिवृद्धौ च वश्यादौ बालं पद्मं समानकं । 17ab
नवनाभं नवहस्तं भागैर्म्मन्त्रात्मकैश्च तत् ॥ 17cd
मध्ये ऽब्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः । 18ab
कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ॥ 18cd
पञ्चभागान्विता 1 सा तु समन्ताद्दशभागिका । 19ab
दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ॥ 19cd
तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता । 20ab
पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ॥ 20cd
कपोलं पदिकं कार्य्यं दिक्षु द्वारत्रयं स्पुटम् । 21ab
कोणबन्धं त्रिपत्तन्तु द्विपट्टं वज्रवद्भवेत् ॥ 21cd
मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् । 22ab
पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ॥ 22cd
पूर्व्वादौ कमलान्यष्ट शिवविष्ण्वादिकं जपेत् । 23ab
प्रासादमध्यतो ऽभ्यर्च्य शक्रादीनब्जकादिषु ॥ 23cd
अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेघभाक् । 24ab
पवित्रारोहणादौ च महामण्डलमालिखेत् ॥ 24cd
अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्त्तयेत् । 25ab


1 पञ्चभागमितेति ख॰ , छ॰ च ।
Image-P.164


द्विपदं कमलं मध्ये वीथिका पदिका ततः ॥ 25cd
दिग्विदिक्षु ततो ऽष्टौ च नीलाब्जानि विवर्त्तयेत् । 26ab
मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ॥ 26cd
दलसन्धिविहीनानि नीलेन्दीवरकानि च । 27ab
तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्द्ध्वतः ॥ 27cd
द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु । 28ab
वर्त्तयेत् स्वस्तिकांस्तत्र वीथिका पूर्व्ववद्वहिः ॥ 28cd
द्वाराणि कमलं यद्वदुपकण्ठयुतानि 1 तु । 29ab
रक्तं कोणं पीतवीथी नीलं पद्मञ्च मण्डले ॥ 29cd
स्वस्तिकादि विचित्रञ्च सर्व्वकामप्रदं गुह । 30ab
पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ॥ 30cd
द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् । 31ab
चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ॥ 31cd
कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः । 32ab
पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्व्वकम् ॥ 32cd
वैदूर्य्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् । 33ab
उत्तराब्जन्तु शङ्खाभमन्यत् सर्व्वं विचित्रकम् ॥ 33cd
सर्व्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् । 34ab
विकारभक्तन्तुर्य्याश्रं द्वारन्तु द्विपदं भवेत् ॥ 34cd
मध्ये पद्मं पूर्व्ववच्च विघ्नध्वंसं वदाम्यथ । 35ab
चतुर्हस्तं पुरं कृत्वा वृत्रञ्चैव करद्वयम् ॥ 35cd
वीथीका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता । 36ab


1 तद्वदुपकण्ठयुतानीति ख॰ , ञ॰ च ।
Image-P.165


हस्तमात्राणि द्वाराणि विक्षु वृत्तं सपद्मकम् ॥ 36cd
पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः । 37ab
हृदयादीनि पूर्व्वादौ विदिक्ष्वस्त्राणि वै यजेत् ॥ 37cd
प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे । 38ab
शतभागे तिथिभागे पद्मं लिङ्गाष्टकं दिशि ॥ 38cd
मेखलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् । 39ab
आचार्य्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ॥ 39cd
चतुःषट्पञ्चमाष्टादि खाछिखाद्यादि मण्डलम् । 40ab
खाक्षीन्दुसूर्य्यगं सर्व्वं खाक्षि चैवेन्दुवर्णनात् ॥ 40cd
चत्वारिंशदधिकानि चतुर्द्दशशतानि हि । 41ab
मण्डलानि हरेः शम्भोर्देव्याः सूर्य्यस्य सन्ति च ॥ 41cd
दशसप्तविभक्ते तु लतालिङ्गोद्भवं शृणु । 42ab
दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत् 1 42cd
ऊर्द्ध्वगे द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः । 43ab
मध्येन द्बिपदं पद्ममथ चैकञ्च पङ्कजं ॥ 43cd
लिङ्गस्य पार्श्वयोर्भद्रे पदद्वारमलोपनात् । 44ab
तत्पार्श्वशोभाः षड्लोप्य लताः शेषास्तथा हरेः ॥ 44cd
ऊर्द्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् । 45ab
रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ॥ 45cd
पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् । 46ab
द्वयं द्वयं रक्षयित्वा उपशोभास्तथाष्ट च ॥ 46cd
देव्यादिख्यापकं भद्रं वृहन्मध्ये परं लघु । 47ab


1 लोपयेदिति ञ॰ । लोपयेदिति ट॰ ।
Image-P.166


मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ॥ 47cd
त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्डलं । 48ab
शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ॥ 48cd


इत्याग्नेये महापुराणे मण्डलानि नामोनविंशत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 320

अथ विंशत्यधिकत्रिशततमो ऽध्यायः ।

अघीरास्त्रादिशान्तिकल्पः ।
ईश्वर उवाच ।
अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः । 1ab
मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ॥ 1cd
पञ्चचक्रं दशकरं रणादौ पूजितं जये । 2ab
ग्रहपूजा रविर्मध्ये पूर्व्वाद्याः सोमकादयः ॥ 2cd
सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् । 3ab
अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ॥ 3cd
ग्रहरोगादिशमनीं मारीशत्रुविमर्द्दनीं । 4ab
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ॥ 4cd
लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमनम् । 5ab
दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ॥ 5cd
घृतेन लक्षपातेन उत्पाते भुमिजे हितम् । 6ab
घृतगुग्गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ॥ 6cd
Image-P.167


दूर्वाक्षताज्यहोमेन व्याधयो ऽथ घृतेन च । 7ab
सहस्रेण तु दुःखस्वप्ना विनशन्ति न संशयः ॥ 7cd
अयुताद् ग्रहदोषघ्नो जवाघृतविमिश्रितात् । 8ab
विनायकार्त्तिशमनमयुतेन घृतस्य च ॥ 8cd
भूतवेदालशान्तिस्तु गुग्गुलोरयुतेन च । 9ab
महावृक्षस्य भङ्गेतु व्यालकङ्के 1 गृहे स्थिते ॥ 9cd
आरण्यानां प्रवेशे दूर्वाज्याक्षतहावनात् । 10ab
उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ॥ 10cd
रक्तस्रावे तु वृक्षाणामयुताद् गुग्गुलोः शिवं । 11ab
अकाले फलपुष्पाणां राष्ट्रभङ्गे च मारणे ॥ 11cd
द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः । 12ab
हस्तिमारीप्रशान्त्यर्थं करिणीदन्तवर्द्धने ॥ 12cd
हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते । 13ab
अकाले गर्भपाते तु जातं यत्र विनश्यति ॥ 13cd
विकृता यत्र जायन्ते यात्राकाले ऽयुतं हुनेत् । 14ab
तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ॥ 14cd
मध्यमायां तदर्द्धेन तत्पादादधमासु च । 15ab
यथा जपस्तथा होमः संग्रामे विजयो भवेत् । 15cd
अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्ज्जितम् ॥ 15॥ 15ef


इत्याग्नेये महापुराणे अघोरास्त्रादिशान्तिकल्पे नाम विंशत्यधिकत्रिशततमो ऽध्यायः ॥


1 व्यालकाके इति ख॰ ।
Image-P.168


Chapter 321

अथैकविंशत्यधिकत्रिशततमो ऽध्यायः ।

पाशुपतशान्तिः ।
ईश्वर उवाच ।
वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्व्वतः । 1ab
पादतः पूर्व्वनाशो हि फडन्तं चापदादिनुत् ॥ 1cd
ओं नमो भगवते महापाशुपताय अतुलबलवीर्य्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय सर्व्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तरताय सर्व्वसिद्धिप्रदाय भक्तानुकम्पिने असंख्यवक्त्रभुजपादाय तस्मिन्सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्य्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय सर्व्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ओं कृष्णपिङ्गलाय फट् । हूंकारास्त्राय फट् । वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । वारुणाय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुवेराय फट् । त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डास्त्राय फट् । कङ्कालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकास्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् । पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । मूर्व्वास्त्राय फट् । दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् । शाकिन्यस्त्राय
Image-P.169


फट् । योगिन्यस्त्राय फट् । दण्डास्त्राय फट् । सहादण्डास्त्राय फट् । नानास्त्राय फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय फट् । सद्योजातास्त्राय फट् । हृदयास्त्राय फट् । महास्त्राय फट् । गुरुड़ास्त्राय फट् । राक्षसास्त्राय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् । त्वष्ट्रस्त्राय फट् । सर्व्वास्त्राय फट् । नः फट् । वः फट् । पः फट् । फः फट् । मः फट् । श्री फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः फट् । महः फत् । जनः फट् । तपः फट् । सर्व्वलोक फट् । सर्व्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाड़ी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीं फट् । श्रीं फट् । हूं फट् । स्त्रुं फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूंकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेश्वरास्त्राय फट् । ख्रों ख्रौं फट् । ह्रौं ह्रों फट् । भ्रामय 2 फट् । छादय 2 फट् । उन्मूलय 2 फट् । त्रासय 2 फट् । सञ्जीवय 2 फट् । विद्रावय 2 फट् । सर्व्वदुरितं नाशय 2 फट् ॥
सकृदावर्त्तनादेव सर्वविघ्नान् विनाशयेत् । 2ab
शतावर्त्तेन चोत्पातान्रणादौ विजयो भवेत् ॥ 2cd
घृतगुग्गुलुहोमाच्च असाध्यानपि 1 साधयेत् । 3ab
पठनात्सर्वशान्तिः स्यच्छस्त्रपाशुपतस्य च ॥ 3cd


इत्याग्नेये महापुराणे पाशुपतशान्तिर्नामैकविंशत्यधिकत्रिशततमो ऽध्यायः ।


1 असाध्यमपीति ख॰ ।
Image-P.170


Chapter 322

अथ द्वाविंशत्यधिकत्रिशततमो ऽध्यायः ।

षड़ङ्गान्यघोरास्त्राणि ।
ईश्वर उवाच ।
ओं ह्रूं हंसइति मन्त्रेण मृत्युरोगादि शास्यति । 1ab
लक्षाहुतिभिर्दूर्व्वाभिः शान्तिं पुष्टिं प्रसाधयेत् ॥ 1cd
अथ वा प्रणवेनैव मायया वा षड़ानन । 2ab
दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके ॥ 2cd
ओं नमो भगवति गन्ङे कालि 2 महाकालि 2 मांसशोणितभोजने रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ॥
ओं लक्षं जप्त्वा दशांशेन हुत्वा स्यात् सर्वकर्म्मकृत् । 3ab
वशं नयति शक्रादीन्मानुषेष्वेषु का कथा ॥ 3cd
अन्तर्द्धानकरी विद्या मोहनी जृम्भनी तथा । 4ab
वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी ॥ 4cd
कामधेनुरियं विद्या सप्तधा परिकीर्त्तिता । 5ab
मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् ॥ 5cd
महाभयेषु सर्व्वेषु स्मर्त्तव्यं हरपूजितं । 6ab
लक्षं जप्त्वा तिलैर्होमः सिद्ध्येदुद्धारकं शृणु ॥ 6cd
ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां वाचेश्वराय स्वाहा ॥
दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता । 7ab
ओं चण्डकपालिनि दन्तान् किटि 2 क्षिटि 2 गुह्ये फट् ह्रीं ।
अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् ॥ 7cd
Image-P.171


त्रिंशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् । 8ab
दन्तैश्चूर्णानि शुक्लानि पतितानि हि शुद्धये ॥ 8cd
ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर 2 दर 2 भ्रम 2 आकट्ट 2 तोटय 2 मोटय 2 दह 2 पच 2 एवं सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गलोकं देवलोकं वा आरामविहाराचलं तथापि तमावर्त्तयिष्यामि वलिं गृह्ण 2 ददामि ते स्वहेति ।
क्षेत्रपालबलिं दत्वा ग्रहो न्यासाध्रदं व्रजेत् । 9ab
शत्रवो नाशमायान्ति रणे वैरगणक्षयः ॥ 9cd
हंसबीजन्तु विन्यस्य विषन्तु 1 त्रिविधं हरेत् । 10ab
अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् ॥ 10cd
नखं वै देवदारुञ्च समं कृत्वाथ दूपकः । 11ab
माक्षिकेन समायुक्तो देहवस्त्रादिधूपनात् ॥ 11cd
विवादे मोहने स्त्रीणां भण्डने कलहे शुभः । 12ab
कन्याया वरणे भाग्येमायामन्त्रेण मन्त्रितः ॥ 12cd
ह्रीं रोचनानागपुष्पाणि कुङ्कुमञ्च महःशिला । 13ab
ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् ॥ 13cd
शतावर्य्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् । 14ab
नागकेशरचूर्णन्तु घृतपक्वन्तु पुत्रकृत् ॥ 14cd
पालाशवीजपानेन लमेत पुत्रकन्तथा । 15ab
ओं उत्तिष्ठ चामुण्डे जम्भय 2 मोहय 2 अमुकं वशमानय 2 स्वाहा ।


1 निघ्नन्त्विति ख॰ , छ॰ च ।
Image-P.172


षड्विंशा सिद्धविद्या सा नदीतीरमृदा स्त्रियम् ॥ 15cd
कृत्वोन्मत्तरसेनैव नामालिख्यार्कपत्रके । 16ab
मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानयेत्स्त्रियम् ॥ 16cd
ओं क्षुंसः वषट् ।
महामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् । 17ab
ओं हंसः ह्रूं हूं स ह्रः सौंः ।
मृतसञ्जीवनी विद्यां अष्टार्णा जयकृद्रणे ॥ 17cd
मन्त्रा ईशानमुख्याश्च धर्म्मकामादिदायकाः । 18ab
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ॥ 18cd
ब्रह्मणश्चाधिपतिर्ब्रह्म शिवो मे ऽस्तु सदाशिवः । 19ab
ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
ओं अघोरेभ्यो ऽथ घोरेभ्यो धोरहरेभ्यस्तु सर्वतः ॥ 19cd
सर्व्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ओं वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः । सर्व्वभूतदमनाय नमो मनोन्मानाय नमः ।
ओं सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः । 20ab
भवे भवे ऽनादिभवे भजस्व मां भवोद्भव ॥ 20cd
पञ्चब्रह्माङ्गषट्कञ्च 1 वक्ष्ये ऽहं भुक्तिमुक्तिदं । 21ab
ओं नमः परमात्मने पराय कामदाय परमेश्वराय योगाय योगसम्भवाय सर्व्वकराय कुरु 2 सत्य 2 भव 2 भवोद्भव वामदेव सर्व्वकार्य्यकर पापप्रशमन सदाशिव प्रसन्न नमो ऽस्तु ते स्वाहा ॥


1 पञ्चब्रह्माङ्गफट्कारमिति ञ॰ ।
Image-P.173


हृदयं सर्व्वार्थदन्तु सप्तत्यक्षरसंयुतं । 21cd
ओं शिवः शिवाय नमः शिवः । ओं हृदये ज्वालिनि स्वाहा शिखा । ओं शिवात्मक महातेजः सर्व्वज्ञ प्रभुरावर्त्तय महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं बन्ध 2 घूर्णय 2 चूर्णय 2 सूक्ष्मवज्रधर वज्रपाश धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्व्वदुष्टान् स्तम्भय 2 हूं ।
अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम् ॥ 21॥ 21ef
ओं ओजसे नेत्रं ओं प्रस्फुर 2 तनुरूप 2 चट 2 प्रचट 2 कट 2 वम 2 घातय 2 हूं फट् अघोरास्त्रम् ॥


इत्याग्नेये महापुराणे षडङ्गान्यघोरस्त्राणि नाम द्वाविंशत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 323

अथ त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः ।

रुद्रशान्तिः ।
ईश्वर उवाच ।
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्व्वकम् । 1ab
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः 1 1cd
उत्तमाधमसिद्धीणामालयो ऽखिलरोगनुत् । 2ab
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्द्दनः ॥ 2cd
विषग्रहपिशाचानां ग्रसनः सर्व्वकामकृत् । 3ab
प्रायश्चित्तमघौघार्त्तौ दौर्भाग्यार्त्तिविनाशनम् ॥ 3cd
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा । 4ab


1 ब्रह्महत्यादिमर्द्दन इति ख॰ ।
Image-P.174


शान्तिके पौष्टिके शुक्लो रक्तो वश्ये ऽथ पीतकः ॥ 4cd
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः । 5ab
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्च्चयेत् ॥ 5cd
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्य्याद्दशांशतः । 6ab
गुग्गुलामृतयुक्तेन सिद्धो ऽसिद्धो ऽथ सर्व्वकृत् ॥ 6cd
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् । 7ab
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥ 7cd
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ । 8ab
जपहोमार्च्चनाद्युद्धे शत्रुसैन्यं विमर्द्दयेत् ॥ 8cd
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्व्वार्थसाधनीं । 9ab
पुत्रार्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥ 9cd
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च । 10ab
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥ 10cd
अकालफलिते वृक्षे सर्व्वग्रहविमर्द्दने । 11ab
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥ 11cd
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् । 12ab
चकारद्वितयस्थाने 1 जातियोगन्तु कारयेत् ॥ 12cd
ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय ।
विकृतौ 2 चापरे काले अप्सु माया च नैरिqते । 13ab


1 दकारद्वितयस्थान इति ञ॰ । उकारद्वितयस्थान इति ट॰ ।
2 नियताविति ञ॰ , ट॰ च ।
Image-P.175


एकपिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः । मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आर्द्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय । द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद् दक्षिणे दले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय षड़्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे षट् पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु 2 रुहिणि 2 रुद्रोसि देवानां देवदेवविशाख हन 2 दह 2 पच 2 मथ 2 तुरु 2 अरु 2 सुरु 2 1 रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्द्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्व्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यापिन प्रथम तेजस्तेजः मायातत्त्वे नैरृते कालतत्त्वे


1 सूरु 2 इति ञ॰ ।
Image-P.176


ऽथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन् महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च 2 प्रमथ 2 ओं सर्व 2 ओं भव 2 ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रे ऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन 2 तुरु 2 पतङ्ग पिङ्ग 2 ज्ञान 2 शब्द 2 सूक्ष्म 2 शिव 2 सर्वप्रद 2 ओं नमः शिवाय ओं नमो नमः शिवाय ओं नमो नमः ।
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् । 13cd
ग्रहरोगादिमायार्त्तिशमनी सर्वसिद्धिकृत् ॥ 13॥ 13ef


इत्याग्नेये महापुराणे रुद्रशान्तिर्नाम त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 324

अथ चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः ।

अंशकादिः ।
ईश्वर उवाच ।
रुद्राक्षकटकं धार्य्यं विषमं सुसमं दृड़म् । 1ab
एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ॥ 1cd
द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं । 2ab
दक्षवाहौ शिखादौ च धारयेच्चतुराननं ॥ 2cd
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् । 3ab
हैमी वा मुद्रिका धार्य्या 1 शिवमन्त्रेण चार्च्च्य तु ॥ 3cd


1 कार्य्येति ख॰ ।
Image-P.177


शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः । 4ab
गोचरन्तु कुलं ज्ञेयं तेन लक्ष्यस्तु दीक्षितः ॥ 4cd
प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे । 5ab
कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ॥ 5cd
धृतराष्ट्रा वकाः काका गोपाला ज्योतिसंज्ञके । 6ab
कुटिका साठराश्चैव गुटिका दण्डिनो ऽपरे ॥ 6cd
सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः । 7ab
सिद्धाद्यंशकमाख्यास्ये येन मन्त्रः सुसिद्धिदः ॥ 7cd
भूमौ तु मातृका लेख्याः कूटषण्डाववर्ज्जिताः । 8ab
मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ॥ 8cd
साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् । 9ab
मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ॥ 9cd
सिद्धः साध्यः सुशिद्धो ऽरिः संज्ञातो गणयेत् क्रमात् । 10ab
मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ॥ 10cd
सिद्धादिश्चान्तसिद्धश्च तत्क्षणादेव सिध्यति । 11ab
सुसिद्धादिः सुसिद्धन्तः सिद्धवत् परिकल्पयेत् ॥ 11cd
अरिमादौ तथान्ते च दूरतः परिवर्ज्जयेत् । 12ab
सिद्धः सुसिद्धश्चैकार्थे अरिः साध्यस्तथैव च ॥ 12cd
आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि । 13ab
मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ॥ 13cd
मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके । 14ab
ब्रह्मांशको ब्रह्मविद्या विष्ण्वङ्गो 1 वैष्णवः स्मृतः ॥ 14cd


1 विष्ण्वंश इति ञ॰ ।
Image-P.178


रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः । 15ab
नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ॥ 15cd
गन्धर्व्वांशो ऽतिगीतादि भीमांशो राक्षसांशकः । 16ab
दैत्यांशः स्याद् युद्धकार्य्यो मानी विद्याधरांशकः ॥ 16cd
पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च । 17ab
मन्त्र एकात् फड़न्तः स्यात् विद्यापञ्चाशतावधि ॥ 17cd
बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा । 18ab
तत ऊर्द्ध्वन्तु ये मन्त्रा वृद्धा यावच्छतत्रयं ॥ 18cd
अकारादिहकारन्ताः क्रमात् पक्षौ सितासितौ । 19ab
अनुस्वारविसर्गेण विना चैव स्वरा दश ॥ 19cd
ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपम्मुखाः । 20ab
उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ॥ 20cd
भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भने ऽस्तकम् । 21ab
इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम् 1 21cd
मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् । 22ab
अधरस्य गृहे पृथ्वी ऊर्द्ध्वे तेजो ऽन्तरा द्रवः ॥ 22cd
रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः । 23ab
स्तम्भनं पार्थिवे शान्तिर्ज्जले वश्यादि तेजसे । 23cd
वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत् ॥ 23॥ 23ef


इत्याग्नेये महापुराणे अंशकादिर्नाम चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः ।


1 कर्षकादिकमिति ख॰ , छ॰ च ।
Image-P.179


Chapter 325

अथ पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः ।

गौर्य्यादिपूजा ।
ईश्वर उवाच ।
सौभाग्यादेरुमापूजां वक्ष्ये ऽहं भुक्तिमुक्तिदां । 1ab
मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम् ॥ 1cd
चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् । 2ab
इडाद्यं परतोद्वृत्य सदेवः सविकारणम् ॥ 2cd
द्वितीयं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं । 3ab
चतुर्थ्यन्तं प्रकर्त्तव्यं गौय्या वै मूलवाचकं ॥ 3cd
ओं ह्रीं सः शौं गौर्य्यै नमः ।
तत्रार्णत्रितयेनैव जातियुक्तं षड़ङ्गुलम् । 4ab
आसनं प्रणवेणैव मूर्त्तिं वै हृदयेन तु ॥ 4cd
उदकञ्च तथा कालं शिववीजं समुद्धरेत् । 5ab
प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् ॥ 5cd
आसनं प्रणवेनात्र मूर्तिन्यासं हृदाचरेत् । 6ab
यामलं कथितं वत्स एकवीरं वदाम्य ऽथ ॥ 6cd
व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः । 7ab
शिवशक्तिमयं वीजं हृदयादिविवर्ज्जितं ॥ 7cd
गौरीं यजेद्धेमरूप्यां काष्ठजां शैलजादिकां । 8ab
पञ्चपिण्डां तथा ऽव्यक्तां कोणे मध्ये तु पञ्चमं 1 8cd
ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् । 9ab


1 पञ्चमी इति ञ॰ ।
Image-P.180


वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्व्वादितो यजेत् ॥ 9cd
सपीठे वामभागे तु शिवस्याव्यक्तरूपकम् । 10ab
व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता ॥ 10cd
पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा । 11ab
सिंहस्था वा वृकस्था 1 वा अष्टाष्टादशसत्करा ॥ 11cd
स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका । 12ab
शरं धनुर्व्वा सव्येन पाणिनान्यतमं वहत् ॥ 12cd
वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् । 13ab
गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात् ॥ 13cd
व्यक्ताव्यक्ता ऽथवा कार्य्या पद्ममुद्रा स्मृतासने । 14ab
तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः ॥ 14cd
शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं । 15ab
चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये ॥ 15cd
त्र्यश्रोर्द्धे चार्द्धचन्द्रस्तु द्विपदं द्विगुणं क्रमात् । 16ab
द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः ॥ 16cd
द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् । 17ab
स्थण्डिले वाथ संस्याप्य पञ्चगव्यामृतादिना ॥ 17cd
रक्तपुष्पाणि देयानि पूजयित्वा ह्युदङ्मुखः । 18ab
शतं हुत्वामृताज्यञ्च पूर्णादः सर्व्वसिद्धिभाक् ॥ 18cd
बलिन्दत्वा कुमारीश्च तिस्रो वा चाष्ट भोजयेत् 2 19ab
नैवेद्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत् ॥ 19cd


1 सिंहस्थावाह्यसिंहस्थेति ख॰ , छ॰ , ञ॰ , ट॰ च ।
2 स्त्रियो वाष्ट च भोजयेदिति ख॰ , छ॰ च ।
Image-P.181


कन्यार्थौ लभते कन्यां अपुत्रः पुत्रमाप्नुयात् । 20ab
दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे ॥ 20cd
अष्टलक्षैश्च वाक्सिद्धिर्देवाद्या वशमाप्नुयुः । 21ab
न निवेद्य न चास्नीयाद्वामहस्तेन चार्च्चयेत् ॥ 21cd
अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः । 22ab
मृत्युञ्चयार्च्चनं वक्ष्ये पूजयेत् कलसोदरे ॥ 22cd
हूयमानञ्च प्रणवो मूर्त्तिरोजस ईदृशं । 23ab
मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् ॥ 23cd
होमयेत् क्षीरदुर्वाज्यममृताञ्च पुनर्नवाम् । 24ab
पायसञ्च पुराडाशमयुतन्तु जपेन्मनुं ॥ 24cd
चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् । 25ab
वरदाभयकं द्वाभ्यां स्नायाद्वैकुम्भमुद्रया ॥ 25cd
आरोग्यैश्चर्य्यदीर्घायुरौषधं मन्त्रितं शुभम् । 26ab
अपमृत्युहरो ध्यातः पूजितो ऽद्भुत एव सः ॥ 26cd


इत्याग्नेये महापुराणे गौर्य्यादिपूजा नाम पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 326

अथ षड्विंशत्यधिकत्रिशततमो ऽध्यायः ।

देवालयमाहात्म्यम् ।
ईश्वरउवाच ।
व्रतेश्वरांश्च सत्यादीनिष्ट्वा व्रतसमर्पणम् । 1ab
अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ॥ 1cd
Image-P.182


हेमरत्नमयं भूत्यै महाशङ्खञ्च मारणे । 2ab
आप्यायने शङ्खसूत्रं मौक्तिकं पुत्रवर्द्धनम् ॥ 2cd
स्फाटिकं भूतिदं कौशं मुक्तिदं 1 रुद्रनेत्रजं । 3ab
धाधीफलप्रमाणेन रुद्राक्षं चोत्तमन्ततः ॥ 3cd
समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् । 4ab
अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ॥ 4cd
तर्ज्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घ्येज्जपे । 5ab
प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ॥ 5cd
सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् । 6ab
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥ 6cd
वेस्मायतनलिङ्गादेः कार्य्यमेवं विशोधनम् । 7ab
स्कन्दो नमः शिवायेति मन्त्रः सर्व्वार्थसाधकः ॥ 7cd
गीतः पञ्चाक्षरो वेदे लोके गीतः षड़क्षरः । 8ab
ओमित्यन्ते स्थितः शम्भुर्म्मुद्रार्थं वटवीजवत् ॥ 8cd
क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः । 9ab
षड़क्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ॥ 9cd
यदोंनमः शिवायेति एतावत् परमं पदम् । 10ab
अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः ॥ 10cd
अनुग्रहाय लोकानां धर्म्मकामार्थमुक्तिदः । 11ab
यो न पूजयते लिङ्गन्न स धर्म्मादिभाजनं ॥ 11cd
लिङ्गार्च्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् । 12ab
वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ॥ 12cd


1 भक्तिदमिति ख॰ ।
Image-P.183


रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् । 13ab
सूर्य्यः स्यात् सुर्य्यपूजातः शक्त्यादिः शक्तिपूजनात् ॥ 13cd
सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं । 14ab
तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥ 14cd
त्रिसन्ध्यं योर्च्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् । 15ab
शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक् ॥ 15cd
भक्त्या वित्तानुसारेण कुर्य्यात् प्रासादसञ्चयम् । 16ab
अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः ॥ 16cd
भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च । 17ab
धनस्य भागमेकन्तु 1 अनित्यं जीवितं यतः ॥ 17cd
त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थभाक् । 18ab
मृत्काष्ठेष्टकशैलाद्यैः क्रमात् कोटिगुणं फलम् ॥ 18cd
अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् । 19ab
पांशुना क्रीडमानोपि देवागारकृदर्थभाक् ॥ 19cd


इत्याग्नेये महापुराणे देवालयमाहत्म्यादिर्नाम षड़्विंशत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 327

अथ सप्तविंशत्यधिकत्रिशततमो ऽध्यायः ।

छन्दःसारः ।
अग्निरुवाच ।
छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् । 1ab
सर्व्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ॥ 1cd


1 धनस्यान्नाथमेकन्त्विति ख॰ ।
Image-P.184


ह्रस्वो गुरुर्व्वा पादान्ते पूर्व्वो योगाद् विसर्गतः । 2ab
अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस्तथा ॥ 2cd
उपाध्मानीयतो दीर्घो गुरुर्ग्लौ नौ गणाविह । 3ab
वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ॥ 3cd


इत्याग्नेये महापुराणे छन्दःसारो नाम सप्तविंशत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 328

अथाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः ।

छन्दःसारः ।
अग्निरुवाच ।
छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् । 1ab
पञ्चदशाक्षरी सा स्यात् प्राजापत्याष्टविर्णिका ॥ 1cd
यजुषां षड़र्णा गायत्री साम्नां स्याद्द्वादशाक्षरा । 2ab
ऋचामष्टादशार्णा स्यात्साम्नां वर्द्धेत च द्वयं ॥ 2cd
ऋचां तुर्य्यञ्च वर्द्धेत प्राजापत्याचतुष्टयं । 3ab
वर्द्धेदेकैककं शेषे आतुर्य्यादेक्रमुत्सृजेत् ॥ 3cd
उष्णिगनुष्टुब् वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि । 4ab
तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः ॥ 4cd
तिस्रस्तिस्रः समान्यः स्युरेकैका आर्य्य एव च । 5ab
ऋग्यजुषां संज्ञाः स्युश्चतुःषष्टिपदे लिखेत् ॥ 5cd


इत्याग्नेये महापुराणे छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः ।
Image-P.185


Chapter 329

अथोनत्रिंशदधिकत्रिशततमो ऽध्यायः ।

छन्दःसारः ।
अग्निरुवाच ।
पाद आपदपूरणे गायत्र्यो वसवः स्मृताः । 1ab
जगत्या आदित्याः पादो विराजो दिश ईरिताः ॥ 1cd
विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं । 2ab
आद्यं चतुष्पाच्चतुर्भिस्त्रिपात् सप्ताक्षरैः क्वचित् ॥ 2cd
सा गायत्री पदे नीवृत् तत्प्रतिष्ठादि षट् त्रिपात् । 3ab
बर्धमाना षड़ष्टाष्टा त्रिपात् षड़्वसुभूधरैः ॥ 3cd
गायत्री त्रिपदा नीवृत् नागी नवनवर्त्तुभिः । 4ab
वाराही रसद्विरसा छन्दश्चाथ तृतीयकम् ॥ 4cd
द्विपाद् द्द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टुभैः स्मृतम् । 5ab
उष्णिक् छन्दो ऽष्टवसुकैः पादैर्वेदे प्रकीर्त्तितः ॥ 5cd
ककुबुष्णिगष्टसूर्य्यवस्वर्णां त्रिभिरेव सः । 6ab
पुनरुष्णिक् सूर्य्यवसुवस्वर्णैश्च त्रिपाद्भवेत् ॥ 6cd
परोष्णिक् परतस्तस्माच्चतुष्पादात् त्रिभिर्भवेत् । 7ab
साष्टाक्षरैरनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्वचित् ॥ 7cd
अष्टार्कसूर्य्यवर्णैः स्यात् मध्ये ऽन्ते च क्वचिद्भवेत् । 8ab
वृहतीजगत्यस्त्रयो गायत्र्याः पूर्व्वको यदि ॥ 8cd
तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी । 9ab
स्कन्धौ ग्रीवा क्रौष्टुके स्याद् यक्षे स्यद्वो वृहत्यपि ॥ 9cd
Image-P.186


उपरिष्टाद्वृहत्यन्ते पुरस्ताद्वृहती पुनः । 10ab
क्वचिन्नवकाश्चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ॥ 10cd
महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यपि । 11ab
भण्डिलः पङ्क्तिच्छन्दः स्यात् सूर्य्यार्काष्टाष्टवर्णकैः ॥ 11cd
पूर्व्वौ वेदयुजौ सतः पङ्क्तिश्च विपरीतकौ । 12ab
प्रस्तारपङ्क्तिः पुरतः पवादास्तारपङ्क्तिका ॥ 12cd
अक्षरपङ्क्तिः पञ्चकाश्चत्वारश्चाल्पशो द्वयं । 13ab
पदपङ्क्तिः पञ्च भवेच्चतुष्कं षट्ककत्रयम् ॥ 13cd
षट्कपञ्चभिर्गायत्रैः षड़्भिश्च जगती भवेत् । 14ab
एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतीरिता ॥ 14cd
पुरस्ताज्ज्योतिः प्रथमे मध्ये ज्योतिश्च मध्यतः । 15ab
उपरिष्टाज्ज्योतिरन्त्यादेकस्मिन् पञ्चके तथा ॥ 15cd
भवेच्छन्दः शङ्कुमती षट्के छन्दः ककुद्मती । 16ab
त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा 1 16cd
विपरीता यवमध्या त्रिवृदेकेन वर्जिता । 17ab
भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ॥ 17cd
स्वराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः । 18ab
आदिपादान्निश्चयः स्याच्छन्दसां देवता क्रमात् ॥ 18cd
अग्निः सूर्य्यः शशी जीवो वरुणश्चन्द्र एव च । 19ab
विश्वेदेवाश्च षड़्जाद्याः स्वराः षड़्जो वृषः क्रमात् ॥ 19cd
गान्धारो मध्यमश्चैव पञ्चमो धैवतस्तथा । 20ab
निषादवर्णाः श्वेतश्च सारङ्गश्च पिसङ्गकः ॥ 20cd


1 सपिपीलिकमध्यगेति ख॰ ।
Image-P.187


कृष्णो नीलो लोहितश्च गौरी गायत्रिमुख्यके । 21ab
गौरीचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ॥ 21cd
अग्निर्वैश्यः काश्यपश्च गौतमाङ्गिरसौ क्रमात् । 22ab
भार्गवः कौशिकश्चैव वाशिष्टो गोत्रमीरितं ॥ 22cd


इत्याग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमो ऽध्यायः ॥

Chapter 330

अथ त्रिंशदधिकत्रिशततमो ऽध्यायः ।

छन्दोजातिनिरूपणम् ।
अग्निरुवाच ।
चतुःशतमुत्कृतिः स्यादुकृतेश्चतुरस्त्यजेत् । 1ab
अभिसंव्या प्रत्यकृतिस्तानि छन्दांशि वै पृथक् ॥ 1cd
कृतिश्चातिधृतिवृत्तो 1 अत्यष्टिश्चाष्टिरित्यतः । 2ab
अतिशर्क्करी शक्करीति अतिजगती जगत्यपि ॥ 2cd
छन्दो ऽत्र लौकिकं स्याच्च आर्षमात्रैष्टुभात् स्मृतम् । 3ab
त्रिष्टुप्पङ्क्तिवृहती अनुष्टुवुष्णिगीरितम् ॥ 3cd
गायत्री स्यात् सुप्रतिष्टा प्रतिष्ठा मध्यया सह । 4ab
अत्युक्तात्युक्त आदिश्च एकैकाक्षरवर्जितम् ॥ 4cd
चतुर्भागो भवेत् पादो गणच्छन्दः प्रदर्श्यते । 5ab
तावन्तः समुद्रा गणा ह्यादिमध्यान्तसर्वगाः ॥ 5cd


1 कृतिश्चानिधृतिर्वृत्तीति ञ॰ , ट॰ च ।
Image-P.188


चतुर्णः पञ्च च गणा आर्य्यालक्षनमुच्यते । 6ab
स्वरार्द्धञ्चार्य्यार्द्धं स्यादार्य्यायां विषमेन जः ॥ 6cd
षष्ठो जो नलपूर्वा स्याद्द्वितीयादिपदं नले । 7ab
सप्तमे ऽन्ते प्रथमा च द्वितीये पञ्चमे नले ॥ 7cd
आर्द्धे पदं प्रथमादि षष्ठ एको लघुर्भवेत् । 8ab
त्रिषु गणेषु पादः स्यादार्य्या पञ्चार्द्धके स्मृता ॥ 8cd
विपुलान्याथ चपला गुरुमध्यगतौ च जौ । 9ab
द्वितीयचतुर्थौ पूर्वे च चपला मुखपूर्विका ॥ 9cd
द्वितीये जघनपूर्व्वा चपलार्य्या प्रकीर्त्तिता । 10ab
उभयोर्महाचपला गीतवाद्यार्द्धतुल्यका ॥ 10cd
अन्त्येनार्द्धेनोपगीतिरुद्गीतिश्चोत्क्रमात् स्मृता । 11ab
अर्द्धे रक्षगणा आर्य्या गीटच्छन्दो ऽथ मात्रया ॥ 11cd
वैतालीयं द्विस्वरा स्यादयुष्पादे समे नलः । 12ab
वसवो ऽन्ते वनगाश्च गोपुच्छन्दशकं भवेत् ॥ 12cd
भगणान्ता पाटलिका शेषे परे च पूर्ववत् 1 13ab
साकं षड़्वा मिश्रायुक् प्राच्यवृत्तिः प्रदर्श्यते ॥ 13cd
पञ्चमेन पूर्वसाकं तृतीयेन सहस्रयुक् । 14ab
उदीच्यवृत्तिर्वाच्यां स्याद् युगपच्च प्रवर्त्तकं ॥ 14cd
अयुक्चारुहासिनी स्याद्युगपच्चान्तिका भवेत् ॥ 15॥ 15ab
सप्तार्च्चिर्वसवश्चैव मात्रासमकमीरितम् । 16ab
भवेन्नलवमौ लश्च द्वादशो वा नवासिका ॥ 16cd
विश्वोकः पञ्चमाष्टौ मो चित्रा लवमकश्चलः । 17ab


1 पुच्छलमिति ख॰ ।
Image-P.189


परयुक्तेनोपचित्रा पादाकुलकमित्यतः ॥ 17cd
गीतार्य्या लोपश्चेत् सौम्या लः पूर्वः 1 ज्योतिरीरिता । 18ab
स्याच्छिखा विपर्य्यास्तार्द्धा तूलिका समुदाहृता ॥ 18cd
एकोनत्रिंशदन्ते गः स्याज्ज्ञेजनसमावला । 19ab
गु इत्येकगुरुं 2 संख्यावर्णाद्दशविपर्य्ययात् ॥ 19cd


इत्याग्नेये महापुराणे छन्दोजातिनिरूपणं नाम त्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 331

अथैकत्रिंशदधिकत्रिशततमो ऽध्यायः ।

विषमकथनम् ।
अग्निरुवाच ।
वृत्तं समञ्चार्द्धसमं विषमञ्च त्रिधा वदे । 1ab
समन्तावत् कृत्वकृतमर्द्धसमञ्च कारयेत् ॥ 1cd
विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि । 2ab
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ॥ 2cd
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथमास्मृतौ । 3ab
बाल्यमुश्चतुर्थाद्वर्णात् पथ्या वर्णं युजोयतः ॥ 3cd
विपरीतपथ्यान्यासाच्चपला वा युजस्वनः । 4ab
विपुलायुग्नसप्तमः सर्व्वं तस्यैव तस्य च ॥ 4cd


1 नः पूर्व्व इति ख॰ ।
2 ह्य इत्येकनुरुमिति ञ॰ ।
Image-P.190


तौन्तौ वा विपुलानेका चक्रजातिः समीरिता । 5ab
भवेत् पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च ॥ 5cd
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः । 6ab
प्रथमस्य विपर्य्यासे मञ्जरी लवणी क्रमात् ॥ 6cd
भवेदमृतधाराख्या उद्धताद्युच्यते ऽधुना । 7ab
एकतः समजसानः स्युर्न सौ जो गो ऽथ भौनजौ ॥ 7cd
नोगो ऽथ सजसा गोगस्तृतीयचरणस्य च । 8ab
सौरभे केचनभगा ललितञ्च नमौ जसौ ॥ 8cd
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ । 9ab
गोगथो मलजा रोगः समो नगरजयाः पदे ॥ 9cd
वर्द्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता । 10ab
शुद्धविराड़ार्षभाख्यं वक्ष्ये चार्द्धसमन्ततः ॥ 10cd


इत्याग्नेये महापुराणे विषमकथनं नामैकत्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 332

अथ द्वात्रिंशदधिकत्रिशततमो ऽध्यायः ।

अर्द्धसमनिरूपणम् ।
अग्निरुवाच ।
उपचित्रकं ससमनामथभोजभगामथ 1 1ab
द्रूतमध्या ततभगागथोननजयाः स्मृताः ॥ 1cd
वेगवती ससमगा भभभगोगथो स्मृता । 2ab


1 ससमनागथतोभयागथ इति ख॰ ।
Image-P.191


रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ॥ 2cd
रजसागोगथोद्रोणौगोगौ वै केतुमत्यपि । 3ab
आख्यानिकी ततजगागथोततजगागथ ॥ 3cd
विपरीताख्यानिकी त्तौ जयागातौ जगोगथ । 4ab
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ॥ 4cd
लौवनौगाथनजजा यः स्यादपराक्रमं । 5ab
पुष्पिता ननवयानजजावोगथो रजौ ॥ 5cd
वीजथो जवजवागो मूले पनमती शिखा । 6ab
अष्टाविंशतिनागाभा त्रिंशन्नागन्ततो युजि । 6cd
खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ॥ 6॥ 6ef


इत्याग्नेये महापुराणे अर्द्धसमनिरूपणं नाम द्वात्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 333

अथ त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः ।

समवृत्तनिरूपणं ।
अग्निरुवाच ।
यतिर्विच्छेद इत्युक्तस्तत्तन्मध्यान्तयौ गणौ । 1ab
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ॥ 1cd
विद्युन्माला मममागणैर्भूतगणैर्भवेत् । 2ab
माणवका क्रीड़ितकं वनौ हलमुखी वसः ॥ 2cd
स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ । 3ab
भवेच्छुद्धविराड़्वृत्तं प्रतिपादं समौ जगौ ॥ 3cd
Image-P.192


पणवोमलयोमः 1 स्याज्जौ गौ मयूरसारिणी । 4ab
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ॥ 4cd
रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ । 5ab
जतौ जगौ गूपपूर्व्वावाद्यन्ताद्युपजातयः ॥ 5cd
दोधकं भगभागौ स्यात् शालिनी मतभागगौ । 6ab
यतिः समुद्रा ऋषयः वातोर्म्मी मभतागगौ ॥ 6cd
चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ । 7ab
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ॥ 7cd
सामताधनभागोगोवृत्ताननसमाश्च सः । 8ab
श्येनी वजवनागः स्याद्रम्या नपरगागगः ॥ 8cd
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ । 9ab
इन्द्रवंशा तोटकं सैश्चतुर्भिः प्रतिपादतः ॥ 9cd
भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ । 10ab
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ॥ 10cd
जसौ वसर्व्ववश्चाथ ततं ननमराः स्मृतं । 11ab
कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका 2 11cd
भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः । 12ab
प्रमिताक्षरा गजौ सौ कान्तोत्पीड़ा मतौ समौ 3 12cd
वैश्वदेवी 4 ममयायाः पञ्चाङ्गा नवमालिनी । 13ab


1 मलघाग इति ख॰ ।
2 चरणात्मिका इति ख॰ । चञ्चलाम्बिका इति ट॰ ।
3 ममाविति ख॰ ।
4 विश्वदेवीति ख ।
Image-P.193


नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ॥ 13cd
प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च । 14ab
रुचिरा जभसजगा च्छिन्ना वेदैर्ग्रहैः स्मृता ॥ 14cd
मत्तमयूरं मतया सगौ वेदग्रहे यतिः । 15ab
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ॥ 15cd
गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः । 16ab
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ॥ 16cd
द्विःप्रहरणकलिता 1 वसन्ततिलका नभौ । 17ab
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ॥ 17cd
चन्द्रावर्त्ता ननौ सोमावर्त्तर्तुनवकः स्मृतः । 18ab
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ॥ 18cd
यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः 2 19ab
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ॥ 19cd
रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ । 20ab
गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा ॥ 20cd
वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् । 21ab
हरिणी नसमारः सो नगौ रसचतुःस्वराः ॥ 21cd
मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः । 22ab
कुसुमितलता वेल्लिता मतना यययाः शराः ॥ 22cd
रथाः स्वराः प्रतिरथससजाः सतताश्च गः । 23ab
शार्दूलविक्रीड़ितं स्यादादित्यमुनयो यतिः ॥ 23cd


1 द्विःप्रहरणञ्चलितेति ख॰ ।
2 लननागात्रसग्रहा इति ञ॰ ।
Image-P.194


कृतिः सुवदना मोरो भनया भनगाः सुराः । 24ab
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ॥ 24cd
स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः । 25ab
समुद्रकं भरजानोवनगो दशभास्कराः ॥ 25cd
अश्वललितं नजभा जभजा भनमीशतः । 26ab
मत्ताक्रीड़ा ममनना नौनग्नौ गोष्टमातिथिः ॥ 26cd
तन्वी भनतसाभोभो लयो वाणसुरार्क्ककाः । 27ab
क्रौञ्चपदा भमतता नौ नौ वाणशराष्टतः ॥ 27cd
भुजङ्गविजृम्भितं ममतना ननवासनौ । 28ab
गष्टेशमुनिभिश्छेदो ह्युपहाराख्यमीदृaशम् ॥ 28cd
मननानतानः सो गगौ ग्रहरसो रसात् 1 29ab
नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं 2 29cd
रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः । 30ab
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ॥ 30ef


इत्याग्नेये महापुराणे समवृत्तनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 334

अथ चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः ।

प्रस्तारनिरूपणम् ।
अग्निरुवाच ।
छन्दो ऽत्र सिद्धं गाथा स्यात् पादे सर्व्व गुरौ तथा । 1ab
प्रस्तार आद्यगाथोनः परतुल्यो ऽथ पूर्व्वगः ॥ 1cd


1 ग्रहवसो वसादिति ग॰ ।
2 चण्डवृष्टिप्रयानक इति ट॰ ।
Image-P.195


नष्टमध्ये समे ऽङ्केनः समे ऽर्द्ध विषमे गुरुः । 2ab
प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ॥ 2cd
सङ्ख्याद्विरर्द्धे रूपे तु शून्यं शून्ये द्विरीरितं । 3ab
तावदर्द्धतद्गुणितं द्विद्व्यूनञ्च तदन्ततः ॥ 3cd
परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् । 4ab
नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोर्द्धतः । 4cd
सङ्ख्यैव द्विगुणैकोना छन्दःसारो ऽयमीरितः ॥ 4॥ 4ef


इत्याग्नेये महापुराणे प्रस्तारनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 335

अथ पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः ।

शिक्षानिरूपणम् ।
अग्निरुवाच ।
वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः । 1ab
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ॥ 1cd
यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः । 2ab
अनुस्वारो विसर्गश्च पौख्यौ चापि परान्वितौ ॥ 2cd
दुष्पृष्टश्चेति विज्ञेया लृकारः प्लुत एव च । 3ab
रङ्गश्च खे अरं प्रोक्तं 1 हकारः पञ्चमैर्युतः ॥ 3cd
अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः । 4ab
आत्मबुद्ध्या समस्यार्थं मनोयुक्ते विवक्षया ॥ 4cd
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । 5ab


1 वर्गमुखे अरं प्रोक्तमिति ख॰ ।
Image-P.196


मारुतस्तूरसि चरन् मन्त्रं 1 जनयति स्वरं ॥ 5cd
प्रातःसवनयोगस्तु छन्दो गायत्रमाश्रितम् । 6ab
कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ॥ 6cd
तारन्तार्त्तीयसवनं 2 शीर्षण्यं जागतानुगम् । 7ab
सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ॥ 7cd
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः । 8ab
स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ॥ 8cd
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । 9ab
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥ 9cd
स्वभावश्च विवृत्तिश्च शषसा रेफ एव च । 10ab
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ 10cd
पद्यो भावप्रसन्धानमुकारादि परम्पदं । 11ab
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥ 11cd
ऊतीर्थादागतं 3 दग्धमपवर्णञ्च भक्षितं । 12ab
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥ 12cd
अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं । 13ab
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ॥ 13cd
न करालो न लम्वोष्ठो नाव्यक्तो नानुनासिकः । 14ab
गद्गदो बहुजिह्वश्च न वर्णान् वक्तुमर्हति ॥ 14cd
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीड़िताः । 15ab


1 मात्रमिति ख॰ ।
2 भावन्तार्त्तीयसवनमिति ख॰ ।
3 कुतीर्थादागतमिति ट॰ । क्षतीर्थादागतमिति ख॰ ।
Image-P.197


सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ 15cd
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । 16ab
ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ॥ 16cd
कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु । 17ab
स्युर्मूर्द्धन्या ऋहुरसाः 1 दन्त्याः लृओलसाः स्मृताः ॥ 17cd
जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः । 18ab
एदैतौ कण्टतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ॥ 18cd
अर्द्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् । 19ab
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ 19cd
अचो ऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्टा हलः स्मृताः । 20ab
शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ॥ 20cd
अमो ऽनुनासिकानक्रौ नादिमौ हसषः स्मृताः । 21ab
ईषन्नादोपणयशः श्वासिनश्च थकादयः । 21cd
ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते ॥ 21॥ 21ef


इत्याग्नेये महापुराणे शिक्षानिरूपणं नाम पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः ।


1 खटवसा इति ख॰ ।
Image-P.198


Chapter 336

अथ षट्त्रिंशदधिकत्रिशततमो ऽध्यायः ।

काव्यादिलक्षणं ।
अग्निरुवाच ।
काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्य ऽथ । 1ab
ध्वनिर्व्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ॥ 1cd
शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते । 2ab
शास्त्रे शब्दप्रधानत्वमितिहासेषु निष्ठता ॥ 2cd
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते । 3ab
नरत्वं दुर्ल्लभं लोके विद्या तत्र च दुर्ल्लभा ॥ 3cd
कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र च दुर्ल्लभा । 4ab
व्युत्पत्तिर्दुर्ल्लभा तत्र विवेकस्तत्र दुर्लभः ॥ 4cd
सर्व्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति । 5ab
आदिवर्णा द्वितीयाश्च महाप्राणास्तुरीयकः ॥ 5cd
वर्गेषु वर्णवृन्दं स्यात् पदं सुप्तिङ्प्रभेदतः । 6ab
सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ॥ 6cd
काव्यं स्फुटदलङ्कारं गुणवद्दोषवर्ज्जितम् । 7ab
योनिर्व्वेदश्च लोकश्च सिद्धमन्नादयोनिजं ॥ 7cd
देवादीनां संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां । 8ab
गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ॥ 8cd
अपदः पदसन्तानो गद्यन्तदपि गद्यते । 9ab
चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम् ॥ 9cd
अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं । 10ab
Image-P.199


चूर्णकं नामतो दीर्घसमासात् कलिका भवेत् ॥ 10cd
भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् । 11ab
वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्कटम् ॥ 11cd
आख्यायिका कथा खण्डकथा परिकथा तथा । 12ab
कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ॥ 12cd
कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् । 13ab
कन्याहरणसंग्रामविप्रलम्भविपत्तयः ॥ 13cd
भवन्ति यत्र दीप्ताश्च रीतिवृत्तिप्रवृत्तयः । 14ab
उच्छासैश्च परिच्छेदो यत्र या चूर्णकोत्तरा ॥ 14cd
वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता । 15ab
श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति ॥ 15cd
मुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् । 16ab
परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्वचित् ॥ 16cd
सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं । 17ab
भवेत् खण्डकथा यासौ यासौ परिकथा तयोः ॥ 17cd
अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः । 18ab
स्यात्तयोः करुणं विद्धि विप्रलम्भश्चतुर्व्विधः ॥ 18cd
समाप्यते तयोर्न्नाद्या सा कथामनुधावति । 19ab
कथाख्यायिकयोर्म्मिश्रभावात् परिकथा स्मृता ॥ 19cd
भयानकं सुखपरं गर्भे च करुणो रसः । 20ab
अद्भुतो ऽन्ते सुक्लृप्तार्थो नोदात्ता सा कथानिका ॥ 20cd
पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा । 21ab
वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम् ॥ 21cd
Image-P.200


मात्राभिर्गणना सा जातिरिति काश्यपः 1 22ab
सममर्द्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ॥ 22cd
सा विद्या नौस्तितीषूर्णां गभीरं काव्यसागरं । 23ab
महाकाव्यं कलापश्च पर्य्याबन्धो विशेषकम् ॥ 23cd
कुलकं मुक्तकं कोष इति पद्यकुटुम्बकम् । 24ab
सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ॥ 24cd
तादात्म्यमजहत्तत्र 2 तत्समं नाति दुष्यति । 25ab
इतिहासकथोद्भूतमितरद्वा सदाश्रयं ॥ 25cd
मन्त्रदूतप्रयाणाजिनियतं नातिविस्तरम् । 26ab
शक्कर्य्यातिजगत्यातिशक्कर्य्या त्रिष्टुभा 3 तथा ॥ 26cd
पुष्पिताग्रादिभिर्व्वक्राभिजनैश्चारुभिः समैः । 27ab
मुक्ता 4 तु भिन्नवृत्तान्ता नातिसंक्षिप्तसर्गकम् ॥ 27cd
अतिशर्क्वरिकाष्टिभ्यामेकसङ्कीर्णकैः परः । 28ab
मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ॥ 28cd
कल्पो ऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां । 29ab
नगरार्णवशैलर्त्तु चन्द्रार्काश्रमपादपैः ॥ 29cd
उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः । 30ab
दूतीवचनविन्यासैरसतीचरिताद्भूतैः ॥ 30cd
तमसा मरुताप्यन्यैर्विभावैरतिनिर्भरैः । 31ab


1 कश्यप इति ज॰ , ञ॰ , ट॰ च ।
2 तादर्थमजहत्तत्रेति ज॰ ।
3 अनुष्टुभेति ज॰ ।
4 व्यक्तेति ञ॰ ।
Image-P.201


सर्व्ववृत्तिप्रवृत्तञ्च सर्व्वभावप्रभावितम् ॥ 31cd
सर्व्वरीतिरसैः पुष्टं 1 पुष्टङ्गुणविभूषणैः । 32ab
अत एव महाकाव्यं तत्कर्त्ता च महाकविः ॥ 32cd
वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् । 33ab
पृथक्प्रयत्ननिर्व्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ॥ 33cd
चतुर्व्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया । 34ab
समानवृत्तिनिर्व्यूटः कौशिकीवृत्तिकोमलः ॥ 34cd
कलापो ऽत्र प्रवासः प्रागनुरागाह्वयो रसः । 35ab
सविशेषकञ्च प्राप्त्यादि संस्कृतेनेत्रेण च ॥ 35cd
श्लोकैरनेकैः कुलकं स्यात् सन्दानितकानि तत् । 36ab
मुक्तकं श्लोक एकैकश्चमत्कारक्षमः सता ं ॥ 36cd
सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः । 37ab
कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ॥ 37cd
आभासोपमशक्तिश्च सर्गे यद्भिन्नवृत्तता । 38ab
मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा । 38cd
श्रव्यञ्चैवाभिनेयञ्च प्रकीर्णं सकलोक्तिभिः ॥ 38॥ 38ef


इत्याग्नेये महापुराणे अलङ्कारे काव्यादिलक्षणं नाम षट्त्रिंशदधिकत्रिशततमो ऽध्यायः ।


1 जुष्टमिति ज॰ , ट॰ च ।
Image-P.202


Chapter 337

अथ सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः ।

नाटकनिरूपणम् ।
अग्निरुवाच ।
नाटकं सप्रकरणं डिम ईहामृगो ऽपि वा । 1ab
ज्ञेयः समवकारश्च भवेत् प्रहसनन्तथा ॥ 1cd
व्यायोगभाणवीथ्यङ्कत्रोटकान्यथ नाटिका । 2ab
सट्टकं शिल्पकः कर्णा एको दुर्म्मल्लिका तथा ॥ 2cd
प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च । 3ab
काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ॥ 3cd
उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् । 4ab
सामान्यञ्च विशेषश्च लक्षणस्य द्वयी गतिः ॥ 4cd
सामान्यं सर्व्वविषयं शेषः क्वापि प्रवर्त्तते । 5ab
पूर्व्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि ॥ 5cd
रसभावविभावानुभावा अभिनयास्तथा । 6ab
अङ्कः स्थितिश्च सामान्यं सर्व्वत्रैवोपसर्पणात् ॥ 6cd
विशेषो ऽवसरे वाच्यः सामान्यं पूर्व्वमुच्यते । 7ab
त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ॥ 7cd
इतिकर्त्तव्यता तस्य पूर्व्वरङ्गो यथाविधि । 8ab
नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्व्वरङ्गके ॥ 8cd
देवतानां नमस्कारो गुरूणामपि च स्तुतिः । 9ab
गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ॥ 9cd
नान्द्यन्ते सूत्रधारो ऽसौ रूपकेषु निबध्यते । 10ab
गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ॥ 10cd
Image-P.203


सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्द्दिशेत् । 11ab
नटी विदूषको वापि पारिपार्श्विक एव वा ॥ 11cd
सहिताः सूत्रधारेण संलापं यत्र कुर्व्वते । 12ab
चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ॥ 12cd
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा । 13ab
प्रवृत्तकं कथोद्घातः प्रयोगातिशयस्तथा ॥ 13cd
आमुखस्य त्रयो भेदा वीजांशेषूपजायते । 14ab
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ॥ 14cd
तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकं । 15ab
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ॥ 15cd
गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते । 16ab
प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ॥ 16cd
ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हि सः । 17ab
शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ॥ 17cd
सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ । 18ab
सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः ॥ 18cd
वीजं विन्दुः पताका च प्रकरी कार्य्यमेव च । 19ab
अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ॥ 19cd
प्रारम्भश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च । 20ab
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ 20cd
मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च । 21ab
तथा निर्व्वहणञ्चेति क्रमात् पञ्चैव सन्धयः ॥ 21cd
अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति । 22ab
Image-P.204


फलावसानं यच्चैव वीजं तदभिधीयते ॥ 22cd
यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा । 23ab
काव्ये शरीरानुगतं तन्मुखं परिकीर्त्तितं ॥ 23cd
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । 24ab
रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ॥ 24cd
आश्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम् । 25ab
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च ॥ 25cd
देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते । 26ab
अतस्तयोरुपादाननियमात् पदमुच्यते ॥ 26cd
देशेषु भारतं वर्षं काले कृतयुगत्रयं । 27ab
नर्त्ते ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित् । 27cd
सर्गे सर्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति ॥ 27॥ 27ef


इत्याग्नेये महापुराणे अलङ्कारे नाटकनिरूपणं नाम सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 338

अथाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः ।

शृङ्गारादिरसनिरूपणम् ।
अग्निरुवाच ।
अक्षरं परमं ब्रह्म सनातनमजं विभुं । 1ab
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ॥ 1cd
आनन्दः सहजस्तस्य व्यज्यते स कदाचन । 2ab
व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया ॥ 2cd
Image-P.205


आद्यस्तस्य विकारो यः सो ऽहङ्कार इति स्मृतः । 3ab
ततो ऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ॥ 3cd
अभिमानाद्रतिः सा च परिपोषमुपेयुषी । 4ab
व्यभिचार्य्यादिसामान्यात् शृङ्गार इति गीयते ॥ 4cd
तद्भेदाः काममितरे हास्याद्या अप्यनेकशः । 5ab
स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ॥ 5cd
सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः । 6ab
रागाद्भवति शृङ्गारो रौद्रस्तैक्ष्णात् प्रजायते ॥ 6cd
वीरो ऽवष्टम्भजः सङ्कोचभूर्व्वीभत्स इष्यते । 7ab
शृङ्गाराज्ज्यायते हासो रौद्रात्तु करुणो रसः ॥ 7cd
वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः । 8ab
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ॥ 8cd
वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः । 9ab
लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ॥ 9cd
अपारे काव्यसंसारे कविरेव प्रजापतिः । 10ab
यथा वै रोचते विश्वं तथेदं परिवर्त्तते ॥ 10cd
शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् । 11ab
स चेत् कविर्वीतरागो नीरसं व्यक्तमेव तत् ॥ 11cd
न भावहीनो ऽस्ति रसो न भावो रसवर्ज्जितः । 12ab
भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ॥ 12cd
स्थायिनो ऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः । 13ab
मनो ऽनुकूले ऽनुभवः सुखस्य रतिरिष्यते ॥ 13cd
हर्षादिभिश्च मनसो विकाशो हास उच्यते । 14ab
Image-P.206


चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ॥ 14cd
जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां । 15ab
विस्मयो ऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ॥ 15cd
अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् । 16ab
स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः 1 16cd
श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्ज्जलं । 17ab
स्वेदो हर्षादिभिर्द्देहोच्छासो ऽन्तःपुलकोद्गमः ॥ 17cd
हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः । 18ab
मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ॥ 18cd
क्रोधस्तैक्ष्णप्रबोधश्च प्रतिकूलानुकारिणि । 19ab
पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ॥ 19cd
चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्त्तितः । 20ab
वैवर्ण्यञ्च विषादादिजन्मा कान्तिविपर्य्ययः ॥ 20cd
दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् । 21ab
इन्द्रयाणामस्तमयः प्रलयो लङ्घनादिभिः ॥ 21cd
वैराग्यादिर्म्मनःखेदो निर्वेद इति कथ्यते । 22ab
मनःपीड़ादिजन्मा च सादो ग्लानिः शरीरगा ॥ 22cd
शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः । 23ab
मदिराद्युपयोगोत्थं मनःसंमोहनं मदः ॥ 23cd
क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः । 24ab
शृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते ॥ 24cd


1 भयरागाद्युपस्थित इति ख॰ ।
Image-P.207


दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं । 25ab
इतिकर्त्तव्यतोपायादर्शनं मोह उच्यते ॥ 25cd
स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं । 26ab
मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः ॥ 26cd
व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः । 27ab
भवेच्चपलाता ऽस्थैर्य्यं हर्षश्चित्तप्रसन्नता ॥ 27cd
आवेशश्च प्रतीकारः शयो वैधुर्य्यमात्मनः । 28ab
कर्त्तव्ये प्रतिभाभ्रंशो जड़तेत्यभिधीयते ॥ 28cd
इष्टप्राप्तेरूपचितः सम्पदाभ्युदयो धृतिः । 29ab
गर्व्वाः परेष्ववज्ञानमात्मन्युत्कर्षभावना ॥ 29cd
भवेद्विषादो दैवादेर्विघातो ऽभीष्टवस्तुनि । 30ab
औत्सुक्यमीप्सिताप्राप्तेर्वाञ्छया तरला स्थितिः ॥ 30cd
चित्तेन्द्रियाणां स्तैमित्यमपस्मारो ऽचला स्थितिः । 31ab
युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः ॥ 31cd
क्रोधस्याप्रशमो ऽमर्षः प्रबोधश्चेतनोदयः । 32ab
अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा ॥ 32cd
रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां । 33ab
ऊहो वितर्कः स्याद्व्याधिर्मनोवपुरवग्रहः ॥ 33cd
अनिबद्धप्रलापादिरुन्मादो मदनादिभिः । 34ab
तत्त्वज्ञानादिना चेतःकषायो परमः शमः ॥ 34cd
कविभिर्योजनीया वै भावाः काव्यादिके रसाः । 35ab
विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ॥ 35cd
विभावो नाम सद्वेधालम्बनोद्दीपनात्मकः । 36ab
Image-P.208


रत्यादिभाववर्गो ऽयं यमाजीव्योपजायते ॥ 36cd
आलम्बनविभावो ऽसौ नायकादिभवस्तथा । 37ab
धीरोदात्तो धीरोद्धतः स्याद्धीरललितस्तथा ॥ 37cd
धीरप्रशान्त इत्येवं चतुर्द्धा नायकः स्मृतः । 38ab
अनुकूलो दक्षिणश्च शठो धृष्टः प्रवर्त्तितः ॥ 38cd
पीठमर्द्दो विटश्चैव विदूषक इति त्रयः । 39ab
शृङ्गारे नर्म्मसचिवा नायकस्यानुनायकाः ॥ 39cd
पीठमर्द्दः सम्बलकः श्रीमांस्तद्वेशजो विटः । 40ab
विदूषको वैहसिकस्त्वष्टनायकनायिकाः ॥ 40cd
स्वकीया परकीया च पुनर्भूरिति कौशिकाः । 41ab
सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः ॥ 41cd
उद्दिपनविभावास्ते संस्कारैर्विविधैः स्थितैः । 42ab
आलम्बनविभावेषु भावानुद्दीपयन्ति ये ॥ 42cd
चतुःषष्टिकला द्वेधा कर्म्माद्यैर्गीतिकादिभिः । 43ab
कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः ॥ 43cd
आलम्बनविभावस्य भावैरुद्वुद्धसंस्कृतैः । 44ab
मनोवाग्बुद्धिवपुषां स्मृतीछाद्वेषयत्नतः ॥ 44cd
आरम्भ एव विदुषामनुभाव इति स्मृतः । 45ab
स चानुभूयते चात्र भवत्युत निरुच्यते ॥ 45cd
मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते । 46ab
द्विविधः पौरुषस्त्रैण ईदृशो ऽपि प्रसिध्यति ॥ 46cd
शोभा विलासो माधुर्य्यं स्थैर्य्यं गाम्भीर्य्यमेव च । 47ab
ललितञ्च तथौदार्य्यन्तेजो ऽष्टाविति पौरुषाः ॥ 47cd
Image-P.209


नीचनिन्दोत्तमस्पर्द्धा शौर्य्यं दाक्षादिकारणं । 48ab
मनोधर्म्मे भवेच्छोभा शोभते भवनं यथा ॥ 48cd
भावो हावश्च हेला च शोभा कान्तिस्तथैव च । 49ab
दीप्तिर्म्माधुर्य्यशौर्य्ये च प्रागल्भ्यं स्यादुदारता ॥ 49cd
स्थैर्य्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः । 50ab
भावो विलासो हावः स्याद्भावः किञ्चिच्च हर्षजः ॥ 50cd
वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः । 51ab
तत्राभाषणमालापः प्रलापो वचनं वहु 1 51cd
विलापो दुःखवचनमनुलापो ऽसकृद्वचः । 52ab
संलाप उक्तप्रत्युक्तमपलापो ऽन्यथावचः ॥ 52cd
वार्त्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् । 53ab
तत्त्वदेशो ऽतिदेशो ऽयमपदेशो ऽन्यवर्णनम् ॥ 53cd
उपदेशश्च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः । 54ab
बोधाय एष व्यापारः सुबुद्ध्यारम्भ इष्यते । 54cd
तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः ॥ 54॥ 54ef


इत्याग्नेये महापुराणे अलङ्कारे शृङ्गारादिरसनिरूपणं नामाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः ॥


1 मुहुरिति ख॰ ।
Image-P.210


Chapter 339

अथोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

रीतिनिरूपणं ।
अग्निरुचाच ।
वाग्विद्यासम्प्रतिज्ञाने रीतिः सापि चतुर्विधा । 1ab
पाञ्चाली गौड़देशीया वैदर्भी लाटजा तथा ॥ 1cd
उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा । 2ab
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ॥ 2cd
उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता । 3ab
नातिकोमलसन्दर्भा वैदर्भी मुक्तविग्रहा ॥ 3cd
लाटीया स्फुटसन्धर्भा नातिविस्फुरविग्रहा । 4ab
परित्यक्तापि भूयोभिरुपचारैरुदाहृता ॥ 4cd
क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा । 5ab
कौशिकी सात्वती चेति सा चतुर्द्धा प्रतिष्ठिता ॥ 5cd
वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता । 6ab
भरतेन प्रणीतत्वाद् भारती रीतिरुच्यते ॥ 6cd
चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा । 7ab
प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ॥ 7cd
उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् । 8ab
असत्प्रलापो वाक्श्रेणी 1 नालिका विपणन्तथा ॥ 8cd
व्याहारस्तिमतञ्चैव 2 छलावस्कन्दिते तथा । 9ab


1 वाग्वेणीति क॰ , ञ॰ , ट॰ च ।
2 व्याहारस्त्रिगतञ्चैवेति ख॰ ।
Image-P.211


गण्डो ऽथ मृदवश्चैव त्रयोदशमथाचितम् ॥ 9cd
तापसादेः प्रहसनं परिहासपरं वचः । 10ab
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता । 10cd
मङ्क्षिप्तकारपातौ च 1 वस्तूत्थापनमेव च ॥ 10॥ 10ef


इत्याग्नेये महापुराणे अलङ्कारे रीतिनिरूपणं नामोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 340

अथ चत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

नृत्यादावङ्गकर्म्मनिरूपणं ।
अग्निरुवाच ।
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः । 1ab
शरीरारम्भमिच्छन्ति प्रायः पूर्व्वो ऽवलाश्रयः ॥ 1cd
लीला विलासो विछित्तिर्विभ्रमं किलकिञ्चितं । 2ab
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ॥ 2cd
विकृतं क्रीड़ितं केलिरिति द्वादशधैव सः । 3ab
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥ 3cd
विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते । 4ab
हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ॥ 4cd
विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः । 5ab
शिरः पाणिरुरः पार्श्वङ्कटिरङ्घ्रिरिति क्रमात् ॥ 5cd
अङ्गानि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते । 6ab


1 सङ्क्षिप्तकरपातौ चेति ज॰ ।
Image-P.212


अङ्गप्रत्यङ्गयोः कर्म्म प्रयत्नजनितं विना ॥ 6cd
न प्रयोगः क्वचिन्मुख्यन्तिरश्चीनञ्च तत् क्वचित् । 7ab
आकम्पितं कम्पितञ्च 1 धूतं विधूतमेव च ॥ 7cd
परिवाहितमाधूतमवधूतमथाचितं । 8ab
निकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ॥ 8cd
ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः । 9ab
भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ॥ 9cd
दृष्तिस्त्रिधा रमस्थायिसञ्चारिप्रतिबन्धना । 10ab
षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा ॥ 10cd
नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं । 11ab
षोढ़ा च नासिका ज्ञेया निश्वासो नवधा मतः ॥ 11cd
षोटौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया । 12ab
कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता ॥ 12cd
असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते । 13ab
पताकस्त्रिपाताकश्च तथा वै कर्त्तरीमुखः ॥ 13cd
अर्द्धचन्द्रोत्करालश्च शुकतुण्डस्तथैव च । 14ab
सुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ॥ 14cd
सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः । 15ab
कांमूलकालपद्मौ 2* च चतुरभ्रमरौ तथा ॥ 15cd
हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा । 16ab


1 आकल्पितं कल्पितञ्चेति ख॰ ।
2 काङ्गूलकालपद्माविति ञ॰ ।
* कांमूलकालपद्मौ काङ्गूलकालपद्मौ एतत्पाठद्वयं न समीचीनं ।
Image-P.213


उर्णनाभस्ताम्रचूडश्चतुर्विंशतिरित्यमी ॥ 16cd
असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश । 17ab
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ 17cd
कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा । 18ab
दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ 18cd
गजदन्तो वहिस्तम्भो वर्द्धमानो ऽपरे कराः । 19ab
उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ॥ 19cd
उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा । 20ab
पार्श्वयोः पञ्चकर्म्माणि जङ्घाकर्म्म च पञ्चधा । 20cd
अनेकधा पादकर्म्म नृत्यादौ नाटके स्मृतम् ॥ 20॥ 20ef


इत्याग्नेये महापुराणे अलङ्कारे नृत्यादावङ्गकर्म्मनिरूपणं नाम चत्वरिंशदधिकत्रिशततमो ऽध्यायः ॥

Chapter 341

अथैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

अभिनयादिनिरूपणं ।
अग्निरुवाच ।
आभिमुख्यन्नयन्नर्थान्विज्ञेयो ऽभिनयो बुधैः । 1ab
चतुर्द्धा सम्भवः सत्त्ववागङ्गाहरणाश्रयः ॥ 1cd
स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः । 2ab
शरीरारम्भ आहार्य्यो बुद्ध्यारम्भप्रवृत्तयः ॥ 2cd
रसादिविनियोगो ऽथ कथ्यते ह्यभिमानतः । 3ab
तमन्तरेण सर्व्वे षामपार्थैव स्वतन्त्रता ॥ 3cd
सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधः स्मृतः । 4ab
Image-P.214


प्रच्छन्नश्च प्रकाशश्च तावपि द्विविधौ पुनः ॥ 4cd
विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः । 5ab
पूर्व्वानुरागानाख्यः प्रवामकरुणात्मकः ॥ 5cd
एतेभ्यो ऽन्यतरं जायमानमम्भोगलक्षणम् । 6ab
विवर्त्तते चतुर्द्धैव न च प्रागतिवर्त्तते ॥ 6cd
स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्त्तिका रतिः । 7ab
निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना ॥ 7cd
धर्म्मार्थकाममोक्षैश्च शृङ्गार उपचीयते । 8ab
आलम्वनविशेषैश्च तद्विशेषैर्न्निरन्तरः ॥ 8cd
शृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् । 9ab
हासश्च तुर्व्विधो ऽलक्ष्यदन्तः स्मित इतीरितः ॥ 9cd
किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् । 10ab
विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् ॥ 10cd
सशब्दं पापहसितमशब्दमतिहासितं । 11ab
यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् ॥ 11cd
धर्म्मोपघातजश्चित्तविलासजनितस्तथा । 12ab
शोकः शोकाद्भवेत् स्थायी कः स्थायी पूर्व्वजो मतः ॥ 12cd
अङ्गनेपथ्यवाक्यैश्च रौद्रो ऽपि त्रिविधो रसः । 13ab
तस्य निर्वर्त्तकः क्रोधः स्वेदो रोमाञ्चवेपथुः ॥ 13cd
दानवीरो धर्मवीरो युद्धवीर इति त्रयम् । 14ab
वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते ॥ 14cd
आरम्भेषु भवेद्यत्र वीरमेवानुवर्त्तते । 15ab
Image-P.215


भयानको नाम रसस्तस्य निर्वर्त्तकं भयं ॥ 15cd
उद्वेजनः क्षोभणश्च वीभत्सो द्विविधः स्मृतः । 16ab
उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः ॥ 16cd
जगुप्सारम्भिका तस्य सात्त्विकांशो निवर्त्तते । 17ab
काव्यशोभाकरान् धर्म्मानलङ्कारान् प्रचक्ष्यते ॥ 17cd
अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा । 18ab
ये व्युत्पत्त्यादिना शब्दमलङ्कर्त्तुमिह क्षमाः ॥ 18cd
शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः । 19ab
छाया मुद्रा तथोक्तिश्च युक्तिर्गुम्फनया सह ॥ 19cd
वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च । 20ab
ज्ञेया नवालङ्कृतयः शब्दानामित्यसङ्करात् ॥ 20cd
तत्रान्योक्तेरनुकृतिश्छाया सापि चत्रुव्विधा । 21ab
लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः ॥ 21cd
आभाणकोक्तिर्लोकोक्तिः सर्व्वसामान्य एव ताः । 22ab
यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः ॥ 22cd
छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः । 23ab
तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते ॥ 23cd
अव्युत्पन्नोक्तिरखिलैरर्भकोक्त्योपलक्ष्यते । 24ab
तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्व्वती ॥ 24cd
विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी । 25ab
या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते ॥ 25cd
अभिप्रायविशेषेण कविशक्तिं विवृण्वती । 26ab
Image-P.216


मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते ॥ 26cd
उक्तिः सा कथ्यते यस्यामर्थको ऽप्युपपत्तिमान् । 27ab
लोकयात्रार्थविधिना धिनोति हृदयं सतां ॥ 27cd
उभौ विधिनिषेधौ च नियमानियमावपि । 28ab
विकल्पपरिसङ्ख्ये च तदीयाः षड़थोक्तयः ॥ 28cd
अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः । 29ab
योजनायै कल्प्यमाना युक्तिरुक्ता मनीषिभिः ॥ 29cd
पदञ्चैव पदार्थश्च वाक्यं वाक्यर्थमेव च । 30ab
विषयो ऽस्त्याः प्रकरणं प्रपञ्चश्चेति षड्विधः ॥ 30cd
गुम्फना रचनाचर्य्या शब्दार्थक्रमगोचरा । 31ab
शब्दानुकारादर्थानुपूर्व्वार्थेयं क्रमात्त्रिधा ॥ 31cd
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् । 32ab
ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः ॥ 32cd
सा पूर्व्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् । 33ab
वक्रोक्तिस्तु भवेड्भङ्ग्या काकुस्तेन कृता द्विधा ॥ 33cd


इत्याग्नेये महापुराणे अलङ्कारे अभिनयादिनिरूपणं नामैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।
Image-P.217


Chapter 342

अथ द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

शब्दालङ्काराः ।
अग्निरुचाच ।
स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः । 1ab
एकवर्णा ऽनेकवर्णावृत्तेर्व्वर्णगुणो द्विधा ॥ 1cd
एकवर्णगतावृत्तेर्ज्जायन्ते पञ्च वृत्तयः । 2ab
मधुरा ललिता प्रौटा भद्रा परुषया सह ॥ 2cd
मधुरायाश्च वर्ग्गन्तादधो वर्ग्या रणौ स्वनौ 1 3ab
ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ॥ 3cd
न कार्य्या वर्ग्यवर्णानामावृत्तिः पञ्चमाधिका । 4ab
महाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ 2 4cd
ललिता बलभूयिष्ठा 3 प्रौटा या पणवर्गजा । 5ab
ऊर्द्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ॥ 5cd
भद्रायां परिशिष्टाः स्युः परुषा सा ऽभिधीयते । 6ab
भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ॥ 6cd
अकारवर्ज्जमावृत्तिः स्वराणामतिभूयसी । 7ab
अनुस्वारविसर्गौ च पारुष्याय निरन्तरौ ॥ 7cd
शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा । 8ab


1 रशौ घनाविति ञ॰ ।
2 महाप्राणोष्मसंयोगादवियुक्तलघूत्तराविति ट॰ ।
3 ललिता वनभूयिष्ठेति ख॰ । ललिता वत्सभूयिष्ठेति ट॰ ।
Image-P.218


अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ॥ 8cd
अन्यथापि गुरुर्वर्णः संयुक्ते परिपन्थिनि । 9ab
पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमी ॥ 9cd
क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते । 10ab
कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनासिका 1 10cd
द्रावणी माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् । 11ab
अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ॥ 11cd
यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा । 12ab
आनन्तर्य्यादव्यपेतं व्यपेतं व्यवधानतः ॥ 12cd
द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् । 13ab
आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ॥ 13cd
सप्तधा सप्तपूर्वेण 2 चेत् पादेनोत्तरोत्तरः । 14ab
एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ॥ 14cd
तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् । 15ab
पादान्तयमकञ्चैव काञ्चीयमकमेव च ॥ 15cd
संसर्गयमकञ्चैव 3 विक्रान्तयमकन्तथा । 16ab
पादादियमकञ्चैव तथाम्रेडितमेव च ॥ 16cd
चतुर्व्यवसितञ्चैव मालायमकमेव च । 17ab
दशधा यमकं श्रेष्ठं तद्भेदा बहवो ऽपरे ॥ 17cd
स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्त्तना द्विधा । 18ab


1 बालवासिकेति ख॰ , ट॰ च । वनवासिकेति ञ॰ ।
2 पूर्व्वपूर्व्वेणेति ज॰ , ञ॰ , ट॰ च ।
3 सम्बन्धयमकश्चैवेति ख॰ ।
Image-P.219


भिन्नप्रयोजनपदस्यावृत्तिं मनुजा विदुः ॥ 18cd
द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः । 19ab
असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ॥ 19cd
वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते । 20ab
अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात् 1 * ॥ 20cd
यया कयाचिद्वृत्या यत् समानमनुभूयते । 21ab
तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ॥ 21cd
गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते । 22ab
प्रश्नः प्रहेलिका गुप्तं च्युतदत्ते तथोभयम् ॥ 22cd
समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः । 23ab
यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ॥ 23cd
स प्रश्नः स्यादेकपृष्टद्विपृष्टोत्तरभेदतः । 24ab
द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ॥ 24cd
द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका । 25ab
सा द्विधार्थी च शाब्दी च तत्रार्थी चार्थबोधतः ॥ 25cd
शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां । 26ab
यस्मिन् गुप्ते ऽपि वाक्याङ्गे भाव्यर्थो ऽपारमार्थिकः ॥ 26cd
तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढ़मप्यदः । 27ab
यत्रार्थान्तरनिर्भासो वाक्याङ्गच्यवनादिभिः ॥ 27cd
तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् । 28ab


1 लघुमप्येवमर्हणादिति ट॰ । लघुमध्येव वर्हणादिति ज॰ ।
* लघुमध्येवमर्हणात्, लघुमप्येवमर्हणात्, लघुमध्येव वर्हणात् एतत् पाठत्रयं न सम्यक् प्रतिभाति ।
Image-P.220


स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ॥ 28cd
दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते । 29ab
दत्तन्तदाहुस्तद्भेदाः स्वराद्यैः पूर्व्ववन्मताः ॥ 29cd
अपनीताक्षरस्थाने न्यस्ते वर्णान्तरे ऽपि च । 30ab
भासते ऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ॥ 30cd
सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् । 31ab
सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ॥ 31cd
दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् । 32ab
दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ॥ 32cd
नियमाच्च विदर्भाच्च बन्धाच्च भवति त्रिधा । 33ab
कवेः प्रतिज्ञा निर्म्माणरम्यस्य नियमः स्मृतः ॥ 33cd
स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा । 34ab
विकल्पः प्रातिलोम्यानुलोम्यादेवाभिधीयते ॥ 34cd
प्रतिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते । 35ab
अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ॥ 35cd
तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते । 36ab
गोमूत्रिकार्द्धभ्रमणे सर्व्वतोभद्रमम्बुजम् ॥ 36cd
चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा । 37ab
प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ॥ 37cd
द्विधा गोमूत्रिकां पूर्व्वामाहुरश्वपदां परे । 38ab
अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं 1 वदन्ति हि ॥ 38cd
अर्द्धाभ्यामर्धपादैश्च कुर्य्याद्विन्यासमेतयोः । 39ab


1 जानुबन्धमिति क॰ , ख॰ च ।
Image-P.221


न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ॥ 39cd
अधोधःस्थितवर्णानां यावत्तूर्य्यपदन्नयेत् । 40ab
तुर्य्यपादान्नयेदूर्द्ध पादार्द्धं प्रातिलोम्यतः ॥ 40cd
तदेव सर्व्वतोभद्रं त्रिविधं सरसीरुहं । 41ab
चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ॥ 41cd
अथ प्रथमपादस्य मूर्द्धन्यस्त्रिपदाक्षरं । 42ab
सर्व्वेषामेव पादानामन्ते तदुपजायते ॥ 42cd
प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः । 43ab
अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ॥ 43cd
चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः । 44ab
स्यात् षोड़शच्छदे त्वेकान्तरञ्चेदेकमक्षरं ॥ 44cd
कर्णिकां तोलयेदूर्द्ध्वं पत्राकाराक्षरावलिं । 45ab
प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे ॥ 45cd
कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च । 46ab
प्रवेशनिर्गमौ दिक्षु कुर्य्यादष्टच्छदे ऽम्बुजे ॥ 46cd
विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां । 47ab
मध्ये समाक्षरन्यासः सरोजे षोड़शच्छदे ॥ 47cd
द्विधा चक्रं चतुररं षड़रन्तत्र चादिमं । 48ab
पूर्व्वार्द्धे सदृशा वर्णाः पादप्रथमपञ्चमाः ॥ 48cd
अयुजो ऽश्वयुजश्चैव तुर्य्यावप्यष्टमावपि । 49ab
तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ॥ 49cd
स्यात्पादार्द्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं । 50ab
पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ॥ 50cd
Image-P.222


तृतीयं तुर्य्यपादान्ते प्रथमौ सदृशावुभौ । 51ab
वर्णौ पादत्रयस्यापि दशमः सदृशो यदि ॥ 51cd
प्रथमे चरमे तस्य षड़्तर्णाः पश्चिमे यदि । 52ab
भवन्ति द्व्यन्तरं तर्हि वृहच्च क्रमुदाहृतं ॥ 52cd
सम्मुखारद्वये पादमेकैकं क्रमशो लिखेत् । 53ab
नाभौ तु वर्णं दशमं नेमौ तूर्य्यपदन्नयेत् ॥ 53cd
श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः । 54ab
आदौ वर्णः समौ तुर्य्यपञ्चमावाद्यतूर्य्ययोः ॥ 54cd
द्वितीयप्रातिलोम्येन तृतीयं जायते यदि । 55ab
पदं विदध्यात् पत्रस्य दण्डश्चक्राब्जकं कृतेः ॥ 55cd
द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ । 56ab
सदृशावुत्तरदलौ द्वितीयाभ्यामथार्द्धयोः ॥ 56cd
द्वितीयषष्ठाः सदृशाश्चतुर्थपञ्चमावपि । 57ab
आद्यन्तपादयोस्तुल्यौ परार्द्धसप्तमावपि ॥ 57cd
समौ तुर्य्यं पञ्चमन्तु क्रमेण विनियोजयेत् । 58ab
तुर्य्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ॥ 58cd
अर्द्धयोरन्तिमाद्यौ तु मुरजे सदृशावभौ । 59ab
पादार्द्धपतितो वर्णः प्रातिलोम्यानुलोमतः ॥ 59cd
अन्तिमं परिबध्नीयाद्यावत्तुर्य्यमिहादिमत् । 60ab
पादात्तुर्य्याद्यदेवाद्यं नवमात् षोड़शादपि ॥ 60cd
अक्षरात् पुटके मध्ये मध्ये ऽक्षरचतुष्टयम् । 61ab
कृत्वा कुर्य्याद्यथैतस्य मुरजाकारता भवेत् ॥ 61cd
द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् । 62ab
Image-P.223


गोमूत्रिका सर्ववृत्तैरन्ये बन्धास्त्वनुष्टुभा ॥ 62cd
नामधेयं यदि न चेदमीषु कविकाव्ययोः । 63ab
मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ॥ 63cd
वाणवाणासनव्योमखड्गमुद्गरशक्तयः । 64ab
द्विचतुर्थत्रिशृङ्गाटा दम्भोलिमुषलाङ्कुशाः ॥ 64cd
पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका । 65ab
एते बन्धास्तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ॥ 65cd


इत्याग्नेये महापुराणे अलङ्कारे शब्दालङ्कारनिरूपणं नाम द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 343

अथ त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

अर्थालङ्काराः ।
अग्निरुवाच ।
अलङ्करणमर्थानामर्थालङ्कार इष्यते । 1ab
तं विना शब्दसौन्दर्य्यमपि नास्ति मनोहरम् ॥ 1cd
अर्थालङ्काररहिता विधवेव 1 सरस्वती । 2ab
स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि ॥ 2cd
विभावना विरोधश्च हेतुश्च सममष्टधा । 3ab
स्वभाव एव भावानां स्वरूपमभिधीयते ॥ 3cd
निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् । 4ab
सांसिद्धिकं निजं नैमित्तिकमागन्तुकं तथा ॥ 4cd


1 विधुरेवेति ख॰ , ट॰ च ।
Image-P.224


सादृश्यं धर्म्मसामान्यमुपमा रूपकं तथा । 5ab
महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ॥ 5cd
उपमा नाम सा यस्यामुपमानोपमेययोः । 6ab
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ॥ 6cd
किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते । 7ab
समासेनासमासेन सा द्विधा प्रतियोगिनः ॥ 7cd
विग्रहादभिधानस्य ससमासा ऽन्यथोत्तरा । 8ab
उपमाद्योतकपदेनोपमेयपदेनच ॥ 8cd
ताभ्याञ्च विग्रहात्त्रेधा ससमासान्तिमात् त्रिधा । 9ab
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ॥ 9cd
यत्र साधारणो धर्म्मः कथ्यते गम्यते ऽपि वा । 10ab
ते धर्म्मवस्तुप्राधान्याद्धर्म्मवस्तूपमे उभे ॥ 10cd
तुल्यमेवोपमीयेते यत्रान्योन्येन धर्म्मिणौ । 11ab
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयोः ॥ 11cd
विपरीतोपमा सा स्याद्व्यावृत्तेर्न्नियमोपमा । 12ab
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ॥ 12cd
समुच्चयोपमातो ऽन्यधर्म्मवाहुल्यकीर्त्तनात् । 13ab
वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं ॥ 13cd
यदुच्यते ऽतिरिक्तत्वं व्यतिरेकोपमा तु सा । 14ab
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ॥ 14cd
धर्म्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा 15ab
उपमानविकारेण तुलना विक्रियोपमा ॥ 15cd
त्रिलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि । 16ab
Image-P.225


कविनोपमीयते या प्रथते साद्भुतोपमा ॥ 16cd
प्रतियोगिनमारोप्य तदभेदेन कीर्त्तनम् । 17ab
उपमेयस्य सा मोहोपमा ऽसौ भ्रान्तिमद्वचः ॥ 17cd
उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा । 18ab
उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ॥ 18cd
वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः । 19ab
आत्मनोपमानादुपमा साधारण्यतिशायिनी ॥ 19cd
उपमेयं यदन्यस्य तदन्यस्योपमा मता । 20ab
यद्युत्तरोत्तरं याति तदा ऽसौ गगनोपमा 1 20cd
प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । 21ab
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः ॥ 21cd
उपमानेन यत्तत्वमुपमेयस्य रूप्यते । 22ab
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥ 22cd
उपमैव तिरोभूतभेदा रूपकमेव वा । 23ab
सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणां ॥ 23cd
भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः । 24ab
अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च ॥ 24cd
अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते । 25ab
लोकसीमान्वृत्तस्य वस्तुधर्म्मस्य कीर्त्तनम् ॥ 25cd
भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा । 26ab
गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं ॥ 26cd
विशेषदर्शनायैव सा विशेषोक्तिरुच्यते । 27ab


1 पवनोपमेति ख॰ । गमनोपमेति क॰ , ट॰ च ।
Image-P.226


प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणान्तरम् ॥ 27cd
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । 28ab
सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ॥ 28cd
विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं । 29ab
सिसाधयिषितार्थस्य हेतुर्भवति साधकः ॥ 29cd
कारको ज्ञापक इति द्विधा सो ऽप्युपजायते । 30ab
प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मनः ॥ 30cd
पूर्व्वशेष इति ख्यातस्तयोरेव विशेषयोः । 31ab
कार्य्यकारणभावाद्वा स्वमावाद्वा नियामकात् ॥ 31cd
ज्ञापकाख्यस्य भेदो ऽस्ति नदीपूरादिदर्शनात् । 32ab
अविनाभावनियमो ह्यविनाभावदर्शनात् ॥ 32cd


इत्याग्नेये महापुराणे अलङ्कारे अर्थालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

Chapter 344

अथ चतुश्चत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

शब्दार्थालङ्काराः ।
अग्निरुवाच ।
शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं । 1ab
एकत्र निहितो हारः स्तनं ग्रीवामिव स्त्रियाः ॥ 1cd
प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता । 2ab
अभिव्यक्तिरिति व्यक्तं षड़्भेदास्तस्य जाग्रति ॥ 2cd
प्रशस्तिः परवन्मर्म्मद्रवीकरणकर्म्मणः । 3ab
वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः ॥ 3cd
Image-P.227


प्रेमोक्तिस्तुतिपर्य्यायौ प्रियोक्तिगुणकीर्त्तने । 4ab
कान्तिः सर्व्वमनोरुच्यवाच्यवात्तकसङ्गतिः ॥ 4cd
यथा वस्तु तथा रीतिर्यथा वृत्तिस्तथा रसः । 5ab
ऊर्ज्जस्विमृदुसन्दर्भादौचित्यमुपजायते ॥ 5cd
संक्षेपो वाचकैरल्पैर्वहोरर्थस्य संग्रहः । 6ab
अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता ॥ 6cd
प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्यपि । 7ab
तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् ॥ 7cd
भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा । 8ab
सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी ॥ 8cd
मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा । 9ab
स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः ॥ 9cd
यया शब्दो निमित्तेन केनचित्सौपचारिकी । 10ab
सा च लाक्षणिकी गौणी लक्षणागुणयोगतः ॥ 10cd
अभिधेयाविनाभूता प्रतीतिर्ल्लक्षणोच्यते । 11ab
अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः ॥ 11cd
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता । 12ab
गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया ॥ 12cd
अन्यधर्म्मस्ततो ऽन्यत्र लोकसीमानुरोधिना । 13ab
सम्यगाधीयते यत्र स समाधिरिह स्मृतः ॥ 13cd
श्रूतेरलभ्यमानो ऽर्थो यस्माद्भाति सचेतनः । 14ab
स आक्षेपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः ॥ 14cd
शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् । 15ab
Image-P.228


प्रतिषेध इवेष्टस्य यो विशेषो ऽभिधित्सया ॥ 15cd
तमाक्षेपं व्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः । 16ab
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ॥ 16cd
यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं । 17ab
सा समासोक्तिरुदिता सङ्क्षेपार्थतया बुधैः ॥ 17cd
अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् । 18ab
पर्य्यायोक्तं यदन्येन प्रकारेनाभिधीयते । 18cd
एषामेकंतमस्येव समाख्या ध्वनिरित्यतः ॥ 18॥ 18ef


इत्याग्नेये महापुराणे अलङ्कारे शब्दार्थालङ्कारनिरूपणं नाम चतुश्चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥

Chapter 345

अथ पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

काव्यगुणविवेकः ।
अग्निरुवाच ।
अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् । 1ab
वपुष्यललिते स्त्रीणां हारो भारायते परं ॥ 1cd
न च वाच्यं गुणो दोषो भाव एव भविष्यति । 2ab
गुणाः श्लेषादयो दोषा गूड़ार्थाद्याः पृथक् कृताः ॥ 2cd
यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः । 3ab
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ॥ 3cd
सर्व्वसाधारणीभूतः सामान्य इति मन्यते । 4ab
शब्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ॥ 4cd
शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः । 5ab
Image-P.229


श्लोषो लालित्यागाम्भीर्य्यसौकुमार्य्यमुदारता ॥ 5cd
सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा । 6ab
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ॥ 6cd
गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं । 7ab
यत्रसन्धीयते नैव तल्लालित्यमुदाहृतं ॥ 7cd
विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् । 8ab
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ॥ 8cd
अनिष्ठुराक्षरप्रायशब्दता सुकुमारता । 9ab
उत्तानपदतौदर्य्ययुतश्लाघ्यैर्विशेषणैः ॥ 9cd
ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं । 10ab
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ॥ 10cd
उच्यमानस्य शब्देन येन केनापि वस्तुनः । 11ab
उत्कर्षमावहन्नर्थो गुण इत्यभिधीयते ॥ 11cd
माधुर्य्यं सम्बिधानञ्च कोमलत्वमुदारता । 12ab
प्रौढ़िः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ॥ 12cd
क्रोधेर्ष्याकारगाम्भीर्य्यात्माधुर्य्यं धैर्य्यगाहिता । 13ab
सम्बिधानं परिकरः स्यादपेक्षितसिद्धये ॥ 13cd
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता । 14ab
तिरस्कृत्यैव मृदुता भाति कोमलतेति सा ॥ 14cd
लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् । 15ab
गुणस्य तदुदारत्वमाशयस्यातिसौष्ठवं ॥ 15cd
अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः । 16ab
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ॥ 16cd
Image-P.230


स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तःसमयोगतः । 17ab
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ॥ 17cd
शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः । 18ab
तस्य प्रसादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ॥ 18cd
पाको राग इति प्राज्ञैः षट्प्रपञ्चविपञ्चिताः । 19ab
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ॥ 19cd
उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते । 20ab
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ॥ 20cd
यथासङ्ख्यमनुद्देशः सामान्यमतिदिश्यते । 21ab
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ॥ 21cd
अदारुणेन शब्देन प्राशस्त्यमुपवर्णनं । 22ab
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ॥ 22cd
मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुर्व्विधः । 23ab
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ॥ 23cd
काव्येच्छया विशेषो यः स राग इति गीयते । 24ab
अभ्यासोपहितः कान्तिं सहजामपि वर्त्तते ॥ 24cd
हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा । 25ab
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ॥ 25cd


इत्याग्नेये महापुराणे काव्यगुणविवेको नाम पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।
Image-P.231


Chapter 346

अथ षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

काव्यदोषविवेकः ।
अग्निरुवाच ।
उद्वेगजनको दोषः सभ्यानां स च सप्तधा । 1ab
वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ॥ 1cd
तत्र वक्ता कविर्नाम प्रथते स च भेदतः । 2ab
सन्दिहानो ऽविनीतः सन्नज्ञो ज्ञाता चतुर्व्विधः ॥ 2cd
निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् । 3ab
तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्वयोः ॥ 3cd
असाधुत्वाप्रयुक्त्वे द्वावेव पदनिग्रहौ । 4ab
शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ॥ 4cd
व्युत्पन्नैरनिबद्वत्वमप्रयुक्तत्वमुच्यते । 5ab
छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ॥ 5cd
तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा । 6ab
छान्दसत्वं न भाषायामविस्पष्टमबोधतः ॥ 6cd
गूढ़ार्थता विपर्य्यस्तार्थता संशयितार्थता । 7ab
अविष्पष्टार्थता भेदास्तत्र गूढ़ार्थतेति सा ॥ 7cd
यत्रार्थो दुःखसवेद्यो विपर्य्यस्तार्थता पुनः । 8ab
विवक्षितान्यशब्दार्थप्रतिपय्तिर्मलीमसा 1 8cd
अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः । 9ab


1 मनीषयेति ज॰ ।
Image-P.232


सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ॥ 9cd
दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते । 10ab
असुखोच्चार्य्यमाणत्वं कष्टत्वं समयाच्युतिः ॥ 10cd
असामयिकता नेयामेताञ्च मुनयो जगुः । 11ab
ग्राम्यता तु जघन्यार्थप्रतिपत्तिः खलीकृता ॥ 11cd
वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि । 12ab
तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ॥ 12cd
दोषः साधारणः प्रातिस्विको ऽर्थस्य स तु द्विधा । 13ab
अनेकभागुपालम्भः साधारण इति स्मृतः ॥ 13cd
क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्ता । 14ab
व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः 1 14cd
अक्रियत्वं क्रियाभ्रंशो भ्रष्टकारकता पुनः । 15ab
कर्त्त्र्यादिकारकाभावो विसन्धिः सन्धिदूषणम् ॥ 15cd
विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा । 16ab
सन्धेर्व्विरुद्धता कष्टपादादर्थान्तरागमात् 2 16cd
पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् । 17ab
अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ॥ 17cd
प्रयुक्तवरशब्देन 3 तथा शब्दान्तरेण च । 18ab
नावर्त्तते पदावृत्तौ वाच्यमावर्त्तते पदम् ॥ 18cd
व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः । 19ab
सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः ॥ 19cd


1 मला इति क॰ , ज॰ च ।
2 कष्टपादादर्थान्तरक्रमादिति ट॰ ।
3 प्रयुक्तचरशब्देनेति ज॰ , ञ॰ च ।
Image-P.233


अभावेपि तयोरन्तर्व्यवधानास्त्रिधैव सा । 20ab
अन्तरा पदवाक्याभ्यां प्रतिभेदं पुनर्द्विधा ॥ 20cd
वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः । 21ab
व्युत्पादितपूर्व्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ॥ 21cd
इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता । 22ab
असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ॥ 22cd
एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः । 23ab
पक्षे सपक्षेनास्तित्वं विपक्षे ऽस्तित्वमेव तत् ॥ 23cd
काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् । 24ab
एकादशनिरर्थत्वं 1 दुष्करादौ न दुष्यति ॥ 24cd
दुःखीकरोति दोषज्ञान्गूढार्थत्वं न दुष्करे । 25ab
न ग्राम्यतोद्वेगकारी प्रसिद्धेर्ल्लोकशास्त्रयोः ॥ 25cd
क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः । 26ab
भ्रष्टकारकताक्षेपबलाध्याहृतकारके ॥ 26cd
प्रगृह्ये गृह्यते नैव क्षतं विगतसन्धिना । 27ab
कष्टपाठाद्विसन्धित्वं दुर्व्वचादौ न दुर्भगम् ॥ 27cd
अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा । 28ab
नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर्न्न लिप्यते ॥ 28cd
विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां । 29ab
संख्यायास्तत्र भिन्नत्वमुपमानोपमेययोः ॥ 29cd
अनेकस्य तथैकेन बहूनां बहुभिः शुभा । 30ab
कवीमां समुदाचारः समयो नाम गीयते ॥ 30cd


1 एकादशनिरस्तत्वमिति ञ॰ ।
Image-P.234


समान्यश्च विशिष्टश्च धर्म्मवद्भवति द्विधा । 31ab
सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ॥ 31cd
यः प्रसिध्यति सामान्य इत्यसौ समयो मतः । 32ab
सर्व्वेसिद्धान्तिका येन सञ्चरन्ति निरत्ययं ॥ 32cd
कियन्त एव वा येन सामान्यस्तेन सद्विधा । 33ab
छेदसिद्धन्ततो ऽन्यः स्यात् केषाञ्चिद्भ्रान्तितो यथा ॥ 33cd
तर्कज्ञानं मुनेः कस्य कस्यचित् क्षणभङ्गिका । 34ab
भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ॥ 34cd
प्रज्ञातस्थूलताशब्दानेकान्तत्वं तथार्हतः । 35ab
शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ॥ 35cd
जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं । 36ab
अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ॥ 36cd
बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टैः स उच्यते । 37ab
परिग्रहादप्यसतां सतामेवापरिग्रहात् ॥ 37cd
भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते । 38ab
प्रत्यक्षादिप्रमाणैर्यद्बाधितं तदसद्विदुः ॥ 38cd
कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता । 39ab
यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥ 39cd
अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् । 40ab
विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् । 40cd
अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ॥ 40॥ 40ef


इत्याग्नेये महापुराणे अलङ्कारे काव्यदोषविवेको नाम षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः ।
Image-P.235


Chapter 347

अथ सप्तचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

एकाक्षराभिधानं ।
अग्निरुवाच ।
एकाक्षराभिधानञ्च मातृकान्तं वदामि ते । 1ab
अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ॥ 1cd
सीमायामथाव्ययं आ भवेत्संक्रोधपीडयोः । 2ab
इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः 1 2cd
ऋ शब्दे चादितौ ऋस्यात् ऌ ॡ ते वै दितौ गुहे । 3ab
ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ॥ 3cd
अङ्कामः अः प्रशस्तः स्यात् 2 को ब्रह्मादौ कु कुत्सिते । 4ab
खं शून्येन्द्रियं खङ्गो गन्धर्व्वे च विनायके ॥ 4cd
गङ्गीते गो गायने स्याद् घो घण्टा किङ्किणीमुखे । 5ab
ताड़ने ङश्च विषये स्पृहायाञ्चैव भैरवे ॥ 5cd
चो दुर्जने निर्म्मले छश्छेदे जिर्ज्जयने तथा । 6ab
जं गीते झः प्रशस्ते स्याद्बले 3 ञो गायने च टः ॥ 6cd
ठश्चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः । 7ab
डश्च रुद्रे ध्वनौ त्रासे ढक्वायां ढो ध्वनौ मतः ॥ 7cd
णो निष्कर्षे निश्चये च तश्चौरे क्रोडपुच्छके । 8ab
भक्षणे थश्छेदने दो धारणे शोभने मतः ॥ 8cd


1 ब्रह्मकाद्य ऊरिति ख॰ ।
2 प्रशान्तः स्यादिति ख॰ ।
3 धने इति ञ॰ ।
Image-P.236


धो धातरि चधूस्तूरे नो वृन्दे सुगते तथा । 9ab
प उपवने विख्यातः फश्च झञ्झानिले मतः ॥ 9cd
फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके । 10ab
मा श्रीर्म्मानञ्च माता स्याद्याग यो यातृवीरणे ॥ 10cd
रो बह्नौ च लः शक्रे च लो विधातरि ईरितः । 11ab
विश्लेषणे वो वरुणे शयने शश्च शं सुखे ॥ 11cd
षः श्रेष्ठे सः परोक्षे च सा लक्ष्मीः सं कचे मतः । 12ab
धारणे हस्तथा रुद्रे क्षः क्षत्त्रे चाक्षरे मतः ॥ 12cd
क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि । 13ab
मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ॥ 13cd
हैहयशिरसे नमः सर्व्वविद्याप्रदो मनुः । 14ab
अकाराद्यास्तथा मन्त्रा मातृकामन्त्र उत्तमः ॥ 14cd
एकपद्मे ऽर्चयेदेतान्नव दुर्गाश्च पूजयेत् । 15ab
भगवती कात्यायनी कौशिकी चाथ चण्डिका ॥ 15cd
प्रचण्डा सुरनायिका उग्रा पार्व्वती दुर्गया । 16ab
ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् ।
क्रमादि तु षड़ङ्गं स्याद्गणो गुरुर्गुरुः क्रमात् ॥ 16cd
अजितापराजिता चाथ जया च विजया ततः । 17ab
कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ॥ 17cd
सिद्धादिवटुकाः पूज्या हेतुकश्च कपालिकः । 18ab
एकपादो भीमरूपो दिक्पालान्मध्यतो नव ॥ 18cd
ह्रीं दुर्गे दुर्गे रक्षणि स्वाहामन्त्रार्थसिद्धये । 19ab
गौरी पूज्या च धर्म्माद्याः स्कन्दाद्याः शक्तयो यजेत् ॥ 19cd
Image-P.237


प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा । 20ab
कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ॥ 20cd
ओं गं स्वाहा मूलमन्त्रो ऽयं गं वा गणपतये नमः । 21ab
षड़ङ्गो रक्तशुक्लश्च दन्ताक्षपरशूत्कटः ॥ 21cd
समोदको ऽथ 1 गन्धादिगन्धोल्कायेति च क्रमात् । 22ab
गजो महागणपतिर्म्महोल्कः पूज्य एव च ॥ 22cd
कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय ।
लम्बनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय ।
वक्रतुण्दाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ।
भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा ।
एतैर्म्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् । 23ab
काद्यैर्वा वीजसंयुक्तैस्तैराद्यैश्च नमो ऽन्तकैः ॥ 23cd
मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः 2* । 24ab
कात्यायनं अकन्द आह यत्तद्व्याकरणं वदे ॥ 24cd


इत्याग्नेये महापुराणे एकाक्षराभिधानं नाम सप्तचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।


1 समे देशे ऽथेति ज॰ ।
2 द्वे द्वे रेखाथ दक्षिणा इति ज॰ ।
* द्विरेफद्विर्मूखाक्षिण इत्ययं पाठ आदर्शदोषेण समीचीनो भवितुं नार्हति ।
Image-P.238


Chapter 348

अथाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।

व्याकरणं ।
स्कन्दउवाच ।
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् । 1ab
कात्यायनविबोधाय बालानां बोधनाय च ॥ 1cd
प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः । 2ab
अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त क प य श ष स र ह ल इति प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥ 2cd
आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु । 3ab
तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥ 3cd
अण् एङ् अट् यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण णकारेण । अम् यम् ङम् अच् इच् ऐच् अय् मय् झय् खय् जव् झव् खव् चव् शव् अस् हस् वस् भस् अल् हल् बल् रल् झल् सल् इति प्रत्याहारः ।


इत्याग्नेये महापुराणे व्याकरणे प्रत्याहारो नामाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः ।
Image-P.239


Chapter 349

अथोनपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

सन्धिसिद्धरूपं ।
स्कन्दउवाच ।
वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः । 1ab
दण्डाग्रमं सागता दधीदं नदीहते मधूदकं ॥ 1cd
पितृषभः ॡकारश्च तवेदं सकलोदकं । 2ab
अर्द्धर्च्चो ऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ॥ 2cd
खट्टौघो ऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं । 3ab
पित्रर्थोपवनं दात्री नायको लावको नयः ॥ 3cd
तइह तयिहेत्यादि ते ऽत्र यो ऽत्र जले ऽकजं । 4ab
प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ॥ 4cd
उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे । 5ab
अमी एते यज्ञभूते एहि देव इमन्नय ॥ 5cd
वक्ष्ये सन्धिं व्यञ्जनाणां वाग्यतो ऽजेकमातृकः । 6ab
षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् ॥ 6cd
वाङ्मनसं वग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं । 7ab
तल्लु नाति तच्चरेच्च क्रुङ्ङास्ते च सुगणिह ॥ 7cd
भवांश्चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः । 8ab
भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः ॥ 8cd
भवाञ्छेते भवाञ्चशेते भवाञ्शेते भवाण्डीनः । 9ab
स्वम्भर्त्ता त्वङ्करोष्यादिः सन्धिर्ज्ञेयो विसर्गजः ॥ 9cd
Image-P.240


कश्छिन्द्यात् कश्चरेत् कष्टः कष्ठः कस्थश्च कश्चलेत् । 10ab
कड् खनेत् कड् करोति स्म कठ् पठेत् कठ् फलेत वा ॥ 10cd
कश्श्वशुरः कःश्वशुरः कस्सावरः कःसावरः । 11ab
कः फलेत कः शयिता को ऽत्र योधः क उत्तमः ॥ 11cd
देवा एते भो इह सोदरा यान्ति भगो व्रज । 12ab
सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ॥ 12cd
पुनरेति स यातीह एष याति क ईश्वरः । 13ab
ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ॥ 13cd


इत्याग्नेये महापुराणे व्याकरणे सन्धिसिद्धरूपं नामोनपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

Chapter 350

अथ पञ्चाशदधिकत्रिशततमो ऽध्यायः ।

सुब्विभक्तिसिद्धरूपं ।
स्कन्दउवाच ।
विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते । 1ab
द्वे विभक्ती सुप्तिङश्चय सुपः सप्त विभक्तयः ॥ 1cd
सुऔजसिति प्रथमा अमौट्शसो द्वितीया । 2ab
टाभ्यां भिसिति तृतीया ङेभ्यांभ्यसश्चतुर्थ्यपि ॥ 2cd
ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोसामिति षष्ठ्यपि । 3ab
ङिओस्सुविति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ॥ 3cd
द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं । 4ab
Image-P.241


प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ॥ 4cd
दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्य्यतः । 5ab
वृक्षः सर्व्वो ऽथ पूर्व्वश्च प्रथमश्च द्वितीयकः ॥ 5cd
तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः । 6ab
पटुर्नीर्ग्रामनीन्द्रश्च खलपूर्म्मित्रभूः स्वभूः ॥ 6cd
सुश्रीः सुधीः पिता भ्राता ना कर्त्ता क्रोष्टुनप्तृनप्तृकौ । 7ab
सुरा रा गौस्तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ॥ 7cd
सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेडपि । 8ab
आपो मरुद्भवन् दीव्यन् भवांश्च मघवान् पिवन् ॥ 8cd
भगवानधवानर्व्वान्वह्निमत् सर्व्वित्सुपृत् । 9ab
सुसीमा कुण्डी राजा च श्वा युवा मघवा तथा ॥ 9cd
पूषा सुकर्म्मा यज्वा च सुवर्म्मा च सुधर्म्मणा । 10ab
अर्य्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ॥ 10cd
प्रशान् सुतांश्च पञ्चाद्याः सुगीः सुराः सुपूरपि । 11ab
चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चोशनसा सह ॥ 11cd
पेचिवान् गौरवानड्वान् गोधूङ्मित्रद्रुहौ श्वलिट् । 12ab
स्त्रियां जाया जरा बाला एड़का सह वृद्धया ॥ 12cd
क्षत्रिया बहुराजा च बहुदा मा ऽथ बालिका । 13ab
माया कौमुदगन्धा च सर्व्वा पूर्व्वा सहान्यया ॥ 13cd
द्वितीया च तृतीया च बुद्धिः स्त्री श्रीर्न्नदी सुधीः । 14ab
भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्त्यपि ॥ 14cd
शृण्वती तुदती कर्त्री तुदन्ती कुर्वती मही । 15ab
रुन्धती क्रीड़ती दन्ती पालयन्ती सुराण्यपि ॥ 15cd
Image-P.242


गौरी पुत्रवती नीश्च वधूर्द्देवतया भुवा । 16ab
तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा च गौः ॥ 16cd
नौर्वाक्त्वक्प्राच्यवाचीति तिरश्ची समुदीच्यपि । 17ab
शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् ॥ 17cd
यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया । 18ab
सीमा पञ्चादयो राजी धूः पूश्चैव दिशा 1 गिरा ॥ 18cd
चतस्रो विदुषी चैव केयं दिक् दृक्च तादृशी । 19ab
असौ स्त्रियां नायकाश्च नायकाश्च नपुंसके ॥ 19cd
कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ । 20ab
मधु त्रपु कर्त्तृ भक्तृ अतिवक्तृ पयः पुरः ॥ 20cd
प्राक्प्रत्यक् च तिर्य्यगुदक् जगद् जाग्रत्तथा सकृत् । 21ab
सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ॥ 21cd
षट्सर्पिः श्रेयश्चत्वारि अदो ऽन्ये हीदृशाः परे । 22ab
एतेभ्यः प्रथमादयश्च स्युः प्रातिपदिकात्पराः ॥ 22cd
धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् । 23ab
प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् ॥ 23cd
सम्बोधने च प्रथमा उक्ते कर्म्मणि कर्त्तरि । 24ab
कर्म्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता ॥ 24cd
क्रियते येन करणं कर्त्ता यश्च करोति सः । 25ab
अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् ॥ 25cd
कारके कर्त्तरि च सा सम्प्रदाने चतुर्थ्यपि । 26ab
यस्मै दित्सा धारयते सम्प्रदानं तदोरितं ॥ 26cd


1 दिवेति ज॰ ।
Image-P.243


अपादानं यतो ऽपैति आदत्ते च भयं यतः । 27ab
अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि ॥ 27cd
आधारो यो ऽधिकरणं विभक्तिस्तत्र सप्तमी । 28ab
एकार्थे चैकवचनं द्व्यर्थे द्विवचनं भवेत् ॥ 28cd
बहुषु बहुवचनं सिद्धरूपाण्यथो वदे । 29ab
वृक्षः सूर्य्यो ऽम्बुवाहो ऽर्क हेरवे हेद्विजातयः ॥ 29cd
विप्रौ गजान्महेन्द्रेण यमाभ्यामनलैः कृतं । 30ab
रामाय मुनिवर्य्याभ्यां केभ्यो धर्म्मात् हरौ रतिः ॥ 30cd
शराभ्यां पुस्तकेभ्यश्च अर्थस्येश्वरयोर्गतिः । 31ab
बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ॥ 31cd
एवं काममहेशाद्याः शब्दा ज्ञेयाञ्च वृक्षवत् । 32ab
सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ॥ 32cd
सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् । 33ab
एवञ्चोभयकतरकतमान्यतरादयः ॥ 33cd
पूर्व्वे पूर्व्वाश्च पूर्वस्मै पूर्वस्मात् सुसमागतः । 34ab
पूर्व्वे बुद्धिश्च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ॥ 34cd
एवं परावराद्याश्च दक्षिणोत्तरकान्तराः । 35ab
अपरश्चाधरो नेमाः प्रथमाः प्रथमे ऽर्कवत् ॥ 35cd
एवं चरमायतया अल्पार्द्धा नेमआदयः । 36ab
द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ॥ 36cd
द्वितीयस्मिन् द्वितीये च तृतीयश्च तथा ऽर्क्कवत् । 37ab
सोमपाः सोमपौ ज्ञेयौ सोमपाः सोमपां व्रज ॥ 37cd
कीलालपौ सोमपश्च सोमपा सोमपे दद । 38ab
Image-P.244


सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ॥ 38cd
एवं कीलालपाद्याः स्युः कविरग्निस्तथा ऽरयः । 39ab
हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ॥ 39cd
रविभ्यां रविभिर्द्देहि वह्णये यः समागतः । 40ab
अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्व ऽथ ॥ 40cd
एवं सुसृतिरभ्रान्तिः सुकीर्त्तिः सुधृतिस्तथा । 41ab
सखा सखायौ सखायः हेसखे व्रज सत्पतिं ॥ 41cd
सखायञ्च सखायौ च सखीन् सख्या गतो दद । 42ab
सख्ये सख्युश्च सख्युश्च सख्योः शेषः कवेरिव ॥ 42cd
पत्या पत्ये च पत्युश्च पत्युः पत्योस्तथा ऽग्निवत् । 43ab
द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ॥ 43cd
त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् । 44ab
कविवत् कतिकतीतिशेषं वहुवचनं स्मृतम् ॥ 44cd
नीर्नियौ च नियो हेनीः नियं नियौ नियो निया । 45ab
नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस्तथा ॥ 45cd
सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं । 46ab
ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ॥ 46cd
ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः । 47ab
सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ॥ 47cd
स्वयम्भुवा स्वयम्भुवि एवं प्रतिभुवादयः । 48ab
खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ॥ 48cd
एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः । 49ab
क्रोष्टूंश्च क्रोष्टुना क्रोष्ट्रा क्रोष्टूनां क्रोष्टरीद्दृशं ॥ 49cd
Image-P.245


पिता पितरौ पितरः हेपितः पितरौ शुभौ । 50ab
पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ॥ 50cd
एवं भ्राता च जामातृमुखा नॄणां नृणां तथा । 51ab
कर्त्ता कर्त्तारौ कर्त्तॄंश्च कर्त्तॄणां कर्त्तरीदृशं ॥ 51cd
पितृवच्चैवमुद्गाता स्वसा नप्त्रादयः स्मृताः । 52ab
सुराः सुरायौ सुरायः सुरायाञ्च सुराय्यपि ॥ 52cd
गौः गावौ गाङ्गा गवा च गोर्गवोश्च गवां गवि । 53ab
एवं द्यौर्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ॥ 53cd
सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि । 54ab
एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ॥ 54cd
प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्क्ष्वपि । 55ab
एवं ह्युदङुदीची वा सम्यङ् प्रत्यक्समीच्यपि ॥ 55cd
तिर्य्यङ्तिरश्च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः । 56ab
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः ॥ 56cd
अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्भ्याञ्च पूर्व्ववत् । 57ab
तत्त्वतृट् तत्त्वतृषौ च तत्त्वतृङ्भ्यां समागतः ॥ 57cd
तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतड़ादयः । 58ab
भिषक् भिषग्भ्यां भिषजि जन्मभागादयस्तथा ॥ 58cd
मरुत् मरुद्भ्यां मरुति एवं शुत्रुजिदादयः । 59ab
भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ॥ 59cd
महान्महान्तौ महतामेवं भगवदादयः । 60ab
एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ॥ 60cd
अग्निचित्स्वेवमेवान्यत् वेदवित्तत्त्ववित्त्वपि । 61ab
Image-P.246


वेदविदामेवमन्यत् यः समस्तेन सर्व्ववित् ॥ 61cd
राजा राजानौ राज्ञः राज्ञि राजनि राजन् । 62ab
यज्वा यज्वानस्तद्वत् करी दण्डी च दन्डिना ॥ 62cd
पन्थाः पन्थानौ च पथः पथिभ्यां पथि चेदृशम् । 63ab
मन्था ऋभुक्षाः पथ्याद्याः पञ्च पञ्च च पञ्चभिः ॥ 63cd
प्रतान् प्रतानौ प्रतान्भ्यां हेप्रतांश्च सुशर्म्मणः । 64ab
आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ॥ 64cd
कः केन सर्व्ववत् केषु अयं चेमे इमान्नयः । 65ab
अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्य च ॥ 65cd
अनयोरेषामेषु स्याच्चत्वारश्चतुरस्तथा । 66ab
चतुर्णाञ्च चतुर्ष्व ऽस्ति सुगीः श्रेष्ठः सुगिर्य्यपि ॥ 66cd
सुद्यौः सुदिवौ सुद्युभ्यां दिड़्विषौ विट्सु यादृशः । 67ab
यादृग्भ्याञ्चैव विड़्भ्याञ्च षट् षट् षणाञ्च षट्स्वपि ॥ 67cd
सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् । 68ab
हे सुवचो हे उशनन् उशना वोशनस्यपि ॥ 68cd
पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः । 69ab
विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभूविवान् ॥ 69cd
एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस्तथा । 70ab
असौ अमू अमी श्रेष्ठा अमुं अमूनिहामुना ॥ 70cd
अमीभिरमुस्मै वामुस्मादमुस्य वामुयोस्तथा । 71ab
अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्भिरागतः ॥ 71cd
गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रदुहा । 72ab
मित्रध्रुग्भ्यां मित्रध्रुग्भरेवं चित्तद्रुहादयः ॥ 72cd
Image-P.247


स्वलिट् स्वलिड़्भ्यां स्वलिहि अनड्वाननडुत्सु च । 73ab
अजन्ताश्च हलन्ताश्च पुंस्यथो ऽथ स्त्रियां वदे ॥ 73cd


इत्याग्नेये महापुराणे व्याकरणे पुंलिङ्गशब्दसिद्धरूपं नाम पञ्चाशदधिकत्रिशततमो ऽध्यायः ।

Chapter 351

अथैकपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

स्त्रीलिङ्गशब्दसिद्धरूपम् ।
स्कन्द उवाच ।
रमा रमे रमाः शुभा रमां रमे रसास्तथा । 1ab
रमया च रमाभ्याञ्च रमाभिः कृतमव्ययं ॥ 1cd
रमायै च रमाभ्याश्च रमाया रमयोः शुभं । 2ab
रमाणाञ्च रमायाञ्च रमास्वेवं कलादयः ॥ 2cd
जरा जरसौ जर इति जरसश्च जरा जरां । 3ab
जरसञ्च जरास्वेवं सर्व्वा सर्व्वे च सर्व्वया ॥ 3cd
सर्व्वस्यै देहि सर्व्वस्याः सर्व्वस्याः सर्व्वस्योस्तथा । 4ab
शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश्च तिसृणां ॥ 4cd
बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश्च हेमते । 5ab
कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः ॥ 5cd
नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च । 6ab
कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया ॥ 6cd
Image-P.248


श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश्च स्त्रियः स्त्रिया स्त्रियै । 7ab
स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे ॥ 7cd
जम्बूर्जम्ब्वौ च जम्बूश्च जम्बूनाञ्च फलम्पिव । 8ab
वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्व्वापि च गौश्च नौः ॥ 8cd
वाग्वाचा वाग्भिश्च वाक्षु श्रग्भ्यां स्रजि स्रजोस्तथा । 9ab
विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद् भवन्त्यपि ॥ 9cd
दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि । 10ab
रुदती रुन्धती देवी गृह्नती चोरयन्त्यपि ॥ 10cd
दृषत् दृषद्भ्यां दृषदि विशेषविदुषी कृतिः । 11ab
समित् समिद्भ्यां समिधि सीमा सीम्नि च सीमनि ॥ 11cd
दामनीभ्यां ककुद्भ्याञ्च केयमाभ्यां तथासु च । 12ab
गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि ॥ 12cd
द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशो दिशः । 13ab
यादृश्यां यादृशी तद्वत् सुवचोभ्यां सुवचःस्वपि । 13cd
असौ चामूममू चामूरमूभिरमुया ऽमुयोः ॥ 13॥ 13ef


इत्याग्नेये महापुराणे व्याकरणे स्त्रीलिङ्गशब्दसिद्धरूपं नामैकपञ्चाशदधिकत्रिशततमो ऽध्यायः ॥
Image-P.249


Chapter 352

अथ द्विपञ्चाशदधिकत्रिशततमो . अध्यायः ।

नपुंसकशब्दसिद्धरूपं ।
स्कन्द उवाच ।
नपुंसके किं के कानि किं के कानि ततो जलं । 1ab
सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च ॥ 1cd
ग्रामणि ग्रामणिनी च ग्रामणि ग्रामणीन्यपि । 2ab
वारि वारिणी वारीणि वारिणां वारिणीदृशं ॥ 2cd
शुचये शुचिने देहि मृदुने मृदवे तथा । 3ab
त्रपु त्रपुणि त्रपुणाञ्च खलपूनि खलप्वि च ॥ 3cd
कर्त्त्रा च कर्तृणे कर्त्त्रे अतिर्य्यतिरिणान्तथा । 4ab
अभिन्यभिनिनी चैवे सुवचांसि सुवाक्षु च ॥ 4cd
यद्यत्त्विमे तत् कर्म्माणि इदञ्चेमे त्विमानि च । 5ab
ईदृक्त्वदो ऽमुनी अमूनि अमुना स्यादमीषु च ॥ 5cd
अहमावां वयं मां वै आबामस्मान्मया कृतं । 6ab
आवाभ्याञ्च तथास्माभिर्म्मह्यमस्मभ्यमेव च ॥ 6cd
मदावाभ्यां मदस्मच्च पुत्रो ऽयं मम चावयोः । 7ab
अस्माकमपि चास्मासु त्वं युवां यूयमीजिरे ॥ 7cd
त्वां युवाञ्च युष्मांश्च त्वया युष्माभिरीरितं । 8ab
तुभ्यं युवाभ्यां युम्मभ्यं त्वत् युवाभ्याञ्च युष्मत् ॥ 8cd
तव युवयोर्युष्माकं त्वयि युष्मासु भारती । 9ab
उपलक्षणमत्रैव अज्झलन्ताश्च ते स्मृताः ॥ 9cd


इत्याग्नेये महापुराणे व्याकरणे नपुंसकशब्दसिद्धरूपं नाम द्विपञ्चाशदधिकत्रिशततमो ऽध्यायः ।
Image-P.250


Chapter 353

अथ त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

कारकं ।
सुकन्द उवाच ।
कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं । 1ab
ग्रामो ऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ॥ 1cd
स्वतन्त्रः कर्त्ता विद्यान्तं कृतिनः समुपासते । 2ab
हेतुकर्त्तालम्भयते हितं वै कर्म्मकर्त्तरि ॥ 2cd
स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः । 3ab
कर्त्ता ऽभिहित उत्तमः कर्त्ता ऽनभिहितो ऽधमः ॥ 3cd
कर्त्ता ऽनभिहितो धर्म्मः शिष्ये व्याख्यायते यथा । 4ab
कर्त्ता पञ्चविधः प्रोक्तः कर्म्म सप्तविधं शृणु ॥ 4cd
ईप्सितं कर्म्म च यथा श्रद्दधाति हरिं यतिः । 5ab
अनीप्सितं कर्म्म यथा अहिं लङ्घयते भृशं ॥ 5cd
नैवेप्सितं नानीप्सितं दुग्धं सम्भक्ष्यन्रजः । 6ab
भक्ष्येदप्यकथितं गोपालो दोग्धि गां पयः ॥ 6cd
कर्त्तृकर्मा ऽथ गमयेच्छिष्यं ग्रामं गुरुर्यथा । 7ab
कर्म्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ॥ 7cd
कर्म्मानभिहितं स्तोत्रं हरेः कुर्य्यात्तु सर्व्वदं । 8ab
करणं द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥ 8cd
चक्षुषा रूपं गृह्णीति वाह्यं दात्रेण तल्लुनेत् । 9ab
सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ॥ 9cd
Image-P.251


नरो ददापि नृपतये दासन्तदनुमन्तृकं । 10ab
अनिराकर्त्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः ॥ 10cd
अपादानं द्विधा प्रोक्तं चलमश्वात्तु धावतः । 11ab
पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ॥ 11cd
चतुर्द्धा चाधिकरणं व्यापकन्दध्नि वै घृतम् । 12ab
तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ॥ 12cd
गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा । 13ab
जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ॥ 13cd
गङ्गायां घोषो वसति औपचारिकमीदृशं । 14ab
तृतीया वाथ वा षष्ठी स्मृता ऽनभिहिते तथा ॥ 14cd
विष्णुः सम्पूज्यते लोकैर्गन्तव्यन्तेन तस्य वा । 15ab
प्रथमा ऽभिहितकर्त्तृकर्म्मणोः प्रणमेद्धरिम् ॥ 15cd
हेतौ तृतीया चान्नेन वसेद्वृक्षाय वै जलं । 16ab
चतुर्थी तादर्थ्ये ऽभिहिता पञ्चमी पर्य्युपाङ्मुखैः ॥ 16cd
योगे वृष्टः परि ग्रामाद्देवो ऽयं बलवत् पुरा । 17ab
पूर्व्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ॥ 17cd
पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् । 18ab
पृथग्ग्रामाद्विहारेण विना श्रीश्च श्रिया श्रियः ॥ 18cd
कर्म्मप्रवचनीयाख्यैर्द्वितीया योगतो भवेत् । 19ab
अन्वर्ज्जुनञ्च योद्धारो ह्यभितो ग्राममीरितं ॥ 19cd
नमःस्वाहास्वधास्वस्तिवषडाद्यैश्चतुर्थ्यपि । 20ab
नमो देवाय ते स्वस्ति तुमर्थाद्भावाचिनः ॥ 20cd
पाकाय पक्तये याति तृतीया सहयोगके । 21ab
Image-P.252


हेत्वर्थे कुत्सिते ऽङ्गे सा तृतीया च विशेषणे ॥ 21cd
पिता ऽगात्सह पुत्रेण काणो ऽक्ष्णा गदया हरिः । 22ab
अर्थेन निवसेद्भृत्यः काले भावे च सप्तमौ ॥ 22cd
विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् । 23ab
नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः ॥ 23cd
नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः । 24ab
गोषु सूतो गवां सूतो राज्ञां दायादको ऽस्त्विह ॥ 24cd
अन्नस्य 1 हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि । 25ab
मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः । 25cd
अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि ॥ 25॥ 25ef


इत्याग्नेये महापुराणे व्याकरणे कारकं नाम त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

Chapter 354

अथ चतुःपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

समासः ।
स्कन्द उवाच ।
षोढ़ा समासं वक्ष्यामि अष्टाविंशतिधा पुनः । 1ab
नित्यानित्यविभागेन लुग्लोपेन च द्विधा ॥ 1cd
कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा । 2ab
राज्ञः पुमान् राजपुमान् नित्यो ऽयञ्च समासकः ॥ 2cd


1 अर्थस्येति ज॰ ।
Image-P.253


कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् । 3ab
स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह ॥ 3cd
प्रथमातत्पुरुषो ऽयं पूर्व्वं कायस्य विग्रहे । 4ab
पूर्वकायो ऽपरकायो ह्यधरोत्तरकायकः ॥ 4cd
अर्द्धं कणाया अर्द्धकणा भिक्षातूर्य्यमथेदृशम् । 5ab
आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ॥ 5cd
वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश्च तृतीयया । 6ab
चतुर्थी स्याद्विष्णुबलिर्वृकभीतिश्च पञ्चमी ॥ 6cd
राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा । 7ab
सप्तमी चाक्षशौण्डो ऽयमहितो नञ्समासकः ॥ 7cd
कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः । 8ab
विशेषणपूर्वपदो विशेष्योत्तरतस्तथा ॥ 8cd
वैयाकरणखमूचिः शीतोष्णं द्विपदं शुभम् । 9ab
उपमानपूर्वपदः शङ्खपाण्डर इत्यपि ॥ 9cd
उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि । 10ab
सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ॥ 10cd
गुण इति वृद्धिर्वाच्या सुहृदेव सुवन्धुकः । 11ab
अवधारणपूर्वपदो बहुब्रीहिश्च सप्तधा ॥ 11cd
द्विपदश्च बहुव्रीहिरारूढ़्भवनो नरः । 12ab
अर्च्चिताशेषपूर्व्वोयं बह्वङ्घ्रिः परिकीर्त्तितः ॥ 12cd
एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् । 13ab
सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः ॥ 13cd
सहपूर्वपदो ऽयं स्यात् समूलोद्धृतकस्तरुः । 14ab
Image-P.254


व्यतिहारलक्षणार्थः केशाकेशि नखानखि ॥ 14cd
दिग्लक्ष्या स्याद्दक्षिणपूर्व्वा द्विगुराभाषितो द्विधा । 15ab
एकवद्भावि द्विशृङ्गं पञ्चमूली त्वनेकधा ॥ 15cd
द्वन्द्वः समासो द्विविधो हीतरेतरयोगकः । 16ab
रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ॥ 16cd
द्विधाख्यातो ऽव्ययीभावो नामपूर्वपदो यथा । 17ab
शाकस्य मात्रा शाकप्रति यथा ऽव्ययपूर्व्वकः ॥ 17cd
उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विधः । 18ab
उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः । 18cd
पूर्वार्थेशो ऽव्ययीभावो बहुव्रीहिश्च वाह्यगः ॥ 18॥ 18ef


इत्याग्नेये महापुराणे व्याकरणे समासो नाम चतुःपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

Chapter 355

अथ पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

तद्धितं ।
स्कन्द उवाच ।
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी । 1ab
ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं ॥ 1cd
लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं । 2ab
अणि प्राज्ञ आर्च्चकः स्यात् दन्तादुरचि दन्तुरः ॥ 2cd
रे स्यान्मधुरं सुशिरं रे स्यात् केशर ईदृशः । 3ab
Image-P.255


हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥ 3cd
इनौ धनी करी हस्ती धनिकं टिकनीरितं । 4ab
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥ 4cd
वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं । 5ab
फलिनो वर्हिणः केकी वृन्दारकस्तथा कनि ॥ 5cd
आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः । 6ab
हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥ 6cd
रूपं वातादुलचि स्याद् वातुलश्चानपत्यके । 7ab
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥ 7cd
तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः । 8ab
व्युत्क्रमं वेत्ति क्रमकः नरश्चक्राम कौशकः ॥ 8cd
प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि । 9ab
मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके ॥ 9cd
इञि दाक्षिर्दाशरथिः कचि नारायणादिकं । 10ab
आश्वायनः स्याच्च फञि यचि गार्ग्यश्च वात्सकः ॥ 10cd
ढकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि । 11ab
ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं ॥ 11cd
क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः । 12ab
यति मूर्द्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥ 12cd
तारकादिभ्य इतचि नभस्तारकितादयः । 13ab
अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनौ ॥ 13cd
चञ्चुपि वित्तचञ्चुः स्याद्वित्तमस्य च शब्दके । 14ab
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ॥ 14cd
Image-P.256


ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् । 15ab
पचतितराञ्च तरपि तमप्यटतितमामपि ॥ 15cd
मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः । 16ab
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥ 16cd
पटुजातीयो जातीये जानुमात्रञ्च मात्रचि । 17ab
ऊरुद्वयसो द्वयसचि ऊरुदघ्नञ्च दघ्नचि ॥ 17cd
तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं । 18ab
सामान्यवृत्तिरुक्ता ऽथ अव्ययाख्यश्च तद्धितः ॥ 18cd
यस्माद्यततसिलि च यत्र तत्र त्रलीरितं । 19ab
अस्मिन् काले ह्यधुनास्यादिदानीञ्चैव दान्यपि ॥ 19cd
सर्वस्मिन् सर्व्वदा दास्यात्तस्मिन्काले र्हिलीरितं । 20ab
तर्हि हो ऽस्मिन् काल इह कर्हि कस्मिंश्च कालके ॥ 20cd
यथा थालि थमि कथं पूर्व्वस्यान्दिशि सञ्चयेत् । 21ab
अस्ताति चैव पूर्व्वस्याः पूर्व्वादिग्रामणीयकाः ॥ 21cd
पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं । 22ab
उति पूर्व्वाब्दे च परुत् पूर्व्वतरे परार्य्यपि ॥ 22cd
ऐषमो ऽस्मिन् संबत्सरे रूपं समसि चेरितं । 23ab
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ॥ 23cd
अद्यास्मिन्नहनि द्ये स्यात् पूर्व्वेद्युश्च तथैद्युसि । 24ab
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ ॥ 24cd
उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ । 25ab
उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्द्ध्वकात् ॥ 25cd
उत्तरेण च पित्रोक्तं आचि च स्याच्च दक्षिणा । 26ab
Image-P.257


आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा ॥ 26cd
ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं । 27ab
द्वौ प्रकारौ द्विधा धाचि 1 आसुसुरतरं यथा 2* ॥ 27cd
निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः । 28ab
पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं ॥ 28cd
प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् । 29ab
स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं ॥ 29cd
कपेर्भावश्च कापेयं सैन्यं पथ्यं यकीरितं । 30ab
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् । 30cd
आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥ 30॥ 30ef


इत्याग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

Chapter 356

अथ षट्पञ्चाशदधिकत्रिशततमो ऽध्यायः ।

उणादिसिद्धरूपम् ।
कुमार उवाच ।
उणादयो ऽभिधास्यन्ते प्रत्यया धातुतः परे । 1ab
उणि कारुश्च शिल्पी स्यात् जायुर्म्मायुश्च पित्तकं ॥ 1cd
गोमायुर्वायुर्वेदेषु वहुलं स्युरुणादयः । 2ab


1 पाठो ऽयं पौनरुक्त्यदोषेण दुष्टः ।
2 खयं सुष्ठुतरा यथेति ज॰ । अमुमुत्तरा यथेति ट॰ ।
* पाठो ऽयं, एतत्पाठस्थलाभिसिक्तपाठान्तरञ्च न सम्यक् प्रतिभाति ।
Image-P.258


आयुः स्वादुश्च हेत्वाद्याः किंशारुर्धान्यशूककः ॥ 2cd
कृकवाकुः कुक्कुटः स्याद् गुरुर्भर्त्ता मरुस्तथा । 3ab
शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते ॥ 3cd
स्वरुर्वज्रं त्रपुरुसि समसारं फल्गुरीरितं । 4ab
गृध्नश्च क्रनि किरचि मन्दिरं तिमिरं तमः ॥ 4cd
इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं । 5ab
बुधो विद्वान् क्वसौ स्याच्च शिविरं गुप्तसंस्थितिः ॥ 5cd
ओतुर्विडालश्च तुनि अभिधानादुगादयः । 6ab
कर्णः कामी च गृहभूर्वास्तुर्जैवातृकः स्मृतः ॥ 6cd
अनड्वान् वहतेर्विनि स्याज्जातौ जीवार्णवौषधं । 7ab
नौ वह्निरिननि हरिणः मृगः कामी च भाजनम् 1 7cd
कम्बोजो भाजनम्भाण्डं सरण्डश्च चतुष्पदः । 8ab
तरुरेरण्डः सङ्घातो वरूड़ः साम निर्भरं ॥ 8cd
स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं । 9ab
कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं ॥ 9cd
जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्क्ककः । 10ab
वर्व्वरः कुटिलो धूर्त्तश्चत्वरञ्च चतुष्पथं ॥ 10cd
चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः । 11ab
पुत्र सूनुः पिता तातः पृदाकुर्व्याघ्रवृश्चिके । 11cd
गर्त्तो ऽवटो ऽथ भरतो नटो ऽपरेप्युणादयः ॥ 11॥ 11ef


इत्याग्नेये महापुराणे व्याकरणे उणादिसिद्धरूपं नाम षट्पञ्चाशटधिकत्रिशततमो ऽध्यायः ।


1 पाठो ऽयं न साधु सङ्गच्छते ।
Image-P.259


Chapter 357

अथ सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

तिङ्विभक्तिसिद्धरूपं ।
कुमार उवाच ।
तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः । 1ab
तिङस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ॥ 1cd
सकर्म्मकार्म्मकाच्च कर्त्तरि द्विपदे स्मृताः । 2ab
सकर्म्मकाकर्म्मणि च तदादेशस्तथेरितः ॥ 2cd
वर्त्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः । 3ab
विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ॥ 3cd
भूते लुङ्लिट् परोक्षे ऽथ भाविन्यद्यतने च लुट् । 4ab
लिङाशिषि च शेषे ऽर्थे लड़्भविष्यति लृङ्भवेत् ॥ 4cd
लिङ्निमिमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् । 5ab
पूर्व्वं नव परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान ॥ 5cd
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् । 6ab
त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ॥ 6cd
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः । 7ab
भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ॥ 7cd
शीङः क्रीड़ो जुहोतिश्च जहातिश्च दधात्यपि । 8ab
दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेव च ॥ 8cd
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः । 9ab
शवादिके विकरणे मनिश्चैव करोत्यपि ॥ 9cd
Image-P.260


क्रीड़्तिर्वृङो ग्रहिश्चोरिः पा नीरर्च्चिश्च नायकाः । 10ab
भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ॥ 10cd
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं । 11ab
भवाम्यावां भवावश्च भवामो ह्येधते कुलं ॥ 11cd
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया । 12ab
एधेथे च समेधध्वे एधे ह्येधावहे धिया ॥ 12cd
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्व्ववत् । 13ab
भूयते ऽनुभूयते ऽसौ भावे कर्म्मणि वै यकि ॥ 13cd
वुभूषति समीत्येवं णिचि भावयतीश्वरं । 14ab
यङि वोभूयते वाद्यं वोभोतेi स्याच्च यङ्लुकि ॥ 14cd
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते । 15ab
घटयत्य ऽथ सनि णिचि बुभूषयति रूपकं ॥ 15cd
भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे । 16ab
भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ॥ 16cd
एधेत एधेयातामेधेरन् मनसा श्रिया । 17ab
एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवहि एधेमहि ॥ 17cd
अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव । 18ab
भवतं भवत भवानि भवाव च भवाम च ॥ 18cd
एधतामेधेतामेधन्तामेधै पचावहै पचामहै । 19ab
अभ्यनन्ददपचतामचन्नपचस्तथा ॥ 19cd
अभवतमभवतापचमपचावापचाम च । 20ab
ऐधतैर्धेतामैधध्वं ऐधे चैधामहीरितं ॥ 20cd
अभूदभूतामभूवनभूश्चाभूवमेव लुङ् । 21ab
Image-P.261


ऐधिष्टैधिषातां नरावैधिष्ठा एइधिषीदृशं ॥ 21cd
लिटि बभूव बभूवतुः बभूवुश्च बभूविथ । 22ab
बभूवथुर्वभूव च बभूविव बभूविम ॥ 22cd
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा । 23ab
एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ॥ 23cd
लुटि भविता भवितारौ भवितारो हरादयः । 24ab
भवितासि भवितास्थो भवितास्मस्तथा वयं ॥ 24cd
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं । 25ab
पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ॥ 25cd
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ । 26ab
भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ॥ 26cd
भूयास्त यूयं भूयासमहं भूयास्म सर्व्वदा । 27ab
यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिसीय च ॥ 27cd
यक्षीवह्येधिसीमहि लिङि चायक्ष्यतेति लृङ् । 28ab
अयक्ष्येतामयक्ष्यन्तायक्ष्ये ऽयक्ष्येथां युवां ॥ 28cd
अयक्ष्यध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् । 29ab
लृटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ॥ 29cd
एवं विभावयिष्यन्ति बोभविष्यति रूपकं । 30ab
घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति ॥ 30cd


इत्याग्नेये महापुराणे व्याकरणे तिङ्सिद्धरूपं नाम सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः ।
Image-P.262


Chapter 358

अथाष्टपञ्चाशदधिकत्रिशततमो ऽध्यायः ।

कृत्सिद्धरूपम् ।
कुमार उवाच ।
कृतस्त्रिष्वपि विज्ञेया भावे कर्म्मणि कर्त्तरि । 1ab
अज्ल्युट् क्तिन् घञो भावे युजकारत एव च ॥ 1cd
अचि धर्म्मस्य विनय उत्करः प्रकरस्तथा । 2ab
देवो भद्रः श्रीकरश्च ल्युटि रूपन्तु शोभनम् ॥ 2cd
क्तिनि वृद्धिस्तुतिमती घञि भावो ऽथ युच्यपि । 3ab
कारणा भावनेत्यादि अकारे च चिकित्सया ॥ 3cd
तथा तव्यो ह्यनीयश्च कर्त्तव्यं करणीयकम् । 4ab
देयं ध्येयञ्चैव यति ण्यति कार्य्यञ्च कृत्यकाः ॥ 4cd
कर्त्तरि क्तादयो ज्ञेया भावे कर्म्मणि च क्वचित् । 5ab
गतो ग्रामं गतो ग्राम आश्लिष्टश्च गुरुस्त्वया ॥ 5cd
शतृङ् शानचौ भवन् एधमानो भवन्त्यपि । 6ab
वुण् तृचौ सर्व्वधातुभ्यो भावको भविता तथा ॥ 6cd
क्विबन्तश्च स्वयम्भूश्च भूते लिटः क्वन्सु कान च । 7ab
बभूविवान् पेचिवांश्च पेचानः श्रद्दधानकः ॥ 7cd
अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः । 8ab
वायुः पायुश्च कारुः स्याद्वहुलं छन्दसीरितं ॥ 8cd


इत्याग्नेये महापुराणे व्याकरणे कृत्सिद्धरूपं नामाष्टपञ्चाशदधिकत्रिशततमो ऽध्यायः ।
Image-P.263


Chapter 359

अथोनषष्ट्यधिकत्रिशततमो ऽध्यायः ।

स्वर्गपातालादिवर्गाः ।
अग्निरुवाच ।
स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते । 1ab
स्वःस्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ॥ 1cd
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः । 2ab
विद्याधरो ऽप्सरोयक्षरक्षोगन्धर्व्वकिन्नराः ॥ 2cd
पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः । 3ab
देवद्विषो ऽसुरा दैत्याः सुगतः स्यात्तथागतः ॥ 3cd
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर्न्नारायणो हरिः । 4ab
रेवतीशो हली रामः कामः पञ्चशरः स्मरः ॥ 4cd
लक्ष्मीः पद्मालया पद्मा सर्व्वः सर्व्वेश्वरः शिवः । 5ab
कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवन्धनुः ॥ 5cd
प्रमथाः स्युः पारिषदा मृड़ानी चण्डिका ऽम्बिका । 6ab
द्वैमातुरो गजास्यश्च सेनानीरग्निभूर्गुहः ॥ 6cd
आखण्डलः सुनासीरः सूत्रामाणो दिवस्पतिः । 7ab
पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ॥ 7cd
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । 8ab
ऐरावते ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ 8cd
ह्रादिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः । 9ab
व्योमयानं विमानो ऽस्त्री पीयूषममृतं सुधा ॥ 9cd
Image-P.264


स्यात् सुधर्म्मा देवसभा स्वर्गङ्गा सुरदीर्घिका । 10ab
स्त्रियां बहुष्वप्सरसः स्वर्व्वेश्या उर्व्वशीमुखाः ॥ 10cd
हाहा हूहूश्च गन्धर्व्वा अग्निर्वह्निर्धनञ्चयः । 11ab
जातवेदाः कृष्णवर्त्मा आश्रयाशश्च पावकः ॥ 11cd
हिरण्यरेताः सप्तार्च्चिः शुक्रश्चैवाशुशुक्षणिः । 12ab
शुचिरप्पित्तमौर्व्वस्तु वाडवो वडवानलः ॥ 12cd
वह्नेर्द्वयोर्ज्वालकीलावर्च्चिर्हेतिः शिखा स्त्रियां । 13ab
त्रिषु स्फुलिङ्गो ऽग्निकणो धर्म्मराजः परेतराट् ॥ 13cd
कालो ऽन्तको दण्डधरः श्राद्धेदेवो ऽथ राक्षसः । 14ab
कौणपास्रपक्रव्यादा यातुधानश्च नैरृतिः ॥ 14cd
प्रचेता वरुणः पाशी श्वसनः स्पर्शनो ऽनिलः । 15ab
सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः ॥ 15cd
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् । 16ab
सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥ 16cd
सतते ऽनारताश्रान्तसन्तताविरतानिशं । 17ab
नित्यानवरताजस्रमप्यथातिशयो भरः ॥ 17cd
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् । 18ab
तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ॥ 18cd
गुह्यकेशो यक्षराजो राजराजो धनाधिपः । 19ab
स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ॥ 19cd
निधिर्न्ना सेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् । 20ab
द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ॥ 20cd
अभ्यन्तरन्त्वन्तरालञ्चक्रवाड़न्तु मन्डलं । 21ab
Image-P.265


तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ॥ 21cd
कादम्बनी मेघमाला स्तनितं गर्जितं तथा । 22ab
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभाः ॥ 22cd
तडित्सौदामिनी विद्युच्चञ्चला चपला ऽपि च । 23ab
स्फुर्जथुर्व्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ॥ 23cd
धारा सम्पात आशारः शीकरो ऽम्बुकणाः स्मृताः । 24ab
वर्षोपलस्तु करका मेघछन्ने ऽह्नि दुर्द्दिनं ॥ 24cd
अन्तर्धा व्यवधा पुंसि त्वन्तर्द्धिरपवारणं । 25ab
अपिधानतिरोधानपिधानच्छदनानि च ॥ 25cd
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः । 26ab
विधुः कुमुदवन्धुश्च विम्बो ऽस्त्री मण्डलं त्रिषु ॥ 26cd
कला तु षोड़्शो भागो भित्तं शकलखण्डके । 27ab
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ 27cd
लक्षणं लक्ष्मकं चिह्नं शोभा कान्तिर्द्युतिश्छविः । 28ab
सुषमा परमा शोभा तुषारस्तुहिनं हिमं ॥ 28cd
अवश्यायस्तु नीहारः प्रालेयः शिशिरो हिमः । 29ab
नक्षत्रमृक्षं भन्तारा तारका प्युडु वा स्त्रियां ॥ 29cd
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः । 30ab
विधुन्तुदस्तमो राहुर्ल्लग्नं राश्युदयः स्मृतः ॥ 30cd
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । 31ab
हरिदश्वव्रघ्नपूषद्युमणिर्म्मिहिरो रविः ॥ 31cd
परिवेषस्तु परिधिरुपसूर्य्यकभण्डले । 32ab
किरणो ऽस्रमयूखांशुगभस्तिघृणिधृष्णयः ॥ 32cd
Image-P.266


भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां । 33ab
स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ॥ 33cd
रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः । 34ab
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ॥ 34cd
तिग्मं तीक्ष्णं खरं तद्वद्दिष्टो ऽनेहा च कालकः । 35ab
घस्रो दिनाहनी चैव सायंसन्ध्या पितृप्रसूः ॥ 35cd
प्रत्यूषो ऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि । 36ab
प्राह्णापराह्णमध्याह्णास्त्रिसन्ध्यमथ शर्व्वरी ॥ 36cd
यामी तमी तमिस्रा च ज्योत्स्नी चन्द्रकयान्विता । 37ab
आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी ॥ 37cd
अर्द्धरात्रनिशीथौ प्रदोषो रजनीमुखं । 38ab
स पर्व्वसन्धिः प्रतिपत्पञ्चदश्योर्य दन्तरम् ॥ 38cd
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा । 39ab
कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥ 39cd
अमावास्या त्वमावस्या दर्शः सूर्य्येन्दुसङ्गमः । 40ab
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ 40cd
संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि । 41ab
कलुषं वृजिनैनो ऽघमंहोदुरितदुष्कृतम् ॥ 41cd
स्याद्धर्म्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । 42ab
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ 42cd
स्यादानन्दथुरानन्दः शर्म्मशातसुखानि च । 43ab
श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ 43cd
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां । 44ab
Image-P.267


दैवं दिष्टं मागधेयं भाग्यं स्त्री नियतिर्व्विधिः ॥ 44cd
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां । 45ab
हेतुर्ना कारणं वीजं निदानं त्वादिकारणम् ॥ 45cd
चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः । 46ab
बुद्धिर्म्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ॥ 46cd
प्रेक्षोपलिब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः । 47ab
धीर्धारणावती मेधा सङ्कल्पः कर्म्म मानसं ॥ 47cd
सङ्ख्या विचारणा चर्च्चा विचिकित्सा तु संशयः । 48ab
अध्याहारस्तर्क्क ऊहः समौ निर्णयनिश्चयौ ॥ 48cd
मिथ्यादृष्टिर्नास्तिकता भ्रान्तिर्म्मिथ्यामतिर्भ्रमः । 49ab
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ 49cd
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । 50ab
मुक्तिः कैवल्यनिर्व्वाणश्रेयोनिःश्रेयसामृतं ॥ 50cd
मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहम्मतिः स्त्रियां । 51ab
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ॥ 51cd
आमोदः सो ऽतिनिर्हारी सुरभिर्घ्राणतर्पणः । 52ab
शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः ॥ 52cd
अवदातः सितो गौरो वलक्षो धवलो ऽर्ज्जुनः । 53ab
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ 53cd
कृष्णे नीलासितश्यामकालश्यामलमेचकाः । 54ab
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ 54cd
रोहितो लोहितो रक्तः शोणः कोकनदच्छविः । 55ab
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ 55cd
Image-P.268


श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । 56ab
कड़ारः कपिलः पिङ्गपिशङ्गौकद्रुपिङ्गलौ ॥ 56cd
चित्रं किर्म्मीरकल्माषशवलैताथ कर्व्वुरे । 57ab
व्याहार उक्तिर्लपितमपभ्रंशो ऽपशब्दकः ॥ 57cd
तिङ्सुवन्तचयो वाक्यं क्रिया वा कारकान्विता । 58ab
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं ॥ 58cd
आख्यायिकोपलब्धार्था प्रबन्धः कल्पना कथा । 59ab
समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका ॥ 59cd
समस्या तु समासार्था स्मृतिस्तु धर्म्मसंहिता । 60ab
आख्याह्वे चाभिधानञ्च वार्त्ता वृत्तान्त ईरितः ॥ 60cd
हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं । 61ab
विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे ॥ 61cd
उपोद्धात उदाहारो ह्यथ मिथ्याभिसंशनम् । 62ab
अभिशापो यशः कीर्त्तिः प्रश्नः पृच्छानुयोगकः ॥ 62cd
आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे । 63ab
स्यादाभाषणमालापः प्रलापो ऽनर्थकं वचः ॥ 63cd
अनुलापो मुहुर्भाषा वीलापः परिदेवनं । 64ab
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ 64cd
सुप्रलापः सुवचनमपलापस्तु निह्नवः । 65ab
उषती वागकल्याणी सङ्गतं हृदयङ्गमं ॥ 65cd
अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं । 66Aab
निष्ठुराश्लीलपरुषं ग्राम्यं वै सुनृतं प्रिये ॥ 66Acd
सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः । 67Aab
Image-P.269


आरवारावसंरावविरावा अथ मर्म्मरः ॥ 67Acd
स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं । 68Aab
वीणाया निक्वणः क्वाणः तिरश्चां वाशितं रुतं ॥ 68Acd
कोलाहलः कलकलो गीतं गानमिमे समे । 69Aab
स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ॥ 69Acd
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । 70Aab
कलो मन्त्रस्तु गम्भीरे तारो ऽत्युच्चैस्त्रयस्त्रिषु ॥ 70Acd
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । 71Aab
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ 71Acd
ततं वीणादिकं वाद्यमानद्धं मुरजादिकं । 72Aab
वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनं ॥ 72Acd
चतुर्व्विधमिदं वाद्यं वादित्रातोद्यनामकं । 73Aab
मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्यो ऽर्द्धकास्त्रयः ॥ 73Acd
स्याद्यशःपटहो ढक्का भेर्य्यामानकदुन्दुभिः । 74Aab
आनकः पटहो भेदा झर्झरीडिण्डिमादयः ॥ 74Acd
मर्द्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः । 75Aab
लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्त्तनं ॥ 75Acd
तौर्य्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् । 76Aab
राजा भट्टारको देवः साभिषेका च देव्यपि ॥ 76Acd
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । 77Aab
वीभत्सरौद्रे च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ 77Acd
उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा । 78Aab
कृपा दया चानुकम्पा ऽप्यनुक्रोशो ऽप्यथो हसः ॥ 78Acd
Image-P.270


हासो हास्यञ्च वीभत्सं विकृतं त्रिष्विदं द्वयं । 66Bab
विस्मयो ऽद्भुतमाश्चर्य्यं चित्रमप्यथ भैरवं ॥ 66Bcd
दारुणं भीषणं भीष्मं घोरं भीमं भयानकं । 67Bab
भयङ्करं प्रतिभयं रौद्रन्तूग्रममी त्रिषु ॥ 67Bcd
चतुर्द्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं । 68Bab
विकारो मानसो भावो ऽनुभावो भावबोधनः ॥ 68Bcd
गर्व्वो ऽभिमानो ऽहङ्कारो मानश्चित्तसमुन्नतिः । 69Bab
अनादरः परिभवः परिभावस्तिरस्क्रिया ॥ 69Bcd
व्रीडा लज्जा त्रपा ह्रीः स्यादभिध्यानं धने स्पृहा । 70Bab
कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ॥ 70Bcd
स्त्रोणां विलासविव्वोकविभ्रमा ललितन्तथा । 71Bab
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥ 71Bcd
द्रवकेलिपरीहासाः क्रीड़ा लीला च कूर्द्दनं । 72Bab
स्यादाछुरितकं हासः सोत्प्रासः समनाक्स्मितं ॥ 72Bcd
अधोभुवनपातालं च्छिद्रं श्वभ्रं वपा शुषिः । 73Bab
गर्त्तावटौ भुवि श्वेभ्रे तमिश्रन्तिमिरं तमः ॥ 73Bcd
सर्पः पृदाकुर्भुजगो दन्दशूको विलेशयः । 74Bab
विषं क्ष्वेडश्च गरलं निरयो दुर्गतिः स्त्रियां ॥ 74Bcd
पयः कीलालममृतमुदकं भुवनं वनं । 75Bab
भङ्गस्तरङ्ग ऊर्म्मिर्व्वा कल्लोलोल्लोलकौ च तौ ॥ 75Bcd
पृषन्तिविन्दुपृषताः कूलं रोधश्च तीरकं । 76Bab
तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ॥ 76Bcd
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः । 77Bab
Image-P.271


आतारस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥ 77Bcd
कलुषश्चाविलो ऽच्छस्तु प्रसन्नो ऽथ गभीरकं । 78Bab
अगाधं दासकैवर्त्तौ शम्बूका जलशुक्तयः ॥ 78Bcd
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं । 79ab
स्यादुत्पलं कुवलयं सिते कुमुदकैरवे ॥ 79cd
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं । 80ab
नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ॥ 80cd
करहाटः शिफा कन्दं किञ्जल्कः केशरो ऽस्त्रियां । 81ab
खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्व्वताः ॥ 81cd
उपत्यकाद्रेरासन्ना भूमिरूर्द्ध्वमधित्यका । 82ab
स्वर्गपातालवर्गाद्या उक्ता नानार्थकान् शृणु ॥ 82cd


इत्याग्नेये महापुराणे स्वर्गपातालादिवर्गा नामोनषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 360

अथ षष्ट्यधिकत्रिशततमो ऽध्यायः ।

अव्ययवर्गाः ।
अग्निरुवाच ।
आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे । 1ab
आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात् कोपपीड़्योः ॥ 1cd
पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः । 2ab
चान्वाचयसमाहारेतरेतरसमुच्चये ॥ 2cd
Image-P.272


स्वस्त्याशीःक्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति । 3ab
स्वित्प्रश्ने च वितर्क्के च तु स्याद्भेदे ऽवधारणे ॥ 3cd
सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः । 4ab
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ॥ 4cd
पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः । 5ab
खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ॥ 5cd
हन्त हर्षे ऽनुकम्पायां वाक्यारम्भविषादयोः । 6ab
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ 6cd
इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु । 7ab
प्राच्यां पुरस्तात् प्रथमे पुरार्थे ऽग्रत इत्यपि ॥ 7cd
यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे । 8ab
मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्व ऽथोथ च ॥ 8cd
वृथा निरर्थकाविध्योर्नाना ऽनेकोभयार्थयोः । 9ab
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥ 9cd
प्रश्नावधारणानुज्ञा ऽनुनयामन्त्रणे ननु । 10ab
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्व ऽपि ॥ 10cd
उपमायां विकल्पे वा सामित्वर्द्धे जुगुप्सिते । 11ab
अमा सह समीपे च कं वारिणि च मूर्द्धनि ॥ 11cd
इवेत्थमर्थयोरेवं नूनं तर्क्के ऽर्थनिश्चये । 12ab
तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने ॥ 12cd
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने । 13ab
अलं भूषणपर्य्याप्तिशक्तिवारणवाचकम् ॥ 13cd
Image-P.273


हूं वितर्के परिप्रश्ने समया ऽन्तिकमध्ययोः । 14ab
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ 14cd
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा । 15ab
उरर्युरी चोररी च विस्तारे ऽङ्गीकृते त्रयम् ॥ 15cd
स्वर्गे परे च लोके स्वर्वार्त्तासम्भावयोः किल । 16ab
निषेधवाक्यालङ्कारे जिज्ञासावसरे 1 खलु ॥ 16cd
समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः । 17ab
नामप्रकाशयोः प्रादुर्मिथो ऽन्योन्यं रहस्यपि ॥ 17cd
तिरो ऽन्तर्द्धौ तिर्यगर्थे हा विषादशुगर्त्तिषु । 18ab
अहहेत्यद्भुते खेदे हि हेताववधारणे ॥ 18cd
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । 19ab
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः ॥ 19cd
स्राग्झटित्यञ्चसाह्नाय सपदि द्राङ्मङ्खु च द्रुते । 20ab
बलवत् सुष्ठु किमुत विकल्पे किं किमूत च ॥ 20cd
तु हि च स्म ह वै पादपूरणे पूजनेप्यति । 21ab
दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति ॥ 21cd
तिर्यगर्थे साचि तिरो ऽप्यथ सम्बोधनार्थकाः । 22ab
स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ॥ 22cd
अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः । 23ab
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥ 23cd
किञ्चिदीषन्मनागल्पे प्रेत्या ऽमुत्र भवान्तरे । 24ab


1 जिज्ञासानुनय इति ञ॰ ।
Image-P.274


यथा तथा चैव साम्ये अहो हो इति विस्मये ॥ 24cd
मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे । 25ab
दिष्ट्या शमुपयोषञ्चेत्यानन्दे ऽथान्तरे ऽन्तरा ॥ 25cd
अन्तरेण च मध्ये स्युः प्रसह्य तु हटार्थकम् । 26ab
युक्ते द्वे साम्प्रतं स्थाने ऽभीक्ष्णं शस्वदनारते ॥ 26cd
अभावे नह्यनो नापि मास्म मालञ्च वारणे । 27ab
पक्षान्तरे चेद्यदि च तत्त्वे त्व ऽद्धा ऽञ्जसा द्वयम् ॥ 27cd
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते । 28ab
समन्ततस्तु परितः सर्वतो विश्वगित्यपि ॥ 28cd
अकामानुमतौ काममसूयोपगमे ऽस्तु च । 29ab
ननु च स्याद्विरोधोक्तौ कच्चित् कामप्रवेदने ॥ 29cd
निःषमं दुःषमं गर्ह्ये यथास्वन्तु यथायथं । 30ab
मृषा मिथ्या च वितथे यथार्थन्तु यथातथं ॥ 30cd
स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः । 31ab
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयं ॥ 31cd
संवद्वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना । 32ab
अल्पे नीचैर्महत्युच्चैः प्रायोभूमनय्ऽद्रुते शनैः ॥ 32cd
सना नित्ये वहिर्वाह्ये स्मातीते ऽस्तमदर्शने । 33ab
अस्ति सत्त्वे रुषोक्तावूमुं प्रश्ने ऽनुनये त्वयि ॥ 33cd
हूं तर्के स्यादुषा रात्रेरवसाने नमो नतौ । 34ab
पुनरर्थे ऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने ॥ 34cd
सायं साये प्रगे प्रातः प्रभाते निकषा ऽन्तिके । 35ab
परुत्परार्य्यैसमो ऽब्दे पूर्वे पूर्वतरे यति ॥ 35cd
Image-P.275


अद्यात्राह्न्य ऽथ पूर्वेह्नीत्यादौ पूर्वोत्तरा परात् । 36ab
तथा ऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः ॥ 36cd
उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यपि । 37ab
ह्यो गते ऽनागते ऽह्नि श्वः परश्वः श्वःपरे ऽहनि ॥ 37cd
तदा तदानीं युगपदेकदा सर्वदा सदा । 38ab
एतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा ॥ 38cd


इत्याग्नेये महापुराणे अव्ययवर्गा नाम षष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 361

अथैकषष्ट्यधिकत्रिशततमो ऽध्यायः ।

नानार्थवर्गाः ।
अग्निरुवाच ।
आकाशे त्रिदिवे नाको लोकस्तु भवने जने । 1ab
पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ 1cd
आनकः पटहो भेरी कलङ्को ऽङ्कापवादयोः । 2ab
मारुते वेधसि व्रध्ने पुंसि कः कं शिरो ऽम्बुनोः ॥ 2cd
स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके । 3ab
महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥ 3cd
शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं । 4ab
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायस्मृष्टिषु ॥ 4cd
योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु । 5ab
Image-P.276


भोगः सुखे स्त्र्यादिभृतावब्जौ शङ्कनिशाकरौ ॥ 5cd
काके भगण्डौ करटौ दुश्चर्मा शिपिविष्टकः । 6ab
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभा ऽशुभे ॥ 6cd
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्ष्णि दर्शने । 7ab
निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥ 7cd
भूगोवाचस्त्विड़ा इलाः प्रगाढ़ं भृषकृच्छ्रयोः । 8ab
भृशप्रतिज्ञयोर्वाढ़ं शक्तस्थूलौ दृढ़ौ त्रिषु ॥ 8cd
विन्यस्तसंहतौ व्यूढ़ौ कृष्णो व्यासे ऽर्ज्जुने हरौ । 9ab
पणो दूयतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च ॥ 9cd
मौर्व्यां द्रव्याश्रिते सत्वशुक्लसन्ध्यादिके गुणः । 10ab
श्रेष्ठे ऽधिपे ग्रामणीः स्यात् जुग्प्साकरुणे घृणे ॥ 10cd
तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे । 11ab
विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥ 11cd
प्रमाणं हेतुमर्य्यादाशास्त्रेयत्ताप्रमातृषु । 12ab
करणं क्षेत्रगात्रादावीरिणं शून्यमूषरं ॥ 12cd
यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः । 13ab
स्रुतं शास्त्रावधृतयोर्युगपर्य्याप्तयोः कृतं ॥ 13cd
ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे । 14ab
विविक्तौ पूतविजनौ मूर्च्छितौ मूड़्सोच्छयौ ॥ 14cd
अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । 15ab
निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥ 15cd
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियां । 16ab
स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ॥ 16cd
Image-P.277


धर्म्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । 17ab
पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ 17cd
त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ । 18ab
सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् ॥ 18cd
विधिर्विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे । 19ab
वधूर्जाया स्नुषा स्त्री च सुधालेपो ऽमृतं स्नुही ॥ 19cd
स्पृहा सम्प्रत्ययः श्रद्धा पण्डितम्मन्यगर्व्वितौ । 20ab
ब्रह्मबन्धुरधिक्षेपे भानू रष्मिदिवाकरौ ॥ 20cd
ग्रावाणौ शैलपाषाणौ मूर्खनीचौ पृथग्जनौ । 21ab
तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि ॥ 21cd
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्म च । 22ab
उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने ॥ 22cd
निर्य्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च । 23ab
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ 23cd
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । 24ab
तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ 24cd
पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । 25ab
वाग्दण्डश्चैव पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ 25cd
अकर्म्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ । 26ab
प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ 26cd
क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः । 27ab
आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च ॥ 27cd
रत्नं स्वजातिश्रेष्ठे ऽपि लक्ष्म चिह्नप्रधानयोः । 28ab
Image-P.278


कलापो भूषणे वर्हे तूणीरे संहते ऽपि च ॥ 28cd
तल्पं शय्याद्ददारेषु डिम्भौ तु शिशुवालिशौ । 29ab
स्तम्भौ स्थूणाजड़ीभावौ सभ्ये संसदि वै सभा ॥ 29cd
किरणप्रग्रहौ रश्मी धर्म्माः पुण्ययमादयः । 30ab
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ 30cd
प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु । 31ab
समयाः शपथाचारकालसिद्धान्तसंविदः ॥ 31cd
अत्ययो ऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः । 32ab
वीर्य्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके ॥ 32cd
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरं । 33ab
महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं ॥ 33cd
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः । 34ab
दरो ऽस्त्रियां भये श्वभ्रे जठरः कठिने ऽपि च ॥ 34cd
उदारो दातृमहतोरितरस्त्वन्यनीचयोः । 35ab
चूड़ा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ 35cd
बलिः करोपहारादौ सैन्यस्थैर्य्यादिके बलं । 36ab
स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च ॥ 36cd
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः । 37ab
द्यूताक्षे सारिफलके ऽप्याकर्षो ऽथा ऽक्षमिन्द्रिये ॥ 37cd
ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे । 38ab
ऊष्णीषः स्यात् किरीटादौ कर्षूः कुल्याभिधायिनी ॥ 38cd
प्रत्यक्षे ऽधिकृते ऽध्यक्षः सूर्य्यवह्नी विभावसू । 39ab
शृङ्गारादौ विषे वीर्य्ये गुणे रागे द्रवे रसः ॥ 39cd
Image-P.279


तेजःपुरीषयोर्वर्च्च आगः पापापराधयोः । 40ab
छन्दः पद्ये ऽभिलासे च साधीयान् साधुवाढ़योः । 40cd
व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोनुदः ॥ 40॥ 40ef


इत्याग्नेये महापुराणे नानार्थवर्गा नामैकषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 362

अथ द्विषष्ट्यधिकत्रिशततमो ऽध्यायः ।

भूमिवनौषध्यादिवर्गाः ।
अग्निरुवाच ।
वक्ष्ये भूपुराद्रिवनौषधिसिंहादिनर्गकान् । 1ab
भूरनन्ता क्षमा धात्री क्ष्माप्याकुः स्याद्धरित्र्यपि ॥ 1cd
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । 2ab
जगत्त्रपिष्टपं लोकं भुवनं जगती समा ॥ 2cd
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः । 3ab
सरणिः पद्धत्तिः पद्या वर्त्तन्येकपदीति च ॥ 3cd
पूः स्त्री पुरीनगर्य्यौ वा पत्तनं पुटभेदनम् । 4ab
स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम् ॥ 4cd
तच्छाखानगरं वेशो वेश्याजनसमाश्रयः । 5ab
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ 5cd
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां । 6ab
प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ॥ 6cd
Image-P.280


भित्तिः स्त्री कुह्यमेड़ूकं यदन्तर्नस्तकीकसं । 7ab
वासः कूटो द्वयोः शाला सभा सञ्जवनन्त्विदम् ॥ 7cd
चतुःशालं मुनीनान्तु पर्णशालोटजो ऽस्त्रियां । 8ab
चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ॥ 8cd
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजां । 9ab
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्द्दिस्तु वेदिका ॥ 9cd
कपोतपालिकायन्तु विटङ्कं पुं नपुंसकं । 10ab
कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ॥ 10cd
सम्मार्जनी शोधनी स्यात् सङ्करो ऽवकरस्तथा । 11ab
अद्रिगोत्रिगिरिग्रावा गहनं काननं वनं ॥ 11cd
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । 12ab
स्यादेतदेव प्रमदवनमन्तःपुरोचितं ॥ 12cd
वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः । 13ab
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ॥ 13cd
ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः । 14ab
स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ॥ 14cd
पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां । 15ab
बोधिद्रुमश्चलदलो दधित्थग्राहिमन्मथाः ॥ 15cd
तस्मिन् दधिफलः पुष्पफलदन्तशठावपि । 16ab
उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ॥ 16cd
सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः । 17ab
आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः ॥ 17cd
स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः । 18ab
Image-P.281


पुत्रागे पुरुषस्तुङ्गः केशरो देववल्लभः ॥ 18cd
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । 19ab
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥ 19cd
आम्रातके मधूके तु गुढ़पुष्पमधुद्रुमौ । 20ab
पीलौ गुड़फलः स्रंसी नादेयी चाम्बुवेतसः ॥ 20cd
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः । 21ab
रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ॥ 21cd
गालवः शावरो लोध्रस्तिरीटस्तिल्वमार्जनौ । 22ab
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ 22cd
वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि । 23ab
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ॥ 23cd
काकतिन्दौ पीलुकः स्यात् पाटलिर्मोक्षमुष्ककौ । 24ab
क्रमुकः पट्टिकाख्यः स्यात्कुम्भी कैटर्य्यकट्फले ॥ 24cd
वीरवृक्षो ऽरुष्करो ऽग्निमुखी भल्लातकीं त्रिषु । 25ab
सवर्जकासनजीवाश्च पीतसाले ऽथ मालके ॥ 25cd
सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभो ऽर्जुनः । 26ab
इङ्गुदी तापसतरुर्मोचा शाल्मलिरेव च ॥ 26cd
चिरविल्वो नक्तमालः करजश्च करञ्जके । 27ab
प्रकीर्य्यः पूतिकरजो मर्कट्यङ्गारवल्लरी ॥ 27cd
रोही रोहितकः प्लीहशत्रुर्दाड़िमपुष्पकः । 28ab
गायत्री बालतनयः खदिरो दन्तधावनः ॥ 28cd
अरिमेदो विट्खदिरे कदरः खदिरे सिते । 29ab
पञ्चाङ्गुलो वर्द्धमानश्चञ्चुर्गन्धर्वहस्तकः ॥ 29cd
Image-P.282


पिण्डीतको मरुवकः पीतदारु च दारु च । 30ab
देवदारुः पूतिकाष्ठं श्यामा तु महिलाह्वया ॥ 30cd
लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली । 31ab
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ 31cd
श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । 32ab
पीतद्रुः सरलश्चाथ निचुलो ऽम्बुज इज्जलः ॥ 32cd
काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः । 33ab
सर्व्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ॥ 33cd
वकुलो वञ्जुलः प्रोक्तः पिच्छिला ऽगुरुशिंशपाः । 34ab
जया जयन्ती तर्कारी कणिका गणिकारिका ॥ 34cd
श्रीपर्णमग्नमन्थः स्याद्वत्सको गिरिमल्लिका । 35ab
कालस्कन्धस्तमालः स्यात् तण्डुलीयो ऽल्पमारिषः ॥ 35cd
सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा । 36ab
गणिका यूथिका ऽम्बष्ठा सप्तला नवमालिका ॥ 36cd
अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा । 37ab
तत्र शोणे कुरुवकस्तत्र पीते कुरुण्टकः ॥ 37cd
नीला झिण्टी द्वयोर्वाणा भिण्टी सैरीयकस्तथा । 38ab
तस्मिन्रक्ते कुरुवकः पीते सहचरी द्वयोः ॥ 38cd
धुस्तूरः कितवो धूर्त्तो रुचको मातुलङ्गके । 39ab
समीरणो मरुवकः प्रस्थपुष्पः फणिज्झकः ॥ 39cd
कुठेरकस्तु पर्णासे ऽथास्फोतो वसुकार्कके । 40ab
शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ॥ 40cd
जीवन्तिका वृक्षरुहा गुडूची तन्त्रिका ऽमृता । 41ab
Image-P.283


सोमवल्ली मधुपर्णी मूर्वा तु मोरटी तथा ॥ 41cd
मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । 42ab
पाठा ऽम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ॥ 42cd
कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी । 43ab
आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ॥ 43cd
अपामार्गः शैखरिकः प्रत्यक्पर्णी मयूरकः । 44ab
फञ्जिका ब्राह्मणी भार्गी द्रवन्ती शम्बरी वृषा ॥ 44cd
मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका । 45ab
रोदनी कच्छुरा ऽनन्ता समुद्रान्ता दुरालभा ॥ 45cd
पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा । 46ab
निदिग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्शया सह ॥ 46cd
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका । 47ab
कालमेषी कृष्णफला वाकुची पूतिफल्य ऽपि ॥ 47cd
कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली । 48ab
चव्यन्तु चविका काकचिञ्ची गुञ्जे तु कृष्णला ॥ 48cd
विश्वा विषा प्रतिविषा वनशृङ्गाटगोक्षुरौ । 49ab
नारायणी शतमूली कालेयकहरिद्रवः ॥ 49cd
दार्वी पचम्पचा दारु शुक्ला हैमवती वचा । 50ab
वचोग्रगन्धा षड़्ग्रन्था गोलोमी शतपर्विका ॥ 50cd
आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः । 51ab
मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ॥ 51cd
विडङ्गो ऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्नुक्स्नुही सुधा । 52ab
मृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस्तथा ॥ 52cd
Image-P.284


काला मसूरविदला त्रिपुटा त्रिवृता त्रिवृत् । 53ab
मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ॥ 53cd
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता । 54ab
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ॥ 54cd
मोचा रम्भा च कदली भण्टाकी दुष्प्रधर्षिणी । 55ab
स्थिरा ध्रुवा सालपर्णी शृङ्गी तु वृषभो वृषः ॥ 55cd
गाङ्गेरुकी नागबला मुषली तालमूलिका । 56ab
ज्योत्स्नी पटोलिका जाली अजशृङ्गी विषाणिका ॥ 56cd
स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली नागवल्ल्यपि । 57ab
हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ॥ 57cd
कालानुसार्य्यवृद्धाश्मपुष्पशीतशिवानि तु । 58ab
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ॥ 58cd
ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः । 59ab
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥ 59cd
कुटं नटं दशपुरं वानेयं परिपेलवम् । 60ab
तपस्वनी जटामांसी पृक्का देवी लता लशूः ॥ 60cd
कर्चुरको द्राविड़को गन्धमूली शठी स्मृता । 61ab
स्याद्दृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ॥ 61cd
तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्य ऽपि । 62ab
चाङ्गेरी चुक्रिकाम्बष्टा स्वर्णक्षीरी हिमावती ॥ 62cd
सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि । 63ab
जीवन्ती जीवनी जीवा भूमिनिम्वः किरातकः ॥ 63cd
कूर्चशीर्षो मधुकरश्चन्द्रः कपिवृकस्तथा । 64ab
Image-P.285


दद्रुघ्नः स्यादेड़गजो वर्षाभूः शीथहानिणी ॥ 64cd
कुनन्दती निकुम्भस्त्रा 1 यमानी वार्षिका तथा । 65ab
लशुनङ्गृञ्चनारिष्टमहाकन्दरसोनकाः ॥ 65cd
वाराही वदरा गृष्टिः काकमाची तु वायसी । 66ab
शतपुष्पा सितच्छत्रा ऽतिच्छत्रा मधुरा मिसिः ॥ 66cd
अवाक्पुष्पी कारवी च सरणा तु प्रसारणी । 67ab
कटम्भरा भद्रवला कर्व्वूरश्च शटी ह्यथ ॥ 67cd
पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः । 68ab
कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ॥ 68cd
इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रवारुणी । 69ab
अर्शेघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ॥ 69cd
वंशे त्वक्सारकर्म्मारवेणुमस्करतेजनाः । 70ab
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ॥ 70cd
तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ । 71ab
शार्दूलद्वीपिनौ व्याघ्रे हर्य्यक्षः केशरी हरिः ॥ 71cd
कोलः पौत्री वराहः स्यात् कोक ईहामृगो वृकः । 72ab
लूतोर्णनाभौ तु समौ तन्तुवायश्च मर्कटे ॥ 72cd
वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ । 73ab
कृकवाकुस्ताम्रचूड़ः पिकः कोकिल इत्यपि ॥ 73cd
काके तु करटारिष्टौ वकः कह्व उदाहृतः । 74ab
कोकश्चक्रश्चक्रवाको कादम्बः कलहंसकः ॥ 74cd
पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षिका । 75ab


1 सकुलदन्ती निर्दंष्ट्रेति ख॰ ।
Image-P.286


द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमराऽलयः ॥ 75cd
केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः । 76ab
स्त्री पक्षतिः पक्षमूलञ्चञ्चुस्तोटिरुभे स्त्रियौ ॥ 76cd
गतिरुड्डिनसण्डीनौ कुलायो नीड़मस्त्रियां । 77ab
पेशी कोषो द्विहीने ऽण्डं पृथुकः शावकः शिशुः ॥ 77cd
पोतः पाको ऽर्भको डिम्भः सन्दोहव्यूहको गणः । 78ab
स्तोमौघनिकरव्राता निकुरम्बं कदम्बकं । 78cd
सङ्घातसञ्चयौ वृन्दं पुञ्जराशी तु कूटकं ॥ 78॥ 78ef


इत्याग्नेये महापुराणे भूमिवनौषध्यादिवर्गा नाम द्विषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 363

अथ त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः ।

नृब्रह्मक्षत्रविट्शूद्रवर्गाः ।
अग्निरुवाच ।
नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्ये ऽथ नामतः । 1ab
नरः पञ्चजना मर्त्त्या यद्योषा ऽवंला वधूः ॥ 1cd
कान्तार्थिनी तु या याति सङ्केतं सा ऽभिसारिका । 2ab
कुलटा पुंश्चल्यसती नग्निका स्त्री च कोटवी ॥ 2cd
कात्यायन्यर्धवृद्धा या सैरिन्ध्री परवेश्मगा । 3ab
असिक्री स्यादवृद्धा या मलिनी तु रजस्वला ॥ 3cd
वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः । 4ab
ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ॥ 4cd
Image-P.287


समानोदर्य्यसोदर्य्यसगर्भसहजास्समाः । 5ab
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ 5cd
दम्पती जम्पती भार्य्यापती जायापती च तौ । 6ab
गर्भाशयो जरायुः स्यादुल्वञ्च कललो ऽस्त्रियां ॥ 6cd
गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् । 7ab
स्यादुत्तानशया डिम्भा बालो माणवकः स्मृतः ॥ 7cd
पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके । 8ab
विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ॥ 8cd
स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः । 9ab
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ 9cd
स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् । 10ab
शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ॥ 10cd
किलासं सिध्नकच्छान्तु पाम पामा विचर्च्चिका । 11ab
कोठो मण्डलकं कुष्ठं श्वित्रे द्रुर्न्नामकार्शसी ॥ 11cd
अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका । 12ab
वीजवीर्य्येन्द्रयं शुक्रं पललं क्रव्यमामिषं ॥ 12cd
वुक्का ऽग्रमांसं हृदयं हन्मेदस्तु वपा वसा । 13ab
पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा ॥ 13cd
तिलकं क्तोम मस्तिष्कं द्रूषिका नेत्रयोर्मलम् । 14ab
अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्य ऽथ वस्नसा ॥ 14cd
स्नायुः स्त्रियां कालखण्डयकृती तु ऽसमे इमे । 15ab
स्यात् कर्पूरः कपालो ऽस्त्री कीकसङ्कुल्यमस्थि च ॥ 15cd
स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका । 16ab
Image-P.288


शिरो ऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ 16cd
अङ्गं प्रतीको ऽवयवः शरीरं वर्ष्म विग्रहः । 17ab
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ॥ 17cd
पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः । 18ab
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ॥ 18cd
स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः । 19ab
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ॥ 19cd
पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ । 20ab
चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ 20cd
स्कन्धो भुजशिरों ऽशो ऽस्त्री सन्धी तस्यैव जत्रुणी । 21ab
पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियां ॥ 21cd
प्रादेशतालगोकर्णास्तर्जन्यादियुते तते । 22ab
अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ॥ 22cd
पाणौ च पेटप्रतलप्रहस्ता विस्तृताङ्गुलौ । 23ab
बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् ॥ 23cd
कम्बुग्रीवा त्रिरेखा सा ऽवटुर्घाटा कृकाटिका । 24ab
अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः ॥ 24cd
अपाङ्गौ नेत्रयोरन्तौ कटाक्षो ऽपाङ्गदर्शने । 25ab
चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् ॥ 25cd
आकाल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् । 26ab
चूड़ामणिः शिरोरत्नं तरलो हारमध्यगः ॥ 26cd
कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका । 27ab
मञ्जीरो नूपुरं पादे किङ्किणी क्षुद्रघण्टिका ॥ 27cd
Image-P.289


दैर्घ्यमायाम आरोहः परिणाहो विशालता । 28ab
पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् ॥ 28cd
रचना स्यात् परिस्पन्द आभोगः परिपूर्णता । 29ab
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ॥ 29cd


इत्याग्नेये महापुराणे नृवर्गो नाम त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 364

अथ चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः ।

ब्रह्मवर्गः ।
अग्निरुवाच ।
वंशो ऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ । 1ab
मन्त्रव्याख्याकृदाचार्य्य आदेष्टा त्वध्वरे व्रती ॥ 1cd
यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः । 2ab
सतीर्थ्याश्चैकगुरवः सभ्याः सामाजिकास्तथा ॥ 2cd
सभासदः सभास्तारा ऋत्विजो याजकाश्च ते । 3ab
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ॥ 3cd
चषालो यूपकटकः समे स्थण्डिलचत्वरे । 4ab
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ॥ 4cd
पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् । 5ab
उपाकृतः पशुरसौ यो ऽभिमन्त्र्य क्रतौ हतः ॥ 5cd
परम्पराकं समनं प्रोक्षणञ्च बधार्थकम् । 6ab
Image-P.290


पूजा नमस्या ऽपिचितिः सपर्य्यार्चार्हणाः समाः ॥ 6cd
वरिवस्या तु शुश्रूषा परिचर्य्याप्युपासनम् । 7ab
नियमो ब्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ 7cd
मुख्यः स्यात् प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः । 8ab
कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ॥ 8cd
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः । 9ab
भिक्षुः परिव्राट् कर्मन्दी पाराशर्य्यपि मस्करी ॥ 9cd
ऋषयः सत्यवचसः स्नातकश्चाप्लुतव्रती । 10ab
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ 10cd
शरीरसाधनापेक्षं नित्यं यत् कर्म्म तद्यमः । 11ab
नियमस्तु स यत् कर्म्मानित्यमागन्तुसाधनम् । 11cd
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ 11॥ 11ef


इत्याग्नेये महापुराणे ब्रह्मवर्गो नाम चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 365

अथ पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः ।

क्षत्रविट्शूद्रवर्गाः ।
अग्निरुवाच ।
मूर्द्धाभिशिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । 1ab
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ॥ 1cd
चक्रवर्त्ती सार्वभौमो नृपो ऽन्यो मण्डलेश्वरः । 2ab
मन्त्री धीसचिवो ऽमात्यो महामात्राः प्रधानकाः ॥ 2cd
Image-P.291


द्रष्टरि व्यवहाराणां प्राड्विवाका ऽक्षदर्शकौ । 3ab
भौरिकः कनकाध्यक्षो ऽथाध्यक्षाधिकृतौ समौ ॥ 3cd
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः । 4ab
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ 4cd
षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः । 5ab
विषयानन्तरो राजा शत्रुर्मित्रमतः परं ॥ 5cd
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः । 6ab
चरः स्पर्शः स्यात्प्रणिधिरुत्तरः काल आयतिः ॥ 6cd
तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं । 7ab
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ॥ 7cd
भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका । 8ab
प्रभिन्नो गर्जितो मात्तो वमथुः करशीकरः ॥ 8cd
स्त्रियां शृणिस्त्वङ्कुशो ऽस्त्री परिस्तोमः कुथो द्वयोः । 9ab
कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां ॥ 9cd
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । 10ab
भटा योधाश्च योद्धारः कञ्चुको वारणो ऽस्त्रियां ॥ 10cd
शीर्षण्यञ्च शिरस्त्रे ऽथ तनुत्रं वर्म्म दंशनं । 11ab
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ 11cd
व्यूहस्तु बलविन्यासश्चक्रञ्चानीकमस्त्रियां । 12ab
एकेभैकरथा त्र्यश्वाः पत्तिः पञ्चपदातिकाः ॥ 12cd
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं । 13ab
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ॥ 13cd
अनीकिनी दशानीकिन्यो ऽक्षोहिण्यो गजादिभिः । 14ab
Image-P.292


धनुः कोदण्डइष्वासौ कोटिरस्याटनी स्मृता ॥ 14cd
नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । 15ab
पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥ 15cd
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः । 16ab
असिरृष्टिश्च निस्त्रिंशः करवालः कृपाणवत् ॥ 16cd
सरुः खड्गस्य सुष्टौ स्यादीली तु करपालिका । 17ab
द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ॥ 17cd
प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरो ऽस्त्रियां । 18ab
वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ॥ 18cd
संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः । 19ab
पताका वैजयन्ती स्यात्केतनं धजमस्त्रियां ॥ 19cd
अहं पूर्वमहं पूर्व्वमित्यहंपूर्व्विका स्त्रियां । 20ab
अहमहमिका सा स्याद्यो ऽहङ्कारः परस्परम् ॥ 20cd
शक्तिः पराक्रमः प्राणः शौर्य्यं स्थानसहोबलं । 21ab
मूर्छा तु कश्मलं मोहो ऽप्यवर्मद्दस्तु पीड़नं ॥ 21cd
अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः । 22ab
निर्वासनं संज्ञपनं सारणं प्रतिघातनं ॥ 22cd
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो ऽत्ययः । 23ab
विशो भूमिस्पृशो वैश्या वृत्तिर्वर्तनजीवने ॥ 23cd
कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका । 24ab
उद्धरो ऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी ॥ 24cd
किंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः । 25ab
धाम्यं व्रीहिः स्तम्बकरिः कड़ङ्गरो वुपं स्मृतं ॥ 25cd
Image-P.293


माषादयः शमीधान्ये शुकधान्ये यवादयः । 26ab
तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं ॥ 26cd
स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ । 27ab
समानौ रसवत्यान्तु पाकस्थानमहानसे ॥ 27cd
पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः । 28ab
आरालिका आन्धसिकाः सूदा औदनिका गुणाः ॥ 28cd
क्लीवे ऽम्बरीषं भ्राष्टो ना कर्कर्य्यालुर्गलन्तिका । 29ab
आलिञ्जरः स्यान्मणिकं सुषवी कृषजीरके ॥ 29cd
आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं । 30ab
निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते ॥ 30cd
कूर्चिका क्षिरविकृतिः स्निग्धं मसृणचिक्कणं । 31ab
पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः ॥ 31cd
जेमनं लेप आहारो माहेयी सौरभी च गौः । 32ab
युगादीनाञ्च बोढारो युग्यप्रसाङ्ग्यशाटकाः ॥ 32cd
चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका । 33ab
सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ॥ 33cd
पण्याजीवो ह्यापणिको न्यासश्चोपनिधिः पुमान् । 34ab
विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्यादश त्रिषु ॥ 34cd
विंशत्याद्याः सदैकत्वे सर्व्वाः संख्येयसंख्ययोः । 35ab
संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥ 35cd
पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरं । 36ab
मानन्तु लाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥ 36cd
ते षोड़शाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम् । 37ab
Image-P.294


सुवर्णविस्तौ हेम्नो ऽक्षे कुरुविस्तस्तु तत्पले ॥ 37cd
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः । 38ab
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ॥ 38cd
द्रव्यं वित्तं स्वापतेयं रिक्थमृथक्थं धनं वसु । 39ab
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥ 39cd
शुल्वमौदुम्बरं लौहे तीक्ष्णं कालांयसायसी । 40ab
क्षारः काचो ऽथ चपलो रसः सूतश्च पारदे ॥ 40cd
गरलं माहिषं शृङ्गं त्रपुसीसकपिच्चटं । 41ab
हिण्डीरो ऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ॥ 41cd
रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला । 42ab
यवक्षारश्च पाक्यः स्यात् त्वक्क्षीरा वंशलोचनाः ॥ 42cd
वृषला जधन्यजाः शूद्राश्चाण्डालान्त्याश्च शङ्कराः । 43ab
कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ॥ 43cd
रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः । 44ab
नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः ॥ 44cd
जावालः स्यादजाजीवो देवाजीवस्तु देवलः । 45ab
जायाजीवस्तु शैलूषा भृतको भृतिभुक्तथा ॥ 45cd
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । 46ab
विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः ॥ 46cd
पटुस्तु पेशलो दक्षो मृगयुर्लुब्धकः स्मृतः । 47ab
चाण्डालस्तु दिवाकीर्त्तिः पुस्तं लेप्यादिकर्म्मणि ॥ 47cd
पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः । 48ab
मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ । 48cd
Image-P.295


प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः ॥ 48॥ 48ef


इत्याग्नेये महापुराणे क्षत्रविट्शूद्रवर्गा नाम पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 366

अथ षट्षष्ट्यधिकत्रिशततमो ऽध्यायः ।

सामान्यनामलिङ्गानि ।
अग्निरुवाच ।
सामान्यान्य ऽथ वक्ष्यामि नामलिङ्गानि तच्छृणु । 1ab
सुकृती पुण्यवान् ध्नयो महेच्छस्तु महाशयः ॥ 1cd
प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । 2ab
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥ 2cd
कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः । 3ab
इभ्य आढ़्यः परिवृढो ह्यधिभूर्नायको ऽधिपः ॥ 3cd
लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य्य ऽपावृतः । 4ab
खलपूः स्याद्वहुकरो दीर्घसूत्रश्चिरक्रियः ॥ 4cd
जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः । 5ab
कर्म्मशूरः कर्म्मठः स्याद्भक्षको घस्मरो ऽद्मरः ॥ 5cd
लोलुपो गर्धलो गृध्रुर्विनीतप्रश्रितौ तथा । 6ab
धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिभान्विते ॥ 6cd
प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके । 7ab
भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरविन्दुकौ ॥ 7cd
मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः । 8ab
Image-P.296


देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति ॥ 8cd
यः सहाञ्चति स सध्र्यङ् स तिर्य्यङ् यस्तिरो ऽञ्चति । 9ab
वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ॥ 9cd
स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । 10ab
अपध्वस्तो धिक्कृतः स्याद्बद्धे कीलितसंयतौ ॥ 10cd
वरणः शब्दनो नान्दीवादी नान्वीकरः समाः । 11ab
व्यसनार्त्तोपरक्रौ द्वौ बद्धे कीलितसंयतौ 1 11cd
विहिस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः । 12ab
पापो धूर्त्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ॥ 12cd
कदर्य्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ । 13ab
अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ॥ 13cd
कान्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते । 14ab
असारं फल्गु शून्यं वै मुख्यवर्य्यवरेण्यकाः ॥ 14cd
श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं । 15ab
वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ॥ 15cd
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु । 16ab
मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ॥ 16cd
अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः । 17ab
समीपे सन्निधाभ्यासौ नेदिष्टं सुसमीपकं ॥ 17cd
सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले । 18ab
उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ॥ 18cd
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि । 19ab


1 पाठो ऽयं पुररुक्तिदोषेण दुष्टः ।
Image-P.297


चञ्चलं तरलञ्चैव कठोरं जठरं दृढ़ं ॥ 19cd
प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः । 20ab
एकतानो ऽनन्यवृत्तिरुच्चण्डमविलम्बितं ॥ 20cd
उच्चावचं नैकभेदं सम्बाधकलिलं तथा । 21ab
तिमितं स्तिमितं क्लिन्नमभियोगस्त्वभिग्रहः ॥ 21cd
स्फातिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः । 22ab
अपहारस्त्वपचयो विहारस्तु परिक्रमः ॥ 22cd
प्रत्याहार उपादानं निर्हारो ऽभ्यवकर्षणं । 23ab
विघ्नो ऽन्तरायः प्रत्यूहः स्यादास्यात्वासना स्थितिः ॥ 23cd
सन्निधिः सन्निकर्षः स्यात्मंक्रमो दुर्गसञ्चरः । 24ab
उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ॥ 24cd
परिरम्भःपरिष्वङ्गः संश्लेष उपगूहनं । 25ab
अनुमा पक्षहेत्वाद्यैर्डिम्बे भ्रमरविप्लवौ ॥ 25cd
असन्निकृष्टार्थज्ञानं शब्दाद्धि शाब्दमीरितं । 26ab
सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ॥ 26cd
कार्य्यं दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः । 27ab
प्रतियोगिन्या ऽगृहीते भुवि नास्तीत्यभावकः । 27cd
इत्यादिनामलिङ्गो हि हरिरुक्तो नृबुद्धये ॥ 27॥ 27ef


इत्याग्नेये महापुराणे सामान्यनामलिङ्गानि नाम षट्षष्ट्यधिकत्रिशततमो ऽध्यायः ॥
Image-P.298


Chapter 367

अथ सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः ।

नित्यनैमित्तिकप्राकृतप्रलयाः ।
अग्निरुवाच ।
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः । 1ab
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ॥ 1cd
चतुर्युगसहस्रान्ते प्राकृतः प्राकृतो लयः । 2ab
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ॥ 2cd
नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते । 3ab
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ॥ 3cd
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी । 4ab
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ॥ 4cd
स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु । 5ab
भूपातालसमुद्रादितोयं नयति संक्षयं ॥ 5cd
ततस्तस्यानुभावेन तोयाहारोपवृंहिताः । 6ab
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥ 6cd
दहन्त्य ऽशेषं त्रैलोक्यं सपातालतलं द्विज । 7ab
कूर्म्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ॥ 7cd
शेषाहिश्वाससम्पातात् पातालानि दहत्यधः । 8ab
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ॥ 8cd
अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा । 9ab
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ॥ 9cd
Image-P.299


गाच्छन्ति ते महर्लोकं महर्लोकाज्जनं ततः । 10ab
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ॥ 10cd
उत्तिष्टन्ति ततो मेधा नानारूपाः सविद्युतः । 11ab
शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ॥ 11cd
सप्तर्षिस्थानमाक्रम्य स्थिते ऽम्भसि शतं मरुत् । 12ab
मुखनिश्वासतो विष्णोर्नाशं नयति तान्घनान् ॥ 12cd
वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रभुः । 13ab
ब्रह्मरूपधरः सिद्धैर्जलगैर्मुनिभिस्तुतः ॥ 13cd
आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । 14ab
आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ 14cd
कल्पं शेते प्रबुद्धो ऽथ ब्रह्मरूपी सृजत्य ऽसौ । 15ab
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ॥ 15cd
स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते स्थले । 16ab
ततो ऽष्टादशमे भागे परार्द्धमभिधीयते ॥ 16cd
परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः । 17ab
अनावृष्ट्या ऽग्निसम्पर्कात् कृते संज्वलने द्विज ॥ 17cd
महदादेर्विकारस्य विशेषान्तस्य संक्षये । 18ab
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ॥ 18cd
आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणं । 19ab
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ॥ 19cd
रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः । 20ab
पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्यते ॥ 20cd
ज्योतिषो ऽपि गुणं रूपं वायुर्ग्रसति भास्करं । 21ab
Image-P.300


नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ॥ 21cd
वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः । 22ab
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ॥ 22cd
आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं । 23ab
अभिमानात्मकं खञ्च भूतादिं ग्रसते महान् ॥ 23cd
भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्ब्रजेत् । 24ab
वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ॥ 24cd
महात्तत्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज । 25ab
व्यक्ता ऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ॥ 25cd
पुमानेकाक्षरः शुद्धः सो ऽप्यंशः परमात्मनः । 26ab
प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि ॥ 26cd
न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । 27ab
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्महः परे ॥ 27cd


इत्याग्नेये महापुराणे नित्यनैमित्तिकप्राकृतप्रलया नाम सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 368

अथाष्टषष्ट्यधिकत्रिशततमो ऽध्यायः ।

आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं ।
अग्निरुवाच ।
आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः । 1ab
आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः ॥ 1cd
Image-P.301


आध्यात्मिकस्तु सन्तापः शारीरो मानसो द्विधा । 2ab
शारीरो बहुभिर्भेदैस्तापो ऽसौ श्रूयतां द्विज ॥ 2cd
त्यक्त्वा जीवो भोगदेहं गर्भमाप्रोति कर्मभिः । 3ab
आतिवाहिकसंज्ञस्तु देहो भवति वै द्विज ॥ 3cd
केवलं स मनुष्याणां मृत्युकाल उपस्थिते । 4ab
याम्यैः पुंभिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः ॥ 4cd
नीयते याम्यमार्गेण नान्येषां प्राणिनां मुने । 5ab
ततः स्वर्य्याति नरकं स भ्रमेद्घटयन्त्रवत् ॥ 5cd
कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता । 6ab
यमो योनीश्च नरकं निरूपयति कर्मणा ॥ 6cd
पूरणीयाश्च तेनैव यमञ्चैवानुपश्यतां । 7ab
वायुभूताः प्राणिनश्च गर्भन्ते प्राप्नुवन्ति हि ॥ 7cd
यमदूतैर्मनुष्यस्तु नीयते तञ्च पश्यति । 8ab
धर्म्मी च पूज्यते तेन पापिष्ठस्ताड्यते गृहे ॥ 8cd
शुभाशुभं कर्म्म तस्य चित्रगुप्तो निरूपयेत् । 9ab
बान्धवानामशौचे तु देहे खल्वातिवाहिके ॥ 9cd
तिष्ठन्नयति धर्म्मज्ञ दत्तपिण्डाशनन्ततः । 10ab
तन्त्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः 1 10cd
वसेत् क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्नरः । 11ab
आतिवाहिकेदेहात्तु प्रेतपिण्डैर्विना नरः ॥ 11cd
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सो ऽश्रुते । 12ab
कृते सपिण्डीकरणे नरः संवत्सरात्परं ॥ 12cd


1 प्रेतलौकिके इति ख॰ ।
Image-P.302


प्रेतदेहं समुतमृज्य भोगदेहं प्रपद्यते । 13ab
भोगदेहावुभौ प्रोक्तावशुभशुभसंज्ञितौ ॥ 13cd
भुक्त्वा तु भोगदेहेन कर्म्मबन्धान्निपात्यते । 14ab
तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः ॥ 14cd
पापे तिष्ठति चेत् स्वर्गं तेन भुक्तं तदा द्विज । 15ab
तदा द्वितीयं गृह्णाति भोगदेहन्तु पापिनां ॥ 15cd
भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं । 16ab
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टो ऽभिजायते ॥ 16cd
पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् । 17ab
तस्मिन् सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ॥ 17cd
कर्म्मण्यल्पावशेषे तु नरकादपि मुच्यते । 18ab
मुक्तस्तु नरकाद्याति तिर्य्यग्योनिं न संशयः ॥ 18cd
जीवः प्रविष्टो गर्भन्तु कलले ऽप्यत्र तिष्ठति 2 19ab
घनीभूतं द्वितीये तु तृतीये ऽवयवास्ततः ॥ 19cd
चतुर्थे ऽस्थीनि त्वङ्मांसम्पञ्चमे रोमसम्भवः । 20ab
षष्ठे चेतो ऽथ जीवस्य दुःखं विन्दति सप्तमे ॥ 20cd
जरायुवेष्टिते देहे मूर्द्ध्नि बद्धाञ्जलिस्तथा । 21ab
मध्ये क्लीवस्तु वामे स्त्री दक्षिणे पुरुषस्थितिः ॥ 21cd
तिष्ठत्युदरभागे तु पृष्ठस्याभिमुखस्तथा । 22ab
यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः ॥ 22cd
सर्वञ्च वेत्ति वृत्तान्तमारभ्य नरजम्मनः । 23ab


1 गच्छतीति क॰ ।
Image-P.303


अन्धकारञ्च महतीं पीड़ां विन्दति मानवः ॥ 23cd
मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते । 24ab
अष्टमे नवमे मासि भृशमुद्विजत तथा ॥ 24cd
व्यवाये पीड़ामाप्नोति मातुर्व्यायामके तथा । 25ab
व्याधिश्च व्याधितायां स्यान्मुहूर्त्तं शतवर्षवत् ॥ 25cd
सन्तप्यते कर्मभिस्तु कुरुते ऽथ मनोरथान् । 26ab
गर्भाद्विनिर्गतो ब्रह्मन् मोक्षज्ञानं करिष्यति ॥ 26cd
सूतिवातैरधोभूतो निःसरेद्योनियन्त्रतः । 27ab
पीड्यमानो मासमात्रं करस्पर्शेन दुःखितः ॥ 27cd
खशब्दात् क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता । 28ab
श्वासोच्छ्वासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा 1 28cd
अग्नेरूपं दर्शनं स्यादूष्मा पङ्क्तिश्च पित्तकं । 29ab
मेधा वर्णं बलं छाया तेजः शौर्य्यं शरीरके ॥ 29cd
जलात्स्वेदश्च रसनन्देहे वै संप्रजायते । 30ab
क्लेदो वसा रसा रक्तं शुक्रमूत्रकफादिकं ॥ 30cd
भूमेर्ध्राणं केशनखं गौरवं स्थिरतो ऽस्थितः । 31ab
मातृजानि मृदून्यत्र त्वङ्मांसहृदयानि च ॥ 31cd
नाभिर्मज्जा 2 शकृन्मेदःक्लेदान्यामाशयानि च । 32ab
पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु ॥ 32cd
कामक्रोधौ भयं हर्षो धर्म्माधर्म्मात्मता तथा । 33ab
आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत् ॥ 33cd


1 श्वासोच्छ्वासौ सनिर्वापौ वाह्यसंस्पर्शनमिति ञ॰ ।
2 नाभिर्मेड़मिति ख॰ , ञ॰ च ।
Image-P.304


तामसानि तथा ऽज्ञानं प्रमादालस्यतृट्क्षुधाः । 35ab
मोहमात्सर्य्यवैगुण्यशोकायासभयानि च ॥ 35cd
कामक्रोधौ तथा शौर्य्यं यज्ञेप्सा बहुभाषिता । 36ab
अहङ्कारः परावज्ञा राजसानि महामुने ॥ 36cd
धर्मेप्सा मोक्षकामित्वं परा भक्तिश्च केशवे । 37ab
दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत् ॥ 37cd
चपलः क्रोधनो भीरुर्बहुभाषो कलिप्रियः । 38ab
स्वप्ने गगनगश्चैव बहुवातो नरो भवेत् ॥ 38cd
अकालपलितः क्रोधी महाप्राज्ञो रणप्रियः । 39ab
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ॥ 39cd
स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः । 40ab
स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ॥ 40cd
रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा । 41ab
लेपनञ्च तथा मांसमेहस्नेहकरन्तु तत् ॥ 41cd
धारणन्त्व ऽस्थि मज्जा स्यात्पूरणं वीर्य्यवर्धनं । 42ab
शुक्रवीर्य्यकरं ह्योजः प्राणकृज्जीवसंस्थितिः ॥ 42cd
ओजः शुक्रात् सारतरमापीतं हृदयोपगं । 43ab
षड़ङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं ॥ 43cd
षट्त्वचा वाह्यतो यद्वदन्या रुधिरधारिका । 44ab
विलासधारिणी चान्या चतुर्थी कुण्डधारिणी ॥ 44cd
पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता । 45ab
कलासप्तमी मांसधरा द्वितीया रक्तधारिणी ॥ 45cd
यकृत्प्लीहाश्रया चान्या मेदोधरा ऽस्थिधारिणी । 46ab
Image-P.305


मज्जाश्लेष्मपुरीषाणां धरा पक्वाशयस्थिता । 46cd
षष्ठी पित्तधरा शुक्रधरा शुक्राशया ऽपरा ॥ 46॥ 46ef


इत्याग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं नामाष्टषष्ट्यधिकत्रिशततमो ऽध्यायः ।

Chapter 369

अथोनसप्तत्यधिकत्रिशततमो ऽध्यायः ।

शरीरावयवाः ।
अग्निरुवाच ।
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं धीः खुञ्च भूतगं । 1ab
शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः ॥ 1cd
पायूपस्थौ करौ पादौ वाग्भवेत् कर्मखुन्तथा । 2ab
उत्सर्गानन्दकादानगतिवागादि कर्म्म तत् ॥ 2cd
पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च । 3ab
इन्द्रियार्थाश्च पञ्चैव महाभूता मनो ऽधिपाः ॥ 3cd
आत्मा ऽव्यक्तश्चतुर्विंशतत्त्वानि पुरुषः परः । 4ab
संयुक्तश्च वियुक्तश्च यथा मत्स्योदके उभे ॥ 4cd
अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च । 5ab
आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं ॥ 5cd
स याति परमं स्थानं यो वेत्ति पुरुषं परं । 6ab
सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः ॥ 6cd
श्लेष्मणश्चामपित्ताभ्यां पक्वाशयस्तु पञ्चमः । 7ab
Image-P.306


वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयो ऽष्टमः ॥ 7cd
पित्तात्पक्वाशयो ऽग्नेः स्याद्योनिर्विकशिता द्युतौ । 8ab
पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं ॥ 8cd
शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः । 9ab
न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने ॥ 9cd
ऋतावपि च योनिश्चेद्वातपित्तकफावृता । 10ab
भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते ॥ 10cd
वुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः । 11ab
तण्डकश्च महाभाग निबद्धान्याशये मतः ॥ 11cd
रसस्य पच्यमानस्य साराद्भवति देहिनां । 12ab
प्लीहा यकृच्च धर्म्मज्ञ रक्तफेणाच्च पुक्कसः ॥ 12cd
रक्तं पित्तञ्च भवति तथा तण्डकसंज्ञकः । 13ab
मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः ॥ 13cd
रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां । 14ab
सार्धत्रिव्यामसंख्यानि तानि नॄणां विनिर्दिशेत् ॥ 14cd
त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः । 15ab
रक्तवायुसमायोगात् कामेयस्योद्भवः स्मृतः ॥ 15cd
कफप्रसाराद्भवति हृदयं पद्मसन्निभं । 16ab
अधोमुखं तच्छुषिरं यत्र जीवो व्यवस्थितः ॥ 16cd
चैतन्यानुगता भावः सर्वे तत्र व्यवस्थिताः । 17ab
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ॥ 17cd
दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्त्तितं । 18ab
श्रोतांसि यानि देहे ऽस्मिन् कफरक्तवहानि च ॥ 18cd
Image-P.307


तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः । 19ab
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं ॥ 19cd
कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं । 20ab
पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं ॥ 20cd
मांसासृक्कफजा जिह्वा मेदो ऽसृक्कफमांसजौ । 21ab
वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु ॥ 21cd
मूर्द्धा हृन्नाभिकण्ठाश्च जिह्वा शुक्रञ्च शोणितं । 22ab
गुदं वस्तिश्च गुल्फञ्च कण्डुराः षोड़शेरिताः ॥ 22cd
द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले । 23ab
देहे पादादिशीर्षान्ते जालानि चैव षोड़श ॥ 23cd
मांसस्नायुशिरास्थिन्यः चत्वारश्च पृथक् पृथक् । 24ab
मणिबन्धनगुल्फेषु निबद्धानि परस्परं ॥ 24cd
षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् । 25ab
ग्रीवायाञ्च तथा मेढ़्रे कथितानि मनीषिभिः ॥ 25cd
पृष्ठवंशस्योपगताश्चतस्रो मांसरज्जवः । 26ab
नवत्यश्च तथा पेश्यस्तासां बन्धनकारिकाः ॥ 26cd
सीरण्यश्च तथा सप्त पञ्च मूर्द्धानमाश्रिताः । 27ab
एकैका मेढ़्रजिह्वास्ता अस्थि षष्टिशतत्रयं ॥ 27cd
सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः । 28ab
पाणिपादशलाकाश्च तासां स्थानचतुष्टयं ॥ 28cd
षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं । 29ab
चत्वार्य्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु ॥ 29cd
द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवं । 30ab
Image-P.308


अक्षस्थानांशकश्रोणिफलके चैवमादिशेत् ॥ 30cd
भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च । 31ab
ग्रीवायाञ्च तथा ऽस्थीनि जत्रुकञ्च तथा हनुः ॥ 31cd
तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः । 32ab
पर्शुकास्तालुकैः सार्द्धमर्वुदैश्च द्विसप्ततिः ॥ 32cd
द्वेशङ्खके कपालानि चत्वार्येव शिरस्तथा । 33ab
उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश ॥ 33cd
अष्टषष्टिस्तु शाखासु षष्टिश्चैकविवर्जिता । 34ab
अन्तरा वै त्र्यशीतिश्च स्नायोर्न्नवशतानि च ॥ 34cd
त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः । 35ab
ऊर्द्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु ॥ 35cd
पञ्चपेशीशतान्येव 1 चत्वारिंशत्तथोर्द्ध्वगाः । 36ab
चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका ॥ 36cd
स्त्रीणां चैकाधिका वै स्याद्विंशतिश्चतुरुत्तरा । 37ab
स्तनयोर्दश योनौ च त्रयोदश तथाशये ॥ 37cd
गर्भस्य च चतस्रः स्युः शिराणाञ्च शरीरिणां । 38ab
त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु ॥ 38cd
षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः । 39ab
केदार इव कुल्याश्च क्लेदलेपादिकञ्च यत् ॥ 39cd
द्वासप्ततिस्तथा कोट्यो व्योम्नामिह महामुने । 40ab
मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ॥ 40cd
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा । 41ab


1 पञ्चपेशीशतान्यत्रेति ख॰ , ञ॰ च ।
Image-P.309


रक्तस्य सरसस्यात्र क्रमशो ऽञ्जलयो मताः ॥ 41cd
अर्द्धार्द्धाभ्यधिकाः सर्व्वाः पूर्वपूर्वा ऽञ्जलेर्मताः । 42ab
अर्द्धाञ्जलिश्च शुक्रस्य तदर्धञ्च ततौजसः ॥ 42cd
रजसस्तु तथा स्त्रीणाञ्चतस्रः कथिता बुधैः । 43ab
शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत् 1 43cd


इत्याग्नेये महापुराणे शरीरावयवा नामो न सप्तत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 370

अथसप्रत्यधिकत्रिशततमो ऽध्यायः ।

नरकनिरूपणम् ।
अग्निरुवाच ।
उक्तानि यममार्गाणि वक्ष्ये ऽथ मरणे नृणां । 1ab
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥ 1cd
शरीरमुपरुध्या ऽथ कृत्स्नान्दोषान्रुणद्धि वै । 2ab
छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥ 2cd
शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः । 3ab
द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ॥ 3cd
ऊर्द्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा । 4ab
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणां ॥ 4cd
अधः पायुरुपस्थञ्च अनेनाशुभकारिणां । 5ab


1 पिण्डं कृत्वा तु विन्यसेदिति ञ॰ ।
Image-P.310


मूर्द्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ॥ 5cd
अन्तकाले तु सम्प्राप्रे प्राणे ऽपानमुपस्थिते । 6ab
तमसा संवृते ज्ञाने संवृतेषु च मर्म्मसु ॥ 6cd
स जीवो नाभ्यधिष्टानश्चाल्यते मातरिश्वना । 7ab
बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ॥ 7cd
च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु । 8ab
प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुषा ॥ 8cd
गृह्णाति तत्क्षणाद्योगे शरीरञ्चातिवाहिकम् । 9ab
आकाशवायुतेजांसि विग्रहादूर्द्ध्वगामिनः ॥ 9cd
जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः । 10ab
आतिवाहिकदेहन्तु यमदूता नयन्ति तं ॥ 10cd
याम्यं मार्गं महाघोरं षड़शीतिसहस्रकम् । 11ab
अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ॥ 11cd
यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् । 12ab
प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ॥ 12cd
भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः । 13ab
अष्टाविंशतिरेवाधःक्षितेर्नरककोटयः ॥ 13cd
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । 14ab
घोराख्या प्रथमाकोटिः सुघोरा तदधःस्थिता ॥ 14cd
अतिघोरा महाघोरा घोररूपा च पञ्चमी । 15ab
षष्ठी तरलताराख्या सप्तमी च भयानका ॥ 15cd
भयोत्कटा कालरात्री महाचण्डा च चण्डया । 16ab
कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ॥ 16cd
Image-P.311


पद्मावती भीषणा च भीमा चैव करालिका । 17ab
विकराला महावज्रा त्रिकोणा पञ्चकोणिका ॥ 17cd
सदीर्घा वर्तुला सप्तभूमा चैव सुभूमिका । 18ab
दीप्तमाया ऽष्टाविंशतयः कोटयः पापिदुःखदाः ॥ 18cd
अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः । 19ab
रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ॥ 19cd
तामिश्रमन्धतामिश्रं महारौरवरौरवौ । 20ab
असिपत्रं वनञ्चैव लोहभारं तथैव च ॥ 20cd
नरकं कालसूत्रञ्च महानरकमेव च । 21ab
सञ्जीवनं महावीचि तपनं सम्प्रतापनं ॥ 21cd
सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं । 22ab
लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ॥ 22cd
नरकान्विद्धि कोटीशनागन्वै घोरदर्शनान् । 23ab
पात्यन्ते पापकर्म्माण एकैकस्मिन्बहुष्वपि ॥ 23cd
मार्जारोलूकगोमायुगृध्रादिवदनाश्च ते । 24ab
तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ॥ 24cd
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् । 25ab
अयःपात्रेषु चैवान्यान् बहुवह्निकणेषु च ॥ 25cd
शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरके ऽपरे । 26ab
ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुड़ान् ॥ 26cd
यमदूतैर्नराः पांशून्विष्ठारक्तकफादिकान् । 27ab
तप्तं मद्यं पाययन्ति पाटयन्ति पुनर्नरान् ॥ 27cd
यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः । 28ab
Image-P.312


तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकघा शिरः ॥ 28cd
हा तातेति क्रन्दमानाः स्वकन्निदन्ति कर्म्म ते । 29ab
महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ॥ 29cd
कर्म्मक्षयात्प्रजायन्ते महापातकिनस्त्विह । 30ab
मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ 30cd
खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्य्यपि । 31ab
कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ॥ 31cd
ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । 32ab
स्वर्णहारी तु कुनखी दुश्चर्म्मा गुरुतल्पगः ॥ 32cd
यो येन संस्पृशत्येषां स तल्लिङ्गो ऽभिजायते । 33ab
अन्नहर्ता मायावी स्यान्मूको वागपहारकः ॥ 33cd
धान्यं हृत्वा ऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । 34ab
तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ॥ 34cd
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । 35ab
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ 35cd
रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् । 36ab
पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ॥ 36cd
अजः पशुंपयः काको यानमुष्ट्रः 1 फलं कपिः । 37ab
मधु दंशः फलं गृध्रो गृहकाक उपस्करं ॥ 37cd
श्वित्री वस्त्रं सारसञ्च झिल्ली लवणहारकः । 38ab
उक्त आध्यात्मिकस्तापः शस्त्राद्यैराधिभौतिकः ॥ 38cd
ग्रहाग्निदेवपीड़ाद्यैराधिकैविक ईरितः । 39ab


1 यानं वस्त इति ख॰ ।
Image-P.313


त्रिथा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् । 39cd
कृच्छ्रैर्व्रतैश्च दानाद्यैर्विष्णुपूजादिभिर्नरः ॥ 39॥ 39ef


इत्याग्नेये महापुराणे नरकनिरूपणं नाम सप्तत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 371

अथैकसप्तत्यधिकत्रिशततमो ऽध्यायः ।

यमनियमाः ।
अग्निरुवाच ।
संसारतापमुक्त्यर्थं वक्ष्याम्य ऽष्टाङ्गयोगकं । 1ab
ब्रह्मप्रकाशकं ज्ञानं 1 योगस्तत्रैकचित्तता ॥ 1cd
चित्तवृत्तिर्निरोधश्च जीवब्रह्मात्मनोः परः । 2ab
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ ॥ 2cd
यमाः पञ्च स्मृता नियमाद्भुक्तिमुक्तिदाः । 3ab
शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने ॥ 3cd
भूतापीड़ा ह्यहिंसा स्यादहिंसा धर्म्म उत्तमः । 4ab
यथा गजपदे ऽन्यानि 2 पदानि पथगामिनां 3 4cd
एवं सर्वमहिंसायां धर्म्मार्थमभिधीयते । 5ab
उद्वेगजननं हिंसा सन्तापकरणन्तथा ॥ 5cd
रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा । 6ab


1 ब्रह्मप्रकाशनं ज्ञानमिति ञ॰ ।
2 यथा नागपदे ऽन्यानीति क॰ ।
3 पदगामिनामिति ख॰ , ज॰ च ।
Image-P.314


हितस्यातिनिषेधश्च मर्मोद्घाटनमेव च ॥ 6cd
सुखापह्नुतिः संरोधो बधो दशविथा च सा । 7ab
यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं ॥ 7cd
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं । 8ab
प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥ 8cd
मैथुनस्य परित्यागो ब्रह्मचर्य्यन्तदष्टधा । 9ab
स्मरणं कीर्त्तनं केलिः प्रेक्ष्यणं गुह्यभाषणं ॥ 9cd
सङ्कल्पो ऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । 10ab
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ 10cd
ब्रह्मचर्य्यं क्रियामूलमन्यथा विफला क्रिया । 11ab
वसिष्ठश्चन्द्रमाः शुक्रो देवाचार्य्यः पितामहः ॥ 11cd
तपोवृद्धा वयोवृद्धास्ते ऽपि स्त्रीभिर्विमोहिताः । 12ab
गौड़ी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः ॥ 12cd
चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् । 13ab
माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्यति ॥ 13cd
यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् । 14ab
यद्वा तद्वा ऽपरद्रव्यमपहृत्य बलान्नरः ॥ 14cd
अवश्यं याति तिर्य्यक्त्वं जग्ध्वा चैवाहुतं हविः । 15ab
कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीं ॥ 15cd
पादुके चापि गृह्णीयात् कुर्य्यान्नान्यस्य संग्रहं । 16ab
देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः ॥ 16cd
शरीरं धर्म्मसंयुक्तं रक्षणीयं प्रयत्नतः । 17ab
शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥ 17cd
Image-P.315


मृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं । 18ab
उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः ॥ 18cd
यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते । 19ab
मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं तप उच्यते ॥ 19cd
तज्जयः सर्वधर्म्मेभ्यः स धर्म्मः पर उच्यते । 20ab
वाचिकं मन्त्रजप्यादि मानसं रागवर्ज्जनं ॥ 20cd
शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः । 21ab
प्रणवाद्यास्ततो वेदाः प्रणवे पर्य्यवस्थिताः ॥ 21cd
वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् । 22ab
अकारश्च तथोकारो मकारश्चार्द्धमात्रया ॥ 22cd
तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः । 23ab
जाग्रत्स्वप्नः सुषुप्तिश्च ब्रह्मविष्णुमहेश्वराः ॥ 23cd
प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्गारकः क्रमात् । 24ab
अमात्रो नष्टमात्रश्च द्वैतस्यापगमः शिवः ॥ 24cd
ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः । 25ab
चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते ॥ 25cd
तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा । 26ab
तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः ॥ 26cd
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । 27ab
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ 27cd
एतदेकाक्षरं ब्रह्म एतदेकाक्षरं परं । 28ab
एतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ 28cd
छन्दो ऽस्य देवी गायत्री अन्तर्य्यामी ऋषिः स्मृतः । 29ab
Image-P.316


देवता परमात्मास्य नियोगो भुक्तिमुक्तये ॥ 29cd
भूरग्न्यात्मने हृदयं भुवः प्राजापत्यात्मने । 30ab
शिरः स्वःसूर्य्यात्मने च शिखा कवचमुच्यते ॥ 30cd
ओंभूर्भुवः स्वःकवचं सत्यात्मने ततो ऽस्त्रकं । 31ab
विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये ॥ 31cd
जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे । 32ab
यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत् ॥ 32cd
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते । 33ab
अनिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं ॥ 33cd
वैदिकस्तान्त्रिको मिश्रो विष्णार्वै त्रिविधो मखः । 34ab
त्रयानामीप्सितेनैकविधिना हरिमर्च्चयेत् ॥ 34cd
प्रणम्य दण्डवद्भूमौ नमस्कारेण यो ऽर्चयेत् । 35ab
स याङ्गतिमवाप्नोति न तां क्रतुशतैरपि ॥ 35cd
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । 36ab
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ 36cd


इत्याग्नेये महापुराणे यमनियमा नामैकसप्तत्यधिकत्रिशततमो ऽध्यायः ।
Image-P.317


Chapter 372

अथ द्विसप्तत्यधिकत्रिशततमो ऽध्यायः ।

आसनप्राणायामप्रत्याहाराः ।
अग्निरुवाच ।
आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं । 1ab
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ 1cd
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं । 2ab
तत्रैकाग्रं मनः कृत्वा यातचित्तेन्द्रियक्रियः ॥ 2cd
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । 3ab
समकायशीरग्रीवं धारयन्नचलं स्थिरः ॥ 3cd
सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् । 4ab
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ 4cd
उरुभ्यामुपरिस्थाप्य वाहू तिर्य्यक् प्रयत्नतः । 5ab
दक्षिणं करपृष्ठञ्च न्यसेद्धामतलोपरि ॥ 5cd
उन्नम्य शनकैर्वक्त्रं मुखं विष्टभ्य चाग्रतः । 6ab
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ॥ 6cd
नासिकापुटमङ्गुल्या पीड्यैव च परेण च । 7ab
औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ॥ 7cd
वाह्येन वायुना देहं दृतिवत् पूरयेद्यथा । 8ab
तथा पुर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ॥ 8cd
न मुञ्चति न गृह्णाति वायुमन्तर्वाहिःस्थितम् । 9ab
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥ 9cd
Image-P.318


कन्यकः 1 सकृदुद्घातः स वै द्वादशमात्रिकः । 10ab
मध्यमश्च द्विरुद्घातश्चतुर्विंशतिमात्रिकः ॥ 10cd
उत्तमश्च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः । 11ab
स्वेदकम्पाभिधातानां जननश्चोत्तमोत्तमः ॥ 11cd
अजितान्नारुहेद्भूमिं हिक्काश्वासादयस्तथा । 12ab
जिते प्राणे खल्पदोषविन्मूत्रादि प्रजायते ॥ 12cd
आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् । 13ab
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ॥ 13cd
जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः । 14ab
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ॥ 14cd
ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च । 15ab
इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ॥ 15cd
इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । 16ab
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ 16cd
शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः । 17ab
मनश्च सारथिः प्रोक्तः प्राणायामः कशः 2 स्मृतः ॥ 17cd
ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः । 18ab
शनैर्निश्चलतामेति प्राणायामैकसंहितम् ॥ 18cd
जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः । 19ab
संवत्सरशतं साग्रं प्राणयामश्च तत्समः ॥ 19cd
इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ । 20ab


1 कन्यस इति ञ॰ ।
2 प्राणायामो ऽङ्कुश इति झ॰ ।
Image-P.319


आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ॥ 20cd
उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि । 21ab
भोगनद्यतिवेगेन 1 ज्ञानवृक्षं समाश्रयेत् ॥ 21cd


इत्याग्नेये महापुराणे आसनप्राणायामप्रत्याहारा नाम द्विसप्तत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 373

अथ त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः ।

ध्यानम् ।
अग्निरुवाच ।
ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहूर्मुहुः । 1ab
अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ 1cd
आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च । 2ab
ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ॥ 2cd
ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च । 3ab
प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ॥ 3cd
ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रिचित् । 4ab
ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ॥ 4cd
एवं ध्यानसमायुक्तः खदेहं यः परित्यजेत् । 5ab
कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् ॥ 5cd
एवं मुहूर्त्तमर्धं वा ध्यायेद् यः श्रद्धया हरिं । 6ab
सोपि यां गतिमाप्नोति न तां सर्वैर्महामखैः ॥ 6cd


1 भोगनद्यभिवेशेनेति ञ॰ ।
Image-P.320


ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं । 7ab
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ॥ 7cd
योगाभ्यासाद्भवेन्मूक्तिरैश्वर्य्यञ्चाष्टधा महत् । 8ab
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ॥ 8cd
विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः । 9ab
मूर्तामूर्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ॥ 9cd
सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः । 10ab
अणिमादिगुणैश्वर्य्यं मुक्तिर्ध्यानप्रयोजनम् ॥ 10cd
फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं । 11ab
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिषन्नपि ॥ 11cd
शुचिर्वाप्यशुचिर्वापि ध्यायेत् शततमीश्वरम् । 12ab
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ॥ 12cd
हृत्पद्मपीठिकामध्ये ध्यानयोगेन 1 पूजयेत् । 13ab
ध्यानयज्ञः परः शुद्धः सर्वदोषविवर्ज्जितः ॥ 13cd
तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश्च नाध्वरैः । 14ab
हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ॥ 14cd
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । 15ab
तस्माद्शुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ॥ 15cd
यज्ञाद्यं कर्म्म सन्त्यज्य योगमत्यर्थमभ्यसेत् । 16ab
विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ॥ 16cd
चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं । 17ab
तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ॥ 17cd


1 ध्यानमार्गेणेति ख॰ , ज॰ च ।
Image-P.321


ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् । 18ab
सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः 1 18cd
ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् । 19ab
ऐश्वर्य्यं पङ्कजं दिव्यं पुरुशोपरि संस्थितं ॥ 19cd
द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितं । 20ab
नालमष्टाङ्गूलं तस्य नाभिकन्दसमुद्भवं ॥ 20cd
पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् । 21ab
कर्णिकाकेशरं नालं ज्ञानवैराग्यमुत्तमम् ॥ 21cd
विष्णुधर्म्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् । 22ab
तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परं ॥ 22cd
ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् । 23ab
तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिं 2 23cd
अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं । 24ab
कदम्बगोलकाकारं तारं रूपमिव स्थितं ॥ 24cd
ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः । 25ab
प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ॥ 25cd
ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं । 26ab
मनःस्थित्यर्थमिच्छान्ति स्थूलध्यानमनुक्रमात् ॥ 26cd
तद्भूतं निश्चलीभूतं लभेत् सूक्ष्मे ऽपि संस्थितं । 27ab
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ॥ 27cd
नालेनाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतं । 28ab


1 सत्त्वोपाधिसमायुक्तः सदा ध्येयश्च केशव इति ख॰ ।
2 लब्धदीपशिखाकृतिमिति ख॰ , ञ॰ च ।
Image-P.322


सकर्णिके केसराले सूर्य्यसोमाग्निमण्डलं ॥ 28cd
अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः । 29ab
पद्मी चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः ॥ 29cd
शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः । 30ab
स्वर्णवर्णः श्वेतवर्णः सश्रीवत्सः सकौस्तुभः ॥ 30cd
वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः । 31ab
रत्नोज्ज्वलकिरीटश्च पीताम्बरधरो महान् ॥ 31cd
सर्व्वाभरणभूषाढ़्यो वितस्तर्वा यथेच्छया । 32ab
अहं ब्रह्म ज्योतिरात्मा वासुदेवो बिमुक्त ओं ॥ 32cd
ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत् । 33ab
जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ॥ 33cd
जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोड़शीं । 34ab
जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः । 34cd
भुक्तिर्मुर्क्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं 1 ॥ 34॥ 34ef


इत्याग्नेये महापुराणे ध्यानं नाम त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः ॥


1 प्राप्नुयाद्धरिमिति ख॰ । प्राप्यते फलमिति ञ॰ ।
Image-P.323


Chapter 374

अथ चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः ।

धारणा ।
अग्निरुवाच ।
धारणा मनसोध्येये संस्थितिर्ध्यानवद्द्विधा । 1ab
मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ॥ 1cd
यद्वाह्यावस्थितं लक्षयं तस्मान्न चलते मनः । 2ab
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ॥ 2cd
कालावधि परिच्छिन्नं देहे संस्थापितं मनः । 3ab
न प्रच्यवति यल्लक्ष्याद्धारणा सा ऽभिधीयते ॥ 3cd
धारणा द्वादशायामा ध्यानं द्वादशधारणाः । 4ab
ध्यानं द्वादशकं यावत्समाधिरभिधीयते ॥ 4cd
धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते । 5ab
कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं 1 5cd
यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः । 6ab
तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणं ॥ 6cd
आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका । 7ab
साग्निः शिखा फडन्ता च विष्णोः कार्य्या द्विजोत्तम ॥ 7cd
नाड़ीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् । 8ab
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ॥ 8cd


1 स्वयं याति परं पदमिति ख॰ ।
Image-P.324


तिर्य्यक्चाधोर्द्ध्वभागेभ्यः प्रयान्त्यो ऽतीव तेजसा 1 9ab
चिन्तयेत् साधकेन्द्रस्तं यावत्सर्वं महामुने ॥ 9cd
भस्प्रीभूतं शरीरं स्वन्ततश्चैवीपसंहरेत् । 10ab
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ॥ 10cd
शिरो धीरञ्च 2 कारञ्च कण्ठं चाधोमुखे स्मरेत् । 11ab
ध्यायेदच्छिन्नचिन्तात्मा भुयो भूतेन चात्मना ॥ 11cd
स्फुरच्छीकरसंस्पर्शप्रभूते हिमगामिभिः । 12ab
धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ॥ 12cd
ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलम् । 13ab
सुषुम्नान्तर्गतो भूत्वा संपूर्णेन्दुकृतालयं ॥ 13cd
संप्लाव्य हिमसंस्पर्शतोयेनामृतमूर्त्तिना । 14ab
क्षुत्पिपासाक्रमप्रायसन्तापपरिपीड़ितः ॥ 14cd
धारयेद्वारुणीं मन्त्रो तुष्ट्यर्थं चाप्यतन्त्रितः । 15ab
वारुणीधारणा प्रोक्ता ऐशानीधारणां शृणु ॥ 15cd
व्योम्नि ब्रह्ममये पद्मे प्राणापाणे क्षयङ्गते । 16ab
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ॥ 16cd
महाभावञ्जपेत् सर्व्वं ततो व्यापक ईश्वरः । 17ab
अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ॥ 17cd
असत्यं सत्यमाभाति तावत्सर्वं चराचरं । 18ab
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ॥ 18cd
दृष्ठे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं । 19ab


1 पाठो ऽयमादर्शदोषेण दुष्टः ।
2 वीरश्चेति ञ॰ ।
Image-P.325


प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ॥ 19cd
मातृमोदकवत्सर्वं जपहोमार्चनादिकं । 20ab
विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदे ॥ 20cd
संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगं । 21ab
शिरःस्थं चिन्तयेद् यत्नाच्छशाङ्कायुतवर्चसं ॥ 21cd
सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं । 22ab
तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् । 22cd
साधको विगतक्लेशो जायते धारणादिभिः ॥ 22॥ 22ef


इत्याग्नेये महापुराणे धारणा नाम चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 375

अथ पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः ।

समाधिः ।
अग्निरुवाच ।
यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं । 1ab
चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ॥ 1cd
ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः । 2ab
निर्वातानलवद्योगी समाधिस्थः प्रकीर्त्तितः ॥ 2cd
न शृणोति न चाघ्राति न पश्यति न वम्यति । 3ab
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥ 3cd
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् । 4ab
एवमीश्वरसंलीनः समाधिस्थः स गीयते ॥ 4cd
Image-P.326


यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता । 5ab
ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ॥ 5cd
उपसर्गाः प्रवर्त्तन्ते दिव्याः सिद्धिप्रसूचकाः । 6ab
पातितः श्रावणो धातुर्दशनस्वाङ्गवेदनाः ॥ 6cd
प्रार्थयन्ति च तं देवा भोगैर्दिव्यैश्च योगिनं । 7ab
नृपाश्च पृथिवीदानैर्धनैश्च सुधनाधिपाः ॥ 7cd
वेदादिसर्व्वशास्त्रञ्च स्वयमेव प्रवर्त्तते । 8ab
अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्त्तते ॥ 8cd
रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा । 9ab
समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ॥ 9cd
सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः । 10ab
तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ॥ 10cd
अणिमादिगुणैश्वर्य्यः शिष्ये ज्ञानं प्रकाश्य च । 11ab
भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः ॥ 11cd
तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे। 12ab
मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ॥ 12cd
सर्वाश्रयान्निजे देहे देही विन्दति वेदनां । 13ab
योगयुक्तस्तु सर्व्वेषां योगान्नाप्नोति वेदनां ॥ 13cd
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् । 14ab
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ॥ 14cd
ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः । 15ab
इमे लोका एष चात्मा तस्माच्च सचराचरं ॥ 15cd
Image-P.327


मृद्दण्दचक्रसंयोगात् कुम्भकारो यथा घटं । 16ab
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥ 16cd
करणान्येवमादाय तासु तास्विह योनिषु । 17ab
मृजत्यात्मानमात्मैवं सम्भूय करणानि च ॥ 17cd
कर्मणा दोषमोहाभ्यामिच्छयैव स बध्यते । 18ab
ज्ञानाद्विमुच्यते जीवो धर्म्माद् योगी न रोगभाक् ॥ 18cd
वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । 19ab
विक्रियापि च दृष्ट्वैवमकाले प्राणसंक्षयः ॥ 19cd
अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि । 20ab
सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ॥ 20cd
ऊर्द्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्य्यमण्डलं । 21ab
ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ॥ 21cd
यदस्यान्यद्रश्मिशतमूर्द्ध्वमेव व्यवस्थितं । 22ab
तेन देवनिकायानि धामानि प्रतिपद्यते ॥ 22cd
ये नैकरूपाश्चाधस्ताद्रश्मयो ऽस्य मृदुप्रभाः । 23ab
इह कर्मोपभोगाय तैश्च सञ्चरते हि सः ॥ 23cd
बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च । 24ab
अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ 24cd
अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्त्यास्य निगद्यते । 25ab
ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ॥ 25cd
बुद्धेरुत्पत्तिरव्यक्ता ततो ऽहङ्कारसम्भवः । 26ab
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ॥ 26cd
Image-P.328


शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः । 27ab
यो यस्मिन्नाश्रितश्चैषां स तस्मिन्नेव लीयते ॥ 27cd
सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्त्तिताः । 28ab
रजस्तमोभ्यामाविष्टश्चक्रवद्भ्राम्यते हि सः ॥ 28cd
अनादिरादिमान् यश्च स एव पुरुषः परः । 29ab
लिङ्गेन्द्रियैरुपग्राह्याः स विकार उदाहृतः ॥ 29cd
यतो देवाः पुराणानि विद्योपनिषदस्तथा । 30ab
श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्वाङ्भयं भवेत् ॥ 30cd
पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं । 31ab
तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति ॥ 31cd
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । 32ab
अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ॥ 32cd
पुनरावर्त्तने वीजभूता धर्म्मप्रवर्त्तकाः । 33ab
सप्तर्षिनागवीथ्याश्च देवलोकं समाश्रिताः ॥ 33cd
तावन्त एव मुनयः सर्वारम्भविवर्ज्जिताः । 34ab
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ॥ 34cd
यत्र यत्रावतिष्ठन्ते यावदाहूतसंप्लवं । 35ab
वेदानुवचनं यज्ञा ब्रह्मचर्यं तपो दमः ॥ 35cd
श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः । 36ab
स त्वाश्रमैर्न्निदिध्यास्यः समस्तैरेवमेव तु ॥ 36cd
द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । 37ab
य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ॥ 37cd
उपासते द्विजाः सत्यं श्रद्धया परया युताः । 38ab
Image-P.329


क्रमात्ते सम्भवन्त्यर्च्चिरहः शुक्लं तथोत्तरं ॥ 38cd
अयनन्देवलोकञ्च सवितारं सविद्युतं । 39ab
ततस्तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् ॥ 39cd
करोति पुनरावृत्तिस्तेषामिह न विद्यते । 40ab
यज्ञेन तपसा दानैर्ये हि स्वर्गजितो जनाः ॥ 40cd
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च । 41ab
पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ॥ 41cd
क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च । 42ab
एतद्यो न विजानाति मार्गद्वितयमात्मनः ॥ 42cd
दन्दशूकः पतङ्गो वा भवेत्कीटो ऽथवा कृमिः । 43ab
हृदये दीपवद्ब्रह्म ध्यानाज्जीवो मृतो भवेत् ॥ 43cd
न्यायागतधनस्तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः । 44ab
श्राद्धकृत्सत्यवादी च गृहस्थो ऽपि विमुच्यते ॥ 44cd


इत्याग्नेये महापुराणे समाधिर्नाम पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः ।
Image-P.330


Chapter 376

अथ षट्सप्तत्यधिकत्रिशततमो ऽध्यायः ।

ब्रह्मज्ञानं ।
अग्निरुवाच ।
ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये । 1ab
अयमात्मा पर्ं ब्रह्म अहमस्मीति मुच्यते ॥ 1cd
देह आत्मा न भवति दृश्यत्वाच्च घटादिवत् । 2ab
प्रसुप्ते मरणे देहादात्मा ऽन्यो ज्ञायते ध्रुवं ॥ 2cd
देहः स चेद्व्यवहरेद्विकार्य्यादिसन्निभः । 3ab
चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ॥ 3cd
मनो धीरपि आत्मा न दीपवत् करणं त्वतः । 4ab
प्राणो ऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ॥ 4cd
जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते । 5ab
विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ॥ 5cd
अतो नात्मेन्द्रियं तस्मादिन्द्रियादिकमात्मनः । 6ab
अहङ्कारो ऽपि नैवात्मा देहवद्व्यभिचारतः ॥ 6cd
उक्तेभ्यो व्यतिरिक्तो ऽयमात्मा सर्वहृदि स्थितः । 7ab
सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ॥ 7cd
समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः । 8ab
यतो ब्रह्मण आकाशं खाद्वायुर्वायुतो ऽनलः ॥ 8cd
अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं । 9ab
अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ॥ 9cd
Image-P.331


स्थूलं शरीरं ध्यात्वास्माल्लयं ब्रह्मणि चिन्तयेत् । 10ab
पञ्चीकृतानि भूतानि तत्कार्य्यञ्च विराट्स्मृतम् ॥ 10cd
एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं । 11ab
इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ॥ 11cd
विश्वस्तदभिमानी स्यात् त्रयमेतदकारकं । 12ab
अपञ्चीकृतभूतानि तत्कार्यं लिङ्गमुच्यते ॥ 12cd
संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं । 13ab
शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ॥ 13cd
जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः । 14ab
आत्मा तदुपमानी स्त्यात्तैजसो ह्यप्रपञ्चतः ॥ 14cd
स्थूलसूक्ष्मशरीराख्यद्वयस्यैकं हि कारणं । 15ab
आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ॥ 15cd
न सन्नासन्न सदसदेतत्सावयवं न तत् । 16ab
निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ॥ 16cd
भिन्नाभिन्नं ह्यनिर्वाच्यं बन्धसंसारकारकं । 17ab
एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्म्मभिः ॥ 17cd
सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां । 18ab
बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् ॥ 18cd
प्राज्ञ आत्मा त्रयञ्चैतत् मकारः प्रणवः स्मृतः । 19ab
अकारश्च उकारो ऽसौ मकारो ह्ययमेव च ॥ 19cd
अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च । 20ab
नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ॥ 20cd
नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं । 21ab
Image-P.332


ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं ॥ 21cd
अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः । 22ab
चिरमानन्दकं ब्रह्म सत्यं ज्ञानमनन्तकं ॥ 22cd
अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च । 23ab
गुरुणा बोधितो जीवो ह्यहं ब्रह्मास्मि वाह्यतः ॥ 23cd
सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं । 24ab
मुच्यते ऽसारसंसाराद्ब्रह्मज्ञो ब्रह्म तद्भवेत् ॥ 24cd


इत्याग्नेये महापुराणे ब्रह्मज्ञानं नाम षट्सप्तत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 377

अथ सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः ।

ब्रह्मज्ञानं ।
अग्निरुवाच ।
अहं ब्रह्म परं ज्योतिः पृथिव्यवनलोज्झितं । 1ab
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितं ॥ 1cd
अहं ब्रह्म परं ज्योतिरादिकार्यविवर्जितम् । 2ab
अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ॥ 2cd
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् । 3ab
अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ॥ 3cd
अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितम् । 4ab
अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् ॥ 4cd
Image-P.333


अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितं । 5ab
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्झितं ॥ 5cd
अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् । 6ab
अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितं ॥ 6cd
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितं । 7ab
अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितं ॥ 7cd
अहं ब्रह्म परं ज्योतिर्म्मनोबुद्धिविवर्जितं । 8ab
अहं ब्रह्म परं ज्योतिश्चित्ताहङ्कारवर्जितं ॥ 8cd
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितं । 9ab
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितं ॥ 9cd
अहं ब्रह्म परं ज्योतिः समानपरिवर्जितं । 10ab
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितं ॥ 10cd
अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितं । 11ab
अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितं ॥ 11cd
अहं ब्रह्म परं ज्योतिः शब्दोद्भूतादिवर्जितं । 12ab
अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितं ॥ 12cd
अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितं । 13ab
अहं ब्रह्म परं ज्योतिस्तैजसादिविवर्जितं ॥ 13cd
अहं ब्रह्म परं ज्योतिरपकारादिवर्जितं । 14ab
अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितं ॥ 14cd
अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितं । 15ab
अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितं ॥ 15cd
अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितं । 16ab
Image-P.334


अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ॥ 16cd
अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं । 17ab
अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ॥ 17cd
अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् । 18ab
अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ॥ 18cd
अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् । 19ab
अहं ब्रह्म परं ज्योतिर्मितिमातृविवर्जितम् ॥ 19cd
अहं ब्रह्म परं ज्योतिः साक्षित्वादिविवर्जितम् । 20ab
अहं ब्रह्म परं ज्योतिः कार्य्यकारणवर्जितम् ॥ 20cd
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं । 21ab
जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ॥ 21cd
नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमद्वयम् । 22ab
ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं । 22cd
अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ॥ 22॥ 22ef


इत्याग्नेये महापुराणे समाधिर्नाम सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः ॥
Image-P.335


Chapter 378

अथाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः ।

ब्रह्मज्ञानं ।
अग्निरुवाच ।
यज्ञैश्च देवानाप्नोति वैराजं तपसा पदं । 1ab
ब्रह्मणः कर्मसन्न्यासाद्वैराग्यात् प्रकृतौ लयं ॥ 1cd
ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः । 2ab
प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ॥ 2cd
सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह । 3ab
अव्यक्तादौ विशेषान्ते विकारो ऽस्मिन्निवर्त्तते ॥ 3cd
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते । 4ab
परमात्मा च सर्वेषामाधारः परमेश्वरः ॥ 4cd
विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते । 5ab
यज्ञेश्वरो यज्ञपुमान् प्रवृत्तैरिज्यते ह्यसौ ॥ 5cd
निवृत्तैर्ज्ञानयोगेन ज्ञानमूर्त्तिः स चेक्ष्यते । 6ab
ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ॥ 6cd
तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने । 7ab
आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ 7cd
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् । 8ab
द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ॥ 8cd
वेदादिविद्या ह्यपरमक्षरं ब्रह्मसत्परम् । 9ab
तदेतद्भगवद्वाच्यमुपचारे ऽर्चने ऽन्यतः ॥ 9cd
सम्भर्तेति तथा भर्त्ता भकारो ऽर्थद्वयान्वितः । 10ab
नेता गमयिता स्रष्टा गकारो ऽयं माहमुने ॥ 10cd
Image-P.336


ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । 11ab
ज्ञानवैराग्ययोश्चैव षणां भग इतीङ्गना ॥ 11cd
वसन्ति विष्णौ भुतानि स च धातुस्त्रिधात्मकः । 12ab
एवं हरौ हि भगवान् शब्दो ऽन्यत्रोपचारतः ॥ 12cd
उत्पत्तिं प्रलयञ्चैव भूतानामगतिं गतिं । 13ab
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥ 13cd
ज्ञानशक्तिः परैश्वर्य्यं वीर्य्यं तेजांस्यशेषतः । 14ab
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ 14cd
खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा । 15ab
अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः ॥ 15cd
अविद्याभवम्भूतिर्वीजमेतद्द्विधा स्थितम् । 16ab
पञ्चभूतात्मके देहे देही मोहतमाश्रितः ॥ 16cd
अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं । 17ab
इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च ॥ 17cd
करोति पण्डितः साम्यमनात्मनि कलेवरे । 18ab
सर्वदेहोपकाराय कुरुते कर्म्म मानवः ॥ 18cd
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं । 19ab
निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः ॥ 19cd
दुःखज्ञानमयो ऽधर्मः प्रकृतेः स तु नात्मनः । 20ab
जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि ॥ 20cd
शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने । 21ab
तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः ॥ 21cd
भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सो ऽव्ययः । 22ab
Image-P.337


वन्धाय विषयासङ्गं मनो निर्विषयं धिये ॥ 22cd
विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् । 23ab
आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने ॥ 23cd
विचार्य्य स्वात्मनः शक्त्या लौहमाकर्षको यथा । 24ab
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥ 24cd
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते । 25ab
विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ॥ 25cd
यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः । 26ab
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ॥ 26cd
वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये । 27ab
आश्रयश्चेतसो ब्रह्म मूर्त्तञ्चामूर्तकं द्विधा ॥ 27cd
सनन्दनादयो ब्रह्मभावभावनया युताः । 28ab
कर्मभावनया चान्ये देवाद्याः स्थावरान्तकाः ॥ 28cd
हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा । 29ab
त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ॥ 29cd
प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं । 30ab
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम् ॥ 30cd
तच्च विष्णोः परं रूपमरूपस्याजमक्षरं । 31ab
अशक्यं प्रथमं ध्यातुमतो मूर्त्तादि चिन्तयेत् ॥ 31cd
सद्भावभावमापन्नस्ततो ऽसौ परमात्मना । 32ab
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ 32cd


इत्याग्नेये महापुराणे ब्रह्मज्ञानं नामाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः ॥
Image-P.338


Chapter 379

अथोनाशीत्यधिकत्रिशततमो ऽध्यायः ।

अद्वैतब्रह्मविज्ञानं ।
अग्निरुवाच ।
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतो ऽगदत् । 1ab
शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ॥ 1cd
मृगसङ्गान्मृगो भूत्वा ह्यन्तकाले स्मरन् मृगं । 2ab
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतो ऽभवत् ॥ 2cd
अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् । 3ab
क्षत्ता ऽसौ वीरराजस्य विष्टियोगममन्यत ॥ 3cd
उवाह शिविक्रामस्य क्षत्तुर्वचनचोदितः । 4ab
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ॥ 4cd
ययौ जड़गतिः पश्चात् ये त्वन्ये त्वरितं ययुः । 5ab
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपो ऽब्रवीत् ॥ 5cd
राजोवाच ।
किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढ़ा शिविका मम । 6ab
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ॥ 6cd
ब्राह्मण उवाच ।
नाहं पीवान्न वैषोढ़ा शिविका भवतो मया । 7ab
न श्रान्तो ऽस्मि न वायासो वोढ़व्यो ऽसि महीपते ॥ 7cd
भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते । 8ab
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ 8cd
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ । 9ab
स्कन्धस्थितेयं शिविका मम भावो ऽत्र किं कृतः ॥ 9cd
Image-P.339


शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं । 10ab
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥ 10cd
अहं त्वञ्च तथा ऽन्ये च भूतैरुह्याम 1 पार्थिव । 11ab
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ॥ 11cd
कर्म्मवश्या गुणाश्चैते सत्त्वाद्याः पृथिवीपते । 12ab
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ 12cd
आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । 13ab
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ 13cd
यदा नोपचयस्तस्य यदा नापचयो नृप । 14ab
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ॥ 14cd
भूजङ्घापादकट्यूरुजठरादिषु संस्थिता । 15ab
शिविकेयं तथा स्कन्धे तदा भावःसमस्त्वया ॥ 15cd
तदन्यजन्तुभिर्भूप शिविकोत्थानकर्मणा । 16ab
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ॥ 16cd
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप । 17ab
सोढ़व्यः स महाभारः कतरो नृपते मया ॥ 17cd
यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसंग्रहः । 18ab
भवतो मे ऽखिलस्यास्य समत्वेनोपवृंहितः ॥ 18cd
तच्छ्रुत्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च । 19ab
प्रसादं कुरु त्यक्त्वेमां शिविकां ब्रूहि शृण्वते । 19cd
यो भवान् यन्निमित्तं वा यदागमनकारणम् ॥ 19॥ 19ef
ब्राह्मण उवाच ।
श्रूयतां कोहमित्येतद्वक्तुं नैव च शक्यते । 20ab


1 पाठो ऽयं न समीचीनः ।
Image-P.340


उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ॥ 20cd
सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ । 21ab
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ॥ 21cd
रजोवाच ।
यो ऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते । 22ab
आत्मन्येषु न दोषाय शब्दोहमिति यो द्विज ॥ 22cd
ब्राह्मण उवाच ।
शब्दोहमिति दोषाय नात्मन्येष तथैव तत् । 23ab
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ 23cd
यदा समस्तदेहेषु पुमानेको व्यवस्थितः । 24ab
तदा हि को भवान् कोहमित्येतद्विफलं वचः ॥ 24cd
त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः । 25ab
अयञ्च भवतो लोको न सदेतन्नृपोच्यते ॥ 25cd
वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठिता । 26ab
का वृक्षसंज्ञा जातास्य दारुसंज्ञाथ वा नृप ॥ 26cd
वृक्षारूढ़ो महाराजो नायं वदति चेतनः । 27ab
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ॥ 27cd
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः । 28ab
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया ॥ 28cd
पुमान् स्त्री गौरयं वाजी कुञ्चरो विहगस्तरुः । 29ab
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ 29cd
जिह्वा ब्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप । 30ab
एते नाहं यतः सर्व्वे वाङ्निपादनहेतवः ॥ 30cd
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं । 31ab
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ॥ 31cd
Image-P.341


पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः । 32ab
ततो ऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ॥ 32cd
यदन्यो ऽस्ति परः कोपि मत्तः पार्थिवसत्तम । 33ab
तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ 33cd
परमार्थभेदो न नगो न पशुर्नच पादपः । 34ab
शरीराश्च विभेदाश्च य एते कर्मयोनयः ॥ 34cd
यस्तु राजेति यल्लोके यच्च राजभटात्मकम् । 35ab
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ॥ 35cd
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः। 36ab
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ॥ 36cd
त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं । 37ab
किमु पादादिकं त्वं वै तवैतत् किं महीपते ॥ 37cd
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः । 38ab
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव । 38cd
तच्छ्रुत्वोवाच राजा तमवधूतं द्विजं हरिं ॥ 38॥ 38ef
रजोवाच ।
श्रेयो ऽर्थमुद्यतः प्रष्टुं कपिलर्षिमहं द्विज । 39ab
तस्यांशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि । 39cd
ज्ञानवीच्युदछेर्यस्माद्यच्छ्रेयस्तच्च मे वद ॥ 39॥ 39ef
ब्राह्मण उवाच ।
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि । 40ab
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ॥ 40cd
देवताराधनं कृत्वा धनसम्पत्तिमिच्छति । 41ab
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृप ॥ 41cd
विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः । 42ab
Image-P.342


यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ॥ 42cd
परमार्थात्मनोर्योगः परमार्थ इतीष्यते । 43ab
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥ 43cd
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः । 44ab
परं ज्ञानमयो ऽसङ्गी गुणजात्यादिभिर्विभुः ॥ 44cd
निदाधqतुसंवादं वदामि द्विज तं शृणु 1 45ab
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्यो ऽभूत् पुलस्त्यजः ॥ 45cd
निदाघः प्राप्तविद्यो ऽस्मान्नगरे वै पुरे स्थितः । 46ab
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ॥ 46cd
दिव्ये वर्षसहस्रे ऽगान्निदाघमवलोकितुं । 47ab
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमव्रवीत् । 47cd
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा सा ऽक्षया यतः ॥ 47॥ 47ef
ऋतुरुवाच ।
क्षुदस्ति यस्य भुक्ते ऽन्ने तुष्टिर्ब्राह्मण जायते । 48ab
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ॥ 48cd
क्षुत्तृष्णे देहधर्म्माख्ये न ममैते यतो द्विज । 49ab
पृष्टोहं यत्त्वया ब्रूयां 2 तृप्तिरस्त्ये व मे सदा ॥ 49cd
पुमान् सर्वगतो व्यापी आकाशवदयं यतः । 50ab
अतो ऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं 3 50cd
सो ऽहं गन्ता 4 न चागन्ता नैकदेशनिकेतनः । 51ab
त्वं चान्यो न भवेन्नापि नान्यस्त्वत्तो ऽस्मि वा प्यहं ॥ 51cd


1 निदाघqतुसंवादमद्वैतबुद्धये शृण्विति ख॰ , ञ॰ च ।
2 ततः क्षुत्सम्भवाभावादिति ख॰ , ञ॰ च ।
3 कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथमिति ख॰ , ञ॰ च ।
4 भोक्तेति क॰ ।
Image-P.343


मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभवेत् । 52ab
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ 52cd
ऋतुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्विज । 53ab
इहागतो ऽहं यास्यामि परमार्थस्तवोदितः ॥ 53cd
एकमेवमिदं विद्धि न भेदः सकलं जगत् । 54ab
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ 54cd
ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ । 55ab
निदाघं नगरप्रान्ते एकान्ते स्थितमव्रवीत् । 55cd
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरव्रवीत् ॥ 55॥ 55ef
निदाघ उवाच ।
भो विप्र जनसंवादो महानेष नरेश्वर । 56ab
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ॥ 56cd
ऋतुरुवाच ।
नराधिपो ऽत्र कतमः कतमश्चेतरो जनः । 57ab
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ॥ 57cd
यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुत्थितं । 58ab
अधिरूढ़ो नरेन्द्रो ऽयं परिवारस्तथेतरः 1 58cd
गजो यो ऽयमधो ब्रह्मन्नुपर्य्येष स भूपतिः । 59ab
ऋतुराह गजः को ऽत्र राजा चाह निदाघकः ॥ 59cd
ऋतुर्निदाघ आरूढ़ो दृष्टान्तं पश्य वाहनं । 60ab
उपर्य्यहं यथा राजा त्वमधः कुञ्जरो यथा ॥ 60cd
ऋतुः 2 प्राह निदाघन्तं कतमस्त्वामहं वदे । 61ab
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्ध्रुवम् ॥ 61cd


1 आरूढ़ो ऽयं गजं राजा परलोकस्तथेतर इति ख॰ , ञ॰ च ।
2 क॰ पुस्तके सर्व्वत्र ऋभुरिति ऋतुस्थानीयः पाठः ।
Image-P.344


नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा । 62ab
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः । 62cd
परमार्थं सारभूतमद्वैतं दर्शितं मया ॥ 62॥ 62ef
ब्राह्मण उवाच ।
निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् । 63ab
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ॥ 63cd
अवाप मुक्तिं ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि । 64ab
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ॥ 64cd
पीतनीलादिभेदेन यथैकं दृश्यते नभः । 65ab
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ॥ 65cd
अग्निरुवाच ।
मुक्तिं ह्यवाप भवतो ज्ञानसारेण भूपतिः 1 66ab
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ॥ 66cd


इत्याग्नेये महापुराणे अद्वैतव्रह्मविज्ञानं नमोनाशीत्यधिकत्रिशततमो ऽध्यायः ।

Chapter 380

अथाशीत्यधिकत्रिशततमो ऽध्यायः ।

गीतासारः ।
अग्निरुवाच ।
गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं । 1ab
कृष्णो ऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं 2 1cd
श्रीभगवानुवाच ।
गतासुरगतासुर्वा न शोच्यो देहवानजः । 2ab
आत्मा ऽजरो ऽमरो ऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥ 2cd


1 ज्ञानात् सौवीरभूपतिरिति ख॰ , ञ॰ च ।
2 पठतां भुक्तिमुक्तिदमिति ख॰ ।
Image-P.345


ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । 3ab
सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥ 3cd
मम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति । 4ab
दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥ 4cd
कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते । 5ab
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ 5cd
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । 6ab
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 6cd
नैव तस्य कृते नार्थो नाकृते नेह कश्चनः । 7ab
तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥ 7cd
गुणा गुनेषु वर्त्तन्ते इति मत्वा न सज्जते । 8ab
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥ 8cd
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ऽर्जुन । 9ab
ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः ॥ 9cd
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । 10ab
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥ 10cd
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । 11ab
शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥ 11cd
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति । 12ab
देवी ह्येषा गुणमयी मम माया दुरत्यया ॥ 12cd
मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते । 13ab
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 13cd
चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः । 14ab
Image-P.346


अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्ममुच्यते ॥ 14cd
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । 15ab
अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं ॥ 15cd
अधियज्ञोहमेवात्र देहे देहभृतां वर । 16ab
अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥ 16cd
यं यं भावं स्मरन्नन्ते त्यजेद्देहन्तमाप्नुयात् । 17ab
प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥ 17cd
ओमित्येकाक्षरं ब्रह्मवदन् देहं त्यजन्तथा । 18ab
ब्रह्मादिस्तम्भपर्यन्ताः सर्व्वे मम विभूतयः ॥ 18cd
श्रीमन्तश्चोर्जिताः सर्वे ममांशाः 1 प्राणिनः स्मृताः । 19ab
अहमेको विश्वरूप इति ज्ञात्वा विमुच्यते ॥ 19cd
क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकोर्तितः । 20ab
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 20cd
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । 21ab
इन्द्रयाणि देशैकञ्च पञ्च चेन्द्रियगोचराः ॥ 21cd
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । 22ab
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 22cd
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवं । 23ab
आचार्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥ 23cd
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । 24ab
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ॥ 24cd
आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । 25ab


1 ममाङ्गा इति ख॰ ।
Image-P.347


नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥ 25cd
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । 26ab
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 26cd
अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं । 27ab
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो ऽन्यथा ॥ 27cd
ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वा ऽमृतमश्नुते । 28ab
अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥ 28cd
सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् । 29ab
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 29cd
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । 30ab
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 30cd
वहिरन्तश्च भूतानामचरञ्चरमेव च । 31ab
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चान्तिके ऽपि यत् ॥ 31cd
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । 32ab
भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 32cd
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । 33ab
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितं ॥ 33cd
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । 34ab
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 34cd
अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते । 35ab
तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 35cd
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । 36ab
प्रमादमोहौ तमसो भवतो ज्ञानमेव च ॥ 36cd
Image-P.348


गुणा वर्तन्त इत्येव यो ऽवतिष्ठति नेङ्गते । 37ab
मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥ 37cd
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययं । 38ab
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 38cd
द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च । 39ab
अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां ॥ 39cd
न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः । 40ab
नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥ 40cd
यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् । 41ab
आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं ॥ 41cd
दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं । 42ab
अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं ॥ 42cd
यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः । 43ab
यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥ 43cd
श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते । 44ab
देवादिपूजा ऽहिंसादि वाङ्मयं तप उच्यते ॥ 44cd
अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः । 45ab
मानसं चित्तसंशुद्धेर्सौनमात्सविनिग्रहः ॥ 45cd
सात्त्विकञ्च तपो ऽकामं फलाद्यर्थन्तु राजसं । 46ab
तामसं परपीड़ायै सात्त्विकं दानमुच्यते ॥ 46cd
देशादौ चैव दातव्यमुपकाराय राजसं । 47ab
अदेशादाववज्ञातं तामसं दानमीरितं ॥ 47cd
Image-P.349


ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । 48ab
यज्ञदानादिक कर्म्म बुक्तिमुक्तिप्रदं नृणां ॥ 48cd
अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलं । 49ab
भवत्यत्यागिनां 1 प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ 49cd
तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् । 50ab
राजसः सात्त्विको ऽकामात् पञ्चैते कर्महेतवः ॥ 50cd
अधिष्ठानं तथा कर्त्ता करणञ्च पृथग्विधम् । 51ab
त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमं ॥ 51cd
एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसं । 52ab
अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं ॥ 52cd
कामाय राजसं कर्म मोहात् कर्म तु तामसं । 53ab
सिध्यसिद्ध्योः समः कर्त्ता सात्त्विको राजसो ऽत्यपि ॥ 53cd
शठो ऽलसस्तामसः स्यात् कार्य्यादिधीश्च सात्त्विकी । 54ab
कार्य्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥ 54cd
मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी । 55ab
तामसी तु प्रशोकादौ मुखं सत्त्वात्तदन्तगं ॥ 55cd
सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं । 56ab
अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ॥ 56cd
स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति । 57ab
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ 57cd


1 भवत्ययोगिनामिति ख॰ ।
Image-P.350


ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः । 58ab
सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं ॥ 58cd


इत्याग्नेये महापुराणे गीतासारो नामाशीत्यधिकत्रिशततमो ऽध्यायः ॥

Chapter 381

अथैकाशीत्यधिकत्रिशततमो ऽध्यायः ।

यमगीता ।
अग्निरुवाच ।
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे । 1ab
पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां ॥ 1cd
यम उवाच ।
आसनं शयनं यानपरिधानगृहादिकम् । 2ab
वाञ्छत्यहो ऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥ 2cd
भोगेषु शक्तिः सततं तथैवात्मावलोकनं । 3ab
श्रेयः परं मनुष्यानां कपिलोद्गीतमेव हि ॥ 3cd
सर्व्वत्र समदर्शित्वं निर्म्मसत्वमसङ्गता । 4ab
श्रेयः परं मनुष्यानां गीतं पञ्चशिखेन हि ॥ 4cd
आगर्भजन्मबाल्यादिवयो ऽवस्थादिवेदनं । 5ab
श्रेयः परं मनुष्याणां गङ्गाविष्णुप्रगीतकं ॥ 5cd
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया । 6ab
श्रेयः परं मन्ष्याणां जनकोद्गीतमेव च ॥ 6cd
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः । 7ab
तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं ॥ 7cd
Image-P.351


कर्त्तव्यमिति यत्कर्म्म ऋग्यजुःसामसंज्ञितं । 8ab
कुरुते श्रेयसे सङ्गान् जैगीषव्येण गीयते ॥ 8cd
हानिः सर्व्वविधित्सानामात्मनः सुखहैतुकी । 9ab
श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं ॥ 9cd
कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं । 10ab
कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥ 10cd
प्रवृत्तञ्च निवृत्तञ्च कार्य्यं कर्मपरो ऽब्रवीत् । 11ab
श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः ॥ 11cd
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । 12ab
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥ 12cd
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । 13ab
तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ॥ 13cd
नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं । 14ab
नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् ॥ 14cd
न सो ऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं । 15ab
अधश्चोर्द्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥ 15cd
इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् । 16ab
यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥ 16cd
अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं । 17ab
परापरस्वरूपेण विष्णुः सर्व्वहृदि स्थितः ॥ 17cd
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं । 18ab
केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं ॥ 18cd
इन्द्रादिनामभिः केचित् सूर्य्यं सोमञ्च कालकम् । 19ab
Image-P.352


ब्रह्मादिस्तम्भपर्य्यन्तं जगद्विष्णुं वदन्ति च ॥ 19cd
स विष्णुः परमं ब्रह्म यतो नावर्त्तते पुनः । 20ab
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥ 20cd
ध्यानैर्व्रतैः पूजया च धर्म्मश्रुत्या तदाप्नुयात् । 21ab
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥ 21cd
बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । 22ab
इन्द्रियाणि हयानाहुर्विषयांश्चेषुगोचरान् ॥ 22cd
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । 23ab
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ॥ 23cd
न सत्पदमवाप्नोति संसारञ्चाधिगच्छति । 24ab
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ॥ 24cd
स तत्पदमवाप्नोति यस्माद्भूयो न जायते । 25ab
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ॥ 25cd
सो ऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् । 26ab
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ 26cd
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । 27ab
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ 27cd
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । 28ab
एषु सर्वेषु भूतेषु गूढ़ात्मा न प्रकाशते ॥ 28cd
दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः । 29ab
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ 29cd
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । 30ab
ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ 30cd
Image-P.353


अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । 31ab
यमाश्च नियमाः पञ्च शौचं सन्तोषसत्तपः ॥ 31cd
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं । 32ab
प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ 32cd
शुभे ह्येकत्र विषये चेतसो यत् प्रधारणं । 33ab
निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ 33cd
पौनःपुन्येन तत्रैव विषयेष्वेव धारणा । 34ab
ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ॥ 34cd
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । 35ab
मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ 35cd
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । 36ab
जीवो ह्यज्ञानतत्कार्य्यमुक्तः स्यादजरामरः ॥ 36cd
अग्निरुवाच ।
वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । 37ab
आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ 37cd


इत्याग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमो ऽध्यायः ॥
Image-P.354


Chapter 382

अथ द्व्यशीत्यधिकत्रिशततमो ऽध्यायः ।

आग्नेयपुराणमाहात्म्यं ।
अग्निरुवाच ।
आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया । 1ab
सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ॥ 1cd
ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः । 2ab
छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः ॥ 2cd
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः । 3ab
आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ॥ 3cd
विद्या सैवार्थशास्त्राख्या देवान्ता ऽन्या हरिर्महान् । 4ab
इत्येषा चापरा विद्या परिविद्या ऽक्षरं परं ॥ 4cd
यस्य भावो ऽखिलं विष्णुस्तस्य नो बाधते कलिः । 5ab
अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ॥ 5cd
कृष्णमभ्यर्च्चयन्भक्त्या नैनसो भाजनं भवेत् । 6ab
सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ॥ 6cd
अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः । 7ab
कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ॥ 7cd
तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः । 8ab
तत् कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥ 8cd
न तत् पिता तु पुत्राय न शिष्याय गुरुर्द्विज । 9ab
परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ॥ 9cd
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु । 10ab
Image-P.355


सुहृदश्च तथैवान्ये नोपदेशो द्विजेदृशः ॥ 10cd
किं पुत्रदारैर्मित्रैर्वा किं मित्रक्षेत्रवान्धवैः । 11ab
उपदेशः परो वन्धुरीदृशो यो विमुक्तये ॥ 11cd
द्विविधो भूतमार्गीयं दैव आसुर एव च । 12ab
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥ 12cd
एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं । 13ab
सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं ॥ 13cd
येषां गृहेषु लिखितमाग्नेयं हि पुराणकं । 14ab
पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ॥ 14cd
किं तीर्थैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः । 15ab
आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः ॥ 15cd
ये ददाति तिलप्रस्थं सुवर्णस्य च माषकं । 16ab
शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ॥ 16cd
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते । 17ab
अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ॥ 17cd
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे । 18ab
तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ॥ 18cd
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं । 19ab
आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ॥ 19cd
पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं । 20ab
भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ॥ 20cd
नोपसर्गा न चानर्था न चौरारिभयं गृहे । 21ab
तस्मिन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ॥ 21cd
Image-P.356


न गर्भहारिणीभीतिर्न च बालग्रहा गृहे । 22ab
यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ॥ 22cd
शृण्वन्विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः । 23ab
ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥ 23cd
यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः । 24ab
ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ॥ 24cd
दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः । 25ab
यच्चान्यद्दुरितं किञ्चित्तत्सर्व्वं हन्ति केशवः ॥ 25cd
पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् । 26ab
आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै ॥ 26cd
प्रपूज्य गन्धपुष्पाद्यैरग्निष्टोमफलं लभेत् । 27ab
शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् ॥ 27cd
ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति । 28ab
गोसहस्रस्य शरदि फलं तत्पठतो ह्यृतौ ॥ 28cd
आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः । 29ab
सो ऽर्च्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ॥ 29cd
यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः । 30ab
लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करे ऽस्ति हि ॥ 30cd
इति कालाग्निरूपेण गीतं मे हरिणा पुरा । 31ab
आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् । 31cd
विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि ॥ 31॥ 31ef
वसिष्ठ उवाच ।
व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं । 32ab
कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ॥ 32cd
Image-P.357


सार्द्धं देवैश्च मुनिभिर्मह्यं सर्व्वाथदर्शकं । 33ab
पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं ॥ 33cd
यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि । 34ab
श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ॥ 34cd
सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् । 35ab
लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ॥ 35cd
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् । 36ab
एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ॥ 36cd
तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं । 37ab
शुकाद्यैर्मुनिभिः सार्द्धं श्रोतुकामैः पुराणकं ॥ 37cd
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं । 38ab
अग्नये तु नमस्तस्मै येन गीतं पुराणकं ॥ 38cd
व्यास उवाच ।
वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं । 39ab
पराविद्या ऽपराविद्यास्वरूपं परमं पदम् ॥ 39cd
आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः । 40ab
ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ॥ 40cd
विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः । 41ab
अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ॥ 41cd
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः । 42ab
लिखन्तो लेखयन्तश्च निष्पापाश्च श्रियं गताः ॥ 42cd
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं । 43ab
रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ॥ 43cd
श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश्च पुराणकम् । 44ab
Image-P.358


सूत उवाच ।
व्यासप्रसादादाग्नेयं पुराणं श्रुतमादरात् ॥ 44cd
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः । 45ab
भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ॥ 45cd
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् । 46ab
अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ॥ 46cd
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् । 47ab
नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ॥ 47cd
नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः । 48ab
नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ॥ 48cd
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः । 49ab
नास्मात्परो ह्यागमो ऽस्ति नास्माद्विद्या परा ऽस्ति हि ॥ 49cd
नास्मात्परः स्यात्सिद्धान्तो नास्मात्परममङ्गलम् । 50ab
नास्मात्परो ऽस्ति वेदान्तः पुराणं परमन्त्विदं ॥ 50cd
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् । 51ab
आग्नेये हि पुराणे ऽस्मिन् सर्वविद्याः प्रदर्शिताः ॥ 51cd
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह । 52ab
हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ॥ 52cd
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया । 53ab
पवित्रारोहणादीनि प्रतिमालक्षणादिकं ॥ 53cd
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः । 54ab
शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ॥ 54cd
मण्डलानि च वास्तुश्च मन्ताणि विविधानि च । 55ab
प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ॥ 55cd
Image-P.359


गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः । 56ab
गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं ॥ 56cd
ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः । 57ab
मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ॥ 57cd
अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं । 58ab
राजधर्म्मा दानधर्म्मा व्रतानि विविधानि च ॥ 58cd
व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं । 59ab
सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ॥ 59cd
गान्धर्व्ववेदो ऽर्थशास्त्रं मीमांसा न्यायविस्तरः । 60ab
पुराणसंख्यामाहत्म्यं छन्दो व्याकरणं स्मृतं ॥ 60cd
अलङ्कारो निघण्डुश्च शिक्षाकल्प इहोदितः स्मृतः । 61ab
नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ॥ 61cd
वेदान्तं ब्रह्मविज्ञानं योगो ह्यष्टाङ्ग ईरितः । 62ab
स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ॥ 62cd
ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं । 63ab
सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ॥ 63cd
इदं पञ्चदशसाहस्रं शतकोटिप्रविस्तरं । 64ab
देवलोके दैवतैश्च पुराणं पठ्यते सदा ॥ 64cd
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना । 65ab
सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः ॥ 65cd
शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि । 66ab
लिखेल्लेखापयेद्वापि यूजयेत्कीर्त्तयेदपि ॥ 66cd
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः । 67ab
Image-P.360


गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ॥ 67cd
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं । 68ab
पुराणान्ते च वै कुर्य्यादवश्यं द्विजभोजनं ॥ 68cd
निर्म्मलः प्राप्तसर्व्वार्थः सकुलः स्वर्गमाप्नुयात् । 69ab
शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ॥ 69cd
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् । 70ab
यो दद्याद्ब्रह्मलोकी स्यात् पुस्तकं यस्य वै गृहे ॥ 70cd
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् । 71ab
यूयं स्मरत चाग्नेयं पुराणं रूपमैश्वरं । 71cd
सूतो गतः पूजितस्तैः शौनकाद्या हरिं यायः ॥ 71॥ 71ef


इत्याग्नेये महापुराणे आग्नेयपुराणमाहात्म्यं नाम द्व्यशीत्यधिकत्रिशततमो ऽध्यायः ॥
समाप्तमाग्नेयं पुराणं ।
Image-P.361


अथाग्निपुराण परिशिष्टम् ।
अग्निपुराणस्य ककारादि-चिह्नित-दशसंख्यकादर्श-पुस्तकानां मध्ये नवसु आदर्शपुस्तकेषु यमगीताध्यायात् परं पुराण-माहात्म्याध्यायेन पुस्तकं सम्पूर्णं । ग-चिह्नित-पुस्तके तु यम-गीताध्यायात् परं अतिरिक्तत्रयस्त्रिंशत् संख्यकसृष्टिप्रकरणाद्यध्याया वर्त्तन्ते । उक्ताध्यायानां नवसु आदर्शपुस्तकेषु अविद्यमानत्वात् प्रमाण्यं सन्दिग्धं । प्रामाण्येपि स्थानविशेषे विलुप्ताक्षरापरिशुद्धग-चिह्नितैकमात्रादर्शपुस्तकमवलम्ब्य उक्तातिरिक्ताध्यायात्रमुद्रापणे समर्थो नाभूवं । परन्त्वेतद्विज्ञापनाय गचिह्नितादर्शपुस्तकमात्रस्थितातिरिक्त कतिपयाध्याया यथाशक्ति परिशोध्य परिशिष्टरूपेण मुद्रापिताः । गचिह्नितादर्शपुस्तकस्य विलुप्ताक्षरत्वादपरिशुद्धत्वाच्च अस्य परिशिष्टस्य वहुषु स्थानेषु असाधुपाठा वर्त्तन्ते इति ।

Chapter 1

प्रथमो ऽध्यायः ।

सूत उवाच ।
ब्रह्मा भूत्व जगत्सृष्टौ नरसिंहः प्रवर्त्तते । 1ab
तथा ते कथयिष्यामि भरद्वाज निबोध मे ॥ 1cd
नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः । 2ab
उत्पन्नः प्रोह्यते प्रियप्रियामरोपचारतः 1 2cd


1 पाठो ऽयं आदर्शाक्षरविलोपेन शीधयितुमशक्यः ।
Image-P.362


निजेन तस्य मानेन आयुर्वर्षशतं स्मृतं । 3ab
कालश्च विष्णुर्यस्तेन तस्यायुः परिगण्यते ॥ 3cd
अन्येषाञ्चैव भूतानां चराणामचराश्च ये । 4ab
भूमिमृत्सागरादीनामशेषाणाञ्च सत्तम ॥ 4cd
अष्टादश निमेषाश्च काष्ठैका परिकीर्त्तिता । 5ab
काष्ठास्त्रिंशत् कलास्त्रिंशत् कला ज्ञेया मुहूर्त्तकं ॥ 5cd
तावत् संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतं । 6ab
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ 6cd
तैः षड़भिरयनं मासैर्द्वे ऽयने दक्षिणोत्तरे । 7ab
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनं ॥ 7cd
अयनद्वयञ्च वर्षञ्च मर्त्त्यानां परिकीर्त्तितं । 8ab
नृणां मासः पितॄणान्तु अहोरात्रमुदाहृतं ॥ 8cd
वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः । 9ab
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितं ॥ 9cd
चतुर्दशद्वादशभिस्तद्विभागं निबोध मे । 10ab
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमं ॥ 10cd
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः । 11ab
तत्प्रमाणैः शतैः सन्ध्या पूर्व्वा तत्राभिधीयते ॥ 11cd
सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः । 12ab
सन्ध्यासन्ध्यांशयोर्मध्ये यः कालो वर्त्तते द्विज ॥ 12cd
युगाख्यं स तु विज्ञेयः कृतत्रे तादिसंज्ञितं । 13ab
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुयुगं ॥ 13cd
प्रोच्यते तत् सहस्रञ्च ब्रह्मणो दिवसं द्विज । 14ab
Image-P.363


ब्रह्मणो दिवसे ब्रह्मन्मनवश्च चतुर्दश ॥ 14cd
भवन्ति प्रतिमानञ्च तेषां कालकृतं शुभं । 15ab
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ॥ 15cd
एककाले हि सृज्यन्ते संक्रियन्ते च पूर्व्ववत् । 16ab
चतुर्युगानां सङ्ख्याता साह्येकान्तेकसप्तती ॥ 16cd
मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज । 17ab
अष्ठौ शतसहस्राणि दिव्यया सङ्ख्यया सूत 1 17cd
एकपञ्चाशत्तथान्यानि सप्त चान्यानि वै मुने । 18ab
विंशतिश्च सहस्राणि कालोयं साधिकः स्मृतः ॥ 18cd
ब्राह्ममेवमहर्ज्ञेयमेतदेवानुकीर्त्तितं । 19ab
एतस्मिन् वै स मनसा सृष्ट्वा देवांस्तथा पितॄन् ॥ 19cd
गन्धर्व्वान् दानवान् यक्षान् राक्षसान् गुह्यकांस्तथा । 20ab
ऋषीन् विद्याधरांश्चैव मनुष्यांश्च पशूंस्तथा ॥ 20cd
पक्षिणः स्थावरांश्चैव पिपीलिकभुजङ्गमान् । 21ab
चातुर्वर्ण्यं तथा सृष्टं नियुज्याधरकर्म्मणि ॥ 21cd
पुनर्दिनान्ते त्रैलोक्यमपसंहृत्य स प्रभुः । 22ab
शेते सो ऽनन्तशयने तावतीं रात्रिमव्ययः ॥ 22cd
तस्यान्ते ऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः । 23ab
तस्मिन्मत्स्यावतारो ऽभून्मन्थनार्थं महोदधेः ॥ 23cd
तद्वद्वराहकल्पश्च तृतीयः परिकल्पितः । 24ab
तत्र विष्णुः स्वयं प्रीत्या वाराहं वपुरास्थितः ॥ 24cd


1 पाठो ऽयं न साधुः ।
Image-P.364


सृष्ट्वा जगद्व्योम धरान्तु तोयं प्रजास्तु सृष्ट्वा सकलास्तथेशः । 25ab
नैमित्तिकाख्ये प्रलये समस्तं हृत्वावशेते हरिरादिदेवः ॥ 25cd


इत्याग्नेये महापुराणे सृष्टि-प्रकरणं नाम प्रथमो ऽध्यायः ।

Chapter 2

अथ द्वितीयो ऽध्यायः ।

सूत उवाच ।
अत्र सुप्तस्य देवस्य नाभौ पद्ममजायत । 1ab
तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥ 1cd
ब्रहोत्पन्नः स तेनोक्तः प्रजाः सृज महामते । 2ab
एवमुक्त्वा तिरोभावं गतो नारयणः प्रभुः ॥ 2cd
तथेत्युक्तं गतं देवं विष्णुं ब्रह्मा विचिन्तयन् । 3ab
आस्ते किञ्चिज्जगद्धेतु नाध्यगच्छत किञ्चन ॥ 3cd
तावत्तस्य महान् क्रोधो ब्रह्मणो ऽभून्महात्मनः । 4ab
ततो रुद्रः समुत्पन्नस्तस्याङ्के रोषसम्मवः ॥ 4cd
रुदन् स कथितस्तेन ब्रह्मणा ऽव्यक्तजन्मना । 5ab
नाम मे देहि चेद्युक्तन्तस्य रुद्रेत्यसौ ददौ ॥ 5cd
सो ऽपि तेन सृजम्वेति प्रोक्तो लोकमिमं पुनः । 6ab
असकृच्छ्रान्तसलिले ससर्ज तपसे धृतः ॥ 6cd
Image-P.365


तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिं । 7ab
ब्रह्मा ससर्ज भूतेशो दक्षिणात्तिष्ठतो ऽपरं ॥ 7cd
दक्षं वामे ततोत्तिष्ठेत् तस्य पत्नीमजीजनत् । 8ab
स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुं ॥ 8cd
तस्मात् सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तथा । 9ab
इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम । 9cd
सृजतो जगदीशस्य किम्भूयः श्रोतुमिच्छसि ॥ 9॥ 9ef
भरद्वाज उवाच ।
संक्षेपेणैतदाख्यातं त्वया मे लोमहर्षण । 10ab
विस्तरेण पुनर्व्रूहि आदिसृष्टिं महामते ॥ 10cd
सूत उवाच ।
तथैतदण्डावसाने निशासुप्तोत्थितः प्रभुः । 11ab
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥ 11cd
नारायणः परेणार्च्यः पूर्व्वेषामपि पूर्वजः । 12ab
ब्रह्मस्वरूपो भगवान् अनादिः सर्वसम्भवः ॥ 12cd
इमञ्चे देहवन्तोहा 1 श्लोकं नारायणं प्रति । 13ab
ब्रह्मस्वरूपिनं देवं जगतः प्रभवाव्ययं ॥ 13cd
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । 14ab
अयनं तस्य तत् पूर्वं तेन नारायणः स्मृतः ॥ 14cd
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । 15ab
अवृद्धिपूर्वकन्तस्य प्रादुर्भूतमहोमयः ॥ 15cd
तमो मोहो महामोहस्तामिखाद्यजसंज्ञकः 2 16ab
अविद्याः पञ्च पूर्वेषां प्रादुर्भूता महात्मनः ॥ 16cd


1 आदर्शाक्षरविलोपात् पाठो ऽयं शोधयितुमशक्यः ।
2 पाठो ऽयं न साधुः ।
Image-P.366


पञ्चधा ऽवस्थितः सर्गो ध्यायतः प्रतिबोधनात् । 17ab
मुख्यसर्गः स विज्ञेयः सर्गविद्भिर्विचक्षणैः ॥ 17cd
पुनरन्यन्तथा तस्य ध्यायतः सर्गमुत्तमं । 18ab
तिर्य्यक्श्रोतः समुत्पन्नस्तिर्य्यक्श्रोतं ??? ??? स्मृतः ॥ 18cd
पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते । 19ab
तमप्यसाधकं मत्वा तिर्य्यक्श्रोतश्चतुर्मुखः ॥ 19cd
ऊर्द्ध्वश्रोतस्तृतीयस्तु पार्थिवोर्द्ध्वमवर्त्तत । 20ab
ततोर्द्ध्वचारिणो देवाः सहसर्गसमुद्भवाः ॥ 20cd
यदा तुष्टो न सर्गञ्च तदा तस्थौ प्रजापतिः । 21ab
असाधकांस्तु तान्मत्वा मुख्यसर्गसमुद्भवान् ॥ 21cd
ततः स चिन्तयन् विप्र अर्वाक् श्रोतस्तु स स्मृतः । 22ab
अर्वाक्श्रोतस्तथोत्पन्ना मनुष्याः साधका मताः ॥ 22cd
ते च प्रकाशवहनास्तमोद्रिजा रजोधिकाः । 23ab
तस्मात्ते दुःखवहना भूयो भूयश्च कारिणः ॥ 23cd
इत्येते कथिताः सर्गाः ते तत्र मुनिसत्तम । 24ab
प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः ॥ 24cd
वैकारिकस्तृतीयस्तु समह ऐन्त्रियकः स्मृतः । 25ab
मुख्यसर्गः चतुर्थस्तु ??? ??? ??? स्थावराः स्मृताः ॥ 25cd
तिर्य्यक् श्रोतस्तु यः प्रोक्तस्तिर्य्यग्योनिः स पञ्चमः । 26ab
ततोर्द्ध्वश्रोतषां षष्ठो देवसर्गस्तु सप्तमः ॥ 26cd
ततोर्वाक् श्रोतसः श्रेष्ठसप्तमः सप्तमानुषः । 27ab
अष्टमोनुग्रहः सर्गः स सात्त्विकस्तामसो हि सः ॥ 27cd
नवमो रुद्रसर्गस्तु नवसर्गाः प्रजापतेः । 28ab
Image-P.367


पञ्चैते वैकृताः सर्गाः प्राकृतास्तु प्रियाः स्मृताः ॥ 28cd
प्राकृतावैकृताश्चैव जगतोमूलहेतवः । 29ab
सृजतो ब्रह्मणः सृष्टिरुत्पन्ना ये मयेरिताः ॥ 29cd
ततो विकारस्तु परापवेशः शक्त्या प्रविश्याथ ससर्ज्ज सर्वं । 30ab
नारायणः सर्वगतैकरूपः ब्रह्मादिरूपैर्जगदेकनाथः ॥ 30cd


इत्याग्नेये महापुराणे सृष्टि-प्रकरणं नाम द्वितियो ऽध्यायः ।

Chapter 3

अथ तृतीयो ऽध्यायः ।

सृष्टि-प्रकरणं ।
भरद्वाज उवाच ।
नवधा सृष्टिरुत्पन्ना ब्रह्मणो ऽव्यक्तजन्मनः । 1ab
कथं सा ववृधे सूत एतत्कथय मे ऽधुना ॥ 1cd
सूत उवाच ।
प्रथमं ब्रह्मणा सृष्टा रुद्रस्यानु तपोधनाः । 2ab
सनकादयश्च ये सृष्टा मरीच्यादय एव च ॥ 2cd
मरीचिरत्रिश्च तथा अङ्गिराः पुलहःकतुः । 3ab
पुनस्त्यश्च महातेजाः प्रचेता भृगुरेव च ॥ 3cd
नारदो दशमश्चैव वसिष्ठश्च महाद्युतिः । 4ab
सनकादयो निवृत्त्याख्ये ते च धर्मे नियोजिताः ॥ 4cd
Image-P.368


प्रवृत्त्याख्ये मरीच्याद्या मोक्षैके नारदो मुनिः । 5ab
यो ऽसौ प्रजापतिस्थस्य दक्षो नामाङ्गसम्भवः ॥ 5cd
तस्य दौहित्रवंशेन जगदेतच्चराचरं । 6ab
देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः ॥ 6cd
सर्व्वे दक्षस्य कन्यासु जाताः परमधार्म्मिकाः । 7ab
चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ 7cd
वृद्धिं गतानि तान्येव मनुसर्गोद्भवानि च । 8ab
मनुसर्गस्य कर्त्तारो मरीच्याद्या महर्षयः । 8cd
वसिष्ठाद्या महाभागा ब्रह्मणो मानसोद्भवाः ॥ 8॥ 8ef
सर्गेषु भूतानि वियन्मुखानि कालेन चासौ सृजते परात्मा । 9ab
स एव पश्चा ??? ??? राज्यरूपी मुनिस्वरूपी च सृजत्यनन्तः ॥ 9cd


इत्याग्नेये महापुराणे सृष्टि-प्रकरणं नाम त्रितीयो ऽध्यायः ।

Chapter 4

अथ चतुर्थो ऽध्यायः ।

सृष्टि-प्रकरणं ।
भरद्वाज उवाच ।
रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते । 1ab
अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः ॥ 1cd
Image-P.369


मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् । 2ab
ब्रह्मणो मनसः पूर्व्वमुत्पन्नस्य महागते ॥ 2cd
सूत उवाच ।
रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तम् । 3ab
प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु ॥ 3cd
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । 4ab
प्रादुरासीत् प्रभोरङ्गे कुमारो नीललोहितः ॥ 4cd
अर्द्धनारीश्वरवपुः प्रचण्डो ऽति शरीरवान् । 5ab
तेजसा भासयन् सर्व्वा दिशश्च विदिशस्तथा ॥ 5cd
तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः । 6ab
विभज्यात्मानमद्य त्वं मम वाक्यान्महामते ॥ 6cd
इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् । 7ab
स्त्रीभावं पुरुषत्वञ्च पृथक् पृथगथाकरोत् ॥ 7cd
विभेद पुरुषत्वञ्च दशधा वैकथा तु सः । 8ab
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥ 8cd
अजैकपादहिर्व्रध्नः कपाली रुद्र एव च । 9ab
हरश्च वहुरूपश्च त्र्यम्बकश्चापराजितः ॥ 9cd
वृषाकपिश्च शम्भुश्च कपर्दो रैवतस्तथा । 10ab
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ 10cd
स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा । 11ab
तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता ॥ 11cd
तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा । 12ab
तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् ॥ 12cd
तपोबलेन विप्रेन्द्र भूतानि विविधानि च । 13ab
Image-P.370


पिशाचान् कश्मलांश्चैव सिंहोष्ट्रमकराननान् ॥ 13cd
वेतालप्रमुखानन्यानन्यांश्चैव सहस्रशः । 14ab
तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह 1 14cd
विनायकानां रुद्राणां त्रिंशत्कोट्यर्द्धमेव च । 15ab
नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च ॥ 15cd
एवम्प्रकारो रुद्रो ऽसौ मया ते कीर्त्तितः प्रभुः । 16ab
अनुसर्गं मरीच्यादेः कथयामि निबोध मे ॥ 16cd
देवद्याः स्थावरान्ताश्च प्रजाः सृष्टाः स्वयम्भुवा । 17ab
यदाड् स्यड् ताः सर्व्वाः नाभ्यवर्द्धन्त धीमतः ॥ 17cd
तदा स मानसान् पुत्रान् सदृशानात्मनो ऽसृजत् । 18ab
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ॥ 18cd
प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं । 19ab
नव ब्रह्मण इत्येते पुराणे निश्चयं गताः ॥ 19cd
अग्निश्च पितरश्चैव ब्रह्मपुत्रो तु मानसौ । 20ab
सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं ॥ 20cd
शतरूपाञ्च सृष्ट्वा तु कन्यां स मनवे ददौ । 21ab
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥ 21cd
प्रियव्रतोत्तानपादौ प्रसूतीञ्चैव कन्यकां । 22ab
ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां ॥ 22cd
प्रसूतिश्च तदा दक्षाच्चत्वारो विंशतिस्तथा । 23ab
ससर्ज्ज कन्यकास्तासां शृणु नामानि मे ऽधुना ॥ 23cd
श्रद्धा सूतिर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । 24ab


1 पाठो ऽयं न साधुः ।
Image-P.371


बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदश ॥ 24cd
पत्न्यर्थं प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः । 25ab
श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः ॥ 25cd
धर्म्मस्य पुत्रपौत्राद्यैर्धर्म्मवंशो विवर्द्धितः । 26ab
तासु शिष्टा यवीयस्यस्तासां नामानि कीर्त्तये ॥ 26cd
सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा । 27ab
सन्नतिश्चाथ सत्या च उर्ज्जा ख्यातिर्द्विजोत्तम ॥ 27cd
स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता । 28ab
एताश्च दत्ता दक्षेण ऋषीणां भावितात्मनां ॥ 28cd
मरीच्यादीनाञ्च ये पुत्रास्तानहं कथयामि ते । 29ab
पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं ॥ 29cd
स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा । 30ab
सिनीवाली कुहश्चैव राका चानुमतिस्तथा ॥ 30cd
अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् । 31ab
सोमं दुर्व्वाससञ्चैव दत्तात्रेयञ्च योगिनं ॥ 31cd
प्रीत्यां पुलस्त्यभार्य्यायां दादानिस्तत्सुतो ऽभवत् । 32ab
तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः ॥ 32cd
??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः । 33ab
येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ ॥ 33cd
ब्रह्माद्यैः प्रार्थितो देवैरवतारमिहाकरोत् । 34ab
कर्दमश्चाम्बरीषश्च सहिष्णुश्चे सुतत्रयम् ॥ 34cd
क्षमा तु सुसुवे भार्य्या पुलस्त्यस्य प्रजापतेः । 35ab
Image-P.372


क्रतोस्तु सत्वतिर्भार्य्या वालिखिल्वानसूयत ॥ 35cd
षष्टि तानि सहस्रानि ऋषीणामूर्द्ध्वरेतसां । 36ab
अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां ॥ 36cd
प्रचेतसो ऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः । 37ab
जातास्तत्पुत्रपौत्राश्च शतशो ऽथ सहस्रशः ॥ 37cd
उर्ज्जायाञ्च वसिष्ठस्य सप्ताजायन्त वै सुताः । 38ab
राजा चोर्द्ध्ववाहुश्च सरनश्चानघन्तिमे 1 38cd
सुरूपाः शुक्र इत्येते सर्वे सप्तर्षयो ऽभवन् । 39ab
भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा ॥ 39cd
तथा धाताविधातारौ ख्यात्यां जातौ सुतौ भृगोः । 40ab
आयतिर्नियतिश्चैव मेरोः कन्ये सुशोभने ॥ 40cd
धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुताबुभौ । 41ab
प्राणश्चैवमृकण्डुश्च मार्कण्डेयो मृकण्डुजः ॥ 41cd
येन मृत्युर्जितो विप्र पुरा नारायणाय या । 42ab
ततो देवशिवा जज्ञे प्राणस्यापि सुतो ऽभवत् ॥ 42cd
द्युतिमानिति विख्यातः सञ्जयस्तत्सुतो ऽभवत् । 43ab
ततो वंशो महाभाग भार्गवो विस्तरं गतः ॥ 43cd
यश्चासावग्निनामा च ब्रह्मणस्तनयो ऽग्रजः । 44ab
तस्मात् स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः ॥ 44cd
पावकं पवमानञ्च शुचिञ्चापि जलाशिनं । 45ab
तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् ॥ 45cd


1 पाठो ऽयं आदर्शदोषेणापरिशुद्धः ।
Image-P.373


कथ्यन्ते वहुशश्चैते पिता पौत्रत्रयञ्च यत् । 46ab
एवमेकोनपञ्चाशदन्वयात् परिकीर्त्तिताः ॥ 46cd
पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । 47ab
तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा ॥ 47cd
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । 48ab
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥ 48cd
भूतानि मनसा पूर्वं दक्षड् ??? ऽसृजन्मुने । 49ab
देवानृषीन् सगन्धर्व्वानसुरान् पन्नगांस्तदा ॥ 49cd
पदास्य सृजमानस्य न व्यवर्द्धन्त वै प्रजाः । 50ab
तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥ 50cd
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । 51ab
असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः ॥ 51cd
षष्टि दक्षो ऽसृजत् कन्या वैरिण्यामितिं नः श्रुतिः । 52ab
ददौ स दश धर्म्माय कश्यपाय त्रयोदश ॥ 52cd
सप्तविंशति सोमाय चतस्रो विष्णुनेमिने । 53ab
द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा ॥ 53cd
द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु । 54ab
विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत ॥ 54cd
मरुत्यान्तु मरुत्वन्तो वसो ऽस्तु वसवः स्मृताः । 55ab
भानोस्तु भानवो देवा मुहूर्त्तायां मुहूर्त्तजाः ॥ 55cd
नद्यायाञ्चैव घोपाख्यो नागवीथ्याञ्च जामिजाः । 56ab
पृथिवीविषयं पूर्व्वमरुन्धत्यां व्यजायत ॥ 56cd
Image-P.374


सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते । 57ab
ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः ॥ 57cd
वसवो ऽष्टौ समाख्यातास्तेषां नामानि मे शृणु । 58ab
आपो ध्रवश्च सोमश्च धरश्चैवा ऽनिलो ऽनलः ॥ 58cd
प्रत्यूषश्च प्रभाषश्च वसवो ऽष्टौ प्रकीर्त्तिताः । 59ab
तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः ॥ 59cd
साध्याश्च वहवः प्रोक्तास्तत्पुत्राश्च सहस्रशः । 60ab
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥ 60cd
सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा । 61ab
कद्रुर्मुनिश्च धर्म्मज्ञ तदपत्यानि मे शृणु ॥ 61cd
अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः । 62ab
तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥ 62cd
मर्गों ऽशुरर्य्यमा चैव मित्रो ऽथ वरुणस्तथा । 63ab
सविता चैव धाता च विवस्वांश्च महामते ॥ 63cd
त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते । 64ab
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं ॥ 64cd
हिरण्याक्षो महाकायो वाराहेण तु यो हतः । 65ab
अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः ॥ 65cd
अरिष्टायान्तु गन्धर्वाज्जज्ञिरे--- 66ab
सुरसायामथोत्पन्ना विद्याधरगणा वहुः ॥ 66cd
गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः । 67ab
विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुड़ारुणौ ॥ 67cd
Image-P.375


गरुड़ो देवदेवस्य विष्णोरमिततेजसः । 68ab
वाहनत्वं गतः प्रीत्या अरुणः सूर्य्यासारथिः ॥ 68cd
ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान् निबोध मे । 69ab
अश्वउष्ट्रा गर्दभाश्च हस्तिनो गवया मृगाः ॥ 69cd
क्रोधायां जज्ञिरे तद्वत् पशवो दुष्टजातयः । 70ab
इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः ॥ 70cd
खसा तु यक्षरक्षांसि मुनेरप्सरसस्तथा । 71ab
कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः ॥ 71cd
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः । 72ab
तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज ॥ 72cd
अरिष्टनेमिपत्नीनामपत्यानीह पोड़श । 73ab
वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः ॥ 73cd
प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः । 74ab
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥ 74cd
एते युगसहस्रान्ते जायन्ते पुनरेव हि । 75ab
एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः ॥ 75cd
एतेषां पुत्रपौत्राद्यैर्वृद्धा सृष्टिः प्रजापतेः । 76ab
स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः ॥ 76cd
एता विभृतयो विप्र मया ते परिकीर्त्तिताः । 77ab
कथिता दक्षकन्यानां मया ते ऽपत्यसन्ततिः । 77cd
श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् ॥ 77॥ 77ef
सर्गानुसर्गौ कथितौ मया ते समासतः सृष्टिविवृद्धिहेतोः । 78ab
Image-P.376


पठन्ति ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला भवन्ति च ॥ 78cd


इत्याग्नेये महापुराणे सृष्टिप्रकरणं नाम चतुर्थो ऽध्यायः ॥

Chapter 5

अथ पञ्चमो ऽध्यायः ।

वासिष्ठस्य मित्रावरुणपुत्रत्वकथनं ।
सूत उवाच ।
सृष्टिस्ते कथिता विष्णोर्मया ते जगतो द्विज । 1ab
देवदानवयक्षाद्या यथोत्पन्ना महात्मना ॥ 1cd
यमुदिश्य त्वया पृष्ठः पुराहमृषिसन्निधौ । 2ab
मित्रावरुणपुत्रत्वं वसिष्ठस्य कथन्त्विति ॥ 2cd
तदहं कथयिष्यामि पुण्याख्यानं पुरातनं । 3ab
शृणुष्वैकाग्रमनसा भरद्वाज मयेरितं ॥ 3cd
सर्व्वधर्म्मार्थतत्वज्ञः सर्ववेदिदांवरः । 4ab
पारागः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥ 4cd
तेन दत्ताः शुभाः कन्याः कश्यपाय त्रयोदश । 5ab
तासां नामानि वक्ष्यामि निबोध च ममाधुना ॥ 5cd
अदितिर्दितिर्दनुः काष्ठा मुहूर्त्ता सिंहिका मुने । 6ab
स्रुता क्रोष्टा च सुरभिर्विनता सुरसा--- ॥ 6cd
कद्रुश्च सुरसा चैव यातुदेवी शुनी स्मृता । 7ab
दक्षस्यैता दुहितरस्ताः प्रादात् कश्यपाय सः ॥ 7cd
Image-P.377


तासां ज्येष्ठा वरिष्ठा च अदितिर्नामनामतः । 8ab
अदितिः सुसुवे पुत्रान् द्वादशाग्निसमप्रभान् ॥ 8cd
तेषां नामानि वक्ष्यामि शृणुत द्विजसत्तमाः । 9ab
यैरिदं वासवं नक्तं वर्त्तते क्रमशः सदा ॥ 9cd
भर्गों ऽशुश्चार्य्यमा चैव मित्रो ऽथ वरुणस्तथा । 10ab
सविता चैव धाता च विवस्वांश्च महामत ॥ 10cd
त्वष्टा पूषा ततैवेन्द्रो विष्णुर्द्वादशमः स्मृतः । 11ab
एते वै द्वादशादित्या वर्षन्ति---पतन्ति च ॥ 11cd
तस्यास्तु मध्यमः पुत्रो वरुणो नामनामतः । 12ab
लोकपाल इतिख्यातो वारुण्यां दिशि शब्द्यते ॥ 12cd
पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते । 13ab
जातरूपमयः श्रीमानस्तो नाम शिलोच्चयः ॥ 13cd
सर्वरत्नमयैः शृङ्गैः धातुप्रस्रवणान्वितैः । 14ab
संयुक्तोभाति शैलो ऽसौ नानारत्नमयः शुभः ॥ 14cd
महोदरीगुहाभिश्च सिंहसार्दूलनादितः । 15ab
नानाविविक्तभूमीषु देवगन्धर्वसेवितः ॥ 15cd
यस्मिन् गते दिनकरे तमसा पूर्य्यते जगत् । 16ab
तस्य शृङ्गे महादिव्या जाम्बुनदमयी शुभा ॥ 16cd
रम्या मणिमयैस्तम्भैर्विहिता विश्वकर्म्मणा । 17ab
पुरी सुखावती नाम समृद्धा भोगसाधनैः ॥ 17cd
तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा । 18ab
पाति सर्व्वानिमान् लोकान्नियुक्तो ब्रह्मणा स्वयं ॥ 18cd
Image-P.378


उपास्यमानोगन्धर्व्वैस्तथैवाप्सरसाङ्गणैः । 19ab
दिव्यगन्धानुदीप्ताङ्गो दिव्याभरणभूषितः ॥ 19cd
कदाचिद्वरुणो यातो मित्रेण सहितो वनं । 20ab
कुरुक्षेत्रे शभे ऽरण्ये सदा ब्रह्मर्षिसेविते ॥ 20cd
नानापुष्पफलोपेते नानार्थो --- समन्विते । 21ab
आश्रमायड् दृश्यन्ते मुनीनामूर्द्ध्वरेतसां ॥ 21cd
तस्मिंस्तीर्थे समाश्रित्य वहुपुष्पफलोदके । 22ab
चीरकृष्णाजिनधरौ चेरतुस्तप उत्तमं ॥ 22cd
तत्रैकस्मिन् वनोद्देशे विमलो ऽथ ह्रदः शुभः । 23ab
बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः ॥ 23cd
नानातरुवनच्छन्नो नलिन्या चोपशोभितः । 24ab
पौण्डरीक इतिख्यातो मीनकच्छपसेवितः ॥ 24cd
चेरतुर्मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ । 25ab
तन्तु देशं गतौ देशात् विचरन्तौ यदृच्छया ॥ 25cd
ताभ्यां तत्र तदाकृष्टा उर्वशी तु वराप्सराः । 26ab
स्नापयन्ती सहितान्याभिः सखीभिः सा वरानना ॥ 26cd
गायन्ती दिहसन्ती च मनोज्ञा मधुरस्वना । 27ab
गौरी कमलगर्भाभा स्निग्धा कृष्णशिरोरुहा ॥ 27cd
पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी । 28ab
शङ्खकुन्देन्दुसदृशैर्दन्तैरविरलैः समैः ॥ 28cd
सुभ्रुः सुनासा सुनखा सुरनाटा मनस्विनी । 29ab
करसम्मितमध्याङ्गी पीनोरुजघनस्थली ॥ 29cd
Image-P.379


तन्वङ्गी मधुरालापा सुमध्या चारुहासिनी । 30ab
रक्तोत्पलकरापादामुपदी विनयान्विता ॥ 30cd
पूर्णचन्द्रनिभा बाला मत्तकुञ्जरगामिनी । 31ab
दृष्ट्वा तन्व्यास्तु तद्रूपं तौ देवौ विषयंगतौ ॥ 31cd
तस्या हास्येन लास्येन स्मितेन ललितेन च । 32ab
मृदुना वामनाचैव 1 शीतलेन सुगन्धिना ॥ 32cd
मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च । 33ab
सुस्वरेण हि गीतेन उर्वश्या मधुरेण च । 33cd
ईक्षितौ च कटाक्षेण स्कन्दतुस्ता वुभावपि 2 ॥ 33॥ 33ef
वसिष्ठ मित्रावरुणात्मजो ऽसि तत्रोचुरागत्य हि विश्वदेवाः । 34ab
रेतस्त्रभागं कमलेच वन्तौ वसिष्ठ सेवन्तु पितामहोजं 3 34cd
तत्त्रिधा पतितं रेतः कमले ऽथ स्थले जले । 35ab
कमले ऽथ वसिष्ठस्तु जातो हि मुनिसत्तम । 35cd
स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ॥ 35॥ 35ef
स तत्र जातो महिमान् वसिष्ठः । 36ab
कुम्भेत्वगस्त्यः सलिले च मत्स्यः ॥ 36cd
स्थले तावपि तप्येते पुनरुग्रतरन्तपः । 37ab


1 पाठो ऽयं न साधुः ।
2 पाठो ऽयं न समीचोनः ।
3 श्लोकी ऽयं आदर्शदोषेण शोधयितुमशक्यः ।
Image-P.380


तपसा प्राप्तकामो ऽसौ परं ज्योतिः सनातनं ॥ 37cd
तपस्यन्तौ सुरश्रेष्ठौ ब्रह्मागत्येदमब्रवीत् । 38ab
मित्रावरुणौ देवौ पुत्रवन्तौ महाद्युती ॥ 38cd
सिद्धिर्भवत्वतिशया युवयोर्वैष्णवी पुनः । 39ab
खाधिकारे तु स्थीयेतामधुना लोकसाक्षिणौ ॥ 39cd
इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थित्रौ स्वाधिकारके । 40ab
एवं ते कथितं विप्र वसिष्ठस्य महात्मनः ॥ 40cd
मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः । 41ab
इदं पुंसीयमाख्यानं पुराणं पापनाशनं ॥ 41cd
सामात्यपुत्रो नृपतिः श्रुत्वा पापात् प्रमुच्यते । 42ab
पुत्रकामाश्चये केचित् शृण्वन्तीदं शुचिव्रताः ॥ 42cd
अचिरादेव पुत्रांस्तु लभन्ते नात्र संशयः । 43ab
यश्चैतत् पठते नित्यं हव्यकव्ये द्विजोत्तम ॥ 43cd
देवाश्च पितरस्तस्य तृप्ता यान्ति यथासुखं । 44ab
यश्चैतत् पठते नित्यं प्रातरुत्थाय मानवः ॥ 44cd
विन्दते सुमहापुत्रान् स्वर्गलोकञ्च गच्छति । 45ab
वरं मयेरितं पुरा वेदपरैरुदीरितं ॥ 45cd
पठिष्यते यस्तु शृणोति सर्वदा । 46ab
स यातिशुद्धो ऽधिकलोकमञ्जसा ॥ 46cd


इत्याग्नेये महापुराणे वसिष्ठस्य मित्रावरुणपुत्रत्वकथनं नाम पञ्चमो ऽध्यायः ॥
Image-P.381


Chapter 6

अथ षष्ठो ऽध्यायः ।

मार्कण्डेयोपाख्यानं ।
भरद्वाज उवाच ।
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः । 1ab
एतदाख्याहि मे सूत त्वयैतत् सुचिरं पुरा ॥ 1cd
सूत उवाच ।
इदन्तु महदाख्यानं भरद्वाज शृणष्व मे । 2ab
शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं ॥ 2cd
कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे । 3ab
तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं ॥ 3cd
कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं । 4ab
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं ॥ 4cd
प्रणिपत्य यथान्यायं शुकः परमधार्मिकः । 5ab
इदमेव समुद्दिश्य तं पप्रच्छ कृताञ्जलिः ॥ 5cd
यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ । 6ab
नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना ॥ 6cd
शुक उवाच ।
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः । 7ab
एतदाख्याहि मे तात श्रोतुमिच्छामि ते ऽधुना ॥ 7cd
व्यास उवाच ।
मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः । 8ab
तथा ते कथयिष्यामि शृणु वत्स समाहितः ॥ 8cd
शृण्वन्तु मुनयश्चेमे कथ्यमानं मया ऽधुना । 9ab
Image-P.382


महिष्याश्चैव शृण्वन्तु महदाख्यानमुत्तमं ॥ 9cd
भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः । 10ab
सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः ॥ 10cd
धर्म्मज्ञा धर्म्मनिरतां पतिशुश्रूषणे रता । 11ab
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥ 11cd
भृगोः पौत्रो महाभागो वमोत्वच 1 महामतिः । 12ab
बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः ॥ 12cd
तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् । 13ab
वर्षे द्वादशमे पुत्रो मृत्व्यार्त्तश्च भविष्यति ॥ 13cd
श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः । 14ab
परिभूयमानहृदयौ तं निरीक्ष्य महामतिं ॥ 14cd
तथापि तत् पिता धीमान् यत्नात् कालक्रियां ततः । 15ab
चकार सर्वां मेधावी प्रहितो ऽसौ गुरोर्गृहं ॥ 15cd
वेवमेवाद्यस्त्रास्ते 2 गुरुशुश्रूषनोद्यतः । 16ab
स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः ॥ 16cd
मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः । 17ab
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महाद्युतिः ॥ 17cd
तं निरीक्ष्य महात्मानं तत्श्रद्धाञ्च विलक्षणां । 18ab
दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक ॥ 18cd
तौ दृष्ट्वा दुःखमापन्नौ मार्कण्डेयो महाद्युतिः । 19ab


1 पाठो ऽयं न परिशुद्धः ।
2 पाठो ऽयं न साधुः ।
Image-P.383


उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥ 19cd
यदेतत् कुरुषे मातस्तातेन सह धीमता । 20ab
वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥ 20cd
इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः । 21ab
कथयामास तत्सर्व्वं आदेशी यदुवाच ह ॥ 21cd
तच्छ्रुत्वा ऽसौ मुनिश्चाह मातरं पितरं पुनः । 22ab
पित्रा सार्द्धं त्वया मातर्माकार्य्यं दुःखमन्वपि ॥ 22cd
अपनेष्यामि मृत्युंड् तपसा नात्र संशयः । 23ab
यथा चाहं चिरायुःस्थां कुर्य्यां तथा महत्तपः ॥ 23cd
इत्युक्त्वा ऽसौ समाश्वासन् पितरौ न सद्यसात् 3 24ab
त्यजन्वीन(?) वनं नाम नानाqषिसमाकुलं ॥ 24cd
तत्रासौ मुनिभिः सार्द्धं स्वासीनं स्वपितामहं । 25ab
भृगुं ददर्श धर्म्मज्ञं मार्कण्डेयो महामतिः ॥ 25cd
भृगुराह महाभागं मार्कण्डेयं तदा शिशुं । 26ab
किमागतो ऽसि पुत्रस्तु पितुस्ते कुशलं पुनः ॥ 26cd
मातुश्च बान्धवानाञ्च किमागमनकारणं । 27ab
इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना ॥ 27cd
उवाच सकलं तस्मै आदेशिवचनन्तदा । 28ab
पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् । 28cd
एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि ॥ 28॥ 28ef
मार्कण्डेय उवाच ।
भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतं । 29ab


1 पाठो ऽयमादर्शदोषदुष्टः ।
Image-P.384


तवoपदेशात्तु गुरो तत्रोपायं वदस्व नः ॥ 29cd
गुरुरुवाच ।
नारायणमनभ्यर्च्य तपसा मनसा सुत । 30ab
को जेतुं शक्नुयान् मृत्युं ततस्तं तपसार्च्चय ॥ 30cd
तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं । 31ab
भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज ॥ 31cd
तमेव शरणं पूर्वं गतवान्नारदो मुनिः । 32ab
तपसा महता वत्स नारायणमनामयं ॥ 32cd
तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः । 33ab
जरां मृत्युं विजित्यासौ दीर्घायुर्वर्त्तते सुखं ॥ 33cd
तमृते पुण्डरीकाक्षं नारसिंहं जनार्द्दनं । 34ab
भक्तानां वत्सलः कुर्यात् मृत्युसेनानिवारणं ॥ 34cd
तस्मात् त्वं लोककर्त्तारं विष्णुं जिष्णुं श्रियःपतिं । 35ab
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥ 35cd
नारसिंहमजं देवं यदि पूजयसे सदा । 36ab
वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः ॥ 36cd
व्यास उवाच ।
उक्तः पितामहेनैवं भृगुणाथ तमव्रवीत् । 37ab
मार्कण्डेयो महातेजा विनयात्स पितामहं ॥ 37cd
आराध्यः कथितस्तात विष्णुरेवेति निश्चयात् । 38ab
आराधितश्च भगवान् मम मृत्युं हरेदिति ॥ 38cd
कथमत्र मया काम्यमच्युताराधनं गुरो । 39ab
येनासौ मम तुष्टस्तु मृत्युं सद्यो ऽपनेष्यति ॥ 39cd
भृगुरुवाच
तुङ्गा च भगिनी भद्रा द्वे नद्यौ मन्त्रसम्भवे । 40ab
Image-P.385