अग्निपुराण 2

अग्निपुराणम् ।
महर्षिश्रीमद्वेदव्यासेन प्रणीतम् ।
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम् ।
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च ।
संवत् 1933
Image-P.0


अथाग्निपुराणस्य द्वितीयखण्डस्यानुक्रमणिका ।
अध्याये विषयः पृष्ठे
115-116 गयायात्रा 1
117 श्राद्धकल्पः 14
118 भारतवर्षवर्णनं 21
119 महाद्वीपादिवर्णनं 22
120 भुवनकोषवर्णनं 26
121 ज्योतिःशास्त्रं 30
122 कालगणनं 39
123 युद्धजयार्णवीयनानायोगाः 42
124 युद्धजयार्णवीयज्योतिःशास्त्रसारः 46
125 युद्धजयार्णवीयनानाचक्राणि 48
126 युद्धजयार्णवीयनक्षत्रनिर्णयः 55
127 युद्धजयार्णवीयनानाबलानि 59
128 युद्धजयार्णवीयकोटचक्रं 61
129 युद्धजयार्णवीयार्घकाण्डं 63
130 युद्धजयार्णवीयमण्डलं 64
131 युद्धजयार्णवीयचक्रादिः 66
132 युद्धजयार्णवीयसेवाचक्रं 68
133 युद्धजयार्णवीयनानाबलानि 71
134 युद्धजयार्णवीयत्रैलोक्यविजयविद्या 77
135 युद्धजयार्णवीयसङ्ग्रामविजयविद्या 78
136 युद्धजयार्णवीयनक्षत्रचक्रं 81
137 युद्धजयार्णवीयमहामारीविद्या 82
138 युद्धजयार्णवीयषट्कर्म्माणि 85
139 युद्धजयार्णवीयषष्टिसंवत्सराणि 87
140 युद्धजयार्णवीयषोड़शपदका 89
141 युद्धजयार्णवीयषट्विंशत्पदकज्ञानं 91
142 युद्धजयार्णवीयमन्त्रौषधादयः 93
143 युद्धजयार्णवीयकुब्जिकाक्रमपूजा 95
144 युद्धजयार्णवीयकुब्जिकापूजा 97
145 मालिनीमन्त्रादिन्यासः 102
146 अष्टाष्टकदेवी 105
147 त्वरितापूजादिः 109
148 सङ्ग्रामविजयपूजा 111
149 अयुतलक्षकोटिहोमाः 112
150 मन्वन्तराणि 114
151 वर्णेतरधर्म्माः 117
Image-P.1


अध्याये विषयः पृष्ठे
152 गृहस्थवृत्तयः 119
153 ब्रह्मचर्य्याश्रमः 120
154 विवाहः 122
155 आचाराध्यायः 124
156 द्रव्यशुद्धिः 128
157 शावाशौचादिः 130
158 स्रावाद्यशौचं 134
159 असंस्कृतादिशौचं 141
160 वानप्रस्थाश्रमः 143
161 यतिधर्म्मः 144
162 धर्मशास्त्रं 148
163 श्राद्धकल्पः 150
164 नवग्रहहोमः 154
165 नानाधर्म्माः 156
166 वर्णधर्म्माः 159
167 अयुतलक्षकोटिहोमाः 163
165 महापातकादयः 166
166-170-171-172-173-174 प्रायश्चित्तानि 171
175 व्रतपरिभाषा 192
176 प्रतिपद्व्रतानि 199
177 द्वितीयाव्रतानि 200
178 तृतीयाव्रतानि 202
179 चतुर्थीव्रतानि 206
180 पञ्चमीव्रतानि 207
181 षष्ठीव्रतानि 207
182 सप्तमीव्रतानि 208
183-184 अष्टमीव्रतानि 209
185 नवमीव्रतानि 213
186 दशमीव्रतानि 214
187 एकादशीव्रतानि 216
188 द्वादशीव्रतानि 217
189 श्रवणद्वादशीव्रतं 219
190 अखण्डद्वादशीव्रतं 221
191 त्रयोदशीव्रतानि 222
192 चतुर्दशीव्रतानि 223
193 शिवरात्रिव्रतं 225
194 अशोकपूर्णिमादिव्रतं 226
195 वारव्रतानि 227
196 नक्षत्रव्रतानि 228
197 दिवसव्रतानि 231
198 मासव्रतानि 233
199 नानाव्रतानि 235
200 दीपदानव्रतं 236
201 नवव्यूहार्चनं 238
202 पुष्पाध्यायः 240
203 नरकस्वरूपवर्णनं 243
204 मासोपवासव्रतं 246
205 भीष्मपञ्चकव्रतं 248
206 अगस्त्यार्घ्यदानव्रतं 249
207 कौमुदव्रतं 252
208 व्रतदानादिसमुच्चयः 253
209 दानपरिभाषा 255
210 महादानानि 261
211 नानादानानि 265
212 मेरुदानानि 272
Image-P.2


अध्याये विषयः पृष्ठे
213 पृथ्वीदानानि 276
214 मन्त्रमाहात्म्यं 277
215 सन्ध्याविधिः 282
216-217 गायत्रीनिर्वाणं 287
218 राजाभिषेकः 291
219 अभिषेकमन्त्राः 294
220 शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च 302
221 दुर्गसम्पत्तिः 306
222-223-224-225-226 राजधर्म्माः 309
227 युद्धयात्रा 329
228 स्वप्नाध्यायः 330
229-230-231 शकुनफलं 333
232 यात्रामण्डलचिन्तादिः 343
233 षाड्गुण्यं 345
234 प्रात्यहिकराजकर्म 348
235 रणदीक्षा 350
236 श्रीस्तोत्रं 357
237 रामोक्तनीतिः 359
238 राज्याङ्गानि 361
239 द्वादशराजमण्डलानि सन्धिविग्रहादयश्च 366
240 सामाद्युपायाः 370
241 राजनीतिः 376
242 पुरुषलक्षणं 384
243 स्त्रीलक्षणं 386
244 आयुधलक्षणं 387
245 रत्नपरीक्षा 390
246 वास्तुलक्षणं 392
247 पुष्पादिपूजाफलं 395
248-249-250-251 धनुर्वेदः 396
252-253 व्यवहाराः 407
254 दिव्यप्रमाणानि 416
255 दायविभागः 421
256 सीमाविवादादिनिर्णयः 425
257 वाक्पारुष्यादिप्रकरणं 430
258 ऋग्विधानं 438
259 यजुर्विधानं 447
260 सामविधानं 455
261 अथर्वविधानं 458
262 उत्पातशान्तिः 461
263 देवपूजावैश्वदेवादिबलिः 464
264 दिक्पालादिस्नानं 467
265 विनायकस्नानं 469
266 माहेश्वरस्नानलक्षकोटिहोमादयः 472
267 नारीजनाविधिः 474
268 छत्रादिमन्त्रादयः 478
Image-P.3


अग्निपुराणं ।

Chapter 115

अथ पञ्चदशाधिकशततमो ऽध्यायः ।

गयायात्राविधिः ।
अग्निरुवाच ।
उद्यतश्चेद्गयां यातुं 1 श्राद्धं कृत्वा विधानतः । 1ab
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥ 1cd
कृत्वा प्रतिदिनङ्गच्छेत् संयतश्चाप्रतिग्रही । 2ab
गृहाच्चलितमात्रस्य गयाया गमनं प्रति ॥ 2cd
स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे । 3ab
ब्रह्मज्ञानेन किं कार्य्यं गोगृहे मरणेन किं ॥ 3cd
किं कुरुक्षेत्रवासेन यदा 2 पुत्रो गयां व्रजेत् । 4ab
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥ 4cd
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति । 5ab
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥ 5cd
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्व्विधा । 6ab
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥ 6cd
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति । 7ab
मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ॥ 7cd
न कालादिर्गयातीर्थे दद्यात् पिण्डांश्च नित्यशः । 8ab
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥ 8cd


1 गन्तुमिति ख॰ , ग॰ , घ॰ , छ॰ , ज॰ च ।
2 यदि इति घ॰ , ग॰ , झ॰ च ।
Image-P.1


अष्टकासु च वृद्धौच 1 गयायां मृतवासरे । 9ab
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ॥ 9cd
पित्रादिनवदैत्यं तथा द्वादशदैवतं । 10ab
प्रथमे दिवसे स्नायात्तीर्थे ह्युत्तरमानसे ॥ 10cd
उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये । 11ab
सर्व्वाघौघविधाताय 2 स्नानं कुर्य्याद् विमुक्तये 3 11cd
सन्तर्प्य देवपित्रादीन् श्राद्धकृत् पिण्डदो भवेत् । 12ab
दिव्यान्तरीक्षभौमस्थान् 4 देवान् सन्तर्पयाम्यहं ॥ 12cd
दिव्यान्तरीक्षभौमादि पितृमात्रादि तर्पयेत् । 13ab
पिता पितामहश्चैव तथैव प्रपितामहः ॥ 13cd
माता पितामही चैव 5 तथैव प्रपितामही । 14ab
मातामहः प्रमातामहो वृद्धप्रमातामहः 6 14cd
तेभ्यो ऽन्येभ्य 7 इमान् पिण्डानुद्धाराय ददाम्यहं । 15ab
ओं नमः सूर्य्यदेवाय सोमभौमज्ञरूपिणे 8 15cd
जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे । 16ab
उत्तरे मानसे स्नाता 9 उद्धरेत्सकलं कुलं ॥ 16cd
सूर्य्यं नत्वा 10 व्रजेन्मौनी नरो दक्षिणमानसं 11 17ab


1 अन्वष्टकासु वृद्धौ चेति घ॰ , ङ॰ च ।
2 सर्वाघौघविनाशायेति ख॰ , घ॰ , छ॰ च ।
3 स्नानं सर्वविमुक्तये इति छ॰ ।
4 दिव्यान्तरीक्षगान् भौमानिति ग॰ ।
5 माता मातामही चैवेति क॰ , ख॰ , ग॰ , छ॰ , ज॰ च ।
6 वृद्धप्रमातृकामह इति क॰ , ग॰ , छ॰ , ज॰ च ।
7 तेभ्यस्तेभ्य इति घ॰ , ज॰ च ।
8 सोमभौमस्वरूपिणे इति घ॰ ।
9 स्नात्वेति क॰ ।
10 सूर्यं दृष्ट्वा इति ङ॰ ।
11 ततो दक्षिणमानसमिति ग॰ , घ॰ , ज॰ , झ॰ च ।
Image-P.2


दक्षिणे मानसे स्नानं करोमि पितृतृप्तये 1 17cd
गयायामागतः स्वर्गं यान्तु मे पितरो ऽखिलाः । 18ab
श्राद्धं पिण्डन्ततः कृत्वा सूर्य्यं नत्वा वदेदिदं ॥ 18cd
ओं नमो भानवे भर्त्रे 2 भवाय भव मे विभो । 19ab
भुक्तिमुक्तिप्रदः सर्व्वपितॄणां भवभावितः ॥ 19cd
कव्यवालानलः सोमो यमश्चैवार्य्यमा तथा । 20ab
अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः ॥ 20cd
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह । 21ab
मदीयाः पितरो ये च मातृमातामहादयः ॥ 21cd
तेषां पिण्डप्रदाताहमागतो ऽस्मि गयामिमां । 22ab
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं 3 22cd
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं । 23ab
सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः ॥ 23cd
लेलिहानैर्म्महानागै रक्ष्यते चैव नित्यशः । 24ab
तत्र स्नात्वा दिवं 4 यान्ति क्रीडन्ते भुवि मानवाः ॥ 24cd
फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं । 25ab
नागाज्जनार्द्दनात् कूपाद्वटाच्चोत्तरमानसात् ॥ 25cd
एतद् गयाशिरः 5 प्रोक्तं फल्गुतीर्थं तदुच्यते । 26ab
मुण्डपृष्ठनागाद्याश्च सारात् सारमथान्तरं ॥ 26cd


1 करोमि पितृदैवते इति ज॰ ।
2 भानवे तस्मै इति ङ॰ ।
3 देवर्षिगणसेवितमिति घ॰ , ज॰ च । देवतागणसेवितमिति झ॰ ।
4 तत्र स्नाता दिवमिति ज॰ ।
5 फल्गुं गयाशिर इति ख॰ , ङ॰ , छ॰ च ।
Image-P.3


यस्मिन् फलति श्रीर्गौर्व्वा कामधेनुर्जलं मही । 27ab
दृष्टिरम्यादिकं यस्मात् फल्गुतीर्थं न फल्गुवत् ॥ 27cd
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं । 28ab
एतेन किं न पर्य्याप्तं नृणां सुकृतकारिणां ॥ 28cd
पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च । 29ab
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥ 29cd
फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः । 30ab
पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये ॥ 30cd
स्नात्वा श्राद्धी पिण्डदो ऽथ नमेद्देवं पितामहं । 31ab
कलौ माहेश्वरा लोका अत्र देवी 1 गदाधरः ॥ 31cd
पितामहो लिङ्गरूपी तन्नमामि महेश्वरं । 32ab
गदाधरं बलं काममनिरुद्धं नरायणं 2 32cd
ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं । 33ab
ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् ॥ 33cd
धर्मारण्यं द्वितीये ऽह्नि मतङ्गस्याश्रमे वरे । 34ab
मतङ्गवाप्यां संस्नाय श्राद्धकृत् पिण्डदो 3 भवेत् ॥ 34cd
मतङ्गेशं सुद्धेशं 4 नत्वा चेदमुदीरयेत् । 35ab
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥ 35cd
मयागत्य मतङ्गे ऽस्मिन् पितॄणां निष्कृतिः कृता । 36ab
स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थे ऽथ 5 कूपके ॥ 36cd


1 अतो देव इति ख॰ , ग॰ , घ॰ , छ॰ च ।
2 नारायणमिति ख॰ , ग॰ , ङ॰ च ।
3 श्राद्धदः पिण्डद इति ख॰ ।
4 मतङ्गेशञ्च सिद्धेशमिति ज॰ ।
5 ब्रह्मतीर्थेत्रेति ख॰ ।
Image-P.4


तत्कूपयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ । 37ab
महाबोधतुरुं नत्वा धर्मवान् स्वर्गलोकभाक् ॥ 37cd
तृतीये ब्रह्मसरसि 1 स्नानं कुर्य्याद्यतव्रतः 2 38ab
स्नानं ब्रह्मसरस्तीर्थे 3 करोमि ब्रह्मभूतये ॥ 38cd
पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते । 39ab
तर्पणं श्राद्धकृत् पिण्डं प्रदद्यात्तु प्रसेचनं 4 39cd
कुर्य्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं ॥ 39॥ 39ef
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलन्ददाति । 40ab
आम्नाय सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ 40cd
ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् । 41ab
फल्गुतीर्थे चतुर्थे ऽह्नि स्नात्वा देवादितर्पणं ॥ 41cd
कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् । 42ab
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥ 42cd
तत्र पिण्डप्रदानेन कुलानां शतमुधरेत् । 43ab
मुण्डपृष्ठे पदं न्न्यस्तं महादेवेन धीमता ॥ 43cd
मुण्डपृष्ठे शिरः साक्षाद् गयाशिर उदाहृतं । 44ab


1 ब्रह्मसदसि इति ख॰ , घ॰ , ङ॰ , ज॰ च ।
2 मयागत्येत्यादिः, स्नानं कुर्य्याद्यतव्रत इत्यन्तः पाठश्छ॰ पुस्तके नास्ति ।
3 ब्रह्मसदस्तीर्थे इति घ॰ । ब्रह्मशिरस्तीर्थे इति ख॰ ।
4 तर्पणश्राद्धकृत् पिण्डप्रदश्चापि प्रसेचनमिति ख॰ , छ॰ च । तर्पणश्राद्धकृत् पिण्डप्रदश्चाम्रप्रसेचनमिति ग॰ , घ॰ , ङ॰ , ज॰ च ।
Image-P.5


साक्षाद् गयाशिरस्तत्र फल्गुतीर्थाश्रमं 1 कृतं ॥ 44cd
अमृतं तत्र वहति पितॄणान्दत्तमक्षयं । 45ab
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं ॥ 45cd
रुद्रपादं नरः स्पृष्ट्वा नेह भूयो ऽभिजायते । 46ab
शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे 2 46cd
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः । 47ab
पायसेनाथ पिष्टेन शक्तुना चरुणा तथा ॥ 47cd
पिण्डदानं तण्डुलैश्च गोधूमैस्तिलमिश्रितैः । 48ab
पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् ॥ 48cd
तथा विष्णुपदे श्राद्धपिण्डदो ह्यृणमुक्तिकृत् 3 49ab
पित्रादीनां शतकुलं स्वात्मानं 4 तारयेन्नरः ॥ 49cd
तथा ब्रह्मपदे श्राद्धी 5 ब्रह्मलोकं नयेत्पितॄन् । 50ab
दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा ॥ 50cd
पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् । 51ab
आवसथ्यस्य चन्द्रस्य 6 सूर्य्यस्य च गणस्य च ॥ 51cd
अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं । 52ab
आदित्यस्य रथं नत्वा 7 कर्णादित्यं नमेन्नरः ॥ 52cd


1 फल्गुतीर्थाश्रयमिति ग॰ , घ॰ , ज॰ , झ॰ च ।
2 पिण्डं दद्याद्गयाशिरे इति ज॰ ।
3 पिण्डदः कुलमुक्तिकृदिति ग॰ , ज॰ च । पिण्डदो ह्यतिमुक्तिकृदिति घ॰ ।
4 स्वात्मनेति ज॰ ।
5 ब्रह्मपदे श्राद्धमिति झ॰ ।
6 वरुणस्याथ चेन्द्रस्येति ङ॰ । आवसथ्यस्य चेन्द्रस्येति छ॰ । आवसथ्यस्य सेन्द्रस्येति ज॰ ।
7 रथं दृष्ट्वेति ख॰ , छ॰ च ।
Image-P.6


कनकेशपदं नत्वा गयाकेदारकं नमेत् । 53ab
सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् ॥ 53cd
विशालो ऽपि गयाशीर्षे पिण्डदो ऽभूच्च पुत्रवान् । 54ab
विशालायां विशालो ऽभूद्राजपुत्रो ऽब्रवीद् द्विजान् ॥ 54cd
कथं पुत्रादयः स्युर्म्मे द्विजा ऊचुर्व्विशालकं । 55ab
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥ 55cd
विशालो ऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः 1 56ab
दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश्च पृष्टवान् ॥ 56cd
के यूयन्तेषु चैवैकः सितः प्रोचे विशालकं । 57ab
अहं सितस्ते जनक इन्द्रलोकं गतः शुभात् ॥ 57cd
मम रक्तः पिता पुत्र कृष्णश्चैव पितामहः । 58ab
अब्रवीत् नरकं प्राप्ता त्वया मुक्तीकृता वयं ॥ 58cd
पिण्डदानाद् ब्रह्मलोकं ब्रजाम इति ते गताः । 59ab
विशालः प्राप्तपुत्रादी राज्यं कृत्वा हरिं ययौ ॥ 59cd
प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् । 60ab
प्रेतैः सर्व्वैः सहार्तः सन् सुकृतं भुज्यते फलं ॥ 60cd
श्रवणद्वादशीयोगे कुम्भः सान्नश्च सोदकः 2 61ab
दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते ॥ 61cd
धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव । 62ab
वणिग्धनं गृहीत्वा तु गयायां पिण्डदो ऽभवत् ॥ 62cd


1 ददौ गत इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
2 सार्थश्च सोदक इति छ॰ ।
Image-P.7


प्रेतराजः सह प्रेतैर्मुक्तो नीतो हरेः पुरं । 63ab
गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस्तथा 1 63cd
पितृवंशे सुता ये च मातृवंशे तथैव च । 64ab
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ 64cd
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः 2 65ab
क्रियालोपगता ये च जात्यन्धाः पुङ्गवस्तथा ॥ 65cd
विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम । 66ab
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतां ॥ 66cd
ये केचित् प्रेतरूपेण तिष्ठन्ति पितरो मम । 67ab
ते सर्वे तृप्तिमायान्तु पिण्डदानेन 3 सर्वदा ॥ 67cd
पिण्डो देयस्तु सर्वेभ्यः सर्वैर्वै कुलतारकैः । 68ab
आत्मनस्तु तथा देयो ह्यक्षयं लोकमिच्छता ॥ 68cd
पञ्चमे ऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् । 69ab
गदाप्रक्षालने तीर्थे गदालोले ऽतिपावने ॥ 69cd
स्नानं करामि संसारगदशान्त्यै जनार्द्दन । 70ab
नमो ऽक्षयवटायैव अक्षयस्वर्गदायिने ॥ 70cd
पित्रादीनामक्षयाय सर्वपापक्षयाय च । 71ab
श्राद्धं वटतले 4 कुर्य्याद् ब्राह्मणानाञ्च भोजनं ॥ 71cd
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता । 72ab
किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं ॥ 72cd


1 प्रेतराजेत्यादिः, स्वपितॄंस्तथेत्यन्तः पाठो झ॰ पुस्तके नास्ति ।
2 शुभकर्मविवर्जिता इति झ॰ ।
3 पिण्डेनानेनेति ङ॰ ।
4 वटतटे इति ज॰ ।
Image-P.8


गयायामन्नदाता यः पितरस्तेन पुत्रिणः । 73ab
वटं वटेश्वरं नत्वा पूजयेत् प्रपितामहं ॥ 73cd
अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् । 74ab
क्रमतो ऽक्रमतो वापि गयायात्रा महाफला ॥ 74cd


इत्याग्नेये महापुराणे गयामाहात्म्ये गययात्रा नाम पञ्चदशाधिकशततमो ऽध्यायः ॥

Chapter 116

अथ षोड़शाधिकशततमो ऽध्यायः ।

गयायात्राविधिः ।
अग्निरुवाच ।
गायत्र्यैव महानद्यां स्नातः 1 सन्ध्यां समाचरेत् । 1ab
गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥ 1cd
मध्याह्ने चोद्यति 2 स्नात्वा गीतवाद्यैर्ह्युपास्य च । 2ab
सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥ 2cd
अगस्त्यस्य पदे कुर्य्याद्योनिद्वारं प्रविश्य च । 3ab
निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात् 3 3cd


1 प्रात इति क॰ ।
2 मध्याह्ने सरसीति ग॰ ।
3 मुच्यते भयादिति छ॰ , झ॰ च ।
Image-P.9


बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः 1 4ab
स्वर्गद्वार्य्यां सोमकुण्डे वायुतीर्थे ऽथ पिण्डदः ॥ 4cd
भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः । 5ab
कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥ 5cd
कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः 2 6ab
गदालोले वानरके गोप्रचारे च पिण्डदः 3 6cd
नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः । 7ab
श्राद्धपिण्डप्रदाता 4 स्यात् क्रौञ्चपादे च पिण्डदः 5 7cd
तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः । 8ab
ऋणमोक्षे पापमोक्षे भस्मकुण्डे ऽथ भस्मना ॥ 8cd
स्नानकृन् मुच्यते पापान्नमेद्देवं जनार्द्दनम् । 9ab
एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ॥ 9cd
परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां । 10ab
गयायां पितृरूपेण स्वयमेव जनार्द्दनः ॥ 10cd
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् । 11ab
मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः 6 11cd
मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् । 12ab


1 नमेन्नर इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ च ।
2 मासपदे ऽन्नद इति ख॰ , घ॰ च ।
3 कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्यन्तः पाठो ग॰ पुस्तके नास्ति ।
4 श्राद्धे पिण्डप्रदातेति ख॰ ।
5 भवेदाकाशगङ्गायामित्यादिः, क्रौञ्चपादे च पिण्डद इत्यन्तः पाठः छ॰ पुस्तके नास्ति ।
6 नमेद्भूतेश्वरं नर इति घ॰ ।
Image-P.10


1गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥ 12cd
पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः । 13ab
प्रभासेशन्नमेत् प्रेतशिलायां पिण्डदो भवेत् ॥ 13cd
दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः । 14ab
प्रेतादिरूपा मुक्ताः 2 स्युः पिण्डैर्द्दत्तैर्म्मयाखिलाः ॥ 14cd
स्थानत्रये प्रेतशिला गयाशिरसि पावनी । 15ab
प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत् कुलम् ॥ 15cd
वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् । 16ab
गयानाभौ सुषुम्णायां महाकोष्ठ्याञ्च पिण्डदः ॥ 16cd
गदाधराग्रतो मुण्डपृष्ठे देव्याश्च सन्निधौ । 17ab
मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥ 17cd
पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् । 18ab
ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत् कुलम् ॥ 18cd
सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् । 19ab
सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक् 3 19cd
हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् । 20ab
माधवं पूजयित्वा च देवो वैमानिको 4 भवेत् ॥ 20cd
महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् । 21ab
पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगो ऽत्र शास्त्रधीः ॥ 21cd


1 सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ॰ पुस्तके ऽधिको ऽस्ति ।
2 प्रेतादिरूपमुक्ता इति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ च ।
3 कुलमुद्धृत्य लोकभागिति ग॰ , ज॰ च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ॰ पुस्तके नास्ति ।
4 देवैर्वैमानिक इति छ॰ ।
Image-P.11


द्वादशादित्यमभ्यर्च्य वह्निं रेवन्तमिन्द्रकम् । 22ab
रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्द्दिविनायकम् ॥ 22cd
प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् । 23ab
सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥ 23cd
सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् । 24ab
अष्टलिङ्गानि गुह्यानि पूजयित्वा तु 1 सर्वभाक् ॥ 24cd
नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये । 25ab
ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥ 25cd
सीतां रामञ्च गरुड़ं वामनं सम्प्रपूज्य च । 26ab
सर्वकामानवाप्नोति ब्रह्मलोकं नयेत् पितॄन् ॥ 26cd
देवैः सार्द्धं सम्प्रपूज्य देवमादिगदाधरम् । 27ab
ऋणत्रयविनिर्मुक्तस्तारयेत् सकलं कुलम् ॥ 27cd
देवरूपा शिला पुण्या तस्माद्देवमयी शिला । 28ab
गयायां नहि तत् स्थानं यत्र तीर्थं न विद्यते ॥ 28cd
यन्नाम्ना पातयेत् पिण्डं तन्नयेद्ब्रह्म शाश्वतम् । 29ab
फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥ 29cd
मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् । 30ab
हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥ 30cd
तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः । 31ab
रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम् 2 31cd
पिण्डदो धेनुकारण्ये पदे धेनोर्न्नमेच्च गाम् । 32ab


1 पूजयित्वाथेति क॰ , घ॰ , ङ॰ , ज॰ च ।
2 नमेद्बुद्धिविनायकमिति ख॰ , ग॰ , छ॰ च । नमेद्वृद्धविनायकमिति घ॰ ।
Image-P.12


सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥ 32cd
सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् । 33ab
त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥ 33cd
गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च । 34ab
अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥ 34cd
स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् । 35ab
गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥ 35cd
धर्म्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् । 36ab
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ 36cd
नित्यशुद्धं बुद्धियुक्तं 1 सत्यं ब्रह्म नमाम्यहम् । 37ab
आनन्दमद्वयं देवं देवदानववन्दितम् ॥ 37cd
देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् । 38ab
कलिकल्मषकालार्त्तिदमनं 2 वनमालिनम् ॥ 38cd
पालिताखिललोकेशं 3 कुलोद्धरणमानसम् । 39ab
व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥ 39cd
स्थितं स्थिरतरं 4 सारं वन्दे घोराघमर्द्दनम् 5 40ab
आगतो ऽस्मि गयां देव पितृकार्य्ये गदाधरः ॥ 40cd
त्वं मे साक्षी भवाद्येह अनृणो ऽहमृणत्रयात् । 41ab


1 नित्यशुद्धबुद्धियुक्तमिति घ॰ , छ॰ च ।
2 कालार्त्तिनाशनमिति घ॰ । कालार्त्तिदलनमिति ग॰ , ङ॰ , घ॰ , ज॰ च ।
3 पालिताखिलदेवेशमिति घ॰ ।
4 स्थिततरमिति ग॰ , घ॰ , ङ॰ च ।
5 वन्देहमरिमर्दनमिति ङ॰ । वन्दे संसारमर्दनमिति ज॰ ।
Image-P.13


साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥ 41cd
मया गयां समासाद्य पितॄणां निष्कृतिः कृता । 42ab
गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥ 42cd
पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥ 43॥ 43ab


इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोड़शाधिकशततमो ऽध्यायः ॥

Chapter 117

अथ सप्तदशाधिकशततमो ऽध्यायः ।

श्राद्धकल्पः ।
अग्निरुवाच ।
कात्यायनो मुनीनाह यथा श्राद्धं तथा वदे । 1ab
गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥ 1cd
काले वापरपक्षे च चतुर्थ्या ऊर्द्ध्वमेव वा । 2ab
सम्याद्य च पदर्क्षे च 1 पूर्वेद्युश्च निमन्त्रयेत् ॥ 2cd
यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् । 3ab
अनवद्यान् कर्म्मनिष्ठान् शिष्टानाचारसंयुतान् 2 3cd


1 सम्पाद्य परमर्क्षे चेति छ॰ ।
2 आचारसंस्कृतानिति ग॰ , ज॰ च ।
Image-P.14


वर्ज्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् । 4ab
स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्म्मणि ॥ 4cd
उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा । 5ab
एवं मातामहादेश्च शाकैरपि च कारयेत् ॥ 5cd
तदह्नि ब्रह्मचारी स्यादकोपो ऽत्वरितो मृदुः 1 6ab
सत्यो ऽप्रमत्तो ऽनध्वन्यो अस्वाध्यायश्च 2 वाग्यतः ॥ 6cd
सर्वांश्च पङ्क्तिमूर्द्धन्यान् पृच्छेत् प्रश्ने तथासने । 7ab
दर्भानास्तीर्य्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥ 7cd
विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च । 8ab
विश्वेदेवास आवाह्य विकीर्य्याथ यवान् जपेत् ॥ 8cd
विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च । 9ab
पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥ 9cd
तिलान् विकीर्य्याथ जपेदायान्त्वित्यादि पित्रके । 10ab
सपवित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥ 10cd
यवो ऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् । 11ab
तिलो ऽसि सोमदेवत्यो गोसवो देवनिर्म्मितः । 11cd
प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इति ।
श्रीश्च तेति ददेत्पुष्पं पात्रे हैमे ऽथ राजते ॥ 11॥ 11ef
औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् । 12ab
देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥ 12cd


1 अत्वरितो ऽत्यृजुरिति ङ॰ ।
2 सत्ये प्रपन्नो ऽनध्वन्यो ह्यस्वाध्यायश्चेति ख॰ , घ॰ च ।
Image-P.15


एकैकस्य एकैकेन सपवित्रकरेषु च । 13ab
या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्य्याः ।
हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॥
विश्वे देवा एष वो ऽर्घः स्वाहा च पितरेष ते ॥ 13cd
स्वधैवं पितामहदेः संस्रवात् प्रथमे चरेत् 1 14ab
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥ 14cd
अत्र गन्धपुष्पधूपदीपाच्छादनदानकं । 15ab
घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥ 15cd
कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निको ऽनले । 16ab
अनग्निकः पितृहस्ते 2 सपवित्रे तु मन्त्रतः ॥ 16cd
अग्नये कव्यवाहनाय स्वाहेति 3 प्रथमाहुतिः । 17ab
सोमाय पितृमते ऽथ यमायाङ्गिरसे परे ॥ 17cd
हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् । 18ab
पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति ।
जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥ 18cd
अपहतेति च तिलान् विकीर्य्यान्नं प्रदाययेत् । 19ab
जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥ 19cd


1 एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ॰ पुस्तके नास्ति ।
2 अनग्निको जले चैवेति ङ॰ ।
3 स्वधेति क॰ ।
Image-P.16


देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । 20ab
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः 1 20cd
तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात् सकृत् सकृत् । 21ab
गायत्रीं पूर्व्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥ 21cd
तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् । 22ab
शेषमन्नमनुज्ञाप्य सर्व्वमन्नमथैकतः ॥ 22cd
उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं । 23ab
दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥ 23cd
आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् । 24ab
अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः 2 24cd
अघोराः पितरः सन्तु गोत्रन्नो वर्द्धतां सदा । 25ab
दातारो नो ऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ॥ 25cd
श्रद्धा च नो माव्यगमद्बहुदेयं च नो ऽस्त्विति । 26ab
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥ 26cd
याचितारश्च नः सन्तु मा च याचिस्म कञ्चन । 27ab
स्वधावाचनीयान् कुशानास्तीर्य्य सपवित्रकान् 3 27cd
स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां । 28ab
पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥ 28cd
स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च । 29ab
अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥ 29cd


1 स्वाहायै नित्यमेव भवन्त्विति इति ख॰ , छ॰ च ।
2 प्रार्थयेत्तत इति घ॰ , ज॰ , झ॰ च ।
3 अघोराः पितर इत्यादिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख॰ , छ॰ पुस्तकद्वये नास्ति ।
Image-P.17


यथाशक्ति प्रदद्याच्च दैवे पैत्रे ऽथ वाचयेत् । 30ab
विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥ 30cd
आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं । 31ab
गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥ 31cd
एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् । 32ab
एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥ 32cd
नावाहनाग्नौकरणं विश्वे देवा न चात्र हि । 33ab
तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥ 33cd
उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां । 34ab
अभिरताः स्म इत्यपरे शेषं पूर्व्ववदाचरेत् ॥ 34cd
सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतो ऽपि वा । 35ab
पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥ 35cd
सपवित्राणि चत्वारि तिलपुष्पयुतानि च । 36ab
गन्धोदकेन युक्तानि 1 पूरयित्वाभिषिञ्चति ॥ 36cd
प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् । 37ab
पूर्व्ववत् पिण्डदानादि प्रेतानां पितृता भवेत् ॥ 37cd
अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्व्वं तु पूर्व्ववत् । 38ab
जपेत् पितृमन्त्रवर्ज्जं पूर्वाह्णे तत् प्रदक्षिणं ॥ 38cd
उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह 2 39ab
तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥ 39cd


1 गन्धोदकेन सिक्तानि इति ज॰ ।
2 अथाभ्युदयिकमित्यादिः, यवैरिह इत्यन्तः पाठो झ॰ पुस्तके नास्ति ।
Image-P.18


दध्यक्षतवदराद्याः 1 पिण्डा नान्दीमुखान् पितॄन् । 40ab
आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥ 40cd
नान्दीमुखाश्च पितरो वाचयिष्ये ऽथ पृच्छति । 41ab
नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥ 41cd
नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः । 42ab
मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥ 42cd
स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् । 43ab
तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥ 43cd
मासन्तृप्तिस्तथारण्यैः 2 कन्दमूलफलादिभिः । 44ab
मत्स्यैर्म्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥ 44cd
चतुरो रौरवेणाथ 3 पञ्च षट् छागलेन तु 4 45ab
कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥ 45cd
मेषमांसेन दश च माहिषैः पार्षतैः शिवैः । 46ab
संवत्सरन्तु गव्येन पयसा पायसेन वा ॥ 46cd
वार्द्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । 47ab
खड्गमांसं कालशाकं लोहितच्छागलो 5 मधु ॥ 47cd
महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं 6 48ab
मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षड़ङ्गवित् ॥ 48cd
तृणाचिकेतः त्रिमधुर्द्धर्म्मद्रोणस्य 7 पाठकः । 49ab
त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥ 49cd


1 दध्यक्षतवदर्याद्या इति ग॰ , छ॰ च ।
2 तथा वन्यैरिति ख॰ , ङ॰ च ।
3 वत्सरं रौरवेणाथेति घ॰ ।
4 पञ्चकं छागस्तेन तु इति ङ॰ ।
5 लोहितच्छागक इति ग॰ , घ॰ , ङ॰ च ।
6 मघाश्राद्धमिहाक्षयमिति झ॰ ।
7 जलद्रोणस्येति झ॰ ।
Image-P.19


कम्यानां कल्पमाख्यास्ये 1 प्रतिपत्सु धनं बहु । 50ab
स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्म्मकामदः ॥ 50cd
पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि 2 51ab
कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥ 51cd
नवम्याञ्च एकशफा 3 दशम्याङ्गोगणो भवेत् । 52ab
एकादश्यां परीवारो द्वादश्यान्धनधान्यकं ॥ 52cd
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्द्दश्याञ्च शस्त्रतः 4 53ab
मृतानां श्राद्धं सर्व्वाप्तममावास्यां समीरितं 5 53cd
सप्त व्याधा दशारण्ये 6 मृगाः कालञ्जरे गिरौ । 54ab
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥ 54cd
ते ऽपि जाताः 7 कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । 55ab
प्रस्थिता दूरमध्वानं यूयन्तेभ्यो ऽवसीदत ॥ 55cd
श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं । 56ab
श्राद्धं कुर्य्याच्च पुत्रादिः 8 पितुर्ज्जीवति तत्पितुः ॥ 56cd
तत्पितुस्तत्पितुः कुर्य्याज्जीवति प्रपितामहे । 57ab
पितुः पितामस्हस्याथ परस्य प्रपितामात् 9 57cd


1 कालमाख्यास्ये इति झ॰ च ।
2 श्रेष्ठभाग्यपि इति ख॰ , ग॰ , ङ॰ , छ॰ च । ज्येष्ठभागपि इति घ॰ ।
3 नवम्यां वै शफपतिरिति ज॰ ।
4 चतुर्द्दश्याञ्च शास्त्रत इति ख॰ , घ॰ च ।
5 मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क॰ ।
6 दशार्णेषु इति ख॰ , ग॰ , ङ॰ , छ॰ च ।
7 ते ऽभिजाता इति ख॰ , घ॰ च ।
8 कुर्यात् सुपुत्रो ऽपि इति छ॰ ।
9 तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ॰ पुस्तके नास्ति ।
Image-P.20


एवं मात्रादिकस्यापि तथा मातामहादिके । 58ab
श्राद्धकल्पं पठेद्यस्तु स लभेत् श्राद्धकृत्फलं 1 58cd
तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं । 59ab
अश्वयुच्छुक्लनवमी द्वादशी कर्त्तिके तथा ॥ 59cd
तृतीया चैव माघस्य तथा भाद्रपदस्य च । 60ab
फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥ 60cd
आषाढस्यापि दशमी माघमासस्य सप्तमी । 61ab
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥ 61cd
कार्त्तिकी फाल्गुनी तद्वज् ज्यैष्ठे पञ्चदशी सिता । 62ab
स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥ 62cd
गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्म्मदा । 63ab
श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी 2 63cd
गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥ 64॥ 64ab


इत्याग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमो ऽध्यायः ॥

Chapter 118

अथाष्टादशाधिकशततमो ऽध्यायः ।

भारतवर्षं ।
अग्निरुवाच ।
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं । 1ab
वर्षं तद् भारतं नाम नवसाहस्रविस्तृतं ॥ 1cd
कर्म्मभूमिरियं स्वर्गमपवर्गं च गच्छतां । 2ab


1 यस्तु लभेच्छ्राद्धकृतं फलमिति ख॰ , छ॰ , ज॰ च ।
2 वाराणसी इति ख॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.21


महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः 1 2cd
विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः । 3ab
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥ 3cd
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । 4ab
अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥ 4cd
योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् । 5ab
नव भेदा भारतस्य 2 मध्यभेदे ऽथ पूर्वतः ॥ 5cd
किराता यवनाश्चापि ब्राह्मणाद्याश्च मध्यतः । 6ab
वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥ 6cd
विन्ध्याच्च नर्म्मदाद्याः स्युः सह्यात्तापी पयोष्णिका । 7ab
गोदावरीभीमरथीकृष्णवेणादिकास्तथा ॥ 7cd
मलयात् कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः । 8ab
कुमाराद्याः शुक्तिमतो 3 हिमाद्रेश्चन्द्रभागका ॥ 8cd
पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः ॥ 9॥ 9ab


इत्याग्नेये महापुराणे भारतवर्षं नामाष्टादशाधिकशततमो ऽध्यायः ॥

Chapter 119

अथैकोनविंशत्यधिकशततमो ऽध्यायः ।

महाद्वीपादि ।
अग्निरुवाच ।
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् । 1ab


1 शक्तिमानृक्षपर्वत इति घ॰ , छ॰ च । शुक्तिमानृक्षपर्वत इति ज॰ ।
2 नव भेदा भवन्त्यस्येति झ॰ ।
3 शक्तिमत इति ख॰ , ग॰ , घ॰ , झ॰ च ।
Image-P.22


लक्षयोजनमानेन क्षीरोदेन समन्ततः ॥ 1cd
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः 1 2ab
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥ 2cd
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः । 3ab
आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥ 3cd
मर्य्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी । 4ab
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥ 4cd
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च । 5ab
जीवनं पञ्चसास्रं धर्म्मो वर्णाश्रमात्मकः 2 5cd
आर्य्यकाः कुरवश्चैव विविंशा भाविनश्च ते । 6ab
विप्राद्यास्तैश्च सोमो ऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥ 6cd
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः । 7ab
वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥ 7cd
श्वेतो ऽथ हरितश्चैव जीमूतो लोहितः क्रमात् । 8ab
वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥ 8cd
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः । 9ab
कुमुदश्चानलश्चैव 3 तृतीयस्तु वलाहकः ॥ 9cd
द्रोणः कंको ऽथ 4 महिषः ककुद्मान् सप्त निम्नगाः । 10ab
कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥ 10cd
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः 5 11ab


1 द्वीपस्तथा स्मृत इति झ॰ ।
2 वर्णाश्रमात्मज इति ख॰ , घ॰ , ज॰ च ।
3 कुमुदश्चोन्नतश्चैवेति ख॰ , ग॰ , घ॰ , ङ॰ च ।
4 कर्को ऽथेति क॰ ।
5 सुरोदेन समावृत इति घ॰ ।
Image-P.23


ज्योतिष्मतः कुशेशाः स्युरुद्गिजो धेनुमान् सुतः ॥ 11cd
द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः । 12ab
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥ 12cd
विद्रुमो 1 हेमशैलश्च द्युतिमान् पुष्पवांस्तथा । 13ab
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥ 13cd
वेष्टितो ऽयं घृतोदेन क्रौञ्चद्वीपेन सो ऽप्यथ । 14ab
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥ 14cd
कुशलो मनोनुगश्चोष्णः प्रधानो ऽथान्धकारकः । 15ab
मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः 2 15cd
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः 3 16ab
देववृत् पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥ 16cd
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा । 17ab
पुष्कराः पुष्कला धन्यास्तीर्था 4 विप्रादयो हरिम् ॥ 17cd
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः । 18ab
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥ 18cd
जलदश्च कुमारश्च सुकुमारो मणीवकः । 19ab
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥ 19cd
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ । 20ab
आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥ 20cd


1 रुद्राभ इति क॰ । विक्रम इति ख॰ , छ॰ च ।
2 कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ॰ पुस्तके नास्ति ।
3 तृतीयश्चानुकारक इति घ॰ , झ॰ च ।
4 पुष्कलावत्यां तीर्था इति घ॰ ।
Image-P.24


मगा मगधमनस्या 1 मन्दगाश्च द्विजातयः 2 21ab
यजन्ति सूर्य्यरूपं तु 3 शाकः क्षीराब्धिना वृतः ॥ 21cd
पुष्करेणावृतः सो ऽपि द्वौ पुत्रौ सवनस्य च । 22ab
मनावीतो धातकिश्च वर्षे द्वे नामचिह्निते 4 22cd
एको ऽद्रिर्म्मानसाख्यो ऽत्र मध्यतो वलयाकृतिः । 23ab
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥ 23cd
जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते । 24ab
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥ 24cd
ऊनातिरिक्तता चापां समुद्रेषु न जायते । 25ab
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ 25cd
दशोत्तराणि पञ्चैव 5 अङ्गुलानां शतानि वै । 26ab
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां 6 महामुने ॥ 26cd
स्वादूदका बहुगुणा 7 भूर्हैमी जन्तुवर्ज्जिता । 27ab
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ 27cd
लोकालोकस्तु तमसावृतो ऽथाण्डकटाहतः । 28ab
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा 8 28cd


इत्याग्नेये महापुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमो ऽध्यायः ॥


1 आगाम्यगधमालस्या इति ख॰ , छ॰ च ।
2 द्विजादय इति क॰ , ख॰ , ङ॰ , छ॰ च ।
3 सूर्यरूपन्ते इति घ॰ , ज॰ च ।
4 वर्षे द्वे भागचिह्निते इति झ॰ ।
5 पञ्चात्रेति ग॰ , ङ॰ च ।
6 समुद्राणामिति ग॰ , ङ॰ , झ॰ च ।
7 स्वादूदका द्वित्रिगुणेति ख॰ , छ॰ च । स्वादूदका तु द्विगुणेति घ॰ , ज॰ च । स्वादूदका तु द्विगुणेति ग॰ , ङ॰ च ।
8 पञ्चाशत्कोटिविस्तृतेति छ॰ ।
Image-P.25


Chapter 120

अथ विंशत्यधिकशततमो ऽध्यायः ।

भुवनकोषः ।
अग्निरुवाच ।
विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः । 1ab
उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥ 1cd
अतलं वितलञ्चैव नितलञ्च गभस्तिमत् । 2ab
महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥ 2cd
कृष्णपीतारुणाः शुक्लशर्क्कराशैलकाञ्चनाः । 3ab
भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥ 3cd
पातालानामधश्चास्ते शेषो विष्णुश्च तामसः । 4ab
गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥ 4cd
भुवो ऽधो नरका नैके न पतेत्तत्र वैष्णवः । 5ab
रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥ 5cd
भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं । 6ab
रवेर्ल्लक्षेण चन्द्रश्च लक्षान्नाक्षत्रमिन्दुतः ॥ 6cd
द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः । 7ab
द्विलक्षेण कुजः शुक्राद्भौमाद् द्विलक्षतो गुरुः ॥ 7cd
गुरोर्द्विलक्षतः सौरिर्ल्लक्षात्सप्तर्षयः शनेः । 8ab
लक्षाद् ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥ 8cd
ध्रुवात् कोट्या महर्ल्लोको यत्र ते कल्पवासिनः । 9ab
Image-P.26


जनो द्विकोटितस्तस्माद्यत्रासन् 1 सनकादयः ॥ 9cd
जनात्तपश्चाष्टकोट्या वैराजा यत्र देवताः । 10ab
षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥ 10cd
अपुनर्म्मारका यत्र ब्रह्मलोको हि स स्मृतः । 11ab
पादगम्यस्तु भूर्ल्लोको भुवः सूर्य्यान्तरः स्मृतः ॥ 11cd
स्वर्गलोको ध्रुवान्तस्तु नियुतानि 2 चतुर्द्दश । 12ab
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥ 12cd
वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः । 13ab
वृतं दशगुणैरण्डं भूतादिर्म्महता तथा ॥ 13cd
दशोत्तराणि शेषाणि एकैकस्मान्महामुने । 14ab
महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥ 14cd
अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते 3 15ab
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥ 15cd
असङ्ख्यातानि चाण्डानि तत्र जातानि चेदृशां । 16ab
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिति 4 16cd
प्रधाने च स्थितो 5 व्यापी चेतनात्मात्मवेदनः । 17ab
प्रधानञ्च पुमांश्चैव सर्व्वभूतात्मभृतया 6 17cd
विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्म्मिणौ । 18ab
तयोः 7 सैव पृथग्भावे कारणं संश्रयस्य च ॥ 18cd


1 यत्र वै इति ङ॰ ।
2 अयुतानि इति ज॰ ।
3 सङ्ख्यानं नैव विद्यते इति घ॰ , झ॰ च । सङ्ख्यानं न च विद्यते इति ग॰ ।
4 पुमानपि इति घ॰ , झ॰ च ।
5 प्रधाने ऽवस्थितं इति ख॰ , ग॰ , ङ॰ च ।
6 सर्वभूतानुभूतया इति ङ॰ ।
7 द्वयोरिति झ॰ ।
Image-P.27


क्षोभकारणभूतश्च सर्गकाले महामुने । 19ab
यथा शैत्यं जले वातो विभर्त्ति कणिकागतं ॥ 19cd
जगच्छक्तिस्तथा विष्णोः प्रधानप्रतिपादिकां । 20ab
विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥ 20cd
स च विष्णुः स्वयं ब्रह्म यतः सर्व्वमिदं जगत् । 21ab
योजनानां सहस्राणि भास्करस्य रथो नव ॥ 21cd
ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम । 22ab
सार्द्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥ 22ce
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं । 23ab
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥ 23cd
संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं । 24ab
चत्वारिंशत्सहस्राणि द्वितीयाक्षो विवस्वतः ॥ 24cd
पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महामते । 25ab
अक्षप्रमाणमुभयोः प्रमाणन्तद्युगार्द्धयोः ॥ 25cd
ह्रस्वो ऽक्षस्तद्युगार्द्धञ्च ध्रुवाधारं रथस्य वै । 26ab
हयाश्च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥ 26cd
उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः । 27ab
यावन्मात्रप्रदेशे तु वशिष्ठो ऽवस्थितो ध्रुवः ॥ 27cd
स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे 1 28ab
ऊर्द्धोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥ 28cd
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं । 29ab
निर्द्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥ 29cd


1 भूमेराहूतसम्प्लवे इति घ॰ , ज॰ च ।
Image-P.28


ततो गङ्गा प्रभवति स्मरणात् पापनाशनी 1 30ab
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥ 30cd
स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् । 31ab
स रथो ऽधिष्ठिता देवैरादित्यैरृषिभिर्वरैः 2 31cd
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः 3 32ab
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥ 32cd
ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं । 33ab
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः 4 33cd
वामदक्षिणतो युक्ता दश तेन चरत्यसौ । 34ab
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥ 34cd
त्रयस्त्रिंशत्तथा देवाः पिवन्ति क्षणदाकरं 5 35ab
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥ 35cd
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च । 36ab
अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥ 36cd
शुक्रस्यापि रथो ऽष्टाश्वो भौमस्यापि रथस्तथा । 37ab
वृहस्पते रथो ऽष्टाश्वः शनेरष्टाश्वको रथः ॥ 37cd
स्वर्भानोश्च रथो ऽष्टाश्वः केतोश्चाष्टाश्वको रथः । 38ab
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥ 38cd


1 सर्वपापप्रणाशिनीति ज॰ ।
2 ऋषिभो रवेरिति ग॰ , घ॰ , ङ॰ , ज॰ च ।
3 सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
4 कुन्दाभास्तत्र वाजिन इति क॰ , घ॰ , ङ॰ च ।
5 क्षणदाचरमिति झ॰ ।
Image-P.29


पद्माकारा समुद्भूता पर्वताद्यादिसंयुता । 39ab
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥ 39cd
यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं 1 40ab
न विज्ञानमृते किञ्चिज् ज्ञानं विष्णुः परम्पदं ॥ 40cd
तत् कुर्य्याद् येन विष्णुः स्यात् सत्यं ज्ञानमनन्तकं । 41ab
पठेद् भुवनकोषं हि यः सो ऽवाप्तसुखात्मभाक् ॥ 41cd
ज्योतिःशास्त्रादिविध्याश्च शुभाशुभाधिपो हरिः 2 ॥ 24॥ 42ab


इत्याग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमो ऽध्यायः ॥

Chapter 121

अथैकविंशाधिकशततमो ऽध्यायः ।

ज्योतिःशास्त्रं ।
अग्निरुवाच ।
ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं । 1ab
चातुर्लक्षस्य सारं यत् तज् ज्ञात्वा सर्व्वविद्भवेत् ॥ 1cd
षड़ष्टके 3 विवाहो न न च द्विद्वादशे स्त्रियाः । 2ab
न त्रिकोणे ह्यथ प्रीतिः 4 शेषे च समसप्तके ॥ 2cd


1 ज्ञानविज्ञानजृम्भितमिति ज॰ ।
2 शुभाशुभाशयो हरिरिति ख॰ , छ॰ च ।
3 षट्काष्टके इति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ च ।
4 न त्रिकोणेषु प्रीतिः स्यादिति ज॰ ।
Image-P.30


द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि । 3ab
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥ 3cd
तथापि कार्य्यः संयोगो न तु षट्काष्टके पुनः । 4ab
जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया ॥ 4cd
गुरुक्षेत्रगते सूर्ये सूर्य्यक्षेत्रगते गुरौ । 5ab
विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् ॥ 5cd
अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं । 6ab
व्रतोद्वाहौ न कुर्व्वीत गुरोर्वक्रातिचारयोः ॥ 6cd
चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ । 7ab
चन्द्रक्षये चाशुभं स्यात् सन्ध्याकालः शुभावहः ॥ 7cd
रोहिणी चोत्तरा मूलं स्वाती हस्तो ऽथ रेवती । 8ab
तुले न मिथुने शस्तो विवाहः परिकीर्त्तितः ॥ 8cd
विवाहे कर्णबेधे च व्रते पुंसवने तथा । 9ab
प्राशने चाद्यचूड़ायां बिद्धर्क्षञ्च विवर्ज्जयेत् 1 9cd
श्रवणे मूलपुष्ये च सूर्य्यमङ्गलजीवके । 10ab
कुम्भे सिंहे च मिथुने कर्म्म पुंसवनं स्मृतं ॥ 10cd
हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः । 11ab
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥ 11cd
अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके 2 12ab
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥ 12cd


1 विद्धमृक्षं विवर्जयेत् इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
2 जीवे मकरमीनके इति झ॰ ।
Image-P.31


अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं । 13ab
पुष्यो हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥ 13cd
स्वातिसौम्ये च भैषज्यं कुर्य्यादन्यत्र वर्जयेत् । 14ab
पूर्वात्रयं 1 मघा याम्यं पावनं 2 श्रवणत्रयं ॥ 14cd
भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः । 15ab
पार्थिवे चाष्टह्रींकारं मध्ये नाम च दिक्षु च ॥ 15cd
ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् । 16ab
गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं ॥ 16cd
शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं । 17ab
श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टके क्रमात् ॥ 17cd
गोरोचनाकुङ्कुमेन भूर्जे ऽथ सुभगावृते । 18ab
गोमध्यवागमः पत्रे हरिद्राया रसेन च ॥ 18cd
शिलापट्टे ऽरीन् स्तम्भयति भूमावधोमुखीकृतं । 19ab
ओं हूं सः 3 सम्पुटन्नाम ओं हूं सः 4 पत्राष्टके क्रमात् ॥ 19cd
गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं । 20ab
एकपञ्चनवप्रीत्यै 5 द्विषट्द्वादशयोगकाः ॥ 20cd
त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः । 21ab
तनुर्धनञ्च सहजः सुहृत् सुतो रिपुस्तथा ॥ 21cd
जाया निधनधर्म्मौ च कर्म्मायव्ययकं क्रमात् । 22ab


1 पूर्वात्रिकमिति ज॰ ।
2 पावकमिति ङ॰ ।
3 ओं ह्रं स इति छ॰ ।
4 ओं जूं स इति ख॰ । ओं ह्रं स इति छ॰ ।
5 एकपञ्चनवशान्त्यै इति ज॰ ।
Image-P.32


स्फुटं मेषादिलग्नेषु नवताराबलं वदेत् ॥ 22cd
जन्म सम्पद्विपत् क्षेमं प्रत्यरिः साधकः क्रमात् । 23ab
निधनं मित्रपरममित्रं ताराबलं विदुः ॥ 23cd
धारे ज्ञगुरुशुक्राणां सूर्य्याचन्द्रमसोस्तथा । 24ab
माघादिमासाषट्के तु क्षीरमाद्यं प्रशस्यते ॥ 24cd
कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः । 25ab
पञ्चमे ऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् ॥ 25cd
रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं । 26ab
माघादिमासषट्के तु 1 मखलाबन्धनं शुभं ॥ 26cd
चूड़ाकरणकाद्यञ्च श्रवणादौ न शस्यते । 27ab
अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने ॥ 27cd
उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्द्दिशेत् । 28ab
क्षौरर्क्षे शुभवारे च समावर्त्तनमिष्यते ॥ 28cd
शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च । 29ab
अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च ॥ 29cd
पुनर्व्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते । 30ab
भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस्तथा ॥ 30cd
जिजीविषुर्न्न कुर्व्वीत वस्त्रप्रावरणं नरः । 31ab
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥ 31cd
रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु । 32ab
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥ 32cd


1 माघादिमासषट्केषु इति झ॰ ।
Image-P.33


याम्यसर्पधनिष्ठासु 1 त्रिषु पूर्व्वेषु वारुणे 2 33ab
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥ 33cd
अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ । 34ab
क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् ॥ 34cd
भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः । 35ab
वह्निज्येष्ठाविशाखासु स्वामिनो नोपतिष्ठते ॥ 35cd
द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं । 36ab
उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं ॥ 36cd
चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च । 37ab
माघं चैव परित्यज्य शेषमासे गृहं शुभं ॥ 37cd
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं । 38ab
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥ 38cd
आदित्यभौमवर्जन्तु वापीप्रासादके तथा । 39ab
सिंहराशिगते जीवे गुर्व्वादित्ये मलिम्लुचे ॥ 39cd
बाले वृद्धे ऽस्तगे शुक्रे गृहकर्म्म विवर्जयेत् । 40ab
अग्निदाहो भयं रोगो राजपीड़ा धनक्षतिः ॥ 40cd
सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके । 41ab
गृहप्रवेशनं कुर्य्याद्धनिष्ठोत्तरवारुणे ॥ 41cd
नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी । 42ab
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥ 42cd
पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः । 43ab


1 याम्यसर्पविशाखासु इति घ॰ , ज॰ च ।
2 पूर्वेषु चानले इति ग॰ , घ॰ , ङ॰ च॰ ।
Image-P.34


अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा 1 43cd
त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्द्दशी । 44ab
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥ 44cd
गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् । 45ab
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ॥ 45cd
पुष्यश्रवणहस्तेषु कृषिकर्म्म समाचरेत् 2 46ab
पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे 3 46cd
गुरोः शुक्रस्य वारे वा वारे च 4 सोमभास्वतोः । 47ab
वृषलग्ने च कर्त्तव्यङ्कन्यायां मिथुने तथा ॥ 47cd
द्विपञ्च 5 दशमी सप्त तृतीया च त्रयोदशी । 48ab
रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु 6 च ॥ 48cd
मन्दारवर्ज्जं वीजानि वापयेत् सम्पदर्थ्यपि 7 49ab
रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः ॥ 49cd
पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये । 50ab
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥ 50cd
स्थिरे लग्ने 8 गुरोर्वारे अथ 9 भार्गवसौम्ययोः । 51ab
याम्यादितिमघाज्येष्ठासूत्तरेषु प्रवेशयेत् ॥ 51cd


1 यात्रासिद्धिषु सम्पद इति ग॰ , ज॰ च ।
2 समारभेदिति घ॰ , ङ॰ च ।
3 भगमूले च वारुणे इति ख॰ , छ॰ च ।
4 वारे वा इति ज॰ ।
5 त्रिपञ्चेति ज॰ ।
6 हस्तमैत्रोत्तरासु इति ज॰ ।
7 वापयेत् संयतोपि चेति ख॰ , छ॰ , ज॰ च ।
8 चरे लग्ने इति झ॰ ।
9 गुरोर्वारेथवा इति घ॰ , ज॰ च ।
Image-P.35


ओं धनदाय 1 सर्व्वधनेशाय देहि मे धनं स्वाहा 2 । ओं नवे वर्षे इलादेवि लोकसंवर्द्धनि कामरूपिणि देहि मे धनं स्वाहा ॥
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्द्धनं । 52ab
त्रिपूर्व्वासु विशाखायां धनिष्ठावारुणे ऽपि च ॥ 52cd
एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः । 53ab
देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ॥ 53cd
मिथुनस्थेरवौ दर्शाद्यादि स्याद् द्वादशी तिथिः । 54ab
सदा तत्रैव कर्त्तव्यं शयनं चक्रपाणिनः ॥ 54cd
सिंहतौलिङ्गते 3 चार्क्के दर्शाद्यद्वादशीद्वयं । 55ab
आदाविन्द्रसमुप्त्यानं प्रबोधश्च हरेः क्रमात् ॥ 55cd
तथा कन्यागते भानौ 4 दुर्गोप्त्याने तथाष्टमी । 56ab
त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥ 56cd
भौमादित्यशनैश्चारि विज्ञेयं तत् त्रिपुष्करं । 57ab
सर्वकर्म्मण्युपादेया विशुद्धिश्चन्द्रतारयोः 5 57cd
जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा । 58ab
एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥ 58cd
शुक्लपक्षे द्वीतीयश्च पञ्चमो नवमः शुभः । 59ab
मित्रातिमित्रसाधकसम्पत्क्षेमादितारकाः ॥ 59cd


1 ॐ श्रीं धनदायेति ज॰ ।
2 ``नवे वर्षे गुरोर्वारे अथ भार्गवसौम्ययोः'' एष पाठोत्र छ॰ पुस्तकेधिको ऽस्ति ।
3 सिंहतौलिगते इति ख॰ ।
4 कन्याराशिगते भानौ इति घ॰ ।
5 विशुद्धिश्चन्द्रसूर्ययोरिति ज॰ ।
Image-P.36


जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं । 60ab
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥ 60cd
कृष्णाष्टमीदिनादूर्द्ध्वं यावच्छुक्लाष्टमीदिनं 1 61ab
तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥ 61cd
वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते 2 62ab
पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्त्तिता ॥ 62cd
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । 63ab
पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्त्तिता ॥ 63cd
स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद् ध्वजं । 64ab
हर्य्यृक्षपादे 3 चाश्विन्यां सप्ताहान्ते विसर्जयेत् ॥ 64cd
सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः । 65ab
सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे ॥ 65cd
ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः 4 66ab
राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता ॥ 66cd
बालवे कौलवे नागे तैतिले करणे यदि । 67ab
उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः 5 सुखी भवेत् ॥ 67cd
गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् । 68ab
राज्ञो दोषेण लोको ऽयम्पीड्यते सम्पदा समं ॥ 68cd
चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः । 69ab


1 कृष्णाष्टमीदलादूर्द्ध्वं यावच्छुक्लाष्टमीदलमिति ड॰ ।
2 जीवे चन्द्रेन्द्रदैवतमिति ज॰ ।
3 इन्द्राद्यपाद इति ख॰ , ग॰ च । हर्याद्यपादे इति ङ॰ ।
4 मन्दाकिनी तथेति ख॰ , घ॰ , छ॰ च । मन्दाकिनीति चेति झ॰ ।
5 तथा लोक इति ख॰ ।
Image-P.37


दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥ 69cd
आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् । 70ab
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥ 70cd
मृगशिरःपञ्चरात्रं आर्द्रासु 1 प्राणनाशनं । 71ab
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ॥ 71cd
नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च । 72ab
द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम् 2 72cd
हस्ते तु दृश्यते चित्रा अर्द्धमासन्तु पीडनम् । 73ab
मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं ॥ 73cd
मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्द्धमासकम् । 74ab
मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम् 3 74cd
उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च । 75ab
धनिष्ठा चार्द्धमासञ्च वारुणे च दशाहकम् ॥ 75cd
न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् । 76ab
रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी ॥ 76cd
भरण्यां प्राणहानिः स्याद् गायत्रीहोमतः शुभं । 77ab
पञ्चधान्यतिलाज्याद्यैर्धेनुदानन्द्विजे शमं ॥ 77cd
दशा सूर्य्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु । 78ab
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥ 78cd


1 आर्द्रायामिति ग॰ , ज॰ च ।
2 उत्तरासु त्रिरात्रकमिति झ॰ ।
3 पूर्वाषाढादिनपञ्चकमिति क॰ । हस्ते तु दृश्यते इत्यादिः, पूर्वाषाढात्रिपञ्चकमित्यन्तः पाठः ड॰ , छ॰ , पुस्तकद्वये नास्ति ।
Image-P.38


दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा । 76ab
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥ 76cd


इत्याग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमो ऽध्यायः ॥

Chapter 122

अथ द्वाविंशत्यधिकशततमो ऽध्यायः ।

कालगणनं ।
अग्निरुवाच ।
कालः समागणो वक्ष्ये गणितं कालबुद्धये । 1ab
कालः समागणो ऽर्क्कघ्नो 1 मासैश्चैत्रादिभिर्युतः ॥ 1cd
द्विघ्नो द्विष्ठः सवेदः स्यात् पञ्चाङ्गष्टयुतो गुणः 2 2ab
त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश्च सः ॥ 2cd
अष्टरन्ध्राग्निहीनः 3 स्यादधः सैकरसाष्टकैः । 3ab
मध्यो हीनः षष्टिहतो 4 लब्धयुक्तस्तथोपरि ॥ 3cd
न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः । 4ab
सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥ 4cd
अधः स्वरामसंयुक्तो रसार्क्काष्टफलैर्युतः । 5ab
अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥ 5cd


1 समागणोर्काब्द इति ख॰ , छ॰ च ।
2 पञ्चदशयुतो गण इति ज॰ ।
3 अष्टचन्द्राग्निहीन इति ज॰ ।
4 षष्टिहत इति ङ॰ ।
Image-P.39


गुणस्तिसृभिरूनोर्द्धं द्वाभ्यां च गुणयेत् पुनः । 6ab
मध्ये रुद्रगुणः कार्य्यो ह्यधः सैको नवाग्निभिः 1 6cd
लब्धहीनो 2 भवेन्मध्यो द्वाविंशतिविवर्ज्जितः । 7ab
षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्द्ध्वं विनिक्षिपेत् ॥ 7cd
सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः । 8ab
मासि मासि क्षिपेद् वारन्द्वात्रिंशद्घटिकास्तिथौ ॥ 8cd
द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्यृणे । 9ab
वारस्थाने तिथिन्दद्यात् सप्तभिर्भार्गवमाहरेत् ॥ 9cd
शेषवाराश्च सूर्य्याद्या घटिकासु च पातयेत् । 10ab
पिण्डकेषु तिथिन्दद्याद्धरेच्चैव चतुर्द्दश ॥ 10cd
ऋणं धनं धनमृणं क्रमाज् ज्ञेयं चतुर्द्दशे । 11ab
प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥ 11cd
पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां । 12ab
चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥ 12cd
पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः । 13ab
षष्ठाष्टमे त्वखण्डाः स्युश्चतुर्विंशतिरेव च ॥ 13cd
सप्तमे पञ्चविंशः स्यात् खण्डशः पिण्डिकाद् भवेत् 3 14ab
कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥ 14cd
तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् । 15ab


1 सैकेन सप्तकैरिति ख॰ , ग॰ च ।
2 ऋतुहीन इति ङ॰ ।
3 खण्डकः पिण्डकाद्भवेदिति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.40


मकरादौ दीयते च रसवेदत्रयः क्रमात् । 15ab
मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् 1 16ab
खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥ 16cd
कर्कटे प्रातिलोम्यं स्यादृणमेतत् तुलादिके । 17ab
चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥ 17cd
हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः । 18ab
षष्ट्याप्तं प्रथमोच्चार्य्ये हानौ देयन्धने धनम् ॥ 18cd
द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः । 19ab
तिथिर्द्विगुणिता कार्य्या षड्भागपरिवर्ज्जिता ॥ 19cd
रविकर्म्मविपरीता तिथिनाडीसमायुता । 20ab
ऋणे शुद्धे तु नाड्यः स्युरृणं शुध्येत नो यदा ॥ 20cd
सषष्टिकं प्रदेयन्तत् षष्ट्याधिक्ये च तत्त्यजेत् 2 21ab
नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥ 21cd
तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता । 22ab
तिथिरत्र चिता कार्य्या तद्वेदाद्योगशोधनं ॥ 22cd
रविचन्द्रौ समौ कृत्वा योगो भवति निश्चलः । 23ab
एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा 3 23cd
तिथिश्च द्विगुणैकोना कृताङ्गैः करणन्निशि । 24ab


1 मकरादौ इत्यादिः, वेदरसाः क्रमादित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
2 सन्त्यजेदिति घ॰ ।
3 सप्तभिन्ना गतिर्द्विधेति ख॰ । सप्तच्छिन्ना कृतिर्द्विधेति घ॰ , ज॰ च ।
Image-P.41


कृष्णचतुर्द्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥ 24cd
प्रथमे तिथ्यर्द्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥ 25॥ 25ab


इत्याग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमो ऽध्यायः ॥

Chapter 123

अथ त्रयोविंशत्यधिकशततमो ऽध्यायः ।

युद्धजयार्णवीयनानायोगाः ।
अग्निरुवाच ।
वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे । 1ab
अइउएओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥ 1cd
कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ । 2ab
शनिर्द्दक्षिणनाड्यान्तु भौमार्कशनयः परे ॥ 2cd
खार्णवः खससैर्गुण्यो रुद्रैर्भागं समाहरेत् । 3ab
रसाहतन्तु तत् कृत्वा पूर्वभागेन भाजयेत् ॥ 3cd
वह्निभिश्चाहतं कृत्वा 1 रूपन्तत्रैव निक्षिपेत् । 4ab
स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः ॥ 4cd
अनेनैव तु मानेन उदयन्ति दिने दिने । 5ab
स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् ॥ 5cd


1 वह्निभिश्च हृतं कृत्वा इति घ॰ ।
Image-P.42


षष्टिभिश्च पलैर्लिप्ता लिप्ताषष्टिस्त्वहर्निशं । 6ab
पञ्चमार्द्धोदये बालकुमारयुववृद्धकाः ॥ 6cd
मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः । 7ab
कुलागमे भवेद्भङ्गः समृत्युः पञ्चमो ऽपिवा ॥ 7cd
स्वरोदयञ्चक्रं ।
शनिचक्रे चार्द्धमासङ्ग्रहाणामुदयः क्रमात् । 8ab
विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः ॥ 8cd
शनिचक्रं ।
दशकोटिसहस्राणि अर्वुदान्यर्वुदं हरेत् 1 9ab
त्रयोदशे च लक्षाणि प्रमाणं कूर्म्मरूपिणः ॥ 9cd
मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ । 10ab
कूर्म्मचक्रं ।
राहुचक्रे च सप्तोर्द्धमधः सप्त च संलिखेत् 2 10cd
वाय्वग्न्योश्चैव नैरृत्ये पूर्णिमाग्नेयभागतः । 11ab
अभावास्यां वायवे च राहुर्वै तिथिरूपकः ॥ 11cd
रकारं दक्षभागे तु हकारं वायवे लिखेत् । 12ab
प्रतिपदादौ ककारादीन् सकारं नैरृते पुनः ॥ 12cd
राहोर्मुखे तु भङ्गः स्यादिति राहुरुदाहृतः । 13ab
विष्टिरग्नौ 3 पौर्णमास्यां कराणीन्द्रे तृतीयकं ॥ 13cd
घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा । 14ab
चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये ॥ 14cd


1 अर्वुदान्यर्वुदं क्रमादिति झ॰ ।
2 सप्तरसांल्लिखेदिति झ॰ ।
3 विष्टिर्वह्नौ इति ग॰ ।
Image-P.43


शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् । 15ab
रौद्रश्चैव तथा श्वेतो मैत्रः सारभटस्तथा ॥ 15cd
सावित्री विरोचनश्च जयदेवो ऽभिजित्तथा 1 16ab
रावणो विजयश्चैव नन्दी वरुण एव च ॥ 16cd
यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्त्तकाः । 17ab
रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् ॥ 17cd
मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् । 18ab
सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया ॥ 18cd
जयदेवे जयं कुर्य्याद् रावणे रणकर्म्म च 2 19ab
विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि ॥ 19cd
वरुणे च तड़ागादि नाशकर्म्म यमे चरेत् । 20ab
सौम्ये सौम्यादि कुर्व्वीत भवेल्लग्नमहर्द्दिवा ॥ 20cd
योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः । 21ab
राहुरिन्द्रात्समीरञ्च वायोर्द्दक्षं यमाच्छिवम् 3 21cd
शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् । 22ab
ततश्च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् ॥ 22cd
राहुचक्रं ।
चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका । 23ab
बला चातिबला क्षीरी मल्लिकाजातियूथिकाः ॥ 23cd
यथालाभं धारयेत्ताः श्वेतार्क्कश्च शतावरी । 24ab
गुडूची वागुरी दिव्या ओषध्यो धारिता जये ॥ 24cd


1 स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ॰ पुस्तके नास्ति ।
2 जीवकर्म चेति ख॰ ।
3 वायोर्याम्यं ततः शिवमिति घ॰ ।
Image-P.44


ओं नमो भैरवाय 1 खड्गपरशुहस्ताय ओं ह्रूं 2 विघ्नविनाशाय ओं ह्रूं 3 फट् ।
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये । 25ab
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥ 25cd
स्नानपानानि तैलानि योगधूलिमतः शृणु । 26ab
शुभगा मनःशिला तालं लाक्षारससमन्वितं ॥ 26cd
तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे । 27ab
विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च 4 रोचना ॥ 27cd
अजादुग्धेन संपिष्टं तिलकोवश्यकारकः । 28ab
प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं ॥ 28cd
तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं । 29ab
निशा मनःशिला तालं प्रियङ्गुसर्षपास्तथा ॥ 29cd
मोहनी हरिता क्रान्ता सहदेवी शिखा तथा । 30ab
मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे ॥ 30cd
सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः । 31ab
मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी ॥ 31cd
पुनर्नवासमायुक्तो लेपो ऽयं भास्करो वशे । 32ab
चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा 5 32cd
लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं । 33ab


इत्याग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमो ऽध्यायः ॥


1 ओं नमो भगवते भैरवायेति ख॰ , घ॰ च ।
2,3 ओं हूमिति ख॰ , ज॰ च ।
4 सहदेवा चेति ङ॰ ।
5 मञ्जिष्ठा तगरन्तथेति क॰ । मञ्जिष्ठा भल्लकं वचेति छ॰ ।
Image-P.45


Chapter 124

अथ चतुर्विंशत्यधिकशततमो ऽध्यायः ।

युद्धजयार्णवीयज्योतिःशास्त्रसारः ।
अग्निरुवाच ।
ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे । 1ab
विना मन्त्रोषधाद्यञ्च यथोमामीश्वरो ऽब्रवीत् 1 1cd
देव्युवाच ।
देवैर्जिता दानवाश्च 2 येनोपायेन तद्वद । 2ab
शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं ॥ 2cd
ईश्वर उवाच ।
मूलदेवेच्छया जाता शक्तिः पञ्चादशाक्षरा । 3ab
चराचरं ततो जातं यामाराध्याखिलार्थवित् 3 3cd
मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं । 4ab
ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥ 4cd
ऋग्यजुःसामाथर्वाख्यवेदमन्त्राः क्रमेण ते । 5ab
सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश्च रुद्रकः ॥ 5cd
ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः । 6ab
अइउएओ कलाश्च मूलं ब्रह्मेति कीर्त्तितं ॥ 6cd
काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते । 7ab
विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते ॥ 7cd
आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता । 8ab
ततो विन्दुर्म्महादेवि एकारेण व्यवस्थितः ॥ 8cd


1 ईश्वरो ऽवदत् इति घ॰ ।
2 दानवाद्या इति ज॰ ।
3 यामाराध्याखिलात्मविदिति ख॰ , ग॰ च ।
Image-P.46


जातो नाद उकारस्तु नदते हृदि संस्थितः । 9ab
अर्द्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः ॥ 9cd
अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः 1 10ab
अकार ऐश्वरे भूमिर्निवृत्तिश्च कला स्मृता ॥ 10cd
गन्धोनवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता । 11ab
इकारश्च प्रतिष्ठाख्यो रसो पालश्च पिङ्गला ॥ 11cd
क्रूरा शक्तिरीवीजः स्याद्धरवीजो ऽग्निरूपवान् । 12ab
विद्या समाना गान्धारी शक्तिश्च दहनी स्मृता ॥ 12cd
प्रशान्तिर्वार्युपस्पर्शो यश्चोदानश्चला क्रिया । 13ab
ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः ॥ 13cd
पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः । 14ab
शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः ॥ 14cd
एतन्मूलमतः सर्वं ज्ञायते सचराचरं । 15ab
विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः ॥ 15cd
उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि । 16ab
ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः ॥ 16cd
रत्ननाडीत्रयञ्चैव 2 स्थूलः सूक्ष्मः परो ऽपरः । 17ab
चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं ॥ 17cd
प्लाव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं । 18ab
अजरत्वं भवेद्देवि शिवत्वमुपगच्छति 3 18cd


1 भोगमोक्षप्रदः शुभ इति ज॰ ।
2 बहुनाडीत्रयञ्चैवेति क॰ , ङ॰ च ।
3 शिवत्वमधिगच्छतीति ज॰ ।
Image-P.47


अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्ये ऽथ देहके । 19ab
मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् ॥ 19cd
शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् । 20ab
रूपस्योर्द्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता ॥ 20cd
सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं । 21ab
नाभिमूले 1 स्थितं कन्दं शिवरूपन्तु मण्डितं ॥ 21cd
शक्तिव्यूहेन सोमो ऽर्क्को हरिस्तत्र व्यवस्थितः । 22ab
दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं ॥ 22cd
कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं । 23ab
तज्जीवं जीवलोकस्य 2 स्थावरस्य चरस्य च ॥ 23cd
तस्मिन्नष्टे 3 मृतं मन्ये मन्त्रपीठे ऽनिलात्मकं ॥ 24॥ 24ab


इत्याग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम चतुर्विंशत्यधिकशततमो ऽध्यायः ॥

Chapter 125

अथ पञ्चविंशत्यधिकशततमो ऽध्यायः ।

युद्धजयार्णवीयनानाचक्राणि ।
ईश्वर उवाच ।
ओं ह्रीं कर्णमोटनि बहुरूपे बहुदंष्ट्रे ह्रूं


1 नाडीमूले इति ख॰ ।
2 तत्र वीजं जीवनायेति ख॰ , छ॰ च । तत्र जीवं जीवलोक इति ङ ।
3 तस्मिन्नस्ते इति घ॰ ।
Image-P.48


फट् 1 ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक ह्रूं फट् 2 नमः ।
पठ्यमानो ह्ययं मन्त्रः क्रुद्धः संरक्तलोचनः । 1ab
मारणे पातने वापि मोहनोच्चाटने भवेत् ॥ 1cd
कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका । 2ab
नानाविद्या ।
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमाश्रितं ॥ 2cd
नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः । 3ab
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥ 3cd
करोति साधकः क्रुद्धो जपहोमपरायणः । 4ab
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे 3 4cd
कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं । 5ab
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥ 5cd
गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः । 6ab
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥ 6cd
चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा । 7ab
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥ 7cd
उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः । 8ab
सौम्या च भीषणी देवी जया च विजया तथा ॥ 8cd
अजिता चापराजिता महाकोटी च रौद्रया । 9ab
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥ 9cd


1,2 ओं हुं फडिति ख॰ ।
3 ज्वरदाहनिवारणे इति घ॰ ।
Image-P.49


विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः । 10ab
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥ 10cd
पिपीलिका पुष्टिहरा महापुष्टिप्रवर्द्धना । 11ab
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥ 11cd
स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा । 12ab
द्वात्रिंशन्मातरश्चक्रे अष्टाष्टक्रमशः स्थिताः ॥ 12cd
एक एव रविश्चन्द्र एकश्चैकैकशक्तिका । 13ab
भूतभेदेन तीर्थानि 1 यथा तोयं महीतले ॥ 13cd
प्राण एको मण्डलैश्च भिद्यते भूतपञ्जरे । 14ab
वामदक्षिणयोगेन दशधा सम्प्रवर्त्तते ॥ 14cd
विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं । 15ab
ब्रह्माण्डेन 2 कपालेन पिवेत परमामृतं ॥ 15cd
पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु । 16ab
अआकचटतपयाः श आद्यो वर्ग ईरितः ॥ 16cd
इईखछठथफराः षो वर्गश्च द्वितीयकः । 17ab
उऊगजडदबलाः सो वर्गश्च तृतीयकः ॥ 17cd
एऐघझढधभवा हो वर्गश्च चतुर्थकः । 18ab
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥ 18cd
वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च । 20ab
बालः कुमारो युवा स्याद्वृद्धो मृत्युश्च नामतः ॥ 20cd


1 भूतभेदेन भिन्नानि इति ङ॰ । तानि भेदेन भिन्नानि इति घ॰ ।
2 ब्रह्मदण्डे इति ङ॰ ।
Image-P.50


आत्मपीडा शोषकः स्यादुदासीनश्च कालकः । 20ab
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥ 20cd
षष्ठी भौमो मघा पीड़ा आर्द्रा चैकादशी कुजः । 21ab
मृत्युर्म्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥ 21cd
बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः । 22ab
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥ 22cd
जीवो ऽष्टमी 1 धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी । 23ab
मृत्यौ शुक्रश्चतुर्थी स्यात् पूर्व्वभाद्रपदा श्रिये ॥ 23cd
पूर्व्वाषाढ़ा च नवमी शुक्रः पीड़ाकरो भवेत् । 24ab
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥ 24cd
कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता । 25ab
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत् 2 25cd
मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः । 26ab
तिथियोगः ।
पूर्व्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः 3 26cd
ब्रह्माद्याः स्युर्दृष्टयः स्युः 4 प्रतिपन्नवमीमुखाः । 27ab
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥ 27cd
मेषाद्याश्चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः । 28ab
सूर्य्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥ 28cd


1 जीवे ऽष्टमीति ख॰ ।
2 भरणीत्यादिः, पीडाकरो भवेदित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
3 दक्षाग्न्यनिलचन्द्रमा इति घ॰ ।
4 ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख॰ ।
Image-P.51


रणे सूर्य्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति । 29ab
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥ 29cd
जयाय मनसे 1 शुक्रो मन्दे भङ्गो रणे भवेत् । 30ab
देयानि पिङ्गलाचक्रे सूर्य्यगानि च भानि हि ॥ 30cd
मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके । 31ab
पादे मृतिस्त्रिqक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम् ॥ 31cd
मुखस्थे च भवेत्पीडा शिरस्थे कार्य्यनाशनम् । 32ab
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥ 32cd
इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च । 33ab
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥ 33cd
रुद्राद्यमं यमाद्वायुं वायोश्चन्द्रं व्रजेत् पुनः । 34ab
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे ॥ 34cd
अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते । 35ab
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥ 35cd
पूर्व्वे कृष्णाष्टमीं यावत् राहुदृष्टौ भयो भवेत् । 36ab
ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः ॥ 36cd
मेषाद्या दिशि पूर्व्वादौ यत्रादित्यो ऽग्रतो मृतिः । 37ab
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥ 37cd
चतुर्द्दशी तथा शुक्ले चतुर्थ्येकादशी तिथिः । 38ab
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥ 38cd
अकचटतपयशा वर्गाः सूर्य्यादयो ग्रहाः । 39ab


1 मणये इति ख॰ , ङ॰ च ।
Image-P.52


गृध्रोलूकश्येनकाश्च पिङ्गलः कौशिकः क्रमात् ॥ 39cd
सारसश्च मयूरश्च गोरङ्कुः पक्षिणः स्मृताः । 40ab
आदौ साध्यो हुतो मन्त्र 1 उच्चाटे पल्लवः स्मृतः ॥ 40cd
वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः । 41ab
शान्तौ प्रीतौ नमस्कारो वौषट् पुष्टो वशादिषु ॥ 41cd
हुं मृत्यौ 2 प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् । 42ab
वषट् सुते च दीप्त्यादौ 3 मन्त्राणां जातयश्च षट् ॥ 42cd
ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः । 43ab
महाकाली तथाचण्डी वाराही चेश्वरी तथा ॥ 43cd
सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् । 44ab
बला चातिबला भीरुर्मुसली सहदेव्यपि ॥ 44cd
जाती च मल्लिका यूथी गारुड़ी भृङ्गराजकः । 45ab
चक्ररूपा महौषध्यो धारिता विजयादिदाः ॥ 45cd
ग्रहणे च महादेवि उद्धृताः शुभदायिकाः । 46ab
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥ 46cd
तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः । 47ab
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥ 47cd
वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः । 48ab
ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय 4 वौषट् ।


1 आदौ हुताशनो मन्त्र इति ख॰ ।
2 हुं मृतौ इति ख॰ ।
3 वषट् लाभे च दीप्त्यादाविति घ॰ , छ॰ च ।
4 त्रिशूलखट्वाङ्गधरायेति ख॰ , ग॰ , घ॰ , छ॰ च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज॰ ।
Image-P.53


पूजयेत् कर्द्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥ 48cd
अग्निकार्य्यं प्रवक्ष्यामि रणादौ जयवर्द्धनम् । 49ab
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥ 49cd
दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषम् । 50ab
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥ 50cd
ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं मारय सहसा नमो ऽस्तुते भगवति विद्ये स्वाहा ।
अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः 1 51ab
ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्द्ध्वकेश महाबल रक्तमुख 2 तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय जम्भय खन खन वैते ह्रूं फट् 3
अष्टत्रिंशच्छतन्देवि हनुमान् सर्व्वकुम्भकृत् ॥ 51cd
पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥ 52॥ 52ab


इत्याग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमो ऽध्यायः ॥


1 दग्धत्वं जायते क्षणात् इति घ॰ , ज॰ च ।
2 वज्रमुख इति घ॰ ।
3 हुं फड़िति ख॰ ।
Image-P.54


Chapter 126

अथ षड्विंशत्यधिकशततमो ऽध्यायः ।

नक्षत्रनिर्णयः ।
ईश्वर उवाच ।
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये । 1ab
यस्मिन्नृक्षे भवेत् सूर्य्यस्तदादौ त्रीणि मूर्द्धनि 1 1cd
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं । 2ab
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥ 2cd
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः । 3ab
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥ 3cd
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः 2 पदे । 4ab
कुम्भाष्टके भानि लिख्य 3 सूर्य्यकुम्भस्तु रिक्तकः ॥ 4cd
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्व्वादिसंस्थितः । 5ab
फणिराहुं 4 प्रवक्ष्यामि जयाजयविवेकदं ॥ 5cd
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभिस्त्रिभिः । 6ab
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥ 6cd
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्द्धनि 5 7ab
तदादि विन्यसेद् भानि सप्तविंशक्रमेण तु ॥ 7cd
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे । 8ab


1 त्रीणि मस्तके इति ज॰ ।
2 गतायुरध्वगः पदे इति ख॰ ।
3 भानि लिखेदिति घ॰ , ज॰ च ।
4 कालराहुमिति ङ॰ ।
5 कालमूर्द्धनीति ङ॰ , ज, च ।
Image-P.55


स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥ 8cd
उदरस्थेन 1 पूजा च जयश्चैवात्मनस्तथा । 9ab
कटिदेशे स्थिते योधे आहवे हरते परान् ॥ 9cd
पुच्छस्थितेन कीर्त्तिः स्याद्राहुदृष्टे च भे मृतिः । 10ab
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥ 10cd
रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा 2 11ab
लोहितः संहिकश्चैव एते यामार्द्धभागिनः ॥ 11cd
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः । 12ab
स जयेत् सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥ 12cd
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि । 13ab
अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥ 13cd
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव 3 योजयेत् । 14ab
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥ 14cd
सर्वकार्य्येषु चैतानि ज्येष्ठा चित्रा विशाखया । 15ab
पुर्व्वास्तिस्रो ऽग्निर्भरणी मघार्द्राश्लेषादारुणाः ॥ 15cd
स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं । 16ab
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥ 16cd
दारुणे दारुणं कुर्य्याद्वक्ष्ये चाधोमुखादिकं । 17ab
कृत्रिका भरण्यश्लेषा विशाखा पितृनैरृतम् ॥ 17cd


1 उदरस्थे चेति ख॰ ।
2 कटिदेश इत्यादिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ॰ पुस्तके नास्ति ।
3 यात्राध्वनि चेति ख॰ , घ॰ च ।
Image-P.56


पूर्व्वात्रयमधोवक्त्रं कर्म्म चाधोमुखञ्चरेत् 1 18ab
एषु कूपतड़ागादि विद्याकर्म्म भिषक्क्रिया ॥ 18cd
स्थापनन्नौकाभूपादिविधानं 2 खननन्तथा । 19ab
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥ 19cd
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः । 20ab
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥ 20cd
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं । 21ab
ध्वजचिह्नपताकाश्च 3 सर्व्वानेतांश्च कारयेत् ॥ 21cd
द्वादशी सूर्य्यदग्धा तु चन्द्रेणैकदशी तथा । 22ab
भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥ 22cd
षष्ठी च गुरुणा दग्धा द्वितीया भृगुणा तथा । 23ab
सप्तमी सूर्य्यपुत्रेण त्रिपुष्करमथो वदे ॥ 23cd
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया 4 24ab
रविर्भौमस्तथा 5 शौरिः षडेतास्तु त्रिपुष्कराः 6 24cd
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्व्वसुः । 25ab
पूर्व्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥ 25cd
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च । 26ab
नष्टं भ्रष्टं विनष्टं वा तत्सर्व्वन्त्रिगुणं 7 भवेत् ॥ 26cd


1 चाधोमुखं भवेदिति ख॰ ।
2 नौकाद्यूतादिविधानमिति ग॰ , घ॰ , ङ॰ च ।
3 वज्रचिह्नपताकाश्चेति झ॰ ।
4 तृतीयकेति ङ॰ , ज॰ च ।
5 गुरुर्भौमस्तथेति क॰ , ग॰ , घ॰ , ङ॰ च ।
6 षडेतास्त्रिषु पुष्करा इति क॰ , ख॰ , ङ॰ , छ॰ च ।
7 तत्सर्वं द्विगुणमिति ख॰ , छ॰ च ।
Image-P.57


अश्विनी भरणी चैव अश्लेषा पुष्यमेव च । 27ab
खातिश्चैव विशाखा च श्रवणं सप्तमं पुनः ॥ 27cd
एतानि दृढ़चक्षूंषि पश्यनति च दिशो दश । 28ab
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥ 28cd
आषाढे रेवती चित्रा केकराणि पुनर्व्वसुः । 29ab
एषु पञ्चसु ऋक्षेषु 1 निर्गतस्यागमो भवेत् ॥ 29cd
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा । 30ab
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥ 30cd
पूर्व्वभाद्रपदा चैव चिपिटानि च तानि हि 2 31ab
अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥ 31cd
हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च । 32ab
नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥ 32cd
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् । 33ab
रेवत्यन्ते चतुर्नाडी 3 अश्विन्यादिचतुष्टयम् ॥ 33cd
उभयोर्याममात्रन्तु वर्जयेत्तत् प्रयत्नतः । 34ab
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥ 34cd
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु । 35ab
ज्येष्ठाभमूलयोर्म्मध्ये उग्ररूपन्तु यामकम् ॥ 35cd


1 केकरेषु च ऋक्षेषु इति छ॰ ।
2 चिपिटानि च भानि हि इति क॰ , छ॰ च ।
3 रेवत्यन्ते चतुष्कन्तु इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.58


न कुर्य्याच्छुभकर्म्माणि यदीच्छेदात्मजीवितम् । 36ab
दारके जातकाले च 1 म्रियेते पितृमातरो ॥ 36cd


इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमो ऽध्यायः ॥

Chapter 127

अथ सप्तविंशत्यधिकशततमो ऽध्यायः ।

नानाबलानि ।
ईश्वर उवाच 2
विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत् 3 1ab
षट् षट् 4 गण्डे ऽनिगण्डे च नव व्याद्यातवज्रयोः ॥ 1cd
परिघे च व्यतीपाते उभयोरपि तद्दिनम् । 2ab
वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् ॥ 2cd
ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः 5 3ab
चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥ 3cd


1 जातके चापीति ख॰ ।
2 अग्निरुवाचेति छ॰ ।
3 पञ्च च वर्जयेदिति ख॰ , ग॰ , घ॰ , ङ॰ च ।
4 षट् च गण्डे ऽतिगण्डे चेति ख॰ , घ॰ , छ॰ च । सप्त गण्डेतिगण्डे चेति ग॰ , ङ॰ च ।
5 मेषादिराशिभिरिति ज॰ ।
Image-P.59


द्वितीयो मङ्गलो ऽथार्क्कः सौरिश्चैव तु सैंहिकः । 4ab
द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् ॥ 4cd
सोमो बुधो भृगुर्जीवो द्वितीयस्थाः शुभावहाः । 5ab
तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस्तथा ॥ 5cd
बुधश्चैवेन्दू राहुश्च सर्वे ते फलदा ग्रहाः । 6ab
बुधशुक्रौ चतुर्थौ तु शेषाश्चैव भयावहाः ॥ 6cd
पञ्चमस्थो यदा जीवः शुक्रः सौम्यश्च चन्द्रमाः । 7ab
ददेत 1 चेप्सितं लाभं षष्ठे स्थाने शुभो रविः ॥ 7cd
चन्द्रः सौरिर्म्मङ्गलश्च ग्रहा देवि स्वराशितः । 8ab
बुधश्च शुभदः षष्ठे त्यजेत् षष्ठं गुरुं भृगुं ॥ 8cd
सप्तमो ऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च । 9ab
जीवो भृगुश्च सौम्यश्च ज्ञशुक्रो चाष्टमौ शुभौ ॥ 9cd
शेषा ग्रहास्तथा हान्यै ज्ञभृगू नवमौ शुभौ । 10ab
शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ ॥ 10cd
शनिर्भौमश्च राहुश्च चन्द्रः सौम्यः शुभावहः । 11ab
शुभाश्चैकादशे सर्व्वे वर्जयेद्दशमे 2 गुरुम् ॥ 11cd
बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् । 12ab
अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् ॥ 12cd
मीनो मेषो ऽथ मिथुनञ्चतस्रो नाडयो वृषः । 13ab
षट् कर्कसिंहकन्याश्च तुला पञ्च च वृश्चिकः ॥ 13cd
धनुर्नक्रो घटश्चैव सूर्य्यगो राशिराद्यकः । 14ab


1 ददातीति ख॰ ।
2 वर्जयेद्दशममिति ख॰ , ग॰ , घ॰ , ङ॰ च ।
Image-P.60


चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् ॥ 14cd
कुलीरो मकरश्चैव तुलामेषादयश्चराः । 15ab
चरकार्य्यं जयं काममाचरेच्च शुभशुभम् ॥ 15cd
स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्य्यके । 16ab
शीघ्रः समागमो नास्ति रोगार्त्तो नैव मुच्यते ॥ 16cd
मिथुनं कन्यका मीनी धनुश्च द्विःस्वभावकः । 17ab
द्विःस्वभावाः शुभाश्चैते सर्वकार्य्येषु नित्यशः ॥ 17cd
यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने । 18ab
वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् ॥ 18cd
अश्विनी विंशताराश्च तुरगस्याकृतिर्यथा । 19ab
यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति ॥ 19cd
यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥ 20॥ 20ab


इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमो ऽध्यायः ॥

Chapter 128

अथ अष्टाविंशत्यधिकशततमो ऽध्यायः ।

कोटचक्रम् ।
ईअवर उवाच ।
कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् । 1ab
चतुरस्रं पुनर्म्मध्ये तन्मध्ये चतुरस्रकम् ॥ 1cd
Image-P.61


नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः । 2ab
कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे ॥ 2cd
भरणी दक्षिणे देया विशाखां नैरृते न्यसेत् । 3ab
अनुराधां पश्चिमे च श्रवणं वायुगोचरे ॥ 3cd
धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा । 4ab
वाह्यनाड्यां स्थितान्येव अष्टौ ह्यृक्षाणि यत्नतः ॥ 4cd
रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु । 5ab
अभिजिच्छततारा तु अश्विनी मध्यनाडिका ॥ 5cd
कोटमध्ये तु या नाड़ी कथयामि प्रयत्नतः । 6ab
मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः ॥ 6cd
उत्तराफल्गुनी याम्ये चित्रा नैरृतसंस्थिता । 7ab
मूलन्तु पश्चिमे न्यस्योत्तराषाढ़ान्तु वायवे ॥ 7cd
पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे । 8ab
कोटस्याभ्यन्तरे नाडी ह्यृक्षाष्टकसमन्विता ॥ 8cd
आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् । 9ab
मध्ये स्तम्भचतुष्कन्तु दद्यात् कोटस्य कोटरे ॥ 9cd
एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् । 10ab
आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः ॥ 10cd
कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः । 11ab
जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः ॥ 11cd
प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् । 12ab
भृगुः सौम्यस्तथा भौम ऋक्षान्तं सकलं यदा ॥ 12cd
तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च । 13ab
Image-P.62


प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद् यदा ॥ 13cd
तदा सिद्ध्यति तद्दुर्गं न कुर्य्यात्तत्र विस्मयम् ॥ 14॥ 14ab


इत्याग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं नामाष्टाविंशत्यधिकशततमो ऽध्यायः ॥

Chapter 129

अथोनत्रिंशदधिकशततमो ऽध्यायः ।

अर्घकाण्डम् ।
ईश्वर उवाच ।
अर्घमानं प्रवक्ष्यामि उल्कापातो ऽथभूश्चला । 1ab
निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा ॥ 1cd
लक्षयेन्मासि मास्येवं यद्येते स्युश्च चैत्रके । 2ab
अलङ्कारादि सङ्गृह्य षड्भिर्म्मासैश्चतुर्गुणम् ॥ 2cd
वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं । 3ab
ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः ॥ 3cd
श्रावणे घृततैलाद्यैराश्विने वस्त्रधान्यकैः । 4ab
कार्त्तिके धान्यकैः क्रीतैर्म्मासे स्यान्मार्गशीर्षके ॥ 4cd
पुष्ये कुङ्कुमगन्धाद्यैर्ल्लाभो धान्यैश्च माघके । 5ab
गन्धाद्यैः फाल्गुने क्रीतैरर्घकाण्डमुदाहृतम् ॥ 5cd


इत्याग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमो ऽध्यायः ॥
Image-P.63


Chapter 130

अथ त्रिंशदधिकशततमो ऽध्यायः ।

घातचक्रं ।
ईश्वर उवाच ।
मण्डलानि प्रवक्ष्यामि चतुर्द्धाविजयाय हि । 1ab
कृत्तिका च मघा पुष्पं पूर्व्वा चैव तु फल्गुनी ॥ 1cd
विशाखा भरणी चैव पूर्वभाद्रपदा तथा । 2ab
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥ 2cd
यद्यत्र चलते वायुर्व्वेष्टनं शशिसूर्य्ययोः । 3ab
भूमिकम्पो ऽथ निर्घातो ग्रहणं चन्द्रसूर्य्ययोः ॥ 3cd
धूमज्वाला दिशां दाहः केतोश्चैव प्रदर्शनं । 4ab
रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा ॥ 4cd
नेत्ररोगो ऽतिसारश्च अग्निश्च प्रबलो भवेत् । 5ab
स्वल्पक्षीरास्तथा गावः स्वल्पपुष्पफला द्रुमाः ॥ 5cd
विनाशश्चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् । 6ab
चातुर्व्वर्णाः प्रपीड्यन्ते क्षुधार्त्ता अखिला नराः ॥ 6cd
सैन्धवा यामुनाश्चैव गुर्ज्जका भोजवाह्णिकाः । 7ab
जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् ॥ 7cd
देशाश्चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने । 8ab
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥ 8cd
उत्तराफल्गुनी चैव अश्विनी च तथैव च । 9ab
Image-P.64


यदात्र भवते 1 किञ्चिद्वायव्यन्तं विनिर्द्दिशेत् ॥ 9cd
नष्टधर्म्माः प्रजाः सर्व्वा हाहाभूता विचेतसः । 10ab
डाहलः कामरूपञ्च कलिङ्गः कोशलस्तथा ॥ 10cd
अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः । 11ab
अश्लेषा चैव मूलन्तु पूर्व्वाषाढा तथैव च ॥ 11cd
रेवती वारुणं ह्यृक्षन्तथा भाद्रपदोत्तरा । 12ab
यदात्र चलते 2 किञ्चिद्वारुणं तं विनिर्द्दिशेत् ॥ 12cd
बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः । 13ab
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥ 13cd
धान्यानि च समर्घानि सुभिक्षं पार्थिव भवेत् । 14ab
परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् ॥ 14cd
ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् । 15ab
धनिष्ठा चोत्तराषाढा अभिजित् सप्तमन्तथा ॥ 15cd
यदात्र चलते 3 किञ्चिन् माहेन्द्रं तं विनिर्दिशेत् । 16ab
प्रजाः समुदितास्तस्मिन् सर्व्वरोगविवर्ज्जिताः ॥ 16cd
सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् । 17ab
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥ 17cd
चन्द्रो राहुस्तथादित्य एकराशौ यदि स्थितः 4 18ab
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥ 18cd


1 यद्यत्र भवते इति ज॰ ।
2,3 यदात्र लभते इति छ॰ ।
4 यथा स्थित इति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ च । यदा स्थित इति ज॰ , ञ॰ च ।
Image-P.65


भानोः पञ्चदशे ह्यृक्षे यदा चरति चन्द्रमाः । 19ab
तिथिच्छेदे 1 तु सम्प्राप्ते सोमग्रामं विनिर्द्दिशेत् ॥ 19cd


इत्याग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 131

अथैकत्रिंशदधिकशततमो ऽध्यायः ।

घातचक्रादिः ।
ईश्वर उवाच ।
प्रदक्षिणमकारादीन् स्वरान् पूर्व्वादितो लिखेत् । 1ab
चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत् पूर्णिमा तिथिः ॥ 1cd
त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी । 2ab
प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः ॥ 2cd
चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः । 3ab
चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् ॥ 3cd
युद्धकाले समुत्पत्रे यस्य नम ह्युदाहृतम् । 4ab
मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च ॥ 4cd


1 तिथिभेदे इति झ॰ ।
Image-P.66


जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे । 5ab
ह्रस्वनाम यदा योधो म्रियते ह्यनिवारितः 1 5cd
प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः । 6ab
द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः ॥ 6cd
पुनश्चान्ते यदा चादौ 2 स्वरारूढन्तु दृश्यते । 7ab
ह्रस्वस्य मरणं विद्याद् दीर्घस्यैव जयो भवेत् ॥ 7cd
नरचक्रं प्रवक्ष्यामि ह्यृक्षपिण्डात्मकं यथा । 8ab
प्रतिमामालिखेत् पूर्वं पश्चादृक्षाणि विन्यसेत् ॥ 8cd
शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् । 9ab
वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः ॥ 9cd
हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः । 10ab
नाम ह्यृक्षं स्फुटं कृत्वा चक्रमध्ये तु विन्यसेत् ॥ 10cd
नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः । 11ab
हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः ॥ 11cd
यस्मिन्नृक्षे स्थितः सूर्य्यः सौरिर्भौमस्तु सैंहिकः । 12ab
तस्मिन् स्थाने स्थिते विद्याद् घातमेव न संशयः ॥ 12cd
जयचक्रं प्रवक्ष्यामि आदिहान्तांश्च वै लिखेत् । 13ab
रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् ॥ 13cd
दिग् ग्रहा मुनयः सूर्य्या ऋत्विग्रुद्रस्तिथिः क्रमात् । 14ab
मूर्च्छनास्मृतिवेदर्क्षजिना 3 अकडमा ह्यधः ॥ 14cd


1 म्रियते ह्यविचारित इति ख॰ । म्रियते ह्यविचारत इति ग॰ , घ॰ , ङ॰ च ।
2 यथा चादौ इति क॰ , ग॰ , घ॰ , ङ॰ च ।
3 मूर्च्छनास्मृतिवेदाङ्गजिना इति ञ॰ ।
Image-P.67


आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः । 15ab
आदित्यसौरिभौमाख्या जये सौम्याश्च सन्धये ॥ 15cd
रेखा द्वादश चोद्धृत्य षट् च याम्यास्तथोत्तराः । 16ab
मनुश्चैव तु 1 ऋक्षाणि नेत्रे च रविमण्डलं ॥ 16cd
तिथयश्च रसा वेदा अग्निः सप्तदशाथवा । 17ab
वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् ॥ 17cd
एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान् न्यसेत् । 18ab
नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः ॥ 18cd
वायसान्मण्डलो ऽत्यग्रो मण्डलाद्रासभो वरः । 19ab
रासभाद्वृषभः श्रेष्ठा वृषभात् कुञ्जरो वरः ॥ 19cd
कुञ्जराच्च पुनः सिंहः सिंहाश्चैव खरुर्वरः । 20ab
खरोश्चैव बली धूम्रः एवमादि बलाबलं ॥ 20cd


इत्याग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 132

अथ द्वात्रिंशदधिकशततमो ऽध्यायः ।

सेवाचक्रं ।
ईश्वर उवाच ।
सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं 2 1ab
पिता माता तथा भ्राता दम्पती च विशेषतः ॥ 1cd


1 मन्त्रश्चैव तु इति ख॰ , घ॰ , ज॰ , ञ॰ च ।
2 लाभालाभार्थसूचकमिति झ॰ , ञ॰ च ।
Image-P.68


तस्मिंश्चक्रे तु विज्ञेयं यो यस्माल्लभते फलं । 2ab
षडूर्द्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्टौ तु तिर्य्यगाः ॥ 2cd
कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् । 3ab
स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात् समालिखेत् ॥ 3cd
ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्ज्जयेत् । 4ab
सिद्धः साध्यः सुसिद्धश्च अरिर्मृत्युश्च नामतः ॥ 4cd
अरिर्मृत्युaश्च द्वावेतौ वर्जयेत् सर्वकर्म्मसु । 5ab
एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः ॥ 5cd
आत्मपक्षे 1 स्थिताः सत्त्वाः सर्वे ते शुभदायकाः । 6ab
द्वितीयः पोषकाश्चैव तृतीयश्चार्थदायकः ॥ 6cd
आत्मनाशश्चतुर्थस्तु 2 पञ्चमो मृत्युदायकः । 7ab
स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः ॥ 7cd
सिद्धः साध्यः सुसिद्धश्च सर्वे ते फलदायकाः । 8ab
अरिर्भृत्यश्च द्वावेतौ वर्जयेत् सर्वकर्म्मसु 3 8cd
अकारान्तं यथा प्रोक्तं अइउएओ विदुस्तथा । 9ab
पुनश्चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान् ॥ 9cd
देवा अकारवर्गे तु दैत्याः कवर्गमाश्रिताः । 10ab
नागाश्चैव चवर्गाः स्युर्गन्धर्वाश्च टवर्गजाः ॥ 10cd


1 स्वार्थपक्षे इति ख॰ , घ॰ , ज॰ , ञ॰ च । स्वात्मपक्षे इति झ॰ ।
2 स्वार्थनाशश्चतुर्थस्तु इति ख॰ , घ॰ , ङ॰ , ज॰ , ञ॰ च ।
3 अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्यन्तः पाठः छ॰ पुस्तके नास्ति ।
Image-P.69


तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः । 11ab
पिशाचाश्च यवर्गे च शवर्गे मानुषाः स्मृताः ॥ 11cd
देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास्तथा 1 12ab
पन्नगेभ्यश्च गन्धर्वा गन्धर्वादृषयो वराः ॥ 12cd
ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः । 13ab
पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली ॥ 13cd
पुनर्म्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु । 14ab
नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः ॥ 14cd
ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् । 15ab
जन्म सम्पद्विपत् क्षेमं नामर्क्षात्तारका इमाः ॥ 15cd
प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे । 16ab
परमैत्रान्तिमा तारा जन्मतारा त्वशोभना ॥ 16cd
सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला । 17ab
क्षेमतारा सर्व्वकार्य्ये प्रत्परा अर्थनाशिनी 2 17cd
धनदा राज्यलाभादि नैधना कार्य्यनाशिनी । 18ab
मैत्रतारा च मित्राय परमित्रा हितावहा 3 18cd
ताराचक्रं।
मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत् प्रिये । 19ab
विंशत्या च हरेद्भागं यच्छेषं तत् फलं भवेत् ॥ 19cd
उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्यृणं । 20ab
हीनमात्रा ह्यृणं ज्ञेयन्धनं मात्राधिकं पुनः ॥ 20cd


1 पन्नगास्तत इति क॰ , ग॰ , घ॰ , ङ॰ , ञ॰ च । पन्नगाः स्मृता इति झ॰ ।
2 प्रत्यरा चात्मनाशिनी इति छ॰ ।
3 हिताय चेति ङ॰ ।
Image-P.70


धनेन मित्रता नॄणां ऋणेनैव ह्युदासता । 21ab
सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं ॥ 21cd
मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः । 22ab
तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः ॥ 22cd
मित्रसेवां न कुर्व्वीत मित्रौ मीनवृषौ मतौ । 23ab
वृषकर्कटयोर्मैत्री कुलीरघटयोस्तथा ॥ 23cd
कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः । 24ab
मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता ॥ 24cd
तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ । 25ab
मिथुनधनुषोः प्रीतिः कर्कटमकरयोस्तथा ॥ 25cd
मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥ 26॥ 26ab


इत्याग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 133

अथ त्रयस्त्रिंशदधिकशततमो ऽध्यायः ।

नानाबलानि ।
ईश्वर उवाच ।
गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं । 1ab
नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः ॥ 1cd
Image-P.71


रक्ताक्षो गुणवान् शूरो गृहे सूर्य्यस्य जायते । 2ab
सौभाग्यो मृदुसारश्च जातश्चन्द्रगृहोदये ॥ 2cd
वाताधिको ऽतिलुब्धादिर्जातो भूमिभुवो गृहे । 3ab
बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये ॥ 3cd
वृहत्क्रोधश्च शुभगो जातो गुरुगृहे नरः । 4ab
त्यागी भोगी च सुभगो जातो भृगुगृहोदये ॥ 4cd
बुद्धिमाञ्छुभगो मानी जातश्चार्किगृहे नरः । 5ab
सौम्यलग्ने तु सौम्यः स्यात् क्रूरः स्यात् क्रूरलग्नके ॥ 5cd
दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं । 6ab
गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत् ॥ 6cd
पुनर्धनागमश्चापि दशायां भास्करस्य तु । 7ab
दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे ॥ 7cd
भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ । 8ab
खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः ॥ 8cd
स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने । 9ab
वामनाडीप्रवाहे स्यान्नाम चेद्विषमाक्षरं ॥ 9cd
तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः । 10ab
दक्षनाडीप्रवाहेर्के वाणिज्ये चैव निष्फला ॥ 10cd
सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं । 11ab
अधश्चारे जयं विद्यादूर्द्ध्वचारे रणे मृतिं ॥ 11cd
ओं हूं ओं ह्रूं ओं स्फें अस्त्रं मोटय 1 ओं चूर्णय 2 ओं सर्व्वशत्रुं मर्द्दय 2 ओं ह्रूं ओं ह्रः फट् ।


1 मोचयेति ख॰ , छ॰ च ।
Image-P.72


सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैरवं । 12ab
चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं ॥ 12cd
शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं । 13ab
भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं ॥ 13cd
सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् । 14ab
जपाड्डमरुकाच्छब्दाच्छस्त्रं त्यक्त्वा पलायते ॥ 14cd
परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे । 15ab
श्मशानाङ्गारमादाय विष्ठाञ्चोलूककाकयोः ॥ 15cd
कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा । 16ab
नामाथ नवधा लिख्य रिपोश्चैव यथाक्रमं ॥ 16cd
मूर्द्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः । 17ab
पृष्ठे तु बाहुमध्ये तु 1 नाम वै नवधा लिखेत् ॥ 17cd
मोटयेद्युद्धकाले तु 2 उच्चरित्वा तु विद्यय । 18ab
तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं 3 18cd
क्षिप ओं स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् । 19ab
दुष्टभूतग्रहार्त्तस्य व्याधितस्यातुरस्य च ॥ 19cd
करोति यादृशङ्कर्म्म तादृशं सिद्ध्यते खगात् । 20ab
स्थावरं जङ्गमञ्चैव लूताश्च कृत्रिमं विषं ॥ 20cd
तत्सर्वं नाशमायाति 4 साधकस्यावलोकनात् । 21ab


1 बाहुमूले तु इति ग॰ ।
2 मोचयेद्युद्धकाले तु इति ज॰ , झ॰ च ।
3 जयार्थं भूमुखाक्षरमिति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
4 नाशमाप्नोतीति ज॰ ।
Image-P.73


पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं ॥ 21cd
द्विभुजं वक्रचञ्चुं च 1 गजकूर्म्मधरं प्रभुं । 22ab
असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः ॥ 22cd
ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् । 23ab
चञ्च्वाहताश्च द्रष्टव्याः केचित्पादैश्च चूर्णिताः ॥ 23cd
पक्षपातैश्चूर्णिताश्च केचिन्नष्टा दिशो दश । 24ab
तार्क्ष्यध्यानान्वितो यश्च त्रिलोक्ये ह्यजयो भवेत् 2 24cd
पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां । 25ab
ओं ह्रूं पक्षिन् क्षिप ओं हूं सः महाबलपराक्रम सर्वसैन्यं भक्षय 2 ओं मर्दय 2 ओं चूर्णय 2 ओं विद्रावय 2 ओं हूं खः ओं भैरवो ज्ञापयति स्वाहा ।
अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां ॥ 25cd
मन्त्रयेद् भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः । 26ab
ध्यानाद्रवान् मर्द्दयेच्च सिंहारूढ़ो मृगाविकान् ॥ 26cd
शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण 3 बोधयेत् । 27ab
मातॄणां चरुकं दद्यात् कालरात्र्या विशेषतः ॥ 27cd
श्मशानभस्मसंयुक्तं मालती चामरी तथा 4 28ab
कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत् ॥ 28cd
ओं अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ओं जहि मसानंहि खाहि खाहि किलि किलि किलि ओं हुं फट् ।


1 वज्रचञ्चुं चेति ग॰ , घ॰ , ङ॰ , ञ॰ च ।
2 अभयो भवेदिति ग॰ , घ॰ , ङ॰ च ।
3 हरमन्त्रेणेति क॰ । मूलमन्त्रेणेति ख॰ , घ॰ , ज॰ , ञ॰ च ।
4 मालती वानरी तथेति छ॰ , ञ॰ च ।
Image-P.74


अरेर्न्नाशं दूरशब्दाज्जप्तया भङ्गविद्यया । 29ab
अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि ॥ 29cd
ओं किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे अलम्बुषे हर ओं सर्वदुष्टान् खन ओं यन्मान्निरीक्षयेद्देवि तांस्तान् मोहय ओं रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन आत्मरक्षान्ततः कुरु स्वाहा ।
वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः । 30ab
नागपत्रे 1 लिखेद्विद्यां सर्वकामार्थसाधनीं ॥ 30cd
हस्ताद्यैर्द्धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः । 31ab
गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः ॥ 31cd
रक्षया नारसिंह्या च भैरव्या शक्तिरूपया । 32ab
सर्वे त्रैलोक्यमोहिन्या गौर्य्या देवासुरे रणे ॥ 32cd
वीजसम्पुटितं नाम कर्णिकायां दलेषु च । 33ab
पूजाक्रमेण चाङ्गानि रक्षायन्त्रं 2 स्मृतं शुभे ॥ 33cd
मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग । 34ab
कलाभिर्वेष्टितं पश्चात् सकारेण निबोधितं ॥ 34cd
जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं । 35ab
धकारोदरमध्यस्थं वकारेण निबोधितं 3 35cd


1 नागयन्त्रे इति घ॰ , ञ॰ च ।
2 रक्षामन्त्रमिति ख॰ , ग॰ , ङ॰ , ज॰ च ।
3 ककारोदरमध्यस्थं चकारेणेति ख॰ । चकारोदरमध्यस्थं चकारेणेति ग॰ , झ॰ च । वकारोदरमध्यस्थं ठकारेणेति ङ॰ , छ॰ च ।
Image-P.75


चन्द्रसम्पुटमध्यस्थं सर्व्वदुष्टविमर्दकम् 1 36ab
अथवा कर्णिकायाञ्च लिखेन्नाम च कारणम् ॥ 36cd
पूर्व्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् । 37ab
आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान् ॥ 37cd
चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् । 38ab
लिखेद्वैभूर्ज्जपत्रे तु रोचनाकुङ्ग्कुमेन च ॥ 38cd
कर्पूरचन्दनाभ्याञ्च श्वेतसूत्रेण वेष्टयेत् । 39ab
सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत् ॥ 39cd
यन्त्रस्य 2 धारणाद्रोगाः शाम्यन्ति रिपवो मृतिः । 40ab
विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं 3 40cd
ओं वातले वितले विड़ालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर्मुहूर्तान्वया अह मां यस्महं उपाडि ओं भेलखि ओं स्वाहा ।
नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् । 41ab
ओं चण्डि ओं हूं फट् स्वाहा ।
गृहीत्वा सप्तजप्तं तु खद्गयुद्धे ऽपराजितः ॥ 41cd


इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम त्रयस्त्रिंशदधिकशततमो ऽध्यायः ॥


1 सर्वदुःखविमर्दकमिति झ॰ ।
2 मन्त्रस्येति क॰ , ख॰ , ग॰ , छ॰ च ।
3 रिपुरोगमृतेर्हरीमिति ग॰ , घ॰ , ङ॰ , ज॰ , झ॰ , ञ॰ च ।
Image-P.76


Chapter 134

अथ चतुस्त्रिंशदधिकशततमो ऽध्यायः ।

त्रैलोक्यविजयविद्या ।
ईश्वर उवाच ।
त्रैलोक्यविजयां वक्ष्ये सर्व्वयन्त्रविमर्द्दनीं 1 1ab
ओं हूं क्षूं ह्रूं ओं नमो भगवति दंष्ट्रिणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ओं विद्युज्जिह्वे कुलु ओं निर्म्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय ओं महारौद्रि सार्द्रचर्म्मकृताच्छदे 2 विजृम्भ ओं नृत्य असिलताधारिणि भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे कह 2 ओं हस 2 क्रुद्ध 2 ओं नीलजीमूतवर्णे अभ्रमालाकृताभरणे विस्फुर ओं घण्टारवावकीर्णदेहे ओं सिंसिस्थे अरुणवर्णे ओं ह्रां ह्रीं ह्रूं रौद्ररूपे हूं ह्रीं क्लीं ओं ह्रीं हूं ओं आकर्ष ओं धून 2 ओं हे हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल 2 ओं भीमभीषणे भिन्द ओं महाकाये च्छिन्द ओं करालिनि किटि 2 महाभूतमातः सर्व्वदुष्टनिवारिणि जये ओं विजये ओं त्रैलोक्यविजये हूं फट् स्वाहा ।


1 सर्वमन्त्रविमर्दनीमिति ख॰ ।
2 सार्द्रचर्मकृताम्बरे इति झ॰ ।
Image-P.77


नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ॥ 1cd
न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् । 2ab
सङ्ग्रामे सैन्यभङ्गः स्यात् त्रैलोक्यत्रिजयापाठात् ॥ 2cd
ओं बहुरूपाय स्तम्भय स्तम्भय ओं मोहय ओं सर्व्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय विष्णुमाकर्षय ओं माहेश्वरमाकर्षय ओं इन्द्रं टालय ओं पर्वतान् चालय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः ।
भुजङ्गन्नाममृन्मूर्त्तिसंस्थं विद्यादरिन्ततः ॥ 3॥ 3ab


इत्याग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुस्त्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 135

अथ पञ्चत्रिंशदधिकशततमो ऽध्यायः ।

सङ्ग्रामविजयविद्या ।
ईश्वर उवाच ।
सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहं । 1ab
ओं ह्रीं चामुण्डे श्मशानवासिनि खट्वाङ्गकपालहस्ते 1


1 खड्गकपालहस्ते इति झ॰ ।
Image-P.78


महप्रेतसमारूढे महाविमानसमाकुले कालरात्रि महागणपरिवृते महामुखे बहुभुजे घण्टाडमरुकिङ्कणीaट्टाट्टहासे किलि किलि ओं हूं फट् दंष्ट्राघोरान्धकारिणि नादशब्दबहुले गजचर्म्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीuमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे चल चल ओं चकोरनेत्रे चिलि चिलि ओं ललज्जिह्वे ओं भीं भ्रुकुटीमुखि हुङ्कारभयत्रासनिकपालमालावेष्टितजटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलि किलि ओं ह्रूं दंष्ट्राघोरान्धकारिणि सर्व्वविघ्नविनाशिनि इदं कर्म्म साधय 2 ओं शीघ्रं कुरु 2 ओं फट् ओं अङ्कुशेन शमय प्रवेशय ओं रङ्ग रङ्ग कम्पय 2 ओं चालय ओं रुधिरमांसमद्यप्रिये हन 2 ओं कुट्ट 2 ओं छिन्द ओं मारय ओं अनुक्रमय ओं वज्रशरीरम्पातय 1 ओं त्रैलोक्यगतन्दुष्टमदुष्टं वा गृहीतमगृहीतं वा आवेशय ओं नृत्य ओं वन्द ओं कोटराक्षि ऊर्द्ध्वकेशि उलूकवदने करङ्किणि ओं करङ्कमालाधारिणि दह ओं पच 2 ओं गृह्ण ओं मण्डलमध्ये प्रवेशय ओं किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन आवेशय ओं किलि किलि ओं खिलि खिलि विलि विलि ओं विकृतरूपधारिणि कृष्णभुजङ्गवेष्टितशरीरे सर्वग्रहावेशनि प्रलम्बौष्ठिनि भ्रूभङ्गलग्ननासिके विकटमुखि कपिलजटे ब्राह्मि भञ्ज 2 ओं ज्वालामुखि 3


1 रुद्रशरीरं पानयेति ख॰ । रुद्रशरीरं घातयेति घ॰ , ञ॰ च ।
2 कपिलजटाधारिणि भञ्ज भञ्जेति झ॰ ।
3 ज्वलज्ज्वालमुखि इति ग॰ , घ॰ , ङ॰ , ञ॰ च ।
Image-P.79


स्वन ओं पातय ओं रक्ताक्षि घूर्णय भूमिं पातय ओं शिरो गृह्ण चक्षुर्म्मीलय ओं हस्तपादौ गृह्ण मुद्रां स्फोटय ओं फट् ओं विदारय ओं त्रिशूलेन च्छेदय ओं वज्रेण हन ओं दण्डेन ताडय 2 ओं चक्रेण च्छेदय 2 ओं शक्त्या भेदय दंष्ट्रया कीलय ओं कर्णिकया पाटय ओं अङ्कुशेन गृह्ण ओं शिरोक्षिज्वरमैकाहिकं द्व्याहिकं त्र्याहिकञ्चातुर्थिकं डाकिनीस्कन्दग्रहान् मुञ्च मुञ्च ओं पच ओं उत्सादय ओं भूमिं पातय ओं गृह्ण ओं ब्रह्माणि एहि ओं माहेश्वरि एहि ओं कौमारि एहि ओं वैष्णवि एहि ओं वाराहि एहि ओं ऐन्द्रि एहि ओं चामुण्डे एहि ओं रेवति एहि ओं आकाशरेवति एहि ओं हिमवच्चारिणि एहि ओं रुरुमर्द्दिनि असुरक्षयङ्ककरि आकाशगामिनि पाशेन बन्ध बन्ध अङ्कुशेन कट 2 समयं तिष्ठ ओं मण्डलं प्रवेशय ओं गृह्ण मुखम्बन्ध ओं चक्षुर्बन्ध हस्तपादौ च बन्ध दुष्टग्रहान् सर्व्वान् बन्ध ओं दिशो बन्ध ओं विदिशो बन्ध अधस्ताद्बन्ध ओं सर्व्वं बन्ध ओं भस्मना पानीयेन वा मृत्तिकया सर्षपैर्व्वा सर्वानावेशय ओं पातय ओं चामुण्डे किलि किलि ओं विच्चे हुं फट् स्वाहा ।
पदमाला जयाख्येयं सर्व्वकर्म्मप्रसाधिका ॥ 1cd
सर्व्वदा होमजप्याद्यैः पाठाद्यैश्च रणे जयः । 2ab
अष्टाविंशभुजा ध्येया असिखेटकवत्करौ 1 2cd
गदादण्दयुतौ 2 चान्यौ शरचापधरौ परौ । 3ab


1 असिखेटलसत्कराविति ख॰ । असिखेटकधृक्करौ इति ञ॰ ।
2 गदामुण्डयुतौ इति ज॰ ।
Image-P.80


मुष्टिमुद्गरयुक्तौ च 1 शङ्खखड्गयुतौ परौ ॥ 3cd
ध्वजवज्रधरौ चान्यौ सचक्रपरशू परौ । 4ab
डमरुदर्पणाढ्यौ च शक्तिकुन्तधरौ परौ ॥ 4cd
हलेन मुषलेनाढ्यौ पाशतोमरसंयुतौ । 5ab
ढक्कापणवसंयुक्तौ अभयमुष्टिकान्वितौ 2 5cd
तर्ज्जयन्ती च महिषं घातनी होमतो ऽरिजित् । 6ab
त्रिमध्वाक्ततिलैर्होमो न देया यस्य कस्य चित् ॥ 6cd


इत्याग्नेये महापुराणे युद्धाजयर्णवे सङ्ग्रामविजयविद्या नाम पञ्चत्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 136

अथ षट्त्रिंशदधिकशततमो ऽध्यायः ।

नक्षत्रचक्रं ।
ईश्वर उवाच ।
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् । 1ab
अश्विन्यादौ लिखेच्चक्रं त्रिनाड़ीपरिभूषितं ॥ 1cd
अश्विन्यार्द्रादिभिः पूर्व्वा ततश्चोत्तरफल्गुनी । 2ab
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥ 2cd


1 मुष्टिमुद्गरसंयुक्तौ इति ज॰ । ऋष्टिमुद्गरयुक्तौ चेति ञ॰ ।
2 अभयस्वस्तिकान्वितौ इति ख॰ , ग॰ , ङ॰ , छ॰ , झ॰ च । अभयस्तम्भिकाश्वितौ इति ज॰ ।
Image-P.81


नाडीयं प्रथमा चान्या याम्यं मृगशिरस्तथा । 3ab
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥ 3cd
अहिर्व्रध्नं तृतीयाथ कृत्तिका रोहिणी ह्यहिः । 4ab
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥ 4cd
नाड़ीत्रितयसंजुष्टग्रहाज् ज्ञेयं शुभाशुभं । 5ab
चक्रम्फणीश्वरन्तत्तु 1 त्रिनाड़ीपरिभूषितं ॥ 5cd
रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं । 6ab
देशग्रामयुता भ्रातृभार्य्याद्या एकशः शुभाः ॥ 6cd
अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ, अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि ।


इत्याग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 137

अथ सप्तत्रिंशदधिकशततमो ऽध्यायः ।

महामारीविद्या ।
ईश्वर उवाच ।
महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्द्दिनीं । 1ab


1 चक्रम्फणीश्वरन्तद्वत् इति ग॰ , घ॰ , ङ॰ , झ॰ , ञ॰ च ।
Image-P.82


ओं ह्रीं महामारि रक्ताक्षि कृष्णवर्णे यमस्याज्ञाकरिणि सर्व्वभूतसंहारकारिणि अमुकं हन 2 ओं दह 2 पच 2 ओं छिन्द 2 ओं मारय 2 ओं उत्सादय 2 ओं सर्व्वसत्त्ववशङ्करि सर्वकामिके हुं फट् स्वाहेति ।
ओं मारि हृदयायनमः । ओं महामारि शिरसे स्वाहा । ओं कालरात्रि शिखायै वौषट् । ओं कृष्णवर्णे खः कवचाय हुं । ओं तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष 2 सर्वकार्य्येषु ह्रं त्रिनेत्राय वषट् । ओं महामारि सर्वभूतदमनि महाकालि अस्त्राय हुं फट् ।
एष न्यासो महादेवि कर्त्तव्यः साधकेन तु ॥ 1cd
शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं । 2ab
कृष्णवर्णां त्रिवक्त्राञ्च चतुर्बाहुं समालिखेत् ॥ 2cd
पटे विचित्रवर्णैश्च धनुः शूलञ्च कर्तृकां 1 3ab
खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं ॥ 3cd
तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं । 4ab
द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं ॥ 4cd
लेलिहानं करालं च दंष्ट्रोत्कटभयानकं । 5ab
तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं ॥ 5cd
तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् । 6ab
गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत् ॥ 6cd


1 सधनुःशूलकर्तृकामिति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ , ञ॰ च ।
Image-P.83


मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति । 7ab
वश्याः स्युर्यक्षरक्षाश्च नाशमायान्ति शत्रवः ॥ 7cd
समिधो निम्बवृक्षस्य ह्यजारक्तविमिश्रिताः । 8ab
मारयेत् क्रोधसंयुक्तो होमादेव न संशयः ॥ 8cd
परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि । 9ab
व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः ॥ 9cd
समिधो ऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् । 10ab
अचिरान् म्रियते सोपि ब्रह्मणा यदि रक्षितः ॥ 10cd
उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं । 11ab
दिनत्रयं ससैन्यश्च नाशमायाति वै रिपुः ॥ 11cd
राजिकालवणैर्होमाद्भङ्गो ऽरेः स्याद् दिनत्रयात् । 12ab
खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं ॥ 12cd
काकरक्तसमायोगाद्धोमादुत्सादनं ह्यरेः । 13ab
बधाय कुरुते सर्व्वं यत् किञ्चिन्मनसेप्सितं ॥ 13cd
अथ सङ्ग्रामसमये गजारूढस्तु साधकः । 14ab
कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः ॥ 14cd
दूरशङ्खादिवाद्यनि विद्यया ह्यभिमन्त्रयेत् । 15ab
महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे ॥ 15cd
परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं । 16ab
कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत् ॥ 16cd
साधकश्चिन्तयेत्सैन्यम्पाषाणमिव निश्चलं । 17ab
निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत् ॥ 17cd
एष स्तम्भो मया प्रोक्तो न देयो यस्य कस्य चित् । 18ab
Image-P.84


त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा ॥ 18cd
कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥ 19॥ 19ab


इत्याग्नेये महापुराणे युद्धजयार्णवे महामारी नाम सप्तत्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 138

अथाष्टत्रिंशदधिकशततमो ऽध्यायः ।

षट्कर्माणि ।
ईश्वर उवाच ।
षट्कर्म्माणि प्रवक्ष्यामि सर्व्वमन्त्रेषु तच्छृणु । 1ab
आदौ साध्यं लिखेत् पूर्वं चान्ते मन्त्रसमन्वितं ॥ 1cd
पल्लवः स तु विज्ञेयो महोच्चाटकरः परः । 2ab
आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः ॥ 2cd
योगाख्यः सम्प्रदायो ऽयङ्कुलोत्सादेषु योजयेत् । 3ab
आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् ॥ 3cd
पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः । 4ab
Image-P.85


रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् ॥ 4cd
अधोर्द्ध्वं याम्यवामे तु 1 मध्ये साध्यन्तु योजयेत् । 5ab
सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥ 5cd
मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं । 6ab
प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः ॥ 6cd
मन्त्राक्षरद्वयं लिख्य एकं साध्याक्षरं पुनः । 7ab
विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् ॥ 7cd
आकर्षणादि यत् कर्म्म वसन्ते चैव कारयेत् । 8ab
तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं ॥ 8cd
नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् । 9ab
पौष्टिकेषु वषट्कारमाकर्षे वशकर्म्मणि ॥ 9cd
विद्वेषोच्चाटने मृत्यौ फट् स्यात् खण्डीकृतौ शुभे । 10ab
लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः ॥ 10cd
यमो ऽसि यमाराजो ऽसि कालरूपो ऽसि धर्म्मराट् । 11ab
मयादत्तमिमं शत्रुमचिरेण निपातय ॥ 11cd
निपातयामि यत्नेन निर्वृत्तो भव साधक । 12ab
संहृष्टमनसा 2 ब्रूयाद्देशिको ऽरिप्रसूदनः ॥ 12cd
पद्मे शुक्ले यमं प्रार्च्य होमादेतत् प्रसिद्ध्यति । 13ab
आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं ॥ 13cd
रात्रौ वार्त्तां विजानाति आत्मनश्च परस्य च । 14ab


1 अध ऊर्द्ध्वं याम्यवामे इति ख॰ ।
2 संरम्भमन्सेति छ॰ ।
Image-P.86


दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् ॥ 14cd
जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिं ॥ 15॥ 15ab


इत्याग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि नामाष्टत्रिंशदधिकशततमो ऽध्यायः ॥

Chapter 139

अथोनचत्वारिंशदधिकशततमो ऽध्यायः ।

षष्टिसंवत्सराः ।
ईश्वर उवाच ।
षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु । 1ab
प्रभवे यज्ञकर्म्माणि विभवे सुखिनो जनाः ॥ 1cd
शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः । 2ab
प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्द्धनः ॥ 2cd
श्रीमुखे वर्द्धते लोको भावे भावः प्रवर्द्धते । 3ab
पूरणो पूरते शक्रो धाता सर्व्वौषधीकरः ॥ 3cd
ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः । 4ab
प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः ॥ 4cd
वृषो वृष्यति सर्वांश्च चित्रभानुश्च चित्रतां । 5ab
Image-P.87


स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः ॥ 5cd
पार्थिवे शस्यसम्पत्तिरतिवृष्टिस्तथा जयः । 6ab
सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः ॥ 6cd
विरोधी जलदान् हन्ति विकृतश्च भयङ्करः । 7ab
खरे भवेत् पुमान् वीरो नन्दने नन्दते प्रजा ॥ 7cd
विषयः शत्रुहन्ता च शत्रुरोगादि मर्द्दयेत् । 8ab
ज्वरार्त्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः ॥ 8cd
दुर्मुखे दुर्मुखो लोको 1 हेमलम्बे न सम्पदः । 9ab
संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ॥ 9cd
विकारी शत्रुकोपाय विजये सर्वदा क्वचित् । 10ab
प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा ॥ 10cd
राक्षसे निष्ठुरो लोको विविधन्धान्यमानने । 11ab
सुवृष्टिः पिङ्गले क्वापि काले ह्युक्तो धनक्षयः ॥ 11cd
सिद्धार्थे सिद्ध्यते सर्व्वं रौद्रे रौद्रं प्रवर्त्तते । 12ab
दुर्म्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् ॥ 12cd
स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः । 13ab
क्षये क्षीणधनोलोकः 2 षष्टिसंवत्सराणि तु ॥ 13cd


इत्याग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमो ऽध्यायः ॥


1 दुर्मुखे मुखरो लोक इति ख॰ , घ॰ , ङ॰ , ञ॰ च ।
2 क्षीणधवो लोक इति क॰ । क्षीणजनो लोक इति ज॰ ।
Image-P.88


Chapter 140

अथ चत्वारिंशदधिकशततमो ऽध्यायः ।

वश्यादियोगाः ।
ईश्वर उवाच ।
वश्यादियोगान् वक्ष्यामि लिखेद् द्व्यष्टपदे त्विमान् । 1ab
भृङ्गराजः सहदेवी 1 मयूरस्य शिखा तथा ॥ 1cd
पुत्रञ्जीवकृतञ्जली ह्यधःपुष्पा रुदन्तिका । 2ab
कुमारी रुद्रजटा 2 स्याद्विष्णुक्रान्ता शितो ऽर्ककः ॥ 2cd
लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता 3 3ab
गोरक्षः कर्क्कटी चैव मेषशृङ्गी स्नुही तथा ॥ 3cd
ऋत्विजो 16 वह्नयो 3 नागाः 8 पक्षौ 2 मुनि 3 मनू 14 शिवः 11 । 4ab
वसवो 8 दिक् 10 रसा 6 वेदा 4 ग्रह 9 र्त्तु 6 रवि 12 चन्द्रमाः 1 ॥ 4cd
तिथयश्च 15 क्रमाद्भागा ओषधीनां प्रदक्षिणं । 5ab
प्रथमेन चतुष्केण धूपश्चोद्वर्त्तनं परं ॥ 5cd
तृतीयेनाञ्जनं कुर्य्यात् स्नानं कुर्य्याच्चतुष्कतः । 6ab
भृङ्गराजानुलोमाच्च चतुर्द्धा लेपनं स्मृतं ॥ 6cd
मुनयो दक्षिणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः । 7ab
भुजगाः पादसंस्थाश्च ईश्वरा मूर्द्ध्नि संस्थिताः ॥ 7cd
मध्येन सार्क्कशशिभिर्धूपः स्यात् सर्वकार्य्यके । 8ab
एतैर्विलिप्तदेहस्तु त्रिदशैरपि पूज्यते 4 8cd


1 सहदेवा इति ख॰ , घ॰ , ङ॰ , छ॰ च ।
2 कुमारी वज्रजटा इति छ॰ ।
3 कृष्णधुस्तूरसञ्जिकेति ख॰ ।
4 त्रिदशैरपि गृह्यते इति घ॰ , ङ॰ च ।
Image-P.89


धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्त्तने स्मृतः । 9ab
युगाद्याश्चाञ्जने प्रोक्ता वाणाद्याः स्नानकर्म्मणि ॥ 9cd
रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः । 10ab
ऋत्विग्वेदर्त्तुनयनैस्तिलकं लोकमोहनं ॥ 10cd
सूर्य्यत्रिदशपक्षैश्च शैलैः स्त्री लेपतो वशा । 11ab
चन्द्रेन्द्रफणिरुद्रैश्च योनिलेपाद्वशाः स्त्रियः ॥ 11cd
तिथिदिग्युगवाणैश्च गुटिका तु वशङ्करी । 12ab
भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे ॥ 12cd
ऋत्विग्ग्रहाक्षिशैलैश्च शस्त्रस्तम्भे मुखे धृता । 13ab
शैलेन्द्रवेदरन्ध्रैश्च अङ्गलेपाज्जले वसेत् ॥ 13cd
वाणाक्षिमनुरुद्रैश्च गुटिका क्षुत्तृषादिनुत् । 14ab
त्रिषोड़शदिशावाणैर्ल्लेपात् स्त्री दुर्भगा शुभा ॥ 14cd
त्रिदशाक्षिदिशानेत्रैर्ल्लेपात् क्रीडेच्च पत्रगैः । 15ab
त्रिदशाक्षेशभुजगैर्ल्लेपात् स्त्री सूयते सुखं ॥ 15cd
सप्तदिङ्मुनिरन्ध्रैश्च द्यूतजिह्वस्त्रलेपतः । 16ab
त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात् 1 रतौ सुतः ॥ 16cd
ग्रहाब्धिसर्प्यत्रिदशैर्गुटिका स्याद् वशङ्करी । 17ab
ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः ॥ 17cd


इत्याग्नेये महापुराणे युद्धजयार्णवे षोड़शपदका नाम चत्वारिंशदधिकशततमो ऽध्यायः ॥


1 त्रिदशाक्ष्यब्धिमनुभिर्ध्वजलेपादिति ग॰ , घ॰ , ङ॰ , छ॰ च ।
Image-P.90


Chapter 141

अथैकचत्वारिंशदधिकशततमो ऽध्यायः ।

षट्त्रिंशत्पदकज्ञानं ।
ईश्वर उवाच ।
षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं । 1ab
अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं ॥ 1cd
हरीतक्यक्ष्यधात्राश्च मरीचम्पिप्पलीशिफा । 2ab
वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः 1 2cd
वासकः शतमूली च सैन्धवं सिन्धुवारकं । 3ab
कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला ॥ 3cd
एरण्डमुण्डी रुचको भृङ्गः क्षारो ऽथ पर्पटः । 4ab
धन्याको जीरकश्चैव शतपुष्यी जवानिका ॥ 4cd
विड़ङ्गः खदिरश्चैव कृतमालो हरिद्रया । 5ab
वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि ॥ 5cd
क्रमादेकादिसञ्ज्ञानि ह्यौपधानि महान्ति हि । 6ab
सर्वरोगहराणि स्युरमरीकरणानि च ॥ 6cd
बलीपलितभेत्तॄणि 2 सर्वकोष्ठगतानि तु । 7ab
एषां चूर्णञ्च वटिका रसेन परिभाविता ॥ 7cd
अवलेहः कषायो वा मोदको गुडखण्डकः । 8ab


1 चव्यनिम्वका इति ज॰ , झ॰ च ।
2 बलीपलितभेदीनीति छ॰ ।
Image-P.91


मधुतो धृततो वापि घृतन्तैलमथापि वा ॥ 8cd
सर्व्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् । 9ab
कर्षार्द्धं कर्षमेकं वा पलार्द्धं पलमेककं ॥ 9cd
यथेष्टाचारनिरतो 1 जीवेद्वर्षशतत्रयं । 10ab
मृतसञ्जीवनीकल्पे योगो नास्मात् परो ऽस्ति हि ॥ 10cd
प्रथमान्नवकाद्योगात् सर्वरोगैः प्रमुच्यते । 11ab
द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः ॥ 11cd
एवं षट्काच्च प्रथमाद् द्वितीयाच्च तृतीयतः । 12ab
चतुर्थात्पञ्चमात् षष्ठात्तथा नवचतुष्कतः ॥ 12cd
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टमतो ऽनिलात् । 13ab
अग्निभास्करषड्विंशसप्तविंशैश्च पित्ततः ॥ 13cd
वाणर्त्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् । 14ab
वेदाग्निभिर्वाणगुणैः षद्गुणैः स्याद्वशे धृते ॥ 14cd
ग्रहादिग्रहणान्तैश्च सर्वैरेव विमुच्यते । 15ab
एकद्वित्रिरसैः शैलैर्वसुग्रहशिवैः क्रमात् ॥ 15cd
द्वात्रिंशत्तिथिसूर्य्यैश्च नात्र कार्य्या विचारणा । 16ab
षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् ॥ 16cd


इत्याग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमो ऽध्यायः ॥


1 यथेच्छाचारनिरत इति ज॰ ।
Image-P.92


Chapter 142

अथ द्विचत्वारिंशदधिकशततमो ऽध्यायः ।

मन्त्रोषधादिः ।
ईश्वर उवाच ।
मन्त्रौषधानि चक्राणि 1 वक्ष्ये सर्व्वप्रदानि च । 1ab
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश्चतुर्गुणाः ॥ 1cd
नाम्ना हृते भवेच्छेषश्चौरो ऽथ जातकं वदे । 2ab
प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः ॥ 2cd
नामवर्णैः समैः काणो वामे ऽक्ष्णि विषमैः पुनः । 3ab
दक्षिणाक्षि भवेत् काणं स्त्रीपुन्नामाक्षरस्य च ॥ 3cd
मात्रावर्णाश्चतुर्निघ्ना वर्णपिण्डे गुणे कृते । 4ab
समे स्त्री विषमे ना स्याद्विशेषे च 2 मृतिः स्त्रियाः ॥ 4cd
प्रथमं रूपशून्ये ऽथ प्रथमं म्रियते पुमान् । 5ab
प्रश्नं सूक्ष्माक्षरैर्गृह्य द्रव्यैर्भागे ऽखिले मतम् ॥ 5cd
शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् । 6ab
राशिस्थः सप्तमे दृष्टिश्चतुर्दशशतेर्द्धिका ॥ 6cd
एकद्व्यष्टद्वादशमः पाददृष्टिश्च तं त्यजेत् । 7ab
दिनाधिपः प्रहरभाक् शेषा यामार्द्धभागिनः 3 7cd


1 मन्त्रौषधादिचक्राणीति घ॰ , ञ॰ च ।
2 विशेषेणेति ख॰ ।
3 यामार्द्धभोगिन इति क॰ , ग॰ , ङ॰ , ज॰ च ।
Image-P.93


शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते । 8ab
रवौ पूर्वे ऽनिले मन्दे गुरौ याम्ये ऽनले भृगौ ॥ 8cd
अग्नौ कुजे भवेत् सोम्ये स्थिते राहुर्बुधे सदा । 9ab
फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे ॥ 9cd
वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं । 10ab
तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे ॥ 10cd
अमावास्या वायवे च राहुः सम्मुखशत्रुहा । 11ab
काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश्च दक्षिणे ॥ 11cd
शुक्ले त्यजेत् कुजगणान् धाद्या मान्ताश्च पूर्वतः । 12ab
याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् ॥ 12cd
पूर्व्वाश्च दक्षिणास्तिस्रो रेखा वै मूलभेदके । 13ab
सूर्य्यराश्यादि संलिख्य दृष्टौ हानिर्जयो ऽन्यथा ॥ 13cd
विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् । 14ab
शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततो ऽम्बुपं ॥ 14cd
नैरृताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले । 15ab
जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः ॥ 15cd
ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके । 16ab
एवं कृष्णे सिते पक्षे वायौ राहुश्च हन्त्यरीन् ॥ 16cd
इन्द्रादीन् भैरवादींश्च ब्रह्माण्यादीन् ग्रहादिकान् । 17ab
अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं ॥ 17cd
यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् । 18ab
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥ 18cd
पुष्योद्धृता काण्डलक्ष्यं वारयेत् शरपुङ्खिका । 19ab
Image-P.94


तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥ 19cd
ओं नमो भगवति वज्रशृङ्खले हन 2 ओं भक्ष 2 ओं खाद ओं अरे रक्तं पिव कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्रप्राकारनिचिते पूर्व्वां दिशं बन्ध 2 ओं दक्षिणां दिशम्बन्ध 2 ओं पश्चिमां दिशम्बन्ध 2 उत्तरां दिशम्बन्ध 2 नागान् बन्ध 2 नागपत्नीर्बन्ध 2 ओं असुरान् बन्ध 2 ओं यक्षराक्षसपिशाचान् बन्ध 2 ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष 2 ओं ऊर्द्धवं रक्ष 2 अधा रक्ष 2 ओं क्षुरिक बन्ध 2 ओं ज्वल महाबले घटि 2 ओं मोटि 2 सटावलिवज्जाग्निवज्रप्राकारे हुं फट् ह्रीं ह्रूं श्रीं फट् ह्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष 2 ।
ग्रहज्वरादिभूतेषु सर्व्वकर्म्मसु योजयेत् ॥ 20॥ 20ab


इत्याग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 143

अथ त्रिचत्वारिंशदधिकशततमो ऽध्यायः ।

कुब्जिकापूजा ।
ईश्वर उवाच ।
कुब्जिकाक्रमपूजाञ्च 1 वक्ष्ये सर्व्वार्थसाधनीं । 1ab
यया जिताः सुरा देवैः शस्त्राद्यैराज्यसंयुतैः ॥ 1cd


1 कुब्जिकाचक्रपूजाच्चेति ख॰ , छ॰ च ।
Image-P.95


मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् । 2ab
काली कालीति हृदयं दुष्टचाण्डालिका शिरः ॥ 2cd
ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा । 3ab
भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका ॥ 3cd
ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् । 4ab
अग्नौ कूर्चशिरो रुद्रे नैरृत्ये ऽथ शिखानिले ॥ 4cd
कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले । 5ab
द्वात्रिंशता कर्णिकायां स्रों हसक्षमलनववषड़सचात्ममन्त्रवीजकं ॥ 5cd
ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा । 6ab
वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् ॥ 6cd
यजेद्रवलकसहान् शिवेन्द्राग्नियमे ऽग्निपे । 7ab
जले तु कुसुममालामद्रिकाणां च पञ्चकं ॥ 7cd
जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् । 8ab
मरुदोशाग्निनैरृत्ये मध्ये वै वज्रकुब्जिकां ॥ 8cd
अनादिविमलः पूज्यः सर्व्वज्ञविमलस्तुतः । 9ab
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥ 9cd
समयाख्यो ऽथ विमल एतद्विमलपञ्चकं । 10ab
मरुदीशाननैरृत्ये वह्नौ चोत्तरशृङ्गके ॥ 10cd
कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा । 11ab
रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः ॥ 11cd
मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपे ऽनिले । 12ab
भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं ॥ 12cd
Image-P.96


ब्रुं मर्त्यः पञ्चनामाख्यो 1 मरुदीशानवह्निगः । 13ab
याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथा ऽन्तिका ॥ 13cd
तिस्रो ह्यासां महावृद्धाः पञ्चप्रणवतो ऽखिलाः । 14ab
सप्तविंशत्यष्टविंशभेदात् सम्पूजनं द्विधा ॥ 14cd
ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् । 15ab
चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् ॥ 15cd
वामे च वटुकं कोणे गुरून् सोड़शनाथकान् । 16ab
वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः ॥ 16cd
ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः । 17ab
कुब्जिका कुलटा चैव क्रमपूजा तु सर्व्वदा ॥ 17cd


इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 144

अथ चतुश्चत्वारिंशदधिकशततमो ऽध्यायः ।

कुब्जिकापूजा ।
ईश्वर उवाच ।
श्रीमतीं कुब्जिकां वक्ष्ये धर्म्मार्थादिजयप्रदां । 1ab
पूजयेन्मूलमन्त्रेण परिवारयुतेन वा ॥ 1cd
ओं ऐं ह्रौं श्रीं खैं ह्रें हसक्षमलचवयम्भगवति अम्बिके ह्रां ह्रीं क्ष्रीं क्षौं क्ष्रूं क्रीं कुब्जिके ह्रां ओं ङञनणमे अघोरमुखि व्रां छ्रां


1 खं मृत्यौ वुञ्चनामाख्य इति ज॰ ।
Image-P.97


छीं किलि 2 क्षौं विच्चे ख्यों श्रीं क्रों ओं ह्रों ऐं वज्रकुब्जिनि 1 स्त्रीं त्रैलोक्यकर्षिणि ह्रीं कामाङ्गद्राविणि ह्रीं स्त्रीं महाक्षोभकारिणि ऐं ह्रीं क्ष्रीं ऐं ह्रों श्रीं फें क्षौं नमो भगवति क्ष्रौं कुब्जिके ह्रों ह्रों क्रैं ङञणनमे अघोरमुखि छ्रां छां विच्चे ओं किलि 2 ।
कृत्वा कराङ्गन्यासञ्च सन्ध्यावन्दनमाचरेत् । 2ab
वामा ज्येष्ठा तथा रौद्री सन्ध्यात्रयमनुक्रमात् ॥ 2cd
कुलवागीशि विद्महे महाकालीति धीमहि ।
तन्नः कौली प्रचोदयात् ।
मन्त्राः पञ्च प्रणवाद्याः पादुकां पूजयामि च । 3ab
मध्ये नाम चतुर्थ्यन्तं द्विनवात्मकवीजकाः ॥ 3cd
नमोन्ता वा ऽथ षष्ट्या तु सर्वे ज्ञेया वदामि तान् । 4ab
कौलीशनाथः सुकला जन्मतः कुब्जिका ततः ॥ 4cd
श्रीकण्ठनाथः कौलेशो गगनानन्दनाथकः । 5ab
चटुला देवी मैत्रीशी कराली तूर्णनाथकः ॥ 5cd
अतलदेवी श्रीचन्द्रा देवीत्यन्तास्ततस्त्विमे । 6ab
भगात्मपुङ्गणदेवमोहनीं पादुकां यजेत् ॥ 6cd
अतीतभुवनानन्दरत्नाढ्यां पादुकां यजेत् । 7ab
ब्रह्मज्ञाना ऽथ कमला परमा विद्यया सह ॥ 7cd
विद्यादेवीगुरुशुद्धिस्त्रिशुद्धिं प्रवदामि ते । 8ab
गगनश्चटुली चात्मा पद्मानन्दो मणिः कला ॥ 8cd


1 वह्निकुब्जिनि इति ख॰ , छ॰ च ।
Image-P.98


कमलो माणिक्यकण्ठो गगनः कुमुदस्ततः । 9ab
श्रीपद्मो भैरवानन्दो देवः कमल इत्यतः ॥ 9cd
शिवो भवो ऽथ कृष्णश्च नवसिद्धाश्च षोडश । 10ab
चन्द्रपूरो ऽथ गुल्मश्च शुभः कामो ऽतिमुक्तकः 1 10cd
कण्ठो वीरः 2 प्रयोगो ऽथ कुशलो देवभोगकः । 11ab
विश्वदेवः खड्गदेवो रुद्रो धाता ऽसिरेव च ॥ 11cd
मुद्रास्फीटी वंशपूरो भोजः षोडश सिद्धकाः । 12ab
समयान्यस्तु देहस्तु षोढान्यासेन यन्त्रितः ॥ 12cd
प्रक्षिप्य मण्डले पुष्पं मण्डलान्यथ पूजयेत् । 13ab
अनन्तञ्च महान्तञ्च सर्वदा शिवपादुकां ॥ 13cd
महाव्याप्तिश्च शून्यञ्च पञ्चतत्त्वात्ममण्डलं । 14ab
श्रीकण्ठनाथपादुकां शङ्करानन्तकौ यजेत् ॥ 14cd
सदाशिवः पिङ्गलश्च भृग्वानन्दश्च नाथकः । 15ab
लाङ्गूलानन्दसंवर्त्तौ मण्डलस्थानके यजेत् ॥ 15cd
नैरृत्ये श्रीमहकालः पिनाकी च महेन्द्रकः । 16ab
खड्गो भुजङ्गो वाणश्च अघासिः शब्दको वशः ॥ 16cd
आज्ञारूपो नन्दरूपो बलिन्दत्वा क्रमं यजेत् । 17ab
ह्रीं खं खं हूं सौं वटुकाय अरु 2 अर्घं पुष्पं धूपं दीपंगन्धं बलिं पूजां गृह्ण 2 नमस्तुभ्यं । ओं ह्रां ह्रीं ह्रूं क्षें क्षेत्रपालाय अवतर 2 महाकपिलजटाभार भास्वरत्रिनेत्रज्वालामुख एह्येहि गन्धपुष्पबलिपूजां गृह्ण 2 खः खः ओं कः ओं लः ओं महाडामराधिपतये 3 स्वाहा ।


1 कामो ऽथ मुक्तक इति ज॰ , छ॰ , ञ॰ च ।
2 वटो वीर इति ज॰ , छ॰ च ।
3 प्रमथाधिपतये इति ङ॰ । महामायाधिपतये इति ज॰ ।
Image-P.99


बलिशेषे ऽथ यजेत् ह्रीं ह्रूं हां श्रीं वै त्रिकूटकं ॥ 17cd
वामे च दक्षिणे ह्यग्रे याम्ये निशानाथपादुकाः । 18ab
दक्षे तमोरिनाथस्य हग्रे कालानलस्य च ॥ 18cd
उड्डियाणं जालन्धरं पूर्णं वै कामरूपकं । 19ab
गगनानन्ददेवञ्च स्वर्गानन्दं सवर्गकं 1 19cd
परमानन्ददेवञ्च 2 सत्यानन्दस्य पादुकां 3 20ab
नागानन्दञ्च वर्गाख्यमुक्तान्ते रत्नपञ्चकं ॥ 20cd
सौम्ये शिवे यजेत् षट्कं सुरनाथस्य पादुकां । 21ab
श्रीमत्समयकोटीशं विद्याकोटीश्वरं यजेत् ॥ 21cd
कोटीशं विन्दुकोटीशं सिद्धकोटीश्वरन्तथा । 22ab
सिद्धचतुष्कमाग्नेय्यां अमरीशेश्वरं यजेत् ॥ 22cd
चक्रीशनाथं कुरङ्गेशं वृत्रेशञ्चन्द्रनाथकं 4 23ab
यजेद्गन्धादिभिश्चैतान् याम्ये विमलपञ्चकं ॥ 23cd
यजेदनादिविमलं सर्व्वज्ञविमलं ततः । 24ab
यजेद्योगीशविमलं सिद्धाख्यं समयाख्यकं ॥ 24cd
नैqत्ये चतुरो देवान् 5 जयेत् कन्दर्पनाथकं । 25ab
पूर्वाः शक्तीश्च सर्वाश्च 6 कुब्जिकापादुकां यजेत् ॥ 25cd


1 स्वर्गानन्दञ्च देवकमिति घ॰ , ञ॰ च ।
2 पन्नगानन्ददेवञ्चेति ञ॰ । पवनानन्ददेवञ्चेति ज॰ ।
3 मर्त्यानन्दस्य पादुकामिति ख॰ , ग॰ , ङ॰ , झ॰ , ज॰ च ।
4 भूतोशं मन्त्रनायकमिति ज॰ । भूतीशं मन्त्रनाथकमिति ञ॰ ।
5 चतुरो वेदानिति ख॰ , छ॰ , ज॰ च ।
6 पूर्वान् सशक्तीन् सर्वांश्चेति ज॰ , ञ॰ च ।
Image-P.100


नवात्मकेन मन्त्रेण पञ्चप्रणवकेन वा । 26ab
सहस्राक्षमनवद्यं विष्णुं शिवं सदा यजेत् 1 26cd
पूर्व्वाच्छिवान्तं ब्रह्मादि ब्रह्माणी च महेश्वरी । 27ab
कौमारी वैष्णवी चैव वाराही शक्रशक्तिका ॥ 27cd
चामुण्डा च महालक्ष्मीः पूर्व्वादीशान्तमर्च्चयेत् । 28ab
डाकिनी राकिनी पूज्या लाकिनी काकिनी तथा ॥ 28cd
शाकिनी याकिनी पूज्या वायव्यादुग्रषट्षु च । 29ab
यजेद् ध्यात्वा ततो देवीं द्वात्रिंशद्वर्णकात्मकां ॥ 29cd
पञ्चप्रणवकेनापि ह्रीं कारेणाथवा यजेत् । 30ab
नीलोत्पलदलश्यामा षड्वक्त्रा 2 षट्प्रकारिका ॥ 30cd
चिच्छक्तिरष्टादशाख्या बाहुद्वादशसंयुता । 31ab
सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ॥ 31cd
कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः । 32ab
तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ॥ 32cd
कुलिकः कर्णयोर्यस्याः कूर्म्मः कुण्डलमण्डलः । 33ab
भ्रुवोः पद्मो मकापद्मो वामे नागः कपालकः ॥ 33cd
अक्षसूत्रञ्च खट्वाङ्गं शङ्खं पुस्तञ्च दक्षिणे । 34ab
त्रिशूलन्तदर्पणं खड्गं रत्नमालाङ्कुशन्धनुः 3 34cd
श्वेतमूर्द्ध्वमुखन्देव्या ऊर्द्ध्वश्वेतन्तथापरं । 35ab
पूर्व्वास्यं पाण्डरं क्रोधि दक्षिणं कृष्णवर्णकं ॥ 35cd


1 सदाशिवं स्वयं यजेदिति ङ॰ , छ॰ , ज॰ च ।
2 षड्वर्णेति ज॰ ।
3 वनमालङ्कुशं धनुरिति घ॰ , ङ॰ च ।
Image-P.101


हिमकुन्देन्दभं सौम्यं ब्रह्मा पादतले स्थितः । 36ab
विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ॥ 36cd
सदाशिवो ललाटे स्याच्छिवस्तस्योर्द्ध्वतः स्थितः । 37ab
आघूर्णिता कुब्जिकैवन्ध्येया पूजादिकर्म्मसु ॥ 37cd


इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकापूजा नाम चतुश्चत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 145

अथ पञ्चचत्वारिंशदधिकशततमो ऽध्यायः ।

मालिनीनानामन्त्राः ।
ईश्वर उवाच ।
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् । 1ab
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥ 1cd
शाम्भवे शब्दराशिः षट्षोड़शग्रन्थिरूपवान् 1 2ab
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥ 2cd
चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् । 3ab
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥ 3cd
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः । 4ab


1 षोडशप्रतिरूपवानिति झ॰ ।
Image-P.102


अघोर्य्यष्टकरूपो ऽन्यो द्वादशाङ्गश्चतुर्थकः । 4ab
पञ्चमस्तु षड़ङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका 1 5ab
क्रीं ह्रौं क्लीं श्रीं क्रूं फट् त्रयं स्यात्तूर्याख्यं सर्व्वसाधकं 2 5cd
मालिन्या नादिफान्तं स्यात् नादिनी च शिखा स्मृता । 6ab
अग्रसेनी 3 शिरसि स्यात् शिरोमालानिवृत्तिः शः ॥ 6cd
ट शान्तिश्च शिरो भूयाच् चामुण्डा च त्रिनेत्रगा । 7ab
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥ 7cd
न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ । 8ab
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥ 8cd
क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी । 9ab
ग शिवा ऊर्द्ध्वदंष्ट्रा स्याद् घ घोरा वामदंष्ट्रिका ॥ 9cd
उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता । 10ab
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥ 10cd
भ भीषणी दक्षस्कन्धे वायुवेगा म वामके । 11ab
डनामा दक्षबाहौ तु ढ वामे च विनायका ॥ 11cd
प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके । 12ab
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥ 12cd
ट कपालिनी कपालं शूलदण्डे त दीपनी । 13ab
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी 4 स्मृता ॥ 13cd


1 शक्तिः स्याद्या विवर्णिका इति ज॰ । शक्तिश्चान्या त्रिखण्डिकेति ञ॰ ।
2 फट्त्रयं स्यात् तर्य्युद्धे सर्व्वसाद्धकमिति ख॰ , छ॰ च ।
3 खश्वसनीति ख॰ , छ॰ च ।
4 पावनीति ज॰ , ञ॰ च ।
Image-P.103


जीवे श परमाख्या स्याद् ह प्राणे चाम्बिका स्मृता । 14ab
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥ 14cd
अ स्तनक्षीर आ मोटो लम्बोदर्य्युदरे च थ । 15ab
नाभौ संहारिका क्ष स्यान् महाकाली नितम्बम ॥ 15cd
गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका । 16ab
उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि ॥ 16cd
वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा । 17ab
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥ 17cd
फ फेत्कारी वामपादे नवात्मा मालिनी मनुः । 18ab
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥ 18cd
इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्त्तिस्तु वामके । 19ab
उ दक्षकर्णे ऽमरीश ऊ कर्णेर्घांशको ऽपरे ॥ 19cd
ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ । 20ab
ऌ स्थाणुर्द्दक्षगण्डे स्याद्वामगण्डे हरश्च ॡ ॥ 20cd
कटीशो दन्तपङ्क्तावे भूतीशश्चोर्द्ध्वदन्त ऐ । 21ab
सद्योजात ओ अधरे ऊर्द्ध्वौष्ठे ऽनुग्रहीश औ ॥ 21cd
अं क्रूरो घाटकायां स्यादः महासेनजिह्वया । 22ab
क क्रोधीशो दक्षस्कन्धे खश्चण्डीशश्च बाहुषु ॥ 22cd
पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्कणे । 23ab
ङ एकपादश्चाङ्गुल्यो वामस्कन्धे च कूर्म्मकः ॥ 23cd
छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे । 24ab
झ राजसः कङ्कणगः ञः सर्वकामदो ऽङ्गुली ॥ 24cd
ट सोमेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली । 25ab
Image-P.104


ड दारुको दक्षजानौ जङ्घा ढो ऽर्द्धजलेश्वरः ॥ 25cd
ण उमाकान्तको ऽङ्गुल्यस्त आषाढी नितम्बके । 26ab
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥ 26cd
ध मीनो वामजङ्घायान्न मेषश्चरणाङ्गुली । 27ab
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥ 27cd
ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः । 28ab
म महाकालो हृदये य वाणीशस्त्वविस्मृतः 1 28cd
र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके । 29ab
व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः ॥ 29cd
ष श्वेतश्चैव मज्जायां स भृगुः शुक्रधातुके । 30ab
प्राणे हो नकुलीशः स्यात् क्ष संवर्त्तश्च कोषगः ॥ 30cd
रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥ 31॥ 31ab


इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 146

अथ षट्चत्वारिंशदधिकशततमो ऽध्यायः ।

अष्टाष्टकदेव्यः ।
ईश्वर उवाच ।
त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं । 1ab


1 य वाणीशस्तु विस्तृत इति ञ॰ ।
Image-P.105


ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमश्चाकाशमातॄणां सर्व्वकामार्थसाधनीनामजरामरीणां सर्व्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्त्तिनीनां सर्व्वसत्त्ववशीकरणोत्सादनोन्मूलनसमस्तकर्म्मप्रवृत्तानां सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्म्मच्छेदनं परमसिद्धिकरम्मातॄणां वचनं शुभं ।
ब्रह्मखण्डपदे रुद्रैरेकविंशाधिकं शतं ॥ 1cd
तद्यथा, ओं नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा 1
यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं । 2ab
ओं नमश्चामुण्डे ऊर्द्ध्वकेशि ज्वलितशिखरे 2 विद्युज्जिह्वे तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ओं मांसशोणितसुरासवप्रिये हस 2 ओं नृत्य 2 ओं विजृम्भय 2 ओं मायात्रैलोक्यरूपसहस्रपरिवर्त्तिनीनां ओं बन्ध 2 ओं कुट्ट 2 चिरि 2 हिरि 2 भिरि 2 त्रासनि 2 भ्रामणि 2 ओं द्राविणि 2 क्षोभणि 2


1 ओं नमश्चामुण्डे माहेश्वरीत्यादिः, विच्चे स्वाहेत्यन्तः पाठः छ॰ पुस्तके नास्ति ।
2 ज्वलितशिख इति ख॰ , ङ॰ , घ॰ , ञ॰ च ।
Image-P.106


मारिणि 2 संजीवनि 2 हेरि 2 गेरि 2 घेरि 2 ओं मुरि 2 ओं नमो मातृगणाय नमो नमो विच्चे ।
एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः ॥ 2cd
हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद् यजेत् । 3ab
हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् ॥ 3cd
अकुलादित्रिमध्यस्थं कुलादेश्च त्रिमध्यगं । 4ab
मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं ॥ 4cd
त्रयार्द्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां । 5ab
ओं क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें सवीजत्र्यक्षरः ।
ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं ॥ 5cd
क्षादयश्च ककारान्ता अकुला च कुलक्रमात् । 6ab
शशिनी भानुनी चैव पावनी शिव इत्यतः ॥ 6cd
गान्धरी णश्च पिण्डाक्षी चपला गजजिह्विका । 7ab
म मृषा भयसारा स्यान्मध्यमा फो ऽजराय च ॥ 7cd
कुमारी कालरात्री न सङ्कटा द ध कालिका । 8ab
फ शिवा भवघोरा ण ट वीभत्सा त विद्युता ॥ 8cd
ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा । 9ab
कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि ॥ 9cd
ख काली क कुलालम्वी अनुलोमा द पिण्डिनी । 10ab
आ वेदिनी इ रूपी वै शान्तिर्मूर्त्तिः कलाकुला ॥ 10cd
ऋ खड्गिनी उ बलिता ऌ कुला ॡ तथा यदि । 11ab
सुभगा वेदनादिन्या कराली अं च मध्यमा ॥ 11cd
Image-P.107


अः अपेतरया पीठे पूज्याश्च शक्तयः क्रमात् । 12ab
स्खां स्खीं स्खौं महाभैरवाय नमः । 12cd
अक्षोद्या ह्यृक्षकर्णी च राक्षसी क्षपणक्षया ॥ 12॥ 12ef
पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः । 13ab
इला लीलावती नीला लङ्गा लङ्केश्वरी तथा ॥ 13cd
लालसा विमला माला 1 माहेश्वर्य्यऽष्टके स्थिताः । 14ab
हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी ॥ 14cd
हाहारवा तथा क्रूरा क्रोधा बाला खरानना । 15ab
कौमार्य्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥ 15cd
सर्वज्ञा तरला तारा ऋग्वेदा च हयानना । 16ab
सारासारस्वयङ्ग्राहा शाश्वती 2 वैष्णवीकुले ॥ 16cd
तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी । 17ab
मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया ॥ 17cd
वाराहीकुलसम्भूताः पूजनीया जयार्थिना । 18ab
चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना ॥ 18cd
पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः । 19ab
पावनी याचनी चैव वामनी दमनी तथा ॥ 19cd
विन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी । 20ab
चामुण्डाकुलसम्भूता मण्डले पूजिता जये ॥ 20cd
यमजिह्वा जयन्ती च दुर्जया च यमान्तिका 3 21ab


1 लोला इति ज॰ ।
2 सात्त्विकी इति ज॰ ।
3 जयन्तिकेति ख॰ ।
Image-P.108


विडाली रेवती चैव जया च विजया तथा ॥ 21cd
महालक्ष्मीकुले जाता अष्टाष्टकमुदाहृतं ॥ 22॥ 22ab


इत्याग्नेये महापुराणे अष्टाष्टकादिर्नाम षट्चत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 147

अथ सप्तचत्वारिंशदधिकशततमो ऽध्यायः ।

त्वरितापूजादिः ।
ईश्वर उवाच । ओं गुह्यकुब्जिके हुं फट् मम सर्वोपद्रवान् यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते करिष्यति कारयिष्यति तान् सर्वान् हन 2 दंष्ट्राकरालिनि ह्रैं ह्रीं हुं गुह्यकुब्जिकायै स्वाहा । ह्रौं ओं खे 1 वों गुह्यकुब्जिकायै नमः ।
ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः । 1ab
ओं खें ख्यां 2, सर्वजनवशङ्करी तथा स्याज्जनमोहनी ॥ 1cd
ओं ख्यौं 3 सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी तथा । 2ab


1 क्रीं ख ख ये ख्रौं इति छ॰ ।
2 ओं ख ख्यां इति छ॰ । ओं स्फूं इति ग॰ ।
3 ओं ख ख्रौं इति छ॰ । ओं स्फैं इति झ॰ ।
Image-P.109


ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुले पञ्चाक्षरी तथा ॥ 2cd
फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे ह्रूं फट् ह्रीं नमः । ओं ह्रां क्षे वच्छे क्षे क्षो ह्रीं फट् नवेयं त्वरिता पुनर्ज्ञेया ऽर्च्चिता जये ।
ह्रीं सिंहायेत्यासनं स्यात् ह्रीं क्षे हृदयमीरितं । 3ab
वच्छे ऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः ॥ 3cd
क्षें ह्रीं शिखायै वौषट् स्याद् भवेत् क्षें कवचाय हुं । 4ab
ह्रूं नेत्रत्रयाय वौषट् ह्रीमन्तञ्च फडन्तकं ॥ 4cd
ह्रीं कारी 1 खेचरी चण्डा छेदनी क्षोभणी क्रिया । 5ab
क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः ॥ 5cd
अथ दूतीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश्च ताः । 6ab
ह्रीं नले बहुतुण्डे 2 च खगे ह्रीं 3 खेचरे ज्वालिनि ज्वल ख खे छ छे शवविभीषणे 4 च छे चण्डे छेदनि करालि ख खे छे क्षे खरहाङ्गी ह्रीं । क्षे वक्षे कपिले ह क्षे ह्रूं क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि पुटि घोरे ह्रूं फट् 5 ब्रह्मवेतालि मध्ये ।
गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे ॥ 6cd
ह्रौं ह्रूं हः 6 हृदये प्रोक्तं हों हश्च शिरः स्मृतं । 7ab
फां ज्वल ज्वलेति च शिखा वर्म्म इले ह्रं हुं हुं ॥ 7cd


1 क्रीं कारो इति छ॰ ।
2 ह्रीं नले वज्रतुण्डे इति ज॰ ।
3 खगे क्रीमिति छ॰ ।
4 शरविभीषणे इति ज॰ ।
5 क्रूं फट् इति छ॰ ।
6 क्रीं ह्रूं ह इति छ॰ ।
Image-P.110


क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश्च फट् हुं खे वच्छे क्षेः ह्रीं क्षें हुं फट् वा ।
हुं शिरश्चैव मध्ये स्यात् पूर्वादौ खे सदाशिवे । 8ab
व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः ॥ 8cd
क्षें ब्रह्मा हुं तथादित्यो दारुणं फट् स्मृताः सदा ॥ 9॥ 9ab


इत्याग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 148

अथ अष्टचत्वारिंशदधिकशततमो ऽध्यायः ।

सङ्ग्रामविजयपूजा ।
ईश्वर उवाच । ओं डे ख ख्यां सूर्य्याय सङ्ग्रामविजयाय नमः । ह्रां ह्रीं ह्रूं ह्रें ह्रौं ह्रः ।
षडङ्गानि तु सूर्य्यस्य सङ्ग्रामे जयदस्य हि । 1ab
ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं ह्रों क्रें ।
प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥ 1cd
धर्म्मज्ञानञ्च वैराग्यमैश्वर्य्याद्यष्टकं यजेत् । 2ab
अनन्तासनं सिंहासनं पद्मासनमतः परं ॥ 2cd
Image-P.111


कर्णिकाकेशराण्येव सूर्य्यसोमाग्निमण्डलं । 3ab
दीप्ता सूक्ष्मा 1 जया भद्रा विभूतिर्विमला तथा ॥ 3cd
अमोघा विद्युता पूज्या नवमी सर्वतोमुखी । 4ab
सत्त्वं रजस्तमश्चैव प्रकृतिं पुरुषं तथा ॥ 4cd
आत्मानञ्चान्तरात्मानं परमात्मानमर्च्चयेत् । 5ab
सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः ॥ 5cd
उषा प्रभा च सन्ध्या च साया माया बलान्विता । 6ab
विन्दुविष्णुसमायुक्ता 2 द्वारपालास्तथाष्टकं ॥ 6cd
सूर्य्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः । 7ab
पूजया जपहोमाद्यैर्युद्धादौ विजयो भवेत् ॥ 7cd


इत्याग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमो ऽध्यायः ॥

Chapter 149

अथोनपञ्चाशदधिकशततमो ऽध्यायः ॥

लक्षकोटिहोमः ।
ईश्वर उवाच ।
होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं । 1ab
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥ 1cd


1 दीप्ता धूमेति झ॰ ।
2 विन्दु विन्दु समायुक्ता इति छ॰ ।
Image-P.112


अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् । 2ab
प्राणायामांश्च पूर्वाह्णे जुहुयात् पावके हविः ॥ 2cd
भैक्ष्ययावकभक्षी च फलमूलाशनो ऽपि वा । 3ab
क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् ॥ 3cd
यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति । 4ab
दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं ॥ 4cd
सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः । 5ab
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥ 5cd
मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते । 6ab
कोटिहोमन्तु यो राजा कारयेत् पूर्ववद्द्विजैः ॥ 6cd
न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् । 7ab
न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ॥ 7cd
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । 8ab
राक्षसाद्याश्च शाम्यन्ति सर्वे च रिपवो रणे ॥ 8cd
कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा । 9ab
शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् ॥ 9cd
कोटिहोमन्तु यः कुर्य्याद् द्विजो भूपो ऽथवा च विट् । 10ab
यदिच्छेत् प्राप्नुयात्तत्तत् सशरीरो दिवं व्रजेत् ॥ 10cd
गायत्र्या ग्रहमन्त्रैर्वा कुष्माण्डीजातवेदसैः । 11ab
ऐन्द्रवारुणवायव्ययाम्याग्नेयैश्च वैष्णवैः ॥ 11cd
शाक्तेयैः शाम्भवैः सौरैर्मन्त्रैर्होमार्च्चनात्ततः । 12ab
अयुतेनाल्पसिद्धिः स्याल्लक्षहोमो ऽखिलार्त्तिनुत् ॥ 12cd
सर्वपीडादिनाशाय कोटिहोमो ऽखिलार्थदः । 13ab
Image-P.113


यवव्रीहितिलक्षीरघृतकुशप्रसातिकाः ॥ 13cd
पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्त्तिताः । 14ab
अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥ 14cd
तस्मादर्द्धप्रमाणेन लक्षहोमे विधीयते । 15ab
होमो ऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्त्तितः ॥ 15cd


इत्याग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 150

अथ पञ्चाशदधिकशततमो ऽध्यायः ।

मन्वन्तराणि ।
अग्निरुवाच ।
मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः । 1ab
अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥ 1cd
और्वाद्याश्च सप्तर्षय इन्द्रश्चैव शतक्रतुः । 2ab
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे ॥ 2cd
विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः । 3ab
चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तमो मनुः ॥ 3cd
सुशान्तिरिन्द्रो देवाश्च सुधामाद्या वशिष्ठजाः । 4ab
सप्तर्षयो ऽजाद्याः पुत्राश्चतुर्थस्तामसी मनुः ॥ 4cd
Image-P.114


स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः । 5ab
ज्योतिर्द्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥ 5cd
रैवते वितथश्चेन्द्रो अमिताभास्तथा सुराः । 6ab
हिरण्यरोमाद्या मुनयो 1 बलबन्धादयः सुताः ॥ 6cd
मनोजवश्चाक्षुषे ऽथ इन्द्रः स्वात्यादयः सुराः । 7ab
सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥ 7cd
विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः । 8ab
आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥ 8cd
वशिष्ठः काश्यपो ऽथात्रिर्जमदग्निः सगोतमः । 9ab
विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥ 9cd
इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् । 10ab
स्वायम्भुवे मानसो ऽभूदजितस्तदनन्तरे ॥ 10cd
सत्यो हरिर्द्देववरो वैकुण्ठो वामनः क्रमात् । 11ab
छायाजः सूर्य्यपुत्रस्तु भविता चाष्टमो मनुः ॥ 11cd
पूर्वस्य च सवर्णो ऽसौ सावर्णिर्भविताष्टमः । 12ab
सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥ 12cd
मुनयो बलिरिन्द्रश्च विरजप्रमुखाः सुताः । 13ab
नवमो दक्षसावर्णिः पाराद्याश्च तदा सुराः 2 13cd
इन्द्रश्चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः । 14ab
धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥ 14cd
सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः । 15ab


1 हिरण्यरोमाद्या ऋषय इति ञ॰ ।
2 तथा सुरा इति छ॰ ।
Image-P.115


हविष्याद्याश्च मुनयः सुक्षेत्राद्याश्च तत्सुताः ॥ 15cd
धर्म्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः । 16ab
गणश्चेन्द्रो निश्चराद्या मुनयः पुत्रका मनोः ॥ 16cd
सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः । 17ab
ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥ 17cd
तपस्याद्याः सप्तर्षयः सुता वै देववन्मुखाः । 18ab
मनुस्त्रयोदशो रौच्यः सूत्रामाणादयः सुराः ॥ 18cd
इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः । 19ab
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥ 19cd
मनुश्चतुर्द्दशो भौत्यः शुचिरिन्द्रो भविष्यति । 20ab
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥ 20cd
चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः । 21ab
प्रयर्त्तयन्ति देवांश्च भुवि सप्तर्षयो दिवः ॥ 21cd
देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते । 22ab
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्द्दश ॥ 22cd
मन्वाद्याश्च हरिर्वेदं द्वापरान्ते विभेद सः । 23ab
आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः ॥ 23cd
एकश्चासीद् यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । 24ab
आध्वर्य्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥ 24cd
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः । 25ab
प्रथमं व्यासशिष्यस्तु पैलो ह्यृग्वेदपारगः ॥ 25cd
इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां । 26ab
बौध्यादिभ्यो ददौ सोपि चतुर्द्धा निजसंहितां ॥ 26cd
Image-P.116


यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः । 27ab
वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥ 27cd
काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः । 28ab
सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥ 28cd
सुमन्तुश्च सुकर्म्मा च एकैकां संहितां ततः । 29ab
गृह्णते च सुकर्म्माख्यः सहस्रं संहितां गुरुः ॥ 29cd
सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं । 30ab
शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥ 30cd
पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥ 31॥ 31ab


इत्याग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 151

अथैकपञ्चाशदधिकशततमो ऽध्यायः ।

वर्णेतरधर्माः ।
अग्निरुवाच ।
मन्वादयो भुक्तिमुक्तिधर्म्मांश्चीर्त्त्वाप्नुवन्ति यान् । 1ab
प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः ॥ 1cd
पुष्कर उवाच ।
वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् । 2ab
मन्वादिभिर्न्निगदितान् वासुदेवादितुष्टिदान् ॥ 2cd
Image-P.117


अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः । 3ab
तीर्थानुसरणं दानं ब्रह्मचर्य्यममत्सरः ॥ 3cd
देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम । 4ab
श्रवणं सर्वधर्म्माणां पितॄणां पूजनं तथा ॥ 4cd
भक्तिश्च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता । 5ab
आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥ 5cd
वर्णाश्रमाणां सामान्यं धर्म्माधर्मं 1 समीरितं । 6ab
यजनं याजनं दानं वेदाद्यध्यापनक्रिया ॥ 6cd
प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् । 7ab
दानमध्ययनञ्चैव यजनञ्च यथाविधि ॥ 7cd
क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्त्तितं । 8ab
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥ 8cd
कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्त्तितं । 9ab
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ॥ 9cd
मौञ्जीबन्धनतो जन्म विप्रादेश्च द्वितीयकं । 10ab
आनुलोम्येन वर्णानां जातिर्म्मातृसमा स्मृता ॥ 10cd
चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः । 11ab
सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस्तथा ॥ 11cd
पुक्कसः क्षत्रियापुत्रः शूद्रात् स्यात् प्रतिलोमजः । 12ab
मागधः स्यात्तथा वैश्याच्छूद्रादायोगवो भवेत् ॥ 12cd
वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः । 13ab


1 धर्मरूपमिति ग॰ , घ॰ , ङ॰ , छ॰ , ञ॰ च ।
Image-P.118


विवाहः सदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ॥ 13cd
चण्डालकर्म निर्द्दिष्टं बध्यानां घातनं तथा । 14ab
स्त्रीजीवन्तु तद्रक्षाप्रोक्तं 1 वैदेहकस्य च ॥ 14cd
सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता । 15ab
स्तुतिक्रिया मागधानां तथा चायोगवस्य च ॥ 15cd
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनं । 16ab
वहिर्ग्रामनिवासश्च मृतचेलस्य धारणं ॥ 16cd
न संस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते । 17ab
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽत्र यः कृतः ॥ 17cd
स्त्रीबालाद्युपपतौ वा वाह्यानां सिद्धिकारणं । 18ab
सङ्करे जातयो ज्ञेयाः पितुर्मातुश्च कर्मतः ॥ 18cd


इत्याग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 152

अथ द्विपञ्चाशदधिकशततमो ऽध्यायः ।

गृहस्थवृत्तिः ।
पुष्कर उवाच ।
आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । 1ab
क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् ॥ 1cd
कृषिबाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश्चरेत् । 2ab
गोरसं गुडलवणलाक्षामांसानि वर्जयेत् ॥ 2cd


1 श्रीजीवनञ्च तत्र स्यात् प्रोक्तमिति ग॰ , घ॰ , ङ॰ , ञ॰ च ।
Image-P.119


भूमिं भित्वौषधीश्छित्वा हत्वा कोटपिपीलिकान् । 3ab
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥ 3cd
हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां । 4ab
चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां ॥ 4cd
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । 5ab
सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न ॥ 5cd


इत्याग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 153

अथ त्रिपञ्चाशदधिकशततमो ऽध्यायः ।

ब्रह्मचर्याश्रमधर्मः ।
पुष्कर उवाच ।
धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु । 1ab
षोडशर्त्तुनिशा स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः ॥ 1cd
व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते । 2ab
गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात् पुरा ॥ 2cd
षष्ठे ऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं । 3ab
अच्छिन्ननाड्यां कर्त्तव्यं जातकर्म विचक्षणैः ॥ 3cd
अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते । 4ab
शर्म्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥ 4cd
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः । 5ab
Image-P.120


शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च ॥ 5cd
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः । 6ab
बालं निवेदयेद्भर्त्रे तव पुत्रो ऽयमित्युत ॥ 6cd
यथाकुलन्तु चूडाकृद् ब्राह्मणस्योपनायनं । 7ab
गर्भाष्टमे ऽष्टमे वाब्दे गर्भादेकादशे नृपे ॥ 7cd
गर्भात्तु द्वादशे वैश्ये षोड़शाब्दादितो न हि । 8ab
मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्त्तिताः ॥ 8cd
मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां । 9ab
पर्णपिप्यलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥ 9cd
केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु । 10ab
अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः ॥ 10cd
वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं । 11ab
आदिमध्यावसानेषु भवच्छब्दोपलक्षितं ॥ 11cd
प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् । 12ab
स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः ॥ 12cd
उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः । 13ab
आचारमग्निकार्य्यं च सन्ध्योपासनमेव च ॥ 13cd
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । 14ab
श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ 14cd
सायं प्रातश्च जुहुयान् नामेध्यं व्यस्तहस्तकं । 15ab
मधु मांस जनैः सार्द्धं गीतं नृत्यञ्च वै त्यजेत् 1 15cd


1 नृत्यञ्च वर्जयेदिति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ञ॰ , ट॰ च । सायं प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.121


हिंसाम्परापवादं च अश्लीलं च विशेषतः । 16ab
दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं ॥ 16cd
वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः । 17ab
नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ ॥ 17cd


इत्याग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 154

अथ चतुःपञ्चाशदधिकशततमो ऽध्यायः ।

विवाहः ।
पुष्कर उवाच ।
विप्रश्चतस्रो विन्देत भार्य्यास्तिस्रस्तु भूमिपः । 1ab
द्वे च वैश्यो यथाकामं भार्य्यैकामपि चान्त्यजः ॥ 1cd
धर्म्मकार्य्याणि सर्वाणि न कार्य्याण्यसवर्णया । 2ab
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरं ॥ 2cd
वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा । 3ab
सकृत् कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥ 3cd
अपत्यविक्रयासक्ते निष्कृतिर्न्न विधीयते । 4ab
कन्यादानं शचीयागो 1 विवाहो ऽथ चतुर्थिका ॥ 4cd


1 सतीयोग इति ख॰ , छ॰ च ।
Image-P.122


विवाहमेतत् कथितं नामकर्म्मचतुष्टयं । 5ab
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ॥ 5cd
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते । 6ab
मृते तु देवरे देयात् तदभावे यथेच्छया ॥ 6cd
पूर्व्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं । 7ab
रोहिणी चेति चरणे भगणः शस्यते सदा ॥ 7cd
नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव । 8ab
पितृतः सप्तमादूर्द्ध्वं मातृतः पञ्चमात्तथा ॥ 8cd
आहूय दानं ब्राह्मः स्यात् कुलशीलयुताय तु । 9ab
पुरुषांस्तारयेत्तज्जो नित्यं कन्याप्रदानतः ॥ 9cd
तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते । 10ab
प्रार्थिता दीयते यस्य प्राजापत्यः स धर्म्मकृत् ॥ 10cd
शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः । 11ab
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥ 11cd
वैवाहिके ऽह्नि 1 कुर्वीत कुम्भकारमृदा शुचीं । 12ab
जलाशये तु तां पूज्य वाद्याद्यैः 2 स्त्रीं गृहत्रयेत् ॥ 12cd
प्रशुप्ते केशवे नैव विवाहः कार्य्य एव हि । 13ab
पौषे चैत्रे कुजदिने रिक्ताविष्टितथौ न च ॥ 13cd
न शुक्रजीवे ऽस्तमिते न शशाङ्के ग्रहार्द्दिते । 14ab
अर्क्कार्क्किभौमयुक्ते भे व्यतीपातहते न हि ॥ 14cd
सौम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा । 15ab


1 वैवाहिकेब्दे इति घ॰ , ङ॰ , ञ॰ , ट॰ च ।
2 वाद्यौघैरिति ग॰ , घ॰ , ञ॰ च ।
Image-P.123


उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं ॥ 15cd
मानुषाख्यस्तथा लग्नो मानुषाख्यांशकः शुभः । 16ab
तृतीये च तथा षष्ठे दशमैकादशे ऽष्टमे ॥ 16cd
अर्क्कार्क्किचन्दतनयाः प्रशस्ता न कुजो ऽष्टमः । 17ab
सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः ॥ 17cd
तेषामपि तथा मध्यात् षष्ठः शुक्रो न शस्यते । 18ab
वैवाहिके भे कर्त्तव्या तथैव च चतुर्थिका ॥ 18cd
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः । 19ab
पर्व्ववर्जं स्त्रियं गच्छेत् सत्या दत्ता सदा रतिः ॥ 19cd


इत्याग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 155

अथ पञ्चपञ्चाशदधिकशततमो ऽध्यायः ।

आचारः ।
पुष्कर उवाच ।
ब्राह्मे मुहूर्त्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् । 1ab
उभे मूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः ॥ 1cd
रातौ च दक्षिणे कुर्य्यादुभे सन्ध्ये यथा दिवा । 2ab
न मार्गादौ जले वीथ्यां सतृणायां सदाचरेत् ॥ 2cd
Image-P.124


शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं । 3ab
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं ॥ 3cd
क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्त्तितं । 4ab
अस्नातस्याफलं कर्म्म प्रातःस्नानं चरेत्ततः ॥ 4cd
भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकं । 5ab
ततो ऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ॥ 5cd
तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः । 6ab
संशोधितमलः पूर्व्वं निमग्नश्च जलाशये ॥ 6cd
उपस्पृश्य ततः कुर्य्यादम्भसः परिमार्जनं । 7ab
हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ ॥ 7cd
आपोहिष्ठेति तिसृभिरिदमापस्तथैव च । 8ab
ततो जलाशये मग्नः कुर्य्यादन्तर्जलं जपं ॥ 8cd
तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् । 9ab
युञ्जते मन इत्येवं सूक्तं वाप्यथ पौरुषं ॥ 9cd
गायत्रीं तु विशेषेण अघमर्षणसूक्तके । 10ab
देवता भाववृत्तस्तु ऋषिश्चैवाघमर्षणः ॥ 10cd
छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः । 11ab
आपीडमानः शाटीं तु देवतापितृतर्पणं 1 11cd
पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं । 12ab
ततो ऽग्निहवनं 2 कुर्य्याद्दानं दत्वा 3 तु शक्तितः ॥ 12cd


1 तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
2 ततो ऽग्निहरणमिति ङ॰ , छ॰ च ।
3 दीपं दत्वेति झ॰ ।
Image-P.125


ततः समभिगच्छेत योगक्षेमार्थमीश्वरं । 13ab
आसनं शयनं यानं जाया ऽपत्यङ्कमण्डलुः ॥ 13cd
आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् । 14ab
भाराक्रान्तस्य गुर्व्विण्याः पन्था देयो गुरुष्वपि ॥ 14cd
न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि । 15ab
नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं ॥ 15cd
कार्पासास्थि तया भस्म नाक्रामेद् यच्च कुत्सितं । 16ab
अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि 1 16cd
नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं । 17ab
अर्थायतनशास्त्रेषु तथैव स्यात् कुतूहली ॥ 17cd
लोष्टमर्द्दी तृणच्छेदी नखखादी विनश्यति । 18ab
मुखादिवादनं नेहेद् विना दीपं न रात्रिगः 2 18cd
नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् । 19ab
कथाभङ्गं न कुर्व्वीत न च वासोविपर्य्ययं ॥ 19cd
भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्त्तयेत् क्वचित् । 20ab
पालाशमासनं वर्ज्यं देवादिच्छायया 3 व्रजेत् ॥ 20cd
न मध्ये पूज्ययोर्यायात् नोच्छिष्टस्तारकादिदृक् । 21ab
नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद् द्विहस्तकं ॥ 21cd
असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् । 22ab
मलादि प्रक्षिपेन्नाप्सु 4 न नग्नः स्नानमाचरेत् ॥ 22cd


1 परभृतो भवेन्न हि इति झ॰ ।
2 लोष्टमर्द्दीत्यादिः, न रात्रिग इत्यन्तः पाठः, ग॰ पुस्तके नास्ति ।
3 देवाद्रिच्छाययेति ख॰ , छ॰ , ग॰ च ।
4 मलादि क्षेपयेन्नाप्सु इति ख॰ , ट॰ च ।
Image-P.126


ततः समभिगच्छेत योगक्षेमार्थमीश्वरं । 23ab
स्रजन्नात्मनाप्पनयेत् खरादिक-रजस्त्यजेत् ॥ 23cd
हीनान्नावहसेत् गच्छेन्नादेशे नियसेच्च तैः । 24ab
वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके ॥ 24cd
रजस्वलादिपतितैर्न भाषेत् केशवं स्मरेत् । 25ab
नासंवृतमुखः कुर्य्याद्धासं 1 जृम्भां तथा क्षुतं ॥ 25cd
प्रभोरप्यवमानं खद्गोपयेद्वचनं बुधः । 26ab
इन्द्रियाणां नानुकूली वेगरोधं न कारयेत् ॥ 26cd
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पो ऽपि 2 भार्गव । 27ab
रथ्यातिगः सदाचामेत् 3 विभृयान्नाग्निवारिणी ॥ 27cd
न हुङ्कुर्य्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् । 28ab
प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् ॥ 28cd
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् । 29ab
स्त्रीणामीर्षा 4 न कर्त्तव्या त्रिश्वासन्तासु वर्जयेत् ॥ 29cd
धर्मश्रुतिं देवरतिं 5 कुर्य्याद्धर्मादि नित्यशः 6 30ab
सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं ॥ 30cd


1 कुर्याद्धास्यमिति ख॰ ,ट॰ च ।
2 रिपुर्वत्सोपि इति ङ॰ ।
3 समाचामेदिति छ॰ ।
4 स्त्रीणामिच्छेति क॰ ।
5 देवनतिमिति ग॰ , घ॰ , ङ॰ , ञ॰ , ट॰ च । वेदनतिमिति ख॰ ,छ॰ च ।
6 भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.127


षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा । 31ab
दूराद्गृहान् मूत्रविष्ठे नोत्तमैर्वैरमाचरेत् ॥ 31cd


इत्याग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 156

अथ षट्पञ्चाशदधिकशततमो ऽध्यायः ।

द्रव्यचुद्धिः ।
पुष्कर उवाच ।
द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं । 1ab
शुद्ध्येन् मूत्रपुरीषाद्यैः स्पृष्टन्ताम्रं सुवर्णकं ॥ 1cd
आवर्त्तितञ्चान्यथा तु वारिणाम्लेन ताम्रकं । 2ab
क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु ॥ 2cd
अब्जानां 1 चैव भाण्डानां सर्वस्याश्ममयस्य च । 3ab
शाकरज्जुमूलफलवैदलानां तथैव च ॥ 3cd
मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि । 4ab
उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे ॥ 4cd


1 दुष्टानामिति ट॰ ।
Image-P.128


शोधनान्म्रक्षणाद्वस्त्रे 1 मृत्तिकाद्भिर्विशोधनं । 5ab
बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात् ॥ 5cd
प्रोक्षणात् संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् । 6ab
शयनासनयानानां शूर्पस्य शकटस्य च ॥ 6cd
शुद्धिः सम्प्रोक्षणाज् ज्ञेया पलालेन्धनयोस्तथा । 7ab
सिद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च ॥ 7cd
गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा । 8ab
निर्यासानां गुडानाञ्च लवणानां च शोषणात् ॥ 8cd
कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस्तथा । 9ab
शुद्धन्नदीगतं तोयं पुण्यन्तद्वत् प्रसारितं ॥ 9cd
मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं । 10ab
नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं ॥ 10cd
मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि । 11ab
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च ॥ 11cd
रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च । 12ab
मार्जारश्चङ्क्रमाच्छुद्धश्चतुर्थे ऽह्नि रजस्वला ॥ 12cd
स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्म्मणि । 13ab
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ 13cd
एकां लिङ्गे मृदं दद्यात् करयोस्त्रिद्विमृत्तिकाः । 14ab
ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं ॥ 14cd
श्रीफलैरंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः । 15ab


1 शोधनाभ्युक्षणाद्वस्त्रे इति घ॰ , ङ॰ च ।
Image-P.129


शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्त्तिता ॥ 15cd
पुष्पाणाञ्च फलानाञ्च प्रोक्षणाज्जलतो ऽखिलं । 16ab


इत्याग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 157

अथ सप्तपञ्चाशदधिकशततमो ऽध्यायः ।

शावाशौचादिः ।
पुष्कर उवाच ।
प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च । 1ab
दशाहं शावमाशौचं सपिण्देषु विधीयते ॥ 1cd
जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम । 2ab
द्वादशाहेन राजन्यः पक्षाद्वैश्यो ऽथ मासतः ॥ 2cd
शूद्रो ऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं । 3ab
षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥ 3cd
ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च । 4ab
विट्शूद्रयोनेः शुद्धिः स्यात् क्रमात् परशुरामक ॥ 4cd
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः । 5ab
Image-P.130


आदन्तजननात् सद्य आचूडान्नैशिकी श्रुतिः 1 5cd
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं । 6ab
ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥ 6cd
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये । 7ab
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्त्तिता ॥ 7cd
स्त्रीणामकृतचूड़ानां विशुद्धिर्न्नैशिकी स्मृता । 8ab
तथा च कृतचूड़ानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥ 8cd
विवाहितासु नाशौचं पितृपक्षे विधीयते । 9ab
पितुर्गृहे प्रसूतानां विशुद्धिर्न्नैशिकी स्मृता ॥ 9cd
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा । 10ab
विवाहिता हि चेत् कन्या म्रियते पितृवेश्मनि ॥ 10cd
तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः । 11ab
समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥ 11cd
असमानं द्वितीयेन धर्म्मराजवचो यथा । 12ab
देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥ 12cd
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् । 13ab
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥ 13cd
तथा संवत्सरे ऽतीते स्नात एव विशुद्ध्यति । 14ab
मातामहे तथा ऽतीते आचार्य्ये च तथा मृते ॥ 14cd
रात्रिभिर्म्मासतुल्याभिर्गर्भस्रावे विशोधनं । 15ab
सपिण्दे ब्राह्मणे वर्णाः सर्व्व एवाविशेषतः ॥ 15cd


1 आचडान्नैशिकी तथेति ट॰ ।
Image-P.131


दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः । 16ab
वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥ 16cd
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् । 17ab
कीर्त्तयेच्च तथा तस्य नामगोत्रे समाहितः ॥ 17cd
भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च 1 18ab
विसृष्टाक्षततोयेषु गोत्रनामानुकीर्त्तनैः ॥ 18cd
चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं । 19ab
वितस्तिदीर्घं कर्त्तव्यं विकर्षूणां तथा त्रयं ॥ 19cd
विकर्षूणां समीपे च ज्वालयेज् ज्वलनत्रयं । 20ab
सोमाय वह्नये राम यमाय च समासतः ॥ 20cd
जुहुयादाहुतीः सम्यक् सर्वत्रैव चतुस्त्रयः । 21ab
पिण्डनिर्व्वपणं कुर्य्यात् प्राग्वदेव पृथक् पृथक् ॥ 21cd
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् । 22ab
मध्ये चेदधिमासः स्यात् कुर्य्यादभ्यधिकन्तु तत् ॥ 22cd
अथवा द्वादशाहेन सर्व्वमेतत् समापयेत् । 23ab
संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥ 23cd
तदा द्वादशके श्राद्धे कार्य्यं तदधिकं भवेत् । 24ab
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥ 24cd
प्रेताय तत ऊर्द्धवं च तस्यैव पुरुषत्रये । 25ab
पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥ 25cd
सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ । 26ab


1 धनेषु चेति क॰ , ख॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ च ।
Image-P.132


योजयेत् प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥ 26cd
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् । 27ab
पृथक् पृथक् प्रकर्त्तव्यं कर्मैतत् कर्म्मपात्रके ॥ 27cd
मन्त्रवर्जमिदं कर्म्म शूद्रस्य तु विधीयते । 28ab
सपिण्डीकरणं स्त्रीणां कार्य्यमेवं तदा भवेत् 1 28cd
श्राद्धं कुर्य्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं । 29ab
गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥ 29cd
शक्या गणयितुं लोके नत्वतीताः पितामहाः । 30ab
काले सततगे स्थैर्यं नास्ति तस्मात् क्रियां चरेत् ॥ 30cd
देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् । 31ab
नोपकुर्य्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥ 31cd
भृग्वग्निपाशकाम्भोभिर्म्मृतानामात्मघातिनां । 32ab
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥ 32cd
यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः । 33ab
राजाज्ञाकारिणो 2 ये च स्नायाद्वै प्रेतगाम्यपि ॥ 33cd
मैथुने कटधूमे च सद्यः स्नानं विधीयते । 34ab
द्विजं न निर्हरेत् 3 प्रेतं शूद्रेण तु कथञ्चन ॥ 34cd
न च शूद्रं द्विजेनापि तयोर्द्दोषो हि जायते 4 35ab
अनाथविप्रप्रेतस्य वहनात् स्वर्गलोकभाक् ॥ 35cd


1 कार्यमेवं तथा भवेदिति छ॰ , ङ॰ , ञ॰ च । कार्यमेतत्तथा भवेदिति झ॰ ।
2 राजाज्ञाकारका इति ट॰ ।
3 न निर्दहेदिति ख॰ ।
4 तयोर्दोषो ऽभिजायते इति ङ॰ ।
Image-P.133


सङ्ग्रामे जयमाप्नोति प्रेते ऽनाथे च काष्ठदः । 36ab
सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥ 36cd
परिक्रम्य ततः स्नानं कुर्य्युः सर्व्वे सवाससः । 37ab
प्रेताय च तथा दद्युस्त्रींस्त्रींश्चैवोदकाञ्जलीन् ॥ 37cd
द्वार्य्यश्मनि पदं दत्वा प्रविशेयुस्तथा गृहं । 38ab
अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥ 38cd
पृथक् शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् । 39ab
एकः पिण्दो दशाहे तु श्मश्रुकर्म्मकरः शुचिः ॥ 39cd
सिद्धार्थकैस्तिलैर्व्विद्वान् मज्जेद्वासोपरं दधत् 1 40ab
अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥ 40cd
कार्य्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया । 41ab
चतुर्थे च दिनेकार्य्यस्तथास्थ्नां चैव सञ्चयः ॥ 41cd
अस्थिसञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते ॥ 42॥ 42ab


इत्याग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमो ऽध्यायः ॥

Chapter 158

अथाष्टपञ्चाशदधिकशततमो ऽध्यायः ।

स्रावाद्यशौचं ।
पुष्कर उवाच ।
स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं । 1ab


1 सिद्धार्थकैस्तिलैर्विप्रान् यजद्वासो ऽपरं दधदिति घ॰ , ङ॰ , ञ॰ च । सिद्धार्थकैस्तिलैर्विद्वान् स्नायाद्वासो ऽपरं दधदिति ग॰ , ट॰ च ।
Image-P.134


रात्रिभिर्म्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥ 1cd
चातुर्म्मासिकपातान्ते दशाहं पञ्चमासतः । 2ab
राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥ 2cd
अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं । 3ab
स्त्रीणां विशुद्धिरुदिता 1 स्नानमात्रेण वै पितुः ॥ 3cd
न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः । 4ab
सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥ 4cd
आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं । 5ab
दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥ 5cd
अजातदन्ते तु मृते कृतचूडे ऽर्भके तथा । 6ab
प्रेते न्यूने त्रिभिर्व्वर्षैर्म्मृते शुद्धिस्तु नैशिकी ॥ 6cd
द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्व्वैश्ये मृते तथा । 7ab
शुद्धिः शूद्रे पञ्चभिः स्यात् प्राग्विवाहाद् द्विषट्त्वहः 2 7cd
यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते । 8ab
तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैश्ययोः ॥ 8cd
द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद् भुवि । 9ab
न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥ 9cd
जातदन्तस्य वा कार्य्या स्यादुपनयनाद्दश । 10ab
एकाहाच्छुद्ध्यते विप्रो यो ऽग्निवेदसमन्वितः ॥ 10cd
हीने हीनतरे चैव त्र्यहश्चतुरहस्तथा । 11ab
पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥ 11cd


1 विशुद्धिः कथितेति घ॰ , ङ॰ , ञ॰ च ।
2 द्विषट्ककमिति ट॰ ।
Image-P.135


क्षत्रियो नवसप्ताहाच्छुद्ध्येद्विप्रो गुणैर्युतः । 12ab
दशाहात् सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥ 12cd
दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः । 13ab
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ 13cd
गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे । 14ab
एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥ 14cd
दासान्तेवासिभृतकाः शिष्याश्चैवात्र वासिनः । 15ab
स्वामितुल्यमशौचं स्यान्मृते पृथक् पृथग्भवेत् ॥ 15cd
मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निभिः । 16ab
दाहादूर्द्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥ 16cd
सर्वेषामेव वर्णानान्त्रिभागात् स्पर्शनम्भवेत् । 17ab
त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥ 17cd
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा । 18ab
अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्व्वशः ॥ 18cd
अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् । 19ab
पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥ 19cd
पितृगोत्रं कुमारीणां व्यूढानां भर्त्तृगोत्रता । 20ab
जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥ 20cd
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं । 21ab
सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥ 21cd
एकाहतो ह्याविवाहादूर्द्ध्वं हस्तोदकात् त्र्यहं । 22ab
पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥ 22cd
दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु । 23ab
Image-P.136


षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥ 23cd
एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु । 24ab
अनौरसेषु पुत्रेषु भार्य्यास्वन्यगतासु च ॥ 24cd
परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते । 25ab
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥ 25cd
आत्मनस्त्यागिनाञ्चैव निवर्त्तेतोदकक्रिया । 26ab
मात्रैकया द्विपितरौ भ्रातरावन्यगामिनौ ॥ 26cd
एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत् 1 27ab
सपिण्डानामशौचं हि समानोदकतां वदे ॥ 27cd
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । 28ab
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥ 28cd
दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके । 29ab
त्रिरात्रेण सकुल्यास्तु स्नानात् 2 शुद्ध्यन्ति गोत्रिणः ॥ 29cd
सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । 30ab
समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥ 30cd
जन्मनामस्मृते वैतत् तत्परं गोत्रमुच्यते । 31ab
विगतन्तु विदेशस्थं शृणुयाद्यो ह्यनिर्द्दशं ॥ 31cd
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् । 32ab
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ 32cd
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति । 33ab


1 मृतके तु त्र्यहो भवेदिति घ॰ , ङ॰ , ञ॰ च । मतके तु तथा भवेदिति झ॰ ।
2 स्नाता इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.137


मातुले पक्षिणो रात्रिः शिष्यर्त्विग्बान्धवेषु च ॥ 33cd
मृते जामातरि प्रेते दैहित्रे भगिनीसुते 1 34ab
श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥ 34cd
मातामह्यां तथाचार्य्ये मृते मातामहे त्र्यहं । 35ab
दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥ 35cd
उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा । 36ab
सत्रिव्रति 2 ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥ 36cd
दाने यज्ञे विवाहे च सद्यः शौचं विधीयते । 37ab
विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥ 37cd
असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च । 38ab
प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥ 38cd
अपमानात्तथा 3 क्रोधात् स्नेहात्परिभवाद्भयात् । 39ab
उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥ 39cd
आत्मघाती चैकलक्षं वसेत्स नरके शुचौ । 40ab
वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥ 40cd
त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं । 41ab
तृतीये तूदकं कार्य्यं चतुर्थे श्राद्धमाचरेत् ॥ 41cd
विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डके 4 42ab
पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥ 42cd
पितृमात्रादिपाते तु आर्द्रवासा ह्युपोषितः । 43ab


1 प्रेते, भगिनीसुत इत्यपि इति ट॰ ।
2 यतिव्रतीति ज॰ ।
3 अपमानादथेति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
4 विद्युदादिहतानाञ्च त्र्यहाच्छुद्धिर्विधीयते इति ट॰ ।
Image-P.138


अतीतेब्दे प्रकुर्वीत प्रेतकार्य्यं यथाविधि ॥ 43cd
यः कश्चित्तु हरेत् प्रेतमसपिण्डं कथञ्चन । 44ab
स्नात्वा सचेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥ 44cd
यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति । 45ab
अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् ॥ 45cd
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । 46ab
पदे पदे यज्ञफलं शुद्धिः स्यात् स्नानमात्रतः ॥ 46cd
प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः । 47ab
मृतस्य बान्धवैः सार्द्धं कृत्वा च परिदेवनं ॥ 47cd
वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः 1 48ab
शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा ॥ 48cd
भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः । 49ab
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ॥ 49cd
नयेत् प्रेतं स्नापितञ्च पूजितं कुसुमैर्द्दहेत् । 50ab
नग्नदेहं दहेन् नैव किञ्चिद्देहं परित्यजेत् ॥ 50cd
गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा । 51ab
आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः ॥ 51cd
अनाहिताग्निरेकेन लौकिकेनापरस्तथा । 52ab
अस्मात् त्वमभिजातो ऽसि त्वदयं जायतां पुनः ॥ 52cd
असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः । 53ab
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः ॥ 53cd


1 दानश्राद्धादिकर्म चेति झ॰ ।
Image-P.139


एवं मातामहाचार्य्यप्रेतानाञ्चोदकक्रिया । 54ab
काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां ॥ 54cd
अपो नः शोशुचिदयं दशाहञ्च सुतो ऽर्पयेत् । 55ab
ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥ 55cd
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्त्तिता । 56ab
पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ॥ 56cd
विदश्य निम्बपत्राणि नियतो द्वारि वेश्मनः । 57ab
आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् ॥ 57cd
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । 58ab
अक्षारलवणान्नः स्युर्न्निर्मांसा भूमिशायिनः ॥ 58cd
क्रीतलब्धाशनाः स्नाता आदिकर्त्ता दशाहकृत् । 59ab
अभावे ब्रह्मचारी तु कुर्य्यात्पिण्डोदकादिकं ॥ 59cd
यथेदं शावमाशौचं सपिण्डेषु विधीयते । 60ab
जननेप्येवमेवं स्यान्निपुणां शुद्धिमिच्छतां ॥ 60cd
सर्वेषां शावमाशौचं मातापित्रोश्च सूतकं । 61ab
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ 61cd
पुत्रजन्मदिने श्राद्धं कर्त्तव्यमिति निश्चितं । 62ab
तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥ 62cd
मरणं मरणेनैव सूतकं सूतकेन तु । 63ab
उभयोरपि यत् पूर्वं तेनाशौचेन शुद्ध्यति ॥ 63cd
सूतके मृतकं चेत्स्यान् मृतके त्वथ सूतकं । 64ab
तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥ 64cd
समानं लघ्वशौचन्तु प्रथमेन समापयेत् । 65ab
Image-P.140


असमानं द्वितीयेन धर्म्मराजवचो यथा ॥ 65cd
शावान्तः शाव आयाते 1 पूर्वाशौचेन शुद्ध्यति । 66ab
गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥ 66cd
मृतके सूतके वापि रात्रिमध्ये ऽन्यदापतेत् । 67ab
तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् ॥ 67cd
प्रभाते यद्यशौचं स्याच्छुद्धेरंश्च त्रिभिर्दिनैः । 68ab
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥ 68cd
दानादि विनिवर्त्तेत भोजने कृत्यमाचरेत् । 69ab
अज्ञाते पातकं नाद्ये भोक्तुरेकमहो ऽन्यथा 2 69cd


इत्याग्नेये महापुराणे स्रावाद्यशौचं नाम अष्टपञ्चाशदधिकशततमो ऽध्यायः ॥

Chapter 159

अथैकोनषष्ट्यधिकशततमो ऽध्यायः ।

असंस्कृतादिशौचं ।
पुष्कर उवाच ।
संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः । 1ab
अस्थ्नाङ्गङ्गाम्भसि क्षेपात् प्रेतस्याभ्युदयो भवेत् ॥ 1cd


1 आपात इति ख॰ , छ॰ च ।
2 अननेप्येवमेवं स्यादित्यादिः, भोक्तुरेकमहोन्यथेत्यन्तः पाठः घ॰ , झ॰ , ञ॰ पुस्तकत्रयेषु नास्ति ।
Image-P.141


गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थतिः । 2ab
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥ 2cd
तेषामपि तथा गाङ्गे तोये ऽस्थ्नां पतनं हितं । 3ab
तेषां दत्तं जलं चान्नं गगने तत् प्रलीयते ॥ 3cd
अनुग्रहेण महता प्रेतस्य पतितस्य च । 4ab
नारायणबलिः कार्य्यस्तेनानुग्रहमश्नुते ॥ 4cd
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति । 5ab
पतनात्रायते यस्मात् तस्मात् पात्रं जनार्दनः ॥ 5cd
पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं । 6ab
दृष्ट्वा लोकान् म्रियमाणान् सहायं धर्ममाचरेत् ॥ 6cd
मृतो ऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं । 7ab
जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते 1 7cd
धर्म एको 2 व्रजत्येनं यत्र क्वचन गामिनं । 8ab
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥ 8cd
न हि प्रतीक्षते मृत्यः कृतः वास्य न वा कृतं । 9ab
क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥ 9cd
वृकीवोरणमासाद्य मृत्युरादाय गच्छति । 10ab
न कालस्य प्रियः कश्चिद् द्वेष्यश्चास्य न विद्यते ॥ 10cd
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनं । 11ab
नाप्राप्तकालो म्रियते बिद्धः शरशतैरपि ॥ 11cd
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । 12ab


1 पन्था विभज्यते इति ग॰ ।
2 धर्म एवेति ज॰ ।
Image-P.142


औषधानि 1 न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥ 12cd
वत्सवत् प्राकृतं कर्म कर्त्तारं विन्दति ध्रुवं । 13ab
अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥ 13cd
कौमारादि यथा देहे तथा देहान्तरागमः । 14ab
नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥ 14cd
देही नित्यमबध्यो ऽयं यतः शोकं ततस्त्यजेत् ॥ 15॥ 15ab


इत्याद्याग्नेये महापुराणे शौचं नामैकोनष्ट्यधिकतशततमो ऽध्यायः ॥

Chapter 160

अथ षष्ट्यधिकशततमो ऽध्यायः ।

वानप्रस्थाश्रमः ।
पुष्कर उवाच ।
वानप्रस्थयतीनाञ्च 2 धर्मं वक्ष्ये ऽधुना शृणु । 1ab
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥ 1cd
वने वासः पयोमूलनीवारफलवृत्तिता । 2ab
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता ॥ 2cd
देवातिथीनां पूजा च धर्मो ऽयं वनवासिनः । 3ab


1 औषधादीति क॰ ।
2 यतीनान्तु इति ङ॰ ।
Image-P.143


गृही ह्यपत्यापत्यञ्च दृष्ट्वारण्यं 1 समाश्रयेत् ॥ 3cd
तृतीयमायुषो भागमेकाकी वा सभार्य्यकः । 4ab
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्रावकाशिकः ॥ 4cd
आर्द्रवासाश्च हेमन्ते तपश्चोग्रञ्चरेद्बली 2 5ab
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः 3 5cd


इत्याग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 161

अथैकषष्ट्यधिकशततमो ऽध्यायः ।

यतिधर्मः ।
पुष्कर उवाच ।
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं । 1ab
चतुर्थमायुषो भागं प्राप्य सङ्गात् परिवर्जयेत् 4 1cd
यदह्नि विरजेद्धीरस्तदह्नि 5 च परिव्रजेत् । 2ab
प्राजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥ 2cd
आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् । 3ab


1 दृष्ट्वावश्यमिति ङ॰ ।
2 तपश्चोग्रं वने चरेदिति ङ॰ ।
3 भजेद्दिशमजिह्मग इति ङ॰ ।
4 सङ्गान् परित्यजेदिति ङ॰ ।
5 विरजेद्वापि तदह्नि इति ङ॰ ।
Image-P.144


एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥ 3cd
उपेक्षको ऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः । 4ab
कपालं वृक्षमूलञ्च 1 कुचेलमसहायाता ॥ 4cd
समता चैव सर्वस्मिन्नेतन्मुक्तस्य 2 लक्षणं । 5ab
नाभिनन्देत मरणं नाभिनन्देत जीवनं 3 5cd
कालमेव प्रतीक्षेत निदेशं भृतको यथा । 6ab
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥ 6cd
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् । 7ab
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥ 7cd
विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने । 8ab
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ 8cd
माधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं । 9ab
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥ 9cd
पाणिपात्री भवेद्वापि पात्रे पात्रात् समाचरेत् । 10ab
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥ 10cd
शुद्धभावश्चरेद्धर्मं यत्र तत्राश्रमे रतः । 11ab
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥ 11cd
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं । 12ab
न नामग्रहणादेव तस्य वारि प्रसीदति ॥ 12cd


1 वृक्षमूलानीति ख॰ , घ॰ , छ॰ , झ॰ च । वृक्षमूलादि इति ट॰ ।
2 एतच्छुद्धस्येति ङ॰ ।
3 जीवितमिति ख॰ , घ॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.145


अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च । 13ab
सद्भिश्च मुच्यते मद्भिरज्ञानात् संसृतो द्विजः ॥ 13cd
अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः । 14ab
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् 1 14cd
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं । 15ab
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥ 15cd
जराशोकसमाविष्टं रोगायतनमातुरं । 16ab
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥ 16cd
धृतिः क्षमा दमो ऽस्तेयं 2 शौचमिन्द्रियनिग्रहः । 17ab
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणं ॥ 17cd
चतुर्व्विधं भैक्षवस्तु कुटीरकवहूदके । 18ab
हंसः परमहंसश्च यो यः पश्चात् स उत्तमः ॥ 18cd
एकदण्डी त्रिदण्डी वा 3 योगी मुच्यते बन्धनात् । 19ab
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्या ऽपरिग्रहौ ॥ 19cd
यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः । 20ab
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः 4 20cd
प्राणायामस्तु द्विविधः स गर्भो ऽगर्भ एव च । 21ab
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥ 21cd
प्रत्येकं त्रिविधः सोपि पूरकुम्भकरेचकैः । 22ab
पूरणात् पूरको वायोर्न्निश्चलत्वाच्च कुम्भकः ॥ 22cd


1 समाचरेदिति ख॰ , छ॰ च ।
2 दया ऽस्तेयमिति ङ॰ ।
3 त्रिदण्डी चेति ङ॰ ।
4 पद्मकाद्यासनं महत् इति ट॰ ।
Image-P.146


रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा । 23ab
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिको ऽपरः ॥ 23cd
तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः । 24ab
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥ 24cd
मनोधृतिर्द्धारणा स्यात् समाधिर्ब्रह्मणि स्थितिः । 25ab
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥ 25cd
विज्ञानमानन्दं ब्रह्म तत्त्वमस्यऽहमस्मि तत् । 26ab
परं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ॥ 26cd
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं । 27ab
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं 1 ब्रह्म तुरोयकं ॥ 27cd
नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं 2 28ab
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥ 28cd
यो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं । 29ab
सर्वारम्भपरित्यागी समदुःखसुखः क्षमी ॥ 29cd
भावशुद्धश्च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः । 30ab
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥ 30cd
ततो व्रजेत् नवम्यादौ ह्यृतुसन्धिषु वापयेत् । 31ab
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥ 31cd


इत्याग्नेये महापुराणे यतिर्धर्म्मा नामैकषष्ट्यधिकशततमो ऽध्यायः ॥


1 जाग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ॰ , छ॰ , ञ॰ च ।
2 इत्याग्नेये अशौचनिर्णय इत्यादिः, सत्यमानन्दमद्वयमित्यन्तः पाठो ग॰ पुस्तके नास्ति ।
Image-P.147


Chapter 162

अथ द्विषष्ट्यधिकशततमो ऽध्यायः ।

धर्म्मशास्त्रकथनं ।
पुष्कर उवाच ।
मनुर्विष्णुर्याज्ञवल्को हारीतो ऽत्रिर्यमो ऽङ्गिराः । 1ab
वसिष्ठदक्षसंवर्त्तशातातपपराशराः ॥ 1cd
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती । 2ab
गोतमः शङ्खलिखितौ धर्ममेते यथा ऽब्रुवन् ॥ 2cd
तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु । 3ab
प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म्म वैदिकं ॥ 3cd
काम्यं कर्म्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं । 4ab
वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः ॥ 4cd
अहिंसा गुरुसेवा च निःश्रेयसकरं परं । 5ab
सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥ 5cd
तच्चाग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । 6ab
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥ 6cd
समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति । 7ab
आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥ 7cd
एतद्द्विजन्मसामर्थ्यं 1 ब्राह्मणस्य विशेषतः । 8ab


1 एतद्द्विजन्मसामग्र्यमिति ख॰ , ङ॰ , झ॰ , ञ॰ , ट॰ च । एतद्द्विजन्मसामग्रीति घ॰ ।
Image-P.148


वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥ 8cd
इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते 1 9ab
स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥ 9cd
हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा । 10ab
पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥ 10cd
जलान्ते छन्दसाङ्कुर्य्यादुत्सर्गं विधिवद्वहिः । 11ab
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥ 11cd
उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा 2 12ab
सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥ 12cd
समाप्य वेदं ह्यनिशमारण्यकमधीत्य च । 13ab
पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ॥ 13cd
ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च । 14ab
पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः 3 14cd
कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये । 15ab
श्वक्रोष्टुगर्धभोलूकमासवाणर्त्तुनिस्वने ॥ 15cd
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके । 16ab
अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥ 16cd
भुत्क्वार्द्रपाणिरम्भोन्तरर्द्धरात्रे ऽतिमारुते । 17ab
पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥ 17cd
धावतः प्राणिबाधे च विशिष्टे गृहमागते । 18ab


1 ब्रह्मचर्य्याय कल्प्यते इति ङ॰ ।
2 स्वशाखाश्रोत्रिये मृते इति घ॰ , झ॰ , ञ॰ , ट॰ च ।
3 शशमार्जारशूकरैरिति ङ॰ ।
Image-P.149


खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥ 18cd
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ 19॥ 19ab


इत्याग्नेये महापुराणे धर्म्मशास्त्रं नाम द्विषष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 163

अथ त्रिषष्ठ्यधिकशततमो ऽध्यायः ।

श्राद्धकल्पकथनं ।
पुष्कर उवाच ।
श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु । 1ab
निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥ 1cd
प्रार्च्योपवेशयेत् पीठे युग्मान्दैवे ऽथ पित्रके । 2ab
अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥ 2cd
मातामहानामप्येवन्तन्त्रं वा वैश्वदेविकं । 3ab
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥ 3cd
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा । 4ab
यवैरन्ववकीर्य्याथ भाजने सपवित्रके ॥ 4cd
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा । 5ab
यादिव्या इतिमन्त्रेण हस्ते ह्यर्घं विनिक्षिपेत् ॥ 5cd
दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं । 6ab
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥ 6cd
Image-P.150


द्विगुणांस्तु कुशान् कृत्वा ह्युशन्तस्त्वेत्यृचा पितॄन् । 7ab
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥ 7cd
यवार्थास्तु तिलैः कार्य्याः कुर्यादर्घ्यादि पूर्ववत् । 8ab
दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥ 8cd
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः । 9ab
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥ 9cd
कुरुष्वेति ह्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् । 10ab
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥ 10cd
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः । 11ab
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥ 11cd
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् । 12ab
सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥ 12cd
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः । 13ab
अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥ 13cd
अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च । 14ab
तदन्नं विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत् ॥ 14cd
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । 15ab
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥ 15cd
मातामहानामप्येवं दद्यादाचमनं ततः । 16ab
स्वस्ति वाच्यं ततः कुर्य्यादक्षय्योदकमेव च ॥ 16cd
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । 17ab
वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां 1 17cd


1 मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.151


कुर्य्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं । 18ab
प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥ 18cd
दातारो नो ऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । 19ab
श्रद्धा च नो माव्यगमद्बहुदेयं च नो ऽस्त्विति ॥ 19cd
इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् । 20ab
वाजे वाज इति प्रीतपितृपूर्व्वं विसर्जनं 1 20cd
यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः । 21ab
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ 21cd
प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं । 22ab
ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥ 22cd
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् । 23ab
यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥ 23cd
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं । 24ab
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥ 24cd
उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने । 25ab
अभिरम्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह ॥ 25cd
गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयं । 26ab
अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ 26cd
ये समाना इति द्वाभ्यां शेषं पूर्व्ववदाचरेत् । 27ab
एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया सह 2 27cd
अर्व्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् । 28ab


1 पितृपूर्वं विसर्जयेदिति ख॰ , छ॰ , झ॰ च ।
2 स्त्रिया अपीति ख॰ , छ॰ च ।
Image-P.152


तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ 28cd
मृताहनि च कर्त्तव्यं प्रतिमासन्तु वत्सरं । 29ab
प्रतिसंवत्सरं कार्य्यं श्राद्धं वै मासिकान्नवत् ॥ 29cd
हविष्यान्नेन वै मासं पायसेन तु वत्सरं । 30ab
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः 1 30cd
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमं । 31ab
मासवृद्ध्या ऽभितृप्यन्ति दत्तैरेव 2 पितामहाः ॥ 31cd
खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च 3 32ab
लोहामिषं कालशाकं मांसं वार्द्धीनसस्य च ॥ 32cd
यद्ददाति गयास्थश्च सर्वमानन्त्यमुच्यते 4 33ab
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥ 33cd
कन्यां प्रजां वन्दिनश्च पशून् मुख्यान् सुतानपि । 34ab
घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥ 34cd
ब्रह्मवर्च्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । 35ab
ज्ञातिश्रैष्ठ्यं सर्व्वकामानाप्नोति श्राद्धदः सदा ॥ 35cd
प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्द्दशीं । 36ab
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥ 36cd
स्वर्गं 5 ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा । 37ab
पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥ 37cd


1 मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैरिति छ॰ ।
2 दत्तैरिहेति घ॰ , ङ॰ , ञ॰ च ।
3 मधुमुद्गान्नमेव वेति ङ॰ ।
4 सर्वमानन्त्यमश्नुते इति घ॰ , ङ॰ च ।
5 स्वर्णमिति ख॰ , छ॰ च ।
Image-P.153


प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा । 38ab
अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥ 38cd
घनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं । 39ab
अश्वानायुश्च विधिवत् यः श्राद्धं सम्प्रयच्छति ॥ 39cd
कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् । 40ab
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥ 40cd
प्रीणयन्ति मनुष्याणां 1 पितॄन् श्राद्धेन तर्पिताः । 41ab
आयुः प्रजां धनं 2 विद्यां स्वर्गं मोक्षं सुखानि च ॥ 41cd
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः 3 ॥ 42॥ 42ab


इत्याग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 164

अथ चतुःषष्ट्यधिकशततमो ऽध्यायः ।

नवग्रहहोमः ।
पुष्कर उवाच ।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् । 1ab
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥ 1cd


1 मनुष्यादीनिति ख॰ , छ॰ च ।
2 आयुः प्रज्ञाधनमिति ज॰ । आयुः प्रजां बलमिति घ॰ ।
3 प्रीताः पितृपितामहा इति ङ॰ ।
Image-P.154


सूर्य्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः । 2ab
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ 2cd
ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ । 3ab
रजतादयसः शीशात् ग्रहाः कार्य्याः क्रमादिमे ॥ 3cd
सुवर्णैर्व्वायजेल्लिख्य गन्धमण्डलकेषु वा । 4ab
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ 4cd
गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः । 5ab
कर्त्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतं ॥ 5cd
आकृष्णेन इमं देवा अग्निर्मूर्द्धा दिवः ककुत् । 6ab
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्त्तिताः ॥ 6cd
वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः । 7ab
शन्नो देवीस्तथा काण्डात् केतुं कृन्वन्निमास्तथा ॥ 7cd
अर्कः पालाशः खदिरो ह्यपामार्गोथ 1 पिप्पलः । 8ab
उदुम्बरः शमी दुर्व्वा कुशाश्च समिधः क्रमात् ॥ 8cd
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा । 9ab
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥ 9cd
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं । 10ab
दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च ॥ 10cd
दद्याद्ग्रहक्रमादेतद्द्विजेभ्यो भोजनं बुधः । 11ab
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥ 11cd
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा । 12ab


1 खदिरस्त्वपामार्गो ऽथेति ग॰ , घ॰ , ञ॰ च ।
Image-P.155


कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥ 12cd
यश्च यस्य यदा दूष्यः 1 स तं यत्नेन पूजयेत् । 13ab
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥ 13cd
ग्रहाधीना नरेन्द्राणा 2 मुच्छ्रयाः पतनानि च । 14ab
भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः ॥ 14cd


इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 165

अथ पञ्चषष्ट्यधिकशततमो ऽध्यायः ।

नानाधर्म्माः ।
अग्निरुवाच ।
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः । 1ab
अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥ 1cd
श्राद्धन्तु ध्यायिने देयं 3 गव्यं दधि घृतं पयः । 2ab
प्रियङ्गवो मसूराश्च वार्त्ताकुः कोद्रवो न हि ॥ 2cd
सैंहिकेयो यदा सूर्य्यं ग्रसते पर्वसन्धिषु । 3ab
हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिके ऽक्ष्या ॥ 3cd


1 सदा दुःस्थ इति ख॰ , छ॰ च ।
2 मनुष्याणामिति ङ॰ ।
3 व्यापिने देयमिति ङ॰ ।
Image-P.156


पित्रे चैव यदा सोमो हंसे चैव करे स्थिते । 4ab
तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥ 4cd
अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके । 5ab
अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥ 5cd
न स्त्री दुष्यति जारेण न विप्रो वेदकर्म्मणा । 6ab
बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा 1 6cd
सन्त्यजेद् दूषितान्नारीमृतुकाले न शुद्ध्यति । 7ab
य आत्मव्यतिरेकेण द्वितीयं नात्र पश्यति 2 7cd
ब्रह्मभूतः स एवेह योगी चात्मरतो ऽमलः । 8ab
विषयेन्द्रियसंयोगात् केचिद् योगं वदन्ति वै ॥ 8cd
अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः । 9ab
आत्मनो मनसश्चैव संयोगञ्च तथा परे ॥ 9cd
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि । 10ab
एकीकृत्य विमुच्येत बन्धाद्योगो ऽयमुत्तमः ॥ 10cd
कुटुम्बैः पञ्चभिर्ग्रामः षष्ठस्तत्र महत्तरः । 11ab
देवासुरमनुष्यैर्वा स जेतुं नैव शक्यते 3 11cd
वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै । 12ab
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥ 12cd
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् । 13ab
एतज्ज्ञानञ्च ध्यानञ्च शेषो ऽन्यो ग्रन्थविस्तरः 4 13cd


1 चौरहस्तगतापि वेति ख॰ , घ॰ , ञ च ।
2 द्वितीयं नानुपश्यतीति घ॰ , ट॰ च ।
3 स जेतुं न च शक्यत इति ग॰ , ङ॰ च ।
4 शेषा ये ग्रन्थविस्तरा इति ङ ।
Image-P.157


यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते । 14ab
कथ्यमानं तथा ऽन्यस्य हृदये नावतिष्ठते ॥ 14cd
असंवेद्यं हि तद् ब्रह्म 1 कुमारी स्त्रीमुखं यथा । 15ab
अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥ 15cd
सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः । 16ab
एष मे मण्डलं भित्त्वा परं ब्रह्मा ऽधिगच्छति ॥ 16cd
उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः । 17ab
द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत् फलं ॥ 17cd
एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः । 18ab
सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥ 18cd
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । 19ab
भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥ 19cd
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते । 20ab
अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥ 20cd
निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः । 21ab
ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥ 21cd
श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति । 22ab
आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥ 22cd
अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः । 23ab
आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥ 23cd


1 स्वसंवेद्यं हि तद् ब्रह्म इति ग॰ , ङ॰ च । सुसंवेद्यं हि तद् ब्रह्म इति ज॰ , ट॰ च । स्वयं वेद्यं हि तद् ब्रह्म इति घ॰ , ञ॰ च ।
Image-P.158


प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा । 24ab
ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥ 24cd
विदुरा नाम चण्डाला जायन्ते नात्र संशयः । 25ab
शतिको म्रियते गृध्रः श्वासौ द्वादशिकस्तथा ॥ 25cd
भासो विंशतिवर्षाणि सूकरो दशभिस्तथा । 26ab
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥ 26cd
ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः । 27ab
ततो वर्षशतान्यष्टौ द्वे च तिष्ठत्यचेतनः ॥ 27cd
पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः । 28ab
प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥ 28cd
योगमेव निषेवेत नान्यं मन्त्रमघापहं ॥ 29॥ 29ab


इत्याग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 166

अथ षट्षष्ट्यधिकशततमो ऽध्यायः ।

वर्णधर्मादिकथनं ।
पुष्कर उवाच ।
वेदस्मार्त्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं 1 1ab
वर्णत्वमेकमाश्रित्य यो ऽधिकारः प्रवर्त्तते ॥ 1cd


1 धर्मं वै परमामृतमिति ख॰ , छ॰ च ।
Image-P.159


वर्णधर्मः स विज्ञ्येयो यथोपनयनन्त्रिषु । 2ab
यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥ 2cd
उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा । 3ab
उभयेन निमित्तेन यो विधिः सम्प्रवर्त्तते ॥ 3cd
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा । 4ab
ब्रह्मचारी गृही चापि वानप्रस्थो यतिर्न्नृप ॥ 4cd
उक्त आश्रमधर्मस्तु धर्म्मः स्यात् पञ्चधा परः 1 5ab
षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥ 5cd
स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः । 6ab
उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥ 6cd
तुल्यार्थानां विकल्पः स्याद् यागमूलः प्रकीर्त्तितः । 7ab
वेदे तु विहितो धर्म्मः स्मृतौ तादृश एव च ॥ 7cd
अनुवादं स्मृतिः सूते 2 कार्य्यार्थमिति मानवाः । 8ab
गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः 3 8cd
विशेषदृष्ट एवासौ फलार्थ इति मानवाः । 9ab
स्यादष्टचत्वारिंशद्भिः संस्कारैर्ब्रह्मलोकगः ॥ 9cd
गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः । 10ab
जातकर्म्म नामकृतिरन्नप्राशनचूडकं ॥ 10cd
संस्कारश्चोपनयनं वेदव्रतचतुष्टयं । 11ab
स्नानं स्वधर्म्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥ 11cd


1 धर्म एष सनातन इति ङ॰ ।
2 अर्थवादं स्मृतिः सूत इति ख॰ , छ॰ च ।
3 वार्थवादो विशेषत इति ख॰ , छ॰ च ।
Image-P.160


देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ । 12ab
ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरो ऽष्टकाः ॥ 12cd
पार्व्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि । 13ab
आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥ 13cd
अग्न्याधेयमग्निहोत्रं 1 दर्शः स्यात् पौर्णमाaसकः । 14ab
चातुर्मास्याग्रहायणेष्टिर्निरूढः पशुबन्धकः ॥ 14cd
सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः । 15ab
अत्यग्निष्टोम उक्थश्च षोड़शी वाजपेयकः ॥ 15cd
अतिरात्रास्तथा स्तोमा अष्टौ चात्मगुणास्ततः । 16ab
दया क्षमा ऽनसूया च अनायासो ऽथ मङ्गलं ॥ 16cd
अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् । 17ab
प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥ 17cd
स्नानभोजनकाले च पट्सु मौनं समाचरेत् । 18ab
पुनर्दानं पृथक्पानमाज्येन यपसा निशि ॥ 18cd
दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्ज्जयेत् । 19ab
स्नात्वा पुष्पं न गृह्णीयाद् देवायोग्यन्तदीरितं ॥ 19cd
अन्यगोत्रोप्यसम्बद्धः 2 प्रेतस्याग्निन्ददाति यः । 20ab
पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥ 20cd
उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च । 21ab


1 अग्न्याधानमग्निहोत्रमिति ख॰ , छ॰ च ।
2 अन्यगोत्रो ऽन्यसम्बन्ध इति ख॰ , घ॰ , ञ॰ च ।
Image-P.161


एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥ 21cd
पञ्च प्राणाहुतीर्द्दद्यादनामाङ्गुष्ठयोगतः ॥ 22॥ 22ab


इत्याग्नेये महापुराणे वर्णधर्म्मादिर्नाम षट्षष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 167

अथ सप्तषष्ट्यधिकशततमो ऽध्यायः ॥

अयुतलक्षकोटिहोमाः ।
अग्निरुवाच ।
श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे । 1ab
ग्रहयज्ञो ऽयुतहोमलक्षकोट्यात्मकस्त्रिधा ॥ 1cd
वेदेरैशे ह्यग्निकुण्डाद् ग्रहानावाह्य मण्डले । 2ab
सौम्ये गुरुर्बुधश्चैशे शुक्रः पूर्वदले शशी ॥ 2cd
आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस्तथा । 3ab
शनिराप्ये ऽथ नैरृत्ये राहुः केतुश्च वायवे ॥ 3cd
ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ । 4ab
चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः ॥ 4cd
इन्द्र ऐन्द्री देवता च प्रजेशो ऽहिर्विधिः क्रमात् । 5ab
एते प्रत्यधिदेवाश्च गणेशो दुर्गयानिलः ॥ 5cd
खमश्विनौ च सम्पूज्य यजेद्वीजैश्च वेदजैः । 6ab
Image-P.162


अर्कः पलाशः खदिरो ह्यपामार्गश्च पिप्पलः ॥ 6cd
उदुम्बरः शमी दुर्व्वा कुशाश्च समिधः क्रमात् । 7ab
मध्वाज्यदधिसंमिश्रा होतव्याश्चाष्टधा शतम् ॥ 7cd
एकाष्टचतुरः कुम्भान् पूर्य्य पूर्णाहुतिन्तथा । 8ab
वसोर्द्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत् ॥ 8cd
यजमानं चतुर्भिस्तैरभिषिञ्चेत् समन्त्रकैः । 9ab
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ 9cd
वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः । 10ab
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ 10cd
आखण्डलो ऽग्निर्भगवान् यमो वै नैरृतस्तथा । 11ab
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥ 11cd
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा । 12ab
कीर्त्तिर्लक्ष्मीर्धृतिर्म्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥ 12cd
बुद्धिर्ल्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः । 13ab
एतास्त्वामभिषिञ्चन्तु धर्म्मपत्न्यः समागताः ॥ 13cd
आदित्यश्चन्द्रमा भौमो बुधजीवशितार्क्कजाः । 14ab
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥ 14cd
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । 15ab
ऋषयो मनवो गावो देवमातर एव च ॥ 15cd
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः । 16ab
अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥ 16cd
औषधानि च रत्नानि कालस्यावयवाश्च ये । 17ab
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥ 17cd
Image-P.163


एते त्वामभिषिञ्चन्तु सर्व्वकामार्थसिद्धये 1 18ab
अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं ॥ 18cd
कपिले सर्वदेवानां पूजनीयासि रोहिणि । 19ab
तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे ॥ 19cd
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं । 20ab
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥ 20cd
धर्म्म त्वं वृषरूपेण जगदानन्दकारकः । 21ab
अष्टमूर्त्तेरधिष्टानमतः शान्तिं प्रयच्छ मे ॥ 21cd
हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः । 22ab
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ 22cd
पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं । 23ab
प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे ॥ 23cd
विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः । 24ab
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥ 24cd
यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा । 25ab
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥ 25cd
यस्मादायसकर्म्माणि तवाधीनानि सर्वदा । 26ab
लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे ॥ 26cd
यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः । 27ab
योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥ 27cd
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । 28ab
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥ 28cd


1 धर्म्मकामार्थसिद्धये इति ख॰ ।
Image-P.164


यस्मादशून्यं शयनं केशवस्य शिवस्य च । 29ab
शय्या ममाप्यशून्या ऽस्तु दत्ता जन्मनि जन्मनि 1 29cd
यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः । 30ab
तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥ 30cd
यथा भूमिप्रदानस्य कलां नार्हन्ति षोड़शीं । 31ab
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥ 31cd
ग्रहयज्ञो ऽयुतहोमो दक्षिणाभी रणे जितिः । 32ab
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्म्मषु ॥ 32cd
सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं । 33ab
गृहदेशे मण्डपे ऽथ 2 अयुते हस्तमात्रकं ॥ 33cd
मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋद्विजः । 34ab
स्वयमेको ऽपि वा लक्षे सर्वं दशगुणं हि तत् ॥ 34cd
चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् । 35ab
सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः ॥ 35cd
विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे । 36ab
पूर्ववत् कुण्डमामन्त्र्य लक्षहोमं समाचरेत् ॥ 36cd
वसोर्द्धारां ततो दद्याच्छय्याभूषादिकं ददेत् । 37ab
तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः ॥ 37cd
पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि 3 चाप्नुयात् । 38ab
दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः ॥ 38cd


1 तथा जन्मनि जन्मनीति ङ॰ ।
2 गृहादौ मण्डपे वाथेति ख॰ । गृहादौ मण्डपे चैवमिति ञ॰ ।
3 पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख॰ , ङ॰ च ।
Image-P.165


चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः । 39ab
पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं ॥ 39cd
कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति । 40ab
होमस्तु ग्रहमन्त्रैर्व्वा गायत्र्या वैष्णवैरपि ॥ 40cd
जातवेदोमुखैः शैवैः 1 वैदिकैः प्रथितैरपि । 41ab
तिलैर्यवैर्घृतैर्द्धान्यैरश्वमेधफलादिभाक् ॥ 41cd
विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते । 42ab
समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः ॥ 42cd
रक्तभूषैर्मुक्तकेशैर्ध्यायद्भिरशिवं रिपोः । 43ab
दुर्म्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च ॥ 43cd
छिन्द्यात् क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत् 2 44ab
यजेदेकं पीड़कं वा यः स कृत्वा दिवं व्रजेत् ॥ 44cd


इत्याग्नेये महपुराणे ऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमो ऽध्यायः ॥

Chapter 168

अथाष्टषष्ट्यधिकशततमो ऽध्यायः ।

महापातकादिकथनम् ।
पुष्कर उवाच ।
दण्डं कुर्य्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां । 1ab
कामतो ऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥ 1cd


1 जातवेदोमुखैः सौरैरिति ख॰ ।
2 रिपुं हरेदिति ङ॰ , ञ॰ च ।
Image-P.166


मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन । 2ab
महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥ 2cd
गणान्नं गणिकान्नं च 1 वार्द्धुषेर्गायनस्य च । 3ab
अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥ 3cd
रजकस्य नृशंसस्य वन्दिनः कितवस्य च । 4ab
मिथ्यातपस्विनश्चैव चौरदण्डिकयोस्तथा 2 4cd
कुण्डगोलस्त्रीजितानां वेदविक्रयिणस्तथा । 5ab
शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥ 5cd
कर्म्मारस्य निषादस्य चेलनिर्णेजकस्य च । 6ab
मिथ्याप्रव्रजितस्यान्नम्पुंश्चल्यास्तैलिकस्य च ॥ 6cd
आरूढपतितस्यान्नं विद्विष्टान्नं च वर्ज्जयेत् । 7ab
तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥ 7cd
ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः । 8ab
एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥ 8cd
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च । 9ab
चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥ 9cd
अनिर्दशं च प्रेतान्नं गवाघ्रातं तथैव च । 10ab
शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥ 10cd
तप्तकृच्छ्रं प्रकुर्व्वीत अशौचे कृच्छ्रमाचरेत् । 11ab
अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस्तथा भवेत् ॥ 11cd
मृतपञ्चनखात् कूपादमेध्येन सकृद्युतात् । 12ab


1 गणानां गणिकानाञ्चेति ङ॰ , ञ॰ च ।
2 चौरदाम्भिकयोस्तथेति ञ॰ ।
Image-P.167


अपः पीत्वा त्र्यहं तिष्ठेत् सोपवासो द्विजोत्तमः ॥ 12cd
सर्वत्र शूद्रे पादः स्याद् द्वित्रयं वैश्यभूपयोः 1 13ab
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ 13cd
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । 14ab
शुष्काणि जग्ध्वा मांसानि 2 प्रेतान्नं करकाणि च ॥ 14cd
क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः । 15ab
गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥ 15cd
मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति । 16ab
आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥ 16cd
लशुनं गृञ्जनं चाद्यात् प्राजापत्यादिना शुचिः 3 17ab
भुक्त्वा चान्द्रायणं कुर्य्यान् मांसञ्चात्मकृतन्तथा ॥ 17cd
पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं । 18ab
वृथाकृशरसंयावपायसापूपशष्कुलीः ॥ 18cd
अनुपाकृतमांसानि देवान्नानि हवींषि च । 19ab
गवाञ्च महिषीणां च वर्ज्जयित्वा तथाप्यजां ॥ 19cd
सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं । 20ab
शशकः शल्यकी गोधा खड्गः कूर्म्मस्तथैव च ॥ 20cd
भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश्च वर्ज्जिताः । 21ab
पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश्च भक्षयेत् ॥ 21cd
यवगोधूमजं सर्व्वं पयसश्चैव विक्रियाः । 22ab
वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥ 22cd


1 द्वितीयं वैश्यशूद्रयोरेति क॰ , ख॰ , ङ॰ , ञ॰ च ।
2 शुष्काणि दग्धमांसानि इति ङ॰ ।
3 प्राजापत्याद्द्विजः शुचिरिति ख॰ ।
Image-P.168


अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः । 23ab
चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥ 23cd
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । 24ab
महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥ 24cd
अनृते च समुत्कर्षो राजगामि च पैशुनं । 25ab
गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया 1 25cd
ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः । 26ab
गर्हितान्नाज्ययोर्जग्धिः 2 सुरापानसमानि षट् ॥ 26cd
निक्षेपस्यापहरणं नराश्वरजतस्य च । 27ab
भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥ 27cd
रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च । 28ab
सख्युः पुत्रस्य च 3 स्त्रीषु गुरुतल्पसमं विदुः ॥ 28cd
गोबधो ऽयाज्य संयाज्यं पारदार्य्यात्मविक्रियः । 29ab
गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥ 29cd
परिवित्तितानुजेन परिवेदनमेव च । 30ab
तयोर्द्दानञ्च कन्यायास्तयोरेव च याजनं ॥ 30cd
कन्याया दूषणञ्चैव वार्द्धुष्यं व्रतलोपनं । 31ab
तडागारामदाराणामपत्यस्य च विक्रियः ॥ 31cd
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च । 32ab
भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥ 32cd


1 समानि ब्रह्महत्ययेति ख॰ , ङ॰ , ञ॰ च ।
2 गर्हितानामन्नजग्धिरिति ङ॰ ।
3 सख्युः सुतस्य चेति ङ॰ ।
Image-P.169


सर्वाकारेष्वधीकारो महायन्त्रप्रवर्त्तनं । 33ab
हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥ 33cd
इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं । 34ab
योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥ 34cd
आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनन्तथा । 35ab
अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥ 35cd
असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया । 36ab
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥ 36cd
स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं । 37ab
ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥ 37cd
जैम्भं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं । 38ab
श्वखरोष्ट्रमृगेन्द्राणामजाव्योश्चैव मारणं 1 38cd
सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च । 39ab
निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥ 39cd
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं । 40ab
कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥ 40cd
फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहं ॥ 41॥ 41ab


इत्याग्नेये महापुराणे महापातकादिकथनं नामाष्टषष्ट्यधिकशततमो ऽध्यायः ॥


1 मार्जारस्यैव मारणमिति ङ॰ ।
Image-P.170


Chapter 169

अथैकोनसप्तत्यधिकशततमो ऽध्यायः ।

प्रायश्चित्तानि ।
पुष्कर उवाच ।
एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते । 1ab
ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् ॥ 1cd
भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं । 2ab
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ 2cd
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । 3ab
जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् ॥ 3cd
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् । 4ab
व्रतैरेतैर्व्यपोहन्ति महापातकिनो मलं ॥ 4cd
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् । 5ab
कृतवापो वसेद्गोष्ठे चर्म्मणा तेन संवृतः ॥ 5cd
चतुर्थकालमश्रीयादक्षारलवणं मितं । 6ab
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ 6cd
दिवानुगच्छेद्गाश्चैव तिष्ठन्नूर्द्ध्वं रजः पिवेत् । 7ab
वृषभैकादशा गास्तु दद्याद्विचारितव्रतः 1 7cd
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् । 8ab
पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥ 8cd


1 दद्यात् सुचरितव्रत इति ङ॰ ।
Image-P.171


योजने पादहीनं स्याच्चरेत् सर्वं निपातने । 9ab
कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च ॥ 9cd
यदि तत्र विपत्तिः स्यादेकपादो विधीयते । 10ab
घण्टाभरणदोषेण तथैवार्द्धं विनिर्द्दिशेत् ॥ 10cd
दमने दमने रोधे शकटस्य नियोजने । 11ab
स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् ॥ 11cd
शृङ्गभङ्गे ऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा । 12ab
यावकन्तु पिवेत्तावद्यावत् सुस्था तु गौर्भवेत् ॥ 12cd
गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् । 13ab
एका चेद्बहुभिर्द्दैवाद् यत्र व्यापादिता भवेत् ॥ 13cd
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् । 14ab
उपकारे क्रियमाणे विपत्तौ नास्ति पातकं ॥ 14cd
एतदेव व्रतं कुर्य्युरुपपातकिनस्तथा । 15ab
अवकीर्णिवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा ॥ 15cd
अवकीर्णी तु कालेन गर्द्धभेन चतुष्पथे । 16ab
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ 16cd
कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा । 17ab
चन्द्रेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतिं 1 17cd
अथवा गार्द्धभञ्चर्म्म वसित्वाब्दञ्चरेन्महीं । 18ab
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥ 18cd


1 जुहुयात्सर्पिषाहुतीरिति ख॰ , ङ॰ , ज॰ च ।
Image-P.172


सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् । 19ab
गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा ॥ 19cd
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । 20ab
स्वकर्म्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति ॥ 20cd
गृहीत्वा मुशलं राजा सकृद्धन्यात् स्वयङ्गतं । 21ab
बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा ॥ 21cd
गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं । 22ab
निधाय चाञ्चलौ गच्छेदानिपाताच्च नैरृतिं ॥ 22cd
चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः । 23ab
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥ 23cd
चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया । 24ab
सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं ॥ 24cd
मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं । 25ab
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः ॥ 25cd
वैश्ये ऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः । 26ab
मार्जरनकुलौ हत्वा चासं मण्डूकमेव च ॥ 26cd
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् । 27ab
चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां ॥ 27cd
अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् । 28ab
सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः ॥ 28cd
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । 29ab
चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति ॥ 29cd
Image-P.173


भक्षभोज्यापहरणे यानशय्यासनस्य च । 30ab
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥ 30cd
तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च । 31ab
चेलचर्म्मामिषाणान्तु 1 त्रिरात्रं स्यादभोजनं ॥ 31cd
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । 32ab
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥ 32cd
कार्पासकीटजीर्णानां द्विशफैकशफस्य च । 33ab
पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः ॥ 33cd
गुरुतल्पव्रतं कुर्य्याद्रेतः सिक्त्वा स्वयोनिषु । 34ab
सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च ॥ 34cd
पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च । 35ab
मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥ 35cd
अमानुषीषु पुरुष उदक्यायामयोनिषु । 36ab
रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् ॥ 36cd
मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः । 37ab
गोयाने ऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ 37cd
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । 38ab
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥ 38cd
विप्रदुष्टां स्त्रियं भर्त्ता निरुन्ध्यादेकवेश्मनि । 39ab
यत् पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं ॥ 39cd
साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता । 40ab
कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं ॥ 40cd


1 वेणुचर्मामिषाणाञ्चेति झ॰ ।
Image-P.174


यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः । 41ab
तद्भैक्ष्यभुक् जपेन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ 41cd


इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमो ऽध्यायः ॥

Chapter 170

अथ सप्तत्यधिकशततमो ऽध्यायः ।

प्रायश्चित्तानि ।
पुष्कर उवाच ।
महापापानुयुक्तानां 1 प्रायश्चित्तानि 2 वच्मिते । 1ab
संवत्सरेण पतति पतितेन सहाचरन् ॥ 1cd
याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् । 2ab
यो येन पतितेनैषां संसर्गं याति मानवः ॥ 2cd
स तस्यैव व्रतं कुर्य्यात्तत्संसर्गस्य शुद्धये । 3ab
पतितस्योदकं कार्य्यं सपिण्डैर्बान्धवैः सह ॥ 3cd
निन्दिते ऽहनि सायाह्णे ज्ञात्यृत्विग् गुरुसन्निधौ । 4ab
दासो घटमपां पूर्णं पर्य्यस्येत् प्रेतवत्पदा 3 4cd
अहोरात्रमुपासीतन्नशौचं बान्धवैः सह । 5ab
निवर्त्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥ 5cd
ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतो ऽधिकः । 6ab


1 महापापोपपन्नानामिति ङ॰ ।
2 प्रायश्चित्तं वदामि त इति झ॰ ।
3 प्रेतवत् सदेति ख॰ , ग॰ , घ॰ , ङ॰ च ।
Image-P.175


प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥ 6cd
तेनैव सार्द्धं प्राश्येयुः स्नात्वा पुण्यजलाशये । 7ab
एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥ 7cd
वस्त्रान्नपानन्देयन्तु वसेयुश्च गृहान्तिके । 8ab
तेषां द्विजानां सावित्री नानूद्येत 1 यथाविधि ॥ 8cd
तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् । 9ab
विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥ 9cd
जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः । 10ab
मासङ्गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ 10cd
ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । 11ab
अभिचारमहीनानान्त्रिभिः कृच्छैर्व्यपोहति 2 11cd
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । 12ab
संवत्सं यताहारस्तत्पापमपसेधति ॥ 12cd
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । 13ab
नरोष्ट्राश्वैर्वराहैश्च 3 प्राणायामेन शुद्ध्यति ॥ 13cd
स्नातकव्रतलोपे च कर्मत्यागे ह्यभोजनं । 14ab
हुङ्कारं 4 ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥ 14cd
स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् । 15ab
अवगूर्य्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥ 15cd
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं । 16ab


1 न युज्येतेति ख॰ ।
2 कृच्छ्रैर्विशुद्ध्यति इति ग॰ , घ॰ , ङ॰ च ।
3 नरोष्टविड्वराहैश्चेति ङ॰ ।
4 क्रूङ्कारमिति ख॰ , घ॰ , छ॰ च । ओङ्कारमिति ग॰ , ङ॰ च । हङ्कारञ्चेति ख॰ ।
Image-P.176


चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥ 16cd
सम्यग् ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं । 17ab
चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥ 17cd
प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः । 18ab
गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥ 18cd
कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं । 19ab
मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥ 19cd
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते । 20ab
कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः 1 20cd
शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ । 21ab
यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥ 21cd
द्विजश्चान्द्रायणं कुर्य्यात्तप्तकृच्छ्रमथापि वा । 22ab
भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥ 22cd
भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति । 23ab
अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥ 23cd
व्रतं चान्द्रायणं कुर्य्युस्त्रिरात्रं शूद्र एव तु । 24ab
चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥ 24cd
द्विजः शान्तपनं कुर्य्याच्छूद्रश्चोपवसेद्दिनं । 25ab
चण्डालेन तु संस्पृष्टो 2 यस्त्वपः पिवते द्विजः ॥ 25cd
त्रिरात्रन्तेन कर्त्तव्यं शूद्रश्चोपवसेद्दिनं । 26ab
उच्छिष्टेन यदि 3 स्पृष्टः शुना शूद्रेण वा द्विजः ॥ 26cd


1 स्पर्शसङ्कल्पभूषिता इति झ॰ ।
2 संसृष्ट इति क॰ ।
3 यदेति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ च ।
Image-P.177


उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति । 27ab
वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥ 27cd
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके । 28ab
पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥ 28cd
अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं । 29ab
शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेश्च दर्शयेत् ॥ 29cd
म्लेच्छैर्गतानां चौरैर्वा कान्तारे वा प्रवासिनां । 30ab
भक्ष्याभक्ष्यविशुद्ध्यर्थं 1 तेषां वक्ष्यामि निष्कृतिं ॥ 30cd
पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः । 31ab
कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥ 31cd
पादोनान्ते क्षत्रियश्च अर्द्धान्ते वैश्य एव च । 32ab
पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥ 32cd
उदक्या तु सवर्णा या स्पृष्टा चेत् स्यादुदक्यया । 33ab
तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥ 33cd
रजस्वला तु नाश्नीयात् संस्पृष्टा हीनवर्णया । 34ab
यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥ 34cd
मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् । 35ab
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ 35cd
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः । 36ab
मोहाद्भुक्त्वा 2 त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥ 36cd
ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा । 37ab


1 भक्ष्यभोज्यविशुद्ध्यर्थमिति झ॰ ।
2 लोभाद्भुक्त्वेति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ च ।
Image-P.178


अनाशकनिवृताश्च तेषां शुद्धिः प्रचक्ष्यते ॥ 37cd
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा । 38ab
जातकर्म्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥ 38cd
उपानहममेध्यं च यस्य संस्पृशते मुखं । 39ab
मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥ 39cd
वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं । 40ab
तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर्व्विशुद्ध्यति ॥ 40cd
अन्त्यजातिश्वपाकेन 1 संस्पृष्टा स्त्री रजस्वला । 41ab
चतुर्थे ऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत् 2 41cd
चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां । 42ab
शवं तत्स्पर्शिनं स्पृष्ट्वा 3 सद्यः स्नानेन शुद्ध्यति ॥ 42cd
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । 43ab
रथ्यार्कद्दमतोयेन अधोनाभेर्मृदोदकैः ॥ 43cd
वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति । 44ab
स्नानात् क्षुरकर्मकर्त्ता कृच्छ्रकृद्ग्रहणे ऽन्नभुक् ॥ 44cd
अपाङ्क्तेयाशी गव्याशी शुना दष्टस्तथा शुचिः । 45ab
कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥ 45cd
होमाद्यैश्चानुतापेन पूयन्ते पापिनो ऽखिलाः 4 ॥ 46॥ । 46ab


इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमो ऽध्यायः ॥


1 अन्त्यजैश्च स्वपाकेनेति ङ.।
2 अन्त्यजातिश्वपाकेनेत्यादिः, तत्र आचरेदित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
3 शवन्तत्स्पर्शिनं श्वानमिति ख॰ । शवन्तत्स्पृष्टिनं श्वानमिति घ॰ , ज॰ च ।
4 मूत्रोच्चारं द्विजः कृत्वेत्यादिः, पूयन्ते पापिनो ऽखिला इत्यन्तः पाठः ज॰ , झ॰ पुस्तके नास्ति ।
Image-P.179


Chapter 171

अथ एकसप्तत्यधिकशततमो ऽध्यायः ।

प्रायश्चित्तानि ।
पुष्कर उवाच ।
प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर । 1ab
पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा ॥ 1cd
मुच्यते पातकैः सर्व्वैर्ज्जप्त्वा त्रिरघमर्षणं । 2ab
वेदजप्याद्वायुयमाद् गायत्र्या व्रततो ऽद्यहा 1 2cd
मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः । 3ab
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥ 3cd
एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा । 4ab
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतं ॥ 4cd
प्रातश्चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं । 5ab
यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयं ॥ 5cd
मासेन भक्षयेदेतत् सुरचान्द्रायणं चरेत् । 6ab
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिवेत् ॥ 6cd
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षी भवेत् त्र्यहं । 7ab
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्त्तितं ॥ 7cd
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं । 8ab
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥ 8cd


1 जपतो ऽधहेति ख॰ , घ॰ , ज॰ च ।
Image-P.180


एकरात्रोपवासश्चकृच्छ्रं शान्तपनं स्मृतं । 9ab
एतच्च प्रत्यहाभ्यस्तं महाशान्तपनं स्मृतं ॥ 9cd
त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं । 10ab
कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं ॥ 10cd
एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं । 11ab
प्राजापत्यमुपोष्यान्ते पादः स्यात् कृच्छ्रपादकः ॥ 11cd
फलैर्म्मासं फलं कृच्छ्रं विल्वैः श्रीकृच्छ्र ईरितः । 12ab
पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः ॥ 12cd
पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु । 13ab
मूलकृच्छ्रन्तथा मूलैर्दृध्ना क्षीरेण तक्रतः ॥ 13cd
मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् । 14ab
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमार्त्तिनुत् ॥ 14cd
पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्च्चं तथा भवेत् । 15ab
उपोषितश्चतुर्दृश्यां पञ्चदश्यामनन्तरं ॥ 15cd
पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं । 16ab
मासेन द्विर्न्नरः कृत्वा सर्वपापैः प्रमुच्यते ॥ 16cd
श्रीकामः पुष्टिकामश्च स्वर्गकामो ऽघनष्टये । 17ab
देवताराधनपरः कृच्छ्रकारी स सर्वभाक् ॥ 17cd


इत्याग्नेये महापुराणे रहस्यादिप्रायश्चित्तं नाम एकसप्तत्यधिकशततमो ऽध्यायः ॥
Image-P.181


Chapter 172

अथ द्विसप्तत्यधिकशततमो ऽध्यायः ।

सर्वपापप्रायश्चित्तानि ।
पुष्कर उवाच ।
परदारपरद्रव्यजीवहिंसादिके यदा । 1ab
प्रवर्त्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ 1cd
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे 1 नमः । 2ab
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥ 2cd
चित्तस्थमीशमव्यक्तमनन्तमपराजितं । 3ab
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥ 3cd
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । 4ab
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥ 4cd
करोति कर्मभूतो ऽसौ स्थावरस्य चरस्य च । 5ab
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ 5cd
ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् । 6ab
तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिं ॥ 6cd
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । 7ab
हस्तावलम्बनं विष्णुं प्रणमामि परात् परं ॥ 7cd
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । 8ab
हृषीकेश हृषीकेश हृषीकेश नमो ऽस्तु ते ॥ 8cd
नृसिंहानन्त गोविन्द भूतभावन केशव । 9ab


1 विष्णवे विष्णवे इति ज॰ , ञ॰ च ।
Image-P.182


दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमो ऽस्तुते ॥ 9cd
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना । 10ab
अकार्य्यमहदत्युग्रन्तच्छमन्नय केशव ॥ 10cd
ब्रह्मण्यदेव गोविन्द परमार्थपरायण । 11ab
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥ 11cd
यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि । 12ab
कायेन मनसा वाचा कृतं पापमजानता ॥ 12cd
जानता च हृषीकेश पुण्डरीकाक्ष माधव । 13ab
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥ 13cd
शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव । 14ab
पापं प्रशमयाद्य त्वं 1 बाक्कृतं मम माधव ॥ 14cd
यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः । 15ab
कृतवान् पापमद्याहं कायेन मनसा गिरा ॥ 15cd
यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकाबहं । 16ab
तद्यातु प्रशमं सर्व्वं वासुदेवानुकीर्त्तनात् ॥ 16cd
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् । 17ab
तस्मिन् 2 प्रकीर्त्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥ 17cd
यत् प्राप्य न निवर्त्तन्ते गन्धस्पर्शदिवर्जितं । 18ab
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वघं 3 18cd
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि 4 19ab


1 प्रशमात्यर्थमिति ख॰ , घ॰ , ज॰ च ।
2 अस्मिन्निति घ॰ ।
3 सर्वं गमयत्वघमिति झ॰ ।
4 यः पटेच्छ्रद्धया नर इति ज॰ , झ॰ च । यः पठेच्छृणुयान्नर इति ञ॰ ।
Image-P.183


शारीरैर्म्मानसैर्व्वाग्जैः कृतैः पापैः प्रमुच्यते ॥ 19cd
सर्व्वपापग्रहादिभ्यो याति विष्णोः परं पदं । 20ab
तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्द्दनं ॥ 20cd
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं । 21ab
प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्न्नश्यति पातकं ॥ 21cd
ततः कार्य्याणि 1 संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥ 22॥ 22ab


इत्याग्नेये महापुराणे सर्व्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमो ऽध्यायः ॥

Chapter 173

अथ त्रिसप्तत्यधिकशततमो ऽध्यायः ।

प्रायश्चित्तं ।
अग्निरुवाच ।
प्रायश्चित्तं ब्रह्णोक्तं वक्ष्ये पापोपशान्तिदं । 1ab
स्यात् प्राणवियोगफलो व्यापारो हननं स्मृतं ॥ 1cd
रागाद् द्वेषात् प्रमादाच्च स्वतः परत एव वा । 2ab
ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः ॥ 2cd
बहूनामेककार्य्याणां सर्व्वेषां शस्त्रधारिणां । 3ab
यद्येको घातकस्तत्र सर्व्वे ते घातकाः स्मृताः ॥ 3cd
आक्रोशितस्ताडितो वा धनैव्वा परिपीडितः । 4ab


1 ततः कर्माणीति ख॰ , ग॰ , घ॰ , छ॰ च ।
Image-P.184


यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकं ॥ 4cd
औषधाद्युपकारे तु न पापं स्यात् कृते मृते । 5ab
पुत्रं शिष्यन्तथा भार्य्यां शासते न मृते ह्यघं ॥ 5cd
देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः । 6ab
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः 1 6cd
गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् । 7ab
प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया ॥ 7cd
शिरःकपाली ध्वजवान् भैक्षाशी कर्म्म वेदयन् । 8ab
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात् ॥ 8cd
षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः । 9ab
विहितं यदकामानां कामात्तु द्विगुणं स्मृतं ॥ 9cd
प्रायश्चित्तं प्रवृत्तस्य बधे स्यात्तु 2 त्रिवार्षिकं । 10ab
ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा ॥ 10cd
अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं । 11ab
वैश्ये ऽर्द्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु ॥ 11cd
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं । 12ab
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोड़शः ॥ 12cd
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । 13ab
पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः ॥ 13cd
गोष्ठे शयो गो ऽनुगामी गोप्रदानेन शुद्ध्यति । 14ab
कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु ॥ 14cd
अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीं । 15ab


1 न संस्कृतिरिति छ॰ ।
2 बधे ऽस्य तु इति छ॰ ।
Image-P.185


हत्वा पूर्व्वविधानेन चरेदर्द्धव्रतं द्विजः ॥ 15cd
ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं । 16ab
मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥ 16cd
लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् । 17ab
दमेन दामने चैव शकटादौ च योजने ॥ 17cd
स्तम्भशृङ्खलपाशैर्वा मृते पादोनमाचरेत् । 18ab
काष्ठे शान्तपनं कुर्य्यात् प्राजापत्यन्तु लोष्ठके ॥ 18cd
तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं । 19ab
मार्ज्जारगोधानकुलमण्डूकश्वपतत्रिणः ॥ 19cd
हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्रं चान्द्रायणं चरेत् । 20ab
व्रतं रहस्ये रहसि प्रकाशे ऽपि प्रकाशकं ॥ 20cd
प्राणायामशतं कार्य्यं सर्व्वपापापनुत्तये । 21ab
पानकं द्राक्षमधुकं खार्ज्जरन्तालमैक्षवं ॥ 21cd
माध्वीकं टङ्कमाध्वीकं मैरेयं नारिकेलजं । 22ab
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता ॥ 22cd
त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः । 23ab
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥ 23cd
सुरापाणापनुत्यर्थं बालवासा जटी ध्वजी । 24ab
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ 24cd
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । 25ab
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती ॥ 25cd
चाण्डालस्य तु पानीयं पीत्वा स्यात् षड्दिनं व्रती । 26ab
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् ॥ 26cd
Image-P.186


पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः । 27ab
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् ॥ 27cd
पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति । 28ab
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥ 28cd
अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् । 29ab
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति ॥ 29cd
शूद्रभाजनभुक् विप्रः पञ्चगव्यादुपोषितः । 30ab
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः ॥ 30cd
शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं । 31ab
अस्नातभुक् चोपवासी दिनान्ते तु जपाच्छुचिः ॥ 31cd
मूत्रोच्चार्य्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति । 32ab
केशकीटावपन्नं च पादस्पृष्टञ्च कामतः ॥ 32cd
भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया । 33ab
काकाद्यैरवलीढं च शुनासंस्पृष्टमेव च ॥ 33cd
गवाद्यैरन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् । 34ab
रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् ॥ 34cd
चान्द्रायण नवश्राद्धे पराको मासिके मतः । 35ab
पक्षत्रये ऽतिकृच्छ्रं स्यात् षण्मासे कृच्छ्रमेव च ॥ 35cd
आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके । 36ab
पूर्व्वेद्युर्व्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं ॥ 36cd
निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं । 37ab
भूस्तृणं लशुनं भुक्त्वा 1 शिशुकं कृच्छ्रमाचरेत् 2 37cd


1 लशुनं गृञ्जनं भुक्त्वेति ङ॰ ।
2 शिशुकृच्छ्रं समाचरेदिति ख॰ ।
Image-P.187


अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च । 38ab
जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥ 38cd
मधु मांसञ्च यो ऽश्नीयाच्छावं सूतकमेव वा । 39ab
प्राजापत्यं चरेत् कृच्छ्रं ब्रह्मचारी यतिर्व्रती ॥ 39cd
अन्ययेन परस्वापहरणं स्तेयमुच्यते । 40ab
मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति ॥ 40cd
अधःशायी जटाधारी पर्णमूलफलाशनः । 41ab
एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति ॥ 41cd
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । 42ab
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः ॥ 42cd
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । 43ab
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥ 43cd
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च । 44ab
वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं ॥ 44cd
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । 45ab
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥ 45cd
तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च । 47ab
चेलचर्म्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं ॥ 47cd
पितुः पत्नीञ्च भगिनीमाचार्य्यतनयान्तथा । 48ab
आचार्य्याणीं सुतां स्वाञ्च गच्छंश्च गुरुतल्पगः ॥ 48cd
गुरुतल्पे ऽभिभाष्यैनस्तप्ते पच्यादयोमये । 49ab
शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति ॥ 49cd
चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः । 50ab
Image-P.188


एवमेव विधिं कुर्य्याद् योषित्सुपतितास्वपि ॥ 50cd
यत् पुंसः परदारेषु तच्चैनां कारयेद्व्रतं । 51ab
रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च ॥ 51cd
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते । 52ab
यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥ 52cd
तद्भैक्ष्यभुग् 1 जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति । 53ab
पितृव्यदारगमने भ्रातृभार्य्यागमे 2 तथा ॥ 53cd
चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं । 54ab
मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां ॥ 54cd
मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं । 55ab
शिष्यभार्य्यां गुरोर्भार्य्यां गत्वा चान्द्रायणञ्चरेत् ॥ 55cd


इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमो ऽध्यायः ॥


1 हविष्यभुगिति ग॰ ,ट॰ च ।
2 भातृजायागमे इति ग॰ , छ॰ , ट॰ च ।
Image-P.189


Chapter 174

अथ चतुःसप्तत्यधिकशततमो ऽध्यायः ।

प्रायश्चित्तानि ।
अग्निरुवाच ।
देवाश्रमार्च्चनादीनां प्रायश्चित्तन्तु लोपतः । 1ab
पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं ॥ 1cd
पञ्चोपनिषदैर्म्मन्त्रैर्हुत्वा ब्राह्मणभोजनं । 2ab
सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत् 1 2cd
पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च । 3ab
विप्रभोज्यं होमलोपे होमस्नानं तथार्च्चनं ॥ 3cd
होमद्रव्ये मूषिकाद्यैर्भक्षिते कीटसंयुते । 4ab
तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् ॥ 4cd
अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् । 5ab
अस्पृश्यैश्चैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥ 5cd
देवमानुषविघ्नघ्नं पूजाकाले तथैव च । 6ab
मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्ज्जपेत् ॥ 6cd
कुम्भेनाष्टशतजपो देवे तु पतिते करात् । 7ab
भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत् 2 7cd


1 शतं शहुनेदिति ख॰ , छ॰ च ।
2 शतहोमाच्छुचिर्भवेदिति ख॰ , घ॰ , ञ॰ च ।
Image-P.190


कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते । 8ab
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं ॥ 8cd
चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् । 9ab
सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् ॥ 9cd
गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं । 10ab
काद्यैरावीजसंयुक्तैराद्यैराद्यैस्तदन्तकैः ॥ 10cd
सूर्य्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् । 11ab
ओंह्रीमाद्याश्चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः ॥ 11cd
नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् । 12ab
आग्नेयस्य पुराणस्य पठनं श्रवणादिकं ॥ 12cd
द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते । 13ab
परमात्मा देवमुखं सर्ववेदेषु गीयते ॥ 13cd
प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः 1 14ab
अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्च्चनं ॥ 14cd
जप्यं स्तुतिश्च प्रणतिः शारीराशेषाघौघनुत् । 15ab
दशस्वर्णानि दानानि धान्यद्वादशमेव च ॥ 15cd
तुलापुरुषमुख्यानि महादानानि षोड़श । 16ab
अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि ॥ 16cd
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके । 18ab
ब्रतादि सूर्य्येशशक्तिश्रीशादेरघघातनं 2 18cd
गङ्गा गया प्रयागश्च काश्ययोध्या ह्यवन्तिका । 19ab


1 प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ॰ , ङ॰ , झ॰ , ञ॰ च ।
2 अघनाशनमिति ग॰ ।
Image-P.191


कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः ॥ 19cd
शालग्रामप्रभासाद्यं तीर्थञ्चघौघघातकं । 20ab
अहं ब्रह्म परं ज्योतिरितिध्यानमघौघनुत् ॥ 20cd
पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्म्महेश्वरः । 21ab
अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं ॥ 21cd
ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं 1 22ab
अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्म्मतिः ॥ 22cd
शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं । 23ab
कल्पो न्यायश्च मीमांसा ह्यन्यत् सर्वं हरिः प्रभुः ॥ 23cd
एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः । 24ab
तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश्च सः ॥ 24cd
विद्याष्टादशरूपश्च सूक्ष्मः स्थूलो ऽपरो हरिः । 25ab
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश्च निर्म्मलः ॥ 25cd


इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमो ऽध्यायः ॥

Chapter 175

अथ पञ्चसप्तत्यधिकशततमो ऽध्यायः ।

व्रतपरिभाषा ।
अग्निरुवाच ।
तिथिवारर्क्षदिवसमासर्त्वब्दार्क्कसङ्क्रमे । 1ab
नृस्त्रीव्रतादि 2 वक्ष्यामि वसिष्ठ शृणु तत् क्रमात् ॥ 1cd


1 स्मृतयः श्रुतयो व्रतमिति क॰ , घ॰ , ङ॰ , ञ॰ च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग॰ पुस्तके नास्ति ।
2 पुंस्त्री व्रतादीति ङ॰ , ञ॰ च ।
Image-P.192


शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं । 2ab
नियमास्तु विशेषास्तु व्रतस्यैव दमादयः ॥ 2cd
व्रतं हि कर्त्तृसन्तापात्तप इत्यभिधीयते । 3ab
इन्द्रियग्रामनियमान्नियमश्चाभिधीयते ॥ 3cd
अनग्नयस्तु ये विप्रास्तेषां श्रेयो ऽभिधीयते । 4ab
व्रतोपवासनियमैर्नानादानैस्तथा द्विजः ॥ 4cd
ते स्युर्द्देवादयः 1 प्रीता भुक्तिमुक्तिप्रदायकाः । 5ab
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥ 5cd
उपवासः स विज्ञेयः सर्वभोगविवर्जितः 2 6ab
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥ 6cd
शाकं मधु परान्नञ्च 3 त्यजेदुपवसन् स्त्रियं । 7ab
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनं ॥ 7cd
उपवासे न शस्यन्ति दन्तधावनमञ्जनं । 8ab
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥ 8cd
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् । 9ab
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥ 9cd
क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः । 10ab
देवपूजाग्निहरणं 4 सन्तोषो ऽस्तेयमेव च ॥ 10cd
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः । 11ab
पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः ॥ 11cd


1 तैः स्युर्देवादय इति ग॰ , छ॰ च ।
2 सर्वपापविवर्जित इति ज॰ , झ॰ च । सर्वतः परिवर्जित इति छ॰ ।
3 शाकं दधि परान्नञ्चेति ख॰ , छ॰ च ।
4 देवपूजाग्निहवनमिति घ॰ , ट॰ च ।



नित्यस्नायी मिताहारो 1 गुरुदेवद्विजार्च्चकः । 12ab
क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् ॥ 12cd
तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ । 13ab
चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं 2 13cd
शितधान्यं तथा पण्यं मूलं क्षारगणः स्मृतः । 14ab
व्रीहिषष्टिकमुद्गाश्च कलायाः सतिला यवाः ॥ 14cd
श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः । 15ab
कुष्माण्डालावुवार्त्ताकून् पालङ्कीम्पूतिकान्त्यजेत् ॥ 15cd
चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः । 16ab
श्यामाकशालिनीवारा यवकं मूलतण्डुलं ॥ 16cd
हविष्यं व्रतनक्तादावग्निकार्य्यादिके हितं । 17ab
मधु मांसं विहायान्यद् व्रते वा हितमीरितं ॥ 17cd
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं । 18ab
त्र्यहम्परञ्च नाश्नीयात् प्राजापत्यञ्चरन् द्विजः ॥ 18cd
एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । 19ab
त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ 19cd
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं । 20ab
एकरात्रोपवासश्च कृच्छ्रं शान्तपनं स्मृतं ॥ 20cd
पृथक् शान्तपनद्रव्यैः षडहः सोपवासकः । 21ab
सप्ताहेन तु कृच्छ्रो ऽयं महाशान्तपनो ऽघहा ॥ 21cd
द्वादशाहोपवासेन पराकः सर्वपापहा । 22ab


1 यताहार इति घ॰ ।
2 शमीधान्यं तथैव चेति ग॰ ,झ॰ च ।
Image-P.194


महापराकस्त्रिगुणस्त्वयमेव प्रकीर्त्तितः ॥ 22cd
पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः । 23ab
एकापाये ततो वृद्धौ चान्द्रायणमतो ऽन्यथा ॥ 23cd
कपिलागोः पलं मूत्रं अर्द्धाङ्गुष्ठञ्च गोमयं । 24ab
क्षीरं सप्तपलन्दद्याद् दध्नश्चैव पलद्वयं 1 24cd
घृतमेकपलन्दद्यात् पलमेकं कुशोदकं । 25ab
गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं ॥ 25cd
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । 26ab
तेजो ऽसीति तथा चाज्यं देवस्येति कुशोदकं 2 26cd
ब्रह्मकूर्च्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् । 27ab
अघमर्षणसूक्तेन संयोज्य प्रणवेन वा ॥ 27cd
पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्युपोषितः । 28ab
उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् ॥ 28cd
मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् । 29ab
अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ॥ 29cd
देवव्रतवृषोत्सर्गचूडाकरणमेखलाः । 30ab
माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥ 30cd
दर्शाद्दर्शस्तु चान्द्रः स्यात् त्रिंशाहश्चैव सावनः । 31ab
मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्त्तनात् ॥ 31cd
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः 3 32ab


1 दध्नश्चैव पलत्रयमिति घ॰ , ञ॰ , ट॰ च ।
2 गायत्र्या इत्यादिः, कुशोदकमित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
3 सावनो मत इति छ॰ ।
Image-P.195


आव्दिके पितृकार्य्ये च चान्द्रो मासः प्रशस्यते ॥ 32cd
आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः । 33ab
कुर्य्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा ॥ 33cd
मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् । 34ab
तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान् मलिम्लुचा ॥ 34cd
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः । 35ab
दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः ॥ 35cd
युग्माग्निकृतभूतानि 1 षण्मुन्योर्वसुरन्ध्रयोः । 36ab
रुद्रेण द्वादशो युक्ता चतुर्द्दश्याथ 2 पूर्णिमा ॥ 36cd
प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं । 37ab
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं ॥ 37cd
नरेन्द्रमन्त्रिव्रतिनां 3 विवाहोपद्रवादिषु । 38ab
सद्यः शौचं समाख्यातं कान्तारापदि संषदि ॥ 38cd
आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः । 39ab
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ॥ 39cd
यदा ऽशुद्धा तदान्येन कारयेत क्रियाः सदा । 40ab
क्रोधात् प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ॥ 40cd
दिनत्रयं न भुञ्जीत मुण्डनं शिरसो ऽथ वा । 41ab
असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत् सुतं ॥ 41cd
सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं । 42ab
व्रतस्थं मूर्च्छितं दुग्धपानाद्यैरुद्धरेद् गुरुः ॥ 42cd


1 युग्माग्नियुगभूतानीति ज॰ , झ॰ च ।
2 चतुर्दश्या चेति ग॰ ।
3 नरेन्द्रसत्रिव्रतिनामिति ख॰ , घ॰ , ज॰ , ञ॰ च ।
Image-P.196


अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । 43ab
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥ 43cd
कीर्त्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये । 44ab
नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं ॥ 44cd
इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव । 45ab
निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात् जगत्पते ॥ 45cd
गृहीते ऽस्मिन् व्रतवरे 1 यद्यपूर्णे म्रिये ह्यहं । 46ab
तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ ॥ 46cd
व्रतमूर्त्तिं जगद्भूतिं मण्डले सर्वसिद्धये । 47ab
आवाहये नमस्तुभ्यं सन्निधीभव केशव ॥ 47cd
मनसा कल्पितैर्भक्त्या पञ्चगव्यैर्जलैः शुभैः । 48ab
पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा ॥ 48cd
गन्धपुष्पोदकैर्युक्तमर्घ्यमर्घ्यपते शुभं । 49ab
गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा ॥ 49cd
वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा । 50ab
भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते ॥ 50cd
सुगन्धिगन्धं विमलं गन्धमूर्त्ते गृहाण वै । 51ab
पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥ 51cd
पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा । 52ab
पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये ॥ 52cd
दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै । 53ab
सधूप धूपित मां त्वं कुरु धूपितसत्पते ॥ 53cd


1 व्रते देव इति ग॰ , घ॰ , ज॰ , झ॰ , ञ॰ , ट॰ च ।
Image-P.197


दीपमूर्द्धशिखं दीप्तं गृहाणाखिलभासकं । 54ab
दीपमूर्त्ते प्रकाशाढ्यं सर्वदोर्द्ध्वगतिं कुरु ॥ 54cd
अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते । 55ab
अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं ॥ 55cd
मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो । 56ab
यत् पूजितं व्रतपते परिपूर्णन्तदस्तु मे ॥ 56cd
धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं । 57ab
कीर्त्तिं विद्यां 1 देहि चायुः स्वर्गं मोक्षञ्च देहि मे ॥ । 57cd
इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं । 58ab
पुनरागमनायैव वरदानाय वै प्रभो ॥ 58cd
स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्त्तयः । 59ab
पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना ॥ 59cd
जपो होमश्च सामान्यव्रतान्ते दानमेव च । 60ab
चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः ॥ 60cd
विप्राः प्रपूज्या गुरवो 2 भोज्याः शक्त्या तु दक्षिणा । 61ab
देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् ॥ 61cd
जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं 3 62ab
शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता ॥ 62cd


इत्याग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिकशततमो ऽध्यायः ॥


1 कीर्त्तिं वृद्धिमिति ख॰ , छ॰ च ।
2 विप्राः पूज्याः सगरव इति घ॰ , ज॰ , ट॰ च ।
3 मुद्रिकाछत्रमासनमिति घ॰ ।
Image-P.198


Chapter 176

अथ षट्सप्तत्यधिकशततमो ऽध्यायः ।

प्रतिपद्व्रतानि ।
अग्निरुवाच ।
वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते । 1ab
कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः ॥ 1cd
पञ्चदश्यान्निराहारः प्रतिपद्यर्च्चयेदजं । 2ab
ओं तत् सद्ब्रह्मणे नमो गायत्र्या वाव्दमेककं ॥ 2cd
अक्षमालाश्रुवन्दक्षे 1 वामे श्रुचकमण्डलु 2 3ab
लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्च्चयेत् ॥ 3cd
शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति । 4ab
निर्मलो भोगभुक् स्वर्गे भूमौ विप्रो धनी भवेत् ॥ 4cd
धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् । 5ab
मार्गशीर्षे प्रतिपदि नक्तं हुत्वा प्युपोषितः 3 5cd
अग्नये नम इत्यग्निं प्रार्च्याव्दं सर्व्वभाग् भवेत् । 6ab
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ॥ 6cd
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं । 7ab


इत्याग्नेये महापुराणे प्रतिपद्व्रतानि नाम षट्सप्तत्यधिकशततमो ऽध्यायः ॥


1 अक्षमालाश्रुचं दक्षे इति छ॰ ।
2 वामे दण्डकमण्डलु इति छ॰ , झ॰ । वामे श्रुवकमण्डलु इति छ॰ ।
3 नक्तं कृच्चाभ्युपोषित इति ग॰ ।
Image-P.199


Chapter 177

अथ सप्तसप्तत्यधिकशततमो ऽध्यायः ।

द्वितीयाव्रतानि ।
अग्निरुवाच ।
द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्त्यादिदायकं । 1ab
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत् सुरौ ॥ 1cd
अब्दं स्वरूपसौभाग्यं स्वर्गभाग् जायते व्रती । 2ab
कार्त्तिके शुक्लपक्षस्य 1 दितीयायां यमं यजेत् ॥ 2cd
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती । 3ab
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥ 3cd
कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं । 4ab
श्रीवत्सधारिन् श्रीकान्त श्रीधामन् श्रीपते ऽव्यय ॥ 4cd
गार्हस्थ्यं मा प्रणाशं मे यातु धर्म्मार्थकामदं । 5ab
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥ 5cd
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः । 6ab
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा भवान् ॥ 6cd
तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां । 7ab
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥ 7cd
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन । 8ab
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥ 8cd
प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं । 9ab


1 शुक्तपक्षे तु इति ग॰ ।
Image-P.200


गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥ 9cd
भाभासितादिगाभोग रामानुज नमो ऽस्तु ते । 10ab
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥ 10cd
घं ढं भं हं श्रियै नमो दशरूपमहात्मने । 11ab
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये 1 11cd
दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं । 12ab
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं 2 12cd
पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् । 13ab
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥ 13cd
नक्तभोजी द्वितीयायां पूजयेद् बलकेशवौ । 14ab
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥ 14cd
अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं । 15ab
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥ 15cd
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः 3 स्मृतं । 16ab
वचया च तृतीये ऽह्नि सर्वौषध्या चतुर्थके ॥ 16cd
मुरामांसी वचा कुष्ठं शैलेयं रजनीद्वयं 4 17ab
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥ 17cd
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् । 18ab
पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः ॥ 18cd
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्य इन्दवे । 19ab
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥ 19cd


1 शय्यां दद्याद्द्वितीयके इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
2 विप्रायाथ च पानकमिति घ॰ , ञ॰ च ।
3 शुक्लतिलैरिति ग॰ ।
4 पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.201


षण्मासं पावनं चाब्दं प्राप्नुयात् सकलं व्रती । 20ab
एतद् व्रतं नृपैः स्त्रीभिः कृतं पूर्व्वं सुरादिभिः ॥ 20cd


इत्याग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमो ऽध्यायः ॥

Chapter 178

अथाष्टसप्तत्यधिकशततमो ऽध्यायः ।

तृतीयाव्रतानि ।
अग्निरुवाच ।
तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते । 1ab
ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥ 1cd
तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि । 2ab
तिलस्नातो ऽर्च्चयेच्छम्भुं गौर्य्या हैमफलादिभिः ॥ 2cd
नमो ऽस्तु पाटलायैव पादौ देव्याः शिवस्य च । 3ab
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥ 3cd
त्रिपुरघ्नाय रुद्राय भवान्यै जङ्घयोर्द्वयoः । 4ab
शिवं रुद्रायेश्वराय 1 विजयायैव जानुनी ॥ 4cd
ईशायेति कटिं देव्याः 2 शङ्करायेति शङ्करम् । 5ab


1 शिवं रुद्राय विश्वायेति ख॰ , छ॰ च । शिवं भद्रायेश्वरायेति ज॰ , झ॰ , ञ॰ , ट॰ च ।
2 ईशाय कट्यां देव्याश्च इति ङ॰ । ईशायेति तातो देव्या इति घ॰ ।
Image-P.202


कुक्षिद्वयञ्च कोटव्यै शूलिनं शूलपाणये ॥ 5cd
मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् । 6ab
सर्व्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥ 6cd
शिवं देवात्मने तद्वत् ह्रादिन्यै 1 कण्ठमर्च्चयेत् । 7ab
महादेवाय च शिवमनन्तायै करद्वयं ॥ 7cd
त्रिलोचनायेति हरं बाहुं कालानलप्रिये 2 8ab
सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥ 8cd
अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ । 9ab
चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥ 9cd
नमो ऽर्द्धनारीशहरममिताङ्ग्यै च नासिकां । 10ab
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥ 10cd
सर्वाय पुरहन्तारं 3 वासन्त्यै चैव तालुकं 4 11ab
नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥ 11cd
भीमोग्राय सुरूपिण्यै शिरः सर्व्वात्मने नमः । 12ab
मल्लिकाशोककमलकुन्दन्तगरमालती 5 12cd
कदम्बकरवीरञ्च 6 वाणमम्लानकुङ्कुमं । 13ab
सिन्धुवारञ्च मासेषु सर्व्वेषु क्रमशः स्मृतं ॥ 13cd
उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः 7 14ab


1 शिवं वेदात्मने तद्वद्रूपिण्यै इति घ॰ , ज॰ , ञ॰ च ।
2 हरञ्चान्तकालानलप्रिये इति ख॰ , घ॰ , ज॰ , ञ॰ च ।
3 पुरहर्त्तारमिति घ॰ ।
4 वासन्यै च तथालकमिति छ॰ , ट॰ च ।
5 मल्लिकाशोककमलच्छदं तगरमालती इति ख॰ , घ॰ , ज॰ च ।
6 कुन्दञ्च करवीरञ्चेति ख॰ , घ॰ , ज॰ च ।
7 मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्यन्तः पाठः छ॰ पुस्तके नास्ति ।
Image-P.203


स्थापयेद् 1 घृतनिष्पावकुसुम्भक्षीरजीवकं ॥ 14cd
तरुराजेक्षुलवणं 2 कुस्तुम्बुरुमथाष्टमं । 15ab
चैत्रे शृङ्गोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥ 15cd
प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्च्चयेत् 3 16ab
तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम 4 16cd
शृङ्गोदकं 5 गोमयं च मन्दारं विल्वपत्रकं । 17ab
कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥ 17cd
गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं । 18ab
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥ 18cd
वासुदेवी तथा गौरी मङ्गला कमला सती । 19ab
चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥ 19cd
फलमेकं पवित्राज्यं 6 व्रतान्ते शयनं ददेत् । 20ab
उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥ 20cd
गुरुञ्च मिथुनान्यर्च्य 7 वस्त्राद्यैर्भुक्तिमुक्तिभाक् 8 21ab
सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतात् ॥ 21cd
नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ 9 22ab


1 अर्पयेदिति ख॰ , छ॰ च ।
2 तृणराजेक्षुलवणमिति ख॰ , छ॰ , ट॰ च ।
3 द्विजदाम्पत्यमर्चयेदिति ख॰ , घ॰ , छ॰ , ट॰ च ।
4 ललिता प्रीयतामिति ट॰ ।
5 पृष्ठोदकमिति ञ॰ । कूपोदकमिति ज॰ , झ॰ च ।
6 परित्याज्यमिति क॰ , ज॰ , ठ॰ च । परित्यज्येति ख॰ , छ॰ च । परिग्राह्यमिति ङ॰ ।
7 गुरुं मिथुनमभर्च्येति ङ॰ ।
8 वस्त्राद्यैः सर्वमाप्नुयादिति ख॰ , घ॰ , ङ॰ , छ॰ , झ॰ , ञ॰ , ट॰ च ।
9 कुर्याद्वा मार्गशीर्षके इति ङ॰ , ञ॰ च ।
Image-P.204


शुक्लपक्षे तृतीयायाम् ललितायै नमो यजेत् ॥ 22cd
प्रतिपक्षं ततः प्रार्च्य व्रतान्ते 1 मित्युनानि च । 23ab
चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर्भुक्तिमुक्तिभाक् ॥ 23cd
उक्तो मार्गो द्वितीयो ऽयं सौभाग्यव्रतमावदे । 24ab
फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥ 24cd
समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं । 25ab
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति 2 25cd
सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी । 26ab
माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥ 26cd
दमनकतृतीयाकृत् चैत्रे दमनकैर्यजेत् । 27ab
आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥ 27cd
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती । 28ab
वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात् 3 28cd
मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात् ॥ 29॥ 29ab


इत्याग्नेये महापुराणे तृतीयाव्रतानि नाम अष्टसप्तत्यधिकशततमो ऽध्यायः ॥


1 वर्षान्ते इति ख॰ , ङ॰ , ट॰ च ।
2 अलङ्काराणि सर्वाणि भवानो प्रीयतामिति ट॰ ।
3 दमनकतृतीयाकृदित्यादिः नारायणी क्रमादित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.205


Chapter 179

अथैकोनाशीत्यधिकशततमो ऽध्यायः ॥

चतुर्थीव्रतानि ।
अग्निरुवाच ।
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते 1 1ab
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद् गणं ॥ 1cd
पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः 2 सुखी । 2ab
गं स्वाहा 3 मूलमन्त्रो ऽयं गामाद्यं हृदयादिकं ॥ 2cd
आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं । 3ab
उल्कान्तैर्गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥ 3cd
ओं महोल्काय विद्महे वक्रतुण्डाय 4 धीमहि तन्नो दन्ती प्रचीदयात् ।
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् । 4ab
चतुर्थ्यङ्गारके ऽभ्यर्च्य गणं सर्वमवाप्नुयात् ॥ 4cd
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि । 5ab
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥ 5cd


इत्याग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमो ऽध्यायः ॥


1 चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ॰ ।
2 वर्षन्निर्विघ्नत इति ङ॰ , ञ॰ च । वर्षन्निर्विघ्नवान् इति ग॰ ।
3 हां स्वाहेति ख॰ ।
4 चक्रमुण्डायेति ख॰ , घ॰ च । वक्रमुण्डायेति ङ॰ । रक्ततुण्डायेति ज॰ , झ॰ च ।
Image-P.206


Chapter 180

अथाशीत्यधिकशततमो ऽध्यायः ।

पञ्चमीव्रतानि ।
अग्निरुवाच ।
पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं 1 1ab
नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥ 1cd
वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः । 2ab
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥ 2cd
एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियं ॥ 3॥ 3ab


इत्याग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमो ऽध्यायः ॥

Chapter 181

अथैकाशीत्यधिकशततमो ऽध्यायः ॥

षष्ठीव्रतानि ।
अग्निरुवाच ।
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत् 2 1ab
षष्ट्यां फलाशनो 3 ऽर्घ्याद्यैर्भुक्तिमुक्तिमवाप्नुयात् ॥ 1cd


1 आरोग्यमुखमोक्षदमिति ङ॰ ।
2 ऐरावत इत्यादिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
3 षष्ट्यां मलाशनो ऽर्घ्याद्यैरिति ट॰ ।
Image-P.207


स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे षष्ट्यामथाक्षयं । 2ab
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत् 1 2cd
अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् । 3ab


इत्याग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमो ऽध्यायः ॥

Chapter 182

अथ द्व्यशीत्यधिकशततमो ऽध्यायः ॥

सप्तमीव्रतानि ।
अग्निरुवाच ।
सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं 2 1ab
माघमासे ऽब्जके शुक्ले सूर्य्यं प्रार्च्य विशोकभाक् ॥ 1cd
सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रे ऽर्कपूजनात् । 2ab
पौषे मासि सिते ऽनश्नन् प्रार्च्यार्कं पापनाशनं ॥ 2cd
कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी । 3ab
फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् ॥ 3cd
मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता । 4ab
मार्गशीर्षे सिते चाव्दं पुत्रीया सप्तमी स्त्रियाः ॥ 4cd


इत्याग्नेये महापुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमो ऽध्यायः ॥


1 मार्गशीर्षे चरेद्व्रतमिति घ॰ , ज॰ , झ॰ , ट॰ च ।
2 सर्वथा भुक्तिमुक्तिदमिति घ॰ , ज॰ , झ॰ च ।
Image-P.208


Chapter 183

अथ त्र्यशीत्यधिकशततमो ऽध्यायः ।

अष्टमीव्रतानि ।
अग्निरुवाच ।
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं । 1ab
मासि भाद्रपदे ऽष्टम्यां रोहिण्यामर्द्धरात्रके ॥ 1cd
कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततो ऽष्टमी । 2ab
सप्तजन्मकृतात् पापात् मुच्यते चोपवासतः ॥ 2cd
कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते । 3ab
उपाषितोर्च्चयेत् कृष्णं 1 भुक्तिमुक्तिप्रदायकं ॥ 3cd
आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं । 4ab
वसुदेवं यशोदाङ्गाः 2 पूजयामि नमो ऽस्तुते ॥ 4cd
योगाय योगपतये योगेशाय नमो नमः । 5ab
योगादिसम्भावायैव गोविन्दाय नमो नमः ॥ 5cd
स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् । 6ab
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥ 6cd
यज्ञादिसम्भवायैव गोविन्दाय नमो नमः । 7ab
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥ 7cd
सर्वकामप्रदो देव भव मे देववन्दित । 8ab
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥ 8cd
सुगन्ध धूपगन्धाढ्यं कुरु मां सर्व्वदा हरे । 9ab


1 विष्णुमिति ट॰ ।
2 यशोदाञ्चेति ङ॰ , ज॰ च ।
Image-P.209


दीपदीप्त महादीपं दीपदीप्तद सर्वदा 1 9cd
मया दत्तं गृहाण त्वं कुरु चोर्द्ध्वगतिं च मां । 10ab
विश्वाय विश्वपतये विश्वेशाय नमो नमः 2 10cd
विश्वादिसम्भवायैव गोविन्दाय निवेदितं । 11ab
धर्म्माय धर्म्मपतये दर्मेशाय नमो नमः ॥ 11cd
धर्म्मादिसम्भवायैव गोविन्द शयनं कुरु । 12ab
सर्व्वाय सर्व्वपतये सर्व्वेशाय नमo नमः ॥ 12cd
सर्व्वादिसम्भवायैव गोविन्दाय च पावनं 3 13ab
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥ 13cd
गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम । 14ab
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥ 14cd
देवकीं वसुदेवं च यशोदां नन्दकं बलं । 15ab
अर्द्धरात्रे परोधाराः पातयेद् गुड़सर्पिषा ॥ 15cd
वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती । 16ab
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक् 4 16cd
वर्षे वर्षे तु यः कुर्य्यात् पुत्रार्थी वेत्ति नो भयं 5 17ab
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥ 17cd
धर्म्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे । 18ab


इत्याग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमो ऽध्यायः ॥


1 सर्वदा इति घ॰ , ङ॰ च ।
2 विश्वेशाय नमो ऽस्तु ते इति ज॰ ।
3 पारगमिति ग॰ । सर्वायेत्यादिः. पावनमित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
4 कृष्णलोकभागिति छ॰ ।
5 पुत्रार्थी लभते सुतमिति ज॰ , ट॰ च ।
Image-P.210


Chapter 184

अथ चतुरशीत्यधिकशततमो ऽध्यायः ।

अष्टमीव्रतानि ।
अग्निरुवाच ।
ब्रह्मादिमातृयजनाज्जपेन् मातृगणाष्टमीं । 1ab
कृष्णाष्टम्यां चैत्रमासे पूज्याब्दं कृष्णमर्थभाक् ॥ 1cd
कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् । 2ab
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥ 2cd
भूमिशायी निशायाञ्च शङ्करं पुजयेद् व्रती । 3ab
पौषे शम्भुं घृतं प्राश्य माघे क्षीरं महेश्वरम् 1 3cd
महादेवं फाल्गुने च तिलाशी 2 समुपोषितः । 4ab
चैत्रे स्थाणुं यवाशी च वैशाखे ऽथ शिवं यजेत् ॥ 4cd
कुशोदाशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः । 5ab
आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक् ॥ 5cd
त्र्यम्बकं च भाद्रपदे विल्वपत्राशनो निशि । 6ab
तण्डुलाशी चाश्वयुजे ईशं रुद्रन्तु कार्त्तिके ॥ 6cd
दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत् 3 7ab
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥ 7cd
प्रार्थयित्वा द्विजान् भोज्य 4 भुक्तिमुक्तिमवाप्नुयात् । 8ab


1 माघे क्षीरी महेश्वरमिति घ॰ , छ॰ , ञ॰ च ।
2 तिलादीति ज॰ ।
3 वर्षे वर्षे तु मण्डले इति ञ॰ ।
4 द्विजान् तोष्य इति ज॰ ।
Image-P.211


नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते च धेनुदः ॥ 8cd
पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते 1 9ab
अष्टमी बुधवारेण पक्षयोरुभयोर्य्यदा ॥ 9cd
तदा व्रतं प्रकुर्व्वीत अथवा सगुड़ाशिता । 10ab
तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥ 10cd
तण्डुलस्याष्टमुष्टीनां वर्ज्जयित्वाङ्गुलीद्वयं । 11ab
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥ 11cd
सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् । 12ab
शक्तितो दक्षिणान्दद्यात् कर्क्कटीन्तण्डुलान्वितां 2 12cd
धीरो द्विजो ऽस्य 3 भार्य्यास्ति रम्भा पुत्रस्तु कैशिकः । 13ab
दुहिता विजया तस्य धीरस्य धनदो वृषः 4 13cd
कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं । 14ab
गङ्गायां स्नानकृत्ये ऽथ 5 नीतश्चौरैर्वृषस्तदा ॥ 14cd
स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः । 15ab
विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥ 15cd
दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं । 16ab
स्त्रीवृन्दमूचे व्रतकृद् भुङ्क्ष्व त्वमतिथिर्यतः ॥ 16cd
व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं । 17ab


1 सुगतिव्रतमुच्यते इति ख॰ , घ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च । सुशान्तिव्रतमुच्यते इति ज॰ ।
2 कर्करीन्तण्डुलान्वितामिति ख॰ , घ॰ , ङ॰ च । गर्गरीन्तण्डुलान्वितामिति झ॰ ।
3 वीरो द्विजो ऽस्येति ग॰ , घ॰ , ङ॰ , ज॰ , ञ॰ च ।
4 वीरस्य धनपो वृष इति ख॰ , छ॰ , ट॰ च । वीरस्य धनदो वृष इति घ॰ , ङ॰ , ज॰ , ञ॰ च ।
5 स्नानकृत्येषु इति ट॰ ।
Image-P.212


गतो धीरः 1 सवृषभो विजयासहितस्तदा ॥ 17cd
धीरेण 2 विजया दत्ता यमायान्तरितः पिता । 18ab
व्रतभावात् कौशिको ऽपि ह्ययोध्यायां नृपो ऽभवत् ॥ 18cd
पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता । 19ab
मृगयामागतं प्रोचे मुच्यते नरकात् कथं ॥ 19cd
व्रतद्वयाद्यमः प्रोचे प्राप्य तत् कैशिको ददौ । 20ab
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः 3 20cd
विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये । 21ab
अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ ॥ 21cd
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः । 22ab
त्वामशोकहराभीष्ट मधुमाससमुड़्गव ॥ 22cd
पिवामि शोकसन्तप्तो मामशोकं सदा कुरु । 23ab
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥ 23cd


इत्याग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमो ऽध्यायः ॥

Chapter 185

अथ पञ्चाशीत्यधिकशततमो ऽध्यायः ।

नवमीव्रतानि ॥
अग्निरुवाच ।
नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं । 1ab
देवी पूज्याश्विने शुक्ले गौर्य्याख्यानवमीव्रतं ॥ 1cd


1 गतो वीर इति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ , ञ॰ च ।
2 वीरेणेति ट॰ ।
3 पितरौ तदेति ख॰ ।
Image-P.213


पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् । 2ab
अष्टम्यामाश्विने शुक्ले कन्यार्कमूलभे यदा ॥ 2cd
अघार्दना सर्वदा वै महती नवमी स्मृता । 3ab
दुर्गा तु नवगेहस्था एकागारस्थिता ऽथवा ॥ 3cd
पूजिताष्टादशभुजा शेषाः षोड़शमत्कराः 1 4ab
शेषाः षोड़शहस्ताः स्युरञ्जनं डमरुन्तथा ॥ 4cd
रुद्रचण्डा प्रचण्डा च चण्डोग्रा सण्डनायिका । 5ab
चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका ॥ 5cd
क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्द्दिनी 2 6ab
ओं दुर्गे दुर्गे रक्षणि स्वाहा दशाक्षरो मन्त्रः ॥ 6cd
दीर्घाकारादिमन्त्रादिर्न्नवनेत्रो नमो ऽन्तिकः । 7ab
षड्भिः पदैर्न्नमःस्वधावषट्कारहृदादिकं ॥ 7cd
अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां 3 8ab
एतञ्जपति 4 यो गुह्यं नासौ केनापि बाध्यते ॥ 8cd
कपालं खेटकं घण्टां दर्पणन्तर्ज्जनीन्धनुः । 9ab
ध्वजण्डमरुकं पाशं वामहस्तेषु विभ्रतीं ॥ 9cd
शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं । 10ab
शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् ॥ 10cd
पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् । 11ab
कालि कालि वज्रेश्वरि लौहदण्डायै नमः ॥ 11cd


1 षोडशहस्तका इति ङ॰ ।
2 क्रमान् मध्ये चोग्रचण्डां कृत्वा महिषमर्दिनीमिति ग॰ ।
3 दीर्घाकारादीत्यादिः, जपेच्छिवामित्यन्तः पाठः घ॰ , ज॰ , झ॰ , ञ॰ पुस्तके नास्ति ।
4 एवं जपतीति ज॰ , झ॰ च ।
Image-P.214


तदुत्थं रुधिरं मांसं पूतनायै च नैरृते । 12ab
वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे ॥ 12cd
विदारिकायै चाग्नेय्यां महाकौशिकमग्नये 1 13ab
तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत् 2 13cd
दद्यात् स्कन्दविशाखाभ्यां ब्राह्माद्या निशि ता यजेत् । 14ab
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥ 14cd
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो ऽस्तु ते । 15ab
देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना ॥ 15cd
ध्वजादिरथयात्रादिबलिदानं वरादिकृत् । 16ab


इत्याग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमो ऽध्यायः ॥

Chapter 186

अथ षड़शीत्यधिकशततमो ऽध्यायः ।

दशमीव्रतं ।
अग्निरुवाच ।
दशमीव्रतकं वक्ष्ये धर्म्मकामादिदायकं । 1ab
दशम्यामेकभक्ताशी समाप्ते दशधेनुदः ॥ 1cd
दिशश्च काञ्चनीर्द्दद्याद्ब्राह्मणाधिपतिर्भवेत् । 2ab


इत्याग्नेये महापुराणे दशमीव्रतानि नाम षड़शीत्यधिकशततमो ऽध्यायः ॥


1 महाकौशिकं मण्डपे इति घ॰ , ञ॰ च ।
2 पिष्टमयं हुनेदिति ख॰ , छ॰ च ।
Image-P.215


Chapter 187

अथ सप्ताशीत्यधिकशततमो ऽध्यायः ।

एकादशीव्रतं ।
अग्निरुवाच ।
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं । 1ab
दशम्यान्नियताहारो मांसमैथुनवर्जितः 1 1cd
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । 2ab
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥ 2cd
तत्र 2 क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे । 3ab
एकादशी कला यत्र परतो द्वादशो गता 3 3cd
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे । 4ab
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥ 4cd
एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि । 5ab
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ 5cd
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् । 6ab
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥ 6cd
एकादशी द्वादशी या श्रवणेन च संयुता । 7ab
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥ 7cd
एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता । 8ab


1 मधुमांसैर्विवर्जित इति ग॰ ।
2 अत्रेति ख॰ , छ॰ , ज॰ च ।
3 द्वादशी मतेति घ॰ , ञ॰ च । द्वादशी भवेदिति ङ॰ , झ॰ च ।
Image-P.216


विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा 1 8cd
एकादश्यां विष्णुपूजा 2 कार्य्या सर्व्वोपकारिणी 3 9ab
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥ 9cd


इत्याग्नेये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमो ऽध्यायः ॥

Chapter 188

अथाष्टाशीत्यधिकशततमो ऽध्यायः ।

द्वादशीव्रतानि ।
अग्निरुवाच ।
द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं । 1ab
एकभक्तेन भक्तेन तथैवायाचितेन च ॥ 1cd
उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती । 2ab
चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं ॥ 2cd
पूजयेद् भुक्तिमुक्त्यर्थी 4 मदनद्वादशैiव्रती । 3ab
माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती ॥ 3cd
नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् । 4ab
फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती ॥ 4cd
विशोकद्वादशीकारी यजेदाश्वयुजे हरिं । 5ab
लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्च्य यो नरः ॥ 5cd
ददाति शुक्लद्वादश्यां स सर्व्वरसदायकः । 6ab


1 कीटिकोटिगुणोत्तमेति ख॰ ।
2 एकादश्यामृषिं पूज्येति ख॰ , छ॰ च । एकदश्यामृषिपूजेति ङ॰ ।
3 कार्य्या सर्वाघहारिणीति झ॰ , ञ॰ च ।
4 भुक्तिमुक्त्यर्थमिति छ॰ , ञ॰ च ।
Image-P.217


गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती ॥ 6cd
माध्यान्तु समतीतायां श्रवणेन तु संयुता । 7ab
द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्वादशी ॥ 7cd
तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकं । 8ab
दीपश्च तिलतैलेन तथा देयं तिलोदकं ॥ 8cd
तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः । 9ab
ओं नमो भगवते ऽथो वासुदेवाय वै यजेत् ॥ 9cd
सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती । 10ab
मनोरथद्वादशीकृत् फाल्गुने तु सिते ऽर्च्चयेत् ॥ 10cd
नामद्वादशीव्रतकृत् केशवाद्यैश्च नामभिः । 11ab
वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः ॥ 11cd
फाल्गुनस्य सिते ऽभ्यर्च्च्य सुमतिद्वादशीव्रती । 12ab
मासि भाद्रपदे शुक्ले अनन्तद्वादशीव्रती 1 12cd
अश्लेषर्क्षे तु मूले वा 2 माघे कृष्णाय वै नमः । 13ab
यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः ॥ 13cd
सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् । 14ab
जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः 3 14cd
पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती । 15ab


इत्याग्नेये महापुराणे नानाद्वादशीव्रतानि नामाष्टाशीत्यधिकशततमो ऽध्यायः ॥


1 मनोरथद्वादशीत्यादिः, अनन्तद्वादशी व्रतीत्यन्तः पाठः घ॰ पुस्तके नास्ति ।
2 आषाढर्क्षे तु मूले वा इति ख॰ , ग॰ , ज॰ , ट॰ च ।
3 वर्षे स्याद् भुक्तिमुक्तिद इति ग॰ , घ॰ च ।
Image-P.218


Chapter 189

अथैकोननवत्यधिकशततमो ऽध्यायः ।

श्रवणद्वादशीव्रतम् ।
अग्निरुवाच ।
श्रवणद्वादशीं वक्ष्ये मासि भाद्रपदे सिते । 1ab
श्रवणेन युता श्रेष्ठा 1 महती सा ह्युपोषिता ॥ 1cd
सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं 2 2ab
बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥ 2cd
निषिद्धमपि कर्त्तव्यन्त्रयोदश्यान्तु पारणं । 3ab
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥ 3cd
उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं । 4ab
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥ 4cd
सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके । 5ab
स्नापयामि जलैः शुद्धैर्विष्णुं 3 पञ्चामृतादिभिः ॥ 5cd
छत्रदण्डधरं विष्णुं वामनाय नमो नमः । 6ab
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्च्चितः 4 6cd
भुक्तिमुक्तिप्रजाकीर्त्तिसर्वैश्वर्य्ययुतं कुरु । 7ab
वामनाय नमो गन्धं होमो ऽनेनाष्टकं शतं ॥ 7cd


1 श्रवणेन समायुक्तेति घ॰ ।
2 द्वादशद्वादशीफलमिति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ञ॰ च ।
3 शुद्धैर्हरिमिति ग॰ , ट॰ च ।
4 मुदार्च्चित इति ग॰ ।
Image-P.219


ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः । 8ab
श्रीधराय मुखं तद्वत् कण्ठे कृष्णाय वै नमः ॥ 8cd
नमःश्रीपतये वक्षो भुजो सर्वास्त्रधारिणे । 9ab
व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥ 9cd
त्रैलोक्यजयकायेति 1 मेढ्रं जङ्घे यजेद्धरेः । 10ab
सर्व्वाधिपतये पादौ विष्णोः सर्व्वात्मने नमः ॥ 10cd
घृतपक्वञ्च नैवेद्यन्दद्याद् दध्योदनैर्घटान् । 11ab
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥ 11cd
गन्धपुष्पादिभिः पूज्य वदेत् पुष्पाञ्जलिस्त्विदं । 12ab
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥ 12cd
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव । 13ab
प्रीयतान्देव देवेश मम नित्यञ्जनार्द्दन ॥ 13cd
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं । 14ab
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥ 14cd
द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः । 15ab
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥ 15cd


इत्याग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशततमो ऽध्यायः ॥


1 त्रैलोक्यजननायेति झ॰ , ञ॰ च । त्रैलोक्यजनकायेति ङ॰ , ट॰ च ।
Image-P.220


Chapter 190

अथ नवत्यधिकशततमो ऽध्यायः ।

अखण्डद्वादशीव्रतं ।
अग्निरुवाच ।
अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं । 1ab
मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः ॥ 1cd
पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती । 2ab
यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजे ऽर्पयेत् ॥ 2cd
सप्तजन्मनि यत् किञ्चिन्मया खण्डं व्रतं कृतं । 3ab
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ 3cd
यथा ऽखण्डं जगत् सर्वं त्वमेव पुरुषोत्तम । 4ab
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥ 4cd
एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः । 5ab
अन्यच्चैत्रादिमासेषु शक्तुपात्राणि 1 चार्पयेत् ॥ 5cd
श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं । 6ab
सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते ॥ 6cd
आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात् 2 7ab


इत्याग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमो ऽध्यायः ॥


1 स्वर्णपात्राणि इति ख॰ , घ॰ , ञ॰ च ।
2 अग्निरुवाच । अखण्डद्वादशीं वक्ष्ये इत्यादिः, राज्यभोगादिमाप्नुयादित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.221


Chapter 191

अथैकनवत्यधिकशततमो ऽध्यायः ।

त्रयोदशीव्रतानि ।
अग्निरुवाच ।
त्रयोदशीव्रतानीह सर्वदानि वदामि ते । 1ab
अनङ्गेन कृतामादौ वक्ष्ये ऽनङ्गत्रयोदशीं ॥ 1cd
त्रयोदश्यां मार्गशीर्षे शुक्ले ऽनङ्गं हरं यजेत् 1 2ab
मध सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः ॥ 2cd
पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः । 3ab
महेश्वरं मौक्तिकाशी माघे ऽभ्यर्च्च्य दिवं व्रजेत् ॥ 3cd
काकोलं प्राश्य नीरं तु 2 फाल्गुने पूजयेद्व्रती । 4ab
कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥ 4cd
महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि । 5ab
लवङ्गाशी ज्यैष्ठदिने 3 प्रद्युम्नं पूजयेद् व्रती ॥ 5cd
तिलोदाशी तथाषाढे उमाभर्त्तारमर्च्चयेत् । 6ab
श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनम् ॥ 6cd
सद्योजातं भाद्रपदे प्राशिता गुरुमर्च्चयेत् । 7ab
सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् ॥ 7cd


1 हरिं यजेदिति छ॰ , ज॰ , ञ॰ च ।
2 काकोलं प्राश्य चीनञ्चेति घ॰ , ज॰ , झ॰ , ञ॰ च ।
3 ज्यैष्ठमासे इति ग॰ , घ॰ , ङ॰ , ज॰ , झ॰ , ञ॰ च ।
Image-P.222


विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती । 8ab
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥ 8cd
वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा । 9ab
शयनञ्छत्रकलशान् पादुकारसभाजनम् ॥ 9cd
त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् । 10ab
अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः ॥ 10cd
अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् । 11ab


इत्याग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमो ऽध्यायः ॥

Chapter 192

अथ द्विनवत्यधिकशततमो ऽध्यायः ।

चतुर्दशीव्रतानि ।
अग्निरुवाच ।
व्रतं वक्ष्ये चतुर्द्दश्यां भुक्तिमुक्तिप्रदायकम् 1 1ab
कार्त्तिके तु चतुर्द्दश्यां निराहारो यजेच्छिवम् ॥ 1cd
वर्षम्भोगधनायुष्मान् 2 कुर्वन् शिवचतुर्द्दशीम् । 2ab
मार्गशीर्षे सिते ऽष्टम्यां तृतीयायां मुनिव्रतः ॥ 2cd


1 भुक्तिमुक्तिप्रदं शृणु इति ख॰ , घ॰ , ज॰ , झ॰ , ञ॰ , ट॰ च । भुक्तिमुक्तिसुखप्रदमिति ङ॰ ।
2 भोगबलायुष्मानिति ङ॰ ।
Image-P.223


द्वादश्यां वा चतुर्द्दश्यां फलाहारो यजेत् सुरं 1 3ab
त्यक्त्वा फलानि दद्यात्तु कुर्व्वन् फलचतुर्द्दशीं ॥ 3cd
चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । 4ab
अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥ 4cd
कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं । 5ab
इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥ 5cd
कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत् सुखी । 6ab
आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु 2 6cd
ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं । 7ab
कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥ 7cd
शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च । 8ab
अर्द्धं विप्राय दातव्यमर्द्धमात्मनि योजयेत् 3 8cd
कर्त्तव्यं सरितां चान्ते कथां कृत्वा 4 हरेरिति । 9ab
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥ 9cd
अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते । 10ab
अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥ 10cd
स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत् सुखी ॥ 11॥ 11ab


इत्याग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमो ऽध्यायः ॥


1 यजेत् स्वयमिति घ॰ ।
2 वर्षं भोगधनायुष्मानित्यादिः ध्वजाकारासु यष्टिषु इत्यन्तः पाठः झ॰ पुस्तके नास्ति ।
3 भोजनमिति घ॰ , ङ॰ , ज॰ , झ॰ , ञ॰ , ट॰ च ।
4 कथां श्रुत्वेति झ॰ ।
Image-P.224


Chapter 193

अथ त्रिनवत्यधिकशततमो ऽध्यायः ।

शिवरात्रिव्रतम् ।
अग्निरुवाच ।
शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु 1 1ab
माघफाल्गुनयोर्म्मध्ये कृष्णा या तु चतुर्दशी ॥ 1cd
कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती । 2ab
शिवरात्रिव्रतं कुर्व्वे चतुर्दश्यामभोजनं ॥ 2cd
रात्रिजागरणेनैव पूजयामि शिवं व्रती । 3ab
आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं ॥ 3cd
नरकार्णवकोत्तारनावं शिव नमो ऽस्तु ते । 4ab
नमः शिवाय शान्ताय प्रजाराज्यादिदायिने ॥ 4cd
सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने 2 5ab
धर्म्मन्देहि धनन्देहि कामभोगादि देहि मे ॥ 5cd
गुणकीर्त्तिसुखं देहि स्वर्गं मोक्षं च देहि मे । 6ab
लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः ॥ 6cd


इत्याग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमो ऽध्यायः ॥


1 भुक्तिमुक्तिप्रदायकमिति झ॰ , ट॰ च ।
2 स्वर्गमोक्षप्रदायिने इति ङ॰ ।
Image-P.225


Chapter 194

अथ चतुर्नवत्यधिकशततमो ऽध्यायः ।

अशोकपूर्णिमादिव्रतं ।
अग्निरुवाच ।
अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् । 1ab
फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥ 1cd
कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । 2ab
शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥ 2cd
पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यं । 3ab
उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥ 3cd
पञ्चदश्यां च माघस्य पूज्याजं सर्व्वमाप्नुयात् । 4ab
वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥ 4cd
पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं । 5ab
त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥ 5cd
प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः । 6ab
वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥ 6cd
नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद् द्विजे । 7ab
वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्ज्जयेत् ॥ 7cd
सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् ॥ 8॥ 8ab


इत्याग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमो ऽध्यायः ॥
Image-P.226


Chapter 195

अथ पञ्चनवत्यधिकशततमो ऽध्यायः ।

वारव्रतानि ।
अग्निरुवाच ।
वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि । 1ab
करं पुनर्व्वसुः सूर्य्ये स्नाने सर्वौषधी शुभा ॥ 1cd
श्राद्धौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् । 2ab
सङ्क्रान्तौ सूर्य्यवारो यः सो ऽर्कस्य हृदयः शुभः ॥ 2cd
कृत्वा हस्ते सूर्य्यवारं नक्तेनाब्दं स सर्वभाक् । 3ab
चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥ 3cd
स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्त्तिवर्जितः । 4ab
विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्त्तिनुत् ॥ 4cd
अनुराधे देवगुरुं सप्तनक्ती ग्रहार्त्तिनुत् 1 5ab
शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्त्तिनुत् ॥ 5cd
मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्त्तिनुत् ॥ 6 ॥ 6ab


इत्याग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमो ऽध्यायः ॥


1 अनुराधे इत्यादिः ग्रहार्त्तिनुदित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.227


Chapter 196

अथ षण्णवत्यधिकशततमो ऽध्यायः ।

नक्षत्रव्रतानि ।
अग्निरुवाच ।
नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितो ऽर्थदः 1 1ab
नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥ 1cd
मूले पादौ यजेज्जङ्घे रोहिणीस्वर्च्चयेद्धरिं । 2ab
जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके ॥ 2cd
मेढ्रं पूर्व्वोत्तरास्वेव कटिं वै कृत्तिकासु च । 3ab
पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च ॥ 3cd
स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं । 4ab
भुजौ पूज्यौ विशाखासु पुनर्व्वस्वङ्गुलीर्यजेत् ॥ 4cd
अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् । 5ab
श्रोत्रे विष्णोश्च श्रवणे मुखं पुष्ये हरेर्यजेत् ॥ 5cd
यजेत् स्वातिषु दन्ताग्रमास्यं वारुणतो ऽर्चयेत् । 6ab
मघासु नासां नयने मृगशीर्षे ललाटकं ॥ 6cd
चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं । 7ab
गुड़पूर्णे घटे ऽभ्यर्च्य शय्यागोर्थादि दक्षिणा 2 7cd
नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः । 8ab


1 हरिः सर्व्वत्र पूजित इति ग॰ ।
2 शय्यागोश्चादि दक्षिणा इति ख॰ , ट॰ च । शय्यागोन्नादि दक्षिणा इति घ॰ , ञ॰ , ज॰ च । शय्याधेन्वादि सक्षिणा इति ङ॰ ।
Image-P.228


शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥ 8cd
कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके । 9ab
नामभिः केशवाद्यैस्तु अच्युताय नमो ऽपि वा ॥ 9cd
कार्त्तिके कृत्तिकाभे ऽह्नि मासनक्षत्रगं हरिं । 10ab
शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं ॥ 10cd
केशवादि महामूर्त्तिमच्युतं सर्व्वदायकं 1 11ab
आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं ॥ 11cd
कार्त्तिकादौ सकासारमन्नं 2 मासचतुष्टयं 3 12ab
फाल्गुनादौ च कुशरमाषाढादौ च पायसं ॥ 12cd
देवाय ब्राह्मणेभ्यश्च नक्तन्नैवेद्यमाशयेत् 4 13ab
पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः ॥ 13cd
अर्वाग्विसर्जनाद् द्रव्यं नैवेद्यं सर्वमुच्यते । 14ab
विसर्जिते जगन्नाथे निर्म्माल्यम्भवति क्षणात् ॥ 14cd
नमो नमस्ते ऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं । 15ab
ऐश्वर्य्यवित्तादि सदा ऽक्षयं मे 5 क्षयञ्च मा सन्ततिरभ्यपैतु ॥ 15cd
यथाच्युतस्त्वम्परतः परस्तात् स ब्रह्मभूतः परतः परात्मन् । 16ab


1 सर्व्वपापहमिति ङ॰ ।
2 सर्व्वसारमन्नमिति ख॰ , ग॰ , घ॰ च ।
3 मासचतुष्टकमिति ख॰ ।
4 नक्तं नैवेद्यमर्पयेदिति झ॰ ।
5 ऐश्वर्य्यवित्तादि महोदयं मे इति झ॰ ।
Image-P.229


तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥ 16cd
अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं । 17ab
अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ॥ 17cd
सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् । 18ab
अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं 1 18cd
मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं । 19ab
अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥ 19cd
ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि । 20ab
अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं ॥ 20cd
यथाभिलषितप्राप्तिं करोत्यक्षयमेव च । 21ab
पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं ॥ 21cd
घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं । 22ab
चैत्रादौ शालिना होमः पयसा श्रावणादिषु ॥ 22cd
मान्धाताभूद् युवनाश्वादनन्तव्रतकात् सुतः ॥ 23॥ 23ab


इत्याग्नेये महापुराणे नक्षत्रव्रतकानि नाम षण्णवत्यधिकशततमो ऽध्यायः ॥


1 नक्षत्रव्रतकामदमिति ख॰ , ग॰ , छ॰ । नक्षत्रव्रतके ऽन्नदमिति घ॰ , ङ॰ , ञ॰ च ।
Image-P.230


Chapter 197

अथ सप्तनवत्यधिकशततमो ऽध्यायः ।

दिवसव्रतानि ।
अग्निरुवाच ।
दिवसव्रतकं वक्ष्ये ह्यादौ धेनुव्रतं वदे । 1ab
यश्चोभयमुखीन्दद्यात् प्रभूतकनकान्वितां ॥ 1cd
दिनं पयोव्रतस्तिष्ठेत् स याति परसम्पदं । 2ab
त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं ॥ 2cd
दत्वा ब्रह्मपदं याति कल्पवृक्षव्रतं स्मृतं । 3ab
दद्याद्विंशत् पलादूर्द्ध्वं 1 महीङ्कृत्वा तु काञ्चनीं ॥ 3cd
दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती । 4ab
पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत् 2 4cd
विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं । 5ab
मासे मासे त्रिरात्राशी एकभक्ती गणेशतां ॥ 5cd
यस्त्रिरात्रव्रतं 3 कुर्य्यात् समुहिश्य जनार्दनं । 6ab
कुलानां शतमादाय स याति भवनं हरेः ॥ 6cd
नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ 4 7ab
प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद् व्रती ॥ 7cd


1 दद्यात् त्रिंशत्पलादूर्द्ध्वमिति घ॰ , ज॰ , ञ॰ च ।
2 क्षिपेदिति ख॰ , ग॰ , घ॰ , ङ॰ , ञ॰ च ।
3 यस्त्रिरात्रशतं कुर्य्यादिति ग॰ , घ॰ , ञ॰ ।
4 मार्गशिरस्य चेति ख॰ , घ॰ , ज॰ , ञ॰ च ।
Image-P.231


ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् । 8ab
अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् ॥ 8cd
द्वादश्यां पूजयेद् विष्णुं कार्त्तिके कारयेद् व्रतं । 9ab
विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च ॥ 9cd
छत्रोपवीतपात्राणि ददेत् सम्प्रार्थयेद्द्विजान् । 10ab
व्रते ऽस्मिन् दुष्करे चापि विकलं यदभून्मम ॥ 10cd
भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति । 11ab
भुक्तभोगो व्रजेद् विष्णुं त्रिरात्रव्रतकत्रती 1 11cd
कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं । 12ab
दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः ॥ 12cd
कार्त्तिकस्य सिते ऽभ्यर्च्य 2 विष्णुं देवविमानगः । 13ab
चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी ॥ 13cd
त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं । 14ab
षष्ठ्यादि कार्त्तिके शुक्ले कृच्छ्रो माहेन्द्र उच्यते ॥ 14cd
पञ्चरात्रं पयः पीत्वा दध्याहारो ह्युपोषितः । 15ab
एकादश्यां कार्त्तिके तु कृच्छ्रो ऽयं भास्करोर्थदः 3 15cd
यवागूं यावकं शाकं दधि क्षीरं घृतं जलं । 16ab
पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः ॥ 16cd


इत्याग्नेये महापुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमो ऽध्यायः ॥


1 त्रिरात्रशतकव्रतो इति ख॰ , घ॰ , ञ॰ च । त्रिरात्रशतककृद् व्रतो इति ङ॰ ।
2 कार्त्तिकस्य सिते प्रार्च्य इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ च ।
3 भास्करो ऽन्नद इति ख॰ , ग॰ , घ॰ , ज॰ , ञ॰ च ।
Image-P.232


Chapter 198

अथाष्टनवत्यधिकशततमो ऽध्यायः ।

मासव्रतानि ।
अग्निरुवाच ।
मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं । 1ab
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत् सुधीः ॥ 1cd
वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् । 2ab
गोदो मासोपवासी च 1 भीमव्रतकरो हरिः 2 2cd
आषाढादिचतुर्म्मासं प्रातःस्नायी च विष्णुगः । 3ab
माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् ॥ 3cd
गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती । 4ab
मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् ॥ 4cd
एकभक्तव्रती तद्वद् द्वादशीव्रतकं पृथक् 3 5ab
फलव्रती चतुर्म्मासं फलं त्यक्त्वा प्रदापयेत् ॥ 5cd
श्रावणादिचतुर्मासं व्रतैः सर्व्वं लभेद्व्रती । 6ab
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥ 6cd
चातुर्मास्यव्रतानान्तु कुर्व्वीत परिकल्पनं । 7ab
आषाढ्याञ्चाथ सङ्क्रान्तौ कर्क्कटस्य 4 हरिं यजेत् ॥ 7cd
इदं व्रतं मया देव गृहीतं पुरतस्तव । 8ab


1 मासे यवाशो चेति ख॰ ।
2 भीमव्रतपरो हरिरिति ङ॰ ।
3 द्वादशीव्रतकं परमिति ङ॰ ।
4 आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ॰ ।
Image-P.233


निर्विघ्नां सिद्धिमायातु प्रसन्नेत्वयि केशव ॥ 8cd
गृहीते ऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्यहं । 9ab
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ 9cd
मांसादि त्यक्त्वा 1 विप्रः स्यात्तैलत्यागी हरिं यजेत् । 10ab
एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् ॥ 10cd
चान्द्रायणी विष्णुलोकी मौनी स्यान् मुक्तिभाजनं । 11ab
प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः ॥ 11cd
दुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभुक्तथा । 12ab
शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत् 2 12cd
मांसवर्ज्जी यवाहारो रसवर्ज्जी हरिं व्रजेत् । 13ab
कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः ॥ 13cd
द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः । 14ab
घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् ॥ 14cd
ओं नमो वासुदेवाय मालत्या मालया यजेत् । 15ab
धर्म्मकामार्थमोक्षांश्च प्राप्नुयात् कौमुदव्रती ॥ 15cd
सर्व्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती । 16ab


इत्याग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमो ऽध्यायः ॥


1 मत्स्यादि त्यक्त्वेति ख॰ , घ॰ , छ॰ च । मत्स्यत्यागी तु इति ङ॰ ।
2 विष्णुपुरं व्रजेदिति ख॰ , ट॰ च ।
Image-P.234


Chapter 199

अथैकोनशताधिकशततमो ऽध्यायः ।

नानाव्रतानि ।
अग्निरुवाच ।
ऋतुव्रतान्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते । 1ab
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्यृतून् ॥ 1cd
घृतधेनुप्रदश्चान्ते ब्राह्मणो ऽग्निव्रती भवेत् । 2ab
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥ 2cd
तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती 1 3ab
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥ 3cd
एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् । 4ab
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥ 4cd
पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् । 5ab
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥ 5cd
वर्षव्रतानि चोक्तानि 2 सङ्क्रान्तिव्रतकं वदे । 6ab
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥ 6cd
अमावास्यां तु सङ्क्रान्तौ शिवार्क्कयजनात्तथा । 7ab
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥ 7cd


1 सुधीः सारस्वतव्रती इति ख॰ , ग॰ , घ॰ , छ॰ , ट॰ च ।
2 सर्वव्रतानि चोक्तानीति ख॰ , छ॰ , ज॰ च ।
Image-P.235


द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते । 8ab
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥ 8cd
स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च । 9ab
गौरीं महेश्वरं चापि यजेत् सौभाग्यमाप्नुयात् ॥ 9cd
उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् । 10ab
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥ 10cd
सूर्य्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् । 11ab


इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमो ऽध्यायः ॥

Chapter 200

अथ द्विशततमो ऽध्यायः ।

दीपदानव्रतं ।
अग्निरुवाच ।
दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं । 1ab
देवद्विजातिकगृहे दीपदो ऽब्दं स सर्व्वभाक् ॥ 1cd
चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि । 2ab
दीपदानात् परं नास्ति न भूतं न भविष्यति ॥ 2cd
दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं । 3ab
सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयते ॥ 3cd
विदर्भराजदुहिता ललिता दीपदात्मभाक् । 4ab
Image-P.236


चारुधर्म्मक्ष्मापपत्नी शतभार्याधिका ऽभवत् ॥ 4cd
ददौ दीपसहस्रं सा विष्णोरायतने सती । 5ab
पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥ 5cd
ललितोवाच ।
सौवीरराजस्य पुरा मैत्रेयो ऽभूत् पुरोहितः । 6ab
तेन चायतनं विष्णोः कारितं देविकातटे ॥ 6cd
कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया । 7ab
वक्त्रप्रान्तेन नश्यन्त्या मार्ज्जारस्य तदा भयात् ॥ 7cd
निर्व्वाणवान् प्रदीप्तो ऽभूद्वर्त्त्या मूषिकया तदा । 8ab
मृता राजात्मजा जाता राजपत्नी शताधिका ॥ 8cd
असङ्कल्पितमप्यस्य प्रेरणं यत् कृतं मया । 9ab
विष्णायतनदीपस्य तस्येदं भुज्यते फलं ॥ 9cd
जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्न्निशं । 10ab
एकादश्यां दीपदो वै विमाने दिवि मोदते ॥ 10cd
जायते दीपहर्त्ता तु मूको वा जड़ एव च । 11ab
अन्धे तमसि दुष्पारे नरके पतते किल ॥ 11cd
विक्रोशमानांश्च नरान् यमकिङ्कराहतान् । 12ab
विलापैरलमत्रापि किं वो विलपिते फलं ॥ 12cd
यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः । 13ab
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन् मानुषो यदि ॥ 13cd
तत्राप्यतिविमूढ़ात्मा किं भोगानभिधावति । 14ab
स्वहितं 1 विषयास्वादैः क्रन्दनं तदिहागतं ॥ 14cd


1 हर्षितमिति ख॰ , ग॰ , घ॰ च । दूषितमिति ङ॰ ।
Image-P.237


भुज्यते च कृतं पूर्वमेतत् किं वो न चिन्तितं । 15ab
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥ 15cd
मुहूर्त्तविषयास्वादो ऽनेककोट्यव्ददुःखदः । 16ab
परस्त्रीहारियद्गीतं हा मातः किं विलप्यते ॥ 16cd
को ऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्त्तने । 17ab
वर्त्तितैले ऽल्पमूल्ये ऽपि यदग्निर्लभ्यते सदा ॥ 17cd
दानाशक्तैर्हरेर्द्दीपो हृतस्तद्वो ऽस्ति दुःखदं । 18ab
इदानीं किं विलापेन सहध्वं यदुपागतं ॥ 18cd
अग्निरुवाच ।
ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः । 19ab
तस्माद्दीपप्रदानेन व्रतानामधिकं फलं ॥ 19cd


इत्याग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमो ऽध्यायः ॥

Chapter 201

अथैकाधिकद्विशततमो ऽध्यायः ।

नवव्यूहार्च्चनं ।
अग्निरुवाच ।
नवव्यूहार्च्चनं वक्ष्ये नारदाय हरीरितं । 1ab
मण्डले ऽब्जे ऽर्च्चयेन्मध्ये अवीजं वासुदेवकं ॥ 1cd
आवीजञ्च सङ्कर्षणम् प्रद्युम्नं च दक्षिणे । 2ab
Image-P.238


अः अनुरुद्धं नैqते ओं नारायणमप्सु च ॥ 2cd
तत् सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं 1 3ab
उत्तरे भूर्व्वराहञ्च ईशे द्वारि च पश्चिमे ॥ 3cd
कं टं सं शं गरुत्मन्तं पूर्व्ववक्त्रञ्च दक्षिणे 2 4ab
खं छं वं हुं फड़िति च खं ठं फं शं गदां विधौ ॥ 4cd
बं णं मं क्षं कोणेशञ्च घं दं भं हं श्रियं यजेत् । 5ab
दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं ॥ 5cd
पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे । 6ab
श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले ॥ 6cd
दशमाङ्गक्रमाद्विष्णोर्नमो ऽनन्तमधो ऽर्च्चयेत् । 7ab
दशाङ्गादिमहेन्द्रादीन् पूर्व्वादौ चतुरो घटान् ॥ 7cd
तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः । 8ab
मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् ॥ 8cd
अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः । 9ab
सितामृते निमग्नञ्च 3 चन्द्रविम्वात् स्रुतेन च ॥ 9cd
तदेव चात्मनो वीजममृतं प्लवसंस्कृतं । 10ab
उत्पद्यमानं पुरुषमात्मानमुपकल्पयेत् ॥ 10cd
उत्पन्नो ऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् । 11ab
हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च ॥ 11cd
वक्षोमूर्द्धशिखापृष्ठलोचनेषु न्यसेत पुनः । 12ab
अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् ॥ 12cd


1 क्रूं विष्णुं क्षौं नृसिंहकमिति ख॰ , छ॰ , ज॰ च ।
2 पक्षिराजञ्च दक्षिणे इति ङ॰ ।
3 सितासिते निमग्नञ्चेति ख॰ , ज॰ च ।
Image-P.239


यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा । 13ab
अनिर्म्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि ॥ 13cd
सनिर्म्माल्या मण्डलादौ बद्धनेत्राश्च शिष्यकाः । 14ab
पुष्पं क्षिपेयुर्यन्मूर्त्तौ तस्य तन्नाम कारयेत् ॥ 14cd
निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् । 15ab
शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये ॥ 15cd
नवव्यूहस्य मूर्त्तीनामङ्गानां च शताधिकं । 16ab
पूर्णान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश्च तैर्धनैः ॥ 16cd


इत्याग्नेये महापुराणे नवव्यूहार्च्चनं नाम एकाधिकद्विशततमो ऽध्यायः ॥

Chapter 202

अथ द्व्यधिकद्विशततमो ऽध्यायः ।

पुष्पाध्यायकथनं ।
अग्निरुवाच ।
पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः । 1ab
पुष्पाणि देवयोग्यानि ह्ययोग्यानि वदामि ते ॥ 1cd
पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् । 2ab
मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा ॥ 2cd
अतिमुक्तमयं तद्वत् पाटला विष्णुलोकदा । 3ab
Image-P.240


करवीरैर्विष्णुलोकी जवापुष्पैश्च पुण्यवान् ॥ 3cd
पावन्तीकुब्जकाद्यैश्च तगरैर्विष्णुलोकभाक् । 4ab
कर्णिकारैर्विष्णुलोकः करुण्ठैः पापनाशनं ॥ 4cd
पद्मैश्च केतकीभिश्च कुन्दपुष्पैः परा गतिः । 5ab
वाणपुष्पैर्वर्वराभिः कृष्णाभिर्हरिलोकभाक् ॥ 5cd
अशोकैस्तिलकैस्तद्वदटरूषभवैस्तथा । 6ab
मुक्तिभागी विल्वपत्रैः शमीपत्रैः परा गतिः ॥ 6cd
विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस्तथा । 7ab
तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च ॥ 7cd
पद्मं कोकनदं पुण्यं शताब्जमालया हरिः । 8ab
नीपार्जुनकदम्बैश्च 1 वकुलैश्च सुगन्धिभिः ॥ 8cd
किंशुकैर्मुनिपुष्पैस्तु गोकर्णैर्न्नागकर्णकैः । 9ab
सन्ध्यापुष्पैर्विल्वतकै रञ्जनीकेतकीभवैः 2 9cd
कुष्माण्डतिमिरोत्थैश्च कुशकाशशरोद्भवैः । 10ab
द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः ॥ 10cd
भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति । 11ab
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥ 11cd
स्ववने ऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं 3 12ab
विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः ॥ 12cd
काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा । 13ab


1 मुक्तिभागो कदम्बैश्चेति ङ॰ ।
2 रजनीकेतकीभवैरिति ख॰ , ङ॰ , छ॰ , ज॰ च ।
3 जलजैः फलमिति ङ॰ ।
Image-P.241


कुटजैः शाल्मलीयैश्च 1 शिरीषैर्न्नरकादिकं ॥ 13cd
सुगन्धैर्ब्रह्मपद्मैश्च 2 पुष्पैर्नीलोत्पलैर्हरिः 3 14ab
अर्कमन्दारधुस्तूरकुसुमैरर्च्च्यते हरः ॥ 14cd
कुटजैः कर्क्कटीपुष्पैः केतकीन्न शिवे ददेत् । 15ab
कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥ 15cd
अहिंसा इन्द्रियजयः 4 क्षान्तिर्ज्ञानं 5 दया श्रुतं । 16ab
भावाष्तपुष्पैः सम्पूज्य देवान् स्याद् भुक्तिमुक्तिभाक् ॥ 16cd
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । 17ab
सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते ॥ 17cd
शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च सप्तमं । 18ab
सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥ 18cd
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः । 19ab
पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम ॥ 19cd
भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति 6 20ab
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥ 20cd
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं । 21ab
फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥ 21cd
पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं । 22ab


1 शाल्मलिजैश्चेति ख॰ , ग॰ , ङ॰ च ।
2 सुगन्धैः पत्रपुष्पैश्चेति ङ॰ ।
3 पूज्यो नीलोत्पलैर्हरिरिति ख॰ , ग॰ , ङ॰ , ज॰ च ।
4 अहिंसा इन्द्रिययम इति ग॰ ।
5 क्षान्तिर्दानमिति ख॰ ।
6 अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्यन्तः पाठः ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ , ट॰ पुस्तकेषु नास्ति ।
Image-P.242


श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः ॥ 22cd
आसनं मूर्त्तिपञ्चाङ्गं 1 विष्णुर्वा चाष्टपुष्पिकाः । 23ab
विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा ॥ 23cd


इत्याग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमो ऽध्यायः ॥

Chapter 203

अथ त्र्यधिकद्विशततमो ऽध्यायः ।

नरकस्वरूपम् ।
अग्निरुवाच ।
पुष्पाद्यैः पूजनाद्विष्णोर्न्न याति नरकान्वदे । 1ab
आयुषो ऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥ 1cd
जलमग्निर्व्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः । 2ab
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥ 2cd
अन्यच्छरीरमादत्ते यातनीयं स्वकर्म्मभिः । 3ab
भुङ्क्ते ऽथ पापकृत् दुःखं सुखं धर्म्माय सङ्गतः ॥ 3cd
नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः । 4ab
कुपथे दक्षिणद्वारि धार्म्मिकः पश्चिमादिभिः ॥ 4cd
यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च 2 5ab


1 आसनं मूर्त्तिषोढाङ्गमिति ख॰ ।
2 पात्यते नरकेष्वपि इति ख॰ । पात्यते नरके सदा इति ङ॰ । पीड्यते नरके ऽधुनेति घ॰ , छ॰ च ।
Image-P.243


स्वर्गे तु नीयते धर्म्माद् वसिष्ठाद्युक्तिसंश्रयात् ॥ 5cd
गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते । 6ab
आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥ 6cd
महाप्रलयकं यावद्रौरवे पीड्यते शनैः । 7ab
स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥ 7cd
महारौरवके रौद्रे गृहक्षेत्रादिदीपकः । 8ab
दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥ 8cd
नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः । 9ab
महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥ 9cd
यावद्भूमिर्मातृहाद्या असिपत्रवने ऽसिभिः 1 10ab
नैककल्पन्तु नरके करम्भवालुकासु च ॥ 10cd
येन दग्धो जनस्तत्र दह्यते वालुकादिभिः । 11ab
काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥ 11cd
कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः । 12ab
सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्षकः ॥ 12cd
तैलपाके तु तिलवत् पीड्यते परपीड़कः । 13ab
तैलपाके तु पच्येत शरणागतघातकः ॥ 13cd
निरुच्छासे दाननाशी रसविक्रयको ऽध्वरे । 14ab
नाम्ना वज्रकवाटेन महापाते तदा ऽनृती ॥ 14cd
महाज्वाले पापबुद्धिः क्रकचे ऽगम्यगामिनः । 15ab
सङ्करी गुडपाके च 2 प्रतुदेत् परमर्म्मनुत् ॥ 15cd


1 असिपत्रवने ऽग्निभिरिति ङ॰ ।
2 गुरुपाके चेति ख॰ , ज॰ च ।
Image-P.244


क्षारह्रदे 1 प्राणिहन्ता क्षुरधारे च भूमिहृत् । 16ab
अम्बरीषे गोस्वर्णहृद् द्रुमच्छिद्वज्रशस्त्रके ॥ 16cd
मधुहर्त्ता परीतापे कालसूत्रे परार्थहृत् । 17ab
कश्मले ऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥ 17cd
दुर्द्धरे तु काचभक्षी वन्दिग्राहरताश्च ये । 18ab
मञ्जुषे नरके लोहे ऽप्रतिष्ठे श्रुतिनिन्दकः ॥ 18cd
पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा । 19ab
बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्त्तिकृत् ॥ 19cd
विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः 2 ॥ 20॥ 20ab
तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां । 21ab
शाल्मलाख्ये तमालिङ्गेन् नारी बहुनरङ्गमा ॥ 21cd
आस्फोटजिह्वोद्धरणं स्त्रीक्षणान् नेत्रभेदनं । 22ab
अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः ॥ 22cd
चौराः क्षुरैश्च भिद्यन्ते स्वमांसाशी च मांसभुक् । 23ab
मासोपवासकर्त्ता वै न याति नरकन्नरः ॥ 23cd
एकादशीव्रतकरो भीष्मपञ्चकसद् व्रती । 24ab


इत्याग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमो ऽध्यायः ॥


1 क्षारकूपे इति ख॰ , छ॰ च ।
2 महाप्रेते तु भेदिन इति ख॰ , ग॰ , घ॰ , ड॰ , छ॰ , ज॰ च ।
Image-P.245


Chapter 204

अथ चतुरधिकद्विशततमो ऽध्यायः ।

मासोपवासव्रतं ।
अग्निरुवाच ।
व्रतं मासोपवासञ्च 1 सर्वोत्कृष्टं वदामि ते । 1ab
कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च ॥ 1cd
कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्य्यान् मासोपवासकं । 2ab
वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने ॥ 2cd
आश्विनस्यामले पक्षे एकादश्यामुपोषितः । 3ab
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ 3cd
अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव । 4ab
अर्च्चयेत्वामनश्नन् हि यावत् त्रिंशद्दिनानि तु ॥ 4cd
कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव । 5ab
म्रिये यद्यन्तराले ऽहं व्रतभङ्गो न मे भवेत् ॥ 5cd
त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः । 6ab
विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्य्याद् व्रती नरः ॥ 6cd
वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत् 2 7ab
नाव्रतस्थं स्पृशेत् कञ्चिद्विकर्म्मस्थान्न चालयेत् ॥ 7cd


1 व्रतं मासोपवासाख्यमिति घ॰ , ज॰ च ।
2 अन्नाकाङ्क्षां विवर्जयेदिति घ॰ , ङ॰ च ।
Image-P.246


देवतायतने तिष्ठेद्यावत् त्रिंशद्दिनानि तु । 8ab
द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती ॥ 8cd
समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् । 9ab
भुक्तिमुक्तिमवाप्नोति कल्पांश्चैव त्रयोदश ॥ 9cd
कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश । 10ab
तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च ॥ 10cd
छत्राणि सपवित्राणि तथोपानद्युगानि च 1 11ab
योगपट्टोपवीतानि दद्याद्विप्राय तैर्म्मतः 2 11cd
अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च । 12ab
आत्मनश्च तथामूर्त्तिं वस्त्राद्यैश्च प्रपूजयेत् ॥ 12cd
सर्व्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः । 13ab
विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥ 13cd
व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं । 14ab
विमानेनामलस्तत्र तिष्ठेद् विष्णुस्वरूपधृक् ॥ 14cd
द्विजानुक्त्वाथ 3 तां शय्यां गुरवे ऽथ निवेदयेत् । 15ab
कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद् व्रती ॥ 15cd
मासोपवासी यद्देशे स देशो निर्म्मलो भवेत् । 16ab
किं पुनस्तत्कुलं सर्व्वं यत्र मासोपवासकृत् ॥ 16cd
व्रतस्थं मूर्च्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् । 17ab
नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं ॥ 17cd


1 ततः पानयुतानि चेति ख॰ ।
2 वै नत इति घ॰ ।
3 द्विजान् नत्वाथेति ङ॰ ।
Image-P.247


क्षीरं गुरोर्हितौषध्व आपो मूलफलानि च । 18ab
विष्णुर्म्महौषधं कर्त्ता व्रतमस्मात् समुद्धरेत् ॥ 18cd


इत्याग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमो ऽध्यायः ॥

Chapter 205

अथ पञ्चाधिकद्विशततमो ऽध्यायः ।

भीष्मपञ्चकव्रतं ।
अग्निरुवाच ।
भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं । 1ab
कार्त्तिकस्यामले पक्षे एकादश्यां समाचरेत् ॥ 1cd
दिनानि पञ्च त्रिःस्नायी पञ्चव्रीहितिलैस्तथा 1 2ab
तर्पयेद्देवपित्रादीन् मौनी सम्पूजयेद्धरिं ॥ 2cd
पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च । 3ab
चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् ॥ 3cd
दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं । 4ab
ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं ॥ 4cd


1 यवव्रीहितिलैस्तथेति घ॰ , ङ॰ , छ॰ , ज॰ च ।
Image-P.248


जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती । 5ab
षड़क्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥ 5cd
कमलैः पूजयेत् पादौ द्वितीये विल्वपत्रकैः । 6ab
जानु सक्थि तृतीये ऽथ नाभिं भृङ्गरजेन तु ॥ 6cd
वाणविल्वजवाभिस्तु चतुर्थे पञ्चमे ऽहनि । 7ab
मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं ॥ 7cd
गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं । 8ab
पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद् व्रती ॥ 8cd
भीष्मः कृत्वा हरिं प्राप्तस्तेनैव 1 भीष्मपञ्चकं । 9ab
ब्रह्मणः पूजनाद्यैश्च उपवासादिकं व्रतं 2 9cd


इत्याग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमो ऽध्यायः ॥

Chapter 206

अथ षड़धिकद्विशततमो ऽध्यायः ।

अगस्त्यार्घ्यदानकथनं ।
अग्निरुवाच ।
अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं । 1ab
अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्द्दिनैः ॥ 1cd


1 हरिं लेभे तेनैतदिति ग॰ । हरिं प्राप तेनैतदिति ङ॰ । हरिं प्राप्तस्तेनैतदिति ज॰ , ट॰ च ।
2 पूजनात्पञ्च उपवासादजव्रतमिति ग॰ , घ॰ , ङ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.249


अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्युपोषितः । 2ab
काशपुष्पमयीं मूर्त्तिं प्रदोषे विन्यसेद् घटे ॥ 2cd
मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्य्यात् प्रजागरं । 3ab
अगस्त्य मिनिशार्द्दूल तेजोराशे महामते 1 3cd
इमां मम कृतां पूजां गृह्णीष्व प्रियया सह । 4ab
आवाह्यार्घ्ये च सम्मुख्यं प्रार्च्चयेच्चन्दनादिना ॥ 4cd
जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् । 5ab
काशपुष्पप्रतीकाश अग्निमारुतसम्भव 2 5cd
मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते । 6ab
आतापिर्भक्षितो येन वातापिश्च महासुरः ॥ 6cd
समुद्रः शोषितो येन सो ऽगस्त्यः सम्मुखो ऽस्तु मे । 7ab
अगस्तिं प्रार्थयिष्यामि कर्म्मणा मनसा गिरा ॥ 7cd
अर्च्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया । 8ab
द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं ॥ 8cd
राजानं सर्व्ववृक्षाणां चन्दनं प्रतिगृह्यतां 3 9ab
धर्म्मार्थकाममोक्षाणां भाजनी पापनाशनी ॥ 9cd
सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां । 10ab
धूपो ऽयं गृह्यतां देव भक्तिं मे ह्यचलाङ्कुरु ॥ 10cd
ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं । 11ab
सुरासुरैर्मुनिश्रेष्ठ सर्व्वकामफलप्रद ॥ 11cd


1 तेजोराशे महाद्युते इति ग॰ , घ॰ , छ॰ , ज॰ , झ॰ , ञ॰ , ट॰ च । तेजोराशे जगत्पते इति ङ॰ ।
2 वह्निमारुतसम्भवेति झ॰ ।
3 चन्दनं मे प्रगृह्यनामिति ज॰ , ञ॰ च ।
Image-P.250


वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्ययं 1 मया । 12ab
अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं 2 12cd
फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने । 13ab
अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं बलमीहमानः । 13cd
उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो जगाम ॥ 13॥ 13ef
राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते । 14ab
अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि ॥ 14cd
पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं । 15ab
सप्तधान्यवृतं 3 पात्रं दधिचन्दनसंयुतं ॥ 15cd
अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं । 16ab
अगस्त्य मुनिशार्द्दूल तेजोराशे च सर्वद ॥ 16cd
इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये । 17ab
त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं ॥ 17cd
ततो ऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् । 18ab
गां वासांसि सुवर्णञ्च 4 तेभ्यो दद्याच्च दक्षिणां ॥ 18cd
घृतपायसयुक्तेन पात्रेणाच्छादिताननं । 19ab
सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत् 5 19cd


1 दत्तस्त्वर्घ्यो ऽक्षय इति ङ॰ ।
2 मनसेप्सितमिति ग॰ , घ॰ , झ॰ च । मनसेहितमिति ङ॰ ।
3 सप्तधान्ययुतमिति ज॰ ।
4 प्रतिमाञ्च सुवर्णञ्चेति क॰ ।
5 ब्राह्मणायोपपादयेदिति घ॰ , ङ॰ , ज॰ , ञ॰ च ।
Image-P.251


सप्तवर्षाणि दत्वार्घ्यं सर्व्वे सर्वमवाप्नुयुः । 20ab
नीरा पुत्रांश्च सौभाग्यं पतिं कन्या नृपोद्भवं ॥ 20cd


इत्याग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमो ऽध्यायः ॥

Chapter 207

अथ सप्ताधिकद्विशततमो ऽध्यायः ।

कौमुदव्रतं ।
अग्निरुवाच ।
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते । 1ab
हरिं यजेन् मासमेकमेकादश्यामुपोषितः ॥ 1cd
आश्विने शुक्लपक्षेहमेकाहारो हरिं जपन् । 2ab
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥ 2cd
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च । 3ab
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥ 3cd
कल्हारैर्व्वाथ मालत्या दीपं तैलेन वाग्यतः । 4ab
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥ 4cd
ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् । 5ab
Image-P.252


भोजनादि 1 द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते ॥ 5cd
तावन्मासोपवासः स्यादधिकं फलमप्यतः । 6ab


इत्याग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥

Chapter 208

अथाष्टाधिकद्विशततमो ऽध्यायः ।

व्रतदानादिसमुच्चयः ।
अग्निरुवाच ।
व्रतदानानि सामान्यं प्रवदामि समासतः । 1ab
तिथौ प्रतिपदादौ च सूर्य्यादौ कृत्तिकासु च ॥ 1cd
विष्कम्भादौ च मेषादौ काले च ग्रहणादिके । 2ab
यत् काले यद् व्रतं दानं यद् द्रव्यं नियमादि यत् ॥ 2cd
तद् द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं । 3ab
रवीशब्रह्मलक्ष्म्याद्याः 2 सर्वे विष्णोर्विभूतयः ॥ 3cd
तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं । 4ab
जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं ॥ 4cd
मधुपर्कं तथाचामं स्नानं वस्त्रञ्च गन्धकं । 5ab


1 भोजनानि इति ग॰ , ज॰ च ।
2 रवीशब्रह्मलोकेशा इति ज॰ ।
Image-P.253


पुष्पं धूपश्च दीपश्च नैवेद्यादि नमो ऽस्तु ते ॥ 5cd
इति पूजाव्रते दाने दानवाक्यं समं शृणु । 6ab
अद्यामुकसगोत्राय विप्रायामुकशर्म्मणे ॥ 6cd
एतद् द्रव्यं विष्णुदैवं सर्वपापोपशान्तये। 7ab
आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये 1 7cd
गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च । 8ab
धर्म्मायैश्वर्यकामाय तत्पापशमनाय च ॥ 8cd
संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्यहं । 9ab
एतद्दानप्रतिष्ठार्थं तुभ्यमेतद् ददाम्यहं ॥ 9cd
एतेन प्रीयतां नित्यं सर्व्वलोकपतिः प्रभुः । 10ab
यज्ञदानव्रतपते विद्याकीर्त्त्यादि देहि मे ॥ 10cd
धर्म्मकामार्थमोक्षांश्च देहि मे मनसेप्सितं । 11ab
यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं ॥ 11cd
स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् । 12ab
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं ॥ 12cd
नैकधा वासुदेवादेर्नियमात् पूजनाद्भवेत् । 13ab


इत्यागेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमो ऽध्यायः ॥


1 सौभाग्याय सुष्टद्वये इति क॰ , छ॰ , ट, च । सौभाग्याय सुबुद्धये इति घ॰ , ज॰ , ञ॰ च ।
Image-P.254


Chapter 209

अथ नवाधिकद्विशततमो ऽध्यायः ।

दानपरिभाषाकथनं ।
अग्निरुवाच ।
दानधर्म्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु । 1ab
दानमिष्टं तथा पूर्त्तं धर्म्मं कुर्व्वन् हि सर्वभाक् ॥ 1cd
वापीकूपतड़ागानि देवतायतनानि च । 2ab
अन्नप्रदानमारामाः पूर्त्तं धर्मं च मुक्तिदं ॥ 2cd
अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं । 3ab
आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं ॥ 3cd
ग्रहोपरागे यद्दानं सूर्य्यसङ्क्रमणेषु च । 4ab
द्वादश्यादौ च यद्दानं पूर्त्तं तदपि नाकदं ॥ 4cd
देशे काले च पात्रे च दानं कोटिगुणं भवेत् । 5ab
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ 5cd
युगादिषु च सङ्क्रान्तौ चतुर्द्दश्यष्टमीषु च । 6ab
सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च ॥ 6cd
यज्ञोत्सवविबाहेषु तथा मन्वन्तरादिषु । 7ab
वैधृते दृष्टदुःखप्ने द्रव्यब्राह्मणलाभतः ॥ 7cd
श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते । 8ab
अयने द्वे विपुवे द्वे चतस्रः षड़शीतयः ॥ 8cd
चतस्रो विष्णुपद्यश्च सङ्क्रात्यो द्वादशोत्तमाः । 9ab
Image-P.255


कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ॥ 9cd
षड़शीतिमुखाः प्रोक्ताः षड़शीतिगुणाः फलैः । 10ab
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ॥ 10cd
त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृताः । 11ab
वर्त्तमाने तुलामेषे नाड्यास्तुभयतो दश ॥ 11cd
षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः । 12ab
पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोड़श ॥ 12cd
श्रवणाश्विधनिष्ठासु नागदैवतमस्तके । 13ab
यदा स्याद्रविवारेण व्यतीपातः स उच्यते ॥ 13cd
नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात् कृतं । 14ab
त्रेता सिततृतीयायां वैशाखे द्वापरं युगं ॥ 14cd
दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके । 15ab
कृष्णे कलिं विजानीयाज् ज्ञेया मन्वन्तरादयः ॥ 15cd
अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा । 16ab
तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥ 16cd
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा । 17ab
आषाढ़स्यापि दशमी माघमासस्य सप्तमी ॥ 17cd
आवाणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा । 18ab
कार्त्तिके फाल्गुने तद्वज् ज्यैष्ठे पञ्चदशी तथा ॥ 18cd
ऊर्ध्वे चैवाग्रहायण्या अष्तकास्तिस्र ईरिताः । 19ab
अष्टकाख्या चाष्टमी स्यादासु 1 दानानि चाक्षयं ॥ 19cd


1 स्यादत्रेति ग॰ , घ॰ , ज॰ , ञ॰ च ।
Image-P.256


गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु । 20ab
अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि ॥ 20cd
दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः । 21ab
आयुर्विवर्द्धते दातुर्ग्रहीतुः क्षीयते न तत् ॥ 21cd
नाम गोत्रं समुच्चार्य्य सम्प्रदानस्य चात्मनः । 22ab
सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥ 22cd
स्नात्वाभ्यर्च्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं । 23ab
कनकाश्वतिला नागा दासीरथमहीगृहाः ॥ 23cd
कन्या च कपिला धेनुर्महादानानि वै दश । 24ab
श्रुतशौर्य्यतपःकन्यायाज्यशिष्यादुपागतं ॥ 24cd
शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः । 25ab
कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः ॥ 25cd
पाशकद्यूतचौर्य्यादिप्रतिरूपकसाहसैः । 26ab
व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं ॥ 26cd
अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्म्मणि । 27ab
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतं 1 27cd
ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् । 28ab
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ॥ 28cd
कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं । 29ab
देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च ॥ 29cd
पुण्यं देयं प्रयत्नेन यत् पुण्यञ्चार्जितं क्वचित् । 30ab


1 कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
Image-P.257


प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं ॥ 30cd
श्रद्धया साध्यते धर्म्मो दत्तं वार्य्यपि चाक्षयं । 31ab
ज्ञानशीलगुणोपेतः परपीड़ावहिष्कृतः ॥ 31cd
अज्ञानां पालनात्त्राणात्तत् पात्रं परमं स्मृतं । 32ab
मातुः शतगुणं दानं सहस्रं पितुरुच्यते ॥ 32cd
अनन्तं दुहितुर्द्दानं सोदर्ये दत्तमक्षयं । 33ab
अमनुष्ये समं दानं पापे ज्ञेयं महाफलं ॥ 33cd
वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं । 34ab
वैश्ये चाष्टगुणं क्षत्रे षोड़शत्वं द्विजव्रुवे ॥ 34cd
वेदाध्याये शतगुणमनन्तं वेदबोधके 1 35ab
पुरोहिते याजकादौ 2 दानमक्षयमुच्यते ॥ 35cd
श्रीविहीनेषु यद्दत्तं तदनन्तं च यज्वनि । 36ab
अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः ॥ 36cd
अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति । 37ab
स्नातः सम्यगुपस्पृश्य गृह्णीयात् प्रयतः शुचिः ॥ 37cd
प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्त्तयेत् 3 38ab
ततस्तु कीर्त्तयेत्सार्द्धं द्रव्येण सह दैवतं ॥ 38cd
प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् । 39ab
मन्दं पठेत् क्षत्रियात्तु उपांशु च तथा विशः ॥ 39cd


1 ब्रह्मबोधके इति घ॰ , ङ॰ , ज॰ , ञ॰ , ट॰ च ।
2 पुरोहिते याचकादाविति ख॰ , छ॰ , ट॰ च ।
3 सर्व्वत्रैव प्रकीर्त्तयेदिति ख॰ , ग॰ , घ॰ , ङ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.258


मनसा च तथा शूद्रात् स्वस्तिवाचनकं तथा । 40ab
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥ 40cd
कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्त्तिताः । 41ab
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥ 41cd
तथा चैकशफं सर्वं याम्यश्च महिषस्तथा । 42ab
उष्ट्रश्च नैरृतो धेनू रौद्री छागो ऽनलस्तथा ॥ 42cd
आप्यो मेषो हरिः क्रीड़ आरण्याः पशवो ऽनिलाः । 43ab
जलाशयं वारुणं स्याद्वारिधानीघटादयः ॥ 43cd
समुद्रजानि रत्नानि हेमलौहानि चानलः । 44ab
प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम ॥ 44cd
गान्धर्व्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं । 45ab
वायव्याः पक्षिणः सर्व्वे विद्या ब्राह्मी तथाङ्गकं ॥ 45cd
सारस्वतं पुस्तकादि विश्वकर्म्मा तु शिलप्के । 46ab
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ॥ 46cd
छत्रं कृष्णाजिनं शय्या रथ आसनमेव च । 47ab
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥ 47cd
रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं । 48ab
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता ॥ 48cd
शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतो ऽस्ति हि 1 49ab
द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् ॥ 49cd
तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः । 50ab


1 यातोत्र हीति ज॰ ।
Image-P.259


विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् ॥ 50cd
स्वस्ति प्रतिग्रहं धर्म्मं भुक्तिमुक्ती फलद्वयं । 51ab
गुरून् भृत्यान्न जिहीर्षुरर्च्चिष्यन् देवताः पितॄन् ॥ 51cd
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयन्ततः । 52ab
शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं ॥ 52cd
गुड़तक्ररसाद्याश्च शूद्राद्ग्राह्या निवर्त्तिना । 53ab
सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः ॥ 53cd
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् । 54ab
दोषो भवति विप्राणां ज्वलनार्क्कसमा हि ते ॥ 54cd
कृते तु दीयते गत्वा त्रेतास्वानीय दीयते । 55ab
द्वापरे याचमानाय कलौ त्वनुगमान्विते ॥ 55cd
मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् । 56ab
विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते 1 56cd
अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके । 57ab
गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे ॥ 57cd
तथा चामुकगोत्राय तथा चामुकशर्म्मणे । 58ab
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने ॥ 58cd
यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं । 59ab
पुत्रपौत्रगृहैश्वर्य्यपत्नीधर्म्मार्थसद्गुणा ॥ 59cd
कीर्त्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये । 60ab
सर्व्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये ॥ 60cd


1 न तद्दानस्य विद्यते इति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.260


एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः । 61ab
दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत् 1 61cd
धर्म्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदो ऽस्तु मे । 62ab
यथानामसगोत्राय विप्रायामुकशर्म्मणे ॥ 62cd
एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे । 63ab
अनेन दानवाक्येन सर्व्वदानानि वै ददेत् ॥ 63cd


इत्याग्नेये महापुराणे दानपरिभाषा नाम नवाधिकद्विशततमो ऽध्यायः ॥

Chapter 210

अथ दशाधिकद्विशततमो ऽध्यायः ।

महादानानि ।
अग्निरुवाच ।
सर्व्वदानानि वक्ष्यामि महादानानि षोड़श । 1ab
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं ॥ 1cd
ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमं । 2ab
हिरण्यकामधेनुश्च हिरण्याश्वश्च सप्तमं ॥ 2cd
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा । 3ab
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥ 3cd


1 समुत्पाताद्यपापहृत् इति ङ॰ । समुत्पातादिपापहृदिति घ॰ ।
Image-P.261


विश्वचक्रं कल्पलता सप्तसागरकं परं । 4ab
रत्नधेनुर्महाभूतघटः शुभदिने ऽर्पयेत् ॥ 4cd
मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे । 5ab
मेरुदानानि पुण्यानि मेरवो दश तान् शृणु ॥ 5cd
धान्यद्रोणसहस्रेण उत्तमो ऽर्द्धार्द्धतः परौ । 6ab
उत्तमः षोड़शद्रोणः कर्त्तव्यो लवणाचलः ॥ 6cd
दशभारैर्गुड़ाद्रिः स्यादुत्तमो ऽर्द्धार्द्धतः परौ । 7ab
उत्तमः पलसाहस्रैः स्वर्णमेरुस्तथा परौ ॥ 7cd
दशद्रोणैस्तिलाद्रिः स्यात् पञ्चभिश्च त्रिभिः क्रमात् । 8ab
कार्पासपर्वतो विंशभारैश्च दशपञ्चभिः ॥ 8cd
विंशत्या घृतकुम्भानामुत्तमः स्याद् घृताचलः 1 9ab
दशभिः पलसाहस्रैरुत्तमो रजताचलः ॥ 9cd
अष्टभारैः शर्क्कराद्रिर्म्मध्योमन्दो ऽर्द्धतो ऽर्द्धतः । 10ab
दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् ॥ 10cd
प्रथमा गुड़धेनुः स्याद् घृतधेनुस्तथा ऽपरा । 11ab
तिलधेनुस्तृतोया च चतुर्थी जलधेनुका ॥ 11cd
क्षीरधेनुर्म्मधुधेनुः शर्करादधिधेनुके । 12ab
रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥ 12cd
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः । 13ab
कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥ 13cd
गोमयेनानुलिप्तायां दर्भानास्तीर्य्य सर्व्वतः । 14ab


1 अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य प्रतिज्ञातत्वात् मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस्तथाष्टम इत्यनेन रत्नाचलस्य दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च ।
Image-P.262


लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् ॥ 14cd
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां । 15ab
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयात् ॥ 15cd
वत्सं भारेण कुर्व्वीत भाराभ्यां मध्यमा स्मृता । 16ab
अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ॥ 16cd
चतुर्थांशेन वत्सः स्याद् गुड़वित्तानुसारतः । 17ab
पञ्च कृष्णलका माषस्ते सुवर्नस्तु षोडश ॥ 17cd
पलं सुवर्णाश्चत्वारस्तुला पलशतं स्मृतं । 18ab
स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः ॥ 18cd
धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ । 19ab
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥ 19cd
सितसूत्रशिरालौ च सितकम्बलकम्वलौ । 20ab
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥ 20cd
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ । 21ab
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥ 21cd
सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ । 22ab
नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ ॥ 22cd
रचयित्वा यजेद्धेनुमिमैर्म्मन्त्रैर्द्विजोत्तम । 23ab
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥ 23cd
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु । 24ab
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥ 24cd
धेनुरूपेण सा देवी मम पापं व्यपोहतु । 25ab
विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥ 25cd
Image-P.263


चन्द्रार्क्कqक्षशक्तिर्या धेनुरूपास्तु सा श्रिये । 26ab
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥ 26cd
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे । 27ab
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥ 27cd
सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे । 28ab
एव मामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् ॥ 28cd
समानं सर्वधेनूनां विधानं चैतदेव हि । 29ab
सर्वयज्ञफलं प्राप्य निर्म्मलो भुक्तिमुक्तिभाक् ॥ 29cd
स्वर्णशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । 30ab
कांस्योपदोहा दातव्या क्षोरिणौ गौः सदक्षिणा ॥ 30cd
दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् । 31ab
कपिला चेत्तारयति भूयश्चासप्तमं कुलं ॥ 31cd
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां । 32ab
शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥ 32cd
सवत्सरोमतुल्यानि युगान्युभयतोमुखीं । 33ab
दत्त्वा स्वर्गमवाप्नोति पूर्व्वेण विधिना ददेत् ॥ 33cd
आसन्नमृत्युना देया सवत्सा गौस्तु पूर्व्ववत् । 34ab
यमद्वारे महावीरे तप्ता वैतरणी 1 नदी ॥ 34cd
तान्तर्त्तुञ्च ददाम्येनां 2 कृष्णां वैतरणीञ्च गां । 35ab


इत्याग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमो ऽध्यायः ॥


1 कृष्णा वैतरणी इति ज॰ , झ॰ , ट॰ च ।
2 तान्तर्त्तुं वै ददाम्येनामिति छ॰ ।
Image-P.264


Chapter 211

अथैकादशाधिकद्विशततमो ऽध्यायः ।

नानादानानि ।
अग्निरुवाच ।
एकाङ्गां दशगुर्द्दद्याद्दश दद्याच्च गोशती । 1ab
शतं सहस्रगुर्दद्यात् सर्वे तुल्यफला हि ते ॥ 1cd
प्रासादा यत्र सौवर्णा वसोर्द्धारा च यत्र सा । 2ab
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ 2cd
गवां शतप्रदानेन मुच्यते नरकार्णवात् । 3ab
दत्त्वा वत्सतरीं चैव स्वर्गलोके महीयते ॥ 3cd
गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् । 4ab
इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥ 4cd
महिषीदानमाहात्म्यादस्तु मे सर्वकामदा 1 5ab
धर्म्मराजस्य साहाय्ये 2 यस्याः पुत्रः प्रतिष्ठितः ॥ 5cd
महिषासुरस्य जननी या सास्तु वरदा मम । 6ab
महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥ 6cd
संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं । 7ab
पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥ 7cd
सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते । 8ab


1 गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ॰ पुस्तके नास्ति ।
2 धर्मराजस्य माहात्म्ये इति ज॰ ।
Image-P.265


दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥ 8cd
तत् फलञ्चाक्षयं प्रोक्तं 1 वृषभस्य तु मोक्षणे 2 9ab
धर्म्मो ऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥ 9cd
नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक । 10ab
त्वयि मुक्ते ऽक्षया लोका मम सन्तु निरामयाः ॥ 10cd
मा मे ऋणो ऽस्तु दैवत्यो 3 भौतः पैत्रो ऽथ मानुषः । 11ab
धर्म्मस्त्वं त्वत्प्रपन्नस्य या गतिः सा ऽस्तु मे ध्रुवा ॥ 11cd
अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् । 12ab
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥ 12cd
मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु । 13ab
दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्त्तनं ॥ 13cd
तान्येव दशविस्ताराद्गोचर्मे तत्प्रदो ऽघभित् 4 14ab
गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु यो ऽर्पयेत् 5 14cd
सर्वदुष्कृतकर्म्मापि सायुज्यं ब्रह्मणो व्रजेत् । 15ab
भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥ 15cd
दद्यात् कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं । 16ab
शय्यां दत्त्वा तु सगुणां 6 भुक्तिमुक्तिमवाप्नुयात् ॥ 16cd
हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस्तथात्मनः । 17ab
विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥ 17cd


1 तत्फलं चाक्षयं स्याद्वै इति ट॰ ।
2 वृषभस्य विमोक्षणे इति ख॰ । वृषभस्य च मोक्षणादिति ज॰ ।
3 दैवो ऽथेति ख॰ , छ॰ च ।
4 तत्प्रदो ऽघनुदिति ग॰ । तत्प्रदो ऽघजिदिति घ॰ , ङ॰ च ।
5 यस्तु कृष्णाजिनं ददेदिति ट॰ ।
6 दत्त्वोत्तमगुणामिति घ॰ ।
Image-P.266


गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं । 18ab
दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥ 18cd
यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् । 19ab
ब्रह्मा हरो हरिर्देवैर्म्मध्ये च यमदूतकः ॥ 19cd
पाशी 1 तस्य शिरश्छित्त्वा तं दद्यात् स्वर्गभाग्भवेत् । 20ab
त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजो ऽघभाक् ॥ 20cd
चक्रं रूप्यमयं कृत्वा के धृत्वा तत् प्रदापयेत् । 21ab
हेमयुक्तं द्विजायैतत् कालचक्रमिदम्महत् ॥ 21cd
आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् । 22ab
पञ्चाशत्पलसंयुक्तं लौहदण्डं तु यो ऽर्पयेत् ॥ 22cd
वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते । 23ab
मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥ 23cd
मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्द्धये । 24ab
पुमान् कृष्णतिलैः कार्य्यो रौप्यदन्तः सुवर्णदृक् ॥ 24cd
खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः । 25ab
रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥ 25cd
उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः । 26ab
गृहीतमांसपिण्डश्च वामे वै कालपूरुषः ॥ 26cd
सम्पूज्य तञ्च गन्धाद्यैः 2 ब्राह्मणायोपपादयेत् । 27ab
मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥ 27cd
गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् । 28ab


1 पापो इति ख॰ , छ॰ , ज॰ च ।
2 सम्पूज्य वस्त्रगन्धाद्यैरिति ङ॰ ।
Image-P.267


रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्य्भाक् ॥ 28cd
घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् । 29ab
सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥ 29cd
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते । 30ab
अन्येषामपि दानानां सुवर्णं 1 दक्षिणा स्मृता ॥ 30cd
सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च । 31ab
नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥ 31cd
रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं । 32ab
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥ 32cd
सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् । 33ab
पितॄंश्च पितृलोकस्थान् देवस्थाने च देवताः ॥ 33cd
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् । 34ab
खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥ 34cd
निवर्त्तनशतं वापि तदर्द्धं वा गृहादिकं । 35ab
अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग् भवेत् ॥ 35cd
तैलविन्दुर्यथा चाप्सु प्रसर्पेद् भूगतं तथा । 36ab
सर्वेषामेवदानानमेकजन्मानुगं फलं ॥ 36cd
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं । 37ab
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥ 37cd
गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग् भवेत् । 38ab
अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥ 38cd


1 हिरण्यमिति ट॰ ।
Image-P.268


दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् । 39ab
दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥ 39cd
अर्द्धैस्तदर्द्धैरर्द्धैर्वा भुक्तिमुक्तिमवाप्नुयात् 1 40ab
शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥ 40cd
वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं । 41ab
धान्यगोधूमकलमयवादीन् स्वर्गभाग् ददत् ॥ 41cd
आसनं तैजसं पात्रं लवणं गन्धचन्दनं । 42ab
धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं 2 42cd
दिव्यानि नानाद्रव्याणि दत्त्वा स्याद् भुक्तिमुक्तिभाक् । 43ab
तिलांश्च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥ 43cd
अन्नदानात् परं नास्ति न भूतं न भविष्यति । 44ab
हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥ 44cd
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं । 45ab
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥ 45cd
सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् । 46ab
पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥ 46cd
अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात् 3 47ab
देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥ 47cd
घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् । 48ab


1 ततोर्द्ध्वतस्तदर्द्धार्द्धैर्युक्तां भुक्तिमवाप्नुयात् इति छ॰ ।
2 धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख॰ ।
3 दीप्ताग्निमाप्नुयादिति ङ॰ ।
Image-P.269


छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत् 1 48cd
प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके । 49ab
चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥ 49cd
ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं । 50ab
वृक्षारामान् भोजनादीन् मार्गसंवाहनादिकान् ॥ 50cd
पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् । 51ab
त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥ 51cd
व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् । 52ab
सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥ 52cd
अभयं सर्वभूतेभ्यो यो दद्यात् सर्वभाङ् नरः । 53ab
पुराणं भारतं वापि रामायणमथापि वा ॥ 53cd
लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् । 54ab
वेदशास्त्रं नृत्यगीतं यो ऽध्यापयति नाकभाक् ॥ 54cd
वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं । 55ab
किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥ 55cd
वाजपेयसहस्रस्य सम्यग्दत्तस्य यत् फलं । 56ab
तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥ 56cd
शिवालये विष्णुगृहे सूर्य्यस्य भवने तथा । 57ab
सर्वदानप्रदः स स्यात् पुस्तकं वाचयेत्तु यः ॥ 57cd
त्रैलोक्ये चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् । 58ab
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥ 58cd


1 स्वर्गे महीयते इति ग॰ । स्वर्गे सुखी भवेदेति घ॰ , ङ॰ च ।
Image-P.270


विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं । 59ab
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥ 59cd
वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् । 60ab
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥ 60cd
सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं । 61ab
विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य तु ॥ 61cd
शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् । 62ab
शिष्यांश्च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥ 62cd
येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते । 63ab
लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियं ॥ 63cd
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना । 64ab
विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥ 64cd
पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् । 65ab
देवालयं च प्रतिमां कारयन् सर्वमाप्नुयात् ॥ 65cd
सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् । 66ab
नानामण्डलकार्य्यग्रे मण्डलाधिपतिर्भवेत् 1 66cd
गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं । 67ab
घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥ 67cd
वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् । 68ab
कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥ 68cd
कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् । 69ab


1 सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.271


घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥ 69cd
स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः । 70ab
पलानान्तु सहस्रेण महास्नानं प्रकीर्त्तितं ॥ 70cd
दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं । 71ab
सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥ 71cd
दासीदासमलङ्कारं गोभूम्यश्वगजादिकं । 72ab
देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥ 72cd


इत्याग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमो ऽध्यायः ॥

Chapter 212

अथ द्वादशाधिकद्विशततमो ऽध्यायः ।

मेरुदानानि ।
अग्निरुवाच ।
काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते । 1ab
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥ 1cd
व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं । 2ab
अश्वं वै मार्गशीर्षे तु कमलं पिष्टसम्भवं ॥ 2cd
शिवाय पूज्य यो दद्यात् सूर्यलोके चिरं वसेत् 1 3ab


1 स्वर्गलोके चिरं वसेदिति ग॰ , घ॰ , ङ॰ , ट॰ च । शिवलोके चिरं वसेदिति झ॰ ।
Image-P.272


गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥ 3cd
माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् । 4ab
फाल्गुने तु वृषं पैष्टं स्वर्गभुक् स्यान्महीपतिः ॥ 4cd
चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां । 5ab
दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः ॥ 5cd
सप्तव्रीहींश्च वैशाखे दत्त्वा शिवमयो भवेत् । 6ab
बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत् ॥ 6cd
विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः । 7ab
शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः ॥ 7cd
गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः । 8ab
क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् ॥ 8cd
कार्त्तिके गुड़खण्डाज्यं दत्त्वा स्वर्गी ततो नृपः । 9ab
मेरुदानं द्वादशकं वक्ष्ये ऽहं भुक्तिमुक्तिदं ॥ 9cd
मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद् द्विजे । 10ab
सर्व्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु ॥ 10cd
वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः । 11ab
पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः ॥ 11cd
मध्यो ऽर्द्धः स्यात्तदर्द्धो ऽधो वित्तशाठ्यं विवर्जयेत् । 12ab
कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं ॥ 12cd
माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भदरसञ्ज्ञितः । 13ab
अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे ॥ 13cd
हेमकूटो ऽथ हिमवान् त्रयं सौम्ये तथा त्रयं । 14ab
नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥ 14cd
Image-P.273


वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः । 15ab
सोपवासो ऽर्च्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥ 15cd
देवाग्रे चार्च्य मेरुञ्च मन्त्रैर्व्विप्राय वै ददेत् । 16ab
विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं ॥ 16cd
भुक्त्यै मुक्त्यै निर्म्मलत्वे विष्णुदैवं ददामि ते । 17ab
इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे ॥ 17cd
कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः । 18ab
अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् ॥ 18cd
पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् । 19ab
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं ॥ 19cd
एकैकं पर्व्वतन्तस्य शतैकैकेन कारयेत् । 20ab
मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश ॥ 20cd
अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च । 21ab
स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् ॥ 21cd
परमाणवो यावन्त इह राजा भवेच्चिरं । 22ab
रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत् 1 22cd
प्रागुक्तं च फलं तस्य विष्णुं विप्रम्प्रपूज्य च । 23ab
भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च 2 23cd
परिकल्प्याष्टमांशेन शेषांशाः 3 पूर्ववत् फलं । 24ab
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥ 24cd


1 सङ्कल्प्य तद्ददेदिति ग॰ , घ॰ , ङ॰ , ञ॰ च ।
2 मण्डलं ग्राममेव वेति ग॰ , झ॰ , ट॰ च ।
3 शेषाङ्गा इति ख॰ ।
Image-P.274


ददेत्त्रिपुरुषैर्युक्तं दत्त्वानन्तं फलं लभेत् । 25ab
त्रिपञ्चाश्वैरश्वमेरुं हयद्वादशसंयुतं ॥ 25cd
विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् । 26ab
अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् ॥ 26cd
पट्टवस्त्रैर्भारमात्रैर्वस्त्रमेरुश्च मध्यतः । 27ab
शैलैर्द्वादशवस्त्रैश्च दत्त्वा तञ्चाक्षयं फलं ॥ 27cd
घृतपञ्चसहस्रैश्च पलानामाज्यपर्वतः । 28ab
शतैः पञ्चभिरेकैकः पर्वते ऽस्मिन् हरिं यजेत् ॥ 28cd
विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् । 29ab
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात् फलं ॥ 29cd
धान्यमेरुः पञ्चखारो ऽपर एकैकखारकाः । 30ab
स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् ॥ 30cd
सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं । 31ab
एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् ॥ 31cd
शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च । 32ab
तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक् 1 32cd
नमो विष्णुस्वरूपाय धराधराय वै नमः । 33ab
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥ 33cd
नगद्वादशनाथाय सर्वपापापहारिणे । 34ab
विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा ॥ 34cd
निष्पापः पितृभिः सार्द्धं विष्णुं गच्छामि ओं नमः । 35ab


1 बन्धुभिर्ब्रह्मलोकभागिति झ॰ ।
Image-P.275


त्वं हरिस्तु हरेरग्रे अहं विष्णुश्च विष्णवे ॥ 35cd
निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे । 36ab


इत्याग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमो ऽध्यायः ॥

Chapter 213

अथ त्रयोदशाधिकद्विशततमो ऽध्यायः ।

पृथ्वीदानानि ।
अग्निरुवाच ।
पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता । 1ab
शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥ 1cd
जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता । 2ab
उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥ 2cd
तदर्द्धान्तरजं कूर्म्मं तथा पद्मं समादिशेत् । 3ab
उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥ 3cd
कन्यसा च त्रिभागेन 1 त्रिहान्या कूर्म्मपङ्कजे । 4ab
पलानान्तु सहस्रेण कल्पयेत् कल्पपादपं ॥ 4cd
मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं । 5ab


1 स्वल्पा सा तु त्रिभागेनेति ङ॰ , ट॰ च ।
Image-P.276


पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत् सुधीः ॥ 5cd
एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं । 6ab
विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥ 6cd
ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः । 7ab
धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥ 7cd
विष्ण्वग्रे कपिलां दत्त्वा तारयेत् सकलं कुलं । 8ab
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत् 1 8cd
भूमिं दत्त्वा सर्वभाक् स्यात् सर्वशस्यप्ररोहिणीम् । 9ab
ग्रामं वाथ पुरं वापि 2 खेटकञ्च ददत् सुखी ॥ 9cd
कार्त्तिक्यादौ 3 वृषोत्सर्गं कुर्वंस्तारयते कुलं 4 ॥ 10॥ 10ab


इत्याग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमो ऽध्यायः ॥

Chapter 214

अथ चतुर्दशाधिकद्विशततमो ऽध्यायः ।

मन्त्रमाहत्म्यकथनं ।
अग्निरुवाच ।
नाडीचक्रं प्रवक्ष्यामि यज्ज्ञानाज् ज्ञायते हरिः । 1ab
नाभेरधस्ताद्यत् कन्दमङ्कुरास्तत्र निर्गताः ॥ 1cd


1 नरमेधफलं लभेदिति ग॰ , ङ॰ , ञ॰ च ।
2 पुरीं वापीति ख॰ ।
3 कार्त्तिकादाविति ख॰ , ट॰ च ।
4 कुर्व्वन् सन्तारयेत् कुलमिति ग॰ , घ॰ , ङ॰ , ट॰ च ।
Image-P.277


द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः । 2ab
तिर्य्यगूर्द्ध्वमधश्चैव व्याप्तन्ताभिः समन्ततः ॥ 2cd
चक्रवत्संस्थिता ह्येताः प्रधाना दशनाडयः । 3ab
इड़ा च पिङ्गला चैव सुसुम्णा च तथैव च ॥ 3cd
गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा । 4ab
अलम्बुषा हुहुश्चैव शङ्खिनी दशमी स्मृता ॥ 4cd
दश प्राणवहा ह्येता नाडयः परिकीर्त्तिताः । 5ab
प्राणो ऽपानः समानश्च उदानो व्यान एव च ॥ 5cd
नागः कूर्म्मो ऽथ कृकरो देवदत्तो धनञ्जयः । 6ab
प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः ॥ 6cd
प्राणः प्राणयते प्राणं विसर्गात् पूरणं प्रति । 7ab
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥ 7cd
निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः । 8ab
प्रयाणं कुरुते यस्मात्तस्मात् प्राणः प्रकीर्त्तितः ॥ 8cd
अधो नयत्यपानस्तु आहारञ्च नृणामधः । 9ab
मूत्रशुक्रवहो वायुरपानस्तेन कीर्त्तितः ॥ 9cd
पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं । 10ab
समन्नयति गात्रेषु समानो नाम मारुतः ॥ 10cd
स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं । 11ab
उद्वेजयति मर्म्माणि उदानो नाम मारुतः ॥ 11cd
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः । 12ab
प्रतिदानं तथा कण्ठाद्व्यापनाद्व्यान उच्यते ॥ 12cd
उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः । 13ab
Image-P.278


कृकरो भक्षणे चैव देवदत्तो विजृम्भिते ॥ 13cd
धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति । 14ab
जीवः प्रयाति दशधा नाड़ीचक्रं हि तेन तत् ॥ 14cd
सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च । 15ab
अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा 1 15cd
ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका । 16ab
ऋणञ्चात्र भवेत् कासो निश्वासो धनमुच्यते 2 16cd
उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं । 17ab
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं ॥ 17cd
सङ्क्रान्तिः पुनरस्यैव स्वस्थानात् स्थानयोगतः । 18ab
सुसुम्णा मध्यमे ह्यङ्गे इड़ा वामे प्रतिष्ठिता ॥ 18cd
पिङ्गला दक्षिणे विप्र ऊर्द्ध्वं प्राणो ह्यहः स्मृतं । 19ab
अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः ॥ 19cd
आयामो देहमध्यस्थः सोमग्रहणमिष्यते । 20ab
देहातितत्त्वमायामं आदित्यग्रहणं विदुः ॥ 20cd
उदरं पूरयेत्तावद्वायुना यावदीप्सितं । 21ab
प्राणायामी भवेदेष पूरका देहपूरकः ॥ 21cd
पिधाय सर्व्वद्वाराणि निश्वासोच्छ्वासवर्जितः । 22ab
सम्पूरणकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः ॥ 22cd
मुञ्चेद्वायुं ततस्तूर्द्ध्वं श्वासेनैकेन मन्त्रवित् । 23ab
उच्छ्वासयोगयुक्तश्च वायुमूर्द्वं विरेचयेत् ॥ 23cd


1 बलन्तथेति ञ॰ ।
2 बलमुच्यते इति ञ॰ , झ॰ च ।
Image-P.279


उच्चरति स्वयं यस्मात् स्वदेहावस्थितः शिवः । 24ab
तस्मात् तत्त्वविदाञ्चैव स एव जप उच्यते ॥ 24cd
अयुते द्वे सहस्रैकं षट्शतानि तथैव च । 25ab
अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः ॥ 25cd
अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी । 26ab
अजपां जपते यस्तां पुनर्जन्म न विद्यते ॥ 26cd
चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता । 27ab
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता ॥ 27cd
सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् । 28ab
स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः ॥ 28cd
देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः 1 29ab
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ॥ 29cd
तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः । 30ab
पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः ॥ 30cd
ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः । 31ab
तालुमध्ये 2 स्थितो रुद्रो ललाटे तु महेश्वरः ॥ 31cd
प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं । 32ab
पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः ॥ 32cd
प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि । 33ab
षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः ॥ 33cd
गमागमस्य ज्ञानेन सर्व्वपापक्षयो भवेत् । 34ab


1 देहपूजित इति ख॰ , घ॰ , छ॰ च ।
2 तालुमूले इति ख॰ ।
Image-P.280


अणिमादिगुणैश्वर्य्यं षड्भिर्म्मासैरवाप्नुयात् ॥ 34cd
स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया । 35ab
ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा ॥ 35cd
ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् । 36ab
आप्यायने प्लुतश्चेति मूर्द्ध्नि विन्दुविभूषितः ॥ 36cd
आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः । 37ab
आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्त्तितम् ॥ 37cd
देवस्य दक्षिणां मूर्त्तिं पञ्चलक्षं स्थितो जपेत् । 38ab
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥ 38cd
एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् । 39ab
ऊर्द्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं ॥ 39cd
त्रिशून्यं यो विजानाति मुच्यते ऽसौ ध्रुवं द्विजः । 40ab
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं ॥ 40cd
अष्टत्रिंशत्कलायुक्तं न स आचार्य्य उच्यते । 41ab
तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्यऽसौ गुरुः ॥ 41cd


इत्याग्नेये महापुराणे मन्त्रमाहात्म्यं नाम चतुर्दशाधिकद्विशततमो ऽध्यायः ॥
Image-P.281


Chapter 215

अथ पञ्चदशाधिकद्विशततमो ऽध्यायः ।

सन्ध्याविधिः ।
अग्निरुवाच ।
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् । 1ab
ओङ्कारमभ्यसेत्तस्मान्मन्त्रसारन्तु सर्वदं ॥ 1cd
सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः । 2ab
तेन सम्परिपूर्णं यत्तत् पूर्णं कर्म्म नेतरत् ॥ 2cd
ओङ्कारपूर्व्विकास्तिस्रो महाव्याहृतयो ऽव्ययाः । 3ab
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥ 3cd
यो ऽधीते ऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः । 4ab
स ब्रह्मपरमभ्येति वायुभूतः खमूर्त्तिमान् ॥ 4cd
एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः । 5ab
सावित्र्यास्तु परन्नास्ति मौनात् सत्यं विशिष्यते ॥ 5cd
सप्तावर्त्ता पापहरा दशभिः प्रापयेद्दिवं । 6ab
विंशावर्त्ता तु सा देवी नयते हीश्वरालयं ॥ 6cd
अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् । 7ab
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥ 7cd
न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं । 8ab
गायत्र्याः पादमप्यर्द्धमृगर्द्धमृचमेव वा ॥ 8cd
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च । 9ab
गुरुदारागमश्चैव जप्येनैव पुनाति सा ॥ 9cd
Image-P.282


पापे कृते तिलैर्होमो गायत्रीजप ईरितः । 10ab
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा 1 10cd
गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः । 11ab
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥ 11cd
शुध्यते वा ऽथ वा स्नात्वा शतमन्तर्ज्जले जपेत् । 12ab
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥ 12cd
शतं जप्ता तु गायत्री पापोपशमनी स्मृता । 13ab
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥ 13cd
अभीष्टदा कोटिजप्या देवत्वं राजतामियात् । 14ab
ओङ्कारं पूर्व्वमुच्चार्य्य भूर्भुवः स्वस्तथैव च ॥ 14cd
गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं । 15ab
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥ 15cd
देवतोपनये जप्ये विनियोगो हुते तथा । 16ab
अग्निर्व्वायू रविर्व्विद्युत् यमो जलपतिर्गुरुः ॥ 16cd
पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं । 17ab
मित्रो ऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥ 17cd
अङ्गिरा विश्वनासत्यौ कस्तथा सर्वदेवताः । 18ab
रुद्रो ब्रह्मा च विष्णुश्च क्रमशो ऽक्षरदेवताः ॥ 18cd
गयत्र्या जपकाले तु कथिताः पापनाशनाः । 19ab
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥ 19cd
जङ्घे शिश्नश्च वृषणौ कटिर्न्नाभिस्तथोदरं । 20ab


1 उपपातकपापहेति ग॰ , घ॰ , ङ॰ च ।
Image-P.283


स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥ 20cd
चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं । 21ab
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥ 21cd
पीतः श्यामश्च कपिलो मरकतो ऽग्निसन्निभः । 22ab
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥ 22cd
स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागो ऽखिलद्युतिः 1 23ab
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥ 23cd
शुक्लकृष्णपालाशाभा 2 गायत्र्या वर्णकाः क्रमात् । 24ab
ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥ 24cd
गायत्र्या तु तिलैर्होमः सर्वपापप्रणाशनः । 25ab
शान्तिकामो यवैः कुर्य्यादायुष्कामो घृतेन च ॥ 25cd
सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्च्चसे । 26ab
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥ 26cd
क्षीरवृक्षसमिद्भिस्तु ग्रहपीडोपशान्तये । 27ab
धनकामस्तथा विल्वैः श्रीकामः कमलैस्तथा ॥ 27cd
आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि । 28ab
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥ 28cd
अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं । 29ab
कोट्या ब्रह्मबधान् मुक्तः कुलोद्धारी हरिर्भवेत् ॥ 29cd
ग्रहयज्ञमुखो वापि होमो ऽयुतमुखो ऽर्थकृत् । 30ab


1 पद्मरागो ऽमलद्युतिरिति ख॰ , छ॰ , ज॰ , ट॰ च ।
2 शुक्लपद्मपलाशाभेति ङ॰ , ञ॰ च ।
Image-P.284


आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥ 30cd
स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः । 31ab
पुनराचम्य हृदयं नाभिं स्कन्धौ च संस्पृशेत् ॥ 31cd
प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च । 32ab
देवो ऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥ 32cd
शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा । 33ab
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥ 33cd
अक्षरसूत्रधरा देवी पद्मासनगता शुभा । 34ab
ओं तेजो ऽसि महो ऽसि बलमसि भ्राजो ऽसि देवानान्धामनामासि । विश्वमसि विश्वायुः सर्वमसि सर्व्वायुः ओं अभि भूः ।
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥ 34cd
व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः । 35ab
व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति ॥ 35cd
विश्वामित्रो यमदग्निर्भरद्वाजो ऽथ गोतमः । 36ab
ऋषिरत्रिर्वशिष्ठश्च काश्यपश्च यथाक्रमं ॥ 36cd
अग्निर्वायू रविश्चैव वाक्पतिर्वरुणस्तथा । 37ab
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥ 37cd
गायत्र्यष्टिगनुष्टुप् च वृहती पङ्क्तिरेव च । 38ab
त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्तामात् ॥ 38cd
विनियोगे व्याहृतीनां प्राणायामे च होमके । 39ab
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता 1 39cd


1 द्रुपदादीनि वाप्यृचा इति ङ॰ , ज॰ , ञ॰ च ।
Image-P.285


तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः । 40ab
विप्रुषो ऽष्टौ क्षिपेदूर्द्ध्वमाजन्मकृतपापजित् ॥ 40cd
अन्तर्जले ऋतञ्चेति जपेत्त्रिरघमर्षणं । 41ab
आपोहिष्ठेत्यृचो ऽस्याश्च सिन्धुद्वीप ऋषिः स्मृतः ॥ 41cd
ब्रह्मस्नानाय छन्दो ऽस्य गायत्री देवता जलं । 42ab
मार्जने विनियोगस्य हयावभृथके क्रतोः ॥ 42cd
अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं । 43ab
अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥ 43cd
आपोज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं । 44ab
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥ 44cd
ब्रह्माग्निवायुसूर्य्याश्च देवताः परिकीर्त्तिताः । 45ab
प्राणरोधात्तु वायुः स्याद्वायोरग्निश्च जायते ॥ 45cd
अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् । 46ab
अन्तश्चरति भूतेषु गुहायां विश्वमूर्त्तिषु ॥ 46cd
तपोयज्ञवषट्कार आपो ज्योती रसो ऽमृतं । 47ab
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥ 47cd
गायत्रीच्छन्द आख्यातं सूर्य्यश्चैव तु दैवतम् । 48ab
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥ 48cd
चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः । 49ab
त्रिष्टुप् छन्दो दैवतञ्च सूर्य्यो ऽस्याः परिकीर्त्तितं ॥ 49cd


इत्याग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमो ऽध्यायः ॥
Image-P.286


Chapter 216

अथ षोड़शाधिकद्विशततमो ऽध्यायः ।

गायत्रीनिर्वाणं ।
अग्निरुवाच ।
एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत् स्मरेत् । 1ab
गायञ्च्छिष्यान् यतस्त्रायेत् भार्य्यां प्राणांस्तथैव च 1 1cd
ततः स्मृतेयं गायत्री सावित्रीय ततो यतः । 2ab
प्रकाशनात्सा सवितुर्वाग्रूपत्वात् सरस्वती ॥ 2cd
तज् ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं । 3ab
भा दीप्ताविति रूपं हि भ्रस्जः पाके ऽथ तत् स्मृतं ॥ 3cd
ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् । 4ab
भर्गः स्याद् भ्राजत इति बहुलं छन्द ईरितं ॥ 4cd
वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं । 5ab
स्वर्गापवर्गकामैर्व्वा वरणीयं सदैव हि ॥ 5cd
वृणोतेर्व्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं । 6ab
नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥ 6cd
अहं ब्रह्म परं ज्योतिर्द्ध्ययेमहि विमुक्तये । 7ab
तज् ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥ 7cd
शिवं केचित् पठन्ति स्म शक्तिरूपं पठन्ति च । 8ab
केचित् सूर्य्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥ 8cd


1 कायान् प्राणांस्तथैव चेति ञ॰ ।
Image-P.287


अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते । 9ab
तत् पदं परमं विष्णोर्द्देवस्य सवितुः स्मृतं ॥ 9cd
महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः । 10ab
पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्च पाचयेत् ॥ 10cd
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । 11ab
आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥ 11cd
दधातेर्व्वा धीमहीति मनसा धारयेमहि । 12ab
नो ऽस्माकं यश्च भर्गश्च सर्वेषां प्राणिनां धियः ॥ 12cd
चोदयात् प्रेरयेद् बुद्धीर्भोक्तॄणां सर्वकर्मसु । 13ab
दृष्टादृष्टविपाकेषु विष्णुसूर्य्याग्निरूपवान् ॥ 13cd
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा ऽश्वभ्रमेव वा । 14ab
ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥ 14cd
स्वर्गाद्यैः क्रीड़ते देवो यो ऽहं स पुरुषः प्रभुः । 15ab
आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥ 15cd
जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च । 16ab
ध्यानेन पुरुषो ऽयञ्च द्रष्टव्यः सूर्य्यमण्डले ॥ 16cd
तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत् परमं पदं । 17ab
देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥ 17cd
देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि । 18ab
यो ऽसावादित्यपुरुषः सो ऽसावहमनन्त ओं ॥ 18cd
ज्ञानानि शुभकर्मादीन् प्रवर्त्तयति यः सदा ॥ 19॥ 19ab


इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम षोड़शाधिकद्विशततमो ऽध्यायः ॥
Image-P.288


Chapter 217

अथ सप्तदशाधिकद्विशततमो ऽध्यायः ।

गायत्रीनिर्वाणं ।
अग्निरुवाच ।
लिङ्गमूर्त्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् । 1ab
निर्वाणं 1 परमं ब्रह्म वसिष्ठो ऽन्यश्च शङ्करात् 2 1cd
नमः कनकलिङ्गाय 3 वेदलिङ्गाय वै नमः । 2ab
नमः परमलिङ्गाय 4 व्योमलिङ्गाय वै नमः ॥ 2cd
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः । 3ab
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ 3cd
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः । 4ab
नमो रहस्यलिङ्गाय सप्तद्वीपोर्द्धलिङ्गिने ॥ 4cd
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने । 5ab
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥ 5cd
नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः । 6ab
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ 6cd
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः । 7ab


1 निर्म्मलमिति ख॰ ।
2 वशिष्तोप्येव शङ्करादिति ख॰ , घ॰ च ।
3 कमललिङ्गायेति ट॰ ।
4 नमः पवनलिङ्गायेति ख॰ , ग॰ , घ॰ , ङ॰ , ट॰ च ।
Image-P.289


नमो रजोर्द्धलिङ्गाय सत्त्वलिङ्गाय 1 वै नमः 2 7cd
नम्स्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने । 8ab
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ 8cd
नमो वायूर्द्ध्वलिङ्गाय 3 श्रुतिलिङ्गाय वै नमः । 9ab
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय 4 वै नमः ॥ 9cd
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः । 10ab
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने 5 10cd
दिश नः परमं योगमपत्यं मत्समन्तथा । 11ab
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो 6 11cd
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां । 12ab
अग्निरुवाच ।
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥ 12cd
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥ 13॥ 13ab


इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमो ऽध्यायः ॥


1 तत्त्वलिङ्गायेति ख॰ , छ॰ च ।
2 नम इन्द्रियलिङ्गायेत्यादिः सत्त्वलिङ्गाय वै नम इत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
3 नमो वागूर्द्ध्वलिङ्गायेति घ॰ ।
4 नमस्ते सर्व्वलिङ्गाय नामलिङ्गायेति ख॰ , छ॰ च ।
5 नमो ऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
6 परमात्मा परंविभो इति ज॰ ।
Image-P.290


Chapter 218

अथाष्टादशाधिकद्विशततमो ऽध्यायः ।

राजाभिषेककथनं ।
अग्निरुवाच ।
पुष्करेण च रामाय राजधर्म्मं हि पृच्छते । 1ab
यथादौ कथितं तद्वद्वशिष्ट कथयामि ते ॥ 1cd
पुष्कर उवाच ।
राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः । 2ab
राजा भवेत् 1 शत्रुहन्ता प्रजापालः सुदण्डवान् ॥ 2cd
पालयिष्यति वः सर्वान् धर्म्मस्थान् व्रतमाचरेत् । 3ab
संवत्सरं स वृणुयात् पुरोहितमथ द्विजं 2 3cd
मन्त्रिणश्चाखिलात्मज्ञान्महिषीं धर्म्मलक्षणां । 4ab
संवत्सरं नृपः काले ससम्भारो ऽभिषेचनं ॥ 4cd
कुर्य्यान्मृते नृपे नात्र कालस्य नियमः स्मृतः । 5ab
तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ ॥ 5cd
घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः । 6ab
अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके ॥ 6cd
पुरोधसा ऽभिषेकात् प्राक् कार्य्यैन्द्री शान्तिरेव च । 7ab
उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून् 3 7cd


1 राजा हरिति छ॰ , ख॰ , घ॰ , ज॰ , ञ॰ , ट॰ च ।
2 पुरोहितमथर्त्त्विजमिति ख॰ , घ॰ , छ॰ , ज॰ , ट॰ च ।
3 जुहुयादमूनिति ङ॰ ।
Image-P.291


वैष्णवानैन्द्रमन्त्रांस्तु सावित्रीन् वैश्वदैवतान् । 8ab
सौम्यान् स्वस्त्ययनं शर्म्मायुष्याभयदान्मनून् ॥ 8cd
अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं । 9ab
सम्पातवन्तं हैमञ्च पूजयेद्गन्धपुष्पकैः ॥ 9cd
प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः । 10ab
रथौघमेघनिर्घोषो विधूमश्च हुताशनः ॥ 10cd
अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः । 11ab
प्रसन्नार्चिर्म्महाज्वालः स्फुलिङ्गरहितो हितः ॥ 11cd
न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः । 12ab
पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृपः ॥ 12cd
वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् । 13ab
इन्द्रालयमृदा 1 ग्रीवां हृदयन्तु नृपाजिरात् ॥ 13cd
करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं । 14ab
वृषशृङ्गोद्धृतमृदा वामञ्चैव तथा भुजं ॥ 14cd
सरोमृदा तथा पृष्ठमुदरं सङ्गमान् मृदा । 15ab
नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा 2 15cd
वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । 16ab
यज्ञस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा ॥ 16cd
अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके । 17ab
मूर्द्धानं पञ्चगव्येन भद्रासनगतं नृपं ॥ 17cd
अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः । 18ab


1 चन्द्रालयमृदेति ज॰ ।
2 सरोमृदेत्यादिः संशोधयेत्तथेत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.292


पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्राहणः ॥ 18cd
रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः । 19ab
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च ॥ 19cd
मृण्मयेन जलेनोदक् शूद्रामात्यो ऽभिषिचयेत् । 20ab
ततो ऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ॥ 20cd
कुर्वीत मधुना विप्रश्छन्दोगश्च कुशोदकैः । 21ab
सम्पातवन्तं कलशं तथा गत्वा पुरोहितः ॥ 21cd
विधाय वह्निरक्षान्तु सदस्येषु यथाविधि । 22ab
राजश्रियाभिषेके च ये मन्त्राः परिकीर्त्तिताः ॥ 22cd
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनैस्तथा । 23ab
ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु 1 23cd
शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत् । 24ab
या ओषधीत्योषधीभीरथेत्युक्त्वेति गन्धकैः ॥ 24cd
पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः 2 25ab
रत्नैराशुः शिशानश्च ये देवाश्च कुशोदकैः ॥ 25cd
यजुर्वेद्यथर्व्ववेदी 3 गन्धद्वारेति संस्पृशेत् । 26ab
शिरः कण्ठं रोचनया सर्वतीर्थोदकैर्द्विजाः ॥ 26cd
गीतवाद्यादिनिर्घोषैश्चामरव्यजनादिभिः । 27ab
सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः ॥ 27cd
तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं । 28ab
अभ्यर्च्य विष्णुं ब्रह्माणमिन्द्रादींश्च ग्रहेश्वरान् 4 28cd


1 वेदिमूलन्तथैव तु इरि ख॰ ।
2 दीपकैरिति ङ॰ ।
3 यजुर्वेद्यथ ऋग्वेदी इति ङ॰ ।
4 ग्रहादिकानिति ख॰ , ग॰ , घ॰ च ।
Image-P.293


व्याघ्रचर्म्मोत्तरां शय्यामुपविष्टः पुरोहितः । 29ab
मधुपर्क्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् ॥ 29cd
राज्ञोमुकुटबन्धञ्च पञ्चचर्म्मोत्तरं ददेत् । 30ab
ध्रुवाद्यैरिति च विशेद् वृषजं वृषदंशजं ॥ 30cd
द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म्म तदासने । 31ab
अमात्यसचिवादींश्च प्रतीहारः प्रदर्शयेत् ॥ 31cd
गोजाविगृहदानाद्यैः सांवत्सरपुरोहितौ । 32ab
पूजयित्वा द्विजान् प्रार्च्य ह्यन्यभूगोन्नमुख्यकैः ॥ 32cd
वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः । 33ab
वृषमालभ्य गां वत्सां पूजयित्वाथ मन्त्रितं ॥ 33cd
अश्वमारुह्य नागञ्च पूजयेत्तं समारुहेत् । 34ab
परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ॥ 34cd
पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्ज्जयेत् ॥ 35॥ 35ab


इत्याग्नेये महापुराणे राजाभिषेको नाम अष्टादशाधिकद्विशततमो ऽध्यायः ॥

Chapter 219

अथोनविंशाधिकद्विशततमो ऽध्यायः ।

अभिषेकमन्त्राः ।
पुष्कर उवाच ।
राजदेवाद्यभिषेकमन्त्रान्वक्ष्ये ऽघमर्द्दनान् । 1ab
कुम्भात् कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ॥ 1cd
Image-P.294


सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । 2ab
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ 2cd
भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः । 3ab
रुद्रो धर्मो मनुर्द्दक्षो रुचिः श्रद्धा च सर्वदा ॥ 3cd
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः । 4ab
सनत्कुमारो ऽङ्गिराश्च पुलस्त्यः पुलहः क्रतुः ॥ 4cd
मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः । 5ab
प्रभासुरा वहिर्षद अग्निष्वात्ताश्च पान्तु ते ॥ 5cd
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । 6ab
अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्म्मवल्लभाः ॥ 6cd
आदित्याद्याः कश्यपस्य बहुपुत्रस्य 1 वल्लभाः । 7ab
कृशाश्वस्याग्निपुत्रस्य भार्य्याश्चारिष्ठनेमिनः ॥ 7cd
अश्विन्याद्याश्च चन्द्रस्य पुलहस्य 2 तथा प्रियाः । 8ab
भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः ॥ 8cd
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा । 9ab
पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्क्कसारथिः ॥ 9cd
आयतिर्न्नियतीरात्रिर्न्निद्रा लोकस्थितौ स्थिताः । 10ab
उमा मेना शची पान्तु धूमोर्न्नानिरृतिर्ज्जये ॥ 10cd
गौरी शिवा च ऋद्धिश्च वेला चैव नड्वला । 11ab
अशिक्नी च 3 तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः ॥ 11cd
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च । 12ab


1 देवपुत्रस्येति ज॰ ।
2 पुलस्त्यस्येति ग॰ , घ॰ , ज॰ च ।
3 असिता चेति ङ॰ ।
Image-P.295


संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं ॥ 12cd
ऋतवश्च तथा मासा पक्षा रात्र्यहनी तथा । 13ab
सन्ध्यातिथिमुहूर्त्ताश्च कालस्यावयवाकृतिः ॥ 13cd
सूर्य्याद्याश्च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः । 14ab
स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः ॥ 14cd
रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः । 15ab
सावर्णो ब्रह्मपुत्रश्च धर्मपुत्रश्च रुद्रजः ॥ 15cd
दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्द्दश । 16ab
विश्वभुक् च विपश्चिच्च सुचित्तिश्च शिखी विभुः ॥ 16cd
मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः । 17ab
वृषश्च ऋतधामा च दिवस्पृक् कविरिन्द्रकः ॥ 17cd
रेवन्तश्च कुमारश्च तथा वत्सविनायकः । 18ab
वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ॥ 18cb
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः । 19ab
नासत्यौ देवभिषजौ ध्रुवाद्या वसवो ऽष्ट च ॥ 19cd
दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये । 20ab
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥ 20cd
हविष्मांश्च गरिष्ठश्च ऋतः सत्यश्च पान्तु वः । 21ab
क्रतुर्द्दक्षो वसुः सत्यः कालकामो धुरिर्जये ॥ 21cd
पुरूरवा माद्रवाश्च विश्वेदेवाश्च रोचनः । 22ab
अङ्गारकाद्याः सूर्य्यस्त्वान्निरृतिश्च तथा यमः ॥ 22cd
अजैकपादहिर्व्रध्रो धूमकेतुश्च रुद्रजाः 1 23ab


1 रुद्रका इति ग॰ , घ॰ , ङ॰ , ञ॰ च ।
Image-P.296


भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥ 23cd
भवनो भावनः पान्तु स्वजन्यः स्वजनस्तथा 1 24ab
क्रतुश्रवाश्च मूर्द्धा च याजनो ऽभ्युशनास्तथा ॥ 24cd
प्रसवश्चाव्ययश्चैव दक्षश्च भृगवः सुराः । 25ab
मनो ऽनुमन्ता प्राणश्च नवोपानश्च वीर्य्यवान् ॥ 25cd
वीतिहोत्रो नयः साध्यो हंसो नारायणो ऽवतु । 26ab
विभुश्चैव प्रभुश्चैव देवश्रेष्ठा जगद्धिताः ॥ 26cd
धाता मित्रो ऽर्यमा पूषा शक्रो ऽथ वरुणो भगः । 27ab
त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः ॥ 27cd
एकज्योतिश्च द्विज्योतिस्त्रिश्चतुर्ज्योतिरेव च । 28ab
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥ 28cd
इन्द्रश्च मेत्यादिशतु ततः प्रतिमकृत्तथा । 29ab
मितश्च सम्मितश्चैव अमितश्च महाबलः ॥ 29cd
ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा । 30ab
अतिमित्रो ऽनुमित्रश्च पुरुमित्रो ऽपराजितः ॥ 30cd
ऋतश्च ऋतवाग् धाता विधाता 2 धारणो ध्रुवः । 31ab
विधारणो महातेजा वासवस्य परः सखा ॥ 31cd
ईदृक्षश्चाप्यदृक्षश्च 3 एतादृगमिताशनः । 32ab
क्रीड़ितश्च सदृक्षश्च सरभश्च महातपाः ॥ 32cd


1 सुजनस्तथेति ख॰ , घ॰ च ।
2 विश्वात्मेति ङ॰ ।
3 ईदृक्षश्चान्यदृक्षश्चेति छ॰ ।
Image-P.297


धर्त्ता धुर्य्यो धुरिर्भीम अभिमुक्तः क्षपात्सह 1 33ab
धृतिर्व्वसुरनाधृष्यो 2 रामः कामो जयो विराट् ॥ 33cd
देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते । 34ab
चित्राङ्गदश्चित्ररथः चित्रसेनश्च वै कलिः ॥ 34cd
उर्णायुरुग्रसेनश्च धृतराष्ट्रश्च नन्दकः । 35ab
हाहा हूहूर्नारदश्च विश्वावसुश्च तुम्बुरुः ॥ 35cd
एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते । 36ab
पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ॥ 36cd
अनवद्या सुकेशी च मेनकाः सह जन्यया 3 37ab
क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला ॥ 37cd
प्रम्लोचा चोर्व्वशी रम्भा पञ्चचूड़ा तिलोत्तमा । 38ab
चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी ॥ 38cd
प्रह्लादो विरोचनो ऽथ बलिर्व्वाणो ऽथ तत्सुताः । 39ab
एते चान्ये ऽभिषिञ्चन्तु दानवा राक्षसास्तथा ॥ 39cd
हेतिश्चैव प्रहेतिश्च विद्युत्स्फुर्जथुरग्रकाः । 40ab
यक्षः सिद्धार्मकः पातु माणिभद्रश्च नन्दनः ॥ 40cd
पिङ्गाक्षो द्युतिमांश्चैव पुष्पवन्तो जयावहः । 41ab
शङ्खः पद्मश्च मकरः कच्छपश्च निधिर्जये ॥ 41cd
पिशाचा ऊर्द्ध्वकेशाद्या भूता भूम्यादिवासिनः । 42ab
महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ॥ 42cd


1 अभिमुक्तः क्षमासहेति ङ॰ ।
2 अनाधृष्त इति ग॰ , घ॰ ,ञ॰ च ।
3 सह कन्ययेति ज॰ ।
Image-P.298


गुहः स्कन्दो विशाखस्त्वान्नैगमेयो ऽभिषिञ्चतु । 43ab
डाकिन्यो याश्च योगिन्यः खेचरा भूचराश्च याः ॥ 43cd
गरुड़श्चारुणः पान्तु सम्पातिप्रमुखाः खगाः । 44ab
अनन्ताद्या महानागाः शेषवासुकितक्षकाः ॥ 44cd
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । 45ab
शङ्खः कर्कोटकश्चैव धृतराष्ट्रो धनञ्जयः ॥ 45cd
कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः । 46ab
सुप्रतीको ऽञ्जनो नागाः पान्तु त्वां सर्व्वतः सदा ॥ 46cd
पैतामहस्तथा हंसो वृषभः शङ्करस्य च । 47ab
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥ 47cd
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिः सदा । 48ab
कौस्तुभः शङ्कराजश्च वज्रं शूलञ्च चक्रकं ॥ 48cd
नन्दको ऽस्त्राणि रक्षन्तु धर्म्मश्च व्यवसायकः । 49ab
चित्रगुप्तश्च दण्डश्च पिङ्गलो मृत्युकालकौ ॥ 49cd
बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः । 50ab
पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली 1 50cd
मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः । 51ab
मान्धाता मुचुकुन्दश्च पान्तु त्वाञ्च पुरूरवाः ॥ 51cd
वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते । 52ab
रुक्मभौमः शिलाभौमः पतालो नीलमूर्त्तिकः 2 52cd


1 शत्रुजिद्वलो इति क॰ , ख॰ च ।
2 नीलमृत्तिक इति ख॰ , घ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च । नीलमूर्द्धज इति ङ॰ ।
Image-P.299


पीतरक्तः क्षितिश्चैव श्वेतभौमो रसातलं । 53ab
भूल्लोको ऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये ॥ 53cd
उत्तराः कुरवः पान्तु रम्या हिरण्यकस्तथा 1 54ab
भद्राश्वः केतुमालश्च वर्षश्चैव वलाहकः ॥ 54cd
हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् । 55ab
ताम्रवर्णो गभस्तिमान् नागद्वीपश्च सौम्यकः ॥ 55cd
गन्धर्वो वरुणो यश्च नवमः पान्तु राज्यदाः । 56ab
हिमवान् हेमकूटश्च निषधो नील एव च ॥ 56cd
श्वेतश्च शृङवान् मेरुर्माल्यवान् गन्धमादनः । 57ab
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः ॥ 57cd
विन्ध्यश्च पारिपात्रश्च गिरयः शान्तिदास्तु ते । 58ab
ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं ॥ 58cd
आयुर्वेदश्च गन्धर्व्वधनुर्वेदोपवेदकाः । 59ab
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥ 59cd
छन्दोगानि च वेदाश्च मीमांसा न्यायविस्तरः । 60ab
धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥ 60cd
साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं । 61ab
कृतान्तपञ्चकं ह्येतद् गायत्री च शिवा तथा ॥ 61cd
दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश्च ते । 62ab
लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः ॥ 62cd
चत्वारः सागराः पान्तु तीर्थानि विविधानि च । 63ab


1 हैरण्यकस्तथेति घ॰ , ङ॰ , ज॰ च । हिरण्मयश्तथेति छ॰ ।
Image-P.300


पुष्करश्च प्रयागश्च प्रभासो नैमिषः परः ॥ 63cd
गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्तरमानसं । 64ab
कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस्तथा ॥ 64cd
भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं । 65ab
जम्बुमार्गश्च विमलः कपिलस्य तथाश्रमः ॥ 65cd
गङ्गाद्वारकुशावर्त्तौ विन्ध्यको नीलपर्वतः । 66ab
वराहपर्वतश्चैव तीर्थङ्कणखलं तथा ॥ 66cd
कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च । 67ab
वाराणसी महातीर्थं वदर्य्याश्रम एव च ॥ 67cd
द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः । 68ab
शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः ॥ 68cd
फल्गुतीर्थं विन्दुसरः करवीराश्रमस्तथा । 69ab
नद्यो गङ्गासरस्वत्यः शतद्रुगण्डकी तथा ॥ 69cd
अच्छोदा च विपाशा च वितस्ता देविका नदी । 70ab
कावेरी वरुणा चैव निश्चरा गोमती नदी ॥ 70cd
पारा चर्मण्वती रूपा मन्दाकिनी महानदी । 71ab
तापी पयोष्णी वेणा च गौरी वैतरणी तथा ॥ 71cd
गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा । 72ab
चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः 1 72cd


इत्याग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमो ऽध्यायः ॥


1 अभिषिञ्चन्तु पान्त चेति ख॰ , ग॰ , घ॰ , ङ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.301


Chapter 220

अथ विंशत्यधिकद्विशततमो ऽध्यायः ।

सहायसम्पत्तिः ।
पुष्कर उवाच ।
सो ऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः । 1ab
राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो ऽथ वा ॥ 1cd
कुलीनो नीतिशास्त्रज्ञः प्रतीहारश्च नीतिवित् । 2ab
दूतश्च प्रियवादी स्यादक्षीणो ऽतिबलान्वितः ॥ 2cd
ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः । 3ab
सान्धिविग्रहिकः कार्य्यः षाड्गुण्यादिविशारदः ॥ 3cd
खड्गधारी रक्षकः स्यात्सारथिः स्याद्बलादिवित् । 4ab
सूदाध्यक्षो हितो विज्ञो महानसगतो हि सः ॥ 4cd
सभासदस्तु धर्मज्ञा लेखको ऽक्षरविद्धितः । 5ab
आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः ॥ 5cd
रत्नादिज्ञो धनाध्यक्षः अनुद्वारे हितो नरः । 6ab
स्यादायुर्वेदविद्वैद्यो गजध्यक्षो ऽथ हयादिवित् ॥ 6cd
जितश्रमो गजारोहो हयाध्यक्षो हयादिवत् । 7ab
दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित् ॥ 7cd
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते । 8ab
अस्त्राचार्य्यो नियुद्धे च कुशलो नृपतेर्हितः ॥ 8cd
वृद्धश्चान्तःपुराध्यक्षः पञ्चाशद्वार्षिकाः स्त्रियः । 9ab
Image-P.302


सप्तत्यव्दास्तु पुरुषाश्चरेयुः सर्वकर्मसु ॥ 9cd
जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते । 10ab
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥ 10cd
उत्तमाधममध्यानि पुरुषाणि नियोजयेत् । 11ab
ज्येच्छुः पृथिवीं राजा सहायाननयोद्धितान् ॥ 11cd
धर्मिष्ठान् धर्मकायेषु शूरान् सङ्ग्रामकर्मसु । 12ab
निपुणानर्थकृत्येषु 1 सर्वत्र च तथा शुचीन् ॥ 12cd
स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु । 13ab
यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं ॥ 13cd
धर्मे चार्थे च कामे च नियुञ्जीताधमे ऽधमान् । 14ab
राजा यथार्हं कुर्य्याच्च उपाधाभिः परीक्षितान् ॥ 14cd
समन्त्रो च यथान्यायात् कुर्य्याद्धस्तिवनेचरान् । 15ab
तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ 15cd
यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन् नियोजयेत् । 16ab
पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत् ॥ 16cd
विना दायादकृत्येषु तत्र ते हि समागताः । 17ab
परराजगृहात् प्राप्तान् जनान् संश्रयकाम्यया 2 17cd
दुष्टानप्यथ वा ऽदुष्टान् संश्रयेत प्रयत्नतः । 18ab
दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्त्तयेद्वशे ॥ 18cd
देशान्तरागतान् पार्श्वे चारैज्ञात्वा हि पूजयेत् । 19ab
शत्रवो ऽग्निवर्षं सर्पो निस्त्रिंशमपि चैकतः ॥ 19cd


1 रिपननर्थकृत्येष्विति ख॰ ।
2 जनानाश्रयकाम्ययेति ख॰ ।
Image-P.303


भृत्या वशिष्टं विज्ञेयाः कुभृट्याश्च तथैकतः । 20ab
चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् ॥ 20cd
जनस्याविहितान् सौम्यांस्तथाज्ञातान् परस्परं । 21ab
वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ॥ 21cd
तथा प्रव्रजिताकारान् बलाबलविवेकिनः । 22ab
नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः ॥ 22cd
रागापरागौ भृत्यानां जनस्य च गुणागुणान् । 23ab
शुभानामशुभानाञ्च ज्ञानङ्कुर्य्याद्वशाय च ॥ 23cd
अनुरागकरं कर्म्म चरेज्जह्माद्विरागजं । 24ab
जनानुरागया लक्ष्म्या राजा स्याज्जनरञ्जनात् ॥ 24cd


इत्याग्नेये महापुराणे सहायसम्पत्तिर्नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥

{221A}

अथ एकविंशाधिकद्विशततमो ऽध्यायः ।

पुष्कर उवाच ।
भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः । 1ab
न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ॥ 1cd
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् । 2ab
न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ॥ 2cd
राज्ञश्च न तथाकार्य्यं वेशभाषाविचेष्टितं । 3ab
अन्तःपुरचराध्यक्षो वैरभूतैर्न्निराकृतैः ॥ 3cd
Image-P.304


संसर्गं न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् । 4ab
प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ॥ 4cd
राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् । 5ab
आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् ॥ 5cd
वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत् 1 6ab
नानिर्द्दिष्टो 2 द्वारि विशेन्नायोग्ये भुवि राजदृक् ॥ 6cd
जृम्भान्निष्ठीवनङ्कासं कोपं पर्य्यन्तिकाश्रयं । 7ab
भृकुटीं वातमुद्गारं तत्समीपे विसर्जयेत् 3 7cd
स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत् 4 8ab
शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा ॥ 8cd
चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना । 9ab
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥ 9cd
राजसेवान्ततः कुर्याद्भूतये भूतिवर्द्धनः 5 10ab
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ॥ 10cd
सचिवैर्न्नास्य विश्वासो राजचित्तप्रियञ्चरेत् । 11ab
त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ॥ 11cd
अपृष्टश्चास्य न ब्रूयात् कामं कुर्य्यात्तथापदि । 12ab
प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ॥ 12cd


1 राज्ञा ऽदत्तं न धारयेदिति ख॰ ।
2 नानिर्दिष्ते इति ख॰ , ग॰ , घ॰ , ञ॰ च ।
3 विवर्जयेदिति ग॰ , घ॰ , ज॰ , ट॰ च ।
4 नियोजयेदिति ग॰ , घ॰ , ञ॰ च ।
5 भूतिवर्द्धिनीमिति ग॰ , ट॰ च ।
Image-P.305


कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं । 13ab
तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दते ॥ 13cd
अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि । 14ab
इति रक्तस्य कर्त्तव्यं सेवामन्यस्य वर्जयेत् ॥ 14cd


इत्याग्नेये महापुराणे अनुजीविवृत्तं नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥

{221B}

अथैकविंशत्यधिकद्विशततमो ऽध्यायः ।

दुर्गसम्पत्तिः ।
पुष्कर उवाच ।
दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः । 1ab
वैश्यशूद्रजनप्रायो ऽह्यनाहार्य्यस्तथापरैः ॥ 1cd
किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्म्मकरस्तथा । 2ab
अदेवमातृको भक्तजलो देशः प्रशस्यते ॥ 2cd
परैरपीडीतः पुष्पफलधान्यसन्वितः 1 3ab
अगम्यः परचक्राणां व्यालतस्करवर्जितः ॥ 3cd
षण्णामेकतमं दुर्गं तत्र कृत्वा वसेद्बली । 4ab
धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ 4cd
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव । 5ab
सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ॥ 5cd


1 पुष्पफलधान्यधनान्वित इति ग॰ , घ॰ , ञ॰ , ट॰ च ।
Image-P.306


पुरन्तत्र च हट्टाद्यदेवतायतनादिकं । 6ab
अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ॥ 6cd
राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः । 7ab
पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विषार्द्दनः ॥ 7cd
शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं । 8ab
कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ॥ 8cd
मण्डूलपर्णी वाराही धात्र्यानन्दकमेव च । 9ab
उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ॥ 9cd
वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् । 10ab
प्रजाश्च पालयेद्दुष्टाञ्जयेद्दानानि दापयेत् ॥ 10cd
देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् । 11ab
देवालयानि कुर्वीत देवपूजारतो नृपः ॥ 11cd
सुरालयाः पालनीयाः स्थापनीयाश्च देवताः । 12ab
मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ॥ 12cd
ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं । 13ab
क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ॥ 13cd
चित्रक्वद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् । 14ab
तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ॥ 14cd
पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः । 15ab
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ॥ 15cd
हरन्नरकमाप्नोति यावदाहूतसम्प्लवं । 16ab
दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ॥ 16cd
नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् । 17ab
Image-P.307


अदैवं दैवतं कुर्य्युः कुर्य्युर्द्दैवमदैवतं ॥ 17cd
ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु 1 18ab
ब्राह्मणी रुदती हन्ति कुलं राज्यं प्रजास्तथा ॥ 18cd
साध्वीस्त्रीणां पालनञ्च राजा कुर्य्याच्च धार्मिकः । 19ab
स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ॥ 19cd
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया । 20ab
यस्मै दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा ॥ 20cd
मृते भर्त्तरि स्वर्य्यायात् ब्रह्मचर्ये स्थिताङ्गना । 21ab
परवेश्मरुचिर्न्नस्यान्न स्यात् कलहशालिनी ॥ 21cd
मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका । 22ab
देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥ 22cd
धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा । 23ab
भर्त्राग्निं या विशेन्नारी सापि स्वगमवाप्नुयात् ॥ 23cd
श्रियः सम्पूजनङ्कार्य्यं गृहसम्मार्जनादिकं । 24ab
द्वादश्यां कार्त्तिके विष्णुं गां सवत्सां ददेत्तथा ॥ 24cd
सावित्र्या रक्षितो भर्त्ता सत्याचारव्रतेन च 2 25ab
सप्तम्यां मार्गशीर्षे तु सिते ऽभ्यर्च्य दिवाकरं ॥ 25cd
पुत्रानाप्नोति च स्त्रीह नात्र कार्य्या विचारणा ॥ 26॥ 26ab


इत्याग्नेये महापुराणे राजधर्मो नाम एकविंशत्यधिकद्विशततमो ऽध्यायः ॥


1 तान्न हिंस्याद्यदैव तु इति ज॰ ।
2 सत्यवान् सुव्रतेन चेति घ॰ , ञ॰ च ।
Image-P.308


Chapter 222

अथ द्वाविंशत्यधिकद्विशततमो ऽध्यायः ।

राजधर्माः ।
पुष्कर उवाच ।
ग्रामस्याधिपतिं कुर्य्याद्दशग्रामाधिपं नृपः । 1ab
शतग्रामाधिपञ्चान्यं तथैव विषयेश्वरं ॥ 1cd
तेषां भोगविभागश्च भवेत् कर्म्मानुरूपतः । 2ab
नित्यमेव तथा कार्य्यं तेषाञ्चारैः परीक्षणं ॥ 2cd
ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रसमं नयेत् । 3ab
अशक्तो दशपालस्य स तु गत्वा निवेदयेत् ॥ 3cd
श्रुत्वापि दशपालो ऽपि तत्र युक्तिमुपाचरेत् । 4ab
वित्ताद्याप्नोति राजा वै विषयात्तु सुरक्षितात् ॥ 4cd
धनवान्धर्म्ममाप्नोति धनवान् काममश्नुते । 5ab
उच्छिद्यन्ते विना ह्यर्थैः 1 क्रिया ग्रीष्मे सरिद्यथा ॥ 5cd
विशेषो नास्ति लोकेषे पतितस्याधनस्य च । 6ab
पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥ 6cd
धनहीनस्य भार्य्यापि नैका स्यादुपवर्त्तिनी 2 7ab
राष्ट्रपीडाकरो राजा नरके वसते चिरं ॥ 7cd
नित्यं राज्ञा तथा भाव्यं गर्भिणी सहधर्म्मिणी । 8ab
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् 3 8cd


1 विना ह्यर्थमिति घ॰ , ञ॰ च ।
2 नैव स्याद्वशवर्त्तिनीति ख॰ , ट॰ च । नैव स्याद्वशवर्त्तिनीति घ॰ , ज॰ , ञ॰ च ।
3 सुखमाहरेदिति ज॰ , ट॰ च ।
Image-P.309


किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः । 9ab
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥ 9cd
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरं । 10ab
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥ 10cd
धर्म्मागमो रक्षणाच्च पापमाप्नोत्यरक्षणात् । 11ab
सुभगा विटभीतेव राजवल्लभतस्करैः ॥ 11cd
भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश्च विशेषतः । 12ab
रक्षिता तद्भयेभ्यस्तु राज्ञो भवति सा प्रजा 1 12cd
अरक्षिता सा भवति तेषामेवेह भोजनं । 13ab
दुष्टसम्मर्द्दनं कुर्य्याच्छास्त्रोक्तं करमाददेत् 2 13cd
कोषे प्रवेशयेदर्द्धं नित्यञ्चार्द्धं द्विजे ददेत् 3 14ab
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥ 14cd
चतुर्थमष्टमं भागं तथा षोडशमं द्विजः । 15ab
वर्णक्रमेण दद्याच्च निधिं पात्रे तु धर्म्मतः ॥ 15cd
अनृतन्तु वदन् दण्ड्यः 4 सुवित्तस्यांशमष्टमं । 16ab
प्रणष्टस्वामिकमृक्थं राजात्र्यब्दं निधापयेत् ॥ 16cd
अर्वाक् त्र्यब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् । 17ab
ममेदमिति यो ब्रूयात् सो ऽर्थयुक्तो यथाविधि ॥ 17cd
सम्पाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति । 18ab


1 सत्प्रजा इति घ॰ , ञ॰ च ।
2 सुभगा विटभीतेवेत्यादिः, करमाददेदित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
3 द्विजे ऽर्पयेदिति ञ॰ , ट॰ च ।
4 अनृतं वदतो ग्राह्यमिति ट॰ ।
Image-P.310


बालदायादिकमृक्थं 1 तावद्राजानुपालयेत् ॥ 18cd
यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः । 19ab
बालपुत्रासु चैवं स्याद्रक्षणं निष्कलासु च ॥ 19cd
पतिव्रतासु च स्त्रीषु विधबास्वातुरासु च । 20ab
जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः ॥ 20cd
ताञ्छिष्याच्चौरदण्डेन धार्म्मिकः पृथिवीपतिः । 21ab
सामान्यतो हृतञ्चौरैस्तद्वै दद्यात् स्वयं नृपः ॥ 21cd
चौररक्षाधिकारिभ्यो राजापि हृतमाप्नुयात् । 22ab
अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः ॥ 22cd
न तद्राज्ञा प्रदातव्यं गृहे यद् गृहगैर्हृतं । 23ab
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ॥ 23cd
शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं । 24ab
ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात् ॥ 24cd
विंशांशं लाभमादद्याद्दण्डनीयस्ततो ऽन्यथा । 25ab
स्त्रीणां प्रव्रजितानाञ्च 2 तरशुल्कं विवर्जयेत् ॥ 25cd
तरेषु दासदोषेण नष्टं दासांस्तु दापयेत् । 26ab
शूकधान्येषु षड्भागं शिम्बिधान्ये तथाष्टमं ॥ 26cd
राजा वन्यार्थमादद्याद्देशकालानुरूपकं । 27ab
पञ्चषड्भागमादद्याद् राजा पशुहिरण्ययोः ॥ 27cd
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च । 28ab


1 बालदायादिकं युक्तमिति ख॰ , ग॰ , घ॰ , ञ॰ च ।
2 स्त्रीणाञ्चैव द्विजातीनामिति ट॰ ।
Image-P.311


पत्रशाकतृणानाञ्च वंशवैणवचर्म्मणां ॥ 28cd
वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च । 29ab
षड्भागमेव चादद्यान् मधुमांसस्य सर्पिषः ॥ 29cd
म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस्तथा करं । 30ab
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ 30cd
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः । 31ab
श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥ 31cd
रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं । 32ab
संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहं ॥ 32cd
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । 33ab
कर्म्म कुर्युर्न्नरेन्द्रस्य मासेनैकञ्च 1 शिल्पिनः ॥ 33cd
भुक्तमात्रेण ये चान्ये स्वशरीरोपजीयिनः ॥ 34॥ 34ab


इत्याग्नेये महापुराणे राजधर्मो नाम द्वाविंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 223

अथ त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ।

राजधर्माः ।
पुष्कर उवाच ।
वक्ष्ये ऽन्तःपुरचिन्तां च धर्माद्याः पुरुषार्थकाः । 1ab
अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः ॥ 1cd


1 मासेनैकेनेति छ॰ , ज॰ च ।
Image-P.312


धर्ममूलो ऽर्थविटपस्तथा कर्म्मफलो महान् । 2ab
त्रिवर्गपादपस्तत्र रक्षया फलभाग् भवेत् ॥ 2cd
कामाधीनाः 1 स्त्रियो राम तदर्थं रत्नसङ्ग्रहः । 3ab
सेव्यास्ता नातिसेव्याश्च भूभुजा विषयैषिणा ॥ 3cd
आहारो मैथुनन्निद्रा सेव्या नाति हि रुग् भवेत् । 4ab
मञ्चाधिकारे 2 कर्त्तव्याः स्त्रियः सेव्याः स्वरामिकाः 3 4cd
दुष्टान्याचरते 4 या तु नाभिनन्दति तत्कथां । 5ab
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ॥ 5cd
चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते । 6ab
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते ॥ 6cd
स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणद्धि या । 7ab
ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी ॥ 7cd
न पश्यत्यग्रदत्तन्तु जघनञ्च निगूहति । 8ab
दृष्टे विवर्णवदना मित्रेष्वथ पराङ्मुखी 5 8cd
तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते । 9ab
ज्ञातमण्डनकालापि न करोति च मण्डनं ॥ 9cd
या सा विरक्ता तान्त्यक्त्वा सानुरागां स्त्रियम्भजेत् 6 10ab
दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी ॥ 10cd


1 कामाधरा इति घ॰ , ञ॰ च ।
2 लज्जाधिकारे इति ख॰ , छ॰ च ।
3 सुवासिका इति क॰ ।
4 द्विष्टान्याचक्षते इति ञ॰ ।
5 न पश्यत्यग्रदत्तन्त्वित्यादिः, मित्रेष्वथ पराङ्मुखीत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
6 स्त्रियं व्रजेदिति घ॰ , ञ॰ च ।
Image-P.313


दृश्यमाना तथा ऽन्यत्र दृष्टिं क्षिपति चञ्चलां । 11ab
तथाप्युपावर्त्तयितुं नैव शक्नोत्यशेषतः ॥ 11cd
विवृणीति तथाङ्गानि स्वस्या गुह्यानि भार्गव । 12ab
गर्हितञ्च तथैवाङ्गं प्रयत्नेन निगूहति ॥ 12cd
तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं । 13ab
आभाष्यमाणा भवति सत्यवाक्या तथैव च ॥ 13cd
स्पृष्टा पुलकितैरङ्गैः स्वेदेनैव च भुज्यते । 14ab
करोति च तथा राम सुलभद्रव्ययाचनं ॥ 14cd
ततः स्वल्पमपि प्राप्य करोति परमां मुदं । 15ab
नामसङ्कीर्त्तनादेव मुदिता बहु मन्यते ॥ 15cd
करजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि । 16ab
तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात् ॥ 16cd
आलिङ्गनैश्च गात्राणि लिम्पतीवामृतेन या । 17ab
सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते ॥ 17cd
उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते । 18ab
कपित्थचूर्णयोगेन तथा दघ्नः स्रजा तथा ॥ 18cd
घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः । 19ab
भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ॥ 19cd
शौचमाचमनं राम तथैव च विरेचनं । 20ab
भावना चैव पाकश्च बोधनं धूपनन्तथा ॥ 20cd
वासनञ्चैव निर्द्दिष्टं कर्म्माष्टकमिदं स्मृतं । 21ab
कपित्थविल्वजम्वाम्रकरवीरकपल्लवैः ॥ 21cd
कृत्वोदकन्तु यद्द्रव्यं शौचितं शौचनन्तु तत् । 22ab
Image-P.314


तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ॥ 22cd
नखं कुष्ठं घनं मांसी स्पृक्कशैलेयजं जलं । 23ab
तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदं 1 23cd
सरलं देवकाष्ठञ्च 2 कर्पूरं कान्तया सह । 24ab
बालः कुन्दुरुकश्चैव गुग्गुलुः श्रीनिवासकः ॥ 24cd
सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः । 25ab
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥ 25cd
द्वे द्वे द्रव्ये समादाय सर्जभागैर्न्नियोजयेत् । 26ab
नखपिण्याकमलयैः संयोज्य मधुना तथा ॥ 26cd
धूपयोगा भवन्तीह यथावत् स्वेच्छया कृताः । 27ab
त्वचन्नाडीं फलन्तैलं कुङ्कुमं ग्रन्थि प्रवर्तकं 3 27cd
शैलेयन्तगरं क्रान्तां चोलङ्कर्पूरमेव च 4 28ab
मांसीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ॥ 28cd
एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया । 29ab
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्द्धनं ॥ 29cd
त्वङ्मुरानलदैस्तुल्यैर्वालकार्द्धसमायुतैः । 30ab
स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते ॥ 30cd
जातीपुषसुगन्धि स्यात् तगरार्द्धेन योजितं । 31ab
सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं ॥ 31cd


1 चन्दनागुरुशैलजमिति ख॰ , छ॰ च ।
2 देवदारुश्चेति घ॰ , ञ॰ च ।
3 ग्रन्थिपर्णकमिति ग॰ , घ॰ , ञ॰ च ।
4 सह सर्जरसेनेत्यादिः चोलं कर्पूरमेव चेत्यन्तः पाठः ट॰ पुस्तके नास्ति ।
Image-P.315


मञ्जिष्ठातगरं चोलं त्वचं व्यघ्रनखं नखं । 32ab
गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं ॥ 32cd
तैलं निपीडितं राम तिलैः पुष्पाधिवासितैः । 33ab
वासनात् पुष्पसदृशं गन्धेन तु भवेद् ध्रुवं ॥ 33cd
एलालवङ्गकक्कोलजातीफलनिशाकराः । 34ab
जातीपत्रिकया सार्द्धं स्वतन्त्रा मुखवासकाः ॥ 34cd
कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं । 35ab
कक्कोलैलालवङ्गञ्च जातौ कोशकमेव च ॥ 35cd
त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा । 36ab
कण्टकानि लवङ्गस्य फलपत्रे च जातितः ॥ 36cd
कटुकञ्च 1 फलं राम कार्षिकाण्युपकल्पयेत् । 37ab
तच्चूर्णे खदिरं सारं दद्यात्तुर्यं तु वासितं 2 37cd
सहकाररसेनास्मात् कर्त्तव्या गुटिकाः शुभाः 3 38ab
मुख न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः ॥ 38cd
पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा । 39ab
शक्त्या तु गुटिकाद्रव्यैर्वासितं मुखवासकं ॥ 39cd
कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं त्र्यहं । 40ab
कृतञ्च पूगवद्राम मुखसौगन्धिकारकं ॥ 40cd
त्वक्पथ्ययोः समावंशौ शशिभागार्द्धसंयुतौ । 41ab
नागवल्लीसमो भाति मुखवासो मनोहरः ॥ 41cd


1 कन्दुकञ्चेति ख॰ , छ॰ च ।
2 दद्यात्तुर्थं तुलोन्मितमिति ट॰ , छ॰ च ।
3 कक्कोलैलेत्यादिः गुटिकाः शुभा इत्यन्तः पाठः घ॰ , ज॰ पुस्तकद्वये नास्ति ।
Image-P.316


एवं कुर्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः । 42ab
न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ॥ 42cd
न स्वपेत् स्त्रीगृहे रात्रौ विश्वासः कृत्रिमो भवेत् ॥ 43॥ 43ab


इत्याग्नेये महाoपुराणे स्त्रीरक्षादिकामशास्त्रं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 224

अथ चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ।

राजधर्माः ।
पुष्कर उवाच ।
राजपुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता । 1ab
धर्मार्थकामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ॥ 1cd
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्याप्रियंवदैः । 2ab
शरीररक्षाव्याजेन रक्षिणो ऽस्य नियोजयेत् ॥ 2cd
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः । 3ab
अशक्यन्तु गुणाधानं कर्त्तुं तं बन्धयेत् मुखैः ॥ 3cd
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् । 4ab
मृगयां पानमक्षांश्च राज्यनाशंस्त्यजेन्नृपः ॥ 4cd
दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् । 5ab
निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ॥ 5cd
आकाराणां समुछेदो दुर्गादीनामसत्क्रिया । 6ab
Image-P.317


अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥ 6cd
अदेशकाले यद्दानमपात्रे दानमेव च । 7ab
अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनं ॥ 7cd
कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् । 8ab
ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् ॥ 8cd
जयेद्वाह्यानरीन् पश्चाद्वाह्याश्च त्रिविधारयः । 9ab
गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः ॥ 9cd
पितृपैतामहं मित्रं सामन्तञ्च तथा रिपोः । 10ab
कृत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते ॥ 10cd
स्वाम्यमात्यञ्जनपदा दुर्गं दण्दस्तथैव च । 11ab
कोषो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ 11cd
मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं 1 विशेषतः । 12ab
राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् ॥ 12cd
एवं लोकद्वयं राज्ञो भृत्यैर्हासं विवर्जयेत् । 13ab
भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं ॥ 13cd
लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् । 14ab
स्मितपूर्वाभिभाषी स्यात् लोकानां रञ्जनं चरेत् ॥ 14cd
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् । 15ab
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥ 15cd
अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते । 16ab
गुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः ॥ 16cd


1 तस्माद्राष्ट्रमिति ख॰ , ग॰ , घ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.318


ज्ञायते हि कृतं कर्म्म नारब्धं तस्य राज्यकं 1 ।॰ 17ab
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥ 17cd
नेत्रवक्तविकाराभ्यां गृह्यते ऽन्तर्गतं पुनः । 18ab
नैकस्तु मन्त्रयेन् मन्त्रं न राजा बहुभिः सह ॥ 18cd
बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक् । 19ab
मन्त्रिणामपि नो कुर्यान् मन्त्री मन्त्रप्रकाशनं ॥ 19cd
क्वापि कस्यापि 2 विश्वासो भवतीह सदा नृणां । 20ab
निश्चयश्च तथा मन्त्रे कार्य्य एकेन सूरिणा ॥ 20cd
नश्येदविनयाद्राजा राज्यञ्च विनयाल्लभेत् । 21ab
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं ॥ 21cd
आन्वीक्षिकीञ्चार्थविद्यां वार्त्तारम्भांश्च लोकतः । 22ab
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ 22cd
पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च । 23ab
द्विजे दानञ्चाक्षयो ऽयं निधिः कैश्चिन्न नाश्यते ॥ 23cd
सङ्ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनं । 24ab
दानानि ब्राह्मणानाञ्च राज्ञो निःश्रेयसम्परं ॥ 24cd
कृपणानाथवृद्धानां विधवानाञ्च योषितां । 25ab
योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥ 25cd
वर्णाश्रमव्यवस्थानं कार्यन्तापसपूजनं । 26ab
न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् ॥ 26cd
विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना । 27ab


1 तस्य कर्मकमिति ख॰ ।
2 क्वचित् कस्यापि इति ख॰ , ग॰ , घ॰ , ज॰ , ट॰ च ।
Image-P.319


वकविच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ॥ 27cd
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् । 28ab
दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ॥ 28cd
चित्रकारश्च शिखिवद् दृढभक्तिस्तथाश्ववत् । 29ab
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥ 29cd
काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत् । 30ab
नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् ॥ 30cd
नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुद्वेत् । 31ab
राष्ट्रकर्षी भ्रस्यते च राज्यार्थाच्चैव जीवितात् ॥ 31cd
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् । 32ab
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥ 32cd
सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे । 33ab
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥ 33cd
जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥ 34॥ 34ab


इत्याग्नेये महापुराणे राजधर्मो नाम चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 225

अथ पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ।

राजधर्माः ।
पुष्कर उवाच ।
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितं । 1ab
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ 1cd
Image-P.320


प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । 2ab
सात्त्विकात् कर्म्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना ॥ 2cd
पौरुषं दैवसम्पत्त्या काले फलति भार्गव । 3ab
दैवं पुरुषकारश्च द्वयं पुंसः फलावहं ॥ 3cd
कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः । 4ab
सधर्म्मं पौरुषं कुर्यान्नालसो न च दैववान् ॥ 4cd
सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः । 5ab
साम चोपप्रदानञ्च भेददण्डौ तथापरौ ॥ 5cd
मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्छृणु । 6ab
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥ 6cd
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते । 7ab
महाकुलीना ह्यृजवो धर्मनित्या जितेन्द्रियाः ॥ 7cd
सामसाध्या अतथ्यैश्च गृह्यन्ते राक्षसा अपि । 8ab
तथा तदुप्रकाराणां कृतानाञ्चैव वर्णनं ॥ 8cd
परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः । 9ab
तेषान्भेदं प्रयुञ्जीत परमं दर्शयेद्भयं 1 9cd
आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति । 10ab
परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः ॥ 10cd
सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः 2 11ab
अन्तःकोषञ्चोपशाम्य कुर्वन् शत्रोश्च तं जयेत् ॥ 11cd
उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् । 12ab
न सो ऽस्ति नाम दानेन वशगो यो न जायते ॥ 12cd


1 परस्माद्दर्शयेद्भयमिति ञ॰ ।
2 मन्त्रामात्यानुजादिक इति ञ॰ ।
Image-P.321


दानवानेव शक्नोति संहतान् भेदितुं परान् । 13ab
त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च ॥ 13cd
दण्डे सर्वं स्थितं दण्डो नाशयेद्दुष्प्रणीकृतः । 14ab
अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान्राजाप्यदण्डयन् ॥ 14cd
दैवदैत्योरगनराः सिद्धा भूताः पतत्रिणः । 15ab
उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत् ॥ 15cd
यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि । 16ab
दमनाद्दण्डनाच्चैव तस्माद्दण्ड विदुर्बुधाः ॥ 16cd
तेजसा दुर्न्निरीक्ष्यो हि राजा भास्करवत्ततः । 17ab
लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ॥ 17cd
जगद्व्याप्नोति वै चारैरतो राजा समीरणः । 18ab
दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥ 18cd
यदा दहति दुर्बुद्धिं तदा भवति पावकः । 19ab
यदा दानं द्विजातिभ्यो दद्यात् तस्माद्धनेश्वरः ॥ 19cd
धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः । 20ab
क्षमया धारयंल्लोकान् पार्थिवः पार्थिवो भवेत् ॥ 20cd
उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः ॥ 21॥ 21ab


इत्याग्नेये महापुराणे सामाद्युपायो नाम पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ॥
Image-P.322


Chapter 226

अथ षड्विंशत्यधिकद्विशततमो ऽध्यायः ।

राजधर्माः ।
पुष्कर उवाच ।
दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः । 1ab
त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ॥ 1cd
कृष्णलानां तथा षष्ट्या 1 कर्षार्धं राम कीर्त्तितं । 2ab
सुवर्णश्च विनिर्द्दिष्टो राम षोडशमापकः ॥ 2cd
निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः । 3ab
ताम्ररूप्यसुवर्णानां मनमेतत् प्रकीर्त्तितं ॥ 3cd
ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः । 4ab
पणानां द्वे शते सार्द्धं प्रथमः साहसः स्मृतः 2 4cd
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः । 5ab
चौरैरमूषितो यस्तु मूषितो ऽस्मीति भाषते ॥ 5cd
तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु । 6ab
यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं ॥ 6cd
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं 3 7ab
कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश्च प्रदापयेत् ॥ 7cd
विवासयेद्ब्राह्मणन्तु भोज्यो विधिर्न्न हीरतः । 8ab
निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा ॥ 8cd


1 तथा चाष्टौ इति छ॰ , ज॰ च ।
2 ताम्रिकैः कार्षिक इत्यादिः, साहसः स्मृत इत्यन्तः पाठः झ॰ पुस्तके नास्ति ।
3 यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.323


वस्त्रादिकस्य धर्म्मज्ञ तथा धर्मो न हीयते । 9ab
यो निक्षेपं घातयति यश्चानिक्षिप्य याचते ॥ 9cd
तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम । 10ab
अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्य विक्रयं ॥ 10cd
निर्द्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति 1 11ab
मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः ॥ 11cd
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः । 12ab
भृतिं गृह्य न कुर्य्याद्यः कर्माष्टौ कृष्णला दमः ॥ 12cd
अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु । 13ab
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ॥ 13cd
सो ऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च । 14ab
परेण तु दशाहस्य नादद्यान्नैव दापयेत् ॥ 14cd
आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् । 15ab
वरे दोषानविख्याप्य यः कन्यां वरयेदिह 2 15cd
दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं । 16ab
प्रदाय कन्यां यो ऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥ 16cd
दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः । 17ab
सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं ॥ 17cd
लुब्धो ऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति । 18ab
दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं ॥ 18cd
स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता । 19ab


1 चौरवद्वधमर्हतोति घ॰ , ञ॰ च ।
2 वरयेद्यदि इति घ॰ , ञ॰ च ।
Image-P.324


धनुःशतं परीणाहो ग्रामस्य तु समन्ततः ॥ 19cd
द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् । 20ab
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥ 20cd
तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं । 21ab
गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् ॥ 21cd
शतानि पञ्च दण्ड्याः स्यादज्ञानाद् द्विशतो दमः । 22ab
मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं ॥ 22cd
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । 23ab
वैश्यश्च द्विशतं राम शूद्रश्च बधमर्हति ॥ 23cd
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । 24ab
वैश्ये वाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ 24cd
क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । 25ab
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥ 25cd
धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च दण्डभाक् । 26ab
श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं ॥ 26cd
उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् । 27ab
प्रमादाद्यैर्मया प्रोक्तं प्रीत्या दण्डार्द्धमर्हति ॥ 27cd
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं । 28ab
आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥ 28cd
अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् । 29ab
तदेवच्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥ 29cd
अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । 30ab
अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ॥ 30cd
Image-P.325


उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं । 31ab
यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्त्तयेत् ॥ 31cd
अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । 32ab
वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति ॥ 32cd
द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये । 33ab
द्रव्याणि यो हरेद्यस्य ज्ञानतो ऽज्ञानतो ऽपिवा ॥ 33cd
स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं । 34ab
यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ॥ 34cd
स दण्डं प्राप्नुयान् मासं दण्ड्यः स्यात् प्राणिताड़ने । 35ab
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं बधः ॥ 35cd
शेषे ऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् । 36ab
सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः ॥ 36cd
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । 37ab
तत्तदेव हरेदसय् प्रत्यादेशाय पार्थिवः ॥ 37cd
ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् । 38ab
गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं ॥ 38cd
गृहक्षेत्रापहर्त्तारं तथा पत्न्यभिगामिनं । 39ab
अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं ॥ 39cd
राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः । 40ab
परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥ 40cd
अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं । 41ab
उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति ॥ 41cd
भर्त्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियं । 42ab
Image-P.326


सवर्णदूषितां कुर्य्यात् पिण्डमात्रोपजीविनीं ॥ 42cd
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् । 43ab
वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ॥ 43cd
क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् । 44ab
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥ 44cd
वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा । 45ab
भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः ॥ 45cd
कृतापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा । 46ab
पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं ॥ 46cd
रक्षास्वधिकृतैयस्तु प्रजा ऽत्यर्थं विलुप्यते । 47ab
तेषां सर्वस्वमादाय राजा कुर्य्यात् प्रवासनं ॥ 47cd
ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां । 48ab
निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः ॥ 48cd
अमात्यः प्राड्विवाको वा यः कुर्य्यात् कार्य्यमन्यथा । 49ab
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥ 49cd
गुरुतल्पे भयः कार्य्यः सुरापाणे सुराध्वजः । 50ab
स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् ॥ 50cd
शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् । 51ab
महापातकिनां वित्तं वरुणायोपपादयेत् ॥ 51cd
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः । 52ab
भाण्डारकोषदाश्चैव सर्वांस्तानपि घातयेत् ॥ 52cd
राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् । 53ab
सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ॥ 53cd
Image-P.327


तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् । 54ab
तड़ागदेवतागारभेदकान् घातयेन्नृपः ॥ 54cd
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । 55ab
स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ॥ 55cd
प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते । 56ab
समैश्च विषमं यो वा चरते मूल्यतो ऽपि वा ॥ 56cd
समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा । 57ab
द्रव्यमादाय वणिजामनर्घेणावरुन्धतां ॥ 57cd
राजा पृथक् पृथक् कुर्य्याद्दण्डमुत्तमसाहसं । 58ab
द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी ॥ 58cd
मध्यमं प्राप्नुयाद्दण्डं कूटकर्त्ता तथोत्तमं । 59ab
कलहापकृतं देयं दण्डश्च द्विगुणस्ततः ॥ 59cd
अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः । 60ab
तुलाशासनकर्त्ता च कूटकृन्नाशकस्य च ॥ 60cd
एभिश्च व्यवहर्त्ता यः स दाप्यो दममुत्तमं । 61ab
विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं ॥ 61cd
विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् । 62ab
क्षेत्रवेश्मग्रामवनविदारकास्तथा नराः ॥ 62cd
राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना । 63ab
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ॥ 63cd
पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः । 64ab
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ 64cd
यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः । 65ab
Image-P.328


तमायान्तं पराजित्य 1 दण्डयेद् द्विगुणं दमं ॥ 65cd
आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् । 66ab
दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते ॥ 66cd
हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं ॥ 67॥ 67ab


इत्याग्नेये महापुराणे दण्डप्रणयनं नाम षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 227

अथ सप्तविंशत्यधिकद्विशततमो ऽध्यायः ।

युद्धयात्रा ।
पुष्कर उवाच ।
यदा मन्येत नृपतिराक्रन्देन बलीयसा । 1ab
पार्ष्णिग्राहो ऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥ 1cd
पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम । 2ab
मूलरक्षासमर्थो ऽस्मि तैर्गत्वा 2 शिविरे व्रजेत् ॥ 2cd
शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं । 3ab
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ॥ 3cd
विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं 3 4ab
शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने ॥ 4cd
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् । 5ab


1 पुनर्जित्वेति ग॰ , घ॰ , ज॰ च ।
2 तैर्वृत्वा इति साधुः ।
3 सम्भूतान्तःकोपदमिति ख॰ , छ॰ च ।
Image-P.329


पदातिनागबहुलां सेनां प्रावृषि योजयेत् ॥ 5cd
हेमन्ते शिशिरे चैव रथवाजिसमाकुलां । 6ab
चतुरङ्गबलोपेतां वसन्ते वा शरन्मुखे 1 6cd
सेना पदातिबहुला शत्रून् जयति सर्वदा । 7ab
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥ 7cd
न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च । 8ab
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ॥ 8cd
विपर्य्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् । 9ab


इत्याग्नेये महापुराणे यात्रा नाम सप्तविंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 228

अथाष्टाविंशत्यधिकशततमो ऽध्यायः ।

स्वप्नाध्यायः ।
पुष्कर उवाच ।
स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा । 1ab
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ॥ 1cd
चूर्णं मूर्द्ध्नि कांस्यानां मुण्डनं नग्नता तथा । 2ab
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥ 2cd
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च । 3ab
तन्त्रीवाद्यविनोदश्च दोलारोहणमेव च ॥ 3cd
अर्जनं पद्मलोहानां सर्पाणामथ मारणं । 4ab


1 शरद्यथेति ञ॰ , ट॰ च ।
Image-P.330


रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ॥ 4cd
वराहश्वखरोष्ट्राणां तथा चारोहणक्रिया । 5ab
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च 1 5cd
मातुः प्रवेशो जठरे चितारोहणमेव च । 6ab
शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ॥ 6cd
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं । 7ab
देवद्विजातिभूपानां गुरूणाङ्कोप एव च ॥ 7cd
नर्त्तनं हसनञ्चैव विवाहो गीतमेव च 2 8ab
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ॥ 8cd
स्रोतोवहाधोगमनं स्नानं गोमयवारिणा । 9ab
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ॥ 9cd
आलिङ्गनं कुमारीणां पुरुषाणाञ्च मैथुनं 3 10ab
हानिश्चैव स्वगात्राणां विरेको वमनक्रिया ॥ 10cd
दक्षिणाशाप्रगमनं व्याधिनाभिभवस्तथा । 11ab
फलानामुपहानिश्च धातूनां भेदनं तथा ॥ 11cd
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा । 12ab
क्रीडा पिशाचक्रव्यादवानरान्त्यनरैरपि ॥ 12cd
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । 13ab
काषायवस्त्रधारित्वं तद्वस्त्रैः क्रीडनं तथा 4 13cd


1 तन्त्रीवाद्यविनोदश्चेत्यादिः, तैलस्य कृशरस्य चेत्यन्तः पाठः छ॰ , झ॰ पुस्तकद्वये नास्ति ।
2 विवाहोत्सव एव चेति ज॰ ।
3 तासामेव च मैथुनमिति ज॰ ।
4 हानिश्चैवेत्यादिः. क्रीडनं तथेत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.331


स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं । 14ab
इत्यधन्यानि स्वप्नानि तेषामकथनं शुभं ॥ 14cd
भूयश्च स्वपनं तद्वत् कार्य्यां स्नानं द्विजार्च्चनं । 15ab
तिलैर्होमो हरिब्रह्मशिवार्कगणपूजनं ॥ 15cd
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस्तथा । 16ab
स्वप्नास्तु प्रथमे यामे 1 संवत्सरविपाकिनः ॥ 16cd
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैर्त्रियामिकाः । 17ab
चतुर्थे त्वर्द्धमासेन दशाहादरुणोदये ॥ 17cd
एकस्यामथ चेद्रात्रौ शुभं वा यदि वा ऽशुभं । 18ab
पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥ 18cd
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते । 19ab
शैलप्रासादनागाश्ववृषभारोहणं हितं ॥ 19cd
द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज । 20ab
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ॥ 20cd
तथा च बहुशीर्षत्वं पलितोद्भव एव च । 21ab
सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥ 21cd
चन्द्रार्कताराग्रहणं परिमार्जनमेव च । 22ab
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ॥ 22cd
भूम्यबुधाराग्रहणं 2 शत्रूणाञ्चैव विक्रिया । 23ab
जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज ॥ 23cd
भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं । 24ab
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥ 24cd


1 प्रथमे भागे इति ख॰ ।
2 भूम्यम्बुधीनां ग्रहणमिति क॰ , छ॰ , ञ॰ च ।
Image-P.332


सुरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ । 25ab
अस्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ॥ 25cd
मुखेन दोहनं शस्तं महिषीणां तथा गवां । 26ab
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ॥ 26cd
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा द्विज । 27ab
अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च ॥ 27cd
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् । 28ab
राज्याभिषेकश्च तथा छेदनं शिरसो ऽप्यथ ॥ 28cd
मरणं वह्निलाभश्च वह्निदाहो गृहादिषु । 29ab
लब्धेश्च राजलिङ्गानां तन्त्रीवाद्याभिवादनं ॥ 29cd
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं । 30ab
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्द्धते ॥ 30cd
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं । 31ab
घृतविष्ठानुलेपो वा अगम्यागमनं तथा ॥ 31cd
सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभो ऽमलं ॥ 32॥ 32ab


इत्याग्नेये महापुराणे स्वप्नाध्यायी नाम अष्टाविंशत्यधिकद्विशततमो ऽध्यायः ॥

Chapter 229

अथ एकोनत्रिंशदधिकद्विशततमो ऽध्यायः ।

शकुनानि ।
पुष्कर उवाच ।
औषधानि च युक्तानि धान्यं कृष्णमशोभनं । 1ab
कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च ॥ 1cd
Image-P.333


अङ्गारं गुडसर्जौ च 1 मुण्डाभ्यक्तञ्च नग्नकं । 2ab
अयः पङ्कं चर्म्मकेशौ उन्मत्तञ्च नपुंसकं ॥ 2cd
चण्डालश्वपचाद्यानि नरा बन्धनपालकाः । 3ab
गर्भिणी स्त्री च विधवाः पिण्याकादीनि वै मृतं ॥ 3cd
तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं । 4ab
अशस्तो वाद्यशब्दश्च भिन्नभैरवझर्झरः ॥ 4cd
एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः । 5ab
गच्छेति पश्चाच्छब्दो ऽग्र्यः पुरस्तात्तु विगर्हितः ॥ 5cd
क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च । 6ab
अनिष्टशब्दा मृत्यर्थं क्रव्यादश्च ध्वजादिगः ॥ 6cd
स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च । 7ab
शिरोघातश्च द्वाराद्यैश्छत्रवासादिपातनं ॥ 7cd
हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं । 8ab
द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद्गृहं ॥ 8cd
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः । 9ab
मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ॥ 9cd
गावस्तुरङ्गमा नागा देवाश्च ज्वलितो ऽनलः । 10ab
दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ॥ 10cd
वचासिद्धार्थकौषध्यो मुद्ग आयुधखड्गकं । 11ab
छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ॥ 11cd
फलं घृटं दधि पयो अक्षतादर्शमाक्षिकं । 12ab
शङ्ख इक्षुः शुभं वाक्यं भक्तवादितगीतकं ॥ 12cd


1 गुडसर्पौ चेति ग॰ , घ॰ , ञ॰ च ।
Image-P.334


गम्भीरमेघस्तनितं तडित्तुष्टिश्च मानसी । 13ab
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥ 13cd


इत्याग्नेये महापुराणे माङ्गल्याध्यायो नाम एकोनत्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 230

अथ त्रिंशदधिकद्विशततमो ऽध्यायः ।

शकुनानि ।
पुष्कर उवाच ।
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं । 1ab
निवेदयन्ति शकुना देशस्य नगरस्य च ॥ 1cd
सर्वः पापफलो दीप्तो निर्द्दिष्टो दैवचिन्तिकैः । 2ab
शान्तः शुभफलश्चैव दैवज्ञैः समुदाहृतः ॥ 2cd
षट्प्रकारा विनिर्दिष्टा शकुनानाञ्च दीप्तयः । 3ab
वेलादिग्देशकरणरुतजातिविभेदतः ॥ 3cd
पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा । 4ab
दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ॥ 4cd
क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु । 5ab
धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ॥ 5cd
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता । 6ab
एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथापराः ॥ 6cd
Image-P.335


दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्त्तितं । 7ab
ग्रामो ऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ॥ 7cd
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः । 8ab
क्रियादीप्तो विनिर्द्दिष्टः स्वजात्यनुचितक्रियः ॥ 8cd
रुतदीप्तश्च कथितो भिन्नभैरवनिस्वनः । 9ab
जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ॥ 9cd
दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर्भेदैः प्रयत्नतः । 10ab
मिश्रैर्मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ॥ 10cd
गोश्वोष्ट्रगर्द्दभश्वानः सारिका गृहगोधिका । 11ab
चटका भासकूर्माद्याः कथिता ग्रामवासिनः ॥ 11cd
अजाविशुकनागेन्द्राः कोलो महिषवायसौ । 12ab
ग्राम्यारण्या विनिर्द्दिष्टाः सर्वे ऽन्ये वनगोचराः 1 12cd
मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ । 13ab
तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः ॥ 13cd
गोकर्णशिखिचक्राह्वखरहारीतवायसाः । 14ab
कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ॥ 14cd
शतघ्नचटकश्यामचासश्येनकपिञ्जलाः । 15ab
तित्तिरः शतपत्रञ्च कपोतश्च तथा त्रयः ॥ 15cd
खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः । 16ab
भारद्वाजश्च सारङ्ग इति ज्ञेया दिवाचराः ॥ 16cd
वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः । 17ab
लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः ॥ 17cd


1 सर्वे ऽन्ये च वनेचरा इति झ॰ ।
Image-P.336


हंषाश्च मृगमार्जारनकुलर्क्षभुजङ्गमाः । 18ab
वृकारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः ॥ 18cd
श्वाविद्वृषभगोमायुवृककोकिलसारसाः । 19ab
तुरङ्गकौपीननरा गोधा ह्युभयचारिणः ॥ 19cd
बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः । 20ab
जयावहा विनिर्दिष्टाः पश्चान्निधनकारिणः ॥ 20cd
गृहाद्गम्य यदा चासो व्याहरेत् पुरुतः स्थितः । 21ab
नृपावमानं वदति वामः कलहभोजने ॥ 21cd
याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ । 22ab
चौरैर्मोषमथाख्याति मयूरो भिन्ननिस्वनः ॥ 22cd
प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् । 23ab
ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः ॥ 23cd
प्रतिलोमास्तथा राम खरश्च विकृत्रस्वनः । 24ab
वामः कपिञ्जलः श्रेष्ठस्तथा दक्षिणसंस्थितः ॥ 24cd
पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते । 25ab
एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः ॥ 25cd
भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः । 26ab
वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः 1 26cd
वाञ्छितार्थकरा ज्ञेया दक्षिणाद्वामतो गताः । 27ab
शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका ॥ 27cd
शूकरी परपुष्टा च पुन्नामानश्च वामतः । 28ab


1 प्रतिलोमास्तथेत्यादिः, सिंहमार्जारगर्दभा इत्यन्तः पाठः ज॰ झ॰ पुस्तकद्वये नास्ति ।
Image-P.337


स्त्रीसञ्ज्ञा भासकारूषकपिश्रीकर्णश्छित्कराः ॥ 28cd
कपिश्रीकर्णपिप्यीका 1 रुरुश्येनाश्च दक्षिणाः । 29ab
जातीक्षाहिशशक्रोडगोधानां कीर्त्तनं शुभं ॥ 29cd
ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः । 30ab
कार्य्यकृद्बली शकुनः प्रस्थितस्य हि यो ऽन्वहं ॥ 30cd
भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः । 31ab
मत्ता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च ॥ 31cd
सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज । 32ab
एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर्भवेत् ॥ 32cd
पञ्चभिश्च तथा षड्भिरधन्या परिकीर्त्तिता । 33ab
सप्तभिश्च तथा धन्या निष्फला परतो भवेत् ॥ 33cd
नृणां रोमाञ्चजननी वाहनानां भयप्रदा । 34ab
ज्वालानला सूर्य्यमुखी विज्ञेया भयवर्द्धनी ॥ 34cd
प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं वदेत् । 35ab
संवत्सरं मनुष्यस्य अशुभे च शुभं तथा ॥ 35cd
तथाविधन्नरः पश्येत्सारङ्गं प्रथमे ऽहनि । 36ab
आत्मनश्च तथात्वेन ज्ञातव्यं वत्सरं फलं ॥ 36cd


इत्याग्नेये महापुराणे शकुनानि नाम त्रिंशदधिकद्विशततमो ऽध्यायः ॥


1 पुन्नामानश्चेत्यादिः, पिप्पीका इत्यन्तः पाठो ऽस्मलब्धेषु नवपुस्तकेषु प्रायः समान एव । तेषामेकतमस्यापि साहाय्येन शोधितुं न स शक्यते । अभिधानादिष्वपि तत्रत्यशब्दा नोपलभ्यन्ते । अतस्तत्र विरतिः ।
Image-P.338


Chapter 231

अथैकत्रिंशदधिकद्विशततमो ऽध्यायः ।

शकुनानि ।
पुष्कर उवाच ।
विशन्ति येन मार्गेण वायसा बहवः पुरं । 1ab
तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत् ॥ 1cd
सेनायां यदि वासार्थे निविष्टो वायसो रुवन् । 2ab
वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं 1 2cd
छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने । 3ab
मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं ॥ 3cd
प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं । 4ab
रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः ॥ 4cd
न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं । 5ab
पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव ॥ 5cd
यच्चैवोपनयेद् द्रव्यं तस्य लब्धिं विनिर्दिशेत् । 6ab
द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत् ॥ 6cd
पुरतो धनलब्धिः स्यादाममांसस्य छर्दने । 7ab
भूलब्धिः स्यान् मृदः क्षेपे राज्यं रत्नार्पणे महत् ॥ 7cd
यातुः काको ऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् । 8ab
न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥ 8cd
सम्मुखे ऽभ्येति विरुवन् यात्राघातकरो भवेत् । 9ab
वामः काकः स्मृतो धन्यो दक्षिणो ऽर्थविनाशकृत् 2 9cd


1 दुष्करमिति ख॰ , छ च ।
2 दक्षिणो ऽन्नविनाशकृदिति ग॰ , घ॰ , ञ॰ च ।
Image-P.339


वामो ऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः । 10ab
प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत् ॥ 10cd
निवेदयति यात्रार्थमभिप्रेतं गृहे गतः 1 11ab
एकाक्षिरचरणस्त्वर्कं वीक्षमाणो भयावहः ॥ 11cd
कोटरे वासमानश्च महानर्थकरो भवेत् । 12ab
न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते ॥ 12cd
अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः 2 13ab
ज्ञेयाः पतत्रिणो ऽन्ये ऽपि काकवद् भृगुनन्दन ॥ 13cd
स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः । 14ab
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥ 14cd
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् । 15ab
यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये ॥ 15cd
भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं । 16ab
यात्राघातकरो यातुर्भवेत् प्रतिमुखागतः ॥ 16cd
मार्गावरोधको मार्गे चौरान् वदति भार्गव । 17ab
अलाभो ऽस्थिमुखः पापो रज्जुचीरमुखस्तथा ॥ 17cd
सोपानत्कमुखो धन्यो मांसपूर्णमुखो ऽपि च । 18ab
अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा ॥ 18cd
अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् । 19ab
यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं ॥ 19cd


1 नन्त्वर्थसाधक इत्यादिः, गृहे गत इत्यन्तः पाठः ट॰ पुस्तके नास्ति ।
2 कोटरे इत्यादिः सर्वार्थसाधक इत्यन्तः पाठः ट॰ पुस्तके नास्ति ।
Image-P.340


मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये । 20ab
श्ववच्च राम विज्ञेयास्तथा वै जम्बुकादयः ॥ 20cd
भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां । 21ab
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥ 21cd
शिवाय स्वामिनो रात्रौ बलीवर्द्दो नदन् भवेत् । 22ab
उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति ॥ 22cd
अभयं भक्षयन्त्यश्च गावो दत्तास्तथा स्वकाः । 23ab
त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः ॥ 23cd
भूमिं पादैर्विनिघ्नन्त्यो दीना भीता भयावहाः । 24ab
आर्द्राङ्ग्यो हृष्टरोमाश्च शृङ्गलग्नमृदः शुभाः ॥ 24cd
महिष्यादिषु चाप्येतत् सर्वं वाच्यं विजानता । 25ab
आरोहणं तथा ऽन्येन सपर्य्याणस्य 1 वाजिनः ॥ 25cd
जलोपवेशनं नेष्टं भूमौ च परिवर्त्तनं । 26ab
विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः ॥ 26cd
यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते । 27ab
वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते ॥ 27cd
क्रीडन् वैकः कपोतैश्च सारिकाभिर्मृतिं वदेत् । 28ab
साश्रुनेत्रो जिह्वया च पादलेही विनष्टये 2 28cd
वामपादेन च तथा विलिखंश्च वसुन्धरां । 29ab
स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः ॥ 29cd
भयाय स्यात् सकृन्मूत्री तथा निद्राविलाननः । 30ab


1 सपर्यार्हस्येति साधुः ।
2 विनाशकृदिति ज॰ , ट॰ च ।
Image-P.341


आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् ॥ 30cd
यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् । 31ab
हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः ॥ 31cd
ग्रामे व्रजति नागश्चेन् मैथुनं देशहा भवेत् । 32ab
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ॥ 32cd
आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् । 33ab
मदं वा वारणो जह्याद्राजघातकरो भवेत् ॥ 33cd
वामं दक्षिणपादेन पादमाक्रमते शुभः । 34ab
दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च ॥ 34cd
वृषो ऽश्वः कुञ्जरो वापि रिपुसैन्यगतो ऽशुभः । 35ab
खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात् ॥ 35cd
प्रतिकूलग्रहर्क्षात्तुतथा सम्मुखमारुतात् 1 36ab
यात्राकाले रणे वापि छत्रादिपतनं भयं ॥ 36cd
हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं । 37ab
काकैर्योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः ॥ 37cd
प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक् ॥ 38॥ 38ab


इत्याग्नेये महापुराणे शकुनानि नाम एकत्रिंशदधिकद्विशततमो ऽध्यायः ॥


1 वामं दक्षिणेत्यादिः, सम्मुखमारुतादित्यन्तः पाठः झ॰ पुस्तके नास्ति ।
Image-P.342


Chapter 232

अथ द्वात्रिंशदधिकद्विशततमो ऽध्यायः ।

यात्रामण्डलचिन्तादिः ।
पुष्कर उवाच ।
सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् । 1ab
अस्तङ्गते नीचगते विकले रिपुराशिगे ॥ 1cd
प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत् 1 2ab
प्रतिलोमे बुधे यात्रां दिक्पतौ च तथा च ग्रहे ॥ 2cd
वैधृतौ च व्यतीपाते नागे च शकुनौ तथा । 3ab
चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत् ॥ 3cd
विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि । 4ab
गण्डे विवर्जयेद्यात्रां रिक्तायाञ्च तिथावपि ॥ 4cd
उदीची च तथा प्राची 2 तयोरैक्यं प्रकीर्त्तितं । 5ab
पश्चिमा दक्षिणा या दिक् तयोरैक्यं तथैव च ॥ 5cd
वाय्वग्निदिक्समुद्भूतं परिघन्न तु लङ्घयेत् । 6ab
आदित्यचन्द्रशौरास्तु दिवसाश्च न शोभनाः ॥ 6cd
कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः । 7ab
मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक् ॥ 7cd
सर्वद्वाराणि शस्तानि छायामानं वदामि ते । 8ab
आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्त्तिताः ॥ 8cd
भौमे पञ्चदशैवोक्ताश्चतुर्दश तथा बुधे । 9ab


1 विवर्जयेत् इति ख॰ , ग॰ , घ॰ , ञ॰ च ।
2 दिक् पूर्वा या तथोदीचीति ज॰ ।
Image-P.343


त्रयोदश तथा जीये शुक्रे द्वादश कीर्त्तिताः ॥ 9cd
एकादश तथा सौरे सर्वकर्मसु कीर्त्तिताः । 10ab
जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः ॥ 10cd
शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् । 11ab
वक्ष्ये मण्डलचिन्तान्ते कर्त्तव्यं राजरक्षणं ॥ 11cd
स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च । 12ab
मित्रञ्जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ 12cd
सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत् । 13ab
मण्डलेषु च सर्वेषु वृद्धिः कार्य्या महीक्षिता ॥ 13cd
आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् । 14ab
सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥ 14cd
उपेतस्तु सुहृज् ज्ञेयः शत्रुमित्रमतः परं । 15ab
मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः ॥ 15cd
एतत्पुरस्तात् कथितं पश्चादपि निबोध मे । 16ab
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते 1 16cd
आसारस्तु ततो ऽन्यः स्यादाक्रन्दासार उच्यते । 17ab
जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज ॥ 17cd
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव । 18ab
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्त्तितः ॥ 18cd
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् । 19ab
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥ 19cd


1 मण्डलेषु च सर्वेषु सुरेश्वरसमा हि ते इत्यर्द्धश्लोक आसारस्त्वित्यस्य पूर्वं ट॰ पुस्तके वर्त्तते, परन्त्वसंलग्नः ।
Image-P.344


न कस्यचिद्रिपुर्म्मित्रङ्कारणाच्छत्रुमित्रके । 20ab
मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं ॥ 20cd
त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः । 21ab
पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥ 21cd
अनन्तरो ऽपि यः शत्रुः सो ऽपि मे कृत्रिमो मतः । 22ab
पार्ष्णिग्राहो भवेच्छत्रोर्मित्राणि रिपवस्तथा ॥ 22cd
पार्ष्णिग्राहमुपायैश्च शमयेच्च तथा स्वकं । 23ab
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥ 23cd
मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं । 24ab
शत्रुं जिगोषुरुच्छिन्द्यात् 1 स्वयं शक्नोति चेद्यदि ॥ 24cd
प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं । 25ab
यथास्य नोद्विजेल्लोको विश्वासश्च यथा भवेत् ॥ 25cd
जिगीषुर्धर्म्मविजयी तथा लोकं वशन्नयेत् । 26ab


इत्याग्नेये महाoपुराणे यात्रामण्डलचिन्तादिर्नाम द्वात्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 233

अथ त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः ।

षाड्गुण्यं ।
पुष्कर उवाच ।
सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च । 1ab
दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते ॥ 1cd


1 शत्रुं जिहीर्षुरुच्छिन्द्यादिति घ॰ , ञ॰ च ।
Image-P.345


प्रकाशश्चाप्रकाशश्च द्विविधो दण्ड उच्यते । 2ab
लुण्ठनं ग्रामघातश्च शस्यघातो ऽग्निदीपनं ॥ 2cd
प्रकाशो ऽथ विषं वह्निर्विविधैः पुरुषैर्बधः । 3ab
दूषणञ्चैव साधूनामुदकानाञ्च दूषणं ॥ 3cd
दण्डप्रणयणं प्रोक्तमुपेक्षां शृणु भार्गव । 4ab
यदा मन्यते नृपती रणे न मम विग्रहः ॥ 4cd
अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् । 5ab
सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं ॥ 5cd
भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् । 6ab
न चायं मम शक्नोति किञ्चित् कर्त्तुमुपद्रवं ॥ 6cd
न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् । 7ab
अवज्ञोपहतस्तत्र राज्ञा कार्य्यो रिपुर्भवेत् ॥ 7cd
मायोपायं प्रवक्ष्यामि उत्पातैरनृतैश्चरत् । 8ab
शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः ॥ 8cd
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज । 9ab
विसृजेच्च ततश्चैवमुल्कापातं प्रदर्शयेत् ॥ 9cd
एवमन्ये दर्शनीया उत्पाता बहवो ऽपि च । 10ab
उद्वेजनं तथा कुर्य्यात् कुहकैर्विविधैर्द्विषां ॥ 10cd
सांवत्सरास्तापसाश्च नाशं ब्रूयुः प्ररस्य च । 11ab
जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान् ॥ 11cd
देवतानां प्रसादश्च कीर्त्तनीयः परस्य तु । 12ab
आगतन्नो ऽमित्रबलं प्रहरध्वमभीतवत् ॥ 12cd
एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति । 13ab
Image-P.346


क्ष्वेडाः किलकिलाः कार्य्या वाच्यः शत्रुर्हतस्तथा ॥ 13cd
देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति । 14ab
इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् ॥ 14cd
चतुरङ्गं बलं राजा सहायार्थं दिवौकसां । 15ab
बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चेन्द्रपौ ॥ 15cd
छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत् 1 16ab
षाड्गुण्यं सम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ॥ 16cd
सन्धिश्च विग्रहश्चैव यानमासनमेव च । 17ab
द्वैधीभावः संशयश्च षड्गुणाः परिकीर्त्तिताः ॥ 17cd
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः । 18ab
जिगीषोः शत्रुविषये यानं यात्रा ऽभिधीयते ॥ 18cd
विग्रहेण स्वके देशे स्थितिरासनमुच्यते । 19ab
बलार्द्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ॥ 19cd
उदासीनो मध्यमो वा संश्रयात्संशयः स्मृतः । 20ab
समेन सन्धिरन्वेष्यो ऽहीनेन च बलीयसा ॥ 20cd
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा । 21ab
तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ॥ 21cd
आसीनः कर्मविच्छेदं शक्तः कर्त्तुं रिपोर्यदा । 22ab
अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ॥ 22cd
अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् । 23ab
बलिना विगृहीतस्तु 2 यो ऽसन्देहेन पार्थिवः ॥ 23cd
संश्रयस्तेन वक्तव्यो गुणानामधमो गुणः । 24ab


1 प्रासादाग्रे प्रदर्शयेदिति ट॰ ।
2 विगृहीतस्तु इति ख॰ ।
Image-P.347


बहुक्षयव्ययायासं 1 तेषां यानं प्रकीर्त्तितं ॥ 24cd
बहुलाभकरं पश्चात्तदा राजा समाश्रयेत् 2 25ab
सर्वशक्तिविहीनस्तु तदा कुर्य्यात्तु संश्रयं ॥ 25cd


इत्याग्नेये महापुराणे उपायषड्गुणादिर्नाम त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 234

अथ चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः ।

प्रात्यहिकराजकर्म ।
पुष्कर उवाच ।
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् । 1ab
द्विमुहूर्त्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ॥ 1cd
वाद्यवन्दिस्वनैर्गीतैः पश्येद् गूढांस्ततो नरान् । 2ab
विज्ञायते न ये लोकास्तदीया इति केनचित् ॥ 2cd
आयव्ययस्य श्रवणं ततः कार्य्यं यथाविधि । 3ab
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ॥ 3cd
स्नानं कुर्य्यान्नृपः पश्चाद्दन्तधावनपूर्वकं । 4ab
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ॥ 4cd
वह्नौ पवित्रान् जुहुयात् तर्पयेदुदकैः पितॄन् । 5ab


1 बहुक्षयव्ययायाममिति ख॰ , छ॰ , ट॰ च ।
2 आसीनः कर्मविच्छेदमित्यादिः, राजा समाश्रयेदित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
Image-P.348


दद्यात्सकाञ्चीं धेनुं द्विजाशीर्वादसंयुतः ॥ 5cd
अनुलिप्तो ऽलङ्कृतश्च मुखं पश्येच्च दर्पणे । 6ab
ससुवर्णे धृते राजा शृणुयाद्दिवसादिकं ॥ 6cd
औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् । 7ab
पश्येद् गुरुं तेन दत्ताशीर्वदो ऽथ व्रजेत्सभां ॥ 7cd
तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा । 8ab
प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ॥ 8cd
श्रुत्वेतिहासं कार्य्याणि कार्य्याणां कार्य्यनिर्णयम् । 9ab
व्यवहारन्ततः पश्येन्मन्त्रं कुर्य्यात्तु मन्त्रिभिः ॥ 9cd
नैकेन सहितः कुर्य्यान्न कुर्य्याद्बहुभिः सह । 10ab
न च मूर्खैर्न्नचानाप्तैर्गुप्तं न प्रकटं चरेत् 1 10cd
मन्त्रं स्वधिष्ठितं कुर्य्याद्येन राष्ट्रं न बाधते । 11ab
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता 2 11cd
आकारैरिङ्गितैः प्रज्ञा मन्त्रं गृह्णन्ति पण्डिताः । 12ab
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः ॥ 12cd
राजा विभूतिमाप्नोति 3 धारयन्ति नृपं हि ते । 13ab
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ॥ 13cd
निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितम् । 14ab
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ॥ 14cd


1 गुप्तं चाप्रकटं चरेदिति ग॰ , ज॰ , ट॰ च ।
2 आकार ग्रहणे राज्ञो मन्त्ररक्षा परा मता इत्यस्य स्थाने आकारेङ्गिततत्त्वज्ञः कार्य्याकार्य्यविचक्षण इति ट॰ पुस्तके पाठः ।
3 राजाधिभूतिमाप्नोतीति ज॰ ।
Image-P.349


भूषितो भोजनङ्कुर्य्याद् दानाद्यैः सुपरीक्षितं । 15ab
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः 1 15cd
शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं । 16ab
अन्वास्य पश्चिमां सन्ध्यां कार्य्याणि च विचिन्त्य तु ॥ 16cd
चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् । 17ab
वाद्यगीतैरक्षितो ऽन्यैरेवन्नित्यञ्चरेन्नृपः ॥ 17cd


इत्याग्नेये महापुराणे आजस्रिकं नाम चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 235

अथ पञ्चत्रिंशदधिकद्विशततमो ऽध्यायः ।

रणदीक्षा ।
पुष्कर उवाच ।
यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं । 1ab
सप्ताहेन यदा यात्रा भविष्यति महीपतेः ॥ 1cd
पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः । 2ab
द्वितीये ऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत् ॥ 2cd
शय्यायां वा तदग्रे ऽथ देवान् प्रार्च्य मनुं स्मरेत् । 3ab
नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च ॥ 3cd
वामनाय विरूपाय स्वप्नाधिपतये नमः । 4ab


1 संविशेदिति ज॰ ।
Image-P.350


भगवन्देवदेवेश शूलभृद्वृषवाहन ॥ 4cd
इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत । 5ab
यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत् ॥ 5cd
तृतीये ऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् । 6ab
ग्रहान् यजेच्चतुर्थे ऽह्नि पञ्चमे चाश्विनौ यजेत् ॥ 6cd
मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं । 7ab
दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः ॥ 7cd
रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं । 8ab
भद्रकाल्याः श्रियः कुर्य्यात् प्रार्थयेत् सर्वदेवताः ॥ 8cd
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । 9ab
नारायणो ऽब्जजो विष्णुर्न्नारसिंहो वराहकः ॥ 9cd
शिव ईशस्तत्पुरुषो 1 ह्यघोरो राम सत्यजः 2 10ab
सूर्य्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश्चराः ॥ 10cd
राहुः केतुर्गणपतिः सेनानी चण्डिका ह्युमा । 11ab
लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः ॥ 11cd
रुद्रा इन्द्रादयो वह्निर्न्नागास्तार्क्ष्यो ऽपरे सुराः । 12ab
दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे ॥ 12cd
मर्दयन्तु रणे शत्रून् 3 सम्प्रगृह्योपहारकं । 13ab
सपुत्रमातृभृत्यो ऽहं 4 देवा वः शरणङ्गतः ॥ 13cd


1 तत्पुरत इति ख॰।
2 रात्रावित्यादिः, सत्यज इत्यन्तः पाठः ग॰ पुस्तके नास्ति ।
3 मर्दयन्तु च मे शत्रूनिति घ॰ , ञ॰ च ।
4 अवन्तु मां स्वभृत्यो ऽहमिति ज॰ , ट॰ च ।
Image-P.351


चमूनां पृष्ठतो गत्वा रिपुनाशा नमो ऽस्तु वः 1 14ab
विनिवृत्तः प्रदास्यामि 2 दत्तादभ्यधिकं बलिं ॥ 14cd
षष्ठे ऽह्नि विजयस्नानं कर्त्तव्यं चाभिषेकवत् । 15ab
यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं ॥ 15cd
नीराजनोक्तमन्त्रैश्च आयुधं वाहनं यजेत् । 16ab
पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत् ॥ 16cd
दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश्च ते । 17ab
देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु 3 सा तव ॥ 17cd
रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपोव्रजेत् । 18ab
गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत ॥ 18cd
तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं । 19ab
दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात् ॥ 19cd
नागं रथं हयञ्चैव धुर्यांश्चैवारुहेत् क्रमात् । 20ab
आरुह्य वाद्यैर्गच्छेत् पृष्ठतो नावलोकयेत् ॥ 20cd
क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् । 21ab
परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन् ॥ 21cd
राजा प्राप्य देवेशन्तु 4 देशपालन्तु पालयेत् 5 22ab
देवानां पूजनं कुर्य्यान्न छिन्द्यादायमत्र तु ॥ 22cd
नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः । 23ab


1 चमूनां पृष्ठश्चैव रिपुनाशो भवेद्यथेति ट॰।
2 जित्वा शत्रुं प्रदास्यामीति ट॰ ।
3 जैत्रा यात्रास्त्विति ट॰ ।
4 प्राप्तविदेशस्तु इति ग॰ , घ॰ , ञ॰ च ।
5 देशाचारन्तु पालयेदिति ख॰ । देशाचारेण पालयेदिति ग॰ , घ॰ , छ॰ , ज॰ , ञ॰ च ।
Image-P.352


जयं प्राप्यार्च्चयेद्देवान् दद्याद्दानानि पार्थिवः ॥ 23cd
द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा । 24ab
स्नापयेद्गजमश्वादि यजेद्देवं नृपसिंहकं ॥ 24cd
छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् । 25ab
प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः ॥ 25cd
पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् । 26ab
गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत् ॥ 26cd
देशे त्वदृश्यः शत्रूणां कुर्य्यात् प्रकृतिकल्पनां । 27ab
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ॥ 27cd
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह । 28ab
व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कीर्त्तिताः ॥ 28cd
गरुडो मकरव्यूहश्चक्रः श्येनस्तथैव च । 29ab
अर्द्धचन्द्रश्च वज्रश्च शकटव्यूह एव च ॥ 29cd
मण्डलः सर्वतोभद्रः सूचीव्यूहश्च ते नराः । 30ab
व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ॥ 30cd
द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् । 31ab
एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत् ॥ 31cd
भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च । 32ab
न व्यूहकल्पना कार्य्या राज्ञो भवति कर्हिचित् ॥ 32cd
मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः । 33ab
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ॥ 33cd
भग्नसन्धारणं तत्र योधानां परिकीर्त्तितं । 34ab
प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते ॥ 34cd
Image-P.353


न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् । 35ab
आयुधानान्तु सम्मर्द्दो यथा न स्यात् परस्परं ॥ 35cd
भेत्तुकामः परानीकं संहतैरेव भेदयेत् । 36ab
भेदरक्ष्याः परेणापि कर्त्तव्याः संहतास्तथा ॥ 36cd
व्यूहं भेदावहं कुर्य्यात् परव्यूहेषु चेच्छया । 37ab
गजस्य पादरक्षार्थाश्चत्वारस्तु तथा द्विज ॥ 37cd
रथस्य चाश्वाश्चत्वारः समास्तस्य च चर्म्मिणः । 38ab
धन्विनश्चर्मिभिस्तुल्याः पुरस्ताच्चर्म्मिणो रणे ॥ 38cd
पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः । 39ab
रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता ॥ 39cd
पदातिकुञ्जराश्वानां धर्म्मकार्य्यं प्रयत्नतः । 40ab
शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं ॥ 40cd
कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं 1 41ab
दारयन्ति पुरस्तात्तु न देया भीरवः पुरः ॥ 41cd
प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः । 42ab
प्रांशवः शकनाशाश्च ये चाजिह्मेक्षणा 2 नराः ॥ 42cd
संहतभ्रूयुगाश्चैव क्रोधना कलहप्रियाः । 43ab
नित्यहृष्टाः प्रहृष्टाश्च शूरा ज्ञेयाश्च कामिनः ॥ 43cd
संहतानां हतानां च रणापनयनक्रिया 3 44ab
प्रतियुद्धं गजानाञ्च तोयदानादिकञ्च यत् ॥ 44cd


1 शत्रुविद्रावकारणमिति ख॰ , ग॰ , घ॰ , ञ॰ च ।
2 ये च जिह्मेक्षणा इति ख॰ , ग॰ , घ॰ , ञ॰ च ।
3 वलापनयनक्रियेति ज॰ ।
Image-P.354


आयुधानयनं चैव पत्तिकर्म्म विधीयते । 45ab
रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं ॥ 45cd
भेदनं संहतानाञ्च चर्मिणां कर्म्म कीर्त्तितं । 46ab
विमुखीकरणं युद्धे धन्विनां च तथोच्यते ॥ 46cd
दूरापसरणं यानं सुहतस्य तथोच्यते । 47ab
त्रासनं रिपुसैन्यानां रथकर्म्म तथोच्यते ॥ 47cd
भेदनं संहतानाञ्च भेदानामपि संहतिः । 48ab
प्राकारतोरणाट्टालद्रुमभङ्गश्च सद्गजे ॥ 48cd
पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा । 49ab
सकर्द्दमा च नागानां युद्धभूमिरुदाहृता ॥ 49cd
एवं विरचितव्यूहः कृतपृष्ठदिवाकरः । 50ab
तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः ॥ 50cd
योधानुत्तेजयेत्सर्व्वान्नामगोत्रावदानतः । 51ab
भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च ॥ 51cd
जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः । 52ab
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥ 52cd
शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते । 53ab
धातादिदुःखसहनं रणे तत् परमन्तपः ॥ 53cd
वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं । 54ab
स्वामी सुकृतमादत्ते भग्नानां विनिवर्त्तिनां ॥ 54cd
ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे । 55ab
त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये ॥ 55cd
अश्वमेधफलं प्रोक्तं शूराणामनिर्वर्त्तिनां । 56ab
Image-P.355


धर्म्मनिष्ठे जयो राज्ञि 1 योद्धव्याश्च समाः समैः ॥ 56cd
गजाद्यैश्च गजाद्याश्च न हन्तव्याः पलायिनः । 57ab
न प्रेक्षकाः प्रविष्टाश्च अशस्त्राः पतितादयः ॥ 57cd
शान्ते निद्राभिभूते च अर्द्धोत्तीर्णे नदीवने । 58ab
दुर्द्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् ॥ 58cd
बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति । 59ab
प्राप्तं मित्रं बलं भूरि नायको ऽत्र निपातितः ॥ 59cd
सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः । 60ab
विद्रुतानान्तु योधानां मुखं घातो विधीयते ॥ 60cd
धूपाश्च देया धर्म्मज्ञ तथा च परमोहनाः । 61ab
पताकाश्चैव सम्भारो वादित्राणां भयावहः ॥ 61cd
सम्प्राप्य विजयं युद्धे देवान्विप्रांश्च संयजेत् 2 62ab
रत्नानि राजगामीनि अमात्येन कृते रणे ॥ 62cd
तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश्च परस्य च । 63ab
शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत् ॥ 63cd
पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् । 64ab
ततश्च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं ॥ 64cd
देवादिपूजनं कुर्य्याद्रक्षेद्योधकुटुम्बकं । 65ab
संविभागं परावाप्तैः कुर्य्याद् भृत्यजनस्य च ॥ 65cd
रणादीक्षा मयोक्ता ते जयाय नृपतेर्ध्रुवा । 66ab


इत्याग्नेये महापुराणे रणदीक्षा नाम पञ्चत्रिंशधिकद्विशततमो ऽध्यायः ॥


1 धर्मनिष्ठो जयो नित्य इति ख॰ , छ॰ च ।
2 देवान् विप्रान् गुरून् यजेदिति घ॰ , ञ॰ च ।
Image-P.356


Chapter 236

अथ षट्त्रिंशदधिकद्विशततमो ऽध्यायः ।

श्रीस्तोत्रं ।
पुष्कर उवाच ।
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । 1ab
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥ 1cd
इन्द्र उवाच ।
नमस्ये सर्वलोकानां 1 जननीमब्धिसम्भवां 2 2ab
श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥ 2cd
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि । 3ab
सन्धया रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ॥ 3cd
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । 4ab
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ 4cd
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । 5ab
सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥ 5cd
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । 6ab
अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥ 6cd
त्वया देवि परित्यक्तं सकलं भुवनत्रयं । 7ab
विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥ 7cd
दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं । 8ab
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥ 8cd


1 सर्वभूतानामिति घ॰ , ज॰ , ञ॰ च ।
2 जवनीमम्बुसम्भवामिति ज॰ ।
Image-P.357


शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं 1 9ab
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ॥ 9cd
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता । 10ab
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥ 10cd
मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं । 11ab
मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥ 11cd
मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं । 12ab
त्यजेथा मम देवस्य 2 विष्णोर्वक्षःस्थलालये 3 12cd
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । 13ab
त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥ 13cd
त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । 14ab
कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ 14cd
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । 15ab
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ 15cd
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । 16ab
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ 16cd
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः । 17ab
प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥ 17cd
पुष्कर उवाच ।
एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चेप्सितं । 18ab
सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकं ॥ 18cd


1 क्षयः स्वयमिति ख॰ , ग॰ , घ॰ , झ॰ च । क्षयः शुभमिति छ॰ ।
2 देवदेवस्येति ट॰ ।
3 वक्षःस्थलाश्रये इति ख॰ , ग॰ , घ॰ , ञ॰ च ।
Image-P.358


स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं । 19ab
श्रीस्तोत्रं सततं तस्मात् पठेच्च शृणुयान्नरः ॥ 19cd


इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 237

अथ सप्तत्रिंशदधिकद्विशततमो ऽध्यायः ।

रामोक्तनीतिः ।
अग्निरुवाच ।
नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या । 1ab
जयाय तां प्रवक्ष्यामि शृणु धर्म्मादिवर्द्धनीं ॥ 1cd
राम उवाच ।
न्यानेनार्ज्जनमर्थस्य वर्द्धनं रक्षणं चरेत् । 2ab
सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधं ॥ 2cd
नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् । 3ab
विनयो हीन्द्रियजयस्तैर्युक्तः पालयेन्महीं ॥ 3cd
शास्त्रं प्रज्ञा धृतिर्द्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । 4ab
उत्साहो वाग्मितौदार्य्यमापत्कालसहिष्णुता 1 4cd
प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता । 5ab
कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ॥ 5cd
प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनं । 6ab


1 वागिमता दार्ढ्यमापत्कालसहिष्णुतेति ख॰ , घ॰ , ज॰ , झ॰ च ।
Image-P.359


ज्ञानाङ्कुशेन कुर्व्वीत वश्यमिन्द्रियदन्तिनं ॥ 6cd
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । 7ab
षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥ 7cd
आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च पार्थिवः । 8ab
तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः ॥ 8cd
आन्वीक्षिक्यार्थविज्ञानं धर्म्माधर्म्मौ त्रयीस्थितौ । 9ab
अर्थानर्थौ तु वार्त्तायां दण्डनीत्यां नयानयौ ॥ 9cd
अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । 10ab
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म्म उच्यते ॥ 10cd
प्रजाः समनुगृह्णीयात् कुर्य्यादाचारसंस्थितिं । 11ab
वाक् सूनृता दया दानं हीनोपगतरक्षणं 1 11cd
इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं । 12ab
आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ॥ 12cd
को हि राजा शरीराय धर्म्मापेतं समाचरेत् । 13ab
न हि स्वमुखमन्विच्छन् 2 पीडयेत् कृपणं जनं ॥ 13cd
कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवं । 14ab
क्रियते ऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः ॥ 14cd
ततः साधुतरः कार्यो दुर्जनाय शिवर्थिना । 15ab
प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च ॥ 15cd
देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः । 16ab
शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा ॥ 16cd


1 दीनोपगतरक्षणमिति ख॰ , घ॰ , छ॰ , ज॰ , ञ॰ , ट॰ च ।
2 स्वमुखमन्विच्छुरिति ख॰ , छ॰ च ।
Image-P.360


देवतावत् गुरुजनमात्मवच्च सुहृज्जनं । 17ab
प्रणिपातेन हि गुरुं सतो ऽमृषानुचेष्टितैः ॥ 17cd
कुर्व्वीताभिमुखान् भृत्यैर्द्देवान् सुकृतकर्म्मणा । 18ab
सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ॥ 18cd
स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येतरं जनं । 19ab
अनिन्दा परकृत्येषु स्वधर्म्मपरिपालनं ॥ 19cd
कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः । 20ab
प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ॥ 20cd
गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता । 21ab
स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः ॥ 21cd
अपरोपतापि वचनं मौनव्रतचरिष्णुता 1 22ab
बन्धभिर्बद्धसंयोगः स्वजने चतुरश्रता ॥ 22cd
उचितानुविधायित्वमिति वृत्तं महात्मनां ॥ 23॥ 23ab


इत्याग्नेये महापुराणे रामोक्तनीतिर्नाम सप्तत्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 238

अथाष्टत्रिंशदधिकशततमो ऽध्यायः ।

राजधर्माः ।
राम उवाच ।
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् । 1ab
परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥ 1cd


1 स्वसमृद्धिष्वित्यादिः, मौनव्रतचरिष्णुतेत्यन्तः ज॰ पुस्तके नास्ति ।
Image-P.361


राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा 1 2ab
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ॥ 2cd
अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता । 3ab
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ॥ 3cd
शक्यसामन्तता चैव तथा च दृढभक्तिता 2 4ab
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ॥ 4cd
विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः । 5ab
प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं ॥ 5cd
कुर्व्वीतात्सहिताङ्क्षी परिचारं महीपतिः । 6ab
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ॥ 6cd
नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः 3 7ab
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया 4 7cd
प्रवृत्तान्ववेक्षी च 5 सन्धिविग्रहतत्त्ववित् । 8ab
गूढ़मन्त्रप्रचारज्ञो देशकालविभागवित् ॥ 8cd
आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् । 9ab
क्रोधलोभभयद्रोहदम्भचापलवर्ज्जितः ॥ 9cd
परोपतापपैशून्यमात्सर्येर्षानृतातिगः । 10ab
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ॥ 10cd
गुणानुरागस्थितिमानात्मसम्पद्गुणाः स्मृताः । 11ab
कुलीनाः शुचयः शूराः श्रुतवन्तो ऽनुरागिणः 6 11cd


1 स्वाम्यमात्येत्यादिः, पालयेत् सदेत्यन्तः पाठः ग॰ पुस्तके नास्ति ।
2 तद्वच्च दृढभक्तितेति ग॰।
3 कृतशिल्पः स्ववग्रह इति घ॰ , ञ॰ च ।
4 सर्वदुष्टप्रतिग्रह इति ख॰ , घ॰ , छ॰ च ।
5 परच्छिद्रान्ववेक्षी चेति घ॰ , ञ॰ च ।
6 गुणवन्तो ऽनुगामिन इति ग॰ ।
Image-P.362


दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्म्महीपतेः । 12ab
सुविग्रहो जानपदः कुलशीलकलान्वितः ॥ 12cd
वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् । 13ab
स्तम्भचापलहीनश्च मैत्रः क्लेशसहः शुचिः ॥ 13cd
सत्यसत्त्वधृतिस्थैर्य्यप्रभावारोग्यसंयुतः । 14ab
कृतशिल्पश्च 1 दक्षश्च प्रज्ञावान् धारणान्वितः ॥ 14cd
दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् । 15ab
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः 2 15cd
दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता । 16ab
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ॥ 16cd
अथर्व्वदेवविहितं कुर्य्याच्छान्तिकपौष्टिकं । 17ab
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ॥ 17cd
चक्षुष्मत्तां च शिल्पञ्च परीक्षेत गुणद्वयं 3 18ab
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ॥ 18cd
परिकर्म्मसु दक्षञ्च विज्ञानं धारयिष्णुतां । 19ab
गुणत्रयं परीक्षेत प्रागलभ्यं प्रीतितां तथा 4 19cd
कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां । 20ab
उतसाहं च प्रभावं च तथा क्लेशसहिष्णुतां 5 20cd
धृतिं चैवानुरागं च स्थैर्य्यञ्चापदि लक्षयेत् । 21ab
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ॥ 21cd


1 कृतशीलश्चेति ज॰ ।
2 चिन्तको ज्ञाननिश्चय इति ग॰ ।
3 परीक्षेत गुणत्रयमिति ज॰ ।
4 प्रतिभां तथेति ज॰ ।
5 स्वजनेभ्य इत्यादिः, क्लेशसहिष्णुतामित्यन्तः पाठः छ॰ पुस्तके नास्ति ।
Image-P.363


संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च 1 22ab
अस्तब्धतामचापल्यं वैराणां चाप्यकीर्त्तनं ॥ 22cd
प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि । 23ab
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ॥ 23cd
शस्याकरवती पुण्या खनिद्रव्यसमन्विता । 24ab
गोहिता भूरिसलिला पुण्यैर्जनपदैर्युता ॥ 24cd
रम्या सकुञ्जरबला वारिस्थलपथान्विता । 25ab
अदेवमातृका चेति शस्यते भूरिभूतये ॥ 25cd
शूद्रकारुवणिक्प्रायो महारम्भः कृषी बलः । 26ab
सानुरागो रिपुद्वेषी पीड़ासहकरः पृथुः ॥ 26cd
नानादेश्यैः समाकीर्णो धार्म्मिकः पशुमान् बली । 27ab
ईदृक्जनपदः शस्तो ऽमूर्खव्यसनिनायकः 2 27cd
पृथुसीमं महाखातमुच्चप्राकारतोरणं 3 28ab
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ॥ 28cd
जलवद्धान्यधनवद्दुर्गं कालसहं महत् । 29ab
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ॥ 29cd
ईप्सितद्रव्यसम्पूर्णः पितृपैतामहोचितः । 30ab
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ॥ 30cd
पितृपैतामहो वश्यः संहतो दत्तवेतनः । 31ab
विख्यातपौरुषो जन्यः कुशुलः शकुनैर्वृतः ॥ 31cd
नानाप्रहणोपेतो नानायुद्धविशारदः । 32ab


1 सत्त्वमारोग्यं कुलमेव चेति ज॰ ।
2 मख्यव्यसननायक इति ग॰ ।
3 उच्चप्राकारगोपुरमिति घ॰ , ञ॰ च ।
Image-P.364


नानायोधसमाकीर्णौ नीराजितहयद्विपः ॥ 32cd
प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः । 33ab
अद्वैधक्षत्रियप्रायो दण्डो दण्डवतां मतः ॥ 33cd
योगविज्ञानसत्त्वाढ्यं महापक्षं प्रियम्बदं । 34ab
आयतिक्षममद्वैधं मित्रं कुर्वीत सत्कुलं 1 34cd
दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा । 35ab
वाक् सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ॥ 35cd
धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं । 36ab
औरसं तत्र सन्नद्धं 2 तथा वंशक्रमागतं ॥ 36cd
रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं । 37ab
मित्रे गुणाः सत्यताद्याः समानसुखदुःखता ॥ 37cd
वक्ष्ये ऽनुजीविनां वृत्ते सेवी सेवेत भूपतिं । 38ab
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ॥ 38cd
सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं । 39ab
यथाकालमुपासीत राजानं सेवको नयात् ॥ 39cd
परस्थानगमं क्रौर्य्यमौद्धत्यं मत्सरन्त्यजेत् । 40ab
विगृह्य कथनं भृत्यो न कुर्य्याज् ज्यायसा सह ॥ 40cd
गुह्यं मर्म्म च मन्त्रञ्च न च भर्त्तुः प्रकाशयेत् । 41ab
रक्ताद् वृत्तिं समीहेत विरक्तं सन्त्यजेन्नृपं ॥ 41cd
अकार्य्ये प्रतिषेधश्च कार्य्ये चापि प्रवर्त्तनं । 42ab
सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनां ॥ 42cd


1 मित्रं कुर्वीत सत्क्रियमिति ज॰ ।
2 तत्र सम्बद्धमिति ग॰ ।
Image-P.365


आजीव्यः सर्व्वसत्त्वानां राजा पर्जन्यवद्भवेत् । 43ab
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ॥ 43cd
कुर्यादुद्योगसम्पन्नानध्यक्षान् सर्वकर्म्मसु । 44ab
कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ॥ 44cd
खन्याकरबलादानं शून्यानां च निवेशनं । 45ab
अष्टवर्गमिमं राजा साधुवृत्तो ऽनुपालयेत् ॥ 45cd
आमुक्तिकेभ्यश्चौरेभ्यः पौरेभ्यो राजवल्लभात् । 46ab
पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं ॥ 46cd
अवेक्ष्यैतद्भयं काले आददीत करं नृपः । 47ab
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च 1 रक्षयेत् 2 47cd
दण्डांस्त दण्डयेद्राजा स्वं रक्षेच्च विषादितः । 48ab
स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ॥ 48cd


इत्याग्नेये महापुराणे राजधर्म्मो नाम अष्टत्रिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 239

अथोनचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

षाड्गुण्यं ।
राम उवाच ।
मण्डलं चिन्तयेत् मुख्यं राजा द्वादशराजकं । 1ab
अरिर्म्मित्रमरेर्म्मित्रं मित्रमित्रमतः परं ॥ 1cd


1 राज्यं राष्ट्रञ्चेति ख॰ , छ॰ , ञ॰ च ।
2 लक्षयेदिति ज॰ ।
Image-P.366


तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः 1 2ab
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥ 2cd
आसारावनयोश्चैवं विजगीषाश्च मण्डलं । 3ab
अरेश्चविजिगीषोश्च मध्यमो भूम्यनन्तरः ॥ 3cd
अनुग्रहे संहतयोर्न्निग्रहे व्यस्तयोः प्रभुः । 4ab
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥ 4cd
अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः । 5ab
सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥ 5cd
बलवद्विग्रहीतेन सन्धिं कुर्य्याच्छिवाय च । 6ab
कपाल उपहारश्च सन्तानः सङ्गतस्तथा ॥ 6cd
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः । 7ab
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥ 7cd
परिक्रमस्तथा छिन्नस्तथा च परदूषणं । 8ab
स्कन्धोपयेयः सन्धिश्च सन्धयः षोडशेरिताः ॥ 8cd
परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा 2 9ab
उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः ॥ 9cd
बालो वृद्धो दीर्घरोगस्तथा बन्धुवहिष्कृतः । 10ab
भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ 10cd
विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् । 11ab
अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ 11cd
दैवोपहतकश्चैव दैवनिन्दक एव च । 12ab
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ 12cd


1 पुरःस्थिता इति ख॰ , छ॰ च ।
2 मैत्रः सुखकरस्तथेति ग॰ ।
Image-P.367


स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश्च ह । 13ab
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ 13cd
एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं । 14ab
परस्परापकारेण पुंसां भवति विग्रहः ॥ 14cd
आत्मनो ऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा । 15ab
देशकालबलोपेतः प्रारभेतेह विग्रहं 1 15cd
राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च । 16ab
अपहारी 2 मदो मानः पीडा वैषयिकी तथा ॥ 16cd
ज्ञानात्मशक्तिधर्माणां 3 विघातो दैवमेव च । 17ab
मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनं ॥ 17cd
भूतानुग्रहविच्छेदस्तथा मण्डलदूषणं । 18ab
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥ 18cd
सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं । 19ab
वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् ॥ 19cd
किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च । 20ab
तदात्वे दोषजननमायत्याञ्चैव निष्फलं ॥ 20cd
आयत्याञ्च तदात्वे च दोषसञ्जननं तथा । 21ab
अपरिज्ञातवीर्य्येण परेण स्तोभितो ऽपि वा ॥ 21cd
परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह । 22ab
अकालदैवयुक्तेन बलोद्धतसखेन च ॥ 22cd


1 आत्मन इत्यदिः, विग्रहमित्यन्तः पाठः ग॰पुस्तके नास्ति ।
2 अवहार इति घ॰ ।
3 ज्ञानार्थशक्तिधर्माणामिति ञ॰ ।
Image-P.368


तदात्वे फलसंयुक्तमायत्यां फलवर्जितं । 23ab
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ॥ 23cd
इतीमं षोडशविधन्नकुर्यादेव विग्रहं । 24ab
तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् ॥ 24cd
हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं । 25ab
मित्रमाक्रन्द आसारो यदा स्युर्द्दृढभक्तयः ॥ 25cd
परस्य विपरीतञ्च तदा विग्रहमाचरेत् । 26ab
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ॥ 26cd
उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतं । 27ab
परस्परस्य सामर्थ्यविघातादासनं स्मृतं ॥ 27cd
अरेश्च विजगीषोश्च यानवत् पञ्चधा स्मृतं । 28ab
बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् ॥ 28cd
द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः । 29ab
उभयोरपि सम्पाते सेवेत बलवत्तरं ॥ 29cd
यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ । 30ab
तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत् 1 30cd
उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः । 31ab
कुलोद्धतं सत्यमार्य्यमासेवेत बलोत्कटं 2 31cd
तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता । 32ab
तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं ॥ 32cd


इत्याग्नेये महापुराणे षाड्गुण्यं नाम एकोनचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥


1 उभयोरित्यादिः, स्वयं व्रजेदित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
2 बलोत्करमिति ग॰ , घ॰ , ज॰ , ञ॰ च ।
Image-P.369


Chapter 240

अथ चत्वारिंशदधिकद्विशततमो ऽध्यायः ।

समादिः ।
राम उवाच ।
प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते । 1ab
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥ 1cd
मन्त्रयेतेह कार्य्याणि नानाप्तैर्न्नाविपश्चिता । 2ab
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ॥ 2cd
अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । 3ab
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं ॥ 3cd
सहायाः साधनोपाया विभागो देशकालयोः । 4ab
विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते 1 4cd
मनःप्रसादः श्रद्धा च तथा करणपाटवं । 5ab
सहायोत्थानसम्पच्च कर्म्मणां सिद्धिलक्षणं ॥ 5cd
मदः प्रमादः कामश्च सुप्तप्रलपितानि च । 6ab
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा ॥ 6cd
प्रगल्भः स्मृतिमान्वाग्मीशस्त्रे शास्त्रे च निष्ठितः । 7ab
अभ्यस्तकर्म्मा नृपतेर्दूतो भवितुमर्हति ॥ 7cd
निसृष्टार्थो मितार्थश्च तथा शासनहारकः 2 8ab
सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः ॥ 8cd
नाविज्ञातं पुरं शत्रोः प्रविशेच्च न शंसदं । 9ab


1 नय इष्यते इति ख॰ , घ॰ च ।
2 शासनशासक इति ख॰ , छ॰ च ।
Image-P.370


कालमीक्षेत कार्य्यार्थमनुज्ञातश्च निष्पतेत् ॥ 9cd
छिद्रञ्च शत्रोर्जानीयात् कोषमित्रबलानि च । 10ab
रागापरागौ जानीयाद् दृष्टिगात्रविचेष्टितैः 1 10cd
कुर्य्याच्चतुर्विधं स्तोर्त्रं पक्षयोरुभयोरपि । 11ab
तपस्विव्यञ्जनोपेतैः सुचरैः 2 सह संवसेत् ॥ 11cd
चरः प्रकाशो दूतः स्यादप्रकाशश्चरो द्विधा । 12ab
बणिक् कृषीबलो लिङ्गी भिक्षुकाद्यात्मकाश्चराः ॥ 12cd
यायादरिं व्यसनिनं निष्फले 3 दूतचेष्टिते । 13ab
प्रकृतव्यसनं यत्स्यात्तत् समीक्ष्य समुत्पतेत् ॥ 13cd
अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं । 14ab
हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा ॥ 14cd
इति पञ्चविधं दैवं व्यसनं मानुषं परं । 15ab
दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत् ॥ 15cd
उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् । 16ab
मन्त्रो मन्त्रफलावाप्तिः कार्य्यानुष्ठानमायतिः ॥ 16cd
आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनं । 17ab
व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं ॥ 17cd
इत्यमात्यस्य कर्म्मेदं हन्ति सव्यसनान्वितः । 18ab
हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत् ॥ 18cd
तथान्ये द्रव्यनिचया हन्ति सव्यसना प्रजा । 19ab
प्रजानामापदिस्थानां रक्षणं कोषदण्डयोः ॥ 19cd


1 दृष्टिवक्त्रविचेष्टितैरिति ग॰ , घ॰ , छ॰ , झ॰ , ञ॰ , ट॰ च ।
2 स्वचरैरिति ज॰ ।
3 विफले इति घ॰ , झ॰ , ञ॰ च ।
Image-P.371


पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्द्दिनं । 20ab
तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः ॥ 20cd
सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् । 21ab
भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः ॥ 21cd
धर्म्मकामादिभेदश्च दुर्गसंस्कारभूषणं । 22ab
कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः ॥ 22cd
मित्रामित्रावनीहेमसाधनं रिपुमर्द्दनं । 23ab
दूरकार्य्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत् ॥ 23cd
सस्तम्भयति मित्राणि अमित्रं नाशयत्यपि । 24ab
धनाद्यैरुपकारित्वं मित्रात्तद्व्यसनाद्धरेत् 1 24cd
राजा सव्यसनी हन्याद्राजकार्य्याणि यानि च । 25ab
वाग्दण्डयोश्च पारुष्यमर्थदूषणमेव च ॥ 25cd
पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः । 26ab
आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता ॥ 26cd
इति पूर्व्वोपदिष्टञ्च सचिवव्यसनं स्मृतं । 27ab
अनावृष्टिश्च पीड़ादी राष्ट्रव्यसनमुच्यते ॥ 27cd
विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता । 28ab
क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते ॥ 28cd
व्ययीकृतः परिक्षिप्तो ऽप्रजितो ऽसञ्चितस्तथा । 29ab
दषितो दरसंस्थश्च कोषव्यसनमुच्यते ॥ 29cd
उपरुद्धं परिक्षिप्तममानितविमानितं । 30ab


1 संस्तम्भयतीत्यादिः, मित्रात्तद्व्यसनाद्धरेदित्यन्तः पाठः छ॰ पुaतके नास्ति ।
Image-P.372


अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं ॥ 30cd
परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा । 31ab
आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च ॥ 31cd
कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च । 32ab
विच्छिन्नवीवधासारं शून्यमूलं तथैव च ॥ 32cd
अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च । 33ab
दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते ॥ 33cd
दैवोपपीडितं मित्रं ग्रस्तं शत्रुबलेन च । 34ab
कामक्रोधादिसंयुक्तमुत्साहादरिभिर्भवेत् ॥ 34cd
अर्थस्य दूषणं क्रोधात् पारुष्यं वाक्यदण्डयोः । 35ab
कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः ॥ 35cd
वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं । 36ab
असिद्धसाधनं दण्डस्तं युक्त्यानयेन्नृपः ॥ 36cd
उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः । 37ab
भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ॥ 37cd
विवृद्धाः शत्रवश्चैव विनाशाय भवन्ति ते । 38ab
दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः ॥ 38cd
अर्थस्य नीतितत्त्वज्ञैरर्थदूषणमुच्यते । 39ab
पानात् कार्य्यादिनो ज्ञानं मृगयातो ऽरितः क्षयः ॥ 39cd
जितश्रमार्थं मृगयां विचरेद्रक्षिते वने । 40ab
धर्म्मार्थप्राणमाशादि द्यूते स्यात् कलहादिकं ॥ 40cd
कालातिपातो धर्म्मार्थपीड़ा स्त्रीव्यसनाद्भवेत् । 41ab
पानदोषात् प्राणनाशः कार्य्याकार्याविनिश्चयः ॥ 41cd
Image-P.373


स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् । 42ab
स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं ॥ 42cd
मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं । 43ab
राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत् 1 43cd
सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः । 44ab
परिभ्रमेच्चत्वरांश्च मण्डलेन वहिर्न्निशि ॥ 44cd
वार्त्ताः स्वका विजानीयाद्दरसीमान्तचारिणः । 45ab
निर्गच्छेत् प्रविशेच्चैव सर्व्व एवोपलक्षितः ॥ 45cd
सामदानं च भेदश्च दण्डोपेक्षेन्द्रजालकं । 46ab
मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ॥ 46cd
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनात् । 47ab
मिथःसम्बन्धकथनं मृदुपूर्व्वं च भाषणं ॥ 47cd
आयाते दर्शनं वाचा तवाहमिति चार्पणं । 48ab
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ॥ 48cd
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं । 49ab
द्रव्यदानमपूर्व्वं च स्वयङ्ग्राहप्रवर्त्तनं 2 49cd
देयश्च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतं । 50ab
स्नेहरागापनयनसंहर्षोत्पादनं तथा ॥ 50cd
मिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः । 51ab
बधो ऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ॥ 51cd
प्रकाशश्चाप्रकाशश्च लोकद्विष्टान् प्रकाशतः । 52ab
उद्विजेत हतैर्ल्लोकस्तेषु पिण्डः प्रशस्यते ॥ 52cd


1 परिवेशयेदिति ख॰ ।
2 तथैव सुप्रवर्त्तनमिति ज॰ , ट॰ च ।
Image-P.374


विशेषेणोपनिषिद्योगैर्हन्याच्छस्त्रादिना द्विषः । 53ab
जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे ॥ 53cd
प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव । 54ab
ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ॥ 54cd
मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः । 55ab
राजद्वेषी चातिकर आत्मसम्भावितस्तथा ॥ 55cd
विच्छिन्नधर्म्मकामार्थः क्रुद्धो मानी विमानितः । 56ab
अकारणात् परित्यक्तः कृतवैरो ऽपि सान्त्वितः ॥ 56cd
हृतद्रव्यकलत्रश्च पूजार्हो ऽप्रतिपूजितः । 57ab
एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् ॥ 57cd
आगतान् पूजयेत् कामैर्न्निजांश्च प्रशमन्नयेत् । 58ab
सामदृष्टानुसन्धानमत्युग्रभयदर्शनं ॥ 58cd
प्रधानदानमानं च भेदोपायाः प्रकीर्त्तिताः । 59ab
मित्रं हतं काष्ठमिव घुणजग्धं विशीर्य्यते ॥ 59cd
त्रिशक्तिर्द्देशकालज्ञो दण्डेनास्तं नयेदरीन् । 60ab
मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥ 60cd
लुब्धं क्षीणञ्च दानेन मित्रानन्योन्यशङ्कया । 61ab
दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः ॥ 61cd
दानभेदैश्चमूमुख्यान् योधान् 1 जनपददिकान् । 62ab
सामान्ताटविकान् भेददण्डाभ्यामपराद्धकान् ॥ 62cd
देवताप्रतिमानन्तु पूजयान्तर्गतैर्न्नरैः । 63ab
पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ॥ 63cd


1 दानभेदैश्चैव मुख्यान् पौरानिति ज॰ ।
Image-P.375


वेतालोल्कापिशाचानां शिवानां च स्वरूपकी । 64ab
कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणं ॥ 64cd
तमो ऽनिलो ऽनलो मेघ इति माया ह्यमानुषी । 65ab
जघान कीचकं भीम आस्थितः स्त्रीरूपतां ॥ 65cd
अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणं । 66ab
उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिडिम्बया ॥ 66cd
मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनं । 67ab
दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां ॥ 67cd
छिन्नपाटितभिन्नानां संसृतानां च दर्शनं । 68ab
इतीन्द्रजालं द्विषताम्भोत्यर्थमुपकल्पयेत् ॥ 68cd


इत्याग्नेये महापुराणे सामादिर्नाम चत्वारिंशदध्कद्विशततमो ऽध्यायः ॥

Chapter 241

अथैकचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

राजनीतिः ।
राम उवाच ।
षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् । 1ab
मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं ॥ 1cd
पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा । 2ab
षड़ङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः ॥ 2cd
नद्यद्रिवनदुर्गेषु यत्र यत्र भयं भवेत् । 3ab
Image-P.376


सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर्बलैः ॥ 3cd
नायकः पुरतो यायात् प्रवीरपुरुषावृतः । 4ab
मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं ॥ 4cd
पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः । 5ab
रथानां पार्श्वयोर्नागा नागानां चाटवीबलं ॥ 5cd
पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं । 6ab
यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः ॥ 6cd
यायाद्व्यूहेन महता मकरेण पुरोभये । 7ab
श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया ॥ 7cd
पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं 1 8ab
सर्व्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥ 8cd
कन्दरे शैलगहने निम्नगावनसङ्कटे । 9ab
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं ॥ 9cd
व्याधिदुर्भिक्षमरकपीड़ितं दस्युविद्रुतं । 10ab
पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि ॥ 10cd
प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं । 11ab
चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं ॥ 11cd
इत्यादौ स्वचमूं रक्षेत् प्रसैन्यं च घातयेत् । 12ab
विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली ॥ 12cd
कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्य्यये । 13ab
तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं ॥ 13cd


1 वज्रसङ्कटमिति ख॰ , छ॰ च ।
Image-P.377


अभूमिष्ठं स्वभूमिष्ठः स्वभूमौ चोपजायतः । 14ab
प्रकृतिप्रग्रहाकृष्टं पाशैर्वनचरादिभिः ॥ 14cd
हन्यात् प्रवीरपुरुषैर्भङ्गदानापकर्षणैः । 15ab
पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश्चयात् ॥ 15cd
हन्यात्पश्चात् प्रवीरेण बलेनोपेत्य वेगिना । 16ab
पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः ॥ 16cd
आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने । 17ab
पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् ॥ 17cd
पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः । 18ab
प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ ॥ 18cd
श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं । 19ab
दूष्यामित्रबलैर्व्वापि भङ्गन्दत्वा प्रयत्नवान् ॥ 19cd
जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः । 20ab
स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु ॥ 20cd
विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् । 21ab
अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात् ॥ 21cd
अवस्कन्दभयाद्रात्रिप्रजागरकृतश्रमं । 22ab
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं ॥ 22cd
निशि विश्रब्धसंसुप्तं नागैर्व्वा खड्गपाणिभिः । 23ab
प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं ॥ 23cd
अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः । 24ab
विभीषकाद्वारघातं कोषरक्षेभकर्म्म च ॥ 24cd
अभिन्नभेदनं मित्रसन्धानं रथकर्म्म च । 25ab
Image-P.378


वनदिङ्मार्गविचये वीवधासारलक्षणं ॥ 25cd
अनुयानापसरणे शीघ्रकार्य्योपपादनं । 26ab
दीनानुसरणं घातः कोटीनां जघनस्य च ॥ 26cd
अश्वकर्म्माथ पत्तेश्च सर्वदा शस्त्रधारणं । 27ab
शिविरस्य च मार्गादेः शोधनं वस्तिकर्म्म च ॥ 27cd
संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं । 28ab
सापसारा पदातीनां भूर्नातिविषमा मता ॥ 28cd
स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा । 29ab
निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥ 29cd
निस्थाणुवृक्षकेदारा रथभूमिरकर्द्दमा । 30ab
मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता ॥ 30cd
निर्झरागम्यशैला 1 च विषमा गजमेदिनी । 31ab
उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि ॥ 31cd
प्रतिग्रह इति ख्यातो राजकार्य्यान्तरक्षमः । 32ab
तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते ॥ 32cd
जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः । 33ab
यत्र राजा तत्र कोषः कोषाधीना हि राजता ॥ 33cd
योधेभ्यस्तु ततो दद्यात् किञ्चिद्दातुं 2 न युज्यते । 34ab
द्रव्यलक्षं राजघाते तदर्द्धं तत्सुतार्दने ॥ 34cd
सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्द्दने । 35ab
अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः ॥ 35cd


1 निःशर्करा गम्यशैलेति ज॰ ।
2 किं हि दातुमिति घ॰ , ञ॰ च ।
Image-P.379


यथा भवेदसम्बाधो व्यायामविनिवर्त्तने । 36ab
असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः ॥ 36cd
महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं । 37ab
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ॥ 37cd
इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु । 38ab
पादगोपा भवेयुश्च पुरुषा दश पञ्च च ॥ 38cd
विधानमिति नागस्य विहितं स्यन्दनस्य च । 39ab
अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः ॥ 39cd
तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते । 40ab
इत्यनीकविभागेन स्थापयेद् व्यूहसम्पदः ॥ 40cd
उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते । 41ab
उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ॥ 41cd
कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते । 42ab
उरस्यकक्षपक्षास्तु व्यूहो ऽयं सप्रतिग्रहः ॥ 42cd
गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः । 43ab
तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर्वृताः ॥ 43cd
अभेदेन च युध्येरन् रक्षेयुश्च परस्परं । 44ab
मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः ॥ 44cd
युद्धं हि नायकप्राणं हन्यते तदनायकं । 45ab
उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् ॥ 45cd
हयांश्च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्त्तितः । 46ab
मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः ॥ 46cd
पक्षयोश्च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः । 47ab
Image-P.380


रथस्थाने हयान् दद्यात् पदातींश्च हयाश्रये ॥ 47cd
रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् । 48ab
यदि स्याद्दण्डबाहुल्प्यमाबाधः सम्प्रकीर्त्तितः ॥ 48cd
मण्डलासंहतो भोगो दण्डस्ते बहुधा शृणु । 49ab
तिर्य्यग्वृत्तिस्तु दण्डः स्याद् भोगो ऽन्यावृत्तिरेव च ॥ 49cd
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः । 50ab
प्रदरो दृढको ऽसह्यः चापो वै कुक्षिरेव च ॥ 50cd
प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ । 51ab
विशालो विजयः शूची स्थूणाकर्णचमूमुखौ ॥ 51cd
सर्पास्यो वलयश्चैव दण्डभेदाश्च दुर्जयाः । 52ab
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः ॥ 52cd
अतिक्रान्तस्तु पक्षाभ्यां त्रयो ऽन्ये तद्विपर्य्यये । 53ab
पक्षोरस्यैरतिक्रान्तः प्रतिष्ठो ऽन्यो विपर्य्ययः ॥ 53cd
स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्द्ध्वगः । 54ab
द्विगुणोन्तस्त्वतिक्रान्तपक्षो ऽन्यस्य विपर्ययः ॥ 54cd
द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् । 55ab
गोमूत्रिकाहिसञ्चारीशकटो मकरस्तथा ॥ 55cd
भोगभेदाः समाख्यातास्तथा पारिप्लवङ्गकः । 56ab
दण्डपक्षौ युगोरस्यः शकटस्तद्विपर्य्यये ॥ 56cd
मकरो व्यतिकीर्णश्च शेषः कुञ्जरराजिभिः । 57ab
मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ ॥ 57cd
अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः । 58ab
अर्द्धचन्द्रक ऊर्द्ध्वाङ्गो वज्रभेदास्तु संहतेः ॥ 58cd
Image-P.381


तथा कर्क्कटशृङ्गी च काकपादौ च गोधिका । 59ab
त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः ॥ 59cd
दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च । 60ab
असङ्घातस्य षट् पञ्च भोगस्यैव तु सङ्गरे ॥ 60cd
पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् । 61ab
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत् 1 61cd
परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् । 62ab
कोटिभ्याञ्जघनं हन्यादुरसा च प्रपीडयेत् ॥ 62cd
यतः फल्गु यतो भिन्नं यतश्चान्यैरधिष्ठितं । 63ab
ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् ॥ 63cd
सारं द्विगुणसारेण फल्गुसारेण पीडयेत् । 64ab
संहतञ्च गजानीकैः प्रचण्डैर्दारयेद्बलं ॥ 64cd
स्यात् कक्षपक्षोरस्यश्च वर्त्तमानस्तु दण्डकः । 65ab
तत्र प्रयोगो डण्डस्य स्थानन्तुर्य्येण दर्शयेत् ॥ 65cd
स्याद्दण्डसमपक्षाभ्यामतिक्रान्तः प्रदारकः । 66ab
भवेत्स पक्षकक्षाभ्यामतिक्रान्तो दृढः स्मृतः ॥ 66cd
कक्षाभ्याञ्च प्रतिक्रान्तव्यूहो ऽसह्यः स्मृतो यथा । 67ab
कक्षपक्षावधः स्थाप्योरस्यैः कान्तश्च खातकः ॥ 67cd
द्वौ दण्डौ बलयः प्रोक्तो व्यूहो रिपुविदारणः । 68ab
दुर्जयश्चतुर्वलयः शत्रोर्बलविमर्दनः ॥ 68cd
कक्षपक्षौरस्यैर्भोगो विषयं परिवर्त्तयन् । 69ab


1 कोटिभ्यां परिकल्पयेदिति घ॰ , ञ॰ च ।
Image-P.382


सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः ॥ 69cd
विपर्य्ययो ऽमरः प्रोक्तः सर्वशत्रुविमर्दकः । 70ab
स्यात् कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः ॥ 70cd
चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः । 71ab
एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् ॥ 71cd
अर्द्धचन्द्रश्च शृङ्गाटो ह्यचलो नामरूपतः 1 72ab
व्यूहा यथासुखं कार्य्याः शत्रूणां बलवारणाः ॥ 72cd
अग्निरुवाच
रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज । 73ab
रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा ॥ 73cd


इत्याग्नेये महापुराणे रामोक्तराजनीतिर्नाम एकचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥


1 अस्मल्लब्धपुस्तकानां मध्ये क॰ ज॰ चिह्नितपुस्त्रकद्वये दण्डादिकतिपयव्यूहानां विन्दुविन्यासैस्तत्तन्नामसमीपे आकृतयः प्रदर्शिताः , परन्तु ता अशुद्धा । ता यथा,दण्डव्यूहस्य ??? । प्रदारकस्य ??? । दृढव्यूहस्य ??? । असह्यव्यूहस्य ??? । खातकव्यूहस्य ??? । वलयव्यूहस्य ??? । दुर्जयव्यूहस्य ??? । भोगव्यूहस्य ??? । गोमूत्रिकाव्यूहस्य ??? । शकटव्यूहस्य ??? । अमरव्यूहस्य ??? । सर्वतोभद्रव्यूहस्य ???॥
Image-P.383


Chapter 242

अथ द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

पुरुषलक्षणं ।
अग्निरुवाच ।
रामोक्तोक्ता मया नीतिः स्त्रीणां राजन् नृणां वदे । 1ab
लक्षणं यत्समुद्रेण गर्गायोक्तं यथा पुरा ॥ 1cd
समुद्र उवाच ।
पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं । 2ab
एकाधिको द्विशुक्रश्च त्रिगन्भीरस्तथैव च ॥ 2cd
त्रित्रिकस्त्रिप्रलम्बश्च त्रिभिर्व्याप्नोति यस्तथा । 3ab
त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश्च सुव्रत ॥ 3cd
पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु । 4ab
चतुर्ल्लेखस्तथा यश्च तथैव च चतुःसमः ॥ 4cd
चतुष्किष्कुश्चतुर्दंष्ट्रः शुक्लकृष्णस्तथैव च । 5ab
चतुर्गन्धश्चतुर्ह्रस्वः सूक्ष्मदीर्घश्च पञ्चसु ॥ 5cd
षड़ुन्नतो ऽष्टवंशश्च सप्तस्नेहो नवामलः । 6ab
दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः ॥ 6cd
चतुर्दशसमद्वन्द्वः षोडशाक्षश्च शस्यते । 7ab
धर्मार्थकामसंयुक्तो धर्मो ह्येकाधिको मतः ॥ 7cd
तारकाभ्यां विना नेत्रे शुक्रदन्तो द्विशुक्लकः । 8ab
गम्भीरस्त्रिश्रवो नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं ॥ 8cd
अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता । 9ab
शौचं स्पृहा त्वकार्पण्यमनायासश्च शौर्य्यता ॥ 9cd
Image-P.384


त्रित्रिकस्त्रिप्रलम्बः स्याद्वृषणे भुजयोर्नरः । 10ab
दिग्देशजातिवर्गांश्च तेजसा यशसा श्रिया ॥ 10cd
व्याप्नोति यस्त्रिकव्यापी त्रिबलीमान्नरस्त्वसौ । 11ab
उदरे बलयस्तिस्रो नरन्त्रिविनतं शृणु ॥ 11cd
देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः । 12ab
धर्मार्थकामकालज्ञस्त्रिकालज्ञो ऽभिधीयते ॥ 12cd
उरो ललाटं वक्त्रञ्च त्रिविस्तीर्णो विलेखवान् । 13ab
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥ 13cd
अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं । 14ab
षण्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुप्रमाणतः ॥ 14cd
द्रंष्ट्राश्चतस्रश्चन्द्राभाश्चतुःकृष्णं वदामि ते । 15ab
नेत्रतारौ भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥ 15cd
नासायां वदने स्वेदे कक्षयोर्विडगन्धकः । 16ab
ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं ॥ 16cd
सूक्ष्माण्यङ्गुलिपर्वाणि नखकेशद्विजत्वचः । 17ab
हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं ॥ 17cd
वक्षः कक्षौ नखा नासोन्नतं वक्त्रं कृकाटिका । 18ab
स्निग्धास्त्वक्केशदन्ताश्च लोम दृष्टिर्नखाश्च वाक् ॥ 18cd
जान्वोरुर्वोश्च पृष्ठस्थ वंशौ द्वौ करनासयोः । 19ab
नेत्रे नासापुटौ कर्णौ मेढ्रं पायुमुखे ऽमलं ॥ 19cd
जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास्तथा । 20ab
शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां ॥ 20cd
पाणिपादं मुखं ग्रीवा श्रवणे हृदयं शिरः । 21ab
Image-P.385


ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश ॥ 21cd
प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं । 22ab
उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ॥ 22cd
पादौ गुल्फौ स्फिचौ पार्श्वौ वङ्क्षणौ वृषणौ कुचौ । 23ab
कर्णौष्ठे सक्थिनी जङ्घे हस्तौ बाहू तथाक्षिणी ॥ 23cd
चतुर्द्दशसमद्वन्द्व एतत्सामान्यतो नरः । 24ab
विद्याश्चतुर्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः ॥ 24cd
रूक्षं शिराततं गात्रमशुभं मांसवर्जितं । 25ab
दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया ॥ 25cd
धन्यस्य मधुरा वाणी गतिर्म्मत्तेभसन्निभा । 26ab
एककूपभवं रोम भये रक्षा सकृत् सकृत् ॥ 26cd


इत्याग्नेये महापुराणे पुरुषलक्षणं नाम द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 243

अथ त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

स्त्रीलक्षणं ।
समुद्र उवाच ।
शस्ता स्त्री 1 चारुसर्वाङ्गी मत्तमातङ्गगामिनी । 1ab
गुरूरुजघना या च मत्तपारावतेक्षणा ॥ 1cd
सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा । 2ab


1 शुभा स्त्री इति ज॰ ।
Image-P.386


समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ॥ 2cd
नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् । 3ab
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥ 3cd
जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना । 4ab
नर्क्षवृक्षनदीनाम्नी न सदा 1 कलहप्रिया ॥ 4cd
न लोलुपा न दुर्भाषा शुभा देवादिपूजिता । 5ab
गण्डैर्म्मधूकपुष्पाभैर्न शिराला न लोमशा ॥ 5cd
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया । 6ab
अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः 2 6cd
भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ॥ 7॥ 7ab


इत्याग्नेये महापुराणे स्त्रीलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 244

अथ चतुश्चत्वारिंशदधिकद्विशततमो ऽध्यायः ।

चामरादिलक्षणम् ।
अग्निरुवाच ।
चामरो रुक्मादण्डो ऽग्र्यः छत्रं राज्ञः प्रशस्यते । 1ab
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ॥ 1cd
पक्षैर्वाथ बलाकाया न कार्य्यं मिश्रपक्षकैः । 2ab


1 न शठेति छ॰।
2 जठरमित्यादिः, ततो गुणा इत्यन्तः पाठः घ॰ , ञ॰ , पुस्तकद्वये नास्ति ।
Image-P.387


चतुरस्रं ब्राह्मणस्य वृत्तं राज्ञश्च शुक्लकं ॥ 2cd
त्रिचतुःपञ्चषट्सप्ताष्टपर्वश्च दण्डकः । 3ab
भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः 1 3cd
विस्तारेण त्रिहस्तं 2 स्यात् सुवर्णाद्यैश्च चित्रितं । 4ab
धनुर्द्रव्यत्रयं लोहं शृङ्गं दारु द्विजोत्तम ॥ 4cd
ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस्तथा । 5ab
दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं ॥ 5cd
तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि । 6ab
मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् ॥ 6cd
स्वल्पकोटिस्त्वचा शृङ्गं शार्ङ्गलोहमये द्विज । 7ab
कामिनीभ्रूलताकारा कोटिः कार्य्या सुसंयुता ॥ 7cd
पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् । 8ab
शार्ङ्गं समुचितं कार्य्यं रुक्मविन्दुविभूषितं ॥ 8cd
कुटिलं स्फुटितञ्चापं सच्छिद्रञ्च न शस्यते । 9ab
सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं ॥ 9cd
माहिषं शारभं शार्ङ्गं रौहिषं वा धनुः शुभं । 10ab
चन्दनं वेतसं सालं धावलङ्ककुभन्तरुः ॥ 10cd
सर्वश्रेष्ठं धनुर्वंशैर्गृहीतैः शरदि श्रितैः । 11ab
पूजयेत्तु धनुः 3 खड्गमन्त्रैस्त्रैलोक्यमोहनैः ॥ 11cd
अयसश्चाथ वंशस्य शरस्याप्यशरस्य च । 12ab
ऋजवो हेमवार्णाभाः स्नायुश्लिष्टाः सुपत्रकाः ॥ 12cd


1 चतुरस्रमित्यादिः, पञ्चाशदङ्गुलोच्छ्रयैरित्यन्तः पाठः ज॰ पुस्तके नास्ति ।
2 द्विहस्तमिति ट॰ ।
3 पूजयेत्तद्धनुरिति ग॰ , घ॰ , ञ॰ च ।
Image-P.388


रुक्मपुङ्खाः सुपङ्कास्ते तैलधौताः सुवर्णकाः । 13ab
यात्रायामभिषेकादौ यजेद्वाणधनुर्मुखान् ॥ 13cd
सपताकास्त्रसङ्ग्राहसांवत्सरकरान्नृपः । 14ab
ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटे ऽयजत् ॥ 14cd
लोहदैत्यं स ददृशे विघ्नं यज्ञे तु चिन्तयन् । 15ab
तस्य चिन्तयतो वह्नेः पुरुषो ऽभूद्बली महान् ॥ 15cd
ववन्दे ऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः 1 16ab
तस्मात्स नन्दकः 2 कड्गो देवोक्तो हरिरग्रहीत् ॥ 16cd
तं जग्राह शनैर्देवो 3 विकोषः सो ऽभ्यपद्यत । 17ab
खड्गो नीलो रत्नमुष्टिस्ततो ऽभूच्छतबाहुकः ॥ 17cd
दैत्यः स गदया देवान् द्रावयामास वै रणे । 18ab
विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले ॥ 18cd
पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि । 19ab
लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं ॥ 19cd
ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि । 20ab
हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं ॥ 20cd
पूजयामास यज्ञेन वक्ष्ये ऽथो खड्गलक्षणं । 21ab
खटीखट्टरजाता ये दर्शनीयास्तुते स्मृताः ॥ 21cd
कायच्छिदस्त्वाषिकाः स्युर्दृढाः सूर्पारकोद्भवाः । 22ab
तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाः स्युश्चाङ्गदेशजाः ॥ 22cd
शतार्द्धमङ्गुलानाञ्च श्रेष्ठं खद्गं प्रकीर्त्तितं । 23ab


1 लोहदैत्यमित्यादिः, हर्षिता इत्यन्तः पाठः ज॰ पुस्तके नास्ति ।
2 तस्मात्तु नन्दक इति घ॰ , ञ॰ च ।
3 महादेव इति ज॰ ।
Image-P.389


तदर्द्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् ॥ 23cd
दीर्घं सुमधुरं शब्दं युस्य खड्गस्य सत्तम । 24ab
किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते ॥ 24cd
खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते । 25ab
करवीरदलाग्राभो घृतगन्धो वियत्प्रभः ॥ 25cd
समाङ्गुलस्थाः शस्यन्ते व्रणाः खद्गेषु लिङ्गवत् । 26ab
काकोलूकसवर्णाभा विषमास्ते न शोभनाः ॥ 26cd
खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं । 27ab
मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके ॥ 27cd


इत्याग्नेये महापुराणे आयुधलक्षणादिर्नाम चतुश्चत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 245

अथ पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

रत्नपरीक्षा ।
अग्निरुवाच ।
रत्नानां लक्षणं वक्ष्ये रत्नं धार्य्यमिदं नृपैः । 1ab
वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ॥ 1cd
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धशस्यकं । 2ab
चन्द्रकान्तं सूर्य्यकान्तं स्फटिकं पुलकं तथा ॥ 2cd
Image-P.390


कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज । 3ab
स्पटिकं राजपट्टञ्च तथा राजमयं शुभं ॥ 3cd
सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा । 4ab
गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ॥ 4cd
धूलीं मरकतञ्चैव तुथकं सीसमेव च । 5ab
पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ॥ 5cd
भुजङ्गममणिञ्चैव तथा वज्रमणिं शुभं । 6ab
टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ॥ 6cd
सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके । 7ab
अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च ॥ 7cd
सुधार्या नैव धार्यास्तु निष्प्रभा मलिनास्तथा । 8ab
खण्डाः सशर्करा ये च प्रशस्तं वज्रधरणम् ॥ 8cd
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् । 9ab
षट्कोणं शक्रचापाभं लघु चार्कनिभं शुभम् ॥ 9cd
शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा । 10ab
स्वर्णचूर्णनिभैः सूक्ष्मैर्मरकतश्च विन्दुभिः ॥ 10cd
स्फटिकजाः पद्मरागाः स्यू रागवन्तो ऽतिनिर्म्मलाः । 11ab
जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ॥ 11cd
सौगन्धिकोत्था काषाया मुक्ताफलास्तु शुक्तिजाः । 12ab
विमलास्तेभ्य उत्कृष्टा ये च शङ्खोद्भवा मुने ॥ 12cd
नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः । 13ab
वेणुनागभवाः श्रेष्ठा मौक्तिकं मेघजं वरं ॥ 13cd
वृत्तत्वं शुक्रता स्वाच्छ्यं महत्त्वं मौक्तिके गुणाः । 14ab
Image-P.391


इन्द्रनीलं शुभं क्षीरे राजते भ्राजते ऽधिकं 1 14cd
रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्द्दिशेत् । 15ab
नीलरक्तन्तु वैदूर्य्यं श्रेष्ठं हारादिकं भजेत् 2 15cd


इत्याग्नेये महापुराणे रत्नपरीक्षा नाम पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 246

अथ षट्चत्वारिंशदधिकद्विशततमो ऽध्यायः ।

वास्तुलक्षणं ।
अग्निरुवाच ।
वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह । 1ab
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥ 1cd
घृतरक्तान्नमद्यानां गन्धाढ्या वसतश्च भूः । 2ab
मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ॥ 2cd
कुशैः शरैस्तथाकाशैर्दूर्वाभिर्या च संश्रिता । 3ab
प्रार्च्य विप्रांश्च शिःशल्पां खातपूर्वन्तु कल्पयेत् ॥ 3cd
चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः । 4ab
प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्य्यमा ॥ 4cd
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतस्तथा । 5ab
उदङ्महीधरश्चैव आपवत्सौ च वह्निगे ॥ 5cd
सावित्रश्चैव सविता जयेन्द्रौ नैरृते ऽम्बुधौ । 6ab


1 भ्राजते स्थितमिति छ॰ , ज॰ च ।
2 भवेदिति ग॰ , घ॰ च ।
Image-P.392


रुद्रव्याधी च वायव्ये पूर्व्वादौ कोणगाद्वहिः ॥ 6cd
महेन्द्रश्च रविः सत्यो भृशः 1 पूर्व्वे ऽथ दक्षिणे । 7ab
गृहक्षतो ऽर्यमधृती गन्धर्वाश्चाथ वारुणे ॥ 7cd
पुष्पदन्तो ऽसुराश्चैव वरुणो यक्ष एव च । 8ab
सौम्ये भल्लाटसोमौ च अदितिर्धनदस्तथा ॥ 8cd
नागः करग्रहश्चैशे अष्टौ दिशि दिशि स्मृताः । 9ab
आद्यन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ॥ 9cd
पर्ज्यन्यः प्रथमो देवो द्वितीयश्च करग्रहः । 10ab
महेन्द्ररविसत्याश्च भृशो ऽथ गगनन्तथा ॥ 10cd
पवनः पूर्व्वतश्चैव अन्तरीक्षधनेश्वरौ । 11ab
आग्नेये चाथ नैरृत्ये मृगसुग्रीवकौ सुरौ ॥ 11cd
रोगो मुख्यश्च वायव्ये दक्षिणे पुष्पवित्तदौ । 12ab
गृहक्षतो यमभृशौ गन्धर्वो नागपैतृकः ॥ 12cd
आप्ये दौवारिकसुग्रीवौ पुष्पदन्तो ऽसुरो जलं । 13ab
यक्ष्मा रोगश्च शोषश्च उत्तरे नागराजकः ॥ 13cd
मुख्यो भल्लाटशशिनौ अदितिश्च कुवेरकः । 14ab
नागो हुताशः श्रेष्ठो वै 2 शक्रसूर्य्यौ च पूर्वतः ॥ 14cd
दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः । 15ab
पुष्पदन्तो ह्युदग्द्वारि भल्लाटः पुष्पदन्तकः ॥ 15cd
शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश्चरेत् । 16ab
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥ 16cd


1 भृगुरिति ज॰ ।
2 नागो हुताशनः श्रेष्ठ इति ख॰ , छ॰ च ।
Image-P.393


जये भार्गवदायादे प्रजानाञ्जयमावह 1 17ab
पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ॥ 17cd
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम । 18ab
सर्ववीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥ 18cd
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह । 19ab
प्रजापतिसुते देवि चतुरस्रे महीमये ॥ 19cd
सुभगे सुव्रते भद्रे गृहे कश्यपि रम्यतां । 20ab
पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्कृते 2 20cd
भवभूतिकरे देवि गृहे भार्गवि रम्यतां । 21ab
अव्यङ्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥ 21cd
इष्टके त्वं प्रयच्छेष्टं प्रतिष्टाङ्कारयम्यहं । 22ab
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥ 22cd
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव । 23ab
गृहप्रवेशे ऽपि तथा शिलान्यासं समाचरेत् ॥ 23cd
उत्तरेण शुभः प्लक्षो वटः प्राक् स्याद् गृहादितः । 24ab
उदुम्वरश्च याम्येन पश्चिमे ऽश्वत्थ उत्तमः ॥ 24cd
वामभागे तथोद्यानं कुर्य्याद्वासं गृहे शुभं । 25ab
सायं प्रातस्तु घर्माप्तौ शीतकाले दिनान्तरे ॥ 25cd
वर्षारात्रे भुवः शोषे सेक्तव्या रोपितद्रुमाः । 26ab
विड़ङ्गघृतसंयुक्तान् सेचयेच्छीतवारिणा ॥ 26cd
फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः । 27ab


1 विप्राणां जयमावहेति ख॰ ।
2 गन्धमाल्यैरलङ्कृतैरिति ग॰ , छ॰ च ।
Image-P.394


घृतशीतपयःसेकः फलपुष्पाय सर्वदा ॥ 27cd
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः । 28ab
आविकाजसकृच्चूर्णं यवचूर्णं तिलानि च ॥ 28cd
गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् । 29ab
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं ॥ 29cd
मत्स्योदकेन शीतेन आम्राणां सेक इष्यते 1 30ab
प्रशस्तं चाप्यशोकानां कामिनीपादताडनं ॥ 30cd
खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्द्धनं । 31ab
विडङ्गमत्स्यमांसाद्भिः सर्वेषु दोहदं शुभं ॥ 31cd


इत्याग्नेये महापुराणे वास्त्वादिर्नाम षट्चत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 247

अथ सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

पुष्पादिपूजाफलं ।
अग्निरुवाच ।
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः । 1ab
मालती मल्लिका यूथी पाटला करवीरकं ॥ 1cd
पावन्तिरतिमुक्तश्च 2 कर्णिकारः कुराण्टकः । 2ab


1 सेकः उच्यते इति ख॰ ।
2 पावन्तिकातिमुक्तश्चेति ग॰ ।
Image-P.395


कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका ॥ 2cd
अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं । 3ab
विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥ 3cd
तुलसीकालतुलसीपत्रं वासकमर्च्चने । 4ab
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥ 4cd
नार्क्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका । 5ab
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥ 5cd
घृतप्रस्थेन विष्णोश्च स्नानङ्गोकोटिसत्फलं । 6ab
आढकेन तु राजा स्यात् घृतक्षीरैर्द्दिवं व्रजेत् ॥ 6cd


इत्याग्नेये महापुराणे पुष्पादिपूजाफलं नाम सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 248

अथाष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ।

धनुर्वेदः ।
अग्निरुवाच ।
चतुष्पादं धनुर्वेदं वदे पञ्चविधं द्विज । 1ab
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्त्तितं ॥ 1cd
यन्त्रमुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा । 2ab
अमुक्तं बाहुयुद्धञ्च पञ्चधा त्यत् प्रकीर्त्तितं ॥ 2cd
तत्र शस्त्रास्त्रसम्पत्त्या द्विविधं परिकीर्त्तितं । 3ab
Image-P.396


ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ॥ 3cd
क्षेपिणी चापयन्त्राद्यैर्यन्त्रमुक्तं प्रकीर्त्तितं । 4ab
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्त्तितं ॥ 4cd
मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् । 5ab
खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं ॥ 5cd
कुर्य्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्ज्जितश्रमः । 6ab
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ॥ 6cd
तानि खड्गजघन्यानि बाहुप्रत्यवराणि च । 7ab
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥ 7cd
युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया । 8ab
देशस्थैः शङ्करै राज्ञः कार्य्या युद्धे सहायता ॥ 8cd
अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि । 9ab
दृष्टं समपदं स्थानमेतल्लक्षणतस्तथा ॥ 9cd
वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ । 10ba
त्रिवितस्त्यन्तरास्थानमेतद्वैशाखमुच्यते ॥ 10cd
हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी । 11ab
चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं ॥ 11cd
हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं । 12ab
वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्त्तितं ॥ 12cd
एतदेव विपर्य्यस्तं प्रत्यालीढमिति स्मृतं 1 13ab
तिर्य्यग्भूतो भवेद्वामो दक्षिणो ऽपि भवेदृजुः ॥ 13cd
गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ । 14ab


1 प्रत्यालीढं प्रकीर्त्तितमिति ज॰ ।
Image-P.397


स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं ॥ 14cd
ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः । 15ab
अथवा दक्षिणञ्जानु कुब्जं भवति निश्चलं ॥ 15cd
दण्डायतो भवेदेष चरणः सह जानुना । 16ab
एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं ॥ 16cd
जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ । 17ab
अनेन विधियोगेन सम्पुटं परिकीर्त्तितं ॥ 17cd
किञ्चिद्विवर्त्तितौ पादौ समदण्डायतौ स्थिरौ । 18ab
दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं ॥ 18cd
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज । 19ab
कार्मुकं गृह्य वामेन वाणं दक्षिणकेन तु ॥ 19cd
वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ । 20ab
गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः ॥ 20cd
अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः । 21ab
धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च ॥ 21cd
भुजाभ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत । 22ab
यस्य वाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः ॥ 22cd
विन्यासो धनुश्चैव द्वादशाङ्गुलमन्तरं । 23ab
ज्यया विशिष्टः कर्त्तव्यो नातिहीनो न चाधिकः ॥ 23cd
निवेश्य कार्मुकं नाभ्यां नितम्बे शरसङ्करं । 24ab
उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः ॥ 24cd
पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः । 25ab
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ॥ 25cd
Image-P.398


नाभ्यन्तरा नैव वाह्या नोर्द्ध्वका नाधरा तथा । 26ab
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ॥ 26cd
समा स्थैर्य्यगुणोपेता पूर्वदण्डमिव स्थिता । 27ab
छादयित्वा ततो लक्ष्यं पूर्व्वेणानेन मुष्टिना ॥ 27cd
उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः । 28ab
स्रस्तांशे निश्चलग्रीवो मयूराञ्चितमस्तकः ॥ 28cd
ललाटनासावक्त्रांसाः कुर्य्युरश्वसमम्भवेत् । 29ab
अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ॥ 29cd
प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं । 30ab
तृतीये ऽङ्गुलमुदिष्टमायतञ्चिवुकांसयोः ॥ 30cd
गृहीत्वा सायकं पुङ्खात्तर्ज्जन्याङ्गुष्ठकेन तु । 31ab
अनामया पुनर्गृह्य तथा मध्यमयापि च ॥ 31cd
तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः । 32ab
एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं ॥ 32cd
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः । 33ab
मुक्त्वा तु 1 पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ॥ 33cd
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज । 34ab
कूर्परन्तदधः कार्य्यमाकृष्य तु धनुष्मता ॥ 34cd
ऊर्द्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं । 35ab
श्रेष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदैः ॥ 35cd
ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः । 36ab


1 त्यक्त्वा इति ज॰ ।
Image-P.399


एकादश तथा मध्यः कनीयान्दशमुष्टयः ॥ 36cd
चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्द्धन्तु मध्यमं । 37ab
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ॥ 37cd
अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्त्तितं ॥ 38॥ 38ab


इत्यागेन्ये महापुराणे धनुर्वेदो नाम अष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥

Chapter 249

अथोनपञ्चाशदधिकद्विशततमो ऽध्यायः ।

धनुर्वेदकथनं ।
अग्निरुवाच ।
पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायुधान् । 1ab
सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् ॥ 1cd
ततो वाणं समागृह्य दंशितः सुसमाहितः । 2ab
तूणमासाद्य बध्नीयादृढां कक्षाञ्च दक्षिणाम् ॥ 2cd
विलक्ष्यमपि तद्वाणं तत्र चैव सुसंस्थितं । 3ab
ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना ॥ 3cd
तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् । 4ab
वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् ॥ 4cd
अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् । 5ab
सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं ॥ 5cd
Image-P.400


वामकर्णोपविष्तञ्च फलं वामस्य धारयेत् । 6ab
वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत् ॥ 6cd
मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् । 7ab
दक्षिणे गात्रभागे तु कृत्वा वर्णं विमोक्षयेत् ॥ 7cd
ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् । 8ab
आकृष्य ताड़येत्तत्र चन्द्रकं षोड़शाङ्गुलम् ॥ 8cd
मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया । 9ab
निगृह्णीयान् मध्यमया ततो ऽङ्गुल्या पुनः पुनः ॥ 9cd
अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् । 10ab
चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः ॥ 10cd
तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत् । 11ab
निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः ॥ 11cd
वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः । 12ab
हस्तावापशतैश्चित्रैस्तर्ज्जयेद्दुस्तरैरपि ॥ 12cd
तस्मिन् 1 वेध्यगते विप्र द्वे वेध्ये दृढसञ्ज्ञके । 13ab
द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे ॥ 13cd
न तु निम्नञ्च 2 तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते । 14ab
निम्नं दुष्करमुद्दिष्टं वेध्यमूर्द्ध्वगतञ्च यत् ॥ 14cd
मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके । 15ab
एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च ॥ 15cd
आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः । 16ab
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ॥ 16cd


1 अस्मिन्निति ख॰ , छ॰ , ज॰ च ।
2 नम्रञ्चेति घ॰ , ञ॰ च ।
Image-P.401


अधिकं भ्रमणं तस्य तस्माद्वेध्यात् प्रकीर्त्तितम् । 17ab
लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढ़म् ॥ 17cd
भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदिति । 18ab
समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि ॥ 18cd
कर्म्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् । 19ab
मनसा चक्षुषा दृष्ट्या योगशिक्षुर्यमं जयेत् ॥ 19cd


इत्याग्नेये महापुराणे धनुर्वेदे नामोनपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 250

अथ पञ्चाशदधिकद्विशततमो ऽध्यायः ।

धनुर्व्वेदकथनम् ।
अग्निरुवाच ।
जितहस्तो जितमतिर्ज्जितदृग्लक्ष्यसाधकः । 1ab
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ॥ 1cd
दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा । 2ab
गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्क्कवर्म्मिणाम् ॥ 2cd
अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् । 3ab
तथा त्रिंशत्समं पाशं बुधः कुर्य्यात् सुवर्त्तितम् ॥ 3cd
कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा । 4ab
वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ॥ 4cd
कुण्डलस्याकृतिं कृत्वा भ्राम्यकं मस्तकोपरि । 5ab
Image-P.402


क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते 1 5cd
वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च । 6ab
समयोगविधिं कृत्वा 2 प्रयुञ्जीत सुशिक्षितम् ॥ 6cd
विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् । 7ab
कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥ 7cd
दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु । 8ab
षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितं ॥ 8cd
अयोमय्यः शलाकाश्च वर्माणि विविधानि च । 9ab
अर्द्धहस्ते समे चैव तिर्य्यगूर्द्ध्वगतं तथा ॥ 9cd
योजयेद्विधिना येन तथात्वङ्गदतः शृणु । 10ab
तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं ॥ 10cd
करेणादाय लगूडं दक्षिणाङ्गुलकं नवं । 11ab
उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ॥ 11cd
उभाभ्यामथ हस्ताभ्यां कुर्य्यात्तस्य निपातनं । 12ab
अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता ॥ 12cd
वाहानां श्रमकरणं प्रचारार्थं पुरा तव ॥ 13॥ 13ab


इत्याग्नेये महापुराणे धनुर्वेदो नाम पञ्चाशदधिकद्विशततमो ऽध्यायः ॥


1 वर्म्मवेष्टिते इति घ॰ ।
2 ज्ञात्वेति ट॰ ।
Image-P.403


Chapter 251

अथैकपञ्चाशदधिकद्विशततमो ऽध्यायः ।

धनुर्व्वेदकथनं ।
अग्निरुवाच ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं । 1ab
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ॥ 1cd
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च । 2ab
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ 1 2cd
विकरालनिपातौ च विभीषणभयानकौ । 3ab
समग्रार्द्धतृतीयांशपादपादार्द्धवारिजाः ॥ 3cd
प्रत्यालीढमथालीढं वराहं लुलितन्तथा । 4ab
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ॥ 4cd
परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं । 5ab
ऊर्द्ध्वात् क्षिप्तमधः क्षिप्तं सन्धारितविधारितं ॥ 5cd
श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च । 6ab
एवमेकादशविधा ज्ञेयाः पाशविधा नराः ॥ 6cd
ऋज्वायतं विशालञ्च तिर्य्यग्भ्रामितमेव च । 7ab
पञ्चकर्म्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ॥ 7cd
छेदनं भेदनं पातो भ्रमणं शयनं 2 तथा । 8ab
विकर्त्तनं कर्त्तनञ्च चक्रकर्मेदमेव च ॥ 8cd
आस्फोटः क्षेडनं भेदस्त्रासान्दोलितकौ तथा । 9ab


1 करालेन्द्रमहारवाविति क॰ , ज॰ , ट॰ च ।
2 शमनमिति घ॰ , ज॰ , ट॰ च ।
Image-P.404


शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ॥ 9cd
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम । 10ab
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ॥ 10cd
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं । 11ab
ततोर्द्ध्वगात्रं नमितं वामदक्षिणमेव च ॥ 11cd
आवृत्तञ्च परावृत्तं पादोद्धूतमवप्लुतं । 12ab
हंसमर्द्दं विमर्दञ्च 1 गदाकर्म प्रकीर्त्तितं ॥ 12cd
करालमवघातञ्च दशोपप्लुतमेव च । 13ab
क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत् ॥ 13cd
ताडनं छेदनं विप्र तथा चूर्णनमेव च । 14ab
मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ॥ 14cd
संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्द्धरं । 15ab
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ॥ 15cd
अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम । 16ab
वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि ॥ 16cd
हरणं छेदनं घातो बलोद्धारणमायतं । 17ab
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥ 17cd
त्रासनं रक्षणं घातो बलोद्धरणमायतम् । 18ab
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥ 18cd
सन्त्यागमवदंशश्च वराहोद्धूतकं तथा । 19ab
हस्तावहस्तमालीनमेकहस्तस्तावहस्तके ॥ 19cd
द्विहस्तवाहुपाशे च कटिरेचितकोद्गते । 20ab


1 हंसमार्गं विमार्गञ्चेति घ॰ , ञ॰ च । समार्गञ्च विमार्गञ्चेति ट॰ ।
Image-P.405


उरोललाटघाते च भुजाविधमनन्तथा ॥ 20cd
करोद्धूतं विमानञ्च पादाहति विपादिकं । 21ab
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ॥ 21cd
ऊर्द्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे । 22ab
पारन्तारकं दण्डं 1 करवीरन्धमाकुलं ॥ 22cd
तिर्य्यग्बन्धमपामार्गं 2 भीमवेगं सुदर्शनं । 23ab
सिंहाक्रान्तं गजाक्रान्तं गर्द्दभाक्रान्तमेव च ॥ 23cd
गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च । 24ab
आकर्षणं विकर्षञ्च बाहूनां मूलमेव च ॥ 24cd
ग्रीवाविपरिवर्त्तञ्च पृष्ठभङ्गं सुदारुणं । 25ab
पर्य्यासनविपर्य्यासौ पशुमारमजाविकं ॥ 25cd
पादप्रहारमास्फोटं कटिरेचितकन्तथा । 26ab
गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च ॥ 26cd
उरोललाटघातञ्च विस्पष्टकरणन्तथा । 27ab
उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं तथा ॥ 27cd
गजस्कन्धमवक्षेपमपराङ्मुखमेव च । 28ab
देवमार्गमधोमार्गममार्गगमनाकुलं ॥ 28cd
यष्टिघातमवक्षेपो वसुधादारणन्तथा । 29ab
जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणं ॥ 29cd
विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च । 30ab
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ॥ 30cd
वराङ्कुशधरौ चोभौ एको ग्रीवागतो ऽपरः । 31ab


1 पारकं तारकं गण्डमिति ख॰ , घ॰ च ।
2 तिर्य्यगूर्द्ध्वमपामार्गमिति घ॰ , ञ॰ च ।
Image-P.406


स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे ॥ 31cd
रथे रणे गजे चैव तुरङ्गाणां त्रयं भवेत् । 32ab
धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च ॥ 32cd
धन्विनो रक्षणार्थाय चर्मिणन्तु 1 नियोजयेत् । 33ab
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं ॥ 33cd
यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवं ॥ 34॥ 34ab


इत्याग्नेये महापुराणे धनुर्वेदो नामैकपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 252

अथ द्विपञ्चाशदधिकद्विशततमो ऽध्यायः ।

व्यवहारकथनं ।
अग्निरुवाच ।
व्यवहारं प्रवक्ष्यामि नयानयविवेकदं । 1ab
चतुष्पाच्च चतुःस्थानश्चतुःसाधन उच्यते ॥ 1cd
चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्त्यते । 2ab
अष्टाङ्गो ऽष्टादशपदः शतशाखस्तथैव च ॥ 2cd
त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा । 3ab
धर्मश्च व्यवहारश्च चरित्रं राजशासनं ॥ 3cd
चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः । 4ab
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ॥ 4cd


1 वर्म्मिणन्त्विति घ॰ , ञ॰ च ।
Image-P.407


चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं । 5ab
सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥ 5cd
चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः । 6ab
कर्त्तारं साक्षिणश्चैव सत्यान्राजानमेव च ॥ 6cd
व्याप्नोति पादगो यस्माच्चतुर्व्यापी ततः स्मृतः । 7ab
धर्म्मस्यार्थस्य यशसो लोकपङ्क्तेस्तथैव च ॥ 7cd
चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्त्तितः । 8ab
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ॥ 8cd
हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः । 9ab
कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते ॥ 9cd
त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् । 10ab
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ॥ 10cd
शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढ़ादिदर्शणात् । 11ab
पक्षद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः ॥ 11cd
पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः । 12ab
भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता ॥ 12cd
ऋणन्देयमदेयञ्च येन यत्र यथा च यत् । 13ab
दानग्रहणधर्म्मश्च ऋणादानमिति स्मृतम् ॥ 13cd
स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । 14ab
निक्षेपन्नाम तत् प्रोक्तं व्यवहारपदम्बुधैः ॥ 14cd
वणिक्प्रभृतयो यत्र कर्म्म सम्भूय कुर्वते । 15ab
तत्सम्भूयसमुप्त्यानं व्यवहारपदं विदुः ॥ 15cd
दत्त्वा द्रव्यञ्च सम्यग्यः पुनरादातुमिच्छति । 16ab
Image-P.408


दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतं ॥ 16cd
अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते । 17ab
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥ 17cd
भृत्यानां वेतनस्योक्तादानादानविधिक्रिया । 18ab
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ 18cd
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा । 19ab
किक्रीयते परोक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥ 19cd
विक्रीय पण्यं मूल्येन क्रेत्रे यच्च न दीयते । 20ab
विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ॥ 20cd
क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते । 21ab
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी ॥ 21cd
पाषण्डनैगमादीनां स्थितिः समय उच्यते । 22ab
समयस्यानपाकर्म तद्विवादपदं स्मृतं ॥ 22cd
सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयाः । 23ab
क्षेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥ 23cd
वैवाहिको विधिः स्त्रीनां यत्र पुंसाञ्च कीर्त्यते । 24ab
स्त्रीपुंसयोगसंज्ञन्तु तद्विवादपदं स्मृतम् ॥ 24cd
विभागोर्थस्य पैत्रस्य पुत्रैर्यस्तु प्रकल्प्यते । 25ab
दायमागमिति प्रोक्तं तद्विवादपदं बुधैः ॥ 25cd
सहसा क्रियते कर्म्म यत् किञ्चित् बलदर्पितैः । 26ab
तत् साहसमिति प्रोक्तं विवादपदमुच्यते ॥ 26cd
देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् । 27ab
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥ 27cd
Image-P.409


परगात्रेष्वभिद्रेहो हस्तपादायुधादिभिः । 28ab
अग्न्यादिभिश्चoपघातैर्दण्डपारुष्यमुच्यते ॥ 28cd
अक्षवज्जशलाकाद्यैर्दैवतं द्यूतमुच्यते । 29ab
पञ्चक्रिड़ावयोभिश्च प्राणिद्युतसमाह्वयः ॥ 29cd
प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः । 30ab
राज्ञामाज्ञाप्रतोघातस्तत्कर्माकरणन्तथा ॥ 30cd
व्यवहारो ऽष्टादशपदस्तेषां भेदो ऽथ वै शतम् । 31ab
क्रियाभेदान्मनुष्यानां शतशाखो निगद्यते ॥ 31cd
व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैरकोपनः । 32ab
शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ॥ 32cd
अपश्यता 1 कार्य्यवशात् सभ्यैर्विप्रं नियोजयेत् । 33ab
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ॥ 33cd
सभ्याः पृथक् पृथग् दण्ड्या विवादाद्द्विगुणो दमः । 34ab
स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ॥ 34cd
आवेदयति यद्राज्ञे व्यवहारपदं हि तत् । 35ab
प्रत्यर्थिनो ऽग्रतो लेख्यं यथा वेदितमर्थिना ॥ 35cd
समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् । 36ab
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ॥ 36cd
तप्तो ऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् । 37ab
तत्सिद्धौ सिद्धमाप्नोति विपरीतमतो ऽन्यथा ॥ 37cd
चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः । 38ab


1 अपश्यता इत्ययं पाठो न साधुः ।
Image-P.410


अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥ 38cd
अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् । 39ab
कुर्य्यात् प्रत्यभियोगन्तु कलहे साहसेषु च ॥ 39cd
उभयोः प्रतिभूर्ग्राह्यः समर्थः काम्यनिर्णये । 40ab
निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ॥ 40cd
मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् । 41ab
साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ॥ 41cd
विचारयेत्सद्यः एव कालो ऽन्यत्रेच्छया स्मृतः । 42ab
देशाद्देशान्तरं याति सृक्कणी परिलेढि च ॥ 42cd
ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च । 43ab
स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः ॥ 43cd
अभियोगे ऽथ वा साक्ष्ये वाग्दुष्टः परिकीर्त्तितः । 44ab
सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ॥ 44cd
न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश्च स स्मृतः । 45ab
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥ 45cd
पूर्वपक्षे ऽधरीभूते भवन्त्युत्तरवादिनः । 46ab
सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ॥ 46cd
दत्तं पणं वसञ्चैव धनिनो धनमेव च । 47ab
छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ॥ 47cd
भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः । 48ab
निह्नुते निखिलानेकमेकदेशविभावितम् ॥ 48cd
दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः । 49ab
स्मृत्योर्विरोधे न्यायस्तु वल्लवान् व्यवहारतः ॥ 49cd
Image-P.411


अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः 1 50ab
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ॥ 50cd
एषामन्यतमाभावे दिव्यान्यतममुच्यते । 51ab
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ॥ 51cd
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । 52ab
पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥ 52cd
परेण भुज्यमाना या धनस्य दशवार्षिकी । 53ab
आधिसीमोपनिःक्षेपजड़बालधनैर्विना ॥ 53cd
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि । 54ab
आध्यादीनां विहर्तारं धनिने दापयेद्धनं ॥ 54cd
दण्ड्यं च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा । 55ab
आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ॥ 55cd
आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न । 56ab
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ॥ 56cd
अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति । 57ab
आगमस्तु कृतो येन सोभियुक्तस्तमुद्धरेत् ॥ 57cd
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी । 58ab
योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत् ॥ 58cd
न तत्र कारणं भुक्तिरागमेन विनाकृता । 59ab
बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ॥ 59cd
स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस्तथा । 60ab
मत्तोन्मत्तार्त्तव्यसनिबालभीतप्रयोजितः ॥ 60cd


1 स्मृतिरिति घ॰ , ञ॰ च ।
Image-P.412


असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति । 61ab
प्रनष्टाधिशतं देयं नृपेण धनिने धनं ॥ 61cd
विभावयेन्नचेल्लिङ्गैस्तत्समं दातुमर्हति । 62ab
देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ॥ 62cd
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । 63ab
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥ 63cd
सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । 64ab
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ॥ 64cd
ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं । 65ab
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ 65cd
प्रपन्न साधयन्नर्थं न वाच्या नृपतिर्भवेत् । 66ab
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनं ॥ 66cd


इत्याग्नेये महापुराणे व्यवहारो नाम द्विपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 253

अथ त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः ।

व्यवहारकथनं ।
अग्निरुवाच ।
गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः । 1ab
दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम् ॥ 1cd
Image-P.413


राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् । 2ab
पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ 2cd
हीनजातिं परिक्षीणमृणार्थं कर्म्म कारयेत् । 3ab
ब्राह्मणस्तु परिक्षीणः शनैर्द्दाप्यो यथोदयम् ॥ 3cd
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम् । 4ab
मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परं ॥ 4cd
ऋक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । 5ab
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ॥ 5cd
अविभुक्तैः कुटुम्बार्थं यदृणन्तु कृतम्भवेत् । 6ab
दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ 6cd
न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता । 7ab
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ 7cd
गोपशौण्डिकशैनूषरजकव्याधयोषितां । 8ab
ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया ॥ 8cd
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं । 9ab
स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति ॥ 9cd
पितरि प्रोषिते प्रेते व्यसाभिप्लुते ऽथ वा 1 10ab
पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम् ॥ 10cd
सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् । 11ab
वृथा दानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ 11cd
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । 12ab


1 व्यसनाभिप्लुतेपि वेति ख॰ , घ॰ , ञ॰ च ।
Image-P.414


प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम् 1 12cd
दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयते । 13ab
आधौ तु वितथे दाप्या वितथस्य सुता अपि ॥ 13cd
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिको ऽपि वा । 14ab
न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः ॥ 14cd
बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । 15ab
एकच्छायाश्रितेष्वेषु धनिकस्य यथा रुचि ॥ 15cd
प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् । 16ab
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ 16cd
स्वसन्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च । 17ab
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ 17cd
आधिः प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते । 18ab
काले कालकृतं नश्येत् फलभोग्यो न नश्यति ॥ 18cd
गोप्याधिभोग्यो नावृद्धिः सोपकारे ऽथ भाविते । 19ab
नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ 19cd
आधेः स्वीकरणात्सिद्धौरक्षमाणोप्यसारताम् । 20ab
यातश्चेदन्य आधेयो धनभाग् वा धनी भवेत् ॥ 20cd
चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं । 21ab
सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ 21cd
उपस्थितस्य मोक्तव्य आधिर्दण्डो ऽन्यथा भवेत् । 22ab
प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात् ॥ 22cd
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । 23ab


1 प्रतिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतमिति ख॰ , ग॰ , घ॰ , छ॰ , ज॰ , ट॰ च ।
Image-P.415


विना धारणकाद्वापि विक्रीणीते ससाक्षिकम् ॥ 23cd
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । 24ab
मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धने ॥ 24cd
व्यसनस्थमनाख्याय हस्ते ऽन्यस्य यदर्पयेत् । 25ab
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ 25cd
न दाप्यो ऽपहृतं तत्तु राजदैवकतस्करैः । 26ab
प्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्डश्च तत्समम् ॥ 26cd
आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं । 27ab
याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः ॥ 27cd


इत्याग्नेये महापुराणे व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 254

अथ चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः ।

दिव्यप्रमाणकथनं ।
अग्निरुवाच ।
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । 1ab
धर्म्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ 1cd
पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः । 2ab
यथाजाति यथावर्ण सर्व्वे सर्व्वेषु वा स्मृताः ॥ 2cd
स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः । 3ab
Image-P.416


रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥ 3cd
पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः । 4ab
अमाक्षिणः सर्व्वसाक्षी चौर्य्यपारुष्यसाहसे ॥ 4cd
उभयानुमतः साक्षी भवत्येकोपि धर्म्मवित् । 5ab
अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् ॥ 5cd
राज्ञा सर्व्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽहनि । 6ab
न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ॥ 6cd
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि । 7ab
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् ॥ 7cd
ये पातककृतां लोका महापातकिनां तथा । 8ab
अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ॥ 8cd
तान् सर्व्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् । 9ab
सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् ॥ 9cd
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा । 10ab
द्वैधे बहूनां वचनं समेषु गुणिनान्तथा ॥ 10cd
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः । 11ab
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ॥ 11cd
अन्यथा वादिनो यस्य ध्रूवस्तस्य पराजयः । 12ab
उक्ते ऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ॥ 12cd
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः । 13ab
पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ॥ 13cd
विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः । 14ab
यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत्तमोवृतः ॥ 14cd
Image-P.417


स दाप्योष्टगुणम् दण्डं ब्राह्मणन्तु विवासयेत् । 15ab
वर्णिनां हि बधो यत्र तत्र साक्ष्यऽनृतं वदेत् ॥ 15cd
यः कश्चिदर्थो ऽभिमतः स्वरुच्या तु परस्परं । 16ab
लेख्यं तु साक्षिमत् कार्य्यं तस्मिन् धनिकपूर्वकम् ॥ 16cd
समामासतदर्द्धाहर्न्नामजातिस्वगोत्रजैः । 17ab
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ 17cd
समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । 18ab
मतं मे ऽमुकपुत्रस्य यदत्रोपरिलेखितं ॥ 18cd
साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । 19ab
अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ 19cd
अलिपिज्ञ ऋणी यः स्याल्लेकयेत् स्वमतन्तु सः । 20ab
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ 20cd
उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । 21ab
लिखितं ह्यमुकेनेति लेखको ऽथान्ततो लिखेत् ॥ 21cd
विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितञ्च यत् । 22ab
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते ॥ 22cd
ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । 23ab
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ 23cd
देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा । 24ab
भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ॥ 24cd
सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितन्तु यत् । 25ab
युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥ 25cd
लेख्यस्य पृष्ठे ऽभिलिखेत् प्रविष्टमधमर्णिनः । 26ab
Image-P.418


धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ 26cd
दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् । 27ab
साक्षिमच्च भवेद्यत्तु तद्दातव्यं ससाक्षिकं ॥ 27cd
तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । 28ab
महाभियोगेष्वेतानि शीर्षकस्थे ऽभियोक्तरि ॥ 28cd
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः । 29ab
विनापि शीर्षकात् कुर्य्यान्नृपद्रोहे ऽथ पातके ॥ 29cd
नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा । 30ab
नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ॥ 30cd
सहस्रार्थे तुलादीनि कोषमल्पे ऽपि दापयेत् । 31ab
शतार्द्धं दापयेच्छुद्धमशुद्धो दण्डभाग् भवेत् ॥ 31cd
सचेलस्नातमाहूय सूर्य्योदय उपोषितम् । 32ab
कारयेत्दर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥ 32cd
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां । 33ab
अग्निर्ज्ज्वलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ 33cd
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । 34ab
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ 34cd
आदित्यचन्द्रावनिलो ऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च । 35ab
अहश्च रात्रिश्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम् ॥ 35cd
त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता । 36ab
सत्यं वदस्व कल्याणि संशयान्मां विमोचय ॥ 36cd
Image-P.419


यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । 37ab
शुद्धश्चेद्गमयोर्द्ध्वम्मां तुलामित्यभिमन्त्रयेत् ॥ 37cd
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । 38ab
सप्ताश्वप्त्यस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ 38cd
त्वमेव सर्वभूतानामन्तश्चरसि पावक । 39ab
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यङ्गरे मम ॥ 39cd
तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । 40ab
अग्निर्वर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि ॥ 40cd
स तमादाय सप्तैव मण्डलानि शतैर्व्रजेत् । 41ab
षोड़शाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ 41cd
मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । 42ab
अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् ॥ 42cd
पवित्राणां पवित्र त्वं शोध्यं शोधय पावन । 43ab
सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् ॥ 43cd
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् । 44ab
समकालमिषुं मुक्तमानीयान्यो जवी नरः ॥ 44cd
यदि तस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् । 45ab
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित ॥ 45cd
त्रायस्वास्मादभीशापात् सत्येन भव मे ऽमृतम् । 46ab
एवमुक्त्वा विषं सार्ङ्गं भक्षयेद्धिमशैलजं ॥ 46cd
यस्य वेगैर्विना जीर्णं शुद्धिं तस्य विनिर्द्दिशेत् । 47ab
देवानुग्रान् समभ्यर्च्च्य तत्स्नानोदकमाहरेत् ॥ 47cd
संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् । 48ab
Image-P.420


आचतुर्द्दशमादह्नो यस्य नो राजदैविकम् ॥ 48cd
व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् । 49ab
सत्यवाहनशस्त्राणि गोवीजकनकानि च ॥ 49cd
देवतागुरुपादाश्च इष्टापूर्त्तकृतानि च । 50ab
इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये ॥ 50cd


इत्याग्नेये महापुराणे दिव्यानि प्रमाणानि नाम चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 255

अथ पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः ।

दायविभागकथनम् ।
अग्निरुवाच ।
विभागञ्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् । 1ab
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ 1cd
यदि दद्यात् समानंशान् कार्य्याः पत्न्यः समांशिकाः । 2ab
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा ॥ 2cd
शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक् क्रिया । 3ab
न्यूनाधिकविभक्तानां धर्म्यश्च पितृना कृतः ॥ 3cd
विभजेयुः सुताः पित्रोरूर्द्ध्वमृक्थमृणं समम् । 4ab
मातुर्दुहितरः शेषमृणात्ताभ्य ऋते ऽन्नयः ॥ 4cd
पितृद्रव्याविनाशेन यदन्यत् स्वयमर्जयेत् । 5ab
मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् ॥ 5cd
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । 6ab
Image-P.421


अनेकपितृकाणान्तु पितृतो भागकल्पना ॥ 6cd
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा । 7ab
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ 7cd
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । 8ab
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ 8cd
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः । 9ab
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ 9cd
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् । 10ab
पितुरूर्द्ध्वं विभजतां माताप्यंशं समं हरेत् ॥ 10cd
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । 11ab
भागिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ॥ 11cd
चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । 12ab
क्षत्रजास्त्रिद्व्येकभागा विड़्जास्तु द्व्येकभागिनः ॥ 12cd
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते । 13ab
तत् पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ 13cd
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । 14ab
उभयोरप्यसावृक्थी पिण्डदाता च धर्म्मतः ॥ 14cd
औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतः । 15ab
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ 15cd
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । 16ab
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ 16cd
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः । 17ab
दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् ॥ 17cd
Image-P.422


क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्व्यं कृतः । 18ab
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ॥ 18cd
उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत् सुतः । 19ab
पिण्डदो ऽंशहरश्चैषां पूर्व्वाभावे परः परः ॥ 19cd
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । 20ab
जातो ऽपि दास्यां शूद्रस्य कामतो ऽंशहरो भवेत् ॥ 20cd
मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिकं । 21ab
अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते ॥ 21cd
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । 22ab
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ 22cd
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । 23ab
स्वर्यात्स्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ 23cd
वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः । 24ab
क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रेकतीर्थिनः ॥ 24cd
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । 25ab
दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ॥ 25cd
अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यधनं हरेत् । 26ab
असंसृष्ट्यपि चादद्यात्सोदर्य्यो नान्यमानृजः ॥ 26cd
पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः । 27ab
अन्धो ऽचिकित्स्यरोगाद्या भर्त्तव्यास्तु निरंशकाः ॥ 27cd
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । 28ab
सुताश्चैषां प्रभर्त्तव्या यावद्वै भर्तृसात्कृताः ॥ 28cd
अपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः । 29ab
Image-P.423


निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ 29cd
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं । 30ab
आधिवेदनिकञ्चैव स्त्रीधनं परिकीर्त्तितं ॥ 30cd
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च । 31ab
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥ 31cd
अप्रजास्त्रीधनं भरत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि । 32ab
दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ॥ 32cd
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् । 33ab
मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् ॥ 33cd
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । 34ab
गृहीतं स्त्रीधनं भर्त्ता न स्त्रिये दातुमर्हति ॥ 34cd
अधिवित्तस्त्रियै दद्यादाधिवेदनिकं समम् । 35ab
न दत्तं स्रीधनं यस्यै दत्ते त्वर्द्धं प्रकीर्त्तितम् ॥ 35cd
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । 36ab
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतिकैः ॥ 36cd


इत्याग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
Image-P.424


Chapter 256

अथ षट्पञ्चाशदधिकद्विशततमो ऽध्यायः ।

सीमाविवादादिनिर्णयः ।
अग्निरुवाच ।
सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः । 1ab
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ 1cd
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । 2ab
सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥ 2cd
सामन्ता वा समंग्रामाश्चत्वारो ऽष्टौ दशापि वा 1 3ab
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः ॥ 3cd
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । 4ab
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवत्तकः ॥ 4cd
आरामायतनग्रामनिपानोद्यानवेश्मसु । 5ab
एष एव विधिर्ज्ञेयो वर्षाग्वुप्रवहेषु च ॥ 5cd
मर्य्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा । 6ab
मर्य्यादायाश्च दण्ड्याः स्युरधमोत्तममध्यमाः ॥ 6cd
न निषेध्यो ऽल्पबाधस्तु सेतुः कल्याणकारकः । 7ab
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ 7cd
स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् । 8ab
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ 8cd
फालाहतमपि क्षेत्रं यो न कुर्य्यान्न कारयेत् । 9ab


1 चत्वारो ऽथ दशापि वेति ख॰ , ग॰ , ञ॰ च ।
Image-P.425


स प्रदाप्यो ऽकृष्टफलं क्षेत्रमन्येन कारयेत् ॥ 9cd
मासानष्टौ तु महिषी सत्यघातस्य कारिणी । 10ab
दण्डनीया तदर्द्धन्तु गौस्तदर्द्धमजाविकं ॥ 10cd
भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । 11ab
सममेषां विवीतेपि स्वराष्ट्रं महिषीसमम् ॥ 11cd
यावत् सत्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् । 12ab
पालस्ताड्यो ऽथ गोस्वामी पूर्व्वोक्तं दण्डमर्हति ॥ 12cd
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । 13ab
अकामतः कामचारे चौरवद्दण्डमर्हति ॥ 13cd
महोक्षोत्सृष्टपशवः सूतिकागन्तुका च गौः । 14ab
पालो येषान्तु मोच्या दैवराजपरिप्लुताः ॥ 14cd
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा । 15ab
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ 15cd
पालदोषविनाशे तु पाले दण्डो विधीयते । 16ab
अर्द्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ 16cd
ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा । 17ab
द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत् ॥ 17cd
धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । 18ab
द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ 18cd
स्वं लभेतान्यविक्रीतं क्रेतुर्द्दोषो ऽप्रकाशिते । 19ab
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ 19cd
नष्टापहृतमासाद्य हर्त्तारं ग्राहयेन्नरम् । 20ab
देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ॥ 20cd
Image-P.426


विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । 21ab
क्रेता मूल्यं समाप्नोति तस्माद्यस्तत्र विक्रयी ॥ 21cd
आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा । 22ab
पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ॥ 22cd
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । 23ab
अनिवेद्य नृपे दण्ड्यः स तु षन्नयतिं पणान् ॥ 23cd
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतं । 24ab
अर्व्वाक् संवत्सरात् स्वामी लभते परतो नृपः ॥ 24cd
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । 25ab
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ 25cd
स्वकुटुम्बाविरोधेन देयं दारसुतादृते । 26ab
नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ॥ 26cd
प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । 27ab
देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः ॥ 27cd
दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकं । 28ab
वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ॥ 28cd
अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते । 29ab
अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ॥ 29cd
शते दशपलावृद्धिरौर्णे कार्पासिके तथा । 30ab
मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ॥ 30cd
कार्म्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । 31ab
न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ॥ 31cd
देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् । 32ab
Image-P.427


द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ 32cd
बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । 33ab
स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ॥ 33cd
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः । 34ab
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ 34cd
कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे । 35ab
अन्तेवासी गुरुप्राप्तभोजनस्त्रत्फलप्तदः ॥ 35cd
राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । 36ab
त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्म्मः पाल्यतामिति ॥ 36cd
निजधर्म्माविरोधेन यस्तु सामयिको भवेत् । 37ab
सोपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ 37cd
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । 38ab
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ 38cd
कर्त्तव्यं वचनं सर्वैः समूहहितवादिभिः । 39ab
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ 39cd
समूहकार्य्यप्रहितो यल्लभेत्तत्तदर्पयेत् । 40ab
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥ 40cd
वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः । 41ab
कर्त्तव्यं वचनं तेषां समूहहितवादिनां ॥ 41cd
श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः । 42ab
भेदञ्चैषां नृपो रक्षेत् पूर्ववृत्तिञ्च पालयेत् ॥ 42cd
गृहीतवेतनः कर्म्म त्यजन् द्विगुणमावहेत् । 43ab
अगृहीते समं दाप्यो भृत्यैरक्ष्य उपस्करः ॥ 43cd
Image-P.428


दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः । 44ab
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥ 44cd
देशं कालञ्च यो ऽतीयात् कर्म्म कुर्याच्च यो ऽन्यथा । 45ab
तत्र तु स्वामिनश्छन्दो ऽधिकं देयं कृते ऽधिके ॥ 45cd
यो यावत् कुरुते कर्म्म तावत्तस्य तु वेतनम् । 46ab
उभयोरप्यसाध्यञ्चेत् साध्ये कुर्याद्यथाश्रुतम् ॥ 46cd
अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः । 47ab
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ 47cd
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । 48ab
भृतिमर्द्धपथे सर्व्वां प्रदाप्यस्त्याजकोपि च ॥ 48cd
ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं गतं । 49ab
गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतं ॥ 49cd
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतं । 50ab
जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ 50cd
प्राप्ते नृपतिना भागे प्रसिद्धे धूर्त्तमण्डले । 51ab
जितं सशभिके स्थाने दापयेदन्यथा न तु ॥ 51cd
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । 52ab
राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥ 52cd
द्यूतमेकमुखं कार्य्यं तस्करज्ञानकारणात् । 53ab
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ 53cd


इत्याग्नेये महापुराणे सीमाविवादादिनिर्णयो नाम षट्पञ्चाशदधिकद्विशततमो ऽध्यायः ॥
Image-P.429


Chapter 257

अथ सप्तपञ्चाशदधिकद्विशततमो ऽध्यायः ।

वाक्पारुष्यादिप्रकरणम् ।
अग्निरुवाच ।
सत्यासत्यान्यथा स्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणां । 1ab
क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥ 1cd
अभिगन्तास्मि भगिनीम्मातरं वा तवेति च । 2ab
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमं ॥ 2cd
अर्द्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । 3ab
दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः ॥ 3cd
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । 4ab
वर्णानामानुलोम्येन तस्मादेवार्द्धहानितः ॥ 4cd
वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । 5ab
शत्यस्ततो ऽर्द्धिकः पादनासाकर्णिकरादिषु ॥ 5cd
अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश । 6ab
तथा शक्तः प्रतिभुवं दद्यात् क्षेमाय तस्य तु 1 6cd
पतनीयकृते क्षेपे दण्डी मध्यमसाहसः । 7ab
उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ॥ 7cd
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । 8ab


1 दद्यादित्यत्र दाप्य इति पाठो भवितुं युक्तः ।
Image-P.430


मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः ॥ 8cd
असाक्षिकहते चिह्नैर्युक्तिभिन्नागमेन च । 9ab
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् ॥ 9cd
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । 10ab
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥ 10cd
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । 11ab
हीनेष्वर्द्धं दमो मोहमदादिभिरदण्डनम् ॥ 11cd
विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु । 12ab
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः ॥ 12cd
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । 13ab
परस्परन्तु सर्व्वेषां शास्त्रे मध्यमसाहसः ॥ 13cd
पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । 14ab
पीडाकर्षां शुकावेष्टपादाध्यासे शतन्दमः ॥ 14cd
शोणितेन विना दुःस्वङ्कुर्वन् काष्ठादिभिर्नरः । 15ab
द्वात्रिंशतं पणान् 1 दाप्यो द्विगुणं दर्शने ऽसृजः ॥ 15cd
करपाददतो भङ्गे च्छेदने कर्णनासयोः । 16ab
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ 16cd
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । 17ab
कन्धराबाहुसक्थ्याञ्च भङ्गे मध्यमसाहसः ॥ 17cd
एकं घ्नतां बहूनाञ्च यथोक्ताद्द्विगुणा दमाः । 18ab
कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ॥ 18cd
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । 19ab


1 द्वाविंशतिपणामिति ख॰ ।
Image-P.431


दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ॥ 19cd
तरिकः स्थलजं शुल्कं गृह्नन् दण्ड्यः पणान्दश । 20ab
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥ 20cd
अभिघाते तथा भेदे च्छेदे बुद्ध्यावपातने । 21ab
पणान्दाप्यः पञ्चदशविंशतिं तत्त्रयन्तथा ॥ 21cd
दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा । 22ab
षाड़शाद्यं पणात् दाप्यो द्वितीयो मध्यमन्दमम् ॥ 22cd
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । 23ab
दण्डः क्षुद्रपशूनां स्याद्द्विपणप्रभृतिः क्रमात् ॥ 23cd
लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च । 24ab
महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ॥ 24cd
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । 25ab
उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः 1 25cd
यः साहसङ्कारयति स दाप्यो द्विगुणन्दमम् । 26ab
यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ 26cd
आर्य्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः । 27ab
सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ॥ 27cd
सामन्तकुलिकादीनामपकारस्य कारकः । 28ab
पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥ 28cd
स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः । 29ab
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन् ॥ 29cd
शूद्रः प्रव्रजितानाञ्च दैवे पैत्र्ये च भोजकः । 30ab


1 प्ररोहिशाखिनामित्यादिर्विंशतेर्द्द्विगुणा दमा इत्यन्तः पाठः ख॰ पुस्तके नास्ति ।
Image-P.432


अयुक्तं शपथं कुर्व्वन्नयोग्यो योग्यकर्मकृत् ॥ 30cd
वृषक्षुद्रपशूनाञ्च पूंस्त्वस्य प्रतिघातकृत् । 31ab
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ 31cd
पितापुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः । 32ab
एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥ 32cd
वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् । 33ab
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ 33cd
तुलाशासनमानानां कूटकृन्नाणकस्य च । 34ab
एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम् ॥ 34cd
अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् । 35ab
स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ॥ 35cd
भिषङ्मिथ्याचरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । 36ab
मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ॥ 36cd
अबध्यं यश्च बध्नाति बध्यं यश्च प्रमुञ्चति । 37ab
अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ॥ 37cd
मानेन तुलया वापि यो ऽंशमष्टमकं हरेत् । 38ab
द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ॥ 38cd
भेषजस्नेहलवणगन्धधान्यगुड़ादिषु । 39ab
पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ॥ 39cd
सम्भूय कुर्व्वतामर्घं सबाधं कारुशिल्पिनां । 40ab
अर्थस्य ह्रासं वृद्धिं वा सहस्रो दण्ड उच्यते ॥ 40cd
राजनि स्थाप्यते यो ऽर्थः प्रत्यहं तेन विक्रयः । 41ab
क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः ॥ 41cd
Image-P.433


स्वदेशपण्ये तु शतं बणिग् गृह्णीत पञ्चकं । 42ab
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ 42cd
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं । 43ab
अर्थो ऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ॥ 43cd
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । 44ab
सोदयन्तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते ॥ 44cd
विक्रीतमपि विक्रेयं पूर्वे क्रेतर्य्यगृह्णति । 45ab
हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥ 45cd
राजदैवोपघातेन पण्ये दोषमुपागते । 46ab
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ 46cd
अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि । 47ab
विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् ॥ 47cd
क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता । 48ab
क्रीत्वा नानुशयः कार्य्यः कुर्वन् षड़् भागदण्डभाक् ॥ 48cd
समवायेन बणिजां लाभार्थं कर्म कुर्वतां । 49ab
लाभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ ॥ 49cd
प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितं । 50ab
स तद्दयाद्विप्लवाच्च रक्षिताद्दशमांशभाक् ॥ 50cd
अर्थप्रेक्षपणाद्विंशं भागं शुल्कं नृपो हरेत् । 51ab
व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ॥ 51cd
मित्थ्या वदन् परीमाणं शुल्कस्थानादपक्रमन् । 52ab
दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयौ ॥ 52cd
देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । 53ab
Image-P.434


ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥ 53cd
जिह्मं त्यजेयुर्निर्लोभमशक्तो ऽन्येन कारयेत् । 54ab
अनेन विधिराख्यात ऋत्विक्कर्षकर्मिणां ॥ 54cd
ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । 55ab
पूर्वकर्मापराधी वा तथैवाशुद्धवासकः ॥ 55cd
अन्येपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । 56ab
द्यूतस्त्रीपानशक्ताश्च शुष्कभिन्नमुखस्वराः ॥ 56cd
परद्रव्यगृहाणाञ्च पृच्छका गूढ़चारिणः । 57ab
निराया व्ययवन्तश्च विनष्ट द्रव्यविक्रयाः ॥ 57cd
गृहीतः शङ्कया चौर्य्येनात्मानञ्चेद्विशोधयेत् । 58ab
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ 58cd
चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बुधैः । 59ab
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥ 59cd
घातिते ऽपहृते दोषो ग्रामभर्त्तुरनिर्गते । 60ab
स्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ॥ 60cd
पञ्चग्रामी वहिः क्रोशाद्दशग्राम्यऽथ वा पुनः । 61ab
वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः ॥ 61cd
प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् । 62ab
उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ॥ 62cd
कार्य्यौ द्वितीयापराधे करपादैकहीनकौ । 63ab
भक्तावकाशाग्न्युदकमन्त्रापकरणव्ययान् ॥ 63cd
दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः । 64ab
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ॥ 64cd
Image-P.435


उत्तमो वा ऽधमो वापि पुरुषस्त्रीप्रमापणे । 65ab
शिलां बद्ध्वा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं ॥ 65cd
विषाग्निदां निजगुरुनिजापत्यप्रमापणीं । 66ab
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ 66cd
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । 67ab
राजपत्न्यभि ऽगामी च दग्धव्यास्तु कटाग्निना ॥ 67cd
पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः । 68ab
स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ॥ 68cd
प्रातिलोम्ये बधः पुंसां नार्य्याः कर्णावकर्त्तनम् । 69ab
नीवीस्तनप्रावरणनाभिकेशावमर्द्दनम् ॥ 69cd
अदेशकालसम्भाषं सहावस्थानमेव च । 70ab
स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान् ॥ 70cd
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा । 71ab
पशून् गच्छंश्छतं दाप्यो हीनां स्त्रीं गाश्च मध्यमम् ॥ 71cd
अवरुद्धासु दासीषु भुजिष्यासु तथैव च । 72ab
गम्यास्वपि पुमान्दाप्यः पञ्चाशत् पणिकन्दमम् ॥ 72cd
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । 73ab
कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे ॥ 73cd
न्यूनं वाप्यधिकं वापि लिखेद्यो राजशासनम् । 74ab
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ 74cd
अभक्षैर्द्दूषयन् विप्रं दण्ड उत्तमसाहसम् । 75ab
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥ 75cd
अङ्गहीनश्च कर्त्तव्यो दाप्यश्चोत्तमसाहसं । 76ab
Image-P.436


शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणः शृङ्गिणस्तथा ॥ 76cd
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा । 77ab
अचौरञ्चौरे ऽभिवदन् दाप्यः पञ्चशतं दमं ॥ 77cd
राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा । 78ab
मृताङ्गलग्नविक्रेतुर्गुरोस्ताड़यितुस्तथा ॥ 78cd
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् । 79ab
राजयानासनारोढुर्दण्डो मध्यमसाहसः ॥ 79cd
द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । 80ab
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः ॥ 80cd
यो मन्येताजितो ऽस्मीति न्यायेनाभिपराजितः । 81ab
तमायान्तं पुनर्ज्जित्वा दण्डयेद्द्विगुणं दमं ॥ 81cd
राज्ञा ऽन्यायेन यो दण्डो गृहीतो वरुणायतं । 82ab
निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतं ॥ 82cd
धर्म्मश्चार्थश्च कीर्त्तिञ्च लोकपङ्क्तिरुपग्रहः । 83ab
प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वतम् ॥ 83cd
पश्यतो व्यवहारांश्च गुणाः स्युः सप्त भूपतेः ॥ 84॥ 84ab


इत्याग्नेये महापुराणे वाक्पारुष्यादिप्रकरणं नाम सप्तपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
Image-P.437


Chapter 258

अथाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः ।

ऋग्विधानं ।
अग्निरुवाच ।
ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् । 1ab
भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ॥ 1cd
पुष्कर उवाच ।
प्रतिवेदन्तु कर्म्माणि कार्य्याणि प्रवदामि ते । 2ab
प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ॥ 2cd
अन्तर्ज्जले तथा होमे जपती मनसेप्सितम् । 3ab
कामं करोति गायत्री प्राणायामाद्विशेषतः ॥ 3cd
गायत्र्या दशसाहस्रो जपो नक्ताशनो द्विज । 4ab
बहुस्नातस्य तत्रैव सर्वकल्मषनाशनः ॥ 4cd
दशायुतानि जप्त्वा ऽथ हविष्याशी स मुक्तिभाक् । 5ab
प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ॥ 5cd
ओंकारशतजप्तन्तु नाभिमात्रोदके स्थितः । 6ab
जलं पिवेत् स सर्वैस्तु पापैर्वै 1 विप्रमुच्यते ॥ 6cd
मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयो ऽग्नयः । 7ab
महाव्याहृतयः सप्त लोका होमो ऽखिलाघहा ॥ 7cd
गायत्री परमा जाप्या महाव्याहृतयस्तथा । 8ab
अन्तर्ज्जले तथा राम प्रोक्तश्चैवाघमर्षणः ॥ 8cd
अग्निमीले पुरोहितं सूक्तो ऽयं वह्निदैवतः । 9ab


1 पापैर्हि विप्रमुच्यत इति ग॰ , घ॰ , ञ॰ च ।
Image-P.438


शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ॥ 9cd
होमं त्रिषवणं भैक्ष्यमनग्निज्वलनञ्चरेत् । 10ab
अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्त्तिताः ॥ 10cd
ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते । 11ab
मेधाकामो जपेन्नित्यं सदसन्यमिति त्यचम् ॥ 11cd
अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः । 12ab
शुनःशेफमृषिं बद्धः सन्निरुद्धो ऽथ वा 1 जपेत् ॥ 12cd
मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् । 13ab
य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ॥ 13cd
ऋग्भिः षोड़्शभिः कुर्य्यादिन्द्रियस्येति दिने दिने । 14ab
हिरण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ॥ 14cd
क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः । 15ab
रौद्रीभिःषड्भिरीशानं स्तूयाद्यो वै दिने दिने ॥ 15cd
चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् । 16ab
उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ॥ 16cd
क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं । 17ab
द्विषन्तमित्यथार्द्धर्च्चं यद्विप्रान्तं जपन् स्मरेत् ॥ 17cd
आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति । 18ab
आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ॥ 18cd
उत्तमस्तस्य चार्द्धर्च्चो जपेद्वै विविधासने । 19ab
उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ॥ 19cd


1 सन्निबद्धो ऽथेति क॰ , ख॰ , ज॰ च ।
Image-P.439


अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबाधते । 20ab
न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ॥ 20cd
एकादश सुपर्णस्य सर्व्वकामान्विनिर्द्दिशेत् । 21ab
आध्यात्मिकीः कइत्येता जपन्मोक्षमवाप्नुयात् ॥ 21cd
आ नो भद्रा इत्यनेन दीर्घमायुरवाप्नुयात् । 22ab
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरं ॥ 22cd
उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयं । 23ab
आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपेत् ॥ 23cd
आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं । 24ab
यथा मुञ्चति चेषोकां तथा पापं प्रमुञ्चति ॥ 24cd
जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि । 25ab
भयैर्व्विमुच्यते सर्व्वैः स्वस्तिमानाप्नुयात् गृहान् ॥ 25cd
व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं । 26ab
प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ॥ 26cd
जपन्निन्द्रमिति स्नातो वैश्यदेवन्तु सप्तकं । 27ab
मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ॥ 27cd
इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् । 28ab
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ॥ 28cd
औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः । 29ab
छित्त्वा सर्व्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ॥ 29cd
ऊर्द्ध्वबाहुरनेनैव स्तुत्वा सम्भुं तथैव च । 30ab
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥ 30cd
अधृष्यः सर्वभूतानां जायते संशयं विना । 31ab
Image-P.440


चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ॥ 31cd
समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् । 32ab
अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ॥ 32cd
दुःस्वप्नञ्चार्हते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम् 1 33ab
उभे पुमानिति तथा रक्षोघ्नः परिकीर्त्तितः ॥ 33cd
उभे वासा इति ऋचो जपन् कामानवाप्नुयात् । 34ab
न सागन्निति च जपन् मुच्यते चाततायिनः ॥ 34cd
कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् । 35ab
इमन्नृसोममित्येतत् सर्व्वान् कामानवाप्नुयात् ॥ 35cd
पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं 2 36ab
अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ॥ 36cd
वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा । 37ab
कङ्कतो नेति सूक्तेन विषान् सर्व्वान् व्यपोहति ॥ 37cd
यो जात इति सूक्तेन सर्व्वान् कामानवाप्नुयात् । 38ab
गणानामिति सूक्तेन श्निग्धमाप्नोत्यनुत्तमं ॥ 38cd
यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचं । 39ab
अध्वनि प्रस्थितो यस्तु पश्येच्छत्रूं समुत्थितं ॥ 39cd
अप्रशस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् । 40ab
द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ॥ 40cd
पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते । 41ab
कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ॥ 41cd


1 भोजनञ्चाप्नुयाच्छतमिति ख॰ , ग॰ , घ॰ , ज॰ च ।
2 नित्यमन्नमुपस्थितमिति क॰ , छ॰ च ।
Image-P.441


अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् । 42ab
उपतिष्ठेत् स्वयं वह्निं परित्यृचा दिने दिने ॥ 42cd
तं रक्षति स्वयं वह्निर्व्विश्वतो विश्वतोमुखः । 43ab
हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ॥ 43cd
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि । 44ab
जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ॥ 44cd
इन्द्राय च मरुद्भ्यस्तु पर्ज्जन्याय भगाय च । 45ab
यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ॥ 45cd
युक्तो धान्याय सीतायै सुनासीरमथोत्तरं । 46ab
गन्धमाल्यैर्नमस्कारैर्यजेदेताश्च देवताः ॥ 46cd
प्रवापने प्रलवने खलसीतापहारयोः । 47ab
अमोघङ्कर्म्म भवति वर्द्धते सर्व्वदा कृषिः ॥ 47cd
समुद्रादिति सूक्तेन कामानाप्नोति पावकात् । 48ab
विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥ 48cd
स तरत्यापदः सर्व्वा यशः प्राप्नोति चाक्षयं । 49ab
विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ॥ 49cd
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं । 50ab
प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ॥ 50cd
स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् । 51ab
स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजते ऽध्वनि ॥ 51cd
विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत् 1 52ab
स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ॥ 52cd


1 व्याधिकम्भवदिति ट॰ ।
Image-P.442


अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयिoजयेत् । 53ab
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥ 53cd
मनसः काम इत्येतां पशुकामो नरो जपेत् । 54ab
कर्द्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ॥ 54cd
अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः । 55ab
राहिते चर्म्मणि स्नायात् ब्राह्मणस्तु यथाविधि ॥ 55cd
राजा चर्म्मणि वैयाघ्रे छागे वैश्यस्तथैव च । 56ab
दशसाहस्रिको होमः प्रत्येकं परिकीर्त्तितः ॥ 56cd
आगार इति सूक्तेन गोष्ठे गां लोकमातरं । 57ab
उपतिष्ठेद्व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ॥ 57cd
उपेतितिसृभीराज्ञो दुन्दुभिमभिमन्त्रयेत् । 58ab
तेजो बकञ्च प्राप्नोति शत्रुञ्चैव नियच्छति ॥ 58cd
तृणपाणिर्ज्जपेत्सूक्तं रक्षोघ्नं दस्युन्भिर्वृतः । 59ab
ये के च उमेत्यृचं जप्त्वा दीर्घमायुराप्नुयात् 1 59cd
जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् । 60ab
यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥ 60cd
आग्नेयेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयं । 61ab
अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ॥ 61cd
सबाधे विषमे दुर्गे बन्धो वा निर्गतः क्वचित् । 62ab
पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥ 62cd
त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं । 63ab
तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ॥ 63cd


1 अवाप्तवानिति ट॰ ।
Image-P.443


समुद्दिश्य महादेवं जीवेदब्दशतं सुखं । 64ab
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरं ॥ 64cd
उद्यन्तं मध्यगञ्चैव दीर्घमायुर्ज्जिजीविषुः । 65ab
इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ॥ 65cd
यस्य लुप्तं व्रतं मोहाद्व्रात्यैर्वा संसृजेत्सह । 66ab
उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ॥ 66cd
आदित्येत्यृक् च सम्राजं 1 जप्त्वा वादे जयी भवेत् । 67ab
महीति च चतुष्केण मुच्यते महतो भयात् ॥ 67cd
ऋचं जप्त्वा यदि ह्येतत् सर्व्वकामानवाप्नुयात् । 68ab
द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ॥ 68cd
वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च । 69ab
शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः ॥ 69cd
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्न्नाभिभूयते । 70ab
उत्तमेदमिति स्नातो हुत्त्वा शत्रुं प्रमापयेत् ॥ 70cd
शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् । 71ab
कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ॥ 71cd
यदत्य कव्येत्युदिते जप्ते ऽवश्यं जगद्भवेत् । 72ab
यद्वागिति च जप्तेन वाणी भवति संस्कृता 2 72cd
वाचो विदमिति त्वेतां जपन् वाचं समश्नुते । 73ab
पवित्राणां पवित्रन्तु पावमान्येत्यृचो मताः ॥ 73cd
वैखानसा ऋचस्त्रिंशत्पवित्राः परमा मताः । 74ab


1 आदित्येति प्रसंम्राजमिति ग॰ , घ॰ , ञ॰ ।
2 संस्थितेति क॰ , छ॰ , च ।
Image-P.444


ऋचो द्विषष्टिः प्रोक्ताश्च परस्वेत्यृषिसत्तम ॥ 74cd
सर्व्वकल्मषनाशाय पावनाय शिवाय च । 75ab
स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ॥ 75cd
दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट् । 76ab
एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् ॥ 76cd
आपोहिष्टेति वारिस्थो जपेत्पापभयार्द्दने । 77ab
प्रदेवन्नेति नियतो जपेच्च मरुधन्वसु ॥ 77cd
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति । 78ab
प्रावेयाभित्यृचमेकां जपेच्च मनसा निशि ॥ 78cd
व्युष्टायामुदिते सूर्य्ये द्यूते जयमवाप्नुयात् । 79ab
मा प्रगामेति मूढश्च पन्थानं पथि विन्दति ॥ 79cd
क्षीणायुरिति मन्येत यङ्कञ्चित् सुहृदं प्रियं । 80ab
यत्तेयमिति तु स्नातस्तस्य मूर्द्धानमालभेत् ॥ 80cd
सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् । 81ab
इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः ॥ 81cd
पशुकामो गवां गोष्ठे अर्थकामश्चतुष्पथे । 82ab
वयः सुपर्ण इत्येतां जपन् वै विन्दते श्रियं ॥ 82cd
हविष्यन्तीयमभ्यस्य सर्व्वपापैः प्रमुच्यते । 83ab
तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते तथा ॥ 83cd
या ओषधयः स्वस्त्ययनं सर्व्वव्याधिविनाशनं । 84ab
वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ॥ 84cd
सर्व्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस्तथा । 85ab
सूत संकाश्यपन्नित्यं प्रजाकामस्य कीर्त्तितं ॥ 85cd
Image-P.445


अहं रुद्रेति इत्येतद्वाग्मी भवति मानवः । 86ab
न योनौ जायते विद्वान् जपन्रात्रीति रात्रिषु ॥ 86cd
रात्रिसूक्तं जपन्न्रात्री रात्रिं क्षेमी नयेन्नरः । 87ab
कल्पयन्तीति च जपन्नित्यं कृत्त्वारिनाशनं ॥ 87cd
आयुष्यञ्चैव वर्च्चस्यं सूक्तं दाक्षायणं महत् । 88ab
उत देवा इति जपेदामयघ्नं धृतव्रतः ॥ 88cd
अयमग्ने जनित्येतज्जपेदग्निभये सति । 89ab
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनं ॥ 89cd
ब्राह्मीमासाद्य सूक्ते द्वे ऋचं ब्राह्मीं शतावरीं । 90ab
पृथगद्भिर्घृतैर्वाथ मेधां लक्ष्मीञ्च विन्दति ॥ 90cd
मास इत्यसपत्नघ्नं संग्रामं विजिगीषतः । 91ab
ब्रह्मणोग्निः संविदानं गर्भमृत्युनिवारणं ॥ 91cd
अपैहीति जपेत्सूक्तं शुचिर्दुस्वप्ननाशनं । 92ab
येनेदमिति वै जप्त्वा समाधिं विन्दते परं ॥ 92cd
मयो भूर्व्वात इत्येतत् गवां स्वस्त्ययनं परं । 93ab
शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत् ॥ 93cd
महीत्रीणामवरोस्त्विति पथि स्वस्त्ययनं जपेत् । 94ab
अग्नये विद्विषन्नेवं जपेच्च रिपुनाशनं ॥ 94cd
वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताः । 95ab
जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ॥ 95cd
होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु । 96ab
हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ॥ 96cd
विप्राशिषस्त्वमोघाः स्युर्बहिःस्नानन्तु सर्वतः । 97ab
Image-P.446


सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ॥ 97cd
क्षीरवृक्षास्तथेध्मन्तु होमा वै सर्वकामदाः । 98ab
समिधः कण्ठकिन्यश्च राजिका रुधिरं विषं ॥ 98cd
अभिचारे तथा शैलं अशनं शक्तवः पयः । 99ab
दधि भैक्ष्यं फलं मूलमृग्विधानमुदाहृतं ॥ 99cd


इत्याग्नेये महापुराणे ऋग्विधानं नामाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः ॥

Chapter 259

अथोनषष्ट्यधिकद्विशततमो ऽध्यायः ।

यजुर्विधानं ।
पुष्कर उवाच ।
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु । 1ab
ॐकारपूर्व्विका राम महाव्याहृतयो मताः ॥ 1cd
सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा । 2ab
आज्याहुतिसहस्रेण देवानाराधयेद्बुधः ॥ 2cd
मनसः काङ्क्षितं राम मनसेप्सितकामदं । 3ab
शान्तिकामो यवैः कुर्य्यात्तिलैः पापापनुत्तये ॥ 3cd
धान्यैः सिद्धार्थकैश्चैव सर्व्वकाम करैस्तथा । 4ab
औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ॥ 4cd
दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः । 5ab
अपामार्गसमिद्धस्तु कामयन् कनकं बहु ॥ 5cd
Image-P.447


कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु । 6ab
जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् ॥ 6cd
वश्यकर्म्मणि शाखोढवासापामार्गमेव च । 7ab
विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ॥ 7cd
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया । 8ab
सर्व्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ॥ 8cd
सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् । 9ab
वस्त्रकामस्य पुष्पाणि दर्व्वा व्याधिविनाशिनी ॥ 9cd
ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते । 10ab
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ॥ 10cd
विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा । 11ab
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ॥ 11cd
वचाचूर्णेन सम्पातात्समानीय च तां वचां । 12ab
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥ 12cd
एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च 1 13ab
द्विषतो बधोसीति जपन्निखनेद्रिपुवेश्मनि ॥ 13cd
उच्चाटनमिदं कर्म्म शत्रूणां कथितं तव । 14ab
चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ॥ 14cd
उपयुञ्जत इत्येदनुवाकन्तथान्नदं । 15ab
तनूनपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ॥ 15cd
भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत् 2 16ab


1 खादिरमेव वेति ग॰ , घ॰ , ञ॰ च ।
2 पशूपसर्गहेति क॰ , छ॰ च ।
Image-P.448


त्रियम्वकं यजामहे होमः सौभाग्यवर्द्धनः ॥ 16cd
कन्यानाम गृहीत्वा तु कन्यालाभकरः परः । 17ab
भयेषु तु जपन्नित्यं भयेभ्यो विप्रमुच्यते ॥ 17cd
धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् । 18ab
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ॥ 18cd
युञ्जते मनो ऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् । 19ab
विष्णोरवाटमित्येतत् 1 सर्वबाधाविनाशनं ॥ 19cd
रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं । 20ab
अयत्नो अग्निरित्येतत् संग्रामे विजयप्रदं ॥ 20cd
इदमापः प्रवहत स्नाने पापापनोदनं । 21ab
विश्वकर्म्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ॥ 21cd
कन्याया निखनेद्द्वारि सा ऽन्यस्मै न प्रदीयते । 22ab
देव सवितरेतेन हुतेनैतेन चान्नवान् ॥ 22cd
अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम । 23ab
तिलैर्यवैश्च धर्म्मज्ञ तथापामार्गतण्डुलैः ॥ 23cd
सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज । 24ab
तिलकञ्च तथा कृत्वा जनस्य प्रियतामियात् ॥ 24cd
रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं । 25ab
सर्व्वकर्म्मकरो होमस्तथा सर्व्वत्र शान्तिदः ॥ 25cd
अजाविकानामश्वानां कुञ्जराणां तथा गवां । 26ab
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ॥ 26cd
ग्रामाणां नगरानाञ्च देशानामपि भार्गव । 27ab


1 विष्णोर्विराटमित्येतदिति घ॰ , ञ॰ च । विष्टोरराटमित्येतदिति क॰ , ज॰ , ट॰ च ।
Image-P.449


उपद्रुतानां धर्म्मज्ञ व्याधितानां तथैव च ॥ 27cd
मरके समनुप्राप्ते रिपुजे च तथा भये । 28ab
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥ 28cd
कुष्माण्डघृतहोमेन सर्व्वान् पापान् व्यपोहति । 29ab
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ॥ 29cd
बहिःस्नानरतो मासान्मुच्यते ब्रह्महत्यया । 30ab
मधुवातेति मन्त्रेण होमादितो ऽखिलं लभेत् ॥ 30cd
दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं । 31ab
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ॥ 31cd
स्वस्तिन इन्द्र इत्येतत्सर्व्वबाधाविनाशनं । 32ab
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ॥ 32cd
घृताहुतिसहस्रेण तथालक्ष्मीविनाशनं । 33ab
श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ॥ 33cd
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः । 34ab
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ॥ 34cd
शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः । 35ab
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ॥ 35cd
यो अस्मभ्यमवातीयाद्धुत्वा कृष्णतिलान्नरः । 36ab
सहस्रशो ऽभिचाराच्च मुच्यते विकृताद्द्विज ॥ 36cd
अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् । 37ab
हंसः शुचिः सदित्येतज्जप्तन्तोये ऽघनाशनं ॥ 37cd
चत्वारि भृङ्गेत्येतत्तु सर्व्वपापहरं जले । 38ab
देवा यज्ञेति जप्त्वातु ब्रह्मलोके महीयते ॥ 38cd
Image-P.450


वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् । 39ab
सुपर्णोसीति चेत्यस्य कर्म्मव्याहृतिवद्भवेत् ॥ 39cd
नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् । 40ab
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ॥ 40cd
इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः । 41ab
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ॥ 41cd
शतं य 1 इति चैतेन हुत्वा पर्णफलाणि च । 42ab
आरोग्यं श्रियमाप्नोति जीवितञ्च चिरन्तथा ॥ 42cd
ओषधीः प्रतिमोदग्ध्वं 2 वपने लवने ऽर्थकृत् । 43ab
अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ॥ 43cd
तस्मा इति च मन्त्रेन बन्धनस्थो विमुच्यते । 44ab
युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ॥ 44cd
मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् 3 45ab
मा माहिंसीस्तिलाज्येन हुतं रिपुविनाशनं 4 45cd
नमो ऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु । 46ab
कृणुधवं राज इत्येतदभिचारविनाशनं ॥ 46cd
दूर्व्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः । 47ab
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ॥ 47cd
रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः । 48ab


1 शतञ्चेति ट॰ । शतं वेति क॰ ।
2 औषधयः प्रतिमोदध्वमिति ज॰ ।
3 सर्व्वकिल्विषनाशनमिति घ॰ , ञ॰ च ।
4 विघ्नविनाशनमिति क॰ , छ॰ च ।
Image-P.451


औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ॥ 48cd
हुत्वा सहस्रशो राम धनमाप्नोति मानवः । 49ab
सौभाग्यं महदाप्नोति व्यवहारे तथा त्रयम् ॥ 49cd
अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् । 50ab
अपः पिवेति च तथा हुत्वा दधि घृतं मधु ॥ 50cd
प्रवर्त्तयति धर्म्मज्ञ महावृष्टिमनन्तरं । 51ab
नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ॥ 51cd
सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं । 52ab
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ॥ 52cd
रक्षोघ्नञ्च यशस्यञ्च चिरायुःपुष्टिवर्द्धनम् । 53ab
सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी ॥ 53cd
असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं । 54ab
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ॥ 54cd
अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति । 55ab
प्रमुञ्च 1 धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ॥ 55cd
रिपूणां भयदं युद्धेनात्रकार्य्या विचारणा । 56ab
मानो महान्त इत्येवं बालानां शान्तिकारकं ॥ 56cd
नमो हिरण्यवाहवे इत्यनुवाकसप्तकम् । 57ab
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ॥ 57cd
नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः । 58ab
राज्यलक्ष्मीमवाप्नोति तथा विल्वैः सुवर्णकम् ॥ 58cd
इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते । 59ab


1 प्रयुञ्जेति ग॰ , घ॰ , ञ॰ च ।
Image-P.452


दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ॥ 59cd
आशुः शिशान इत्येतदायुधानाञ्च रक्षणे । 60ab
संग्रामे कथितं राम सर्वशत्रुनिवर्हणं ॥ 60cd
राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज । 61ab
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ॥ 61cd
शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् । 62ab
अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ॥ 62cd
अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् । 63ab
भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ॥ 63cd
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् । 64ab
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ॥ 64cd
ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् । 65ab
संवत्सरोसीति धृतैर्लक्षहोमादरोगवान् ॥ 65cd
केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् । 66ab
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् 1 66cd
धन्वा नागेति मन्त्रश्च धनुर्ग्राहनिकः परः । 67ab
यजीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ॥ 67cd
मन्त्रश्चाहिरथेत्येतच्छराणां 2 मन्त्रणे भवेत् । 68ab
वह्नीनां पितरित्येतत्तूणमन्त्रः प्रकीर्त्तितः ॥ 68cd
युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते । 69ab
आशुः शिशान इत्येतद्यात्रारम्भणमुच्यते ॥ 69cd


1 धर्म्मविवर्द्धनमिति ज॰ ।
2 मन्त्रश्च हि रथ ह्येतच्छराणामिति क॰ , छ॰ च ।
Image-P.453


विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः । 70ab
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ॥ 70cd
याः सेना अभित्वरीति परसैन्यमुखे जपेत् । 71ab
दुन्दुभ्य इति चाप्येतद्दुन्दुभीताड़नं भवेत् ॥ 71cd
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयी भवेत् । 72ab
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥ 72cd
रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् । 73ab
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ॥ 73cd
शिवसंकल्पजापेन 1 समाधिं मनसो लभेत् । 74ab
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ॥ 74cd
यदा बधून्दाक्षायणां मन्त्रेणानेन मन्त्रितम् । 75ab
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ॥ 75cd
इमं जीवेभ्य द्रति च शिलां लोष्ट्रञ्चतुर्द्दिशं । 76ab
क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥ 76cd
परिमेगामनेनेति 2 वशीकरणमुत्तमं । 77ab
हन्तुमभ्यागतस्तत्र वशीभवति मानवः ॥ 77cd
भक्ष्यताम्वूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति । 78ab
यस्य धर्मज्ञ वशगः सोम्य शीघ्रं भविष्यति ॥ 78cd
शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं । 79ab
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ॥ 79cd
वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् । 80ab


1 शिवसंकल्प इत्येतदिति घ॰ , ज॰ च ।
2 पराङ्ने गायनेनेतीति क॰ ।
Image-P.454


हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ॥ 80cd
शन्नो देवीरभिष्टये तथा शान्तिकरः परः । 81ab
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः 1 81cd
ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः । 82ab
गावो भग इति द्वाभ्यां हुत्वाज्यङ्गा अवाप्नुयात् ॥ 82cd
प्रवादांशः सोपदिति 2 गृहयज्ञे विधीयते । 83ab
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ॥ 83cd
गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं । 84ab
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा 3 84cd


इत्यागेनेये महापुराणे यजुर्व्विधानं नामोनषष्ट्यधिकद्विशततमो ऽध्यायः ॥

Chapter 260

अथ षष्ट्यधिकद्विशततमो ऽध्यायः ।

सामविधानं ।
पुष्कर उवाच ।
यजुर्व्विधानङ्कथितं वक्ष्ये साम्नां विधानकं । 1ab
संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात् सर्व्वकामभाक् ॥ 1cd
संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं । 2ab
स्कान्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान् ॥ 2cd


1 भागत इति क॰ , ग॰ , छ॰ , घ॰ , ञ॰ च ।
2 प्रवादीशं सोपदितीति ख॰ , छ॰ च ।
3 सर्व्वशान्तिकरन्तथेति घ॰ , ञ॰ च ।
Image-P.455


यत इन्द्र भजामहे हिंसादोषविनाशनं । 3ab
अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ॥ 3cd
सर्व्वपापहरं ज्ञेयं परितोयञ्च तासु च 1 4ab
अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च ॥ 4cd
अयानो देव सवितुर्ज्ञेयन्दुःस्वप्ननाशनं । 5ab
अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि ॥ 5cd
अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते । 6ab
स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम ॥ 6cd
मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं । 7ab
सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते ॥ 7cd
सर्पसाम प्रयुञ्जानो नाप्नुयात् सर्पजम्भयं । 8ab
माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः ॥ 8cd
शतावरिमणिम्बद्ध्वा नाप्नुयाच्छस्त्रतो भयं । 9ab
दीर्घतमसोर्क्क इति हुत्त्वान्नं प्राप्नुयाद्बहु ॥ 9cd
स्वमध्यायन्तीति जपन्न म्रियेत पिपासया 2 10ab
त्वमिमा ओषधी ह्येतज्जप्त्वा व्याधिं न वाप्नुयात् ॥ 10cd
पथि देवव्रतञ्जप्त्वा भयेभ्यो विप्रमुच्यते । 11ab
यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्द्धनं ॥ 11cd
भगो न चित्र इत्येवं नेत्रयो रञ्जनं हितं । 12ab
सौभाग्यवर्द्धनं राम नात्र कार्य्य विचारणा ॥ 12cd
जपेदिन्द्रेति वर्गञ्च तथा सौन्भाग्यवर्द्धनं । 13ab


1 परितोयं युतायुतमिति ज॰ , ट॰ च ।
2 पिपासित इति घ॰ , ञ॰ च ।
Image-P.456


परि प्रिया हि वः कारिः 1 काम्यां संश्रावयेत्स्त्रियं ॥ 13cd
सा तङ्कामयते राम नात्र कार्य्या विचारणा । 14ab
रथन्तरं वामदेव्यं ब्रह्मवर्च्चसवर्द्धनं ॥ 14cd
प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतं । 15ab
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ॥ 15cd
हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं । 16ab
मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्द्धनः ॥ 16cd
वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् । 17ab
सप्ताष्टकं प्रयुञ्जानः सर्व्वान् कामानवाप्नुयात् ॥ 17cd
गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः । 18ab
उपस्थानं गवां कुर्य्यात्तस्य स्युस्ताः सदा गृहे ॥ 18cd
घृताक्तन्तु यवद्रोणं वात आवातु भेषजं । 19ab
अनेन हुत्वा विधिवत् सर्व्वां मायां व्यपोहति ॥ 19cd
प्रदेवो दासेन तिलान् हुत्वा कार्म्मणकृन्तनं । 20ab
अभि त्वा पूर्व्वपीतये वषट्कारसमन्वितं ॥ 20cd
वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं । 21ab
हस्त्यश्वपुरुषान् कुर्य्याद्बुधः पिष्टमयान् शुभान् ॥ 21cd
परकीयानथोद्देश्य प्रधानपुरुषांस्तथा । 22ab
सुस्विन्नान् पिष्टकवरान् क्षुरेणोत् कृत्य भागशः ॥ 22cd
अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् । 23ab
कृत्वा सर्षपतैलाक्तान् क्रोधेन 2 जुहुयात्ततः ॥ 23cd


1 परिप्रियादेव कारिरिति ख॰ , छ॰ च । परिप्रियादेव कविरिति घ॰ , ञ॰ च ।
2 मन्त्रेणेति ख॰ , छ॰ , ज॰ च ।
Image-P.457


एतत् कृत्वा बुधः कर्म्म संग्रामे जयमाप्नुयात् । 24ab
गारुड़ं वामदेव्यञ्च रथन्तरवृहद्रथौ ॥ 24cd
सर्व्वपापप्रशमनाः कथिताः संशयं विना ॥ 25॥ 25ab


इत्याग्नेये महापुराणे सामविधानं नाम षष्ट्यधिकद्विशततमो ऽध्यायः ॥

Chapter 261

अथैकषष्ट्यधिकद्विशततमो ऽध्यायः ।

अथर्व्वविधानं ।
पुष्कर उवाच ।
साम्नां विधानं कथितं वक्ष्ये चाथर्व्वणामथ । 1ab
शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः ॥ 1cd
भैषज्यञ्च गणं हुत्वा सर्व्वान्रोगान् व्यापोहति । 2ab
त्रिसप्तीयं गणं हुत्वा सर्व्वपापैः प्रमुच्यते ॥ 2cd
क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं । 3ab
न क्वचिज्जायते राम गणं हुत्वा पराजितं ॥ 3cd
आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति । 4ab
स्वस्तिमाप्नोति सर्व्वत्र हुत्वा स्वस्त्ययनङ्गणं ॥ 4cd
श्रेयसा योगमाप्नोति शर्म्मवर्म्मगणन्तथा । 5ab
वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ॥ 5cd
तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति । 6ab
एतैर्दशगुणैर्होमी ह्यष्टादशसु शान्तिषु ॥ 6cd
Image-P.458


वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च । 7ab
वायव्या वारुणी चैव कौवेरी भार्गवी तथा ॥ 7cd
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता । 8ab
मारुद्गणा च गान्धारी शान्तिर्नैरृतकी तथा ॥ 8cd
शान्तिराङ्गिरसी याम्या पार्थिवी सर्व्वकामदा । 9ab
यस्त्वां मृत्युरिति ह्येतज्जप्तं मृत्युविनाशनं ॥ 9cd
सुपर्णस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते । 10ab
इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत् ॥ 10cd
इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं । 11ab
इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ॥ 11cd
देवा मरुत इत्येतत् सर्वकामकरम्भवेत् । 12ab
यमस्य लोकादित्येतत् दुःस्वप्नशमनम्परं ॥ 12cd
इन्द्रश्च पञ्चबणिजेति 1 पण्यलाभकरं परं । 13ab
कामो मे वाजीति हुतं स्त्रीणां सौभाग्यवर्द्धनं ॥ 13cd
तुभ्यमेव जवीमन्नित्ययुतन्तु हुतम्भवेत् । 14ab
अग्ने गोभिन्न इत्येतत् 2 मेधावृद्धिकरम्परं ॥ 14cd
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् । 15ab
अलक्तजीवेति शुना कृषिलाभकरं भवेत् ॥ 15cd
अहन्ते भग्न इत्येतत् भवेत्सौभाग्यवर्द्धनं । 16ab
ये मे पाशास्तथाप्येतत् बन्धनाम्नोक्षकारणं ॥ 16cd
शपत्वहन्निति रिपून् नाशयेद्धोमजाप्यतः । 17ab


1 इन्द्र वनं बनिक् चेतीति घ॰ , ज॰ च ।
2 अग्ने सौभाग्य इत्येतदिति ज॰ ।
Image-P.459


त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्द्धनं ॥ 17cd
यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्द्धनं । 18ab
येन चेहदिदञ्चैव गर्भलाभकरं भवेत् ॥ 18cd
अयन्ते योनिरित्येतत् पुत्रलाभकरं भवेत् । 19ab
शिवः शिवाभिरित्येतत् भवेत्सौभाग्यवर्द्धनं 1 19cd
वृहस्पतिर्न्नः परिपातु पथि स्वस्त्ययनं भवेत् । 20ab
मुञ्चामि त्वेति कथितमपमृत्युनिवारणं ॥ 20cd
अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते । 21ab
प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितं ॥ 21cd
वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः । 22ab
आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥ 22cd
अक्षतानि तिलाश्चैव दधिक्षीरे च भार्गव । 23ab
दर्भास्तथैव दूर्वाश्च विल्वानि कमलानि च ॥ 23cd
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः । 24ab
तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं ॥ 24cd
समिधः कण्टकोपेता अभिचारेषु योजयेत् । 25ab
आर्षं वै दैवतं छन्दो विनियोगज्ञ आचरेत् ॥ 25cd


इत्याग्नेये महापुराणे अथर्व्वविधानं नामैकषष्ट्यधिकद्विशततमो ऽध्यायः ।


1 क्रुद्धं भूपं प्रसादयेदिति घ॰ , ज॰ , झ॰ च ।
Image-P.460


Chapter 262

अथ द्विषष्ट्यधिकद्विशततमो ऽध्यायः ।

उत्पातशान्तिः ।
पुष्कर उवाच ।
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्द्धनं । 1ab
हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः ॥ 1cd
रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः । 2ab
स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके ॥ 2cd
श्रियं धातर्मयि धेहि प्रोक्तमाथर्वणे तथा । 3ab
श्रीसूक्तं यो जपेद्भक्त्या हुत्वा श्रीस्तस्य वै भवेत् ॥ 3cd
पद्मानि चाथ विल्वानि हुत्वाज्यं वा तिलान् श्रियः । 4ab
एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं ॥ 4cd
सूक्तेन दद्यान्निष्पापो ह्येकैकया 1 जलाञ्जलिं । 5ab
स्नात एकैकया पुष्पं विष्णोर्द्दत्वाघहा भवेत् ॥ 5cd
स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् । 6ab
महापापोपपापान्तो भवेज्जप्त्वा तु पौरुषं ॥ 6cd
कृच्छ्रैर्विशुद्धो जप्त्वा च हुत्वा स्नात्वा ऽथ सर्वभाक् । 7ab
अष्टादशभ्यः शान्तिभ्यस्तिस्रो ऽन्याः शान्तयो वराः ॥ 7cd
अमृता चाभया सौम्या सर्व्वोत्पातविमर्द्दनाः । 8ab
अमृता सर्वदवत्या अभया ब्रह्मदैवता ॥ 8cd
सौम्या च सर्वदैवत्या एका स्यात्सर्व्वकामदा । 9ab


1 ह्येकैकश इति क॰ , घ॰ , छ॰ , ञ॰ च ।
Image-P.461


अभयाया मणिः कार्य्यो वरुणस्य भृगूत्तम ॥ 9cd
शतकाण्डो ऽमृतायाश्च सौम्यायाः शङ्खजो मणिः । 10ab
तद्दैवत्यास्तथा मन्त्राः सिद्धौ 1 स्यान्मणिबन्धनं ॥ 10cd
दिव्यान्तरीक्षभौमादिसमुत्पातार्दना इमाः । 11ab
दिव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं शृणु ॥ 11cd
ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे । 12ab
उल्कापातश्च दिग्दाहः परिवेशस्तथैव च ॥ 12cd
गन्धर्वनगरञ्चैव वृष्टिश्च विकृता च या । 13ab
चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं ॥ 13cd
सप्ताहाभ्यनतरे वृष्टावद्भुतं निष्फलं भवेत् । 14ab
शान्तिं विना त्रिभिर्वषैरद्भुतं भयकृद्भवेत् ॥ 14cd
देवतार्च्चाः 2 प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च । 15ab
आरठन्ति 3 च रोदन्ति प्रस्विद्यन्ते हसन्ति च ॥ 15cd
अर्च्चाविकारोपशमो ऽभ्यर्च्य हुत्वा प्रजापतेः । 16ab
अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं ॥ 16cd
न दीप्यते चेन्धनवांस्तद्राष्ट्रं पाड्यते नृपैः । 17ab
अग्निवैकृत्यशमनमग्निमन्त्रैश्च भार्गव ॥ 17cd
अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च । 18ab
वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् ॥ 18cd
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं । 19ab


1 सिद्ध्या इति घ॰ , ञ॰ च।
2 देवताश्चेति ख॰ , छ॰ च ।
3 आवटन्तीति ख॰ , घ॰ , छ॰ , ञ॰ च ।
Image-P.462


अनृतौ त्रिदिनारब्धवृष्टिर्ज्ञेया भयाय हि ॥ 19cd
वृष्टिवैकृत्यनाशः स्यात्पर्जण्येन्द्वर्कपूजनात् । 20ab
नगरादपसर्पन्ते समीपमुपयान्ति च ॥ 20cd
नद्यो ह्रदप्रश्रवणा विरसाश्च भवन्ति च । 21ab
शलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः ॥ 21cd
अकालप्रसवा नार्य्यः कालतो वाप्रजास्तथा । 22ab
विकृतप्रसवाश्चैव युग्मप्रसवनादिकं ॥ 22cd
स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादिं प्रपूजयेत् । 23ab
वड़वा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ॥ 23cd
विजात्यं विकृतं वापि षद्भिर्मासैर्म्रियेत वै । 24ab
विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् ॥ 24cd
होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं । 25ab
यानि यानान्ययुक्तानि युक्तानि न वहन्ति च ॥ 25cd
आकाशे तूर्यनादाश्च महद्भयमुपस्थितं । 26ab
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ॥ 26cd
अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः । 27ab
स्थलं वा जलजा यान्ति राजद्वारादिके शिवाः ॥ 27cd
प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् । 28ab
गृहङ्कपोतः प्रविशेत् क्रव्याद्वा मूर्द्ध्नि लीयते ॥ 28cd
मधुरां मक्षिकां कुर्य्यात् काको मैथुनगो दृशि । 29ab
प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां ॥ 29cd
अनिमित्तन्तु पतनं दृढ़ानां राजमृत्यवे । 30ab
रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥ 30cd
Image-P.463


केतूदयोपरागौ च छिद्रता शशिसूर्ययोः । 31ab
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ॥ 31cd
अग्निर्यत्र म दीप्येत स्रवन्ते चोदकम्भकाः । 32ab
मृतिर्भयं शून्यतादिरुत्पातानां फलम्भवेत् ॥ 32cd
द्विजदेवादिपूजाभ्यः शान्तिर्जप्यैस्तु होमतः ॥ 33॥ 33ab


इत्याग्नेये महापुराणे उत्पातशान्तिर्नाम द्विषष्ट्यधिकद्विशततमो ऽध्यायः ॥

Chapter 263

अथ त्रिषष्ट्यधिकद्विशततमो ऽध्यायः ।

देवपूजावैश्वदेवबलिः ।
पुष्कर उवाच ।
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् । 1ab
आपोहिष्टेति तिसृभिः स्नातो ऽर्घ्यं विष्णवेर्पयेत् ॥ 1cd
हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज । 2ab
शन्न आपो ह्याचमनमिदमापो ऽभिषेचनं ॥ 2cd
रथे अक्षे च तिसृभिर्गन्धं युवेति 1 वस्त्रकं । 3ab
पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ ॥ 3cd
तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च । 4ab
हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ॥ 4cd
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः । 5ab
चामरव्यजनोपानच्छत्रं यानासने तथा ॥ 5cd


1 गन्धं स्वधेति क॰ , ग॰ ,घ॰ , ज॰ च ।
Image-P.464


यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् । 6ab
पौरुषन्तु जपेत् सूक्तं तदेव जुहुयात्तथा ॥ 6cd
अर्च्चाभावे तथा वेद्याञ्जले पूर्णघटे तथा । 7ab
नदीतीरे ऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ॥ 7cd
ततो होमः प्रकर्त्तव्यो दीप्यमाने विभावसौ । 8ab
परिसम्मृज्य पर्य्युक्ष्य परिस्तीर्य्य परिस्तरैः ॥ 8cd
सर्व्वान्नाग्रं समुद्धृत्य जुहुयात् प्रयतस्ततः । 9ab
वासुदेवाय देवाय प्रभवे चाव्ययाय च ॥ 9cd
अग्नये चैव सोमाय मित्राय वरुणाय च । 10ab
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥ 10cd
विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये नमः । 11ab
अनुमत्यै तथा राम धन्वन्तरय एव च ॥ 11cd
वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृते ऽग्नये । 12ab
सचतुर्थ्यन्तनाम्ना 1 तु हुत्वैतेभ्यो बलिं हरेत् ॥ 12cd
तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् । 13ab
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ॥ 13cd
निरुन्धी धूम्रिणीका च अस्वपन्ती 2 तथैव च । 14ab
मेघपत्नी 3 च नामानि सर्व्वेषामेव भार्गव ॥ 14cd
आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् । 15ab
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ॥ 15cd


1 सचतुर्थीकनाम्नेति पाठः साधुः ।
2 अश्वपर्णीति ज॰ ।
3 मेघपर्णीति ज॰ ।
Image-P.465


भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये । 16ab
हिरण्यकेश्यै च तथा वनस्पतय एव च ॥ 16cd
धर्म्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च । 17ab
मृत्यवे च वहिर्दद्याद्वरुणायोदकाशये ॥ 17cd
भूतेभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च । 18ab
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ॥ 18cd
यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्तथा । 19ab
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्तथा ॥ 19cd
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं । 20ab
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥ 20cd
आकाशे च तथा चोर्द्ध्वे स्थण्डिलाय क्षितौ तथा । 21ab
दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ॥ 21cd
बलिं वहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं । 22ab
पिण्डनिर्वपणं कुर्य्यात् प्रातः सायन्न कारयेत् ॥ 22cd
पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् । 23ab
प्रपितामहाय तन्मात्रे पितृमात्रे ततो ऽर्पयेत् ॥ 23cd
तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यजेत् पितॄन् । 24ab
इन्द्रवारुणवायव्या याम्या वा नैरृताश्च ये ॥ 24cd
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्वृतम् । 25ab
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ॥ 25cd
विवस्वतः कुले जातौ द्वौ श्यावशबलौ 1 शुनौ । 26ab
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ॥ 26cd


1 श्यामशबलाविति ज॰ , ञ॰ , ट॰ च ।
Image-P.466


सौरभेय्यः 1 सर्वहिताः पवित्राः पापनाशनाः 2 27ab
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥ 27cd
ग्रोग्रासञ्च स्वस्त्ययनं कृत्वा भिक्षां प्रदापयेत् । 28ab
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ॥ 28cd
ॐ भूः स्वाहा ॐ भूवः स्वाहा ॐ स्वः स्वाहा ॐ भूर्भुवः स्वः स्वाहा ।
ॐ देवकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ पितृकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ आत्मकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ मनुष्यकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ एनस एनसो ऽवयजनमसि स्वाहा । यच्चाहमेनो विद्वांश्चकार यच्चाविद्वांस्तस्य सर्वस्यैनसो ऽवयजनमसि स्वाहा अग्नये स्विष्टिकृते स्वाहा ॐ प्रजापतये स्वाहा ॥
विष्णुपूजावैश्वदेवबलिस्ते कीर्त्तितो मया ॥ 29॥ 29ab


इत्याग्नेये महापुराणे देवपूजावैश्वदेवबलिर्नाम त्रिषष्ट्यधिकद्विशततमो ऽध्यायः ॥

Chapter 264

अथ चतुःषष्ठ्यधिकद्विशततमो ऽध्यायः ।

दिक्पालादिस्नानं ।
अग्निरुवाच ।
सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं शृणु । 1ab
स्नापयेच्च सरित्तीरे ग्रहान् विष्णुं विचक्षणः ॥ 1cd


1 सौरभेया इति क॰ , घ॰ , छ॰ , ञ॰ च ।
2 पुष्पराशय इति ज॰ , ट॰ च ।
Image-P.467


देवालये ज्वरार्त्त्यादौ विनायकग्रहार्द्दिते । 2ab
विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके ॥ 2cd
पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्रवेत्तथा । 3ab
अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति ॥ 3cd
पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे । 4ab
गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ ॥ 4cd
वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं । 5ab
स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ॥ 5cd
पुनर्न्नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं । 6ab
मधूकं रजनी द्वे च तगरन्नागकेशरम् ॥ 6cd
अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः । 7ab
प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं ॥ 7cd
पञ्चगव्यं शक्तुमिश्रं उद्वर्त्त्य स्नानमाचरेत् । 8ab
मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्च्चयेत् ॥ 8cd
दक्षे वामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् । 9ab
लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान् 1 9cd
स्नानमण्डलकान् दिक्षु कुर्य्याच्चैव विदिक्षु च । 10ab
विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्च्च्य होमयेत् ॥ 10cd
एकैकस्य त्वष्टशतं समिधस्तु तिलान् धृतं । 11ab
भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्द्धनाः ॥ 11cd
अमोघश्चित्रभानुश्च पर्ज्जन्यो ऽथ सुदर्शनः । 12ab
स्थापयेत्तु वटानेनान् साश्विरुद्रमरुद्गणान् ॥ 12cd


1 सहवाहनानिति घ॰ , ज॰ च ।
Image-P.468


विश्वे देवस्तथा दैत्या वसवो मुनयस्तथा । 13ab
आवेशयन्तु सुप्रीतास्तथान्या अपि देवताः ॥ 13cd
ओषधीर्न्निक्षिपेत् कुम्भे जयन्तीं विजयां जयां । 14ab
शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् ॥ 14cd
ज्योतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं । 15ab
कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं ॥ 15cd
जातीफलं लवङ्गञ्च मृत्तिकां पञ्चगव्यकं । 16ab
भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् ॥ 16cd
राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् । 17ab
पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ॥ 17cd
इन्द्रो ऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान ह । 18ab
दिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं ॥ 18cd


इत्याग्नेये महापुराणे दिक्पालादिस्नानं नाम चतुःषष्ठ्यधिकद्विशततमो ऽध्यायः ॥

Chapter 265

अथ पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः ।

विनायकस्नानं ।
पुष्कर उवाच ।
विनायकोपसृष्टानां स्नानं सर्वकरं वदे । 1ab
विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ॥ 1cd
गणानामाधिपत्ये च केशवेशपितामहैः । 2ab
स्वप्नेवगाहते ऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ 2cd
Image-P.469


विनायकोपसृष्टस्तु क्रव्यादानधिरोहति । 3ab
व्रजमानस्तथात्मानं मन्यते ऽनुगतम्परैः ॥ 3cd
विमना विफलारम्भः संसीदत्यनिमित्ततः । 4ab
कन्या वरं न चाप्नोति न चापत्यं वराङ्गना ॥ 4cd
आचार्य्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं लभेत् । 5ab
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ॥ 5cd
राजा राज्यं न चाप्नोति स्नपनन्तस्य कारयेत् । 6ab
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके 1 6cd
गौरसर्षपकल्केन साज्येनोत्सादितस्य च 2 7ab
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥ 7cd
चतुर्भिः कलसैः स्नानन्तेषु सर्वौषाधीः क्षिपेत् । 8ab
अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् ॥ 8cd
मृत्तिकां रोचनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् । 9ab
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ॥ 9cd
तेन त्वामभिषिञ्चामि पावमान्यः 3 पुनन्तु ते । 10ab
भगन्ते वरुणो राजा भगं सूर्य्यो वृहस्पतिः ॥ 10cd
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । 11ab
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥ 11cd
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । 12ab
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ॥ 12cd


1 हस्तपुष्याश्वयुक्सौम्यवैष्णवेषु शुभेषु चेति घ॰ , ञ॰ च ।
2 साज्येनासादितस्य चेति क॰ , छ॰ च ।
3 इमा आप इति छ॰ , ञ॰ ।
Image-P.470


स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च । 13ab
जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च ॥ 13cd
मितश्च सम्मितश्चैव तथा शालककण्टकौ । 14ab
कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ॥ 14cd
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः 1 15ab
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ॥ 15cd
कृताकृतांस्तण्डुलांश्च पललौदनमेव च । 16ab
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ॥ 16cd
मूलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः । 17ab
दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ॥ 17cd
विनायकस्य जननीमुपतिष्ठेत्ततो ऽम्बिकां । 18ab
दूर्व्वासर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं ॥ 18cd
रूपं देहि यशो देहि सौभाग्यं सुभगे मम । 19ab
पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ॥ 19cd
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । 20ab
विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ॥ 20cd


इत्याग्नेये महापुराणे विनायकस्नानं नाम पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः ॥


1 वषट्कारसमन्वितैरिति घ॰ , ज॰ , ञ॰ , ट॰ च ।
Image-P.471


Chapter 266

अथ षट्षष्ट्यधिकद्विशततमो ऽध्यायः ।

माहेश्वरस्नानलक्षकोटिहोमादयः ।
पुष्कर उवाच ।
स्नानं माहेश्वरं वक्ष्ये राजादेर्जयवर्द्धनम् । 1ab
दानवेन्द्राय बलये यज्जगादोशनाः पुरा ॥ 1cd
भास्करे ऽनुदिते पीठे प्रातः संस्नापयेद् घटैः । 2ab
ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगात्राय । तद्यथा जय जय सर्वान् शत्रून्मूकस्य कलहविग्रहविवादेषु भञ्जय ।
ॐ मथ मथ सर्व्वपथिकान्योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्रांशुः शुक्रः स ते रक्षतु जीवितं । सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः ।
सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ॥
एवं स्नातस्तु मन्त्रेण जुहुयात्तिलतण्डुलम् ॥ 2cd
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं । 3ab
स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ॥ 3cd
स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् । 4ab
गोमयेन च लक्ष्मीः स्याद्गोमूत्रेणाघमर्द्दनम् ॥ 4cd
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्ष्मीविवर्द्धनं । 5ab
कुशोदकेन पापान्तः पञ्चगव्येन सर्वभाक् ॥ 5cd
शतमूलेन सर्वाप्तिर्गोशृङ्गोदकतो ऽघजित् । 6ab
Image-P.472


पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ॥ 6cd
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं । 7ab
आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ॥ 7cd
हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा । 8ab
रत्नोदकैस्तु विजयः सौभाग्यं सर्वगन्धकैः ॥ 8cd
फलाद्भिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् । 9ab
तिलसिद्धार्थकैर्ल्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ॥ 9cd
पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः । 10ab
विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ॥ 10cd
एकाकी एककामायेत्येकोर्कं 1 विधिवच्चरेत् । 11ab
अक्रन्दयतिसूक्तेन प्रबध्नीयान्मणिं करे ॥ 11cd
कुष्ठपाठा वचा शुण्ठी शङ्खलोहादिको मणिः । 12ab
सर्व्वेषामेवकामानामीश्वरो भगवान् हरिः ॥ 12cd
तस्य संपूजनादेव सर्व्वान्कामान्समश्नुते । 13ab
स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ॥ 13cd
पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते । 14ab
पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ॥ 14cd
द्विस्नेहस्नपनात् श्लेष्मरोगहा चातिपूजया । 15ab
घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ॥ 15cd
स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् । 16ab
क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ॥ 16cd
घृतमिशुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये । 17ab


1 यवकामायेत्येकोर्क्कमिति क॰ , छ॰ च ।
Image-P.473


अनुलेपस्त्रिशुक्रस्तु कर्पूरोशीरचन्दनैः ॥ 17cd
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः । 18ab
पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ॥ 18cd
त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकुङ्कुमैः । 19ab
मृगदर्पं सकर्पूरं मलयं सर्व्वकामदम् ॥ 19cd
जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् । 20ab
पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ॥ 20cd
कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्द्दिशेत् । 21ab
उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ॥ 21cd
कुङ्कुमं रक्तपद्मानि त्रिरक्तं रक्तमुत्पलं । 22ab
धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां ॥ 22cd
चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट शोडश । 23ab
लक्षहोमङ्खोटिहोमन्तिलाज्ययवधान्यकैः ॥ 23cd
ग्रहानभ्यर्च्य गायत्र्या सर्व्वशान्तिः क्रमाद्भवेत् ॥ 24॥ 24ab


इत्याग्नेये महापुराणे माहेश्वरस्नानलक्षकोटिहोमादयो नाम षट्षष्ट्यधिकद्विशततमो ऽध्यायः ॥

Chapter 267

अथ सप्तषष्ट्यधिकद्विशततमो ऽध्यायः ।

नीराजनविधिः ।
पुष्कर उवाच ।
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं । 1ab
मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ॥ 1cd
Image-P.474


अगस्त्यस्योदये ऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् । 2ab
शयनोत्थापने पञ्चदिनं कुर्य्यात्समुत्सवम् ॥ 2cd
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् । 3ab
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ॥ 3cd
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् । 4ab
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ॥ 4cd
एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् । 5ab
यजेद्वस्त्रादिसंवीतं घटस्थं 1 सुरपं शचीं ॥ 5cd
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन । 6ab
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ॥ 6cd
त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः । 7ab
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ॥ 7cd
तेजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् । 8ab
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ॥ 8cd
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः । 9ab
मरुद्गुणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ॥ 9cd
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती । 10ab
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ॥ 10cd
तव चापि जयान्नित्यं मम सम्पद्यतां शुभं । 11ab
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ 11cd
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् । 12ab
शिवं भवतु निर्व्विघ्नं शाम्यन्तामीतयो भृशं ॥ 12cd


1 पटस्थमिति क॰ , ग॰ , छ॰ , ज॰ , ट॰ च ।
Image-P.475


मन्त्रेणेन्द्रं समभ्यर्च्च्यजितभूः स्वर्गमाप्नुयात् । 13ab
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ॥ 13cd
शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् । 14ab
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ॥ 14cd
जाग्रन्निशि बलिन्दद्याद्द्वितीये ऽह्नि पुनर्यजेत् । 15ab
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ॥ 15cd
त्रैलोक्यविजये चण्डि मम शान्तौ जये भव । 16ab
नीराजनविधिं वक्ष्ये ऐशान्यान्मन्दिरं चरेत् ॥ 16cd
तोरणत्रितयं तत्र गृहे देवान्यजेत् सदा । 17ab
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥ 17cd
ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः । 18ab
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥ 18cd
विनायकः कुमारश्च वरुणो धनदो यमः । 19ab
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान्यजेत् ॥ 19cd
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः । 20ab
सुप्रतीको ऽञ्जनो नीलः पूजा कार्य्या गृहादिके ॥ 20cd
पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः । 21ab
कुम्भा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ॥ 21cd
अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् । 22ab
निष्क्रामयेत्तोरणैस्तु गोपुरादि 1 न लङ्घयेत् ॥ 22cd
विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् । 23ab


1 शेखरादीति क॰ ।
Image-P.476


वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ॥ 23cd
विशाखायां 1 गते सूर्य्ये आश्रमे निवसेन्नृपः । 24ab
अलङ्कुर्य्याद्दिने तस्मिन् वाहनन्तु विशेषतः ॥ 24cd
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः । 25ab
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ॥ 25cd
ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् । 26ab
अभिमन्त्र्य ततः सर्व्वान् कुर्य्यात् कुञ्जरधूर्गतान् ॥ 26cd
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ । 27ab
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ॥ 27cd
निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् । 28ab
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ॥ 28cd
उन्मूकानान्तु निचयमादीपितदिगन्तरं । 29ab
राजा प्रदक्षिणं कुर्य्यात्त्रीन् वारान् सुसमाहितः ॥ 29cd
चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् । 30ab
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ॥ 30cd
शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ॥ 31॥ 31ab


इत्याग्नेये महापुराणे नीराजनाविधिर्नाम सप्तषष्ट्यधिकद्विशततमो ऽध्यायः ॥


1 विशाखान्त्विति क॰ , छ॰ च ।
Image-P.477


Chapter 268

अथाष्टषष्ट्यधिकद्विशततमो ऽध्यायः ।

छत्रादिमन्त्रादयः ।
पुष्कर उवाच ।
छत्रादिमन्त्रान्वक्ष्यामि यैस्तत् पूज्य जयादिकम् । 1ab
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ 1cd
सूर्य्यस्य च प्रभावेन वर्द्धस्व त्वं महामते । 2ab
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ॥ 2cd
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां । 3ab
तथाच्छादय राजानं विजयारोग्यवृद्धये ॥ 3cd
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः । 4ab
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ 4cd
प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरङ्गम । 5ab
तेजसा चैव सूर्य्यस्य मुनीनां तपसा तथा ॥ 5cd
रुद्रस्य ब्रह्मचर्य्येण पवनस्य बलेन च । 6ab
स्मर त्वं राजपुत्रो ऽसि कौस्तुभन्तु मणिं स्मर ॥ 6cd
यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा । 7ab
भूम्यर्थे ऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ 7cd
व्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव । 8ab
विकृतिं मापगच्छेस्त्वं युद्धे ऽध्वनि तुरङ्गम ॥ 8cd
रिपून्विनिघ्नन्समरे सह भर्त्त्रा सुखी भव । 9ab
शक्रकेतो महावीर्य्यः सुवर्णस्त्वामुपाश्रितः ॥ 9cd
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः । 10ab
Image-P.478


काश्यपेयो ऽमृताहर्त्ता नागारिर्विष्णुवाहनः ॥ 10cd
अप्रमेयो दुराधर्षो रणे देवारिसूदनः । 11ab
महाबलो मावेगो महाकायो ऽमृताशनः ॥ 11cd
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः । 12ab
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ॥ 12cd
जयाय भव मे नित्यं वृद्धये ऽथ बलस्य च । 13ab
साश्ववर्म्मायुधान्योधान्रक्षास्माकं रिपून्दह ॥ 13cd
कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः । 14ab
सुप्रतीको ऽञ्जनो नील एते ऽष्टौ देवयोनयः ॥ 14cd
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः । 15ab
भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च ॥ 15cd
वने वने प्रसूतास्ते स्मरयोनिं महागजाः । 16ab
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥ 16cd
भर्त्तारं रक्ष नागेन्द्र समयः परिपाल्यतां । 17ab
ऐरावताधिरूढ़स्तु वज्रहस्तः शतक्रतुः ॥ 17cd
पृष्ठतो ऽनुगतस्त्वेष रक्षतु त्वां स देवराट् । 18ab
अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ॥ 18cd
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि । 19ab
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्य्याज्जवो ऽनिलात् ॥ 19cd
स्थैर्य्यं गिरेर्जयं रुद्राद्यशो देवात् पुरन्दरात् । 20ab
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ॥ 20cd
अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः । 21ab
मनवो वसवो रुद्रा वायुः सोमो महर्षयः ॥ 21cd
Image-P.479


नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः । 22ab
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ॥ 22cd
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि । 23ab
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ॥ 23cd
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः । 24ab
पतन्तु तव शत्रूणां हतानि तव तेजसा ॥ 24cd
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने । 25ab
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ॥ 25cd
शोभितासि तथैवाद्य शोभस्व समयं स्मर । 26ab
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ॥ 26cd
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्ज्जिताः । 27ab
पूतना रेवती लेखा कालरात्रीति पठ्यते ॥ 27cd
दहन्त्वाशु रिपून् सर्वान्पताके त्वामुपाश्रिताः । 28ab
सर्वमेधे महायज्ञे देवदेवेन शूलिना ॥ 28cd
शर्वेण जगतश्चैव सारेण त्वं विनिर्म्मितः । 29ab
नन्दकस्यापरां मूर्त्तिं स्मर शत्रुनिवर्हण ॥ 29cd
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन । 30ab
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥ 30cd
औगर्भो विजयश्चैव धर्म्मपालस्तथैव च । 31ab
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ॥ 31cd
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । 32ab
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ॥ 32cd
राजानं रक्ष निस्त्रिंश सबलं सपुरन्तथा । 33ab
Image-P.480


पिता पितामहो देवः स त्वं पालय सर्वदा ॥ 33cd
शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशो ऽद्य मे । 34ab
रक्ष मां रक्षणीयो ऽहन्तवानघ नमो ऽस्तु ते ॥ 34cd
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः । 35ab
भव भूमिसैन्यानां यथा विजयवर्द्धनः ॥ 35cd
यथा जीमूतघोषेण हृष्यन्ति वरवारणाः । 36ab
तथास्तु तव शब्देन हर्षो ऽस्माकं मुदावह ॥ 36cd
यथा जीमूतशब्देन स्त्रीणां त्रासो ऽभिजायते । 37ab
तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ॥ 37cd
मन्त्रैः सदार्च्चनीयास्ते योजनीया जयादिषु । 38ab
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ॥ 38cd
राज्ञो ऽभिषेकः कर्त्तव्यो दैवज्ञेन पुरोधसा ॥ 39॥ 39ab


इत्याग्नेये महापुराणे छत्रादिमन्त्रादयः नामाष्टषष्ट्यधिकद्विशततमो ऽध्यायः ॥
Image-P.481