अग्निपुराण 1

अग्निपुराणं ।
अथाग्निपुराणानुक्रमणिका ।
अध्याये विषयः पृष्ठे
1 पुराणप्रश्नः 1
2 मत्स्यावतारवर्णनम् 3
3 कूर्मावतारवर्णनम् 5
4 वराह-नृसिंह-वामन-परशुरामावतारवर्णनम् 8
5 रामावतारवर्णनम् 10
12 हरिवंशकथनम् 28
13 भारताख्यानम् 33
16 बुद्धकल्क्यवतारवर्णनम् 39
17 नवसर्गप्रदर्शनं 40
21 आगमोक्तविष्ण्वादिदेवतासामान्यपूजा 52
22 स्नानविधिः 55
23 वासुदेवादिपूजाविधिः 56
24 कुण्डनिर्माणाद्यग्निकार्यकथनम् 59
25 वासुदेवादिमन्त्रनिरूपणम् 65
26 मुद्रालक्षणकथनम् 70
27 सर्वदीक्षाकथनम् 71
28 आचार्याभिषेकः 79
29 सर्वतोभद्रमण्डलादिलक्षणम् 79
30 मण्डलविधिः 84
31 कुशापामार्जनकथनम् 87
32 दीक्षितसंस्कारः 92
33 विष्णुपवित्रारोहणादिविधानम् 93
37 सर्वदेवपवित्रारोहणविधिः 107
38 देवालयनिर्माणफलम् 109
39 भूमिपरिग्रहः 114
40 अर्घ्यदानविधिः 116
41 शिलाविन्यासः 119
42 प्रासादलक्षणकथनम् 122
43 प्रासाददेवतास्थापनादिकथनम् 125
44 वासुदेवादिप्रतिमालक्षणकथनम् 128
45 पिण्डिकालक्षणम् 132
46 शालग्रामादिमूर्त्तिलक्षणम् 134
47 शालग्रामादिपूजा 135
48 विष्णुचतुर्विंशतिमूर्त्तिस्तोत्रं 137
49 मत्स्यादिप्रतिमालक्षणम् 138
50 देवीप्रतिमालक्षणम् 145
51 सूर्यादिप्रतिमालक्षणम् 145
52 योगिनीप्रतिमालक्षणम् 147
53 लिङ्गलक्षणम् 150
54 व्यक्ताव्यक्तलिङ्गलक्षणम् 152
55 लिङ्गपिण्डिकालक्षणम् 157
56 दिक्पालयागकथनम् 158
Image-P.1


अध्याये विषयः पृष्ठे
57 कलशाधिवासः 161
58 देवस्नपनविधिः 164
59 देवाधिवासनविधिः 167
60 वासुदेवप्रतिष्ठा 173
61 द्वारप्रतिष्ठाध्वजारोहणादिकथनं 177
62 लक्ष्मीप्रतिष्ठा 182
63 सुदर्शनचक्रादिप्रतिष्ठा 184
64 कूपादिप्रतिष्ठा 187
65 सभागृहस्थापनम् 191
66 साधारणप्रतिष्ठा 194
67 जीर्णमूर्त्युद्धारः 197
68 देवयात्रोत्सवः 198
69 यज्ञावभृथस्नानं 200
70 वृक्षारामादिप्रतिष्ठा 202
71 विनायकपूजा 203
72 विशेषस्नानादिकथनम् 204
73 सूर्यार्चनं 209
74 शिवपूजा 211
75 अग्निस्थापनादिकथनम् 220
76 चण्डपूजा 227
77 कपिलादिपूजनम् 228
78 पवित्राधिवासनविधिः 231
79 पवित्रारोहणम् 238
80 दमनकारोहणविधिः 242
81 समयदीक्षा 244
82 संस्कारदीक्षा 253
83 निर्वाणदीक्षाधिवासनं 259
84 निर्वाणदीक्षा 262
89 एकतत्त्वदीक्षा 284
90 निर्वाणदीक्षाङ्गीभूताभिषेककथनं 285
91 नानामन्त्रकथनम् 286
92 पातालशिलान्यासः 288
93 वास्तुपूजा 295
94 प्रासादशिलान्यासः 300
95 शिवलिङ्गप्रतिष्ठासामग्री 302
96 शिवलिङ्गाधिवासनविधिः 310
97 शिवलिङ्गप्रतिष्ठाविधिः 327
98 गौरीप्रतिष्ठाविधिः 339
99 सूर्यप्रतिष्ठाविधिः 341
100 द्वारप्रतिष्ठा 342
101 प्रासादकृत्यप्रतिष्ठा 343
102 ध्वजारोहणम् 345
103 जीर्णशिवलिङ्गोद्धारः 349
104 प्रासादसामान्यलक्षणम् 352
105 गृहादिवास्तुकथनम् 356
106 नगरादिवास्तुकथनम् 392
107 स्वायम्भुवसर्गकथनम् 365
108 भुवनकोषवर्णनम् 367
109 तीर्थमाहात्म्यम् 371
110 गङ्गामाहत्म्यम् 374
111 प्रयागमाहत्म्यम् 375
112 वाराणसीमाहात्म्यकथनम् 377
113 नर्मदादिमाहात्म्यकथनम् 379
114 गयामाहात्म्यकथनम् 380
Image-P.2


ओं नमो भगवते वासुदेवाय ।
अग्निपुराणम् ।

Chapter 1

अथ प्रथमो ऽध्यायः ।

ग्रन्थ प्रस्तावना ।
श्रियं 1 सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् । 1ab
ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम् ॥ 1cd
नैमिषे हरिमीजाना ऋषयः शौनकादयः । 2ab
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥ 2cd
ऋषय ऊचुः ।
सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः । 3ab
येन विज्ञानमात्रेण 2 सर्व्वज्ञत्वं प्रजायते ॥ 3cd
सूत उवाच ।
सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः । 4ab
ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञत्वं प्रजायते ॥ 4cd
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 3 5ab
द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥ 5cd
अहं शुकश्च पैलाद्या गत्वा वदरिकाश्रमम् । 6ab
व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत् ॥ 6cd
व्यास उवाच ।
शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथा ऽब्रवीत् 5 7ab
ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥ 7cd


1 लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः ।
2 विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः ।
3 अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः ।
4 यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.1


वसिष्ठ उवाच।
द्वैविध्यं ब्रह्म 1 वक्ष्यामि शृणु व्यासाखिलानुगम् 2 8ab
यथा ऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥ 8cd
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् । 9ab
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम् 3 9cd
अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम् 4 10ab
भुक्तिमुक्तिप्रदं दिव्यं 5 पठतां शृण्वतां नृणाम् ॥ 10cd
कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम् । 11ab
मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्म्मभिः ॥ 11cd
वसिष्ठ उवाच ।
संसारसागरोत्तारनावं ब्रह्मेश्वरं वद । 12ab
विद्यासारं यद्विदित्वा 6 सर्वज्ञो जायते नरः ॥ 12cd
अग्निरुवाच ।
विष्णुः कालाग्निरुद्रो ऽहं 7 विद्यासारं वदामि ते । 13ab
विद्यासारं पुराणं 8 यत्सर्वं सर्वस्य कारणम् ॥ 13cd
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च । 14ab
वंशानुचरितादेश्च, मत्स्यकूर्म्मादिरूपधृक् ॥ 14cd
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह । 15ab
ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज 9 15cd


1 द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः ।
2 अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः ।
3 सर्ववेदमुखं परमिति ख, चिह्नितपुस्तकपाठः ।
4 वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
5 पुण्यमिति ख, चिह्नितपुस्तकपाठः ।
6 यद् गदित्वा इति ग, चिह्नितपुस्तकपाठः ।
7 ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः ।
8 ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
9 यद् द्विज इति ख, चिह्नितपुस्तकपाठः ।
Image-P.2


शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः । 16ab
छन्दो ऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम् ॥ 16cd
न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् । 17ab
अपरेयं परा विद्या यया ब्रह्माभिगम्यते 1 17cd
यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम् 2 18ab
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा । 18cd
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥ 18॥ 18ef


इत्यादिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥

Chapter 2

अथ द्वितीयो ऽध्यायः ।

मत्स्यावतारवर्णनं ।
वशिष्ठ उवाच ।
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् । 1ab
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥ 1cd
अग्निरुवाच ।
मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः । 2ab
अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ॥ 2cd
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । 3ab
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥ 3cd
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये । 4ab
एकदा कृतमालायां कुर्वतो जलतर्पणम् ॥ 4cd
तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत । 5ab
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम 3 5cd


1 ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
2 अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः ।
3 न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.3


ग्राहादिभ्यो भयं मे ऽद्य 1 तच्छ्रुत्वा कलशे ऽक्षिपत् । 6ab
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् ॥ 6cd
स्थानमेतद्वचः श्रुत्वा राजा ऽथोदञ्चने ऽक्षिपत् । 7ab
तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो ॥ 7cd
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् । 8ab
ऊचे देहि वृहत् स्थानं 2 प्राक्षिपच्चाम्बुधौ ततः 3 8cd
लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् । 9ab
मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः ॥ 9cd
को भवान्ननु वै विष्णु 4र्नारायण नमोस्तुते । 10ab
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥ 10cd
मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् । 11ab
अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥ 11cd
सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् । 12ab
उपस्थितायां नावि त्वं वीजादीनि विधाय च ॥ 12cd
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि । 13ab
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ 13cd
इत्युक्त्वान्तर्द्दधे मत्स्यो 5 मनुः कालप्रतीक्षकः 6 14ab
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥ 14cd
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः । 15ab


1 मे ऽत्र इति ख, चिह्नितपुस्तकपाठः ।
2 पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः ।
3 अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
4 ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
5 इत्युक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः ।
6 इत्युक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः ।
Image-P.4


नावम्बबन्ध तच्छृङ्गे 1 मत्स्याख्यं च पुराणकम् ॥ 15cd
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तं 2 16ab
ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम् ॥ 16cd
अवधीत्, वेदमन्त्राद्यान् पालयामास केशवः । 17ab
प्राप्ते कल्पे ऽथ वाराहे कूर्म्मरूपो ऽभवद्धरिः ॥ 17cd


इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः ॥

Chapter 3

अथ तृतीयो ऽध्यायः ।

कूर्म्मावतारवर्णनं ।
अग्निरुवाच
वक्ष्ये कूर्म्मावतारञ्च श्रुत्वा पापप्रणाशनम् 3 1ab
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥ 1cd
दुर्व्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा । 2ab
स्तुत्वा क्षीराब्धिगं 4 विष्णुमूचुः पालय चासुरात् ॥ 2cd
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः 5 3ab
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये ऽसुराः ॥ 3cd
अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे । 4ab
युष्मानमृतभाजो हि कारयामि 6 न दानवान् ॥ 4cd


1 नावं बध्वा तस्य शृङ्गे इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
2 स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः ।
3 संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः ।
4 सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः ।
5 सन्धिं कुरुत चासुरैरिति ग, चिह्नितपुस्तकपाठः ।
6 भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः ।
Image-P.5


मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु 1 वासुकिम् । 5ab
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥ 5cd
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः । 6ab
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥ 6cd
फणिनिःश्वाससन्तप्ता 2 हरिणाप्यायिताः सुराः । 7ab
मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्यपो ऽविशत् ॥ 7cd
कूर्म्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् । 8ab
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥ 8cd
हरेण धारितं कण्ठे नीलकण्ठस्ततो ऽभवत् 3 9ab
ततो ऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥ 9cd
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता । 10ab
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियो ऽभवन् ॥ 10cd
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्त्तकः 4 11ab
बिभ्रत कमण्डलुम्पूर्णममृतेन समुत्थितः ॥ 11cd
अमृतं तत्कराद्दैत्या सुरेभ्यो ऽर्द्धं प्रदाय च । 12ab
गृहीत्वा जग्मुर्जन्माद्या ऽविष्णुः स्त्रीरूपधृक् ततः ॥ 12cd
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः । 13ab
भव भार्या ऽमृतं गृह्य पाययास्मान् वरानने ॥ 13cd
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वा ऽपाययत्सुरान् । 14ab
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः 5 14cd


1 रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः ।
2 निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
3 ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
4 प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
5 अर्केन्दुसूचित इति ख, चिह्नितपुस्तकपाठः ।
Image-P.6


हरिणाप्यरिणा च्छिन्नं 1 स राहुस्तच्छिरः पृथक् । 15ab
कृपया ऽमरतान्नीतं वरदं हरिमब्रवीत् ॥ 15cd
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः । 16ab
तस्मिन् काले च यद्दानं दास्यन्त, स्यात्तत्क्षयम् 2 16cd
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः । 17ab
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥ 17cd
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः । 18ab
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्र्यङ्गतः ॥ 18cd
नग्न उन्मत्तरूपो ऽभूत् स्त्रियः केशानधारयत् 3 19ab
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥ 19cd
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि । 20ab
तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च 4 20cd
मायेयमिति तां ज्ञात्वा स्वरूपस्थो ऽभवद्धरः । 21ab
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥ 21cd
न जेतुमेनां शक्तो मे त्वदृते ऽन्यः पुमान् भुवि । 22ab
अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः । 22cd
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ॥ 22॥ 22ef


इत्यादिमहापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयो ऽध्यायः ॥


1 हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः ।
2 भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः ।
3 मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः ।
4 तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः ।
Image-P.7


Chapter 4

अथ चतुर्थो ऽध्यायः

वराहाद्यवतारवर्णनं ।
अग्निरुवाच ।
अवतारं वराहस्य वक्ष्ये ऽहं पापनाशनम् । 1ab
हिरण्याक्षो ऽसुरेशो ऽभूत् 1 देवान् जित्वा 2 दिवि स्थितः ॥ 1cd
देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः । 2ab
अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम् 2 2cd
धर्मदेवादिरक्षाकृत् ततः सो ऽन्तर्द्दधे हरिः । 3ab
हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा 4 3cd
जितदेवयज्ञभागः सर्वदेवाधिकारकृत् । 4ab
नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥ 4cd
स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः । 5ab
देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥ 5cd
जिताः स्वर्गात्परिभ्रष्टा हरिं वै 5 शरणं गताः । 6ab
सुराणामभयं दत्वा अदित्या कश्यपेन च ॥ 6cd
स्तुतो ऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ । 7ab
बलेः श्रीयजमानस्य, राजद्वारे ऽगृणात् श्रुतिं ॥ 7cd
देवान् पठन्तं तं श्रुत्वा वामनं वरदो ऽब्रवीत् । 8ab
निवारितो ऽपि शुक्रेण बलिर्ब्रूहि यदिछसि ॥ 8cd
तत्ते ऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् । 9ab


1 सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः ।
2 सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः ।
3 सार्द्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
4 हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः ।
5 हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.8


पदत्रयं हि गुर्वर्थं 1 देहि दास्ये तमब्रवीत् ॥ 9cd
तोये तु पतिते हस्ते वामनो ऽभूदवामनः । 10ab
भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयम् ॥ 10cd
चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः । 11ab
शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥ 11cd
वक्ष्ये परशुरामस्य चावतारं शृणु द्विज । 12ab
उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः ॥ 12cd
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः । 13ab
जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥ 13cd
दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् । 14ab
सहस्रबाहुः सर्वोर्वीपतिः स मृगयां गतः ॥ 14cd
श्रान्तो 2 निमन्त्रितो ऽरण्ये मुनिना जमदग्निना । 15ab
कामधेनुप्रभावेण भोजितः सबलो नृपः ॥ 15cd
अप्रार्थयत् कामधेनुं 3 यदा स न ददौ तदा । 16ab
हृतवानथ रामेण शिरश्छित्वा निपातितः ॥ 16cd
युद्धे परशुना राजा धेनुः स्वाश्रममाययौ 4 17ab
कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥ 17cd
रामे वनं गते वैरादथ रामः समागतः । 18ab
पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥ 18cd
त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः । 19ab
कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन् ॥ 19cd


1 मे गुर्वर्थमिति ख, चिह्नितपुस्तकपाठः ।
2 भ्रान्त इति ख, चिह्नितपुस्तकपाठः ।
3 अप्रार्थयद्धोमधेनुमिति ख, ग, चिहिनितपुस्तकद्वयपाठः ।
4 सधेनुश्चाश्रमं ययौ इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.9


काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः । 20ab
कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनं । 20cd
अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥ 20॥ 20ef


इत्यादिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थो ऽध्यायः ।

Chapter 5

अथ पञ्चमो ऽध्यायः ।

श्रीरामावतारवर्णनम् ।
अग्निरुवाच ।
रामायणमहं वक्ष्ये नारदेनोदितं पुरा । 1ab
वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ॥ 1cd
नारद उवाच ।
विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः । 2ab
मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ॥ 2cd
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः । 3ab
ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥ 3cd
रावणादेर्बधार्थाय चतुर्द्धाभूत् स्वयं हरिः । 4ab
राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥ 4cd
कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः । 5ab
शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात् ॥ 5cd
प्राशिताद्यज्ञसंसिद्धाद्रामाद्याश्च समाः पितुः । 6ab
यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥ 6cd
रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह । 7ab
Image-P.10


रामो गतो ऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत् 1 7cd
मारीचं मानवास्त्रेण मोहितं दूरतो ऽनयत् । 8ab
सुबाहुं यज्ञहन्तारं सबलञ्चावधीत् बली ॥ 8cd
सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह । 9ab
गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः ॥ 9cd
शतानन्दनिमित्तेन विश्वामित्रप्रभावतः । 10ab
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥ 10cd
धनुरापूरयामास लीलया स बभञ्ज तत् 2 11ab
वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥ 11cd
ददौ रामाय रामो ऽपि पित्रादौ हि समागते । 12ab
उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा 3 12cd
श्रुतकीर्तिं माण्डवीञ्च कुशध्वजसुते तथा । 13ab
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥ 13cd
कन्ये द्वे उपयेमाते जनकेन सुपूजितः । 14ab
रामो ऽगात्सवशिष्ठाद्यैर्जामदग्न्यं विजित्य च । 14cd
अयोध्यां भरतोभ्यागात् 4 सशत्रुघ्नो युधाजितः ॥ 14॥ 14ef


इत्यादिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमो ऽध्यायः ।


1 ताडकापहृदिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 बभञ्ज तद्दृढं धनुरिति ग, चिह्नितपुस्तकपाठः ।
3 तदा इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
4 भरतोथागात् इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.11


Chapter 6

अथ षष्ठो ऽध्यायः ।

श्रीरामावतारवर्णनं ।
नारद उवाच ।
भरते ऽथ गते रामः पित्रादीनभ्यपूजयत् । 1ab
राजा दशरथो राममुवाच शृणु राघव ॥ 1cd
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः । 2ab
मनसा ऽहं प्रभाते ते यौवराज्यं ददामि ह ॥ 2cd
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव । 3ab
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥ 3cd
सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः 1 4ab
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः 2 4cd
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः । 5ab
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥ 5cd
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने । 6ab
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥ 6cd
अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं । 7ab
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी 3 7cd
पादौ गृहीत्वा रामेण कर्षिता सापराधतः । 8ab
तेन वैरेण सा रामवनवासञ्च काङ्क्षति ॥ 8cd
कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं । 9ab
मरणं तव पुत्रस्य मम ते नात्र संशयः ॥ 9cd


1 राज्यवर्द्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः ।
2 सुमन्त्रश्च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
3 मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.12


कुब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ । 10ab
उवाच मे यथा रामस्तथा मे भरतः सुतः ॥ 10cd
उपायन्तु न पश्यामि भरतो येन राज्यभाक् । 11ab
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वा ऽथ मन्थरा ॥ 11cd
बालिशे रक्ष भरतमात्मानं माञ्च राघवात् । 12ab
भविता राघवो राजा राघवस्य ततः सुतः ॥ 12cd
राजवंशस्तु कैकेयि भरतात् परिहास्यते । 13ab
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥ 13cd
रात्रौ भर्त्ता गतस्तत्र रक्षितो विद्यया त्वया । 14ab
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥ 14cd
रामस्य च वनेवासं नव वर्षाणि पञ्च च । 15ab
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥ 15cd
प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी । 16ab
उवाच सदुपायं मे कच्चित्तं 1 कारयिष्यति ॥ 16cd
क्रोधागारं प्रविष्टा ऽथ पतिता भुवि मूर्छिता । 17ab
द्विजादीनर्च्चयित्वा ऽथ राजा दशरथस्तदा ॥ 17cd
ददर्श केकयीं रुष्टामुवाच कथमीदृशी । 18ab
रोगार्त्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥ 18cd
येन रामेण हि विना न जीवामि मुहूर्त्तकम् । 19ab
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥ 19cd
सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् । 20ab
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप ॥ 20cd
चतुर्द्दशसमा रामो वने वसतु संयतः । 21ab


1 कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.13


सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥ 21cd
विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप । 22ab
तच्छ्रुत्वा मूर्च्छितो भूमौ वज्राहत इवापतत् ॥ 22cd
मुहूर्त्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् । 23ab
किं कृतं तव रामेण मया वा पापनिश्चये ॥ 23cd
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि । 24ab
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥ 24cd
या त्वं भार्या 1 कालरात्री भरतो नेदृशः सुतः । 25ab
प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥ 25cd
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् । 26ab
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य मां ॥ 26cd
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः । 27ab
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥ 27cd
कृत्वा नत्वा च कौशल्यां समाश्वास्य सलक्ष्मणः । 28ab
सीतया भार्यया सार्द्धं सरथः ससुमन्त्रकः ॥ 28cd
दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः । 29ab
मातृभिश्चैव विप्राद्यैः शोकार्त्तैर्निर्गतः पुरात् ॥ 29cd
उषित्वा तमसातीरे रात्रौ पौरान् विहाय च । 30ab
प्रभाते तमपश्यन्तो ऽयोध्यां ते पुनरागताः ॥ 30cd
रुदन् राजापि कौशल्यागृहमागात् सुदुःखितः । 31ab
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥ 31cd
रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ । 32ab
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः 2 32cd


1 ग त्वं भार्य्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः ।
2 संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.14


लक्ष्मणः स गुहो रात्रौ चक्रतुर्ज्जागरं हि तौ । 33ab
सुमन्त्रं सरथं त्यक्त्वा प्रातर्न्नावाथ जाह्नवीं ॥ 33cd
रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् । 34ab
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥ 34cd
वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे । 35ab
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥ 35cd
नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् । 36ab
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥ 36cd
रामे वनं गते राजा षष्ठे ऽह्नि निशि चाब्रवीत् । 37ab
कौशल्यां स कथां पौर्वां 1 यदज्ञानद्धतः पुरा ॥ 37cd
कौमारे शरयूतीरे यज्ञदत्तकुमारकः । 38ab
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥ 38cd
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः । 39ab
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥ 39cd
पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम । 40ab
कथामुक्त्वा ऽथ हा राममुक्त्वा राजा दिवङ्गतः ॥ 40cd
सुप्तं मत्त्वा ऽथ कौशल्या सुप्ता शोकार्त्तमेव सा । 41ab
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥ 41cd
प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः 2 42ab
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत् 3 42cd
नरा नार्यो ऽथ रुरुदुरानीतो भरतस्तदा । 43ab
वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥ 43cd


1 पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 नृप इति ङ, चिह्नितपुस्तकपाठः ।
3 चापतदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.15


दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः । 44ab
अकीर्त्तिः पातिता मूर्द्ध्नि कौशल्यां स प्रशस्य च ॥ 44cd
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे । 45ab
वशिष्ठाद्यैर्ज्जनैरुक्तो राज्यं कुर्विति सो ऽब्रवीत् ॥ 45cd
व्रजामि राममानेतुं रामो राजा मतो बली 1 46ab
शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥ 46cd
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः । 47ab
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥ 47cd
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः । 48ab
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥ 48cd
राज्यायाहन्नयास्यामि 2 सत्याच्चीरजटाधरः । 49ab
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली ॥ 49cd
त्यक्त्वा ऽयोध्यां पादुके ते पूज्य राज्यमपालयत् ॥ 49॥ 49ef


इत्यादिमहापुराणे आग्नेये रामायणे ऽयोध्याकाण्डवर्णनं नाम षष्ठो ऽध्यायः ॥

Chapter 7

अथ सप्तमो ऽध्यायः ।

रामायणवर्णनं ।
नारद उवाच ।
रामो वशिष्ठं मातॄञ्च नत्वा ऽत्रिञ्च प्रणम्य सः । 1ab
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥ 1cd


1 यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.16


अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः । 2ab
धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥ 2cd
जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे । 3ab
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥ 3cd
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् । 4ab
कस्त्वं कस्मात्समायातो भर्त्ता मे भव चार्थितः ॥ 4cd
एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता । 5ab
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत् ॥ 5cd
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् । 6ab
मरिष्यामि विनासा ऽहं खर जीवामि वै तदा ॥ 6cd
रामस्य भार्य्या सीता ऽसौ तस्यासील्लक्ष्मणो ऽनुजः । 7ab
तेषां यद्रुधिरं 1 सोष्णं पाययिष्यसि मां यदि ॥ 7cd
खरस्तथेति तामुक्त्वा चतुर्द्दशसहस्रकैः । 8ab
रक्षसां दूषणेनागाद्योद्धुं 2 त्रिशिरसा सह ॥ 8cd
रामं रामो ऽपि युयुधे शरैर्विव्याध राक्षसान् । 9ab
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥ 9cd
त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् । 10ab
ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि ॥ 10cd
अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः । 11ab
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥ 11cd
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा । 12ab
तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ॥ 12cd
स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः । 13ab


1 हृद्रुधिरमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 रक्षसां सहसा प्रायाद्योद्धुमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.17


सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥ 13cd
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः 1 14ab
रावणादपि मर्त्तव्यं मर्त्तव्यं राघवादपि ॥ 14cd
अवश्यं यदि मर्त्तव्यं वरं रामो न रावणः । 15ab
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥ 15cd
सीतया प्रेरितो 2 रामः शरेणाथावधीच्च तं । 16ab
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥ 16cd
सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः । 17ab
रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं ॥ 17cd
जटायुषा स भिन्नाङ्गो 3 अङ्केनादाय जानकीम् । 18ab
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥ 18cd
भव भार्य्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् । 19ab
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥ 19cd
मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः । 20ab
तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम् ॥ 20cd
शुशोच विललापार्त्तो मान्त्यक्त्वा क्व गतासि वै । 21ab
लक्ष्मणाश्वासितो रामो मार्गयामास 4 जानकीम् ॥ 21cd
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम् । 22ab
मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥ 22cd
शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥ 22॥ 22ef


इत्यादिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमो ऽध्यायः ।


1 मृत्युर्न तद्वरमिति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
2 प्रेषित इति ख, चिह्नितपुस्तकपाठः ।
3 विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
4 आह्वयामास इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.18


Chapter 8

अथ अष्टमो ऽध्यायः ।

श्रीरामावतारकथनम् ।
नारद उवाच ।
रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः 1 1ab
हनूमता स सुग्रीवं 2 नीतो मित्रञ्चकार ह ॥ 1cd
सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः । 2ab
पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनं ॥ 2cd
तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् । 3ab
किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत् ॥ 3cd
ऋष्यमूके हरीशाय किष्किन्धेशो ऽब्रवीत्स च 3 4ab
सीतां त्वं प्राप्स्यसे यद्वत् 4 तथा राम करोमि ते ॥ 4cd
तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः । 5ab
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनं ॥ 5cd
तदा ऽब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् । 6ab
न स सङ्कुचितः पन्था येन बाली हतो गतः ॥ 6cd
समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः । 7ab
सुग्रीव आह संसक्तो 5 गतं कालं न बुद्धवान् ॥ 7cd
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः । 8ab
आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥ 8cd


1 गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं तत इति ख, ग, चिह्नितपुस्तकपाठः ।
2 हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः ।
3 अब्रवीत्तत् इति ग, चिह्नितपुस्तकपाठः ।
4 प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः ।
5 सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः । सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.19


त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् । 9ab
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥ 9cd
इत्युक्ता वानराः पूर्वपश्चिमोत्तरमार्गगाः । 10ab
जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम् ॥ 10cd
रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह । 11ab
दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ॥ 11cd
मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् । 12ab
ऊचुर्वृथा मरिष्यामो जटायुर्द्धन्य एवसः ॥ 12cd
सीतार्थे यो ऽत्यजत् प्राणान्रावणेन हतो रणे । 13ab
तच्छ्रुत्वा प्राह सम्पातिर्विहाय कपिभक्षणं ॥ 13cd
भ्राता ऽसौ मे जटायुर्वै मयोड्डीनो ऽर्क्कमण्डलम् । 14ab
अर्क्कतापाद्रक्षितो ऽगात् दग्धपक्षो ऽहमब्भ्रगः ॥ 14cd
रामवार्त्ताश्रवात् पक्षौ जातौ भूयो ऽथ जानकीम् । 15ab
पश्याम्यशोकवनिकागतां लङ्कागतां किल ॥ 15cd
शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके । 16ab
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥ 16cd


इत्यादिमहापुराणे आग्नेये रामायणे किष्किन्धाकाण्डवर्णनं नाम अष्टमो ऽध्यायः ।

Chapter 9

अथ नवमो ऽध्यायः ।

श्रीरामावतारकथनं ।
नारद उवाच ।
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः । 1ab
अब्धिं दृष्ट्वा ऽब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत् ॥ 1cd
Image-P.20


कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये । 2ab
शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः ॥ 2cd
दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च । 3ab
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥ 3cd
दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः । 4ab
विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो ॥ 4cd
नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः । 5ab
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥ 5cd
राक्षसीरक्षितां सीतां भव भार्येति वादिनं । 6ab
रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं ॥ 6cd
भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः । 7ab
गते तु रावणे प्राह राजा दशरथो ऽभवत् ॥ 7cd
रामो ऽस्य 1 लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ । 8ab
रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥ 8cd
रामः सुग्रीवमित्रस्त्वां मार्गयन् प्रैषयच्च माम् 2 9ab
साभिज्ञानञ्चांगुलीयं रामदत्तं गृहाण वै ॥ 9cd
सीता ऽङ्गुलीयं जग्राह सा ऽपश्यन्मारूतिन्तरौ । 10ab
भूयो ऽग्रे चोपविष्टं तमुवाच यदि जीवति ॥ 10cd
रामः कथं न नयति शङ्कितामब्रवीत् कपिः । 11ab
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥ 11cd
रावणं राक्षसं हत्वा सबलं देवि मा शुच । 12ab
साभिज्ञानं देहि मेत्वं मणिं सीता ऽददत्कपौ ॥ 12cd
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु । 13ab


1 रामश्च इति ख, चिह्नितपुस्तकपाठः ।
2 त्वां मार्गयेत् प्रेषयेच्चमामिति घ, चिह्नितपुस्तकपाठः ।
Image-P.21


काकाक्षिपातनकथाम्प्रतियाहि हि शोकह ॥ 13cd
मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः । 14ab
अथवा तेत्वरा काचित् पृष्ठमारुह मे शुभे ॥ 14cd
अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् । 15ab
सीता ऽब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥ 15cd
हनूमान् स दशग्रीवदर्शनोपायमाकरोत् । 16ab
वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥ 16cd
हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि । 17ab
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥ 17cd
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् । 18ab
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥ 18cd
रामदूतो राघवाय सीतां देहि मरिष्यसि । 19ab
रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम् ॥ 19cd
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः । 20ab
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥ 20cd
दग्ध्वा लङ्कां राक्षसांश्च दृष्ट्वा सीतां प्रणम्य ताम् । 21ab
समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥ 21cd
अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु । 22ab
जित्वा दधिमुखादींश्च दृष्ट्वा रामञ्च ते ऽब्रुवन् ॥ 22cd
दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् । 23ab
कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥ 23cd
सीताकथामृतेनैव सिञ्च मां कामवह्निगम् । 24ab
हनूमानब्रवीद्रामं लङ्घयित्वा ऽब्धिमागतः ॥ 24cd
सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै । 25ab
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥ 25cd
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः । 26ab
Image-P.22


मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥ 26cd
तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः । 27ab
समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥ 27cd
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना । 28ab
रामाय देहि सीतां त्वमित्युक्तेनासहायवान् ॥ 28cd
रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् । 29ab
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥ 29cd
भेदयामास रामञ्च उवाचाब्धिः समागतः । 30ab
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥ 30cd
अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना । 31ab
कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः ॥ 31cd
वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥ 31॥ 31ef


इत्यादिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमो ऽध्यायः ।

Chapter 10

अथ दशमो ऽध्यायः ।

श्रीरामावतारवर्णनं ।
नाराद उवाच ।
रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी । 1ab
दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि ॥ 1cd
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः । 2ab
रामायाह दशग्रीवो युद्धमेकं तु मन्यते ॥ 2cd
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ । 3ab
वानरो हनूमान् मैन्दो द्विविदो जाम्बवान्नलः ॥ 3cd
नीलस्तारोङ्गदो धूम्रः सुषेणः केशरी गयः । 4ab
Image-P.23


पनसो विनतो रम्भः शरभः क्रथनो बली ॥ 4cd
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः । 5ab
एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥ 5cd
रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ । 6ab
राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः ॥ 6cd
वानरा राक्षसान् जघ्नुर्न्नखदन्तशिलादिभिः । 7ab
हस्त्यश्वरथपादातं राक्षसानां बलं हतं ॥ 7cd
हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् । 8ab
अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत् ॥ 8cd
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ । 9ab
तार्क्षसन्दर्शनाद्वाणैर्जघ्नतू राक्षसं बलम् ॥ 9cd
रामः शरैरजर्जरितं रावणञ्चाकरोद्रणे । 10ab
रावणः कुम्भकर्णञ्च बोधयामास दुःखितः ॥ 10cd
कुम्भकर्णः प्रबुद्धो ऽथ पीत्वा घटसहस्रकम् । 11ab
मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥ 11cd
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः । 12ab
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥ 12cd
इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह । 13ab
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः ॥ 13cd
कर्णनासाविहीनो ऽसौ भक्षयामास वानरान् । 14ab
रामो ऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः ॥ 14cd
ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् । 15ab
अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥ 15cd
महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः । 16ab
प्रघसो भासकर्णश्च विरूपाक्षश्च संयुगे ॥ 16cd
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः । 17ab
Image-P.24


रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥ 17cd
युध्यमानास्तथा ह्यन्ये राक्षसा भुवि पातिताः । 18ab
इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥ 18cd
वरदत्तैर्न्नागबाणैः 1 ओषध्या तौ विशल्यकौ । 19ab
विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते ॥ 19cd
हनूमान् धारयामास तत्रागं यत्र संस्थितः । 20ab
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥ 20cd
शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत् । 21ab
रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः ॥ 21cd
अविन्ध्यवारितो 2 राजा रथस्थः सबलो ययौ । 22ab
इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥ 22cd
रामरावणयोर्युद्धं रामरावणयोरिव । 23ab
रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ॥ 23cd
रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा । 24ab
तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥ 24cd
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि । 25ab
पैतामहेन हृदयं भित्वा रामेण रावणः ॥ 25cd
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः । 26ab
आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः ॥ 26cd
हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् । 27ab
रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥ 27cd
ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्द्दनः । 28ab
इन्द्रोर्च्चितो ऽमृतवृष्ट्या जीवयामास वानरान् ॥ 28cd


1 नागपाशैरिति ख, चिह्नितपुस्तकपाठः ।
2 सुहृन्निवारित इति ख, चिह्नितपुस्तकपाठः ।
Image-P.25


रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते । 29ab
रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥ 29cd
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः 1 30ab
दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥ 30cd
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः । 31ab
भरतेन नतश्चागादयोध्यान्तत्र संस्थितः ॥ 31cd
वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् । 32ab
सुमित्रां प्राप्तराज्यो ऽथ द्विजादीन् सो ऽभ्यपूजयत् ॥ 32cd
वासुदेवं स्वमात्मानमश्वमेधैरथायजत् । 33ab
सर्वदानानि स ददौ पालयामास सः प्रजाः ॥ 33cd
पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः । 34ab
सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी । 34cd
नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ॥ 34॥ 34ef


इत्यादिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमो ऽध्यायः ।

Chapter 11

अथ एकादशो ऽध्यायः ।

श्रीरामावतारकथनं ।
नारद उवाच
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः । 1ab
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ॥ 1cd
ब्रह्मात्मजः पुलस्त्योभूत् विश्रवास्तस्य नैकषी । 2ab
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥ 2cd
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः । 3ab


1 स्वर्गमार्गेण वैगत इति ख, चिह्नितपुस्तकपाठः ।
Image-P.26


तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥ 3cd
कुम्भकर्णः सनिद्रो ऽभूद्धर्म्मिष्ठो ऽभूद्विभीषणः । 4ab
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥ 4cd
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली । 5ab
हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता ॥ 5cd
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः । 6ab
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ॥ 6cd
अभूत् पूर्म्मथुरा काचित् रामोक्तो भरतो अबधीत् । 7ab
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ॥ 7cd
शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् । 8ab
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥ 8cd
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः । 9ab
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥ 9cd
पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ । 10ab
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥ 10cd
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः । 11ab
दशवर्षसहस्राणि दशवर्षशतानि च ॥ 11cd
राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ । 12ab
सपौरः सानुजः सीतापुत्रो जनपदान्वितः ॥ 12cd
अग्निरुवाच ।
वाल्मीकिर्न्नारदाच्छ्रुत्वा रामायणमकारयत् । 13ab
सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् ॥ 13cd


इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशो ऽध्यायः ।
Image-P.27


Chapter 12

अथ द्वादशो ऽध्यायः ।

श्रीहरिवंशवर्णनं ।
अग्निरुवाच ।
हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः 1 1ab
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥ 1cd
तस्मादायुरभूत्तस्मान्नहुषो ऽतो ययातिकः । 2ab
यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥ 2cd
द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी । 3ab
यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥ 3cd
भुवो भारावतारार्थं देवक्यां वसुदेवतः । 4ab
हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥ 4cd
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । 5ab
अभूच्च सप्तमो गर्भो देवक्या जठराद्बलः ॥ 5cd
सङ्क्रामितो ऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः । 6ab
कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः ॥ 6cd
देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः । 7ab
वसुदेवः कंसभयाद्यशोदाशयने ऽनयत् ॥ 7cd
यशोदाबालिकां गृह्य देवकीशयने ऽनयत् । 8ab
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले ॥ 8cd
वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम । 9ab
श्रुत्वा ऽशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥ 9cd
समर्पितास्तु देवक्या विवाहसमयेरिताः । 10ab
सा क्षिप्ता बालिका कंसमाकाशस्थाब्रवीदिदम् ॥ 10cd
किं मया क्षिप्तया कंस जातो यस्त्वां बधिष्यति । 11ab


1 विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः ।
Image-P.28


सर्वस्वभूतो देवानां भूभारहरणाय सः ॥ 11cd
इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता । 12ab
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥ 12cd
भद्रा क्षेम्या क्षेमकरी नैकबाहुर्न्नमामि ताम् । 13ab
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥ 13cd
कंसोपि पूतनादींश्चाप्रेषयद्बालनाशने । 14ab
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥ 14cd
रक्षणाय च कंसादेर्भीतेनैव हि गोकुले । 15ab
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥ 15cd
सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः । 16ab
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥ 16cd
यमलार्जुनमध्ये ऽगाद् भग्नौ च यमलार्जुनौ । 17ab
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ॥ 17cd
पूतना स्तनपानेन सा हता हन्तुमुद्यता । 18ab
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥ 18cd
जित्वा निःसार्य चाब्धिस्थञ्चकार बलसंस्तुतः । 19ab
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभं ॥ 19cd
अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् । 20ab
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥ 20cd
पर्वतं धारयित्वा च शक्राद्वृष्टिर्न्निवारिता । 21ab
नमस्कृतो महेन्द्रेण गोविन्दो ऽथार्जुनोर्पितः ॥ 21cd
इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः । 22ab
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥ 22cd
गोपीभिरनुरक्ताभिः क्रीडिताभिर्न्निरीक्षितः । 23ab
Image-P.29


रजकं चाप्रयच्छन्तं 1 हत्वा वस्त्राणि चाग्रहीत् ॥ 23cd
सह रामेण मालाभृन्मालाकारे वरन्ददौ । 24ab
दत्तानुलेपनां कुब्जामृजुं चक्रे ऽहनद् गजं ॥ 24cd
मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च । 25ab
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं ॥ 25cd
चक्रे चाणूरमल्लेन मुष्टिकेन बलो ऽकरोत् । 26ab
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥ 26cd
मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः । 27ab
चक्रे यादवराजानमस्तिप्राप्ती च कंसगे ॥ 27cd
जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः । 28ab
चक्रे स मथुरारोधं यादवैर्युयुधे शरैः ॥ 28cd
रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ । 29ab
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं ॥ 29cd
पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः । 30ab
भौमं तु नरकं हत्वा तेनानीताश्च कन्यकाः ॥ 30cd
देवगन्धर्वयक्षाणां ता उवाच जनार्द्दनः । 31ab
षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास्तथाष्ट च ॥ 31cd
सत्यभामासमायुक्तो गरुडे नरकार्दनः । 32ab
मणिशैलं सरत्नञ्च इन्द्रं जित्वा हरिर्द्दिवि ॥ 32cd
पारिजातं समानीय सत्यभामागृहे ऽकरोत् । 33ab
सान्दीपनेश्च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥ 33cd
जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः । 34ab


1 रजकञ्च प्रजल्पन्तमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.30


अबधीत् कालयवनं मुचुकुन्देन पूजितः ॥ 34cd
वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्च्यत् । 35ab
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥ 35cd
कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्ये ऽभवन् सुताः । 36ab
प्रद्युम्नो ऽभूच्च रुक्मिण्यां षष्ठे ऽह्नि स हृतो बलात् ॥ 36cd
शम्बरेणाम्बुधौ क्षिप्तो मत्स्यो जग्राह धीवरः । 37ab
तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥ 37cd
मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् । 38ab
पपोष सा तं चोवाच रतिस्ते ऽहं पतिर्मम ॥ 38cd
कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च । 39ab
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥ 39cd
तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया । 40ab
मायावत्या ययौ कृष्णं कृष्णो हृष्टो ऽथ रुक्मिणी ॥ 40cd
प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः । 41ab
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं ॥ 41cd
तपसा शिवपुत्रो ऽभूत् मायूरध्वजपातितः । 42ab
युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात् ॥ 42cd
शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ । 43ab
तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात् ॥ 43cd
वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति । 44ab
गौर्य्युक्ता 1 हर्षिता चोषा गृहे सुप्ता ददर्श तं ॥ 44cd
आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया । 45ab
लिखिताद्वै चित्रपटादनिरुद्धं समानयत् ॥ 45cd


1 तच्छ्रुत्वा इति ग, चिह्नितपुस्तकपाठः ।
Image-P.31


कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः । 46ab
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥ 46cd
वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः । 47ab
अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम् ॥ 47cd
श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् । 48ab
गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा ॥ 48cd
हरिशङ्करयोर्युद्धं बभूवाथ शराशरि । 49ab
नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥ 49cd
जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना । 50ab
छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥ 50cd
विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् । 51ab
त्वया यदभयं दत्तं वाणस्यास्य मया च तत् ॥ 51cd
आवयोर्न्नास्ति भेदो वै भेदी नरकमाप्नुयात् । 52ab
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥ 52cd
द्वारकान्तु गतो रेमे उग्रसेनादियादवैः । 53ab
अनिरुद्धात्मजो वज्रो मार्क्कण्डेयात्तु सर्ववित् ॥ 53cd
बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो 1 ऽभवत् । 54ab
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥ 54cd
हरी रेमेनेकमूर्त्तो रुक्मिण्यादिभिरीश्वरः । 55ab
पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् । 55cd
हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत् ॥ 55॥ 55ef


इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशो ऽध्यायः ।


1 कर्षक इति ख, चिह्नितपुस्तकपाठः ।
Image-P.32


Chapter 13

अथ त्रयोदशो ऽध्यायः ।

कुरुपाण्डवोत्पत्त्यादिकथनं ।
अग्निरुवाच ।
भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् । 1ab
भूभारमहरद्विष्णुर्न्निमित्तीकृत्य पाण्डवान् ॥ 1cd
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः । 2ab
सोमः सोमाद्बुधस्तस्मादैल आसीत् पुरूरवाः ॥ 2cd
तस्मादायुस्ततो राजा नहुषो ऽतो ययातिकः । 3ab
ततः पुरुस्तस्य वंशे भरतो ऽथ नृपः कुरुः ॥ 3cd
तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतो ऽनुजौ । 4ab
चित्राङ्गदो विचित्रश्च सत्यवयाञ्च शान्तनोः ॥ 4cd
स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः । 5ab
अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः ॥ 5cd
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका । 6ab
अम्बालिका च भीष्मेण आनीते विजितारिणा ॥ 6cd
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः । 7ab
सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥ 7cd
धृतराष्ट्रो ऽम्बालिकायां पाण्डुश्च व्यासतः सुतः । 8ab
गान्धार्य्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम् ॥ 8cd
शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः । 9ab
ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥ 9cd
वाताद्भीमो ऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः । 10ab
नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः ॥ 10cd
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः । 11ab
कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह ॥ 11cd
Image-P.33


दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः । 12ab
दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः ॥ 12cd
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने । 13ab
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥ 13cd
ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे । 14ab
सम्प्राप्ता बाहुवेधेन 1 द्रौपदी पञ्चपाण्डवैः 2 14cd
अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः । 15ab
गाण्डीवञ्च धनुर्द्दिव्यं पावकाद्रथमुत्तमम् ॥ 15cd
सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् । 16ab
ब्रह्मास्त्रादींस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥ 16cd
कृष्णेन सो ऽर्जुनो वह्निं खाण्डवे समतर्पयत् । 17ab
इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥ 17cd
जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः । 18ab
बहुस्वर्णं 3 राजसूयं न सेहे तं सुयोधनः ॥ 18cd
भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना । 19ab
द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥ 19cd
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् । 20ab
जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ ॥ 20cd
वने द्वादशवर्षाणि प्रतिज्ञातानि सो ऽनयत् । 21ab
अष्टाशीतिसहस्राणि भोजयन् पूर्ववद् द्विजान् ॥ 21cd
सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् । 22ab
कङ्को द्विजो ह्यविज्ञातो 4 राजा भीमोथ सूपकृत् ॥ 22cd


1 बाहुभेदेन इति ग, चिह्नितपुस्तकपाठः ।
2 द्रौपदीं पञ्च पाण्डवा इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
3 वसुपूर्णमिति ख, चिह्नितपुस्तकपाठः रत्नपूर्णमिति घ, चिह्नितपुस्तकपाठः ।
4 कङ्को द्विजो ह्यभूच्छ्रेष्ठ इति ख,चिह्नितपुस्तकपाठः ।
Image-P.34


बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा । 23ab
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥ 23cd
द्रौपदीं हर्त्तुकामं तं अर्जुनश्चाजयत् कुरून् । 24ab
कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥ 24cd
सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् । 25ab
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥ 25cd
सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः । 26ab
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥ 26cd
एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा । 27ab
युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा ॥ 27cd
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः । 28ab
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥ 28cd
विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः 1 29ab
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥ 29cd


इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशो ऽध्यायः ।

Chapter 14

अथ चतुर्दशो ऽध्यायः ।

कुरुपाण्डवसङ्ग्रामवर्णनम् ।
अग्निरुवाच ।
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः । 1ab
भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति ॥ 1cd
पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः । 2ab
शरीराणि विनाशीनि न शरीरी विनश्यति ॥ 2cd


1 विदुरान्वित इति ख, चिह्नितपुस्तकपाठः ।
Image-P.35


अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् । 3ab
सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय ॥ 3cd
कृष्णोक्तोथार्जुनो ऽयुध्यद्रथस्थो वाद्यशब्दवान् । 4ab
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥ 4cd
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह । 5ab
धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥ 5cd
धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे । 6ab
देवासुरसमं युद्धं कुरुपाण्दवसेनयोः ॥ 6cd
बभूव स्वःस्थदेवानां पश्यतां प्रीतिवर्द्धनम् । 7ab
भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥ 7cd
दशमे ह्यर्जुनो वाणैर्भीष्मं वीरं ववर्ष ह । 8ab
शिखण्डी द्रुपदोक्तो ऽस्त्रैर्ववर्ष जलदो यथा ॥ 8cd
हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् 1 9ab
भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥ 9cd
वसूक्तो वसुलोकाय शरशय्यागतः स्थितः । 10ab
उत्तरायणमीक्षंश्च ध्यायन् विष्णुं स्तुवन् स्थितः ॥ 10cd
दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत् । 11ab
पाण्दवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः ॥ 11cd
तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् । 12ab
विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥ 12cd
दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी । 13ab
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥ 13cd
हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् । 14ab
धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥ 14cd


1 अन्योन्यास्त्रनिपीड़ितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.36


पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च । 15ab
दुर्योधने तु शोकार्त्ते कर्णः सेनापतिस्त्वभूत् ॥ 15cd
अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह । 16ab
शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् ॥ 16cd
कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः । 17ab
द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः ॥ 17cd
शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः । 18ab
युयुधे भीमसेनेन हतसैन्यः सुयोधनः ॥ 18cd
बहून् हत्वा नरादींश्च भीमसेनमथाब्रवीत् । 19ab
गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत् ॥ 19cd
गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि । 20ab
रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥ 20cd
अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः । 21ab
द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सो ऽबधीत् ॥ 21cd
पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः । 22ab
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥ 22cd
अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः । 23ab
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥ 23cd
कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् । 24ab
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥ 24cd
स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः । 25ab
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥ 25cd
भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदाम् । 26ab
राजधर्म्मान्मोक्षधर्म्मान्दानधर्म्मान् नृपो ऽभवत् ॥ 26cd
अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्द्दनः । 27ab
Image-P.37


श्रुत्वार्जुनान्मौषलेयं 1 यादवानाञ्च सङ्क्षयम् । 27cd
राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् 2 ॥ 27॥ 27ef


इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशो ऽध्यायः ।

Chapter 15

अथ पञ्चदशो ऽध्यायः ।

पाण्डवचरितवर्णनम् ।
अग्निरुवाच ।
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् । 1ab
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विज ॥ 1cd
विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः । 2ab
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥ 2cd
धर्म्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् । 3ab
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ॥ 3cd
यादवानां भारकरं वज्रं राज्येभ्यषेचयत् । 4ab
देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥ 4cd
इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः । 5ab
बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ॥ 5cd
अविनाशी हरिर्देवो ध्यानिभिर्द्ध्येय एव सः । 6ab
विना तं द्वारकास्थानं प्लावयामास सागरः ॥ 6cd
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः । 7ab
स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ॥ 7cd
पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः । 8ab
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥ 8cd
व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ । 9ab


1 मौषलेनेति ख, चिह्नितपुस्तकपाठः ।
2 स्वर्गमाप्नुयादिति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
Image-P.38


हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥ 9cd
युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा । 10ab
तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ॥ 10cd
विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा । 11ab
तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥ 11cd
प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह । 12ab
संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥ 12cd
महापथे तु पतिता द्रौपदी सहदेवकः । 13ab
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥ 13cd
इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान् । 14ab
दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ॥ 14cd
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥ 14॥ 14ef


इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशो ऽध्यायः ।

Chapter 16

अथ षोड़शो ऽध्यायः ।

बुद्धाद्यवतारकथनम् ।
अग्निरुवाच ।
वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् । 1ab
पुरा देवासुरे युद्धे दैत्यैर्द्देवाः पराजिताः ॥ 1cd
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् । 2ab
मायमोहस्वरुपोसौ शुद्धोदनसुतो ऽभवत् ॥ 2cd
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् । 3ab
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥ 3cd
आर्हतः सो ऽभवत् पश्चादार्हतानकरोत् परान् । 4ab
एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ॥ 4cd
Image-P.39


नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि । 5ab
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥ 5cd
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः । 6ab
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥ 6cd
धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा । 7ab
मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥ 7cd
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः । 8ab
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥ 8cd
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् । 9ab
आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि ॥ 9cd
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति । 10ab
ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ॥ 10cd
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम । 11ab
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥ 11cd
अवतारा असङ्ख्याता अतीतानागतादयः । 12ab
विष्णोर्द्दशावताराख्यान् यः पठेत् शृणुयान्नरः ॥ 12cd
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् । 13ab
धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरिः । 13cd
अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः ॥ 13॥ 13ef


इत्यादिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशो ऽध्यायः ।

Chapter 17

अथ सप्तदशो ऽध्यायः ।

सृष्टिविषयकवर्ननम् ।
अग्निरुवाच्च ।
जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना शृणु । 1ab
सर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥ 1cd
Image-P.40


ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं । 2ab
प्रकृतिं पुरुषं विष्णुः 1 प्रविश्याक्षोभयत्ततः ॥ 2cd
सर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् । 3ab
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ 3cd
अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः । 4ab
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः ॥ 4cd
रसमात्रा आप इतो गन्धमात्रा मही स्मृता 2 5ab
अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥ 5cd
वैकारिका दश देवा मन एकादशेन्द्रियम् । 6ab
ततः स्वयम्भूर्भगवान् 3 सिसृक्षुर्विविधाः प्रजाः ॥ 6cd
अप एव ससर्जादौ तासु वीर्यमवासृजत् 4 7ab
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ 7cd
अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः । 8ab
हिरण्यवर्णमभवत् 5 तदण्डमुदकेशयम् ॥ 8cd
तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । 9ab
हिरण्यगर्भो 6 भगवानुषित्वा परिवत्सरम् ॥ 9cd
तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च । 10ab
तयोः शकलयोर्म्मध्ये आकाशमसृजत् प्रभुः ॥ 10cd
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । 11ab
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ 11cd


1 विष्णुमिति ख, चिह्नितपुस्तकपाठः ।
2 गन्धमात्रा धरित्र्यभूदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
3 ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन् प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्व्वण उद्धृत इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात् ।
4 तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः ।
5 हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः ।
6 हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः ।
Image-P.41


ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः । 12ab
विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ 12cd
वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः । 13ab
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ 13cd
साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात् 1 14ab
सनत्कुमारं रुद्रञ्च ससर्ज्ज क्रोधसम्भवम् ॥ 14cd
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । 15ab
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः 2 15cd
सप्तैते जनयन्ति स्म प्रजा रुद्राश्च सत्तम । 16ab
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषो ऽभवत् ॥ 16cd
अर्द्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥ 16॥ 16ef


इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो ऽध्यायः ।

Chapter 18

अथ अष्टादशो ऽध्यायः ।

स्वायम्भुववंशवर्णनम् ।
अग्निरुवाच ।
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ । 1ab
अजीजनत्स तां कन्यां शतरूपां तपोन्विताम् 3 1cd


1 भूतमुच्चावचं ह्यजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः साध्यांस्तैरयजन् देवान् भूतमुच्चावचं प्रजा इति ङ, चिह्नितपुस्तकपाठः ।
2 निश्चितमिति ख,चिह्नितपुस्तकपाठः ।
3 अजीजनत् सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग, चिह्नितपुस्तकपाठः । अजीजनत् सुतां कन्यां शतरूपां तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः ।
Image-P.42


काम्यां 1 कर्द्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः । 2ab
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥ 2cd
सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये । 3ab
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥ 3cd
तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम् 2 4ab
श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च ॥ 4cd
अहो ऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् । 5ab
यमद्य 3 पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ 5cd
तस्मात् शिष्टिञ्च 4 भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत । 6ab
शिष्टेराधत्त 5 सुच्छाया पञ्च पुत्रानकल्मषान् ॥ 6cd
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् । 7ab
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ 7cd
अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् । 8ab
मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥ 8cd
ऊरुः 6 पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः । 9ab
अग्निष्टुरतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥ 9cd
ऊरोरजनयत् पुत्रान् षडग्नेयी महाप्रभान् । 10ab
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ॥ 10cd
अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत । 11ab


1 काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः ।
3 यदत्र इति ङ, चिह्नितपुस्तकपाठः ।
4 तस्मात् श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
5 श्लिष्टेराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
6 उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.43


अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥ 11cd
प्रजार्थमृषयोथास्य ममन्थुर्द्दक्षिणं करम् । 12ab
वेणस्य मथिते पाणौ सम्बभूव पृथुर्न्नृपः ॥ 12cd
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः । 13ab
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥ 13cd
स धन्वी कवची जातस्तेजसा निर्द्दहन्निव । 14ab
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥ 14cd
राजसूयाभिषिक्तानामाद्यः 1 स पृथिवीपतिः । 15ab
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥ 15cd
तत्स्तोत्रञ्चक्रतुर्व्वीरौ राजाभूज्जनरञ्जनात् । 16ab
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥ 16cd
सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः । 17ab
पितृभिर्द्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः ॥ 17cd
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा । 18ab
प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ॥ 18cd
पृथोः पुत्रौ तु धर्म्मज्ञौ जज्ञाते ऽन्तर्द्विपालिनौ । 19ab
शिखण्डिनी हविर्द्धानमन्तर्द्धानात् व्यजायत ॥ 19cd
हविर्द्धानात् षडाग्नेयी धीषणाजनयत् सुतान् । 20ab
प्राचीनवर्हिषं शुक्रं 2 गयं कृष्णं व्रजाजिनौ ॥ 20cd
प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः । 21ab
प्राचीनवर्हिर्भगवान् महानासीत्प्रजापतिः ॥ 21cd
सवर्णा ऽधत्त 3 सामुद्री दश प्राचीनवर्हिषः । 22ab


1 राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः ।
2 शुभ्रमिति ग,चिह्नितपुस्तकपाठः ।
3 सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः ।
Image-P.44


सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ 22cd
अपृथग्धर्म्मचरणास्ते तप्यन्त महत्तपः । 23ab
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ 23cd
प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः । 24ab
भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ॥ 24cd
मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् । 25ab
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ 25cd
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् । 26ab
तपस्विनो मुनेः कण्डोः 2 प्रम्लोचायां ममैव च ॥ 26cd
भविष्यं जानता सृष्टा भार्या वो ऽस्तु कुलङ्करी । 27ab
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति ॥ 27cd
प्रचेतसस्तां जगृहुर्द्दक्षोस्याञ्च ततो ऽभवत् । 28ab
अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ॥ 28cd
स सृष्ट्वा मनसा 2 दक्षः पश्चादसृजत स्त्रियः । 29ab
ददौ स दश धर्म्माय कश्यपाय त्रयोदश ॥ 29cd
सप्ताविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने । 30ab
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात् 3 30cd
तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा । 31ab
धर्म्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ॥ 31cd
विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत । 32ab
मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवो ऽभवन् ॥ 32cd
भानोस्तु भानवः पुत्रा मुहूर्त्तास्तु मुहूर्त्तजाः । 33ab


1 कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति ङ,चिह्नितपुस्तकपाठः ।
2 स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः ।
3 द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठः ।
Image-P.45


सम्बाया 1 धर्मतो घोषो नागवीथी 2 च यामिजा ॥ 33cd
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत । 34ab
सङ्कल्पायास्तु सङ्कल्पा इन्दोर्न्नक्षत्रतः सुताः ॥ 34cd
आपो ध्रुवञ्च सोमञ्च धरश्चैवानिलोनलः 3 35ab
प्रत्यूषश्च प्रभावश्च वसवोष्टौ च नामतः ॥ 35cd
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा । 36ab
ध्रुवस्य कालो लोकान्तो वर्च्चाः सोमस्य वै सुतः ॥ 36cd
धरस्य पुत्रो द्रविणो 4 हुतहव्यवहस्तथा । 37ab
मनोहरायाः शिशिरः प्राणोथ रमणस्तथा 5 37cd
पुरोजवोनिलस्यासीदविज्ञातो ऽनलस्य च । 38ab
अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ॥ 38cd
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः । 39ab
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः 6 39cd
प्रत्यूषाद्देवलो जज्ञे विश्वकर्म्मा प्रभावतः । 40ab
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्द्धकिः ॥ 40cd
मनुष्याश्चोपजीवन्ति शिल्पं वै भूषणादिकं । 41ab
सुरभी 7 कश्यपाद्रुद्रानेकादश विजज्ञुषी ॥ 41cd
महादेवप्रसादेन तपसा भाविता सती । 42ab


1 लम्बाया इति ग,चिह्नितपुस्तकपाठः ।
2 नगवीथी इति ख, चिह्नितपुस्तकपाठः ।
3 धर्म्मश्चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः ।
4 धरिष इति ग, चिह्नितपुस्तकपाठः ।
5 मरणस्तथेति ग, चिह्नितपुस्तकपाठः ।
6 जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः ।
7 युवती इति ग, चिह्नितपुस्तकपाठः ।
Image-P.46


अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश्च सत्तम 1 42cd
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः । 43ab
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ 43cd
वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा । 44ab
मृगव्याधस्श्च सर्पश्च कपाली दश चैककः । 44cd
रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरं ॥ 44॥ 44ef


इत्यादिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशो ऽध्यायः ।

Chapter 19

अथोनविंशतितमो ऽध्यायः ।

कश्यपवंशवर्णनम् ।
अग्निरुवाच ।
कश्यपस्य वदे सर्गमदित्यादिषु हे मुने । 1ab
चाक्षुषे तुषिता देवास्ते ऽदित्यां कश्यपात्पुनः ॥ 1cd
आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्य्यमा । 2ab
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥ 2cd
अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे । 3ab
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ 3cd
बहुपुत्रस्थ विदुषश्चतस्रो विद्युतः सुताः 2 4ab
प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥ 4cd
उदयास्तमने सूर्ये तद्वदेते युगे युगे । 5ab
हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात् ॥ 5cd


1 सप्तम इति ख, ङ, चिह्नितपुस्तकपाठः ।
2 स्मृता इति ग, चिह्नितपुस्तकपाठः ।
Image-P.47


सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः । 6ab
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥ 6cd
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः । 7ab
अनुह्रादश्च ह्लादश्च प्रह्रादश्चातिवैष्णवः ॥ 7cd
संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा । 8ab
ह्रदस्य पुत्र आयुष्मान् 1 शिबिर्वास्कल एव च ॥ 8cd
विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् । 9ab
बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं 2 महामुने ॥ 9cd
पुराकल्पे हि वाणेन प्रसाद्योमापतिं वरः 3 10ab
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात् 4 10cd
हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति 5 11ab
द्विमूर्द्धा शङ्कुरार्यश्च 6 शतमासन् दनोः सुताः ॥ 11cd
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता । 12ab
उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥ 12cd
पुलोमा कालका चैव वैश्वानरसुते उभे । 13ab
कश्यपस्य तु भार्य्ये द्वे तयोः पुत्राश्च कोटयः ॥ 13cd
प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले । 14ab
ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि ॥ 14cd
गृध्रिका शुचि सुग्रीवा 7 ताभ्यः काकादयो ऽभवन् । 15ab


1 संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
2 वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
3 प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः ।
4 इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः ।
5 झर्झरः शकुनिस्त्वितीति ख, चिह्नितपुस्तकपाठः शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः ।
6 द्विमूर्द्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः ।
7 गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः ।
Image-P.48


अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥ 15cd
विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः । 16ab
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥ 16cd
दंष्ट्रिणः क्रोधवशजा धरोत्थाः 1 पक्षिणो जले । 17ab
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥ 17cd
खसायां यक्षरक्षांसि मुनेरश्वरसोभवन् । 18ab
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं 2 18cd
एषां पुत्रादयो ऽसङ्ख्या देवैर्वै दानवा जिताः 3 19ab
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥ 19cd
पुत्रमिन्द्रप्रहर्त्तारमिच्छती प्राप कश्यपात् । 20ab
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह ॥ 20cd
छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतो ऽभवन् । 21ab
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥ 21cd
एतत् सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं । 22ab
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥ 22cd
द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः । 23ab
राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः ॥ 23cd
वसूनां पावको राजा मरुतां वासवः प्रभुः । 24ab
प्रजापतीनां दक्षोथ प्रह्लादो दानवाधिपः ॥ 24cd
पितॄणां च यमो राजा भूतादीनां हरः 4 प्रभुः । 25ab
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥ 25cd


1 धरण्या इति ख, चिह्नितपुस्तकपाठः ।
2 कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः ।
3 देवैर्दैत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः ।
4 भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.49


गन्धर्वाणां चित्ररथो नागानामथ वासुकिः । 26ab
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥ 26cd
ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि । 27ab
मृगणामथ शार्द्दूलः प्लक्षो वनस्पतीश्वरः ॥ 27cd
उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः । 28ab
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले । 28cd
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥ 28॥ 28ef


इत्यादिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमो ऽध्यायः ।

Chapter 20

अथ विंशतितमो ऽध्यायः ।

सर्गविषयकवर्णनं ।
अग्निरुवाच ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । 1ab
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ 1cd
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः । 2ab
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥ 2cd
मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । 3ab
तिर्य्यक्स्रोतास्तु यः प्रोक्तःस्तैर्य्यग्योन्यस्ततः स्मृतः ॥ 3cd
तथोर्द्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । 4ab
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥ 4cd
अष्टमोनुग्रहः सर्गः सात्विकस्तामसश्च यः । 5ab
पञ्चैते वैकृताः सर्गाः प्राकृताश्च त्रयः स्मृताः ॥ 5cd
प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा । 6ab
Image-P.50


ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ॥ 6cd
ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे । 7ab
नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः ॥ 7cd
प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु । 8ab
जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः ॥ 8cd
देवौ धाताविधातारौ भृगोः ख्यातिरसूयत । 9ab
श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ॥ 9cd
धातुर्विधातुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः । 10ab
मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः ॥ 10cd
पौर्णमासश्च सम्भूत्यां मरीचेरभवत् सुतः । 11ab
स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा ॥ 11cd
राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् । 12ab
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥ 12cd
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् । 13ab
क्षमायां 1 पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ॥ 13cd
सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः । 14ab
अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्रिणः ॥ 14cd
उर्ज्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः 2 15ab
सवनश्चालघुः शुक्रः 3 सुतपाः सप्त चर्षयः ॥ 15cd
पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् । 16ab


1 कुमार्य्यामिति ख, चिह्नितपुस्तकपाठः ।
2 रजोगोत्रोर्द्ध्वबाहुक इति ख, चिह्नितपुस्तकपाठः राजा शात्रोर्द्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्द्ध्ववाहक इति ङ, चिह्नितपुस्तकपाठः ।
3 सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः ।
Image-P.51


अग्निस्वात्ता वर्हिषदो ऽनग्नयः साग्नयो ह्यजात् 1 16cd
पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते 2 17ab
हिंसाभार्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् ॥ 17cd
कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च । 18ab
माया च वेदना चैव मिथुनन्त्विदमेतयोः ॥ 18cd
तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् । 19ab
वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात् ॥ 19cd
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे । 20ab
ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ॥ 20cd
भवं शर्वमथेशानं तथा पशुपतिं द्विज । 21ab
भीममुग्रं महादेवमुवाच स पितामहः ॥ 21cd
दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती । 22ab
हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः ॥ 22cd
ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः । 23ab
स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः ॥ 23cd


इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमो ऽध्यायः ।

Chapter 21

अथ एकविंशो ऽध्यायः ।

सामान्यपूजाकथनं ।
नारद उवाच ।
सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश्च सर्वदान् । 1ab
समस्तपरिवाराय अच्युताय नमो यजेत् ॥ 1cd


1 साग्नयो ह्यगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्याज्यपाः साग्नयो ह्यजादिति घ, चिह्नितपुस्तकपाठः ।
2 वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः ।
Image-P.52


धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा । 2ab
द्वारश्रियं वस्तुनवं शक्तिं कूर्म्ममनन्तकम् ॥ 2cd
पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च । 3ab
अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥ 3cd
ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्क्कादिमण्डलम् । 4ab
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥ 4cd
प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्त्तिकाम् 1 5ab
दुर्गां गिरङ्गणं 2 क्षेत्रं वासुदेवादिकं यजेत् ॥ 5cd
हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् । 6ab
शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥ 6cd
वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् । 7ab
इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥ 7cd
ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् । 8ab
विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥ 8cd
शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत् । 9ab
महाकालं यजेद्गङ्गां 3 यमुनाञ्च गणादिकम् ॥ 9cd
गिरं श्रियं 4 गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम् 5 10ab
वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥ 10cd
बलविकरिणी चापि बलप्रमथिनी क्रमात् । 11ab


1 प्रह्वी सन्ध्या तथेशानानुग्रहासनमूर्त्तिका इति ग, चिह्नितपुस्तकपाठः ।
2 दुर्गां गिरिं गणमिति ख, चिह्नितपुस्तकपाठः दुर्गां शिवं गणमिति घ, चिह्नितपुस्तकपाठः ।
3 यजेत् दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः ।
4 गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियमिति घ, चिह्नितपुस्तकपाठः ।
5 गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्म्मकादिकमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.53


सर्वभूतदमनी च मदनोन्मादिनी शिवासनं ॥ 11cd
हां हुं हां शिवमूर्त्तये साङ्गवक्त्रं शिवं यजेत् । 12ab
हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं ॥ 12cd
ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृदादिकाः । 13ab
क्रमात्सूर्य्यार्च्चने मन्त्रा दण्डी पूज्यश्च पिङ्गलः ॥ 13cd
उच्चैःश्रवाश्चारुणश्च प्रभूतं विमलं यजेत् । 14ab
साराध्योपरमसुखं 1 स्कन्दाद्यं मध्यतो यजेत् ॥ 14cd
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । 15ab
अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥ 15cd
अर्क्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् । 16ab
ह्रां ह्रीं स सूर्य्याय नम आं नमो हृदयाय च ॥ 16cd
अर्क्काय शिरसे तद्वदग्नीशासुरवायुगान् 2 17ab
भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं ॥ 17cd
भां नेत्रं वस्तथार्क्कास्त्रं राज्ञी शक्तिश्च निष्कुभा 3 18ab
सोमो ऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥ 18cd
राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनं । 19ab
आसनं मूर्त्तये मूलं हृदाद्यं परिचारकः ॥ 19cd
विष्ण्वासनं विष्णुर्मूर्त्तेरों श्रीं श्रीं श्रीधरो हरिः । 20ab
ह्रीं सर्वमूर्त्तिमन्त्रोयमिति त्रैलोक्यमोहनः ॥ 20cd
ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्द्दीर्घैर्हृदादिकं । 21ab
समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा ॥ 21cd


1 सावाराध्योपरं दुःखमिति ख, चिह्नितपुस्तकपाठः ।
2 अग्निसाश्रयवायुगानिति ख, चिह्नितपुस्तकपाठः । अर्काय शिरसे तद्वदग्निजायायुतञ्च तदिति ङ,चिह्नितपुस्तकपाठः ।
3 शक्तिश्च निर्गता इति ख, चिह्नितपुस्तकपाठः ।
Image-P.54


चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् । 22ab
पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥ 22cd
श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयो ऽर्च्चनम् । 23ab
सरस्वत्यासनं मूर्त्तिरौं ह्रीं देवी सरस्वती ॥ 23cd
हृदाद्या लक्ष्मीर्म्मेधा च कलातुष्टिश्च पुष्टिका । 24ab
गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः ॥ 24cd
तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै । 25ab
ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा 1 चतुर्थ्यन्तनमोन्तकाः ॥ 25cd
प्रणवाद्याश्च नामाद्यमक्षरं विन्दुसंयुतं । 26ab
ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥ 26cd
होमात्तिलघृताद्यैश्च धर्म्मकामार्थमोक्षदाः । 27ab
पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥ 27cd


इत्यादिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमो ऽध्यायः ।

Chapter 22

अथ द्वाविंशो ऽध्यायः ।

स्नानविधिकथनं ।
नारद उवाच ।
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां । 1ab
गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया ॥ 1cd
निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः 2 2ab


1 ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख, चिह्नितपुस्तकपाठः ।
2 कृतरक्षण इति घ, चिह्नितपुस्तकपाठः ।
Image-P.55


विधिस्नानं ततः कुर्य्यात् प्राणायामपुरःसरं ॥ 2cd
हृदि ध्यायन् हरिज्ञानं 1 मन्त्रेणाष्टाक्षरेण हि । 3ab
त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः ॥ 3cd
वासुदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् । 4ab
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना ॥ 4cd
कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् । 5ab
विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च ॥ 5cd
नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् । 6ab
जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं ॥ 6cd
जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् । 7ab
मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि ॥ 7cd
मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् । 8ab
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥ 8cd
एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥ 8॥ 8ef


इत्यादिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोध्यायः ।

Chapter 23

अथ त्रयोविंशोध्यायः ।

पूजाविधिकथनं ।
नारद उवाच ।
वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात् । 1ab
प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः ॥ 1cd


1 ध्यायन् हरिं देवमिति घ, चिह्नितपुस्तकपाठः ।
Image-P.56


प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च । 2ab
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं ॥ 2cd
विशेषयेदशेषन्तु 1 ध्यायेत् कायात्तु कल्मषं । 3ab
क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन् ॥ 3cd
अधोर्द्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् । 4ab
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥ 4cd
हृत्पद्मव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः 2 5ab
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः ॥ 5cd
शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं । 6ab
व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं ॥ 6cd
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः । 7ab
हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने ॥ 7cd
उदरं च तथा पृष्ठं बाहुरुजानुपादकं । 8ab
मुद्रां दत्त्वा स्मरेत् विष्णुं जप्त्वाष्टशतमर्च्चयेत् ॥ 8cd
वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे । 9ab
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥ 9cd
चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा । 10ab
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे 3 10cd
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङ्मुखाः । 11ab
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥ 11cd
कूर्मं पीठे ह्यनन्तञ्च यमं 4 सूर्य्यादिमण्डलं । 12ab


1 विशोषयेदशेषन्तु इति ङ, चिह्नितपुस्तकपाठः ।
2 स्वकामान्दाहयेत् सुधीः इति ख, चिह्नितपुस्तकपाठः स्वकमाह्लादयेत् सुधीरिति ङ, चिह्नितपुस्तकपाठः ।
3 स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ, चिह्नितपुस्तकपाठः ।
4 पद्ममिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.57


विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता ॥ 12cd
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले । 13ab
अर्घ्यं पाद्यं तथाचामं मधुपर्क्कं पुनश्च तत् ॥ 13cd
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं । 14ab
धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया ॥ 14cd
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं । 15ab
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥ 15cd
देवस्य वामतो दक्षे चेषुधी खड्गमेव च । 16ab
वामे चर्म्म श्रियं 1 दक्षे पुष्टिं वामेग्रतो न्यसेत् ॥ 16cd
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः । 17ab
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः 2 17cd
व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत् । 18ab
जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च ॥ 18cd
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति । 19ab
आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने ॥ 19cd
एवमष्टाक्षराद्यैश्च पूजां कृत्वा विमुक्तिभाक् । 20ab
एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं शृणु ॥ 20cd
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् । 21ab
तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥ 21cd
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत् 3 22ab
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥ 22cd


1 वामे वर्म्म श्रियमिति ख, चिह्नितपुस्तकपाठः ।
2 अस्मल्लब्धपुस्तकेषु विष्णुरर्घोवसानत इति विष्णावर्घौ च मानतः इति च पाठो वर्त्तते । अयन्स्वसमीचीन इव प्रतिभाति विष्णुमर्घ्यासनादिभिरिति तु युक्तः पाठः ।
3 मध्यगुल्फादितः पिस्फच इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.58


नवाब्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत् । 23ab
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥ 23cd


इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशो ऽध्यायः ।

Chapter 24

अथ चतुर्विंशो ऽध्यायः ।

कुण्डनिर्म्माणादिविधिः ।
नारद उवाच ।
अग्निकार्य्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् । 1ab
चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं ॥ 1cd
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत्समं । 2ab
खातस्य मेखला कार्य्या त्यक्त्वा चैवाङ्गुलद्वयं ॥ 2cd
सत्त्वादिसञ्ज्ञा 1 पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता । 3ab
अष्टाङ्गुला द्व्यङ्गुलाथ चतुरङ्गुलविस्तृता ॥ 3cd
योनिर्द्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा । 4ab
क्रमान्निम्ना तु कर्त्तव्या पश्चिमाशाव्यवस्थिता ॥ 4cd
अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता । 5ab
तुर्य्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं ॥ 5cd
मूलन्तु त्र्यङ्गुलं 2 योन्या अग्रं तस्याः षड़ङ्गुलं । 6ab
लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥ 6cd
एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं । 7ab


1 सद्मादिसञ्ज्ञा इति ख, चिह्नितपुस्तकपाठः ।
2 मलन्तु द्व्यङ्गुलमिति ग,चिह्नितपुस्तकपाठः ।
Image-P.59


कुण्डार्द्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥ 7cd
तदर्द्धं दिशि संस्थाप्य भ्रामितं वर्त्तुलं भवेत् । 8ab
कुण्डार्द्धं कोणभागार्द्धं दिशिश्चोत्तरतो वहिः ॥ 8cd
पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः । 9ab
संस्थाप्य भ्रामितं कुण्डमर्द्धचन्द्रं भवेत् शुभं ॥ 9cd
पद्माकारे दलानि स्युर्मेखलानान्तु वर्त्तुले । 10ab
बाहुदण्डप्रमाणन्तु होमार्थं कारयेत् स्रुचं ॥ 10cd
सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् । 11ab
त्रिभागेन भवेद्गर्त्तं मध्ये वृत्तं सुशोभनम् ॥ 11cd
तिर्य्यगूर्द्ध्वं समं खाताद्वहिरर्द्धन्तु शोधयेत् । 12ab
अङ्गुलस्य चतुर्थांशं शेषार्द्धार्द्धं तथान्ततः ॥ 12cd
खातस्य मेखलां रम्यां शेषार्द्धेन तु कारयेत् । 13ab
कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं ॥ 13cd
सार्द्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् । 14ab
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥ 14cd
त्रिकं द्व्यङ्गुलकं तत् स्यान्मध्यन्तस्य सुशोभनम् । 15ab
आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥ 15cd
शुषिरं कण्ठदेशे स्याद्विशेद् यावत् कनीयसी । 16ab
शेषकुण्डन्तु कर्त्तव्यं यथारुचि विचित्रितं ॥ 16cd
स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं 1 17ab
वटुकं द्व्यङ्गुलं 2 वृत्तं कर्त्तव्यन्तु सुशोभनं ॥ 17cd


1 कुण्डकेन समन्वितमिति ख, चिह्नितपुस्तकपाठः ।
2 कण्ठकं द्व्यङ्गुलमिति ख, चिह्नितपुस्तकपाठः चन्द्राभं द्व्यङ्गुलमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.60


गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् । 18ab
उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां 1 18cd
सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः । 19ab
मध्ये तिस्रस्तथा कुर्य्याद्दक्षिणादिक्रमेण तु ॥ 19cd
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् । 20ab
विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं ॥ 20cd
अलं कृत्वा मूर्त्तिमतीं क्षिपेदग्निं हरिं स्मरन् । 21ab
प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं ॥ 21cd
दर्ब्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं । 22ab
आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं ॥ 22cd
आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया । 23ab
प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य्य वारिणा ॥ 23cd
पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं । 24ab
प्राङ्नीत्वा प्रोक्षणीपात्रं ज्योतिरग्रे निधाय च ॥ 24cd
तदद्भिस्त्रिश्च सम्प्रोक्ष्य इध्मं विन्यस्य चाग्रतः । 25ab
प्रणीतायां सपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥ 25cd
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च । 26ab
सम्प्लवोत्पवनाभ्यान्तु कुर्य्यादाज्यस्य संस्कृतिं ॥ 26cd
अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ । 27ab
ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ॥ 27cd
आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत् 2 28ab
स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिणा ॥ 28cd


1 रुद्रनासिकामिति ख, चिह्नितपुस्तकपाठः वक्त्रनासिकामिति ङ, चिह्नितपुस्तकपाठः ।
2 आद्यं तयोस्तु सम्पूज्य त्रीन् वारानूर्द्ध्वमुत्क्षिपेदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.61


प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि । 29ab
निष्टप्य स्थापयित्वा 1 तु प्रणवेनैव साधकः ॥ 29cd
प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् । 30ab
गर्भाधानादिकर्म्माणि यावदंशव्यवस्थया ॥ 30cd
नामान्तं व्रतबन्धान्तं समावर्त्तावसानकम् । 31ab
अधिकारावसानं वा कर्य्यादङ्गानुसारतः ॥ 31cd
प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः । 32ab
अङ्गैर्होमस्तु कर्त्तव्यो यथावित्तानुसारतः ॥ 32cd
गर्भाधानन्तु प्रथमं ततः पुंसवनं स्मृतम् । 33ab
सीमन्तोन्नयनं जातकर्म्म नामान्नप्राशनम् ॥ 33cd
चूडाकृतिं व्रतबन्धं वेदव्रतान्यशेषतः 2 34ab
समावर्त्तनं पत्न्या च योगश्चाथाधिकारकः 3 34cd
हृदादिक्रमतो ध्यात्वा एकैकं कर्म्म पूज्य च । 35ab
अष्टावष्टौ तु जुहुयात् प्रतिकर्म्माहुतीः पुनः ॥ 35cd
पूर्णाहुतिं ततो दद्यात् श्रुचा मूलेन साधकः । 36ab
वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥ 36cd
विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् । 37ab
आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् 4 37cd
आसनादिक्रमेणैव साङ्गावरणमुत्तमम् । 38ab
गन्धपुष्पैः समभ्यर्च्य ध्यात्वा देवं सुरोत्तमम् ॥ 38cd
आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ । 39ab


1 नियुज्य स्थापयित्वेति ख, चिह्नितपुस्तकपाठः ।
2 देवव्रतान्यशेषत इति ख, चिह्नितपुस्तकपाठः ।
3 योगश्चाथाधिकारत इति ख, चिह्नितपुस्तकपाठः ।
4 मन्त्रान् सन्तर्प्य संत्रपेत् इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.62


वायव्यनैरृताशादिप्रवृत्तौ तु यथाक्रमम् ॥ 39cd
आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे । 40ab
मध्येथ जुहुयात्सर्वमन्त्रानर्च्चाक्रमेण तु ॥ 40cd
आज्येन तर्पयेन्मूर्त्तेर्द्दशांशेनाङ्गहोमकम् । 41ab
शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह 1 41cd
समाप्यार्च्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् । 42ab
आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत् पशून् ॥ 42cd
शिष्यानात्मनि संयोज्य अविद्याकर्म्मबन्धनैः । 43ab
लिङ्गानुवृत्तश्चैतन्यं सह लिङ्गेन पाशितम् 2 43cd
ध्यानमार्गेन सम्प्रोक्ष्य वायुवीजेन शोधयेत् । 44ab
ततो दहनवीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् ॥ 44cd
निर्द्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् । 45ab
प्लावयेद्वारिणा भस्म संसारं वार्म्मयं स्मरेत् 3 45cd
तत्र शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकाम् । 46ab
तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् ॥ 46cd
अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् । 47ab
तन्मध्ये चिन्तयेन्मूर्त्तिं पौरुषीं प्रणवात्मिकाम् ॥ 47cd
लिङ्गं सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम् 4 48ab
विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत् ॥ 48cd
ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् । 49ab


1 समिद्भिर्वा तिलैस्तथा इति घ, चिह्नितपुस्तकपाठः ।
2 सह लिङ्गेन दर्शितमिति ङ, चिह्नितपुस्तकपाठः ।
3 संसारञ्चाक्षयं स्मरेदिति ख, चिह्नितपुस्तकपाठः ।
4 स्थण्डिले पूर्व्वसंस्कृतमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.63


द्यावापृथिव्यौ शकले तयोर्म्मध्ये प्रजापतिम् ॥ 49cd
जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् । 50ab
मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् ॥ 50cd
विष्णुर्हस्तं ततो मूर्द्ध्नि दत्वा ध्यात्वा तु वैष्णवम् । 51ab
एवमेकं बहून् वापि जनित्वा ध्यानयोगतः ॥ 51cd
करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा । 52ab
नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु ॥ 52cd
कृतपूजो गुरुः सम्यक् देवदेवस्य तत्त्ववान् । 53ab
शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत् ॥ 53cd
अर्च्चयेयुश्च तेप्येवम्प्रसूता गुरुणा हरिम् । 54ab
क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम् ॥ 54cd
अमन्त्रमर्च्चनं कृत्वा 1 गुरोः पादार्च्चनन्ततः । 55ab
विधाय दक्षिणां दद्यात् सर्वस्वं चार्द्धमेव वा ॥ 55cd
गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः । 56ab
विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् ॥ 56cd
तज्जपन्तञ्च तर्ज्जन्या मण्डलस्थं विसर्जयेत् ॥ 57॥ 57ab
विष्णुनिर्म्माल्यमखिलं विष्वक्सेनाय चार्पयेत् । 58ab
प्रणीताभिस्तथात्मानमभिषिच्य च कुण्डगं ॥ 58cd
वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् । 59ab
बुभुक्षुः सर्वमाप्नोति मुमुक्षुर्ल्लीयते हरौ ॥ 59cd


इत्यादिमहापुराणे आग्नेये अग्निकार्य्यादिकथनं नाम चतुर्विंशो ऽध्यायः ।


1 वासुदेवार्च्चनं कृत्वा इति ख, चिह्नितपुस्तकपाठः ।
Image-P.64


Chapter 25

अथ पञ्चविंशो ऽध्यायः ।

वासुदेवादिमन्त्रनिरूपणं ।
नारद उवाच ।
वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे । 1ab
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ 1cd
नमो भगवते चादौ अ आ अं अः स्ववीजकाः 1 2ab
ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ॥ 2cd
ओं तत् सत् ब्रह्मणे चैव ओं नमो विष्णवे नमः । 3ab
ओं क्षौं ओं नमो भगवते नरसिंहाय वै नमः ॥ 3cd
ओं भूर्नमो भगवते वराहाय नराधिपाः । 4ab
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥ 4cd
मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः । 5ab
अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम् ॥ 5cd
हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः । 6ab
व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा ॥ 6cd
दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु । 7ab
अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥ 7cd
विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं 2 8ab
दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात् 3 8cd
व्यञ्जनानां क्रमो ह्येष हृदयादिप्रकॢप्तये । 9ab
स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनामभिः ॥ 9cd


1 द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः ।
2 स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः ।
3 दीर्घस्वरैश्च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख, चिह्नितपुस्तकपाठः ।
4 स्वरवीजेषु नामान्तैर्विभक्तान्यङ्गनामभिरिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.65


युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः 1 10ab
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ॥ 10cd
हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं । 11ab
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं ॥ 11cd
हृच्छिरश्च शिखा वर्म्म चास्त्रनेत्रान्तथोदरं । 12ab
प्रष्टबाहूरुजानूंश्च जङ्घा पादौ क्रमान्न्यसेत् ॥ 12cd
कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः 2 13ab
गं डं बं सं पुष्टिमन्तो घं ढं भं हं श्रियै नमः ॥ 13cd
वं शं मं क्षं 3 पाञ्चजन्यं छं तं पं 4 कौस्तुभाय च । 14ab
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं 5 14cd
ओं धं वं वनमालायै महानन्ताय वै नमः 6 15ab
निर्वीजपदमन्त्राणां पदैरङ्गानि कल्पयेत् ॥ 15cd
जात्यन्तैर्नामसंयुक्तेर्हृदयादीनि पञ्चधा । 16ab
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥ 16cd
प्रणवं हृदयं पूर्वं परायेति शिरः शिखा । 17ab
नाम्नात्मना तु 7 कवचं अस्त्रं नामान्तकं भवेत् ॥ 17cd


1 द्वादशार्णानि यत्नत इति ङ, चिह्नितपुस्तकपाठः ।
2 महागदा इति ङ,चिह्नितपुस्तकपाठः ।
3 ठं णं मं क्षं इति ङ, चिह्नितपुस्तकपाठः ।
4 दं भं पमिति ख, चिह्नितपुस्तकपाठः ।
5 श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः ।
6 नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः ।
7 नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः ।
Image-P.66


ओं परास्त्रादिस्वनामात्मा 1 चतुर्थ्यन्तो नमोन्तकः । 18ab
एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः 2 18cd
कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्च्चयेत् । 19ab
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ॥ 19cd
ओं परयाग्न्यात्मने चैव वाय्वर्क्कौ च द्विरूपकः । 20ab
अग्निं त्रिमूर्त्तौ 3 विन्यस्य व्यापकं करदेहयोः ॥ 20cd
वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये । 21ab
हृदि मूर्त्तो तनावेष त्रिव्यूहे तुर्य्यरूपके ॥ 21cd
ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् । 22ab
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥ 22cd
आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् । 23ab
अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके ॥ 23cd
वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः । 24ab
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥ 24cd
व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् । 25ab
मूर्द्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः ॥ 25cd
आदिमूर्त्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः । 26ab
भूर्भुवः स्वर्म्महर्ज्जनस्तपः सत्यञ्च सप्तधा ॥ 26cd
करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु । 27ab
तलसंस्थः सप्तमश्च 4 लोकेशो देहके क्रमात् ॥ 27cd


1 ओं परास्त्रादित्यनामात्मा इति घ, चिह्नितपुस्तकपाठः ।
2 एवं व्यूहादिषड्विंशं व्यूहात्तस्यात्मनो मनुरिति ख, चिह्नितपुस्तकपाठः ।
3 अग्निं द्विमूर्त्तौ इति ख, चिह्नितपुस्त्कपाठः ।
4 तलस्थः सप्तमश्चैव इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.67


देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः । 28ab
अग्निष्टोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥ 28cd
अतिरात्राप्तोर्यामञ्च 1 यज्ञात्मा सप्तरूपकः । 29ab
धीरहं मनः शब्दश्च स्पर्शरूपरसास्ततः 2 29cd
गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् । 30ab
न्यसेदन्त्यै च 3 तलयोः के ललाटे मुखे हृदि ॥ 30cd
नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः 4 31ab
जीवो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥ 31cd
रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये । 32ab
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं ॥ 32cd
देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु । 33ab
पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ॥ 33cd
अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च । 34ab
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥ 34cd
पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च । 35ab
चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः ॥ 35cd
उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये । 36ab
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥ 36cd
उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके । 37ab
उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥ 37cd


1 अतिरात्राप्तयामश्च इति ख, चिह्नितपुस्त्कपाठः ।
2 रसास्तथा इति ख, चिह्नितपुस्तकपाठः ।
3 न्यसेदन्ते च इति ख, चिह्नितपुस्तकपाठः । न्यसेदष्टौ च इति ङ, चिह्नितपुस्तकपाठः ।
4 क्रमात् स्मृत इति ङ, चिह्नितपुस्तकपाट्ःअः ।
Image-P.68


विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ । 38ab
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥ 38cd
दामोदरः केशवश्च नारायणस्ततः परः । 39ab
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥ 39cd
अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ । 40ab
शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥ 40cd
द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा । 41ab
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥ 41cd
तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा । 42ab
चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः ॥ 42cd
उपस्थो भूर्जलन्तेजो वायुराकाशमेव च । 43ab
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥ 43cd
शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके । 44ab
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ ॥ 44cd
पादे जान्वोरुपस्थे च हृदये मूर्द्ध्नि च क्रमात् । 45ab
परश्च पुरुषात्मादौ षड्विंशे पूर्ववत्परं ॥ 45cd
सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः । 46ab
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥ 46cd
अस्त्रमग्न्यादिकोणेषु 1 वैनतेयादि पूर्ववत् । 47ab
दिक्पालांश्च विधिस्त्वन्यः 2 त्रिव्यूहेग्निश्च मध्यतः ॥ 47cd
पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः । 48ab
कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ॥ 48cd


1 अस्त्रमग्न्यादिपत्रेषु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 दिक्पालांश्च विधिस्तस्य इति ग, घ, चिह्नितपुस्तकपाठः दिक्पालादौ विधिस्तुल्य इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.69


विश्वरूपं सर्वस्थित्यै 1 यजेद्राज्यजयाय च । 49ab
सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः ॥ 49cd
गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् । 50ab
विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं 2 50cd


इत्यादिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशो ऽध्यायः ।

Chapter 26

अथ षड्विंशो ऽध्यायः ।

मुद्रालक्षणकथनं ।
नारद उवाच ।
मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं । 1ab
अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा ॥ 1cd
ऊर्द्ध्वाङ्गुष्ठो वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनं । 2ab
सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्द्ध्वे प्रकीर्त्तितः 3 2cd
तिस्रः साधरणा व्यूहे अथासाधरणा इमाः । 3ab
कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं ॥ 3cd
अष्टानां पूर्व्ववीजानां क्रमशस्त्ववधारयेत् । 4ab
अङ्गुष्ठेन कनिष्टान्तं नामयित्वाङ्गुलित्रयं ॥ 4cd
ऊर्द्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै । 5ab
वामहस्तमथोत्तानं कृत्वार्द्धं नामयेच्छनैः ॥ 5cd


1 सर्व्वसिद्ध्यै इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 वैराजं नागसंयुतमिति ख, चिह्नितपुस्तकपाट्ःअः । यौ वीजं चाङ्गसंयुतमिति ङ, चिह्नितपुस्तकपाठः ।
3 यः सव्येर्द्धे प्रकीर्त्तित इति ख, चिह्नितपुस्तकपाठः ।
Image-P.70


वराहस्य स्मृता मुद्रा अङ्गानाञ्च क्रमादिमाः । 6ab
एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं ॥ 6cd
आकुञ्चयेत् पूर्वमुद्रां दक्षिणेप्येवमेव च । 7ab
ऊर्द्ध्वाङ्गुष्ठो वाममुष्टिर्मुद्रासिद्धिस्ततो भवेत् ॥ 7cd


इत्यादिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशो ऽध्यायः ।

Chapter 27

अथ सप्तविंशो ऽध्यायः ।

दीक्षाविधिकथनं ।
नारद उवाच ।
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् । 1ab
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं ॥ 1cd
विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं । 2ab
सर्षपांस्तु फडन्तेन 1 रक्षोघ्नान् सर्व्वतः क्षिपेत् ॥ 2cd
शक्तिं सर्वात्मकां तत्र न्यसेत् प्रासादरूपिणीं । 3ab
सर्व्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥ 3cd
शतवारं शुभे पात्रे वासुदेवेन साधकः । 4ab
संसाध्य पञ्चगव्यन्तु पञ्चभिर्मूलमूर्त्तिभिः ॥ 4cd
नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवं 3 5ab
विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना ॥ 5cd
त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि । 6ab
वर्द्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥ 6cd


1 सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः ।
2 कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःअः ।
Image-P.71


शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्द्धनीं । 7ab
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तं ॥ 7cd
कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि । 8ab
संहृत्य विकिरान् दर्ब्भैः कुम्भेशं कर्क्करीं यजेत् ॥ 8cd
सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं । 9ab
अग्नावपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥ 9cd
प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना । 10ab
उखामाज्येन 1 संपूर्य्य गोक्षीरेण तु साधकः ॥ 10cd
आलोक्य वासुदेवेन 2 ततः सङ्कर्षणेन च । 11ab
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते ॥ 11cd
प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः । 12ab
पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः ॥ 12cd
प्रक्षाल्यालिप्य तत् कुर्य्यादूर्द्ध्वपुण्ड्रं तु भस्मना । 13ab
नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं ॥ 13cd
भागमेकं तु देवाय कलशाय द्वितीयकं । 14ab
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं ॥ 14cd
शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये 3 15ab
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥ 15cd
दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं । 16ab
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं ॥ 16cd
शुभं सिंहशतं हुत्वा 4 आचम्याथ प्रविश्य च । 17ab


1 उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः ।
2 आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः ।
3 विवृद्धये इति ङ, चिह्नितपुस्तकपाठः ।
4 शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः ।
Image-P.72


पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं ॥ 17cd
संसारार्णवमग्नानां पशूनां पाशमुक्तये । 18ab
त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥ 18cd
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः । 19ab
पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥ 19cd
इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः । 20ab
धारणाभिस्तु संशोध्य पूर्व्वज्ज्वलनादिना ॥ 20cd
संस्कृत्य मूर्त्त्या संयोज्य 1 नेत्रे बद्ध्वा प्रदर्शयेत् । 21ab
पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥ 21cd
अमन्त्रमर्च्चनं तत्र पूर्व्ववत् कारयेत् क्रमात् । 22ab
यस्यां मूर्त्तौ पतेत् पुष्पं तस्य तन्नाम निर्द्दिशेत् ॥ 22cd
शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं । 23ab
कन्यासु कर्त्तितं रक्तं 2 पुनस्तत्त्रिगुणीकृतम् ॥ 23cd
यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते । 24ab
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥ 24cd
तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया 3 25ab
कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु 4 25cd
ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् । 26ab
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥ 26cd
तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा 4 27ab


1 मूर्त्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः ।
2 सूत्रमिति ङ, चिह्नितपुस्तकपाठः ।
3 तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
4 निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
5 तत्रार्च्चा पञ्चधा यास्यादङ्गैर्द्वादशधा पिवेति ख, चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात् दशद्वादशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.73


ज्ञातव्यः सर्व्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥ 27cd
अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् । 28ab
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ 1 28cd
प्रकृतिर्लिङ्गशक्तिश्च कर्त्ता बुद्धिस्तथा मनः । 29ab
पञ्चतन्मात्रबुद्ध्याख्यं कर्म्माख्यं भूतपञ्चकं ॥ 29cd
ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया । 30ab
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥ 30cd
एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः । 31ab
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥ 31cd
अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् । 32ab
करणीं कर्त्तरीं वापि 2 रजांसि खटिकामपि ॥ 32cd
अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे । 33ab
संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥ 33cd
नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिं । 34ab
मण्डपं भूषयित्वाथ वितानघटलड्डुकैः 3 34cd
मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं । 35ab
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥ 35cd
सम्प्रोक्ष्य विष्णुं हस्तेन मूर्द्धानं स्पृश्य वै क्रमात् । 36ab
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां ॥ 36cd
सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात् । 37ab
तन्मात्रभूतां सकलां जीवेन समतां गतां ॥ 37cd
ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः । 38ab


1 मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः ।
2 करालं कर्त्तरीञ्चापि इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
3 वितानभवगन्धकैरिति ख, चिह्नितपुस्तकपाठः । वितानपटकेन्द्रियैरिति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.74


अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥ 38cd
मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं । 39ab
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥ 39cd
शुक्लं रजः समादाय मूलेन शतमन्त्रितं । 40ab
सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः ॥ 40cd
वियोगपदसंयुक्तैर्वीजैः पदादिभिः क्रमात् । 41ab
पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥ 41cd
वह्नावखिलतत्त्वानामालये व्याहृते हरौ । 42ab
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥ 42cd
ताडनेन वियोज्यैवं 1 आदायापाद्य शाम्यतां । 43ab
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥ 43cd
गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा । 44ab
हुत्वाष्टौ तत्र तत्रैव ततः श्रुद्धिन्तु होमयेत् ॥ 44cd
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः । 45ab
सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् ॥ 45cd
तत् परं ज्ञानयोगेन विलाप्य परमात्मनि । 46ab
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥ 46cd
निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः । 47ab
दद्यात् पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥ 47cd
प्रयोगमन्त्रान् वक्ष्यामि यैर्द्दीक्षा होमसंलयः । 48ab
ओं यं भूतानि विशुद्धं हुं फट् ।
अनेन ताडनं कुर्याद्वियोजनमिह द्वयं ॥ 48cd
ओं यं भूतान्यापातयेहं ।
आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु । 49ab


1 ताड़नेन विमोह्यैवमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.75


ओं यं भूतानि पुंश्चाहो ।
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं ॥ 49cd
ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय वौषट् ।
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत् 1 50ab
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः ॥ 50cd
नमोन्तेन स्ववीजेन ताडनादिपुरःसरम् । 51ab
ओं वां कर्म्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि ।
यं वीजेन समानन्तु ताडनादिप्रयोगकम् ॥ 51cd
ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ओं सम्पाहिं हा 2 ॥ ओं खं खं क्ष प्रकृत्या 3 । ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा ।
ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते । 52ab
ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते ।
एकमूर्त्तावयं प्रोक्तो दीक्षायोगः समासतः । 52cd
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥ 52॥ 52ef
दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः । 53ab
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥ 53cd
शोधयित्वाथ भुतानि कर्म्माङ्गानि 4 विशोधयेत् । 54ab
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं ॥ 54cd
लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत् पुनः । 55ab


1 तद्वै शिष्यन्तु सन्नयेदिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
3 अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख, चिह्नितपुस्तकपाठः ।
4 कर्म्माख्याणि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.76


पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं ॥ 55cd
स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं । 56ab
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥ 56cd
अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं । 57ab
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं ॥ 57cd
ध्यायन् पूर्णाहुतिं दद्यात्दीक्षेयं साधके स्मृता । 58ab
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥ 58cd
इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं । 59ab
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥ 59cd
भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः । 60ab
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्च्य दीक्षयेत् ॥ 60cd
अध्वानं निखिलं दैवं 2 भौतं वाध्यात्मिकीकृतं । 61ab
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥ 61cd
अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान् । 62ab
स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत् 2 62cd
होमेन शोधयेत् पश्चात्संहारक्रमयोगतः । 63ab
योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ॥ 63cd
शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् । 64ab
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैविके ॥ 64cd
शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत् 3 65ab
शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् ॥ 65cd


1 लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः ।
2 पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन् विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः ।
3 पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.77


मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून् 1 66ab
अथान्यान् शक्तिदीक्षां वा कुर्य्यात् भावे स्थितो गुरुः ॥ 66cd
भक्त्या सम्प्रातिपन्नानां यतीनां निर्द्धनस्य च । 67ab
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं ॥ 67cd
देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः । 68ab
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितं ॥ 68cd
शिष्यदेहे तथा देवमाधिदैविकयाचनं । 69ab
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥ 69cd
क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ । 70ab
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः 2 70cd
देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः । 71ab
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥ 71cd
शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया । 72ab
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥ 72cd
दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् । 73ab
निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥ 73cd
एवमेवाधिकारस्थो गृही कर्म्मण्यतन्द्रितः । 74ab
आत्मानं शोधयंस्तिष्ठेद् यावद्रागक्षयो भवेत् ॥ 74cd
क्षीणरागमथात्मानं ज्ञात्वा संशुद्धकिल्विषः । 75ab
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥ 75cd
दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः । 76ab
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥ 76cd


इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः ।


1 पशूनिति घ, चिह्नितपुस्तकपाठः ।
2 तत् पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
Image-P.78


Chapter 28

अथ अष्टाविंशोध्यायः ।

अभिषेकविधानं ।
नारद उवाच ।
अभिषेकं प्रवक्ष्यामि यथाचार्य्यस्तु पुत्रकः । 1ab
सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते ॥ 1cd
राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनं । 2ab
मूर्त्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत् ॥ 2cd
सहस्रावर्त्तितान् कुर्य्यादथवा शतवर्त्तितान् । 3ab
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके ॥ 3cd
निवेश्य शकलीकृत्य पुत्रकं साधकादिकं । 4ab
अभिषेकं समभ्यर्च्च्य कुर्य्याद्गीतादिपूर्वकं ॥ 4cd
दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः । 5ab
गुरुश्च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक् ॥ 5cd


इत्यादिमहापुराणे आग्नेये आचार्य्याभिषेको नाम अष्टाविंशो ऽध्यायः ।

Chapter 29

अथ ऊनत्रिंशो ऽध्यायः ।

सर्वतोभद्रमण्डलकथनं ।
नारद उवाच ।
साधकः साधयेन्मन्त्रं देवतायतनादिके । 1ab
शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिमीश्वरं ॥ 1cd
चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् । 2ab
रसवाणाक्षिकोष्ठेषु सर्व्वतोभद्रमालिखेत् ॥ 2cd
षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या वहिर्भवेत् । 3ab
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च ॥ 3cd
Image-P.79


वर्त्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् । 4ab
पद्मार्द्धे भ्रामयित्वा तु भागं द्वादशमं वहिः ॥ 4cd
विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्त्तुलं । 5ab
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥ 5cd
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् । 6ab
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ॥ 6cd
निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् । 7ab
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत् ॥ 7cd
दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु । 8ab
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं ॥ 8cd
तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च । 9ab
केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः ॥ 9cd
पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते । 10ab
कर्णिकार्द्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात् ॥ 10cd
तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि । 11ab
एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः ॥ 11cd
पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् । 12ab
व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् ॥ 12cd
त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु । 13ab
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥ 13cd
ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत् 1 14ab
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ॥ 14cd
द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः । 15ab


1 पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.80


तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्त्तिताः ॥ 15cd
समीप उपशोभानां कोणास्तु परिकीर्त्तिताः 1 16ab
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ॥ 16cd
चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि । 17ab
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु ॥ 17cd
तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् । 18ab
कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः ॥ 18cd
एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् । 19ab
द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका ॥ 19cd
एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् । 20ab
द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले ॥ 20cd
द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् । 21ab
अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् ॥ 21cd
पद्मार्द्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता । 22ab
अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः ॥ 22cd
त्रिधा 2 विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् । 23ab
पञ्चान्तस्वरसिद्ध्यर्थं 3 तेष्वस्फाल्य लिखेदरान् ॥ 23cd
इन्दीवरदलाकारानथवा मातुलाङ्गवत् । 24ab
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ॥ 24cd
भ्रामयित्वा वहिर्न्नेमावरसन्ध्यन्तरे स्थितः । 25ab
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ॥ 25cd


1 परिमार्जिता इति घ, चिह्नितपुस्तकपाठः ।
2 द्विधा इति ख, चिह्नितपुस्तकपाठः ।
3 पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.81


अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् । 26ab
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः ॥ 26cd
विभज्य सप्तधा क्षेत्रं चतुर्द्दशकरं समम् । 27ab
द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु ॥ 27cd
कोष्टकानि चतुर्भिस्तैर्म्मध्ये भद्रं समालिखेत् । 28ab
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ॥ 28cd
कमलानि पुनर्वीथ्यै परितः परिमृज्य तु । 29ab
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ॥ 29cd
चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् । 30ab
ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्त्तिता ॥ 30cd
विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् । 31ab
मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् ॥ 31cd
पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं । 32ab
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं ॥ 32cd
एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं । 33ab
कोष्ठकानां समुद्दिष्टं मध्ये षोडशकोष्ठकैः ॥ 33cd
भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु । 34ab
ततः षोडशभिः कोष्टैर्द्दिक्षु भद्राष्टकं लिखेत् 1 34cd
ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकं । 35ab
लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् ॥ 35cd
द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं । 36ab
षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ॥ 36cd
चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु । 37ab
उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः ॥ 37cd


1 दिक्षु तत्राष्टकं लिखेदिति ख, ग, घ, चिह्नितपुस्तकपाठः ।
Image-P.82


परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् । 38ab
वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ॥ 38cd
पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे 1 39ab
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ॥ 39cd
वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् । 40ab
व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत् ॥ 40cd
यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् । 41ab
यष्टव्यमिति यत्नेन 2 प्रचेता मन्यते ऽध्वरं 3 41cd
सत्पन्तु मूर्त्तिभेदेन विभक्तं मन्यते ऽच्युतं । 42ab
चत्वारिंशत् करं क्षेत्रं ह्युत्तरं 4 विभजेत् क्रमात् ॥ 42cd
एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः । 43ab
चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं ॥ 43cd
कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः । 44ab
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ॥ 44cd
षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं । 45ab
वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ ॥ 45cd
चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च । 46ab
द्वारशोभोपशोभाः स्युर्द्दिक्षु मध्ये विलोप्य च ॥ 46cd
द्विचतुःषड्द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत् । 47ab
पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये ॥ 47cd


1 शुभे इति ङ, चिह्नितपुस्तकपाठः ।
2 यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः ।
3 प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः ।
4 ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.83


द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः । 48ab
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः ॥ 48cd
एकस्यां दिशि सङ्ख्याः स्युः चतस्रः परिसङ्ख्यया ॥ 49॥ 49ab
एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत । 50ab
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् । 50cd
कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं ॥ 50॥ 50ef


इत्यादिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशो ऽध्यायः ।

Chapter 30

अथ त्रिंशो ऽध्यायः ।

मण्डलविधिः ।
नारद उवाच ।
मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं । 1ab
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥ 1cd
पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं । 2ab
आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके ॥ 2cd
इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा । 3ab
सामाथर्वाणमाकाशं वायुं तेजस्तथा जलं ॥ 3cd
पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत् । 4ab
रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशं ॥ 4cd
महर्जनस्तपः सत्यं तथाग्निष्टोममेव च । 5ab
अत्यग्निष्टोमकं 1 चोक्थं षोड़शीं वाजपेयकं ॥ 5cd
अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत् । 6ab
मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं ॥ 6cd
रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् । 7ab


1 प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.84


जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं ॥ 7cd
वासुदेवादिमूर्त्तीञ्च तथा चैव दशत्मकं । 8ab
मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा ॥ 8cd
घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् । 9ab
चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥ 9cd
पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् । 10ab
पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत् ॥ 10cd
चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् । 11ab
अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरो ऽपरे ॥ 11cd
रजः पातं ततः कुर्य्याल्लिखिते मण्डले शृणु । 12ab
कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः ॥ 12cd
द्विहस्ते ऽङ्गुष्टमात्राः स्युर्हस्ते चार्द्धसमाः सिताः । 13ab
पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा ॥ 13cd
केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् । 14ab
भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥ 14cd
लतावितानपत्राद्यैर्वीथिकामुपशोभयेत् । 15ab
पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥ 15cd
उपशोभाञ्च नीलेन कोणशङ्ख्यांश्च वै सितान् । 16ab
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं ॥ 16cd
त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् । 17ab
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके ॥ 17cd
अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः । 18ab
सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः ॥ 18cd
शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् । 19ab
हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥ 19cd
Image-P.85


शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः । 20ab
चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥ 20cd
अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् । 21ab
पूर्व्वमेवाथ लक्षेण मन्त्रशुद्धिस्तथात्मनः ॥ 21cd
तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् । 22ab
पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥ 22cd
पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता । 23ab
पुरश्चर्य्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् ॥ 23cd
भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् । 24ab
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥ 24cd
मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् । 25ab
स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते ॥ 25cd
सुक्ष्मां ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत् । 26ab
चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम् ॥ 26cd
वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः । 27ab
चिन्तया रहितं रूपं वासुदेवस्य कीर्त्तितम् ॥ 27cd
इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा । 28ab
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥ 28cd
चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम् । 29ab
हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥ 29cd
वीजं वीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिं । 30ab
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥ 30cd
संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि । 31ab
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥ 31cd
प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः । 32ab
Image-P.86


अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥ 32cd
हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः । 33ab
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥ 33cd
सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् । 34ab
जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते 1 34cd
संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् । 35ab
अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च । 35cd
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥ 35॥ 35ef


इत्यादिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशो ऽध्यायः ।

Chapter 31

अथ एकत्रिंशो ऽध्यायः ।

मार्जनविधानं ।
अग्निरुवाच ।
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां । 1ab
यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः 2 1cd
ओं नमः परमार्थाय पुरुषाय महात्मने । 2ab
अरूपबहुरूपाय व्यापिने परमात्मने ॥ 2cd
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च । 3ab
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः ॥ 3cd
वराहाय नृसिंहाय वामनाय महामुने । 4ab
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 4cd


1 मन्त्रजं फलमश्नुते इति ख, चिह्नितपुस्तकपाठः ।
2 सुखं ब्रह्माप्नुयान्नर इति ख, चिह्नितपुस्तकपाठः ।
Image-P.87


त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । 5ab
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ॥ 5cd
वराह नरसिंहेश वामनेश त्रिविक्रम । 6ab
हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥ 6cd
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः । 7ab
अखण्डितानुभावैस्त्वं 1 सर्वदुष्टहरो भव ॥ 7cd
हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु । 8ab
मृत्युबन्धार्त्तभयदं दुरितस्य च यत् फलम् ॥ 8cd
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् । 9ab
गदस्पर्शमहारोगप्रयोगं जरया जर ॥ 9cd
ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने । 10ab
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ 10cd
नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे । 11ab
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥ 11cd
दंष्ट्रोद्धृतक्षितिभृते 2 त्रयीमूर्त्तिमते नमः । 12ab
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥ 12cd
तप्तहाटककेशाग्रज्वलत्पावकलोचन । 13ab
वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ 13cd
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित । 14ab
तुभ्यं वामनरूपायाक्रमते गां 3 नमो नमः ॥ 14cd
वराहाशेषदुष्टानि सर्वपापफलानि वै । 15ab
मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥ 15cd


1 अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः ।
2 दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः ।
3 सृजते गामिति ख, चिह्नितपुस्तकपाठः ।
Image-P.88


नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल । 16ab
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥ 16cd
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् । 17ab
प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्द्दनः ॥ 17cd
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् । 18ab
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥ 18cd
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् । 19ab
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् 1 19cd
नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् । 20ab
अन्तःश्वासमतिश्वासं 2 परितापं सवेपथुम् ॥ 20cd
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयं 3 21ab
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥ 21cd
भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलीम् । 22ab
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥ 22cd
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः । 23ab
कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः ॥ 23cd
आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः । 24ab
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः 5 24cd
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च । 25ab
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ॥ 25cd


1 छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः ।
2 अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः ।
3 तथैव च इति ग, चिह्नितपुस्तकपाठः ।
4 ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः ।
5 वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः ।
Image-P.89


अच्युतानन्तगोविन्दनामोच्चारणभीषिताः । 26ab
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 26cd
स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् । 27ab
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥ 27cd
लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं । 28ab
शमं नयतु तत् सर्वं कीर्त्तितोस्य जनार्द्दनः ॥ 28cd
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् 1 29ab
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् 2 29cd
शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् । 30ab
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥ 30cd
वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि । 31ab
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ 31cd
वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् । 32ab
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥ 32cd
सदा 3 करालवदनो नरसिंहो महाबलः । 33ab
ग्रहानशेषान्निः शेषान् करोतु जगतो हितः ॥ 33cd
नरसिंह महासिंह ज्वालामालोज्ज्वलानन । 34ab
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥ 34cd
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः । 35ab
यानि च क्रूरभृतानि ग्रहपीडाश्च दारुणाः ॥ 35cd
शस्त्रक्षतेषु ये दोषा ज्वालागर्द्दभकादयः । 36ab
तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः ॥ 36cd


1 तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः ।
2 गन्धर्व्वान् राक्षसानपि इति ख, चिह्नितपुस्तकपाठः ।
3 शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.90


किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥ 37॥ 37ab
क्षिप्त्वा सुदर्शनञ्चक्रं ज्वालामालातिभीषणम् । 38ab
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥ 38cd
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव 1 39ab
सर्व्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ॥ 39cd
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा । 40ab
रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्ज्जितः 2 40cd
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः । 41ab
रक्षाङ्करोतु भगवान् बहुरूपी जनार्द्दनः ॥ 41cd
यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषं । 42ab
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै 3 42cd
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः । 43ab
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥ 43cd
परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते । 44ab
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ 44cd
यथा यज्ञेश्वरो विष्णुर्द्देवेष्वपि हि गीयते । 45ab
सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥ 45cd
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु । 46ab
वासुदेवशरीरोत्थैः कुशैर्न्निर्मथितं मया 4 46cd
अपमार्जतु गोविन्दो नरो नारायणस्तथा । 47ab
तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः ॥ 47cd


1 महाबल इति ख, चिह्नितपुस्तकपाठः ।
2 स्वर्गर्ज्जितैरिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
3 प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठः ।
4 कुशैर्निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
Image-P.91


अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् । 48ab
अयं हरिः कुशो विष्णुर्हता रोगा मया तव ॥ 48cd


इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशो ऽध्यायः ।

Chapter 32

अथ द्वातिंशो ऽध्यायः ।

संस्कारकथनं ।
अग्निरुवाच ।
निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च । 1ab
संस्कारान् कारयेद्धीमान् शृणु तान्यैः सुरो भवेत् ॥ 1cd
गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् । 2ab
सीमन्तोन्नयनञ्चैव जातकर्म्म च नाम च ॥ 2cd
अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च । 3ab
चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा ॥ 3cd
गोदानं स्नातकत्वञ्च पाकयज्ञाश्च सप्त ते 1 4ab
अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च ॥ 4cd
चैत्री चाश्वयुजी सप्त हविर्यज्ञांश्च तान् शृणु । 5ab
आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः ॥ 5cd
चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः । 6ab
सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः ॥ 6cd
अत्यग्निष्टोम उक्थश्च षोडशो वाजपेयकः । 7ab
अतिरात्राप्तोर्य्यामश्च सहस्रेशाः सवा इमे ॥ 7cd
हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्यतः । 8ab


1 सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः ।
Image-P.92


हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः ॥ 8cd
हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् । 9ab
अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु ॥ 9cd
दया च सर्वभूतेषु क्षान्तिश्चैव तथार्ज्जवम् । 10ab
शौचं चैवमनायासो मङ्गलं चापरो गुणः ॥ 10cd
अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् । 11ab
सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः ॥ 11cd
संस्कारैः संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात् । 12ab
सर्वरोगाद्विनिर्मुक्तो देववद्वर्त्तते नरः । 12cd
जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् ॥ 12॥ 12ef


इत्यादिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशो ऽध्यायः ।

Chapter 33

अथ त्रयस्त्रिंशो ऽध्यायः ।

पवित्रारोहणविधानं ।
अग्निरुवाच ।
पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः । 1ab
आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः 1 1cd
श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च । 2ab
मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥ 2cd
शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् । 3ab
यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ॥ 3cd
आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि । 4ab


1 वर्द्धते तिथिरिति ख, चिह्नितपुस्तकपाठः ।
Image-P.93


सौवर्णं राजतं ताम्रं नेत्रकार्प्पासिकादिकं ॥ 4cd
ब्राह्मण्या कर्त्तितं सूत्रं तदलाभे तु संस्कृतं । 5ab
त्रिगुणं त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकं ॥ 5cd
अष्तोत्तरशतादूर्द्ध्वं तदर्द्धं चोत्तमादिकं । 6ab
क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो ॥ 6cd
मया तत् क्रियते देव यथा यत्र पावित्रकं । 7ab
अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय ॥ 7cd
प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः । 8ab
ओं नारायणाय विद्महे वासुदेवाय धीमहि ॥ 8cd
तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः । 9ab
जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं ॥ 9cd
पादान्ता वनमाला स्यादष्टोत्तरसहस्रतः 1 10ab
माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् ॥ 10cd
कर्णिका केशरं पत्रं मन्त्राद्यं 2 मण्डलान्तकं । 11ab
मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ 3 पवित्रकं ॥ 11cd
स्थण्डिले ऽङ्गुलमानेन आत्मनः सप्तविंशतिः । 12ab
आचार्य्याणां च सूत्राणि पितृमात्रादिपुस्तके ॥ 12cd
नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके । 13ab
द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतं ॥ 13cd
अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः । 14ab
अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः 4 14cd


1 पादान्तरेण माला स्यादष्टोत्तरसहस्रशः इति ग, चिह्नितपुस्तकपाठः ।
2 गदाद्यमिति घ, चिह्नितपुस्तकपाठः ।
3 चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः ।
4 मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैरिति घ, चिह्नितपुस्तकपाठः ।
Image-P.94


कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके । 15ab
रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ॥ 15cd
पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं । 16ab
यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे ॥ 16cd
सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके 1 17ab
रोचनागुरुकर्प्पूरहरिद्राकुङ्कुमादिभिः ॥ 17cd
रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः । 18ab
एकादश्यां यागगृहे भगवन्तं हरिं जयेत् ॥ 18cd
समस्तपरिवाराय बलिं पीठे समर्चयेत् । 19ab
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं ॥ 19cd
धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा । 20ab
शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं ॥ 20cd
सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ॥ 20॥ 20ef
ओं ह्रूं हः फट् ह्रूं 2 गन्धतन्मात्रं संहरामि नमः ॥
ओं ह्रूं हः फट् ह्रूं 3 रसतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रूं 4 रूपतन्मात्रं संहरामि नमः ॥
ओं ह्रूं हः फट् ह्रूं 5 स्पर्शतन्मात्रं संहरामि नमः ।


1 त्रिसूत्राणि च भद्रके इति घ, चिह्नितपुस्तकपाठः ।
2 ओं हूं हः फट् हूमिति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फट् ह्रूमिति ङ, चिह्नितपुस्तकपाठः ।
2 ओं ह्रीं हः फट् ह्रूनिति ङ, चिह्नितपुस्तकपाठः ।
3 ओं ह्रां हः ह्रूं इति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फट् ह्रीमिति ङ, चिह्नितपुस्तकपाठः ।
4 ओं ह्रां हः फट् इति ग, चिह्नितपुस्तकपाठः ।
Image-P.95


ओं ह्रूं हः फट् ह्रूं 1 शब्दतन्मात्रं संहरामि नमः ॥
पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलं । 21ab
चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ॥ 21cd
इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् । 22ab
शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् ॥ 22cd
रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥ 22॥ 22ef
ओं ह्रीं हः फट् ह्रूं 2 रसतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् 3 रूपतन्मात्रं संहरामि नमः ।
ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रीं हः फट् ह्रूं 4 शब्दतन्मात्रं संहरामि नमः ।
जानुनाभिमध्यगतं 5 श्वेतं वै पद्मलाञ्छितं । 23ab
शुक्लवर्णं चार्द्धचन्द्रं ध्यायेद्वरुणदैवतं ॥ 23cd
चतुर्भिश्च तदुद्घातैः शुद्धं तद्रसमात्रकं । 24ab
संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत् ॥ 24cd
ओं ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् । 25ab
नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितम् ॥ 25cd
ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् । 26ab


1 ओं ह्रां हः फट् हमिति ग, चिह्नितपुस्तकपाठ्ः ।
2 ओं ह्रीं फट् हमिति ग, चिह्नितपुस्तकपाठः ओं ह्रूं हः फट् हूमिति ङ, चिह्नितपुस्तकपाठः ।
3 ओं ह्रीं हः फट् ह्रूं इति ङ, चिह्नितपुस्तकपाठः ।
4 ओं ह्रं हः फट् हूमिति ङ, चिह्नितपुस्तकपाठः ।
5 पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.96


ओं ह्रौं हः फट् ह्रूं 1 स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रौं हः फट् ह्रूं 2 शब्दतन्मात्रं संहरामि नमः ॥
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ॥ 26cd
द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् । 27ab
स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ॥ 27cd
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् । 28ab
नासापुटशिखान्तस्थमाकाशमुपसंहरेत् ॥ 28cd
शोषणाद्यैर्द्देहशुद्धिं कुर्यादेवं क्रमात्ततः । 29ab
शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम् ॥ 29cd
यं वीजेन वं वीजेन ज्वालामालासमायुतम् 3 30ab
देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ॥ 30cd
विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् । 31ab
सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम् ॥ 31cd
न्यासं कृत्वा करे देहे मानसं यागमाचरेत् । 32ab
विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः ॥ 32cd
मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम् । 33ab
स्वागतं देवदेवेश सन्निधौ भव केशव ॥ 33cd
गृहाण मानसीं पूजां यथार्थं 4 परिभाविताम् । 34ab
आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ॥ 34cd
मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम् 5 35ab


1 ओं क्षौं हः फट् क्रूमिति ङ, चिह्नितपुस्तकपाठः ।
2 ओं क्षौं हः फट् क्रूमिति ङ, चिह्नितपुस्तकपाठः ।
3 ज्वालामालासमप्रभमिति ङ, चिह्नितपुस्तकपाठः ।
4 यथास्वमिति ख, चिह्नितपुस्तकपाठः ।
5 धर्म्मादीनिन्द्रादौ विपरीतकानिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.97


सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ॥ 35cd
कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः । 36ab
मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः ॥ 36cd
गणः सरस्वती पूज्या 1 नारदो नलकूवरः । 37ab
गुरुर्गुरुपादुका च परो गुरुश्च पादुका ॥ 37cd
पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः । 38ab
लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका ॥ 38cd
पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये वाचाहितो हरिः । 39ab
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितो ऽच्युतः ॥ 39cd
ओं अभिमुखो भवेति प्रार्थ्य सन्निहितो भव । 40ab
विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर्मूलतो यजेत् ॥ 40cd
ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः । 41ab
मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ॥ 41cd
रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय 2 नमस्ततः । 42ab
ओं ह्रूं 3 फट् अस्त्राय नमो मूलवीजेन चाङ्गकं ॥ 42cd
पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणमर्च्चयेत् । 43ab
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ 43cd
अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः । 44ab
शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकं ॥ 44cd
शार्ङ्गञ्च मुषलं खड्गं वनमालाञ्च तद्वहिः । 45ab
इन्द्राद्याश्च तयानन्तो नैरृत्यां वरुणस्ततः ॥ 45cd
ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः । 46ab
ऐरावतस्ततश्छागो महिषो वानरो झषः ॥ 46cd


1 गणश्च तासु पूज्यो ऽथ इति ङ, चिह्नितपुस्तकपाठः ।
2 रक्ष रक्ष प्रध्वंसय कवचायेति ङ, चिह्नितपुस्तकपाठः ।
3 ओं ह्रीमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.98


मृगः शशो ऽथ वृषभः कूर्म्मो हंसस्ततो वहिः । 47ab
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं ॥ 47cd
पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः । 48ab
विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ॥ 48cd
विश्वाय विश्वक्सेनात्मने ईशानके यजेत् । 49ab
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥ 49cd
संवत्सरकृतार्चायाः सम्पूर्णफलदायिने । 50ab
पवित्रारोहणायेदं कौतुकं धारय ओं नमः ॥ 50cd
उपवासादिनियमं कुर्याद्वै देवसन्निधौ । 51ab
उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥ 51cd
कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा । 52ab
अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ॥ 52cd
यजमानो ह्यशक्तश्चेत् कुर्यान्नक्तादिकं व्रती । 53ab
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम् ॥ 53cd
ओं ह्रीं 1 श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥ 53॥ 53ef


इत्यादिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः ।

Chapter 34

अथ चतुस्त्रिंशो ऽध्यायः ।

होमादिविधिः ।
अग्निरुवाच ।
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् । 1ab
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥ 1cd


1 ओं क्रीमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.99


ऋग्यजुःसामरूपाय शब्ददेहाय । 2ab
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥ 2cd
प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः । 3ab
अर्घ्याद्भिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा ॥ 3cd
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् । 4ab
अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगा नगाः ॥ 4cd
ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम् । 5ab
सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥ 5cd
तोरणान्तः पताकाश्च कुमुदाद्या घटद्वयम् । 6ab
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः ॥ 6cd
आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः । 7ab
सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत् ॥ 7cd
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् । 8ab
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः ॥ 8cd
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् । 9ab
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥ 9cd
प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् । 10ab
एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् ॥ 10cd
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् । 11ab
मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च ॥ 11cd
आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् । 12ab
पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः ॥ 12cd
यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः । 13ab
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश्च तान् ॥ 13cd
ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्द्धनीं । 14ab
Image-P.100


कुम्भे साङ्गं हरिं प्रार्च्य वर्द्धन्यामस्त्रमर्चयेत् ॥ 14cd
प्रदक्षिणं यागगृहं वर्द्धन्याच्छिन्नधारया । 15ab
सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने ॥ 15cd
सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् । 16ab
वर्द्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः ॥ 16cd
तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्च्चयेत् । 17ab
स्नपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥ 17cd
पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्ब्रणान् । 18ab
पाद्यमर्घ्यमाचमनीयं पञ्चगव्यञ्च निःक्षिपेत् ॥ 18cd
पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् । 19ab
दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम् ॥ 19cd
पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् । 20ab
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥ 20cd
कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम् 1 21ab
लवङ्गकक्कोलयुतं दद्यादाचमनीयकम् ॥ 21cd
स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि । 22ab
शुद्धोदं मध्यकुम्भेन देवमूर्द्ध्नि विनिःक्षिपेत् ॥ 22cd
कलशान्निःसृतं तोयं कूर्चाग्रं 2 संस्पृशेन्नरः । 23ab
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् ॥ 23cd
परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् । 24ab
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥ 24cd
प्रक्षाल्य हस्तौ रेखाश्च तिस्रः पूर्वाग्रगामिनीः । 25ab


1 चार्हणा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.101


दक्षिणादुत्तरान्तराश्च तिस्रश्चैवoत्तराग्रगाः ॥ 25cd
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् । 26ab
ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥ 26cd
पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः । 27ab
बाहुमात्राः परिधय इध्मव्रश्चनमेव च ॥ 27cd
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् । 28ab
प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥ 28cd
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् । 29ab
अद्भिः पूर्य्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥ 29cd
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः । 30ab
प्रोक्षणीमद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत् ॥ 30cd
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् । 31ab
कुशानास्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्ततः ॥ 31cd
वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः । 32ab
गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः ॥ 32cd
नामादिसमावर्त्तनान्तं जुहुयादष्ट चाहुतीः । 33ab
पूर्णाहुतीः प्रतिकर्म्म श्रुचा स्रुवसुयुक्तया ॥ 33cd
कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् । 34ab
कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मिका ॥ 34cd
सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च । 35ab
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥ 35cd
प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ । 36ab
ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते ॥ 36cd
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते । 37ab
गुणत्रयं मेखलाःस्युर्ध्यात्वैवं समिधो दश ॥ 37cd
Image-P.102


पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया 1 38ab
पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् ॥ 38cd
ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् । 39ab
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥ 39cd
व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् । 40ab
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥ 40cd
चन्द्रवक्त्रञ्च 2 सूर्याक्षं जुहुयाच्छतमष्ट च । 41ab
तदर्द्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः ॥ 41cd


इत्यादिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशो ऽध्यायः ॥

Chapter 35

अथ पञ्चत्रिंशो ऽध्यायः ।

पवित्राधिवासनादिविधिः ।
अग्निरुवाच ।
सम्पाताहुतिनासिच्य 2 पवित्राण्यधिवासयेत् । 1ab
नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥ 1cd
वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् । 2ab
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा 4 2cd
कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः । 3ab
दन्तकाष्ठञ्चामलकं पूर्वे सङ्कर्षणेन तु ॥ 3cd
प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां । 4ab


1 स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः ।
2 पञ्चवक्त्रञ्श्चेति ङ, चिह्नितपुस्तकपाठः ।
3 सङ्घाताहुतिना ऽऽसिच्येति ङ, चिह्नितपुस्तकपाठः ।
4 मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः ।
Image-P.103


वारुणेन चानिरुद्धेन सौम्ये नारायणेन च ॥ 4cd
दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं । 5ab
ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ ॥ 5cd
मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे । 6ab
चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ॥ 6cd
गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् । 7ab
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकं ॥ 7cd
मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च । 8ab
विष्णुतेजोभवं रम्यं सर्वपातकनाशनं ॥ 8cd
सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं । 9ab
सम्पूज्य धूपदीपाद्यैर्व्रजेद्द्वारसमीपतः ॥ 9cd
गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्प्पयेत् 1 10ab
पवित्रं वैष्णवं तेजो महापातकनाशनं ॥ 10cd
धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं । 11ab
आसने परिवारादौ गुरौ दद्यात् पवित्रकं ॥ 11cd
गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् । 12ab
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥ 12cd
वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः । 13ab
क्षीरोदधिमहानागशय्यावस्थितविग्रह ॥ 13cd
प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव । 14ab
इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं ॥ 14cd
ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं । 15ab
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं ॥ 15cd
गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् । 16ab


1 पवित्रं पार्श्वतो नयेदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.104


मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥ 16cd
पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् । 17ab
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥ 17cd
परप्रेषकबालानां स्त्रीणां भोगभुजां तथा । 18ab
सद्योधिवासनं कुर्य्याद्विना गन्धपवित्रकं ॥ 18cd


इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशो ऽध्यायः ॥

Chapter 36

अथ षट्त्रिंशो ऽध्यायः ।

पवित्रारोपणविधानं ।
अग्निरुवाच ।
प्रातःस्नानादिं कृत्वा द्वारपालान् 1 प्रपूज्य च । 1ab
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥ 1cd
पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं । 2ab
निरस्य सर्वनिर्म्माल्यं देवं संस्थाप्य पूजयेत् ॥ 2cd
पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः । 3ab
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं ॥ 3cd
अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् 2 4ab
समर्प्य कर्म्म देवाय पूजां नैमित्तिकीं चरेत् ॥ 4cd
द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेद्धरिं । 5ab
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥ 5cd
कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं । 6ab


1 लोकपालानिति ख, चिह्नितपुस्तकपाठः ।
2 प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः ।
Image-P.105


पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥ 6cd
पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं । 7ab
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ॥ 7cd
पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च । 8ab
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥ 8cd
पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च 1 9ab
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥ 9cd
कर्म्मणां पूरणार्थाय यथा दोषो न मे भवेत् । 10ab
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥ 10cd
कनिष्टादि च देवाय वनमालाञ्च मूलतः । 11ab
हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् ॥ 11cd
वह्नौ हुत्वाग्निवर्त्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् । 12ab
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ॥ 12cd
अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः । 13ab
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥ 13cd
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज । 14ab
वनमाला यथा देव कौस्तुभं सततं हृदि ॥ 14cd
तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह 2 15ab
कामतो ऽकामतो वापि यत्कृतं नियमार्च्चने ॥ 15cd
विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे । 16ab
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तके ऽर्प्पयेत् ॥ 16cd
दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं । 17ab


1 रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ, चिह्नितपुस्तकपाठः ।
2 पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ, चिह्नितपुस्तकपाठः ।
Image-P.106


विप्रान् भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव वा ॥ 17cd
पवित्रं स्नानकाले च अवतार्य्य समर्प्पयेत् । 18ab
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं ॥ 18cd
विसर्जने ऽह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत् । 19ab
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥ 19cd
व्रज पवित्रकेदानीं विष्णुलोकं विसर्ज्जितः । 20ab
मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनं हि तस्य च ॥ 20cd
पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पयेत् । 21ab
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥ 21cd
तावद्युगसहस्राणि विष्णुलोके महीयते । 22ab
कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् । 22cd
विष्णुलोके तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥ 22॥ 22ef


इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशो ऽध्यायः ॥

Chapter 37

अथ सप्तत्रिंशो ऽध्यायः ।

सर्वदेवपवित्रारोहणविधिः ।
अग्निरुवाच ।
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं 1 शृणु । 1ab
पवित्रं सर्वलक्ष्म स्यात् खरसानलगं त्वपि ॥ 1cd
जगद्योने समागच्छ परिवारगणैः सह । 2ab
निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं पवित्रकं ॥ । 2cd
जगत्सृजे 2 नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं । 3ab


1 पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः ।
2 जगत्सूते इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.107


पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥ 3cd
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं । 4ab
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥ 4cd
इयं सांवत्सरी पूजा तवास्तु वेदवित्पते । 5ab
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥ 5cd
व्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः । 6ab
सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥ 6cd
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं । 7ab
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥ 7cd
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं । 8ab
वाणेश्वर 1 नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥ 8cd
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं । 9ab
शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥ 9cd
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं । 10ab
नारायणमयं सूत्रमनिरुद्धमयं वरं 2 10cd
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते । 11ab
कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥ 11cd
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते । 12ab
वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदं ॥ 12cd
संसारसागरोत्तारकारणं प्रददामि ते । 13ab
विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनं ॥ 13cd


1 गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 परमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.108


अतीतानागतकुलसमुद्धारं ददामि ते । 14ab
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥ 14cd


इत्यादिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशो ऽध्यायः ॥

Chapter 38

अथ अष्टत्रिंशो ऽध्यायः ।

देवालयनिर्म्माणफलं ।
अग्निरुवाच ।
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं । 1ab
चिकीर्षोर्द्देवधामादि सहस्रजनिपापनुत् ॥ 1cd
मनसा सद्मकर्तॄणां शतजन्माघनाशनं । 2ab
येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं 1 2cd
तेपि पापैर्व्विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां । 3ab
समतीतं भविष्यञ्च कुलानामयुतं नरः ॥ 3cd
विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं । 4ab
वसन्ति 2 पितरो दृष्ट्वा 3 विष्णुलोके ह्यलङ्कृताः ॥ 4cd
विमुक्ता नारकैर्दुःखैः कर्त्तुः कृष्णस्य मन्दिरं । 5ab
ब्रह्महत्यादिपापौघघातकं देवतालयं ॥ 5cd
फलं यन्नाप्यते यज्ञैर्द्धाम कृत्वा तदाप्यते । 6ab
देवागारे कृते सर्व्वतीर्थस्नानफलं लभेत् ॥ 6cd
देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकं । 7ab
शाठ्येन पांशुना वापि कृतं धाम च नाकदं ॥ 7cd


1 गृहादिकं ग, घ, चिह्नितपुस्तकद्वयपाठः ।
2 नन्दन्ति इति ख, ग, चिह्नितपुस्तकद्वयपाठः । वल्गन्ति इति ङ, चिह्नितपुस्तकपाठः ।
3 हृष्टा इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
Image-P.109


एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् । 8ab
पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥ 8cd
षोडशालयकारी तु 1 भुक्तिमुक्तिमवाप्नुयात् । 9ab
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं ॥ 9cd
स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् । 10ab
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥ 10cd
कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः । 11ab
समुत्पाद्य धनं कृत्या स्वल्पेनापि 2 सुरालयं ॥ 11cd
कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं । 12ab
लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः ॥ 12cd
कारयन् भवनं याति यत्रास्ते गरुडध्वजः । 13ab
बाल्ये तु क्रीड़माणा ये पांशुभिर्भवनं हरेः ॥ 13cd
वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः । 14ab
तीर्थे चायतने पुण्ये सद्धक्षेत्रे तथाष्टमे ॥ 14cd
कर्त्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं । 15ab
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं ॥ 15cd
ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं । 16ab
पतितं पतमानन्तु तथार्द्धपतितं नरः ॥ 16cd
समुद्धृत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलं । 17ab
पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता ॥ 17cd
विष्णोरायतनस्येह नरो विष्णुलोकभाक् । 18ab
इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः ॥ 18cd
सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते । 19ab


1 षोडशागारकारी तु इति ग, चिह्नितपुस्तकपाठः ।
2 स्वल्पेनैवेति ख, चिह्नितपुस्तकपाठः ।
Image-P.110


स एव पुण्यवान् पूज्य इह लोके परत्र च ॥ 19cd
कृष्णस्य वासुदेवस्य यः कारयति केतनं । 20ab
जातः स एव सुकृती कुलन्तेनैव पावितं ॥ 20cd
विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक् । 21ab
किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः ॥ 21cd
दुःखार्ज्जितैर्यः कृष्णस्य न कारयति केतनं । 22ab
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां ॥ 22cd
नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः । 23ab
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥ 23cd
मूढस्तत्रा ऽनुबध्नाति जीवितेथ चले धने । 24ab
यदा वित्तं न दानाय नोपभोगाय देहिनां ॥ 24cd
नापि कीर्त्यै न धर्म्माथं तस्य स्वाम्येथ को गुणः । 25ab
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥ 25cd
दद्यात् सम्यग् द्विजाग्र्येभ्यः कीर्त्तनानि च कारयेत् । 26ab
दानेभ्यश्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः ॥ 26cd
अतस्तत्कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकं । 27ab
विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः ॥ 27cd
निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरं । 28ab
भूतं भवयं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत् 1 28cd
आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवं । 29ab
तस्य देवादिदेवस्य सर्वगस्य 2 महात्मनः ॥ 29cd
निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते । 30ab
यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसां ॥ 30cd


1 तथैव च इति ग, चिह्नितपुस्तकपाठः ।
2 सर्व्वेशस्य इति ख, चिह्नितपुस्तकपाठः ।
Image-P.111


शिवब्रह्मार्क्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां । 31ab
देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं ॥ 31cd
प्रतिमास्थापने यागे फलस्यान्तो न विद्यते । 32ab
मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे ॥ 32cd
इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं । 33ab
सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति ॥ 33cd
देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति । 34ab
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥ 34cd
यमो यमभटानाह देवमन्दिरकारिणः । 35ab
यम उवाच ।
प्रतिमापूजादिकृतो नानेया नरकं नराः ॥ 35cd
देवालयाद्यकर्त्तार आनेयास्ते तु गोचरे 1 36ab
विचरध्वं यथान्यायन्नियोगो मम पाल्यतां 2 36cd
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् । 37ab
केवलं ते जगत्तातमनन्तं समुपाश्रिताः ॥ 37cd
भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः । 38ab
ये च भागवता लोके तच्चित्तास्तत्परायणाः ॥ 38cd
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः । 39ab
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते 3 39cd
सङ्कीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः । 40ab
नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम् ॥ 40cd
नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् । 41ab


1 आनेयास्त्वविशेषत इति ग, चिह्नितपुस्तकपाठः ।
2 नियमो मे ऽनुपाल्यतामिति ख, चिह्नितपुस्तकपाठः ।
3 जन्तवः क्वचिदिति ख, चिह्नितपुस्तकपाठः ।
Image-P.112


ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥ 41cd
अर्च्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः 1 42ab
उपलेपनकर्त्तारः सम्मार्जनपराश्च ये ॥ 42cd
कृष्णालये परित्यज्यास्तेषां पुत्रास्तथा कुलम् । 43ab
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ॥ 43cd
पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा । 44ab
यस्तु देवालयं विष्णोर्द्दारुशैलमयं तथा ॥ 44cd
कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते । 45ab
अहन्यहनि यज्ञेन यजतो यन् महाफलम् ॥ 45cd
प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनं । 46ab
कुलानां शतमागामि समतीतं तथा शतं ॥ 46cd
कारयन् भगवद्धाम नयत्यच्युतलोकतां । 47ab
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं ॥ 47cd
तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते । 48ab
इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति ॥ 48cd
तावद्वर्षसहस्राणि तत्कर्त्तुर्द्दिवि संस्थितिः । 49ab
प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ । 49cd
देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥ 49॥ 49ef
अग्निरुवाच ।
यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः । 50ab
हयशीर्षः प्रतिष्ठार्थं 2 देवानां ब्रह्मणे ऽब्रवीत् ॥ 50cd


इत्यादिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोध्यायः ॥


1 कृष्णाश्रये गता इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 प्रतिष्ठाद्यमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.113


Chapter 39

अथोनचत्वारिंशो ऽध्यायः ।

भूपरिग्रहविधानं ।
हयग्रीव उवाच ।
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे । 1ab
प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया ॥ 1cd
व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया । 2ab
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं ॥ 2cd
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं । 3ab
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं 1 तथा ॥ 3cd
सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं । 4ab
स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं ॥ 4cd
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं । 5ab
बौधायनं तथार्षं तु 2 विश्वोक्तं तस्य सारतः ॥ 5cd
प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः । 6ab
नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ॥ 6cd
कामरूपकलिङ्गोप्त्यः काञ्चीकाश्मीरकोशलः 3 7ab
आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः ॥ 7cd
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं । 8ab
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ॥ 8cd
सर्व्वलक्षणहीनोपि स गुरुस्तन्त्रपारगः । 9ab


1 चैश्वरं तथेति ग, ङ, घ, चिह्नितपुस्तकत्रयपाठः ।
2 तथाष्टाङ्गमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
3 काश्मीरके स्थित इति ग, चिह्नितपुस्तकपाठः ।
Image-P.114


नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ॥ 9cd
कुरुक्षेत्रे गयादौ च नदीनान्तु 1 समीपतः । 10ab
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं ॥ 10cd
अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च । 11ab
दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ॥ 11cd
नैरृते मन्दिरं कुर्यात् वरुणादेश्च वारुणे । 12ab
वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥ 12cd
चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः । 13ab
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ॥ 13cd
समं वाप्यधिकं वापि न कर्त्तव्यं विजानता । 14ab
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां ॥ 14cd
प्रासादं कारयेदन्यं नोभयं पीड़येद्बुधः । 15ab
भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं ॥ 15cd
प्राकारसीमापर्य्यन्तं ततो भुतबलिं हरेत् । 16ab
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥ 16cd
अष्टाक्षरेण सक्तूंश्च पातयित्वाष्टदिक्षु च । 17ab
राक्षसाश्च पिशाचाश्च येस्मिंस्तिष्ठन्ति भूतले ॥ 17cd
सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः । 18ab
हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ॥ 18cd
परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः । 19ab
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥ 19cd
तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता । 20ab
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥ 20cd


1 नद्यद्रिषु इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.115


यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः । 21ab
चतुरङ्गुलसंयुक्तः स हस्तः 1 पद्महस्तकः ॥ 21cd


इत्यादिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो नामोनचत्वारिंशोध्यायः ॥

Chapter 40

अथ चत्वारिंशो ऽध्यायः ।

अर्घ्यदानविधानं ।
भगवानुवाच ।
पूर्वमासित् महद्भूतं सर्व्वभूतभयङ्करं । 1ab
तद्देवैर्न्निहितं भुमौ स वास्तुपुरुषः स्मृतः ॥ 1cd
चतुःषष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितं । 2ab
घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं पदगतं ततः ॥ 2cd
उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया । 3ab
महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः पदे रविं ॥ 3cd
वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः । 4ab
व्योम शाकुनमांसेन 2 कोणार्द्धपदसंस्थितं ॥ 4cd
स्रुचा चार्द्धपदे वह्निं पूषाणं लाजयैकतः । 5ab
स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं ॥ 5cd
मांसौदनेन धर्म्मेशमेकैकस्मिन् स्थितं द्वयं । 6ab
गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया ॥ 6cd
एकस्थमूर्द्ध्वसंस्थञ्च मृगं नीलपटैस्तथा । 7ab
पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितं ॥ 7cd


1 नृहस्त इति ख, चिह्नितपुस्तकपाठः ।
2 व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः ।
Image-P.116


दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु । 8ab
पुष्पदन्तं कुशस्तम्बैः पद्मैर्व्वरुणमेकतः ॥ 8cd
असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा । 9ab
यवैः पापं पदार्द्धस्थं रोगमर्द्धे च मण्डकैः ॥ 9cd
नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्विसंस्थितं । 10ab
मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा ॥ 10cd
मधुना पायसेनाथ शालूकेन ऋषिं द्वये । 11ab
पदे दितिं लोपिकाभिरर्द्धे दितिमथापरं ॥ 11cd
पूरिकाभिस्ततश्चापमीशाधः पयसा पदे । 12ab
ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं ॥ 12cd
लड्डुकैश्च मरीचिन्तु पूर्वकोष्ठचतुष्टये 1 13ab
सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके ॥ 13cd
तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं । 14ab
विवस्वते ऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु ॥ 14cd
रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं । 15ab
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥ 15cd
चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं । 16ab
वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं ॥ 16cd
तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा । 17ab
महीधराय मांसान्नं माषञ्च चतुरङ्घ्रिषु ॥ 17cd
मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः । 18ab
चरकीं माषसर्प्पिभ्यां स्कन्दं कृशरयासृजा ॥ 18cd
रक्तपद्मैर्विदारीञ्च कन्दर्पञ्च पलोदनैः । 19ab
पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकं ॥ 19cd


1 मध्यचतुष्टये इति ख, चिह्नितपुस्तकपाठः ।
Image-P.117


पित्तासृगस्थिभिः पापां पिलिपिञ्जं 1 स्रजासृजा । 20ab
ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत् ॥ 20cd
रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च । 21ab
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः ॥ 21cd
अहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् । 22ab
ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्च्चयेत् ॥ 22cd
महीश्वरं वास्तुमयं 2 वर्द्धन्या सहितं घटं । 23ab
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश्च दिगीश्वरान् ॥ 23cd
दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च । 24ab
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणं ॥ 24cd
सूत्रमार्देण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् । 25ab
पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत् ॥ 25cd
प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् । 26ab
ततो गर्त्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥ 26cd
चतुरङ्गुलकं चाधश्चोपलिप्यार्च्चयेत्ततः । 27ab
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः ॥ 27cd
कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् । 28ab
दक्षिणावर्त्तकं श्रेष्ठं वीजैर्म्मृद्द्भिश्च पूरयेत् ॥ 28cd
अर्घ्यदानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ । 29ab
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्च्चयेत् ॥ 29cd
ततस्तु खानयेद्यत्नाज्जलान्तं यावदेव तु । 30ab
पुरुषाधःस्थितं शल्यं 3 न गृहे दोषदं भवेत् ॥ 30cd


1 पिलिपिच्छमिति ङ, चिह्नितपुस्तकपाठः ।
2 महीधरं वास्तुमयमिति ख, ङ, चिह्नितपुस्तकपाठः ।
3 पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.118


अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणो ऽसुखं । 31ab
यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं ॥ 31cd


इत्यादिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशो ऽध्यायः ॥

Chapter 41

अथैकचत्वारिंशो ऽध्यायः ।

शिलाविन्यासविधानं
भगवानुवाच ।
पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं । 1ab
अग्रतो मण्डपः कार्य्यः कुण्डानान्तु चतुष्टयं ॥ 1cd
कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं । 2ab
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे ॥ 2cd
इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः । 3ab
सविस्तारत्रिभागेन वैपुल्येन 1 समन्विताः ॥ 3cd
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये 2 4ab
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥ 4cd
अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च । 5ab
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥ 5cd
हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः । 6ab
आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥ 6cd
तरत् समन्दीरिति च 3 पावमानीभिरेव च । 7ab
उदुत्तमं वरुणमिति कयानश्च तथैव च ॥ 7cd


1 सुविस्तारं विभागेन नैपुण्यनेति ख, चिह्नितपुस्तकपाठः ।
2 शिला स्यान्न शिलामये इति ग, चिह्नितपुस्तकपाठः ।
3 भवतत्समन्दीरितीति ख, ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.119


वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि । 8ab
श्रीसूक्तेन तथा शिलाः संस्थाप्य संघटाः 1 8cd
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्च्चयेत् । 9ab
जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ॥ 9cd
आघारावाज्यभागौ तु प्रणवेनैव कारयेत् । 10ab
अष्टाहुतीस्तथाष्टान्तैराज्यं 2 व्याहृतिभिः क्रमात् ॥ 10cd
लोकेशानामग्नये वै सोमायावग्रहेषु च 3 11ab
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ॥ 11cd
प्रायश्चित्तं ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान् । 12ab
वेदाद्यैर्द्वादशान्तेन 4 कुम्भेषु च पृथक् पृथक् ॥ 12cd
प्राङ्मुखस्तु गुरुः कुर्य्यादष्टदिक्षु विलिप्य च । 13ab
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥ 13cd
पद्मं चैव महापद्मं मकरं कच्छपं तथा । 14ab
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं ॥ 14cd
कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाः क्रमात् । 15ab
ईशानान्ताश्च पूर्व्वादाविष्टकां प्रथमं न्यसेत् ॥ 15cd
शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः । 16ab
न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा ॥ 16cd
अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते । 17ab
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥ 17cd
मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः । 18ab


1 संयुता इति ङ, चिह्नितपुस्तकपाठः .।
2 अष्टाहुतीस्तथा पूर्णैराज्यमिति ग, घ, ङ, इति पुस्तकत्रयपाठः ।
3 सोमाय च ग्रहाय चेति ङ, चिह्नितपुस्तकपाठः ।
4 द्वादशार्णेन इति ख, चिह्नितपुस्तकपाठः ।
Image-P.120


गर्भाधानं ततः कुर्य्यान्मध्यस्थाने समाहितः ॥ 18cd
कुम्भोपरिष्टादेवेशं पद्मिनीं न्यस्य देवतां । 19ab
मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च 1 19cd
लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने । 20ab
द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये ॥ 20cd
पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् । 21ab
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥ 21cd
समुद्रपरिवारे त्वं देवि गर्भं समाश्रय । 22ab
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया 2 सह ॥ 22cd
जये भार्गवदायादे प्रजानां विजयावहे । 23ab
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥ 23cd
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम । 24ab
सर्ववीजसमायुक्ते सर्व्वरत्नौषधीवृते ॥ 24cd
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह । 25ab
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥ 25cd
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां । 26ab
पूजिते परमाश्चर्य्ये गन्धमाल्यैरलङ्कृते ॥ 26cd
भवभूतिकरी देवि गृहे भार्गवि रम्यतां । 27ab
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥ 27cd
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव । 28ab
एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥ 28cd
कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि । 29ab
गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं ॥ 29cd


1 रसमेव चेति ग, घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 प्रिययेति ग, चिह्नितपुस्तकपाठः ।
Image-P.121


गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् । 30ab
पीठबन्धमतः कुर्य्यान्मितप्रासादमानतः 1 30cd
पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्द्धविस्तरात् । 31ab
पादहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्द्धतः ॥ 31cd
पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् । 32ab
पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते ॥ 32cd
देवागारं करोमीति मनसा यस्तु चिन्तयेत् । 33ab
तस्य कायगतं पापं तदह्ना हि प्रणश्यति ॥ 33cd
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु । 34ab
अष्टेष्टकसमायुक्तं यः कुर्य्याद्देवतालयं ॥ 34cd
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् । 35ab
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥ 35cd
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् । 36ab
विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् । 36cd
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् ॥ 36॥ 36ef


इत्यादिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशो ऽध्यायः ॥

Chapter 42

अथ द्वाचत्वारिंशो ऽध्यायः ।

प्रासादलक्षणकथनं ।
हयग्रीव उवाच ।
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु । 1ab
चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः ॥ 1cd
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितं । 2ab


1 समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.122


द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥ 2cd
जङ्घोच्छ्रायन्तु कर्त्तव्यं चतुर्भागेण चायतं 1 3ab
जङ्घायां द्विगुणोच्छ्रायं मञ्जर्य्याः कल्पयेद् बुधः ॥ 3cd
तुर्य्यभागेन मञ्जर्य्याः कार्य्यः सम्यक् प्रदक्षिणः 2 4ab
तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समं ॥ 4cd
शिखरेण समं कार्य्यमग्रे जगति विस्तरं । 5ab
द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः ॥ 5cd
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु । 6ab
दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितं ॥ 6cd
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपं । 7ab
एकाशीतिपदैर्व्व्यास्तुं पश्चात् मण्डपमारभेत् ॥ 7cd
शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान् । 8ab
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान् 3 8cd
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणं । 9ab
मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥ 9cd
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा । 10ab
गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः ॥ 10cd
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् । 11ab
भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः ॥ 11cd
शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत् । 12ab
शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं ॥ 12cd


1 चतुर्भागेण वा युतमिति ख, चिह्नितपुस्तकपाठः । चतुर्भागेण संयुतमिति ग, चिह्नितपुस्तकपाठः ।
2 सम्यक् कुर्य्यात् प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः ।
3 द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः ।
Image-P.123


अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः । 13ab
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥ 13cd
तत्तृतीयेण 4 वा कुर्य्याद्रथकानान्तु निर्गमं । 14ab
वामत्रयं स्थापनीयं रथकत्रितये सदा ॥ 14cd
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् । 15ab
शुकनाशोर्द्ध्वतः सूत्रं तिर्य्यग्भूतं निपातयेत् ॥ 15cd
शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत् । 16ab
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥ 16cd
अपरे च तथा पार्श्वं तद्वत् सूत्रं निधापयेत् । 17ab
तदूर्द्ध्वन्तु भवेद्वेदी सकण्ठा मनसारकं ॥ 17cd
स्कन्धभग्नं न कर्त्तव्यं विकरालं तथैव च । 18ab
ऊर्द्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् ॥ 18cd
विस्ताराद्द्विगुणं द्वारं कर्त्तव्यं तु सुशोभनं । 19ab
उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥ 19cd
द्वारस्य तु चतुर्थांशे कार्य्यौ चण्डप्रचण्दकौ । 20ab
विश्वक्सेनवत्सदण्डौ शिखोर्द्ध्वोडुम्बरे श्रियं ॥ 20cd
दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां । 21ab
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् ॥ 21cd
प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् । 22ab
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥ 22cd
गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च । 23ab
कुर्य्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि ॥ 23cd
पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले । 24ab
उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं ॥ 24cd


1 तत्तुरीयेणेति ख, चिह्नितपुस्तकपाठः ।
Image-P.124


नैरृत्यां रामकं वायौ वामनं वासुदेवकं । 25ab
ईशे प्रासादरचना देया वस्वर्ककादिभिः । 25cd
द्वारस्य चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक् ॥ 25॥ 25ef


इत्यादिमहापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्त्वारिंशो ऽध्यायः ।

Chapter 43

अथ त्रिचत्वारिंशो ऽध्यायः ।

प्रासाददेवतास्थापनं ।
भगवानुवाच ।
प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे । 1ab
पञ्चायतमध्ये तु वासुदेवं निवेशयेत् ॥ 1cd
वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं । 2ab
आग्नेये नैरृते चैव वायव्ये चेशगोचरे ॥ 2cd
अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् । 3ab
नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके ॥ 3cd
अथवा रुद्ररूपन्तु अथवा नवधामसु । 4ab
वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥ 4cd
इन्द्रादीन् लोकपालांश्च अथवा नवधामसु । 5ab
पञ्चायतनकं कुर्य्यात् मध्ये तु पुरुषोत्तमं ॥ 5cd
लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् । 6ab
स्कन्दं गणेशमीशानं सूर्य्यादीन् पश्चिमे ग्रहान् ॥ 6cd
उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा । 7ab
नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं ॥ 7cd
पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा । 8ab
त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं ॥ 8cd
Image-P.125


पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं 1 9ab
मृण्मयी दारुघटिता लोहजा रत्नजा तथा ॥ 9cd
शैलजा गन्धजा चैव कौसुमी 2 सप्तधा स्मृता । 10ab
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥ 10cd
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः । 11ab
अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते ॥ 11cd
पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां । 12ab
पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनां ॥ 12cd
न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला । 13ab
वर्णाद्यापादनं तत्र जुहुयात् सिंहविद्यया ॥ 13cd
शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः । 14ab
कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका ॥ 14cd
तन्मन्दलक्षणा 3 स्त्री स्याद्रूपाभावान्नपुंसका । 15ab
दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥ 15cd
प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् । 16ab
तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥ 16cd
बलिं दत्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत् । 17ab
हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां ॥ 17cd
रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत् 4 18ab
हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥ 18cd


1 अन्यधामसु यज्ञविदिति ख, चिह्नितपुस्तकपाठः । युग्मधामस्वयं हरिमिति घ, चिह्नितपुस्तकपाठः ।
2 कौमुदी इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
3 उन्मत्तलक्षणा इति ङ, चिह्नितपुस्तकपाठः ।
4 मन्त्रयेदिति ख, चिह्नितपुस्तकपाठः ।
Image-P.126


अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः । 19ab
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥ 19cd
विष्णुबिम्बार्थमस्माकं 1 यात्रैषा केशवाज्ञया । 20ab
विष्ण्वर्थं यद्भवेत् कार्य्यं युष्माकमपि तद्भवेत् ॥ 20cd
अनेन बलिदानेन प्रीता भवत सर्वथा । 21ab
क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥ 21cd
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं । 22ab
शिल्पिभिश्च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि ॥ 22cd
ओं नमः सकललोकाय विष्णवे प्रभविष्णवे । 23ab
विश्वाय विश्वरूपाय स्वप्नाधिपतये 2 नमः ॥ 23cd
आचक्ष्व देवदेवेश प्रसुप्तोस्मि 3 तवान्तिकं । 24ab
स्वप्ने सर्वाणि कार्य्याणि हृदिस्थानि तु यानि मे ॥ 24cd
ओं ओं ह्रूं फट् विष्णवे स्वाहा 4
शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः । 25ab
प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत् ॥ 25cd
कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् । 26ab
आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्म्मकं 5 26cd
शस्त्रं विष्ण्वात्मकं 6 दद्यात् मुखपृष्ठादि दर्शयेत् । 27ab
जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां ॥ 27cd


1 लोकसिद्ध्यर्थमस्माकमिति ख, चिह्नितपुस्तकपाठः ।
2 विश्वाधिपतये इति ख, चिह्नितपुaतकपाठः ।
3 प्रपन्नो ऽस्मि इति ख, चिह्नितपुस्तकपाठः ।
4 ओं ओं ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ।
5 विश्वकर्म्मणिमिति ख, ग, चिह्नितपुaतकपाठः ।
6 विश्वात्मकमिति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.127


शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् । 28ab
रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि । 28cd
पूजयित्वाथ घटयेत् प्रतिमां स तु कर्म्मकृत् ॥ 28॥ 28ef


इत्यादि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशो ऽध्यायः ॥

Chapter 44

अथ चतुश्चत्वारिंशो ऽध्यायः ।

वासुदेवादिप्रतिमालक्षणविधिः ।
भगवानुवाच ।
वासुदेवादिप्रतिमालक्षणं प्रवदामि ते । 1ab
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां ॥ 1cd
संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूत्रकं । 2ab
शिलां शिल्पी तु नवधा विभज्य नवमे ऽंशके ॥ 2cd
सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते । 3ab
द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥ 3cd
भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् । 4ab
भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥ 4cd
मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं । 5ab
तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥ 5cd
नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा । 6ab
तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतं ॥ 6cd
कार्य्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं । 7ab
जानौ सूत्रद्वयं कार्य्यमूरूमध्ये तथापरं ॥ 7cd
मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरं । 8ab
मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥ 8cd
Image-P.128


हृदये च तथा कार्य्यं कण्ठे सूत्रद्वयं तथा । 9ab
ललाते चापरं कार्य्यं मस्तके च तथापरं ॥ 9cd
मुकुटोपरि कर्त्तव्यं सूत्रमेकं विचक्षणैः । 10ab
सूत्राण्यूर्द्ध्वं प्रदेयानि सप्तैव कमलोद्भव 1 10cd
कक्षात्रिकान्तरेणैव घट् सूत्राणि प्रदापयेत् । 11ab
मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥ 11cd
ललाटं नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलं । 12ab
ग्रीवाकर्णौ तु कर्त्तव्यौ आयामाच्चतुरङ्गुलौ ॥ 12cd
द्व्यङ्गुले हनुके कार्य्ये विस्ताराच्चिवुकन्तथा । 13ab
अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्त्तितम् ॥ 13cd
परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ । 14ab
चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः ॥ 14cd
द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे । 15ab
भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्त्तितम् ॥ 15cd
विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् । 16ab
चिवुकेन समं विद्धमविद्धं वा षड़ङ्गुलम् ॥ 16cd
गन्धपात्रं तथावर्त्तं शष्कुलीं कल्पयेत्तथा । 17ab
द्व्यङ्गुलेनाधरः कार्यस्तस्यार्द्धेनोत्तराधरः ॥ 17cd
अर्द्धाङ्गुलं तथा नेत्रं 2 वक्त्रन्तु चतुरङ्गुलम् । 18ab
आयामेन तु वैपुल्यात् सार्द्धमङ्गुलमुच्यते ॥ 18cd
अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते । 19ab
नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ॥ 19cd
उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः । 20ab


1 मुकुटोपरि इति ख, चिह्नितपुस्तकपाठः ।
2 तथा गोजी इति ख, चिह्नितपुस्तकपाठः ।
Image-P.129


अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥ 20cd
द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः । 21ab
तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका ॥ 21cd
त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता । 22ab
तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥ 22cd
भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गुलम् 1 23ab
षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् ॥ 23cd
मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् । 24ab
पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः ॥ 24cd
त्रिगुणं तु भवेदूर्द्ध्वं विस्तृताष्टाङ्गुलं पुनः । 25ab
ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥ 25cd
स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ । 26ab
सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ ॥ 26cd
त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ । 27ab
बाहुदण्डोर्द्ध्वतो ज्ञेयः परिणाहः कला नव ॥ 27cd
सप्तदशाङ्गुलो मध्ये कूर्प्पारोर्द्धे च षोडश । 28ab
कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव ॥ 28cd
नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते । 29ab
अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥ 29cd
विस्तरेण करतलं कीर्त्तितं तु षडङ्गुलम् । 30ab
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता ॥ 30cd
तर्ज्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना । 31ab
कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ ॥ 31cd


1 भ्रूर्दैर्घ्याच्चतुरङ्गुला इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.130


द्विपर्वोङ्गुष्ठकः कार्यः शेषाङ्गुल्यस्त्रिपर्विकाः । 32ab
सर्वासां पर्वणोर्द्धेन नखमानं विधीयते ॥ 32cd
वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः । 33ab
अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥ 33cd
ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः । 34ab
नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः ॥ 34cd
अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः । 35ab
चिवुकौ 1 यवमानौ तु मण्डलं द्विपदं भवेत् ॥ 35cd
चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् । 36ab
चतुर्मुखञ्च तदधोवेष्टनं परिकीर्त्तितम् ॥ 36cd
परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः । 37ab
विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः ॥ 37cd
तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् । 38ab
विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥ 38cd
जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः । 39ab
त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥ 39cd
त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ । 40ab
आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥ 40cd
गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम् । 41ab
त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥ 41cd
पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी । 42ab
अष्टमाष्टांशतोन्यूनः शेषाङ्गुल्यः क्रमेण तु ॥ 42cd
सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्त्तितं । 43ab
यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा ॥ 43cd


1 चूचुकौ इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.131


अर्द्धाङ्गुलं तथान्यासां 1 क्रमान् न्यूनं तु कारयेत् । 44ab
अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥ 44cd
परिणाहोत्र कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम् । 45ab
षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ ॥ 45cd
प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् । 46ab
अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥ 46cd
दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च । 47ab
वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात् ॥ 47cd
श्रीपुष्टौ वापि कर्त्तव्ये पद्मवीणाकरान्विते । 48ab
ऊरुमात्रोच्छितायामे मालाविद्याधरौ 2 तथा ॥ 48cd
प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा । 49ab
पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥ 49cd


इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्चत्वारिंशोध्यायः ॥

Chapter 45

अथ पञ्चचत्वारिंशोध्यायः ।

पिण्डिकालक्षणकथनं ।
भगवानुवाच ।
पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा । 1ab
उच्छ्रायं प्रतिमार्द्धन्तु चतुःषष्टिपुटां 2 च ताम् ॥ 1cd
त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्द्ध्वं यत्तु कोष्ठकम् । 2ab


1 सार्द्धाङ्गुलं तथायाममिति ङ, चिह्नितपुस्तकपाठः ।
2 मणिविद्याधराविति घ, चिह्नितपुस्तकपाठः ।
3 चतुःषष्टिपदामिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.132


समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ॥ 2cd
ऊर्द्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम् । 3ab
अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम् ॥ 3cd
तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः । 4ab
चतुर्द्धा भाजयित्वा तु ऊर्द्ध्वपङ्क्तिद्वयं बुधः ॥ 4cd
मेखला भागमात्रा स्यात् खातं तस्यार्द्धमानतः । 5ab
भागं भागं परित्यज्य पार्श्वयोरुभयोः समं ॥ 5cd
दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद् बुधः । 6ab
त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः ॥ 6cd
नानाप्रकारभेदेन भद्रेयं 1 पिण्डिका शुभा । 7ab
अष्टताला तु कर्त्तव्या देवी लक्ष्मीस्तथा स्त्रियः ॥ 7cd
भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका । 8ab
गोलकेनाधिकं वक्त्रमूर्द्ध्वं तिर्य्यग्विवर्जितं ॥ 8cd
आयते नयने कार्य्ये त्रिभागोनैर्यवैस्त्रिभिः । 9ab
तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ॥ 9cd
कर्णपाशो ऽधिकः कार्य्यः सृक्कणीसमसूत्रतः । 10ab
नम्रं कलाविहीनन्तु कुर्य्यादंशद्वयं तथा ॥ 10cd
ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता । 11ab
नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ॥ 11cd
अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत् । 12ab
सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं ॥ 12cd
नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः । 13ab
मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं ॥ 13cd


1 तत्रेयमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.133


तालमात्रौ स्तनौ कर्य्यौ कटिः सार्द्धकलाधिका । 15ab
लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चामुबुजं करे ॥ 15cd
वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके । 16ab
दीर्घघोणस्तु गरुडश्चक्राङ्गाद्यानथो वदे ॥ 16cd


इत्यादिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशो ऽध्यायः ।

Chapter 46

अथ षट्चत्वारिंशो ऽध्यायः ।

शालग्रामादिमूर्त्तिलक्षणकथनं ।
भगवानुवाच ।
शालग्रामादिमूर्त्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः । 1ab
वासुदेवो ऽसितो द्वारे शिलालग्नद्विचक्रकः ॥ 1cd
ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः । 2ab
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः ॥ 2cd
पीतो निरुद्धः पद्माङ्गो वर्त्तुलो द्वित्रिरेखवान् । 3ab
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥ 3cd
परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रश्च 1 विन्दुमान् । 4ab
स्थूलचक्रो ऽसितो विष्णुर्म्मध्ये रेखा गदाकृतिः ॥ 4cd
नृसिंहः कपिलः स्थूलवक्रः स्यात् पञ्चविन्दुकः । 5ab
वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ सृतौ ॥ 5cd
इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः । 6ab
कूर्मस्तथोन्नतः पृष्ठे वर्त्तुलावर्त्तको ऽसितः ॥ 6cd
हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः । 7ab


1 पृथुच्छिद्रश्चेति ङ, चिह्नितपुस्तकपाठः ।
Image-P.134


वैकुण्ठः एकचक्रो ऽब्जी मणिभः पुच्छरेखकः ॥ 7cd
मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः । 8ab
श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्त्तुलः ॥ 8cd
वामनो वर्त्तुलश्चातिह्रस्वो नीलः सविन्दुकः । 9ab
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥ 9cd
अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान् । 10ab
स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः 1 10cd
सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् । 11ab
त्रिचक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः ॥ 11cd
जनार्द्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः । 12ab
षट्वक्रश्चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः ॥ 12cd
पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः । 13ab
दशावतारो दशभिर्द्दशैकेनानिरुद्धकः । 13cd
द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनन्तकः ॥ 13॥ 13ef


इत्यादिमहापुराणे आग्नेये शालग्रामादिमूर्त्तिलक्षणं नाम षट्चत्वारिंशो ऽध्यायः ।

Chapter 47

अथ सप्तचत्वारिंशो ऽध्यायः ।

शालग्रामादिपूजाकथनं
भगवानुवाच ।
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते । 1ab
त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥ 1cd
मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका 2 2ab


1 मध्यचक्राधः सूक्ष्मविन्दुक इति ङ, चिह्नितपुस्तकपाठः ।
2 काम्यार्थेवोभयात्मकेति घ, चिह्नितपुस्तकपाठः ।
Image-P.135


वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥ 2cd
चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं शृणु । 3ab
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥ 3cd
मध्यमा मूर्त्तिपूजा स्याच्चक्राब्जे चतुरस्रके । 4ab
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥ 4cd
कृतमुद्रात्रयश्चक्राद् वहिः पूर्वे गुरुं यजेत् । 5ab
आप्ये गणं वायवे च धातारं नैरृते यजेत् ॥ 5cd
विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः । 6ab
विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥ 6cd
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं । 7ab
पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं ॥ 7cd
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् । 8ab
व्यस्तेन च समस्तेन स्ववीजेन यजेत् क्रमात् ॥ 8cd
पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना । 9ab
प्रणवेनार्च्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥ 9cd
विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् । 10ab
शालग्रामस्य प्रथमा पूजाथो निष्फलोच्यते ॥ 10cd
पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् । 11ab
शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत् 1 11cd
पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैरासनं ददेत् । 12ab
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु ॥ 12cd
अष्टारमब्जं विलिखेत् गुर्वाद्यं 2 पूर्ववद्यजयेत् । 13ab


1 चतुर्भिः पूर्व्ववद्यजेदिति ङ, चिह्नितपुस्तकपाठः ।
2 गन्धाद्यैरिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.136


अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् । 13cd
पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा 1 ॥ 13॥ 13ef


इत्यादिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशो ऽध्यायः ॥

Chapter 48

अथाष्टाचत्वारिंशो ऽध्यायः ।

चतुर्विंशतिमूर्त्तिस्तोत्रकथनं ।
भगवानुवाच ।
ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः । 1ab
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं ॥ 1cd
ततो गदो माधवोरिशङ्खपद्मी नमामि तं । 2ab
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ 2cd
भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् । 3ab
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥ 3cd
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि । 4ab
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥ 4cd
गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि 2 5ab
हृषीकेशो गदाचक्री पद्मी शङ्खी च पातु नः ॥ 5cd
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः । 6ab
दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥ 6cd
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् । 7ab
सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥ 7cd


1 जितं तत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 चक्री गद्यथ शङ्ख्यपि इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.137


गदी चक्री शङ्खगदी 1 प्रद्युम्नः पद्मभृत् प्रभुः । 8ab
अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥ 8cd
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः । 9ab
अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥ 9cd
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् । 10ab
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥ 10cd
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि । 11ab
जनार्द्दनः पद्मचक्री शङ्खधारी गदाधरः ॥ 11cd
शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः । 12ab
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥ 12cd
आदिमूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्षणोभवत् । 13ab
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥ 13cd
केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् । 14ab
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्त्तिमत् । 14cd
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥ 14॥ 14ef


इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रं नाम अष्टाचत्वारिंशो ऽध्यायः ॥

Chapter 49

अथोनपञ्चाशो ऽध्यायः ।

मत्स्यादिलक्षणवर्णनम् ।
भगवानुवाच ।
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते । 1ab
मत्स्याकारस्तु मत्स्यः स्यात् कूर्म्मः कूर्म्माकृलिर्भवेत् ॥ 1cd


1 शङ्खपद्मी इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.138


नराङ्गो वाथ कर्त्तव्यो भूवराहो गदादिभृत् । 2ab
दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा ॥ 2cd
श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ । 3ab
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥ 3cd
नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः 1 4ab
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥ 4cd
छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः । 5ab
रामश्चापेषुहस्तः स्यात् कड्गी परशुनान्वितः ॥ 5cd
रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः । 6ab
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः ॥ 6cd
वामोर्द्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं । 7ab
मुषलं दक्षिणोर्द्ध्वे तु चक्रञ्चाधः सुशोभनं ॥ 7cd
शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः 2 8ab
ऊर्द्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः ॥ 8cd
धनुस्तूणान्वितः 3 कल्की म्लेच्छोत्सादकरो द्विजः । 9ab
अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः ॥ 9cd
लक्षणं वासुदेवादिनवकस्य वदामि ते । 10ab
दक्षिणोर्द्ध्वे गदा वामे वामोर्द्ध्वे चक्रमुत्तमं ॥ 10cd
ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् । 11ab
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ॥ 11cd
लाङ्गली मुषली रामो गदापद्मधरः स्मृतः । 12ab


1 वामोरुहृतदानव इति ङ, चिह्नितपुस्तकपाठः ।
2 गौराङ्गश्चायुधावृत इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
3 धनुर्वाणान्वित इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.139


प्रद्युम्नो दक्षिणे वज्रं 1 शङ्खं वामे धनुः करे ॥ 12cd
गदानाभ्यावृतः 2 ग्रीत्या प्रद्युम्नो वा धनुःशरी । 13ab
चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः ॥ 13cd
चतुर्मुखश्चतुर्ब्बाहुर्व्वृहज्जठरमण्डलः । 14ab
लम्बकूर्च्चो 3 जटायुक्तो व्रह्मा हंसाग्रवाहनः ॥ 14cd
दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका । 15ab
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ॥ 15cd
विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे । 16ab
गदाशरश्च वरदो वामे कार्मुकखेटके ॥ 16cd
चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः । 17ab
शङ्खचक्रधरो वापि विदारितमहासुरः ॥ 17cd
चतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः । 18ab
धारयन् बाहुना पृथ्वीं वामेन कमलाधरः 4 18cd
पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता । 19ab
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे ॥ 19cd
चक्रं खड्गं च मुषलं अङ्कुशं वामके करे । 20ab
शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते ॥ 20cd
लक्ष्मीः सरस्वती कार्य्ये विश्वरूपो ऽथ दक्षिणे । 21ab
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ॥ 21cd
वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरं । 22ab


1 दक्षिणे चक्रमिति ङ, चिह्नितपुस्तकपाठः ।
2 गदी रत्यावृत इति ङ, चिह्नितपुस्तकपाठः ।
3 लम्बभ्रुव इति ङ, चिह्नितपुस्तकपाटः ।
4 धारयन्नाकुलां पृथ्वीं वामेन कमलामध इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.140


लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणं 1 22cd
विंशद्बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके । 23ab
त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि ॥ 23cd
श्रिया धृतैकचरणो विमलाद्याभिरीडितः । 24ab
नाभिपद्मचतुर्व्वक्त्रो हरिशङ्करको हरिः ॥ 24cd
शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे । 25ab
रुद्रकेशवलक्ष्माङ्गो गौरी लक्ष्मीसमन्वितः ॥ 25cd
शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः । 26ab
वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः ॥ 26cd
दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह । 27ab
विश्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः ॥ 27cd


इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशो ऽध्यायः ॥

Chapter 50

अथ पञ्चाशोध्यायः ।

देवीप्रतिमालक्षणकथनं ।
भगवानुवाच ।
चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः । 1ab
शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं ॥ 1cd
डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकं । 2ab
कुठाङ्कुशचापांश्च घण्टाध्वजगदास्तथा ॥ 2cd
आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका । 3ab
तदधो महिषश्छिन्नमूर्द्धा पतितमस्तकः ॥ 3cd


1 चर्म चोत्तममिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.141


शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् । 4ab
शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्द्धजेक्षणः ॥ 4cd
सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं । 5ab
याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे ॥ 5cd
चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी । 6ab
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः ॥ 6cd
आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः 1 क्रमात् । 7ab
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं ॥ 7cd
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा । 8ab
पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं ॥ 8cd
वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया । 9ab
एतैरेवायुधैर्युक्ता शेषाः षोडशबहुकाः ॥ 9cd
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव । 10ab
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥ 10cd
चण्डा चण्दवती चैव चण्डरूपातिचण्डिका । 11ab
उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥ 11cd
नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः । 12ab
महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः ॥ 12cd
आलीढा नव 2 दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये । 13ab
तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक् ॥ 13cd
सैव रम्भा वने सिद्धा ऽग्निहीना ललिता तथा । 14ab
स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा ॥ 14cd


1 नवतत्वादिभिरिति ङ,चिह्नितपुस्तकपाठः ।
2 शालासु नव इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.142


याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्द्ध्विका । 15ab
लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता ॥ 15cd
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती । 16ab
कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी 1 16cd
कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते । 17ab
सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥ 17cd
गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता । 18ab
कुण्डाक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥ 18cd
शरचापौ दक्षिणे ऽस्या वामे चक्रं 2 धनुर्वृषे । 19ab
कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥ 19cd
चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् । 20ab
दण्डशङ्खासि 3 गदया वाराहो महिषस्थिता ॥ 20cd
ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये । 21ab
चामुण्डा कोटराघ्नी स्यान्निर्म्मांसा तु त्रिलोचना ॥ 21cd
निर्म्मांसा अस्थिसारा वा ऊर्द्ध्वकेशी कृशोदरी । 22ab
द्वीपिचर्म्मधरा वामे कपालं पट्टिशङ्करे ॥ 22cd
शूलं कर्त्री दक्षिणे ऽस्याः शवारूढ़ास्थितभूषणा । 23ab
विनायको नराकारो वृहत्कुक्षिर्गजाननः ॥ 23cd
वृहच्छुण्डो ह्युपवीतो मुखं सप्तकलं भवेत् । 24ab
विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिंशदङ्गुलं ॥ 24cd
कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता । 25ab
षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलं ॥ 25cd


1 मकरेद्धरि जाह्ननीति ख, घ, ङ, चिह्नितपुस्तत्रयकपाठः ।
2 वामे वज्रमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 शङ्खारि इति ख, चिह्नितपुस्तकपाठः ।
Image-P.143


नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे । 26ab
स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥ 26cd
सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः । 27ab
स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक् ॥ 27cd
दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः । 28ab
षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥ 28cd
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः । 29ab
शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा ॥ 29cd
शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे । 30ab
कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः ॥ 30cd
गजचर्म्मभृदूर्द्ध्वास्यपादा स्यात् रुद्रचर्चिका । 31ab
सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥ 31cd
तेन सा रुद्रचामुण्डा नाटेश्वर्य्यथ नृत्यती । 32ab
इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥ 32cd
नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान् । 33ab
दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं ॥ 33cd
बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं । 34ab
खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥ 34cd
सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका । 35ab
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥ 35cd
भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता । 36ab
एताः श्मशानजा रौद्रा अम्बाष्टकमिदं 1 स्मृतं ॥ 36cd


1 आद्याष्टकमिदमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.144


क्षमा शिवावृता 1 वृद्धा द्विभुजा विवृतानना । 37ab
दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता ॥ 37cd
यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः 2 38ab
पिङ्गाक्षाः स्युर्म्महारम्या रूपिण्योप्सरसः 3 सदा ॥ 38cd
साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः । 39ab
महाकालोसिमुण्डी स्याच्छूलखटकवांस्तथा ॥ 39cd
कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् । 40ab
गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥ 40cd
घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् । 41ab
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥ 41cd
दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं । 42ab
चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकं । 42cd
घण्टामालाकुलो देवो विस्फोटकविमर्दनः 4 ॥ 42॥ 42ef


इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशो ऽध्यायः ॥

Chapter 51

अथ एकपञ्चाशो ऽध्यायः ।

सूर्य्यादिप्रतिमालक्षणं ।
भगवानुवाच ।
ससप्ताश्वे सैकचक्रे रथे सूर्य्यो द्विपद्मधृक् । 1ab
मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ॥ 1cd
वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः । 2ab


1 शिवाच्युतेति ख, चिह्नितपुस्तकपाठः ।
2 वज्रदृष्टय इति ख, चिह्नितपुस्तकपाठः ।
3 महारथ्यो रूपिण्यो ऽप्सरस इति ख, चिह्नितपुस्तकपाठः ।
4 विस्फोटकरुणर्द्दन इति ग, ङ, चिह्नितपुस्तकपाठः ।
Image-P.145


बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥ 2cd
अथवाश्वासमारूढ़ः कार्य्य एकस्तु भास्करः । 3ab
वरदा द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ॥ 3cd
मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः । 4ab
सूर्य्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ॥ 4cd
वरुणः सूर्यनामा च सहस्रांशुस्तथापरः । 5ab
धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः ॥ 5cd
रविश्चैवाथ पर्ज्जन्यस्त्वष्टा मित्रोथ विष्णुकः । 6ab
मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः ॥ 6cd
कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः । 7ab
कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ॥ 7cd
धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः । 8ab
इडा सुषुम्णा विश्वार्च्चिरिन्दुसञ्ज्ञा प्रमर्दिनी 1 8cd
प्रहर्षिणी महाकाली कपिला च प्रबोधनी । 9ab
नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ॥ 9cd
वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत् । 10ab
तेजश्चण्डो महावक्रो 2 द्विभुजः पद्मखड्गभृत् 3 10cd
कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः । 11ab
बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ॥ 11cd


1 विश्वाची विन्दुसञ्ज्ञाप्रवर्द्धनी इति ङ, चिह्नितपुस्तकपाठः ।
2 महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्त्तण्डश्च महारक्त इति ङ, चिह्नितपुस्तकपाठः ।
3 पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः । खड्गचर्म्मभृदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.146


शुक्रः कुण्ड्यक्षमाली स्यात् किण्किणीसूत्रवाञ्छनिः 1 12ab
अर्द्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ॥ 12cd
अनन्तस्तक्षकः कर्क्कः पद्मो महाब्जः शङ्खकः । 13ab
कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः ॥ 13cd
इन्द्रो वज्री गजारूढश्छागगोग्निश्च शक्तिमान् । 14ab
यमो दण्डी च महिषे नैरृतः खड्गवान् करे ॥ 14cd
मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे । 15ab
गदी 2 कुवेरो मेषस्थ ईशानश्च जटी वृषे ॥ 15cd
द्विबाहवो लोकपाला विश्वकर्म्माक्षसूत्रभृत् । 16ab
हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पीड़िताश्रयः ॥ 16cd
वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश्च खे 3 17ab
दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः 4 17cd
क्षेत्रपालाः शूलवन्तः 5 प्रेता महोदराः कृशाः ॥ 17॥ 17ef


इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशो ऽध्यायः ॥

Chapter 52

अथ द्विपञ्चोशो ऽध्यायः ।

देवीप्रतिमालक्षणं ।
भगवानुवाच ।
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् । 1ab


1 शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
2 खड्गो इति घ, चिह्नितपुस्तकपाठः ।
3 मणिविद्याधराश्च खे इति ख, चिहितपुस्तकपाठः ।
4 विस्तृतानना इति ख, चिह्नितपुस्तकपाठः ।
5 शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः ।
Image-P.147


अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया 1 1cd
पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा । 2ab
लोला लक्ता बलाकेशी 2 लालसा विमला पुनः 3 2cd
हुताशा च विशालाक्षी हुङ्कारा वडवामुखी । 3ab
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥ 3cd
सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना । 4ab
साराख्या रुद्रशङ्ग्राही 4 सम्बरा तालजङ्घिका ॥ 4cd
रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी । 5ab
मेघनादा प्रचण्डोग्रा कालकर्णी 5 वरप्रदा ॥ 5cd
चन्द्रा चन्द्रावली 6 चैव प्रपञ्चा प्रलयान्तिका । 6ab
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥ 6cd
धमनी तापनी चैव रागिणी 7 विकृतानना । 7ab
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥ 7cd
यमजिह्वा जयन्ती च दुर्जया च जयान्तिका । 8ab
विडाली रेवती चैव पूतना विजयान्तिका ॥ 8cd
अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः । 9ab


1 क्षपणा क्षमा इति ख, चिह्नितपुस्तकपाठः । क्षपणा क्षपा इति ग, घ, चिह्नितपुस्तकद्वयकपाठः ।
2 लोला रक्ता च लोकेशो इति ग, घ, ङ, चिह्निaपुस्तकत्रयपाठः ।
3 विमला तत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
4 रससङ्ग्राही इति ख, चिह्नितपुस्तकपाठः । वसुसङ्ग्राही इति घ, चिह्नितपुस्तकपाठः ।
5 कालवर्णी इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
6 चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः ।
7 वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः ।
Image-P.148


भैरवश्चार्कहस्तः स्यात् कूर्परास्यो 1 जटेन्दुभृत् ॥ 9cd
खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः । 10ab
चापत्रिशूलखट्वाङ्गपाशकार्द्धवरोद्यतः ॥ 10cd
गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः । 11ab
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥ 11cd
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं । 12ab
तत्षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत् ॥ 12cd
मन्दिराग्निदलारूढं 2 सुवर्णरसकान्वितं । 13ab
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥ 13cd
वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः । 14ab
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥ 14cd
शूलं गलन्तिका कुण्डी 3 वरदा च चतुर्भुजा । 15ab
अब्जस्था ललिता स्कन्दगणादर्शशलाकया 4 15cd
चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् । 16ab
दक्षे वामे नागपाशं चर्म्माग्कुशकुठारकं । 16cd
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥ 16॥ 16ef


इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥


1 दन्तुरास्य इति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
2 मण्डलाग्निदलारूढमिति ङ, चिह्नितपुस्तकपाठः ।
3 शूलं गलन्ती कुण्डी चेति ख, चिह्नितपुस्तकपाठः ।
4 स्कन्दगणा दश विनायका इति ख, चिहिनितपुस्तकपाठः ।
5 अत्र चण्डिकादशहस्तेषु खड्गशूलारिशक्तिधृगिति युक्तःपाठः ।
अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः ।
Image-P.149


Chapter 53

अथ त्रिपञ्चाशत्तमोध्यायः ।

लिङ्गलक्षणं ।
भगवानुवाच ।
लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु । 1ab
दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ॥ 1cd
विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् । 2ab
आयामं मूर्त्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत् ॥ 2cd
ब्रह्मविष्णुशिवांशेषु वर्द्धमानोयमुच्यते । 3ab
चतुरस्रेस्य वर्णार्द्धं गुह्यकोणेषु लाञ्छयेत् ॥ 3cd
अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः । 4ab
षोडशास्रं ततः कुर्य्याद्द्वात्रिंशास्रं ततः पुनः ॥ 4cd
चतुःषष्ट्यस्रकं कृत्वा वर्त्तुलं साधयेत्ततः । 5ab
कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ॥ 5cd
विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् । 6ab
भागार्द्धार्द्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ॥ 6cd
त्रिषु भागेषु सदृशमायामं यस्य विस्तरः । 7ab
तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥ 7cd
दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते । 8ab
सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं ॥ 8cd
मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं 1 बुधः । 9ab
षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा ॥ 9cd
तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते । 10ab
यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ॥ 10cd
अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं परित्यजेत् । 11ab


1 व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.150


अष्टधा तद्द्वयं कृत्वा ऊर्द्ध्वभागत्र्यं त्यजेत् ॥ 11cd
ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् । 12ab
भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः ॥ 12cd
एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया । 13ab
सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ॥ 13cd
ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं । 14ab
न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ॥ 14cd
तथा समुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् । 15ab
द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् ॥ 15cd
त्रिभागं मध्यतः खातं कृत्वा पीठं 1 विभाजयेत् । 16ab
स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत् ॥ 16cd
बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् । 17ab
खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ॥ 17cd
मेखलाषोडशांशेन खातं वा तत्प्रमाणतः । 18ab
उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु 2 कारयेत् ॥ 18cd
भूमौ प्रविष्टमेकं तु भागैकेन 3 पिण्डिका । 19ab
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ॥ 19cd
द्व्यंशेन चोर्द्ध्वपट्टन्तु 4 एकांशाः शेषपट्टिका । 20ab
भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः ॥ 20cd
निर्गमं भागमेकं तु यावद्वै शेषपट्टिका । 21ab
प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ॥ 21cd


1 मध्यतः कृत्वा ततः पीठमिति घ, चिह्नितपुस्तकपाठः ।
2 विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः ।
3 भागेनैकेनेति ग, चिह्नितपुस्तकपाठः ।
4 चार्द्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः ।
Image-P.151


मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्द्धतः । 22ab
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै । 22cd
पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम् ॥ 22॥ 22ef


इत्यादिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥

Chapter 54

अथ चतुःपञ्चाशत्तमोध्यायः ।

लिङ्गमानादिकथनं ।
भगवानुवाच ।
वक्ष्याम्यन्यप्रकारेण 1 लिङ्गमानादिकं शृणु । 1ab
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् ॥ 1cd
भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः । 2ab
पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरं ॥ 2cd
ततो दारुमयं पुण्यं दारुजात् शैलजं वरं । 3ab
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं ॥ 3cd
राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं । 4ab
रङ्गजं 2 रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं ॥ 4cd
रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् । 5ab
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ॥ 5cd
वामे च स्वेच्छया तेषां पीठप्रासादकल्पना । 6ab
पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितं ॥ 6cd
पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत् । 7ab
हस्तोत्तरविधं शैलं 3 दारुजं तद्वदेव हि ॥ 7cd


1 प्रवक्ष्ये ऽहं प्रकारेणेति ग, चिह्नितपुस्तकपाठः ।
2 रत्नजमिति ख, चिह्नितपुस्तकपाठः ।
3 हस्ते तु विविधं शैलमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.152


चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् 1 8ab
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चशाङ्गुलम् ॥ 8cd
द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः । 9ab
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ॥ 9cd
एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः । 10ab
मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च ॥ 10cd
इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् । 11ab
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ॥ 11cd
षदादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं । 12ab
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ॥ 12cd
षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम् । 13ab
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ॥ 13cd
षोडशांशे च वेदांशे युगं लुप्त्वोर्द्ध्वदेशतः । 14ab
द्वात्रिंशत्षोडशांशांश्च 2 कोणयोस्तु विलोपयेत् ॥ 14cd
चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा 3 15ab
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं 4 15cd
धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात् । 16ab
लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात् ॥ 16cd
गर्भार्द्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरं । 17ab
तयोर्म्मध्ये च सूत्राणि सप्त सम्पातयेत् समं ॥ 17cd


1 वनमङ्गुलमानेन द्वारगर्भकरे स्थितमिति ग, चिह्नितपुस्तकपाठः ।
2 द्वात्रिंशत्षोडशार्द्धञ्चेति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
3 विंशतिस्त्रिगुणैस्तथेति घ, चिह्नितपुसुतकपाठः ।
4 वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं भवेद् ध्रुवमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.153


एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमं । 18ab
द्व्यन्तरो वामवामञ्च 1 लिङ्गानां दीर्घता नव ॥ 18cd
हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः । 19ab
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ॥ 19cd
एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः । 20ab
लिङ्गानि घटयेद्धीमान् षट्सु चाष्टोत्तरेषु च ॥ 20cd
स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका । 21ab
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितं ॥ 21cd
चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् । 22ab
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकं ॥ 22cd
चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकं । 23ab
लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै ॥ 23cd
ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिं । 24ab
तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं ॥ 24cd
ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः । 25ab
स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः ॥ 25cd
भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः । 26ab
उक्तायामस्य चार्द्धांशे नागांशैर्भाजिते क्रमात् ॥ 26cd
रसभूतांशषष्ठांशत्र्यंशाधिकशरैर्भवेत् । 27ab
आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ॥ 27cd
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः । 28ab
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः ॥ 28cd
आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा 2 29ab


1 अन्तरे वामवामे चेति ङ, चिह्नितपुस्तकपाठः ।
2 स्थौल्याद् यववृद्ध्या तदष्टधा इति ख, चिह्नितपुस्तकपाठः ।
Image-P.154


त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च 1 29cd
पञ्चविंशतिलिङ्गानि नाद्ये 2 देवार्च्चिते तथा । 30ab
पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि ॥ 30cd
चतुर्दशसहस्राणि चतुर्दशशतानि च । 31ab
एवमष्टाङ्गुलविस्तारो 3 नवैककरगर्भतः ॥ 31cd
तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि 4 सूत्रकैः । 32ab
विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयं ॥ 32cd
विभागादूर्द्ध्वमष्टास्रो 5 द्व्यष्टास्रः स्याच्छिवांशकः । 33ab
पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ॥ 33cd
मूर्द्ध्वान्तो भूतभागेशो व्यक्ते ऽव्यक्ते च तद्वति । 34ab
पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते ॥ 34cd
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः 6 35ab
एकैकस्य चतुर्भेदैः 7 काम्यभेदात् फलं वदे ॥ 35cd
लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् । 36ab
आद्यभागं चतुर्द्धा तु 8 विस्तारोच्छ्रायतो भजेत् ॥ 36cd
चत्वारि तत्र सूत्राणि 9 भागभागानुपातनात् । 37ab


1 पूजयेत् सर्व्वमेव चेति ङ, चिह्नितपुस्तकपाठः ।
2 नाढ्ये देवार्च्चित इति ख, ग, चिह्नितपुस्तकपाठः ।
3 एवमष्टाङ्गुaलविन्यास इति ग, घ, चिह्नितपुस्तकपाठः ।
4 छिन्द्यात् कोणानीति ख, चिह्नितपुस्तकपाठः । छिन्द्यात् कोषाणि इति ङ, चिह्नितपुस्तकपाठः ।
5 द्विभागादूर्द्धवमष्टास्र इति ख, ङ, चिह्नितपुस्तकपाठः ।
6 बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः ।
7 चतुर्भागैरिति ख, चिह्नितपुस्तकपाठः ।
8 अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः ।
9 चत्वारि तत्र छत्राणि इति ग, घ, ङ, चिह्नितपुस्तकचतुष्ट्यपाठः ।
Image-P.155


पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ॥ 37cd
त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् । 38ab
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये 1 38cd
चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् । 39ab
अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः शृणु ॥ 39cd
अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकं 2 40ab
पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ॥ 40cd
चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु । 41ab
पूजाभागं प्रकर्त्तव्यं मूर्त्त्यग्निपदकल्पितं 3 41cd
अर्क्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्त्तयत् । 42ab
शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः ॥ 42cd
वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः । 43ab
कराभ्यां मुकुलीकृत्य 4 प्रतिमायाः प्रमाणतः ॥ 43cd
मुखं प्रति समः कार्यो विस्तारादष्टमांशतः । 44ab
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु ॥ 44cd
कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् । 45ab
भुजौ चतुर्भिर्भागैस्तु कर्त्तव्यौ पश्चिमोर्जितं ॥ 45cd
विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः । 46ab
एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनं ॥ 46cd
ललाटनासिकावक्त्रग्रीवायाञ्च विवर्त्तयेत् । 47ab


1 कुक्कुटाण्डं सुधाद्वये इति ख, चिह्नितपुस्तकपाठः ।
2 द्वैकहान्या सुताह्वयमिति ख, चिह्नितपुस्तकपाठः ।
3 ऋत्वग्निपदकल्पितमिति ख, चिह्नितपुस्तकपाठः, मुखभागं प्रकर्त्तव्यं मूलाग्निपदकल्पितमिति ङ, चिह्नितपुस्तकपाठः ।
4 कर्णाभ्यां कुण्डलीकृत्वेति ग, चिह्नितपुस्तकपाठः ।
Image-P.156


भुजाच्च पञ्चमांशेन 1 भुजहीनं विवर्तयेत् ॥ 47cd
विस्तारस्य षडंशेन मुखैर्निर्गमनं हितं । 48ab
सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं ॥ 48cd


इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमो ऽध्यायः ।

Chapter 55

अथ पञ्चपञ्चाशत्तमो ऽध्यायः ।

पिण्डिकालक्षणकथनं ।
भगवानुवाच ।
अतः परं प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् । 1ab
दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता ॥ 1cd
उच्छ्रितायामतोर्द्धेन सुविस्तारार्द्धभागतः । 2ab
तृतीयेन तु वा तुल्यं 2 तत्त्रिभागेण मेखला ॥ 2cd
खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् । 3ab
विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ॥ 3cd
सममूलस्य विस्तारमग्रे कुर्य्यात्तदर्द्धतः । 4ab
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ॥ 4cd
पिण्डिकार्द्धेन वा तुल्यं 3 दैर्घ्यमीशस्य 4 कीर्तितम् । 5ab
ईशं वा 5 तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ॥ 5cd


1 भुजार्द्धपञ्चमांशेनेति ङ, चिह्नितपुस्तकपाठः ।
2 त्रिभागेन तु बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ।
3 पिण्डिकार्द्धेन बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ।
4 दैर्घ्यं कुशस्येति ग, ङ, चिह्नितपुस्तकपाठः ।
5 कुशम्बाहुल्यदीर्घञ्चेति ङ, चिह्नितपुस्तकपाठः ।
Image-P.157


उच्छ्रायं पूर्ववत् कुर्य्याद्भागषोडशसङ्ख्यया । 6ab
अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ॥ 6cd
शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा । 7ab
पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ॥ 7cd
प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते 1 8ab
गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च ॥ 8cd
पिण्डिकापि यथाशोभं कर्त्तव्या सततं हरेः । 9ab
सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते । 9cd
देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते ॥ 9॥ 9ef


इत्यादिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥

Chapter 56

अथ षट्पञ्चाशत्तमो ऽध्यायः ।

दिक्पालयागकथनं ।
भगवानुवाच ।
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः । 1ab
प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥ 1cd
इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः । 2ab
गर्भसूत्रं तु निःसार्य 2 प्रासादस्याग्रतो गुरुः ॥ 2cd
अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् । 3ab
स्नानार्थं कलशार्थञ्च यागद्रव्यार्थमर्द्धतः ॥ 3cd
त्रिभागेणार्द्धभागेन वेदिं कुर्य्यात्तु शोभनाम् । 4ab


1 प्रतिमाद्रव्यमुच्यते इति ख, ङ, चिह्नितपुस्तकपाठः ।
2 गर्भसूत्रन्तु निर्म्मायेति ङ, चिह्नितपुस्तकपाठः ।
Image-P.158


कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ॥ 4cd
पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् । 5ab
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥ 5cd
अङ्गुलीयप्रभृतिभिर्मूर्त्तिपान् वलयादिभिः । 6ab
कुण्डे कुण्डे स्थापयेच्च मूर्त्तिपांस्तत्र पारगान् ॥ 6cd
चतुष्कोणे चार्द्धकोणे वर्त्तुले पद्मसन्निभे । 7ab
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं ॥ 7cd
प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं । 8ab
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् ॥ 8cd
पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् । 9ab
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् ॥ 9cd
प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं सुदर्शनं । 10ab
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः ॥ 10cd
वैपुल्यं चास्य कुर्वीत षोड़शाङ्गुलसम्मितं । 11ab
सप्तहस्तोच्छ्रितं वास्य कुर्य्यात् कुण्डं सुरोत्तम 1 11cd
अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः । 12ab
रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात् 2 12cd
कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः । 13ab
शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ 13cd
पूज्या कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः । 14ab
जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः ॥ 14cd


1 समाहित इति ङ, चिह्नितपुस्तकपाठः ।
2 श्वेतवर्नक्रमात् ध्वजा इति ङ, चिह्नितपुस्तकपाठः । कृष्णवर्णः क्रमाद्ध्वजा इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.159


अष्टाविंशाधिकशतं कालमण्डनवर्जिताः । 15ab
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः ॥ 15cd
घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान् । 16ab
चतुरः स्थापयेत् कुम्भानाजिघ्रेति च मन्त्रतः ॥ 16cd
कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् । 17ab
इन्द्रागच्छ देवराज वज्रहस्त गजस्थित ॥ 17cd
पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते । 18ab
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः ॥ 18cd
आगच्छाग्ने शक्तियुत 1 छागस्थ बलसंयुत । 19ab
रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते ॥ 19cd
अग्निमूर्द्धेतिमन्त्रेण 2 यजेद्वा आग्नेय नमः । 20ab
महिषस्थ यमागच्छ दण्डहस्त महाबल ॥ 20cd
रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते । 21ab
वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं ॥ 21cd
नैरृतागच्छ खड्गाढ्य बलवाहनसंयुत 3 22ab
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं ॥ 22cd
एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर्न्नरः । 23ab
मकरारूढ वरुण पाशहस्त महाबल ॥ 23cd
आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते । 24ab
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥ 24cd
आगच्छ वायो सबल ध्वजहस्त सवाहन । 25ab
वायव्यं रक्ष देवैस्त्वं समरुद्भिर्न्नमोस्तु ते ॥ 25cd


1 शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः ।
2 अग्निमूर्द्ध्वेति अर्घ्याद्यैरिति ख, चिह्नितपुस्तकपाठः ।
3 नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः ।
Image-P.160


वात इत्यादिभिश्चार्वेदोन्नमो वायवेपि वा । 26ab
आगच्छ सोम सबला गदाहस्त सवाहन ॥ 26cd
रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते । 27ab
सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥ 27cd
आगच्छेशान सबल शूलहस्त वृषस्थित । 28ab
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥ 28cd
ईशानमस्येति यजेदीशानाय नमोपि वा । 29ab
ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक ॥ 29cd
सलोकोर्द्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते । 30ab
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥ 30cd
अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर । 31ab
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते । 31cd
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥ 31॥ 31ef


इत्यादिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥

Chapter 57

अथ सप्तपञ्चाशोध्यायः ।

कुम्भाधिवासविधिः ।
भगवानुवाच ।
भूमेः परिग्रहं कुर्य्यात् क्षिपेद्व्रीहींश्च सर्षपान् । 1ab
नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः ॥ 1cd
भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं । 2ab
अस्त्रमन्त्रेण करकं 1 तत्र चाष्टशतं यजेत् ॥ 2cd
अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् । 3ab


1 अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.161


प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥ 3cd
सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं । 4ab
योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ॥ 4cd
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च । 5ab
विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं ॥ 5cd
वामनं दिक्षु वाय्वादौ 1 श्रीधरञ्च हृषीकपं । 6ab
पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे ॥ 6cd
अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे 2 सवेदिके । 7ab
स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत् ॥ 7cd
स्नानकुम्भेषु कुम्भांस्तांश्चतुर्द्दिक्ष्वधिवासयेत् । 8ab
कलशाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥ 8cd
वटोदुम्बरकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान् 3 9ab
पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥ 9cd
पल्लवांस्तु समानीय पूर्वकुम्भे 4 विनिक्षिपेत् । 10ab
पद्मकं रोचनां दूर्व्वां दर्भपिञ्जलमेव च ॥ 10cd
जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं । 11ab
सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥ 11cd
सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा । 12ab
नद्याः समुद्रगामिन्या विशेषात् जाह्नवीमृदं ॥ 12cd
गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत् । 13ab
विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं ॥ 13cd


1 दिक्षु वह्न्यादाविति ङ, चिह्नितपुस्तकपाठः ।
2 चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः ।
3 पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः ।
4 पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.162


सहदेवां महादेवीं 1 बलां व्यघ्रीं सलक्ष्मणां । 14ab
ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत् ॥ 14cd
वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् । 15ab
जाह्नवीवालुकातोयं विन्यसेदपरे घटे ॥ 15cd
वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां । 16ab
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥ 16cd
तीर्थपर्वतमृद्भिश्च युक्तमप्यपरे न्यसेत् । 17ab
नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥ 17cd
चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् । 18ab
वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥ 18cd
एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम । 19ab
नदीनदतडागानां सलिलैरपरं न्यसेत् ॥ 19cd
एकाशीतिपदे चान्यान्मण्डपे कलशान् न्यसेत् । 20ab
गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥ 20cd
यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा । 21ab
तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥ 21cd
पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा । 22ab
पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे 2 22cd
कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं । 23ab
उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितं ॥ 23cd
पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले । 24ab
गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥ 24cd


1 सहदेवां सिंहपुच्छीमिति ख, चिह्नितपुस्तकपाठः । सहदेवां जवां सिंहीमिति ङ, चिह्नितपुस्तकपाठः ।
2 मधुपर्कन्तु पश्चिमे इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.163


मुरामांसी चामलकं सहदेवां निशादिकं । 25ab
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥ 25cd
शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं । 26ab
हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं ॥ 26cd


इत्यादिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमो ऽध्यायः ॥

Chapter 58

अथ अष्टपञ्चाशत्तमो ऽध्यायः ।

स्नानादिविधिः ।
भगवानुवाच ।
ऐशान्यां जनयेत् कुण्डं गुरुर्व्वह्निञ्च वैष्णवं । 1ab
गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान् ॥ 1cd
प्रोक्षयेत् कारुशालायां शिल्पिभिर्मूर्त्तिपैर्व्रजेत् । 2ab
तूर्य्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे ॥ 2cd
विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः । 3ab
पट्टवस्त्रेण कर्त्तव्यं देशिकस्यापि कौतुकं ॥ 3cd
मण्डपे 1 प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् । 4ab
नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्म्मणा ॥ 4cd
प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः । 5ab
त्वयि सम्पूजयामीशे नारायणमनामयं ॥ 5cd
रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव । 6ab
एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं ॥ 6cd
शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत् । 7ab
चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः ॥ 7cd


1 मण्डले इति ग, चिह्नितपुस्तकपाठः ।
Image-P.164


अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके । 8ab
ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा ॥ 8cd
दूर्व्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः । 9ab
मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः ॥ 9cd
हिरण्यगर्भमन्त्रेण इमं मेति च कीर्त्तयेत् । 10ab
घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः ॥ 10cd
मसूरपिष्टे नोद्वर्त्य 1 अतो देवेति कीर्त्तयन् । 11ab
क्षालयेदुष्णतोयेन सप्त ते ऽग्रेति देशिकः ॥ 11cd
द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् । 12ab
नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः ॥ 12cd
समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च । 13ab
शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा 2 13cd
पञ्चमृद्भिर्हिरण्येति स्नापयेत्परमेश्वरं । 14ab
सिकताद्भिरिमं मेति वल्मीकोदघटेन च ॥ 14cd
तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः । 15ab
यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः ॥ 15cd
पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः । 16ab
विश्वतश्चक्षुः सौम्येन पूर्वेण कलसेन च ॥ 16cd
सोमं राजानमित्येवं विष्णो रराटं दक्षतः । 17ab
हंसः शुचिः पश्चिमेन कुर्य्यादुद्वर्त्तनं हरेः ॥ 17cd
मूर्द्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत् 3 18ab
मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः ॥ 18cd


1 मयूरपिच्छेनोद्वर्त्य इति घ, चिह्नितपुस्तकपाठः ।
2 गायत्र्या गन्धवारिणा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
3 धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः ।
Image-P.165


इदमापेति च घटैरेकाशीतिपदस्थितैः । 19ab
एह्येहि भगवन् विष्णो लोकानुग्राहकारक ॥ 19cd
यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते । 20ab
अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनं ॥ 20cd
मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् । 21ab
हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं ॥ 21cd
मधुवाता मधुपर्क्कं मयि गृह्णामि चाचमेत् । 22ab
अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः ॥ 22cd
काण्डान्निर्म्मञ्छनं कुर्य्याद्गन्धं गन्धवतीति च । 23ab
उन्नयामीति 1 माल्यञ्च इदं विष्णुः पवित्रकं ॥ 23cd
वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं । 24ab
महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् ॥ 24cd
धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्जनं । 25ab
युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं ॥ 25cd
इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः । 26ab
चामरन्तु विकर्णेन भूषां रथन्तरेण च ॥ 26cd
व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकं । 27ab
वेदाद्यैः संस्तुतिं कुर्य्याद्धरेः पुरुषसूक्ततः ॥ 27cd
सर्वमेतत्समं कुर्य्यात् पिण्डिकादौ हरादिके । 28ab
देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् ॥ 28cd
उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् । 29ab
शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना ॥ 29cd
अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा । 30ab
श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः ॥ 30cd


1 तत्त्वायामीति घ, चिह्नितपुस्तकपाठः ।
Image-P.166


मृगराजं वृषं नागं व्यजनं कलशं तथा । 31ab
वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं ॥ 31cd
दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति । 32ab
उखां पिधानकं पात्रमम्बिकां दर्व्विकां ददेत् ॥ 32cd
मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा । 33ab
तथा भोजनभाण्डानि गृहोपकारणानि च ॥ 33cd
शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं । 34ab
खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः ॥ 34cd


इत्यादिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशो ऽध्यायः ॥

Chapter 59

अथोनषष्टितमो ऽध्यायः ।

अधिवासनकथनं ।
भगवानुवाच ।
हरेः सान्निध्यकरणमधिवासनमुच्यते । 1ab
सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं ॥ 1cd
ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं 1 2ab
निःसार्य्यात्मैकतां कृत्वा स्वस्मिन् 2 सर्वगते विभौ ॥ 2cd
योजयेन्मरुता पृथ्वीं वह्निवीजेन दीपयेत् । 3ab
संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥ 3cd


1 मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः ।
2 कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः ।
Image-P.167


अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः 1 सह । 4ab
तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः ॥ 4cd
आकाशं मनसाहत्य मनोहङ्करणे कुरु 2 5ab
अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥ 5cd
अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः 3 6ab
स तामव्याकृतिं मायामवष्टभ्य सिसृक्षया ॥ 6cd
सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः । 7ab
क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् ॥ 7cd
अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं । 8ab
अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह ॥ 8cd
तस्मिन् हिरण्मयञ्चाण्डं सो ऽसृजत् पञ्चभूतवत् । 9ab
तस्मिन् सङ्क्रामिते जीवे 4 शक्तिरात्मोपसंहृता ॥ 9cd
प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते । 10ab
जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥ 10cd
प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिकी 5 11ab
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥ 11cd
अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः । 12ab
शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृता ॥ 12cd
ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु । 13ab


1 साध्यार्थैर्विभवैरिति ख, ग, चिह्नितपुस्तकपाठः ।
साध्याद्यैर्विभवैरिति ङ, चिहिनितपुस्तकपाठः ।
2 मनसाहृत्य मनो ऽहङ्करणे क्षरे इति घ, चिह्नितपुस्तकपाठः ।
3 वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः ।
4 सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः ।
5 चाष्टवृत्तिकीति ङ, चिह्नितपुस्तकपाठः ।
Image-P.168


त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥ 13cd
पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः । 14ab
कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु ॥ 14cd
आकाशवायुतेजांसि सलिलं पृथिवी तथा । 15ab
स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥ 15cd
एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः । 16ab
जीवभूतं मकारन्तु देवस्य 1 व्यापकं न्यसेत् ॥ 16cd
प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् । 17ab
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः ॥ 17cd
फकारमपि तत्रैव अहङ्कारमयं न्यसेत् । 18ab
मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं ॥ 18cd
शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् । 19ab
स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥ 19cd
दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् 2 20ab
थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥ 20cd
तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत् । 21ab
णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि ॥ 21cd
डकारं नेत्रयुग्मे तु रसनायां ठकारकं । 22ab
टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥ 22cd
झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः । 23ab
जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके ॥ 23cd
विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके । 24ab
वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥ 24cd


1 मकारन्तद्देहस्येति ङ, चिह्नितपुस्तकपाठः ।
2 विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.169


खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् । 25ab
ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥ 25cd
हृत्पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतं । 26ab
द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥ 26cd
कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् । 27ab
तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं ॥ 27cd
हकारं 1 विन्यसेत्तत्र प्रणवेन सुरोत्तमः । 28ab
ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥ 28cd
ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः । 29ab
ओं वं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः 2 29cd
स्थाने तु प्रथमा योज्या द्वितीया आसने मता । 30ab
तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि 3 30cd
प्रत्यर्च्चायां 4 पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः । 31ab
हूङ्कारं 5 विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं ॥ 31cd
यां मूर्त्तिं स्थापयेत्तस्मात् 6 मूलमन्त्रं न्यसेत्ततः । 32ab
ओं नमो भगवते वासुदेवाय मूलकं ॥ 32cd
शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् । 33ab
भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् ॥ 33cd
नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् । 34ab


1 क्रूंकारमिति ङ, चिह्नितoपुस्तकपाठः ।
2 ओं षं परमेष्ट्यात्मने यन्नमः पुरुषात्मने । लं नमो विश्वात्मने वं निवृत्त्यात्मने नमः ॥ नं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः इति ङ, चिह्नितपुस्तकपाठः ।
3 दानकर्म्मणि इति ङ, चिह्नितपुस्तकपाठः ।
4 अभ्यर्च्चायामिति ख, चिह्नितपुस्तकपाठः ।
5 क्षकारमिति ख, चिह्नितपुस्तकपाठः ।
6 या मूर्त्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः ।
Image-P.170


गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् ॥ 34cd
मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् । 35ab
कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥ 35cd
हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके । 36ab
दामोदरं पादयोश्च हृदयादिषडङ्गकं ॥ 36cd
एतत् साधारणं प्रोक्तमादिमूर्त्तेस्तु सत्तम । 37ab
अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥ 37cd
तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् । 38ab
यस्या मूर्त्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥ 38cd
तत् स्वरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् । 39ab
हृदयादीनि देवेश मूलञ्च दशमाक्षरं ॥ 39cd
यथा देवे तथा देहे 1 तत्त्वानि विनियोजयेत् । 40ab
चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा 2 40cd
पूर्व्ववच्चासनं ध्यायेत्सगात्रं 3 सपरिच्छदं । 41ab
शुभञ्चक्रं द्वादशारं ह्युपरिष्टाद्विचिन्तयेत् ॥ 41cd
त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं । 42ab
पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥ 42cd
पूजयेदारकाग्रेषु 4 सूर्य्यं द्वादशधा पुनः । 43ab


1 यथा तत्त्वे तथा देहे इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ।
2 यजेद् गन्धादिना तत इति ख, चिह्नितपुस्तकपाठः । यजेदाहुतिभिस्तथा इति ग, चिह्नितपुस्तकपाठः ।
3 ध्यायेत् तन्मात्रमिति ग, चिह्ह्नितपुस्तकपाठः । ध्यायेत् समात्रमिति ख, चिह्नितपुस्तकपाठः ।
4 पूजयेद् द्वादशाग्रेषु इति ख, चिह्नितपुस्तकपाठः । पूजयेद् द्वादशारेषु इति घ, चिह्नितपुस्तकपाठः ।
Image-P.171


कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥ 43cd
सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः । 44ab
पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥ 44cd
तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः 1 45ab
प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरान् 2 45cd
गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् । 46ab
द्वादशाक्षरवीजैस्तु केशवादीन् समर्च्चयेत् ॥ 46cd
द्वादशारे मण्डले तु लौकपालादिकं क्रमात् । 47ab
प्रतिमामर्च्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः ॥ 47cd
पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां । 48ab
जननादिक्रमात् पश्चाज्जनयेद्वैष्णवानलं ॥ 48cd
हुत्वाग्निं वैष्णवैर्म्मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः । 49ab
तत् सिक्त्वा प्रतिमामूर्द्ध्नि वह्निप्रणयनं चरेत् ॥ 49cd
दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः । 50ab
अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥ 50cd
उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे । 51ab
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥ 51cd
पलाशसमिधानान्तु अष्टोत्तरसहस्रकं । 52ab
कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ॥ 52cd
साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं । 53ab
कुर्य्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥ 53cd
द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन् मस्तकं ततः । 54ab
घृतं दधि पयो हुत्वा स्पृशेन्मूर्द्धन्यथो ततः ॥ 54cd


1 ध्यात्वा पश्चात्तु देशिक इति ङ, चिह्नितपुस्तकपाठः ।
2 तत्र तान् पूजयेत् सुरामिति ग, चिह्नितपुस्तकपाठः ।
Image-P.172


स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः 1 55ab
गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥ 55cd
दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं । 56ab
होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् ॥ 56cd
सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् । 57ab
दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरं । 57cd
ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥ 57॥ 57ef


इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमो ऽध्यायः ॥

Chapter 60

अथ षष्टितमोध्यायः ।

वासुदेवप्रतिष्ठादिविधिः ।
भगवानुवाच ।
पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा । 1ab
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः ॥ 1cd
देवमनुषपैशाचभागेषु न कदाचन । 2ab
ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज ॥ 2cd
देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका 3 3ab
नपुंसकशिलायान्तु रत्नन्यासं समाचरेत् ॥ 3cd
नारसिंहेन हुत्वाथ रत्नन्यासं 4 च तेन वै । 4ab


1 चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः ।
2 घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः ।
3 स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः ।
4 वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.173


व्रीहीन् रत्नांस्त्रिधातूंश्च लोहादींश्चन्दनादिकान् ॥ 4cd
पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि । 5ab
अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्गुलुनावृतः ॥ 5cd
रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः । 6ab
सशलाकैर्दर्भपुञ्जैः सहदेवैः समन्वितैः ॥ 6cd
सवाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत् । 7ab
प्रोक्षयेद्दर्भतोयेन 1 नदीतीर्थोदकेन च ॥ 7cd
होमार्थे स्थण्डिलं कुर्य्यात् सिकताभिः समन्ततः । 8ab
सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं ॥ 8cd
अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् । 9ab
पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं ॥ 9cd
त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् । 10ab
अष्टार्णेनाष्टशतकं 2 आज्यं पूर्णां प्रदापयेत् ॥ 10cd
शान्त्युदकं आम्रपत्रैः 3 मूलेन शतमन्त्रितं । 11ab
सिञ्चेद्देवस्य तन्मूर्द्ध्नि श्रीश्च ते ह्यनया ऋचा ॥ 11cd
ब्रह्मयानेन 4 चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते । 12ab
तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ॥ 12cd
शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं । 13ab
गीतवेदादिशब्दैश्च 5 प्रासादद्वारि धारयेत् ॥ 13cd


1 प्रोक्षयेद् गन्धतोयेनेति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 अष्टान्तेनाष्टशतकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
3 शान्त्युदकमाज्यपात्रैरिति ख, चिह्नितपुस्तकपाठः ।
4 ब्रह्मपात्रेणेति ङ, चिह्नितपुस्तकपाठः ।
5 गीतवाद्यादिशब्दैश्च इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.174


स्त्रीभिर्विप्रैर्मङ्गलाष्टघटैः 1 संस्नापयेद्धरिं । 14ab
ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥ 14cd
अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च । 15ab
स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ॥ 15cd
ओं त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम । 16ab
संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः ॥ 16cd
ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि । 17ab
पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ॥ 17cd
पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिं । 18ab
ध्यायेत् स्वं तस्य मूर्त्तिन्तु पृथिवी तस्य पीठिका ॥ 18cd
कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः । 19ab
जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं ॥ 19cd
चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं । 20ab
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ॥ 20cd
ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु व्यवस्थितं । 21ab
हृदयात् प्रतिमाविम्बे स्थिरो भव परेश्वर ॥ 21cd
सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः । 22ab
अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः ॥ 22cd
ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं । 23ab
सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ॥ 23cd
सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् । 24ab
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् ॥ 24cd
नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने । 25ab


1 मङ्गलाष्टघटे इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
Image-P.175


ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ॥ 25cd
गुणातिक्रान्तवेशाय 1 पुरुषाय महात्मने । 26ab
अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥ 26cd
यच्च ते परमं तत्त्वं 2 यच्च ज्ञानमयं वपुः । 27ab
तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां ॥ 27cd
आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् । 28ab
स्वनाम्ना स्थापयेदन्यानायुधादीन् स्वमुद्रया ॥ 28cd
यात्रावर्षादिकं दृष्ट्वा 3 ज्ञेयः सन्निहितो हरिः । 29ab
नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकं ॥ 29cd
चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः । 30ab
अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ॥ 30cd
दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः । 31ab
विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ॥ 31cd
सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्पयेत् । 32ab
परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ॥ 32cd
यागोपयोगिद्रव्याद्यमाचार्य्याय नरोर्पयेत् । 33ab
आचार्य्यदक्षिणार्द्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत् ॥ 33cd
अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः । 34ab
अवारितान् फलान् 4 दद्याद्यजमानाय वै गुरुः ॥ 34cd
विष्णुं नयेत् प्रतिष्ठाता 5 चात्मना सकलं कुलं । 35ab


1 गुणातिक्रान्तरूपाय इति ख, चिह्नितपुस्तकपाठः ।
2 यच्च ते परमं गुह्यमिति ङ, चिह्नितपुस्तकपाठः ।
3 यात्रावर्षादिकं कृत्वेति ख, चिह्नितपुस्तकपाठः ।
4 अवारितफलमिति ङ, चिह्नितपुस्तकपाठः ।
5 प्रतिष्ठाकृदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
Image-P.176


सर्वेषामेव देवानामेष साधारणो विधिः । 35cd
मूलमन्त्राः पृथक्तेषां शेषं कार्य्यं समानकं ॥ 35॥ 35ef


इत्यादिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमो ऽध्यायः ॥

Chapter 61

अथ एकषष्टितमो ऽध्यायः ।

द्वारप्रतिष्ठाध्वजारोहाणादिविधिः ।
भगवानुवाच ।
वक्षे चावभृतस्नानं विष्णोर्न्नत्वेति 1 होमयेत् । 1ab
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥ 1cd
पूजयेद् गन्धपुष्पाद्यैर्बलिं दत्वा गुरुं यजेत् । 2ab
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥ 2cd
अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः । 3ab
गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः ॥ 3cd
कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः । 4ab
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥ 4cd
शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ । 5ab
ऊर्द्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥ 5cd
न्यस्याभ्यर्च्य 3 यथान्यायं श्रीसूक्तेन चतुर्मुखं । 6ab
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥ 6cd
प्रतिष्ठासिद्धद्वारस्य त्वाचार्य्यः स्थापयेद्धरिं । 7ab


1 विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः ।
2 समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः ।
3 अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः ।
Image-P.177


प्रासादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥ 7cd
समाप्तौ शुकनाशाया 1 वेद्याः प्राग्दर्भमस्तके । 8ab
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्म्मितं 2 8cd
अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं । 9ab
सवस्त्रं पूरितं चाद्भिर्म्मण्डले चाधिवासयेत् ॥ 9cd
सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं । 10ab
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥ 10cd
वैराजभूतन्तं 3 ध्यायेत् प्रासादस्य सुरेश्वर । 11ab
ततः पुरुषवत्सर्व्वं प्रासादं चिन्तयेद् बुधः ॥ 11cd
अधो दत्वा सुवर्णं तु तद्वद् भूतं 4 घटं न्यसेत् । 12ab
गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश्च भोजनं ॥ 12cd
ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं । 13ab
कण्ठोपरिष्टात् कर्त्तव्यं विमलामलसारकं ॥ 13cd
तदूर्द्ध्वं वृकलं 5 कुर्य्याच्चक्रञ्चाद्यं सुदर्शनं । 14ab
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥ 14cd
कलशं वाथ कुर्व्वीत तदूर्द्ध्वं चक्रमुत्तमं । 15ab
वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज 6 15cd


1 वनमालायामिति ङ, चिह्नितपुस्तकपाठः ।
2 शुक्लनिर्म्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्म्मितमिति ङ, चिह्नितपुस्तकपाठः ।
3 वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः ।
4 तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः ।
5 तदूर्द्ध्वं चूर्णकं कुर्य्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्द्ध्वं चुल्वकं कुर्य्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
6 अष्टौ विद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.178


चत्वारो वा चतुर्द्दिक्षु स्थापनीया गरुत्मतः । 16ab
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥ 16cd
प्रासादविम्बद्रव्याणां यावन्तः परमाणवः । 17ab
तावद्वर्षसहस्राणि तत्कर्त्ता विष्णुलोकभाक् ॥ 17cd
कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ । 18ab
कण्ठस्यावेष्टनाज् ज्ञेयं फलं कोटिगुणं ध्वजात् ॥ 18cd
पताकां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं । 19ab
प्रासादं वासुदेवस्य मूर्त्तिभेदं 1 निबोध मे ॥ 19cd
धारणाद्धरणीं 2 विद्धि आकाशं शुषिरात्मकं । 20ab
तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा ॥ 20cd
पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं 3 21ab
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्क्कशादिकं ॥ 21cd
शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं 4 22ab
धूपादिगन्धं गन्धन्तु वाग् भेर्य्यादिषु संस्थिता ॥ 22cd
शुकनासाश्रिता नासा बाहू तद्रथकौ स्मृतौ । 23ab
शिरस्त्वण्डं निगदितं कलशं मूर्द्धजं स्मृतम् ॥ 23cd
कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते । 24ab
पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्त्तिता ॥ 24cd
मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते । 25ab
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥ 25cd


1 मूर्त्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः ।
2 धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः ।
3 पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः ।
4 रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुaतकपाठः ।
Image-P.179


निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः । 26ab
एवमेष हरिः साक्षात्प्रासादत्वेन संस्थितः ॥ 26cd
जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः । 27ab
ऊर्द्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥ 27cd
प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु । 28ab
ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितं 1 28cd
अण्डोर्द्ध्वं कलशं न्यस्य तदूर्द्ध्वं विन्यसेद्ध्वजं । 29ab
विम्बार्द्धमानं दण्डस्य 2 त्रिभागेनाथ कारयेत् ॥ 29cd
अष्टारं द्वादशारं वा मध्ये मूर्त्तिमतान्वितं । 30ab
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥ 30cd
प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्त्तितं । 31ab
शिखरार्द्धेन वा कुर्य्यात् तृतीयार्द्धेन वा पुनः ॥ 31cd
द्वारस्य दैर्घ्याद् द्विगुणं दण्डं वा परिकल्पयेत् । 32ab
ध्वजयष्टिर्द्देवगृहे ऐशान्यां वायवेथवा ॥ 32cd
क्षौमाद्यैश्च ध्वजं कुर्य्याद्विचित्रं वैकवर्णकं 3 33ab
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥ 33cd
दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु । 34ab
महाध्वजः सर्व्वदः स्यात्तुर्य्यांशाद्धीनतोर्चितः ॥ 34cd
ध्वजे चार्द्धेन विज्ञेया पताका मानवर्ज्जिता । 35ab
विस्तरेण ध्वजः कार्य्यो विंशदङ्गुलसन्निभः ॥ 35cd
अधिवासविधानेन चक्रं दण्डं ध्वजं तथा । 36ab


1 जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः ।
2 विम्बार्द्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः ।
3 विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.180


देववत् सकलं कृत्वा मण्डपस्नपनादिकं ॥ 36cd
नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् । 37ab
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥ 37cd
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः । 38ab
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥ 38cd
मनोरूपेण तस्यैव सजीवकरणं स्मृतं । 39ab
अरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥ 39cd
नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः । 40ab
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥ 40cd
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं । 41ab
निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिं ॥ 41cd
तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलां 1 42ab
मण्डपे 2 स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥ 42cd
कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च । 43ab
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः 3 43cd
पारदेन तु सम्प्लाव्य नेत्रपट्टेन छादयेत् 4 44ab
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥ 44cd
ओं क्षों नृसिंहाय 5 नमः पूजयेत् स्थापयेद्धरिं । 45ab
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥ 45cd


1 चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः ।
2 मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
3 स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः ।
4 नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः ।
5 ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः ।
Image-P.181


दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् । 46ab
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥ 46cd
शिरस्याधाय तत् पात्रं नारायनमनुस्मरन् । 47ab
प्रदक्षिणं तु कुर्व्वीत तुर्य्यमङ्गलनिःस्वनैः ॥ 47cd
ततो निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण तु । 48ab
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥ 48cd
पात्रं ध्वजं कुञ्जरादि दद्यादाचार्य्यके द्विजः । 49ab
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥ 49cd
यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् । 50ab
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥ 50cd


इत्यादिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमो ऽध्यायः ।

Chapter 62

अथ द्विषष्टितमो ऽध्यायः ।

लक्ष्मीप्रतिष्ठाविधिः ।
भगवानुवाच ।
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते । 1ab
लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च ॥ 1cd
पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकं 1 2ab
भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान् 2 2cd
घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः । 3ab
हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥ 3cd


1 मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः ।
2 स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः ।
Image-P.182


तन्म आवह 1 इत्येवं प्रदद्यान्मधुरत्रयम् । 4ab
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत् 2 4cd
कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् । 5ab
चन्द्रं प्रभासामुच्चार्य्यादित्यवर्णेति चोत्तरात् ॥ 5cd
उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैरृतात् । 6ab
गन्धद्वारेति वायव्यां मनसः काममाकृतिम् ॥ 6cd
ईशानकलशेनैव शिरः सौवर्णकर्द्दमात् । 7ab
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम् 3 7cd
आर्द्द्रां पुष्करिणीं गन्धैरार्द्द्रामित्यादिपुष्पकैः । 8ab
तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं 4 8cd
शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् । 9ab
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः ॥ 9cd
श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् । 10ab
करवीराणि वा हुत्वा सहस्रं शतमेव वा ॥ 10cd
गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् । 11ab
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥ 11cd
मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः 5 12ab
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत् 6 12cd
चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत् । 13ab


1 अस्मिन्नावह इति ख, चिह्नितपुस्तकपाठः ।
2 अश्वमूर्द्धेति मन्त्रेण तां कुम्भेभिनिवेशयेदिति ङ, चिह्नितपुस्तकपाठः ।
3 मन्त्रेण चासृजत् क्षितिमिति ख, चिह्नतपुस्तकपाठः ।
4 य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः ।
5 मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ, चिह्न्तपुस्तकपाठः ।
6 प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.183


भूस्वर्णवस्त्रगोन्नादि 1 गुरवे ब्रह्मणेर्पयेत् । 13cd
एवं देव्यो ऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥ 13॥ 13ef


इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमो ऽध्यायः ।

Chapter 63

अथ त्रिषष्टितमो ऽध्यायः ।

सुदर्शनचक्रादिप्रतिष्ठाकथनं ।
भगवानुवाच ।
एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस्तथा । 1ab
प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण तां शृणु ॥ 1cd
सुदर्शन महाचक्र शान्त दुष्टभयङ्कर । 2ab
च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रासय त्रासय हूं फट् सुदर्शनाय नमः ॥
अभ्यर्च्य चक्रं चानेन रणे दारयते रिपून् ॥ 2cd
ओं क्षौं नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ॥
नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते 2 3ab
ओं क्षौं नमो भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधायं स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुषपरापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश


1 भूस्वर्णगवान्नादि इति ङ, चिह्नितपुस्तकपाठः ।
2 पातालाख्यस्य वक्ष्यते इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.184


आविश सर्वमन्त्ररूपाणि सर्व्वमन्त्रजातयश्च हन हन छिन्द छिन्द सङ्क्षिप सङ्क्षिप सर सर 1 दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतो ऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतो ऽनतज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फट् असुरेभ्यः फट् मन्त्ररूपेभ्यः फट् मन्त्रजातिभ्यः फट् संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट् 2 नमो ऽस्तु ते ॥
नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा 3 3cd
त्रिलोक्यमोहनैर्मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः । 4ab
गदी दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः ॥ 4cd
वामोर्द्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्यधः । 5ab
श्रीपुष्टिसंयुतं कुर्य्याद् बलेन सह भद्रया ॥ 5cd
प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपे ऽपि वा । 6ab
वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकं ॥ 6cd
स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान् । 7ab
सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकं ॥ 7cd
अर्द्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः । 8ab
भैरवं च तथा सूर्य्यं ग्रहांस्तद्विनायकम् ॥ 8cd


1 दर दर इति ख, ग, ङ, इति चिह्नितपुस्तकपाठः ।
2 रक्ष रक्ष ओं फट् इति ख, चिह्नितपुस्तकपाठः । रक्ष रक्ष ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ।
3 हरिरूपा सुमिद्विदा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.185


गौरीमिन्द्रादिकां लेप्यां 1 चित्रजां च बलाबलां । 9ab
पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिं ॥ 9cd
स्वस्तिके मण्डले ऽभ्यर्च्य शरपत्रासने स्थितं 2 10ab
लेख्यञ्च लिखितं पुस्तं गुरुर्व्विद्यां हरिं यजेत् ॥ 10cd
यजमानो गुरुं विद्यां हरिं लिपिकृतं नरं । 11ab
प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा श्लोकपञ्चकं ॥ 11cd
रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरं 3 12ab
ब्राह्मणान् भोजयेच्छक्त्या शक्त्या दद्याच्च दक्षिणां 4 12cd
गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः । 13ab
पूर्ववन्मण्डलाद्ये 5 च ऐशान्यां भद्रपीठके ॥ 13cd
दर्प्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्व्ववद् घटैः । 14ab
नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः ॥ 14cd
न्यसेत्तु पौरुषं सूक्तं देवाद्यं तत्र पुस्तके । 15ab
कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः ॥ 15cd
सम्प्राश्य दक्षिणाभिस्तु गुर्व्वादीन् भोजयेद्द्विजान् । 16ab
रथेन हस्तिना वापि भ्राम्येत् पुस्तकं नरैः 6 16cd
गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत् । 17ab
वस्त्रादिवेष्टितं पाठादादावन्ते समर्च्चयेत् 7 17cd


1 इन्द्रादिकां जप्यमिति ग, घ, चिह्नितपुस्तकपाठः ।
2 शरयन्त्रासने स्थितमिति ख, घ, चिह्नितपुस्तकपाठः ।
3 रौप्यमय्या ऽथ हैम्या वा लेखन्याथ वराक्षरमिति ङ, चिह्नितपुस्तकपाठः ।
4 प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा च प्रदापयेत् । ब्राह्मणान् भोजयेच्छक्त्या शक्त्यादद्याच्च दक्षिणामिति ग, चिह्नितपुस्तकपाठः ।
5 पूर्वमण्डपपार्श्वे इति ङ, चिह्नितपुस्तकपाठः ।
6 पुस्तकं नर इति ख, चिह्नितपुस्तकपाठः ।
7 अन्ते सदार्च्चयेदिति ख, ग, चिह्नितपुस्तकपाठः ।
Image-P.186


जगच्छान्तिञ्चावधार्य्य पुस्तकं वाचयेन्नरः । 18ab
अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत् ॥ 18cd
द्विजाय पुस्तकं दत्वा फलस्यान्तो न विद्यते । 19ab
त्रीण्याहुरतिदानानि गावः पृथ्वीं सरस्वती ॥ 19cd
विद्यादानफलं दत्वा मस्यन्तं पत्रसञ्चयं । 20ab
यावत्तु पत्रसङ्ख्यानमक्षराणां तथा ऽनघ ॥ 20cd
तावद्वर्षसहस्राणि विष्णुलोके महीयते । 21ab
पञ्चरात्रं पुराणानि भारतानि ददन्नरः । 21cd
कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते ॥ 21॥ 21ef


इत्यादिमहापुराणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम त्रिषष्टितमोध्यायः ।

Chapter 64

अथ चतुःषष्टितमोध्यायः ।

कूपादिप्रतिष्ठाकथनं ।
भगवानुवाच ।
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु । 1ab
जलरूपेण हि हरिः सोमो वरुण उत्तम ॥ 1cd
अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं । 2ab
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥ 2cd
द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं । 3ab
वामेन नागपाशं तं नदीनागादिसंयुतं ॥ 3cd
यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता । 4ab
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥ 4cd
भद्रके चार्द्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् । 5ab
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥ 5cd
Image-P.187


वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् । 6ab
घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः ॥ 6cd
शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः । 7ab
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥ 7cd
गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्ज्झरं । 8ab
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥ 8cd
औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं । 9ab
अलाभे तु नदीतोयं 1 यासां राजेति मन्त्रयेत् 2 9cd
देवं निर्म्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः 3 10ab
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥ 10cd
ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्प्पयेत् । 11ab
समुद्रज्येष्ठेत्यभिषिञ्चेद्वरुणं पूर्वकुम्भतः ॥ 11cd
समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात् । 12ab
देवीरापो निर्ज्झराद्भिर्न्नदाद्भिः पञ्चनद्यतः ॥ 12cd
उद्भिदद्भ्यश्चोद्भिदेन पावमान्या ऽथ तीर्थकैः । 13ab
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥ 13cd
आपो अस्मेति वर्षोप्त्यैर्व्याहृत्या कूपसम्भवैः । 14ab
वरुणञ्च तड़ागोप्त्यैर्वरुणाद्भिस्तु वश्यतः ॥ 14cd
आपो देवीति गिरिजैरेकाशीविघटैस्ततः । 15ab
स्नापयेद्वरुणस्येति त्वन्नो वरुण चार्घ्यकं ॥ 15cd
व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं । 16ab
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥ 16cd


1 नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः ।
2 आसां रुद्रेति कीर्त्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः ।
3 इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः ।
Image-P.188


यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु । 17ab
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥ 17cd
मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् । 18ab
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥ 18cd
सजीवीकरणं मूलात् पुनर्गन्धादिना यजेत् । 19ab
मण्डपे 1 पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकं ॥ 19cd
वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत् । 20ab
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत् 2 20cd
व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा । 21ab
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥ 21cd
तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः । 22ab
इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः ॥ 22cd
विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः 3 23ab
अग्निर्यमो नैरृतो ऽथ वरुणो वायुरेव च ॥ 23cd
कुवेर ईशो ऽनन्तो ऽथ ब्रह्मा राजा जलेश्वरः । 24ab
तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥ 24cd
सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् । 25ab
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥ 25cd
दशादिक्षु बलिं दद्यात् गन्धपुष्पादिना ऽर्चयेत् । 26ab
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः ॥ 26cd
पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् । 27ab


1 मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः ।
3 वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.189


जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥ 27cd
कृत्वा ऽष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः । 28ab
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥ 28cd
चरुं यवमयं हुत्वा 1 शान्तितोयं समाचरेत् । 29ab
सेचयेन्मूर्द्ध्नि देवं तु सजीवकरणं चरेत् ॥ 29cd
ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः । 30ab
ओं वरुणाय नमो ऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥ 30cd
उत्थाप्य 2 नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः । 31ab
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥ 31cd
जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् । 32ab
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥ 32cd
अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां । 33ab
सर्वमापोमयं लोकं ध्यायेत् तत्र जलेश्वरं ॥ 33cd
तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् । 34ab
चतुरस्रमथाष्टास्रं वर्त्तुलं वा प्रवर्तितं 3 34cd
आराध्य देवतालिङ्गं दशहस्तं तु कूपके । 35ab
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥ 35cd
वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशकं । 36ab
तड़ागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥ 36cd
यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः 4 37ab
स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥ 37cd


1 चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः ।
2 उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः ।
3 सुवर्त्तितमिति ङ, चिह्नितपुस्तकपाठः ।
4 यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः ।
Image-P.190


तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत् । 38ab
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥ 38cd
द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा । 39ab
आब्रह्मस्तम्बपर्य्यन्ता ये केचित्सलिलार्थिनः ॥ 39cd
ते तृप्तिमुपगच्छन्तु तड़ागस्थेन वारिणा । 40ab
तोयमुत्सर्जयेदेवं 1 पञ्चगव्यं विनिक्षिपेत् ॥ 40cd
आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं । 41ab
तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्प्पयेद्विजान् 2 41cd
अनिवारितमन्नाद्यं सर्व्वजन्यञ्च कारयेत् । 42ab
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥ 42cd
एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं । 43ab
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥ 43cd
गवादि पिवते यस्मात्तस्मात् कर्त्तुर्न्न पातकं । 44ab
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥ 44cd


इत्यादिमहापुराणे आग्नेये कूपवापीतड़ागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमो ऽध्यायः ॥

Chapter 65

अथ पञ्चषष्टितमो ऽध्यायः ।

सभास्थापनकथनं ।
भगवानुवाच ।
सभादिस्थापनं वक्ष्ये तथैतेषां प्रवर्त्तनं । 1ab
भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥ 1cd
स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत् सुरान् । 2ab


1 तोयं समुत्सृजेदेवमिति ख, चिह्नितपुस्तकपाठः ।
2 गोकुलं पाययेद् द्विजानिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.191


चतुष्पथे ग्रामादौ 1 च न शून्ये कारयेत् सभां ॥ 2cd
निर्मलः कुलमुद्धृत्य कर्त्ता स्वर्गे विमोदते । 3ab
अनेन विधिना कुर्यात् सप्तभौमं हरेर्गृहं ॥ 3cd
यथा राज्ञां तथा ऽन्येषां पूर्वाद्याश्च ध्वजादयः । 4ab
कोणभुजान् वर्जयित्वा चतुःशालं तु वर्त्तयेत् ॥ 4cd
त्रिशालं वा द्विशालं वा एकशालमथापि वा । 5ab
व्ययाधिकं न कुर्व्वीत व्ययदोषकरं हि तत् ॥ 5cd
आयाधिके भवेत् पीडा तस्मात् कुर्य्यात् समं द्वयं । 6ab
करराशिं समस्तन्तु कुर्य्याद्वसुगुणं गुरुः ॥ 6cd
सप्तार्च्चिषा हृते भागे गर्गविद्याविचक्षणः । 7ab
अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥ 7cd
अथवा करराशिं तु हन्यात् सप्तार्च्चिषा बुधः । 8ab
वसुभिः संहृते भागे पृथ्व्यादि 2 परिकल्पयेत् ॥ 8cd
ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः । 9ab
तथा ध्वाङ्क्षस्तु पूर्व्वादावुद्भवन्ति विकल्पयेत् ॥ 9cd
त्रिशालकत्रयं शस्तं उदक्पूर्व्वविवर्जितं । 10ab
याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥ 10cd
याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा । 11ab
एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥ 11cd
चतुःशालं सदा शस्तं सर्व्वदोषविवर्जितं । 12ab
एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥ 12cd
द्वारवेद्यादिरहितं पूरणेन विवर्जितं । 13ab
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥ 13cd


1 पूश्चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः ।
2 ध्वजादि इति ख, चिह्नितपुस्तकपाठः ।
Image-P.192


संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा । 14ab
प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥ 14cd
मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं । 15ab
सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः 1 15cd
गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य 2 संविशेत् । 16ab
गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥ 16cd
ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह । 17ab
जये भार्गवदायादे प्रजानां विजयावहे ॥ 17cd
पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां । 18ab
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥ 18cd
सर्व्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते । 19ab
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥ 19cd
प्रजापतिसुते देवि चतुरस्रे महीयसि । 20ab
सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥ 20cd
पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्कृते । 21ab
भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥ 21cd
अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते । 22ab
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥ 22cd
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे । 23ab
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥ 23cd


इत्यादिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमो ऽध्यायः ॥


1 गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः ।
2 देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः ।
Image-P.193


Chapter 66

अथ षट्षष्टितमो ऽध्यायः ।

साधारणप्रतिष्ठाविधानं ।
भगवानुवाच ।
समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् । 1ab
आदित्या वसवो रुद्राः साध्या विश्वे ऽश्विनौ तथा ॥ 1cd
ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकं । 2ab
यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥ 2cd
मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत् 1 3ab
प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं 2 3cd
सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा । 4ab
नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥ 4cd
मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे । 5ab
शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥ 5cd
ब्रह्मकूर्चं समाहृत्य श्रपेद् यवमयं चरुं । 6ab
क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥ 6cd
प्रणवेनाभिघार्य्यैव दर्व्या सङ्घट्टयेत्ततः । 7ab
साधयित्वा ऽवतार्य्याथ विष्णुमभ्यर्च्य होमयेत् ॥ 7cd
व्याहृत्या चैव गायत्र्या तद्विप्रासेति होमयेत् । 8ab
विश्वतश्चक्षुर्व्वेदाद्यैर्भूरग्नये तथैव च ॥ 8cd
सूर्य्याय प्रजापतये अन्तरिक्षाय होमयेत् । 9ab
द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥ 9cd
तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत् । 10ab


1 अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.194


एवं हुत्वा 1 चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥ 10cd
समिधो ऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं । 11ab
कुर्य्यात् पुरुषसूक्तेन इरावती तिलाष्टकं ॥ 11cd
हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां । 12ab
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥ 12cd
पर्वतानां नदीनाञ्च समुद्राणां तथा ऽऽहुतीः । 13ab
हुत्वा च व्याहृतीर्दद्द्यात् स्रुवपूर्णाहुतित्रयं ॥ 13cd
वौषड़न्तेन मन्त्रेण वैष्णवेन पितामह । 14ab
पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥ 14cd
तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां । 15ab
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥ 15cd
मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः । 16ab
यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥ 16cd
तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः । 17ab
आज्येनाधार्य चोत्तार्य्य होमयेन्मूर्त्तिमन्त्रकैः ॥ 17cd
विष्ण्वादीनां मासपानां तदन्ते होमयेत् पुनः । 18ab
ओं विष्णवे स्वाहा । ओं विष्णवे 2 निभूयपाय स्वाहा । ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा ।
द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥ 18cd
विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः । 19ab


1 एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः ।
2 ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः ।
Image-P.195


इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥ 19cd
हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् । 20ab
शेषहोमं ततः कृत्वा दद्यात् पूर्णाहुतित्रयं ॥ 20cd
युञ्जतेत्यनुवाकन्तु 1 जप्त्वा प्राशीत वै चरुं । 21ab
प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥ 21cd
ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् । 22ab
त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥ 22cd
कुम्भान् स्वाद्वम्बुसंयुक्तान् 2 सच्छत्रोपानहान्वितान् । 23ab
सवस्त्रहेममाल्याढ्यान् व्रतयूर्त्यै त्रयोदश । 23cd
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः । 24ab
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥ 24cd
दशहस्तं प्रपा ऽऽराममठसङ्क्रमणादिषु । 25ab
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥ 25cd
पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही । 26ab
अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥ 26cd
द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः । 27ab
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥ 27cd
मठप्रदानात् स्वर्ल्लोके शक्रलोके वसेत्ततः । 28ab
प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥ 28cd
इष्टकासेतुकारी च गोलोके मार्गकृद्गवां । 29ab
नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥ 29cd
गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं । 30ab


1 अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
Image-P.196


समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥ 30cd


इत्यादिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमो ऽध्यायः ॥

Chapter 67

अथ सप्तषष्टितमो ऽध्यायः ।

जीर्णोद्धारविधानं ।
भगवानुवाच ।
जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः 1 1ab
अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥ 1cd
व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् । 2ab
संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥ 2cd
सहस्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः । 3ab
दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥ 3cd
धातुजां रत्नजां वापि अगाधे वा जले ऽम्बुधौ । 4ab
यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥ 4cd
वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् । 5ab
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने । 5cd
कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥ 5॥ 5ef


इत्यादिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमो ऽध्यायः ॥


1 भूषिताञ्च यजेद् गुरुरिति घ, चिह्नितपुस्तकपाठः ।
Image-P.197


Chapter 68

अथ अष्टषष्टितमो ऽध्यायः ।

यात्रोत्सवविधिकथनं ।
भगवानुवाच ।
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् । 1ab
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥ 1cd
उत्सवेन विना यस्मात् स्थापनं निष्फलं भवेत् । 2ab
अयने विषुवे चापि शयनोपवने गृहे 1 2cd
कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् । 3ab
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥ 3cd
शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः । 4ab
यवाञ्छालींस्तिलान् मुद्गान् गोधूमान् सितसर्षपान् ॥ 4cd
कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् । 5ab
पूर्वादौ च बलिं दद्यात् भ्रमन् दीपैः पुरं निशि ॥ 5cd
इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च । 6ab
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥ 6cd
पदे पदे ऽश्वमेधस्य फलं तेषां न संशयः । 7ab
आगत्य देवतागारं देवं विज्ञापयेद् गुरुः ॥ 7cd
तीर्थयात्रा तु या देव श्वः कर्त्तव्या सुरोत्तम । 8ab
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥ 8cd
देवमेवन्तु विज्ञाप्य ततः कर्म्म समारभेत् 2 9ab
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥ 9cd


1 शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः ।
2 समाचरेदिति ग, चिह्नितपुस्तकपाठः ।
Image-P.198


चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् । 10ab
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥ 10cd
वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः । 11ab
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥ 11cd
दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं । 12ab
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥ 12cd
हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्द्ध्नि । 13ab
प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥ 13cd
स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं । 14ab
नयेद्गुरुर्न्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥ 14cd
निम्नगायोजनादर्व्वाक् तत्र वेदीन्तु कारयेत् । 15ab
वाहनादवतार्य्यैनं तस्यां वेद्यान्निवेशयेत् ॥ 15cd
चरुं वै श्रपयेत् तत्र पायसं होमयेत्ततः । 16ab
अब्लिङ्गैः 1 वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥ 16cd
आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः । 17ab
पुनर्देवं समादाय तोये कृत्वा ऽघमर्षणं ॥ 17cd
स्नायान्महाजनैर्व्विप्रैर्वेद्यामुत्तार्य्य तं न्यसेत् । 18ab
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः । 18cd
पूजयेत् पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥ 18॥ 18ef


इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमो ऽध्यायः ॥


1 अर्च्चिकैरिति ग, चिह्नितपुस्तकपाठः ।
Image-P.199


Chapter 69

अथोनसप्ततितमो ऽध्यायः ।

स्नानविधानं ।
अग्निरुवाच ।
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं । 1ab
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥ 1cd
कुर्य्याद् ध्यानार्च्चनं होमं हरेरादौ च कर्म्मसु । 2ab
सहस्रं वा शतं वापि होमयेत् पूर्णया सह ॥ 2cd
स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् । 3ab
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥ 3cd
चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत् 1 4ab
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥ 4cd
शालिचूर्णादिनापूर्य्य पूर्व्वादिनवकेषु च । 5ab
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद् बुधः ॥ 5cd
पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्ज्जयेत् । 6ab
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटं ॥ 6cd
यवव्रीहितिलांश्चैव नीवारान् श्यामकान् क्रमात् । 7ab
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥ 7cd
ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् । 8ab
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥ 8cd
जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकं । 9ab
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥ 9cd
गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च । 10ab
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥ 10cd


1 प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.200


याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् । 11ab
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥ 11cd
नारिकेलं न्यसेत् पूगं दाडिमं पनसं फलं । 12ab
नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥ 12cd
कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् । 13ab
मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥ 13cd
पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् । 14ab
नादयेमथ सामुद्रं सारसं कौपमेव च ॥ 14cd
वर्षजं हिमतोयञ्च नैर्ज्झरङ्गाङ्गमेव च । 15ab
उदकान्यथ वायव्ये नवके कदलीफलं ॥ 15cd
सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथा ऽमृतां । 16ab
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥ 16cd
पूर्व्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् । 17ab
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥ 17cd
लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् । 18ab
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥ 18cd
चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् । 19ab
घनसारं 1 तथा शीर्षं पूर्वादौ रत्नमेव च ॥ 19cd
घृतेनाभ्यज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः । 20ab
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥ 20cd
बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः । 21ab
देवैश्च मुनिभिर्भूपैर्द्देवं 2 संस्थाप्य चेश्वराः ॥ 21cd


1 घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
2 देवैश्च मुनिभिः सार्द्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्च बलिभिर्धूपैर्देवमिति घ, चिह्नितपुस्तकपाठः ।
Image-P.201


बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् । 22ab
अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत् ॥ 22cd
यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् । 23ab
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥ 23cd


इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमो ऽध्यायः ॥

Chapter 70

अथ सप्ततितमो ऽध्यायः ।

वृक्षादिप्रतिष्ठाकथनं ।
भगवानुवाच ।
प्रतिष्ठां पादपानाञ्च वक्ष्ये ऽहं भुक्तिमुक्तिदां । 1ab
सर्वौषध्युदकैर्ल्लिप्तान् पिष्टातकविभूषितान् ॥ 1cd
वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् । 2ab
सूच्या सौवर्णया कार्य्यं सर्वेषां कर्णवेधनम् ॥ 2cd
हेमशलाकया ऽञ्जनञ्च वेद्यान्तु फलसप्तकम् । 3ab
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥ 3cd
इन्द्रादेरधिवासो ऽथ होमः कार्य्यो वनस्पतेः । 4ab
वृक्षमध्यादुत्सृजेद्गां ततो ऽभिषेकमन्त्रतः ॥ 4cd
ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः 1 5ab
वृक्षवेदिककुम्भकैश्च 2 स्नपनं द्विजपुङ्गवाः ॥ 5cd
तरूणां यजमानस्य कुर्य्युश्च यजमानकः । 6ab
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥ 6cd


1 वारुणमनुभिर्वरैरिति ङ, चिह्नितपुस्तकपाठः ।
2 वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.202


क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं । 7ab
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥ 7cd
आचार्ये द्विगुणं दद्यात् पूर्ववन् मण्डपादिकम् । 8ab
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥ 8cd
स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु । 9ab
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥ 9cd


इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमो ऽध्यायः ॥

Chapter 71

अथ एकसप्ततितमो ऽध्यायः ।

गणेशपूजाविधिः ।
ईश्वर उवाच ।
गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां 1 1ab
गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥ 1cd
गजकर्णिने च 2 शिखा गजवक्त्राय वर्म च । 2ab
महोदराय स्वदन्तहस्तायाक्षि 3 तथा ऽस्त्रकम् ॥ 2cd
गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः । 3ab
मुख्यास्थिमण्डलं 4 चाधश्चोर्द्ध्वच्छदनमर्चयेत् ॥ 3cd
पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दया ऽर्च्चयेत् । 4ab
सूर्येशा कामरूपा च उदया कामवर्तिनी ॥ 4cd


1 निर्विघ्नां पापनाशिनीमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
2 बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ।
3 महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः ।
4 मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.203


सत्या च विघ्ननाशा च आसनं गन्धमृत्तिका । 5ab
यं शोषो रं च दहनं प्लवो लं वं तथा ऽमृतम् ॥ 5cd
लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् । 6ab
गणपतिर्गणाधिपो गणेशो गणनायकः । 6cd
गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥ 6॥ 6ef
गजवक्त्रो लम्बकु क्षिर्विकटो विघ्ननाशनः 1 7ab
धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥ 7cd


इत्यादिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमो ऽध्यायः ॥

Chapter 72

अथ द्विसप्ततितमो ऽध्यायः ।

स्नानविशेषादिकथनं ।
ईश्वर उवाच ।
वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया । 1ab
खात्वा ऽसिना समुद्धृत्य मृदमष्टाङ्गुलां ततः ॥ 1cd
सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् । 2ab
शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत् 2 2cd
तृणानि शिखयोद्धृत्य वर्म्मणा विभजेत्त्रिधा । 3ab
एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया ॥ 3cd
अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं । 4ab
निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि ॥ 4cd
निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं । 5ab


1 विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः ।
2 निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः ।
Image-P.204


मलस्नानं विधायेत्थं समुत्थाय जलान्तरात् ॥ 5cd
अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् । 6ab
सारस्वतादितीर्थानां एकमङ्कुशमुद्रया ॥ 6cd
हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया । 7ab
शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि ॥ 7cd
वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः । 8ab
अङ्गैर्द्दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा ॥ 8cd
शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् । 9ab
सर्वदिक्षु क्षिपेत् पूर्वं हूं फडन्तशरात्मना 1 9cd
कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् । 10ab
सर्वाङ्गमङ्गजप्तेन मूर्द्धादिचरणावधि ॥ 10cd
दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् । 11ab
पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥ 11cd
शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् । 12ab
वौषडन्तषडङ्गेन के कुर्यादभिषेचनं ॥ 12cd
कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं । 13ab
स्नात्वा राजोपचारेण सुगन्धामलकादिभिः ॥ 13cd
स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् । 14ab
अथातो विधिशुद्धेन संहितामन्त्रितेन च ॥ 14cd
निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् । 15ab
शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना 2 15cd
तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् । 16ab


1 क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.205


ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः 1 16cd
क्रमेणोद्धूनयेन्मूर्द्ध्नि वक्त्रहृद्गुह्यविग्रहान् । 17ab
सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः ॥ 17cd
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् । 18ab
स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् ॥ 18cd
स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् । 19ab
सूर्यांशुवर्षसम्पर्क्कैः प्राङ्मुखेनोर्द्ध्वबाहुना ॥ 19cd
माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि । 20ab
गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः 2 20cd
पावनं नवमन्त्रेण स्नानन्तद्वर्मणा ऽथवा । 21ab
सद्योजातादिभिर्म्मन्त्रैरम्भोभिरभिषेचनम् ॥ 21cd
मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि । 22ab
मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ॥ 22cd
कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् । 23ab
वैष्णवादौ च तन्मन्त्रैरेवं स्नानादि कारयेत् ॥ 23cd
सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर्भिन्नैः समं गुह । 24ab
संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः ॥ 24cd
स्वधान्तैरात्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा । 25ab
शकलीकरणं कृत्वा प्राणायामेन संस्थितः ॥ 25cd
त्रिः समावर्तयेन् मन्त्री मनसा शिवसंहितां । 26ab
आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः 3 26cd
हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां । 27ab


1 गुह्यकाजातसंरवैरिति ख, चिह्नितपुस्तकपाठः ।
2 तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः ।
3 स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः ।
Image-P.206


प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं ॥ 27cd
तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां । 28ab
शङ्खचक्रधरां वामे दक्षिणे सगदाभयं ॥ 28cd
रौद्रीं ध्यायेद् वृषाब्जस्थां त्रिनेत्रां शशिभूषितां । 29ab
त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां ॥ 29cd
साक्षिणीं कर्मणां सन्ध्यां 1 आत्मानं तत्प्रभानुगं । 30ab
चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते ॥ 30cd
हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता । 31ab
शिवबोधपरा या तु सा सन्ध्या मरमोच्यते ॥ 31cd
पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः । 32ab
ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः ॥ 32cd
सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः । 33ab
ऋषीणां तु समग्रेषु अङ्गुलीपर्व्वसन्धिषु ॥ 33cd
ततः शिवात्मकैर्म्मन्त्रैः कृत्वा तीर्थं शिवात्मकं । 34ab
मार्ज्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥ 34cd
वामपाणिपतत्तोययोजनं सव्यपाणिना । 35ab
उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतं ॥ 35cd
नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं । 36ab
बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत् 2 36cd
तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना । 37ab
क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं ॥ 37cd
स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं । 38ab
शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत् ॥ 38cd


1 दाक्षिण्यः कर्म्मणां सन्ध्या इति ख, चिह्नितपुस्तकपाठः ।
2 कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः ।
Image-P.207


तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् । 39ab
तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् ॥ 39cd
ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय । 40ab
अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च ॥ 40cd
हां वसुभ्यो ऽथ रुद्रेभ्यो विश्वेभ्यश्चैव मरुद्भ्यः । 41ab
भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ ॥ 41cd
अत्रेये ऽथ वसिष्ठाय नमश्चाथ पुलस्तये 1 42ab
क्रतवे भारद्वाजाय विश्वामित्राय वै नमः ॥ 42cd
प्रचेतसे मनुष्यांश्च सनकाय वषट् तथा । 43ab
हां सनन्दाय वषट् सनातनाय वै वषट् ॥ 43cd
सनत्कुमाराय वषट् कपिलाय तथा वषट् । 44ab
पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥ 44cd
सर्व्वेभ्यो भूतेभ्यो वौषट् भूतान् देवपितॄनथ । 45ab
दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः ॥ 45cd
कव्यबालानलायाथ सोमाय च यमाय च । 46ab
अर्य्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् ॥ 46cd
आज्यपाय च सोमाय विशेषसुरवत् पितॄन् । 47ab
ओं हां ईशानाय पित्रे स्वधा दद्यात् पितामहे 2 47cd
शान्तप्रपितामहाय तथाप्रेतपितॄंस्तथा । 48ab
पितृभ्यः पितामहेभ्यः स्वधा ऽथ प्रपितामहे ॥ 48cd
वृद्धप्रपितामहेभ्यो मातृभ्यश्च स्वधा तथा । 49ab
हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश्च ॥ 49cd
वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस्तथा । 50ab


1 मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः ।
2 हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख, चिह्नितपुस्तकपाठः ।
Image-P.208


सर्वेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्य्येभ्य एव च । 50cd
दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां ॥ 50॥ 50ef


इत्यादिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमो ऽध्यायः ॥

Chapter 73

अथ त्रिसप्ततितमो ऽध्यायः ।

सूर्यपूजाविधिः ।
ईश्वर उवाच ।
वक्ष्ये सूर्य्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं । 1ab
अहं तेजोमयः सूर्य्य इति ध्यात्वा ऽर्घ्यमर्चयेत् ॥ 1cd
पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना । 2ab
तं संपूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं ॥ 2cd
सम्प्रोक्ष्य तज्जलैर्द्रव्यं पूर्वास्यो भानुमर्चयेत् । 3ab
ओं अं हृद्वीजादि 1 सर्वत्र पूजनं दण्डिपिङ्गलौ ॥ 3cd
द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च । 4ab
अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत् ॥ 4cd
अग्न्यादौ विमलं सारमाराध्यं परमं सुखं । 5ab
सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत् ॥ 5cd
पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयां क्रमात् 2 6ab
रूं भद्रां रें विभूतीश्च विमलां रैममोघया ॥ 6cd
रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः । 7ab


1 ओं हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः ।
2 रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः ।
Image-P.209


रं मध्ये अर्कासनं स्यात् सूर्य्यमूर्त्तिं षडक्षरं ॥ 7cd
ओं हं खं खोल्कायेति यजेदावाह्य भास्करं । 8ab
ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं ॥ 8cd
ह्रां ह्रीं सः 1 सूर्य्याय नमो मुद्रयावाहनादिकं । 9ab
विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत् ॥ 9cd
पद्ममुद्रां विल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं । 10ab
ओं आं हृदयाय नमः अर्क्काय शिरसे तथा ॥ 10cd
भूर्भुवः स्वः सुरेशाय शिखायै 2 नैरृते यजेत् । 11ab
हुं कवचाय 3 वायव्ये हां नेत्रायेति 4 मध्यतः ॥ 11cd
वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् । 12ab
धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः ॥ 12cd
अस्त्रस्य त्रासनी योज्या ग्रहाणां च नमस्क्रिया । 13ab
सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत् ॥ 13cd
दले पूर्वादिके ऽग्न्यादौ अं भौमं शं शनैश्चरं । 14ab
रं राहुं कें केतवे च गन्धाद्यैश्च खखोल्कया ॥ 14cd
मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः । 15ab
नत्वा पराङ्मुखञ्चार्कं 5 क्षमस्वेति ततो वदेत् ॥ 15cd
शराणुना फडन्तेन समाहत्याणुसंहृतिं 6 16ab


1 ह्रीं ह्रं ह्रैं स इति घ, चिह्नितपुस्तकपाठः ।
2 सुरेशाय ज्वालिनिशिखायै इति ख, चिह्नितपुस्तकपाठः ।
3 क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
4 ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग, चिह्नितपुस्तकपाठः ।
5 पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः ।
6 शवानुना फडन्तेन समाहृत्यानुसंहतिमिति ख, चिह्नितपुस्तकद्वयपाठः । शवाणुना फडन्तेन समहत्यार्थं संहतिमिति ग, चिह्नितपुस्तकपाठः ।
Image-P.210


हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं 1 16cd
योजयेत्तेजश्चण्डाय रविनिर्म्माल्यमर्प्पयेत् । 17ab
अभ्यर्च्यैशे 2 जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत् ॥ 17cd


इत्यादिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमो ऽध्यायः ॥

Chapter 74

अथ चतुःसप्ततितमो ऽध्यायः ।

शिवपूजाकथनं ।
ईश्वर उवाच ।
शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् । 1ab
द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ॥ 1cd
गणं सरस्वतीं लक्ष्मीमूर्द्ध्वोदुम्बरके यजेत् । 2ab
नन्दिगङ्गे दक्षिणे ऽथ स्थिते 3 वामगते यजेत् ॥ 2cd
महाकालं च यमुनां दिव्यदृष्टिनिपातितः । 3ab
उत्सार्य्य दिव्यान् विघ्नांश्च पुष्पाक्षेपान्तरिक्षगान् ॥ 3cd
दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं । 4ab
देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ॥ 4cd
प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे । 5ab
ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥ 5cd


1 संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः । संहारिण्योपसंहृतमिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः ।
3 दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.211


निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान् 1 6ab
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥ 6cd
पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा । 7ab
पूरयेदम्बुधौ तांस्तान् गायत्र्या हृदयेन वा ॥ 7cd
गन्धकाक्षत 2 पुष्पादिसर्व्वद्रव्यसमुच्चयं । 8ab
सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥ 8cd
देवदक्षे ततो न्यस्य सौम्यास्यश्च शरीरतः 3 9ab
संहारमुद्रयादाय मूर्द्ध्नि मन्त्रेण 4 धारयेत् ॥ 9cd
भोग्यकर्म्मोपभोगार्थं पाणिकच्छपिकाख्यया । 10ab
हृदम्बुजे निजात्मानं द्वादशान्तपदे ऽथवा ॥ 10cd
शोधयेत् पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ 5 11ab
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्व्वहिः स्मरेत् ॥ 11cd
शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे 6 पावकप्रभे । 12ab
रन्ध्रमध्यस्थिते 7 कृत्वा प्राणरोधं हि चिन्तकः ॥ 12cd
निवेशयेद्रेचकान्ते 8 फडन्तेनाथ तेन च । 13ab
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥ 13cd


1 गन्धकान् इति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः ।
2 गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः ।
3 सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः ।
4 मूर्त्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः ।
5 स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः ।
6 पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः ।
7 चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः । चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः ।
8 निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः ।
Image-P.212


ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्द्ध्नि विन्यस्य जीवनं । 14ab
सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥ 14cd
हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं 1 स्मरेत् । 15ab
कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥ 15cd
रेचकेन वीजवृत्त्या शिवे लीनो ऽथ शोधयेत् । 16ab
प्रतिलोमं स्वदेहे तु 2 विन्द्वन्तं तत्र विन्दुकं ॥ 16cd
लयन्नीत्वा महीवातौ जलवह्नी परस्परं । 17ab
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥ 17cd
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं । 18ab
हौमित्यात्मीयवीजेन 3 तन्निवृत्तिकलामयं ॥ 18cd
पादादारभ्य मूर्द्धानं विचिन्त्य चतुरस्रकं । 19ab
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥ 19cd
अर्द्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं 4 20ab
ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं ॥ 20cd
संयुक्तं राममन्त्रेण 5 पुरुषान्तमकारणं । 21ab
अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥ 21cd
आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं । 22ab
हूमित्यनेन वीजेन विद्यारूपं विभावयेत् ॥ 22cd
घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत् । 23ab


1 विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः ।
2 स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः ।
3 हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः ।
4 अर्द्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः ।
5 वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः ।
Image-P.213


षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं ॥ 23cd
कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं । 24ab
सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥ 24cd
नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं । 25ab
व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥ 25cd
हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं । 26ab
ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥ 26cd
आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा 1 27ab
आधाराख्यामनन्तञ्च धर्म्मज्ञानादिपङ्कजं ॥ 27cd
हृदासनमिदं 2 ध्यात्वा मूर्त्तिमावाहयेत्ततः । 28ab
सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ॥ 28cd
अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः । 29ab
दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं ॥ 29cd
हृदयादिकरान्तेषु 3 कनिष्ठाद्यङ्गुलीषु च । 30ab
हृदादिमन्त्रविन्यासः सकलीकरणं मतं ॥ 30cd
अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः । 31ab
शक्तिजालमधश्चोर्द्ध्वं महामुद्रां प्रदर्शयेत् ॥ 31cd
आपादमस्तकं यावद् भावपुष्पैः 4 शिवं हृदि । 32ab
पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः ॥ 32cd
शिवमन्त्रैर्न्नाभिकुण्डे तर्पयेत शिवानलं । 33ab


1 मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः ।
2 हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः ।
3 हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः ।
4 तावत् पुष्पैरिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.214


ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं 1 33cd
एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं । 34ab
विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ॥ 34cd
हृदापूर्य्य षडङ्गेन पूजयित्वा ऽभिमन्त्रयेत् । 35ab
संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ॥ 35cd
रचयित्वा ऽर्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया 2 36ab
अभिषिञ्चेदथात्मानं मूर्द्ध्नि तत्तोयविन्दुना ॥ 36cd
तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा । 37ab
अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ॥ 37cd
दर्शयित्वा ऽमृतां मुद्रां पुष्पं दत्वा निजासने । 38ab
विधाय तिलकं मूर्द्ध्नि पुष्पं मूलेन योजयेत् ॥ 38cd
स्नाने देवार्च्चने होमे भोजने यागयोगयोः । 39ab
आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥ 39cd
नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं । 40ab
पूजने ऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् ॥ 40cd
ब्रह्मपञ्चकमावर्त्त्य माल्यमादाय लिङ्गतः । 41ab
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥ 41cd
प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा । 42ab
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥ 42cd
आत्मद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् । 43ab
वायव्ये गणपतये हां गुरुभ्यो ऽर्च्चयेच्छिवे ॥ 43cd


1 चिन्तयेत् सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः ।
2 रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः ।
Image-P.215


आधारशक्तिमङ्कुरनिभां कूर्म्मशिलास्थितां । 44ab
यजेद् ब्रह्मशिलारूढं शिवस्यानन्तमासनं ॥ 44cd
विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः । 45ab
कृतत्रेतादिरूपेण शिवस्यासनपादुकां ॥ 45cd
धर्म्मं ज्ञानञ्च वैराग्यमैश्वर्य्यञ्चाग्निदिङ्मुखान् । 46ab
कर्पूरकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात् ॥ 46cd
पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव । 47ab
वरदाभयहस्ताश्च शक्तयो धृतचामराः ॥ 47cd
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी । 48ab
बलविकरणी पूज्या बलप्रमथनी क्रमात् ॥ 48cd
हां सर्व्वभूतदमनी केशराग्रे मनोन्मनी । 49ab
क्षित्यादिशुद्धविद्यान्तु तत्त्वव्यापकमासनं ॥ 49cd
न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुं । 50ab
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥ 50cd
शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः । 51ab
डमरुं वीजपूरञ्च नीलाब्जं सूत्रकोत्पलं ॥ 51cd
द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्त्तिन्तु मध्यतः । 52ab
हां हं हां शिवमूर्त्तये स्वप्रकाशं शिवं स्मरन् ॥ 52cd
ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं । 53ab
ततो ललाटमध्यस्थं स्फुरत्तारापतिप्रभं ॥ 53cd
षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं । 54ab
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्त्तौ निवेशयेत् ॥ 54cd
ओं हां हौं शिवाय नम आवाहन्या हृद्दा ततः । 55ab
आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥ 55cd
निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः । 56ab
Image-P.216


विघ्नानुत्सार्य्य विष्ठ्याथ 1 लिङ्गमुद्रां नमस्कृतिं ॥ 56cd
हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः । 57ab
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥ 57cd
आकर्म्मकाण्डपर्य्यन्तं सन्नेधेयोपरिक्षयः । 58ab
स्वभक्तेश्च 2 प्रकाशोयस्तद्भवेदवगुण्ठनं ॥ 58cd
सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां । 59ab
अङ्गानामङ्गिना सार्द्धं विदध्यादमृतीकृतं ॥ 59cd
चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्य्यमष्टधा 3 60ab
शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥ 60cd
प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं । 61ab
नमः स्वधा च स्वाहा च वौषट् चेति यथाक्रमं ॥ 61cd
हृत्पुरःसरमुच्चार्य्य पाद्यादीनि निवेदयेत् । 62ab
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं ॥ 62cd
अर्घ्यं शिरसि देवस्य दूर्व्वापुष्पाक्षतानि च । 63ab
एवं संस्कृत्य संस्कारैर्द्दशभिः परमेश्वरं ॥ 63cd
यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः । 64ab
अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः ॥ 64cd
अर्घ्योदविन्दुपुष्पाद्यैर्गड्डूकैः 4 स्नापयेच्छनैः । 65ab
पयोदधिघृतक्षौद्रशर्क्कराद्यैरनुक्रमात् ॥ 65cd
ईशादिमन्त्रितर्द्रव्यैरर्च्य तेषां 5 विपर्य्ययः । 66ab


1 छोट्याथ इति ख, चिह्नितपुस्तकपाठः ।
2 अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः ।
3 शिवमैश्वर्य्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
4 गन्धकैरिति ख, चिह्नितपुस्तकपाठः ।
5 इत्यादिमन्त्रितैर्भक्ष्यैश्चैषामिति ख, चिह्नितपुस्तकपाठः ।
Image-P.217


तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवं ॥ 66cd
विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः । 67ab
स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ॥ 67cd
निर्म्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत् करं । 68ab
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्य्यात्ततो ददेत् ॥ 68cd
चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना 1 69ab
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना 2 69cd
अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् । 70ab
दद्यादाचमनं पश्चात् स्वधान्तं हृदयाणुना 3 70cd
आरात्रिकं समुत्तार्य्य तथैवाचामयेत् पुनः । 71ab
प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥ 71cd
हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं । 72ab
शिखां रक्ताञ्च नैरृत्ये कृष्णं वर्म्म च वायवे ॥ 72cd
चतुर्वक्त्रं चतुर्बाहुं 4 दलस्थान् 5 पूजयेदिमान् । 73ab
दंष्ट्राकरालमप्यस्त्रं पूर्वदौ वज्रसन्निभं ॥ 73cd
मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च । 74ab
हृं शिखायै हैं वर्म्म हश्चास्त्रं परिवारयुताय च ॥ 74cd
शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च । 75ab
गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं ॥ 75cd
करोद्वर्त्तनताम्बूलं मुखवासञ्च दर्पणं । 76ab


1 शिवात्मनेति ख, चिह्नितपुस्तकपाठः ।
2 शिवात्मनेति ख, चिह्नितपुस्तकपाठः ।
3 हृदयात्मनेति ख, चिह्नितपुस्तकपाठः ।
3 चतुर्वक्त्रांश्चतुर्बाहून् इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
5 दलाग्रे इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.218


शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥ 76cd
मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं । 77ab
चर्म्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥ 77cd
अक्षतैर्मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया । 78ab
गुह्यातिगुह्यगुप्त्यर्थं 1 गृहाणास्मत्कृतं जपं ॥ 78cd
सिद्धिर्भवतु मे येन 2 त्वत्प्रसादात्त्वयि स्थिते । 79ab
भोगी श्लोकं पठित्वाद्यं 3 दक्षहस्तेन शम्भवे ॥ 79cd
मूलाणुनार्घ्यतोयेन वरहस्ते 4 निवेदयेत् । 80ab
यत्किञ्चित् कुर्म्महे देव सदा सुकृतदुस्कृतं ॥ 80cd
तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर । 81ab
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥ 81cd
शिवो जयति सर्वत्र यः शिवः सोहमेव च । 82ab
श्लोकद्वयमधीत्यैवं जपं देवाय चार्प्पयेत् ॥ 82cd
शिवाङ्गानां 5 दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् । 83ab
प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्त्तये 6 83cd
नत्वा ध्यानादिभिश्चैव यजेच्चित्रे ऽनलादिषु ॥ 83॥ 83ef


इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमो ऽध्यायः ॥


1 गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः ।
2 सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः ।
3 पठित्वामुमिति ख, चिह्नितपुस्तकपाठः ।
4 हरहस्ते इति ग, चिह्नितपुस्तकपाठः ।
5 शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः ।
6 नमेदष्टाङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.219


Chapter 75

अथ पञ्चसप्ततितमो ऽध्यायः ।

अग्निस्थापनादिविधिः ।
ईश्वर उवाच ।
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः । 1ab
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत् 1 1cd
उदङ्मुखः कुण्डमीक्षेत् प्रoक्षणं ताडनं कुशैः । 2ab
विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं ॥ 2cd
खड्गेन खातमुद्धारं पूरणं समतामपि । 3ab
कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना 2 3cd
सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनं । 4ab
त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा ॥ 4cd
रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः । 5ab
कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः ॥ 5cd
वज्रीकरणमन्त्रेण हृदा दर्भैश्चतुष्पथं । 6ab
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥ 6cd
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत् । 7ab
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं ॥ 7cd
क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं । 8ab
औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयं ॥ 8cd
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् । 9ab
संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं ॥ 9cd
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं । 10ab
पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्द्ध्वं प्रदक्षिणं ॥ 10cd


1 दिव्यदृष्ट्या विलोकयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 शराणुनेति ङ, चिह्नितपुस्तकपाठः ।
Image-P.220


शिववीजमिति ध्यात्वा वागीशागर्भगोचरे । 11ab
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥ 11cd
भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत् । 12ab
ततो ऽन्तस्थितवीजस्य 1 नाभिदेशे समूहनं ॥ 12cd
सम्भृतिं परिधानस्य शौचमाचमनं हृदा । 13ab
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना 2 13cd
बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे । 14ab
गर्भाधानाय सम्पूज्य सद्योजातेन पावकं ॥ 14cd
ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं । 15ab
पुंसवनाय वामेन तृतीये यासि पूजयेत् ॥ 15cd
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं । 16ab
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥ 16cd
जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु । 17ab
वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्घाटननिष्कृती ॥ 17cd
जातकर्म्मनृकर्म्मभ्यां दशमे मासि पूर्ववत् । 18ab
वह्निं सन्धुक्ष्य दर्भाद्यैः 3 स्नानं गर्भमलापहं ॥ 18cd
सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत् । 19ab
सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥ 19cd
कुम्भन्तु 4 वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत् । 20ab
अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान् ॥ 20cd


1 ततोन्तस्थितदेवस्य इति ख, चिह्नितपुस्तकपाठः ।
2 शरात्मना इति ख, चिह्नितपुस्तकपाठः ।
3 गन्धाद्यैरिति ख, चिह्नितपुस्तकपाठः ।
4 कुण्डन्तु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.221


आस्थाप्य 1 स्थापयेत्तेषु हृदा परिधिविस्तरं । 21ab
वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये ॥ 21cd
समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः । 22ab
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत् ॥ 22cd
दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात् । 23ab
इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात् ॥ 23cd
अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्च्चयेत् । 24ab
निवार्य्य विघ्नसङ्घातं वालकं पालयिष्यथ ॥ 24cd
शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं । 25ab
गृहीत्वा स्रुक्स्रुवावूर्द्ध्ववदनाधोमुखैः क्रमात् ॥ 25cd
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् । 26ab
कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं ॥ 26cd
क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं 2 रवैः क्रमात् । 27ab
स्रुचि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ॥ 27cd
त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः । 28ab
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥ 28cd
गव्यमाज्यं समादाय वीक्षणादिविशोधितं । 29ab
स्वकां ब्रह्ममयीं मूर्त्तिं सञ्चिन्त्यादाय तद्घृतं ॥ 29cd
कुण्डस्योर्द्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे । 30ab
पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥ 30cd
धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना 2 31ab


1 आस्तीर्येति घ, ङ, चिह्नितपुस्तद्वयपाठः ।
2 हां ह्रीं ह्रं समिति ख, चिह्नितपुस्तकपाठः । हूं हां क्रूं समिति ङ, चिह्नितपुस्तकपाठः ।
3 शिरसात्मना इति ख, चिह्नितपुस्तकपाठः ।
Image-P.222


जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥ 31cd
भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः । 32ab
प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः ॥ 32cd
धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् । 33ab
हृदात्मसम्मुखं तद्वत् कुर्य्यात् सम्प्लवनन्ततः ॥ 33cd
हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवितयेत् । 34ab
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥ 34cd
अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत् । 35ab
क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं ॥ 35cd
पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् । 36ab
क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥ 36cd
स्वेत्यग्नौ हा घृते 1 भागं शेषमाज्यं क्षिपेत् क्रमात् । 37ab
ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा ।
उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे ॥ 37cd
स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् । 38ab
ओं हां अग्नये स्विष्टकृते स्वाहा ।
अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥ 38cd
अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना 2 39ab
हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं ॥ 39cd
वक्त्राभिघारसन्धानां वक्त्रैकीकरणं तथा । 40ab
ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा । ओं हां


1 स्वाहेत्यग्नौ घृते इति ङ, चिह्नितपुस्तकपाठः ।
2 शरात्मनेति ण, चिह्नितपुस्तकपाठः ।
Image-P.223


अघोराय स्वाहा । ओं तत्पुरुषाय स्वाहा । ओं हां ईशानाय स्वाहा ।
इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकं ॥ 40cd
औं हां सद्योजातवामदेवाभ्यां स्वाहा । ओं हां वामदेवाघोराभ्यां स्वाहा । ओं हां अघोरतत्पुरुषाभ्यां स्वाहा । ओं हां तत्पुरुषेशानाभ्यां स्वाहा ।
इतिवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत् । 41ab
अग्रितो गतया वायुं निरृतादिशिवान्तया ॥ 41cd
वक्त्राणामेकतां कुर्य्यात् स्रुवेण घृतघारया । 42ab
ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा ॥ 42cd
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥ 42॥ 42ef
ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं । 43ab
कुर्य्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥ 43cd
हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं । 44ab
मूलेन वौषडन्तेन दद्यात् पूर्णां यथाविधि ॥ 44cd
ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं 1 45ab
यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवं ॥ 45cd
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना । 46ab
शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः ॥ 46cd
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा । 47ab
शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायस्यतु ॥ 47cd
यथावत् सर्व्वभक्षाणां लाजानां मुष्टिसम्मितं । 48ab
खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः ॥ 48cd


1 ससेनं भास्करं परमिति ख, चिह्नितपुस्तकपाठः । शासनं भास्करं परमिति ग, चिह्नितपुस्तकपाठः । शाशनं भासुरं परमिति ङ चिह्नितपुस्तकपाठः । शासनं त्र्यक्षरं परमिति घ, चिह्नितपुस्तकपाठः ।
Image-P.224


ग्रासार्द्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् । 49ab
इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयं ॥ 49cd
पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं । 50ab
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान् ॥ 50cd
कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् । 51ab
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परं ॥ 51cd
होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः । 52ab
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं ॥ 52cd
स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना । 53ab
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥ 53cd
समुद्गतो ऽर्द्धकायश्च समपादः समित्थितः । 54ab
नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः ॥ 54cd
ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया 1 55ab
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥ 55cd
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् । 56ab
तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥ 56cd
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि । 57ab
भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां ॥ 57cd
ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् । 58ab
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥ 58cd
भासुरान् 2 परिधीस्तांश्च पूरकेण हृदा ऽणुना 3 59ab


1 विनिःसृत्य स्वपृष्टया इति ख, चिह्नितपुस्तकपाठः । विनिःसृत्य स्वपुष्टया इति ग, चिह्नितपुस्तकपाठः ।
2 भास्वरानिति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ।
3 हृदात्मनेति ख, ग, चिह्नितपुस्तकपाठः ।
Image-P.225


श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे ॥ 59cd
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं 1 60ab
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥ 60cd
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा । 61ab
वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ॥ 61cd
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ 2 62ab
अग्नौ हामसुरेभ्यश्च रक्षोभ्यो नैरृते बलिः ॥ 62cd
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः । 63ab
हां राशिभ्यः 3 स्वाहा वह्नौ विश्वेभ्यो नैरृते तथा ॥ 63cd
वारुण्यां 4 क्षेत्रपालाय अन्तर्बलिरुदाहृतः । 64ab
द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च ॥ 64cd
नैरृताय जलेशाय वायवे धनरक्षिणे । 65ab
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥ 65cd
नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः । 66ab
बलिद्वयगतान्मन्त्रान् संहारमुद्रया ऽऽत्मनि ॥ 66cd


इत्यादिमहापुराणे आग्नेये अग्निकार्य्यं नाम पञ्चसप्ततितमो ऽध्यायः ॥


1 कृत्वा च मण्डलद्वयमिति ख, चिह्नितपुस्तकपाठः ।
2 गणेभ्य उ इति ग, चिह्नितपुस्तकपाठः ।
3 हां ऋषिभ्य इति ङ, चिह्नितपुस्तकपाठः ।
4 वायव्यामिति ग, चिह्नितपुस्तकपाठः । नैरृत इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.226


Chapter 76

अथ षट्सप्ततितमो ऽध्यायः ।

चण्दपूजाकथनं ।
ईश्वर उवाच ।
ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम । 1ab
गृहाण भगवन् पुण्यफलमित्यभिधाय च ॥ 1cd
अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया । 2ab
हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् ॥ 2cd
ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च । 3ab
अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च ॥ 3cd
नाराचमुद्रया ऽस्त्रेण फडन्तेनात्मसञ्चयं । 4ab
संहृत्य दिव्यया लिङ्गं मूर्त्तिमन्त्रेण योजयेत् ॥ 4cd
स्थण्डिले त्वर्च्चिते देवे मन्त्रसङ्घातमात्मनि । 5ab
नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं ॥ 5cd
ओं चण्डेशानाय नमो मध्यतश्चण्डमूर्त्तये । 6ab
ओं धूलिचण्डेश्वराय 1 हूं फट् 2 स्वाहा तमाह्वयेत् ॥ 6cd
चण्डहृदयाय हूं फट् ओं चण्डशिरसे तथा 3 7ab
ओं चण्डशिखायै हूं फट् चण्डायुः 4 कवचाय च ॥ 7cd
चण्डास्त्राय तथा हूं फट् चण्डं रुद्राग्निजं स्मरेत् । 8ab
शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं ॥ 8cd
टङ्काकारे ऽर्द्धचन्द्रे 5 वा चतुर्व्वक्त्रं प्रपूजयेत् । 9ab


1 ओं बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः ।
2 क्रूं फडिति ङ, चिह्नितपुस्तकपाठः ।
3 हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः ।
4 हूं फट् चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
5 टङ्कारेणार्द्धचन्द्रे इति ख, चिह्नितपुस्तकपाठः ।
Image-P.227


यथाशक्ति जपं कुर्य्यादङ्गानान्तु दशांशतः ॥ 9cd
गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं । 10ab
विहाय शेषनिर्माल्यं चण्डेशाय निवेदयेत् ॥ 10cd
लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं । 11ab
निर्म्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥ 11cd
सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया । 12ab
न्यूनाधिकं कृतं मोहात् परिपूर्णं सदा ऽस्तु मे ॥ 12cd
इति विज्ञाप्य देवेशं दत्वा ऽर्घ्यं तस्य संस्मरन् । 13ab
संहारमूर्त्तिमन्त्रेण शनैः संहारमुद्रया ॥ 13cd
पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् । 14ab
निर्म्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा । 14cd
प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तो ऽन्यत्समाचरेत् ॥ 14॥ 14ef


इत्यादिमहापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमो ऽध्यायः ॥

Chapter 77

अथ सप्तसप्ततितमो ऽध्यायः ।

कपिलादिपूजाविधनं ।
ईश्वर उवाच ।
कपिलापूजनं वक्ष्ये एभिर्म्मन्त्रैर्यजेच्च गां । 1ab
ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः ॥ 1cd
ओं कपिले सुशीले नमः कपिले सुरभिप्रभे । 2ab
ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः ॥ 2cd
सौरभेयि जगन्मातर्देवानाममृतप्रदे । 3ab
गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे ॥ 3cd
Image-P.228


वन्दिता ऽसि वसिष्ठेन विश्वामित्रेण धीमता । 4ab
कपिले हर मे पापं यन्मया दुष्कृतं कृतं ॥ 4cd
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । 5ab
गावो मे हृदये चापि गवां मध्ये वसाम्यहं ॥ 5cd
दत्तं गृह्णन्तु 1 मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः । 6ab
प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ॥ 6cd
यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं । 7ab
पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका ॥ 7cd
मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् । 8ab
ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ॥ 8cd
जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः । 9ab
सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत् ॥ 9cd
अथार्द्धं 2 चुल्लिकाहोमे विधानायोपकल्पयेत् 3 10ab
विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं ॥ 10cd
हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना । 11ab
वह्निवीजं समादाय कादिस्थानगतिक्रमात् 4 11cd
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् । 12ab
ओं हां अग्नये नमो वै हां सोमाय वै नमः ॥ 12cd
सूर्य्याय वृहस्पतये प्रजानां पतये नमः । 13ab
सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च ॥ 13cd


1 दत्तं गृहाणेति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
2 अन्यार्द्धमिति ख, चिह्नितपुस्तकपाठः । अन्त्यार्द्धमिति ङ, चिह्नितपुस्तकपाठः ।
3 निधानायोपकल्पयेदिति च, ङ, चिह्नितपुस्तकद्वयपाठः ।
4 हृदि स्थानमतिक्रमेदिति ग, चिह्नितपुस्तकपाठः । कादिस्थानमतिक्रमादिति ख, चिह्नितपुस्तकपाठः ।
Image-P.229


हामग्नये खिष्टिकृते पूर्वादावर्च्चयेदिमान् । 14ab
स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ॥ 14cd
चुल्ल्या दक्षिणबाहौ च यजेद्धर्म्माय वै नमः । 15ab
वामबाहावधर्म्माय काञ्जिकादिकभाण्डके ॥ 15cd
रसपरिवर्त्तमानाय वरुणाय जलाग्नये 1 16ab
विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः ॥ 16cd
ओं रौद्रिके नमो गिरिके 2 नमश्चoलूखले यजेत् । 17ab
बलप्रियायायुधाय नमस्ते मुषले यजेत् ॥ 17cd
सम्मार्ज्जन्यां देवतोक्ते कामाय शयनीयके । 18ab
मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ॥ 18cd
भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके । 19ab
आचार्य्यः साधकःपुत्र समयी मौनमास्थितः ॥ 19cd
वटाश्वत्थार्क्कवाताविसर्ज्जभल्लातकांस्त्यजेत् । 20ab
अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ॥ 20cd
स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं । 21ab
नागः कूर्म्मो ऽथ कृकरो देवदत्तो धनञ्जयः ॥ 21cd
एतेभ्य उपवायुभ्यः स्वाहापोशानवारिणा । 22ab
भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ॥ 22cd
अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् । 23ab
प्राणाय स्वाहा ऽपानाय समानाय ततस्तथा ॥ 23cd
उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् । 24ab


1 जलाशये इति ङ, चिह्नितपुस्तकपाठः ।
2 ओं रौद्रकोटिगिरिके इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
Image-P.230


अमृतापिधानमसीति शरीरे ऽन्नादिवायवः 1 24cd


इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमो ऽध्यायः ॥

Chapter 78

अथष्टसप्ततितमो ऽध्यायः ।

पवित्रारोहणकथनं ।
ईश्वर उवाच ।
पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणं । 1ab
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥ 1cd
आषाढादिचतुर्द्दश्यामथ श्रावणभाद्रयोः । 2ab
सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत् ॥ 2cd
कुर्य्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके । 3ab
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनां ॥ 3cd
दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां 2 4ab
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं ॥ 4cd
कलौ कार्प्पासजं चापि पट्टपद्मादिसूत्रकं । 5ab
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः 3 5cd
सर्वेशः 4 सर्वदेवाः स्युः क्रमेण नवतन्तुषु । 6ab
अष्टोत्तरशतान्यर्द्धं तदर्धं चोत्तमादिकं ॥ 6cd
एकाशीत्या ऽथवा सूत्रैस्त्रिंशता ऽप्यष्टयुक्तया । 7ab


1 शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः ।
2 स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ।
3 गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
4 सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ।
Image-P.231


पञ्चाशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकं ॥ 7cd
द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च । 8ab
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥ 8cd
तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं । 9ab
गङ्गावतारकं कार्य्यं सुजातेन सुधौतकं ॥ 9cd
ग्रन्थिं कुर्य्याच्च वामेन अघोरेणाथ शोधयेत् । 10ab
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥ 10cd
कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः । 11ab
ग्रन्थयो दश कर्त्तव्या अथवा तन्तुसङ्ख्यया ॥ 11cd
अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं । 12ab
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥ 12cd
जया ऽन्या विजया षष्ठी अजिता च सदाशिवा । 13ab
मनोन्मनी सर्वमुखी ग्रन्थयो ऽभ्यधिकाः शुभाः ॥ 13cd
कार्य्या वा चन्द्रवह्न्यर्कपवित्रं 1 शिववद्धृदि । 14ab
एकैकं निजमूर्त्तौ वा पुप्तके गुरुके गणे 2 14cd
स्यादेकैकं तथा द्वारदिक्पालकलशादिषु । 15ab
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं ॥ 15cd
अष्टाविंशतितो युद्धं दशभिर्द्दशभिः क्रमात् । 16ab
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥ 16cd
ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं । 17ab
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥ 17cd
भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं । 18ab


1 चण्डवह्न्यर्कपवित्रमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
2 पुस्तके गुरवे गणो इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.232


कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणं ॥ 18cd
परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत् 1 19ab
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥ 19cd
द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतो ऽर्च्चयेत् । 20ab
हां शान्तिकलाद्वाराय तथा विद्याकलात्मने ॥ 20cd
निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने । 21ab
तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥ 21cd
नन्दिने महाकालाय भृङ्गिणे ऽथ गणाय च । 22ab
वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् ॥ 22cd
नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे । 23ab
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥ 23cd
प्रोक्षणाद्यं 2 विधायाथ यज्ञसम्भारकृन्नरः । 24ab
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥ 24cd
शिवहस्तं विधायेत्थं 3 स्वशिरस्यधिरोपयेत् । 25ab
शिवो ऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥ 25cd
अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः । 26ab
नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥ 26cd
अर्घ्याम्बु पञ्चगव्यञ्च समस्तान् मखमण्डपे । 27ab
चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः 4 सुसंस्कृतैः ॥ 27cd
विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् 5 28ab


1 सूत्रिते सूर्य्यमर्चयेदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ।
2 प्रोक्षणच्चेति ग, चिह्नितपुस्तकपाठः ।
3 विधायैकमिति ङ, चिह्नितपुस्तकपाठः ।
4 ब्राह्मणाद्यैरिति ग, चिह्नितपुस्तकपाठः ।
5 दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः ।
Image-P.233


तानीशदिशि 1 वर्द्धन्यामासनायोपकल्पयेत् ॥ 28cd
नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् । 29ab
पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं ॥ 29cd
प्रणवेन वृषारूढं सिंहस्थां वर्द्धनीन्ततः । 30ab
कुम्भे साङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत् 2 30cd
दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान् 3 31ab
वर्द्धनीं सम्यगादाय घटपृष्टानुगामिनीं ॥ 31cd
शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं । 32ab
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥ 32cd
समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं । 33ab
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य 4 वामतः ॥ 33cd
समग्रासनके कुम्भे यजेद्देवं स्थिरासने । 34ab
वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥ 34cd
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया । 35ab
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥ 35cd
तद्दशांशेन वर्द्धन्यां रक्षां विज्ञापयेदपि 5 36ab
गणेशं वायवे ऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥ 36cd
स्नापयेत् पूर्ववत् प्रार्च्य 6 कुण्डे च शिवपावकं 7 37ab


1 अनीशदिशि इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
2 वर्द्धन्यां शस्त्रमर्च्चयेदिति ग, चिह्नितपुस्तकपाठः ।
3 विष्णुब्रह्मावसानकानिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ।
4 शस्त्रालम्भस्येति क, ग, चिह्नितपुस्तकद्वयपाठः ।
5 रक्षां च कारयेत् सदेति ग, चिह्नितपुस्तकपाठः ।
6 पूर्ववत् स्नापयेत् प्रार्च्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत् पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः ।
7 कुम्भे वा शिवमर्च्चयेदिति ग, चिह्नितस्पुस्तकपाठः ।
Image-P.234


विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं ॥ 37cd
देवाग्र्यात्मविभेदेन दर्व्या तं विभजेत् त्रिधा । 38ab
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥ 38cd
शरेण वर्म्मणा देयं पूर्वतो दन्तधावनं । 39ab
तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं ॥ 39cd
सद्योजातेन च हृदा चोत्तरे वामनीकृतं 1 40ab
जलं 2 वामेन शिरसा ईशे गन्धान्वितं जलं ॥ 40cd
पञ्चगव्यं पलाशादिपुटकं वै समन्ततः । 41ab
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥ 41cd
अगुरुं निरृताशायां वायव्यां च चतुःसमं । 42ab
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह ॥ 42cd
दण्डाक्षसूत्रकौपीनभिक्षापात्राणि 3 रूपिणे । 43ab
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥ 43cd
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि । 44ab
आसनं पादुके पात्रं योगपट्टातपत्रकं ॥ 44cd
ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये । 45ab
पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे ॥ 45cd
पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा । 46ab
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥ 46cd
कृष्णाजिनादिना ऽऽच्छाद्य स्मरन् संवत्सरात्मकं । 47ab
साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥ 47cd


1 सद्योजातेन च हृदा चोत्तरे वामनीयकमिति ख, चिह्नितपुस्तकपाठः । सद्योजातेन च हृदा चोत्तरे धाम निष्फलमिति ग, चिह्नितपुस्तकपाठः ।
2 फलमिति ख, चिह्नितपुस्तकपाठः ।
3 दण्डाक्षसूत्रकौपानतीर्थपात्राणि इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.235


स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः । 48ab
शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥ 48cd
गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं 1 रवये ददेत् । 49ab
पूजिताय समाचम्य 2 कृतन्यासः कृतार्घ्यकः ॥ 49cd
नन्द्यादिभ्यो ऽथ 3 गन्धाख्यं 4 वास्तोश्चाथ प्रविश्य च । 50ab
शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके ॥ 50cd
वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत् । 51ab
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥ 51cd
आमन्त्र्य च पवित्रं 5 तत् विधायाञ्जलिमध्यगं । 52ab
ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति ॥ 52cd
प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां । 53ab
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥ 53cd
सर्वथा सर्वदा शम्भो नमस्ते ऽस्तु प्रसीद मे । 54ab
आमन्त्रितो ऽसि देवेश सह देव्या गणेश्वरैः ॥ 54cd
मन्त्रेशैर्ल्लोकपालैश्च सहितः परिचारकैः 6 55ab
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं ॥ 55cd
नियमञ्च करिष्यामि परमेश तवाज्ञया । 56ab
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं ॥ 56cd
शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत् । 57ab


1 गन्धाख्यमिति ख, ग, चिह्नितपुस्तकद्वयपठः ।
2 पूजनार्थं समाचम्य इति ङ, चिह्नितपुस्तकपाठः ।
3 रव्यादिभ्यो ऽथेति ग, चिह्नितपुस्तकपाठः ।
4 गन्धाद्यमिति ङ, चिह्नितपुस्तकपाठः ।
5 आमन्त्रणपवित्रमिति ख, चिह्नितपुस्तकपाठः ।
6 परिवारकैरिति ग, ङ, चिह्नितपुस्तकपाठः ।
Image-P.236


जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत् ॥ 57cd
हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये 1 58ab
दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ 2 58cd
रुद्रेभ्यो क्षेत्रपादिभ्यो 3 नमः स्वाहा बलिस्त्वयं । 59ab
दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥ 59cd
समाचम्य विधिच्छिद्रपूरकं होममाचरेत् । 60ab
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥ 60cd
तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि । 61ab
ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा ॥ 61cd
इत्याहुतिचतुष्कन्तु दत्वा कुर्य्यात्तु योजनां । 62ab
वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे ॥ 62cd
नाडीसन्धानरूपेण विधिना योजयेत्ततः । 63ab
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥ 63cd
अधिरोप्य पवित्राणि कलाभिर्वा ऽथ मन्त्रयेत् । 64ab
षडङ्गं ब्रह्ममूलैर्व्वा हृद्धर्म्मास्त्रञ्च योजयेत् ॥ 64cd
विधाय सूत्रैः संवेष्ट्य पूजयित्वा ऽङ्गसम्भवैः 4 65ab
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥ 65cd
पूजिते पुष्पधूपाद्यैर्द्दत्वा सिद्धान्तपुस्तके । 66ab
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकं ॥ 66cd
निर्गत्य वहिराचम्य गोमये मण्डलत्रये । 67ab


1 शिवाज्ञया इति ख, चिह्नितपुस्तकपाठः ।
2 भूतमातृगणेषु फडिति ङ, चिह्नितपुस्तकपाठः ।
3 रुद्रेभ्यः क्षेत्रपालेभ्य इति ख, चिह्नितपुस्तकपाठः ।
4 पूजयित्वा ततः शिवमिति ग, चिह्नितपुस्तकपाठः । पूजयित्वा ऽथ सञ्चरैरिति ङ, चिह्नितपुस्तकपाठः ।
Image-P.237


पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद् यजेत् ॥ 67cd
आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः । 68ab
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥ 68cd
अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् । 69ab
केवलम्भस्मशय्यायां सोपवासः समाहितः ॥ 69cd


इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमो ऽध्यायः ॥

Chapter 79

अथैकोनाशीतितमो ऽध्यायः ।

पवित्रारोहणविधिः ।
ईश्वर उवाच ।
अथ प्रातः समुत्थाय कृतस्नानः समाहितः । 1ab
कृतसन्ध्यार्च्चनो मन्त्री प्रविश्य मखमण्डपं ॥ 1cd
समादाय पवित्राणि अविसर्जितदैवतः । 2ab
ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले ॥ 2cd
ततो विसर्ज्य देवेशं निर्म्माल्यमपनीय च । 3ab
पूर्ववद् भूतले शुद्धे कृत्वाह्निकमथ द्वयं ॥ 3cd
आदित्यद्वारदिक्पालकुम्भेशानौ शिवे ऽनले 1 4ab
नैमित्तिकीं सविस्तारां कुर्य्यात् पूजां विशेषतः ॥ 4cd
मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना 2 5ab
अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः ॥ 5cd


1 आदित्यद्वारदिक्पालान् स्कन्देशानौ शिवे ऽनले इति ङ, चिह्नितपुस्तकपाठः ।
2 शराणुनेति घ, ङ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.238


पवित्रं भानवे दत्वा समाचम्य ददीत च । 6ab
द्वारपालादिदिक्पालकुम्भवर्द्धनिकादिषु ॥ 6cd
सन्निधाने ततः शम्भोरुपविश्य निजासने । 7ab
पवित्रमात्मने दद्याद्गणाय गुरुवह्नये ॥ 7cd
ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ 1 8ab
कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतं ॥ 8cd
तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं 2 9ab
सर्वात्मना ऽमुना शम्भो पवित्रेण त्वदिच्छया ॥ 9cd
ओं पूरयमखव्रतं नियमेश्वराय स्वाहा । 10ab
आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥ 10cd
मूलं लयान्तमुच्चार्य्य पवित्रेणार्च्चयेच्छिवं । 11ab
विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते ॥ 11cd
ईश्वरान्तं समुच्चार्य्य पवित्रमधिरोपयेत् । 12ab
शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते ॥ 12cd
शिवान्तं मन्त्रमुच्चार्य्य तस्मै देयं पवित्रकं । 13ab
सर्वकारणपालेषु शिवमुच्चार्य्य सुव्रतः 3 13cd
मूलं लयान्तमुच्चार्य्य दद्याद्गङ्गावतारकं 4 14ab
आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं ॥ 14cd
विनिर्द्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् । 15ab
स्वाहान्तं वा नमो ऽन्तं वा मन्त्रमेषामुदीरयेत् ॥ 15cd
ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा ।


1 प्रभुस्त्वं मामकेविधौ इति ङ, चिह्नितपुस्तकपाठः ।
2 हुतं यत्र वषट्कृतमिति ङ, चिह्नितपुस्तकपाठः ।
3 सर्वतत्त्वेषु सुव्रत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ।
4 दद्यादङ्गावतारकमिति ख, चिह्नितपुस्तकपाठः ।
Image-P.239


ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा ।
ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा ।
ओं हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा ।
नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः । 16ab
त्वङ्गतिः सर्व्वभूतानां संस्थितिस्त्वञ्चराचरे ॥ 16cd
अन्तश्चारेण भूतानां 1 द्रष्टा त्वं परमेश्वर । 17ab
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्म्मम ॥ 17cd
मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतं । 18ab
जपहोमार्च्चनैर्हीनं कृतं नित्यं मया तव ॥ 18cd
अकृतं वाक्यहीनं च तत् पूरय महेश्वर 2 19ab
सुपूतस्त्वं परेशान 3 पवित्रं पापनाशनं ॥ 19cd
त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमं । 20ab
खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥ 20cd
एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितं । 21ab
जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च ॥ 21cd
नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः । 22ab
चतुर्म्मासं त्रिमासं वा त्र्यहमेकाहमेव च ॥ 22cd
प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती । 23ab
पावकस्थे शिवे ऽप्येवं पवित्राणां चतुष्टयं ॥ 23cd
समारोप्य समभ्यर्च्च्य पुष्पधूपाक्षतादिभिः । 24ab
अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् ॥ 24cd
प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् । 25ab


1 अन्तश्चर त्वं भूतानामिति ग, चिह्नितपुस्तकपाठः ।
2 परिपूर्णं करो तु मे इति ग, चिहितपुस्तकपाठः ।
3 अमृतस्त्वं परेशान इति ग, चिह्नितपुस्तकपाठः ।
Image-P.240


प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं ॥ 25cd
शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं । 26ab
होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरया ऽनलं ॥ 26cd
अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं । 27ab
दिक्पतिभ्यस्ततो दद्यात् 1 सपवित्रं वहिर्बलिं ॥ 27cd
सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं । 28ab
ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा । ओं हां स्वः स्वाहा । ओं हां भूर्भुवः स्वः स्वाहा ।
होमं व्याहृतिभिः कृत्वा दत्वा ऽऽहुतिचतुष्टयं ॥ 28cd
ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते स्वाहा ।
गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः । 29ab
समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं ॥ 29cd
यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः । 30ab
इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं ॥ 30cd
द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् । 31ab
दानेनानेन देवेश प्रीयतां मे सदा शिवः ॥ 31cd
भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् । 32ab
पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्ज्जयेत् ॥ 32cd
नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा । 33ab
पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् ॥ 33cd
प्रायश्चित्तं ततो ऽस्त्रेण हुत्वा 2 पूर्णाहुतिं यजेत् । 34ab


1 दिक्पालेभ्यस्ततो दत्वेति ख, चिह्नितपुस्तकपाठः ।
2 ततो ऽस्त्रेण कृत्वेति घ, चिह्नितपुस्तकपाठः ।
Image-P.241


भुक्तिकामः शिवायाथ कुर्य्यात् कर्म्मसमर्पणं ॥ 34cd
त्वत्प्रसादेन कर्म्मेदं ममास्तु फलसाधकं । 35ab
मुक्तिकामस्तु कर्म्मेदं मा ऽस्तु मे नाथ बन्धकं ॥ 35cd
वह्निस्थं नाडीयोगेन शिवं संयोजयेछिवे । 36ab
हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् ॥ 36cd
समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् । 37ab
शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् ॥ 37cd
विसृज्य लोकपालादीनादायेशात् पवित्रकं । 38ab
सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं ॥ 38cd
तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् । 39ab
अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् ॥ 39cd
यत् किञ्चिद्वार्षिकं कर्म्म कृतं न्यूनाधिकं मया । 40ab
तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया ॥ 40cd
इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् । 41ab
त्यक्तनिर्म्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् । 41cd
पञ्चयोजनसंस्थो ऽपि पवित्रं गुरुसन्निधौ ॥ 41॥ 41ef


इत्यादिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमो ऽध्यायः ॥

Chapter 80

अथ अशीतितमो ऽध्यायः ।

दमनकारोहणविधिः ।
ईश्वर उवाच ।
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् । 1ab
हरकोपात् पुरा जातो भैरवो दमिताः सुराः ॥ 1cd
Image-P.242


तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा । 2ab
प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः ॥ 2cd
परिपूर्णफलं तेषां नान्यथा ते भविष्यति । 3ab
सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः ॥ 3cd
सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् । 4ab
हरप्रसादसम्भूत त्वमत्र सन्निधीभव ॥ 4cd
शिवकार्य्यं समुद्दिश्य नेतव्यो ऽसि शिवाज्ञया । 5ab
गृहे ऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनं ॥ 5cd
यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान् । 6ab
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥ 6cd
वामेन शिरसा वा ऽथ नालं धात्रीं तथोत्तरे । 7ab
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥ 7cd
पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं । 8ab
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥ 8cd
आमन्त्रितो ऽसि देवेश प्रातःकाले 1 मया प्रभो । 9ab
कर्त्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया ॥ 9cd
मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं । 10ab
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत् 2 10cd
नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः । 11ab
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥ 11cd
मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः । 12ab
ओं हौं मखेश्वराय मखं पूरय शूलपाणये नमः ॥ 12cd


1 देवेश पूजाकाले इति ग, चिह्नितपुस्तकपाठः ।
2 गन्धपुष्पादिनार्च्चयेदिति ख, चिह्नितपुस्तकपाठः ।
Image-P.243


शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥ 12॥ 12ef
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं । 13ab
सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम । 13cd
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥ 13॥ 13ef


इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमो ऽध्यायः ॥

Chapter 81

अथैकाशीतितमो ऽध्यायः ।

समयदीक्षाविधानं ।
ईश्वर उवाच ।
वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं । 1ab
मलमायादिपाशानां विश्लेषः क्रियते यया ॥ 1cd
ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा । 2ab
विज्ञातकलनामैको द्वितीयः प्रलयाकलः 1 2cd
तृतीयः सकलः शास्त्रे ऽनुग्राह्यस्त्रिविधो मतः । 3ab
तत्राद्यो मलमात्रेण मुक्तो ऽन्यो मलकर्मभिः ॥ 3cd
कलादिभूमिपर्य्यन्तं स्तवैस्तु सकलो यतः । 4ab
निराधारा ऽथ साधारा दीक्षा ऽपि द्विविधा मता ॥ 4cd
निराधारा द्वयोस्तेषां साधारा सकलस्य तु । 5ab
आधारनिरपेक्षेण क्रियते शम्भुचर्य्यया ॥ 5cd
तीव्रशक्तिनिपातेन निराधारेति सा स्मृता । 6ab
आचार्य्यमूर्त्तिमास्थाय मायातीव्रादिभेदया ॥ 6cd
शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते । 7ab


1 प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः ।
Image-P.244


इयं चतुर्विधा प्रोक्ता सवीजा